उद्धव-मन्त्रणया श्री-कृष्णस्येन्द्रप्रस्थ-गमनम् ।
॥ १०.७१.१ ॥
श्री-शुक उवाच—
इत्य् उदीरितम् आकर्ण्य देवर्षेर् उद्धवो\ऽब्रवीत् ।
सभ्यानां मतम् आज्ञाय कृष्णस्य च महा-मतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अथैक-सप्ततितम उद्धवस्य तु मन्त्रतः ।
इन्द्रप्रस्थं गते कृष्णे पार्थानां परमोत्सवः ॥
राजसूय-मिषं कृत्वा भीम-दुर्योधनादिषु ।
कलिम् उत्पाद्य तद्-द्वारा भू-भारम् अहरत् प्रभुः ॥
देवर्षेर् मतं राजसूय-गमनम् । सभ्यानां मतं राज-रक्षा । कृष्णस्य तूभयम् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकेनाधिकस् सप्ततितम एक-सप्ततितमः, तस्मिंस् तथा । तद्-द्वारा भीम-दुर्योधन-द्वारा । एकान्त-भक्तानां भक्त्य्-अतिशय-जननाय हरेर् बन्धु-कृत्याचरण-लक्षणं माहात्म्यम् आह । तत्रादौ कृष्ण-कटाक्ष-सूचित-तत्-कार्य-विशेष उद्धवः स्वां नीतिं वक्ति इतीति । महा-मतित्वाद् एव सर्वेषां मतं ज्ञातवान् इति भावः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं देवर्षेर् उदीरितं किं वा इत्य् एतत् श्री-भगवद् उदीरितम् आकर्ण्य देवर्षादीनाञ् च मतम् आ सम्यक् ज्ञात्वा, यतो महा-मतिः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एतद्-भगवत उदीरितम् आकर्ण्य देवर्षादीनाञ् च मतम् आ सम्यक् ज्ञात्वा महामतिः सर्वेषाम् एव मत-रक्षया प्रहर्षात् देवादीनां यथोत्तरं स्वीयत्वे श्रैष्ठ्यम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् एवं देवर्षेर् उदीरितं किं वा इत्य् एतत् श्री-भगवद् उदीरितम् आकर्ण्य देवर्षादीनाञ् च मतम् आ सम्यक् ज्ञात्वा, यतो महा-मतिः ॥१॥
॥ १०.७१.२ ॥
श्री-उद्धव उवाच—
यद् उक्तम् ऋषिणा देव साचिव्यं यक्ष्यतस् त्वया ।
कार्यं पैतृष्व-स्रेयस्य रक्षा च शरणैषिणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यक्ष्यतो यागं करिष्यतः पैतृ-ष्वस्रेयस्य पितृ-ष्वसुः पुत्रस्य, साचिव्यं साहाय्यं तच् च कार्यम् । तथा शरणार्थिनां राज्ञां रक्षा च कार्या ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे देवेति । विचित्र-क्रीडा-परस्य तवाभिप्रायं न को\ऽपि ज्ञातुं शक्त इति भावः । ऋषिणेति ऋषेर् आज्ञैवादौ सम्पाद्येति भावः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं देवर्षेर् उदीरितं । किं वा, इत्य् एतत् श्री-भगवद् उदीरितम् आकर्ण्य देवादीनाञ् च मतम् आ सम्यक् ज्ञात्वा, यतो महा-मतिः, किं वा सर्वेषाम् एव मत-रक्षया प्रहर्षणात् साचिव्यं यद् उक्तं तत् कार्यम्, तत्र हेतुः—यक्ष्यतः पैतृष्व् अस्रेयस्येति । तच् च तव योग्यम् एवेत्य् आह—देव ! हे विद्योतमानैश्वर्य ! विचित्र-क्रीडा-परेति वा ऋषिणेति तत्रादाव् ऋषि-वाक्यं परिपाल्यम् इति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साचिव्यं यद् उक्तं तत्-कार्यं तत्र हेतुः यक्ष्यतः पैतृष्व् अस्रेयस्येति तच् च तव योग्यत्वम् एवेत्य् आह—देव हे विद्योतमानैश्वर्य ! हे विचित्र-क्रीडापरेति वा ऋषिणेति तत्रा आव् ऋषि-वाक्यं परिपाल्यम् इति भावः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यक्ष्यतः यागं करिष्यतः पैतृष्व् अस्रेयस्य युधिष्ठिरस्य साचिव्यं साहाय्यङ्क-कार्यम् एव यद् उक्तम् ऋषिणा जरासन्ध-वधात् शरणैषिणां रक्षा च कर्तव्यैव या खलु सभ्यानां दूतस्य चाभिमतेति भावः ॥२॥
॥ १०.७१.३ ॥
यष्टव्यं राजसूयेन दिक्-चक्र-जयिना विभो ।
अतो जरा-सुत-जय उभयार्थो मतो मम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रथमं राजसूयार्थं गन्तव्यं, ततो राज-रक्षा कर्तव्येत्य् आह—यष्टव्यम् इत्य् अष्टभिः । अतो दिग्-विजय-हेतोः । उभयार्थो राजसूयार्थः शरणागत-रक्षार्थश् च ॥३-४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कार्य-द्वय-साधनोपायं वक्ति—तत्र तयोर् मध्ये । ततस् तत्र गमनाद् अनन्तरम् । ननु, राजभिर् आदौ निमन्त्रणात्-तेषां मरण-सङ्कटपाताच् चादौ तत्रैव तद्-रक्षणार्थं गन्तुम् उचितं यज्ञ-क्रिया तु पश्चाद् अपि-यष्टव्यम् इति । यत्रैकेन कार्येणोभय-कार्य-सिद्धिः सैव युक्तिः समीचीनेति । सा च राजसूयार्थ-गमन-रूपैव । दिग्-विजयं विना राजसूयो न स्यात् जरासन्ध-वधं विना दिग्-विजयो नेति । तथा च राज-रक्षा-निमन्त्रणन्तु तद्-अङ्ग-सिद्धयैव सेत्स्यतीत्येकक्रिया द्वय् अर्थकरी भविष्यतीति भावः । उभयाय राजसूयाय शरणागत-रक्षणाय चायम् उभयार्थः । चतुर्थी तद् अर्थार्थ-बलि-हित-सुख-रक्षितैः इति । अर्थेन नित्य-समासो विशेष्य-लिङ्गता च इत्य् अनुशासनात् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिक्-चक्र-जयिनैव सता राज्ञा, यद् वा, दिक्चक्र-जयो\ऽस्ति यस्मिन् राजसूये तेन । ननु, तर्हि दुर्घटो\ऽयम्, तत्राह—विभो हे प्रभो ! त्वत्-प्रभावात् सुघट एवेति भावः । हि एव, उभयार्थ एव, जरासुतेति तस्य जुर्जयत्वं तथा जरया सन्धित-देहस्य तस्य सन्धि-स्थान-विदारणाद् एव मरणञ् च सूचितम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवम् अपि राजभिः प्रथम-निमन्त्रणात्-तेषां मरण-सङ्कटापाताच् च तद्-रक्षणार्थम् एव प्रथमं गन्तुम् उचितं यज्ञ-क्रिया तु पश्चाद् अपि स्यात् तत्राह—यष्टव्यम् इति । दिक्चक्र-जयो\ऽस्ति यस्मिन् राजसूये तेन अतो जरा-सुतस्य राजसूय-चिकीर्षु-द्वारैव यो जयः स उभयत्राप्य् अर्थो मतः ननु, दुर्घटस् तद्-द्वारा तज्-जयः तत्राह विभो हे प्रभो त्वत्-प्रभावात्-सुघट एवेति भावः । जरा-सुतेति सन्धि-स्थान-विदारण-स्मरणञ् च सूचितम् अतः प्रथमं राजसूयार्थम् एव गन्तव्यम् इति भावः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्रैकेनैव कार्येण उभयं कार्यं सिद्धयेत् सैव युक्तिः समीचीनेत्य् आह—यष्टव्यम् इति । उभयार्थ इति राज-सूय-सिद्धि-प्रयोजनकः राज-रक्षा-प्रयोजनकश् च तथा हि दिग्-विजयं विना राजसूय-यज्ञो न भवति जरासन्ध-वधं विना दिग्-विजयश् च न भवतीति प्रथमं राजसूय-निमन्त्रणम् एवाङ्गीकर्तव्यं राज-रक्षा-निमन्त्रणं तु तद् अङ्ग-सिद्धयैव सेत्स्यतीति एक-क्रिया द्वय् अर्थकरी भविष्यतीति भावः ॥३॥
॥ १०.७१.४ ॥
अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति ।
यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युधिष्ठिर-कार्यं सिद्धवत्-कृत्वा स्वकार्यम् अभिष्टौति-अस्माकम् इति । एतेन जरासन्ध-वधेन । विमुञ् चतो विमोचयतः, अन्तर्भावित-णिजर्थाच्-छत्रन्तः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतेन जरा-सुत-जयेनैव, हि निश्चितम्, अर्थो लाभः, त्वन्-महा-दुष्ट-नाशेन नैश् चिन्त्यात्, बन्धात् बन्धनात्, विशेषेण स्वभक्ति-विस्तारणादिना मुञ्चतः, बद्धान् इति पाठे पाठान्तरे\ऽप्य् अर्थः स एव चकारौ द्वयोर् अपि प्राधान्यात् । हे गोविन्देति भगवत्ता-प्रकटनार्थं पृथ्व्याम् अवतीर्णस्य तवैतद्-युज्यत एवेति ।
यद् वा, हे गोकुलेन्द्रेति गोकुल-प्रसिद्धात्म-माहात्म्य-विशेषानुसारेण त्वयेदं यवन-जयोद्भवं तस्य प्रत्यावृत्तिश् चकारार्थः मोचितेभ्यश् च एतत्-सर्वम् अपि यज्ञार्थ-वधेनापि भविष्यतीत्य् आह—एतेनैव भविष्यति । तेन धनेन मोचिताः भक्ताः पोषणीया इति अन्य-सम्मेलनाद्यशो न भविष्यतीत्य् आशङ्कय् आह—यशश् च तव गोविन्देति । चकारात् प्रतिज्ञा अभयं सर्व-भूतेभ्यः इति बन्धाद्-विमोचनं तद्-वध-मात्रेण भवति तत्-पुत्रेणापि तत्-सम्भवात् अतो विशेषतो मोचन-हेतुत्वेनोपदिशति । राज्ञो बन्धाद् इति । राज्ञा राज-शरीराणि आत्मनश् च बन्धाद् उभय-विधात् विशेषतो मोचनं तद् एव विमुञ्चतस् तव ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलम् उभय एवार्थः अपि त्व् अस्माकं च यादवानाम् एतेन तज्-जयेनैव बलवद्-विद्वेषि-वधरूपो महान् एवार्थो भविष्यति तत्र तच् च राज्ञः कर्म-भूतात् बन्धात्-सकाशाद्-विमुञ्चतस् तव यशस् तद् अप्य् अस्माकं महान् एवार्थ इति वदन् यादवान् अपि सर्वान् दृष्ट्वा स्वमन्त्र-पक्षपातिनः करोति स्म बद्धान् विमुञ् चतः इति पाठः क्वचित् । हे गोविन्देति भगवत्ता-प्रकटनार्थं पृथिव्याम् अवतीर्णस्य तवैतद्-युज्यत एवेति भावः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्माकं सभ्यानाम् । एतेनैव राजसूयार्थक-गमनेनैव । महान् अर्थः जरासन्ध-वध-लक्षणः ॥४॥
॥ १०.७१.५ ॥
स वै दुर्विषहो राजा नागायुत-समो बले ।
बलिनाम् अपि चान्येषां भीमं सम-बलं विना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्युत्सुकतया सद्य एव जरासन्धं हन्तुम् इच्छतो यादवानालक्ष्याह—स वा इति । अन्येषां ततो बलिनाम् अपि यद्य् अपि सम-बल एव भीमस् तथापि तं विना । भीमाद् एव तस्य मृत्युर् विहित इति भावः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उद्धव-वाक्यं श्रुत्वा यादवा नोत्कण्ठिता इति चेद् आह—अत्युत्सुकेत्य् आदि । ततो जरासन्धात् । इति भाव इति-यद्य् अपि समबल एव तथापि तं विनेति भीमाद् एव तस्य मृत्युर् इति बृहस्पतेः सकाशाद् अधीत-ज्योतिर् आदि-शास्त्रेण मयैव पूर्वं विचारितम् इति विहितस्य दुर्वार्यत्वेनाल्प-बलो\ऽधिक-बलं हन्ति किम् उत समबल इति तात्पर्यम् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, को विशेषः ऋषिर् एव वक्तव्यः आवश्यको जरासन्ध-वधः तं कृत्वा समागमिष्यतीति अस्मिन् पक्षे स्त्रीभिः सह लीलया गमनं बाध्यते मर्यादायाम् अवश्यश् चायं पक्ष इति वक्तुं जरासन्ध-स्वरूपम् आह द्वाभ्यामस वै दुर्विषह इति । केनापि सोढुं न शक्यः यतो राजा क्षत्रियः अनयोर् हि प्रायेण एतद् अलौकिकं बलं लौकिकम् अप्य् आह—नागायुतसम इति । बल-विषये अयुत-हस्ति-समः एतादृशा अन्ये\ऽपि सन्तीति तद्-व्यावृत्त्य् अर्थम् आह बलिनाम् अपि चान्येषाम् इति । महा-बलिनां सर्वेषाम् एवायं मिलितानां समः चकाराद्-ब्राह्मणादि-वर-सिद्धम् अपि तस्य बलं तहि मर्यादायाम् अवध्य एवेत्य् आशङ्कयाह—भीमं सम-बलं विनेति । भीमो\ऽप्य् एतादृशः तथा जयस् तद् अग्रे वक्ष्यते ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पाण्डवेष्व् अपि केन कथं जरा-सुतो जेतव्य इत्य् अपेक्षायाम् आह स इति त्रिभिः । वै प्रसिद्धौ बले तावन्न् आगायुतसमः तादृश-बलिनाम् अप्य् अन्येषां दुर्विषहः असह्य-विक्रमः राजेति महा-सैन्य-सम्पत्तिश् च सूचिता ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सद्य एव जरासन्धं हन्तुम् अत्युत्सुकान् यादवानालक्ष्य् आह—स वै इति । अन्येषां ततो\ऽधिक-बलिनाम् अपि यद्य् अपि समबल एव भीमस् तद् अपि तं विनेति भीमाद् एव तस्य मृत्युर् इति बृहस्पतेः सकाशाद् अधीतज्योतिर् आगमादि-शास्त्रेण मयैव पूर्व-विचारितत्वाद् इति भावः ॥५॥
॥ १०.७१.६ ॥
द्वैरथे स तु जेतव्यो मा शताक्षौहिणी-युतः ।
ब्रह्मण्यो\ऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, स्व-बल-साम्येऽपि सेना-बलं तस्याधिकम् इति चेद् अत आह—द्वै-रथ इति । द्वन्द्व-युद्धे । शतेनाक्षौहिणीभिर् युतो मागधो मा, न जेतव्य इत्य् अर्थः । नन्व् असौ स्व-सैन्यम् एव युद्धाय नियुञ्जीत कुतस् तेन द्वै-रथम् इति तत्राह—ब्रह्मण्य इति । न प्रत्याख्याति न निराकरोति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनः साम्याशङ्कां वारयन् समाधत्ते—नन्व् इत्य्-आदिना । तस्य जरासन्धस्य । स जरासन्धः । इत्य् अर्थ इति—महादेव-प्रसादाद् इति भावः । पुनर् आशङ्क्य—नन्व् इत्य्-आदिना । द्वयो रथयो रथिनोर् इदं द्वैरथं द्वन्द्व-युद्धम् इत्य् अर्थः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यत् किञ्चिद् अभ्यर्थितः सन् प्रत्याख्याति—यतो ब्रह्मण्यः । अन्यत् तैर् व्याख्यातम् । यद् वा, शताक्षौहिणी-युतः स मा जेतव्यः । किम् ? काक्वा, अपि तु जेतव्य एवेत्य् अर्थः । कथम् ? द्वैरथे ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्वैरथ इत्य् अर्धकम् । तु एव द्वैरथे स एवैको जेतव्यः शताक्षौहिणी-युतस् तु नार्हः स्व-पक्षे तस्य राज-वृन्द-घातनात् राजसूय-सम्पद्-विनाशात् । ब्रह्मण्य इति सार्धकम् । तत्र तत्-सोपान-माहैकेन ब्रह्मण्य इति भवद्-भवदीय-विद्वेष-निश्चित-रजस्-तमः-स्वभावत्वात् प्रतिष्ठ-काम एवात्मानं तथा ख्यापितवान् इत्य् अर्थः । तस्मात् साक्षाद्-भूय भवद्भिर् अभ्यर्थितो द्वैरथं कर्हिचित् प्रत्याख्यायात् विप्रैस् तद्-आकारैस् त्व् अभ्यर्थितः कर्हिचिन् न प्रत्याख्याति अङ्गीकुर्याद् एवेत्य् अर्थः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भीमेणापि स द्वैरथ एव जेतव्यः, शताक्षौहिणी-युतस् तु मा जेतव्यः ॥६॥
॥ १०.७१.७ ॥
ब्रह्म-वेष-धरो गत्वा तं भिक्षेत वृकोदरः ।
हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भिक्षेत द्वन्द्व-युद्धं याचताम् । तथापि सम-बलत्वात् साम्यम् एव स्याद् अत आह—तव सन्निधाव् इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं जरासन्धम् । वृकस् तत्-संज्ञो\ऽग्निर् उदरे यस्य स वृकोदरो भीमः ।
वृको नाम हि यो वह्निः स सदा उदरे मम ।
अतिवेलं यदाश्नामि तदा स उपशाम्यति ॥
इति ब्रह्म-वैवर्ते व्यासं प्रति भीमोक्तेः । भारते\ऽपि
तीक्ष्णश् चैव प्रचण्डश् च वृको नामानलो मतः ।
स पाण्डवस्य जठरे तेन भीमो वृकोदरः ॥
यद् वा, वृकवत् कृशम् उदरं यस्येति बलिष्ठता सूचिता । बलिष्ठानां हि सिंहादीनां कृशम्दह्द्यत्वम् अस्तीति भावः । अतिवेलम् अतिक्रान्त-मर्यादम् इत्य् अर्थः । पुनर् आशङ्क्य समाधत्ते—तथापीत्य्-आदिना । स एव जेष्यति किं मया तत्र गमनेनेति तत्राह—तवेति । तव सन्निधिं विना तु द्वैरथे\ऽपि हन्तुं स न प्रभविष्यतीति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वृकस्यैव कृशम् उदरं यस्य इति बलिष्ठता सूचिता, बलिष्ठानां हि सिंहादीनां कृश-मध्यत्वात्, तत्रापि च त्वत्-सान्निध्य-प्रभावात् हस्तैवेत्य् आह—तवेति । कालत्वाद् एवारूपिणो\ऽव्यक्तस्य, विश्व-सर्गादौ कालस्यैव मुख्य-निमित्तत्वात् । तत्त्वतः स त्वयैव सृज्यत इति । तथा अरूपित्वात् केनापि तद् बोद्धुं न शक्यत इति भावः । तच् च युक्तम् एवेत्य् आह—ईश्वरस्येति । तथापि हिरण्यगर्भ-शर्वयोर् माहात्म्यथार्थं यथा त्वया तत् क्रियते, तथात्रापि भीमसेन-यशः-प्रदानार्थम् एवं कार्यम् इति भावः ॥७-८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्माद् एवं तस्माद् ब्रह्म-वेषेति वृकस्येव कृशम् उदरं यस्येति बलिष्ठता सूचिता बलिष्ठानां हि सिंहादीनां कृशमध्यत्वं सम-बलत्वे\ऽपि जय-कारणम् आह—जये\ऽपि हननम् अप्य् आह—हनिष्यतीति ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् असौ स्व-सैन्यम् एव युद्धाय नियुञ्जीत कुतस् तेन द्वैरथ्यम् ? इति तत्राह—ब्रह्मण्य इति । न प्रत्याख्याति न निराकरोति भिक्षेत द्वन्द्व-युद्धं याचेत स एव जेष्यति चेत्, तर्हि किं मयेत्य् अत आह—तवेति । तव सन्निधानं विना तु द्वैरथो\ऽपि न तं हन्तुं प्रभविष्यतीति भावः ॥७॥
॥ १०.७१.८ ॥
निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः ।
हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अकिञ्चित् कुर्वतो मम सन्निधानात् किं स्याद् अत आह—निमित्तम् इति । अयम् अर्थः—यथा तवारूपस्य कालात्मनो विश्व-सर्गे निमित्तं केवलं हिरण्य-गर्भः, तथा शर्वश् च तन्-निरोधे तथात्र त्वम् एव सन्निधि-मात्रेण हन्ता भीमो निमित्त-मात्रम् इति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान् आशङ्कते—नन्व् इति । तात्पर्यम् आह—अयम् अर्थ इति । तन्-निरोधे विश्व-संहारे ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोक-टीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव यः कालस् तद्-रूपा शक्तिः, तस्य निमित्त-मात्रं द्वारीकृत-मात्रं कालस्यैव विशेषणम् अरूपिणः इति सर्व-सम्पादकस्यापि चेष्टाभिर् अलक्ष्यमाणस्येत्य् अर्थः । तादृश-शक्तित्वं च युक्तम् एवेत्य् आह—ईशस्य ईश्वरस्येति हिरण्यगर्भ-शर्वयोर् माहात्म्यथार्थं यथा त्वया तत् क्रियते तथात्रापि भीमसेन-यशः-प्रदानार्थम् अप्य् एवं कार्यम् इति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न वयः कालस् तद्-रूपा शक्तिः, तस्य निमित्तं कालस्यैव विशेषणं, अरूपिणम् इति सर्व-सम्पादकस्यापि चेष्टाभिर् अलक्ष्यमाणस्येत्य् अर्थः ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु अकिञ्चित् कुर्वतो मम सन्निधानात् किं स्यात् ? तत्राह—निमित्तम् इति । तव ईशस्य यः कालस् तद्-रूपा शक्तिस् तस्य यौ विश्व-सर्ग-निरोधौ तयोस् तत्र हिरण्यगर्भः शर्वश् च, परं केवलं निमितम् एवेत्य् अन्वयः । अरूपिण इति कालस्य विशेषणं कालेनैव विश्वं सृज्यते निरुध्यते च, तत्र यथा सर्गे हिरण्यगर्भो निमित्त-मात्रं शर्वश् च निरोधे तथैव सन्निधि-मात्रेण त्वम् एव जरासन्धं हनिष्यसि । भीमो निमित्त-मात्रं हिरण्यगर्भ-शर्वयोर् माहात्म्यथार्थं यथा, त्वया तत् क्रियते, तथात्रापि भीमसेनाय यशः-प्रदानार्थम् इदम् अप्य् एकं तव कार्यम् इति भावः ॥८॥
॥ १०.७१.९ ॥
गायन्ति ते विशद-कर्म गृहेषु देव्यो
राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च ।
गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः
पित्रोश् च लब्ध-शरणा मुनयो वयं च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽनेनोपायेन त्वया स शीघ्रं हन्तव्य इत्य् आशयेनाह—गायन्तीति । जरासन्ध-धृतानां राज्ञां देव्यः पत्न्यस् ते विशदं कर्म स्व-गृहेषु बालक-लालनादौ गायन्ति । किं तत् कर्म ? स्व-शत्रोर् जरासन्धस्य वधम् आत्मनां पतीनां विमोक्षणं च । वत्स, मारोदीः, श्री-कृष्ण एवं करिष्यतीति । अत्र दृष्टान्ताः—गोप्यश् चेत्य्-आदयः । यथा गोप्यः शङ्खचूड-वधं स्व-मोक्षं च गायन्ति । अवतारान्तर-गतं कुञ्जर-पतेर् नक्रात्, जनकात्म-जायाश् च रावणात् । पित्रोश् च कंस-गृहान् मोक्षम् । अत एवं-भूतानां तासां कृपया त्वया तथैव कर्तव्यम् इति भावः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् एव हर्तातो हेतोः । अनेन युद्ध-याच्ञा-रूपेण । स जरासन्धः । करुणाकरो दया-समुद्रः । एवं करिष्यति तं मारयित्वा तव पितरं मोचयिष्यतीत्य् अर्थः । कथं गायतीत्य् अत्र लुप्तोपमयाह—अत्रेति । अत्र गायने । अवतारान्तर-गतं कर्मेत्य् अर्थः । यतो गायन्त्य् अतो हेतोः । एवं भूतानां त्वत्-कर्म गायतीनाम् । तासां राज-देवीनाम् इत्य् अर्थः । यद् वा, गोप्यश् चेत्य् अत्र च-शब्दः, एवोपमार्थको निपातानाम् अनेकार्थत्वात् । यद् वा, लब्ध-शरणा भक्त-जनाः । कुञ्जर-पतेर् आत्मनो देहस्य विमोक्षणं स्व-शत्रूणां कामादीनां वधं च, मुनयो वाल्मीक्य्-आदयो जनकात्मजाया विमोक्षणं स्व-शत्रु-वधम् इति पूर्ववत् । वयं च यदवः पित्रोर् देवकी-वसुदेवयोर् विमोक्षणं च यथा गायामस् तथा गायन्तीत्य् अर्थः ॥९॥ [अत्र विश्वनाथः]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गायन्तीत्य्-आदि । गोप्यो बलदेव-परिगृहीत-गोपाङ्गना यथा तव विशद-कर्म गायन्ति । तत् किम् ? तत्राह—स्व-शत्रु-वधं शङ्खचूड-वधम् आत्म-विमोक्षणं च । कुञ्जर-पतेः आत्म-विमोक्षणं ग्राह—वधं च । यथा लब्ध-शरणा मुनयो वयं च गायन्ति । जनकात्मजायाः यथा आत्म-विमोक्षणं रावण-वधं च मुनयो गायन्ति, पित्रोर् वसुदेव-देवक्योः आत्म-विमोक्षणं कंस-वधं च यथा वयं गायामः, तथा देव्यश् चात्म-विमोक्षाणां पति-विमोक्षणं जरासन्ध-वधं गायन्ति, भूतवद् गायन्तीत्य् अर्थः ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्व-यशो-वितान-निमित्तम् अवश्यम् असौ शीघ्रं हन्तव्य इत्य् आशयेनाह—गायन्तीति । गोप्यः स्व-शत्रोर् वधम् आत्म-विमोक्षणं च, तथा मुनयो वयं च कुञ्जर-पतेर् गजेन्द्रस्य मोक्षणं तच्-छत्रोर् नक्रस्य वधं, जनकात्मजाया मोक्षणं शत्रो रावणस्य वधं , पित्रोर् मोक्षणं शत्रोः कंसस्य वधं च । मुनयो मुक्ताः ।
तेषां तत्-तद्-दाने हेतुः—लब्ध-शरणाः । त्वद्-विशद-कर्म-श्रवणाद् एव त्वत्-प्रपन्ना इत्य् अर्थः, वयं मुक्ताः । यद् वा, गोप्यस् तु चतुष्टयम् एव गायन्ति, अतः श्री-गोपीनां पूर्वं यथा शङ्खचूडं हत्वा तस्माद् वयं विमोक्षिताः, यथा च पूर्वतरावतार-द्वये गजेन्द्र श्री-सीता च । अधुनापि पितरौ तथा विरह-महा-व्याधिं हत्वा ततो\ऽस्मान् मोचयेत्य् अभिप्रायेण तद्-एकासक्त्या गानम् । मुनीनां मोक्षाद् अप्य् आनन्देन, भक्तानां च तद्-एक-गतित्वेन । एवं गोप्यादीनां यथा-पूर्वं गाने श्रैष्ठ्यम् । तत्र भक्तेभ्यो मुनीनां, तद्-भक्त-प्रवरस्य तस्य विनय-भरेणाहृत्य परिहारार्थोक्तेः । अन्यत् तैर् व्याख्यातम् ।
एतद्-अर्थम् अपीति लेख्ये—अतो\ऽनेनोपायेनेति लेखक-भ्रमाद् इति । आथवा गायन्ति गास्यन्ति । सामीप्ये वर्तमानम् । च-काराच् छ्रीदामादयो गोपाः, यथा गोप्य्-आदयो वयं कुञ्जर-पत्य्-आदीनां शत्रु-वधं विमोक्षणं च गायामस् तथेत्य् अर्थः । यद् वा, स्व-शत्रोर् भौमस्य वधं तन्-निरोधात्म-मोक्षणं च, यथा देव्यः श्री-महिष्यः, यथा च शङ्खचूडादेर् वधं, तत आत्म-विमोक्षणं च गोप्यो गायन्ति, तथा राज्ञां स्व-शत्रु-वधं स्वकीय-शत्रुर् जरासन्धस् तद्-वधं, तेषाम् एवात्मनां विमोक्षणं च, कुञ्जर-पत्य्-आदीनाम् इव तद् गास्यन्तीत्य् अर्थः । एतद्-अर्थम् असौ प्राक् शीघ्रं हन्तव्य इति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा स्वैक-शरणानां स्वैकाशा-जीवनानां तादृश-दुःख-हान्य्-अर्थम् अपीत्य् आह—गायन्तीति । सर्व-लोकास् तावत् दुष्ट-हनन-भक्त-रक्षात्मकं ते विशदं कर्म गायन्ति । तत्र प्रस्तुतम् अवधीयताम् इत्य् आह—गृहेष्व् इति । गृहेष्व् एवे स्थित्वा त्वाम् उद्दिश्य सदैन्य-प्रार्थनया देव्यो राज्ञ्यो राज्ञां जरासन्ध-हतक-रुद्धानां भाविनम् अपि स्व-शत्रु-व्धम् आत्म-विमोक्षणं च गायन्ति । तत्र दृष्टान्तम् इव कुर्वन् निजाभीष-विशेषम् अपि विज्ञापयति—गोप्यश् च स्व-शत्रु-वधादिकं भूतम् अपि साम्प्रतं भवद्-विरह-रूप-महा-शतुर्-वित्रोटनाय गायन्ति ।
अथ तद्-रूप-रक्षाम् एव द्रढयितुम् आह—कुञ्जर-पतेर् इति । लब्ध-शरणा मोक्षेच्छया शरणम् आगता मुनयो मुक्ता वयं च भक्ता कुञ्जर-पतेर् गजेन्द्रस्य मोक्षणं तच्-छत्रोर् नक्रस्य वधं, जनकात्मजायाः मोक्षणं शत्रो रावणस्य वधं, पित्रोर् मोक्षणं शत्रोः कंसस्य वधं च गायामः, न तु देवीनां गोपीनाम् अपीत्य् अर्थः । तासां तत्-तद्-अभीष्टस्याद्याप्य् असिद्धत्वाद् इति भावः । तद् एवं तत्र तत्र तस्यौत्सुक्य-वर्धन-तात्पर्यकं ज्ञेयम् । तत्र मुक्तानां तत्-तद्-गुण-परिनिष्ठितो\ऽपि नैर्गुण्य इति दर्शनात् तद्-यशो-माहात्म्येनैव तथा भक्तानां च, अत्र पाण्डवा अपि प्रवेशिताः । तस्मात् प्रस्तुते\ऽपि सर्व एव निजाश्रिता रक्षणीया इति सर्व-समञ्जसम् एव कार्यम् इति भावः ।
अत्र गोपीनां परमान्तरङ्गत्वेनोत्तरोत्तर-श्रैष्ठ्य-विवक्षया सर्वान्त-पाठे योग्ये\ऽपि स्त्री-जाति-प्रसङ्गात् तत्-स्मरणेनात्यौत्सुक्यात् मध्यत एवोक्तिः । आसां च अकस्मात् प्रस्तावः श्रीमद्-व्रजाद् आगमनम् आरभ्य प्रायेणालब्धावसरतया केनापि मिषेण मध्ये मध्ये तत्-स्मारणार्थं तथा सर्वं हन्त सर्व-रक्षार्थं मध्-विधेन मन्त्रयसि, ता एव वा कथं न स्मरसि इत्य् उपालम्भन-प्रायथार्थं चेति ज्ञेयम् । यद् एव किल मनसि कृत्वा राजसूयादि-सम्बन्ध-परम्पर्-प्राप्त-दन्तवक्र-वधान्त-कार्यं समाप्य श्री-भगवान् स्वयम् एव श्रीमद्-व्रजं गमिष्यतीत्य् एतद् अप्य् उदाहरिष्यामः, किन्तु महा-सभायां तासां प्रस्तावो गोपी-सामान्यतया श्रीमद्-व्रजेश्वर्य्-आदीनाम् एव सभ्येषु भानान् न दोषाय इति ज्ञेयम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गोप्यश् च स्व-शत्रु-वधादिकम् अतीतं गायन्ति, मुनयो गजेन्द्र-जनकात्मजयोर् मोक्षणादिकं गायन्ति, वयं च यदवः पित्रोः श्री-वसुदेव-देवक्योस् तत् तद् गायाम इत्य् अन्वयः ॥९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गायन्तीत्य्-आदि । गोप्यो बलदेव-पाणि-गृहीताः गोपाङ्गनाः यथा तव विशदं कर्म गायन्ति । किं तत् ? इत्य् आह—स्व-शत्रु-वधं शङ्खचूड-वधम् आत्म-विमोक्षणं च । कुञ्जर-पतेः स्व-शत्रु-वधम् आत्मनस् तस्य विमोक्षणं च । लब्ध-शरणा भक्ता गायन्ति । जनकात्मजायाः यथा स्व-शत्रु-वधं रावणम् आत्म-विमोक्षणं च मुनयो गायन्ति । पित्रोर् वसुदेव-देवक्योः स्व-शत्रु-वधं कंस-वधम् आत्म-विमोक्षणं च यथा वयं गायामः, तथा देव्यो राज-पत्न्यः पतीनां स्व-शत्रु-वधं जरासन्ध-वधम् आत्म-विमोक्षणं च गायन्ति, अवश्यम् एवैतद् वयं कृष्णेन कर्तव्यम् इति त्वयि विश्वस्ता भाव्य् अपि भूतवद् गायन्तीत्य् अर्थः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुष्ट-निग्रह-शिष्ट-पालनात्मकं तव यशो यद्यप् सद्भिर् गीयमानं पूर्वं सिद्धम् एवास्ति, तद् अपीदानीं जरासन्ध-वधे हते सति, तद् अपि विपुलीभविष्यतीत्य् आह—गायन्तीति । जरासन्ध-बद्धानां राज्ञां देव्यः पत्न्यः ते विशदं कर्म स्व-गृहेषु बालक-लालनादौ गायन्ति । किं तत् कर्म ? स्व-शत्रोर् जरासन्धस्य वधं भाविनम् अपि आत्मनां पतीनां विमोक्षणं च, सर्वज्ञ-मुन्य्-आदि-प्रबोधितत्वाद् गायन्ति । हे वत्स ! मा रोधीः ! कृष्णो जरासन्धं हत्वा तव पितरम् मोचयिष्यतीति । अत्र दृष्टान्तः—यथा गोप्यः स्व-शत्रोः शङ्खचूडस्य वधं तन्-निरोधाद् आत्म-विमोक्षणं च परस्पर-सान्त्वनादौ गायन्ति, भोः सख्यः ! समाश्वसित, रुदित्वा रुदित्वा मा प्राणांस् त्यक्तुम् उपक्रमध्वं, यः खलु तादृश-शङ्खचूडाख्य-महाव्याघ्र-ग्रासाद् अरक्षीत्, स एव कृपा-सिन्धुः स्वयम् एव स्मृत्वा स्व-विरह-महा-विपत्-काल-सर्प-दंशाद् अपि रक्षिष्यतीति, तेन जरासन्धं हत्वा ता देव्यस् तत्-पतिभिः सङ्गतीकृत्य त्वया यथा रक्षणीयाः ततश् चास्मद्-आदयो\ऽपि तत् ते यशो गायाम इत्य् अवसर-प्राप्त-स्वाभीप्सित-मन्त्रणार्पणं ध्वनितम् । किं च, यथा देव्यो गोप्यश् च गायन्ति, तथा लब्ध-शरणा मुनय आचार्य्रूप-भाव्का वयं दास-भक्ताश् च स्व-हृद्-अस्वदनादौ गायामः । किं तत् ? कुञ्जर-पतेः स्व-शत्रोः नक्रस्य वधं, तस्माद् आत्म-विमोक्षणं च, जनकात्मजायाः स्व-शत्रोः रावणस्य वधं, पित्रोश् च स्व-शत्रोः कंसस्य वधं, तस्मात् तस्माद् आत्म-विमोक्षणं चेति भोस् तपोधनाः ! मा विषीदथ । यथा नक्रादिभ्यो गजेन्द्रादीन् उद्दधार, तथैवास्मान् अपि संसाराद् उद्धरिष्यतीति । भो भो वयस्याः, भावक-भक्ता यथैवोद्धृत्य गजेन्द्रादिभ्यः स्व-सामीप्य-दानेन स्वाभीष्ट-सेवाम् अदात् तथैवास्मभ्यम् अपि दास्यतीति ॥९॥
॥ १०.७१.१० ॥
जरासन्ध-वधः कृष्ण भूर्य्-अर्थायोपकल्पते ।
प्रायः पाक-विपाकेन तव चाभिमतः क्रतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, जरासन्ध-वध इति । भूर्य्-अर्थायेति । ततः शिशुपाल-वधादयोऽपि सुख-साध्या भविष्यन्तीति भावः । एतच् च सर्वं भविष्यत्य् एवेति सम्भावयन्न् आह—प्रय इति । पच्यत इति पाकः कर्म तस्य विपाकः फलं तेन राज्ञां पुण्य-विपाकेन जरासन्धादीनां पाप-विपाकेनेति । पाठान्तरे जरासन्धसादीनां पाप-विपाकेनेति । तेनायं क्रतुस् तवाभिप्रेतस् तत्र गते त्वयि सर्वं भविष्यतीत्य् अर्थः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं बहुना जरासन्ध-वधो\ऽनेक-प्रयोजनोपेत इत्य् आह—किं चेति । ततो जरासन्ध-वधात् । इति भाव इति प्रबल-सहायक-नाशाद् इत्य् आशयः । एतच् च शिशुपाल-वधादिकं च । राज्ञां जरासन्ध-बद्धानाम् । पुण्य-विपाकनेति त्वद्-दर्शन-पूर्वकं कारागार-निवृत्त्युत्तरं त्वद्-उपदेशाचरणात्-तेषां मोक्ष-हेतुत्वात् । जरासन्धादीनाम् इत्य् अत्रादिना शिशुपाल-शाल्व-दुर्योधनादयो ग्राह्याः । तेषां मृत्यु हेतुत्वान्-मरणस्य पुण्याज्-जीवनम् उद्दिष्टं पापान्-मरण-सम्भवः इत्य् उक्तेः पाप-फलत्वात् । इहैव महा-भारत-बीजाङ्कुरोत्पत्ते-दुर्योधनादीनाम् अपि पाप-विपाकेनैवायं क्रतुर् इति प्रायोग्रहणान्-न केवलं पाप-विपाक एव सर्वत्र तव दर्शनादि-सत्त्वाद्-वस्तुतः पुण्य-विपाक एवेति भावः । पाठान्तरे, प्रायस् तस्य विपाकेनेति पाठे । फलितम् आह—तेनेति । तेन पाक-विपाकेन हेतुनाभिप्रेतो\ऽभिप्राय-विशेष एव । तत्र यागे । इत्य् अर्थ इति-भू-भारावतारणार्थम् अवतीर्णस् त्वं सर्वम् एतत्-करिष्यसीति भावः । भूर्य्र्थाय राजसूय-सिद्धये राज-वृन्द-रक्षा-सिद्धये शिशुपालादि-वध-सुख-साध्यत्व-सिद्धये मद्-यञ्जितार्थ-विशेष-सिद्धये च । पाकः राजसूयस्य निष्पत्तिस् तस्मिन् सति तस्य वा यो विपाकः । विस-दृशं फलं कुरु-वंश-क्षय-सूचक-दुर्योधन-मान-भङ्गस् तेन हेतुना क्रतुश् च तवाभिमतः । पाकः परिणताः शिशौ इति विपाकः पाचने स्वेदे कर्मणो विस-दृक्-फले इति मेदिनी । एषो\ऽर्थस् तत्रत्य-यादव-कौरवैर्मा बुध्यताम् इत्य् उद्धवेन दुर्बोधार्थकं पदं प्रय् उक्तम् । पाप-विपाकेनेति पाठे पापानां शिशुपालादीनां विनाश-लक्षण-परिणामेन हेतुनेति विश्वनाथः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गायन्तीत्य् आदि । गोप्यो बलदेव-परिगृहीताः गोपाङ्गनाः यथा तव विशदं कर्म गायन्ति किं तद् इत्य् आह स्व-शत्रु-वधं शङ्ख-चूड-वधम् आत्म-विमोक्षणञ् च कुञ्जर-पतेः स्व-शत्रु-वधं ग्राह—वधञ् च, यथा लब्ध-शरणा मुनयो वयञ् च, यथा लब्ध-शरणा गायन्ति, पित्रोर् वसुदेव-देवक्योर् आत्म-विमोक्षणं कंसवधञ् च यथा वयं गायामस् तथा देव्यश् चात्म-विमोक्षणं पतिविमोक्षणं जरासन्ध-वधं गायन्ति, भूतवद्-गायन्तीत्य् अर्थः ॥ १०-३८ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूर् यर्थाय—अस्माकं बहुल-प्रयोजनाय, तवैव वा, भारत-युद्ध-निदानत्वेन भू-भार-हरणार्थाय, उप समीपे\ऽचिराद् एव कल्पते समर्थः स्यात् । प्रायो\ऽभिमत इति प्रायः-शब्देन पाण्डवानां वन-वासादि-दुःख-निदानतयेषदन् अभिमत इति बोधयति । कृष्ण ! हे भक्त-वात्सल्याकृष्ट-चित्तेति त्वत्-प्रसादाद् अहम् एवं त्वद्-अभिप्रायं वेद्म् ईति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरति—जरेति । भूर्यर्थाय पूर्वोक्त-राजसूयादि-रूपाय पाकः तन्दुल-पाकवत् क्रत्व् अनुष्ठानं तस्य विपाकेनौदन-सिद्धिवत्-पाण्डवानां निष्कण्टक-पारमेष्ठ्य् अनिष्पत्ति-रूपेण परिणामेन हेतुना तव चासौ क्रतुर् अभिमतः । प्राय इति वितर्के पाठान्तरे\ऽपि पापानां शिशुपालादीनां दुर्योधनान्तानां विपाकेन परिणामेन विनाश-लक्षणेन हेतुनेति पाण्डवानां तादृश-तात्पर्यत्वेन तेनेत्य् अर्थः । ततः प्रथमं राजसूयार्थम् उद्यतं पाण्डव-राजम् आश्वास्य तद्-अनुज्ञया भीमसेनेन जरासन्धं घातयित्वा राज्ञश् च मोचयित्वा राजसूयः सम्पादयितव्य इति भावः । कृष्णेति सर्वाराध्यत्व-सर्वेश्वरत्व-सर्व-भूतत्व-सर्व-परम-महिमयनामत्वात्तेनैव सम्बोधनं पर-महिमानम् एवावेदयति यस्य नाम महद् यशः इति श्रुतेः । तस्माद् अत्र दासभावो नाभासीक्रियते ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जरेत्य् आदौ कृष्णेति पाक-विपाकेन क्वचिद् अनुकूलतया क्वचित्-तु प्रतिकूलतयाभिप्राय-परिणामेनेत्य् अर्थः ॥१०-१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूर् यर्थाय राजसूय-सिद्धये राज-वृन्द-रक्षा-सिद्धये त्वच् चिकीर्षित-शिशुपालादि-वध-सुख-साध्यत्व-सिद्धये मद्-व्यञ्जितार्थ-विशेष-सिद्धये च पाको राजसूयस्य निष्पत्तिस् तस्मिन् सति तस्य वा यो विपाकः विसदृशं फलं कुरु-वंश-क्षय-सूचक-दुर्योधन-मान-भङ्गः तेन हेतुना क्रतुश् च तवाभिमतः पाकः परिणतौ शिशौ इति विपाकः पाचने स्वेदे कर्मणो विसदृक् फले इति च मेदिनी एषो\ऽर्थस् तत्रत्ययादव-कौरवाद्यैर् मा बुद्ध्यताम् इत्य् उद्धवेन दुर्बोधार्थकं पदं-प्रयुक्तं पाप-विपाकेनेति पाठे पापानां शिशुपालादीनां विपाकेन विनाश-लक्षण-परिणामेन हेतुना प्राय इति वितर्के ॥१०॥
॥ १०.७१.१ ॥
श्री-शुक उवाच—
इत्य् उद्धव-वचो राजन् सर्वतो-भद्रम् अच्युतम् ।
देवर्षिर् यदु-वृद्धाश् च कृष्णश् च प्रत्यपूजयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अच्युतम् उपपत्त्या वृद्धम् । यदु-वृद्धा इति वदता अनिरुद्धादयस् तथा नापूजयन्न् इति सूचितम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्य् अपूजयन् प्रत्यक्षरं साधु साध्व् इति प्रीत्या संश्लाघिरे अच्युतम् । उपपत्त्या युक्त्या वृद्धं युक्तम् । यदु-वृद्धा अक्रूर-कृतवर्मादयः यथा तद्-वाक्यम् अश्लाघन्त तथा\ऽनिरुद्धादयो न, तेषां मतं तु प्रथमं राज-बन्ध-निवृत्त्य् अर्थं जरासन्धेन युद्धम् एवेति भावः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतत्, हे राजन् इति सर्वैर् उद्धव-वचः प्रतिपूजनेन प्रमोदोदयात्, यद् वा, प्रहर्षाद् राजमानो देवर्षिः, प्रतीति तादृशोक्तोद्धवेन कृतस्य तेषां पूजनस्य प्रति-रूपत्व-सम्पत्तेः, यद् वा, प्रतिपदं प्रत्यक्षरं चापूजयन् आद्रियन्त, साधु साध्व् इति प्रीत्या शश्लाघिरे इत्य् अर्थः । अन्यथा तत्-प्रति-पूजनापेक्षयैवान्यैः प्रति-पूजनम् एवेत्य् एवं शङ्का-सम्भवात् । अयं वानुग्रह-विशेषः ॥११॥
इत्य् एतत्, हे राजन् इति सर्वैर् उद्धव-वचः प्रतिपूजनेन प्रमोदोदयात्, यद् वा, प्रहर्षाद् राजमानो देवर्षिः, प्रतीति तादृशोक्तोद्धवेन कृतस्य तेषां पूजनस्य प्रति-रूपत्व-सम्पत्तेः, यद् वा, प्रतिपदं प्रत्यक्षरं चापूजयन् आद्रियन्त, साधु साध्व् इति प्रीत्या शश्लाघिरे इत्य् अर्थः । अन्यथा तत्-प्रति-पूजनापेक्षयैवान्यैः प्रति-पूजनम् एवेत्य् एवं शङ्का-सम्भवात् । अयं वानुग्रह-विशेषः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रतीति तादृश-गिरोद्धवेन कृतस्य तेषां पूजनस्य प्रति-रूपत्व-सम्पत्तेः यद् वा, प्रतिपदं प्रत्यक्षरं चापूजयन् आद्रियन्त साधु साधु इति प्रीत्या शश्लाघिरे इत्य् अर्थः । तत्रादौ देवर्षिणा प्रतिपूजनं तद् अभिमत-सिद्धेः अन्ते तु श्री-कृष्णेन यत्-तच् च खलु तन्-मुखेनैव वाचयित्वा स्वेन तत्-पक्ष-ग्रहणम् एवेदम् इति व्यवच्छिन्नं यदु-वृद्धा इति तेषाम् एव तादृश-प्रागल्भ्ये युक्तत्वात् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युतं सो\ऽपपत्तिकत्वात् च्युतिरहितं यदुवृद्धा इत्य् अनेनानिरुद्धादयः सद्यो युद्धोत्साहवन्तस् तु नापूजयन्न् इति द्योतितम् ॥११॥
॥ १०.७१.१२ ॥
अथादिशत् प्रयाणाय भगवान् देवकी-सुतः ।
भृत्यान् दारुक-जैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुज्ञाप्य अनुज्ञां प्रार्थ्य । गुरून् वसुदेवादीन् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ उद्धवोक्ति-श्रुत्य्-अनन्तरम् । आदिना प्रबलार्हणादि-ग्रहः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अनन्तरं सद्य एवेत्य् अर्थः । भगवान् साक्षात् परमेश्वरः, तत्रापि देवक्याः सुतो निजाशेषैश्वर्य-प्रकटनार्थं तस्यां जात इति पाण्डव-गृहे निजाशेषैश्वर्य-प्रदर्शनेन विचित्र-क्रीडार्थं सर्व-वैभव-परिवारसाहित्य्-आदिना प्रयाणार्थम् आदिशति भावः । आदि-शब्दात् प्रबलार्हणादयः, तद् अर्थम् एवादौ गुरून् अनुज्ञाप्य, यतः प्रभुः सर्व-सदाचार-समर्थः, यद् वा, प्रभुः परम-स्वतन्त्रो\ऽपि ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अनन्तरं सद्य एवेत्य् अर्थः । श्रीमत् पाण्डव-मिलनाद्य् औत्सुक्यात् सन्-मुहूर्ताद्य् अपेक्षाम् अपि तत्याजेति भावः । भगवान् समग्रैश्वर्यादिमान् इत्य् अंशत्वं व्यवच्छिन्नं तत्रापि देवकी-सुत इत्य् असाधारण्यं दर्शितं कृष्णस् तु भगवान् स्वयम् इति स्वयं-शब्दात् इत्य् अनर्गल-वैभव-स्मरणाच्-चमत्कारो व्यञ्जितः आदि-शब्दात्-प्रबल्याहणादयः विभुः परम-स्वतन्त्रो\ऽपि ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरून् वसुदेवादीन् अनुज्ञाप्य अनुज्ञां प्रार्थ्य ॥१२॥
॥ १०.७१.१३ ॥
निर्गमय्यावरोधान् स्वान् स-सुतान् स-परिच्छदान् ।
सङ्कर्षणम् अनुज्ञाप्य यदु-राजं च शत्रु-हन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवरोधान् स्वान् दारान् निर्गमय्य प्रयाणं कारयित्वा ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुद्धान्तश् चावरोधश् च इत्य् अमरः । अवरोधस् तिरोधाने राज-दारेषु तदृहे इति मेदिनी च । यद्य् अप्य् अवरोध-पदं राज-दारेषु तदृहे चास्ति तथापि भगवतो नृपतित्वाभावे\ऽपि राजा प्रभौ च नृपतौ क्षत्रिये रज-नीपतौ यक्षे शक्र च पुंसि स्यात् इति कोशात् प्रभुत्वात्-क्षत्रियत्वाच् च राज-शब्द-वाच्यत्वाद् अवरोधान् इत्य् उक्तम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुत-शब्देन पुत्राः पौत्रास् तत्-तद्-वध्वः कन्यकादयश् च ज्ञेयाः, स्नेहेन महोत्सवे मिथो\ऽत्याज्यत्वात्, परिच्छदाः पर्यङ्कादयो दास्यादि-परिवाराश् च, सङ्कर्षणम् आत्मना सहापृथग्-भूतम् इति वस्तुतस् तु श्री-युधिष्ठिर कर्तव्यायाम् आत्मनो\ऽग्रपूजायामसङ्कोचार्थम्, यदु-राजम् उग्रसेनम् अनुज्ञाप्येति
कृष्ण कृष्ण महा-बाहो यदूनां नन्दि-वर्द्धन ।
श्रूयतां यदहं त्वाद्य वक्ष्यामि रिपुसूदन ॥
त्वया विहीनाः सर्वे स्म न शक्ताः सुखम् आसितुम् ।
पुरे\ऽस्मिन् विषयान्ते च पतिहीना यथा स्त्रियः ॥
त्वत्सनाथा वयं तात तद्-वाहु-बलम् आश्रिताः ।
बिभीमो न नरेन्द्राणां सर्वेषाम् अपि मानद ॥
विजयाय यदु-श्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितो\ऽस्माभिर् गच्छेथा यादवर्षभ ॥ [विष्णु।प।५५.१२१-१२४]
इत्य् एवं श्री-हरिवंशोक्तेन तस्य मुहुः काकुप्रार्थनेन सङ्गे जिगमिषतो नृपत्वेन पुरीरक्षायै तत्र स्थाप्यस्य सम्माननार्थम्, यद् वा, गुर्वादीनां सर्वेषाम् एव तेषाम् अनुज्ञापनं श्री-युधिष्ठिर-गृहे, पथि च विचित्र-क्रीडायाम् असङ्कोचार्थम् एव , तत्र श्री-महिषीणां निर्गमात् पश्चात् सङ्कर्षण-यदु-राजयोर् अनुज्ञापनं दूरतो\ऽनुव्रजनात्, रथान्तिके गमनाद्वा । हे शत्रु-हन्न् इति-स्वशत्रु-जरासन्ध-वधार्थम् अयम् एवोपायो युक्त इति शत्रु-वधकारिणा भवता ज्ञायत एवेति ।
यद् वा, तत्त्वतो\ऽसङ्कोचार्थम् एव तेषाम् अनुज्ञापनम्, न तु शत्रुभ्यः, पुरीरक्षार्थं तेभ्यो भयाभावाद् इत्य् अभिप्रायेण सम्बोधयति, तत्-प्रभावात्त्वयैव शत्रवो हन्यन्ते, कुतस् तस्य ततो भयम् इति भावः । स्वकीयम् असाधारणं रथम्, तल्-लक्षणम् आह—गरुडेति । इति शत्रु-वर्ग-भयङ्करत्वं वेग-गामित्वादिकञ् च सूचितम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निर्गम्येति सार्द्धकम् । अवरोधान् इति तत्र-स्थान् सुत-शब्देन पौत्रास् तत्-तद्-वध्वः कन्यकादयश् च ज्ञेयाः स्नेहेन महोत्सवे मिथो\ऽत्याज्यत्वात् परिच्छदाः पर्यङ्कादयः दास्य्-आदि-परिवाराश् च सङ्कर्षणम् आत्मनो द्वितीय-व्यूहम् इति योग्यता दर्शिता । तथा यदु-राजम् उग्रसेनम् अनुज्ञाप्येति नृपत्वेन परीरक्षायै तत्र स्थापनेन सम्माननार्थं तथा महिषीणां निर्गमनात् पश्चात् सङ्कर्षण-यदुराजयोर् अनुज्ञापनं दूरतो\ऽनुव्रजनात् । हे शत्रुहन् ! इति स्व-शत्रु-जरासन्ध-वधार्थमयम् एवोपायो युक्त इति शत्रु-वध-कारिणा भवता ज्ञायत एवेति भावः । स्वीयम् असाधारणं रथं तल्-लक्षणम् आह—गरुडेति । इति शत्रु-वर्ग-मयङ्करत्वं वेग-गामित्वादिकञ् च सूचितम् गरुड-ध्वज इति पाठे\ऽपि तत्रैव तात्पर्यम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवरोधान् अवरोध-स्थान् दारान् तेषाम् अपि निमन्त्रितत्वात् तद्-औत्सुक्याच् च ॥१३॥
॥ १०.७१.१४ ॥
ततो रथ-द्विप-भट-सादिनायकैः
करालया परिवृत आत्म-सेनया ।
मृदङ्ग-भेर्य्-आनक-शङ्ख-गोमुखैः
प्रघोष-घोषित-ककुभो निरक्रमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भटाः पदातयः । सादिनोऽश्वारोहाः । रथादि-नायकैः करालया तीव्रयात्म-सेनया परिवृतो निराक्रमन् निरगात् । कुतः सकाशात् । मृदङ्गादिभिर् वाद्यैः प्रघोषेण घोषितायाः ककुभः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो रथारोहणोत्तरम् । रथादीनाम् उक्तेः परिशेषाद्-भट-पदं पदाति-परम् एवात्र । ककुभो दिशः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तद् अनन्तरम्, किं वा तस्याः पुर्याः सकाशात्, ताम् एव विशिनष्टि-मृदङ्गेत्य् आदिना । आत्मनः सेनयेति तस्या बल-विक्रम-परिच्छदादिभिर् भक्त्या चासाधारण्यम् उक्तम्, आनकः पटहः, गो-मुखः काहलः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद् अनन्तरं । किं वा, तस्याः पुर्याः सकाशात् ताम् एव विशिनष्टि-मृदङ्गेत्य् आदिना । आत्मनः सेनयेति तस्य बल-विक्रम-परिच्छदादिभिर् भक्त्या चासाधारण्यम् उक्तम् आनकः पटहः गोमुखम् आनक-भेदः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भटाः पदातयः सादिनः अश्वारोहाः नायकाः रथिनः टाबन्तो\ऽपि ककुभा-शब्दो दृष्टः ॥१४॥
॥ १०.७१.१५ ॥
नृ-वाजि-काञ्चन-शिबिकाभिर् अच्युतं
सहात्मजाः पतिम् अनु सु-व्रता ययुः ।
वराम्बराभरण-विलेपन-स्रजः
सु-संवृता नृभिर् असि-चर्म-पाणिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नृ-वजीति । नृ-वाजिभिर् नरयानैर् अश्वैश् च काञ्चन-शिबिकाभिश् चाच्युतं पतिम् अनुययुः । सु-व्रताः पति-व्रताः वराण्य् अम्बरादीनि यासां ताः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुसंवृताः परिवारिताः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काञ्चन-शिबिकानां नरयानान्तर्गतत्वे\ऽपि पृथङ्-इर्देशस् तद्-विशेषापेक्षया, अच्युतम् इति प्रत्येकं सर्वासाम् अग्रतः स्थित्य् अभिप्रायेण, सुसंवृताः संरक्षिता इत्य् अर्थः । यद् वा, सुष्ठ दूरतो\ऽसङ्कीर्णत्वादिना नृवाजिकाञ्चन-शिबिकाभिः, नृणां बह्या नृवाह्या वाजिवच्-छीघ्रगा याः काञ्चन-शिबिकास् ताभिः । अम्बरादीनां यथोत्तरं यात्रा-मङ्गल-द्रव्यत्वे श्रैष्ठ्यम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : काञ्चन-शिबिकानां नरयानान्तर्गतत्वे\ऽपि पृथङ्-इर्देशस् तद्-विशेषापेक्षया अच्युतम् इति प्रत्येकं सर्वासाम् अग्रतः स्थित्य् अभिप्रायेण सुसंवृताः सुष्टु दूरतो\ऽसङ्कीर्णत्वादिना सम्यक् नैरन्त-दिनावृता वेष्टिता अन्य-त्तैः यद् वा, नर एव वाजिवच्-छीघ्रगा यत्र नृ-रूपाः वाजाः पक्षा विद्यन्ते यत्र वा तादृशीभिः काञ्चनमय-शिबिकाभिः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नृप-वाजीति नर एव वाजिनः शीघ्र-गामित्वात् तद्-वाह्यकाञ्चन-शिबिकादिः ॥ १५-१९ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृवाजीति । नर-यानैर् अश्वैः काञ्चन-शिबिकाभिश् च अच्युतं पतिम् अनुययुः सुव्रताः पतिव्रताः ॥१५॥
॥ १०.७१.१६ ॥
नरोष्ट्र-गो-महिष-खराश्वतर्य्-अनः-
करेणुभिः परिजन-वार-योषितः ।
स्व्-अलङ्कृताः कट-कुटि-कम्बलाम्बराद्य्-
उपस्करा ययुर् अधियुज्य सर्वतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नरोष्ट्रादिभिर् यानैः । अश्वतरी गर्दभ्याम् अश्वाज् जाता । अनः शकटम् । करेणुर् गजी । परिजन-योषितो वार-योषितश् च । कट-कुटय उशीरादि-तृण-निर्मित-गृहाः कम्बलाम्बरादयश् चोपस्कराः कुड्यादि-रूपा यासां ताः । अधियुज्य बली-वर्दादिषु तान् उपस्करान् दृढं सन्नह्य ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कटः किलिञ्जशरयोर् वीरणे\ऽपि प्रकीर्तितः इति कोशात् । कट-पदेन गुन्द्र-वीरणादि-शाखा ग्राह्याः । संनह्य बद्ध्वा ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नर-शब्देन नर-वाह्यानानि, गावो वृषाः, परिजना दास्यः, सर्वशः सर्वान् एवोपस्करान्, सर्वेष्व् एव वाहनेषु, सर्वतो\ऽधियुज्य ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नर-शब्देन नर-वाह्ययानानि गावो वृषाः परिजनाः रजकादयः सर्वशः सर्वान् एवोपस्करान सर्वेष्व् एव वाहनेषु सर्वतो\ऽधियुज्य ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिजना रजकादयः कट-कुटयः उशीरादि-निर्मिताः गृहाः तद् आदयः उपस्कराः परिच्छदा यासां ताः सर्वशः सर्वान् एव तान् उपस्करान् अधियुज्य उष्ट्रादिषु दृढं सन्ना ॥१६॥
॥ १०.७१.१७ ॥
बलं बृहद्-ध्वज-पट-छत्र-चामरैर्
वरायुधाभरण-किरीट-वर्मभिः ।
दिवांशुभिस् तुमुल-रवं बभौ रवेर्
यथार्णवः क्षुभित-तिमिङ्गिलोर्मिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रवेर् अंशुभिश् च तद् बलं दिवा बभौ । कयं भूतम् । तुमुल-रवम् आकुल-स्वनम् । क्षुभितैस् तिमिङ्गिलैर् ऊर्मिभिश् च ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अंशुभिर् इति बृहद्-धजादेः, क्षुभित-तिमिङ्गिलोर्मिभिर् इति नरोष्ट्रादेर् उदाहरणम् ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पटाः पताका-रूपाः, बभौ अशोभत, ध्वजादीनां यथा पर्वं दूरतो\ऽधिक-दृश्यमानतया, आयुधादीनाञ् च यथोत्तरं देहाधिक-व्यापकतया शोभा-हेतुत्वे श्रैष्ठ्यम्, क्षुभितेत्य् अनेनार्णवस्य तुमुल-रवत्वं सूचितम्ः तिमिङ्गिलादीनाञ् च ध्वजादिभिः सादृश्यङ्-कथञ्चिद् ऊह्यम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च बलं सैन्यम् अंशुभिर् निज-कान्तिभिर् दिवापि रविम् अतिक्रम्य बभौ कीदृशैर् अंशुभिः बृहन्ति ध्वजादीनि येषु वराण्य् आयुधादीनि च येषु तैः तत्र दृष्टान्तः यथेति क्षुभितास् तिमिङ्गिलास् तद्-आदयो येषु, तैर् ऊर्मिभिः । अत्र पटाः पताका-रूपाः ध्वजादीनां तिमिङ्गिलादिभिः सादृश्यम् अंशूनां चोर्मिभिः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिवा खेरंशुभिस् तद्-बलम् आयुध-रत्न-किरीटादि-चाक-चक्य-युक्तं बभौ ॥१७॥
॥ १०.७१.१८ ॥
अथो मुनिर् यदु-पतिना सभाजितः
प्रणम्य तं हृदि विदधद् विहायसा ।
निशम्य तद्-व्यवसितम् आहृतार्हणो
मुकुन्द-सन्दरशन-निर्वृतेन्द्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुनिर् नारदो विहायसा ययाव् इति शेषः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथो सेनाप्रयाणोत्तरम् । तं कृष्णम् । तद्-व्यवसितं कृष्ण-निश्चितम्, पाण्डवानां बद्ध-राज्ञाञ् च युगपन्-मनोरथ-सम्पादन-रूपम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथो प्रयाणानन्तरम् एव प्रणम्य सभाजितः, अत एवाहृताननि अपितानि अर्हणानि पूजा-द्रव्याणि यस्मिन् सः, यदुपतिनेति तद्-दृष्ट्या सर्वैर् यदुभिर् अपि सभाजित इति भावः । यद् वा, भक्त्या गृहीतार्हणः, कुतः ? मुकुन्दः परमानन्दप्रदः । किं वा, मुखे कुन्द-रूपा दन्ता यस्येति परम-सुन्दर इत्य् अर्थः । तस्य सम्यक् साक्षाद्-दर्शनेन निर्वृतानि इन्द्रियाणि सर्वाणि यस्य तादृशः सन्, तत्-सन्दर्शनानन्द-विवशत्वाद् इत्य् अर्थः ॥ किं वा, तथा-भूतो\ऽपि निवृतेन्द्रियत्वाद् एव तं हृदि विदधत्, विहायसेति स्वर्गादौ तद्-यशोगातुम् ऊर्ध्वं ययाव् इत्य् अर्थः । किं कृत्वा ? तस्य यदुपतेर् व्यवहृतं श्री-युधिष्ठिर-गृह-गमन-लक्षणं निशम्य उद्धवोक्तादेः श्रुत्वा, यद् वा, तस्य व्यवहृतं ब्राह्मण-सम्माननादि-सद्व्यवहारं तत्-प्रश्नादेर् उद्धवादि-मुखाद् वा श्रुत्वा, निशम्येति वा पाठः साक्षाद् अनुभूयेत्य् अर्थः । व्यवसितम् इति पाठे पाठान्तरे\ऽप्य् अर्थः स एव ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ प्रयाणानन्तरम् एव यदुपतिना प्रणम्य सभाजितः सन् विहायसा ययौ कथं सभाजितस् तत्राह—आहृतान्य् अर्हणानि नाना-पूजा-द्रव्याणि यस्मै तथा-भूतः सन्न् इति एवं सर्वैर् यदुभिर् अपि सभाजित इति भावः । किं कृत्वा ययौ तस्य व्यवसितं पाण्डवानां बद्ध-राजानाञ् च युगपन्-मनोरथ-सम्पादन-रूपं निशम्य श्रुत्वा किं कुर्वन् ययौ तं हृदि विदधत् तथा भावयन्न् एवेत्य् अर्थः । यतो मुकुन्दस्य सर्व-दुःख-विमोचनशीलस्य सन्दर्शन-मात्रेण किम् उत तत्-तत्-सद्व्यवहारेण निर्वृतानि इन्द्रियाणि यस्य स तथेति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनिर् नारदो विहायसा ययाव् इति शेषः ॥१८॥
॥ १०.७१.१९ ॥
राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा ।
मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मा भैष्टेति बहुत्वं राजाभिप्रायेण ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान्-सूनृता गिरा इति पाठे सूनृता गिरा प्रेम-युक्त-वाचा । सूनृतं मङ्गले\ऽपि स्यात्-प्रियसत्ये वचस्य् अपि इति मेदिनी ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गिरा मा भैष्टेत्यादिकयैव । किं वा, ते मदीया एवाचिरात् सिद्धाभीष्टा भवितारः इत्य्-आदिकया प्रीणयन्, यतो भगवान् परम-दयालुरित्य् अर्थः । भीमेन घातयिष्यामि ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-भगवतः परम-दयापारावारत्वं तादृशं शरणागत-सन्त्राण-व्रत-परायणत्वञ् च स्मृत्वा सगद्गदम् आह—राजेति । गिरा मा भैष्टेत्य्-आदिकयैव भीमेन घातयिष्यामि मागधम् इति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा भैष्टेति बहुत्वं राज्ञां बहुत्वम् ॥१९॥
॥ १०.७१.२० ॥
इत्य् उक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् ।
ते \ऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यैक्षन् प्रत्यैक्षन्त । यद् यस्मान् मुमुक्षवः ॥ २० ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । ते\ऽपि नृपा अपि । परस्मैपदम् आर्षम् ॥ २०-२१ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शौरेर् निजाशेषैश्वर्यं प्रकटयतो भगवतः, प्रत्यक्षन्त, तद् एकापेक्षका बभूवुर् इत्य् अर्थः । मुमुक्षवो बन्धनात् संसार-बन्धाच् च, यद् वा, यद्-दर्शनं मुमुक्षवो मुनि-प्रभृतयः प्रतीक्षन्ते ॥ २० ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रत्यैक्षन् प्रत्यक्षन्त तद् एकापेक्षकाबभूवुः यत् यस्मै सन्दर्शनाय मुमुक्षवो जरासन्धान्-मोक्षेच्छवो जाता इत्य् अर्थः ॥ २० ॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्मात् शौरेर् हेतोस् ते मुमुक्षवस् तस्य सन्दर्शनं प्रत्यक्षन् तद् एकापेक्षकावस्तुर् इत्य् अर्थः ॥ २०
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यक्षन् प्रत्यैक्षन्त ॥ २० ॥
॥ १०.७१.२१ ॥
आनर्त-सौवीर-मरूंस् तीर्त्वा विनशनं हरिः ।
गिरीन् नदीर् अतीयाय पुर-ग्राम-व्रजाकरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आनर्तादयो मार्ग-स्थ-देशास् तांस् तीर्त्वातिक्रम्य । विनशनं कुरु-क्षेत्रम् । अतीयायातिक्रम्य ययौ ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तीवेति तत्-तद्-देशानां बृहत्तरत्वेन समुद्रत्वं ध्वन्यते । किं वा, तत्रत्य-नद्यभिप्रायेण । हरिर् इति तत्रत्यानां दुःख-हरणस्य, मुकुन्द इति च परमानन्द-प्रदानस्याभिप्रायेण, आनर्तादि-वतिनो गिर्यादीनतीयाय ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गिरीन् नन्दींश् च तीर्त्वा आनर्तादि-देशानतीयाय पुरादीनातीयायेत्य् अन्वयः । सौवीर-पाञ्चाला अत्र तद्-वर्मस्था एव ज्ञेयाः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गिरीन् नदीश् च तीर्त्वा आनदि-देशानतीयाय तत्रापि पूरादीनतीयायेत्य् अन्वयः ॥२१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.२२ ॥
ततो दृषद्वतीं तीर्त्वा मुकुन्दो \ऽथ सरस्वतीम् ।
पञ्चालान् अथ मत्स्यांश् च शक्र-प्रस्थम् अथागमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शक्रप्रस्थम् इन्द्रप्रस्थम् ॥ २२-२३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो गिरि-नद्य्-आदि-लङ्घनोत्तरम् । दृषद्वतीं चक्र-नदीम् । अथ दृषद्वती-तरणानन्तरम् । इह पाञ्चाल-विनशनौ मार्गस्थाव् अन्यौ देश-भेदौ ज्ञेयौ न तु लोक-प्रसिद्धाव् इति सन्दर्भः । एवम् अग्रे\ऽपि ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तत्-तद्-अतिक्रमणानन्तरं श्री-द्वारकात इन्द्र-प्रस्थ-गमन-मार्गे विनशन—पाञ्चालादीनां मध्य-वर्तित्वे\ऽपि तत्र गमनं तत्रत्यानां प्राणिनां हितार्थम्, यद् वा, मरुदेश-पूर्व्वत एवापरः पञ्चाल-देशो\ऽस्ति, विनशनम् इत्य् अतिक्रमण-मात्रे तात्पर्यम्, न त्व् अनुक्रमे ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद् अतिक्रमणानन्तरम् अथ दृषद्वतीतरणानन्तरं श्री-द्वारकात इन्द्रप्रस्थ-गमन-मार्गे विनशन-पाञ्चालादीनाम-मध्यवर्तित्वे\ऽपि तत्र तत्र गमनं तत्र-तत्रत्यानां भक्तानां सुख-सम्पादनार्थम् अनुषङ्गतः प्राणिनां हितार्थं गमनञ् च स्वल्पेनैव परिच्छदेन प्रस्थाय शिबिराय मुहुः शीघ्रं निवृत्तिमयं ज्ञेयम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र पाञ्चाल-विनशने मार्ग-स्थाव् एव देश-विशेषौ ज्ञेयौ न त्व् अन्य-प्रसिद्धौ ॥ २२-४२ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.२३ ॥
तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।
अजात-शत्रुर् निरगात् सोपाध्यायः सुहृद्-वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दुर्दर्शनं दुर् दर्शम् अपि, उप समीपे आगतम्, अजात-शत्रुर् इति सर्वत्र द्वेषाभावेन काम-क्रोधाद्य् अरि-राहित्येन च निराकुल-चित्तत्वादिकं सूचितम्, अतः प्रीतः सन् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृणां जीव मात्राणां दुर्दर्शनं दुर्दर्शम् अपि उप समीपे आगतम् अजात-शत्रुर् इति परम-सरल-चित्तत्वं दर्शयित्वा तस्य प्रीतेः स्वाभाविकत्वं सूचितम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.२४ ॥
गीत-वादित्र-घोषेण ब्रह्म-घोषेण भूयसा ।
अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणा इन्द्रियाणि प्राणं मुख्यं प्राणम् इव ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स युधिष्ठिरः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, गीतेति । हृषीकेशम् इति भक्त्या सदा सर्बेन्द्रिय-सेव्यम् इत्य् अर्थः, यद् वा, हृष्या रश्मयस् तद्वद्-विद्योतमानाः केशा अपि यस्य तम्, स्वकान्त्या दूरतो विराजमानम् इत्य् अर्थः । अत आदृतः सारदः । किं वा, तेनैव स्वयं गृहागमनादिना रथाद् अवतरणादिना वा सम्मानितः, कथञ्चिन्-मूर्छादिनापगतं प्राणं विना निश्चेष्टाः प्राणा यथा प्रत्यागतम् अभिगच्छेयुस् तद्वद् इत्य् अभियाने परमौत्सक्यादिकं सूचितम् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किञ् च गीतेति । हृषीकेशम् इति हृष्यो रश्मयः तद्-वद्-विद्योतमानाः केशा अपि यस्य तं स्वकान्त्या दूरतो विराजमानम् इत्य् अर्थः । यद् वा, प्रेम्णा सर्वेन्द्रिय-वशीकारिणम् इत्य् अर्थः । अतः आदृतः सादरः आदृतौ सादरार्चिताव् इति नानार्थवर्गे किम् वा, तेनैव स्वगृहागमनादिना रथाद् अवतरणादिना च सम्मानितः यदि कथञ्चित् मूर्छादिना प्रगतं प्राणं विना निश्चेष्टाः प्राणाः प्रत्यागतम् अभिगच्छेयुस् तद् ऐवेदं सम्भवतीत्यभूतोपमा सूचिता ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राणा इन्द्रियाणि प्राणं यथा अभियन्ति तथा अभ्ययात् ॥ २४-२५ ॥
॥ १०.७१.२५ ॥
दृष्ट्वा विक्लिन्न-हृदयः कृष्णं स्नेहेन पाण्डवः ।
चिराद् दृष्टं प्रियतमं सस्वजे \ऽथ पुनः पुनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सस्वजे परिरेभे ॥ २५ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ दर्शनानन्तरम् ॥ २५ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णं सर्वथात्म चित्ताकर्षकम्, यतः प्रियतमं प्रियेभ्यः पुत्र-दारादिभ्यः प्रियतरादात्मनो\ऽपि परम-प्रियम्, अतः पुनः पुनः सस्वजे, कथञ्चित्-ततो निवृत्तस्यापि तृप्त्यभावात्, स्म हर्षे ॥ २५ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णं स्वभावत एव सर्व-चित्ताकर्षकं विशेषतः स्वस्य प्रियतमं सर्व-प्रिय-गण-शिरोमणिं तत्रापि चिराइष्टम् अतः पुनः पुनः सस्वजे कथञ्चित्-ततो निवृत्तस्यापि तृप्त्यभावात् अथ कात्स्न्येन ॥ २५ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.२६ ॥
दोर्भ्यां परिष्वज्य रमामलालयं
मुकुन्द-गात्रं नृ-पतिर् हताशुभः ।
लेभे परां निर्वृतिम् अश्रु-लोचनो
हृष्यत्-तनुर् विस्मृत-लोक-विभ्रमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रमाया अमलं निर्दोषम् आलयम् । विस्मृतो लोक-व्यवहारो येन सः ॥ २६ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-व्यवहारः स्वागत-प्रश्नादि-रूपः लोकातीत-प्रेम-मग्नत्वात् । रमामलालयम् इति रमाया अन्ये ये आलयास्ते सदोषा एवातस् तस्या अनभिरुचेस् तेषु न साक्षात्-स्थितिः किन्त्वाभास-मात्रेण । अस्य तु निर्दोष-सर्व-गुणाश्रयत्वात्-साक्षाद् एव स्थितिर् इति भावः ॥ २६ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दृष्ट्वेति । स्नेहेन विक्लिन्नम् आर्द्र हृदयं यस्य स पाण्डवो युधिष्ठिरः प्रियतमं तं चिरात् बहु-कालानन्तरं दृष्टं कृष्णं दृष्ट्वा\ऽथ पुनः पुनः सस्वजे आलिङ्गितवान् ॥ २६ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृशं श्री-युधिष्ठिरादीनां सौभाग्यम् अनुसन्धान-प्रेम-भरोदयात् दीर्घ-च्छन्दसा गायन्न् आह—दोर्ध्याम् इति द्वाभ्याम् । दोर्थ्यां परिष्वज्येति बहुधा गाढालिङ्गनं बोधयति, तत्-पुनर् उक्तिश् च निर्वृतौ तद् एक-हेतुताभिप्रायेण । रमेति सर्व-गुण-रूपादिमत्त्वं सर्व-सुख-करत्वञ्चोक्तम्, यतो मुकुन्दस्य सर्वथा सदा परमानन्द-प्रदस्य श्री-कृष्णस्य गात्रम्, परिष्वङ्गेनैव हतम् अशुभं चिर-विच्छेद-दुःखं यस्य सः, परां ब्रह्मानन्दाद् अप्य् उत्कृष्टाम्, तल्-लक्षणम् आह—अश्व् इत्य्-आदि । विशेषणानाम् एषां यथोत्तरं पुन-निवृत्ति-लक्षणत्वे श्रेष्ठ्यम् । नृपतिर् इति सर्व-श्रेष्ठस्य तस्य तादृश-भावोदयेनान्येषाम् अपि तदीयानां सर्वेषां तादृशत्वम् एव सूचयति ॥ २६ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृशं श्री-युधिष्ठिरादीनां सौभाग्यम् अनुसन्दधानः प्रेम-भरोदयाद्-दीर्घच्-छन्दसा गायन्न् आह—दोर्ष्याम् इति द्वाभ्याम् । दोर्थ्यां परिष्वज्येति बहुधा गाढालिङ्गनं बोधयति तत्-पुनर् उक्तिश् च निवृत्तौ तद् एकत्वे हेतुनाभिप्रायेण रमेति रमाया अन्ये ये आलयास्ते सदोषा एव अतस् तस्या अनभिरुचेस् तेषु न साक्षात् स्थितिः किन्त्वाभास-मात्रेण अस्य तु निर्दोष-सर्व-गुणाश्रयत्वात्-साक्षाद् एव स्थितिर् इति भावः । यतो मुकुन्दस्य सर्वथा सर्व-दुःख-मोचन-पूर्वकं परमानन्द-प्रदस्य श्री-कृष्णस्य गात्रम् । अतः परिष्वङ्गेन हतमशुभं चिरविश्लेष-दुःखं यस्य परां निर्वृति लेभे अतश् चित्तादि-विशेषणानां यथोत्तरं परम-निर्वृति-लक्षणत्वेन श्रैष्ठ्यं नृपतिर् इति सर्व-श्रेष्ठस्य तस्य तादृश-भावोदयेनान्येषाम् अपि तदीयानां सर्वेषां तादृशत्वम् एव सूचयति ॥ २६ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रमायाः शोभायाः अमलं निर्दोषम् आलयं विस्मृतो लोक-विभ्रमो लौकिक-विलासो येन सः लोकातीतः प्रेमानन्द-रस-मग्न इत्य् अर्थः ॥ २६-३१ ॥
॥ १०.७१.२७ ॥
तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रवृद्ध-बाष्पाः परिरेभिरे \ऽच्युतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । अर्जुनस्य पश्चाद् उक्तिश् चिरालिङ्गनार्था । प्रेम्णा शीघ्रागमनाशक्त्या वा ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दोर्ध्याम् इति । दोर्भ्यां भुजाभ्यां रमाया अमलं निर्दोषम् आलयं मुकुन्दस्य गात्रं परिष्वज्यालिङ्गय हतम् अशुभं पापं यस्य सः अत एव अश्रूणि आनन्द-जलानि लोचनयोर् यस्य सः हृष्यन्ती उदञ्चित-रोमा तनुर् यस्य सः विस्मृतो लोक-विभ्रमो लोक-व्यवहारो येन स नृपतिर् युधिष्ठिरः परां निर्वृति परमानन्दं लेभे ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मातुलेयम् इति गौरवादि-राहित्येन मिथः स्नेह-भरः सूचितः, अतः स्मयमानः । किं च, प्रेम्णो जवेनाकुलानि विवशानीन्द्रियाणि यस्य तथा-भूतः सन्, अनेन कम्प-पुलकाश्रु-धारादिकं सूचितम् एव । परिरभ्य निर्वृतो\ऽभूत्, यद् वा, निर्वृतः सन्, अतः स्मयमानः प्रेम-जवाकुलेन्द्रियो\ऽभूत्, यद् वा, किम् अप्य् अन्यत् कर्तुं वक्तुं च
नाशक्नोद् इत्य् अर्थः । सुहृदो यादवादयः, सुहृत्तराः श्रीमद् उद्धवादयः, युधिष्ठिरादयस् तेभ्यो\ऽपि श्रेष्ठत्वात् सुहत्तमम्, अत एव मुदा प्रकर्षण कम्पादिभ्यो\ऽप्य् अतिशयेन वृद्धं बाष्पं येषां तथा-भूताः सन्तः, अच्युतम् इति तेषाम् आलिङ्गन-निर्वृत्या तस्यापि तत्र स्थिरताभिप्रायेण, किरीटिनः पश्चाद् उक्तिः चिर-परिरम्भणेच्छया । किं वा, सौहार्दोद्रेकेणाकुलभया शीघ्र-गमनाशक्त्या पश्चाद् अवस्थितेः, अतस् तद् उद्देशेनैव तद् अन्तिके प्रयुक्तं सुहत्तमं परम-प्रियसखम् इति । तल्-लक्षणञ्चोक्तम्-किरीटी प्राक्-श्री-कृष्ण-दत्त-स्वकिरीटधारीति ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मातुलेयम् इति गौरवादि-राहित्येन मिथः स्नेह-भरः सूचितः अत एव परिरभ्य निर्वृतो\ऽभूत् ततश् च स्मयन् प्रफुल्ल-मुखाम्भोजः सन् प्रेमजवेन आकुलानि आवृतानि इन्द्रियाणि यस्य तादृशो\ऽभूत अथ नकुल-सहदेवाणुनाश् च मुदा पूर्वाभ्याम् अपि प्रहर्षेण समृद्ध-बाष्पाः सन्तः सुहृत्तमम् अच्युतं परिरेभिरे प्रेमजव् आकुलेन्द्रियाश्चाभूवन्न् इति योज्यम् अच्युतम् इति तेषाम् आलिङ्गन-निर्वृत्त्या तस्यापि स्थिरतराभिप्रायेण अर्जुनस्य पश्चाद् उक्तिश् चिर-परिरम्भेच्छया । किं वा, सौहार्दोद्रेकेणाकुलतया शीघ्र-गमनाशक्त्या पश्चाद् अवस्थितेः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.२८ ॥
अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः ।
ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्जुनेन समत्वात् परिष्वक्त एव केवलं पादौ नमस्कुर्वन्न् अर्जुनः कृष्णेन भुजाभ्यां धृत इति भावः । यमाभ्यां त्व् अभिवादितश् चेति ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति भाव इति-नरावतारत्वेन मया सम एवायम् इत्य् आशयः । यमाभ्यां नकुल सहदेवाभ्याम् । मानिन इति पाठे कुरुषु मान्यान् मानयामासेत्य् अर्थः । यथार्हतो यथोचितम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तम् इति । मातुलेयं मातुल-पुत्रं तं कृष्णं परिरभ्य निर्वृतः परमानन्द-पूर्णो भीमः स्मयन् स्मितं कुर्वन् । शता आर्षः । प्रेम-जलैर् आनन्दाश्रुभिर् आकुले पिहिते इन्द्रिये लोचने यस्य तथा-भूतो बभूवेति शेषः । प्रेमजवेति वा पाठः । तथा यमौ नकुल-सहदेवौ किरीटी अर्जुनश् च मुदा हर्षेण प्रवृद्धानि बाष्पाणि आनन्दाश्रूणि येषां ते\ऽपि सुहृत्तम् अमच्युतं कृष्णं परिरेभिरे ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् आदौ सम्भ्रमात् कृतम् आलिङ्गन-मात्रम् उक्त्वा पश्चात् स्वस्थानां सतां व्यवहार-परिपालनम् आह—अर्जुनेनेति । तत्र युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् [भा।पु १०.५८.४] इति पूर्वोक्तानुसारेण तयोर् वन्दनम् । किं वा, तेन तयोर् निर्वृति-सङ्कोचान्नैव कृतम् इति पूर्वतो\ऽधुनानन्द-विशेषो ज्ञेयः, देश-विशेष इव समय-विशेषे श्री-भगवद-र्शन-विशेषेणानन्द-विशेषोत्पत्तेः । सिद्धान्तो\ऽयं श्री-भागवतामृते विवृतो\ऽस्त्य् एव ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् आदौ सम्भ्रमात् कृतम् आलिङ्गन-मात्रम् उक्त्वा तत्र च सामान्यतः सर्वेषाम् आनन्द-मोहम् उक्त्वा पश्चात् स्व-स्थानां सतां व्यवहार-परिपालनं वदन्न् अन्तिमत्र-याणां तेषु भाव-विशेषं सूचयन् अर्जुनं पुनर् आलिङ्गनात् परम-सख्यं दर्शयति अर्जुनेत्य् अर्धकेन तत्र युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् इति पूर्वोक्तानुसारेण तयोर् वन्दनम् अनुक्तम् अपि ज्ञेयम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.२९ ॥
मानिनो मानयाम् आस कुरु-सृञ्जय-कैकयान् ।
सूत-मागध-गन्धर्वा वन्दिनश् चोपमन्त्रिणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राजन्यताम् एव प्रपञ् चयति ॥ २९-३० ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उप समीपं समेत्य । मन्त्रिणो मन्त्रकर्तारः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अर्जुनेनेति सार्द्धम् । अर्जुनेन केवलं परिष्वक्त एव सम-वयस्कत्वात् पादौ पतन्-नर्जुनस् तेन हस्ताभ्यां धृत इत्य् आशयः । यमाभ्यां त्वभिवादितश् च भगवान् ब्राह्मणेभ्यो वृद्धेभ्यः वयोधिकेभ्यो युधिष्ठिरादिभ्यो यथार्हतः यथा-योग्यं नमस्कृत्य तैः सम्मानितः कुर्वादीन् मानयामास ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपि किम् ? अनेन लब्ध-दक्षिणत्वादेः सर्वस्यापि प्रश्नो ज्ञेयः । हे ब्रह्मन्न् इति मया सह सर्वे वेदाः साङ्गा भवता देतं हि मे ॥२९॥
किञ्चित् काम-हतत्वं किञ्चित्-प्रीति च सूचयति । अत एव संशयेन प्रश्नः । इति सम्यक् कामाद्य्-अभावे सति समावर्तनानन्तरम् अविवाहे\ऽप्य् अनामित्व-दोषो निरस्तः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मानिनः कुर्वादिषु मान्यान् इत्य् अर्थः । यथार्हतः यथायोग्यं सूतेति सार्द्धकम् । सूतमागध-गन्धर्वाः स्व-स्वानुरूपैर् मृदङ्गादिभिः स्व-स्वानुरूपं जगुर्ननृतुश् च तथैव वन्दिन उपमन्त्रिणश् च तुष्टुवुर् ननृतुश् च श्री-ब्राह्मणास्तु अस्माकम् अन्येषाञ् च सद्-धर्माणां पालयिता त्वं विजयीभवेति तुष्टेर् इति विवेचनीयं यद् वा, अतिहर्षोदयेन सर्वे\ऽपि मृदङ्गादिभिः स्तुत्य् आदि चक्रुः यतो\ऽरविन्दाक्षं दृष्ट्यैव सर्व-ताप-हरं रमामोद-प्रदं चेत्य् अर्थः ॥२९-३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.३० ॥
मृदङ्ग-शङ्ख-पटह-वीणा-पणव-गोमुखैः ।
ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्राह्मणास् तुष्टुवुश्चान्-नर्तक्यो ननृतुर् गायकाश् च जगुः । यद् वा, ब्राह्मणा एव भक्त्या ननृतुर् जगुश् च । तद् उक्तम्—
ब्रह्मणो वासुदेवार्थ गायमानो\ऽनिशं परम् ।
नव-वर्ष-सहर्राणि कुबेर-भवने वसत् ॥
गीतनृत्य् आदि कुर्वीत द्विज-देवाग्नितुष्टये ।
न जीवनार्थं युञ्जीत विप्रः पापभिया क्वचित् ॥ इति वाराहे ।
श्रुतद् एवो\ऽच्युतं प्राप्तम् इत्य् आरभ्य धुन्वन्वासो ननर्त ह इत्य् अन्तेनाग्रे वक्ष्यत्य् अपि । यद् वा, अस्माकम् अन्येषां च सद्-धर्माणां पालयिता त्वं विजयी भवेति विप्रास् तुष्टुवुः । अरविन्दाक्षं दृष्ट्यैव सर्व-ताप-हरं परमामोद-प्रदं चेत्य् अर्थः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सूतेति सार्द्धम् । मृदङ्गादि-शब्दैः सह सूत-मागध-बन्दिनो ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुश् च ॥३०-३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मानिनः कुर्वादिषु मान्यान् इत्य् अर्थः । यथार्हतो यथा-योग्यं कांश्चिद् अभिवादनेन कांश्चिद् आलिङ्गनेन कांश्चिच् च कुशल-प्रश्नादि-नेत्य् एवं सम्मानितवान् । सूत-मागध-वन्दिनो ब्राह्मणाश् च तुष्टुवुः, गन्धर्वा जगुः, उपमन्त्रिणश् च मृदङ्गादिभिर् ननृतुः, नर्तक्यो वेति विवेचनीयम् । मृदङ्गादीना यथोत्तरं हर्ष-नृत्य-हेतुत्वे त्रैष्ठ्यम् । यद् वा, अत्यन्त-हर्षोदयेन सूताद्या ब्राह्मणान्ताः सर्वे\ऽपि मृदङ्गादिभिर् विशिष्टाः स्तुत्य् आदि चक्रुः, यतो\ऽरविन्दाक्षं दृष्ट्यैव सर्व-ताप-हरं परमानन्द-रस-प्रदं चेत्य् अर्थः । सूतादीनां यथोत्तरं स्तवनादौ त्रैष्ठ्यम् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.३१ ॥
एवं सुहृद्भिः पर्यस्तः पुण्य-श्लोक-शिखामणिः ।
संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण । पर्यस्तः परिवृतः पुण्यो मनोज्ञः साक्षाद्-धर्म-रूपो वा श्लोको येषां युधिष्ठिरादीनां तेषां शिखामणिर् मुख्यो न तादृश-पुण्य-श्लोको\ऽन्योस्तीति भावः ॥ ३१ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पर्यस्तः परिवृतः, सम्यक् स्तूयमानश् च, यतः पुण्यो मनोज्ञः साक्षाद्-धर्म-रूपो वा श्लोको यशो येषां ते, पुण्य-श्लोका युधिष्ठिरादयस् तेषां शिखामणिः, यतो भगवान् निजाशेषैश्वर्य-प्रकटनार्थम् अवतीर्णः साक्षात् परमेश्वरः ॥ ३१ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पर्यस्तः परिवृतः सम्यक् स्तूयमानश् च यतः पुण्यो मनोज्ञः साक्षाद्-धर्म-रूपो वा श्लोको यशो येषां ते युधिष्ठिरादयस् तेषां शिखामणिः भगवान् इति ॥ ३१ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.३२ ॥
संसिक्त-वर्त्म करिणां मद-गन्ध-तोयैश्
चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः ।
मृष्टात्मभिर् नव-दुकूल-विभूषण-स्रग्-
गन्धैर् नृभिर् युवतिभिश् च विराजमानम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्र-ध्वजादिभिर् विराजमानम् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरं वर्णयति—संसिक्तेति । संसिक्तवर्त्म कुरु-राज-धाम ददर्शेति द्वितीयेनान्वयः । संसिक्तानि वानि यस्मिंस् तत् तथा । धाम देहे गृहे पुरे इति कोशात् ॥३२-३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवम् इति । पुण्यावहः श्लोको यशो येषां तेषां शिखामणिर् इव श्रेष्ठो भगवान् एवं सुहृद्भिर् युधिष्ठिरादिभिः पर्यस्तः परिवृतः सूतादिभिः संस्तूयमानश् चालङ्कृतं हस्तिनापुरं विवेश ॥३२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवत्-प्रवेशेन पुरस्य परम-धन्यताम् आलोच्य प्रहृष्यन् पूर्ववत्-तद्-वर्णयति- संसिक्तेति । मदैर् गन्धतोयैश् चन्दनादि-गन्ध-युक्तैर्-जलैः सम्यक् सिक्तानि वानि यस्य तत्, पुम्भिर् दुकूलादिभिर् मृष्टात्मभिर् उज्ज्वल-गात्रैः स्वभावतः सदा राजमानं शोभमानम् एव, तद् आनीं श्री-भगवत्-प्रवेशापेक्षयालङ्कृतत्वेन विशेषतो राजमानम्, यद् वा, विशेषेण अमरावत्यादिभ्यो\ऽप्य् आधिक्येन राजमानम्, प्रतिसञत्यस्योभयतो\ऽप्य् अन्वयः । कुरूणां महा-वैभवादिना प्रसिद्धानां राजा श्री-युधिष्ठिरस् तस्य धामेति तद्-योग्यतोक्ता ॥३२-३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवत्-प्रवेश-लीला-परिकरताङ्गततया धन्यतमं तत्-पुरं वर्णयति-संसिक्तेति युग्मकेन । मदैः स्वभाव-सिद्धेश् चन्दनादि-गन्धतोयैश् च कल्पितैः सम्यक् सिक्तानि वानि यस्य तत् नृभिर् युवतिभिर् नर-नारीभिस् तदानीं नव-दुकूलादि-समुज्वलित-गात्राभिः सतीभिर्-विशेषतो राजमानं प्रतिसद्मेत्य् अस्योभयतो\ऽप्य् अन्वयः कुरूणां महा-वैभवादिना प्रसिद्धानां [पू]सर्वेषाम् अपि साक्षाच्-छ्री-कृष्ण-प्रेष्ठत्वेन राजा युधिष्ठिरस् तस्य धामेति तद्-योग्यतोक्ता ॥३२-३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरं वर्णयति—संसिक्तेति द्वयेन । करिणां मद-गन्धतोयैः संसिक्तानि वानि यस्मिन् तत् चित्र-ध्वजादिभिर् विराजमानम् उद्दीप्तैर् दीपैः बलिभिः पुष्पादिभिश् च प्रतिसद्म प्रतिगृहं जालेभ्यः गवाक्षेभ्यो निर्गतैः धूमै रुचिरं विलसन्त्यः पताकाः यस्मिन् तत् मूर्द्धनि भवा मूर्द्धन्याः हेम-कलशाः येषां तैः रजतमयान्य् उरूणि स्थूलानि शृङ्गाणि कल-शाधस्था भूमिका येषां तैर् भवनैश् च जुष्टम् कुरुराजस्य धाम पुरं ददर्श ॥३२-३३॥
॥ १०.७१.३३ ॥
उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल-
निर्यात-धूप-रुचिरं विलसत्-पताकम् ।
मूर्धन्य-हेम-कलशै रजतोरु-शृङ्गैर्
जुष्टं ददर्श भवनैः कुरु-राज-धाम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिसद्म उद्दीप्तैर् दीपैर् बलिभिः, पुष्पादि-प्रकरैश् च जुष्टम् । जालेभ्यो गवाक्षेभ्यो निर्गतैर् धूपै रुचिरम् । विलसन्त्यः पताका यस्मिंस् तत् । मूर्धन्या मूर्ध्नि भवा हेम-कलशा येषां तैः । रजत-मयानि रूप्य-मयान्य् उरूणि स्थूलानि शृङ्गाणि कलशाधस्तन-भूमिका येषां तैर् भवनैर् जुष्टं कुरु-राजस्य धाम पुरं ददर्श ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुरं विशिनष्टि-संसिक्तेति । करिणां गजानां मद-गन्ध-युक्तैस् तोयैर् जलैः संसिक्तानि वानि पुरवीथयो यस्मिंस् तत् चित्र-ध्वजैः कनक-तोरणैः परि-पूर्णकुम्भैः तथा मृष्टः आत्मा येषां तैः तथा नवा दुकूलादयो येषां तैर् नृभिः तथा-भूताभिर् युवतिभिश् च विराजमानम् । उद्दीप्तेति । प्रतिसद्म बलिभिः पुष्पादि-प्रकारैश् च जुष्टं जालेभ्यो गवाक्षेभ्यो निर्यातै पै रुचिरं शोभितं विरसन्त्यः पताका यस्मिंस् तत् मूर्धन्याः मूनि भवा हेम-कलशा येषां तैः रजतमयानि उरूणि स्थूलानि शृङ्गाणि कलशाधस्तन-भूमिका येषां तैर् भवनैश् च जुष्टं कुरु-राजस्य युधिष्ठिरस्य धाम अन्तः-पुरं भगवान् दूरत एव ददर्श ॥ ३३-३४ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.३४ ॥
प्राप्तं निशम्य नर-लोचन-पान-पात्रम्
औत्सुक्य-विश्लथित-केश-दुकूल-बद्धाः ।
सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे
द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नराणां लोचनानि तेषां पानस्य सादर-वीक्षणस्य पात्रं विषयम् । किं पुनर् नारीणाम् इत्य् अर्थः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-नारीणां तु रम्य-पुरुषावलोकनम् अत्यादन्द-करम् इति भावः । मध्याह्न-भोजनोत्तरं केषाञ्चिद्-विषयासक्तानां शय्यायां निवेशाद् इत्य् उक्तं तल्पे इति । तल्पं दाराट्टशय्यायाम् इति कोशात् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुर-स्त्रीणां सौभाग्यञ् च तथैव वर्णयति—प्राप्तम् इति त्रिभिः । औत्सुक्येन विश्लथितः प्रस्त-प्रायः केशस्य दुकूलस्य च परिहित-पट्ट-वस्त्रस्य बन्धो यासां ताः, तल्प इति प्रातर् भोजनानन्तरं शय्यायां निवेशात् । किं वा, पाण्डवादिभिः सह परिरम्भणादिना रात्र्यापत्तेः नरेन्द्र-मार्गे राज-मार्गे ययुः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुर-स्त्रीणां च सौभाग्यं तथैव वर्णयति—प्राप्तम् इति त्रिभिः । औत्सुक्येन विश्लथितः स्रस्त-प्रायः केशस्य दुकूलस्य च बन्धो यासां ताः तल्प इति मध्याह्न-भोजनानन्तरे केषाञ्चिद्-विषयासक्तानां शय्यायां निवेशात् किम् वा, पाण्डवादिभिः परिरम्भणादिना राज्य-प्राप्तेः तद् एतद्-वर्णनं तद् आगमन-श्रवण-समय-पूर्व-भागभाग् एव ज्ञेयम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नर-लोचनानां पानस्य पातव्यस्य रूपस्य मात्रं रूप-निधिम् इत्य् अर्थः ॥ ३४-३५ ॥
॥ १०.७१.३५ ॥
तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः
कृष्णं स-भार्यम् उपलभ्य गृहाधिरूढाः ।
नार्यो विकीर्य कुसुमैर् मनसोपगुह्य
सु-स्वागतं विदधुर् उत्स्मय-वीक्षितेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुष्ठु स्वागतं तत् प्रश्नादिकं प्रियम् उत्स्मय-वीक्षितेनैव विदधुः ॥ ३५ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्स्मयो विनयस् तेन वीक्षितं तेन । अगर्वे विनये ईषद्-धास्याधिक्ये\ऽपि चोत्स्मयः इति निरुक्तिः । तस्मिन्-राजमार्गे ॥ ३५ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इभादिभिः सुसङ्कुले\ऽत्यन्तं व्याप्ते गृहाधि-रूढाः कृष्णं स्व-चित्ताकर्षकम् उपलभ्य साक्षाद्-दृष्ट्वा, यद् वा, समीपे लब्ध्वा, यतः कृष्णं सर्व-सुख-प्रदं पश्चात् सम्यग्-दर्शनार्थं पुष्प-विकिरणार्थञ् च गृहाधि-रूढाः सत्यः, उत् उत्कृष्टः स्मयः स्मितं तद्-युक्तेन । किं वा, उत्स्मयेनात्यन्ताद्भुतेन वीक्षितेन कटाक्षेणैव सुस्वागतं स्वागत-प्रश्नादिकं विदधुः, वचसा स्वागत-प्रश्नाद् अपि तेनैव तस्य प्रीत्य्-उत्पत्तेः, अत एव तैर् अपि व्याख्यातम्—प्रियम् इति ॥ ३५ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इभादिभिः सुसङ्कले अतिव्याप्तेः उपलभ्य साक्षाद्-दृष्ट्वा पश्चात् सम्यग्-दर्शनार्थं पुष्प-विक्षेपार्थञ् च गृहाधि-रूढाः सत्यः उत् उत्कृष्टः स्मयः स्वरति-व्यञ्जकं स्मितं तद्-युक्तेन वीक्षितेन कटाक्षेणैव सुस्वागतं स्वागत-प्रश्नादिकं विदधुः तद्धि प्रीत्य् अर्थं विधीयते तादृश-वीक्षितेन त्व् अतिशयेन सा जायत इति तत्स्थाने तत्-प्रयोगात् अत एव तैर् अपि व्याख्यातं प्रियम् इति यद् वा, सुस्वागत-शब्देनात्र तद् उपलक्षणत्वेनातिथ्य-मात्रं लक्षितं यद् वा, विशेषेण व्यञ्जनाय दधुश् चक्रुः ॥ ३५ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.३६ ॥
ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस्
तारा यथोडुप-सहाः किम् अकार्य् अमूभिः ।
यच् चक्षुषां पुरुष-मौलिर् उदार-हास-
लीलावलोक-कलयोत्सवम् आतनोति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उडुप-सहः, चन्द्र-सह-चरा इत्य् अर्थः । अमूभिः किं पुण्यम् अकारि ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । उडुप-शब्दस्यानेकार्थत्वाद् इत्थं व्याख्येयम् इति भावः । चन्द्रे प्लवे शिवे\ऽब्धौ च कीर्त्यत उडुप-ध्वनिः इति निरुक्तिः । यासां चढूंषि यच्-चयूंषि तेषाम् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पथीत्यन्तः-पुर-प्रवेशार्थ राज-मार्गे गच्छन्तीरित्य् अर्थः । मुकुन्दस्य पत्नर् इति तासाम् अपि परमानन्द-प्रदत्वं सूचयति । तारा यथेति दृष्टान्तेन सहैव गमनादिकं द्योतयति । यासां चक्षुषाम् उदार उत्कृष्टः सर्वानन्दप्रदो वा हासस् तद्-युक्ता लीलयावलोक-कला कटाक्षः, अवलोकन-भङ्गी वा, तयोत्सवं सुख-विशेषम् उत सम्यक् तनोति, यतः पुरुष-मौलिः पुरुषोत्तम इत्य् अशेष-रूप-गुणादि-सेवितत्वम् उक्तम् । विविध-मधुरान्य-क्रीडया तासां सर्बेन्द्रियोत्सव विस्तारणे सत्य् अपि केवलम् अस्या एवोक्तिः, ताभिस् तस्या अपि मरम-दौर्लभ्येन बहुमननात्, यद् वा, धाष्यपरिहारार्थम् इति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुकुन्द-पत्नीः मुकुन्द-सहितास् तत्-पत्नीरित्य् अर्थः । स्त्रियो\ऽत्रान्तःपुर-वासिन्यः पथीत्यन्तः-पुर-प्रवेशार्थं निर्जनीकृत्य योषिद्भिर् एवाधिष्ठिते तद्-वहिः कक्ष-मार्गे तारा यथेति दृष्टान्तेन सहैव गमनादिकं द्योतयति तद्-दृष्टान्तत्वञ् च तासां महा-जन-सङ्ग-तदावरण-दर्शन-मात्रेण तत्-स्फूर्तेर् एव न तु साक्षाद्-दर्शनात् यासां चक्षुषाम् उदार उत्कृष्टः सर्वानन्दप्रदो वा हासः तद्-युक्ताया लीलया\ऽवलोक-कला-कटाक्षः अवलोकन-भङ्गी वा तयोत्सवं सुख-विशेषम् आ सम्यक तनोति यतः पुरुष-मौलिः पुरुषोत्तमः इत्य् अशेष-सुन्दर-रूप-गुणादिसे वितत्वम् उक्तं विविध-मधुरालाप-क्रीडासम्भवे\ऽपि केवलावलोक-कलाया एव वर्णनम् ताभिस् तस्या अपि परम-दौर्लभ्येन बहु-मननात् यद् वा, धाष्यपरिहाराभिप्रायात् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उडुप-सहाः ताराधिप-सहिताः तारा यथा शोभमानाः अमूभिः किम् अकारि किम् अद्भुतं पुण्यम् आचरितम् ॥३६॥
॥ १०.७१.३७ ॥
तत्र तत्रोपसङ्गम्य पौरा मङ्गल-पाणयः ।
चक्रुः सपर्यां कृष्णाय श्रेणी-मुख्या हतैनसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रेण्य एक-शिल्पोपजीविनां सङ्घास् तेषु मुख्याश् च ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र-तत्र स्थले-स्थले श्रेणी राजौ तथा सङ्घ एक-शिल्पोपजीविनाम् इति धरणिः । यद् वा, श्रेणी-मुख्या नगर-प्रधानाः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तत्र मार्ग-मध्ये प्रतिस्थानं पौराः पुर-वासि-जना मङ्गलं दध्यक्षतादि-द्रव्यं तद्-युक्ताणयः कृष्णाय सर्व-कर्षकायेति गृहस्थितैर् अशेषैर् एव द्रव्यैस् तत्-सपर्याभिप्रेता । यतो हतैनसो विशुद्ध-चित्ताः । किं वा, अन्येषाम् अपि पापघ्ना इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् अनुसन्धाय नगरवृत्तं वर्णयति-तत्र-तत्रेति । हतैनसः सर्वे तद् अन्तराय-कर्म-रहितास् तत्-प्रभृति-जाताः तत्-स्मरणस्य सदानुगतेः चतुर्थी तादर्थ्ये ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रेण्य एक-शिल्पोपजीविन्यो जनतास् तासु मुख्याः ॥ ३७-३९ ॥
॥ १०.७१.३८ ॥
अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः ।
स-सम्भ्रमैर् अभ्युपेतः प्राविशद् राज-मन्दिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभ्युपेतोऽभिगमनेन सत्-कृतः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रीत्या फुल्लानि लोचनानि येषां तैः, यतो मुकुन्दो लोचनानां परमानन्द-प्रद-रूप इत्य् अर्थः । अतः सम्भ्रमः साध्वस आदरो वा तत्-सहितैः, अभिमुखे उपेतः सङ्गतः सन् प्रकर्षेण लीला-गत्या सकल-परिवार-साहित्य्-आदिन् आविशत् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानुक्रम-प्राप्तम् अन्तःपुर-प्रवेशवृत्तम् एव वर्णयितुम् आह—अन्तर् इति । प्रीत्या फुल्लानि लोचनानि येषां तैः अतः सम्भ्रमस् त्वरा तत्-सहितैः अभिमुखे उपेतः सङ्गस् तस् सन् प्रकर्षेण मधुर-गमनेन तत्-तत्-परिकर-शोभा-विशेषेण चाविशत् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.३९ ॥
पृथा विलोक्य भ्रात्रेयं कृष्णं त्रि-भुवनेश्वरम् ।
प्रीतात्मोत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-स्नुषा द्रौपदी-सहिता ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिगमनेन सम्मुख-गमनेन स्नुषा पुत्र-वधूः । स्नुषया सह सस्नुषा पृथा परिषस्वजे । स्नुषा तु पश्चात्-स्थित्वैव नम्रत्वादिना तम् आदृतवतीत्यग्रे वक्ष्यते । यद्य् अपि विद्यमानता मात्रार्थस्य सह-शब्देन समासः किन्त्वेकक्रियायोगिन एवेति शब्द-स्मृतिस् तथाप्यत्र वक्ष्यमाणरीत्या समासस्यार्षत्वम् अङ्गीकार्यम् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रात्रेयम् इति परम-स्नेह-विषयत्वम्, त्रिभुवनेश्वरम् इति परमैश्वर्यं दौर्लभ्यञ्चोक्तम् । अतो विलोक्य साक्षाद्-दृष्ट्वा प्रीतात्मा हृष्टचित्ता सती, अतः पर्यङ्काद् उत्थायेति स्व-गृहे स्थिता दूरतो विलोक्य स्व-पर्याद् उत्थायागम्येत्य् अर्थः । यद् वा, श्री-भगवत्-सन्दर्शनापेक्षया प्राग् एव मुख्य-राजमन्दिरे समागता पश्चात्-तत्-साक्षाद्-दर्शनेन प्रेमोद्रेकातुरा सती पर्यङ्काद् उत्थातुम् अशक्तापि कथञ्चित्थायेत्य् अर्थः । परितः सष्वजे आलिङ्गितवती ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रात्रेयम् इति परम-स्नेह-विषयत्वं तञ् च त्रिभुवनेश्वरम् इति परमोल्लास-हेतुत्वं पर्यङ्काद् उत्थायेति श्री-भगवत् सन्दर्शनापेक्षया प्राग् एव मुख्य-राज-मन्दिरे समागत्योपविष्टा पश्चात्-साक्षाद्-दर्शनेन प्रेमोद्रेकादातुरा सती पर्यङ्काद् उत्थातुम् अशक्तापि कथञ्चिद् उत्थायेत्य् अर्थः स्नुषया सह वर्तमानो पृथा परिषस्वजेस्नुषा तु
तत्-पश्चात् स्थित्वैव नम्रत्वादिना तम् आदृतवतीत्य् अग्रे वक्ष्यते यद्य् अपि विद्यमानता-मात्रार्थस्य सह-शब्दस्य न समासः किन्त्व् एकक्रिया-योगिन एवेति शब्द-स्मृतिस् तथाप्य् अत्र वक्ष्यमाणया रीत्या समासस्यार्षत्वम् अप्य् अङ्गीकार्यम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पृथाविलोक्येत्य् आदि सस्नुषा द्रौपद्या सह उत्थिता परिषस्वजे इत्युत्थान एव तत्-साहित्यम् ॥ ३९-४६ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पृथाविलोक्येत्य् आदि सस्नुषा द्रौपद्या सह उत्थिता परिषस्वजे इत्य् उत्थान एव तत्-साहित्य् अम् ॥ ३९-४६ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.४० ॥
गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः ।
पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्यं प्रकार-विशेषम् । प्रमोदेनोपहतोऽभिभूतः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोविन्दं शब्द-मात्रैक-गोचरम् । कथञ्चित् प्राकट्ये\ऽपि । देव-देवानां श्री-ब्रह्मादीनाम् अपीशम् । आदृत इति । कथं सम्भ्रान्त इतस् ततो धावस्य् अहं त्वद्-अधीन एवालं पूजा-प्रयासेन सुखम् अत्रोपविश त्वां पश्यानीत्येवं बहुधा कृष्णेनादृतः सन् नृपः सर्व-पूजोपयोगि-सम्पादने समर्थो\ऽपि नाविन्दत् । तत्र हेतुः—प्रमोदेन भगवद् आगमन-जन्याह्लादेन ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सस्नुषा परिषस्वजे-द्रौपदी-सहिता उत्थाय परिषस्वजे, उत्थाने च साहित्यं पश्चात् कृष्णा तं ननामेत्य् अर्थः ॥ ४०-४६ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दं पृथ्व्याम् अवतीर्णं साक्षाद्-भगवन्तम्, अतो देव-देवानां श्री-ब्रह्मादीनाम् अपीशम् । एवं परम-दौर्लभ्यम् उक्त, आदृतः सादरः, यद् वा, कथं सम्भ्रान्तो\ऽसि, ततस्-ततो धावसि, अहं त्वद् अधीन एव, अलं पूजा-प्रयासेन, सुखम् अत्रोपविश, चिरात्त्वां पश्यमीत्य् एवं बहुधा-कृष्णेनादृतः सन्, नृप इति सर्व-कर्माकौशलादिकं पूजासाधनसहाय् आदि-सम्पन्नत्वञ् च सूचितम् । तथापि नाविददनुसन्धातुम् अपि नाशक्नोत्, यतः प्रमोदोपहतः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोविन्दं शब्द-मात्र-गोचरं कथञ्चित्-प्राकट्ये\ऽपि देव-देवानां श्री-ब्रह्मादीनाम् अपीशम् एवं परम-दौर्लभ्यम् उक्तम् आदृतः सादरः यद् वा, कथं-सम्भ्रान्तो\ऽसि ततस्-ततो धावसि अयं त्वद्-अधीन एव अलं पूजा-प्रयासेन सुखम् अत्रोपविशाचिरात्त्वां पश्यानीत्य् एवं बहुधा कृष्णेनादृतस् सन् नृप इति सर्व-कर्म-कौशलादिक-पूजा-साधन-सहायादि-सम्पन्नत्वञ् च सूचितं तथापि नाविदत् अनुसन्धातुम् अपि नाशक्नोत् यतः प्रमोदोपहतः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृत्यं समुचित-प्रकारम् ॥४०॥
॥ १०.७१.४१ ॥
पितृ-ष्वसुर् गुरु-स्त्रीणां कृष्णश् चक्रे \ऽभिवादनम् ।
स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरु-स्त्रीणां च । कृष्णया द्रौपद्या । भगिन्या सुभद्रया ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितृष्वसुः पृथायाः । गुरु-स्त्रीणां बाह्लीकादि-भार्याणाम् । भगिन्येत्य् उक्तेर् ज्येष्ठभ्रातुः कनिष्ठ-भगिन्या अप्य् अभिवादनं कर्तव्यम् एवेति सूचितम् ॥ ईश्वरत्वाद् वा सर्व-नमस्य इति ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तेषाम् अत्यन्त-हर्ष-सम्भ्रमेण व्यवहारस्यासिद्धिं दृष्ट्वा स्वयम् एवापालयद् इत्य् आह—पितृष्वसुर् इति गुरु-स्त्रियः श्री-द्रौपदी-व्यतिरिक्ताः श्री-युधिष्ठिर-भीमयोर् भार्याः, तत्-पुरोहितादीनां वा पत्न्यस् तासाम्, कृष्णः व्यवहारेणापि सर्व-चित्ताकर्षकः, हे राजन् इति अहो महाभाग्यं ते, यत्-तादृशकुले जातो\ऽसीति भावः, यद् वा, निज-गुणाद्यतिप्रकटनेन प्रेमाश्रुपीतादिना वा राजमानः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णस् त्व् एवं तेषाम् अत्यन्त-हर्ष-सम्भ्रमेण व्यवहारस्यापूर्णत्वे\ऽप्य् अतिपूर्णत्वं मत्वानन्तरकृत्यं चकारेत्य् आह—पितृष्वसुर् इति । हे राजन्न् इति अहो भाग्यं यत्-तादृश-कुले जातो\ऽसीति भावः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णया द्रौपद्या । भगिन्या सुभद्रया ॥४१॥
॥ १०.७१.४२ ॥
श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीश् च सर्वशः ।
आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आनर्च अर्चितवती ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्वश्र्वा पृथया । शैब्याम् इति मित्रविन्दाव्-इशेषणं द्वितीय-तथा-शब्देनानुक्तत-समुच्चायकेन लक्ष्मणा च गृहीता । यद् वा, शिवं । शुभं तद्-युक्तां सर्व-सुख-पूर्णां लक्ष्मणाम् इत्य् अर्थः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्वश्र्वेति युग्मकम् । सम्यक् तत्-तद् अनुरूप-पूजा-द्रव्योपदेश-सहाय-वर्ग-नियोजनादिना मोदिता सती कृष्ण-पत्नीर् इति कृष्णस्येव तासाम् अप्य् अर्च्यत्वं चकारात्-तत्-पुत्रादिवधूः कन्याद्याश् च सर्वश इति सर्वा एव प्रत्येकं सर्व-प्रकारैश् चेत्य् अर्थः । शैब्याम् इति मित्रविन्दाया एव विशेषणं द्वितीय-तथा-शब्देना-नुक्तसमुच्चयार्थकेन लक्षणा च गृहीता यद् वा, शैब्यां शिवं शुभं तद्-युक्ता सर्व-सुख-लक्षणां लक्ष्मणाम् इत्य् अर्थः ॥ ४२-४३ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्वश्र्वा कुन्त्या ॥ ४२-४३
॥ १०.७१.४३ ॥
कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
अन्याश् चाभ्यागता यास् तु वासः-स्रङ्-मण्डनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्याश् च याः कृष्ण-पत्न्योऽभ्यागतास् ता अपि ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याः अनुक्तनाम्न्यः । अभ्यागतास् तत्रागताः । मण्डनानि भूषणानि मण्डनं भूषणे क्लीबं स्यात्-त्रिष्व् अलङ्करिष्णुनि इति मेदिनी ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् तत्-तद् अनुरूप-पूजा-द्रव्योपदेश-सहाय-वर्ग-नियोजनादिना चोदिता सती, कृष्णस्य पत्नीर् इति कृष्णस्येव तासाम् अप्य् अर्च्यत्वं सूचितम् । च-कारात्-तत्-पुत्रादि-वधू-कन्याद्याश् च । सर्वश इति सर्वा एव प्रत्येकं सर्व-प्रकारेणेत्य् अर्थः । श्री-सत्यभामा-जाम्बवत्योर् मध्ये श्री-भद्राया अर्चनं पितृभ्यां तयोर् इवास्या अपि भक्त्या भ्रातृभिर् दानेन ताभ्यां साम्यात् तथेति समुच्चये,
यद् वा, शैब्यां सर्व-शुभ-लक्षणां लक्ष्मणाम् इत्य् अर्थः । नाग्नजित्याः प्राक् तस्या अर्चनं तस्या भगवति भाव-विशेषात्, स च कुरु-क्षेत्रयात्रायां तद्-वाक्याद् एव व्यक्तो भावी । शैब्याम् इति मित्रविन्दाया एव विशेषणम्, द्वितीय—तथा-शब्देनानुक्त-समुच्चयार्थकेन लक्ष्मणा च गृहीतैव । तथेत्य् अस्य परेणान्वयः । यथाष्टौ ता मुख्यास् तेनैव प्रकारेण अन्याः श्री-कृष्ण-पत्न्यः पुत्र-पौत्र-वध्वादयश् च, आदि-शब्दात् भोग्य-वेश-शय्यादयः ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शैब्याम् इति मित्रवृन्दा-विशेषणं द्वितीयेन तथा-शब्देनानुक्त-समुच्चयार्थकेन लक्ष्मणा च गृहीता ॥ ४३-४६ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७१.४४ ॥
सुखं निवासयाम् आस धर्म-राजो जनार्दनम् ।
स-सैन्यं सानुगामात्यं स-भार्यं च नवं नवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यहं नवं यथा भवति तथा सुखं निवासयाम् आस ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता अपि कृष्ण-पत्नीर् अपि ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निवेशयामास बाह्यान्तरादि-विभाग-कल्पनया विश्वकर्मणा पुरनिर्माणे प्राग् एव तद् अर्थ-रचिते महा-विस्तीर्ण-निवेशने न्यवासयत्, यतो धर्म-राजः सर्व-सद्धर्म-श्रेष्ठ इत्य् अर्थः । किं च, जनैर् भक्तैः सदा द्रष्टुं याच्यत इति जनार्दनम्, अतो भक्त-प्रवरेण तेन तस्य तथा कर्तुं युज्येतैवेति भावः । अनुगाः पुत्र-पौत्रादय उद्धवादयश् च, अमात्याः कृतवाद्याः, तैः सहितम् ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुखम् इति च युग्मकम् । तथा निवेशने हेतुः धर्म-राजः किञ् च जनैर् भक्तैः सदा द्रष्टुं याच्यत इति जनार्दनम् अतो भक्त-प्रवरेण तेन तस्य तथा-कर्तुं युज्येतैवेति भावः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यहं नवं नवं यथा-स्यात्-तथा निवासयामास ॥४४॥
॥ १०.७१.४५ ॥
तर्पयित्वा खाण्डवेन वह्निं फाल्गुन-संयुतः ।
मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं भूतम् । यः प्रेम्णा नित्यं फाल्गुनेन संयुतः । अत एव तस्य सहायेन सता येन खाण्डवेन वह्निं तर्पयित्वा तत्र च मयं मोचयित्वा तं मयं प्रयुज्य युधिष्ठिराय दिव्या सभा कृता तं जनार्दनम् । अनेन राज्ञः कृष्णोपकारानुस्मरणं दिव्यत्वात् सभाया यथा-मनोरथं सर्वावकाश-संपादनं च दर्शितम् ॥ ४५-४६ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यः कृष्णः । अत एव नित्य-संयुतत्वाद् एव तस्यार्जुनस्य । येन कृष्णेन । तत्र च खाण्डवे च । मयं दैत्यम् । तं खाण्डव-वह्निम् उक्तं प्रयुज्य प्रेर्य अनेन सभाकारणादि-कथनेन । राज्ञो युधिष्ठिरस्य ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-कृताद् अप्य् उपकाराद् अधुना अधिकं तं चिकीर्षंश् चिरं न्यवसद् इति वक्तुं प्राक् कृतम् उपकारम् आह—तर्पयित्वेति । कृता सम्पादिता, अत एव प्रियान्तर-चिकीर्षयोवास । फाल्गुनेन सह भटैः श्री-सात्यक्य् आदिभिर् इति राज्ञो\ऽत्यन्त-प्रीति-सम्पादनं सूचितम् ॥ ४५-४६ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् एतन्-मात्रोपकारस्य निष्क्रयं राजा न मेने इत्य् आह—तर्पयित्वा इति । हृता अर्पिता कृतेति पाठे सम्पादिता ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन दिव्या सभा कृता तं मयं मोचयित्वा उवास तर्पयित्वेत्य् आदि-श्लोक-द्वयेनाष्ट-पञ्चाशत्तमाध्याय-प्रोक्तैव कथा पुनर् अत्रावेशाद् एवानुकथिता ततश् चायं क्रमः ॥४५॥
॥ १०.७१.४६ ॥
उवास कतिचिन् मासान् राज्ञः प्रिय-चिकीर्षया ।
विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्पयित्वेत्य् आदि-श्लोकद्वयेनाष्ट-पञ्चाशत्तमाध्यायोक्तैव कथा पुनर् अत्रावेशादेवानुकथिता । ततश् चायं क्रमः । इन्द्रप्रस्थे खाण्डव-दाह—गाण्डीवादि-प्राप्ति-मृगया-कालिन्दी-प्राप्तिर् वार्षिक-चातुर्मासवासास् ततो द्वारका-गमन-कालिन्दी-भद्रादि-विवाह—नरक-वधादि-बहु-कथान्ते एव राजसूय-निमन्त्रणादिकम् इति ज्ञेयम् ॥ ४६ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स तु प्रियान्तर-चिकीर्षयोवास फाल्गुनेन सह भटैः श्री-सात्यक्य् आदिभिः ॥ ४६ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्र-प्रस्थे खाण्डव-दाह—गाण्डीवादि-प्राप्ति-मृगया-कालिन्दी-प्राप्ति-वार्षिक-चातुर्मास-वासाः ततो द्वारका-गमन-कालिन्दी-भद्रादि-विवाह—नरक-वधादि-बहु-कथान्त एव राजसूय-निमन्त्रणादिकम् इति ज्ञेयम् ॥ ४६ ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्ति-चेतसाम् ।
अत्रैक-सप्ततितमो दशमो\ऽजनि सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे कर्षणस्येन्द्र-प्रस्थ-गमनं
नामैक-सप्ततितमोऽध्यायः ।
॥ ७१ ॥
(१०.७२)