**राजसूयोपक्रमे पाण्डवानां दिग्विजयः, भीमेन जरासन्ध-वधश् च
॥ १०.७२.१-२ ॥
श्री-शुक उवाच—
एकदा तु सभा-मध्य आस्थितो मुनिभिर् वृतः ।
ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः ॥
आचार्यैः कुल-वृद्धैश् च ज्ञाति-सम्बन्धि-बान्धवैः ।
शृण्वताम् एव चैतेषाम् आभाष्येदम् उवाच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततो द्वि-सप्ततितमे राज्ञा कार्ये निवेदिते ।
दुर्जयं मागधं बुद्ध्वा भीमेनाघातयद् धरिः ॥
आस्थितः, आसनम् इति शेषः ॥१॥ शृण्वताम् एवेति । यत् प्रसन्नः कृष्णः करोति न तद् अन्यः कश्चिद् अपि कर्तुं समर्थ इति निश्चित्य सर्वान् एव तान् अनादृत्य कृष्णम् उवाचेत्य् अर्थः । आभाष्य ?भो भो कृष्ण भक्त-वत्सल !" इत्य् एवं सम्बोध्य ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः सभा-प्राप्याद्य्-अनन्तरम् । राज्ञा युधिष्ठिरेण । कार्ये यज्ञ-रूपे । एकदा कतिपय-दिन-विश्रामोत्तरं योग्य-समय इत्य् अर्थः । आसनं नृपोचितासनम् ॥१॥ एतेषां मुन्य्-आदीनाम् । इत्य् अर्थ इति । अनादरे षष्ठीयम् इति ध्येयम् । इदं वक्ष्यमाणम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो भिन्नोपक्रमे । एकदा इति विज्ञाप्यस्यार्थस्य श्री-कृष्णस्य चातिगौरवेणावसरम् अलभमानः कदाचित् तस्मिन् सुसम्पन्ने सतीत्य् अर्थः । तम् एव दर्शयति—सभा-मध्य इत्य्-आदिना । मुनिभिः श्री-व्यासादिभिः, ब्राह्मणैर् धौम्यादिभिर् नित्य-भोज्यमानैर् वान्यै राजभिः श्री-द्रुपदाद्यैः, वैश्यैर् युयुत्सोर् मातुलादिभिः, भ्रातृभिः श्री-भीमादिभिः, च-कारान् मातृ-पुत्रादिभिश् च । आचार्यैः श्री-द्रोणादिभिः, कुल-वृद्धैः श्री-भीष्मादिभिः, ज्ञातयः सपिण्डाः, सम्बन्धिनो विवाहादि-सम्बन्धवन्तः, सर्वेषाम् अप्य् एषां तदानीं तत्र समागमो यज्ञे मन्त्राद्य्-अर्थ-श्री-युधिष्ठिरेणैवाह्वानात् । किं वा, स-परिवारस्य श्री-भगवतो दिदृक्षयाकर्षणात् । च-काराद् धृत्य्-आदीनां च शृण्वत्सु सत्स्व् एतैषु सर्वेष्व् इति तेषां तत्रानुमोदनार्थम् । किं वा, शृण्वताम् एषाम् अग्रे मत्-प्रतिष्ठार्थम् अवश्यम् एव श्री-भगवता मद्-याच्ञा मन्तव्येत्य् आशयेन । ह हर्षे ॥१-२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदा इति युग्मकम् । दिन-कतिपय-विश्रमानन्तरं योग्यं समयं लब्ध्वेत्य् अर्थः । तुर् भिन्नोपक्रमे । समयम् एव दर्शयति—सभा-मध्य इत्य्-आदिना एतद्-अपेक्षयैव भगवान् अप्य् एतावन्तं कालं न प्राप्तवान् । च-काराद् भ्रातृ-पुत्रादिभिश् च । द्वितीय-च-काराद् अन्यैश् च वृद्धैः ॥१॥
बान्धवा मित्राणि तैश् च वृतः । तत्र एषां युगपत् समागमो राज-स्वभावात् विशेषतः स-परिवारस्यैवागतस्य श्री-भगवतो दर्शनेन नित्याकर्षणात् केषाञ्चित् तन्-मन्त्राद्य्-अर्थं राज्ञैवाह्वानाच् च । च-काराद् धृत्य्-आदीनां च शृण्वताम् । अन्यत् तैः ।
यद् वा, आस्थितः वक्ष्यमाण-स्तुति-योग्यत्वेन विज्ञप्त्य्-अर्थम् आसनाद् अवतीर्य आ सम्यक् बद्धाञ्जलित्वादिना भूमौ स्थितः सन् शृण्वतां शृण्वत्सु सत्स्व् एव तेष्व् इति तेषाम् अप्य् अवश्य-श्रावयितव्यानां तद्-अनुमोदनेनैवानुमोदनार्थं । ह हर्षे ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्वि-सप्ततितमे राज्ञः कार्ये दत्तं स्व-सम्मतिः ।
भीमेनाघातयद् कृष्णो मागधं प्रार्थ्य मन्त्रतः ॥
आ सम्यक्तया स्थितः ॥१॥
॥ १०.७२.३ ॥
श्री-युधिष्ठिर उवाच—
क्रतु-राजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विभूतीर् अंशान् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पावनीः त्वद्-दर्शनेनात्मनः पावयन्तीति । तथा च ता अपि त्वद्-दर्शन-दापनेन कृतार्थीकर्तुम् इति ।
तस्मिन्न् एव क्रतु-वरे भवन्तं वै सुरादयः ।
दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः ॥
श्रवणात् कीर्तनाद् ध्यानात् पूयन्ते\ऽन्ते-वसायिनः ।
तव ब्रह्म-मयेशस्य किम् उतेक्षाभिमर्शनम् ॥ [१०.७०.४२-४३] इत्य् उद्धवोक्तेः ।
हे गोविन्द इति । निजाशेषैश्वर्य-प्रकटनार्थं भुव्य् अवतीर्णस्य तव भक्तानाम् अस्माकम् ईदृग् इच्छा युक्तैवेति भावः । देवादीनाम् अपि त्वद्-विभूति-बुद्ध्यैव यजनाद् आत्मनो\ऽनन्य-परत्वम् एव भरतवद् दर्शितम् । पावनीः त्वद्-भक्ति-विघ्नादि-दोष-निरसनीस् तृप्तत्वात् । त्वां सेवतां सुर-कृता बहवो\ऽन्तरायाः इत्य्-उक्तेः । अंशान् इन्द्रादीन् । विभूतः सम्पदैश्वर्योत्पत्त्य्-अंशेषु च भस्मनि इति धरणिः ॥ प्रभो इति त्वच्-छक्त्यैव राजसूयः सेत्स्यतीति भावः । यद् वा, हे नः पाण्डवानां प्रभो ! त्वद्-एक-पराणाम् अस्माकं मनोरथः कथं न सेत्स्यति ? इति भावः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रतु-राजेन इति दुष्करत्वम् अपेक्ष्यत्वं च सूचितम् । भवतो विभूतीर् इति—देवादीनाम् अपि तद्-विभूति-बुद्ध्यैव यजनाद् आत्मनो\ऽनन्य-परत्वं द्योतितम् । यक्ष्ये यष्टुम् इच्छामीत्य् अर्थः । कुतः? पावनीस् त्वद्-अभक्ति-विघ्नादि-दोष-निरसनीः, एतच् चातृप्तत्वाद् एव, हे गोविन्द ! इति निजाशेषैश्वर्य-प्रकटनार्थं भुव्य् अवतीर्णस्य तव भक्तानाम् अस्माकं तादृशेहोपपत्तेर् इति । यक्ष्य इत्य् एकत्वं यजने तस्यैकस्यैव प्राधान्यात्, नः इति च बहुत्वं मुन्य्-आदि-संग्रहेण, तेषाम् अपि सर्वेषां तद्-यज्ञापेक्षकत्वात् । तच् च तव शक्त्यैव सुसम्पाद्यम् इत्य् आशयेन सम्बोधयति—प्रभो! हे सर्व-शक्ति-युक्तेति । यद् वा, नो\ऽस्माकं त्वद्-एक-गतीनां पाण्डवानां प्रभो! स्वामिन्! अतो युक्तम् एवैतद् इति भावः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रतु-राजेन दुष्करत्वम् अपेक्ष्यत्वं च सूचितं भवतो विभूतीर् इति देवादीनाम् अपि तद्-विभूति-बुद्ध्यैव यजनाद् आत्मनो\ऽनन्य-परत्वं द्योतितं दैन्येन श्री-नारदवत् पारमेष्ठ्य-कामत्वं निर्दिश्य तद्-यजने हेत्व्-अन्तरम् आह—पावनीः त्वद्-भक्ति-विघ्नादि-दोष-निरसनीः एतच् चातृप्तत्वाद् एव । हे गोविन्द ! इति निजाशेषैश्वर्य-प्रकटनार्थं भुव्य् अवतीर्णस्य तव भक्तानाम् अस्माकं तादृशेच्छा युक्तेति भावः । यक्ष्ये इत्य् एकत्वं यजने तस्यैकस्यैव प्राधान्यात् । न इति बहुत्वं तु भ्रात्र्-आदि-मुन्य्-आदि-सङ्ग्रहेण तेषाम् अपि सर्वेषां तद्-यज्ञापेक्षकत्वात् तच् च तव शक्त्यैव सुसम्पाद्यम् इत्य् आशयेन सम्बोधयति—प्रभो ! हे सर्व-शक्ति-युक्त ! इति । अत एव सिद्धवन् निर्देशम् एवाकरवं यक्ष्य इतीति भावः । यद् वा, नो\ऽस्माकं पाण्डवानां त्वद्-एक-गतीनां प्रभो स्वामिन् अतो युक्तम् एवैतद् इति भावः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एष प्रायो बहिः सम्पत्तिदर्शन-मात्रचमत्कारी बहिरङ्गदि-लोक-सुर-तरोर् यथा-योग्यो\ऽयं मा भजन्त्व् इति वैषम्यं नास्ति । किन्तु संसेव्यमानानाम् एव सम्बन्धे प्रसाद एव स्यात् तथा तवेत्य् अर्था तथाप्य् अत्र तव भजन-सेवानुरूपम् एवोदयः फलं न स्यात् किन्तु अधिको\ऽपि स्यात् वैदात् सेवा-वैगुण्ये विपर्ययः फलाभावो\ऽपि न स्याद् इत्य् अर्थः । तुलसी-दल-मात्रेण इत्य्-आदेः त्यक्त्वा स्व-धर्मम् [भा।पु। १.५.१७] इत्य्-आदेश् च ॥१-६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विभूतीर् इति देवादीन् अपि त्वद्-विभूति-बुद्ध्यैव यक्ष्ये इत्य्-आदि भरतवत् स्वस्य तद्-अनन्त-परत्वं द्योतितम् । पावनीः त्वाम् आलोक्यात्मनः पावयन्तीर् इति त्वद्-दर्शनया आ अपि कृतार्थी-कर्तुम् इति भावः । तद् यजनम् ॥३॥
॥ १०.७२.४ ॥
त्वत्-पादुके अविरतं परि ये चरन्ति
ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति ।
विन्दन्ति ते कमल-नाभ भवापवर्गम्
आशासते यदि त आशिष ईश नान्ये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एष चक्र-वर्तिनां मनो-रथः कथं त्वया क्रियते ? इति चेद् अत आह—त्वत्-पादुके इति । परि ये चरन्ति इति यच्-छब्द-व्यवधानम् आर्षम् । ये परिचरन्ति देहेन । ध्यायन्ति मनसा । अभद्रस्य नशने नाशके । गृणन्ति वाचा । ते भवस्यापवर्गं मोक्षं विन्दन्ति । यद्य् आशासते तर्ह्य् आशिषोऽपि त एव विन्दन्ति, नान्ये चक्रवर्तिनोऽपि ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद्-आक्षेपाशङ्कां वारयति—एष इत्य्-आदिना । परिचरन्ति नित्यं पूजयन्ति । अभद्रं नश्यत आभ्याम् इत्य् अभद्र-नशने आशासत इच्छन्ति आशिषो\ऽभिलषितार्थात् त एव पाद-सेवका एव तव पादुके उपानहाव् अपि किं पुनः साक्षात् त्वच्-चरणाब्ज-द्वयं परिचरन्ति इति कैमुत्यं ज्ञेयम् । एवम् अग्रे\ऽपि । ततो\ऽप्य् अनायासेन ये कदापि गृणन्ति श्री-कृष्ण-पादुके एव मम गतिर् इति कीर्तयन्ति मात्रं यतस् ते स्वत एव अभद्र-नशने, अतः शुचयो बहिर्-अन्तर्-भक्ति-विघातकाभद्र-रहितास् ते भक्ति-मात्र-पुरुषार्था अपि यदि कथञ्चिद् भक्त्य्-उपयुक्तत्वेन आशासते तदा**\ऽपवर्गं** संसार-ध्वंसम् आशिषः सर्वाप्राकृतांश् च कामान् विन्दन्ति ।
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते\ऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भा।पु। ११.२०.३३] इति स्वयं भगवद्-उक्तेः ।
न त्व् अन्ये सर्वासाम् अपि सिद्धीनां मूलं त्वच्-चरणार्चनम् [भा।पु। १०.८१.१९] इत्य्-आदेः । उभयत्रापि हेतुः—हे कमल-नाभ ! स्वांशेन सर्वाश्रय ! हे ईश ! सर्वेश्वर ! इति तोषिणी-काराः ।
अत्र विश्वनाथः—त्वच्-चरण-सरोजं पश्यतां त्वयाप्य् अपार-कृपयात्म-सात्कृतानाम् अस्माकं राजसूये खलु न को\ऽप्य् आग्रहः किं तु त्वाम् अत्रत्या दृष्टान्तः-करणाः केचित् परमेश्वरं न मन्यन्ते नरम् एव मत्वा प्रत्युत दोष-दर्शिनो निन्दन्त्य् एतद्-अस्माकं शल्यम् अतो राजसूय-मिषेण ब्रह्म-रुद्रादीन् सर्वज्ञान् ब्रह्मर्ष्यादीन् अपि देवादीन् अपि चतुर्दश-लोकस्थान् आहूय काचित् सभा कार्या । तत्र सर्वाग्रिम-पूजा तैर् यस्य स्थापयिष्यते स एव परमेश्वर इति साक्षाद् दर्शयित्वा हृच्छल्यं तन्-निष्कासनीयम् इत्य् एव मद्-अभीप्सितम् इत्य् आह—त्वद् इति त्रिभिः । अभद्रस्याविद्या-पर्यन्तस्य नशनं याभ्यां ते ये ध्यायन्ति यद्य् आशासते तर्हि त एव विन्दन्ति न त्व् अन्ये त्वच्-चरणानर्चकाः कर्मि-प्रभृतयः । किन्तु त्वद्-भक्ता नैवाशासत इत्य् अर्थः । अस्माकं तु त्वच्-चरणाश्रितानां त्वां साक्षाद् एव पश्यताम् अन्य-कामनाभावे कैमुत्यम् एवेति भावः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वत्पादुके—अस्तु तावत् तव पदयोः परिचरणं पादुका-सेवैव किं करोमि, भवस्यापवर्गस्त्यागः भवात् अपवर्गो मुक्तिः प्रेमाकारा वृत्तिर्वा, तं विन्दन्ति । भद्रं भो भवापवर्ग एव भवतां भावी, किम् अन्येन? तत्राह—आशिषोऽपीप्सितान्य् अपि त एव विन्दन्ति, नान्ये यदि आशासते । अतोऽस्माकामदानीमिदम् एवेप्सितं कारयितव्यम् ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तव पादुके उपानहाव् अपि, किं पुनः साक्षात् त्वत्-पादाब्ज-द्वयम् त्वत्-पदैर् अङ्किता भाति स्व-लक्षण-विलक्षितैः [भा।पु। १.८.३९] इति प्रथम-स्कन्धोक्त-श्री-कुन्ती-वाक्यानुसारेण श्री-धरण्य्-अनुग्रहार्थम्, तत्रापि पादुकयोर् अधारणेन, तयोर् अभावे बोध्यमाने\ऽपि तद्-उक्तिर् भक्तर् महाराजोपचार-वर्ग-मध्ये\ऽर्पणेन । यद् वा, दैन्य-भरेण । किं वा, प्रिय-जनानां केषाञ्चिद् आग्रहेण कदाचित् स्वीकारात् । यद् वा, परिच्छद-वर्ग-मध्ये स्वतस् तयोर् विद्यमानत्वाद् अविरतं परिचर्यादि-त्रयं कुर्वन्तीति स्व-देहादि-त्रय-साफल्यार्थं सदा तत्र तत्र सल्-लोकानां । किं वा, रसोदयेन भक्तानां स्वत एव प्रवृत्तेः । यद् वा, अविरतम् अभद्र-नशने सदा स-मूलाशेष-दुःख-नाशके शृण्वन्ति । वेति विकल्पो\ऽनुसन्धेयः, त्रयाणामेकेनैव सर्वप्राप्तेः । शुचय इति सङ्कर्मादिभिः शुद्धचित्तानाम् एव तत्र प्रवृत्तेः, इति सर्व-धर्माणां तत्साधनत्वमभिप्रेतम् । यद् वा, जगत्पावना अग्निवद्दीप्तिमन्तो वा सन्तो विन्दन्ति, परिचर्यादीनां यथोत्तरमनायाससाध्यत्वे न्यूनत्वं कैमुतिकन्यायेनैव व्याख्या । तत्र च प्राणायामादिपूर्वकाद्ध्यानदुच्चारणस्य न्यूनत्वं व्यक्तम् एव, भवस्य विधिदुःखमयस्य संसारस्यापवर्गम्। यद् वा, भवो\ऽभ्युदयस्तद्-रूपमपवर्गं मोक्षं श्री-वैकुण्ठ-लोकम् इत्य् अर्थः । हे कमलनाभेति—सर्व-लोकमयत्वस्य श्रीब्रह्मयोनिपद्मोद्भवनामित्वेन तस्य सर्वेश्वरत्वमनन्ताद्भुतशक्तिमत्त्वं च सूचितम् । अयं परिचरणादौ भवापवर्गलाभे\ऽपि हेतुर्ज्ञेयः। यद् वा, कमलाकारा नाभिर्यस्येति सौन्दर्यं परमेश्वरलक्षणं चोक्तम् । यदीति भक्तिरसिकत्वेन न वाञ्छन्त्य् एव, यदि कदापि केनापि हेतुनाशासत इत्य् अर्थः । आशिषः कामान् अभीष्टार्थान् वा विन्दन्ति। हे ईशेति तासाम् अपि त्वदेकाधीनत्वात् । किं वा, त्वत्-परिचर्याद्य्-अभावेन चक्रवर्तिनाम् अप्य् अनाथतया तत्र शक्त्यभावाद् इति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, भवापवर्गं मोक्षम्, आशिषश् च तत्तत्कामस्वसेवकाद्यपेक्षया भवत्परिचर्योपयोगित्वेन वा । यद् वा, आशासते अन्ये परिचर्यादिहीना योगयागादिनापि न विन्दन्तीत्य् अर्थः । अन्यत् समानम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव पादुके उपानहौ अपि किं पुनः साक्षात्त्वत्पादाब्जद्वयम् अविरतं ये परिचरन्ति एवम् अग्रे\ऽपि कैमुत्यम् एवाभिप्रेयते ततो\ऽप्यनायासेन ये वा कदाचिद् अपि ध्यायन्ति ततो\ऽप्यनायासेन ये वा कदाचिद् अपि गृणन्ति श्री-कृष्ण-पादुके एव मम गतिर् इत्य्-आदि कीर्तयन्ति मात्रं यतस् ते स्वत एवाभद्र-नशने अतः शुचयो बहिर्-अन्तर्-भक्ति-विघातका भद्र-रहिताः ते भक्ति-मात्र-पुरुषार्था अपि यदि कथञ्चिद्-भक्त्य्-उपयुक्तत्वं न आशासते तदापवर्गं संसार-ध्वंसम् आशिषः सर्वान् प्राकृतान् अप्राकृतांश् च कामान् विन्दन्ति—
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते\ऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भा।पु। ११.२०.३३] इति
स्वयं भगवद्वाक्यात् न त्व् अन्ये सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् [भा।पु। १०.८१.१९] इत्य्-आदेः उभयत्रापि हेतुः हे कमलनाभ! हे स्वांशेन सर्व-लोकाश्रयेति हे ईश! सर्वेश्वरेति च यद् वा, आशिषो विन्दन्तीत्यत्रैवाविरतम् इति योज्यम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : त्वत्-पादुके इत्य्-आदि । अस्तु तावत् तव पादयोः परिचरणम्, तव पादुका-सेवैव किं न करोतीति भावः । अस्तु दूरे त्वत्-पादयोः परिचरणं, ध्यानम् एव किं न करोतीत्य् आह—ध्यायन्तीति । अस्तु ध्यानम्, कीर्तनम् अपि तयोः किं न करोतीत्य् आह—गृणन्तीति । भवापवर्गं संसार-मोक्षम् । ननु भवताम् अपि भवापवर्ग एव भावी, किम् अन्येनेत्य् आह—आशासत इत्य्-आदि । भवापवर्गस् त्व् आवश्यक एव, किन्तु यद्य् अन्यद् अप्य् आशिष आशास्ते, तदा त एव विन्दन्ति, नान्ये । अतोऽस्माकम् इदानीम् इदम् एवेप्सितं सम्पाद्यताम् इति भावः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वच्-चरण-सरोजं पश्यतां त्वयाप्य् अपार-कृपया आत्म-सात्कृतानाम् अस्माकं राजसूये खलु न को\ऽप्य् आग्रहः किन्तु त्वाम् अत्रत्याः दृष्टान्तः-करणाः केचित् परमेश्वरं न मन्यन्ते नरम् एव मत्वा प्रत्युत दोष-दर्शिनो निन्दन्त्य् एतद् एवास्माकं हृच्-छल्यम् अतो राजसूय-मिषेण ब्रह्म-रुद्रादीन् सर्वज्ञान् ब्रह्मादीन् अपि देवादीन् अपि चतुर्दश-लोक-स्थान् आहूय काचित् सभा कर्तव्या तत्र सर्वाग्रिम-पूजा तैर् यस्य व्यवस्थापयिष्यते स एव परमेश्वर इति साक्षाद् दर्शयित्वा हृच्-छल्यं तनिष्कासनीयम् इत्य् एवम् अद् अभीप्सितम् इत्य् आह—त्वद् इति त्रिभिः । परि ये चरन्तीति यच्-छब्द-व्यवधानम् आर्षम् अभद्रस्याविद्या-पर्यन्तस्यापि नशनं नाशो याभ्यां ते । ये वा ध्यायन्ति यद्य् आशासते तर्हि त एव विन्दन्ति, न त्व् अन्ये त्वच्-चरणानर्चकाः सर्वे\ऽपि कर्मि-प्रभृतयः । किन्तु त्वद्-भक्ता नैववाशासते इत्य् अर्थः । अस्माकं तु त्वच्-चरणाश्रितानां त्वां साक्षाद् एव पश्यताम् अन्य-कामनाभावे । कैमुत्यम् एवेति भावः ॥४॥
॥ १०.७२.५ ॥
तद् देव-देव भवतश् चरणारविन्द-
सेवानुभावम् इह पश्यतु लोक एषः ।
ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां
निष्ठां प्रदर्शय विभो कुरु-सृञ्जयानाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतो भक्त-पक्ष-पातम् आविष्कारयन्न् आह—तद् देव-देव ! इति । तत् तस्मात् पश्यतु साक्षात् । एवं निश्चितेऽपि ये कर्मादि-प्रधानाः । केचित् कुरु-सृञ्जया भगवद्-भक्तिं न बहु मन्यन्ते तेषां मोह-निवृत्तये ये त्वां भजन्ति यदि वा न भजन्ति, तेषाम् उभयेषां निष्ठां स्थितिं प्रदर्शय ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आविष्कारयन् यतो भवच्-चरण-सेवा-फलम् अनुभव-सिद्धम्, अतो लोको\ऽपि प्रत्यक्ष-प्रमाणोत्थ-माहात्म्यं दृग्-विषयं करोत्व् इति प्रार्थयन्न् इत्य् अर्थः । यद् यस्माद् ईदृशस् ते सेवानुभावः, तत् तस्माद् धेतोः । एवं निश्चिते\ऽपि भगवद्-भक्तिर् ऐहिकामुष्मिक-फलदास्तीत्य् एवं निर्णीते\ऽपि । तेषाम् अभक्तानाम् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु किम् अनया परम-भक्तानां वः कर्म-वासनया ? सत्यं, तव भक्तानां अभक्तानां च तत्त्वं सर्वे पश्यन्त्व् इति लोके त्वन्-महिम-व्यक्ति-हेतोर् एवेत्य् आह—तद् देव-देव ! इत्य्-आदि । न भजन्त्य् उत इति दुर्योधनादीन् प्रत्य् आक्षेपः ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कुतस् तर्हि मद्-भक्ति-रसिकेन त्वया परिचर्यादिकं हित्वा राजसूयम् इष्यते? तत्राह—तद् इति । तस्मात् तद्-भक्तैक-प्राप्य-सर्वार्थत्वाद् धेतोः, इह मर्त्य-लोके मद्-गृहे वा, एष [विविध-वासनः]{।मर्क्} । किं वा, जगति वर्तमानः सर्वो\ऽपि । यद् वा, अधुनातन इत्य् अर्थः । हे देवानां जगत्-पूज्यानां श्री-ब्रह्मादीनाम् अपि देव ! इति सेवानुभावस्य असाधारण्यम् अभिप्रेतम्, उभयेषां भक्त्य्-अभक्तिभ्यां द्विविधानां कुरु-सृञ्जयानां निष्ठाम् । भक्ताः सिद्ध-सर्वार्थाः सदा सुखिनः, अभक्ताश् च विपरीता इत्य् एतल्-लक्षणां लोके प्रकर्षेण सर्वेषां प्रत्यक्षत्वादिना दर्शय । तत्र च त्वं सर्वथा समर्थतर एवेत्य् आशयेनाह—विभो ! हे परमेश्वर ! इति । ततश् च कर्मादि-परा अपि सर्वे त्वद्-भक्तिम् एवाश्रयिष्यन्तीति, त्वद्-भक्ति-विस्तारणार्थम् एव राजसूयं चिकीर्षामीति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, कर्मणि षष्ठी, उभयेषां जनानां निष्ठां कुरून् सृञ्जयांश् च प्रति प्रदर्शय, तथापि भावः स एव पर्यवस्यति । साक्षात् तथानुक्तिश् च विनयात् । यद् वा, प्रायस् तेषां त्वद्-अभक्ततया तत्-प्रदर्शनेनानन्दोत्पत्तेर् इति भावः । यद् वा, हे कुर्व्-आदीनां प्रभो ! त्वदीयानां सर्वेषाम् एषां प्रीत्य्-अर्थम् इति भावः । अन्यत् समानम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कुतस् तर्हि मद्-भक्ति-महिमज्ञेन त्वया परिचर्यादिकं हित्वा राजसूयम् इष्यते? तत्राह—तद् इति । यस्माद् एवम् एव सत्यं, तत् तस्मात् । हे देव-देव! सर्वाराध्य-गणानाम् अप्य् आराध्य ! एवं यद्यपि त्वत्-परिचर्ययैव सर्व-देव-तृप्तिः सिद्ध्यतीति वयं जानीमः, तथापीत्य् अर्थः । तत् किम् ? इत्य् अतः आह—इह सर्व-लोक-कृपामये भवद्-अवतारे एष प्रायो बहिः-सम्पत्ति-मात्र-दर्शन-चमत्कारी लोको भवतश् चरणारविन्द-सेवानुभावं पश्यतु ।
तद् एव दर्शयति—ये इति । ये\ऽस्मल्-लक्षणाः कुरु-सृञ्जयास् त्वां भजन्ति, य उत वा ये च दुर्योधनादयस् त्वां न भजन्ति, तेषाम् उभयेषां निष्ठां प्रदर्शय बहिर्-मुखेष्व् अपि त्वद्-भक्ति-महिम-प्रदर्शनार्थम् एवायम् अस्माकम् उद्यम इति भावः । हे विभो ! सर्वम् अपि कर्तुं समर्थेति किम् उतैतावद् इति भावः । सेयम् आनुषङ्गिकी कामना श्री-नारद-दर्शित-पारमेष्ठ्य-कामत्वाभिप्रायस् तु तत् सेवोपयोग्येनेति सङ्कोचाद् गोपितः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : ननु किम् अनया परम-भक्तानां वः कर्म-वासनया ? सत्यम्, तव भक्तानाम् अभक्तानां च मर्यादां सर्वे पश्यन्तु, न तु फलान्तर-काम्ययेत्य् आह—तद् देवदेव ! इत्य्-आदि । देवानां ब्रह्म-रुद्रादीनां देव । न भजन्त्य् उत इति दुर्योधनादीन् प्रत्य् आक्षेपः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मात् तादृश-सभायां वृत्तायां तैर् ब्रह्म-वादिभिस् तव परमेश्वरत्वे व्यवस्थापिते सति एष भू-लोक-स्थ-जनः पश्यतु । ततश् च कुरु-सृञ्जयादीनां मध्ये त्वाम् ईश्वरं मत्वा ये भजन्ति, ये वा प्राकृत-मानुषं मत्वा उत न भजन्ति, तेषाम् उभयेषां निष्ठा सद्-गतिम् अधो-गतिं च तैर् उच्यमानां त्वं दर्शय, करणीये\ऽस्मिन् राजसूये स्व-सम्मति-प्रदानेनेति भावः ॥५॥
॥ १०.७२.६ ॥**
न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात्
सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः ।
संसेवतां सुर-तरोर् इव ते प्रसादः
सेवानुरूपम् उदयो न विपर्ययोऽत्र ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु रागादि-रहिते मयि कथम् इदं वैषम्यं स्यात् ? तत्राह—न इति । स्वः पर इति भेद-मतिस् तव न स्याद् एव । कुतः ? ब्रह्मणो निरुपाधेः । किं च, सर्वस्यात्मनोऽतः सम-दृशः । किं च, स्व-सुखानुभूतेः । अतो रागाद्य्-अभावाद् इति भावः । तथापि संसेवमानानाम् एव त्वत्-प्रसादो, नान्येषाम् । तत्रापि सेवाऽनुरूपम् उदयः फलं न त्व् अत्र विपर्ययोऽन्यथा-भावः । यथा कपिल-द्रुमस्य रागादि-राहित्येऽपि सेवकेष्व् एव फल-जनकत्वं, नान्येषु ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान् आशङ्कते—नन्व् इति ।
ननु कुतस् तर्हि मद्-भक्ति-महिमज्ञेन त्वया परिचर्यादिकं हित्वा राजसूयम् इष्यते ? तत्राह—तद् इति । यस्माद् एवम् एव सत्यं, तत् तस्मात् हे देवदेव ! सर्वाराध्यानाम् अप्य् आराध्य ! एवं यद्यपि तव परिचर्ययैव सर्व-देव-तृप्तिः सिध्यतीति वयं जानीमः, तथापीत्य् अर्थः । तत् किम् ? इत्य् अत आह—इह सर्व-लोक-कृपा-मये भवद्-अवतारे एष प्रायो बहिः-सम्पत्ति-मात्र-दर्शन-चमत्कारी लोको भवतश् चरणारविन्द-सेवानुभावं पश्यतु, तद् एव दर्शय । ये इति । ये\ऽस्मल्-लक्षणाः कुरु-सृञ्जयास् त्वां भजन्ति, ये उत वा दुर्योधनादयस् त्वां न भजन्ति, तेषाम् उभयेषाम् अपि बहिर्मुखेष्व् अपि त्वद्-भक्ति-महिम-प्रदर्शनार्थम् एवायम् अस्माकम् उद्यम इति भावः । सेयम् आनुषङ्गिकी कामना श्री-नारद-दर्शित-पारमेष्ठ्य-कामत्वाभिप्रायस् तु तत्-सेवोपयोगो नेति सङ्कोचत्वाद् गोपितः ।
अत्र विश्वनाथः—तत् तस्मात् तादृश-सभायां वृत्तायां तैर् ब्रह्मादिभिस् तव परमेश्वरत्वे स्थापिते सति एष भूर्लोकस्थ-जनः पश्यतु । ततश् च कुरु-सृञ्जयादीनां मध्ये त्वाम् ईश्वरं मत्वा ये भजन्ति, ये वा प्राकृत-मानुषं मत्वा उत न भजन्ति, तेषाम् उभयेषां निष्ठां सद्गतिम् असद्गतिं च तैर् उच्यमानां त्वं दर्शय । करणीये\ऽस्मिन् राजसूये स्व-सम्मति-प्रदानेनेति भावः । सुरतरोर् इवेति । तस्य यथायोग्यो\ऽयं भजत्व-योग्यो\ऽयं मा भजत्व् इति वैषम्यं नास्ति किन्तु सम्यक् सादरं सेवमान-मात्राणां सम्बन्धे प्रसाद एव स्यात् । तथा तवेत्य् अर्थः । तथाप्य् अत्र भजने तद्वत् सेवानुरूपम् एवोदयः फलं न स्यात् किन्त्व् अधिको\ऽपि स्यात्, दैवात् सेवा-वैगुण्ये विपर्ययः फलाभावो\ऽपि न स्यात् । तत्र पूर्वं
तुलसीदल-मात्रेण जलस्य चुलकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ इति विष्णु-धर्मोक्तेः ।
तत्र भक्तेभ्य इत्य् उक्तत्वाद् भावाख्य-भक्ति-तारतम्येनैव फल-तारतम्यम् इति भावः । अथोत्तरं त्यक्त्वा स्वधर्मम् इत्य्-आदिवत्, अत्र च विश्वास एव कारणम् इति भावः । अत्र कर्म-प्रवाह-पतितं सर्वम् एव प्रति स्व-कर्मणि प्रेरयसि । सम-दृश इति त्वम् एवेश्वरस् तत्-तद्-अनुरूपम् एव शुभम् अशुभं वा फलं ददासि, न तु क्वपि ते पक्ष-पात इति भावः ।
किं च, तैः सुखिभिर् दुःखिभिर् वा तव न किम् अपि कृत्यम् इत्य् आह—स्व-सुखानुभूतेः । ननु तर्हि मम वात्सल्यौदार्यादयो गुणाः किं-विषयकाः ? तत्राह—संसेवतां त्वां सम्यक् सेवमानेषु तेषु प्रसादो वात्सल्यं, यत एव कर्म-बन्धन-कर्तृकात्म-पर्यन्त-प्रदान-लक्षणम् औदार्यं च ते भवेत् ।
ननु तर्ह्य् आयातं ममापि वैषम्यं ? तत्राह—सुरतरोर् इव इति । गुण-दोषादिकम् अविचारयतस् तस्य स्वाश्रित-मात्रे यथा प्रसादस् तथा तवापि । यः को\ऽपि सेवतां तत्रैव प्रसादस् तत्रापि सेवानुरूपम् एवोदयः । सेवा-तारतम्येनैव प्रसाद-फलस्याप्य् उदय-तारतम्यम् एव नात्र वैषम्यं विपर्ययो\ऽन्य-पथाभावस् तस्माद् अवैषम्ये\ऽपि तव भक्तेषु वात्सल्य-वशाद् एव पक्ष-पाते सिद्धे तेषाम् अनुकूल-प्रतिकूलेषु तवाप्य् आनुकूल्य-प्रातिकूल्ये आयात एवेति भावः । तत्राक्षेपे हेतुम् आशङ्कते—कुतः ? इति । न केवलं निरुपाधिर् एव त्वम् इत्य् आह—किं च इति । अतः सर्वात्मत्वात् । अन्यद् आह—स्व-सुखस्य स्वरूपानन्दस्यानुभूतिर् अनुभवः पूर्णानन्दो\ऽहम् इति यस्य तथा तस्य । अतः स्वानन्द-पूर्णत्वात् । इति भाव इति पूर्णानन्द-स्वरूपस्य राग-द्वेषादयो जीव-धर्मा नोदयन्त इत्य् आशयः । नन्व् असुराणां दुःख-प्रदत्वं सुराणां सुख-प्रदत्वं मम प्रसिद्धम् इति चेद् आह—तथापि इति । यद्यपि त्वं सम एव, तथापि तत्रापि प्रसादे\ऽपि ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वमहिमपरभेदो नास्ति, भजदभजतोर् एव सोहऽम् इति चेत् तत्राह—न ब्रह्मण इति । ते तव ब्रह्मणः परमानन्दानुभवस्य महिम्नः स्वपरभेदमतिर्न स्यात् । ब्रह्म विशिनष्टि—सर्वात्मन इत्य्-आदि । अपि तु ते तव सर्वेश्वरस्य भक्तानुकम्पकस्य प्रसादः सम्यक् सेवापराणाम् एवेत्य् आह—संसेवताम् इति सम्यक्सेवमानेष्वेवेति यावत् । सुरतरोरिव सुरतरुं ये सेवन्ते, तेषाम् एवाभिलाषमसौ ददाति, तेन तस्य किं वैषम्यं, सेव्यमानो हि यदि योग्यायैव ददाति, नायोग्याय—तदा वैषम्यापत्तिः, तद्वत्तवापि एष तु भक्तानुकम्पिताया महिमा ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो वाञ्छित-वाञ्छातीत-फलप्रदानेन वयमनुग्राह्याः, जरासन्धादयश् च निग्राह्या इति गूढो\ऽभिप्रायः । सेवानुरूपमुदय इति बहुलया सेवया बहुल उदयः, स्वल्पया च स्वल्प इत्यवैषम्यम् एव सेवायां सर्वेषां सम्यक् प्रवृत्त्यर्थमुक्तम् । अत एवोक्तं सम्यक् सेवताम् इति । एवं सेवाया माहात्म्यम् एवाभिप्रेतम् । अन्यत् तैर् व्याख्यातम् । यद् वा, न च वक्तव्यं जगदीश्वरस्य मम सर्वत्र साम्येन केषुचिदनुग्रहः केष्वपि निग्रहो न सम्भवेद् इत्य् आह—नेति । ब्रह्मणः सर्वकारणस्यापि सर्वस्यात्मनो\ऽन्तर्यामिनो\ऽपि, अतः समदृशो\ऽपि, स्वो भक्तः परो\ऽभक्त इति भेदमतिर्नास्ति किम्?—काक्वा, अस्त्येवेत्य् अर्थः । कुतः स्वेभ्यो भक्तेभ्य एव सुखानुभूतिर्यस्य तस्य भक्त-वत्सलत्वाद् इति भावः । अतः संसेव्यमानानाम्, सप्तम्यां षष्ठी, तेष्वेव ते प्रसादः स्यात्, संशब्दः सेवास्वभावेनैव तत्र सम्यक् प्रवृत्त्या स्वरूपनिर्देश-मात्रे, न तु सेवासम्यक्त्वापेक्षया । तद् एव दर्शयति—सुरतरोरिव सेवानुरूपमुदयो न भवति, किन्तु विपर्यायः स्यात्, स्वल्पसेवयापि बह्वर्थलाभात्। इति परमेश्वरत्वेन तस्य सुरतरोः सकाशाद् आधिक्यम् उक्तम्, तद् एव हि युक्तम् इति ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुरतरोरिवेति तैर् व्याख्यातम् । यद् वा, तस्य यथायोग्यो\ऽयं भजतु अयोग्यो\ऽयं मा भजत्विति वैषम्यं नास्ति किन्तु सम्यक् सादरं सेवमान-मात्राणां सम्बन्धे प्रसाद एव स्यात् तथा तवेत्य् अर्थः । तथाप्यत्र तव भजने तद्वत् सेवानुरूपम् एवोदयः फलं न स्यात् किन्त्वधिको\ऽपि स्यात् दैवात् सेवा-वैगुण्ये\ऽपि विपर्ययः फलाभावो\ऽपि न स्यात् तत्र पूर्वं—
तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥
इति श्रीविष्णुधर्मवचनात् अत्र भक्तेभ्य इत्युक्तत्वाद्भावाख्यभक्तितारतम्येनैव फलतारतम्यम् इति भावः । अथोत्तरं त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन् इत्य्-आदिवत् अत्र विश्वास एव कारणम् इति भावः ॥६॥
अतो वाञ्छित-वाञ्छातीत-फलप्रदानेन वयमनुग्राह्याः, जरासन्धादयश् च निग्राह्या इति गूढो\ऽभिप्रायः । सेवानुरूपमुदय इति बहुलया सेवया बहुल उदयः, स्वल्पया च स्वल्प इत्यवैषम्यम् एव सेवायां सर्वेषां सम्यक् प्रवृत्त्यर्थमुक्तम् । अत एवोक्तं सम्यक् सेवताम् इति । एवं सेवाया माहात्म्यम् एवाभिप्रेतम् । अन्यत् तैर् व्याख्यातम् । यद् वा, न च वक्तव्यं जगदीश्वरस्य मम सर्वत्र साम्येन केषुचिदनुग्रहः केष्वपि निग्रहो न सम्भवेद् इत्य् आह—नेति । ब्रह्मणः सर्वकारणस्यापि सर्वस्यात्मनो\ऽन्तर्यामिनो\ऽपि, अतः समदृशो\ऽपि, स्वो भक्तः परो\ऽभक्त इति भेदमतिर्नास्ति किम्?—काक्वा, अस्त्येवेत्य् अर्थः । कुतः स्वेभ्यो भक्तेभ्य एव सुखानुभूतिर्यस्य तस्य भक्त-वत्सलत्वाद् इति भावः । अतः संसेव्यमानानाम्, सप्तम्यां षष्ठी, तेष्वेव ते प्रसादः स्यात्, संशब्दः सेवास्वभावेनैव तत्र सम्यक् प्रवृत्त्या स्वरूपनिर्देश-मात्रे, न तु सेवासम्यक्त्वापेक्षया । तद् एव दर्शयति—सुरतरोरिव सेवानुरूपमुदयो न भवति, किन्तु विपर्यायः स्यात्, स्वल्पसेवयापि बह्वर्थलाभात्। इति परमेश्वरत्वेन तस्य सुरतरोः सकाशादाधिक्यमुक्तम्, तद् एव हि युक्तम् इति ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : ननु मे स्वपरभेदो नास्ति भजदभजतोरेवाहं समः किमनेन मद्वैषम्यप्रकटनेनेत्याह—न ब्रह्मण इत्य्-आदि । तव ब्रह्मणो मूर्तानन्दस्य बृहतः न परभेदमतिर्न स्याद् एव सत्यं यतः सर्वात्मनः अतः समदृशः यतः स्वसुखानुभूतेः स्वानन्दविलासविधायकस्य किन्तु सुरतरोरिव प्रसादः सुरतरुर्यथा भजत एव कामान् पूरयति नाभजतः भजन-मात्रं प्रति कामदत्वात्तस्य न वैषम्यं यदि यदि भजतां मध्ये कुत्रापि प्रसीदति कुत्रापि न तदैव वैषम्यापत्तेः तद्वत्तवापि भजन-मात्रं प्रतिकामदत्वान्न वैषम्यं भजतः किल द्विजान् वा श्वपचान् वा सर्वथा अनुगृह्णतः कुतो वैषम्यम् अतः सेवानुरूप एव सेवकानामुदयो नात्र विपर्ययव्यभिचारः ॥६-४८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, किं ममापि मत्सरता\ऽस्ति यदनुकूलानामुत्कर्षं प्रतिकूलानामपकर्षं दर्शयामीति तत्राह—नेति । स्वपर इति भेदमतिस्तव न स्याद् एव कुतो ब्रह्मणो निरुपाधेः किं च, सर्वस्यात्मनः त्वम् एवान्तर्यामी भूत्वा अनादिकर्मप्रवाहपतितं सर्वम् एव प्रति स्वकर्मणि प्रेरयसि समदृश इति त्वम् एवेश्वरस् तत्-तद्-अनुरूपम् एव शुभमशुभं वा फलं ददासि न तु क्वापि ते पक्षपात इति भावः किं च, तैः सुखिभिः दुःखिभिर्वा तव न किम् अपि कृत्यम् इत्य् आह—स्वसुखानुभूतेः ननु तर्हि मद्वात्सल्यौदार्यादयो गुणाः किं विषयकास् तत्राह—संसेवतां त्वां सम्यक् सेवमानेषु तेषु प्रसादो वात्सल्यं यत एव कर्मबन्धकर्तनपूर्वकात्मपर्यन्तप्रदानलक्षणमौदार्यं च ते भवेत् ननु तर्ह्य् आयातं ममापि वैषम्यं तत्राह सुरतरोरिवेति । गुणदोषादिकमविचारयतस् तस्य स्वाश्रित-मात्रे यथा प्रसादस् तथा तवापि यः को\ऽपि सेवतां तत्रैव प्रसादस् तत्रापि सेवानुरूपम् एव उदयः सेवातारतम्येनैव प्रसादफलस्याप्युदयतारतम्यम् इत्य् अवैषम्यम् एव नात्र विपर्ययो\ऽन्यथाभावस्तस्मादवैषम्यो\ऽपि तव स्वभक्तेषु वात्सल्यवशाद् एव पक्षपाते सिद्धे तेषाम् अनुकूलप्रतिकूलेषु तवाप्यानुकूल्यप्रातिकूल्ये आयाते एवेति भावः ॥६॥
॥ १०.७२.७-८ ॥
श्री-भगवान् उवाच—
सम्यग् व्यवसितं राजन् भवता शत्रु-कर्शन ।
कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति ॥
ऋषीणां पितृ-देवानां सुहृदाम् अपि नः प्रभो ।
सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु-राड् अयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यं मद्-भक्तानाम् एव कैवल्यादि नान्येषाम् इत्य् अनुमोदमान आह—सम्यग् इति । शत्रु-कर्शनेति सम्बोधयन् सर्व-राज-विजय-शक्तिं सञ्चारयति । अनुभविष्यति द्रक्ष्यति । सर्व-लोक-व्याप्ता भविष्यतीत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपोक्तमङ्गीकुर्वन्नाह—सत्यम् इत्य्-आदि । येन व्यवसितेन क्रतुराजनिश्चयेन । इत्य् अर्थ इति—नहि जडायाः कीर्तेर्लोकानुभवो\ऽस्ति तथापि तदभिमानिदेवतामालक्ष्येत्थमुक्तिम् इति भावः । राजा राजसूयेन यजेत इति श्रुत्या हे राजन्न् इति महाराजकर्तव्यत्वम् एव राजसूयस्योक्तम् इति भावः । शत्रुकर्षणेति सर्वराजजयशक्तिं सञ्चारयति यद्येतादृश्यापि सम्पत्त्या शत्रून्नोच्छेदयिष्यति तर्हि किमनयेति भावः । लोकाननुलक्ष्यीकृत्य भविष्यतीति त्वत्कीर्तिर् एव मया सर्वथा निष्पादनीयेति भावः ॥७॥
न केवलं तवैवाभीष्टो\ऽयं क्रतुः ऋष्यादीनां सर्वेषाम् एवेत्य् आह—ऋषीणाम् इति । ऋष्यादीनां पूजाप्तेः सुहृदां मानाप्तेरन्येषां केषाञ्चित्कौतुकदर्शनाप्तेः, केषाञ्चित्स्थावरादीनां यज्ञार्थं निज-व्यापादात्स्वदेहसाफल्याप्तेश् च सर्वेषाम् अभिमत एवेति भावः ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सद्विज्ञप्त्या सुप्रीतस्तद्-अर्थितमनुमोदमान आह—सम्यगिति । साध्वेवेदं भवता व्यवसितं निश्चितं कर्तुमिष्टं वा, तच् च युक्तम् एव तवेत्याह—हे राजन्निति, महाराजकर्तव्यत्वात् धर्मराजत्वाद्वा, किं वा, सर्वसद्गुणेन राजमानत्वाद् इत्य् अर्थः । कल्याणी उत्तमा जगन्मङ्गलकरी वा, लोकाननु तान् व्याप्येत्य् अर्थः ॥७॥
पितॄणां देवानां च नो\ऽस्माकं सुहृदाम् इति स्नेह-भरोदयार्थं परमेश्वरदृष्टिं वारयति । यद् वा, विनयस्वभावादेव, तथापि भावः स एव । हे प्रभो इति तत्र त्वं महासमर्थ एवेति सूचयति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव सुरतरुतो वैलक्षण्येन तादृशानुग्रहमयवचनादिकमुदाहृत्य प्रसादम् एव विशिष्य दर्शयति—श्री-भगवानुवाचेत्य्-आदिना । अत्राप्युत्तरत्राधिक्यमुन्नेयं सम्यक् साध्वेवेदं भवता व्यवसितं निश्चितं कर्तुमिष्टं वा तच् च युक्तम् एवेत्य् आह—हे राजन्न् इति । महाराजकर्तव्यत्वात् कल्याणी उत्तमा जगन्मङ्गलकरी वा अत्र सर्वजनेषु मद्-भक्तिजननीति निगूढो भावः लोकाननु तान् व्याप्येत्य् अर्थः ॥७॥
न केवलं कीर्तिद्वारा सर्वसुखप्रदो\ऽसौ स्वद्वारापीत्याह—ऋषीणाम् इति । पितॄणां देवानां च नो\ऽस्माकं सुहृदामपीति स्नेह-भरोदयार्थं परमेश्वरदृष्टिं वारयति यद् वा, विनयस्वभावाद् एव हे प्रभो! तत्र समर्थ! ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो मन्-महिम-रस-महा-मेघ-राजन्न् अत्र मम सम्मतिर् अस्त्य् एवेति लोक-रीतिम् आश्रित्याह—सम्यग् इति । शत्रुकर्षणेति सम्बोधयन् सर्वराजविजयशक्तिं सञ्चारयति । यद्येतादृश्य् अपि सम्पत्त्या शत्रून् नोच्छेदयिष्यति तदा किमनयेति भावः । लोकान् अनु लक्षीकृत्य भविष्यतीति त्वत्कीर्तिर् एव सर्वप्रकारेण मम निष्पादनीयेति भावः ॥७-८॥
॥ १०.७२.९ ॥
विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।
सम्भृत्य सर्व-सम्भारान् आहरस्व महा-क्रतुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किम् अत्र मयान्येन वा संपादनीयं, तव तु सुकर एव राजसूयः ? इत्य् आह—विजित्य इति । जगतीं सर्वां पृथ्वीम् । सम्भारान् यज्ञोपस्करान् सम्भृत्य सम्पाद्य आहरस्व अनुतिष्ठ इत्य् अर्थः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्री-कृष्ण आह—किम् अत्र ? इति । अत्र याग-निमित्तम् । इत्य् अर्थ इति—उपसर्गाद् अनुष्ठानार्थे\ऽपि इति भावः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव दर्शयति—विजित्य इति । विशेषेण जरासन्धादिभ्यो\ऽप्य् आधिक्येन दासतापादनादिना जित्वा । एवं जगतीम् एव स्ववशे कृत्वा। अन्यत् तैर् व्याख्यातम् । यद् वा, विभक्तिलोप आर्षः । स्वयं स्वीयं त्वद्-अधीनम् एव महाक्रतुम् आहर ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव दर्शयन् प्रोत्साहयति—विजित्य इति द्वाभ्याम् । विशेषेण जरासन्धादिभ्यो\ऽप्याधिक्येन स्वरसत एव दासतासम्पादनादिना जित्वा एवं जगतीम् एव स्ववशे कृत्वा अन्यत् तैः यद् वा, स्वीयं त्वद्-अधीनम् एव महाक्रतुम् आहर ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्भृत्य सम्पाद्य आहरस्व अनुतिष्ठ ॥९॥
॥ १०.७२.१० ॥
एते ते भ्रातरो राजन् लोक-पालांश-सम्भवाः ।
जितोऽस्म्य् आत्मवता तेऽहं दुर्जयो योऽकृतात्मभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नृपति-विजयादि कथं शक्यं स्यात् ? अत आह—एत इति । किं च, आत्मवता जितेन्द्रियेण ते त्वया अहं च जितोऽस्मि वशी-कृतोऽस्मि । अकृतात्मभिर् अजितेन्द्रियैः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साम्प्रतं सर्व-जयो दुःशक इत्य् आशङ्कते—नन्व् इति । कैमुत्याभिसन्ध्याह—किं च इति । आत्माहम् एव सेव्यत्वेन विद्यते यस्य तेन आत्मवता मत्-परम-भक्तेनेत्य् अर्थः । न कृतो मयि नार्पित आत्मा यैः, तैर् मद्-अभक्तैः । वस्तुतस् तु लोकपाला अंश-सम्भवा येषां ते स्वयं भगवतो\ऽन्तरङ्ग-परिकरत्वात्, यूयं नृलोके बत भूरि-भागाः [भा।पु। ७.१०.४८] इत्य्-आद्य्-उक्तेः । तेभ्यो\ऽपि तस्य श्रैष्ठ्यम् आह—हे राजन्न् इति । नाहं त्वां विना कस्यापि वशवर्तीति चाह—जितो\ऽस्मि इति ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एते बल-वीर्यादि-प्रसिद्धाः । किं वा, एत इति तेषां प्रोत्साहनार्थं माहात्म्यं निर्दिशन्न् इवाङ्गुल्या दर्शयति । माहात्म्यम् एवाह—लोक-पाला अंश-सम्भवा येषां ते, नित्य-पार्षद-प्रवराणाम् एव तत्-तद्-अवतारत्वात्, तच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव । हे राजन्न् ! इति तेभ्यो\ऽपि तस्य श्रैष्ठ्यं सूचयंस् तम् अपि प्रोत्साहयति । अहं तु तव आधीन एवेति वदन् श्रैष्ठ्यम् एव दर्शयति—जितो\ऽस्मि इति । नित्यं त्वद्-वश्यतयैव वर्त इत्य् अर्थः । अजयस्यापि जयेन श्रैष्ठ्यम् एव दृढयति—दुर्जेय इति । इन्द्रियाण्य् एव दुर्जयानि, तज्-जयेनाप्य् अहम् अजेय एव, त्वया तु तानि जित्वाहम् अपि जित इति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एत इति । तेषां प्रोत्साहनार्थं माहात्म्यं निर्दिशन्न् इव श्री-हस्तेनैव दर्शयति । माहात्म्यम् एवाह—ते भ्रातर इति । लोक- इति च किंवदन्त्य्-अपेक्षयैवेदम् उक्तं, वस्तु-विचारे तु लोकपाला अंश-सम्भवा येषां ते स्वयं भगवतो\ऽन्तरङ्ग-परिकरत्वात् यूयं नृ-लोके बत भूरि-भागाः [भा।पु। ७.१०.४८] इत्य्-आदेः । हे राजन्न् ! इति तेभ्यो\ऽपीति तस्य श्रैष्ठ्यं सूचयंस् तं विशेषतः प्रोत्साहयति—अहं तु तवाधीन एवेति वदन् सर्व-श्रैष्ठ्यम् एव विशेषतो दर्शयति—जितो\ऽस्मि इति । नित्यं त्वद्-वश्यतयैव वर्त इत्य् अर्थः । तत्र हेतुः—आत्मा अहम् एव सर्वस्वत्वेन । विद्यते यस्य तेन अन्येषां तु तद्-अभावातिशयेन तद् एव दृढयति—दुर्जय इति । न कृतो मयि नार्पितो\ऽपि आत्मा चित्तं यैः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मवता जितेन्द्रियेण । यद् वा, आत्मा अहम् एव सर्वस्वत्वेन विद्यते यस्य, तेन त्वया अहम् अपि जितः वशीकृतः । अकृतात्मभिर् अजितेन्द्रियैः ॥१०॥
॥ १०.७२.११ ॥
न कश्चिन् मत्-परं लोके तेजसा यशसा श्रिया ।
विभूतिभिर् वाभिभवेद् देवोऽपि किम् उ पार्थिवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां तावद् एवं-भूतस्य तव परैर् अभिभव-शङ्का अकिञ्चनम् अपि मत्-परं कोऽपि नाभिभवितुं प्रभवतीत्य् आह—न कश्चिद् इति । तेजसा प्रभावेण । विभूतिभिः सैन्यादि-सामग्रीभिः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावद् अधुना । एवम्भूतस्य मद्-वशीकर्तुर् लोक-पालांशोद्भव-भ्रातृ-युक्तस्य । मत्-परं मत्-परायण-मात्रं किम् उत युष्मान् इति भावः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोके कस्मिंश्चिद् अपि भुवने नाभिभवेत् । यद् वा, लोके वर्तमानं लौकिकम् अपि, किं पुनर् लोकापेक्षा-रहितम् इत्य् अर्थः । श्रिया सम्पत्त्या देहादि-शोभया वा ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : व्यतिरेक-मुखेन कैमुत्येनापि तद् एव दृढयति—न इति । भुवने कश्चिद् अपि तत्रापि देवो लोक-पालादिर् अपि मत्-पर-मात्रम् अपि, किम् उत युष्मान् इत्य् अर्थः । श्रिया शोभया ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नात्र विपक्षैः स्वाभिभव आशङ्कनीयः । यद् इदम् अहं साटोपं ब्रवीमीत्य् आह—न कश्चिद् इति । मत्-परं यं कञ्चन विभूत्य्-आदि-रहितम् अपि, किं पुनस् त्वाम् ॥११॥
॥ १०.७२.१२ ॥
श्री-शुक उवाच—
निशम्य भगवद्-गीतं प्रीतः फुल्ल-मुखाम्बुजः ।
भ्रातॄन् दिग्-विजयेऽयुङ्क्त विष्णु-तेजोपबृंहितान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयुङ्क्त नियुक्तवान् । विष्णोस् तेजसोपबृंहितान् संवर्धितान् । तेजोपबृंहितान् इति सन्धिर् आर्षः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विष्णोर् विश्व-व्यापकस्य तेजसोपबृंहितान् दिग्विजयार्थं तदानीं निज-तेजो\ऽर्पणाद् इति भावः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवतः सर्वैश्वर्य-पूर्णस्य गीतं प्रीत्या गाथावद् वाक्यम्, इति तस्य सर्व-सिद्धिकरत्वम् उत्साह-विवर्धनत्वादिकं च सूचितम् । विष्णोर् विश्व-व्यापकस्य तस्य तेजसोपबृंहितान् इति दिग्विजयार्थं सर्व-व्यापकतया तदानीं निज-तेजो\ऽर्पणात्, सदैव वा तेषां तादृशत्वात् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतः सर्वैश्वर्य-परिपूर्णस्य गीतं प्रीत्या गाथा-तुल्यं वाक्यम् इति तस्य सर्व-सिद्धि-करत्वम् उत्साह-विवर्धनत्वादिकं च सूचितं । विष्णोर् विश्व-व्यापकस्य तस्य तेजसोपबृंहितान् इति दिग्विजयार्थं सर्व-व्यापकतया तदानीं निज-तेजो\ऽर्पणात् सदैव वा तेषां तादृशत्वात् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेजसा उपबृंहितान् सन्धिर् आर्षः । [तेजसब्दो]{।मर्क्}\ऽदन्तो वा ज्ञेयः ॥१२॥
॥ १०.७२.१३ ॥
सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः ।
दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् ।
प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नकुलादीनां मत्स्यादिभिः सहायैर् यथा-सङ्ख्येन सम्बन्धः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा-सङ्ख्यम् आह—सहदेवं सृञ्जयैः, भीमं मत्स्यैः, नकुलं कैकयैः, सव्यसाचिनं मद्रकैश् च सह इति तत्रातिवात्सल्येन नकुल-सहदेवौ प्रति दक्षिण-प्रतीच्यौ व्यदिशत्, तत्र बहुल-दुर्गम-दुर्जयाभावात् । सर्व-दुर्गम-सञ्चारित्वेन सर्व-जयित्वेन च सव्यसाचिनम् उदीच्यां महा-पर्वतमयत्वेन तस्या अतिदुर्गमत्वात्, दुर्जय-बहुल-देव-गन्धर्वमयत्वाच् च । अत एव सव्येनापि पाणिना धनुर्-गुणाकर्षणादिना तस्य माहात्म्यम् अप्य् उक्तम् । भीमश् च प्राच्यां तत्-समबल-जरासन्ध-जयापेक्षयेति ज्ञेयम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथम् अयुङ्क्त? तद् आह—सहदेवम् इति । तदा सहदेव-नकुलौ प्रति दक्षिण-प्रतीच्योर् आदेशस् तत्र तत्र बहुल-दुर्गम-दुर्जयाभावात्, सव्यसाचिनं च उदीच्यां सर्वत्र भयत्वेन तस्या दुर्गमत्वाद् दुर्जय-बहुल-देशमयत्वाच् च, अत एव सव्यसाचिनम् इति सव्येनापि पाणिना धनुर्-गुण-कर्षणादिना तस्य माहात्म्यं सूचितम् । भीमं च प्राच्यां तत्-सम-बल-जरासन्ध-जयापेक्षया, तत्-तत्-क्रमेण देशो यथोत्तरम् अग्रजत्वेन गौरवाधिक्याद् इति दिक् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथम् अयुङ्क्त तत्राह—सहदेव इति सार्धकेन । तत्रातिवात्सल्याबालत्वेन प्रतीतौ श्री-सहदेव-नकुलौ प्रति दक्षिण-प्रतीच्योर् आदेशस् तत्र तत्र बहुल-दुर्गम-दुर्जयाभावात् सर्व-दुर्गम-सञ्चारित्वेन सर्व-जयित्वेन च निश्चितं सव्यसाचिनम् उदीच्यां महा-पर्वत-मयत्वेन तस्या अतिदुर्गमत्वात् दुर्जय-बहुल-गन्धर्व-देवमयत्वाच् च । अत एव सव्यसाचिनम् इति सव्येनापि पाणिना धनुर्-गुणाकर्षणादिना तस्य माहात्म्यं सूचितम् । भीमं च प्राच्यां तत्-सम-बल-जरासन्ध-जयापेक्षया तत्-तत्-क्रमेणादेशो यथोत्तरम् अग्रजत्वेन गौरवाधिक्यात् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नकुलादीनां मत्स्यादिभिः सहायैः यथा-सङ्ख्येन सम्बन्धः ॥१३॥
॥ १०.७२.१४ ॥
ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा ।
अजात-शत्रवे भूरि द्रविणं नृप यक्ष्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं-भूताय ? यक्ष्यते यागं करिष्यते ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते सहदेवादयस् त्रयः । अजातशत्रवे इति जितो\ऽपि कश्चित् तस्मिन् द्वेषं नाकरोत्, किन्तु भक्तिम् एव, स्वभावतस् तस्य कस्मिंश्चिद् अपि द्वेषाभावात् । विजयस् तु केवलं राजसूयापेक्षयैवेति भावः । "आजिग्युर्" इति पाठे जयतेर् द्विकर्मकत्वान् नृपान् द्रविणं विजित्य इत्य् अन्वयः । हे नृप ! इति स्व-पूर्वेषाम् इदं यशः कर्ण-पुटैर् आपीयताम् इति भावः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ओजसा वेगेनैव विजित्य, यतो वीराः । अजातशत्रव इति विजितो\ऽपि कश्चित् तस्मिन् द्वेषं नाकरोत्, कीन्तु भक्तिम् एव, स्वभावतस् तस्य कस्मिंश्चिद् अपि द्वेषाभावात् । विजयश् च केवलं राजसूयापेक्षयैवेति भावः । हे नृप ! इति स्व-पूर्वजानां माहात्म्यामृतम् इदं कर्ण-पुटेन आपीयताम् इति तं हर्षयति ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ओजसा वेगेनैव विजित्य यतो वीराः । अजातशत्रव इति जितो\ऽपि कश्चित् तस्मिन् द्वेषं नाकरोत् किन्तु भक्तिम् एव स्वभावतस् तस्य कस्मिंश्चिद् अपि द्वेषाभावात् । विजयश् च केवलं राजसूयापेक्षयेति भावः । आजह्रुर् इत्य् अत्राजिग्युर् इति पाठे जयतेर् द्विकर्मकत्वात् नृपान् द्रविणं विजित्य इत्य् अन्वयः । तच् चाजातशत्रवे तद्-अर्थम् इति हे नृप ! इति स्व-पूर्वजानाम् अपूर्वम् इदम् अपि माहात्म्यं कर्णपुटेनापीयताम् इति प्रोत्साहनम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रविणं समर्पयामासुर् इति शेषः ॥१४॥
॥ १०.७२.१५ ॥
श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः ।
आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आद्यो हरिः श्री-कृष्णः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु जरासन्धं निहत्यैव पाण्डवैस् तु दिशो जिताः इति पुराणान्तर-विरोधस्य कः परिहारः ? इति चेद् अत्राह—शिष्टोक्तिर् एवेति गृहाण । सा च—
पूर्वाः कथाः परं ब्रूयुः पराः पूर्वं तथैव च ।
मोहनार्थाय दुष्टानां सर्व-व्यत्यास इष्यते ॥ इति विजयध्वजः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रुत्वा ध्यायतस् तज्-जयोपायं चिन्तयतः । किं वा, दुःखेन चिन्तां कुर्वतः, सप्तम्यां षष्ठी, ध्यायति सतीत्य् अर्थः । किं वा, कर्मणि ध्यायन्तम् आह—हरिर् इति, तस्य चिन्ता-दुःख-हरणात् । आद्यः श्रेष्ठ इति भगवत्ता-प्रकटनात् । यद् वा, भक्तेषु मन्त्रिषु च आद्य उद्धवः । ह हर्षे ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रुत्वा ध्यायत इति नारदेन कथितम् उद्धव-मन्त्रं कथम् अयं श्री-भगवान् नोट्टङ्कयति ? कथं वा प्रकारान्तरं तत्र चिन्तयति ? इति मनसि चिन्तयतः विचारयत इत्य् अर्थः । स्वतो महावर-स्वभावत्वे\ऽपि विष्णु-तेजसोपबृंहितत्वे\ऽपि दिग्-विजये प्रवृत्तस्य तस्य भीमस्य तु तम् अजित्वैवागमनं श्री-भगवत एव रह उपदेशाद् इति गम्यं । ह हर्षे । अत्र टीकायाम् आद्यो हरिर् इत्य् अन्वयः । श्री-कृष्णस्य सर्वाविर्भाव-मूल-रूपत्वं सूचयति, यथा ब्रह्म-संहितायाम्—
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [ब्र।सं। ५.१] इति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आद्यो हरिः ॥१५॥
॥ १०.७२.१६ ॥
भीमसेनोऽर्जुनः कृष्णो ब्रह्म-लिङ्ग-धरास् त्रयः ।
जग्मुर् गिरिव्रजं तात बृहद्रथ-सुतो यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-लिङ्ग-धरा ब्राह्मण-लिङ्ग-धारिणः । यतो यत्र बृहद्रथ-सुतो जरासन्धः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ह इति सूचितम् इतिहासम् आह—ब्राह्मण-लिङ्गानि वेद-पाठादीनि । सभा-पर्वणि तु तपस्विनां ब्राह्मणानां स्नातकानां परिच्छदाम् [म।भा। २.२०.२२] इत्य् उक्तं जरासन्ध-वधार्थं भीमस्यैव गन्तव्ये\ऽर्जुन-गमने हेतुर् अपि तत्रैवोक्तः ।
मयि नीतिर् बलं भीमे रक्षिता चावयोर् जयः ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः ॥ इति ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्म-लिङ्गं स्नातक-विप्र-वेषस् तद्-धराः, तथा च सभा-पर्वणि—
तपस्विनां ब्राह्मणानां स्नातकानां परिच्छदम् ।
आच्छाद्य सुहृदां वाक्यैर् मनोहज्ञैर् अभिनन्दिताः ॥ [म।भा। २.२०.२२] इति ।
अनेन रथादि-परित्यागो ज्ञेयः । ततस् तस्माद् उपायाद् एव हेतोः । किं वा, उपायगदनानन्तरं सद्य एवेत्य् अर्थः । यद् वा, इन्द्रप्रस्थात् जरासन्ध-वधार्थं श्री-कृष्णेन सह भीमस्यैव गन्तव्यतायाम् अर्जुनस्यापि गमने कारणं तत्रैवोद्दिष्टं श्री-भगवता—
मयि नीतिर् बलं भीमे रक्षिता चावयोर् जयः ।
मागधं घातयिष्यामि इष्टिं त्रय इवाग्नयः ॥ [म।भा। २.२०.३०]
इति, एतद् अभिप्रायो नयने व्याजम् एव, वस्तुतस् तु सख्याद् एव । गिरि-व्रजं राज-गृहम् । हे तातेति तेषां ब्रह्म-लिङ्ग-धरत्वादिना प्रेमोद्रेकात् । बृहद्रथस्य सुत इति महा-वीरत्वं सत्-कुल-जन्मादिकं च पितृ-माहात्म्येन सूचितम् । तच् चोक्तं श्री-युधिष्ठिरं प्रति तत्रैव तेन,
अक्षौहिणीभिर् बह्वीभिर् आसीत् समरदर्पितः ।
राजा बृहद्रथो नाम मगधाधिपतिः पुरा ॥
रूपवान् वीर्य-सम्पन्नः श्रीमान् अतुल-विक्रमः ।
नित्यं दीक्षाङ्कित-तनुः शतक्रतुर् इवापरः ॥
तेजसा सूर्य-सदृशः क्षमया पृथिवी-समः ।
यमान्तक-समः कोपे श्रिया वैश्रवणोपमः ॥ [म।भा। २.१७.१३-१५] इत्य्-आदि ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्म-लिङ्गम् अत्र स्नातक-विप्र-वेषः तद्-धराः तथा च सभा-पर्वणि—
तपस्विनां ब्राह्मणानां स्नातकानां परिच्छदम् ।
आच्छाद्य सुहृदां वाक्यैर् मनोज्ञैर् अभिनन्दिताः ॥ [म।भा। २.२०.२२] इति ।
अनेन रथादि-परित्यागो ज्ञेयः त्रय इत्य् अत्र तत इति पाठे ततस् तद्-अनन्तरं जरासन्ध-वधार्थं श्री-कृष्णेन सह भीमस्य गन्तव्यतायाम् अर्जुनस्यापि गमने कारणं श्री-भगवता तत्रैवोद्दिष्टम्—
मयि नीतिर् बलं भीमे रक्षिता चावयोर्जयः ।
मागधं घातयिष्याम इष्टिं त्रय इवाग्नयः ॥ [म।भा। २.२०.३०] इति ।
एतदपि प्रायो जयने व्याज एव वस्तुतस् तु सख्यम् एव कारणं गिरि-व्रजं राज-गृहं हे तात इति तेषां ब्रह्म-लिङ्गत्वादिना कौतुकोद्रेकात् । बृहद्रथस्य सुत इति तद्-वंश-धरत्व-प्रसिद्धि-सूचनया महावीरत्वादिकं सूचितम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.१७ ॥
ते गत्वातिथ्य-वेलायां गृहेषु गृह-मेधिनाम् ।
ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्म-लिङ्गिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहेषु वर्तमानं समयाचेरन् सम्यग् अयाचन्त इत्य् अर्थः ॥१७-१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं जरासन्धम् । आतिथ्य-वेलायाम् आदित्ये दिन-मध्यं गाहमाने । इत्य् अर्थ इति—अतीते लिड् आर्ष इत्य् आशयः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गृहेषु स्थितं । किं वा, गृहेषु गत्वा गृहान्तः प्रविश्य, यतो ब्रह्म-लिङ्गिन आतिथ्य-वेलायां माध्याह्निक-भोजनावसरे सम्यग् अवाक्-पाटवादिना स्तुति-पूर्वकं समयाचेरन्, यतो गृह-मेधिनं गृहि-धर्म-परम्, तत्रापि ब्रह्मण्यम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गृहेषु गत्वा गृहान्तः प्रविश्य यतो ब्रह्मण्यं ब्रह्म-लिङ्गिन इति आतिथ्य-वेलायां माध्याह्निक-भोजनावसरे सम्यग् वाक्य-पाठ-वादिना स्तुति-पूर्वकम् अयाचेरन् प्रयोगश् चायं व्यत्ययो बहुलम् (३.१.८५) इति छान्दस-सूत्रात् याच् चायां हेतुः गृह-मेधिनं गृहि-धर्म-परं तत्रापि ब्रह्मण्यं गृह-मेधिनाम् इति पाठे आतिथ्य-वेलायाम् इत्य् अनुषङ्गः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृह-मेधिनां या आतिथ्य-वेला तस्यां समयाचेरन् समयाचन्त ॥१७-१८॥
॥ १०.७२.१८ ॥
राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् ।
तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् वस्तु ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतिथीन् अभ्यागतान्, तत्राप्य् अर्थिनो याचकान्, तत्रापि दूरम् आगतान् विद्धि, विप्रान् इत्य् अनुक्तिर् अनृत-परिहारार्थम् । अतः प्रयच्छ, तच् च युक्तम् एव तवेत्य् आहुः—हे राजन्न् इति । राज्ञा विप्र-प्रार्थितस्य अवश्य-देयत्वाद् इति भावः । ततश् च तव मङ्गलं भावीत्य् आशयेनाहुः—भद्रं त इति । इयं प्रोत्साहनार्थं ब्रह्म-लिङ्गित्वानुरूपाशीः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतिथीन् तत्राप्य् अर्थिनो याचकान् तत्रापि दूरम् आगतान् विद्धि विप्रान् इत्य् अनुक्तिर् अनृत-परिहारार्थाः, अतः प्रयच्छ । तच् च युक्तम् एव । तवेत्य् आहुः—हे राजन्न् इति । राज्ञा विप्र-प्रार्थितस्यावश्य-देयत्वाद् इति भावः । ततश् च तव मङ्गलं भावीति विप्रोचिताशीर्भिः प्रोत्साहयन्ति । भद्रं त इति भूयाद् इति शेषः । वस्तुतस् तु मोक्षापेक्षयेद् अमुक्तं यद् वयं कामयामहे तत् ते तव भद्रम् एवेत्य् अर्थः । यद् वा, यद् यस्मात् ते त्वत्तो वयं भद्रम् एव कामयामहे यथा\ऽस्माकं भद्रं भवतीति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, किं कामयध्वे तद्-विशेषं ब्रूत अन्यथा याचकैर् युष्माभिर् यदि मत्-प्रियः पुत्र एव कामितः स्यात् तदा तद् अतिममतास्पद-स्वपुत्र-विच्छेद-दुःखं कथं मया सोढव्यं ? तत्राहुः—किं दुर्मर्षम् ? इति । विश्वमित्रादिभ्यो दशरथाद्यैर् अतिप्रिय-पुत्रार्पणस्यापि दृष्टत्वाद् इति भावः । नन्व् एवं प्रार्थ्यमानैः गृहस्थ-लोकैः यदि यूयं तिरस्क्रियध्वे तर्हि किं स्यात् ? तत्राहुः—किम् अकार्यम् इति । ननु यदि मच्-छरीरम् एव युष्मत्-कामितं स्यात् तदा तद्-अहन्तास्पदं कथं देयं ? तत्राहुः—किम् अदेयम् इति । दध्य्-अड्डादौ देव-प्रार्थनायां स्व-शरीर-दानस्यापि दृष्टत्वाद् इति भावः । ननु यदि यूयम् एव मच्-छत्रवो भवथ, तदा शत्रुभ्यस् तत् कथं देयं ? तत्राहुः—कः परः ? इति । सम-दर्शिनां ज्ञानिनां न हि त्वय्य् अपि विषम-दर्शन-लक्षणम् अज्ञानं सम्भवेद् इति भावः ॥१९॥
॥ १०.७२.१९ ॥
किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः ।
किं न देयं वदान्यानां कः परः सम-दर्शिनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इदं कामयामह इति विशेषो निर्दिश्यताम्, अन्यथा यस्य स्वयं-कल्पः पुत्रादेर् वियोगो दुःसहः स कथं देयः, तथा राज-मण्डनं किरीटाद्य्-अदेयं यत् तद् भिक्षुभ्यः कथं देयम् ? तथातिरम्यं रत्नाभरणादि पुत्रादि-योग्यं कथं परस्मै देयम् ? इति चेद् अत आहुः—किं दुर्मर्षम् इत्य्-आदि । अथ दृष्टान्तत्वेनार्थान्तरम् आहुः—किम् अकार्यम् इति । यथा असाधूनाम् अकार्यं नास्ति, तथा तितिक्षूणां दुर्मर्षं दुःसहं नास्ति । वदान्यानाम् अत्युदाराणाम् अदेयं नास्ति । सम-दर्शिनां परश् च नास्ति । अतः किं विशेष-निर्देशेनेत्य् अर्थः ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स आक्षिपति—नन्व् इति । विशेषो याच्य-वस्तु-भेदः । अन्यथा निर्देशाभावे । अतो\ऽत्र दुर्मर्षत्वे यतस् तितिक्ष्व्-आदीनाम् इत्थं गतिर् अतो हेतोः । इत्य् अर्थ इति—देव-भेद-कथनं त्व् अब्रह्मण्याग्रे एवोचितं न तु तव ब्रह्मण्यस्यापीति भावः । यद् वा, असाधुभिः वासुदेवः साधुः साधयिता येषां तेषां किम् अकार्यं कर्तुम् अशक्यम् ? अपि तु सर्वम् एव शक्यम् एवेत्य् अर्थः ।
ननु किम् इच्छथ तद् भूत अन्यथा यदि मत्-पुत्र एव वः कामितः स्यात् तर्हि स ममतास्पद-पुत्र-विच्छेदः कथं सोढव्यः ? तत्राहुः—किं दुर्मर्षम् ? इति । विश्वामित्रादिभ्यो । दशरथादि-कर्तृक-पुत्रादि-समर्पणात् । नन्व् एवं प्रार्थयन्तो यदि गृह-जनैस् तिरस्क्रियध्वे यूयं तर्हि किं स्यात् ? तत्राहुः—किम् अकार्यम् ? इति । ननु यदि मच्-छरीरम् एव याचथ तर्हि तत् कथं देयं ? तत्राहुः—किम् अदेयम् ? इति । दध्यगादौ देवेभ्यः शरीर-दानस्यापि दृष्टत्वात् । ननु यदि मच्-छत्रवो भवथ तर्हि शत्रुभ्यः कथं देयं ? तत्राहुः—कः परः इति । सम-दर्शिनां ज्ञानिनां न हि त्वयि विषमय-दर्शन-रूपम् अज्ञानम् अस्तीति भावः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं दुर्मर्षम् ? इत्य्-आदिना तितिक्षा वदान्यता समदर्शिता च त्वयास्तीत्य् अस्मत्-कामितं त्वं दातुम् अर्हस्य् एवेति भावः । इयं याचक-रीत्या प्राग्-वाक्-चातुर्येण स्तुतिः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं दुर्मर्षम् इत्य्-आदिना तितिक्षा वदान्यता समदर्शिता च त्वय्य् अस्ति इत्य् अस्मात् कामितं त्वं दातुम् अर्हस्य् एवेति भावः । यदि च ता न सन्ति तदा तु दातुं नार्हस्य् एवेत्य् आह—किम् अकार्यम् ? इति । इयं च याचक-रीत्या प्राक् स्तुति-निन्दा-चातुरी ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, किं कामयध्वे तद्-विशेषं ब्रूत अन्यथा याचकैर् युष्माभिर् यदि मत्-प्रियः पुत्र एव कामितः स्यात् तदा तद् अतिममतास्पद-स्वपुत्र-विच्छेद-दुःखं कथं मया सोढव्यं ? तत्राहुः—किं दुर्मर्षम् ? इति । विश्वमित्रादिभ्यो दशरथाद्यैर् अतिप्रिय-पुत्रार्पणस्यापि दृष्टत्वाद् इति भावः । नन्व् एवं प्रार्थ्यमानैः गृहस्थ-लोकैः यदि यूयं तिरस्क्रियध्वे तर्हि किं स्यात् ? तत्राहुः—किम् अकार्यम् इति । ननु यदि मच्-छरीरम् एव युष्मत्-कामितं स्यात् तदा तद्-अहन्तास्पदं कथं देयं ? तत्राहुः—किम् अदेयम् इति । दध्य्-अड्डादौ देव-प्रार्थनायां स्व-शरीर-दानस्यापि दृष्टत्वाद् इति भावः । ननु यदि यूयम् एव मच्-छत्रवो भवथ, तदा शत्रुभ्यस् तत् कथं देयं ? तत्राहुः—कः परः ? इति । सम-दर्शिनां ज्ञानिनां न हि त्वय्य् अपि विषम-दर्शन-लक्षणम् अज्ञानं सम्भवेद् इति भावः ॥१९॥
॥ १०.७२.२० ॥
योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।
नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अर्थिने धीरेण मुद्गलादिवत्-प्राणा अपि न वञ्चनीया इत्य् आशयेनाहुः—योऽनित्येन इति । नाचिनोति न सम्पादयति स वाच्यः स निन्द्यः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुषेण यशः सम्पाद्यम् आह—किं च इति । वाच्यो निन्द्यः । वाच्यस् तु कुत्सिते हीने वचनार्हे च वाच्यवत् इति मेदिनी ॥२०-२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, सतां सद्भिर् गेयम्, इति लोक-द्वय-मङ्गलत्वेन महा-वाणिज्यं सूचितम् । स्वयं स्वत एव कल्पः समर्थो\ऽपि न त्व् अन्य-साहाय्येन । यद् वा, स्वयम् एव, न त्व् अन्य-प्रेरणादिना विनेति, स एव शोच्यः शोक-योग्यः, स इति पुनर् उक्तिस् तस्यैव शोच्यता-निर्धारार्था ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ केवलां निन्दाम् अपि दर्शयन्ति—य इति । ध्रुवं नित्यं । किं च, सतां सद्भिर् गेयम् इति लोक-द्वय-मङ्गलत्वेन महा-वाणिज्यं सूचितं स्वयं स्वत एव कल्पः समर्थो\ऽपि न त्व् अन्य-साहाय्येन । यद् वा, स्वयं पर-प्रेरणं विना नाचिनोति इत्य् अर्थः । दोष-दर्शिनां वाच्यः अदोष-दर्शिनाम् अपि स एव शोच्यः शोक-योग्यः स इति पुनर् उक्तिस् तस्यैव शोच्यता-निर्धारणार्थम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाचिनोति न सम्पादयति ॥२०॥
॥ १०.७२.२१ ॥
हरिश्चन्द्रो रन्तिदेव उञ्छ-वृत्तिः शिबिर् बलिः ।
व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्वामित्रार्थानृण्याय हरिश्चन्द्रो भार्यात्मजादि-सर्वं विक्रीय स्वयं चाण्डालतां प्राप्तोऽप्य् अनिर्विण्णः सहायोध्या-वसिभिर् जनैः स्वर्गं गतः । रन्तिदेवः स-कुटुम्बोऽष्ट-चत्वारिंशद् अहान्य् अलब्धोदकोऽपि कथञ्चिल् लब्ध्वान्नौदकाद्य्-अर्थिभ्यो दत्त्वा ब्रह्म-लोकं गतः । उञ्छ-वृत्तिर् मुद्गलः षण्-मासं सीदत्-कुटुम्बोऽप्य् आतिथ्य-दानेन ब्रह्म-लोकं गतः । शिबिः शरणागत-कपोत-रक्षणाय स्व-मांसं श्येनाय दत्त्वा दिवं गतः । बलिः सर्वस्वं ब्राह्मण-वेष-धारिणे हरये दत्त्वा तम् एव आत्म-साच् चकार । कपोतश् चातिथये व्याधाय कपोत्या सहात्म-मांसं दत्त्वा विमानेन दिवं गतः । व्याधस् तयोः सत्त्वं वीक्ष्य स्वयम् अतिनिर्विण्णो महा-प्रस्थाने वनाग्नि-दग्ध-देहो निष्कल्मषो दिवम् आरुरोह । एवम् अन्ये च बहवोऽध्रुवेण शरीरेण ध्रुवं लोकं गता इति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र च सतां व्यवहारं प्रमाणयन्ति—हरिश्चन्द्र इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वामित्रानृण्याय हरिश्चन्द्रो भार्यात्मजादि सर्वं विक्रीय स्वयं चाण्डालतां प्राप्तो\ऽप्य् अनिर्विण्णः सह अयोध्या-वासिभिः जनैः स्वर्गं गतः । रन्तिदेवः सकुटुम्बो\ऽप्य् अष्टचत्वारिंशद् अहान्य् अलब्धोदको\ऽपि कथञ्चिल् लब्धान्नोदकादिकम् अर्थिभ्यो दत्त्वा ब्रह्म-लोकं गतः । शिबिः शरणागत-कपोत-रक्षणाय स्व-मांसं श्येनाय दत्त्वा स्वर्गं गतः । बलिः सर्वस्वं विप्र-वेष-धारिणे हरये दत्त्वा तं वशे चकार । कपोतश् चातिथये व्याधाय कपोत्या सहात्म-मांसं दत्त्वा विमानेन दिवं गतः । व्याधस् तयोः सत्त्वं वीक्ष्य स्वयम् अपि निर्विण्णो महा-प्रस्थाने वनाग्नि-दग्ध-देहो दिवम् आरुरोह । एवम् अन्ये\ऽप्य् अध्रुवेण एव शरीरेण ध्रुवं चिर-काल-स्थायि-लोकं गताः ॥२१॥
॥ १०.७२.२२ ॥
श्री-शुक उवाच—
स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्या-हतैर् अपि ।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्या-हतैर् ज्या-घात-किणाङ्कितैः दृष्ट-पूर्वान् द्रौपदी-स्वयंवरादिषु ॥२२-२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् अर्थिनः । प्रकोष्ठैः मणिबन्ध-कूर्परान्तरैः । प्रकोष्ठो मणिबन्धस्य कूर्परस्यान्तरे\ऽपि च इति मेदिनी । किणश् चिह्नं व्रणादीनाम् इति धरणिः । आदिना रुक्मिणी-विवाहादि-ग्रहः । स्वरैर् गम्भूरैः । आकृतिभिर् हृष्ट-पुष्ट-सुन्दराकारैः । क्षत्र-बन्धून् विप्र-वेशेन याचन-परत्वेन निकृष्ट-क्षत्रियान् ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वरैर् गभीरैः, इति याच्ञा-सिद्ध्य्-अर्थं युगपत् त्रयाणाम् एवोक्तिर् ज्ञेया । आकृतिभिर् हृष्ट-पुष्ट-प्रकाण्ड-बलिष्ठ-सुन्दराकारैः, स्वरादीनां यथोत्तरं राजन्य-ज्ञान-हेतुत्वे श्रैष्ठ्यम्, राजन्य-बन्धुम् इति विप्र-वेशेन याच्ञया च निकृष्ट-क्षत्रिय-मननात्। एवम् अग्रे\ऽपि ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वरैर् गम्भीरैः इति याच्ञा-सिद्ध्य्-अर्थम् अङ्गाङ्गि-भावे तत्र पाणौ मुक्तिर् ज्ञेया । आकृतिभिर् हृष्ट-पुष्ट-बलिष्ठ-सुन्दराकारैः स्वरादीनां यथोत्तरं तज्-ज्ञान-हेतुत्वे श्रैष्ठ्यं राजन्य-बन्धून् इति विप्र-वेषेण याच्ञया निकृष्ट-क्षत्रिय-मननात् । एवम् अग्रे\ऽपि ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्याहतैर् ज्याघात-कठोरीकृतैः । राजन्य-बन्धून् विप्र-वेषेण याचकीभूतत्वान् निकृष्ट-क्षत्रियान् दृष्ट-पूर्वान् द्रौपदी-स्वयंवरादिषु ॥२२-२३॥
॥ १०.७२.२३ ॥
राजन्य-बन्धवो ह्य्1 एते ब्रह्म-लिङ्गानि बिभ्रति ।
ददानि2 भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवाभिप्रेत्याह—राजन्य- इति । एते\ऽर्थिनः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मानं देहम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इदम् अप्य् अचिन्तयद् इत्य् आह—राजन्य- इति । बन्धवो\ऽपीत्य् अत्र "बन्धवो हि" इति पाठः क्वचित् ददामीत्य् अत्र "ददानि" इति । आत्मानं देहम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.२४-२५ ॥
बलेर् नु3 श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा ।
ऐश्वर्याद् भ्रंशितस्यापि विप्र-व्याजेन विष्णुना ॥
श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विज-रूपिणे ।
जानन्न् अपि महीं प्रादाद् वार्यमाणोऽपि दैत्य-राट् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रस्य श्रियं जिहीर्षता विप्र-व्याजेन विष्णुना भ्रंशितस्यापि बलेः । नु अहो । "न" इति पाठे न श्रूयते किं, अपि तु श्रूयत इति । तं श्लाघते—विष्णव इति । शुक्रेण वार्यमाणोऽपि । अत एव विष्णुर् इति जानन्न् अपि ॥२४-२५॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : *"***न" इति पाठे काकूक्त्या श्रूयत एव इत्य् अर्थः । कश्यपाज् जातस्यास्य विप्र-व्याजेन इति । तर्हि तद् इन्द्रस्यापि प्रसज्जेत क्षत्रिय-वृत्त्या त्व् इन्द्रस्य तल्-लुप्तं चेत् तर्ह्य् उपेन्द्र-लिप्सया वामनस्य चैतद् अलुप्तत्वे\ऽपि दम्भमय-विप्रत्वम् एव गम्यत इति भावः ॥२४॥ तं बलिम् । अत एव वार्यमाणत्वे\ऽप्य् अनिवृत्तेर् एव । शुक्रेणेति शेषः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एते किल शत्रव इति चेत् तर्हि अतीव सम्यग् एव ज्ञात्वापि शत्रुभ्यो विप्र-वेष-मात्रेणाभीषदानतः श्री-बलेर् इव कीर्ति-विशेष-सिद्धिर् इत्य् आह—बलेर् इति द्वाभ्याम् । दिक्षु वितता दश-दिग्-व्यापिनीत्य् अर्थः, अकल्मषा विशुद्धा । यद् वा, अन्येषाम् अपि श्रवणादिना कलुष-नाशिनी । विष्णुना इति पश्चात् त्रिविक्रम-मूर्त्या विश्व-व्यापनाभिप्रायेण । कीर्तिम् एव निर्दिशति—विष्णव इति । प्रकर्षेण श्रद्धयात्मार्पणादि-दानात्, यतो दैत्य-राट् ब्रह्मण्यत्वादिना दैत्य-कुल-श्रेष्ठः । किं वा, दैत्य-राड् अपि, किं पुनः क्षत्रिय इत्य् अर्थः । महीम् इति श्री-वामन-देवार्थित-त्रिपद-मात्र-भूमेः सङ्कल्पाभिप्रायेण, वस्तुतस् तु त्रिलोकीम् एव प्रादात् ॥२४-२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एते किल शत्रव इति चेत् तर्ह्य् अतीव सम्यग् एव ज्ञात्वापि शत्रुभ्यो विप्रवेष-मात्रेण विप्रत्वम् अभ्युपगम्याभीष्ट-दानतः श्री-बलेर् इव कीर्ति-विशेष-सिद्धेर् इत्य् आह—बलेर् इति युग्मकेन । विप्र-व्याजेन इत्य् अत्र कश्यपादिति-जातत्वेनास्य विप्रत्वम् एव सङ्गच्छत इति चेत् तर्हीन्द्रस्यापि तत् प्रसज्जेत क्षत्रिय-वृत्त्या त्व् इन्द्रस्य तल्-लुप्तं चेत् तर्ह्य् अन्त-रूपेन्द्रत्व-लिप्सया वामनाख्यस्य चैतन्य-लुप्तम् अपि दम्भमयम् एव विप्रत्वं गम्यत इति भावः । विष्णुनेति पश्चात् सर्व-व्याप्ति-स्मरणेन कीर्तिम् एव निर्दिशति—विष्णव इति । प्रकर्षेण स-श्रद्ध-मात्मार्पण-पर्यन्तम् अदात्, यतो दैत्य-राट् ब्रह्मत्वादिना दैत्य-श्रेष्ठः महीम् इति प्रथमत एव श्री-वामन-देवस्य छलन-ज्ञानाभिप्रायेण ॥२४-२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि कपटिभ्यः एतेभ्यः किं भिक्षित-दानेन तत्राह—बलेर् इति । विप्र-व्याजेन कपटि-विप्रेण इत्य् अर्थः । अहो नेति पाठेन श्रूयते किम् अपि तु श्रूयत एव । इन्द्रस्येति बलेरित्यस्य विशेषणं ततश् च विष्णवे विष्णुर् इति जानन्नपि शुक्रण वार्यमाणो\ऽपि ॥२४-२५॥
॥ १०.७२.२६ ॥
जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्र-बन्धुना ।
देहेन पतमानेन नेहता विपुलं यशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पतमानेन पतता क्षत्र-बन्धुना देहेन ब्राह्मणार्थाय विपुलं यशो नेहता नेहमानेन असंपादयता को न्व् अर्थः ? न कोऽपीत्य् अर्थः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीवता क्षत्र-बन्धुना को न्व् अर्थः ? इति सम्बन्धः । इत्य् अर्थ इति—अर्थावगतो\ऽर्थ इति ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एतर्हि त्व् अप्राणा एव याच्याः, न तु राज्यादय इति चेत् तर्हि देहो\ऽयं सफल एवाभूद् अन्यथा तु व्यर्थ एवेत्य् आह—जीवता इति । तृतीयान्तं सर्वं देहस्यैव विशेषणम् । किं वा पतता देहेन कृत्वा नेहमानेन क्षत्र-बन्धुना जीवता को न्व् अर्थः ? इत्य् अन्वयः । क्षत्रिय-बन्धुना इति क्षत्रिय-कुलोत्पन्नेन इत्य् अर्थः । किं वा, ब्राह्मणार्थासम्पादनेन अधमत्वात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एते तर्हि प्राणान् एव याचेरन्, न तु राज्यादीन् इति चेद् दिष्ट्या देहो\ऽयं सफल एव वृतः तद् अन्यथा व्यर्थ एवेत्य् आह—जीवता इति । ब्राह्मणार्थाय इति श्री-बल्य्-अनुसारेण तद्-वेषेष्व् अपि तद्-अभ्युपगमात् तृतीयान्तं सर्वं देहस्य विशेषणं । किं वा, पतता देहेन कृत्वा नेहमानेन क्षत्र-बन्धुना जीवता को\ऽन्वर्थः ? इत्य् अन्वयः । क्षत्र-बन्धुनेति क्षत्रिय-कुलोत्पन्नेनेत्य् अर्थः ॥ किं वा, ब्राह्मणार्थासम्पादनेनाधमत्वात् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पतमानेन पतन-शीलेन देहेन ताच्छील्ये शानच् । विपुलं यशो न ईहता नेहमानेन क्षत्र-बन्धुना को न्व् अर्थः ? न को\ऽपि एतादृशेन क्षत्रियाधमेन प्रयोजनं नास्तीत्य् अर्थः ॥२६॥
॥ १०.७२.२७ ॥
इत्य् उदार-मतिः प्राह कृष्णार्जुन-वृकोदरान् ।**
हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरोऽपि वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं निश्चित्याह—हे विप्रा इति ॥२७-२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वो युष्मभ्यम् ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उदारा दान-शीला विचारेण महती वा मतिर् यस्य सः । अतः प्रकर्षेण प्रसन्न-मुखत्वादिना आह । कृष्णादीनां तत्-तत्-क्रमेणोक्तिर् यथा-पूर्वं वाक्-चातुर्यादौ श्रैष्ठ्यात् । किं वा, अर्जुनः कृष्णम् अन्वेतु भीमो\ऽन्वेतु धनञ्जयम् इति सभा-पर्वोक्त-श्री-युधिष्ठिरादेशानुसारेण स्थितेः । विप्रा इति विप्र-बुद्ध्यैव दाने प्रवृत्तेः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उदारा दान-शीलाः विचारेण महती वा मतिर् यस्य । अतः प्रकर्षेण प्रसन्न-मुखत्वादिना आह—श्री-कृष्णादीनां तत्-तत्-क्रमेणोक्तिः यथा-पूर्वं वाक्-चातुर्या-श्रैष्ठ्यात् अर्जुनः कृष्णम् अन्वेतु भीमो\ऽन्वेतु धनञ्जयम् इति सभा-पर्वोक्त-श्री-युधिष्ठिरादेशानुसारेण स्थितश् च । विप्रा इति पूर्वाभिप्रायं सोपहासं च ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तदैव सुर-तरोर् वैलक्षण्येन तादृशानुग्रह-वचनादिकम् उदाहृत्य प्रसादम् एव विशिष्य दर्शयति— श्री-भगवान् उवाच इत्य्-आदिना । लोकपाला अंश-सम्भवा [१०.७२.१०] येषां ते । आत्मा अहम् एवास्मि सेव्यत्वेन यस्य तेन मत्-परम-भक्तेनेत्य् अर्थः । न कृतः मयि नार्पित आत्मा यैस् तैः ॥२७-४८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् एवं निश्चित्य ॥२७-२९॥
॥ १०.७२.२८ ॥
श्री-भगवान् उवाच—
युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।
युद्धार्थिनो वयं प्राप्ता राजन्या नान्य4-काङ्क्षिणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतो\ऽग्रे क्वचित् पुस्तकेषु श्लोक-द्वयं प्रक्षिप्तम् अपि दृश्यते किं देवा इत्य्-आदि-रूपम् । द्वन्द्वशो द्वन्द्व-युद्धम् । द्वन्द्वश इति द्वन्द्व-शब्दाच् छस्-प्रत्यय आर्षः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तस्य प्रतिज्ञां प्राप्य स्वयम् एव प्रागल्भ्याद् याचते—युद्धम् इति । राजेन्द्र इति तव युद्धं सम्मतम् एवेति साम्ना तत्र प्रवर्तयति । यदि मन्यसे इच्छसीति चातुर्यात् तद् एव द्रढयति । युद्धार्थित्वे हेतुः—राजन्या इति । अतो विप्रवद् अन्य-काङ्क्षिणो न भवामः । पाठान्तरे युद्धेतर-काङ्क्षिण इति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तस्य प्रतिज्ञां प्राप्य स्वयम् एव प्रागल्भ्यात् तं भिक्षेत वृकोदर इत्य् उद्धव-वाक्यम् अतिक्रम्यापि याचेत—युद्धम् इति । हे राजेन्द्र इति तव युद्धं सम्मतम् एवेति साम्ना तत्र प्रवर्तयति । यदि इति निश्चये । ततश् च यदि निश्चितम् एव मन्यसे इच्छसीति चातुर्यात् तद् एव दृढयति युद्धार्थित्वे हेतुः—राजन्या इति । अतो विप्रवद् अन्न-काङ्क्षिणो न भवामः । "अन्य-" इति पाठे युद्धेतर-काङ्क्षिण इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.२९ ॥
असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् ।
अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राजन्यताम् एव प्रपञ्चयति—असाव् इति ॥२९-३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदम्-एतदाव् अङ्गुलि-निर्दिष्ट-परौ ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि निश्चये । मात्र संशयं कुर्व् इत्य् अर्थः । कृष्णम् इति त्वत्-प्राणाकर्षकम् इति भावः । यतस् तव रिपुम्, अतस् त्वद्-वधार्थं मयैव एताव् आनीताव् इति भावः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि निश्चये । मात्र संशयं कुर्व् इत्य् अर्थः । कृष्णम् इति त्वद्-विध-प्राणाकर्षकम् इति भावः । यतस् ते रिपुम्, अतस् तद्-वधार्थं मयैवेतौ आनीताव् इति भावः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.३० ॥
एवम् आवेदितो राजा जहासोच्चैः स्म मागधः ।**
आह चामर्षितो मन्दा5 युद्धं तर्हि ददामि वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वो युष्मभ्यम् ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उच्चैर् जहास अवज्ञया भयाभावाच् च, यतो राजा क्षत्रिय-वरः । तत्रापि मागधो जरासन्धः । अमर्षितो युद्धार्थं महा-क्रुद्धः सन् । यद् वा, अयम् एवोच्चैर् हासे हेतुः—अतिक्रोधेन तद्-उदयात् । मन्दाः ! हे स्वल्प-वीर्याः ! इत्य् अर्थः । तत्त्वतस् तु स्थिर-बुद्धयः, अ-कार-प्रश्लेषेण सर्वोत्कृष्टा वा ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उच्चैर् जहास तेषां ब्रह्म-वेषादि-दैन्य-दर्शनेनान्तः सन्तोषाद् उपहासाच् च । राजा इति तन्-मानिनस् तत्रासङ्गोचं दर्शयति—मागध इति । तत्र अमर्षा योग्यत्वे\ऽपि मगध-देशजानां तत्-स्वभावत्वाद् इति भावः । मन्दाः ! हे स्वल्प-वीर्याः! तत एव ब्राह्मण-वेषेण गमनाद् इति भावः । तत्त्वतस् तु स्थिर-बुद्धय इत्य् अर्थः । अ-कार-प्रश्लेषेण सर्वोत्कृष्टा इति वा ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जहास इति ब्रह्म-वेष-रूप-दैन्येनान्तः सन्तोषात् । मन्दाः ! इति हे दुर्बलाः ! युद्ध-परिश्रमेणालं मच्-छिर एव कथं न गृह्णीत ? इति भावः । याचक-विप्र-वेष-धारणाद् एव युष्माकं शौर्यम् अस्तीभूतम् एव तद् अपि यदि तन् न जिहासथ तर्हि युद्धं ददामि । "अमन्दाः" इत्य् अर्थस् तु वाग्-देव्याः ॥३०॥
॥ १०.७२.३१ ॥
न त्वया भीरुणा योत्स्ये युधि विक्लव-तेजसा6 ।
मथुरां स्व-पुरीं त्यक्त्वा समुद्रं शरणं गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो मद्-भिया समुद्रं शरणं गतः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णं प्रत्य् आह—न त्वय इति । विक्लवम् अस्थिरं चेतो यस्य तेन ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भीरुत्वाद् एव युधि विक्लवं व्याकुलं दीनं वा चेतो यस्य तेन, अत एव मथुराम् इत्य्-आदि, तत्त्वतस् तूभयत्राप्य् अ-कार-प्रश्लेषेण "अभीरुणा" "अयुधि" युद्धाभावे सत्य् एव विक्लव-चेतसा, अतः सर्व-निर्जयेन नैश्चिन्त्याद् विचित्र-क्रीडार्थं स्व-पुरीम् अपि हित्वा समुद्रम् एव शरणं गृहं प्राप्तः कृतवान् इति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गतो यस् त्वाम् इति शेषः । तत्त्वतस् तु "अभीरुणा" इति छेदः, अभीरुत्वाद् एव विचित्र-क्रीडार्थं स्व-पुरीम् अपि हित्वा समुद्रं शरणं गृहं प्राप्तः कृतवान् इति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभीरुणा महा-बलवता त्वया सह युधि विक्लवेन विह्वलेन चेतसा युक्तो\ऽहं न योत्स्ये स्व-पुरीम् अपि त्यक्त्वा स्वेच्छयैव समुद्रं शरणं स्व-गृहं गत इति वास्तवो\ऽर्थः ॥३१-३२॥
॥ १०.७२.३२ ॥
अयं तु वयसातुल्यो नातिसत्त्वो न मे समः ।
अर्जुनो न भवेद् योद्धा भीमस् तुल्य-बलो मम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वयसाप्य् अतुल्यो नाति-सत्त्वो नातिबलश् च न च देहेन मय समोऽतोऽर्जुनो योद्धा न भवेत् । भीमस् तु भवेत् । यतो मम तुल्य-बलः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयम् अर्जुनः अतुल्यः । नातिसत्त्वः न प्रशस्त-पराक्रमः, मत्-तुल्य-गदा-युद्धावित्त्वात् । अतो न मे मया सदृशः । असमत्वाद् एव योद्धा नेति सम्बन्धः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतिसत्त्वो महा-बलो\ऽपि वयसा तुल्यो न भवतीति तत्त्वार्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतिसत्त्वो महाबलो\ऽपि वयसा तुल्यो न भवतीति तत्त्वार्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.३३ ॥
इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।
द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रादाय दत्त्वेत्य् अर्थः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भारतीय-बाहु-युद्ध-विरोधस् तु महतीं पूज्यां गदां वाचं प्रादाय भीमाय भीमस् तुल्य-बलो मम [३२] इत्य् उक्तेः । द्वितीयां द्वैरथायोग्यां स्वयं को\ऽर्थः स्वयं भगवते न त्वया भीरुणा योत्स्ये [३१] इत्य् उक्तेर् आदाय दत्त्वेति । पुराद् गिरि-व्रजात् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण प्रसन्न-मुखत्वादिना आ सम्यक् हस्ते\ऽर्पणादिना दत्त्वा, महती भीमस्य योग्यत्वात्। इति धर्म-युद्धापेक्षया निष्कपटत्वं सूचितम् । बहिर् निर्गमः स-मेखलार्थम्, पौराणां साक्षाद् दुःख-परिहारार्थं वा ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण प्रसन्न-मुखत्वादिना आ सम्यक् हस्ते\ऽर्पणादिना दत्त्वा महतीं भीमसेनस्य योग्यत्वात्, अनुत्क्षेप्येयम् इति मननाद् वा । बहिर् निर्गमः समेखलार्थं पौर-जनेषु स्व-महिम-कौतुक-दर्शनार्थं च ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महतीम् इत्य् अतिथेस् तव तुष्टिर् मद्-अपेक्षणीयेति "बृहतीं त्वं गृहाण, मम तु यथा तथा गदयापि युद्धं सेत्स्यति" इति गूढ-गर्व-व्यञ्जिका तस्योक्तिर् अभूद् इति भावः ॥३३॥
॥ १०.७२.३४ ॥
ततः स-मेखले वीरौ संयुक्ताव् इतरेतरम् ।
जघ्नतुर् वज्र-कल्पाभ्यां गदाभ्यां रण-दुर्मदौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समेखले युद्धाङ्गणे ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पुरा बहिर्-गमनोत्तरम् । मेखला परितः कृता मृण्मय-मर्यादा, तया सहिते । गदाभ्यां वाग्भ्यां निष्ठुरोक्तिभ्याम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो निर्गमाद् अनन्तरम् एव संयुक्तौ युद्धे\ऽभिनिविष्टौ सन्तौ, मिथो जघ्नतुः, यतो रणे दुर्मदौ अतिमत्तौ ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : संयुक्तौ युद्धे\ऽभिनिविष्टौ सन्तौ मिथो जघ्नतुः यतो रणे दुर्मदौ अतिमत्तौ ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-मेखले युद्धाङ्गणे ॥३४॥
॥ १०.७२.३५ ॥
मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च ।
चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मण्डलानि गदा-युद्ध-गति-भेदान् । सव्यं दक्षिणं च यथा भवति,x\ऽ तथा । रङ्गिणो रङ्ग-गतयोर् नटयोर् इव इति निर्भयत्वेनोपमा ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नटयोर् इव इत्य् उक्तेन शस्त्र-युद्धम् इति । अन्यथा दृष्टान्त-वैषम्यापत्तेः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एव अपि । मण्डलेषु च कदाचिद् दक्षिणम् अपि, च-काराद् अभिमुखादिकं चरतोः, यतो रङ्गिणोर् युद्ध-रङ्गवतोः । अत एव शुशुभे ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एव च इति कदाचिद् अभिमुखादिकम् अपि चरतोः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मण्डलानि गदा-युद्ध-गति-भेदान् सव्यं दक्षिणं च यथा स्यात्, तथा नटयोर् इति निर्भयत्वेन सदा शास्त्र-विचक्षणत्वेन चोपमा ॥३५॥
॥ १०.७२.३६ ॥
ततश् चट-चटा-शब्दो वज्र-निष्पेष-सन्निभः ।
गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चट-चटा इति गदयोः परस्पराघात-शब्दानुकरणम् । वज्रस्य निष्पेषः पातस् तत्-सदृशः । युध्यतोर् दन्तिनोर् दन्ताघात-शब्द इव शुशुभे ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो युद्ध-प्रवृत्त्य्-अनन्तरम् । गदयोः क्षिप्तयोर् अन्योन्यं निष्ठुरोक्त्योः सत्योश् चटचटा-शब्दस् तल-ताडनोत्थ एव ज्ञेयः ॥३६॥।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्षिप्तयोः प्रहारार्थम् अन्योन्यं प्रयुक्तयोः । हे राजन्न् इति विस्मयाद् युद्ध-कौतुकाद् वा ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : टीकायां तत्-सदृशस् तच्-छब्द-सदृशः क्षिप्तयोः प्रहरणार्थम् अन्योन्यं प्रयुक्तयोः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चटचटा इति गदयोः परस्पराघात-शब्दानुकरणम् । वज्रस्य निष्पेषः पातस् तत्-सदृशः युध्यमानयोः दन्तिनोः दन्ताघात-शब्द इव शुशुभे ॥३६॥
॥ १०.७२.३७ ॥
ते वै गदे भुज-जवेन निपात्यमाने
अन्योन्यतोऽंस-कटि-पाद-करोरु-जत्रुम् ।
चूर्णी-बभूवतुर् उपेत्य यथार्क-शाखे
संयुध्यतोर् द्विरदयोर् इव दीप्त-मन्व्योः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अंस-कट्य्-आदीन् उपेत्य । दीप्तो मन्युर् ययोस् तयोर् द्विरदयोर् गजयोर् अर्क-शाखाभ्यां समं युध्यतोस् ते यथा चूर्णी-भवतस् तद्वत् ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गदे तयोर् गृहीते । सन्ध्य्-अभाव आर्षः । भुज-जवेन पाणि-वेगेन । निपात्यमाने अधः क्रियमाणे । चूर्णी-बभूवतुर् निष्फले बभूवतुः । पूर्वोक्त-प्रशस्त-वाचौ संरम्भावेशात् अंस-कट्य्-आदीन् उपेत्य "अहं ते\ऽंसं भजामि, अहं ते कटिम्" इत्य्-आद्य् उक्त्वा । अर्क-शाखा-दृष्टान्तस् तु नाश-मात्र एव ज्ञेय इत्य् एवं परिहार्यः । एवम् अग्रे\ऽपि ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव गायन्न् इव दीर्घ-च्छन्दसा युद्धं वर्णयति—ते इति द्वाभ्याम् । वै अपि । ते वज्र-सार-तुल्ये अपि, अंसादिषु नितरां पात्यमाने सत्यौ उपरि एव एत्य प्राप्य, नपुंसकत्वाभाव आर्षः, यथार्क-शाखे तथा चूर्णीबभूवतुर् इति तयोर् अकिञ्चित्करत्वं सम्यक् चूर्णीत्वादिकं चोक्तम् । अन्यत् तैर् व्याख्यातम् । तत्र गजयोर् अर्क-शाखाभ्यां समं युध्यतोर् इत्य् अभूतोपमा ज्ञेयेति । तयोर् द्वन्द्व-युद्धार्थं गृहीतयोर् अनिर्वचनीययोर् वा ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते वज्र-सार-तुल्ये अपि अंस- इति । अत्र प्राण्य्-अङ्ग-द्वन्द्वत्वे\ऽपि नपुंसकत्वाभाव आर्षः । यथा\ऽर्क-शाखे चूर्णीभवतस् तथा चूर्णीबभूवतुः । अन्यत् तैः । तत्र गजयोर् अर्क-शाखाभ्यां समं युद्ध्यतोर् इत्य् अभूतोपमा ज्ञेयेति ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते गदे अंस-कट्यादीन् उपेत्य चूर्णीबभूवतुः । दीप्य-मन्य्वोर् उद्दीप्त-कोपयोः ॥३७॥
॥ १०.७२.३८ ॥
इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ
क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् ।
शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन्
निर्घात-वज्र-परुषस् तल-ताडनोत्थः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपिष्टां चूर्णी-चक्रतुः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रहतयोश् चूर्णी-भूतयोः । वज्रस्य निर्घातो वज्र-निर्घातस् तद्वत् परुषो निष्ठुरः, राज-दन्तादिवत् समासः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण हतयोर् नष्टयोः सत्योः, नृषु वीरो अयः-स्पर्शैर् लोह-तुल्यैर् अपिष्टां मिथो गात्रम्, निर्घातो निरभ्र-महा-दारुण-घोर-शब्दः, वज्रो वज्रपातस् ताभ्याम् अपि परुषः, तलेन कर-तलेन यत् ताडनं मिथः प्रहारः, तस्य वा ताडनं हननम्, तद्-उत्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रहतयोर् नष्टयोः सत्योः अयः-स्पर्शैः तत्-तुल्यैः अपिष्टां मिथो गात्रं निर्घातो निरभ्र-महा-गर्जितं वज्रं वज्रपातः ततो\ऽपि परुषः तलेन कर-तलेन यत् ताडनं मिथः प्रहारः तद्-उत्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गदयोः प्रहतयोः सतोर् अपिष्टां परस्परं चूर्णी-चक्रतुः ॥३८-४१॥
॥ १०.७२.३९ ॥
तयोर् एवं प्रहरतोः सम-शिक्षा-बलौजसोः ।
निर्विशेषम् अभूद् युद्धम् अक्षीण-जवयोर् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शिक्षा अभ्यासः, बलं सत्त्वम्, ओजः प्रभावः, समानि तानि ययोस् तयोः ॥३९-४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोर् भीम-जरासन्धयोः । निर्विशेषम् अनुपमम्, विशेषो भेद-तुल्ययोः इति धरणिः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रहरतोर् अपि अक्षीण-जवयोर् इति अक्षीण-जवत्वेन निविशेषत्वेन वा विस्मयात् ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं प्रहरतोर् अप्य् अक्षीण-जवयोर् इति श्रमाद्य्-अभावेन युद्धाद्य्-अनिवृत्तिर् उक्ता ॥३९-४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.४० ॥
एवं तयोर् महाज युध्यतोः सप्त-विंशतिः ।
दिनानि निरगंस् तत्र सुहृद्वन् निशि तिष्ठतोः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र गिरि-व्रजे ॥४०॥
अन्यैः न व्याख्यातम्।
॥ १०.७२.४१ ॥
एकदा मातुलेयं वै प्राह राजन् वृकोदरः ।
न शक्तोऽहं जरासन्धं निजेतुं युधि माधव ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मातुलेयं श्री-कृष्णम् ॥४१॥
अन्यतमेन न केनापि व्याख्यातम्।
॥ १०.७२.४२ ॥
शत्रोर् जन्म-मृती विद्वाञ् जीवितं च जरा-कृतम् ।
पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्म शकल-रूपं, मृतिः पुनः शकली-भावस् ते विद्वान् जानन् । जरा नाम राक्षसी, तत्-कृतम् । अचिन्तयत् "कथम् असौ शकली-भवेत् ?" इति ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शत्रोर् जरासन्धस्य । आप्याययत् वर्धयामास ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जरया राक्षस्या शकल-द्वय-संयोजनेनैव कृतम् । पार्थम् इति पृथा-पुत्रत्वेन स्नेह-भर-पात्रत्वं सूचितम् । अतः स्वकीयेनैव तेजसा शक्त्या निक्षिप्तया आप्याययन् सन् । किं वा, स्वबुद्धि-प्रभावेणाप्याययितुम् । हरिर् इति शत्रु-प्राण-हरणे प्रवृत्तेः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जरया राक्षस्या शकल-द्वय-संयोजनेनैव कृतम् । पार्थम् इति पृथा-पुत्रत्वेन स्नेह-भर-पात्रत्वं सूचितम् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शत्रोः स्व-भक्त-द्विषः जन्म-शकल-रूपं मृतिः, पुनः शकलीभावः ते जरा राक्षसी, तत्-कृतं जीवितं शकलयोर् एकीभावं च विद्वान् जानन् पार्थं भीमं स्व-तेजसा आप्याययन् बृंहयन् कथम् असौ शकलीभवेद् इति अचिन्तयत् ॥४२॥
॥ १०.७२.४३ ॥
सञ्चिन्त्यारि-वधोपायं भीमस्यामोघ-दर्शनः ।
दर्शयामास विटपं पाटयन्न् इव संज्ञया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विटपं शाखाम् । करेण विटपं गृहीत्वा हरिर् भीमस्य "यथाहं विटपं पाटयामि तथा त्वम् एनं विषाटय" इति संज्ञया सङ्केतेन अरि-वधोपायं दर्शयामास इत्य् अर्थः ॥४३-४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विटपो न स्त्रियां स्तम्ब-शाखा-विस्तार-पल्लवे इति मेदिनी । इत्य् अर्थ इति—विना शकलीकरणम् अस्य मृत्युः कदापि नेति भावः ॥४३-४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सञ्चिन्त्य ज्ञात्वेत्य् अर्थः । यतो\ऽमोघम् अकुण्ठितं सत्यं वा दर्शनं ज्ञानं यस्य सः । विटपं पाटयन्न् इव इति मुष्टीकृत-कर-द्वयेन विटप-पाटन-मुद्रयेत्य् अर्थः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यत अमोघम् अकुण्ठितं सत्यं वा दर्शनं ज्ञानं यस्य सः । इव इति वाक्यालङ्कारे ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सञ्चिन्त्य तु "एवम् इमं पाटय" इति संज्ञया सङ्केतेन विटपं शाखां पाटयन् इव भीमस्य अरि-वधोपायं दर्शयामास इत्य् अन्वयः ॥४३॥
॥ १०.७२.४४ ॥
तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः ।
गृहीत्वा पादयोः शत्रुं पातयामास भू-तले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-संज्ञया दर्शनं विज्ञाय सम्यग् बुद्ध्या, यतो महत् सत्त्वं बुद्धिर् यस्य सः । प्रहरतां मध्ये वर इति बल-विक्रमादौ श्रैष्ठ्यं सूचितम् । अतः पातयामास । यद् वा, यतो महा-सत्त्वो महा-बलं । किं च, प्रहरतां वरो युद्धे\ऽतिनिपुण इत्य् अर्थः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतो महा-सत्त्वो महा-बलः । किं च, प्रहरतां वरः युद्धे निपुण इत्य् अर्थः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-सत्त्वो महा-बलः ॥४४-४५॥
॥ १०.७२.४५ ॥
एकं पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः ।
गुदतः पाटयामास शाखाम् इव महा-गजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यं द्वितीय-पादम् । स भीमः ॥४५-४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकं पादं शत्रोः पदा स्वस्य दोर्भ्यां च प्रगृह्य प्रकर्षेण गाढं गृहीत्वा । शाखाम् इव इति दृष्टान्तेन अनायासादिकं सूचितम् ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पादं शत्रोः ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.४६ ॥
एक-पादोरु-वृषण- कटि-पृष्ठ-स्तनांसके ।
एक-बाह्व्-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकैकः पादादिर् ययोस् ते शकले ॥४६-४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पादादीनां यथोत्तरम् ऊर्ध्वाङ्गत्वम् । प्रजाः सर्वा एव तत्रत्य-लोका ददृशुर् इति तत्र न संशयः को\ऽपि कार्य इति भावः । यद् वा, परमाद्भुतत्वेन ददृशुर् इत्य् अर्थः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पादादीनां यथोत्तरम् ऊर्ध्वाङ्गत्वम् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकैकः पदादिर् ययोस् ते शकले समौ काय-भागौ ॥४६-४७॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अत्र द्विसप्ततितमो दशमे\ऽजनि सङ्गतः ॥७२॥
॥ १०.७२.४७ ॥
हाहा-कारो महान् आसीन् निहते मगधेश्वरे ।
पूजयामासतुर् भीमं परिरभ्य जयाच्युतौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मगधेश्वरे जरासन्धे । जयो\ऽर्जुनः ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितरां हते क्षणाद् गत-प्राणे सतीत्य् अर्थः । हाहा-कारः प्रजानाम् एव, यतो मगधस्य तद्-देशस्य ईश्वरे स्वामिनि, पूजयामासतुः—"साधु साधु" इत्य् एवं वीजनादिना च सम्मानितवन्तौ । जय इत्य् अर्जुनस्यापि तज्-जये शक्तिः सूचिता । यद् वा, स्नेह-भरेणाग्रज-जयेनैवात्म-जय-मननात् । अच्युत इति चिर-परिरम्भणाद्य्-अत्यागात् तस्य पश्चाद् उक्तिः, स्वेनैव स्वयं स्नेह-वशतः प्राक् तत्-परिरम्भणादाव् अर्जुनस्य प्रवर्तनात् । यद् वा, स्वयम् असङ्कोचेन चिरं तल्-लालसया ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूजयामासतुः "साधु साधु" इत्य् एवं वीजनादिना च सम्मानितवन्तौ जयाच्युताव् इति नाम-विशेष-ग्रहणं तत्-सहाय्य-योग्यत्व-ज्ञापनाय जयस्य पूर्व-निपातस् तेषां माहात्म्याय च । तं च प्रति स्वयम् अच्युतेन स्वतो\ऽपि मान-प्रदानाद् अभ्यर्हितत्व-साम्यात् ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७२.४८ ॥
सहदेवं तत्-तनयं भगवान् भूत-भावनः ।
अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः ।
मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्वृत्तत्वाद् असौ हतो न तु राज्याभिलाषेणेति दर्शयन्न् आह—सहदेवम् इति ॥४८॥
इति श्रीधर-स्वामि-विचरचितायां भावार्थ-दीपिकायां द्विसप्ततितमो\ऽध्यायः ॥७२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-तनयं जरासन्धात्मजम् । दुर्वृत्तत्वाद् वाम-मार्गेण रुद्राराधकत्वात् । ननु तन्-मार्गस्यापि शास्त्र-विहितत्वेन तद्-आश्रयणे कथं दुर्वृत्तत्वम् इति चेत् पुराणान्तराख्यानेन तद् आह । तथा हि वाराहे गौतम-शप्त-विप्राणां कलौ वामाचारे प्रवृत्तिः—
पुरा सर्व-जनानां तु मोक्ष-मार्गे व्यवस्थितम् ।
दृष्ट्वा स्वर्गादि-वैफल्यं [देवैसक्तः]{।मर्क्} स्वयं हरिः ॥
भगवान् सृष्टि-नाशं त्वं शमयानुग्रहेण नः ।
तदा\ऽहं विष्णुना प्रोक्तो मोह-शास्त्रम् अकल्पयम् ॥
वेद-मार्गाविरुद्धं यत् तद् रौद्रं मत्-प्रवर्तितम् ।
मद्-अट्टहास-पतिता मह्यं तोयस्य बिन्दवः ॥
असङ्ख्यातास् तु ते रौद्रा भविष्यन्ति कलौ युगे ।
कल्पयिष्यन्ति शास्त्राणि सुरा-मांस-प्रिया नराः ॥
मयापि कल्पिता विष्णोर् आज्ञया संहिता पुरा ।
निःश्वासाख्या वेद-बाह्या वामाचार-प्रवर्तिका ॥
तत्र मच्-छासन-रता मद्-आचारास् तु ये द्विजाः ।
तेषां वासस् तु नरके भविष्यति न संशयः ॥
शूद्रैस् तद्-अधमैर् ग्राह्य आचारो वास-संज्ञितैः ।
न द्विजैः सर्वथा ग्राह्य इति सत्यं वचो मम ॥
इति रुद्रोऽपि गस्त्यं प्रत्य् आह ।
कलि-सन्धित्वाज् जरासन्धस् तस्मिन्न् आचारे प्रवृत्त इति ज्ञेयम् । असौ जरासन्धः ॥४८॥
इति वंशीधर-कृते श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्धे द्विसप्ततितमो\ऽध्यायः ॥७२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायां द्विसप्ततितमो\ऽध्यायः ॥७२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मगधानां पतित्वेन अभ्यषिञ्चत् । कुतः? भगवान् सर्वैश्वर्य-पूर्णः भूत-भावनः सर्व-जगत्-स्रष्टा, अमेयात्मा सर्व-व्यापकः, प्रभुः सर्वेषाम् एव स्वामी, चेति सर्व-विभूतिमत्तया सद्य एव तादृश-राज्य-कोटि-कोटि-सृष्टि-शक्त्या तुच्छातितुच्छे तद्-राज्ये\ऽभिलाषाभावाद् इत्य् अर्थः ।
यद् वा, भगवान् इति तद्-राज्यादाव् अपेक्षा-राहित्यात् । किं च, भूत-भावनः सर्व-जीव-परिपालक इति दयालुत्वात् । किं च, अमेयात्मा अपरिच्छिन्न-बुद्धिः, मया स्वयम् अभिषेके कृते श्रद्धया अनेन मद्-आज्ञा-परिपालनादिना भक्तो भवेद् इत्य् आशयात् । किं च, प्रभुः सर्वार्थ-समर्थः । किं वा, जगदीशः, तस्यैव तद्-योग्यत्वाद् इति भावः । विशेषणानाम् एषां यथोत्तरम् अभिषेक-हेतुत्वे श्रैष्ठ्यम् । यद् वा, प्रभुर् इत्य् अस्य परेणान्वयः, सर्वाभीष्ट-प्रदान-समर्थः, अतः सम्यग् गिरि-द्रोण्यां प्रक्षेप-पाद-शृङ्खलादिना रुद्धा ये, तान् सर्वान् एव । सहदेवं प्रेर्य, स्वयम् एव वा गत्वा मोक्षयामास ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सहति सार्धकम् । मागधानां पतित्वेनाभ्यषिञ्चत् । कुतः ? भगवान् सर्वैश्वर्य-पूर्णः भूत-भावनः सर्व-जगत्-स्रष्टा अमेयात्मा सर्व-व्यापकः प्रभुः सर्वेषाम् एव स्वामी चेति सर्व-विभूतिमत्तया सद्य एव तादृश-राज्य-परार्ध-कोटि-सृष्टि-शक्तिमत्त्वात् तुच्छातितुच्छे तद्-राज्ये\ऽभिलाषाभावाद् इत्य् अर्थः ।
यद् वा, भगवान् इति तद्-राज्यादौ अपेक्षा-राहित्यात् । किं च, भूत-भावनः सर्व-भूत-भावनः सर्व-भूत-परिपालक इति दयालुत्वात् । किं च, अमेयात्मा अपरिच्छिन्न-बुद्धिः स्वयम् अभिषेके कृते त्व् अनेन तच्-छ्रद्धया मद्-आज्ञा-परिपालनादिना राजसूयादौ पाण्डवानां साहाय्यं कुर्याद् इत्य् आशयात् । किं च, प्रभुः सर्वार्थः । किं वा, जगदीशः तस्यैव तद्-योग्यत्वाद् इति भावः । विशेषणानाम् एतेषां यथोत्तरम् अभिषेक-हेतुत्वे श्रैष्ठ्यम् ॥४८॥
इति श्रीमद्-भागवत महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-वैष्णव-तोषिण्याम् द्विसप्ततितमो\ऽध्यायः ॥७२॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्री-श्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णव-तोषण्यां श्री-दशम-टिप्पण्यां द्विसप्ततितमो\ऽध्यायः ॥७२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धीये श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे द्विसप्ततितमो\ऽध्यायः ॥७२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे द्विसप्ततितमो\ऽध्यायः ॥७२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्ति-चेतसाम् । द्विसप्ततितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥७२॥
(१०.७३)