६९

देवर्षि-नारद-कर्तृकं भगवतो गृह-चर्या-दर्शनम् ।

॥ १०.६९.१ ॥

श्री-शुक उवाच—

नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।
कृष्णेनैकेन बह्वीनां तद्-दिदृक्षुः स्म नारदः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एकोन-सप्ततितमे गार्हस्थ्यं प्रति-मन्दिरम् ।

कृष्णस्य नारदो दृष्ट्वा विस्मितोऽगात् ततः स्तुवन् ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो द्वारकातः । तद्-दिदृक्षुस् तस्य वृत्तं तद्-वृत्तं तस्य दिदृक्षुर् अत्र समासावस्थायां मध्य-पद-लोपः । कृष्ण-वृत्तं दिदृक्षुर् इत्य् अर्थः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नरकं हत्वा तद्-गृहाद् आनीतानां तासां कन्यानां विवाहानन्तरम् एव तद्-दिदृक्षया श्री-नारदागमन-सम्भवात् तदानीम् एव वक्तुं योग्यम् अप्य् एतद् वृत्तं तत्-तद्-रसेन प्रसक्तानुप्रसक्तं चरितान्तरं समाधायैक-चित्तः प्रस्तौति—नरकम् इत्य्-आदिना। नितरां स-सैन्यत्वादिना हतम्श्रुत्वा इति दिदृक्सा-हेतुत्वेन तद्-विज्ञान-सम्भवेऽपि, श्रुत्वेति परमाश्चर्यतया सर्व-लोकैर् गीयमानत्वेन तद्-दार्ढ्यं तेन प्रहर्षाधिक्यं च सूचयति । तथा तेन प्रकारेण तम् एवाह—एकेन बह्वीनाम् इति ।

यद् वा, तेन प्रतिगृहं श्री-वसुदेव-देवक्य्-आदीनाम् अपि स्थित्य्-आदि-प्रकारेण कृष्णेन इति तादृशाश्चर्येण सर्व-चित्ताकर्षणात् । अत एव तस्य एकतमं कृष्णस्य दिदृक्षुः साक्षाद्-दर्शनेच्छुः । किं वा, तस्य तादृशोद्वाहस्य तत्त्वं ज्ञातुम् इच्छुर् अभूत् । स्म प्रसिद्धौ । एतत् सुविख्यातम् एवेत्य् अर्थः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नरकं हत्वा तद्-गृहाद् आनीतानां तासां कन्यकानां विवाहानतरम् एव तद्-दिदृक्षया श्री-नारदागमन-सम्भवात् तदानीम् एव वक्तुं योग्यम् अप्य् एतद्-वृत्तं तत्-तद्-रसेन प्रसक्तानुप्रसक्तं चरितानन्तरं समाधाय एक-चित्तः प्रस्तौति—नरकम् इत्य्-आदिना। कृष्णेन नितरां स-सैन्यत्वादिना हतं श्रुत्वा इति तस्य प्रहर्षः सूचितः, तथा चित्रं बत [भा।पु। १०.६९.२] इति वक्ष्यमाण-रीत्या तेनैव बह्वीनां योषिताम् उद्वाहं श्रुत्वेति तस्य विस्मयश् च सूचितः । तत्र सर्वज्ञत्वेन स्वतस् तद्-विज्ञान-सम्भवेऽपि श्रुत्वेति परमाश्चर्यतया सर्वतो-गीयमानत्वेन तयोर् आधिक्यं सूचितम् । अत एव तत् तादृशं श्री-कृष्णस्य वैभवं दिदृक्षुर् अभूत् । स्म प्रसिद्धौ एतत् सुविख्यातम् एवेत्य् अर्थः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

एकोन-सप्ततितमे कृष्णो मुनिम् अदीदृशत् । > स्वस्यैकस्यापि वपुषः प्रकाशान् प्रति-मन्दिरम् ॥

दिदृक्षुर् अभूत् ॥१॥


॥ १०.६९.२ ॥

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दिदृक्षाम् अभिनयेनाह—चित्रम् इति । द्व्य्-अष्ट-सहस्र-स्त्रीर् उदावहत् परिणीतवान् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिनयो निर्मित्तं, निर्मित्तेऽभिनयः प्रोक्तो व्यञ्जकेऽनुकृतौ नये इति निरुक्तिः। बत आहो सौभर्य्-आदयो हि काय-व्यूहं कृत्वा युगपद् अनैकसीभी रमन्ते स्म न त्व् एकेन एव कायेन इति चित्रम्उदावहद् इति छान्दसः । स च छन्दसि व्यवहिताश् च इति न्यायेन आ सम्यग् उदवहद् इति योज्यम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिदृक्षा-हेतुम् एव विस्तारयन् उक्त-पोष-न्यायेनाह—चित्रम् इति सार्धेन । आश्चर्यं, बत हर्षे । ननु किं नामात्र चित्रं ? सौभरि-प्रभृतयो मुनयोऽपि बहु-रूप-धारणेनैवं किल कुर्वन्ति ? तत्राह—एकेनैव वपुषा, न तु बहु-रूप-धारणेनेत्य् अर्थः । एतच् चान्ते व्यक्तं भावि । पृथग् इत्य् अत्र वीप्सा द्रष्टव्या, प्रत्येकं सर्वेष्व् एवैकदा उद्वाहात् । यद् वा, पृथग् गृहेषु नानागारेषु तावत्स्व् एव, अर्थः स एव । सम्यक् । पितृ-मातृ-पुरोहितादिभिः सह तत्-तत्-कृत्य-विधिना उदवहत् । आकारस्यान्तः-प्रयोगः । छन्दसि व्यवहिताश् च इति छान्दसत्वाद् अदोषः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य विस्मयम् एव प्राधान्येन दर्शयंस् तद् धेतुक-तादृश-शक्त-वैभव-दर्शनार्थ-द्वारकागमनं कथयंस् तत्-पोषणाय द्वारकाम् अपि वर्णयंश् चित्रम् इत्य्-आदि पञ्चकम् आह । अत्र च विस्मय-दर्शकेन एकेन द्वारकागमन-कथनम् अर्धं प्रथमतो योज्यम् । एतद् बत अहो चित्रम् अस्मद्-आद्य्-अचिन्त्यं शक्ति-मयम् । किं तत् ? एको द्व्य्-अष्ट-साहरं स्त्रिय उदावहद् इति ।

नन्व् अन्येषाम् इतोऽप्य् अधिका विवाहा दृश्यन्ते ? तत्राह—युगपद् इति । ननु सौभर्य्-आदिवच् छ्री-नारदादिष्व् अपि काय-व्यूह-कर्तृत्वादि-शक्तयः सन्ति, तर्हि यौगपद्येऽपि सिद्धे कथं तस्यापि विस्मयः ? तत्राह—एकेन वपुषा इति ।

नन्व् एकस्मिन्न् एव वपुषि विस्तीर्णानेक-कराद् इत्थं विधाय तत् तेषाम् अपि न चित्रं स्यात्, सौभर्य्-आदितोऽपि महा-प्रभावत्वात् ? तत्राह—गृहेषु पृथग् इति । तत्र गृहे पृथग् आविर्भावादिकं विधायेत्य् अर्थः । अत एव उदावहद् इत्य् अत्रायं प्रयोगः, स च छन्दसि व्यवहितश् चेति न्यायेन सम्यक् वैभवम् इति शेषः ॥२॥


जीव-गोस्वामी (भगवत्-सन्दर्भः २९) : तद् इत्थं मध्यमाकार एव सर्वाधारत्वाद् विभुत्वं साधितम् । सर्वगतत्वाद् अपि साध्यते—चित्रम् इति । एतद् बत अहो चित्रं ! किं तत् ? एक एव श्री-कृष्णो द्व्य्-अष्ट-साहस्रं स्त्रीर् यद् उदावहत् परिणीतवान् । ननु किम् अत्राश्चर्यं ? तत्राह—गृहेष्व् इति, तत्-सङ्ख्येषु सर्वेष्व् इति शेषः । भवतु, ततोऽपि किं ? तत्राह—पृथक् पृथग् एव स्थित्वा पाणि-ग्रहणादि-विवाह-विधिं कृतवान् ।

ननु क्रमश उद्वाहे नासम्भवम् एतत् ? तत्राह—युगपद् इति । ननु योगेश्वरोऽपि युगपन् नाना-वपूंषि विधाय तद् विधातुं शक्नोति ? किम् अत्र योगेश्वराराध्य-चरणानां युष्माकम् अपि चित्रं ? तत्राह—एकेन वपुषा इति । तर्हि कथम् अनेक-बाह्व्-आदिकेन व्यापकेनैकेन वपुषा तत् कृतवान् ? मैवम् ।

आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । > स-विधं जगृहे पाणिन् अनुरूपः स्व-मायया ॥ [भा।पु। ३.३.८]

इति श्रीमद्-उद्धव-वाक्यादौ तत्-तद्-अनुरूपता-प्रसिद्धेः । इत्य् अभिप्रेत्य पूर्वकेणैक-पदोपन्यासेन परिहरति—पृथग् इति । एकेन नराकारेण वपुषा पृथक्-पृथक्त्वेन दृश्यमानस् तथा विहितवान् । तस्माद् एकम् एव नर-वपुर् यतो युगपत् सर्व-देशं सर्व-क्रियां च व्याप्नोति, तस्मान् महद्-आश्चर्यम् इति वाक्यार्थः ।

इत्थम् एव पञ्चमे लोकाधिष्ठातुः श्री-भगवद्-विग्रहस्य तेषां [भा।पु। ५.२०.४०] इत्य्-आदि-गद्योपदिष्टस्य तादृशत्वं व्याख्यातं श्री-स्वामि-चरणैः—महा-विभूतेः पारमैश्वर्यस्य पतित्वाद् एकयैव मूर्त्या समन्ताद् आस्त इति ।

अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । > यथोपयेमे भगवान् तावद्-रूप-धरोऽव्ययः ॥ [भा।पु। १०.५९.४२]

इत्य् अत्राप्य् अतस् तावद्-रूपत्वं नाम युगपत् तावत्-प्रदेश-प्रकाशत्वम् एवेति व्याख्येयम् । न तु नारायणादिवद् भिन्नाकारत्वम् । यथोक्तम्—

अनेकत्र प्रकटता रूपस्यैकस्य यैकदा । > सर्वथा तत्-स्वरूपैव स प्रकाश इतीर्यते ॥ [ल।भा। १.१.२१] > इति ।

एष एवान्यत्राकारस्य प्रकाशस्य च भेदो ज्ञेयः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : चित्रम् इति ॥२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकेनैव वपुषा युगपद् एकस्मिन्न् एव क्षणे पृथक् पृथक् गृहेषु पृथक् पृथक् प्राचीराद्य्-आवृत-द्व्यष्ट-सहस्र-सङ्ख्य-गृहाङ्गेषु उदवहत् परिणीतवान् । चित्रं बतैतद् इति । सौभर्य्-आदयो हि काय-व्यूहं कृत्वैव युगपत् बह्वीभिः स्त्रीभी रमन्ते स्म, न त्व् एकेनैव कायेनेति भावः । इत्य् अत एव हेतोः ॥२-३॥


॥ १०.६९.३॥

इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् ।
पुष्पितोपवनाराम- द्विजालि-कुल-नादिताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तां द्वारवतीम् अनुवर्णयति—पुष्पित- इति सार्ध-त्रयेण । पुष्पितेषु उपवनेषु आरामेषु उद्यानेषु च द्विजानाम् अलीनांकुलानि, तैर् नादिताम् ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । उत्सुको जातोत्कण्ठः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवः श्री-भगवत्-पार्षदश् चासौ ऋषिश् चेति महा-भागवतोत्तमत्वेन श्री-भगवत्-प्रियत्वम्, तेन परम-कौतुकित्वादिकं च सूचितम् श्री-द्वारवतीम् एव क्रमेण सार्धैस् त्रिभिर् वर्णयन्न् आदौ तस्या बाह्यं भागं वर्णयति—पुष्पित- इति सार्धेन ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तद्-धेतुकं तस्य द्वारकायाम् आगमनम् आहार्धेन—इति इति । एतद् विभाव्येत्य् अर्थः । द्रष्टुं तादृश-श्री-कृष्ण-वैभवम् इति शेषः । श्री-द्वारवतीम् एव क्रमेण सार्धैस् त्रिभिर् वर्णयन्न् आदौ तस्या बाह्यं भागं वर्णयति—पुष्पित- इति-सार्धेन । तैर् नादितां कारित-नादाम् इवेत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६९.४ ॥

उत्फुल्लेन्दीवराम्भोज- कह्लार-कुमुदोत्पलैः ।
छुरितेषु सरःसूच्चैः कूजितां हंस-सारसैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : छुरितेषु व्याप्तेषु ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : छुरितं मिश्रितं व्याप्तं छिन्नम् एकार्थ-वाचकम् इति कोशान्तरात् । इन्दीवर-कुमुदोत्पलानि नील-श्वेत-रक्तान्य् उत्पलान्य् एव । कह्लारं सौगन्धिकम् अपि तद्-भेद एव । अम्भोजस्य विविधम्, एषाम् एतत्-क्रमेणैव तत्र स्थितेर् इत्थम् निर्देशः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्फुल्लानि यानि इन्दीवरादीनि, तैश् छुरितेषु । इन्दीवर-कुमुदोत्पलानि नील-श्वेत-रक्तान्य् उत्पलान्य् एव कह्लारं सौगन्धिकम् अपि तद्-भेद एव, अम्भोजं कमलं द्विविधम् । एषां यथोत्तरं बाहुल्येन छुरिततायाम् आधिक्यम्, सरःसु उपवनाद्य् अन्तस् तद्-बहिश् च वर्तमानेषु । उच्चैर् इति तत्-तद्-रस-पानादिना मत्तत्वात् । तल-पक्षिणाम् अन्येषां सद्-भावे\ऽपि हंसादीनाम् एवोक्तिः प्राधान्यात् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्फुल्लानि इन्दीवरादीनि, तैश् छुरितेषु इन्दीवर-कुमुदोत्पलानि नील-श्वेत रक्तान्य् उत्पलान्य् एव कह्लारं सौगन्धिकम् अपि तद्-भेद एव अम्भोजं च द्विविधम् एषाम् अपि क्रमेण निर्देशः । तथैव तत्र स्थिते सरस्सु उपवनाद्य् अन्तास् तद्-बहिश् च वर्तमानेषु । उच्चैर् इति तत्-तद्-रसपानादिना मत्तत्वात् हंसादीनाम् एवोक्तिः प्राधान्यात् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वारवतीं वर्णयति सार्ध-त्रयेण । छुरितेषु व्याप्तेषु ॥४॥


॥ १०.६९.५ ॥

प्रासाद-लक्षैर् नवभिर् जुष्टां स्फाटिक-राजतैः ।
महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-मरकतैः प्रख्यायन्ते प्रकाशन्त इति तथा तैः । **स्वर्ण-रत्न-**मयाः परिच्छदाः परिकरा येषु तैः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नवभिर् नव-सङ्ख्याकैः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आन्तरं वर्णयति—प्रासाद- इति । स्फाटिकै राजतैश् च ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आन्तरं वर्णयति—प्रासाद- इति । स्फाटिकैः राजतैश् च ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-मारकतैश् चूडावलभ्यादि-गतैः प्रख्या शोभा येषां तैः । स्वर्ण-रत्न-मयाः परिच्छदाः परिकरा येषु तैः ॥५॥


॥ १०.६९.६ ॥

विभक्त-रथ्या-पथ-चत्वरापणैः

शाला-सभाभी रुचिरां सुरालयैः ।

संसिक्त-मार्गाङ्गन-वीथि-देहलीं

पतत्-पताक-ध्वज-वारितातपाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पतन्त्यः प्रचलन्त्यः पताका येषु तैर् ध्वजैर् वारित आतपो यस्यां ताम् ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रथ्या-पथा रथ-मार्गाः, चत्वरं पथां श्लेषः, आपणो निषद्या । चत्वरं तु पथां श्लेषे स्थण्डिलाङ्गणयोर् अपि इति हैमः । गृह-पङ्क्ति-पुरो मार्गो वीथी प्रोक्ता, गृहे\ऽपि वीथिर् उच्यते इति निरुक्तिः । विश्वनाथस् तु—रथ्या राज-मार्गाः, पथा अन्ये मार्गाः। शाला अश्वादि-गृहाः सभाश् च वर्गशः पृथक्-पृथक्त्व-स्व-स्थान्य इत्य् आह ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मध्यं वर्णयति—विभक्त- इति । विभक्ता असङ्कीर्णतया रचिता ये रथ्यादयस् तैः, रथ्या राज-मार्गाः, पन्थानो\ऽन्ये विविधाः, शाला अश्वादि-गृहाः, सभाश् च वर्गशः पृथक् पृथक् स्व-स्वास्थान्यस् ताभिः सुरालयश्रुचिराम् । रथ्यादीनां यथोत्तरं रुचिरता-साधनत्वे श्रैष्ठ्यम् । सम्यक् सिक्ताः सुगन्धि-जलादिभिर् अभ्यक्षिता मार्गादयो यस्यास् ताम्, वीथयः उदुम्बराणि, "आपण-स्थान" इति चित्-सुखः । मार्गादीनां यथोत्तरम् आन्तरत्वम् उपरितमं वर्णयति—पतद् इति ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनन्दाद् अन्ते दीर्घश् छन्दसा मध्यं वर्णयति—विभक्त- इति । विभक्ता असङ्कीर्णतया रचिता ये रथ्यादयस् तैः । रथ्या राज-मार्गाः पन्थानो\ऽन्ये विविधाः, शालाः अश्वादि-गृहाः सभाश् च वर्गशः पृथक् पृथक् स्व-स्वास्थान्यः ताभि सुरालयैश् च रुचिरां रथ्यादीनां यथोत्तरं रुचिरतासाधनत्वे श्रेष्ठ्यं सम्यक् सिक्ताः सुगन्धि-जलादिभिर् अभ्यक्षिता मार्गादयो यस्यास् तां वीथयो गृह-संलग्न-चत्वराणि देहल्यो गृह-दारवेदिकाः मार्गादीनां यथोत्तरम् आन्तरत्वम् उपरितमं वर्णयति पतद् इति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रथ्या राज-मार्गाः पन्थानो\ऽन्य-मार्गाः पतन्त्यश् चलन्त्यः पताकाः येषु तैर् वजैः ॥६॥


॥ १०.६९.७-८ ॥

तस्याम् अन्तः-पुरं श्रीमद् अर्चितं सर्व-धिष्ण्य-पैः ।
हरेः स्व-कुशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥**

तत्र षोडशभिः सद्म- सहस्रैः समलङ्कृतम् ।
विवेशैकतमं शौरेः पत्नीनां भवनं महत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यां द्वरकायाम् । सर्वैर् धिष्ण्यपैर् लोक-पालैर् अर्चितम्षोडशभिः सद्म-सहस्रैः समलङ्कृतं हरेर् अन्तः-पुरं विवेशतत्र च तस्य शौरेः पत्नीनां भवनेष्व् एकतमं विवेश इत्य् अन्वयः । यत्रस्व-कौशलं त्वष्ट्रा दर्शितम् इत्य् अन्तः-पुर-भवनयोर् विशेषणम् ॥७-८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यां द्वारकायाम् । अन्तर् मध्ये हरेः पुरं सर्व-सम्पत्ति-पूर्णं स्थानम् अस्तीति शेषः । पुरं गृह-समुदायो वा । तत्र पुरे । एकतमं भवनम्यत्र पुरे। धिष्ण्यं लोहाग्निसासु इति निरुक्तिः । पुरं स्याद् गृह-सन्दोहे नगरे वर्ष्मणि गृहे इति धरणिः । यत्र त्वष्ट्रा विश्व-कर्मणा कौशल्यं शिल्प-नैपुण्यं दर्शितं प्रकटितं प्राग् उक्तस्योत्कर्षो\ऽसूचीत्य् अनेन ।

यद् वा, यत्र हरेः स्व-कौशलं कार्त्स्न्येन त्वष्ट्रा दर्शितं तम् [इच्छक्षयैव]{।मर्क्} त्वष्ट्रा सर्व कृतं [न त,]{।मर्क्} स्व-शक्त्या किञ्चित्-कृतम् इत्य् अर्थः । तद्-[गृहं च श्री-रुक्मिण्या एवेति सहसोत्थितः श्री-पर्यङ्कत ईत्य् उक्तेः]{।मर्क्} ॥७-८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीः सर्वा शोभा सम्पत्तिर् वा, तद्-युक्तम् । हरेः सर्व-मनोहरस्येत्य् अन्तःपुरस्यापि तादृशत्वं सूचयति । स्वकीयम् असाधारणं कौशलं शिल्प-नैपुण्यं दर्शितं प्रकटितम्, इति प्राग्-उक्त-प्रासाद-वर्गेभ्यः सद्मनाम् एषां महोत्कर्ष उक्तः । अत एव सम्यग् अलङ्कृतम्महद् इत्य् अनेन सर्व-ज्येष्ठायाः श्री-रुक्मिण्या इति बोध्यते। अयम् एव प्राक् तत्-प्रवेशे हेतुश् च । शौरेर् निजाशेष-भगवत्ता-प्रकटनार्थं शूर-वंशे अवतीर्णस्येति लक्ष्मीतः पत्नीनां वैकुण्ठ-भवनाद् अपि तस्य भवनस्य माहात्म्यं सूचितम् ॥७-८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्याम् इति षट्कम् । तत्राद्य-द्वयं मिथो\ऽन्वितं श्रियः सर्वाः शोभाः सम्पत्तयश् च तद्-युक्तं स्वीयम् असाधारणं कौशलं शिल्प-नैपूण्यं त्वष्ट्रा दर्शितं प्रकटितं इति प्राग्-उक्त-प्रासाद-वर्गेभ्यः सद्मनाम् एषां महोत्कर्ष उक्तः । अत एव सम्यग् अलङ्कृतंमहद् इत्य् अनेन सर्व-ज्येष्ठायाः श्रेष्ठायाः श्री-रुक्मिण्या इति बोध्यते। वक्ष्यते च सहसोत्थितः श्री-पर्यन्त इति । अयम् एव प्राक् तत्-प्रवेशे हेतुश् च अन्यतः । यद् वा, यत्र हरेः स्व-कौशलं कार्त्स्न्येन त्वष्ट्रा दर्शितम् इति तच्-छिक्षयैव त्वष्ट्रा सर्वं प्रकटितम् इति । न तु स्व-शक्त्या न तु वा रचित इत्य् अर्थः ॥७-८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्र हरेः स्व-कौशलं कार्त्स्न्येन त्वष्ट्रा दर्शितम् इति तच्-छिक्षयैव त्वष्ट्रा सर्वं प्रकटितम्, न तु स्व-शक्त्या, न तु वा रचितम् इत्य् अर्थः ॥७-१५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याम् अन्तःपुरं समलङ्कृतं वर्तते । तत्रान्तःपुरे पत्नीनाम् एकतमं भवनं विवेशेत्य् अन्वयः ॥७-८॥


॥ १०.६९.९ ॥

विष्टब्धं विद्रुम-स्तम्भैर् वैदूर्य-फलकोत्तमैः ।
इन्द्रनील-मयैः कुड्यैर् जगत्या चाहत-त्विषा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् अनुवर्णयति चतुर्भिः—विष्टब्धम् इति । विद्रुम-स्तम्भैर् विष्टब्धं विधृतम् । वैदूर्य-मयानि फलकोत्तमानि स्तम्भाश्रयणानि छादनानि, तैर् इन्द्रनील-मयैः कुड्यादिभिश् चोपलक्षितं जगत्या भूमिकया चेन्द्रनील-मय्या । न हता त्विड् यस्यास् तया ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् गृहम् । स्तम्भानाम् आश्रये तेषां छादने फलकं मतम् इति स्वामी । न हता त्विट् कान्तिर् यस्यास् तया ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रादौ मुख्याङ्गं वर्णयति—विष्टब्धम् इति । अहत-त्विषा इति बहुल-लोक-सम्मर्देनापि क्षुण्णताद्य-प्राप्तेः । यद् वा, सूर्यादि-तेजसाप्य् अहत-त्विषा ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् चैकतमं वर्णयन्न् आदौ तस्य मुख्याङ्गं वर्णयति—विष्टब्धम् इति । अहत-त्विषा इति कथम् अपि मालिन्याद्य्-अप्राप्तेर् उक्तो\ऽयं वर्तमान एव ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवनं वर्णयति चतुर्भिः । विष्टब्धं विधृतं वैदूर्य-मयानि फलकोत्तमानि स्तम्भाश्रयाणि छादनानि, तैर् जगत्या भूमिकया ॥९-११॥


॥ १०.६९.१० ॥

वितानैर् निर्मितैस् त्वष्ट्रा मुक्ता-दाम-विलम्बिभिः ।
दान्तैर् आसन-पर्यङ्कैर् मण्य्-उत्तम-परिष्कृतैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुक्ता-दाम्नां विलम्बानि विविधानि लम्बनानि विद्यन्ते येषु तैः । मण्य्-उत्तमैः परिष्कृतैर् भूषितैः ॥१०-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्ता-दाम-विलम्बिभिर् अवलम्बमान-मौक्तिक-मालैः । दान्तैर् गज-दन्त-निर्मितैः ॥१०-११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुख्य-परिच्छदान् वर्णयति—वितानैर् इति । त्वष्ट्रा विनिर्मितैर् इति दिव्यातिदिव्यत्वं द्योतयति । [भतो\ऽस्य]{।मर्क्} वचन-विभक्ति-विपरिणामेनापि सर्वैर् एवान्वयः । आसनानिपर्यङ्काश् च, तैः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वितानैर् इति द्वयम् । मिथो\ऽन्वितं तत्र मुख्य-परिच्छदान् वर्णयति—वितानैर् इति । त्वष्ट्रा निर्मितैर् इति पूर्ववत् आसनानिपर्यङ्काश् च तैः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६९.११ ॥

दासीभिर् निष्क-कण्ठीभिः सुवासोभिर् अलङ्कृतम् ।
पुम्भिः स-कञ्चुकोष्णीष- सुवस्त्र-मणि-कुण्डलैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुख्य-परिवारान् वर्णयति—दासीभिर् इति । अन्यानेक-स्त्री-भूषण-सद्-भावे\ऽपि निष्कस्यैवोक्तिः स्त्री-भूषणेषु तस्य श्रैष्ठ्यात् स्त्रीभिर् अवश्यापेक्षत्वाच् च । एवम् अग्रे\ऽपि ज्ञेयम् । पुम्भिश् च बालकादिभिर् दासैर् अलङ्कृतम्, सुवस्त्राणि शोभनान्य् अधः परिधानीयादीनि, कञ्चुकादीनां यथोत्तर-स्वरूपत्वे\ऽ[ल्षस्वम्]{।मर्क्} ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र परिवारान् वर्णयति—दासीभिर् इति । पुम्भिश् च बालकादिभिर् दासैर् अलङ्कृतम्सुवस्त्राणि शोभनान्य् अधः परिधानीयादीनि ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६९.१२ ॥

रत्न-प्रदीप-निकर-द्युतिभिर् निरस्त-

ध्वान्तं विचित्र-वलभीषु शिखण्डिनोऽङ्ग ।

नृत्यन्ति यत्र विहितागुरु-धूपम् अक्षैर्

निर्यान्तम् ईक्ष्य घन-बुद्धय उन्नदन्तः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईक्ष्य समीक्ष्य । घनो मेधोऽयम् इति बुद्धिर् येषां ते ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र सद्म्नि । अक्षैर् गवाक्षैः ॥ १२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, रत्न- इति । अनेन अगुरु-धूम् अस्य निश्य् अपि शिखण्डि-दर्शनं बोधयति । यद् वा, दिव्यै रत्न-प्रदीपानां सदा सद्-भावाद् अन्तर् गृहे ध्वान्तस्य निवासो ज्ञेयः । अतो वितानादिवत् परिच्छदान्त वर्ण्यस्याप्य् अस्य शिखण्डिन इत्य्-आदि-हेतुत्वेनात्र वर्णनम् । अङ्ग इति सहर्ष-सम्बोधने । यत्र भवने उच्चैर् नदन्त इति धूम-स्थानिकः सूचितः, नील-मेघ-सादृश्यता । एवं धूमादिभिर् यथोत्तरं शोभाधिक्यम् ऊह्यम् । इत्य्-आद्या गृहे उपलक्षणतयोक्तम् । सर्वाण्य् एवान्यान्य् अपि श्री-महिषीणां गृहाणीह ज्ञेयानि ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऊर्ध्व-शोभां वर्णयति—रत्न- इति । एषां गृहान्तः-स्थितिर् अपि बोध्या । अनेन रात्राव् एवागमनम् अस्य बोधितम् । तद् एव तस्य युगपत्-प्रतिगृह-स्थितेः सुष्ठु परीक्षणीयत्वात् । अग्रे च श्री-भगवतः प्रिया-पर्यङ्क-स्थितत्वेन वर्णयिष्यमाणत्वात् अगुरु-धूपस्य शिखण्डिभिर् निश्य् अपि दर्शनं तु तादृश**-रत्न-प्रदीप**-सद्-भावाद् एव यत्र भवने एवम् अन्यासाम् अपि श्री-महिषीणां गृहाणि ज्ञेयानि ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विहितम् अगुरु-धूमम् अक्षैर् गवाक्ष-मार्गः निर्यान्तम् ईक्ष्य वीक्ष्य घनो\ऽयम् इति बुद्धिर् येषां ते ॥१२॥


॥ १०.६९.१३ ॥

तस्मिन् समान-गुण-रूप-वयः-सुवेष-

दासी-सहस्र-युतयानुसवं गृहिण्या ।

विप्रो ददर्श चमर-व्यजनेन रुक्म-

दण्डेन सात्वत-पतिं परिवीजयन्त्या ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुसवं सर्व-कालम् । आत्मना समानानि गुण-रूप-वयांसि सुवेषोऽलङ्काराश् च यस्य तेन दासी-सहस्रेण युतया गृहिण्या सह ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् गृहे । सवो यागे\ऽनेहसि च प्रसवे प्रेरणासवे इति निरुक्तिः । चमरम् एव व्यजनं तेन ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्मिन् भवने समान-गुणादिकेन दासी-सहस्रेण युतयापि गृहिण्या गृहेश्वर्या श्री-रुक्मिण्या स्वयम् एव प्रेम्णा परितः सर्वाङ्गेषु वीजयन्त्याअनुसवम् इति दासीनाम् अपि गुणादि-नित्यत्वं द्योतयति । तादृश-दासीनां सद्-भावो\ऽपि सर्वत्रैव ज्ञेयः । चमरस्य मृग-विशेषस्य पुच्छ-रूपेण व्यजनेन चामरेणेत्य् अर्थः । विप्र इत्य् अन्तः-पुर-प्रवेशे तादृश-दर्शने च हेतुः—ब्राह्मणत्वेनानिवार्य-गतित्वाद् आत्मीयत्वाच् च, यतः सात्वत-पतिं ब्रह्मण्य-देवत्वादि-निजाशेष-गुण-प्रकटनार्थं यदु-कुले\ऽवतीर्णम् इत्य् अर्थः । किं वा, पूर्वतो\ऽप्य् अधिक-रूप-गुणादि-सेवितम् इत्य् अशेष-भगवत्ता-प्रकटनात् । यद् वा, किं च, भक्तानां पालकम्, अतो विप्रत्वेन तत्रापि भक्त-प्रवरत्वेन तद् उचितम् एवेति भावः । एवं दर्शने\ऽपि प्रेम्णा परमानन्दोदयः सूचितः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मिन् भवने समान-गुणादिकेन दासी-सहस्रेण युतयापि गृहिण्या गृहेश्वर्या रुक्मिण्या स्वयम् एव प्रेम्णा परितः सर्वाङ्गेषु वीजयन्त्या चमरस्य मृग-विशेषस्य पुच्छ-रूपेण व्यजनेन । ननु, कथम् असौ सहसान्तःपुरं प्रविष्टवान् ? तत्राह—विप्र इति । तज्-जाति-मात्रत्वम् अपि तत्र हेतुर् इति भावः । सात्वत-पतिम् इति सात्वत-पद्धति-गुरोः श्री-नारदस्य तद्-दर्शने भक्ति-विशेषोदय-द्योतकं श्री-यदूनां पतिम् इति वा तच् चाविर्भाव-विशेषेण चमत्कार-विशेष-द्योतकम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन् गृहिण्या सहितं सात्वत-पतिं ददर्शअनुसवं समुचितं प्रति समयम् ॥१३॥


॥ १०.६९.१४ ॥

तं सन्निरीक्ष्य भगवान् सहसोत्थित-श्री-

पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः ।

आनम्य पाद-युगलं शिरसा किरीट-

जुष्टेन साञ्जलिर् अवीविशद् आसने स्वे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रिया रुक्मिण्याः पर्यङ्कतःअवीविशद् उपवेशयामास ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नारदम् ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सं सहसा शीघ्र-गमनेन सन्निधौ निरीक्ष्य प्रसन्न-दृष्ट्यावलोक्य । किं वा, अव्ययानाम् अनेकार्थत्वाद्-दुरतो दृष्ट्वेत्य् अर्थः, सहसा सपदि भगवान् साक्षात् परमेश्वरो\ऽपि किरीट-जुष्टेनापि, सम्यक् तत्-स्पर्शनादिना नत्वा, तत्र हेतुः—सकल- इति, सद्-धर्म-प्रवर्तनार्थम् इत्य् अर्थः । स्वे स्वकीये । किं वा, तद्-अर्थम् एव प्राक् कल्पिते ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इति । सहसागमनेन सन्निधौ निरीक्ष्य प्रसन्न-दृष्ट्या विलोक्य सहसा सपदि भगवान् अपि कौस्तुभादि-तादृश-भगवत्वाभिव्यञ्जक-परम-किरीट-जुष्टेन तत्-सेवार्हेणापि आसक्त्या तत्-स्पर्शनादिना नत्वा । तत्र हेतुः—सकल- इति । सद्-धर्म-प्रवर्तन-तादृश-लीला-रसाविष्ट इत्य् अर्थः । स्वे स्वीये ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवीविशत् उपवेशयामास ॥१४॥


॥ १०.६९.१५ ॥

तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना-

बिभ्रज् जगद्-गुरुतमोऽपि सतां पतिर् हि ।

ब्रह्मण्य-देव इति यद्-गुण-नाम-युक्तं

तस्यैव यच्-चरण-शौचम् अशेष-तीर्थम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अबिभ्रद् अभितः दधार इत्य् अर्थः । बिभ्रद् इति शत्र्-अन्तं वा । तदा सम्पूज्य अभिभाष्य च प्राह इत्य् उत्तरेणान्वयः । कथं-भूतः ? यस्य चरण-शौचं गङ्गा अशेष-तीर्थं सः । अत एव जगद्-गुरुतरोऽपि सतां धर्म-भृतां पतित्वाद् एवम् अकरोद् इत्य् अर्थः। सतां पतित्वे हेतुः—ब्रह्मण्य-देव इति यद् गुण-कृतं नाम तस्यैव यतो युक्तं समञ्जसम् अतस् तद्-धर्म-प्रवर्तनायैवम् आचरणम् इत्य् अर्थः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य नारदस्य । इत्य् अर्थ इति—छान्दसो\ऽड्-आगम इति । छान्दस-कल्पने गौरवं मत्वाह—बिभ्रद् इति । ननु, स्व-दासस्य नारदस्य चरण-क्षालनादिकम् अयुक्तं ? तत्राह—ब्रह्मण्य-देव इति । यस्य गुण-नाम गुण-सूचकं नाम तद्-युक्तं नारदस्य ब्राह्मणत्वात् तस्य ब्रह्मण्य—देवत्वाद् एतत् सर्वम् उचितम् एवेति । न च स्व-पावित्र्यार्थम् इदम् इति वाच्यम् । यद् यस्मात् तस्यैव चरण-शौचं गङ्गा अशेष-तीर्थम् अस्ति । नारदस् तु दास्ये\ऽपि स्व-प्रभोर् इच्छा-प्रातिकूल्ये प्रभुत्वं नाविश्चकारेति ज्ञेयम् । तदा ततः । अशेषांस् तीर्थयति शुद्धीकरोतीत्य् अशेष-तीर्थम् । यद् वा, अशेषाणि तीर्थानि यस्मिंस् तत् तथा । अत एवाशेष-शोधकत्वाद् एव । जगद्-गुरुः शिवस् ततो\ऽपि विशिष्टः । इत्य् अर्थ इति—सन्तः स्वधर्म-निष्ठाः स्युः शास्तारो\ऽनाशिनस् तथा इत्य् उक्तम् । ब्रह्म ब्राह्मण-सामान्यं देवो\ऽ[र्यो]{।मर्क्} यस्य स तथा, पृषोदरादित्वात् साधुः । यद् वा,

यस्यात्मज-गेह-स्त्री-भू-धनाद्य् अखिलं वसु । > नादेयं विद्यते लोके ब्राह्मणाय नरोत्तम ॥ > ब्राह्मणा हि परं ब्रह्म न तेभ्यो विद्यते परम् । > यश् चैवं मन्यते नित्यं स ब्रह्मण्य इतीर्यते ॥

इत्य् उक्त-लक्षणोपेतश् चासौ देवो ब्रह्मण्य-देव इति । गणेन ब्राह्मणार्चनादि-रूपेण कृतं तन्-नाम तस्य नाम्न एव । यद् वा, यद् यस्य गुण-कृतम् इति नाम, तस्य हरेर् इत्य् अर्थः । यतो हेतोः । अतो\ऽन्वर्थनामत्वात् । तद्-ध्रम-प्रवर्तनाय नामोचित-धर्म-प्रवृत्तये—गृहागत-ब्राह्मणस्य जगत्-पुज्येनापि पाद-प्रक्षालनादि-रूपम् अर्चनं कर्तव्यम् एवेति बोधनाय । एवम् आचरणं नारदं पूजितवान् इत्य् अर्थः ।

तुष्यति स्वागतेनाग्निर् आसनेन शतक्रतुः । > पितरः पाद-शौचेन ह्य् अन्नाद् येन प्रजापतिः ॥

इति स्मृत्य्-उक्ताचरणं शिक्षितवान् इति भावः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जगतो गुरुतरो महा-पूज्यो\ऽपीत्य् अर्थः । हि हेतौ । अस्य परेणान्वयः। अशेषाणि तीर्थानि यस्मिंस् तत् सर्व-तीर्थ-स्वरूपं वा, यस्य चरण-शौचं सो\ऽपि ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जगतो गुरुतमः महा-पूज्यो\ऽपीत्य् अर्थः हि हेतौ अस्य परेणान्वयः । अशेषाणि तीर्थानि यस्मिन्, तत् सर्व-तीर्थ-स्वरूपं वा यस्य चरण-शौचं सोऽपि ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य चरणौ अवनिज्य प्रक्षाल्य सतां पतिः प्राह इत्य् उत्तरेणान्वयः । ननु, स्व-दासस्य नारदस्य चरण-क्षालनादिकम् अनुचितम् ? तत्राह—ब्रह्मण्य-देव इति । यस्य गुण-नाम गुण-सूचकं नाम तद्-युक्तं नारदस्य ब्राह्मणत्वात् तस्य ब्रह्मण्य-देवत्वाद् एतत् सर्वम् उचितम् एवेत्य् अर्थः । न च स स्व-पवित्रीकरणार्थम् एवेदञ् चकारेति वाच्यम् इत्य् आह—यत् यस्मात् तस्यैव चरण-शौचं गङ्गा अशेषतीर्थम् । नारदस् तु दासो\ऽपि स्व-प्रभोर् इच्छा-प्रातिकूल्ये प्रभुत्वं नाविश्वकारेति ज्ञेयम् ॥१५॥


॥ १०.६९.१६ ॥

सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो

नारायणो नर-सखो विधिनोदितेन ।

वाण्याभिभाष्य मितयामृत-मिष्टया तं

प्राह प्रभो भगवते करवाम हे किम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिभाष्य "दिष्ट्यात्र त्वद्-आगमनम्" इत्य्-आदि प्रियम् उक्त्वा ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देव-ऋषी इत्य् अत्र ऋत्यकः इति प्रकृति-भावः । तं नारदम् । हे नारद ! भगवते साक्षात्-परमेश-मूर्तये त्वाम् उद्दिश्य किं करवाम ? इत्य् आज्ञापय इत्य् अर्थः । यद् वा, हे भगवः ! ते किं करवाम ? इत्य् अन्वयः । विसर्ग-लोपस् त्व् आर्षः । विधिवत्-पूज्य-विज्ञत्वे हेतुः—ऋषि-मन्त्र-प्रवर्तकः, तत्रापि पुराणः पुरापि नवः स्वयं भगवत्त्वात् । किं च, नारायणो नर-सखः । तादृश-धर्म-प्रवर्तनाय लोके\ऽपि तद्-रूपेणावतीर्णः । अभेद-निर्देशाय तत्र श्री-नारायण-र्षेर् अपि प्रवेशाभिप्रायेण । तस्य तत्र तादृश-लीलाविर्भावे हेतुः—ऋषि-वर्यम् इति । पुरोहितादिवद्-भक्त-विशेषाविर्भावानुरूप्याद् इति भावः ।

ननु, स तु सर्वादि-ऋषिः नारायणत्वे च तस्य साक्षाद् एव गुरुर् इति कथम् एतत्-पूजनं योग्यम् ? इत्य् अत्रापि सिद्धान्तः—विधिनोदितेन इति । सम्प्रत्य्-आविष्कृत-क्षत्रिय-लीलस्य यस्य ब्राह्मण-पूजा योग्यैव लोकवत् तु लीला-कैवल्याद् इति भावः । सत्यं ब्रूयात्-प्रियं ब्रूयात् इति शास्त्रेण मितया सिद्धया तथा-भूतवन् मिष्टया वाण्या अभिभाष्य स्तुत्वा प्राह प्रार्थयामास । हे प्रभो ! विप्रत्वेनास्मत्-स्वामिन् किं करवाम वयं ? तद् आज्ञापय इत्य् अर्थः । भवत इति वक्तव्ये भगवत इति गौरवात् । एतच् च सर्वैश्वर्याय तुभ्यं मनुष्या वयं किं करवाम कर्तुं शक्नुमः, अपि तु न किञ्चिद् इति व्यञ्जनायेति कौतुक-विशेषाय तं प्रति वचसा तु निजैश्वर्यम् अत्यन्तम् आच्छादितं तादृश-निज-वैभवं प्रति तस्य तादृशस्याप्य् आश्चर्य-बुद्धित्वं दृष्ट्वा किञ्चिद् उपालब्धम् इव चेति तोषिणी-कार-[सन्दर्भः]{।मर्क्} ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुराणो नर-सख इत्य्-आदि । पुराणो नारायणो नारायणाद् अपि पुराण इत्य् अर्थः। अनरा अमर्त्या एव सखायो यस्य ॥१६-३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुराण आद्य ऋषिः, यतो नर-सखो नारायणः, तस्य वदरिकाश्रमे नित्य-तपः परत्वात् । इति श्री-नारद-गुरुत्वपि सूचितम् । अवतारतया च श्री-कृष्णेन सह तस्याभेदः प्रसिद्ध एव । यद् वा, पुराण ऋषि-मन्त्र-दर्श्यपि, यतो नारायणः परमेश्वरत्वेन सर्व-जीवाश्रयः, नराणां जीवानां सखा परमात्मतया सत्-कर्मसु प्रवर्तनेन स हित-कार्यपि, उदितेन शास्त्रोक्तेन विधिना सम्यक् पूजयित्वा, यतो देवर्षिष देवत्वादिषु वर्यम् । यद् वा, पुराणो\ऽनादिर् भगवान् देव ऋषि-वर्ष्यं सम्पूज्य यो विधिनोदितेन चतुर्थ-स्कन्धे उक्तेन विधिना प्रकारेण, नर-सखो नारायण ऋषिः, तथा हि चतुर्थे—

ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ । > भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥ [भा।पु। ४.१.५७]

अस्यार्थः—ताविमौ नर-नारायण-रूपी हरेर् अंशो कर्तृ भूतौ इह चन्द्र-वंशे कृष्णौ कर्म-भूतौ आगतौ प्रविष्टौ । अतो\ऽशेन यो नारायण इति निर्गलितार्थः । अतः प्राक् अभिभाष्य पश्चात् प्रकर्षेणाह । प्र-शब्दार्थम् एवाभिव्यञ्जयति—अमृताद् अपि मिष्टया मधुरया मितया च सहज-धैर्यात्-तद्-गौरवाद् वा, अस्योभयतो\ऽप्य् अन्वयः । हे प्रभो ! विप्रत्वेनास्मत्-स्वामिन् ! अतः किं करवाम वयं सर्वे, तद् आज्ञापयेत्य् अर्थः । भवत इति वक्तव्ये भगवत इति गौरवात् । यद् वा, सर्वैश्वर्य पूर्णाय तुभ्यं मनुष्या किं करवाम करिष्यामः, अपि तु न किञ्चित् कर्तुं शक्ताः स्म इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विधिवत्-पूजा-विज्ञतायां हेतुः ऋषिर् मन्त्र-प्रवर्तकः तत्रापि पुराणः पुरापि नवः स्वयं भगवत्त्वादनादित एव तादृशतया वर्तमान इत्य् अर्थः । यद् वा, तथापि तस्याङघ्रि-युगं नव-नवम् इत्य्-आद्य्-उक्त-न्यायेन सदा येन व इति न पुराणः किं तु पुराणवद् आचरतीत्येव पराणः किञ् च नारायणो नर-सखः तादृश-धर्म-विधिप्रवर्तनाय लोकेऽपि तद्-रूपेणावतीर्णः अभेद-निर्देशो\ऽयं तत्र नारायणर्षेर् अपि प्रवेशोभिप्रायेण तद्य् उक्तं चतुर्थे—

ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ । > भार-व्ययाय च भुवः कृष्णौ यदु-कुरुद्वहौ ॥ [भा।पु। ४.१.५७]

इति तौ चांश-रूपौ कतृभूतौ कृष्णौ कर्म-भूतौ आगतौ आगतवन्तौ प्रविष्टवन्तावित्य् अर्थः। एते चांश-कलाः [भ।पु १.३.२८] इत्य् आदेः तस्य तत्र तादृश-लीलाविर्भावे हेतुः, ऋषिवर्यम् इति । भक्ताविर्भापानुरूप्याद् इति भावः ।

ननु, स तु सर्वादि ऋषि-नारायणत्वे च तस्य साक्षाद् एव गुरुर् इति कथं तेन तत्-पूजनं योग्यम्? इत्य् अत्रापि सिद्धान्तः विधिनोदितेनेति । सम्प्रत्य् आविष्कृत-क्षत्रिय-लीलास्य स्वस्य ब्राह्मण-पूजा-विधि-योग्यैव लोकवत् तु लीला-कैवल्याद् इति भावः । यद् वा, नारायणस् त्वं न हि सर्व-देहिनाम् इत्य्-आदि-ब्रह्म-स्तव-रीत्या स्वयं भगवान् अपि नर-सखः नर-लील इत्य् अर्थः । अतो विधिनोदितेयेति अतः सत्यं ब्रूयात् प्रियं ब्रूयात् इति स्मृत्य्-अनुसारेण प्राक् पूर्व मितया शास्त्रादि-प्रमाण-सिद्धत्वेन सत्यतया अमृतम् इष्टया प्रियया च वाण्या अभिभाष्य स्तुत्वा प्राह प्रार्थयामासेत्य् अर्थः । प्रार्थनम् एव दर्शयति—प्रभो इति । हे प्रभो ! विप्रत्वेनास्मत्-स्वामिन् ! अतः किं करवाम ? किं कर्तुं शक्नुमः ? अपि तु न किञ्चिद् इति व्यञ्जनाय इति कौतुक-विशेषाय तं प्रति वचसा तु निजैश्वर्यम् अत्यन्तम् आच्छादितं तादृश-निज-वैभवं प्रति तस्य तादृशस्याप्य् आश्चर्य-बुद्धित्वं दृष्ट्वा किञ्चिद् उपालब्धम् इव च ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विधि-पूजा-विज्ञतायां हेतुः—ऋषिर् मन्त्र-प्रवर्तकस् तत्रापि पुराणः पुरापि नवः, स्वयं भगवत्त्वाद् अनादित एव तादृशतया वर्तमान इत्य् अर्थः । किं च नारायणो नर-सखस् तादृश-धर्मावधि प्रवर्तनाय लोकेऽपि तद्-रूपेणावतीर्णः । अभेद-निर्देशोऽयं तत्र तादृश-लीलाविर्भावे हेतुः—ऋषि-वर्यम् इति । पुरोहितादिवद् भक्त-विशेषाविर्भावानुरूप्याद् इति भावः ।

ननु, स तु सर्वादिर् ऋषिः नारायणत्वे च तस्य साक्षाद् एव गुरुर् इति कथं तेन तत्-पूजन-योग्यत्वम् इत्य् अत्रापि सिद्धान्तः—विधिनोदितेनेति । सम्प्रत्य् आविष्कृत-क्षत्रिय-लीलस्य स्वस्य ब्राह्मण-पूजा-विधि-योग्यैव, लोकवत् तु लीला-कैवल्यं [वे।सू। २.१.३४] इति न्यायाद् इति भावः जनतायाः भक्त-वृन्दस्यापवर्ग परम-पुरुषार्थ-रूपं ब्रह्मादिभिर् मुक्तैर् अपि हृदि विचिन्त्यं संसार-कूप-पतितानां मुमुक्षूणाम् उत्तरणम् अवलम्बम् इति ॥१६-२१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सम्पूज्येत्य्-आदि । देवः श्री-कृष्ण ऋषि-वर्यं नारदं सम्पूज्य प्राह । कीदृशः ? पुराण आदिः । तर्हि किं नारायणः ? न, ततोऽपि पर इत्य्-आदि । अनारायणोऽजल-शायी, अनर-सखः, अनरा अजीवाः सखायो यस्य, ऋषिर् अलिप्त एवं-भूतो गार्हस्थ्येऽपि नासक्तः ॥१६-३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उदितेन शास्त्रोक्तेन बिधिना सम्पूज्येत्य् अत्र हेतुः ऋषिर् मन्त्र-प्रवर्तकः किञ् च पुराणः स्वयं भगवत्त्वात् नवः यः खलु तादृश-धर्म-प्रवर्तनार्थम् अत्र भारत-भूमौ नर-सखो नारायणो भवतीत्य् अर्थः मितया परिमितया अमृतेनापि जुष्टया सेवितया परम-मधुरयेत्य् अर्थः । हे प्रभो विप्रत्वेनास्मत् स्वामिन् ॥१६॥


॥ १०.६९.१७ ॥

श्री-नारद उवाच—

नैवाद्भुतं त्वयि विभोऽखिल-लोक-नाथे

मैत्री जनेषु सकलेषु दमः खलानाम् ।

निःश्रेयसाय हि जगत्-स्थिति-रक्षणाभ्यां

स्वैरावतार उरुगाय विदाम सुष्ठु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवता स्वस्यार्हणम् अनर्हं मन्यमानस् तत् सम्भावयन्न् आह—नैव इति । सर्व-मित्रत्वाद् एवम् अर्हणं न तु मम गौरवात् । तर्हि कथं कंसादिष्व् अमैत्री ? तत्राह—खलानां दमश् च नैवाद्भुतम् इति । कुतः ? जगतः स्थितिर् धारणं रक्षणं पालनं ताभ्यां सह तस्य निःश्रेयसाय तवायं स्वेच्छावतार इति वयं सुष्ठु सम्यग् विद्मः । अतः खल-दमः साधु-संमाननं च युक्तम् इति भावः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् अर्हणम् । सम्भावयन् सम्भवं मन्वानः । तत्राक्षेपे । अद्भुताभावम् आशङ्क्य समाधत्ते—कुतः इति । तस्य जगतः । लोके हि सेव्यो यदि सेवकम् अर्चयेत् तदा तस्यामङ्गलं भवेत् त्वं तु स्वतन्त्र-स्व-सेवकं सम्पूज्यापि तस्मात् पूजां गृहीत्वापि तं दण्डयित्वापि तस्य यथाहं मङ्गलम् एव करोषि इत्य् आह—नैव इति । तत्राखिल-लोकानां नाथत्वाद् अखिल-लोकानां जीवत्वात् त्वत्-सेवकत्वम् एव वस्तुतो भवेत् । तद् उक्तं पाद्मे—

अ-कारेणोच्यते विष्णुः श्रीर् उ-कारेण कथ्यते । > म-कारस् तु तयोर् दासः पञ्चविंशः प्रकीर्तितः ॥ इति ।

पञ्चविंशो जीवः । तत्र केसाञ्चिद् अस्माकं विप्राणां त्वाम् अभीक्ष्णं सेवमानानाम् अपि त्वत्-कर्तृकं पूजनम् अस्मन् मनो\ऽतिदुःखदं केषाञ्चिद् उद्धव-विदुरादीनां त्वां सेवमानानां त्वत्-कर्तृकं पूजा-ग्रहणं तन्-मनो\ऽतिदुःखदम् । अन्येषां पशु-तुल्य-संसारिणां त्वाम् अभजतां त्वत्-कर्तृक-कृपावलोकः । अन्येषां खलानां जरासन्धादीनां दमस् त्वत्-कर्तृकं सर्वम् इदं ते मैत्री हितकारित्वम् एव यतो जगतः स्थितिर् धारणं रक्षणं पालनं ताभ्यां सह निःश्रेयसाय प्रेम-भक्ति-योगाय मोक्षाय च स्वैरो\ऽयम् अवतार इति जानीम इति विश्वनाथः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिल-लोकानां नाथे\ऽपि त्वयि नैवाद्भुतं मद् अर्हणादिकम् एतद् इति शेषः । यतो जनेषु तव मैत्री स्नेहः, न च सा लोकानाम् इव किञ्चिद् अपेक्ष येत्य् आह—विभो ! हे सर्वथा परिपूर्णेति । हि हेतो, स्वैरावतार! स्वेच्छया वैकुण्ठ-लोकाद् अवतरणम्, अत एव ऊरुगाय । सर्वलोकेषु यशो गानं यस्येति तत्-सम्बोधनम् । अन्यत् तैर् याख्यातम् । यद् वा, जनेषु मादृशेषु भक्तेषु मैत्री, खलानाम् अभक्तानां दमो दण्डश्चेत्य् एतत् अखिल-लोक-नाथत्वात् सर्वत्र तुल्ये\ऽपि त्वयि नैवाद्भुतम्, यतः सम्यक् समीचीनो\ऽयं स्वैरावतारः सर्वेषां निःश्रेयसाय मङ्गलाय । कथम् ? जगतः स्थितिः स्व-भक्त-मैत्र्या भक्ति-प्रवर्ततेन स्थैर्यं पोषणं वा, रक्षणञ् च खल-दमेन भक्ति-विघ्न-विनाशात्, ताभ्याम् एतत् प्रकार-द्वयेनेत्य् अर्थः । यथा समत्वेन विरुद्धम् अपि तवयं त्वयि नैवाद्भुतं तथा दासस्य मम प्रमुणा त्वयार्हणादिकं विरुद्धम् अपि तव सम्यक् स्वैरत्वाद् अद्भुतं नैवेति भावः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नैवाद्भुतम् इति सामान्य-विवक्षया नपुंसकत्वम् एकत्वञ् च किं तद् इत्य् अपेक्षायां विशेष-विवक्षयाह मैत्री यथार्हसत्कारः अखिल-लोकनाथ इति तद्-रूपत्वेन स्वतस् तत्र तत्र तुल्यो\ऽपि तद्-द्वयं नैवाद्भुम् इत्य् अर्थः । तत्र हेतुः, निःश्रेयसायेति । तत्र निःश्रेयसे स्व-भक्ति-प्रचुर-मङ्गलं मुक्ति-मात्रश् च तद्-द्वयं यथायथं दत्तम् इत्य् अर्थः । तत्र तत्र सामर्थ्ये हेतुः, विभो इति । अत एव हे उरुगाय ! सर्वतो गीत-कीर्ते ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोके हि सेव्यो यदि सेवकं पूजयेत् तदा सेवकस्यामङ्गलं भवेत्, त्वं तु स्वतन्त्रः स्व-सेवकं सम्पूज्यापि तस्मात् पूजां गृहीत्वापि तं दण्डयित्वापि तस्य यथार्हं मङ्गलम् एव करोषीत्य् आह—नैवेति । अखिल-लोकनाथे त्वयि नाद्भुतम् एतत् किं तद् इत्य् अत आह—सकलेषु जनेषु मैत्री हित-कारित्वम् एव । तवाखिललोकनाथत्वाद् अखिल-लोकानां जीवत्वात् त्वत्-सेवकत्वम् एव वस्तुतो भवेत् । यद् उक्तं पाद्मे प्रणव-व्याख्याने—

अ-कारेणोच्यते विष्णुः श्रीर् उ-कारेण कथ्यते ।

म-कारस् तु तयोर् दासः पञ्चविंशः प्रकीर्तितः ॥इति ।

पञ्चविंशो जीवः । तत्र केषांचिद् अस्माकं विप्राणां त्वाम् अभीक्ष्णं सेवमानानाम् अपि त्वत्-कर्तृकं पूजनम् अस्मन्-मनोऽतिदुःख-प्रदं केषांचिद् अन्येषाम् उद्धव-विदुरादीनां त्वां सेव्यमानानां त्वत्-कर्तृकं पूजा-ग्रहणं तन्-मनोऽतिदुःख-प्रदम् । अन्येषां पशु-तुल्य-संसारि-जनानां त्वाम् अभजतां त्वत्-कर्तृकः कृपावलोकः । अपरेषां खलानां जरासन्धादीनां दमस् त्वत्-कर्तृकः सर्वम् इदं ते मैत्री हितकारित्वम् एव । यतो जगतः स्थितिर् धारणं रक्षणं पालनं ताभ्यां सह निःश्रेयसाय प्रेम-भक्ति-योगाय मोक्षाय च स्वैरम् अयम् अवतार इति जानीमः ॥१७॥


॥ १०.६९.१८ ॥

दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं

ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः ।

संसार-कूप-पतितोत्तरणावलम्बं

ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उक्तं प्रभो किं करवाम ? इति तत्राह—दृष्टम् इति । भक्त-जनताया अपवर्ग-रूपम् । किं च, अतिदुर्लभतया ब्रह्मादिभिर् योगेश्वरैर् अपि हृदि विचिन्त्यम् । किं च, संसार-कूपे पतितानाम् उत्तरणायावलम्बम् आश्रयम् । एवं-भूतं तवाङ्घ्रि-युगलं मया दृष्टम् अतः कृत-कृत्योऽस्मि । तथापि त्वत्-स्मृतिर् यथा स्यात् तथा अनुगृहाण । ततस् तद् ध्यायन्न् एव नित्यं चरामि इति ॥१८-१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवत्-प्रश्नोत्तरम् आह—भो मुने ! किम् अर्थम् आगमनं ? किम् अत्रैव तिष्ठासान्यत्र प्रतिष्ठास ? इत्य् अपेक्षायाम् आह—दृष्टम् इति । किम् इत्य् आक्षेपे कृत इत्य् अर्थः । विचिन्त्यम् एव न तु प्राप्यम् इत्य् अर्थः । इतो\ऽपि विशेषम् आह—किं च इति । उत्तरणाय उपागमनाय । अतस् तवाङ्घ्रि-दर्शनात् । ततस् तवानुग्रहात् । तत् चरण-द्वन्द्वम्।

ननु, तद्-ध्यानं तव मनः-साध्यम् एव किं प्रार्थनया ? तत्राह—यथा स्मृतिः स्यात् तथा अनुगृहाण इति । तद् अपि त्वद्-अनुग्रह-साध्यं नान्य-साध्यम् इत्य् अर्थः । यद् वा, यथा च स्मृतिर् मद्-विषयकं कृपानुसन्धानं तव स्यात् तथानुगृहाणेत्य् अर्थः ॥१८॥


कैवल्य-दीपिका : एवं भयानक-रसेन भजतोऽनिष्ट-हानिर् इष्टाप्तिश् च स्याद् इत्य् आह—दृष्टम् इति । यत् तवाङ्घ्रि-युगलं ध्यायेत् स्मरामीत्य् अतोऽन्यत् किं प्रार्थनीयम् अस्तीत्य् अभिप्रायः । जनानां समूहो जनता । तस्य अपवर्गं कैवल्यम् । ब्रह्मानन्दाद् अपि सुतराम् अभिलषणीयम् इत्य् आह—ब्रह्मादिभिर् इति । मुक्तानां स्पृहणीयत्वम् उक्त्वा मुमुक्षूणं, तदाह—अगाध- इति । यद्यपि मद्-अङ्घ्रि-दर्शनं परम-पुरुषार्थ-जातं च, तत् तथापि किञ्चिद् आद्रियताम् इति चेत् तत्राह—अनुगृहाण इति । स्मृतेर् विपरिलोपो माभूद् इत्य् अर्थः । फल-कीर्तनार्थम् एवास्य श्लोकस्येह पाठः । अन्यथा भय-शङ्काया अभावाद् अनर्थकः पाठः स्यात् ॥१८॥ [मु।फ। १५.२८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विचिन्त्यम् अङ्घ्र्योर् युगलम् अपि विलम्बेनैव चिन्त्यम्, जनतेति मोक्षापेक्षकैर् एव प्रीत्या सेव्यत्वम्, ब्रह्मेति मुक्तैर् अप्य् अदृश्यत्वम्, संसारेति मुमुक्षूणां परमापेक्षत्वम् इति महा-दौर्लभ्यम् उक्तम् । एवम् आत्मनो भक्तत्वादि-राहित्यं सूचयति—परम-भक्त्या दैन्येन तत्-तद्-अभिमानाभावात् । अन्यत् तैर् याख्यातम् ।

यद् वा, जनानां भक्तानां तापस्य विरहजस्य वर्गः साक्षाद्-दर्शनादिना वर्जनं यस्मात् तत् । इति भक्तैः प्राप्यत्वं चरामि चरिष्याम्य् एव । यद् वा, अत्र गृहे गृहे चरामि, यतो दृष्टं साक्षाद्-दृष्टतया स्वतः सदान्तः-परिस्फूर्तेः, किं तु यथा कर्तृका मत्-स्मृतिः स्यात् तथा अनुगृहाण, सदा-विघ्नेन त्वं मां स्मरेस् तम् अनुग्रहं कुर्व् इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनता- इति सिद्ध-शुद्ध-परिजन-भावानां पर्यवसान-फल-रूपं ब्रह्मादिभिर् इत्य् अन्येषां परम-महताम् अपि हृदि परम-रहस्य-हृद्-वृत्ति-विशेषे विचिन्त्यं यत्नातिशयेन स्मरणीयं । संसार- इति किं बहुना सर्वेषाम् अपि संसारिणां संसार-कूपोत्तरणार्थम् आश्रय-योग्यं तवाङ्घ्रि-युगलं दृष्टम् । अहो मम भाग्य-महिमा इति भावः । अथ तादृशस्य भाग्यस्य स्थैर्यं दुर्लभं मन्यमानः प्रार्थयते—ध्यायन् इति । चरामि चरेयम् इत्य् अर्थः ।

ननु, तत् तव मनः-साध्यम् एव किं प्रार्थनया ? तत्राह—यथा स्मृतिः स्यात्, तथा अनुगृहाण इति । तद् अपि त्वद्-अनुग्रहैक-साध्यं नान्य-साध्यम् इत्य् अर्थः । यद् वा, यथा ध्यायं चरामि, तथानुगृहाण यथा च स्मृतिर् मद्-विषयक-कृपानुसन्धानं तव स्यात्, तथा चानुगृहाणेत्य् अर्थः ॥१८॥

दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं

ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः ।

संसार-कूप-पतितोत्तरणावलम्बं

ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जनताया भक्त-वृन्दस्य अपवर्गं परम-पुरुषार्थ-रूपं । ब्रह्मादिभिर् मुक्तैर् अपि हृदि विचिन्त्यंसंसार-कूप-पतितानां मुमुक्षूणाम् उत्तरणावलम्बम् इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो महामुने ! किम् अर्थकम् इदम् आगमनं, किम् अत्रैव तिष्ठासा अन्यत्र वा प्रतिष्ठासेत्य् अपेक्षायाम् आह—दृष्टम् इति ॥१८॥


॥ १०.६९.१९ ॥

ततःऽन्यद् आविशद् गेहं कृष्ण-पत्न्याः स नारदः ।
योगेश्वरेश्वरस्याङ्ग योगमाया-विवित्सया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भगवत्-प्रार्थनोत्तरम् । कृष्ण-सत्कृतः । अङ्ग इति सम्बोधने । कृष्ण-पत्न्याः क्रम-प्राप्तत्वात् सत्यभामाया गेहम् आविशत् योगमाया परमाचिन्त्य-शक्तिः, तस्या विवित्सया कार्य-द्वारानुभवेच्छया ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तद्-अनन्तरम्, अन्यत् श्री-रुक्मिण्या गृहाद् भिन्नम्, कृष्णस्य प्रेम-भरेण चित्ताकर्षकस्य पत्न्याः श्री-सत्यभामाया गेहम् आविशत्, योग ऐश्वर्यम्, तस्य माया विभूतिः, तस्या विवित्सया तत्त्व-जिज्ञासया । किं वा, विद् लाभे साक्षाद् अनुभवेच्छया योगेश्वराणां श्री-कर्दमादीनाम् अपीश्वरस्येति योग-मायाया असाधारण्यं सूचितम् । अङ्ग ! हे राजन् ! यद् वा, अङ्गं श्री-मूर्तिस् तस्य योग-माया एकस्यापि बाहुल्ये शक्ति-विशेषस् तद् विवित्सया ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद्-अनन्तरम् अन्यत् श्री-रुक्मिणी-गृहाद् अपरं पत्न्याः क्रम-प्राप्तत्वात् श्री-सत्यभामायाः गेहम् आविशत्योगमाया चित्रं बतैतद् [भा।पु। १०.६९.२] इत्य्-आदिना तर्किता परमाचिन्त्य-शक्तिः, तस्या विवित्सया कार्य-द्वारा अनुभवेच्छया ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यद् इत्य् अन्यस्या इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विवित्सया उपलम्भेच्छया ॥१९॥


॥ १०.६९.२० ॥

दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अक्षैर् दीव्यन्तम् इत्य्-आदौ ददर्श इति ज्ञातव्यम् ॥२०-२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि तस्मिन्न् अपि गेहे ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपि तु तत्र तु, दीव्यन्तं भगवन्तम् । यद् वा, तत्रापि कृष्णं ददर्श इति शेषः । किम् वा, अचष्ट गोविन्दम् [भा।पु। १०.६९.२३] इति वक्ष्यमाणेनैवान्वयः । -काराभ्यां देवने द्वयोर् अपि प्राधान्यम्, तेन चोद्धवं प्रति [प्रोतो]{।मर्क्} तयोः साम्यम् अपि द्योतयति । पूजितो\ऽसौ श्री-भगवता । आदि-शब्दात् पाद्यादयः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रापि श्री-कृष्णं ददर्श इति शेषः । किम् वा, अचष्ट [भा।पु। १०.६९.२३] वक्ष्यमाणेनैवान्वयः । उद्धवेन च तत्र साक्षितया स्थापितेन । -काराभ्याम् देवने द्वयोर् अपि प्राधान्यं बोध्यते । साक्षिणोऽपि तत्-क्रीडा-साहाय्यात् पूजितो\ऽसौ श्री-भगवता ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र सत्यभामा-गृहे\ऽक्षैः दीव्यन्तं तं ददर्श ॥२०-२१॥


॥ १०.६९.२१-२२ ॥

पृष्टश् चाविदुषेवासौ कदायातो भवान् इति ।
क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः ॥**

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु ।
स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असौ नारदः । अविदुषेव पूर्वं गृहे नारदागमनम् अजानतेव । पूर्णानां विरक्तानां युष्माकम् । अपूर्णैर् गृहस्थैः । गृह-कृत्यानाम् अनन्तत्वेन पूरयितुम् अशक्नुवद्भिर् इत्य् अर्थः । मनुष्य-नाट्य-विडम्बनम् एतत् ॥२१॥ यद्यपि वयम् अनिच्छास् तथाप्य् अस्मत्-पावनार्थम् इत्य् अर्थः । नारदः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अविदुषा तद्-आगमनादिकम् अजानतेव, उक्तश् च क्रियत इत्य्-आदिकम्, अस्मद्-आदिभिर् मनुष्यैर् यादवैर् ईश्वरैर् अपि वा, अस्मद् इति बहुत्वं श्री-बलदेवाद्य्-अपेक्षया। किं वा, निज-सर्वैश्वर्य-पूर्णता-बोधनार्थं गौरवात् ॥२१॥ ब्रूहि किञ्चिद् आदिश, किम् अर्थम् ? तद् आह—नो\ऽस्माकं जन्म इति । ब्रह्मन् ! हे सर्व-वेद-स्वरूपेति तद्-योग्यतोक्ता ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पृष्ट इति सार्धकम् । अविदुषा तद्-आगमनादिकम् अजानतेव पृष्टश् च किं तत् ? कदा इत्य्-आदि क्रियत इत्य्-आदि च । इति-शब्दस्य कुर्व् इत्य् अन्ते\ऽप्य् अन्वयात् । अस्मद् इति बहुत्वं श्री-बलदेवाद्य्-अपेक्षया ब्रूहि किञ्चिद् आदिश ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तूष्णीं स्थितं नारदम् अतिविस्मितं प्रत्य् आह—अथापि इति ॥२२॥


॥ १०.६९.२३ ॥

तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।
ततोऽन्यस्मिन् गृहेऽपश्यन् मज्जनाय कृतोद्यमम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राप्य् अन्य-गृहे\ऽपि । अचष्ट अपश्यद् इति सर्वत्राग्रे\ऽपि ज्ञेयम् । अत्रैकस्य कृष्ण-वपूषो यथा बहून् प्रकाशान् अभिमान-भेद-क्रिया-भेद-सहितान् अपश्यत्, तथैव एकेषाम् एवोद्धवादि-वपुषाम् अपि बहून् प्रकाशान् । किं कस्मिन् क्षणे मनो-वेगेन प्रत्येकं षोडश-सहस्र-गृहान् गतो मुनिः पृथक् पृथक् काल-भेदान् क्रिया-भेदांश् चापश्यद् इत्य् अत एक-क्षण-मध्यम् एव षष्ठि-घटिकं कालं पृथक् पृथक् स्थले प्रातर्-आदि-स्व-भागांस् तद्-उचित-क्रिया-भेद-सहितान् प्रकाशयन् प्राविशद् इत्य् अतः प्रातर्-आदि-कालानां षष्टि-घटिकानां क्रियाणाम् अपि सर्व-कालवतित्वं मुनिर् ज्ञातवान् इति ज्ञेयम् । मज्जनाय इति प्रातः-समयो व्यञ्जितः । ततः सुत-लालन-पर-दर्शनानन्तरम् ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अचष्ट अपश्यत्, गोविन्दं निजाशेषश्वर्य-प्रकटनाय पृथिव्याम् अवतीर्णं साक्षाद्-भगवन्तं तत्रापि तथाग्रे सर्वत्रापि पूर्ववच् छ्री-भगवता तस्य पूजन-प्रश्नादिकम् अपि ज्ञेयम्, सर्वत्रैव सद्-धर्म-प्रदर्शनात् । यद् वा, महाश्चर्य-प्रदर्शनेन सुविस्मितस्य दिदृक्षोद्रेकेण परिभ्रमतो विश्रामाभावेनातिथ्याद्य्-अनपेक्षया वा तत् तन् न सिद्धम् इति बोद्धव्यम् । मज्जनाय माध्याह्निक-स्थानाय ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अचष्ट अपश्यत् गोविन्दं तादृश-लीला-कौतुकाय पृथ्व्याम् अवतीर्णं साक्षाद्-भगवन्तं तत्रापि तथाग्रे सर्वतोऽपि तस्य पूर्ववत् पूजादिकं ज्ञेयं पूर्वत्र तत्रापीत्य्-आदि-शब्द-स्वारस्यात् इत्य् अर्थ-धर्म-कामेष्व् इत्य् अत्र तथैव व्याख्यास्यमानत्वाच् च । "शिशून् सुतान्" इति "सुतान् शिशुन्" इति वा पाठः ॥२२॥ तत इति सार्ध-त्रयोदशकम् । तत्र तस्य रात्राव् आगमनेऽपि योगीन्द्रत्वान् मनोजवत्वेऽपि वक्ष्यमाण-नाना-समय-लीला-दर्शनं योग-माया-विलासेनैव युगपत् समय-वैचित्र्यात् अन्यथा तस्य विस्मय एव न स्यात्, तत्र मज्जनाय स्नानायेति प्रातर्-लीला ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्राप्य् अचष्ट अपश्यद् इति तत्रैव गृहेषु प्रायः कृष्ण-कर्तृक-पूजा-स्तूत्य्-आदिकं ज्ञेयम् अपश्यद् इत्य् एव क्रिया अतः परेष्व् अपि सार्ध-चतुर्दश-श्लोकेष्व् अनुवर्तनीया । अत्रैकस्य कृष्ण-वपूषो यथा बहून् प्रकाशान् अभिमान-भेद-क्रिया-भेद-सहितान् अपश्यत् एकेषाम् एवोद्धवादि-वपुषाम् अपि बहुन् प्रकाशान् । किं च, एकस्मिन्न् एव क्षणे मनो-वेगेन प्रत्येक-षोडश-सहस्र-गृहान् गतो मुनिः पृथक् पृथक् काल-भेदान् क्रिया-भेदांश् चापश्यद् इत्य् अत एक-क्षण-मध्यम् एव षष्टि-घटिकं कालं पृथक् पृअथक् स्थले प्रातर्-आदि-स्व-भागांस् तद्-उचित-क्रिया-भेद-सहितान् प्रकाशयन् प्राविशद् इत्य् अतः प्रातर्-आदि-कालानाम् अपि षष्टि-घटिकानां क्रियाणाम् अपि सर्व-काल-वर्तित्वं [मुनितिवान्]{।मर्क्} इति ज्ञेयं । मज्जनाय इति प्रातः समयो व्यञ्जितः ॥२३॥


॥ १०.६९.२४ ॥

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः ।
भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वितानाग्नीन् आहवनीयादीन् अग्नि-होत्रेण पञ्चभिर् मखैर् महा-यज्ञैर् यजन्तम् ॥२४-३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जुह्वन्तं होमं कुर्वन्तम् इति पूर्वाह्नः । पञ्चभिः पाठ-होमातिथ्य्-अर्चन-तर्पण-बलिभिर् यजन्तम् इति मध्याह्नः । क्वापि गृहे ब्राह्मण-भोजनाद् अवशिष्टम् अन्नं भुञ्जानम् इत्य् अपराह्नः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पाठो, होमश् च, अतिथीनां सपर्या, तर्पणम्, बलिः, एतैः पञ्चभिर् महा-यज्ञैर् जुह्वन्तम् इत्य्-आदेः [क्वणिल्यनेन]{।मर्क्} एवान्वयः । यजनादेर् माध्याह्निक-कृत्यस्यैव तत्र तत्र दृश्यमानत्वात् । एवं तस्य मध्याह्न एवागमनम् । किं वा, श्री-कृष्ण-सम्भाषणादिना तत्र मध्याह्नो वृत्त इति ज्ञेयम् ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पाठो होमश् चातिथीनां सपर्या तर्पणं बलिः1 एतैः पञ्चभिः महा-यज्ञैर् यजन्तम् अवशेषितम् अवशिष्टं भुञ्जानम् इत्य् अन्तं मध्याह्नस्य ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्वचिद् वितानाग्नीलाह्वनीयादीन् अग्नि-होत्रेण जुह्वन्तम् इति पूर्वाह्नः कापि पञ्चभिर् मखैर् इति । पाठो होमश् चातिथीनां सपर्या तर्पणं बलिः इति पञ्च-महा-यज्ञैः यजन्तम् इति मध्याह्नः । भोजयन्तं भुञ्जानम् इत्य् अपराह्नः ॥२४॥


॥ १०.६९.२५ ॥

क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्-यतम् ।
एकत्र चासि-चर्माभ्यां चरन्तम् असि-वर्त्मसु ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्म गायत्री, गायत्री-जपे सर्व-वेद-जपस्यान्तर्भूतत्वात्, गायत्री परमं ब्रह्म इति स्मृतेर् इति सायाह्नः । एकत्र एकस्मिन् गृहे । असि-वर्त्मसु कौक्षेयक-परिवर्तनावर्तनोद्वर्तनादि-मार्गेषु चरन्तं शिष्यान् शिक्षयन्तम् इति पुनः प्रातः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सन्ध्यां माध्याह्निकीम् एव । यद् वा, सायन्तनीम्, परमैश्वर्य-प्राकट्यात् सर्वं समञ्जसम्, ब्रह्म गायत्रीम्, वाग्-यतं कृत-मौनम्, असि-वर्त्मसु खड्ग-विद्या-शिक्षा-गतिषु ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्वापि केषुचित् सन्ध्याम् उपासीनं ब्रह्म गायत्री वाग्-यतं वाचो यतं यमनं यत्र तत्-कृत-मौनं यथा स्याद् इत्य् अर्थः । इति काल-त्रयस्यैव असि-वर्त्मसु खड्ग-विद्या-शिक्षा-गतिषु ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्ध्याम् उपासीनम् इति सायाह्नः । असि-चर्मभ्याम् इति पुनः प्रातः ॥२५॥


॥ १०.६९.२६ ॥

अश्वैर् गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।
क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अश्वैर् गजैर् इति पूनर् मध्याह्नः । क्वचिच् छयानम् इति रात्रि-शेषः ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्वापि गृहे अश्वादिभिर् विविधतया चरन्तम् इति तद्-अङ्गनादेः सुविस्तीर्णतया । किं वा, तस्य बहिः-प्रदेशोपवनादिषु ज्ञेयम् । एवम् अग्रे\ऽपि । क्वचिद् एकस्मिन्न् एव गृहे अश्वैर् विचरन्तं तद् अनु गजैस् तद्-अनन्तरं रथैर् इति । यद् वा, क्वचिद् अश्वैः, क्वचिद् गजैः, क्वचिद् रथैर् इति ज्ञेयम् । गदाग्रज इति तत्-सहितम् इति भावः । पर्यङ्के शयानम् इति मध्याह्न-भोजनानन्तरम् एव । किं वा, रात्रि-शेषे । अत एव वन्दिभिः स्तूयमानम्, आदि-शब्दाद् विरुदादयः, -काराच् छ्री-बलदेवादिभिश् च ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्वापि केषुचित् स्थानेषु अश्वादिभिर् विविधतया चरन्तम् इति प्रायः पूर्वाह्नस्य । गदाग्रजम् इति तत्-सहितम् इति भावः । पर्यङ्के शयानम् इति रात्रि-शेषस्य वन्दिभिः स्तूयमानत्वात् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अश्वैर् गजैर् इति पुनर् मध्याह्नः क्वचिच् छयानम् इति रात्रि-शेषः ॥२६॥


॥ १०.६९.२७ ॥

मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः ।
जल-क्रीडा-रतं क्वापि वार-मुख्याबलावृतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्त्रयन्तम् इति प्रदोषः । जल-क्रीडा इत्य् अपराह्नः । वारे द्वारे मुखं गतागत-पुरुष-निरीक्षणार्थं यासां ता वार-मुख्याः ताश् च ता अबलाश् चेति वार-मुख्याबलाः ताभिर् आवृतः । मुखम् एव मुख्यं स्वार्थे यत् । वारो द्वारे हरे कुब्ज-वृक्षे सूर्यादि-वासरे । समूहे\ऽवसरे क्षणे इति वारतान्तविः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उद्धवादीनाम् अपि प्रतिगृहं स्थितिर् उद्दिष्टा, वार-मुख्याबलावृतं वारमुख्या वेश्या श्रेष्ठाः, अबला महिष्याः, ताभिर् आवृतम् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदि-शब्दाद् विकद्ब्रादिभि चकाराच्-छ्री-बलदेवादिभिश् च एवम् उद्धवादीनाम् अपि प्रतिगृहं स्थितिर् उद्दिष्टा वार-मुख्याबलावृतं वार-मुख्या वेश्या-श्रेष्टाः अबला महिष्याद्याः ताभिर् आवृतम् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्त्रयन्तं चेति प्रदोषः । जल-क्रीडा-रतम् इत्य् अपराह्नः ॥२७॥


॥ १०.६९.२८ ॥

कुत्रचिद् द्विज-मुख्येभ्यो ददतं गाः स्वलङ्कृताः ।
इतिहास-पुराणानि शृण्वन्तं मङ्गलानि च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्विज-मुख्येभ्य इत्य्-उक्तेः क्षत्रियादीनां दान-स्वीकारानधिकार उक्त इति पूर्वाह्नः । चो\ऽत्र पाद-पूरणे । मङ्गलानि इति पुराणेतिहास-विशेषणम् ।

इतिहास-पुराणानां श्रवणं मङ्गलं परम् । > गीयते सर्वथैतेषु मङ्गलायतनो हरिः ॥ इति नारदीये ।

अत्रापराह्नः । इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेत् इति स्मृतेः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्ठ्व् अलङ्कृताः सौवर्ण-शृङ्गादिभिः, इतिहासा भारतावया, मङ्गलानि शान्ति-सूक्तानि पुष्य-गीतादीनि वा ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुष्ठु अलङ्कृताः सौवर्ण-शृङ्गादिभिः इति प्रायो मध्याह्नस्य मङ्गलानि शान्ति-सूक्तानि पुण्य-गीतादीनीति वा प्रायो\ऽपराह्नस्य । इतिहास-पुराणाभ्यां षष्ट-सप्तमकौ नयेद् इति विधानात् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गाः ददतम् इति पूर्वाह्नः इतिहासेत्य् अपराह्नः । इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेद् इति स्मृतेः ॥२८॥


॥ १०.६९.२९ ॥

हसन्तं हास-कथया कदाचित् प्रियया गृहे ।
क्वापि धर्मं सेवमानम् अर्थ-कामौ च कुत्रचित् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कदाचित् रत्य्-अवसरे, इति निशीथः । क्वापि धर्मम् इत्य्-आदिना दिन-रात्री ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कदाचित् सुगुह्यया लोकोत्तरया वा प्रियया निजेष्टया हास-कथया, प्रियया सहेति वा, गृहे कस्मिंश्चिद् धर्मं सेवमानं भक्त्या अनुतिष्ठन्तं कामं सेवमानम् उपभुञ्जानम्, अर्थं सेवमानं साधयन्तम् ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गृहे कस्मिंश्चित् धर्मं सेवमानं भक्त्यानुतिष्ठन्तं, कामं सेवमानम् उपभुञ्जानम्, अर्थं सेवमानं साधयन्तम् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हास्य-कथया इति निशीथ-समयः । धर्मम् अर्थ-कामाव् इति दिन-रात्री ॥२९॥


॥ १०.६९.३० ॥

ध्यायन्तम् एकम् आसीनं2 पुरुषं प्रकृतेः परम् ।

शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरून् आचार्यादीन् । अत्र तोषिणी—त्रिवर्ग-पराणां लीलाम् उक्त्वा मोक्ष-परां ताम् आह—ध्यायन्तम् इति । मनुष्य-चेष्टानुकरण-लीला-मात्रत्वान् न वैष्णव-सिद्धान्त-हानिर् इति तयोर् आवश्यक-मुख्य-लीलाम् आह—गुरूञ् छ्री-सान्दीपनि-गर्ग-वसुदेवादीन् । कामादिभिः कामा अभीष्ट-पदार्था, भोगा उपभोगार्ह-पदार्थाः । सपर्या परिचर्या, देव-शुश्रुषा त्व् अग्रे वक्ष्यते, इति मध्याह्नादिः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्रि-वर्ग-परताम् उक्त्वा मोक्ष-परताम् आह—ध्यायन्तम् इति । आत्मानं निज-श्री-विग्रहम्, पुरुषं मनुष्याकारम्, प्रकृतेः परं सच्-चिद्-आनन्द-घनम् इत्य् अर्थः । इति तस्य ध्यानैक-शुभाश्रयत्वेन समाधि-हेतुतोक्ता । यद् वा, आत्मानम् आत्म-स्वरूपं प्रकृतेः परं पुरुषम् । भक्ति-परताम् आह—शुश्रषन्तम् इति । आत्मानम् एव श्री-शालग्रामादिभिः शुश्रयन्तं च शुश्रूषमाणं पूजयन्तं गुरूंश् च सान्दीपनि-गर्ग-वसुदेवादीन्, तैर् एव शुश्रूषन्तम् । कामा नृत्य-गीतादयः, भोगा उपभोगार्ह-द्रव्याणि, सपर्या परिचर्या गुरुषु च कामादयो यथा-यथम् ऊह्याः, कामादीनां यथोत्तरं शुश्रूषण-साधनत्वे श्रैष्ठ्यम् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं त्रि-वर्ग-परता-लीलाम् उक्त्वा मोक्ष-परता-लीलाम् आह—ध्यायन्तम् इति । मनुष्य-चेष्टानुकरण-लीलामात्रत्वान् न वैष्णव-सिद्धान्त-हानिर् इति भावः । तयोर् आवश्यक-मुख्याङ्ग-लीलाम् आह—गुरून् श्री-सान्दीपनि-गर्ग-वसुदेवादीन् कामादिभिः शुश्रुषन्तंकामाः अभीष्ट-पदार्थाः भोगा उपभोगार्ह-पदार्थाः सपर्या परिचर्या देव-शुश्रुषया त्व् अग्रे वक्ष्यत इति मध्याह्नादेः । एवम् उत्तरत्रापि समया उन्नेयाः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ध्यायन्तम् इति ब्राह्म-मुहूर्तः ॥३०-३१॥


॥ १०.६९.३१ ॥

कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।
कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुर्वतं कर्तूम् इच्छन्तम् आरभमाणं वा केशवं तत्र तत्र ब्रह्मेशयोर् अपि मोहनाद् व्यक्ती-कृत-तन्-नानार्थम् । सतां पाण्डवादीनाम् । कथम् एषां शिवं स्याद् इति चिन्तयन्तम् ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुर्वन्तं कर्तुम् इच्छन्तम् आरभमाणं वा, अपि, केशवं साक्षात् परमेश्वरम् अपि, कैश्चिद् इत्य् अनेन अन्यैश् चेत्य् अनेन च तत्-तत्-पृथग्-गृह-द्वये ज्ञेयम् । किं वा, कुत्रापि इति परेणैवान्वयाद् एकस्मिन् सर्वं । ततश् च रामेण सह इत्य् अस्य पूर्वेणाप्य् अन्वयः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुर्वन्तं कर्तुम् इच्छन्तम् आरभमाणं वा केशवं तत्र तत्र ब्रह्मेशयोर् अपि मोहनाद् व्यक्ती-कृत-तन्-नामार्थं कैश्चिद् इत्य् अनेन अन्यैश् चेत्य् अनेन च तत्-तत्-पृथग्-गृह-द्वये ज्ञेयम् । "अन्यत्र" इति क्वचित् पाठः । सतां पाण्डवादीनां शिवं कथं स्याद् इति विचारयन्तम् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६९.३२-३३ ॥

पुत्राणां दुहितॄणां च काले विध्य्-उपयापनम् ।
दारैर् वरैस् तद्-सदृशैः कल्पयन्तं विभूतिभिः ॥**

प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् ।
वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : काले तत्-तत्-समये विधिना उपयापनं प्रापणं विवाहम् इत्य् अर्थः । कल्पयन्तं घटयन्तम् । विभूतिभिर् विभवैः ॥३२॥ प्रस्थापनं दुहितृ-जामात्रादीनां स्व-गृहात् तत् तद् गृहं प्रति नयनम् । उपानयनं तत्-तद्-गृहात् पुनर् आनयनम् । तैर् महोत्सवान् कल्पयन्तम्योगेश्वरेशस्य तेषाम् अपत्यानां महोत्सवान् वीक्ष्य लोकाः सर्वे विसिस्मिरे विस्मयं चक्रुः । तथाभूतान् कल्पयन्तम् ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—उपयाप्यते प्राप्यते वर-कन्याभ्यां श्वशुर-गृहं यत्र तद् उपयापनम् इति निरुक्तः । विभूतिभिर् बहु-सम्भारैः विभूतिर् विभवो वसु इति नाम-माला ॥३२॥ तथा-भूतान् विस्मय-जनकान् । योगेश्वराः सनकाद्यास् तेषां प्रभोर् वैकुण्ठ-नाथस्य लोका गरुडादयो\ऽपि विसिस्मिरे ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-सदृशैः पुत्र-सदृशैर् दारैः पुत्राणाम्, दुहितृ-सदृशैर् वरैर् दुहितॄणाम्, विभूतिभिः कृत्वा, अस्य परेणाप्य् अन्वया । तत्र क्वचित् क्वचिद् गृहे पुत्राणाम्, क्वचित् क्वचिच् च दुहितॄणाम् इति विवेचनीयम । एवम् अग्रे\ऽपि । किं वा, पूर्ववत् कापीत्य्-आदेर् अप्रयोगेण [कन्यापीति]{।मर्क्} पुर्वेणान्वयात् रामेण सह तत् तत् सर्वम् एकस्मिन्न् एव गृहे ज्ञेयम् । पति-गृहं दुहितुर् एकत्वे\ऽपि दुहितॄणाम् इति बहुत्वं भ्रातृ-पुत्रादीनां कन्यापेक्ष या अग्रे च बहुत्वं तत्-तद्-बाहुल्यात् । लोका विसिस्मिरे, लोकातीतत्वात्, तत् कुतः ? योगेश्वराणाम् ईशस्य । अन्यत् तैर् व्याख्यातम् ।

यद् वा, विभूतिभिः सह उपानयनं पुत्र-स्नुषादीनां श्वशुरादि-गृहात् स्व-समीपे आनयनम्, योगेश्वरेशस्य श्री-सनकादि-प्रभोः श्री-वैकुण्ठ-नाथस्य लोकाः श्री-गरुडादयः सेवका येषां महोत्सवानां तान् प्रति विसिष्मिरे, वैकुण्ठे\ऽपि तद् अभावात् ॥३२-३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुलक-मध्य एव पुत्राणाम् इति युग्मकम् । तत्-सदृशैः पुत्र-सदृशैर् दारैः पुत्राणां दुहितृ-सदृशैर् वरैर् दुहितृणां विभूतिभिः कृत्वा अस्य परेणान्वयः । तत्र केषुचिद् गृहेषु पुत्राणां केषुचिद् गृहेषु दुहितॄणाम् इति ज्ञेयम् ॥३२॥ एवम् अग्रेऽपि लोकाः विसिस्मिरे लोकातीतत्वात् । तत् कुतः ? योगेश्वराणाम् ईशस्य । यद् वा, योगेश्वरस्य सनकादि-प्रभोः श्री-वैकुण्ठ-नाथस्य लोकाः श्री-गरुडादयोऽपि विसिस्मिरे ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विधिना उपयापनं प्रापणं विवाहम् इत्य् अर्थः । कल्पयन्तं कारयन्तं विभूतिभिर् बहु-सम्भारैः । वार्षिकोत्सव-समाप्तौ प्रस्थापनं दुहितृ-जामात्रादीनां स्व-गृहात् तद्-गृह-प्रापणं उत्सवारम्भे उपनयनं तद्-गृहात् पुनर् आनयनं तैर् महोत्सवान् कल्पयन्तम्योगेश्वरस्य कृष्णस्य येषाम् अपत्यानां महोत्सवान् वीक्ष्य लोकाः विस्मयं प्रापुः ॥३२-३३॥


॥ १०.६९.३४ ॥

यजन्तं सकलान्3 देवान् क्वापि क्रतुभिर् ऊर्जितैः ।

पूर्तयन्तं क्वचिद् धर्मं कूर्पाराम-मठादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्तं करोतीति पूर्तयति, ततः शतृ-प्रत्ययः । धर्मं धर्म-स्वरूपम् अपि लोक-सङ्ग्रहाय तथा चरन्तम् इत्य् अर्थः । धर्मं पूर्तयन्तं पूरयन्तम् । पूर्त कर्मणि पूरणे इति निरुक्ति-कोशात् । स्वस्य कलाः प्रतिमादि-रूपान् साक्षाच्-छ्री-विष्ण्व्-आदि-रूपांश् च क्रतुभिर् अर्चनात्मकैर् होमात्मकैर् वा । आलया देवादि-गृहाणि तैः । पूर्ततया सम्पादयन्तम् ।\ [अतः परं विश्वनाथस्य व्याख्या उद्धृता] ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वस्य कला विभूति-रूपान् यजन्तम् । यद् वा, स्व-कला अपि देवान् इन्द्रादीन् श्री-विष्ण्वादीन् वा ऊर्जितैः समृद्धैः, पूर्तयन्तं पूर्ताख्यं धर्मम् आचरन्तम्, आलया देवादि-गृहाणि, कूपादीनां यथोत्तरं श्रैष्ठयम् । आदि-शब्दाद् वापी-तडागादयः ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्य कलाः प्रतिमादि-रूपान् साक्षाच्-छ्री-विष्ण्वादि-रूपांश् च क्रतुभिर् अर्चनात्मकैर् होमात्मकैश् च ऊर्जितैः समृद्धैः पूर्तयन्तं [पूर्ताख्यितया]{।मर्क्} सम्पादयन्तम् आलया देवादि-गृहाणि ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्वचिद् देवान् यजन्ताम् इति चैत्रादौ चातुर्मासे वा पुण्य-काले । क्वचिद् युगाद्य्-आदौ पूर्तयन्तं पूर्ततया सम्पादयन्तम् ॥३४॥


॥ १०.६९.३५ ॥

चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् ।
घ्नन्तं तत्र पशून् मेध्यान् परीतं यदु-पुङ्गवैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सैन्धवं सिन्धु-देशोद्भवम् । ततो मृगयामास मेध्यान् यज्ञियान् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सैन्धवं सिन्धु-देशोद्भवम् । द्रुत-गतित्वादिना तस्यैव मृगयां योग्यत्वात् । ततस् तस्या मृगयाया हेतोः । मेध्यान् इति यज्ञार्थम् इति बोधयति । यदु-पुङ्गवैर् उद्धवादिभिः सात्यक्य्-आदिभिर् वा, परीतं वेष्टितम् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सैन्धवं सिन्धु-देशोद्भवम् । द्रुत-गतित्वाय ततस् तत्र मेध्यान् यज्ञार्थम् इति बोधयति । यदु-पुङ्गवैः सात्यक्य्-आदिभिः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चरन्तम् इति सैन्धवं सिन्धु-देशोद्भवम् ॥३५॥


॥ १०.६९.३६ ॥

अव्यक्त-लिङ्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु ।
क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्यक्त-लिङ्गं वेषान्तरेण च्छन्नम् ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृतिषु राज्याङ्गेषु । तस्य तस्य प्रकृत्य्-आदेर् भावस्य अभिप्रायस्य जिज्ञासया । एते धर्म-परास् तद्-धीना एते ज्ञातुम् इच्छयेत्य् अर्थः । यद् वा, प्रकृतिष्व् अन्तःपुरादिषु सत्र-त्यजनाभिप्रायं ज्ञातुम् अव्यक्त-लिङ्गं वेषान्तरेणाच्छन्नं योगेशं सर्वज्ञम् अपि प्रेम-मय्या लीला-शक्त्यैव सर्वज्ञता-शक्तेर् आच्छादनाद् इति भावः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकृतिष्व् अमात्येषु, अव्यक्त-लिङ्गं योगेशं सर्वज्ञम् अपि तासां तासां तेषां तेषां प्रकृतीनां भावो\ऽभिप्रायस् तद्-बुभुत्सया, तेषाम् एव अन्तः-पुरादिषु चरन्तं भ्रमन्तम् । आदि-शब्दात् सभा-चत्वरादयः । यद् वा, यस्यान्तःपुरादिषु चरन्तं चर-रूपेण वर्तमानस् तासां तासां महिषीणां प्रेम-विलासादि-रूपस्य भावस्य बुभुत्सया दिदृक्षयेत्या[गहि]{।मर्क्}-धर्मापेक्षया श्री-भगवतस् तत्-तद्-अखिल-कर्मणां प्राय एकस्मिन्न् एव गृहे सम्भवे\ऽपि गृह-भेदेन कर्म [हि]{।मर्क्} भेदोक्तिः श्री-नारदं प्रति तद्-वैचित्री-दर्शनार्थम्, तत्र तत्र तस्यागमनाद् इति । एवम् अष्टोत्तर-शताधिक-षोडश-सहस्रेष्व् एव गृहेषु परिभ्रमन्न् ददर्श । तस्य च विस्तरेण कथनं बहु-दिन-साध्यम् इति न विवृतोक्तम् इति ज्ञेयम् । यद् वा, सर्वासु ज्येष्ठायाः श्री-रुक्मिण्याः प्रियतमायाश् च श्री-सत्यभामाया इति गृह-द्वये दृष्ट्वा पश्चाद् अन्यासां जाम्बवती-प्रभृतीनां तावद् गृहेषु दृष्ट्वा कौतुकोद्रेकेण महा-मुग्धो दर्शनान् निवृत्त इति ज्ञेयम् ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकृतिषु अमात्येषु निज्आन्तःपुरादिषुअव्यक्त-लिङ्गम् आकारान्तरेण आच्छन्नं यतो योगेशं सर्वज्ञम् अपीत्य् उभयत्राप्य् उपोद्बलकं लीलेच्छया कस्याश् चिच्-छक्तेः प्रकटनात् कस्याश् चित्ति-रोधानाच् च प्रकृतीनाम् अन्तःपुर-स्थादीनाञ् च भावो\ऽभिप्रायः तस्य बुभुत्सया । एवम् अन्यत्रापि दृष्टं, किं तु विस्तार-शङ्कया न सर्वम् उक्तम् इति । यद् वा, श्री-नारद एव मुग्धस् तद्-अन्वेषणान् निवृत्त इति ज्ञेयम् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृतिषु अमात्य-पुरेषु निजान्तः-पुरादिषु च । तत्-तद्-भाव-बुभुत्सया तत्रत्य-जनानाम् अभिप्रायान् ज्ञातुम् अव्यक्त-लिङ्गं वेषान्तरेणाच्छन्नं योगेशं सर्वज्ञम् अपीति प्रेम-मय्या लीला-शक्त्यैव सर्वज्ञता-शक्तेर् आच्छादनाद् इति भावः ॥३६॥


॥ १०.६९.३७ ॥

अथोवाच हृषीकेशं नारदः प्रहसन्न् इव ।
योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो रतिम्**4

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ अनन्त-लीला-दर्शनानन्तरम् । रतिं क्रीडाम् । इव-पदम् आश्चर्याभावम् आह । आत्म-मायाम् अन्तर्धाय कोऽन्व् अर्थो दुर्घटो भवतीत्य् उक्तत्वात् । प्रहसन्न् इव इति—सर्वज्ञत्वेऽपि बुभुत्सा-दृष्ट्या प्रहासः । इवेत्य् आश्चर्य-दृष्ट्या सङ्कोचात्-तत्-सम्बरण-मुद्रा च ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मानुषीं रतिम् ईयुषः । मनुषाणाम् इमां मानुषीं मनुष्य-कर्तृकां रतिं स्वीकुर्वतः ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ पश्चाद् इति महा-कौतुक-विवशतया सद्यो वक्तुम् अशक्तेः । उवाच तस्मिन्न् एवान्त्ये गृहे प्रहसन् सहज-मुख-प्रसादात् स्मयमान इव । यद् वा, प्रहर्ष-वैवश्येन धैर्यापगमात् प्रकर्षेण उच्च-स्वरादिना हसन् । इव इति लोकोक्तिः । हृषीकेशं सर्वेन्द्रिय-प्रवर्तकम् इति तस्य वैवश्य-निवृत्त्य्-अर्थम् अन्तर्यामि-रूपेण श्री-भगवतैव तत्र प्रवर्तित इति भावः । एवम् अन्तर्यामितया बहुधा जीवानां प्रवर्तनेन हृदि हृदि सदा क्रीडतो\ऽपि तस्य मानुषीं रतिं क्रीडाम् ईयुषः प्राप्तस्य, अत एव योग-मायाया उदयम् उत्कर्षं वीक्ष्य साक्षाद् अनुभूय ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उवाच तस्मिन्न् एवान्ये गेहे हृषीकेशम् इति यच् च तेन दृष्ट-महैश्वर्येण सङ्कोचाव्यक्तम् अत्र नोक्तं, तद् अपि स्वयं ज्ञातम् इति व्यक्तीभावित्वाद् उचित-पद-न्यासः । इव इति सङ्कोचात् प्रहासस्य संवरण-मुद्राम् अपि बोधयति । प्रहासे हेतुः—मानुषीं रतिम् ईयुषो मनुष्य-क्रीडाविष्टस्यैव योग-मायोदयं तद्-आनुकूल्येनैवाचिन्त्य-शक्त्याविर्भावं तत्राप्य् आच्छन्न-वेषत्वादिकं वीक्ष्य इति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मानुषीम् अपि रतिं क्रीडाम् ईयुषः प्राप्तस्य । योगमाया-नामाचिन्त्यानां स्वरूप-शक्तीनाम् उदयम् इति कौतुक-विशेषो दर्शितः ॥३७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहसन्न् इव इति सर्वज्ञत्वेऽपि बुभूत्सा-दृष्ट्या प्रहासः । इवेत्य् ऐश्वर्य-दृष्ट्या सङ्कोचात् तत्-संवरण-मुद्रा च । मानुषीं रतिम् ईयुषः स्वीय-मनुष्य-क्रीडाविष्टस्यापि योग-मायोदयं वीक्ष्य इति विस्मयो व्यञ्जितः ॥३७॥


॥ १०.६९.३८ ॥

विदाम योग-मायास् ते दुर्दर्शा अपि मायिनाम्5

योगेश्वरात्मन् निर्भाता भवत्-पाद-निषेवया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे योगेश्वर ! आत्मन् आत्मनि मम मनसि तव स्वरूपे वा निर्भाताः प्रतीतास् तव योग-मायाः केवलं विदाम विद्मः, न तु त्वत्-परमार्थम् इति भावः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्दर्शानां मनस्य् अपि भानं न सम्भवतीत्य् अरुच्य् आह—स वेत्य्-आदि । इति भाव इति—अनन्तत्वान् मायाया इत्य् आशयः । विदाम वेदाम । साक्षाद् अनुभवितुं प्रार्थयामेति प्रार्थनायां लोट् ।

ननु, युष्मद्-विधैः सर्वज्ञैः किं दुर्दर्शं ? तत्राह—योगिनां योगिभी रुद्रादिभिर् अपि दुर्दर्शा द्रष्टुम् अशक्या । कुतो\ऽनुभवितुं कुतो\ऽन्तरां कर्तुम् इति भावः । हे योगेश्वर ! आत्मन् आत्मनि त्वय्य् एव निर्भाता अपि भवत्-पाद-निषेवया विदाम इति विश्वनाथः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विदाम इत्य्-आदि । तव योगमाया विदाम योगिनाम् अपि दुर्दर्शाः दुर्ज्ञेयाः, न तु भक्तानाम् अस्माकम् इत्य् अर्थः । योगिनाम् अपि दुर्दर्शतया कथं यूयं ज्ञातवन्तः ? इत्य् आह—तत्-पाद-पद्म-निषेवया इति ॥३८-४०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगः समाधिर् ब्रह्म-प्राप्तिर् वा । तद्वताम् अपि दुर्दर्शा दुर्ज्ञेयाः, आत्मन् निर्भाता इति तासां नित्यत्वादिकम् अभिप्रेतम् । तत्र हेतुः—योगश् चिच्-छक्तिः, तद्-ईश्वर इति त्वच्-छक्ति-विशेषाद् इत्य् अर्थः । भवतः पादयोर् नितरां सेवया विदामो वयम्, बहुत्वं भक्त-वर्गापेक्षया, तज्-ज्ञानेन आत्मनो बहु-मानाद् वा । अन्यत् तैर् व्याख्यातम् ।

यद् वा, योगिनां योग-साधकानां दुर्दशा ज्ञातुम् अप्य् अशक्याः, योगेश्वराणां सिद्ध-योगानाम् आत्मनि मनस्य् एव निर्भाता अपि भवत्-पाद-निषेवयैव विदाम इति प्रार्थना । परमेश्वरस्य तवेदृशी गृहस्थ-धर्मे रतिः किम्-अर्थं तत्-तत्त्वं निज-सेवा-प्रसाद-विस्तारणेन विज्ञापयेत्य् अर्थः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विदाम इत्य्-आदौ ब्रह्मन्न् [१०.६९.४०] इति वक्ष्यमाण-श्री-भगवत्-प्रातिवचनानुसारेणेदं गम्यते । तद् एवं श्री-नारदः सर्वां महा-विनोद-मयीं लीलां दृष्ट्वा महा-सुखम् एव लब्धवान्, किं तु तत्-तद्-देवताद्य्-उपासनादि-मय-धर्माचरणं दृष्ट्वा खेदः, तं तु सङ्कोचेन साक्षाद् अप्रकटयन् भङ्ग्या प्रकटयति—विदाम इति द्वाभ्याम् । ते तव योग-मायाः स्वरूप-भूताचिन्त्य-शक्ति-वृत्तीर् एता विदाम । किम्-अर्थं कां प्रकटयसीति वेत्तुं प्रार्थयामहे । कीदृशीर् अपि ? योगिनां नाना-शक्ति-धारिणां दुर्दर्शा अपि तथा भवत्-पाद-निषेवया ये योगेश्वराः, तेषाम् एव आत्मनि मनसि निर्भाताः स्वयम्-प्रकाशमाना अपि । यद् वा, हे योगेश्वर ! स्वरूप-भूतत्वात् आत्मनि त्वय्य् एव निर्भाताः प्रकाशमाना अपि भवत्-पाद-निषेवया विदाम ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ताश् च यत् किञ्चिज् जाता इति व्यञ्जयितुम् आत्मनो भावि सम्यक्-तज्-ज्ञानतां सम्भावयति—भवत्-पाद-निषेवयाविदाम वेदाम वेत्स्याम इत्य् अर्थः । तन्-निषेवा च ममेयम् एवेति प्रार्थयते ॥३८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : विदाम इत्य्-आदि । ते तव योगमाया विदाम । कीदृशीः ? योगिनाम् अपि दुर्दर्शा दुर्ज्ञेयाः । तत् कथं भवन्तो विदन्तीति नाशङ्कनीयम् । वयं भक्ता इति गूढं व्यङ्ग्यम् । तद् एव प्रकटयति—योगेश्वरात्मन्न् इत्य्-आदि । भवत्-पाद-निषेवया निर्भाताः ॥३८-४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवतः पाद-निषेवया विदाम वेदाम प्रार्थनायां लोट् साक्षाद् अनुभवितुं प्रार्थयामह इत्य् अर्थः । ननु, युष्मद्-विधैः सर्वज्ञैः किं दुर्वेद्यं ? तत्राह—योगिनाम् अपि योगिभिः श्री-रुद्राद्यैर् अपि दुर्दशा द्रष्टुम् अप्य् अशक्याः कुतोऽनुभवितुं, कुतस्तरां कर्तुम् इति भावः । हे योगेश्वर ! आत्मन् आत्मनि त्वय्य् एव निर्भाता ॥३८॥


॥ १०.६९.३९ ॥

अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् ।
पर्यटामि तवोद्गायन् लीला भुवन-पावनीः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वन्-मानुष्य-नाट्येन मुह्यां यतो मां प्रस्थापय इत्य् आह—अनुजानीहि इति ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तवैता लीला अद्भुता दृष्ट्वा धैर्यं कर्तुं न शक्नोमि, अतः स्वेष्ट-बन्धुभ्यो नाना-दिग्-वर्तिभ्यो वक्तुं यामीत्य् आह—अनुजानीहि इति । अतो मोह-जनकत्वात् ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देव ! हे गृह-क्रीडा-पर ! आप्लुतान् व्याप्तान्, आप्लुत-शब्देन यशसः सर्व-तीर्थमयत्वं ध्वन्यते, तव भक्त-वात्सल्यादि-यशः सर्वत्र शृण्वन्न् इति भावः । किं च, लीला दृष्टा एता गार्हस्थ्य-क्रीडा उच्चैर् गायन् । किम्-अर्थम् ? भुवन-पावनीः चतुर्दश भुवनानि भक्ति-विघ्न-सर्व-दोषात् शोधयितुम् इत्य् अर्थः । एतन्-मधुर-मधुर-लीला-श्रवणेन स्वत एव सर्वेषां सर्व-नैरपेक्ष्येण त्वयि विशुद्धा भक्तिः स्याद् एवेति भावः । अन्यत् तैर् व्याख्यातम् । किं च, अनुजानीहि । किम् अर्थम् ? तद् आह—लोकान् इत्य्-आदि । देव ! हे स्वामिन् ! अन्यत् समानम् ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्ह्य् अत्रैव स्थित्वा क्रमेन जानीथेत्य् आशङ्कयाह—अन्व् इति । तवान्योपासानां द्रष्टुं न शक्नुम इति भावः । तत्र च तद् यशो-माहात्म्योक्तिस् तद्-अत्यन्तायोग्यता-व्यक्त्य्-अर्थम् एव । तथा हे देव ! सर्वाराध्येति च आप्लुतान् व्याप्तान् आप्लुत-शब्देन यशसः सर्व-तीर्थमयत्वं ध्वन्यते ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तवैता अद्भुता लीला दृष्ट्वा धैर्यं कर्तुं न शक्नोम्य् अतः स्वेष्ट-मित्र-बन्धुभ्यो नाना-दिग्-देश-वर्तिभ्यो वक्तुं यामीत्य् आह—अनुजानीहि इति ॥३९॥


॥ १०.६९.४० ॥

श्री-भगवान् उवाच—

ब्रह्मन् धर्म् अस्य वक्ताहं कर्ता तद् अनुमोदिता ।
तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्माल् लोकं शिक्षयन्न् इमं धर्मम् आस्थितो न तु तत्त्वतः । हे पुत्र, मा खिदः, मोहं मा प्राप्नुहीति ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो\ऽहम् एव धर्म् अस्य वक्तादिस् तत् तस्माद् धेतोः । न तत्त्वतो वस्तुतः विधि-निषेधातीतत्वान् ममेति भावः । ननु, पूर्वं पूजयित्वा पश्चात् कथं पुत्रेत्य् उक्तम् ? तत्राह—हे पुत्र तद्वत्-प्रिय ! यद् वा,

स्याद् आत्मजे च सुहृदि पवित्रे पवने हरौ । > अग्नौ मन्त्रे च पुत्रोक्तिः इति निरुक्तिः ।

यद् वा, पुत्रं कृत्वा त्यक्त इतिवद् धास्य-सम्बुद्धिः । ननु, पूर्वं सम्पूज्य तं पश्चान् नैकृष्ट्येन न योजयेत् इति स्मृतेः कथं श्री-कृष्णेन क्रियते ? किं तु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः [भा।पु। १०.६९.२०], जन्मैतच् छोभनं कुरु [भा।पु। १०.६९.२२] इत्य्-आद्य्-उक्तेः पुनः पुत्र मा खिद इति निकृष्टता दर्शितेति चेद् अर्थान्तरम् आह—मखानां समूहो माखम् । तस्य समूहः इत्य् अण्, तद् अस्यास्तीति माखी परिषत्, यस्येदं देव-यजनम् अनुयज्ञं वितन्वते [४.२४.१०] इत्य् उक्तेः । पुत्रैः प्रचेतोभिर् यतो माखी पुत्र-माखी, तं दयते पालयति पुरञ्जनोपाख्यानेन तज्-जन्म तानि कर्माणि इत्य् आरभ्य नॄणां येनेह विश्वात्मा सेव्यते हरिर् ईश्वरः [४.३१.९] इत्य् अन्तेनोपदेश-कदम्बेन संसाराद्रिक्षतीति पुत्र-माखिदस् तत्-सम्बद्धौ तथा । अर्थार्धे सर्व-तारक अहं तु लोक-शिक्षार्थम् एव सर्वम् आचरामीति भावः । तीर्थे देवे गुरौ विप्रे पुत्रः स्यानन्दने तथा इति कोशान्तराच् च । हे पत्र ! हे विप्र ! सर्व-नियता-नियत-काले\ऽपि शोधक !

पूर्णेष्व् अपि च कालेषु न शुद्धिर् ब्राह्मणैर् विना । > अपूर्णेष्व् अपि कालेषु शोधयन्ति द्विजोत्तमाः ॥ इत्य् आपस्तम्ब-स्मृतेः > ।

त्वद् एकान्त-दासस्य मम त्वन्-निकटस्थिताविदम् एव महद्-दुःखं यन्मे शश्वत्-पर्यटन-दुर्भगौ पादौ स्व-हस्त-कमलाभ्यां प्रक्षालयसि तत्राह—ब्रह्मन्न् इति । तत्-तस्माल्-लोकं शिक्षयन् इमं धर्मम् आश्रित आह—तावत् क्षत्रियो गृहस्थस् त्वां ब्राह्मणं गृहागतं यदि नार्चयामि तदा स्वाचरणेन मत्-प्रचारितो धर्मः कथं तिष्ठेत् यद् यद् आचरति श्रेष्ठः [गीता ३.२४ ] इति न्यायात् तेन धर्म-प्रचारणार्थम् एव त्वत्-पादाव् अद्य क्षालितो धर्म-प्रचारण-लीला नारब्धा तदा केशि-वधानन्तरं मत्-पार्श्वागतस्य तत्-कृत-स्तुत्य्-आदिकम् अश्रौषम् एव नाणु-मात्रम् अप्य् अर्हणायकरवम् इति विचार्य पश्येति भावः ।

ननु, तद् अपि इदानीं त्वत्-कर्तृकावनेजन-कर्मणि स्व-पद-स्पृष्ट-तत्-पाने ममापराधो भवत्य् एवेति । अत आह—हे पुत्र इति । स्नेहं ज्ञापयित्वा सान्त्वयति—यथा पितरि तद्-अङ्क-निहित-पादो\ऽपि पुत्रस्य नापराधस् तथैव मयि तवेति बुध्यस्वेति भावः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य धर्म् अस्य तत् तस्माद् वा अनुमोदिता च परैः क्रियमाणस्य प्रीत्याभिनन्दकः । एवं वचसा कर्मणा भावेन चात्मनो धर्म-प्रवर्तकत्वम् उक्तम् । हे ब्रह्मन्न् इति वेदमयत्वात् त्वं तद् वेत्स्य् एवेति । यद् वा, वेद-मार्ग-रक्षणेन स्वादृशाम् एव सुखार्थम् इति भावः । आस्थितो\ऽनुतिष्ठन्न् अस्मि । हे पुत्र ! इति स्व-स्नेह-पात्रता-बोधनेनाश्वासयति ।

पक्षान्तरे—एवं तत्-तत्त्वाज्ञानेन मौग्ध्य-दुःखं नाप्नुहीत्य् अर्थः । मद्-भक्त-प्रवरेण त्वया मम भावो विज्ञायत एवेत्य् आशयेन स-लालन सम्बोधयति—पुत्र इति ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृषीकेशत्वेन तद्-अभिप्रायं विज्ञाय प्रतिवक्ति—ब्रह्मन्न् इति । यस्माद् धर्म् अस्य वक्ता तत् तस्मात् कर्ता अनुमोदिता च परैः क्रियमाणस्य प्रीत्याभिनन्दकः अन्यथा न कश्चिन् मन्येतेति भावः । अत एव तद् धर्मं लोकं प्रति शिक्षयन् एवं वचसा कर्मणा भावेन चात्मनो धर्म-प्रवर्तकत्वम् उक्तं । हे ब्रह्मन्न् इति वेदमयत्वात् त्वं तद् वेत्स्य् एवेति वेद-मार्ग-रक्षणेन त्वादृशाम् एव सुखाम् इति भावः । आस्थितः अनुतिष्ठन्न् अस्मि, तथापि लीला-कीर्तनादिना तद्-भक्ति-मात्र-प्रवर्तनेच्छोः तस्य खेद-शान्तिम् अदृष्ट्वा तद्-अनभिमतं भाव-गौरवं परित्यज्य तद्-अभिमत-भावेनानुग्रहेण स-लालनं सम्बोधयति—पुत्र इति ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र यज्ञादौ देवतान्तरोपासनादिना जातं । तस्य खेदं निवर्तयति—ब्रह्मन्न् इति ॥४०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वद्-एकान्त-दासस्य मम त्वन्-निकट-स्थिताविदम् एव महद्-दुःखं यन् मे शश्वत् पर्यटन-कठोरौ दुर्भगौ पादौ स्व-हस्तकमलाभ्यां प्रख्यालयसीति तत्राह—ब्रह्मन्न् इति । तत् तस्मात् लोकं शिक्षयन् इमं धर्मम् आस्थितःअहं तावत् क्षत्रियो गृहस्थः, त्वां ब्राह्मणं स्व-गृहम् आयातं यदि नार्चयामि, तदा स्वाचरणेन मत्-प्रचारितो धर्मः कथं तिष्ठेत् ? यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः [गीता ३.२१] इति न्यायात् तेन धर्म-प्रचारणार्थम् एव त्वत्-पादौ मयाद्य क्षालितौ न तु वस्तुतः । यदा तु मया धर्म-प्रचारण-लीला नारब्धा तदा केशि-वधानन्तरं मद्-अन्तिकम् आयातस्य तव बहु-स्तुत्य्-आदिकम् अश्रौषम् एव, न तु किम् अप्य् अणु-मात्रम् अप्य् अर्हणम् अकरवम् इति स्मृत्वा पश्येति भावः । ननु तद् अपीदानीं तत्-कर्तृकावनेजन-कर्मणि स्व-पद-स्पृष्ट-त्वत्-पाने ममापराधो भवत्य् एवेत्य् अत आह—हे पुत्र ! इति स्नेहं ज्ञापयित्वा सान्त्वयति । यथा पितरि तद्-अङ्क-निहित-पादोऽपि पुत्रस्य नापराधस् तथैव मयि तवेति बुध्यस्वेति भावः ॥४०॥


॥ १०.६९.४१-४२ ॥

श्री-शुक उवाच—

इत्य् आचरन्तं सद्-धर्मान् पावनान् गृह-मेधिनाम् ।
तम् एव सर्व-गेहेषु सन्तम् एकं ददर्श ह ॥**

कृष्णस्यानन्त-वीर्यस्य योग-माया-महोदयम् ।
मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जात-कौतुकः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवम् अनुगृहीतस् तम् एकम् एवं सन्तं ददर्श इति ॥४१॥ मुहुर् मुहुर् दृष्ट्वा जात-कौतुको मुनिर् विस्मितोऽभूद् इति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति-शब्दः प्रकारे । सद्-धर्मान् वेद-विहितान् । तं कृष्णम् ॥४१-४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इत्य् एवं-प्रकारेण सर्वेषु गृहेषु एकम् एव सत्त्वं ददर्श, अतः श्री-कृष्ण-विग्रहस्य व्यापकत्वम्, सर्वेषु गृहेषु एकम् एव सन्तम् एवेति वर्तमान-काल-निर्देशात् ॥४१॥

योग-मायास् ते विदाम [भा।पु। १०.६९.३८] इति पूर्वम् उक्तम्, तस्याहङ्कारोपशमनम् अधुना कृतं वर्ण्यते—कृष्णस्यानन्त-वीर्यस्य इत्य्-आदि । योग-माया-महोदयं मुहुर् दृष्ट्वा ज्ञात-कौतुकः सन् विस्मितोऽभूत् ॥४२-४३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सतां धर्मान् सद्-आचारान् गृह-मेधिनां पावनान्, प्रायो गार्हस्थ्य-धर्म-शिक्षया तेषाम् एव सर्व-मल-शोधनात् । यद् वा, गृह-मेधिनां ये सन्त उत्तमान् धर्मांस् तान् तच्-छ्रवणादिना सामान्येन सर्व-लोकानां पावनान् आचरन्तम् इति तद्-अर्थं प्रत्य् एकं सर्व-गृहेष्व् अवस्थित्या बहु-रूपता सूचिता । एवं सर्व-गेहेषु बहुधा स्थितम् अपि एकम् एव तं ददर्श । अतः काय-व्यूहं विनापि निज-शक्ति-विशेषेण तस्यैकस्यैव काल-देशादि-व्यवच्छेदाभावात् सर्वत्र स्थितेः । सिद्धान्तोऽयं सूक्ष्मातिसूक्ष्मो भक्त-प्रवर-हृदयैक-गम्यो यथा-शक्ति श्री-भागवतामृतोत्तर-खण्डे विवृतोऽस्त्य् एव । एवम् आरम्भे प्राग्-उक्तस्य एकेन वपुषा [१०.६९.२] इत्य्-आदेः समाधानं सिद्धम् ॥४१॥

कृष्णस्य निजाशेषाश्चर्य-प्रदर्शनार्थम् अवतीर्णस्य साक्षाद्-भगवतः, अतोऽनन्तं वीर्यं शक्तिर् यस्य तस्य । अत एव योग-मायाया महोदयम्ऋषिः सर्वज्ञोऽपि मुहुर् महा-दुर्वितर्क्यत्वेन असन्देहार्थं पुनः पुनर् दृष्ट्वा । अन्यत् तैर् व्याख्यातम् । यद् वा, विस्मितोऽत्याश्चर्याज् जातं कौतुकं हर्षोदयो यस्य तथा-भूतश् च अभूत् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एवम् आग्रहेण सतां धर्मान् सदाचारान् गृह-मेधिनां पावनान् प्रायो गृहस्थ-धर्म-शिक्षया तेषाम् एव सर्व-मल-शोधनात् । यद् वा, गृह-मेधिनां ये सन्तः उत्तमा धर्मास् तान् तत्-सेवनादिना सामान्येन सर्व-लोकानां पावनान् । एवं सर्व-गेहेषु बहुधा-स्थितम् अपि एकम् एव तं ददर्श । एकत्वं चेदं श्री-विग्रह-परमम् एव श्री-भगवति विग्रह-विग्रह-भावस्य निषिद्धत्वात् विग्रह एव विभुत्वादेर् दर्शितत्वात् विग्रहिणस् तु विभुत्वे साध्ये श्री-नारदस्य सन्देहे तद्-उपगमनानुपपत्तेः । कृत-काय-व्यूहैः सौभर्य्-आदिभिस् तुल्यतापत्तेश् चित्रत्वानुपपत्तेश् च । अतश् च अमीलित-दृग् व्यधारयद् इति मम दृशि गोचर एष आविर् आत्मेति श्री-विग्रह-तात्पर्यकेण यथोक्तं श्री-भीष्मेण—

प्रतिदृशम् इव नैकधार्कम् एकं > समधिगतोऽस्मि विधूत-भेद-मोहः ॥ [भा।पु। १.९.४२] इति ।

अर्कस्य दूर-स्थ-विस्तीर्ण-मण्डलत्वेन तथात्वं श्री-भगवद्-विग्रहस्याचिन्त्य-शक्त्येति विशेषेऽपि दृष्टान्तोऽयम् एकस्यैव तत्र तत्र स्फुरित्वांशे । एवं चित्रं बतैतद् एकेन वपुषा [भा।पु। १०.६९.२] इत्य्-आदि-चिन्तनानुरूपम् एवानुभूतम् इति ॥४१॥

अतः ऋषिः सर्वज्ञोऽपि स्वस्यापि बुद्ध्य्-अगोचरं योगमाया-महोदयं सर्वोत्काविर्भावं दृष्ट्वा तं च जात-कौतुकः सन् मुहुर् दृष्ट्वा विस्मितोऽभूद् इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-शुकदेवोऽपि धर्माचरणे नानात्वे च सिद्धान्त-सारम् आह—इति इति । गृहिणां श्रवणादिनापि पवित्रता-हेतून् सद्-धर्मान्एकम् एक-विग्रहम् ॥४१-४२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इत्य् आचरन्तम् इत्य्-आदि । तम् एव श्री-कृष्णम् एव सर्व-गेहेषु सन्तम्, अथ च एवं ददर्श, न तु पृथग् इति ज्ञातवान् । एतेन श्री-कृष्ण-विग्रहस्य व्यापकत्वम् अमुक्तं भवति । सन्तम् इति वर्तमान-काल-निर्देशः ॥४१॥

योग-माया विदाम [भा।पु। १०.६९.३८] इति यत् पूर्वम् उक्तम्, तद् अहङ्कार-शमनं वर्णयन्न् आह—कृष्णस्यानन्तर-वीर्यस्येत्य्-आदि । योग-माया-महोदयं वीक्ष्य ज्ञात-कौतुकः सन् विस्मितः, न तु तत्त्वं वेद ॥४२-४३॥

भगवत्-सन्दर्भः (३०): तथैवाह—इत्य् आचरन्तम् इति । सर्व-गेहेषु तम् एव, न तु तस्यांशान् । एकम् एव सन्तं, न तु काय-व्यूहेन बहु-रूपम् । एकं सन्तं बहुधा दृश्यमानम् इति श्रुतेः, न चान्तर् न बहिर् यस्य [भा।पु। १०.९.११] इत्य्-आदिना विभुत्व-सिद्धेश् च । ह स्फुटम् एव । ददर्श भगवद्-दत्त-शक्त्या साक्षाद् एवानुभूतवान्, न तु केवलम् अनुमितवान् नारद इति शेषः ॥४१॥

अत एव—कृष्णस्य इति । तत्र च योगमाया दुर्घट-घटनी चिच्-छक्तिः । तृतीये [भा।पु। ३.१६.३७6] सनकादीनां वैकुण्ठ-गमने योगमाया-शब्देन परमेश्वरे तु प्रयुज्यमानेन चिच्-छक्तिर् उच्यते इति स्वामिभिर् अपि व्याख्यातम् अस्ति । जात-कौतुको मुनिर् मुहुर् दृष्ट्वा विस्मितोऽभूत् । काय-व्यूहस् तावत् तादृशेष्व् अपि बहुष्व् एव सम्भवति । तं विनापि मध्यमाकारेऽपि तस्मिन् सर्व-व्यापकत्व अपूर्वम् इति तस्यापि विस्मयं हेतुर् नान्यथेति स्पष्टम् एव यथोक्तं ज्ञेयम् । अनेन सर्वतः पाणि-पादं तत् [गीता १३.६] इति तादृश्यां श्री-मूर्त्याम् एव व्याख्यातं भवति ।

अत एव न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र हि [वे।सू। ३.२.११] इति सूत्रं तत्त्व-वादिभिर् एवं योजितम् । स्थानापेक्षयापि परमात्मनो न भिन्नं रूपं हि यस्मात् तद्-रूपत्वं सर्वत्रैव । सर्व-भूतेष्व् एवम् एव ब्रह्म इत्य् आचक्षत इति श्रुतेः ।

एक एव परो विष्णुः सर्वत्रापि न संशयः । > ऐश्वर्याद् रूपम् एकं च सूर्यवद् बधुधेयते ॥ इति मात्स्यात् । > प्रतिदृशम् इव नैकधार्कम् एकं > समधिगतोऽस्मि विधूत-भेद-मोहः ॥ [भा।पु। १.९.४२] इति > भागवताच् चेति ।

एवं न भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनात् [वे।सू। ३.२.१२] इत्य् एतस्य, अपि चैवम् एकं [वे।सू। ३.२.१३] इत्य् एतस्य च सूत्रस्य व्याख्यानं तद्-भाष्ये दृश्यम् ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थम् एकेनैव श्लोकेन सङ्क्षिप्याह—इति इति । एकम् एक-वपुषम् एकेन वपुषेति पूर्वोक्तेः । अत्र नारदस्य तथा द्रष्टुम् इच्छया भगवतश् च दर्शयितुम् इच्छयैव तथा दर्शनम् अभूत्, किं तु द्वारका-वासिनं तु ये तत्रत्यास् ते तत्-पुत्रम् एव कृष्णं पश्यन्ति न त्व् अन्यत्र पुरेषु कार्यान्तराय तत्र तत्र कदाचिद् गच्छन्तोऽपीति ज्ञेयम् ॥४१-४२॥


॥ १०.६९.४३ ॥

इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना ।
सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रद्धितः श्रद्धया युक्त आत्मा यस्य तेन ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । तं कृष्णम् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवतः शक्ति-विशेष-दर्शनात् सम्यक् सभाजने हेतुः—अर्थादिषु तत्-साधनेषु [आखले]{।मर्क्} तच्-छिक्षणार्थं श्रद्धा-युक्तास् तेनेति । यद् वा, अर्थाश् चतुः-पुरुषार्थास् तद्-रूपो धर्मो भक्ति-लक्षणस् तेषु प्रीतात्मनो अनुमान-[रत्नरं]{।मर्क्} स्मरन् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्थेषु उत्तम-पदार्थेषु, कामेषु उपभोगेषु, धर्मेषु यज्ञादिषु सम्यग् यथा स्यात्, तथा सभाजितः श्री-कृष्ण-कौतुकार्थं स्व-कौतुकार्थं परार्थं वा तेषु यत्र यत्र तस्येच्छासीत् तत् तत् सम्पाद्य पूजित इत्य् अर्थः । तत्र हेतुः—श्रद्धितात्मना इति, ना [एक कचिद् दिनानि]{।मर्क्} विलम्बापि बोधितः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्थेषु उत्तम-पदार्थेषु, धर्मेषु यज्ञादिषु, कामेषु उपभोगेषु, सम्यग् यथा स्यात्, तथा सभाजितः श्री-कृष्ण-कौतुकार्थं स्व-कौतुकार्थं परार्थं वा, तेषु यत्र यत्र तस्येच्छासीत्, तत् तत् सम्पाद्य पूजित इत्य् अर्थः । तत्र हेतुः—श्रद्धितात्मना इति ॥४३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रद्धा-युक्त आत्मा यस्य तेन ॥४३॥


॥ १०.६९.४४ ॥

एवं मनुष्य-पदवीम् अनुवर्तमानो

नारायणोऽखिल-भवाय गृहीत-शक्तिः ।

रेमेऽङ्ग षोडश-सहस्र-वराङ्गनानां

स-व्रीड-सौहृद-निरीक्षण-हास-जुष्टः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नारद-दृष्टां श्री-कृष्ण-लीलां निगमयति, एवम् इति । अखिलस्य भवायोद्भवाय गृहीताः शक्तयो नाना-मूर्तयो येन सः । स-वृईडं च तत् सौहृदं च तेन निरीक्षणं हासश् च ताभ्यां जुष्टः ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे अङ्ग ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवम् इत्य्-आदि । मनुष्य-पदवीं मनुष्य-लीलां मनुष्याणां पदवीं धरणीं वा नारायणः श्री-कृष्णोऽखिलानां भवाय प्रेम-वृद्धये गृहीता रुक्मिण्य्-आद्याः शक्तयो य्३ । यद् वा, स्वस्य योग-शक्तिः ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिलेस्ववतारित्वम् उक्तम्, यतो नारायणः साक्षाद्-भगवान्, तथाप्य् एवम् उक्त-प्रकारेण मनुष्य-लीला[म् अनुवरगा]{।मर्क्}नोऽनुतिष्थन् रेमे । यद् व, मनुष्य-लीलां कुर्वन्न् अपि अखिल-लोकस्य भवाय गार्हस्थ्य-धर्म-प्रदर्शनादिना क्षेमाय गृहीतः प्रकार-तत्-शक्तयो बहुल-महिषो-गृहेषु ग्र्ह-धर्म-समर्था बहुल-मूर्तयः किम्वाखिलानां भवाय गृहीता शक्तिर् एकस्यैव सर्वथ पृथक्त्वेन स्थिति लक्ष्नायेन यः, यतः नारायणः सर्व-जीवैकाश्रय । रतौ हेतुम् आह—अङ्गेत्य् आदि । अङ्ग ! हे राजन् ! यद् वा, अङ्गं निज-श्री-विग्रहस् तद्वत् प्रियतमाः सौन्दर्यादि-युक्ता वा याः षोडश-सहस्र-वराङ्गनास् तासाम् । अन्यत् तैर् व्याख्यातम् । यद् वा, सव्रीडौ सौहृदेन प्रेम्णा निरीक्षण कृष्णौ ताभ्यां जुष्टः सेवितः, प्रीतो वा सन् ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-नारद-दृष्टां लीलां निगमयस् तासाम् अनाङ्गि-भावं दर्शयति—एवं मनुष्य-पदवी तल्-लीलाम् अनुवर्तमानो यो नारायणः नारायणस् त्वं नहि सर्व-देहिनाम् इत्य् आद्य् उक्त-लक्षणः इतर-सर्व-नारायणानां च स्वयम् अङ्ग्कृत एव मुख्यो महान् नारायाः स्वयं भगवान् कृष्णः सम्प्रति चाखिलानां भवाय स्वस्मिन् आकृष्-तत्-तन्-निजांशः सः षोडश-सहस्र-सङ्ख्यानां वराङ्गनानां सव्रीडो यः सौहृद-विशेषः तत्-पूर्वक-निरीक्षण-हासाभ्यां जुष्टः प्रीतिम् अवापेति ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं कतिचिद् दिनानि विलम्बोऽपि बोधितः ॥४४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् इत्य्-आदि । मनुष्य-पदवीं मनुष्य-वर्त्म मनुष्य-लीलाम् इत्य् अर्थः । नारायणः श्री-कृष्णः । नारो नयः । नृ नये घञि रूपम् । तस्यायनं यस्मात् । नारायण इति नाम त्रयाणां प्रसिद्धम्—शेष-शयिनो नारायणस्य भारतवर्ष-देवस्य च स्वयं भगवतः श्री-कृष्णस्य च कृष्णाष्टके पठितत्वात् । आगमेषु कृष्णाय नमः, वासुदेवाय नमः इत्य्-आदि । तेनायं नारायण-नामैव, न त्व् अहि-शयन-शायी यम् अक्रूरय दर्शयामास । गृहीता शक्तिर् लीलाख्या नित्य-शक्तिर् येन ॥४४-४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, परमेश्वरस्य अर्थादि-श्रद्धया किम् इत्य् अत आह—एवम् इति । मनुष्यवर्त्मानुसृत्या तस्य किम् इत्य् अत आह । अखिलानां भवाय मनुष्य-चेष्टा हि मनुष्यैः सुखेन स्मर्यन्त इति तादश-स्व-लीलास्मारणया तेषां संसारं निवर्तयितुम् इत्य् अर्थः । तत्-संसार-निवर्तनया तस्य किम् इत्य् अत आह—गृहीता शक्तिः कृपाख्या येन सः किञ् च शाश्वतिक्या मनष्य-चेष्टया न न केवलम् एतावद् एव प्रयोजनं किं तु स्वरूप-भूत-स्व-प्रेयसीभिर् मानषोभिः लक्ष्म्यादिभ्यो\ऽप्य् उत्कृष्ताभिर् मानुषाकृतेः स्वस्य वैकुण्ठ-नाथादीनाम् अप्य् अयं वाशिनो अनन्या भक्ता एव विषया येषां तान् इति वा । शाश्वतिकं रमणम् अपीत्य् आह—रेमे इति ॥४४॥


॥ १०.६९.४५ ॥

यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः

कर्माण्य् अनन्य-विषयाणि हरिश् चकार ।

यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा

भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्य-विषयाण्य् असाधारणानि । अपवर्ग-मार्गे मोक्ष-प्रदे ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असाधारणान्य् अन्येन कर्तुम् अशक्यानि । हि यस्माद् भक्तिर् भवति तस्मान् मुमुक्षुणा सेव्यानीति भावः । यद् वा, अनन्य-विषयाणि स्वैक-तात्पर्यकाणि । यद् वा, अन्या भक्ता विषया उद्देश्या येषां तानि । अवर्गो मक्ष-मार्गः प्राप्त्युपायो यस्य संसार-कुलो ध्दसे सत्य् एव निर्विघ्न-खखि-स्रद्ध्या वप्यत्वात्,

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । > समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ [गीता १८.५४] > इति गीताभ्यः ।

यद् वा, अपवर्गो भक्ति-योग एव मार्गो यस्य तत्र । यद् वा, अपवर्गा उपेक्षित-चतुर्वर्गस् ते मार्ग्यतद् एव्य्त इति तोषिणी ॥४५॥


कैवल्य-दीपिका : यानि इति । वृत्तिः स्थितिः । अनन्य-विषयाणि अनन्य-साध्यानि । गानं कीर्तनम् । अनुमोदनं मानस-स्वीकारः । स च स्मरण-पूर्वकः ॥४५॥ [मु।फ। १०.११]


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृश-विचित्र-गार्हस्थ्य-लीलाया मुख्य-प्रयोजनम् आह—यानीति । इह लोके विश्वस्य विलयादि-हेतुर् अपि । विलयः प्रलयः । उद्भवः सृष्टीः । वृत्तिः स्थितिः पालनम् । एषां यथोत्तरं श्रैष्ठ्यम् इति तेभ्योऽपि कर्मणाम् एषां माहात्म्यम् । हरेर् इति च कर्मणाम् इति मनोहरत्वं सूचितम् । तु एव । य एवेत्य् अनेनाधिकारापेक्षापि तस्य भक्तिः । हि निश्चितम् । भगवति सर्वैश्वर्य-प्रकटन-परे श्री-कृष्णे । तस्य दौर्लभ्यम् आह—अपवर्गो मोक्षो मार्गः प्राप्त्य्-उपायो यस्य, संसार-दुःख-ध्वंसे सत्य् एव निर्विघ्न-भक्ति-सिद्ध्या प्राप्यत्वात् । यद् वा, अपवर्गो भक्ति-योग-लक्षणः । स एव मार्गो यस्य तस्मिन् । यद् वा, अपवर्गा अपगत-वर्गा भक्तास् तैर् अपि मार्गस् तस्मिन्न् इति ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतत्-प्रसङ्गेन सकलानाम् अपि श्री-कृष्ण-लीलानां गानादि-फलम् उत्तरोत्तर-क्रमेण सकैमुत्यम् आह—विश्व-विलयादि-हेतुर् अपि हरिर् इह परम-पूर्णावतारे यानि कर्माणि चकार । कीदृशानि ? अनन्य-विषयाणि स्वैकतात्पर्यकाणि स्व-स्वरूपैक-पर्यवसानानि । यद् वा, अनन्या भक्ता एव विषया उद्देश्या येषां, तानि । न तु विश्व-विलयादिवद् अन्य-विषयाण्य् अपि भगवति, कृष्णस् तु भगवान् स्वयम् इति प्रसिद्ध-पूर्ण-भगवत्त्वे। तस्य दौर्लभ्यम् आह—अपवर्गो मोक्षो मार्गः प्राप्त्य्-उपायो यस्य सः, संसार-क्लेश-ध्वंसे सत्य् एव निर्विघ्न-भक्ति-सिद्ध्या प्राप्यत्वात् ।

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । > समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ [गीता १८.५४] > इति श्री-गीताभ्यः ।

यद् वा, अपवर्गो भक्ति-योगः, स एव मार्गो यस्य तस्मिन् । यद् वा, अपवर्गा अपगत-वर्गाः उपेक्षित-चतुर्वर्गा भक्तास् तैर् अपि मृग्यत इति तस्मिन् ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अपवर्ग एव मार्गो यस्य तस्मिन्, ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इत्य्-आदेः ॥४५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च कृष्ण-लीला केवलं संसार-मोक्षर्थं वा, किन्तु प्रेम-भक्ति-प्रदा चेत्य् आह—यानीति । विलयश्उद्भवश्वृत्तिः स्थितिश् च तासां हेतुर् अपि कृष्णो यानि कर्माण्य् अनन्य-विषयाणि स्वरूपान्तरासाधारणानि । अनन्या भक्ता एव विषया उद्देश्या येषां तानिति वा । अपवर्गो मोक्षो मार्गे भजन-लक्षणे वर्त्मन्य् एव लभ्यः यस्य तस्मिन् । भगवति भक्तिः प्रेम-विलक्षणा तस्य तरेत् संसारान् मोक्षस् तु भजनारम्भ एव स्याद् इति ॥४५॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे कर्षण-गार्हस्थ्त-दर्श्नं

नामैकनो-सप्ततितमोऽध्यायः ।

॥६९॥


  1. अध्यापनं ब्रह्म-यज्ञः पितृ-यज्ञस् तु तर्पणम् ।

    होमो दैवो बलिर् भौतो नृ-यज्ञोऽतिथि-पूजनम् ॥ [मनु ३.७०] ↩︎

  2. आत्मानं ↩︎

  3. स्व-कला ↩︎

  4. गतिम् ↩︎

  5. योगिनाम् ↩︎

  6. विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो

    योगेश्वरैर् अपि दुरत्यय-योगमायः ।

    क्षेमं विधास्यति स नो भगवांस् त्र्य्-अधीशस्

    तत्रास्मदीय-विमृशेन कियान् इहार्थः ॥ ↩︎