जरासन्ध-रुद्धानां राज्ञां कारा-गृहान् मोचनम् ।
॥ १०.७३.१ ॥
श्री-शुक उवाच—
अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः ।
ते निर्गता गिरि-द्रोण्यां मलिना मल-वाससः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततस् त्रि-सप्ततितमे मोचयित्वा नृपान् हरिः ।
राजार्ह-भोगैः स्वान् देशान् प्रास्थाप्य पुनर् आगमत् ॥*॥
अत्युन्नद्ध-जरासन्ध- वधात् तद्-रुद्ध-भू-पतीन् ।
विमोक्ष्य कृपया कृष्णो निज-रूपम् अदर्शयत् ॥**॥
ये निर्जिता जरासन्धेन निरुद्धाश् च गिरि-द्रोण्यां, ते ततो निर्गताः सन्तो घन-श्यामं ददृशुर् इत्य् उत्तरेणान्वयः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो जरासन्ध-वधोत्तरम् ॥*॥ अत्युन्नद्धो\ऽत्युच्छृङ्खलः । तद्-बद्धान् जरासन्ध-बद्धान् नृपान् । हे अयुत वासुदेव-भक्त ईः करुणो द्वापुरि इत्य् अनेकार्थ-मालोक्तेः । द्वाया भूम्या ईशो द्वेश ईश् चासौ द्वेश ई द्वेशस् तत्-सम्बुद्धौ हे ई-द्वेश ! यद् वा, अयुत-पदेन पुनः कर्मधारयेण अयुते द्वेशेत्य् एकैव सम्बुद्धि । तथा च—हे कृष्ण-भक्तयालो धरित्रीश तानि षट् । टाद्या नव इति केरलोक्तेस् त-शब्दः षट्-सङ्ख्या-परः । अष्टौ च अङ्कानां वामता गतिः इति रीत्या षडशीति-सङ्ख्या सम्पद्यते । राज्ञां षड् अशीतिर् जातिः शेषाश् चैव चतुर्दश इति भारत-विरोधो\ऽपहृतः । ततो गिरि-द्रोण्याः । ते राजानः ॥१-४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अष्टौ शतानि च, लीलया अनायासेनैव, निःशेषेण । यद् वा, स्व-गृहानयनेन जिता इति लज्जादिना महा-दैन्यं सूचितम् । तद् एव दर्शयति—मलिन इत्य्-आदि-पद-त्रयेण । मलिना मल-युक्ताः, स्नानाद्य्-अभावात् । किं च, मल-युक्त-वाससः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अयुते इति सार्धकम् । मलिना इति इन-प्रत्ययान्तम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्रिसप्ततितमे भूपैर् मोचैतैर् वीक्षितः स्तुतः ।
भक्ति-प्रदो हरिः सन्तोष्यैतान् पार्थ-पुरीम् अगात् ॥
ये निर्जिता जरासन्धेन निरुद्धाश् च ते गिरि-द्रोण्याः सकाशान् निर्गताः ॥१॥
॥ १०.७३.२-३ ॥
क्षुत्-क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः ।
ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् ॥**
श्रीवत्साङ्कं चतुर्-बाहुं पद्म-गर्भारुणेक्षणम् ।
चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षुधा क्षामा कृशाः । संरोधेन परिकर्शिताः क्लेशिताः ॥२-४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शुष्काणि स्वच्छन्द-भोजन-पानाभावेन चिन्तया च वदनानि येषां ते। तत्र हेतुः—संरोध- इति । ते महा-दुःखिता, चिरं तं दिदृक्षवो वा । यद् वा, ये निर्जिता निर्जित्य रुद्धा आसन्, ते निर्गता इति वाक्य-भेदात् इत्य् अस्यापौनरुक्त्यम् । घन-श्यामम् इति वर्णम् उक्त्वा तेन शोभितं, तत्-प्रसङ्गाद् वस्त्रं चोक्त्वा असाधारणानि लक्षणान्य् आह—श्रीवत्स- इत्य्-आदिना । पद्मस्य गर्भो\ऽन्तर्-दलम्, तद्वद् अन्ते\ऽरुणे ईक्षणे यस्य तम्, चारु सुन्दरं प्रसन्नं च सदा स्मेरत्वेन वदनं यस्य तम्, वदनस्य चारुतया सुकोमलत्वादिना वयः-सन्धिः सूचित एव, अधुना भूषणादीनि च वर्णयन् श्री-मुख-शोभा-हेतुत्वेन तत्-प्रसङ्गाद् आदौ कुण्डलम् आह—स्फुरन्ती रत्नादिना श्री-गण्डाभ्यां च राजन्ती मकराकृति-स्वर्ण-कुण्डले यस्य तम् ॥२-३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ददृशुर् इति त्रिकम् । घन-श्यामम् इति वर्णम् उक्त्वा तेन शोभितं तत्-प्रसङ्गाद् वस्त्रं चोक्त्वा विलक्षणानि लक्षणान्य् आह—श्रीवत्स- इत्य्-आदिना । पद्मस्य गर्भः अन्तर्-दलं तत्-तुल्ये अन्ते\ऽरुणे ईक्षणे यस्य, तं चारु अवयव-वर्णाभ्यां वयः-सन्धि-शोभया च सुन्दरं सदा स्मरत्वेन प्रसन्नं च वदनं यस्य, तम् । अधुना भूषणादीनि च वर्णयन्न् उत्तमाङ्गस्य मुख्य-शोभा-हेतुत्वेन तत्-प्रसङ्गाद् आदौ कुण्डलं वर्णयति—स्फुरन्ती स्वर्ण-रत्नादिना श्री-गण्डाभ्यां च राजन्ती मकराकृतिनी कुण्डले यस्य तम् ॥२-३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्राजन् भ्राजमानो वर-मणिः कौस्तुभो यया, सा ग्रीवा यस्य तं निवीतं युक्तम् ॥२-६॥
॥ १०.७३.३ ॥
न कतमेनापि व्याख्यातम्।
॥ १०.७३.४ ॥
पद्म-हस्तं गदा-शङ्ख- रथाङ्गैर् उपलक्षितम् ।
किरीट-हार-कटक- कटि-सूत्राङ्गदाञ्चितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पद्म-युक्त-दक्षिणोर्ध्व-हस्तम्, उपलक्षितं विशिषष्टटं शोभितं वा, गदादीनां दक्षिणाधः कराद् वामोर्ध्वन्तं क्रमेण धारणात्तथैवोक्तिः । किरीटादिभिरञ्चितं सेवितम्, करकंकणं प्रकोष्ठे अङ्गदं च बाहौ। परिधेयब्रह्मलिङ्गधरत्वे\ऽपि तस्य तैस् तथा दर्शनं श्रीनारदादिकथिततादृशरूपेण भक्त्या तच्चिन्तनात्तथैव परिस्फूर्तेर् इति ज्ञेयम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपलक्षितम् उपलक्षण-रूपैस् तैः परिचितं दक्षिणाधः-करम् आरभ्य दक्षिणावर्तेनाधोक्षजस्य लक्षणम् इदं पद्मं कौमोदकीं शङ्खं चक्रं धत्ते\ऽप्य् अधोक्षज इति सिद्धार्थ-संहितातः श्री-कृष्णत्वे च ब्रह्म-लिङ्ग-धरत्वे च तस्य तैस् तथा दर्शनं भक्त्य्-अनुरूपाविर्भाव-रूपत्वात् किरीटादीनाम् अक्रमो नाना-दृष्टीनाम् अक्रमात् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.५-७ ॥
भ्राजद्-वर-मणि-ग्रीवं निवीतं वन-मालया ।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥**
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।
प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्राजन् भ्राजमानो वर-मणिः कौस्तुभो यया, सा ग्रीवा यस्य तम् । निवीतं कण्ठ-लम्बितया व्याप्तम् । पिबन्त इवेत्य्-आदीनां हरेः पादयोः प्रणेमुर् इत्य् उत्तरेणान्वयः ॥५॥ रम्भन्तः परिरम्भमाणा इव ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पिबन्त इत्य्-आदिभिः सर्वेन्द्रियैर् भगवत्-सेवोक्ता ॥५-७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मय्यावेश्येत्यादि—मयि श्रीवासुदेवे मन आवेश्य यदि भक्ति वासनाः स्थ, तदा मां यास्यथ, भक्तरूपेणैव स्थास्यथ, यदि वा कैवल्य-वासना एव स्थ, तदा मद्वैभवं ब्रह्म यास्यथेत्य् अर्थः ।
इति त्रिसप्ततिः । एवं चतुः-पञ्च-षट्-सप्ततयः ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चिरं क्षुत्-तृड्-आद्य्-आर्तानां दैवाद् अमृतादि-प्राप्त्येव महा-दुःखितानां तेषां सहसा श्री-भगवत्-सन्दर्शनेनातृप्त्या तस्मिन् परमासक्तिम् आह—पिबन्त इति । एवं चतुर्-ज्ञानेन्द्रियाणाम् अर्भभिर् निवेश उक्तः, तत्र चालिङ्गनेन त्वग्-इन्द्रियस्यायात एव, श्रवणस्यानुक्तिः प्रत्यक्षत्वात्, तस्याप्य् अग्रे साक्षाच् छ्री-मुख-वचनामृतेन सेत्स्यत्य् एव । बाहुभिर् इति विशेषतो\ऽत्र बहुत्वं गाढालिङ्गनाभिप्रायेण । इव-शब्देनात्यन्ताभिनिवेशेन साक्षाद् इव पानादिभिस् तत्-तद्-अभिनयो बोध्यते । तत्र यथोत्तरं तेषाम् आधिक्यम् ऊह्यम् । तेषां तादृशाभावादौ हेतुः—हताः प्राग् एव दूत-प्रेषणादिना प्रपत्त्या नाशिताः पाप्मानः, तच्-छ्रवणादि-कृतां कारकाणां वा सर्वेषां दुष्प्रारब्धा यैस् ते । पादयोर् न्यस्तैर् मूर्धभिर् इति तेषां प्रीत्य्-अर्थं कृपया प्रत्येकं स्व-शक्ति-विशेषेण साक्षाद् अवस्थितिं द्योतयति—हरेर् इति । तेषां पाप्मनः किं वा, तादृश-दर्शनेन मनसो हरणाभिप्रायेण ॥५-६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चिरं क्षुट्-तृष्णादि-पीडितानां दैवाद् अमृतादि-प्राप्त्येव महा-दुःखितानां तेषां सहसा श्री-भगवत्-सन्दर्शनेनातृप्तया तस्मिन् परमासक्तिम् आह—पिबन्त इति सार्धकेन । इव-शब्दः सर्वत्रोत्प्रेक्षायाम् । सा च परमासक्तिं द्योतयति, तस्याः प्रवृत्तिस् तु चक्षुषोर् विस्तार-प्राप्त्या, जिह्वायाः श्लाघा-वचनया, [चासनादिना]{।मर्क्} तत्-सौरभ्य-मत्तयोर् नासयोः फुल्लत्वादिना, बाह्वोर् मिथस् तद्-दर्शनायैव मुहुश् चालनादिना ज्ञेया । अत्र बाह्वोश् चालना-वशेन वहताम् इव गतयोर् बहुत्वोक्तिः ज्ञानेन्द्रिय-गणे चैतयोर् उक्तिस् त्वग्-इन्द्रिय-धर्म-स्पर्श-सुखस्य तत्रैव प्रधानत्वेन श्रवणयोर् अनुक्तिस् तावत् तद्-वचनाद्य-श्रवणात् स्वतो नावेशेन तच् चतष्टयावेशाच् छून्यत्वेन च तेषां तादृशत्वे हेतुः हतः प्राग् एव दूत-प्रेषणादिना प्रपत्त्या नाशितः पाप्मा सर्वो\ऽपि तदनासक्तिहेतुदोषो यैस्ते यद् वा, हतस् तच्छ्रवणाद् एव पाप्मा यैस्ते ॥५-६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पिबन्त इत्य्-आदि ॥५-३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रम्भन्तः परिरम्भमाणाः ॥६-७॥
॥ १०.७३.७ ॥
कृष्ण-सन्दर्शनाह्लाद- ध्वस्त-संरोधन-क्लमाः ।
प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-दर्शनाह्लादेन ध्वस्तः संरोधन-क्लमो येषां ते ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् अत्यन्त-क्लेशेन क्षुभितानां तादृश्य् आसक्तिर् न सम्भवेत् तत्राह—कृष्णस्य परमानन्द-घन-मूर्तेर् भगवतः सन्दर्शनेन साक्षात् तादृश-दर्शनेन य आह्लादस् तेन ध्वस्त-संरोधन-क्लमाः, गीर्भिः सर्व-गुण-युक्ताभिः प्रशशंसुस् तुष्टुवुः । हृषीकेशम् इति पूर्वोक्त-प्रकारेण सर्वेन्द्रियाप्याययनस्य । किं वा, तेनैव कृपया तादृश-स्तुतौ प्रवर्तनस्याभिप्रायेण । नृपा इति तादृश-स्तुत्या सर्वे नरा रक्षिता इति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृषीकेशम् इति । पूर्व-रीत्या सर्वेन्द्रियाप्यायनस्य । किं वा, तेनैव कृपया तादृश-स्तुतौ प्रवर्तनस्याभिप्रायेण गीर्भिर् इत्य् अधिक-पदोपादानं तत्-प्राशस्त्य-विवक्षया नृपा इति तादृश-स्तुत्या सर्वे नरा रक्षिता इति भावः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.८ ॥
राजान ऊचुः—
नमस् ते देव-देवेश प्रपन्नार्ति-हराव्यय ।
प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : संरोधाद् रक्षितान् अस्मान् घोरायाः संसृतेर् अपि पाहि मोचय ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा शुनो रक्षितः सिंहादपि रक्ष्यत इत्य् आशयेनाहुः—संरोधाद् इति ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : घोरायाः सदात्यन्तदुःखावलीप्रदानेन भयानकायाः संसृतेः पाहि। कुतः? प्रपन्नान् शरणागतान् । तद् अपि कुतः? निर्विषण्णान् विविध-संसार-दुःख-भोगेनार्तान् विषय-भोगेभ्यो विरक्तान् इति वा । ननु तर्हि तद्-अर्थम् अन्यं देवं प्रार्थयध्वम् इति चेत्, तत्राहुः—देव-देवेश! हे श्री-ब्रह्मम् आदि-प्रभो! इति परमेश्वरत्वेन त्वम् एव तत्र योग्यो न त्व् अन्य इति भावः । विशेषतश् च दीन-वात्सल्याद् इत्य् आहुः—प्रपन्नानां दुःखेन शरणागतानां सतामार्तिहरेति। किं च, हे अव्ययेति सर्व-शक्तिपरिपूर्णत्वादिति। किं च, हे कृष्णेति तत्रापि निजाशेषभगवत्ताप्रकटनाद् इति भावः । यद् वा, प्रपत्तौ हेतवः—देवेत्य्-आदयः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : घोरायाः त्वद्-वैमुख्यकर्तृत्वेन भयानकायाः संसृतेः पाहि कुतः प्रपन्नान् शरणागतान् नन्व् अत्रास्ति विषय-भोगे सुखं मदर्पणेन कथञ्चिद्-भक्तिहेतुत्वं च तत्राहुः—निर्विण्णान् भूयो दुःखानुभावाद् विषय-सम्बन्धाद् विरक्तान् ननु तद्-अर्थम् अन्यद् एवं प्रार्थयध्वं, तत्राहुः—देव-देवेश हे ब्रह्मादि-प्रभो! इति परमेश्वरत्वेन त्वम् एव तत्र योग्यो न त्व् अन्य इति भावः । नन्व् ईदृशश् चेद् अहं, तर्हि भवद्-विधेषु कथं मद्-अवधानं स्यात् ? तत्राहुः—प्रपन्नेति नन्वेवं चेत् प्रपन्नास् त्व् अनन्ता एव भवेयुः ? तत्राहुः—हे अव्यय अक्षय-शक्त्यादिक ! तत्रापि, हे कृष्ण ! अहो बकीयम् इत्य्-आदि प्रसिद्ध-तादृश-महा-कीर्ते इत्य् अर्थः । भवन्त्व् अनन्ताः का हानिः, प्रत्युत तव कीर्तिर् योग्या एव त इति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवदेवेशेति पारमैश्वर्यम् । प्रपन्नेति भक्त-वात्सल्यम् अव्ययेति कूटस्थत्वं चोक्तम् ॥८॥
॥ १०.७३.९ ॥
नैनं नाथान्वसूयामो मागधं मधुसूदन ।
अनुग्रहो यद् भवतो राज्ञां राज्य-च्युतिर् विभो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भवन्तो जरासन्धासूयाविष्टा इहामुत्र भोगासक्ताश् च कथं संसृतेर् मोचनीया इत्य् आशङ्क्य संप्रति न वयं तथा-भूता इत्य् आहुः—नैनम् इत्य् अष्टभिः । हे नाथ ! वयम् एनं नान्वसूयामः । अन्व् अनु दोष-दृष्ट्या न पश्यामः । कुत इत्य् अत आहुः—अनुग्रह इति । यद् यस्मात् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हरिर् आशङ्कते—नन्व् इति । तथा-भूता असूयावेश-लोक-द्वय-भोगासक्ताः । एनं जरासन्धम् । हेतुम् आशङ्क्य समादधते—कुत इत्य्-आदिना ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे नाथेति अधुना त्वया सनाथाः सन्त इति भावः । राज्याच्च्युतिरेवानुग्रहः । हे मधुसूदनेति आदि-महा-दैत्यो मधुर् अपि त्वया हतः, अयं को नाम वराको\ऽस्य वधेन को वा तव महिमा ? महिमा तु दीनानुग्रह एवेति भावः । श्लेषेण मधुवत् तुच्छ-विषय-सुखं सूदयतीति तथा-भूतेति राज्याच् च्यावनं युक्तम् एवेति, तच् च त्वत्-प्रभावाद् एव, न त्व् अन्यथा कथञ्चिद् इत्य् आशयेनाहुः—विभो! हे सर्वं कर्तुं समर्थेति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नैनम् इति तैर् अवतारितम् । तच् च सपरिहासं ज्ञेयम् । मागधम् इत्य् अवज्ञोक्तिः । एनम् इति प्रत्यक्षं दर्शयन्ति । अन्वादेशप्रयोगात् । तद्वेष्टृत्वेनासूयाविषयतया मुहुर्निर्दिष्टम् अपि नानुसूयामः । असूयेत्यकाराभाव आर्षः । निज-राज्यव्यापकत्वेन तु दोष-दृष्ट्या न पश्यामः । ततः सुतराम् अन्यं तु नैवेत्य् अर्थः । हे नाथेति अधुना त्वया सनाथा अपि जाता वयम् इति भावः । हे मधुसूदन! इति आदि दैत्यो\ऽप्य् असौ त्वया हतः अयं को वराकः । अस्य वधे को वा तव महिमा । महिमा तु दीनानुग्रह एवेति भावः । हे विभो! सर्वं कर्तुं समर्थेति तत्रोपोद्वलकम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नानुसूयामः एनम् अनु लक्षीकृत्य न दोषान् आरोपयामः । अ-कार-लोप एना-देशश् चार्षः । यत् यतो मागधाद् एव राज्ञाम् अस्माकं राज्य-च्युतिः यतश् च राज्यच्युतेर्भवतो\ऽनुग्रह इति ॥९॥
॥ १०.७३.१० ॥
राज्यैश्वर्य-मदोन्नद्धो न श्रेयो विन्दते नृपः ।
त्वन्-माया-मोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव व्यतिरेकेणोपपादयन्ति, राज्यैश्वर्येति । राज्यैश्वर्याभ्यां मदस् तेनोन्नद्ध उच्छृङ्खलो नित्या अचलाश् च संपदो मन्यते । यद् वा, अनित्याः सतीर् अचलाः शाश्वतीर् मन्यते ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतदेवानुग्रहणम् एव । व्यतिरेकेण पूर्वोक्तार्थवैपरीत्येन। नित्याचलयोरर्थाभेदं मत्वार्थान्तरम् आह—यद्वेति ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृपो न विन्दत एव, अन्यस्तु कश्चिल्लभेतापीत्य् अर्थः । यद् वा, नृपो नरश्रेष्ठो\ऽपि न विन्दते, तत्र हेतुः—राज्येति। यतः सम्पदो धादिरम्पत्तीरचलाः स्थिरा मन्यते । ननु प्रत्यक्षाः प्रमाणैरनित्याश्चापि कुतः स्थिरा मन्यन्ते? तत्राहुः—त्वद् इति । अयम् एव त्वन्मायाप्रभाव इत भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रेयः तद्-भक्त्यादि-रूपं फलं नृपो न विन्दत एव अन्यस्तु कथञ्चिल्लभेतापीत्य् अर्थः । यद् वा, नृपो नरश्रेष्ठो\ऽपि न विन्दते तत्र हेतुः राज्येति यतः धनादिसम्पत्तीरचला मन्यते ननु प्रत्यक्षादिप्रमाणैरनित्याश्चापि कुतः स्थिरा मन्यते तत्राहुस्त्वद् इति अयम् एव त्वमायाप्रभावः इति भावः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्याच्च्युतेरनुग्रहहेतुत्वमुपपादयन्ति-राज्यैश्वर्येति त्रिभिः । उन्नद्धः उच्छृङ्खलः अनित्या अपि सम्पदः अचलाः शाश्वतीर्मन्यते ॥१०॥
॥ १०.७३.११ ॥
मृग-तृष्णां यथा बाला मन्यन्त उदकाशयम् ।
एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अवस् तु सद्-वस्तुतया पश्यन्तीत्य् आहुः, मृग-तृष्णाम् इति । वैकारिकीं सृष्ट्य्-आदि-विकारापन्नाम् । अयुक्ता अविवेकिनः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं ज्ञातारो मूर्खा एवेत्य् आह—किं चेति । सत् भवत् । मृगतृष्णामम्बरप्रदेशसंसृष्टदिवाकरकरनिकरम् । उदकाशयं जलपूरम् । मायां महिमानं सम्पल्लक्षणम् । वस्तु प्रतिहतिरहितं नित्यम् । चक्षते पश्यन्ति । गोअश्वेत्यादिमहिमेत्याचक्षते इति श्रुतेः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बाला निर्बुद्धयो हरिणादयः, वैकारिकी विकाराः शन्दादि-विषयास् तद्-रूपेण परिणताम् इत्य् अर्थः, वस्तु-सत्य-रूपाम् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाला निर्बुद्धयो हरिणादयः वैकारिकीं विकाराः शब्दादिविषयाः तत्-तद्-रूपेण परिणताम् इत्य् अर्थः । वस्तुतः सत्यरूपायाः अर्थक्रियाकारित्वादिना मृगतृष्णातो वैलक्षण्ये\ऽपि असारांशत्वे दृष्टान्तो\ऽयम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, राज्यादिसम्पदः खलु सम्पद एव न भवन्तीत्याहुः—मृगतृष्णाम् इति । विकाराः शब्दादयो विषयास्तेभ्य उद्भूतां भोगसम्पत्तिं मायां मायिकीम् अयुक्ता अविवेकिनः वस्तु चक्षते यथा मृगतृष्णायां तेज एव उदकं पश्यन्ति तथैव भोगसम्पत्तौ दुःखम् एव सुखं पश्यन्तीत्य् अर्थः ॥११॥
॥ १०.७३.१२ ॥
वयं पुरा श्री-मद-नष्ट-दृष्टयो
जिगीषयास्या इतरेतर-स्पृधः ।
घ्नन्तः प्रजाः स्वा अति-निर्घृणाः प्रभो
मृत्युं पुरस् त्वाविगणय्य दुर्मदाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्यस्य योग-वियोगयोर् अनर्थार्थावहत्वम् अस्मास्व् एव दृष्टम् इत्य् आहुः—वयम् इति द्वाभ्याम् । श्री-मदेन नष्टा दृष्टिर् येषां ते । अस्याः पृथिव्याः । इतरेतर-स्पृधः परस्परं स्पर्धमानाः । पुरः पुरतः । त्वा मृत्युम् अविगणय्य । पुरा ये दुर्मदा वयम् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वदृष्ट्यन्तेनोक्तमर्थमाहुः—राज्यस्य योगेत्य्-आदिना । अतिनिघृणा अतिनिर्दयाः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वाः स्वीयत्न पुत्रवत् परिपाल्या अपि प्रजा घ्नन्तो धनसञ्चयार्थं युद्धार्थं वा अधिककरग्रहणादिना निपीडयन्तः, यतो\ऽतिनिर्घृणा महानिर्दयाः, पुरः, अवश्यम्भावित्वात्, पित्रादिदृष्टान्तेन साक्षादनुभूयमानत्वाच्च, पुरतो वर्तमानम् अपि मृत्यु कालरूपेण संहारकं त्वाम् । अत एव महाप्रभावम् इत्य् आह—हे प्रभो इति । अतस् त्वत्तो रक्षणे कस्यापि शक्तिर्नास्तीति भावः । तथाप्यविगणय अनादृत्य, अन्यत् तैर् व्याख्यातम् । तत्र चानार्थार्थावहत्वम् इति लेख्ये अर्थपातो लेखकभ्रमाज्ज्ञेयः, वियोगेऽर्थावहत्वस्य निरन्तरपद्ये वक्ष्यमाणत्वाद् इति ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राज्यच्युतेरनुग्रहहेतुत्वेन वयम् इति युग्मकम् स्वाः ज्ञातिवत् परिपाल्या अपि प्रजाः परस्परसन्मर्देन घ्नन्तः यतो अतिनिर्घृणा महानिर्दयाः पुर इत्यवश्यं भावित्वात् पित्रादिमरणदृष्ट्यानुभूयमानत्वाच् च पुरतो वर्तमानम् अपि मृत्यु कालरूपेण संहारकं त्वां प्रभोस्तव रूपत्वादेवासौ महाप्रभाव इति व्यञ्जयितुम् आह—हे प्रभो इति । अतस् त्वत्तो रक्षणे कस्यापि शक्तिर्नास्तीति भावः । तथाप्यविगणय अनादृत्य अन्यत् तैः तत्र योगवियोगयोरनार्थार्थावहत्वम् इति योगेनार्थावहत्वं वियोगे\ऽर्थावहत्वम् इत्य् एतत् द्वयं क्रमेण द्वाभ्यामाहेत्य् अर्थः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रोदाहरणान्यस्मदादय एवेत्य् आहुर्वयम् इति । अस्याः पृथिव्याः इतरेतरस्पृधः परस्परं स्पर्द्धमानाः मृत्युं त्वां पुरः अग्रवर्तिनम् अविगणय पुरा ये वयं दुर्मदा आस्म त एव वयं अद्य इदानीं भवतस् तन्वा तनुरूपेण कालेन श्रियो विचालिता भ्रंशिताः सन्तः भवतो\ऽनुकम्पया प्राप्तया चरणौ स्मराम प्रार्थनायां लोट् स्मर्तुं कामयामहे । अतो राज्यच्युतिर्भवदनुग्रहहेतुरित्यनुभवामः ॥१२-१३॥
॥ १०.७३.१३ ॥
त एव कृष्णाद्य गभीर-रंहसा
दुरन्त-वीर्येण विचालिताः श्रियः ।
कालेन तन्वा भवतोऽनुकम्पया
विनष्ट-दर्पाश् चरणौ स्मराम ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे कृष्ण ! त एव वयम् अद्य विनष्ट-दर्पास् ते चरणौ स्मरामः स्मर्तुम् आशास्महे । कथं-भूताः ? भवतस् तन्वा मूर्त्या कालेन श्रियो विचालिताः विभ्रंशिताः । अतो राज्य-च्युतिर् भवद्-अनुग्रह एवेत्य् अर्थः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मराम इत्य् आशिषि लोट् । यतो राज्यम् अनर्थ-हेतुर् अतो हेतोः । इत्य् अर्थ इति—मा राज्य-श्रीर् अभूत् पुंसः श्रेयस्कामस्य मानद [भा।पु।१०.८४.६४] इत्य्-आदि-वक्ष्यमाणत्वाद् इति भावः ॥१३॥
हेमाद्रि (कैवल्य-दीपिका-टीका) : एवं बीभत्स-रूपेण भक्ति-रसम् अनुभवतो भगवत्-स्मृतिर् अन्या स्मृतिश् च स्याद् इति क्रमाद् द्वाभ्याम् आह—त एव इति । हे श्री-कृष्ण ! ये प्राग् ऐश्वर्य-मदान्धा अभूम, त एव वयम् अद्य ते चरणौ स्मराम, यतो विनष्ट-दर्पाः । तद् एव कुतह् ? यतस् तव तन्वा कालेन श्रियः सकाशाद् विचालिताः ॥१३॥ [मु।फ। १६.२०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण गिरि-द्रोण्यां संरोधनादिना चालिताः, तद्-अतिक्रमे तु कस्यापि शक्तिर् नास्तीत्य् आहुः—गभीरं गुरुतरम् अनन्तं च रंहो वेगो यस्य तेन, अतो दुरन्तम् अपरिच्छिन्नं वीर्यं शक्तिर् यस्य तेन, यतो भवतस् तन्वा, भवत इत्य् अस्योभयतो\ऽन्वयः । अतस् तेन कृतं यत् तद् भवतैवेति भवत एवानुकम्पया कृत्वा विनष्ट-दर्पाः सन्तः । यद् वा, एवं भवतो\ऽनुकम्पया हेतुना स्मराम । किम्-अर्थम्? तद् आहुः—कृष्ण! हे परमानन्द-घन-मूर्ते! त्वच्-चरण-स्मरणस्यैव परमानन्द-मयत्वात् तद् एव हि प्रयोजनम् इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-अतिक्रमे तु कस्यापि शक्तिर् नास्तीत्य् आहुः—गम्भीरं दुर्बोधं रंहः वेगो यस्य, तेन सूक्ष्मत्वाद् दुर्बोध-निर्गम-प्रवेशेन इत्य् अर्थः । तथा दुरन्तम् अप्रतिकार्यं वीर्यं शक्तिर् यस्य, तेन । यतो भगवतस् तन्वा शक्त्या भगवत इत्य् अस्योभयतो\ऽन्वयः । अतस् तेन कृतं यत् तद् भवतैवेति तया च विचारतो भवत एवानुकम्पा-रूपेण हेतुना विनष्ट-दर्पाः सस्तयैव स्मराम । किम्-अर्थं ? तत्राहुः—कृष्ण! हे आत्मारामादीनां सर्वेन्द्रियाकर्षकत्वेन तन् नामन्न् इति । इत्थम्भूत-गुणत्वम् एव महद्भिः सिद्धान्तितं वयं कथं तत्-प्रयोजनं कथयेमेति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.१४ ॥
अथो न राज्यं मृग-तृष्णि-रूपितं
देहेन शश्वत् पतता रुजां भुवा ।
उपासितव्यं स्पृहयामहे विभो
क्रिया-फलं प्रेत्य च कर्ण-रोचनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव अथो अनन्तरं मृग-तृष्णि-सदृशं राज्यं शश्वत् पतता प्रतिक्षणं क्षीयमाणेन तथा रुजां रोगाणां भुवा जन्म-क्षेत्रेण देहेन उपासितव्यं सेव्यं न स्पृहयामहे । प्रेत्य पर-लोके च क्रिया-फलं स्वर्गादि-भोगम् उपासितव्यं न स्पृहयामहे । कथं-भूतम् ? कर्णयो रोचनं रुचि-जनक-मात्रम् । तत्र गतस्य स्पर्धाद्य्-अनपगमेन सुखाभावाद् इत्य् अर्थः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव भवद्-अनुग्रहाद् एव । यत्र स्वर्गे । इत्य् अर्थ इति—एवं लोकं परं विद्वान् नश्वरं कर्म-निर्मितम् [भा।पु। ११.३.२०] इत्य्-आद्य्-उक्तेर् इति भावः ॥१४॥
हेमाद्रि (कैवल्य-दीपिका-टीका) : अथो इति । अथ [स्त्व]{।मर्क्} त्वच्-चरण-स्मरणानन्तरं मृगतृष्णा मरीचिकया निरूपितं व्याख्यातम् । तत् तुल्यम् इत्य् अर्थः । रुजां रोगाणां भुवा आश्रयेण अनेन भोज्य-भोगकयोर् अन्य-नित्यत्वम् उक्तम् । उपासितव्यं न स्पृहयामहे, सेव्य-बुद्ध्या न गृह्णीम इत्य् अर्थः । यच् च प्रेत्य पर-लोकं क्रियाया ज्योतिष्टोमादेः फलं, तद् अपि न स्पृहयामहे । यतस् तत् कर्ण-रोचनं केवलं श्रवण-मात्रेण प्रीति-जनकं, न तु भोग-क्षमम् । अविशुद्धिः क्षयादि-दोष-दुषितत्वाद् इति भावः ॥१४॥ [मु।फ। १६.२१]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथो अनन्तरम् अधुनेत्य् अर्थः । यद् वा, अतो हेतोर् न स्पृहयामहे । कुतः? तत्त्वतो मायिकत्वाद् इत्य् आहुः—मृगि- इति । मृग-तृष्णिर् मृगतृष्णा, मृगतृङ्-निरूपितम् इति वोपदेवः । मृग-तृट् मृगतृष्णा । किं च, तत्-तद्-व्[ऋष्ट्य्]{।मर्क्}-अभावे\ऽपि तद्-भोग-साधनस्यासामर्थ्याद् इत्य् आहुः—देहेन इति । ननु तर्हि जरा-मरणादि-दोष-रहितम् अक्षयं स्वर्गादिकम् इच्छथ, तत्राहुः—क्रिया- इति । विभो! हे स्वामिन्न् इति त्वत्-कृपयेदीनं त्वत्-प्रपन्नेभ्यो\ऽस्मभ्यम् अन्यत् किम् अपि न रोचत इति भावः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृगतृष्णिर् मृगतृष्णा मृगतृड् निरूपितम् इति वोपदेव-पाठे । मृगतृट् मृगतृष्णा । किं च, देहेन इति विभो ! हे स्वामिन्न् ! इति त्वयि स्वामिनि लब्धे तत् कथं रोचताम् इति भावः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथो अत एव मृगतृष्णि-रूपितं मृगतृष्णावद्भिर् एव जनैः रूपितं सुन्दरीकृतं राज्यं न स्पृहयामहे द्वितीयान्तत्वम् आर्षं । कीदृशं ? शश्वत् पतता क्षण-भङ्गुरेण रुजां भुवा रोग-मन्दिरेण देहेन उपासितव्यम् इति राज्यस्य दुःख-प्रदत्वम् एव दर्शितं तर्हि राज्योपगतैर् बहु-धनैर् अश्वमेधादयो यागाः कर्तव्याः ? तत्राहुः—क्रिया-फलं स्वर्गं च न स्पृहयामहे । कुतः ? कर्ण-रोचनं कर्णाभ्याम् एव रोचनं तत्र गतस्यापि स्पर्धाद्य्-अनपगमेन सुखाभावाद् इति भावः ॥१४॥
॥ १०.७३.१५ ॥
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् एवं-भूता यूयं तर्हि मम चरणौ स्मरत, ततोऽनायासेन मुक्तिर् भविष्यतीति किं मद्-अपेक्षयेति चेद् अत आहुः, तं न इति । त्वच्-चरण-स्मृतिर् अपि त्वत्-प्रसाद-फलम् एवेत्य् अर्थः ॥१६-१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम्भूता इहामुत्र भोगविरक्ताः । ततो मच्चरणस्मरणात् । मदपेक्षया मत्प्रसादेन । इत्य् अर्थ इति—न हि त्वत्प्रसादं विना त्वच्चरणानुरागः स्याद् इति भावः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि किमिच्छथेत्यपेक्षायामाहुः—तम् इति । सम्यक् अस्माकं हृदयग्राह्यत्वेन कर्तुं शक्यत्वादिना चादिश, यथेति तत्र च येन प्रकारेण तम् अप्य् आदिशेत्य् अर्थः । यद् वा, यथावन्निजेच्छानुरूपा स्मृतिर्न विरमेत्, किन्तु सदा सिध्येद् इत्य् अर्थः । इह विविधयोनौ संसरतां जायमानानाम् अपि, इति मोक्षास्पृहापि द्योतितैव, तत्र च स्मृतेरुपायस्यैव, न तु साक्षात् तस्याः, तत्राप्यादेशम् एव, न तु तत्सिद्धेः प्रार्थनं विनयभरात्तस्या अतिगौरवाद्वा, किं वा, उपायज्ञाने सति तत्स्थैर्यं सिद्ध्येदित्य् अभिप्रायेणेति ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु तर्हि किमिच्छथेत्यपेक्षायामुपक्रमे दैन्येन परोक्षवादेनैवोक्तम् अपि उपसंहारे परमोत्कण्ठया स्वहृदयमुद्धटयैव निवेदयन्ति—तम् इति । सम्यक् अस्माकं ग्राह्यत्वेन कर्तुं शक्यत्वेन चादिश यथेति तत्र येन प्रकारेण तम् अप्य् आदिशेत्य् अर्थः । यद् वा, यथावन्निजेच्छानुरूपा स्मृतिर्न विरमेत् किन्तु सदा सिद्ध्येद् इत्य् अर्थः । पूर्वं स्मृतिविघातकत्वेनैव घोरसंसृतितो रक्षणं प्रार्थितम् इदानीं यदि स्मृतिः स्यात्तदा सापि भवत्व् इत्य् आहुः—इह विविधयोनौ संसरतां जायमानानामपीति तत्र स्मृतेरुपायस्यैव न तु साक्षात्तस्य तत्राप्यादेशम् एव न तु तत्तत्सिद्धेः प्रार्थनम् इदं विनयभरात्तस्याः अतिगौरवाद्वा किं वा उपायज्ञाने सति तत्स्थैर्यं सिद्ध्येदित्य् अभिप्रायेणेति पूर्ववत्सर्वथा दैन्यम् एव ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि सायुज्यमुक्तिर्दीयते गृह्यतां तत्र न हि नहीत्याहुः—तम् इति । तम् उपायं सम्यक्तया ग्रहीतुं कर्तुं च शक्यत्वेन आदिश येन स्मृतिर्न विरमेत् इह विविधयोनौ संसरतामपीति न संसारभङ्गे कामना किन्त्वतिलोभ्यायां प्रेमभक्तावप्यतिदैन्योदयेनैव न कामना नापि तदङ्गभूतायां स्मृतावपि किन्तु तस्या उपाये एव तत्रापि देहीत्यप्रयुज्य समादिशत्यने नापि साक्षात्तत्रापीति भक्त्यधिकारोचितानां निष्कामत्वदैन्यविनयादीनां परमावधिर् एव दर्शितः ॥१५॥
॥ १०.७३.१६ ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत-क्लेश-नाशाय गोविन्दाय नमो नमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णायेत्यादिश्लोकरूपमन्त्रजपात्सर्वेप्सितावाप्तिः । कामबीजसम्पुटितेन च शीघ्रम् एवेष्टलाभः । बन्दीमोक्षो\ऽप्यस्य लक्षजपाद्भवति । ध्यानं चात्र गायन्ति मन्त्रवत् । ओंअस्य श्री-कृष्णायेत्यादिमन्त्रस्य श्री-कृष्णो देवता । व्यास ऋषिः । अनुष्टुप् छन्दः । कामो बीजम् । सर्वाभिलषितावाप्तये जपे विनियोगः ॥ ओंकृष्णायेत्यंगुष्ठाभ्यां नमः । वासुदेवाय तर्जनीभ्यां नमः । हरये मध्यमाभ्यां नमः । परमात्मने\ऽनामिकाभ्यां नमः । प्रणतक्लेशनाशाय कनिष्ठिकाभ्यां नमः । गोविन्दाय नमोनम इति करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः ॥ यद् वा, —ददृशुस्ते घनश्यामम् इत्य् आरभ्य निवीतं वनमालया इत्युक्तम् एवाध्यायारम्भोक्तम् एव ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति तत्रात्मनामयोग्यत्वादिना तस्याः परम-दौर्लभ्यं मन्वानास् तत्सिद्धये मधुरेण समापयेत् इति न्यायेन तत्प्रियनामसङ्कीर्तनेनोपसंहरन्तः साष्टाङ्गं प्रणमन्ति-कृष्णायेति । साक्षाद्भगवते, तत्र च वासुदेवाय निजाशेषैश्वर्यप्रकटनार्थं वसुदेवाज्जाताय, इति श्रीनारायणतो\ऽप्याधिक्यमुक्तम् । अत एव हरये अधिकाराद्यनपेक्षया संसारदुःखहर्त्रे किंवा, अपूर्वसौन्दर्यादिना सर्वमनोहराय। किं च, परमात्मने सर्वेषाम् अपि प्रियतमायेत्य् अर्थः । किं च, प्रणतानां क्लेशो भक्तिविघ्नादिदुःखं तस्य नाशो यस्मात् तस्मै, स्वभक्तिप्रवर्तकाय किं वा, भक्तवत्सलायेत्य् अर्थः । तद् एव दर्शयति-गोविन्दाय तत्तत्क्रीडाभिः स्वभक्तिप्रवर्तनेच्छया भक्तिवत्सलतया वा गोपालनेन गोकुलेन्द्रतां प्राप्ताय, नमो नम इति वीप्सया अत्यन्तदैन्येन पुनःपुनः प्रणामा बोध्यन्ते ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्प्रार्थनायाम् अप्य् आत्मनामनर्हत्वादिकन्मन्वानास् तत्सिद्धये मधुरेण तत्प्रियनामसङ्कीर्तनेनोपसंहरन्तः साष्टाङ्गं प्रणमन्ति कृष्णायेति स्वयं भगवते तत्र च वासुदेवाय सर्व-लोककृपया श्री-वसुदेवं प्रकटीकृत्य तस्मात्प्रकटीभूताय अत एव हरये अधिकारानपेक्षया दैत्यादीनाम् अपि संसारदुःखहर्त्रे अपूर्वसौन्दर्यादिना सर्वमनोहराय च किं च, स्वरूपतो\ऽपि परमात्मने तद्-रूपत्वात् सर्वेषाम् अपि निरुपाधिप्रेमास्पदायेत्य् अर्थः । किं च, प्रणतानां स्वभक्तानां क्लेशो भक्तिविघ्नादिदुःखं तं नाशयति यस्तस्मै स्वभक्तिप्रवर्तकाय भक्तवत्सलायेत्य् अर्थः । तद् एवं विशिष्य दर्शयन्ति-गोविन्दाय । वनभ्रमणादिनापि कृतगोपालनायेत्य् अर्थः । नमो नम इति वीप्सया पुनः पुनः प्रणम्य बोधयन्ति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयमयोग्येभ्यो\ऽप्यस्मभ्यं कृपयैव समादेष्टव्य इति दण्डवदवनिप्रणिपातपुरः सरं साष्टाङ्गं नामानि संकीर्तयन्तः प्रणमन्ति । कृष्णाय स्वयं भगवते वासुदेवाय सर्वजीवेषु कृपयैव वसुदेवात् प्रकटीभूताय । हरये दैत्यादीनाम् अपि संसार-दुःख-हन्त्रे परमात्मने शान्त-भक्तानां परमात्मत्वेन दासादि-भक्तानां परम-प्रेमास्पदत्वेन च भासमानाय । प्रणतानां साधकभक्तानां भक्तिप्रतिबन्धकक्लेशहन्त्रे गोविन्दाय सम्प्रत्यस्माकं गाः नयनश्रवणनासादीन्द्रियाणि । सौन्दर्यस्वैश्वर्यसौरभ्यादिसुधाप्रदानार्थं विन्दते प्राप्नुवते तुभ्यं पुनः पुनर् नमामः ॥१६-१७॥
॥ १०.७३.१७ ॥
श्री-शुक उवाच—
संस्तूयमानो भगवान् राजभिर् मुक्त-बन्धनैः ।
तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्लक्ष्णया मञ्जुलया ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान्राज्ञः । मञ्जुलया मनोज्ञया ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् विषयादिपरित्यागेन श्रीपादाब्जस्मृतिमात्रापेक्षया स्तूयमानः, यतो मुक्तबन्धनैः, साक्षान्महोपकारेण परम-भक्त्युत्पत्तेर् इति भावः। यद् वा, त्यक्तविषयादिवासनैरित्य् अर्थः । श्लक्ष्णया मधुरया गिरा आह, यतो भगवान् निजाशेषसद्गुणगणप्रकाशनार्थं स्वयमवतीर्णः परमेश्वरः, अतः करुणो महादयालुः, किं वा, स्नेहेन साक्षात् करुणारसरूपः। किं च, शरण्यः शरणागतवत्सलः। हे तातेति श्री-भगवतो दीनवात्सल्यभरानुसन्धानेन प्रेमोद्रेकात् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् तद्-भक्तिमात्रापेक्षया स्तूयमानः यतो मुक्तबन्धनैः साक्षात्तादृशतत्कारुण्यानुभवेन जातमहाभक्तिभिरित्य् अर्थः । श्लक्ष्णया मधुरया गिराह यतः सर्वत्र करुणः विशेषतः शरणागतवत्सलश् च ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.१८ ॥
श्री-भगवान् उवाच**—**
अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे ।
सु-दृठा जायते भक्तिर् बाठम् आशंसितं तथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा भवद्भिर् आशंसितं तथा बाढं निश्चितं वो मयि भक्तिर् जायते जायताम् इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—भवदुक्तं मया स्वीकृतम् इति भावः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनि सर्वन्तर्यामिन्य् अपि अखिलेश्वरे\ऽपि मयि श्रीदेवकीनन्दने श्री-यादव-देव-बुद्ध्येत्य् अर्थः । सुदृढेति भक्तिर् अस्त्य् एव, किन्तु अद्य-प्रभृति सुदृढा जायताम् इत्य् अर्थः । हे भूपाः! इति मद्-भक्त्या युष्माभिर् एव पृथ्वी पालितेति भावः । अन्यत् तैर् व्याख्यातम् । तत्र यथेत्य् एव पाठस् तत्-संमतः । तस्याशंसितम् इत्य् अनेन योजनाद् इति, अथवा अद्य-प्रभृति भूपाः पृथ्वी-पालका यूयम् एव वृत्ताः, यतो मयि भक्तिर् जायते जातेत्य् अर्थः । यद् वा, ननु तर्ह्य् अस्मत्-प्रार्थितं सम्पादयेति चेत् तत्राह—जायते स्वतो जायमानास्त्य् एव, किं मया सा सम्पाद्येत्य् अर्थः । एवं वाक्-परिपाट्य वरो दत्त एव । भक्ति-जन्म-लिङ्गम् आह—यतो युष्माभिर् यथावद् बाढम् आशंसितम्, स्मृत्य्-उपायादेश-प्रार्थनात् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवांस्तु स्वस्मिंस्तादृशस्मृतिनद्याः परमाश्रयाक्षयिष्णुसरसीरूपा भक्तिरेवानन्तरं सन्तम् एव स्फीतीभविष्यतीति सिद्धतया निर्दिशति-अद्यप्रभृतीति । आत्मनि परमात्मनीति प्रेमयोग्यता अखिलेश्वर इति गौरवयोग्यताभिहिता तस्माद्-भक्तिशब्देनैवोक्तं तद्द्वयमिश्रतायाम् एव हि तच्छब्दः प्रयुज्यते यथा पञ्चरात्रे—
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतो\ऽधिकः । > स्नेहो भक्तिर् इति प्रोक्तः तया साष्ट्यादि नान्यथा ॥ इति ॥
सुदृढेति भक्तिरस्त्येव किन्तु अद्य-प्रभृति सुदृढा विघ्नानवच्छेद्या बाढमतिशयेन जायते सम्प्रत्येव प्रादुर्भविष्यतीत्य् अर्थः । वर्तमानसामीप्ये वर्तमानवद् वा, अत एव विचरिष्यथ यास्यथे(ते)त्य् अपि भावः । अन्यत् तैः तत्र यथेत्येव पाठस् तत्सन्मतः तस्याशंसितम् इत्य् अनेन योजनाद् इति तथेति पाठस्तु बहुत्र ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे भूपा इति तन् नः समादिशेति वाक्येनैव मद्-भक्त-जन-स्वभाव-प्रख्यापकेन सर्वा भूर् अपि मद्-भक्ति-रीति-सुधा-वितरणेन पालितैवेति भावः । बाढम् इति प्रतिज्ञायां इदम् अहं प्रतिजाने इत्य् अर्थः । यथा आशंसितम् आकाङ्क्षितं, तथा तेनैव प्रकारेण भक्तिः सुदृढा जायते मत्-कर्तृक उपायादेशः युष्मत्-कर्तृकम् उपाय-ज्ञानम् उपायानुष्ठानं ततो दृढा स्मृतिस् तया च सुदृढेति प्रेम-भक्तिर् अधुनैव क्षण-मात्रेणैवोपायोपेयतद्दाढ्यदिकयुक्ता जायते क्रमेणानुभवतेति भावः । अद्य प्रभृति नित्यनवीनीभवन्तीत्य् अर्थः ॥१८॥
॥ १०.७३.१९ ॥
दिष्ट्या व्यवसितं भूपा भवन्त ऋत-भाषिणः ।
श्रीय्-ऐश्वर्य-मदोन्नाहं पश्य उन्मादकं नृणाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे भूपाः, मद्-भजनम् एव कर्तव्यम् इति भवद्भिर् व्यवसितं सङ्कल्पितं दिष्ट्या भद्रम् । भवद्भिर् उक्तं च सत्यम् एवेत्य् आह—भवन्त इति । श्रीश् च ऐश्वर्यं च ताभ्यां मदस् तेनोन्नाहम् उद्बन्धनं स्वैराचारम् इत्य् अर्थः । पश्ये पश्यामि ।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्तिर्दाढ्यार्थम् एव तान् श्लाघमानस्तदुक्तमनुमोदते-दिष्ट्येति । ऋतभाषित्वे हेतुः-श्रियेति । धनादिसम्पदाश्रयैश्वर्यम् इति वक्तव्ये श्रियेत्यार्षः । यद् वा, श्रिया ऐश्वर्येण च मदोन्नाहम्, समासान्तर्गतस्यापि मदोन्नाहम् इत्य् अस्याकर्ष आर्यः । उन्मादकमुन्मत्ततापादकं पश्यामि ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भक्तिदाढ्यार्थम् एव तान् श्लाघमानस्तदुक्तमनुमोदते-दिष्ट्येति । ऋतभाषित्वे हेतुः श्रियेति श्रीर्धनादिसम्पत् ऐश्वर्यम् इति वक्तव्ये श्रियैश्वर्याम् इति तन्वादीनां विकल्पेनेषडुवडाविति छान्दसवार्तिकात् त्रियम्बकादिवत् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तिर् एव कर्तव्येति यद्व्यवसितं तद्दिष्ट्या । यतः श्रिया सम्पत्त्या यदैश्वर्यं तेन यो मदस्तेन चोन्नाहम् उद्बन्धनम् उच्छृङ्खलत्वम् इत्य् अर्थः । पश्येत्यार्षम् ॥१९॥
॥ १०.७३.२० ॥
हैहयो नहुषो वेणो रावणो नरकोऽपरे ।
श्री-मदाद् भ्रंशिताः स्थानाद् देव-दैत्य-नरेश्वराः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—हैहय इति । हैहयः कार्त-वीर्याश् चक्रवर्ती नरेश्वरः पितुः काम-धेनु-हरणात् परशुरामेण स-पुत्रो हतः । नहुषो देवेन्द्रतां प्राप्त उन्मत्तः शची-सङ्गाय ब्राह्मणान् शिबिकां वाहयंस् तैर् एव ततो भ्रंशितोऽजगरत्वम् अवाप । वेनोऽप्य् उन्मत्तो ब्राह्मणानधिक्षिपंस् तैर् एव हुङ्-कृतैर् हतः । रावणो राक्षसेश्वरः सीताम् अभिलषन् राघवेण हतः । नरको दैत्येश्वरोऽदिति-कुण्डलाद्य्-आहरणान् मयैव हतः । अपरेऽपि श्री-मदात् स्थणाद् भ्रंशिताः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उन्मादकं बुद्धिभ्रंशकत्वम् एव । तैर् एवागस्त्यादिविप्रैर् एव । अपरे मुदुक्तेतरे त्रिशंक्वादयः ॥२०-२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हैहयादीनां यथोत्तरं श्रीमदादौ श्रैष्ठ्यम्। एते हैहयादयः कथम्भूताः? देव-दैत्य-नरेश्वराः। यद् वा, अपरे\ऽपि देवदैत्यनरेश्वराः। तत्र देवेश्वर इन्द्रः श्रीमदेनैव बलिना स्थानाद्भ्रंशितः। हिरण्यकशिपुः श्रीमदेनैव श्रीविष्णुवैष्णवद्रोहाच्छ्रीनृसिंहेन विदारितः, नरेश्वराः पौण्ड्रजरासन्धादयः श्रीमदादुन्मार्गवतिनो मयैव हताः। एवम् अन्ये\ऽप्यूह्याः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एते अपरे\ऽपि देवदैत्यनरेश्वराः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थानात् स्वपदात् ॥२०॥
॥ १०.७३.२१ ॥
भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्त-वत् ।
मां यजन्तोऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उत्पाद्यं देहादि तद् अन्तवत् । एवं विज्ञाय युक्ता अप्रमत्ता रक्षथ रक्षतेत्य् अर्थः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना सदा स्मृत्युपायमादिशति-भवन्त इति सार्धद्वयेन । उत्पाद्यम् इति उत्पत्तिमतो\ऽस्यानियतत्वाद् इत्य् अर्थः । यद् वा, एतदात्मीयत्वेन गृह्यमाणं देहम्, आदि-शब्दात् पुत्रादिकं तेन तेन चोत्पाद्यं धनादिकम् अपि सर्वम्। युक्ता मत्परा भवन्तः सन्तः, किं वा, भवन्तो युक्ता एवेति पृथग्वाक्यम्। धर्मेण मद्-भक्तिलक्षणेन कृतार्था अपि यूयं प्रजासु मद्-भक्तिप्रवर्तनार्थं गृहस्थधर्मानाचरन्तो राज्यं स्वीकुरुतेति भावः । तत्र रक्षथ रक्षत्वित्य् अर्थ इति लेख्ये लेखकभ्रमात् रक्षतेति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सिद्धायाम् अपि मद्-भक्तौ मत्प्रीत्यर्थं धर्मं लोकं च पालयितुम् इच्छतो ममाज्ञया यथा स्वं तत्तत्पालनं च करिष्यथेत्यादिशति-भवन्त इति सार्धद्वयेन । युक्ता मत्पराः सन्तो लोकसङ्ग्रहार्थैर्यज्ञैर् अपि मां यजन्तः धर्मेण प्रजा रक्षथ रक्षिष्यन्तीत्य् अर्थः । टीकायां लोकतया परिणामे लेखकभ्रमाद् एव रक्षतेति किन्तु रक्षत्वित्य् एव ज्ञेयं हे भवन्त इति वा समाधेयम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु मदाज्ञया लोकरीतिरेवानुसरणीयेत्याह—भवन्त इति ॥२१॥
॥ १०.७३.२२ ॥
सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भवाभवौ ।
प्राप्तं प्राप्तं च सेवन्तो मच्-चित्ता विचरिष्यथ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रजा-तन्तून् पुत्रादि-सन्ततीः । प्राप्तं प्राप्तं समत्वेन सेवमानाः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवाभवौ मङ्गलामङ्गले ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, प्रजातन्तून् सम्यक्तन्वन्तः भवाभवौ सम्पद्विपदौ तेषु च प्राप्तं प्राप्तं यत्तदेवेति समत्वेनेत्येवार्थः । विचरिष्यथ गृहस्थाचारं करिष्यथ कुरुतेत्य् अर्थः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजातन्तून् पुत्रादिसन्ततीः । भवाभवौ भूत्यभूती । प्राप्ते च प्राप्तौ चेति प्राप्तम् एकशेषः ॥२२-२३॥
॥ १०.७३.२३ ॥
उदासीनाश् च देहादाव् आत्मारामा धृत-व्रताः ।
मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मां ब्रह्म यास्यथ ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्ते देहावसाने\ऽज्ञानान्ते वा ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि गृहाद्यासक्त्या श्रीमदेन पुनस्त्वद्-भक्तिरहिता हन्त दुर्गति यास्यामः, नेत्याह—उदासीना इति । देहे, आदि-शब्दात् तदीये च पुत्रादौ उदासीना निरपेक्षाः, केवलमात्मनि स्वस्मिन्न् एव मयि वा, आ सम्यक् अन्याशेषनैरपेक्ष्येण रमन्त इति तथा-भूताः सन्तः, अतो धृतं दृढं गृहीतं व्रतं मत्पूजादिनियमो यैस् तथा-भूताश् च सन्तः । एवं मत्स्मृत्युपायप्राप्त्या मयि मन आविश्य सम्यक् सदा सामीप्यादि यथा स्यात्तथा ब्रह्म परब्रह्मरूपं माम्। यद् वा, ब्रह्मरूपा विमुक्ताः सच्चिदानन्दविग्रहाः सन्तो मां प्राप्स्यथ ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु तर्हि गृहाद्यासक्त्या श्रीमदेन पुनस्त्वद्-भक्तिरहिताः हन्त दुर्गतिं यास्यामः नेत्याह—उदासीना इति । आत्मा एवारामो मत्क्रीडावनं येषां तथा-भूताः आत्मनो मम आरामरूपा वा सन्तः तथा धृतं दृढं गृहीतं व्रतं मन्-महत्-पूजादि-नियमो यैस् तथा-भूताश् च सन्तो मयि मन आवेश्य सम्यक् सदा सामीप्यादि यथा स्यात् तथा ब्रह्म पर-ब्रह्म-रूपं मां यास्यथ ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : मय्य् आवेश्येत्य् आदि । मयि वासुदेवे मन आवेश्य यदि मुक्ति-वासनाः स्थ, तदा मां यास्यथ, मद्-भक्त-रूपेणैव स्थास्यथेत्य् अर्थः । यदि वा कैवल्य-कामाः स्थ, तदा मद्-वैभवं ब्रह्म यास्यथेति भावः ॥२३॥ (इति)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.२४ ॥
श्री-शुक उवाच—
इत्य्-आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।
तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जन-कर्मणि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्रियाश् च तेषां मज्-जन-कर्मण्य् अभ्यङ्ग-स्नानादौ न्ययुङ्क्त ॥२४-२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां बन्धच्युतराज्ञाम् । स्त्रियः स्त्रीः ॥२४-२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णः सर्वानन्दप्रदः। किं च, भगवान् महादयालुः, अतो न्ययुङ्क्त । ननु सद्यस् तत्र तावन्तः स्त्रीपुरुषाः कथं सिद्धाः? तत्राह—भुवनानां चतुर्दशलोकानामीश्वरः, तदिच्छामात्रेण सर्वसिद्धेर् इति भावः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णः परमानन्दघनो\ऽपि तथा भगवान् ब्रह्मादिदुर्लभाज्ञामयपारमैश्वर्यादियुक्तो\ऽपि भुवनैश्वर्यलीलाविष्कारकः सन् इति पूर्वोक्त-रीत्या नृपानादिश्य पुरुषान् साक्षादभ्यङ्गादौ स्त्रियस् तत्साधनादौ ज्ञेयाः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : मय्यावेश्येत्यादि । मयि श्रीवासुदेवे मन आवेश्य यदि मुक्तिवासनाः स्थ, तदा मां यास्यथ, मद्-भक्तरूपेणैव स्थास्यथेत्य् अर्थः । यदि वा कैवल्यकामाः स्थ, तदा मद्वैभवं ब्रह्म यास्यथेति भावः ॥२४-३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्त्रियश् च मज्जनकर्मणि अभ्यङ्गस्नानादौ ॥२४-२६॥
॥ १०.७३.२५ ॥
सपर्यां कारयाम् आस सहदेवेन भारत ।
नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्-विलेपनैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वस्त्रादिभिः सपर्यां कारयामास हे भारतेति श्री-भगवतो दीनवात्सल्येन निज-दासरक्षया प्रहर्षोदयात् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सपर्याम् इति युग्मकम् । वस्त्रादिभिः सपर्यां कारयामास हे भारतेति श्री-भगवतो दीनवात्सल्येन निजाशारक्षया प्रहर्षोदयात्, किं कृत्वा कारयामास? तदाह—भोजयित्वेति । कथम्भूतानित्य् अत्र क्रमेणाह सुस्नातानित्य्-आदि ॥२५-२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.२६ ॥
भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् ।
भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुस्नातान् सम्यग् अलङ्कृतान् भोगैश् च युक्तान् वरेणान्नेन भोजयित्वा पुनस् तेषां सपर्यां सह-देवेन कारयाम् आस ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरान्नेन पायसादिना ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं कृत्वा कारयामास? तदाह—भोजयित्वेति । कथम्भूतान् सतः? आदौ सुष्ठु श्मश्रुवपनादिपूर्वकतैलमर्दनशिरोभ्यङ्गादिना स्नातान्, ततः सम्यक् सद्वस्त्रालङ्कारमाल्यानुलेपनैरलङ्कृतान्, ततो भोगैर्युक्तांश् च सतः । आद्य-शब्देन फलमूलादयो विचित्रपानकादयश् च ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वरान्नेन पायसादिना ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.२७ ॥
ते पूजिता मुकुन्देन राजानो मृष्ट-कुण्डलाः ।
विरेजुर् मोचिताः क्लेशात् प्रावृड्-अन्ते यथा ग्रहाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्रहाश् चन्द्रादयो यथा ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते राजानः ॥२७-२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुकुन्देन परमानन्दप्रदेन भगवता पूजिताः सन्मानिताः पूजां कारिता वा सन्तः, अत एव मृष्टकुण्डलाः सन्तो विशेषेण पूर्वतो\ऽप्याधिक्येन रेजुरशोभन्त । अन्यशेषालङ्काराणामुज्ज्वलत्वे\ऽपि मृष्टकुण्डला इति मुखशोभाविशेषापेक्षया। किं च, क्लेशात संरोधजात् सांसारिकाच् च मोचिताः सन्तः, अयम् अपि मुखप्रसादादिना शोभाविशेषे हेतुविशेषः । संरोधनादिना क्लिष्टानां तदभावेन शोभाभरोदये दृष्टान्तः—प्रावृडन्त इति । तत्र प्रावृट् मेघमयवर्षाकालः शोभाच्छादकसंरोधादिस्थानीयः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रहाश्चन्द्रादयः ॥२७-३४॥
इति श्रीमद्विश्वनाचक्रवर्तिकृतायां सारार्थ-दर्शिन्यां दशम-स्कन्धोत्तरार्धे त्रिसप्ततितमो\ऽध्यायः ॥७३॥
॥ १०.७३.२८ ॥
रथान् सद्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान् ।
प्रीणय्य सु-नृतैर् वाक्यैः स्व-देशान् प्रत्ययापयत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीणय्य नन्दयित्वा ॥२८-२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सन्तो वेगवत्तादिनोत्तमा अश्वा येषु तानारोप्य बलात् स्वसाक्षादेवाधिरोप्य सूनृतैः भवन्तो मदीया अहं च भवदीय एव। मत्प्रियतमस्य श्री-युधिष्ठिरस्य यज्ञमहोत्सवो भवद्भिर्गत्वालङ्कार्यः इत्य्-आदिभिः, स्व-स्व-देशान् प्रति पुनर् जीवयित्वेव अयापयत् प्रस्थापयामास श्री-भगवान् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.२९ ॥
त एवं मोचिताः कृच्छ्रात् कृष्णेन सु-महात्मना ।
ययुस् तम् एव ध्यायन्तः कृतानि च जगत्-पतेः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते नृपाः तं श्री-कृष्णम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णेन परमानन्दघनमूर्तिनेति साक्षाद्दर्शनानन्दिताश्चेति भावः । यतः सु शोभनःमहांश् च आत्मा, दयालुत्वाद् इति भावः। किं वा, सर्व-गुणैः श्रेष्ठ आत्मा श्रीविग्रहो यस्य तेन, अतस् तम् एव ध्यायन्तस् तथैव चिन्तयन्तः। किं च, जगत्पतेः साक्षात् परमेश्वरस्यापि, कृतानि तादृशस्वस्त्ययनादीनि जरासन्धघातनादीनि वा कर्माणि च ध्यायन्तः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.३० ॥
जगदुः प्रकृतिभ्यस् ते महा-पुरुष-चेष्टितम् ।
यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : जगदुः ऊचुः ॥३०-३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते नृपाः । प्रकृतिभ्यः सुहृदादिभ्यः । यथा\ऽन्वशासत् भवन्त एतद्विज्ञाय इत्य् आरभ्य मामन्ते ब्रह्म यास्यथ इत्यन्तेन ॥३०-३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महापुरुषस्य पुरुषोत्तमस्य चेष्टितं लोकोत्तरव्यवहारं स्वमोचनादिप्रतियापन्नं जगदुर्हर्षादुच्चैः कीर्तयामासुः, प्रहर्षस्वभावात् परमाश्चर्याद्वा। वस्तुतस् तु मन्त्रिणाम् अपि भगवति भक्त्यर्थं तथा तैः प्रजासु भक्तिप्रवर्तनार्थं च । किं च, यथेति भगवान् सर्वेश्वर्यपूर्णः परमाप्तशिरोमणिर् इति तदनुशासने विश्वासः सूचितः । अत एवातन्द्रिता अनलसाः सावधाना वा सन्तः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महापुरुषस्य चेष्टितं लोकोत्तरव्यवहारं स्वमोचनादिप्रतियापनान्तं जगदुः हर्षादुच्चैः कीर्तयामासुः प्रहर्षस्वभावात् वरमाश्चर्यात् प्रेमतश् च तत्तु तेषां मन्त्र्यादिष्वपि भगवद्-भक्तये जातम् इति भावः । किं च, यथेति भगवान् परमाप्तशिरोमणिर् इति तदनुशासने विश्वासः सूचितः अत एवातन्द्रिता अनलसाः सावधानाश् च सन्तः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.३१ ॥
जरासन्धं घातयित्वा भीमसेनेन केशवः ।
पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केशवः साक्षात् परमेश्वरः, किं वा, व्रजजनानन्दार्थं केशिहस्तेति भक्त-वात्सल्यं सूचितम् । अतः स्व-भक्त-भीमसेन-यशो-विस्तारणम् अभक्त-जरासन्ध-घातनं च युक्तम् एवेति भावः । प्रायात् जरासन्धस्य दिव्य-रथम् आरुह्य ततः प्रयाणं चक्रे, तथा च सभा-पर्वणि—जरासन्ध-रथं कृष्णो योजयित्वा पताकिनम् । आरोप्य भ्रातरौ चैव [म।भा।सभा।प। २४.२२] इत्य्-आदि । किं च,
न स सज्जति वक्षेषु शस्त्रैश् चापि न हीयते । > दिव्यो रथवरो राजन् दृश्यते नैव मानुषैः ॥ > तमास्थाय रथं दिव्यं पर्जन्य-सम-निस्वनम् । > निर्ययौ पुरुष-व्याघ्र पाण्डवाभ्यां सहाच्युतः ॥ [म।भा। > सभा।प। २४.२२७]
इति बहुल-रत्नाद्य्-अर्पणेन पूजितः सन् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केशवः पुनश् चक्रादि-धारण-वैलक्षण्येन तद्-आकारस् सन्न् इति सर्वाविर्भावास्पदता दर्शनेन स्वयं भगवत्त्वम् एव दर्शितं प्रायात् जरासन्धस्य दिव्यरथमारुह्य ततः प्रयाणं चक्रे तथा च सभापर्वणि—जरासन्धरथं कृष्णो योजयित्वा पताकिनम् । आरोप्य भ्रातरौ चैव इत्य्-आदि ।
किं च—
न स सज्जति वृक्षेषु शस्त्रैश् चापि न हीयते । > दिव्यो रथवरो राजन् दृश्यते नैव मानुषे ॥ > तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् । > निर्ययौ पुरुषव्याघ्र पाण्डवाभ्यां सहाच्युतः ॥ इति ।
तादृशरथादिबहुलरत्नाद्यर्पणेन पूजितः सन् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.३२ ॥
गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुर् जितारयः ।
हर्षयन्तः स्व-सुहृदो दुर्हृदां चासुखावहाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : खाण्डव-प्रस्थम् इन्द्र-प्रस्थम्
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते कृष्णार्जुनभीमाः । दुर्हृदां शत्रूणाम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शङ्खान् तद्रथस्थितान्, किं वा, स्मृतिमात्रेणागतान् स्वकीयान् एव दध्मुः । किमर्थम्? स्वसुहृदः श्री-युधिष्ठिरादीन् हर्षयन्तो हर्षयितुम् इत्य् अर्थः । किं च, तद्द्वेष्टृणां शोकं विस्तारयितुम् इत्य् आह—दुर्हृदाम् इति दुर्योधनादीनाम् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शङ्खान् पूर्वं वर्त्मनि स्थापिते स्वरथे स्थितान् दृर्हृदां दुर्योधनादीनाम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.३३ ॥
तच् छ्रुत्वा प्रीत-मनस इन्द्रप्रस्थ-निवासिनः ।
मेनिरे मागधं शान्तं राजा चाप्त-मनोरथः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शान्तं मृतम् । आप्त-मनोरथो बभूव ॥३३-३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्-छङ्ख-वादनम् ॥३३-३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् छङ्ख-ध्वनिम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.३४ ॥
अभिवन्द्याथ राजानं भीमार्जुन-जनार्दनाः ।
सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथानन्तरं शङ्खध्वानसमकालम् एवेत्य् अर्थः । इत्यत्यन्तवेगेन गमनाद्राज्ञाभिगमनाद्यकरणकारणं सूचितम् । भगवता पश्चादभिवन्दनं विनयविशेषात्, किं वा, स्नेहविशेषेण तत्र प्रागर्जुनप्रेरणात्। यद् वा, जरासन्धवधाद्युपकारेण साधुशिरोमणेः परम-लज्जया पश्चादवस्थितः । अनेनैवाभिप्रायेणोक्तमजनं दुष्टमर्दयति हिनस्तीति जनार्दन इति । आत्मना स्वयं यदनुष्ठितं तत् सर्वम् आ सम्यक् श्रावयाञ्चक्रुः अश्रावयन्त ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरं शङ्खध्वानाव्यवहितकालम् एवेत्य् अर्थः । इत्यत्यन्तवेगेनागमनाद्राज्ञो\ऽभिगमनाद्यकरणकारणं च सूचितं भगवता पश्चादभिवन्दनं विनयविशेषात् स्नेहविशेषेण तत्र प्रागर्जुनप्रेरणं च जरासन्धघातनाद्युपकारेण साधुशिरोपणेर्लज्जया पश्चादेवस्थितेश् च अनेनैवाभिप्रायेणोक्तं जनं दुर्जनमर्द्दयति हिनस्तीति जनार्दन इति आत्मना स्वयम् इति समूहापेक्षयैव न तु स्वस्वापेक्षया अनौचित्यात् प्रेम्णा परस्परमानन्दत्वाच् च अतः परस्परम् एव चातुर्यादिकं वर्णितम् इति ज्ञेयम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७३.३५ ॥
निशम्य धर्म-राजस् तत् केशवेनानुकम्पितम् ।
आनन्दाश्रु-कलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
इति श्रीधर-स्वामिविरचितभावार्थ-दीपिकायां दशम-स्कन्धोत्तरार्धे त्रिसप्ततितमो\ऽध्यायः ॥७३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्धे त्रिसप्ततितमो\ऽध्यायः ॥७३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायां त्रिसप्ततितमो\ऽध्यायः ॥७३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् केशवेन साक्षटात्परमेश्वरेण, किं वा, गोकुलानन्दार्थं केशिघ्नेनानुकम्पितमनुकम्पया कृतम् इति भीमार्जुनयोरनुष्ठानस्यापि तदनुकम्पयैव सिद्धेः । आनन्दाश्रूणां कला बिन्दून् धारा वा मुञ्चन्, इति तद्-अविरामः सूचितः । नोवाच वक्तुं नाशक्नोत् । कुतः? प्रेम्णा प्रेम-बाष्प-रुद्ध-कण्ठत्वाद् इत्य् अर्थः । तच् च कुतः? धर्म-राजः, श्री-भगवद्-धर्मे श्रेष्ठ इति भावः ॥३५॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे
श्री-श्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णव-तोषण्यां
श्री-दशम-टिप्पण्यां त्रिसप्ततितमो\ऽध्यायः ॥७३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केशवेनेति पूर्ववद् अस्त्र-धारण-स्थितेः गाम्भीर्येणानन्दाश्रूणां कला बिन्दून् एव मुञ्चन् अतस् तद्रुद्धकण्ठत्वेन किं वानौचित्येन नोवाच वक्तुं नाशक्नोत् तत्तत्कुतः प्रेम्णा तच् च कुतः धर्मराजः श्री-भगवद्धर्मे श्रेष्ठ इत्य् अर्थः ॥३५॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृतवैष्णव-तोषिण्यां त्रिसप्ततितमो\ऽध्यायः ॥७३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
इति श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे त्रिसप्ततितमो\ऽध्यायः ॥७३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे
त्रिसप्ततितमो\ऽध्यायः ॥७३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्ति-चेतसाम् ।
त्रिसप्ततितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥७३॥
(१०.७४)