७०

श्री-कृष्णस्याह्निक-कृत्य-वर्णनं युधिष्ठिर-सन्देशम् आदाय नारदस्य, जरासन्ध-कारा-निबद्ध-नृपाणां सन्देशम् आदाय दूतस्य चागमनम् ।

॥ १०.७०.१ ॥

श्री-शुक उवाच—

अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।

गृहीत-कण्ठ्यः पतिभिर् माधव्यो विरहातुराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ततस् तु सप्ततितमे कृष्णस्याह्निक-कर्मणि ।

दूत-नारदयोः कार्ये कार्य-मन्त्र-विचारणम् ॥

जगन्-मङ्गल-चारित्र माह्निकं जगद् ईशितुः ।

नारदेन क्वचित् किञ्चिद् दृष्टम् आह यथा-क्रमम् ॥

अथेति, इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना इति प्रस्तुतस्य श्री-कृष्णस्याह्निकस्याधिकारेऽथ-शब्दः । उपवृत्तायाम् आसन्नायाम् । पतिभिः श्री-कृष्णैः माधव्यो माधवस्य भार्याः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो नारद-गमनोत्तरम् । दूत-कार्य जरासन्ध-बद्ध-नृप-मोक्षण-रूपम्, नारद-कार्यं युधिष्ठिर-यज्ञे कृष्ण-प्रेषण-रूपम् एवमुभयोः कार्ये प्राप्ते कार्य-मन्त्र-विचारणं कर्तव्यम् अन्त्र-विमर्शनम् । अह्नि कर्तव्यम् आह्निकम् । आसन्नायां व्यतीत-प्रायायाम् । माधब्यो रुक्मिण्य् आद्याः । पतिभिर् इति बहुत्वं प्रकाश-बाहुल्यात् । अशपन्—रे-रे कुक्कुटाः प्रिय-विच्छेदक-प्रातर् बोधका युयं शीघ्रम् एव म्रियध्वम् इति शापं ददुः ॥ १-२ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नारद-दृष्ट-सदाचार-प्रसङ्गाच्-छ्री-भगवत आह्निकम् आह—अखेत्य् आदिना कथाः [२१ श-श्लो] इत्य् अन्तन । गृहीत-कण्ठ्य इति पतिभिर् अङ्के शायितानाम् उपधानतया कल्पितेन श्री-वाम-भुजेन कण्ठ-प्रहणाद् इति महा-सौख्यम् उक्तम् । अत-व विरहेण प्रातर् भाविनाप्य् आतुरा विकलाः सत्यो\ऽशपन् जगर्र् हिरे। कुक्कुटान् क्रीडा-कुक्कुट-विशेषान्, तत्-कूजनेन प्रातर् ज्ञानात्, स्नानाद्य् अर्थं स्व-परित्यागेन प्रत्युर् उत्थानोपपत्तेः, पतिभिर् इति बहुत्वं प्रतिगृहं शक्ति-विशेषेण पृथक् पृथग् अवस्थित्या नानात्वस्य् एव प्राप्तेः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-नारद-दृष्ट-सदाचार-प्रसङ्गात् श्री-भगवत आह्निकम् आह—अथेत्य् आदिना कथा इत्य् अन्तेन । गृहीत-कण्ठ्य इति पतिभिर् अङ्के शायितानाम् उपधानतया कल्पितेन श्री-वामभुजेन । कण्ठ-ग्रहणात् इति महा-सौख्यम् उक्तम् अत एव विरहेण प्रातर् भाविनाप्य् आतुराः विकलाः । सत्यः कुक्कुटान् क्रीडा-कुक्कुट-विशेषान् अशपन् म्रियन्ताम् इति मूकीभवन्त्व् इति वा चुकशुः तत्-कूजनेन प्रातर् ज्ञानात् स्नानाद्य् अर्थं स्व-परित्यागेन पत्युर् उत्थानोपपत्तेः पतिभिर् इति बहुत्वं प्रकाश-भेदात् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अध्याये सप्ततितमे प्रातः-कृत्य-कथा हरेः ।

सुधर्मायां दूत-नारदयोः कार्य-विधारणा ॥

इत्य् अर्थ-धर्म-कामेषु कृष्णेन श्रद्धितात्मनेत्य् उक्तम् अतो ब्राह्म्य-मुहूर्त्तम् आरभ्य कीदृशं धर्माचरणम् इत्य् अपेक्षायाम् आह—अथेति । उप आधिक्येन वृत्तायां जातायां सत्यां पतिभिर् इति प्रकाश-बाहुल्याबहुत्वं माधव्यो रुक्मिण्याद्याः अशपन् । रे रे कुक्कुटा । प्रिय-विच्छेदक-प्रातः-समय-प्रादुर्भावकाः ! यूयं शीघ्रम् एव म्रियम्दध्वम् इति शापं ददुः ॥१॥


॥ १०.७०.२ ॥

वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः ।

गायत्स्व् अलिष्व् अनिद्राणि मन्दार-वन-वायुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वन्दिन इव श्री-कृष्णं बोधयन्ति सन्ति वयांसि पक्षिणोऽरूरुवन् अति-शयेनाकूजन् । मन्दार-वन-वायुभिर् गायत्स्व् अलिष्व् अनिद्राणि निद्रा-रहितानि वयांसि ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णं रात्रि-क्रीडानन्द-पूर्णम् । किं वा, रति-वैदग्ध्यादिना सर्वाङ्गोदित—रति-चिह्नैर् वा चित्ताकर्षकम्, अतो रति-श्रान्त्या रात्रि-शेषे शयानम् इति भावः । अत एव बोधयन्ति, जागरयन्ति सन्ति, वन्दिम इवेति ते\ऽपि प्रबोधयन्तो बहुधोच्चैर् अस्तुवन्न् इत्य् अर्थः । किम् वा, तत्-स्तुतिवत् कूजनस्य वैचित्र्यादिकं सूचयति ।

ननु, तान्य् एव कथम् आदौ प्रबुद्धानि ? तत्राह—गायत्स्व् इति । प्रातः-काल-स्वभावेनादौ शीतवातः, ततो महा-वृद्धाणां प्रचलनेन तत्-पुष्पादि-स्थितानाम् अलीनां गानम्, तेनानिद्राणि गत-निद्राणीत्य् अर्थः । एवं सङ्क्षेपेण प्रातर् वर्णनम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वन्दिन श्वेति तेपि प्रबोधयन्तो बहुधोच्चैर् अस्तुवन्न् इत्य् अर्थः । ननु, तान्य् एव कथम् आदौ प्रबुद्धानि तत्राह—गायत्स्व् इति । प्रातः स्वभावेनादौ शीतवातः ततो महा-वृक्षाणां प्रचलनं ततः पुष्पादि-स्थितानाम् अलीनां गानं तेनानिद्राणि गत-निद्राणीत्य् अर्थः । एवं सक्षेपेण प्रातर् वर्णनम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्दार-वन-वायुभिः सुगन्धैः प्रबुद्ध्य गायत्सु सत्सु अलिषु तद्-गान-शब्देन अनिद्राणि वयांसि पक्षिणः कीदृशानि वन्दिन इव कृष्णं बोधयन्ति ॥२॥


॥ १०.७०.३ ॥

मुहूर्तं तं तु वैदर्भी नामृष्यद् अति-शोभनम् ।

परिरम्भण-विश्लेषात् प्रिय-बाह्व्-अन्तरं गता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैदर्भीत्य् उपलक्षणम् । परिरम्भण-विश्लेषात् तं पर्यालोच्य ॥ ३-४ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुहूर्तं मुहूर्तोपलक्षितं कालम् । तं परिरंभण-विश्लेषम् । आलोच्य विमृश्य ल्यब्-लोप इति पञ्चमी । बाह्वन्तरं वक्षः-स्थलम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रियस्य वाह्वोरन्तरं मध्यं श्री-वक्षा-स्थलं गता आलिङ्ग्याङ्के शयनेन प्राप्ता सती शोभनम् अपि नामृष्यत नासहत, दृष्टम् अमन्यतेत्य् अर्थः । कुतः ? परिरम्भणस्य विश्लेषाद्-विघ्नात् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विश्लेषो विघ्नः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिरम्भणस्य विश्लेषात् विश्लेष-हेतुत्वात् तं ब्राह्मथं मुहूर्तं शोभनम् अपि न अमृष्यत् अशोभनम् एव मेने इत्य् अर्थः । वैदर्भीत्य् उपलक्षणं सर्वा एव ॥३॥


॥ १०.७०.४ ॥

ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः ।

दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्राह्मे मुहूर्ते चतुर् घटिकावशिष्ट-रात्री—

अरुणोदय-कालो हि मुहूर्तो ब्राह्म उच्यते ।

रात्रेः पमियामो\ऽपि मुहूर्तो ब्राह्म उच्यते ॥

ब्राह्मे मुहूर्ते या निद्रा सा पुण्य-क्षयकारिणी ।

तां कुर्वाणो द्विजो मोहात्पाद-कृच्छेण शुद्धयति ॥ इत्य् आद्य् उक्तेः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दध्यौ प्रसन्न-करणः प्रसन्नानि करणानि कार्याणि यस्य ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्राह्मे श्री-ब्रह्मदैवत्ये रात्ररन्ते, सन्ध्यातः पूर्व-स्मिन्, तल्-लक्षणञ्चोक्तम् रात्रेश् चतुर्दशो भागो मुहूर्तो ब्राह्म उच्यते माधवः सद्-धर्म्मे प्रवर्तनाद्य् अर्थं मधुकुले\ऽवतीर्ण इति सदाचार-परतोक्ता । स्वत एव प्रसन्नानि करणानि सर्वेन्द्रेयाणि यस्य सः, यद् वा, लोक-शिक्षार्थं प्राणायामादिना स्थिर-चित्तः सन्न् इत्य् अर्थः । तमसः प्रकृतेः परं परमेश्वरं तद्-रूपेण दध्याव् इत्य् अर्थः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्राह्म इति युग्मकम् रात्रेश् चतुर्दशो भागो मूहूर्तो ब्राह्म उच्यते लोक-शिक्षापणार्थम् एव नर-लीला-कोतुकार्थश् च दध्याव् इत्य्-आदिकं तत्-तद् अर्थानुकरण-लीलाख्यानं तथैव प्रसन्न करणः प्राणायामादिना स्थिर-चित्ता सन्न् इत्य् अर्थः । तमसः प्रकृतेः परं परमेश्वर-रूपम् आत्मानं दध्यौ ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : साधारण-लोक-शिक्षार्थम् एव दध्याव् इत्य्-आदिकं तद् अर्थानुकरण-लीलाख्यानं नृलोके क्रीडापरम् इत्य् अर्थ्ः ॥ ४-४० ॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दध्यौ प्रसन्न-करन इत्य्-आदि । प्रसन्नानि प्रसाद-युक्तानि करणानि कार्याणि लीला यस्य, आत्मानं स्वयम् एव स्वं दध्यौ ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं स्वं दध्यौ । यथान्यजनो ब्राह्म्य-मुहूर्त तं ध्यायति तथैव सो\ऽपि स्वम् एव दध्यौ तमसः प्रकृतेः परम् । एक मितीश्वरस्यैकस्यैवौचित्यात् । अतः स्वयं ञ्जोति स्वयम् एव प्रकाशमानं ननु, सङ्कर्षणादयो\ऽपीश्वराः श्रयन्ते, तत्राह—अनन्यं न को\ऽप्य् अवतारो\ऽन्यो यस्मात् तं किं च, सङ्कर्षणादिषु स्वांशावतारेषु पृथङ्-नित्यं वर्तमानेष्व् अप्य् अन्ययं परिपूर्णम् इत्य् अर्थः । प्रादुर्भावे तु कृपैव कारणम् इत्य् आह—स्व-संस्थया स्वस्य सम्यक् सर्व-जन-दृश्यतया स्थित्या निवृत्तं कल्मषम-विद्या यस्मात् किञ् च ब्रह्मण आख्या सम्यक् ख्याति प्रकाशो यस्मात् तं यदुक्तम् अष्टमे मदीयं महिमानञ् च परं ब्रह्मेति शब्दितं वेत्स्यस्य् अनुगृहीतं मे इत्य्-आदि ब्रह्मणो हि प्रतिष्ठाहम् इत्य्-आदि च यद् वा, ब्रह्माख्यं ब्रह्मनामकं , ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते इत्य् उक्तेः सर्व-श्रेष्ठ्यम् आह अस्य विश्वस्य उद्भवः उद्रिक्तो भवः संसारस् तस्य नाश-हेतुभिः स्व-शक्तिभिर् ज्ञानप्रदत्व-भक्ति-प्रदत्वादिभि-लक्षिता सर्वत्रानुभूता भावानां मादीनां निर्वृतिः यस्मात् तं तत्र भक्तानां तद्—दत्त-प्रेमातिशयेन शिष्टानां तत्-पृत्यसुष्ठु पालनेन दुष्टानां तद्-वधानन्तर-मुक्ति-प्राप्त्या निवृतिः ॥ ४-५॥


॥ १०.७०.५ ॥

एकं स्वयं-ज्योतिर् अनन्यम् अव्ययं

स्व-संस्थया नित्य-निरस्त-कल्मषम् ।

ब्रह्माख्यम् अस्योद्भव-नाश-हेतुभिः

स्व-शक्तिभिर् लक्षित-भाव-निर्वृतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एकम् अक्षण्डम् । तत्र हेतुः, अनन्यं निरुपाधिम् । अत एवाव्ययं नित्यम् । स्वयं-ज्योतिष्ट्वे हेतुः, नित्य-निरस्तं, नित्य-निवृत्तं कल्मषम् अविद्या यस्मात् तम् । उपलक्षणम् आह—अस्येति । अस्य विश्वस्य । लक्षित-भावश् चासौ निर्वृतिश् च । भावः सत्ता । निर्वृतिर् आनन्दः । तथा हि, गुण-क्षोभात् पूर्वं सत्तामात्रं यः, सद् एव सोम्येदम् अग्र आसीत् इत्य्-आदि-श्रुतेः । स एवानन्दश् च, विज्ञानम् आनन्दम् इत्य्-आदि-श्रुतेः । तं सद् आनन्दम् इत्य् अर्थः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राखण्डत्वे । अत एव निरुपाधित्वाद् एव । उपलक्ष्यते ज्ञायते\ऽनेनेति तथा । तटस्थ-स्वरूप-लक्षणोभय-रूपम् इत्य् अर्थः । इत्य् अर्थ इति तात्पर्यम् । सर्वगृहेषु बहुधा स्थितम् अप्य् एकम् एव तं ददर्श । एकत्वञ्चेदं श्री-विग्रह-परम् एव, भगवति विग्रह-विग्रहि-भावस्य निषिद्धत्वाद्-विग्रह एव विभुत्वादेर् दर्शितत्वात् । विग्रहिणस्तु विभुत्वे साध्ये श्री-नारदस्यासन्देहे तद् उपगमनानुपपत्तेः, कृत-काय-व्यूहैः सौभर्यादि-तुल्यत्वापत्तेश् चित्रत्वानुपपत्तेश् च । विश्वनाथस्तु एकम् इत्य् अस्येत्थम् अर्थम् आह आत्मानं स्वं दध्यौ यथान्यो जनो ब्राह्म मुहूर्ते तं ध्यायति तथा सोपि स्वम् एव दध्यौ । तमसः प्रकृतेः परमेकम् इतीश्वरस्यैकस्यैवौचित्यात् । अतः स्वयं ज्योतिः स्वयम् एव प्रकाशमानम् ।

ननु, सङ्कर्षणादयो\ऽपीश्वरा श्रूयन्ते तत्राह—अनन्यं न कोप्य् अवतारो\ऽन्यो यस्मात्-तं सङ्कर्षणादिषु स्वांशावतारेषु पृथङ्-नित्यं वर्तमानेष्व् अप्य् अव्ययं परिपूर्णम् इत्य् अर्थः । प्रादुर्भावे तु कृपैव कारणम् इत्य् आह—स्व-संस्थया स्वस्य सम्यक्-सर्व-जन-दृश्यतया स्थित्या निवृत्तं कल्मषम् अविद्या यस्मात्-तम् । किं च, ब्रह्मण आख्या सम्यक्-ह्यातिः प्रकाशो यस्मात्-तम् मदीयं महिमानं च परं ब्रह्मेति-शब्दितम् इति श्री-मत्स्योक्तेः ब्रह्मणो हि प्रतिष्ठाहम् इति गीताभ्यश् च । यद् वा, ब्रह्माख्यं ब्रह्मनामकम् । ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते इति प्रथम-स्कन्धोक्ते । सर्वश्रैष्ठ्यम् आह—अस्य विश्वस्य उद्भव उद्रिक्तोभवः संसारस् तस्य नाश-हेतुभिः स्व-शक्तिभिः ज्ञान-प्रदत्व-भक्ति-प्रदत्वादिभिर् लक्षिता सर्वत्रानुभूता भावानां मत्यादीनां निर्वृतिर् यस्मात्-तम् । तत्र भक्तानां तद्-दत्त-प्रेमातिशयेन शिष्टानां तत्-कृत-सुष्ठुपालनेन दुष्टानां तद्-वधानन्तर-मुक्ति-प्राप्त्या निवृतिर् इति ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आत्मानम् इति विवृणोति—एकम् इति । ध्येय ध्यातृत्वादि-भेद-रहितम्, ब्रह्माख्यं ब्रह्मणो\ऽपि आख्या प्रतिष्टा यस्मात्, स्व-शक्तिभिर् ब्रह्म विष्णु-महेश-रूपाभिर् अस्य विश्वस्योद्भव-नाशादि-हेतुभिर् लक्षिता भाव-निर्वतिः सत्त्वानन्दो यस्य सृष्टेः प्राग् अन्त-मध्यवर्त्तिनाम् इत्य् अर्थः । स्व-संस्थया आत्म-मर्यादया अविकारेणैव अहम् एवासम् अग्रे [भा।पु २.९.३२] इत्य् उक्तेः । अत एव नित्य-निरस्त-कल्मषं नित्य-निरस्ताविल्यमतः स्वयञ्ज्योतिः । एवम्-भूतात्मनः श्री-विग्रहं दध्यौ, अहो सौन्दर्य मस्येति चिन्तितवान् । उक्तञ् च विस्मापनं स्वस्य च सौभगर्धेः [भा।पु ३.२.१२] इत्य्-आदि ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमेश्वरत्वम् एवाह—एकम् इति । अस्येन्यादिना जीवतत्त्वाद् वैलक्षण्यम् उक्तम् । अन्यत् तैर् व्यजितम् । यद् वा, एकम् इति स एक एवेतरथा मिथो भयम् [भा।पु ५.१८.२० ] इत्य् आद्य् उक्त-न्यायेनेश्वरस्यैक्योपपतेः । अतः स्वयञ्ज्योतिः स्वयम् एव प्रकाशमानम् इत्य् अर्थः । परमात्मत्वेन तस्य सर्व-प्रकशकत्वात्-तेनान्य-प्रकाश्यत्वाभावा च ।

ननु, सङ्कर्षणादयो\ऽपीश्वराः श्रूयन्ते ? तत्राह—अनन्यं न कश्चिद् अन्यो भित्न्नो\ऽस्ति यस्मात् तम्, स एव लीलया चतुर्व्युहादि-रूपेण वर्तते, न तु ते ततो भिना इत्य् अर्थः । किं च, अव्ययं सर्व-शक्ति-परिपूर्णम् इति । तच्-छवत्यैव सङ्कर्षणादीनां तत्-तच्-छक्तिर् इति भावः । अत एव स्वकीयया असाधारणया संस्थया परमानन्द-घन-रूपया सम्यक् स्थित्या विशिष्टम्, अतो नित्यं निवृतं कल्मष भक्तानां सर्व-दुःखं यस्मात्-तम्, यद् वा, स्वेषु भक्तषु संस्थया सदा साक्षाद् इव परिस्फूर्त्या कृत्वा नित्य-निवृत्त-कल्मषम्, किं च, ब्रम्हणो\ऽखण्ड-चैतन्यस्य श्री-चतुर्-मुखस्य वा आख्या प्रसिद्धिर् यस्मात्, अखण्डत्वस्य तस्माद् एवाभिव्यत्तेः, सूर्यादि-वरश्मिजालस्य च तन्-नाभि-पद्मओद्भत्वात्, यद् वा, ब्रह्म-स्वरूपम् आख्या नाम यस्य तम्, नाम्नो हि सच्चिदानन्द-रूपत्वात् । इति तेनापि नित्य-कल्मष-निवृत्तिर् अभिप्रेता । किं च, उद्धवनं सृष्टिः, आदि-शब्दात् स्थिति-प्रलयौ श्री-वैकुण्ठ-वैभवादि-वैचित्र्यञ् च, तद्-धेतुभिः, स्वस्य स्वाधीनाभिर्वा शक्तिभिर् माया चद्-व्हिलास-रूपादिभिर् विशिष्टम्, अत एवास्य विश्वस्य लक्षित लक्षणैर् दश-भाव-निवृतिः प्रेमानन्दो यस्मात्-तम् । एवं सर्वथा जीवतत्त्वाद् वैलक्षण्यम्, विशेषणानां चैषां यथोत्तरं तत्र श्रैष्ठयम् ऊह्यम् ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमेश्वरत्वम् एवाह—एकम् इति । अस्येत्य् आदिना जीवात्मतो वैलक्षण्यम् उक्तम् उद्भव-नाशेत्य् उपलक्षणम् अन्यत्-तैः यद् वा, आत्मानं स्व-स्वरूपं दध्यौ तस्य तावच्-छुत्वम् आह—तमसः परम् इति । तमसः परस्तात् इति श्रुतेः । सङ्घातरूपत्वं निषेधति एकम् इति एकम् एवाद्वितीयं ब्रह्म इति-श्रुतेः । एकत्वेपि स्वाभाविक-शक्तित्वं व्यञ्जयति—स्वयज्योतिर् इति । स्वयम् आत्मम् एव ज्योति नाप्रकाशो यस्य तम् आत्म-प्रकाशम् इति-श्रुतेः । अत एव न विद्यते अन्यत् यत्र तं नेह नानास्ति किञ्चन इति-श्रुतेः अत एव न तस्य कार्यं करणं च विद्यते न तत्-समश्चाभ्यधिकश् च दृश्यते परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति-मन्त्रोपि अनयैव शक्त्या प्रकृतीक्षणचाभ्य् उपगतं भाष्यकृद्धिः अतः प्राकृत-विलक्षणत्वाद् अव्ययम् अपक्षयादि शून्यम् एवं तत्-स्वरूपस्य स्वतः शुद्धत्वं दर्शयित्वा तत्रान्यच्छाया-शाबल्यम् अपि निषेधति स्व-संस्थया स्व-प्रभावेनैव नित्यं निरस्तं निवृत्तं कल्मषं स्व-सान्निद्ध्य-मात्रोपक्रियमाणया मायया शाबल्याभासोपि यत्र तम् अयम् आत्मा अपहत-पाप्मा इति-श्रुतेः । एवं स्वरूपेण गुणेन च सर्वतो बृहत्तमत्वाद्-ब्रह्मेत्याख्या यस्य तादृशम् न तस्य कार्यम् इत्य् आदेर् एव श्रुतेः । तथैव तं कार्य-द्वारापि लक्षयति—अस्येति । भावः स्वभावः स्वरूप-शक्तिर् इत्य् अर्थः । निर्वृतिर् आनन्दैक-स्वरूपत्वं तच्-छक्तिभिस् ते लक्षिते यत्र तम् अस्येति हि दृश्यमान-जाड्यादि-दोष-युक्तत्वं सूचयित्वा तद् उद्भवादि-शक्तीनाम् अपि सदोषत्वं दर्शितं ततो बहिरङ्गात्वञ् च ततस् तद्-दोषास्पृश्या तद् उपजीव्या चान्या स्वरूप-भूता शक्तिर्-बोधिता सर्वात्मत्वेन परमानन्द-रूपं तत्-स्वरूपञ्चेति । यद् वा, एकम् इति स एक एवेतरथामिथोभयम् इत्य् आद्य् उक्त-न्यायेन ईश्वरस्यैकस्यैव युक्तत्वात् अतः स्वञ्ज्योतिश् च स्वयम् एव प्रकाशमानम् इत्य् अर्थः ।

ननु, सङ्कर्षणादयोपीश्वराः श्रूयन्ते तत्राह—अनन्यं न कश्चिद्-व्यूहो\ऽन्यो भिन्नोस्ति यस्मात् तं स एव लीलया चतुर्व्यूहादि-रूपेण वर्तनते न तु ते ततो भिन्ना इत्य् अर्थः । तत्-तत्-प्रादुर्भावकत्वेप्य् अलं क्षयिष्णुसरोवरवद् अव्ययम् अत एव स्वीयया असाधारण-रूपया संस्थया सम्यक् स्थित्या निवृत्तं कल्मषं निकर्ष-रूपं यस्मात् तं किं च, ब्रह्मणोपि आख्या ख्यातिः प्रकाशो यस्मात् तं तद्-उक्तम् अष्टमे श्री-मत्स्य-देवेन—

मदीयं महिमानञ् च परं ब्रह्मेति शब्दितम् ।

वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ इति ।

श्री-विष्णुपुराणे च शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः इति । श्री-भगवद्-गीतासु च ब्रह्मणो हि प्रतिष्ठाहम् इति अस्येत्य् आदि पूर्ववत् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद्-एव स्पष्टयति—एकम् इत्य्-आदि । एकं ध्येय ध्यातृभावे\ऽप्य् एकम्, स्वयं ज्योतिः स्वयम् एवानन्दमयम् एव ज्योतिः प्रकाशो यस्य इत्य्-आदि सर्वम् आत्मानम् इत्य् उक्तस्य विशेषणम् । पुनः कीदृशम् ? ब्रह्माख्यं ब्रह्मेति आख्यैव यस्य न तु निर्विशेषं ब्रह्मेत्य् अपि तं केचिद् आमनन्तीति भावः । अस्य विश्वस्योद्भव-नाशादि हेतुभिर् ब्रह्मादिभिः स्व-शक्तिर् लक्षिता, भावस्य विलासादि-भावस्य निवृतिर् यस्य, तेषु न्यस्त भावतया स्वस्थ विलासत्वात्, स्व-संस्थया स्वमर्यादया नित्यः शाश्वतो निरस्त-कल्मषः स च स च तम् । आत्म-शब्दो\ऽत्र विग्रहपरः । स्वम् एव विग्रहं दध्यौ इति भावः । स्व-बिग्रहः स्वस्यापि ध्येय इत्य् अर्थः । उक्तञ् च विस्मापनं स्वस्य च [भा।पु ३.२.१२ ] इत्य्-आदि ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.६ ॥

अथाप्लुतोऽम्भस्य् अमले यथा-विधि

क्रिया-कलापं परिधाय वाससी ।

चकार सन्ध्योपगमादि सत्तमो

हुतानलो ब्रह्म जजाप वाग्-यतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आप्लुतः स्नातः सन्ध्याया उपगम उपासनम् आदिर् यथा भवति तथा क्रिया-कलापं चकार, काण्वत्वाद् उदयात् पूर्वम् एव हुतानलम् । ब्रह्म गायत्रीं जजाप ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथात्म-स्वरूप-ध्यानोत्तरम् । एतेन प्रातर् उत्थायादावात्म-ध्यानं कार्यम् सुप्त-प्रबोधयोः सन्धावात्मनो गतिम् आत्मदृक् इत्य् आद्य् उक्तेः । तद् अभावे त्वीश्वरस्यापि जीवता स्याद् इति बोधनायैव भगवद् आह्निक-कर्मण्येतद् उकम् इति भावः । सन्धौ दिन-रात्र्योः पूर्वाह्नापराह्नयोश् च या क्रियते सा सन्ध्या प्राणायामोपस्पर्शन-मार्जनादि-पूर्वक-गायत्र्युपासन-रूप-नित्य-कर्म-विशेषः तस्योपगम उपासनं तदादि-कर्माणि सत्तमः परम-कुशलः क्रिया-कलापं सन्ध्योपासनोत्तरामरार्चनादि-रूपम् । एतेन सर्व-कर्मणाम् उपक्रमः सन्ध्योपासनम् एव । तथाह दक्षः—

सन्ध्या-हीनो द्विजो नित्यम् अनर्हः सर्व-कर्मसु ।

यद् अन्यत् कुरुते कर्म न तस्य फल-भाग् भवेत् ॥ इति ।

कर्म नित्य-नैमित्तिकम् । सा च—

उत्तमा तारकोपेता मध्यमा लुप्ततारका ।

अधमा सूर्य-सहिता प्रातः-सन्ध्या त्रिधा मता ॥

उत्तमा सूर्य-सहिता मध्यमा लुप्त-सूर्यका ।

अधमा तारकोपेता सायं-सन्ध्या-त्रिधा मता ॥

पारिजाते तु—

उदयास्तमयादूर्द्द्वं यावत्-स्याद्-घटिकात्रयम् ।

तावत्-सन्ध्याम् उपासीत प्रायश्चित्त-मतः परम् ॥

तच् च—

सन्ध्या-काले त्वतिक्रान्ते स्नात्वाचम्य यथाविधि ।

जपेदष्ट-शतं देवीं ततस् अन्ध्यां समाचरेत् ॥ इति शातातपः ।

देवी गायत्रीम् । कालातिक्रमणे चैव चतुर्थार्घं प्रदापयेत् इति पारिजाते।

गृहे त्व् एक-गुणा सन्ध्या गोष्ठे दश-गुणा स्मृता ।

शत-साहस्रिका नद्याम् अनन्ता विष्णु-सन्निधौ । इति व्यासः ।

मध्याह्न-सन्ध्या-कालस्तु शातातपेनोक्तः अध्यर्द्धयामादासायं सन्ध्या माध्याह्निको मता इति । दश-धेनुसमा सन्ध्या इत्य्-आदिभिर् वाक्यैर् वात्स्यादिभिर् अस्याः फलं बहुधोक्तम् इत्य् अलं प्रसक्तानुप्रसक्तेन । उदितात् पूर्वम् इति उदिते जुहोत्यनुदिते च इति श्रुतेः । दक्षो\ऽप्य् आह—

सन्ध्या-कर्मावसाने तु स्वयं होमो विधीयते ।

ऋत्विक्-पुत्रो गुरुर् ध्राता भागिनेयो\ऽथ विट्-पतिः ॥

एभिर् अपि हुतं यत् स्यात्-तद्-धुतं स्वयम् एव हि ।

तच् च कुण्डे वा स्थण्डिले अपि इति वचनात्-स्वेच्छया कुर्यात् ।

धमनीमन्तरं कृत्वा तृणं वा काष्ठम् एव वा ।

मुखेनाग्निं सम्मिधीत मुखाद् अग्निर् अजायत ॥ इति ।

अङ्गुल्यप्रेन होतव्यं न कृत्वाङ्गुलि-भेदनम् ।

अङ्गुल्य् उत्तर-पार्श्वेन होतव्यम् इति हि स्मृतम् ।

कुण्डे दोष-बहुत्वाच् च स्थण्डिलं शोभनं मतम् ॥

होमस्तु व्याहृतिभिर् एव कार्य इत्य् अलं प्रपश्चेन । वाससीत्य् उक्तेः नैकवस्त्रः प्रवर्तेत स्नान-दानादि-कर्मणि इत्य् उक्तेर् वरुदयं धार्यम् । धौत-वस्त्रम् उपवस्त्रं च

स्नात्वैव वाससी धोते\ऽक्लिष्टे विप्ररिधाय च ।

प्रक्षाल्योरू मृद्भिश् च हस्तौ प्रक्षालयेन् मृदा ॥ इति ।

अक्लिष्टे रजकाक्षालिते । ते\ऽपि सदशे अछिन्नाग्रं तु यद्-धौतं तच्-छुचि मनुर् अव्रवीत् । ते अपि शुष्के नार्द्रम् एकं हि वसनं परिदध्यात् कथञ्चन इत्य् उक्तेः । सप्तवाताहतम् आर्द्रम् अपि परिदध्यात् सप्त-वाताहतं शुष्कवद्-भवति इति शातातपोक्तेः । पाद्मे—

प्रत्यहं क्षालयेद्-वस्त्रं दैवे पित्र्ये च कर्मणि ।

तोवोर् विण्मूत्र-शुक्रेस्तु दूषितं तु मृदंबुभिः ।

कार्पसं कटि-निर्मुक्त कौशेयं भोजने धृतम् ।

क्षालनाच्-छुद्धिम् आप्नोति ऊर्णा बातेन शुद्धयति ॥ इति ।

ईषद् दौतं नवं श्वेतं सदशं यन् न धारितम् ।

अहतं तद्-भवेद्-वासः पावनं सर्व-कर्मसु ॥

ईषद्-धौतम् अक्षार-धौतम् । नवं तद्-दिन-धौतं प्रत्यहं नवस्यासंभवात् । तत्राप्य् अकृत्रिम दशम् । तथा च—

अक्रित्रिम-दशं वस्त्रं प्रशस्तं सर्व-कर्मसु ।

अकृत्रिमा दशा ज्ञेया सिद्धा वायन-कर्मणि ॥ इति भारते ।

अधौत-वस्त्र-सण्पृष्टं स्त्री-धौतं क्षालनाच् छुचि इत्य् अलम् । भ्रह्म जजाप नियत-स्वाध्यायाध्ययनं चकार । गायत्रीं वेत्य् उक्तं स्वामिना । जप-भोजन-होमेषु मूत्रोच्चारे च वाग् यतः इत्य् उक्तेर् जपे मौनम् एव न्याय्यम् ।

सकृद् उच्चरिते शब्दे प्रणवं समुदीरयेत् ।

प्रोक्ते पारशिके शब्दे प्राणायामं समाचरेत् ॥

बहु-प्रलापीत्वाचम्य न्यत्याङ्गानि ततो जपेत् ॥ इति तन्त्र-सारोक्तेः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अनन्तरम् एव, अम्भसि गो-मत्स्यादेः, प्रातः-स्नाने तीर्थस्यापेक्षत्वात् । सत्तम इति सतां धर्म-प्रदर्शनार्थम् इति भावः अन्यत् तैर् व्याख्यातम् । यता, सन्ध्योपगमादि-कर्मसु सत्तमः परम-कुशलः । एवं क्रिया-कलापः सङ्क्षेपेणाभिव्यजित एव, तत्-तद्-आख्यं चोक्तम् ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरम् एव अम्भसि तीर्थमये प्रातः स्नाने तीर्थस्यापेक्षत्वात् इति प्रत्य् अन्तःपुर-बहिर् भाग-गमनं बोध्यते सत्तम इति, सतां धर्म-प्रदर्शनार्थम् इति भावः । अन्यत् तःइ । यद् वा, सन्ध्योपगमादिषु कर्मसु सत्तमः परम-कुशलः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रिया-कलापं चकारेत्य् अन्वयः । सन्ध्याया उपगम उपासनं तदादिषु सत्तमः परम-कुशलः ब्रह्म गायत्रीम् ॥६॥


॥ १०.७०.७ ॥

उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः ।

देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कला अंशान् देवान् ऋषीन् पितॄंश् च तर्पयित्वा ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपस्थाय अदृश्रमस्य केतवः इत्य्-आदि-मन्त्रै संस्तुत्य । पितॄ-नित्य् उक्तेर् जीवतिपतृकस्यापि दिव्य-पितृ-तर्पणे\ऽधिकारात्

देवान् ऋषीन्-मनुष्यांश् च दिव्यान् पितॄन्यमांस् तथा ।

जीवत्पितापि प्रीणीयान् नित्यं स्नात्वा द्विजोत्तमः ॥ इति स्मृतेः ।

वृद्धान् नत्य्-आदिना, विप्रान् दानमानादिना, आत्मा वेदः स विद्यते पाल्यतयायस्य स आत्मवान्

वेद-विप्रौ ममात्मानौ मुख्यो गावस् तथैव हि ।

वेद-गो-विप्र-रक्षायै सर्वदा ध्रियते तनुः ॥ इति श्री-मुखोक्तेः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथेत्य् आदि । ब्राह्म-मुहूर्तोथानाद् आत्म-ध्यानानन्तरम् अम्भसि कासारादौ न तूद्धृत-जलेनाप्लतो वाससी परिधाय सन्ध्योपगमादि क्रिया-कलापं चकार । सन्ध्योपगमादि क्रिया-विशेषणम् कलापस्य पंस्त्वात् । सच्चिदानन्द-मूर्तेर् नखत् मैत्रादि-कर्म नास्त्य् एवेत्य् आदिकम् अनुवण्यता दर्शितम् इति भावः ॥ ७-२६ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रिया-कलापम् एवाह, पक्षान्तरे चादि-शब्दार्थम् एवाभिव्यञ्जयति, उपस्थायेति । वृद्धान् कुल-वृद्धान् विप्रांश् च, च-काराच्-छ्री-शालग्राम-शिलादीश्चाभ्यर्च्य, देवादीनां यथाक्रमं तर्पणे वृद्धादीनां चाभ्यच्चने श्रैष्ठ्यम्, आत्मा धृति-बुद्धिर् वा, तद्-वान्, तद्-विधौ सावधानः सन्न् इत्य् अर्थः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रिया-कलापम् एवाह—पक्षान्तरे चादि-शब्दार्थम् एवाभिव्यञ्जयति-उपस्थायेति त्रिकेण । कला विभूतीः श्री-त्रिविक्रमादि-प्रतिमाश् च वृद्धान् कुल-वृद्धान् विप्रांश् च आत्मा धृतिर् बुद्धिर् वा तद्-वान् तत्-तद्-विधौ सावधानस् सन्न् इत्य् अर्थः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथेत्य् आदि । ब्राह्म्य-मुहूर्तोथानाद् आत्म-ध्यानानन्तरम् अम्भसिकासारादौ, न तूद्धृतेनाम्भसाप्लतो ब्रह्म निज-नाम जजाप । मनुष्य-पदवीम् अनुवर्तमान इत्य् अस्यायं प्रपं च । एवं सम्ध्योपगमादाव् अपि सच्चिदानन्द-घन-विग्रहस्य तस्यान्य-विग्रहवन्-मैत्रादि-कर्म नास्त्य् एवेति दर्शयितुम् आह्निकानुवर्णनम् । तत्र च ब्राह्म्य-मुहूर्तोत्थानम् आरभ्य स्नान-सन्ध्यादि-वर्णन-पर्यन्तम् तस्यानुक्तत्वात् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मवान् धैर्य-युक्तः ॥७॥


॥ १०.७०.८ ॥

धेनूनां रुक्म-शृङ्गीनां साध्वीनां मौक्तिक-स्रजाम् ।

पयस्विनीनां गृष्टीनां स-वत्सानां सु-वाससाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गृष्टीनां प्रथम-प्रसूतानाम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृष्टीनां सकृत्-प्रसूतानाम् । साध्वीनां पाद-बन्धनादि-क्रियान् अपेक्षाणाम् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : साध्वीनां रूप-गुणादिभिः ॥ ८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साध्वीनां गुण-रूप-लक्षणादिभिर् उत्तमानां तेनैवादौ स्वर्ण-कुण्डलादिभिः अलङ्कृतेभ्यः प्रतिगृहं बद्ध-दानात् तु एक-विंशति-कोटयः सप्त-लक्षाणि सप्त-पञ्चाशत्-सहस्राणि वा सप्तत्य् अधिकानि [ २१०७५७०७२ ] दिने-दिने इत्य् अत्रैव वीप्सया नित्य-कर्मत्वे लब्धे बद्धम् इत्य् अत्र पुनर् वीप्सातिदार्ड्याय प्रतिदिनम् एव बद्धस्य बहुत्व-बोधनाय वा बद्धम् इत्य् अत्र दकार-संयोगितया बद्दम् इत्य् एव श्रौतेषु प्रसिद्धम् ॥ ८-९ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृष्टीनां प्रथम-प्रसूतानां गवां दिने-दिने प्रतिदिनं बद्धं चतुरशीत्य् अधिकानि त्रयोदश-सहस्राणि ददौ यद् उक्तं बद्धं चतुरशीत्य् अग्र-सहस्राणि त्रयोदश इति बद्धं बद्धम् एकम् एकं बद्धम् इत्य् अर्थः ॥ ८-९ ॥


॥ १०.७०.९ ॥

ददौ रूप्य-खुराग्राणां क्षौमाजिन-तिलैः सह ।

अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बद्वम् इति—

हिरण्येन परीवृतान् कृष्णान् शुक्ल-दतो मृगान् ।

मष्णारे भरतोऽददाच् छतं बद्वानि सप्त च ॥

इति श्रुत्य्-उक्तानि सप्तोत्तर-शतं बद्वान् एकी-कृत्य पुराणे चतुर्दश-लक्षत्वेन गणितानि । यथोक्तं भरतम् एवाधिकृत्य नवम-स्कन्धे—

मृगान् शुक्ल-दतः कृष्णान् सुवर्णेन परिष्कृतान् ।

अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ इति ।

ततश् चेयं बद्व-सङ्ख्या श्लोकेन सङ्गृह्यते—

चतुर्दशानां लक्षाणां सप्ताधिक-शतांशकः ।

बद्वं चतुरशीत्य्-अग्र-सहस्राणि त्रयोदश ॥ इति ।

दिने दिने च प्रतिगृहं चेति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलङ्कृतेभ्यो दानात् प्राक् स्वयम् एव स्वर्ण-कुण्डलादिभिर् भूषितेभ्यः । मृगान् गज-विशेषान् । ततश् च गणित-शास्त्रानुसारात् । यद्य् अपि किञ्चिन् न्यून-चतुर्दश-लक्षाणि सप्तोत्तर-शतबद्वान्येकीकृतानि भवन्ति तथापि किञ्चिन् न्यूनमनन्यवद् इति न्यायेन तावन्त्य् एवोक्तानि । चतुर्दश-लक्ष-सप्ताधिक-शतांशकः बद-सञ्ज्ञः, स च चतुरशीत्य् अधिक-त्रयोदश-सहस्र-सङ्ख्यः १३०८४ । दिने-दिने प्रत्यहं प्रतिगृहं चेति सर्व-गेहेषु स्थितत्वान्-मूर्ति-भेदेन भगवतः प्रति-गृहं बद्व-दानात् तु एक-विंशति-कोटयः सप्त-लक्षाणि पञ्चायुतानि सप्त-सहस्राणि सप्तत्य् अधिकानि । दिने-दिने इत्य् अत्र वीप्सया नित्य-कर्मत्वे लब्धे बद्धम् इह पुनर् वीप्सयाति-दार्ढ्यम् उक्तम् । बद्वैह द-कार-ध-कार-संयोगितयां श्रौतेषु बद्धम् इत्य् उक्तम् । क्षौम-वस्त्रावृतं सोपस्करं मृग-चर्म-दानम् अपि प्रति-दिनम् अकरोद् इत्य् अर्थः ।

कृष्णः कृष्णाचलो देवः कृष्णाजिन-परस् तथा ।

त्वत्-स्पृष्ट्या धूत-पापस्य प्रीयतां मे नमो नमः ॥

त्रयस् त्रिंशत्-सुराणां हि त्वाम् आधारे व्यवस्थितः ।

कृष्णो\ऽसि मूर्तिमान् साक्षात्-कृष्णाजिन नमो\ऽस्तु ते ॥

इत्य्-आदि-मन्त्राणां तद्-दाने प्रमाणत्वात् ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बद्वम् इति वीप्सादिकं चरित-कथनेन स्वत एव तद्-दानस्य नित्य-कृत्यत्वे सिद्धे\ऽप्य् असम्भावनासंशयात् तद्-द्रढयति ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः),विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.१० ॥

गो-विप्र-देवता-वृद्ध-गुरून् भूतानि सर्वशः ।

नमस्कृत्यात्म-सम्भूतीर् मङ्गलानि समस्पृशत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-सम्भूतीः स-विभूतीः । मङ्गलानि कपिलादीनि ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :

कपिला दधि दूर्वा च हेम शङ्खोक्षतास् तथा ।

मौक्तिकं मणयो विप्रा आदर्शो वारि वारिजम् ॥

एतान्यन्यानि द्रव्याणि मङ्गलानि स्पृशेन् नरः ।

पावित्र्यं परमाप्नोति शुभं क्षेमं च विदति ॥ इत्य् आद्य् उक्तेः ।

अनलो गौर् हिरण्यञ् च दूर्वा गोरोचनामृतम् ।

अक्षतं दधि चेत्य् अष्टौ मङ्गलानि प्रचक्षते ॥

इति नीलकण्ठोपि । भूतानि स्थावराण्य् अश्वत्थादीनि, जङ्गमानां गवादीनाम् उक्तत्वात् । देवताः श्री-शालग्रामादि-रूपाः । नमस्कृत्य प्रत्येकं साक्षाद् एव । किं वा, गोभ्यो नमो विप्रेभ्यो नम इत्य् अभिवाद्य ॥१०-११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवताः श्री-शालग्रामादि-रूपा, नमस्कृत्य प्रत्येकं साक्षाद् एव, किं च, गोभ्यो नमः, विप्रेभ्यो नमः इत्य् एवम् अभिवाद्य, यतश् चात्म-संभूतीस्त् एषां सम्मानन-प्रवर्तनार्थम् इति भावः । यद् वा, आत्म-विभूतीर् अपि सम्यक् श्री-हस्तेन स्वयम् एव भवत्यास्पृशत् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गाः वन्दनार्थम् आनीता विप्रान् आशीर्वादार्थम् आगतान् गुरून् श्री-वसुदेवादीन् निकट-गुप्तवर्त्म-लब्ध-निज-निज-गृहस्थितान् सर्व-भूतानि मनसि भावितानि अभिवाद्य यतः आत्म-सम्भूतीः तेषां सम्मानन-प्रवर्त्तनाम् इति भाषः । यद् वा, आत्म-विभूतीर् अपि नर-लीला-कौतुकेनैवेति-भावः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मङ्गलानि कपिलादीनि ॥१०-११॥


॥ १०.७०.११ ॥

आत्मानं भूषयाम् आस नर-लोक-विभूषणम् ।

वासोभिर् भूषणैः स्वीयैर् दिव्य-स्रग्-अनुलेपनैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नर-लोकस्य विभूषण-रूपम् आत्मानम् । स्वीयैः पीताम्बर-कौस्तुभादिभिः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नर-लोकस्य विशिष्ट-भूषण-रूपम् अपि, यद् वा, नरान् मनुष्यान्, अहो किं वक्तव्यम्, तान् इति लोकान् सर्वान् जीवान् चतुर्दश-भुवनानि वा विशेषेण भूषयतीति तथा तम्, दिव्य-शब्देन वन-माला-पीत-वर्णानुलेपनानीति तथा तेन तद्-योग्यताञ् च बोधयति । यद् वा, स्वीयैर् इत्य् अस्यात्राप्य् अन्वयः । दिव्येति स्वरूप-मात्र-निर्देशः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नर-लोकस्य जीव-लोकस्य विशिष्ट-भूषण-रूपम् अपि वासोभिर् इति बहुत्वं राज-वेषत्वात् स्वीयैर् आत्मीयत्वेन नित्य-प्रसिद्धस् तैस् तैर् इति विष्वेव योज्यं दिव्य-शब्देन वन-मालादीनाम् अम्लायित्वं बोधयित्वा तद् एव कैमुत्येन साधयति ॥११॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.१२ ॥

अवेक्ष्याज्यं तथादर्शं गो-वृष-द्विज-देवताः ।

कामांश् च सर्व-वर्णानां पौरान्तः-पुर-चारिणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कामान् अभिलषितान् अर्हान् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवेक्ष्याज्यम् इत्य् अनेन नित्यं छाया-पात्र-दानम् उक्तम् ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथेति समुच्चये, गो-वृषः—गोषु स्थितो\ऽशिक्षितो वृषः, उत्तम-वलीवर्दो वा । द्विजो विप्रः, देवता निजेष्ट-देव-मूर्त्तिः, ताश् च अवेक्ष्य प्राग् अभ्यर्चनादौ तेषां दर्शने सिद्धे\ऽपि पुनर् अवेक्षणं यात्रामङ्गलार्थम्, पौराणाम् अन्तःपुरचारिणाञ् च वामनादि-भृत्यानां प्रकर्षेण तत्-तद्-गृहादौ प्रस्थापनादिना दापयित्वा दातुम् आज्ञाप्य प्रकर्षेण तोषयित्वा प्रत्यनन्दत, तेषां सन्तोषणेन स्वयम् अधिकं प्रीतो\ऽभूत्, यद् वा, अन्त-भूति-ण्यन्तकारितं प्रत्येकम् अनन्दयद् इत्य् अर्थः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवेक्ष्येति सार्द्धकम् । गोवृषः गोषु स्थितो\ऽशिक्षितो वृषः गो-श्रेष्ठो वा द्विजो विप्रः देवता निजेष्ट-देवता-मूर्तिः ताश्चावेक्ष्य प्राग् अभ्यर्चनादौ वेषां दर्शने सिद्धेपि पुनर् अवेक्षणं यतो मङ्गलार्थ प्रकर्षेण दातुम् आज्ञाप्य प्रत्यनन्दत् तेषां सन्तोषणेन स्वयम् अधिकं प्रीतो\ऽभूत् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृतीर् मन्त्रिणः ॥१२॥


॥ १०.७०.१३ ॥

संविभज्याग्रतो विप्रान् स्रक्-ताम्बूलानुलेपनैः ।

सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विप्रादीन् स्राग्-आदिभिः संविभज्य । तेभ्यस् तानि दत्त्वेत्य् अर्थः । उपायुङ्क्त भोगार्थम् अग्रहीत् ॥१३-१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यो विप्रादिभ्यः । तानि स्रग् आदीनि । इत्य् अर्थ इति—पूर्वं ब्राह्मणेभ्यो दत्त्वान्येभ्यो भोग्यं वस्तु देयम् क्षेत्रज्ञं ब्राह्मणाननु इति नारदोक्तर् इति भावः । गृहस्थस्य शेष-भोजित्व-विधेः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः पश्चाद् इति गृहस्थस्य शेष-भोजित्वात् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्विभज्य भागशो दत्त्वा विप्रान् विप्रेभ्यः स्रग् आदिभिः स्रग् आदीन् उपायुङ्क्त भोगाथं जग्राह ॥१३-१४॥


॥ १०.७०.१४ ॥

तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् ।

सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितोऽग्रतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो विभागानन्तरम् । तावत्-तद् आग्रतो\ऽवस्थितो\ऽभूद् इत्य् अन्वयः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ गुरु-विप्रादि-विसर्जनानन्तरं चरितम् आह—तावद् इति । अग्रत इति तत्-तद् अन्तःपुर-निष्क्रमण-मार्गाणाम् एकता-प्राप्ति-पदाग्र-भागस्थ-महा-गोपुराग्र-भाग इत्य् अर्थः ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उप उपायनवत् समीपे वानीय, परमाद्भुतम् अप्राकृतत्वादिना लोकातीतम् । किं वा, रूप-गुणादिनात्य् अनिर्वचनीयम् इत्य् अर्थः । आद्य शब्दात् शैव्य-मेघ-पुष्प बलाहकाः, प्रणम्य भगवन्तम्, अग्रतस् तस्यैव ॥१४॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.१५ ॥

गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् ।

सात्यक्य्-उद्धव-संयुक्तः पूर्वाद्रिम् इव भास्करः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाणी कृतेञ्जलौ गृहीत्वा ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथातः । तं रथम् । पूर्वाद्रिम् उदयाचलम् । एतद्-दृष्टान्तेन रथस्य बृहत्त्वत्वरत्वादिकं श्री-भगवतः स्वतो भूषणादिकान्त्या च तेजोमत्त्वं सूचितम् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ मङ्गले, सात्यक्य् उद्धवाभ्यां संयुक्त इति प्रेष्ठ-सेवकत्वेन ताभ्यां पार्श्वद्वये छत्र-चामरादि-ग्रहणात् । पूर्वादिम् इवेति दृष्टान्तेन रथस्य बृहत्तरत्वादिकं यथा श्री-भगवतः स्वतो भूषणादिना च महा-तेजस्वितादिकं तथा तेनैव रथस्य शोभाभर-जननादिकञ् च सूचितम् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वाद्रिम् इवेति दृष्टान्तेन रथस्य बृहत्तरत्वादिकं तथा श्री-भगवतः स्वतो भूषणादिना च महा-तेजस्वित्वादिकं तथा तेनैव रथस्य शोभाभर-जननादिकञ् च सूचितम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाणी अञ्जली-भूतौ दक्षिणेन पाणिना गृहीत्वा ॥१५॥


॥ १०.७०.१६ ॥

ईक्षितोऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।

कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-व्रीड-प्रेम-वीक्षितैर् ईक्षितः क्षणं स्थितस् ताभिर् एव वीक्षितैः कृच्छ्राद् विसृष्टो निरगाद् इति ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्री-कृष्णः प्रथमम् ईक्षितो\ऽर्थात्-सात्यक्यादिभिः, कीदृश ईक्षितः अन्तःपुर-स्त्रीणां सव्रीड-प्रेम-वीक्षितैस् तद्-विरह-तापं कथं सहामह इति वैयाग्र्य-व्यञ्जकैर् बद्ध इति शेषः । ततश् च भो अधीरा एतन्-मात्र-विरहेण विह्वली-भवथ । अयम् अहम् अधुनैव भोक्तुम् एष्यामीत्याश्वास व्यञ्जको हासो जातो यस्य सः । ततश् च मन्ये तादृश-हासेनैव मनोहरन् कृच्छाद् एव विसृष्टस् तत्-प्रेमावलोक-बन्धाद् विमुक्तः सन्निर् अगाद् इति विश्वनाथः । ताभिर् अन्तःपुर-स्तीभिः । निरगान्-निःससारेत्य् अर्थः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जात-हास इति सदा सुप्रसन्न-चित्ततया स्मितोदयात् । किं वा, तासां विरहार्ति-लाघवार्थं हासेन रसान्तरापादनात, अत-व तासां मने हरन्, अन्यत् तैर् व्याख्यातम् । यद् वा, विसृष्टः शुभं विजयस्वेति प्रस्थापिता सन् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ पुनस् तद्-रथारोहात् पूर्वं वृत्तं दर्शयति—तत्र च पूर्व-सूचित-सर्व-बहिर् जनता-निष्क्रमणानन्तरम् एकान्तताम् आगते तस्मिन् नित्य-कृत्यम् अङ्गलास्पदे सर्व-मध्यमान्तःपुर बहिः-स्थित-कक्ष्या-विशेषे प्रस्थान-मङ्गल-द्रव्य-सङ्गततया सङ्गतानां तद् अङ्गनानां प्रेमपरिपाटी वर्णयति प्रथममन्तः-पुर-स्त्रीणां प्रेम-वीक्षितैर् ईक्षितः विषयीकृता चलितुम् उद्यतोपिक्षणं स्थगिप्त इत्य् अर्थः । पश्चात्-कृच्छेण किञ्चित् दृष्टि-नमनादिना विसृष्टः प्रस्थाने\ऽनुमत इत्य् अर्थः । जात-हास इति तत्-पश्चाच् च अहो प्रेमावृतविवेके कथं वृथा दूयसे मध्याह्न एव भोजनाद्य् अर्थम् आगच्छानीति सूचकेन हासेन तासां सान्त्वनेच्छया व्यञ्जित-हास इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णः प्रथमम् ईक्षितः अर्थात् सात्यक्य्-उद्धवादिभिः । कीदृशः ईक्षितः ? अन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैस् त्वद्-विरह-तापम् इमं कथं सहामहे इति वैयाग्र्य-व्यञ्जकैर् बद्ध इति शेषः । ततश् च भो अधीरा एतन्-मात्र-विरहेणैव विह्वली-भवथ ? अयम् अर्हम् अधुनैव भोक्तुम् एष्यामीत्य् आश्वास-व्यञ्जको हासो जातो यस्य सः । ततश् च मन्ये तादृश-हासेनैव मनो हरन् कृच्छ्राद् एव विसृष्टः तत्-प्रेमावलोक-बद्धाद् अविमुक्तः सन् विरगात् ॥१६॥


॥ १०.७०.१७ ॥

सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः ।

प्राविशद् यन्-निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सर्व-गृहेभ्यः पृथक् पृथङ् निर्गत्यानन्तरम् एक एव सन् सुधर्मां प्राविशत् । यन् निविष्टानां यत्र प्रविष्टानाम् ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम् एकैकान् मन्दिरादेकैकेन प्रकाशेन बहिर्भूय तत्-तत्-पुरस्थैस् तत्-तत्-प्रतिवेशिभिश् च जनैर् एव लक्षितो न त्व् अन्यैः पृथक् पृथक् प्रतोल्यां सुधर्मा-सभागोपुरवर्त्म-पर्यन्तम् आगत्य तत्र पुनर् एकीभूय सुधर्मा तु पुनर् एकेनैव प्रकाशेन प्रविशति स्मेत्य् आह—सुधर्माख्याम् इति । हे अङ्ग प्रियतम । न सन्ति न बाधन्ते ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वैर् इति सभाया उत्थायाभिगतः । किं वा, सद्यः स्व-स्व-गृहाद् आगतैः, ततश् च श्री-भगवतैव सह सर्वेषां सभा-प्रवेशो न च कस्यापि तस्मात् प्राग् इति बोधयति । प्रकर्षेण गीतवाद्यादिना अविशत् सुधर्माख्याम् इति सूचितम् । दिव्यत्वं दर्शयति-यद् इति । शोक-मोहौ जरामृत्यु क्षुत्पिपासे षडूर्मयः, अङ्ग ! हे राजन् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वर् इति । श्री-भगवद् आगमनं विना स्वयं सभाम् अप्रविष्टचरैर् इति ज्ञेयं प्रकर्षण गीत-वाद्यादिना\ऽविशत् सुधर्माख्याम् इति सूचितं स्वर्गस्थत्वेपि ततन्-महिम-युक्तत्वं किम् उत श्री-कृष्ण-पुरस्थत्व इत्य् आह—यद् इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्थम् एकैकस्मान्-मन्दिरादेकैकेन प्रकाशेन बहिर्भूय तत्-तत्-पुरस्थैस् तत्-तत्-प्रतिवेशिभिश् च जनैर् एव लक्षितो नत्व् अन्यैः पृथक् पृथक् प्रतोल्यां सुधर्मा सभा गोपुर-वर्त्म-पर्यन्तम् आगत्य तत्र पुनर् एकीभूय सुध्स्र्मा सभान्त्वेकेनैव प्रकाशेन प्रविशति स्मेत्य् आह सुधर्माख्याम् इति । परिवारितः वृतः ॥१७॥


॥ १०.७०.१८ ॥

तत्रोपविष्टः परमासने विभुर्

बभौ स्व-भासा ककुभोऽवभासयन् ।

वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो

यथोडु-राजो दिवि तारका-गणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नृ-सिंहैर् नृषु श्रेष्ठैः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सुधर्मायाम् ॥ १८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तस्यां यत् परमासनं सर्व-श्रेष्ठतरासनं तस्मिन् विभुः सर्व-शोभादि-परिपूर्णं, अतः स्वकीययैव भासा कान्त्या अव व्याप्त्या भासयन्न् अपि यदुभिर् वृतो वभौ अशोभत, यतो नृसिंहैस् तद्-भक्ति-विशेषेण सर्व-लोक-श्रेष्ठतां प्राप्ता । किं वा, महा-विक्रमादिना परमात्मीयत्वेन च श्री-नरसिंह-देव-तुल्यैः, भक्त-वत्सलस्य भक्त-साहित्येनैव शोभाधिक्य-सम्पत्तेर् इति भावः । तत्रैव हेतुः—यदुत्तम इति, भक्त-वात्सल्यावशेष-गुण-प्रकटनार्थम् एव यदुकुले श्रेष्टतयावतीर्णत्वाद् इति भाव । स्वतः सर्व-शोभावतः, तत्रैव हेतुः—यदुत्तम इति । स्थान विशेष स्वजनैर् वृतस्यैव, स्वतः शोभाभरोदये दृष्टान्तः—यथेति ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तस्मिन् यत्-परमासनं सर्व-श्रेष्ठतमासनं तस्मिन् यथा दत्त-सारूप्यादाव् अपि स्वगणे तस्य रूपादि-परमत्वेन भासते तद्वत्-परमतया विहितेष्व् अप्य् उग्रसेनाद्य् आसनेषु तस्यासनं परमतया भासत इति भावः । तत्र च विभुः परः सहस्रान्तः सद्ममय-महा-सद्म-रूपायां नाना-सभामय्यां तस्यां सुधर्मायां सर्वस्याम् एव भासमान इत्य् अर्थः । अतः स्वीययेव भासा कान्त्या अव समन्तात् भासयन् तथापि यदुभिर् वृतो बभौ यतो नृसिंहैस् तदीय-निज-परिकरत्वेन सर्व-पुरुष-श्रेष्तया तादृशैर् एवेत्य् अर्थः यताः सोपि यदूत्तमः तज्-जातीय-श्रेष्ठतयैव विभुत्वं प्रकाशयन् इत्य् अर्थः । तथैव दृष्टान्तः यथेति ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृसिंहै नृषु श्रेष्ठैः ॥ १८॥


॥ १०.७०.१९ ॥

तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् ।

उपतस् थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपमन्त्रिणः परिहासकाः । पृथक् पृथक् स्व-स्व-समुदायैः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राजन्न् इति राजसभायाम् एतत्-संभवत्य् एवेति भावः । तत्र सभायाम् ॥१९-२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विभुं सव-रस-परिपूर्णम्, हे राजन् इति कौतुकात्, यद् वा, राजन्तः कमनीया ये नाना-विधा हास्य-रसास् तैः, ताण्डवैनृ नृत्य-रुप-तस्थुर् असेवन्त । तद् एवोक्तपोषण्यायेनाह—मृदङ्गेत्य् आदिना जगुर् इत्य् अन्तेन । यद् वा, ताण्डवैर् अभिनयैर् नटाचार्या उपतस् थुः, नर्तक्यश् च मृदङ्गादि-स्वनैर् नृतुर् जगुष् च, मुरजो मृदङ्ग-भेदः ॥१९-२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विभुं सर्व-रस-परिपूर्णं हे राजन् इति कौतुकात् ताण्डवैः नृत्यैः उपतस् थुः असेवन्त ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपमन्त्रिणः परिहासकाः नटाचार्याश् च ऐन्द्र-जालिकाद्याः पृथक् स्व-स्व-समुदायैः ॥१९॥


॥ १०.७०.२० ॥

मृदङ्ग-वीणा-मुरज-वेणु-ताल-दर-स्वनैः ।

ननृतुर् जगुस् तुष्टुवुश् च सूत-मागध-वन्दिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृदङ्गादयः प्रसिद्धाः । दरः शङ्खः । सूतादयस् तुष्टुवुः ॥ २० ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सूतादीनां नर्तन-गाने पूर्वतो विलक्षणे ज्ञेये ॥ २० ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते ते तत्र ननृतुर् जगुश् च । सूताद्यास् तुष्टुवुर् एव ॥ २० ॥


॥ १०.७०.२१ ॥

तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्म-वादिनः ।

पूर्वेषां पुण्य-यशसां राज्ञां चाकथयन् कथाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणा ब्रह्म वेदम् आहुर् मन्त्रान् व्याचक्षतेत्य् अर्थः । वादिनो वादन-चतुराः ॥ २१-२३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गानोत्तरं कः प्रसङ्गस् तत्राह—तत्राहुर् इति । इत्य् अर्थ इति । वेद-व्याख्यानम् अकुर्वन्न् इत्य् अर्थः । वादिनो वदन-चतुराः । केचिद् इति तद्-वैरल्यम् आह—आसीना इत्य् अनेन वेदेतिहास-पुराण-वक्तणाम् ईश्वरे\ऽप्य् आगते नोत्थानं कार्यम् इति ध्वनितम्, तच् च ब्राह्मणा इत्य् उक्तेर् ब्राह्मणस्यैवेति सूचितम् अत एव सूतस्य बलदेवेनानुत्थाने वधः कृत इत्य् अग्रे स्फुटी-भविष्यति । इत्य् अभिप्रेत्यैव संहितायाम्—

व्यासासनोपविष्टस् तु विप्रो व्यासो न संशयः ।

गुरु-विप्र-नरैश् चापि वृद्धैः पितृ-पितामहैः ॥

पूजनीयः प्रयत्नेन तथा धर्मो न हीयते ।

नो नमेन्न् आशिवं चोद्यान् नाभ्युत्थानं तद्-आसनात् ।

कुर्वीत च महा-प्राज्ञः सर्व-पूज्यस् तदा हि साः । इत्य् उक्तम् ।

पुण्य-यशसां नलादीनाम् ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वादिनो वेद-व्याख्या-निपुणाः । किं वा, वादपरा इति वेदार्थाभिज्ञतोक्ता, कथा अकथयन् इतिहास-पुराण-वाचनादिना ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्राह्मणाः वेदार्थाभिज्ञाः कथाश् च कथयन् इतिहास-पुराण-वचनादिना ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.२२ ॥

तत्रैकः पुरुषो राजन्न् आगतोऽपूर्व-दर्शनः ।

विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कथावसरे । अपूर्व-दर्शनो\ऽदृष्ट-पूर्वः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उपलक्षणतया पौर्वाह्निक-चरितम् उक्त्वा कदाचित् तादृश-समय एव कश्चिद् राज-दूत आगत इति प्रसङ्ग-साजात्याद् आह—तत्र इति । अपूर्व-दर्शनो\ऽदृष्ट-पूर्वः । हे राजन् इति प्रसङ्गान्तरेण रस-विशेषात [यहा]{।मर्क्}, राज्ञाम् आप्त-दूतत्वादिना राजमानः । यद् वा, अकार-प्रश्लेषेण अराजन्न् इति स्वामिनां तेषां महा-दुःखेन म्लायमान इत्य् अर्थः । भगवते विज्ञापितः इति सर्वेश्वर्य-प्रकटनेन तस्मिन् द्वार-पालानां तादृश-व्यवहारो युक्त एवेति भावः । यद् वा, भगवते सर्वज्ञायापि विज्ञापितः सन्, यद् वा, पश्चात्-तद् आज्ञया प्रवेशितश् च ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपूर्व-दर्शनः अदृष्ट-पूर्वः प्रतीहारैर् इत्य् अस्य उभयत्रान्वयः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.२३ ॥

स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।

राज्ञाम् आवेदयद् दुःखं जरासन्ध-निरोध-जम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽपूर्व-पुरुषः । ते राजानः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णाय सर्व-सुखप्रदाय, यतः परेशाय साक्षात्-परमेश्वराय, यद् वा, कृष्णाय साक्षाद्-भगवते, अतः परेशाय सर्व-शक्तिमते, अत एवावेदयत्, निभृतं राजभिर् विलिख्य दत्तया विज्ञप्ति-पत्रिकया ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परेशायेति । दूतस्य तादृश-स्फूर्त्ति-द्योतकं कृष्णाय राज्ञां दुःखम् आवेदयत् अर्थात् तम् एव नमस्कृत्य दुःखम् इति दुःखोत्तरं वचनम् इत्य् अर्थः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.२४ ॥

ये च दिग्-विजये तस्य सन्नतिं न ययुर् नृपाः ।

प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गिरि-व्रजे तत् संज्ञके दुर्गे रुद्धा आसन् । तेषां च दुःखम् आवेदयद् इत्य् अन्वयः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य जरासन्धस्य । ये राजानः ते । तेन जरासन्धेन । द्वे अयुते विंशति-सहस्राणि । साष्टशतानि द्वे अयुते चेत्य् अपि ज्ञेयम् । शतान्यष्टाव् इति वक्ष्यमाणत्वात् । रोधन-प्रयोजनं चोक्तं सभा-पर्वणि युधिष्ठिरं प्रति श्री-कृष्णेन ।

स हि राजा जरासन्धो यियक्षुर् वसुधाधिपैः ।

महा-देवं महात्मानम् उमापतिम् अरिदम् ॥

इति प्रथम-स्कन्धे\ऽपि राजानं प्रति द्वारकातः समागतेनार्जुनेनाप्य् उक्तम् तेनाहृताः प्रमथनाथमखाय भूपाः इति लक्ष-सङ्ख्य-राज-बलिभिर् महा-देव-यजने तस्य कामनेति कथा भारतादि-प्रसिद्धास्तीति ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सन्नतिम् अत्यन्त-नम्रताम् ते तेन जरासन्धेन रुद्धा आसन्। अन्यत् तैर् व्याख्यातम् । तत्र च ये सन्नतिं न ययुस् तेन हेतुना, ये जरासन्ध-निरुदा आसन्न् इति, अथवा के ते राजान इत्य् अपेक्षायाम् आह—ये चेति । अर्थः स एव । रोधने प्रयोजनं चोक्तं सभा-पर्वणि श्री-युधिष्ठिरं प्रति श्री-भगवतैव—

स हि राषा जरासन्धो यियक्षुर् वसुधाधिपः ।

महा-देवं महात्मानम् उमापतिम् अरिन्दम ॥ इति ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : के ते राजानः ! इत्य् अपेक्षायाम् आह—येचेति । तस्य जरासन्धयस्य सन्नतिं तस्मिन्न् अत्थ्यन्तनम्रतां ये न ययुः ये च येन हेतुना तेन जरासन्धेन रुद्राश् चासन् रोधन-प्रयोजनश्वोक्तं सभा-पर्वणि युधिष्ठिरं प्रति श्री-भगवतैव—

स हि राषा जरासन्धो यियक्षुर् वसुधाधिपः ।

महा-देवं महात्मानम् उमापतिम् अरिन्दम ॥ इति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जरासन्ध-निरोध एव कथम् इत्यमेपेक्षायाम् आह—ये चेति । सन्नतिं कर-दानादिना नम्रत्वेन तदीयत्व-स्वीकारं ते प्रसह्य बलात् गिरि-व्रज-सञ्ज्ञके दुर्गे तेन जरासन्धेन कदा आसन् कियन्तस्ते इत्य् अपेक्षायाम् आह द्वे अयुते विंशति-सहस्राणि अत्र लक्ष-सङ्ख्य-राजबलिभिः महा-भैरवस्य यजने तस्य कामना इति कथा भारतादिषु प्रसिदा ॥२४॥


॥ १०.७०.२५ ॥

राजान ऊचुः—

कृष्ण कृष्णाप्रमेयात्मन् प्रपन्न-भय-भञ्जन ।

वयं त्वां शरणं यामो भव-भीताः पृथग्-धियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण कृष्ण इति षट्-श्लोकी राज्ञां विज्ञप्तिः, तत्र प्रथमेन शरणाश्रयणं, त्रिभिर् भयानुवादः, द्वाभ्यं प्रार्थनम् इति ॥ २५ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : षण्णां श्लोकानां समाहारः षट्-च्छ्लोकीविज्ञप्तिः प्रार्थना । तत्र षट्सु ॥ २५ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवद्-आज्ञया मुद्राम् उन्मुच्य पत्रिकां दूतो वाचयति—कृष्ण- इति । हे साक्षात्-परमेश्वर ! वीप्सा दैन्यात् । अत एव अप्रमेयात्मन् ! दुर्वितर्क्य-तत्त्व ! किं च, प्रपन्न- इति । अतस् त्वाम् एव शरणं यामः । किम्-अर्थम् ? भवात् संसार-दुखाद् भीताः, भव-भयात् त्राणार्थम् इत्य् अर्थः । तद् अपि कुतः ? पृथग्-धियः, तत्त्वतो जीवानाम् ऐक्ये\ऽपि शत्रु-मित्रत्वादिना भेद-दर्शिनः । किं वा, अंशत्वेनात्मनस् त्वद्-अधीनत्वे\ऽपि स्वतन्त्र-बुद्धयः । यद् वा, त्वत्तः पृथग् अबुधयः, त्वद्-भक्ति-रहिता इत्य् अर्थः ॥ २५ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं तेषां वचनं ? तत्राह—कृष्ण इति षड्भिः । कृष्ण हे स्वयं भगवन् ! वीप्सा-दैन्यात् स्वयं भगवत्त्वाद् एव अप्रमेयात्मन् सर्वातीत-वैभव ! एवं सर्वोत्तमत्वेऽपि प्रपन्न- इति । अतस् त्वाम् एव शरणं यामः । किम्-अर्थं ? भवात् संसार-दुःखाद् भीताः भव-भयात् त्राणार्थम् इत्य् अर्थः । तद् भयं कुतः ? पृथग्-धियः, त्वत्तः पृथग्-बुद्धयः त्वद्-भक्ति-रहितत्वाद् इत्य् अर्थः ॥ २५ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां विज्ञप्तिम् आह षड्भिः । तत्र ते प्रथमं शरणम् आश्रयन्ते, कृष्ण कृष्ण इत्य्-आदेर् द्वित्वम् अप्रमेयात्मन्न् इति त्वत्-स्वरूपम् अज्ञात्वापि प्रपन्ने इति प्रपन्न-पालकत्वम् एव ज्ञात्वा शरणं यामः पृथग्-धियः तद्-अभक्तौ प्रार्थनां परित्यज्य त्वत्तः पृथग्-भूते स्वीय-दुःख-त्राणे एव धीः येषां ते ॥ २५ ॥


॥ १०.७०.२६ ॥

लोको विकर्म-निरतः कुशले प्रमत्तः

कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे ।

यस् तावद् अस्य बलवान् इह जीविताशां

सद्यश् छिनत्त्य् अनिमिषाय नमोऽस्तु तस्मै ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथग्-दर्शिनो लोकस्य भव-भयं विवृण्वन्तो नमन्ति—लोक इति । विकर्म निषिद्धं काम्यं च, तस्मिन् नितरां रतः । स्वे कुशले धर्मे पञ्चरात्रे । सामान्यतश् च गीतासु,

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।

यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२८] इति ।

प्रमत्तोऽनवहितो यावद् अयं लोकस् तावद् एव अस्य लोकस्य यः सद्यो जीविताशां छिनत्ति, तस्मै तुभ्यम् अनिमिषाय कालात्मने नम इति ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पृथग्-दर्शिनो यथार्थ-ज्ञान-शून्याः । तस्मिन् निषिद्धे काम्ये च ॥ २६ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुशल इत्य् अनेन स्वे स्वकीये\ऽपात्य् अनेन चात्मनो हितत्वाद् अवश्य-कृत्यत्वम् उक्तम् । अकरणे चेश्वराज्ञातिक्रमान् महापराध एवेत्य् आहुः—त्वद्-उदित इति । तच् च नायास-साध्यं महा-फल-प्रदं परम-सुखमयं चेत्य् आहुः—भवद्-अर्चन इति भवतां भवतो भवदीयानां चार्चन-रूपे, तथापि तस्मिन् प्रमत्तः, जीवितस्याशां मरणानुसन्धान-निरसनेन विकर्मणि प्रवर्तिनीं कुशले च प्रमाद-कारिणी दृढ-वाञ्छा-लताम् । किं वा, महा-दुष्ट-रोगादिना आशाम् अपि, किम् उत जीवितम्, न चासौ कथञ्चित् परिहर्तुं शक्येतेत्य् आहुः—बलवान् इति । आनिमिषायेत्य् अनेन च तस्याप्रमत्तता सूचिता, तथा चोक्तं श्री-मुचुकुन्देन—त्वम् अप्रमत्तः सहसाभिपद्यसे [भा।पु १०.५१.५०]1 इति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, भव-भये भव-रूपस्य कालस्य मुख्य-कारणत्वाद् आदौ तद्-भीत्या शरणं याम इत्य् आशयेन कालम् एव प्रणमन्ति—लोक इति अस्मद्-आदिः । अन्यत् समानम् ॥ २६ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एतावन्तं काल कथं न भजध्वम् ? कथं वा अधुना जातेतादृश-बुद्धयो जाताः स्थ ? तत्राहुः—लोक इति । अस्मद्-विध इत्य् अर्थः । कुशल इति सर्वार्थ-प्रदत्वं सर्वानर्थ-हरत्वं च । स्वे इति सार्ववर्णिक-स्वधर्मत्वं त्वद्-उदित इति अन्योदित-धर्मान्तरातिक्रमित्वं भवद्-अर्चन इति त्वद्-उदित-धर्मान्तराति-क्रमित्वं च सूचितं यथैवोदितं च—

सर्व-गुह्यतमं भूयः शृणु मे परंं वचः ।

इष्टो\ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥

मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । [गीता १८.६४-६५] इत्य्-आदि ।

तथापि तस्मिन् जीवितस्याशां शरणानुसन्धान-निरसनेन विकर्मतयोक्ते तद्-विरुद्ध-कर्मणि प्रवर्तनीं कुशले च प्रमाद-कारिणीं दृढ-वाञ्छा-लतां न चासौ कथञ्चित् परिहर्तुं शक्यतेत्य् आहुः—मर्त्यो मृत्यु-व्याल-भीतः पलायन् [भा।पु। १०.२.२६] इत्य्-आदि ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भव-भीतत्वं विवृण्वन्तो नमन्ति—लोको\ऽस्मद् विधः कुशले कर्मणि प्रमत्तः किं पुण्यकणि, न त्वद् इवे किं ज्ञान-योग-साधक-शम-दम-यम-नियमादिकणि न भवद्-अर्चने त्वद्-भजने । स्व इति तद् एव लोकस्य वास्तवं स्वं धनम् भव-दुःख-निवर्तकं त्वत्-प्रेम-सुख-भाग-प्रदायक चेति भावः । किन्तु विकर्मणि स्त्री-पुत्रादि-वैषयिक-सुख-साधके कर्मणि नितरां रतः । किं च, तत् सुखम् अपि दुर्भगस्यास्य न सिद्ध्यतीत्य् आहुः—यस् तावद् इति । अनिमिषाय कालाय त्वच्-छक्ति-रूपाय नम इति त्वद्-भक्तस्य तेन तथा करणं समुचितम् एवेति भावः ॥ २६ ॥


॥ १०.७०.२७ ॥

लोके भवाञ् जगद्-इनः कलयावतीर्णः

सद्-रक्षणाय खल-निग्रहणाय चान्यः ।

कश्चित् त्वदीयम् अतियाति निदेशम् ईश

किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सेयं लोकस्य गतिर् वयं तु त्वद्-भक्ताः, अतोऽस्माकं कुत एतद् दुःखम् आपन्नम् ? इत्य् आश्चर्येणाहुः—लोक इति । भो ईश ! जगत इन ईश्वरः । त्वयि सद्-रक्षणार्थम् अवतीर्णेऽपि चेद् अस्माकं दुःखं स्यात्, तर्हि किम् अन्यः कश्चिज् जरासन्धादिस् त्वद्-आज्ञाम् अपि लङ्घयति ? किं च, त्वया रक्ष्यमाणोऽपि जनः स्व-कर्म-जं दुःखं प्राप्नोत्य् एवेति न विद्मः । न चैतद् उभयम् अपि युक्तम् इति भवः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो त्वद्-भक्तानाम् ईदृशी गतिर् इत्य् उपालभन्त इवाहुः—सेयम् इत्य्-आदिना । किम् अत्र संशये वितर्के वा । तद् उभयं त्वद्-आज्ञा-लङ्घनं, त्वद्-रक्ष्यमाणस्य दुःखं चेत्य् उभयम् । किं च, लोके भवान् इति जगदिनः साक्षात्-सर्वेश्वर एव कलया अंशेन श्री-बलदेवेन अन्यो निगृह्यमाणः खलः किं कस्माद् अन्यस्मात् कारणाद् इत्य् अर्थः । हे ईश इति । जरासन्धादेर् अपि त्वद्-अधीनत्वं तज्-जनस्यापि कर्माधीनत्वं सूचितम्, तद् वयं न विद्मः । अन्यत् तैः ।

तत्र चेद् अस्माकम् इत्य् अस्य स्थाने जनः स्व-कर्मजम् इति पाठासभ्यः । तथा सद्-रक्षणार्थम् इत्य् अत्र च-कार-पातश् च ज्ञेयः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : लोके भवान् इत्य्-आदि । जगदिनो जगत्-प्रभुः । कलया बलदेवेन ॥२७-४२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जगदिनः साक्षाज् जगदीश्वर एव कलया अंशेन श्री-बलदेवेन । किं वा, सर्व-शोभया निजाशेषैश्वर्येण सह मर्त्य-लोके\ऽवतीर्णः । यद् वा, सद्-रक्षणाय अर्थम् । अवतीर्णत्वे हेतुः—जगदिन इति । अन्यथा जगत्-स्थित्य्-असिद्धिः । अन्यो\ऽनिगृह्यमाणः खलः किं कस्मात् कारणाद् इत्य् अर्थः । हे ईश ! इति । जरासन्धादेर् अपि त्वद्-अधीनत्वं त्वज्-जनस्यापि कर्माधीनत्वं सूचितम् । तद् वयं तद्-द्वय-कारणं न विद्मः । अन्यत् तैर् व्याख्यातम् ।

तत्र जन इत्य्-आदिकं तर्हीत्य् अन्तं केनापि मन्द-बुद्धिना अधिकं कल्पितम् इति । तथा सद्-रक्षणाद्य्-अर्थम् इति लेख्ये "द्य"-वर्ण-पातो लेखक-भ्रमाद् इति ज्ञेयम् । अथवा निदेशम् अतियाति । सतः पीडयति, खलान् अनुगृह्णातीत्य् अर्थः । हे ईश ! इति तच् च परंएशत्वेन तव स्वातन्त्र्यात् त्वद्-इच्छया ॥ किं वा, जनः स्व-कृतं स्व-कर्म-फलं भुङ्क्ते, जरासन्दादेस् त्वज्-जनस्यापि तादृश-निज-कर्म-भोगावश्यकतयेति न विद्मः, विचारणे नैवावगच्छामः । सद्-रक्षणाद्य्-अर्थम् अवतीर्णस्य साक्षात् परमेश्वरस्य तत्र तवेच्छया तथा कर्म-निबन्धापेक्षयापि तत्-तद्-असिद्धेर् इति भावः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, लोके भवान् इति जगदिनः साक्षात् सर्वेश्वर एव कलया अंशेन श्री-बलदेवेन अन्यो निगृह्यमाणः खलः किं कस्माद् अन्यस्मात् कारणाद् इत्य् अर्थः । हे ईश ! इति । जरासन्धादेर् अपि त्वद्-अधीनत्वं तज्-जनस्यापि कर्माधीनत्वं सूचितम्, तद् वयं न विद्मः । अन्यत् तैः । तत्र चेद् अस्माकम् इत्य् अस्य स्थाने जनः स्व-कर्मजम् इति पाठो\ऽसभ्यः । तथा सद्-रक्षणार्थम् इत्य् अत्र च-कार-पातश् च ज्ञेयः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : लोके भवान् इत्य्-आदि । जगदिनः जगत्-प्रभुः । कलया बलदेवेन ॥२७-४२॥


लोके भवाञ् जगद्-इनः कलयावतीर्णः सद्-रक्षणाय खल-निग्रहणाय चान्यः ।

कश्चित् त्वदीयम् अतियाति निदेशम् ईश किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः ॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, साक्षाद् एव त्वां त्वद्-भक्तांश् च यः कश्चिद् इह द्वेष्टि, स कथं काल-संहृतो न भवति ? इत्य् अस्माकं महान् विस्मय इत्य् आह—लोक इति । जगदिनः जगदीश्वरः । कलना कलया कला इति नानार्थ-कोशात् । कलया कालेन अवतीर्णः । यद् वा, बलदेवेन सह अन्यः खलः कश्चिज् जरासनधादिस् त्वदीयं निदेशम् अतिक्राम्यति साधून् द्वेष्टि खलान् पालयतीत्य् अर्थः । तत्र खल-निग्राहके त्वय्य् अवतीर्णे\ऽपि यत् खला वर्धते, तत् किं स खलः स्व-कृतम् ऋच्छति स्व-प्रारब्ध-कर्म-फलं सुखं भुङ्क्ते, तथा सद्-रक्षके त्वय्य् अवतीर्णे\ऽपि साधु-जनस् तत्-पीडितो यद् भवति, तत् किं सो\ऽपि स्व-कर्म-फलं दुःखं भुङ्क्ते इदं न विद्मः , निश्चेतुं न शक्नुमः । त्वत्तो\ऽपि [कर्म]{।मर्क्}-योगस्य जडस्य प्राबल्यम् अनुचितम् इति भावः ॥२७॥


॥ १०.७०.२८ ॥

स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश

शश्वद्-भयेन मृतकेन धुरं वहामः ।

हित्वा तद् आत्मनि सुखं त्वद् अनीह-लभ्यं

क्लिश्यामहेऽतिकृपणास् तव माययेह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं दुःखं ? तद् आहुः—स्वप्नायितम् इति । स्वप्नवज् जातं नृप-सुखं नृपोचितं सुखम् । यतः पर-तन्त्रं विषय-साध्यम् । किं च, संप्रति शश्वद्-भयं यस्मिन्, तेन मृतक-तुल्येन शरीरेण धुरं पुत्र-दारादि-चिन्तां केवलं वहामः । अहो कष्टं नः, ये वयम् इतः पूर्वम् एव निष्कामाः सन्तस् त्वां नाश्रिता इत्य् आहुः—हित्वा इति । त्वत् त्वत्तो यद् अनीहैर् निष्कामैर् लभ्यम् आत्मनि स्वतः सिद्धं सुखं तद् धित्वा क्लिश्याम इति ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् दुःखम् । ननु, राज्य-सुखं तु मरण-लभ्यात् स्वर्ग-सुखाद् अप्य् अधिकम् इति चेद् आहुः—स्वप्नायितम् इति । विषय-साध्यम् अपि नानन्द-जनकम् इत्य् आह—किं च इति । इतो जरासन्ध-बधात् ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वप्नायितम् इत्य् अनित्यत्वं मायिकत्वं चोक्तम्, तेन तत्र सुखाभावः सूचितः । तद्-भोग-साधन-देहस्य नित्य-रोगादिना दुःख-प्राप्तिश् चाह—शश्वद् इति । भयं रोगादिजम्, मृतकेन इति मरण-निर्धारात् । किम् वा, घृणास्पदत्वं तस्योक्तम् । एवम् उभयथा जीवने दुःखं बोधितम् । हे ईश ! इति त्वदीया अपि [बाम्]{।मर्क्} इति भावः । तत् सुखं यत् त्वत् त्वद्-अनुग्रहाल् लभ्यं स्व-तत्त्वानुभव-लक्षणम् । किं वा, त्वद्-ध्यानादि-लक्षणम्, इह संसारे क्लिश्यामः, अतस् तत् बहुधा दुःखम् अनुभवामः, यतस् तवेश्वरस्य मायया दुर्लङ्घ्यया अतिकृपणाः परम-निर्बुद्धयः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, नृप-सुखं राज्योपभोग-सुखम् एव धुरं भारं वहामः, अतस् तद्-अनिर्वचनोऽयम्, आत्मनि चित्ते स्व-स्वरूपे वा, यत्वत्तः सुखं त्वत्-पादाब्ज-प्रेम-लक्षणम्, तद् धित्वा, इह त्वत्-प्राकट्य-भूषिते मर्त्य-लोके\ऽपि, अन्यत् समानम् । पक्षान्तरे न केवलं जरासन्धाद् एव, त्वन्-मायया च सदैव दूयामहे । किं वा, स्व-दुःखेन जरासन्धं किं दूषयामः, वयं सदात्म-दोषेणैव महा-दुःखिता इत्य् आहुः— स्वप्ना- इति, अर्थः स एव ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अद्यापि न वयं तव मायया सम्यक् त्यक्ता इत्य् आहुः--स्वप्ना- इति । अन्यत् तैः । यद् वा, तव मायया अतिकृपणाः अतिशयेन हत-बुद्धयः सन्तः क्लिश्यामहे । तत्र हेतुः--मृतकेन स्वतो\ऽचेतनत्वेन तद्-रूपेण देहेन या धुरं मृतक-रूपं भारं वहाम इत्य् अर्थः । न केवलं मृतक-भारवाहित्वम् एव क्लेशाय तत्रान्यच् चेत्य् आहुः—शश्वद् इति । पुनः पुनः भूत-प्रेतादित इव रोग-कालादितो भयं यस्मिन्, तेन । किम्-अर्थं वहथ ? तत्राहुः--नृपस्य सुखं स्वस्मिंस् तद् यथा स्यात्, तत्-प्राप्त्य्-अर्थम् अधुनापि तां न मुञ्चाम इत्य् अर्थः । तद् एतद् अतीव गर्हितम् इति भावः । न च तत्-सुखे वास्तवत्वम् अपि यतः स्वप्नायितं, न चैतावत्त्वम् एव दोषाय, अपि तु दुःखमयत्वम् अपीत्य् आहुः--पर-तन्त्रं राज्याद्य्-अनेकाङ्गाधीनताम् अयं भवत्व् अपि तन्-नाम यद्य् अन्यन् महा-सुखं स्वतः-सिद्धं न स्याद् इत्य् आहुः—हित्वा इति । तत् सकल-निगम-प्रसिद्धम् अनिर्वचनीय-परम-पुरुषार्थ-रूपं सुखं हित्वेति न चेदं वा पर-तन्त्रं, किन्तु स्वत एव आत्मनि प्रकाशमानात् त्वत्तः सकाशाद् अनीहैर् एव भक्त-लभ्यम् इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि यूयं तावत् के मद्-भक्ता मद्-विद्वेषिणो वा ? तत्र न वयम् उभये किन्तु सांसारिका जीवाः साम्प्रतं त्वां प्रपन्ना इत्य् आहुः—स्वप्नायितम् अचिर-स्थायित्वात् स्वप्न-तुल्यम् अमात्य-सुहृत् सेनाद्य्-अधीनत्वात् परतन्त्रं नृप-सुखं नृपा वयम् इत्य् अभिमान-मात्रेणैव सुखं, वस्तुतस् तु धुरं सन्धि-विग्रहाद्यायास-बाहुल्य-प्रदत्वान् महा-भारम् एव शश्वद् भयं यस्मिन्, तेन मृतक-तुल्येन शरीरेण वहामः । अहो कष्टं ! न ये वयम् इतः पूर्वम् एव निष्कामाः सन्तः त्वां नाश्रिता इत्य् आहुः । तत्-सकल-सज्जनैः स्तुतत्वात् प्रसिद्धं, न तु नृप-सुखम् इव तैर् निन्दितम् आत्मनि स्वतः सिद्धम् एव, न तु परतन्त्रं । त्वत् त्वत्तः सकाशाद् एव, न तु दुर्विषयेभ्यो जातम् अनीहैर् निष्किञ्चन-भक्तेः लभ्यं न तु सकामैः लब्धुं शक्यं सुखं हित्वा क्लिश्यामः ॥२८॥


॥ १०.७०.२९ ॥

तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो

बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् ।

यो भू-भुजोऽयुत-मतङ्गज-वीर्यम् एको

बिभ्रद् रुरोध भवने मृग-राड् इवावीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वन्-माया-कृतं कर्म-बन्धं त्वम् एव निवर्तयेति प्रार्थयन्ते--तन् न इति । वियुङ्क्ष्व मोचय । मगधो जरासन्धस् तत्-संज्ञकात् कर्म-पाशात् भवद्भिर् एव विक्रम्य ततो निर्गम्यताम् इति चेद् अत आहुः-- इति । एक एव अयुत-मतङ्गजानां वीर्यं बिभ्रत् सन् स्व-भवने भूभुजोऽस्मान् रुरोध । सिंहो मेषीर् इव ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किम् इदानीम् आवश्यकम् ? इत्य् आह—त्वन्-माया इति । विक्रम्य पुरुषार्थं कृत्वा । ततः पाशात् । अतो\ऽत्र । यो जरासन्धः । मतङ्गजानां गजानाम् । वीर्यं पराक्रमम् । अविर् नाथे रवौ मेषे इति मेदिनी ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तस्मात् तन्-माया-कृत-क्लेशाद् धेतोः, नो\ऽस्मान्, वियुङ्क्ष्व त्वम्, यतो भवान् प्रणतानां प्रपन्नानां शोक-हरम् अङ्घ्रि-युग्मं यस्य तथा मतः । यद् वा, अ-कार-प्रश्लेषेण न विद्यते भावः श्रेयो येषु तान्, परमार्तान् इत्य् अर्थः । मगध इति आह्वयो नाम-मात्रं यस्य कर्म-पाशस्य, तस्मात् । नाम-मात्रेणैव जरासन्धः, तत्त्वतस् त्व् अस्माकं कर्म-पाश एवायं मूर्तिमान्, तस्माद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, अन्यथा तस्येदृशी शक्तिर् न स्याद् इत्य् आशयेनाहुः— इति ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो\ऽस्माकं परम-कृपणानाम् अनीहत्वाभावाद् आत्मनि तत्र सिद्ध्येद् इति स्वयम् एव खं प्रकटयितुं तद्-व्याघातकं बन्धं विमोचयेत्य् आहुः—तन् न इति । तत् तस्मात् त्वन्-माया-कृत-कार्पण्याद् धेतोः तद्-[दृष्ट्रेत्य्]{।मर्क्} अर्थः । नो\ऽस्मान् त्वम् एव विमोचय यतो भवान् प्रणतानां शोक-हरम् अघ्रि-युग्मं यस्य, तथा-भूतः । यद् वा, अ-कार-प्रश्लेषेण न विद्यते भवः श्रेयो यासु, तान् परमार्तान् इत्य् अर्थः । मागध- इति नाम-मात्रेणैव जरासन्धः, तत्त्वतस् त्व् अस्माकं कर्म-पाश एवायं मूर्तिमान्, तस्माद् इत्य् अर्थः। अन्यत् तैः । यद् वा, अन्यथा तस्येदृशी शक्तिर् न स्याद् इत्य् आशयेनाहुः—य इति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् त्वन्-माया-कृतं कर्म-बन्धं त्वम् एव निवर्तयेति प्रार्थयन्ते--तन् न इति । वियुङ्क्ष्व विमोक्षय मगधो जरासन्धस् तत्-सञ्ज्ञकात् कर्म-पाशात् भवद्भिर् एव विक्रम्य निर्गम्यताम् इति चेत्, तत्राहुः-- इति । य एक एव अयुत-मतङ्गजानां वीर्यं बिभ्रत् सत् स्व-भवने भूभुजो\ऽस्मान् रुरोध, सिंहो\ऽवीर् मेषीर् इव ॥२९॥


॥ १०.७०.३० ॥

यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र

भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् ।

जित्वा नृ-लोक-निरतं सकृद् ऊढ-दर्पो

युष्मत्-प्रजा रुजति नोऽजित तद् विधेहि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, युष्मदीया वयम् इत्य् अस्मान् अधिकं बाधत इत्य् आहुः--यो वा इति । हे उदात्त-चक्र ! उद्यत-सुदर्शन ! यो वै द्वि-नव-कृत्वोऽष्टादश-वारांस् त्वया सह मृधे वर्तमाने तत्र सप्त-दश-कृत्वस् त्वया खलु भग्नः पराजितः पश्चाद् अनन्त-वीर्यम् अपि नृ-लोके निरतं नर-शरीर-विनोदं भवन्तं सकृज् जित्वा ऊढ-दर्पः प्राप्त-गर्वो युष्मत्-प्रजा नो रुजति पीडयति । तत् तत्र यद् युक्तं तद् विधेहि इत्य् अर्थः ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवत्-कोपम् उद्दीपयन्त आहुः—किं च इति । यो जरासन्धः । इत्य् अर्थ इति—यद् युक्तम् इत्य् अध्याहृत्य व्याख्येयम् इति भावः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे उदात्त-चक्र ! इति चक्र-ग्रहण-मात्रेणैव भग्न इति भावः । नृ-लोके निरतम् इति मनुष्य-लोके क्रीडापरम् इत्य् अर्थः ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे उदात्त-चक्र ! इति चक्र-ग्रहण-मात्रेणैव भग्न इति भावः । वै प्रसिद्धौ । खल्व् अपि, भग्नो\ऽपि, अनन्त-वीर्यम् अपीत्य् एव वा, युष्माकं प्रजाः पाल्यान् जनान् इत्य् अर्थः । युष्मद् इति श्री-बलदेवादीनाम् । किं वा, महा-दैन्येन सर्व-भक्तानाम् अपेक्षया । हे अजित ! इति तत्त्वतस् तदानीम् अपि तेनाजितत्वात् । यद् वा, कदापि केनाप्य् अजित ! हे सदा विजयिन्न् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, नृलोक-निरतम् इति क्षत्रियैः कदाचित् पलायितव्यम् अपीति नृ-लोकाचारं शिक्षयन्ताम् अत्य् अर्थः ॥ किं वा, नृ-लोके नितरां रतं मनुष्य-क्रोडापरम्, ऊढ-दर्पो\ऽभूत्, यथा न रुजति, तत् तथा विधेहि ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, स त्वद्-विद्वेषी संप्रत्य् अस्मान् त्वत्-प्रपन्नान् ज्ञात्वा प्रतिदिनम् अधिकं बाधत इत्य् आहुः--यो वा इति । हे उदात्त-चक्र ! उत्कर्षेण धृत-सुदर्शन ! द्विनव-कृत्वः अष्टादश-वारान् त्वया सह सङ्ग्रामे वर्तमाने सप्त-दश-कृत्वस् त्वया भग्नः पराजितः । नृ-लोक निरतं नृणां पलायन-धर्म-जिघृक्षा-कोतुकिनं त्वां सकृद् एक-वारम् एव जित्वा ऊढ-दर्पः सन् अस्मान् युष्मत्-प्रजाः रुजति पीडति तत् तत्र यद् युक्तं, तद् विधेहि ॥३०॥


॥ १०.७०.३१ ॥

दूत उवाच—

इति मागध-संरुद्धा भवद्-दर्शन-काङ्क्षिणः ।

प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थं प्रार्थयन्तः ॥ ३१ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पत्रिकां वाचयित्वा सन्देशं प्रतिपादयन्न् इव प्रार्थयते—इति इति पत्रिका-समाप्ति-बोधनार्थम् । किं वा, इत्य् एवं महार्त्या प्रपन्नाः, यतो मागधेन सम्यग्-गिरि-द्रोण्यां बन्धनादिना रुद्धाः । किं वा, भवद्-दर्शनकाङ्क्षिणः, न केवलं संरोधात् तेषां मोचनं कार्यम्, साक्षाद्-दर्शनं च देयम् इति भावः । एवं शं मङ्गलं त्वया क्रियताम् ॥ ३१ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तन्-निवेदन-द्वारा तद्-दुःखं निवेद्य निगमयति—इति इति । इत्य् एवं महा-प्रपन्नाः, यतो मागधेन सम्यक् गिरि-द्रोण्यां बन्धनादिना रुद्धाः । अतः पित्रोर् बाला इव भवतो दर्शन-काङ्क्षिणः, न केवलं संरोधनात् तेषां मोचनं कार्यं, साक्षाद्-दर्शनं च देयम् इति भावः । तस्माद् दीनानां तेषां मङ्गलं क्रियताम् ॥ ३१ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दूत आह—इति इति ॥ ३१-३४ ॥


॥ १०.७०.३२ ॥

श्री-शुक उवाच—

राज-दूते ब्रुवत्य् एवं देवर्षिः परम-द्युतिः ।

बिभ्रत् पिङ्ग-जटा-भारं प्रादुरासीद् यथा रविः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रादुरासीत् तत्राजगाम ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राज-दूते एवम् ईदृशं ब्रुवति सतीति तं प्रति श्री-भगवतः किञ्चिद् उत्तर-प्रसादे न वृत्ते सति, तद्-वाक्य-मध्य एवाविर्भूतः, आदौ श्री-भगवतः श्री-युधिष्ठिर-गृहे प्रयाणाम् इति भावः । पाठान्तरे\ऽप्य् अर्थः स एव । परमा द्युतिस् तपो वा दीप्तिर् यस्य सः । अतः पिङ्ग-वर्ण-जटा-भारं बिभ्रत्, अत एव रविर् यथा इति, इत्थं तदानीम् आविर्भावः, स्वभाव-प्रदर्शनेनात्म-वाग्-ग्रहणार्थं । किं वा, भाविनापि श्री-युधिष्ठिर-गृहे श्री-भगवतो गमनेन तद्-इष्ट-राजसूय-सम्पादनेन च प्रहर्षोदयात् । यद् वा, तदानीं तस्य तथा वर्णनं श्री-युधिष्ठिर-प्रयोजनार्थं तद्-आगमनेन श्री-बादरायणेस् तस्मिन् भक्ति-भरोदयाद् इति । अथवा परमा द्युतिस् तपः प्रभावो यस्य सः इति सर्वज्ञत्वम् उक्तम् । आदौ श्री-युधिष्ठिर-गृहे श्री-भगवतो\ऽपि यात्रो जानस् तत्-सिद्धये द्रुतम् आविर्भूत इत्य् अर्थः । तपः-प्रभावम् एव दर्शयति—बिभ्रद् इति । अत एव रविर् यथा इति परमं तेजस्वित्वं जगत्-पूज्यत्वादिकं वा सूचयति ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परम-द्युतिर् इति । तदानीं तद्-दीप्तेर् अधिकं प्राकट्यं सूचयति । तच् च प्रथमतस् तद्-वचन-माननाय श्री-भगवत एव तथाभिप्रायात् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.३३ ॥

तं दृष्ट्वा भगवान् कृष्णः सर्व-लोकेश्वरेश्वरः ।

ववन्द उत्थितः शीर्ष्णा स-सभ्यः सानुगो मुदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं देवर्षिम् ॥ ३३-३४


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-लोकेश्वराणां श्री-नारद-जनक-ब्रह्मादीनाम् ईश्वरो\ऽपि मुदा आसनाद् उत्थितः सन् शीर्ष्णा ववन्दे, यतो भगवान् ब्रह्मण्य-देवत्वाद्य-शेषात्म-गुण-प्रकटन-पर इत्य् अर्थः । अत एव कृष्णो मुनीनाम् अपि चित्ताकर्षकः, सभ्या उग्रसेनादयः, अनुगा उद्धवादयः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-लोकेश्वराणां ब्रह्मादीनाम् ईश्वरो\ऽपि मुदा आसनाद् उत्थितः सन् शीर्ष्णा ववन्दे, यतो भगवान् ब्रह्मण्य-देवत्वाद्य्-अशेषात्म-सत्-कीर्त्य्-आदि-गुण-प्रकाशन-शील इत्य् अर्थः । सभ्याः पुरोहितादयः, अनुगा उद्धवादयः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.३४ ॥

सभाजयित्वा विधिवत् कृतासन-परिग्रहम् ।

बभाषे सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विधिवत् यथा-विधीति स्वागतादि-नीराजनान्त-विधिनेत्य् अर्थः । श्रद्धया प्रीत्या यानि सुनृतानि, तैः । किं वा, श्रद्धयातर्पयन्, यतो मुनिं परम-पूज्यम् इत्य् अर्थः । किं वा, श्री-भगवतस् तादृश-चेष्टा-दर्शनादिना परम-विस्मयोदयात् कृत-मौनम् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विधिवत् स्वागतादि-नीराजनान्त-विधिनेत्य् अर्थः । श्रद्धया प्रीत्या यानि सूनृतानि, तैः । किम् वा, श्रद्धयातर्पयन् यतो मुनिं परम-पूज्यम् इत्य् अर्थः । किं वा, श्री-भगवतस् तादृश-चेष्टा-दर्शनादिना परम-विस्मयोदयात् कृत-मौनम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.३५ ॥

अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतो-भयम् ।

ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भूयान् महान् गुणो लाभोऽयम् अस्माकं यत् सर्व-लोक-वृत्तान्त-ज्ञानम् इति ॥ ३५ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्य त्रयाणां लोकानाम् अकुतो-भयम्अपि स्विद् इति वितर्के कुतो\ऽपि भयं नास्ति । ननु, यतः पर्यटतो भगवतस् तव लोकान् लोकानां भूयान् गुणः । सर्व-वृत्तान्त-श्रवणाद् इति वा योज्यम् ॥ ३५-३६ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपि स्वित् प्रश्ने । अकुतो-भयं किम् ? तत्र तत्र भवतो भ्रमणम् अस्मद्-[वितार्थम्]{।मर्क्} एवेत्य् आह—नन्व् इति वितर्के निश्चये वा, भगवतः सकाशात् भवत इति वक्तव्ये भगवत इत्य् आदरात्, पर्यटन-शक्ति-विशेषाभिप्रायेण वा ॥ ३५ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपि स्वित् प्रश्ने । त्रयाणां लोकानां सर्व-ब्रह्माण्ड-गतानाम् इत्य् अर्थः, ईश्वर-कर्तृष्व् इति वक्ष्यमाणात् । तत्र तत्र भवतो भ्रमणम् अस्मद्-धितार्थम् एवेत्य् आह—नन्व् इति वितर्के निश्चये वा भगवतः परमादरणीयाद् भवतः सकाशात् । अन्यत् तैः । यद् वा, नन्व् अहं तत् सर्वं कथं जानामि ? तत्राह--नन्व् इति गुण-प्रभावः ॥ ३५ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तवाकुशलासम्भवाद् एव कुशल-प्रश्नानौचित्यात् लोकानाम् एव कुशलं त्वां पृच्छामीत्य् आह—अपि स्विद् इति । ननु, तद् अहं कथं जानामि ? इति तत्राह—नन्व् इति । भगवतस् तव पर्यटतो भूयान् अयं गुणो यतस् त्वत्त एव सर्व-लोक-वृत्तान्त-ज्ञानं भवेद् अतः पृच्छामीति भावः ॥ ३५ ॥


॥ १०.७०.३६ ॥

न हि तेऽविदितं किञ्चिल् लोकेष्व् ईश्वर-कर्तृषु ।

अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरः कर्ता येषां, तेषु ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव । एव अविदितम् अस्ति । ईश्वर-कर्तृष्व् इति सर्वेष्व् एवेत्य् अर्थः । यद् वा, ईश्वरस्याप्य् अभिप्रायं वेत्सि, किं पुनस् तत्-सृष्ट-लोकानाम् इति सर्वं विदितम् एवेति भावः । अथ अतो हेतोः । हे पूज्य-पादाः ! युष्मान् इति बहुत्वं गौरवात् । आदाव् एवेदृशः प्रश्नो जरासन्ध-वधार्थं श्री-भगवतः श्री-युधिष्ठिर-गृहे प्राग्-जिगमिषां द्योतयत्य् एव ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कोऽसौ ? तम् आह—न हि इति । ईश्वर-कतृष्व् इति लीलया स्वस्य मनुष्यत्वं व्यञ्जयति । अथ अतो हेतोः । हे अयि पूज्य-पादाः ! एवं पाण्डवानाम् एव सर्वासु सृष्टिषु निज-परमापेक्षणीयत्वं व्यजितम् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरः कर्ता येषां तेषु अथेति प्रस्तुतो जरासन्ध-वधो भीमाद् एव सम्भवेद् इति प्रकारं जानत एव भगवतः पाण्डव-विकीर्षिते प्रश्नो\ऽयं ज्ञेयः ॥३६॥


॥ १०.७०.३७ ॥

श्री-नारद उवाच—

दृष्टा मया ते बहुशो दुरत्यया

माया विभो विश्व-सृजश् च मायिनः ।

भूतेषु भूमंश् चरतः स्व-शक्तिभिर्

वह्नेर् इव च्छन्न-रुचो न मेऽद्भुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अविदुषेव सर्व-ज्ञेन जरासन्ध-वधार्थम् एव पाण्डव-चिकीर्षितं पृष्टो नारदो मायेयम् इति ज्ञात्वाह—दृष्टा इति त्रिभिः । विश्व-सृजश् च ब्रह्मणोऽपि मायिनो मोहकस्य ते स्व-शक्तिभिर् विद्यादिभिर् भूतेष्व् अन्तर्यामितया चरतो वर्तमानस्य । यद्य् अहं भूतेषु वर्ते तर्हि भूतानि मां किं न पश्यन्ति तत्राह—वह्नेर् इव च्छन्न-रुच इति । स्व-शक्तिभिर् एव च्छन्ना रुक् प्रकाशो यस्य तस्य । अतस् तवेदं प्रश्नादि न मेऽद्भुतम् ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्री—भगवता लोकत्रयाकुतोभयं यत्-पृष्टं तस्याज्ञातत्वेन पाण्डव-तात्पर्यकत्वेन चोत्तरम् अदत्त्वा त्वस्मिन्-सर्व-दर्शित्वं यद् उक्तं तत्-तु तच्-छक्तिमयत्वेनैवाङ्गीकरोति—दृष्टा इति । माया मायिक-कार्याणि नाना-ब्रह्माण्डगतानि तथा विश्व-सृजस् तत्-तद् अन्तर्यामि- ब्रह्म-विष्ण्वादयो मायिनस् तच्-छक्त्य् अंशधारिणश् च दृष्टाः । तच् च त्वं पर्यटन् अर्क इव त्रिलोकीम् इति व्यासोक्त्य् अनुसारेण स्वस्य तव शक्तिभिस् त्वद्-भक्तिमयमच् छक्तिभिर् एव वा सर्व-व्यापक-वह्नेर् इव छन्न-रुच आच्छादित-सर्वज्ञस्य स्वतो भूतेषु चरतो मम नाद्भुतम् इति तोषिणी । वृत्त्य् अभिप्रायेण बहुत्वं माया इति ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विभोर् व्यापकस्येति मायाया अपि व्यापकत्वम्, मायिन इति श्री-ब्रह्मादि-मोहकत्वञ् च सूचितम्, अतो दुरत्यया दुर्वित्र्क्या अपि बहुशो दृष्टाः । न च केवलं बाह्या एव, किन्तु आन्तश्चेत्य् आह—भूध्व् इति । भूमम् ! हे अपरिच्छिन्न ! तथापि प्रत्येकं सर्व-जीवानाम् अन्तर्यामितया स्वशक्तिभिस् तत्-तद्-विचित्र-सर्वेन्द्रिय-वृत्ति-प्रवर्तनादिना तेषु चरतो नाद्भुतं मायिकत्वाद् इति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, भूमन् ! हे सर्व-व्यापक ! अतः काष्ठेषु बह्न्र् इव । किं वा, अग्निवत् जाज्ज्वल्यमानतया सर्व-भुतेषु चरतो\ऽपि तवेदं प्रश्नादिकं स्वस्य तव शक्तिभिर् माया-तद् अंशाविद्यादिभिश् छन्न-रुचो\ऽपि मे नाद्भुतम् । तत्र हेतुः—दृष्टेति, मतो\ऽयं प्रश्नो माययैवेति भावः । अन्यत् समानम् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवता लोकत्रयाकुतोभयं यत्-पृष्टं तस्य ज्ञातत्वेन चोत्तरम् अदत्वा स्वस्मिन् सर्व-दर्शित्वं यद् उक्तं तत्-तु तच्-छक्तिमयत्वेनेवाङ्गीकरोति-दृष्टा इति । माया-मायिक-कार्याणि नाना ब्रह्माण्ड-गतानि तथा विश्वसृजः तत्-तद् अन्तर्यामि-ब्रह्म-विष्ण्वादयो मायिनस् त्वच्-छक्ति-धारिणश् च दृष्टाः तच् च त्वं पर्यटन्न् अर्क इव त्रिलोकीम् इत्य्-आदि प्रथम-स्कन्धस्थ श्री-व्यासोक्त्य् अनुसारेण स्वस्य तव शक्तिभिस् त्वद्-भक्तिमयमच्-छक्तिभिर् एव वा सर्व-व्यापक-वहर् इव छन्नरुचः सतो भूतेषु चरतो मम नाद्भुतम् इति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वमाययैव त्रीन् लोकान् मोहयसि अथ च तेषाम् अकुतोभयन् न प्रच्छसीत्य् अद्भुतं ते चरित्रम् अपि नर-लीलस्य नेदम् अद्भुतम् इत्य् आह—दृष्टा इति । विश्व-सृजश्व ब्रह्मादेर् अपि मायिनो मोहकस्य किञ् च हे भूमन् ! सर्व-व्यापक ! भूतेष्व् अपि शक्तिभिर् मायादिभिः सहान्तर्यामितया चरतो वर्तमानस्य माया एव बहुशो दृष्टा किन्तु नर-लीलत्वेन छन्ना कौतुकार्थम् आवृता येन तस्य तवेतादृश-प्रश्नादिकं न मे मयि अद्भुतम् ॥३७॥


॥ १०.७०.३८ ॥

तवेहितं कोऽर्हति साधु वेदितुं

स्व-माययेदं सृजतो नियच्छतः ।

यद् विद्यमानात्मतयावभासते

तस्मै नमस् ते स्व-विलक्षणात्मने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदं जगत् । कथं भूतम् । असद् एव यत् तव अचिन्त्यायेत्य् अर्थः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विद्यमानात्मतया स्वरूपस्थितिं लब्धवत् तया । इत्य् अर्थ इति । असद् अपि सत्कुर्वतस् तव माया-वैभव-मतर्क्यम् इति भावः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु मया किं प्रयोजनम् इति चेत्-तत् केन ज्ञातुं शक्यम् इति । किं वा, न च प्रश्नो\ऽयं केवलं माययैव, किन्तु केनचिद् अभिप्रायेणापि, स तु केन ज्ञातुं शक्यताम् इत्य् आशयेनाह—तवेति । साधु यथा स्यात्-तथा को\ऽर्हति, अपि तु तत् प्रयोजनादिकं को\ऽपि न ज्ञातं शक्नोतीत्य् अर्थः । कुतः ? स्वस्यैव मायया सृजतो निषच्छतश् च नाशयतः, सृष्टेर् नाशेन सह विरोधाद् इति भावः । किं च, क्वचिन्-मायाया अपि सत्यार्थत्वाद् इत्य् आह—याद् इति । अतः स्वत एव सर्वतो-विलक्षण-स्वभावाम नमः । अन्यत् तैर् व्याख्यातम् । यद् वा, यत्-तवेहितं विद्यमानात्मतया सर्वेषां प्रत्यक्ष त्वेन यद्य् अप्य् अवभासते द्योतके, तथापि वेदितुं को\ऽर्हति ? अन्यत् समानम् ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किन्तु तवेहितं सर्वज्ञत्वादौ सत्य् अपीदृश-प्रश्नादिना सम्पादयितुम् इष्ट्वं को मद्-विधो महत्तमो वा साधु सुष्ठु यथा स्यात्-तथा बेदितुम् अर्हति तत्र हेतुः यत्-पृष्टव्यं प्रश्नस्य गौण-मुख्य-कर्म-भूतं तद् इदं सर्वं सृजतः नियच्छतः नियन्तृतया प्रवर्तयतश् चेति किञ् च तत्रेदं सर्वं यस्य विद्यमान-स्वरूपतया करतल-विद्योतमान-स्फटिक-गोलक-तुल्यतया अवभासते प्रकाशते तस्मै तुभ्यं केवलं नमः न तु स स्वम् ऊहितुम् अर्हस इत्य् अर्थः । यतः स्वस्मात् विलक्षण आत्मा यस्य तादृशायेति ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यत् विश्वं विद्यमान आत्मा अन्तर्यामी यत्र तत्-तयैव अवभासते चेतनी-भवति तद्-एवेदं विश्वं कदाचित् सृजतः कदाचिन् नियच्छतस् तव ईहितम् अभिप्राय तस्मात् स्वतः-स्वभावाद् एव सर्वतो विलक्षणात्मने अतर्काय तुभ्यं नमः ॥३८॥


॥ १०.७०.३९ ॥

जीवस्य यः संसरतो विमोक्षणं

न जानतोऽनर्थ-वहाच् छरीरतः ।

लीलावतारैः स्व-यशः प्रदीपकं

प्राज्वालयत् त्वा तम् अहं प्रपद्ये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं-भूतस्य किं माया-चेष्टितैर् इत्य् अत आह—जीवस्येति । अविद्या-तमसा वृतत्वेनानर्थ-प्रापकाच् छरीरात् संसरतः । तेनैव तपसा तस्माच् छरीराद् विमोक्षोपायम् अजानतः । प्राज्वालयत् प्रदीपितवान् । तं त्वा त्वाम् । यशः श्रवणादिभिर् जीवस्य मोक्षार्थम् इत्य् अर्थः ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—

भवे\ऽस्मिन् क्लिश्यमानानाम् अविद्या-काम-कर्मभिः ।

श्रवण-स्मरणार्हाणि इत्य् आद्युक्तर् इति भावः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, मदीहिताज्ञानेन भक्त्य् असिद्ध्या लोकाः कथं निस्तरेषुः ? तत्राह—जीवस्येति । अनर्थ-वहाद् अपि शरीरात् विशेषतो\ऽपुनर् भवत्वादिना मोक्षणं न जानतः, यद् वा, अज्ञाने हेतुः—अनर्थति । स्वयश एव प्रदीपकः, अज्ञानतमोनाशकत्वात्, तं प्रकर्षेणाज्वालयद् यो भवान् तं त्वाम् अहम् अनन्य-गतिः, अभिप्रायाज्ञाने\ऽपि सति त्व्द्-यशः श्रवणादिना सुखं निस्तारो भवितैवेति भावः ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो आस्तान्तावत् त्वद्-ईहितं जीवस्य स्व-मोक्षण-प्रकार म् अप्य् अजानतस् तस्यार्थ यः परम-कारुणिकः स्वयशोरूपं प्रदीपकं तद्-यदि सर्वार्थ-प्रकाशकं प्राज्वालयत् तं त्वाम् एवाहं प्रपद्य इति त्वाज्ञानादि-प्रकाशनादिना [ मो] मुह्यमानस्यापि मम त्वम् एव शरणम् इति भावः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, विश्वस्याकुतोभय-प्रश्नः स इच्छते चेत्य् आह—जीवस्येति । शरीरतो बन्धऋऊपात् विमोक्षणं न जानतो जोबस्य सम्बन्धे स्व-यशोरूपं प्रदीपकं यः प्राज्वालयत् स्वतत्त्वं दर्शयितुम् इति भावः । त्वा त्वां तस्मात् जगत्य् अस्मिं त्वन्-मायामोहिताः सभयाश् च दृष्टा त्वदीय-यशः-श्रवण-कीर्तनपराः अकुतोभया च बहवो दृष्टा इति श्लोक-त्रयेण द्योतितम् ॥३९॥


॥ १०.७०.४० ॥

अथाप्य् आश्रावये ब्रह्म नर-लोक-विडम्बनम् ।

राज्ञः पैतृ-ष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आश्रावये श्रावयिष्यामि । नर-लोक-विडम्बनं ब्रह्म त्वाम् । ब्रह्मन्न् इति पाठेऽपि हे ब्रह्मन् परमात्मन्, नर-लोकानुकारिणं त्वां श्रावयिष्यामीति ॥४०-४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रावये भविष्यति लट् आङ्-पूर्वः । ब्रह्मेति पूर्ण-ब्रह्म-स्वरूपः । न-लोपस्य संबुदौ विकल्पः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आश्रावये सम्यक् श्रावयाम्य् एव, कुतः ? नर-लोकं भूतलम् । किं वा, नरान् लोकांश् च सर्वान, यद् वा, सर्व-जीवलोकान् विडम्बयति, ड-ल-योर् एकत्वान्-मनुष्य-क्रीडया स्थिरी-करोतीति तथा सः, तम् किं च, राज्ञ इति धर्म-राजस्य श्री-युधिष्ठिरस्य राजत्वादीनां यथोत्तरम् आश्रावण-हेतुत्वे श्रैष्ठ्यम् ऊह्यम् । अन्यत् तैर् व्याख्यातम् ।यद् वा, नर-लोकस्य विडम्बनम् अवलम्बनम् अनुकारकं वा चिकीर्षितम् ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्य् अप्य् एवं त्वम् एव सर्वज्ञः अथापि मा सम्यक् श्रावयामि कुतः नर-लोक-विडम्बनं तत्-सदृशम् इत्य् अर्थः । अतः प्रश्नचायं भगवतो योग्य एवेत्य् आह—पितृष्व् असुस्तद्-भाव-प्राचुर्येण परमवत्सलायाः श्री-पृथाया अपत्यस्य स्वयम् अपि तथैव भक्तस्येत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वितीय-प्रश्नस्योत्तरम् आह—अथापीति पञ्चभिः । हे ब्रह्म पूनर् ब्रह्म स्वरुप ! ब्रह्मन्न् इति पाठे\ऽपि स एवार्थः । सम्बुद्धौ न-लोपस्य-वैकल्पिकत्वात् । अपि सर्वज्ञत्वात् जानास्य् एव तद् अप्य् आश्रावये यतो नर-लोक विडम्बयतीति व्यतिरेकालङ्कारेण नर-लोक-समशीलम् इत्य् अर्थः ॥४०॥


॥ १०.७०.४१ ॥

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।

पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पारमेष्ठ्य-कामः ब्रह्म-पद-कामः सर्व-श्लाघ्यत्व-कामो वा । सर्व-श्लाघ्ये पारमेष्ठ्यं हरौ ब्रह्म-पदे\ऽपि च इति निरुक्तिः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मखेषु इन्द्रः, दिग्विजयादिना साध्यत्वात् परम-श्रेष्ठः, तेन त्वाम् एव, न त्व् अन्यं यक्ष्यति, यतः पाण्डवः पाण्डु-पुत्रत्वेन त्वद्-एक-भक्तत्वाद् इति भावः । नन्व् अहं त्वदीय एव, किं यज्ञ-प्रयासेन ? तत्राह—पारमेष्ठ्यं साम्राज्यं तत्-कामः, तेन सर्व-लोकेषु सुखं त्वद्-भक्ति-प्रवर्तन-सिद्धेः । यद् वा, परमे प्रेम-लक्षणे भक्ति-पदे तिष्ठतीति परमेष्ठी प्रेष्ठ-त्वद्-भक्तः, तस्य भावः पारमेष्ठ्यं प्रेम-भक्तिम् इत्य् अर्थः । किं वा, सर्व-श्रेष्ठ-पदं त्वत्-सामीप्यादि-श्री-वैकुण्ठ-लोकादि, तत्-कामः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :राजसूयाख्येन मखेन्द्रेण सर्व-राज-गण-सर्व-देव-गण-वशीकारितया मखानां श्रेष्ठेन पारमेष्ठ्य-कामस् त्वद्-यजनोचित-परम-सम्पत्ति-कामो नृपतिस् त्वां यक्ष्यति मुहुर् गृहागतं सेविष्यते सिषेविषत इत्य् अर्थः । त्वां विना सर्व-सम्पत्तेस् तस्मा अरोचकत्वाद् इति भावः । तद् उक्तं प्रथमे—

किं ते कामाः सुरस्यार्हा मुकुन्द-मनसो द्विजाः ।

अधिजह्रुः प्रियं राज्ञः क्षुधितस्य यथेतरः ॥ [भा।पु। १.१२.६] इति ।

तथा पारमेष्ठ्य-शब्देन तदीयाम् ऐहिक-महा-सम्पत्तिम् एवानूद्य तद्-अनुभव-सुखे तेषां तद्-एक-चक्षुष्ट्वम् उक्त्वान्यथा वृथात्वं वक्ष्यते च—

सभायां मय-कॢप्तायां क्वापि धर्म-सुतो\ऽधिराट् ।

वृतो\ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥

आसीनः काञ्चने साक्षाद् आसने मघवान् इव ।

पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः ॥ [भा।पु। १०.७५.३४-३५] इति ॥४१॥

ननु, तस्य तत्-प्राप्तिः स्वतो\ऽधिकं भात्य् एव ? तत्राह—नृपतिः सर्वैर् एव नृभिः सहेति भावः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यक्ष्यति त्वाम् ॥४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.४२ ॥

तस्मिन् देव क्रतु-वरे भवन्तं वै सुरादयः ।

दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न चात्रैवानुमोदनं कार्यं, किन्तु तत्रागन्तव्यम् इत्य् आशयेनाह—तस्मिन्न् इति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्यजतु राज्ञां धर्म एवायम् इति चेत्, तत्राह—न चेति । किं लाभस् तत्र गमने? तत्राह—भवन्तम् इति ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भवन्तम् एव वै अपि सुरादयो\ऽपि, आदि-शब्दान् मन्व्-आदयो यशस्विनः साधव इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यशस्विनः साधव इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्यानन्तरं दृश्य-राज-सूयस्य चात्र फल-विशेषं खादिर-यूपा-ध्यायेन भगवत्-सम्बन्धाद् एव ज्ञेयः । तस्मिन् क्रतु-वरे इति तं क्रतु-वरं ये दिदृक्षवः सुरादयो राजानश् च ते तत्र गमन-मय्या त्वत्-कृपया भवन्तम् अपि समेष्यन्तीत्य् अवश्यम् एव गन्तव्यम् इत्य् अर्थः ॥४२-४७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् अनुमोदनम् एवात्र स्थित्या कार्यं, किन्तु तत्र गन्तव्यम् एवेत्य् आह—तस्मिन्न् इति ॥४२॥


॥ १०.७०.४३ ॥

श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्ते-वसायिनः ।

तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रागताश् च सर्वे त्वद्-दर्शनादिना पूता भविष्यन्तीत्य् आह—श्रवणाद् इति । अन्ते-वसायिनः श्व-पचा अपि । ब्रह्म-मयस्य ब्रह्म-घन-मूर्तेः । ईक्षाअभिमर्शः स्पर्शनं च, तौ विद्येते येषाम् ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तेवसायिनो मातङ्गादयश् चाण्डालाः ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ध्यानं सर्वाङ्ग-चिन्तनम्, पूयन्ते जात्य्-आदि-दोषात्, तच् च त्वत्-प्रभावाद् एवेत्य् आह—हे ईश इति । ब्रह्ममयस्य वीक्षाभिमर्षौ तद्वन्तः । अन्यत् तैर् व्याख्यातम् । यद् वा, ईक्षाया आभीमर्शः स्पर्शस् तच्-छालिनो द्रष्टार इत्य् अर्थः ॥४२४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूयन्ते जात्य्-आदि-दोषात् अन्यत् तैः । यद् वा, ईक्षया द्वारा अभिमर्शः स्पर्शो\ऽनुभवा तच्-छालिनो द्रष्टार इत्य् अर्थः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तेषां मद्-दिदृक्षायां किं प्रयोजनं तत्राह—श्रवणाद् इति । ब्रह्म-मयस्य ब्रह्म-घन-मूर्तूर् इति श्री-स्वामि-चरणाः ॥४३॥


॥ १०.७०.४४ ॥

यस्यामलं दिवि यशः प्रथितं रसायाम् ।

भूमौ च ते भुवन-मङ्गल दिग्-वितानम् ॥

मन्दाकिनीति दिवि भोगवतीति चाधो ।

गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कैमुत्यम् अतिशयेनाह—यस्येति । हे भुवनानां मङ्गल-रूप, दिवि पाताले भूमौ च प्रथितं यस्य यशो विश्वं पुनाति । कथम् । प्रथितं दिग्-वितानं दिग्-भवनानां वितान-वद् अलङ्करणम् । तथा चरणाम्बु च प्रथितं पुनाति । कथं तत् प्रथितम् । दिवि मन्दाकिनीति, अधश् च भोगवतीति, इह च भूमौ गङ्गेति । तस्य तवागमनात् सर्वं मङ्गलं पवित्रं च भविष्यतीति भावः ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिशयेन तात्पर्येण । तात्पर्य निश्चयाधिक्यजागरूकेष्व्तिक्रमे । भवेद् अतिशयः इति निरुक्तिः । इति भाब ईति—यस्य नाम्ना त्रैलोक्य-शोधकस्य तवागमने यदि तत्रत्याः पूता भविष्यतीति किम् अवक्तव्यम् इत्य् अर्थः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ब्रह्म-मयस्य ब्रह्म परमैश्वर्यं तन्-मयस्य ॥ ४४-४७ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वक्तव्यम्, तवेक्षाभिमर्शिनः पूयन्त इति, त्वद्-यशसैव जगतः पावित्र्यं मङ्गलञ् च सम्पन्नम् इत्य् आह—यस्येति । हे भुवन-मङ्गलेति यशसा चतुर्दश-भुवनानां मङ्गलम् अभिप्रेतम् एव, यद् वा, भुवन-मङ्गलञ् च तद् दिग्-वितानं च, अस्योत्तरेणान्वयः । अहो वत किं बक्तव्यम्, यश पुनातीति पादाब्ज-शौचम् अपि तद्वद् इत्य् आह—मन्दाकिनीति । चा-करत्रयेण सर्वासाम् अपि पावने प्रधान्यं बोधयति, दिव्यादीनाञ् च यथोत्तरं भाव्यत्वे श्रैष्ठयम् ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-एवं श्रवणादि-मात्रस्य माहात्म्यम् उक्त्वा यशः-श्रवणादेर् वैशिष्ट्यं दर्शयति—यस्येति । यस्य ते तव यशः न विद्यते श्रवणादि-कर्तृष्व् अपि मलं यस्मात्, तादृशं तथा भुवन-मङ्गलं यद् दिशां वितानं सर्वोपरि शोभाकरत्वात् तादृशं तथा भुवन-मङ्गलं यद्-दिशां वितानं सर्वोपरि शोभाकरत्वात्-दृअशञ् च प्रथितं विख्यातम् एव तच् च परम-पुण्यात्मक-सख्यातिरूपत्वाद्य् उक्तम् एवेति भावः । अहो तव चरणाम्बु तत्र-तत्र मन्दाकिनीत्य् आदिनामभिः प्रसिद्धं सत् विश्वं पुनाति तत्-तु पादाम्बुनो दूरतः परिवर्जनीयत्वेनान्यत्र प्रसिद्धेः परमाश्चर्यम् इति भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : श्रवणाद् इत्य्-आदि । तव कीदृशस्य ? ब्रह्म-मयस्य ब्रह्म परमहः तन्मयस्य ॥ ४४-४७ ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां मद्-दिदृक्षैव किं कारणं ? तत्राह । यस्य तव अमलं यशः दिवि रसायां भूमौ च प्रथितं दिग्वितान दिग्-भवनानां वितानवद् अलङ्करणं सत् विश्वं पुनात्य् अतः पूतान्तः-करणत्वाद् एव तेषां तद्-दिदृक्षा अभूद् इति भावः । यद् वा । यस्य यशश् चरणाम्बुच त्रिजगत् पावनं स साक्षाद् एव त्वं तेन राज्ञा निमन्त्रितो\ऽसि यज्ञे तत्र पावन-वस्तूनाम् अपेक्षणीयत्वाद् इति भावः ॥४४॥


॥ १०.७०.४५ ॥

श्री-शुक उवाच—

तत्र तेष्व् आत्म-पक्षेष्व् अ-गृणत्सु विजिगीषया ।

वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रैवं नारदोक्तं तेषु वर्तमानेष्व् आत्मीयम् अक्षेषु यादवेषु जरासन्धस्य विजिगीषया अगृह्णत् स्व-मन्यमानेषु । वाचः पेशैः पेशल-वाग्भिर् इत्य् अर्थः ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तदा । तेषु सभ्येषु । इत्य् अर्थ इति पेशस्-सौन्दर्य-चूर्णयोः इति धरणिः । वाचो वाण्याः पेशैः सौन्दर्य-गांभीर्य-माधुर्याल्पाक्षर-बह्वर्थादिभिर् इति भावः । केशव इति—यथा गोकुल-सुखार्थं केशिनं हतवांस्-तथोद्धवस्य निज-भक्तस्य कीर्त्य् उत्कर्षेण सुखार्थं तम् आहेति भावः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भृत्याम् इति स्व-भक्तस्य माहात्म्य-विस्तारणार्थीम् इति भावः । यतः केशवो भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनार्थम् अवतीर्णः साक्षात्-परमेश्वरः । किं वा, गोकूल-सुखार्थ केशि-हन्ता, इति तत्रत्य-जनप्रियत्वेन तस्मिन् स्नेह-विशेष सूचितः । अत एव वाचः पेशैः प्रकर्षेणाह—यत उद्धवं सर्वेषाम् उत्सव-रूपम् इति भावः । स्मयन् सदा श्री-मुख प्रसाद-स्वभावात् स्मयमानः । किं वा, सके तेनैव स्मितेन स्वाभिप्राय-बोधनार्थम्, यद् वा, निजाभिप्रायस्योद्धवेक-गम्यस्य तद् उक्त्या प्रकाशनार्थम् इति दिक् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अगृह्नत्सु मौनम् आलम्बमानेष्व् इत्य् अर्थः । पाठोयम-सन्धिर् एव ससान्धि-धाठे\ऽगृह्न्त्सु चेति कचित् । भृत्यम् इति स्व-भक्तस्य तस्य माहात्म्य-विस्तारणार्थम् इति भावः । यतः केशवः गोकूल-सुखार्थं केशि-हन्ता तत्रात्य-जनप्रिये तस्मिन् श्री-मद् उद्धवेपि स्नेह-विशेषवान् इति भावः । अत एव वाचः-पेशैः प्रकर्षेणाह—यत उद्धवं सर्वेषाम् उत्सव-रूपम् इति भावः । स्मयम् उद्धव-ज्ञेयाभिप्राय-विशेषेण स्मयमानः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र सभायां तेषु यादवेषु आत्मीय-पक्षेषु जरासन्धस्य जिगीषया हेतुना मुनेस् तद्-वचः अगृणत्सु अमन्यमानेषु सत्सू वाचः वचनस्य पेशैर् अवयवैः स्वाभिप्रेतैर् अर्थेरुद्धवहृद्य् आरोपितैः स्मयमानः ऊधवं प्राहेति तस्यैव मन्त्रणाभिज्ञतोत्कर्ष-ख्यापनार्थम् इति भावः ॥ ४५-४७ ॥


॥ १०.७०.४६ ॥

श्री-भगवान् उवाच—

त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थ-तत्त्व-वित् ।

अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चक्षुष्ट्वे हेतुः, मन्त्रार्थानां मन्त्र-साध्यानां तत्त्व-वित् परिपाक-वेदिता ॥ ४६-४७ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चक्षुश् चक्षुर्वत्-प्रकाशकम् । यथात्रानुष्टेयं तथा ब्रूहि । अत्र राज-मोक्षण-राजसूय-गमन-रूपोभय-कार्ये इत्य् अर्थः । त्वद्-उक्तौ श्रद्दध्मः श्रधां करिष्यामः । तद् एव करिष्याम च सर्वं वाक्यं सावधारणम् इति न्यायागत एव-कारः । उभयत्र भविष्यति लट्-लोटौ ॥ ४६ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव, त्वम् एव, नो\ऽसमाकं यादवानां परमम् इति समीपवर्ति-द्रव्य-मात्र-दर्शि-प्रसिद्ध चक्षुषः सकाशाद् आधिक्यम् उक्तम् । मन्त्रेण भावि-दुरवस्यादि-प्रदर्शनात्, यतः सुहृत् स्वज्ञातिः, यद् वा, अत एव सुहृत् परमोपकारी । किं वा, सु शोभनं हृन्च् च, अथ अतो हेतोः, अनु अनुसन्धान-पूर्वकं ब्रूहिः, पाठान्तरे अत्रास्मिन् कृत्यद्वये यद् आदाव् अनुष्ठेयं तद्-ब्रूहि, न च मन्तव्यम्, तद् एते न गृहीष्यन्तीत्य् आह—तद् एव श्रद्धध्म, श्रद्धया गृह्नीमः करवाम चेति । अयं भक्त-वात्सल्यभरेण प्रोत्साहन-विशेषः ॥ ४६ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वं हि त्वम् एव नो\ऽस्माकं यादवानां चक्षुष्ट्वे हेतुः सुहृन् निरुपाधिक-हितकारी मन्त्रार्थ-तत्त्वविद् इति च परमम् इति प्रसिद्धं चक्षुषः सकाशात् आधिक्यम् उक्तं मन्त्रेण भाविदूरस्थादि-प्रदर्शनात अथ अतो हेतोः अत्रास्मिन् कृत्यद्वये यदादावनुष्टेयं तद्-ब्रूहि न च वक्तव्यं तद् एते न गृहीष्यन्तीत्य् आह तद् एव श्रद्धध्मः श्रद्धया गृह्नीमः गृहिष्यामः करवाम करिष्यामश् चेति अयं भक्त-वात्सल्यभरेण प्रोत्साहन-विशेषः ॥ ४६ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७०.४७ ॥

इत्य् उपामन्त्रितो भर्त्रा सर्व-ज्ञेनापि मुग्ध-वत् ।

निदेशं शिरसाधाय उद्धवः प्रत्यभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । उपामन्त्रितः पृष्टः । मुग्धवद् अज्ञातवत् । मुग्धः सुन्दर-मूढयोः इति विश्वः ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपामन्त्रितः स्नेहेनादिष्टः, भत्रेति—तदादेज्ञस्यावश्य-पाल्यता सूविता । यद् वा, भतृत्वेन भृत्य-यशोविस्तारणार्थम् इति भावः । अत एव भक्त्या स्व-शिरसा तस्य निदेशम् आधाय शिरो-बद्धाञ्जलिनादृत्येत्य् अर्थः ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपामन्त्रितः स्नेहेन प्रार्थनाव आदिष्टः भ्र्त्रेअति तद् आदेशस्यावश्य-पाल्यता सूचिता अत एव भक्त्या स्व-शिरसा तस्य निदेशम् आधाय शिरोबद्धाञलितयादृयेत्य् अर्थः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे भगवद्-दान-विचारे

सप्ततितमोऽध्यायः ।

॥ ७० ॥

(१०.७१)


  1. पुरा रथैर् हेम-परिष्कृतैश् चरन्

    मतं-गजैर् वा नर-देव-संज्ञितः

    स एव कालेन दुरत्ययेन ते

    कलेवरो विट्-कृमि-भस्म-संज्ञितः ↩︎