६८

साम्ब-विवाहः बलरामेण हस्तिनापुर-कर्षणं च ।

॥ १०.६८.१ ॥

श्री-शुक उवाच—

दुर्योधन-सुतां राजन् लक्ष्मणां समितिं-जयः ।

स्वयंवर-स्थाम् अहरत् साम्बो जाम्बवती-सुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्ट-षष्टितमे साम्बे निरुद्धे कौरवैर् युधि

तद् विमोक्षाय रामेण गजाह्नय-विकर्षणम्

राम-चरित्रान्तरं निरूपयितुम् आह—दुर्योधन-सुताम् इति । समितिञ्-जयः सङ्ग्राम-जित् ॥१-२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-विमोक्षाय साम्ब-वियोक्षाय ।

हृतो यदैव प्रद्युम्नः शम्बरेणात्म-घातिना ।

मासे\ऽस्मिन्न् एव साम्बस् तु जाम्बवत्याम् अजायत ॥ [ह।वं। २.५०.११०]

इति हरिवंशोक्त्या प्रद्युम्न-सवयस्कत्वात्-तस्योद्वाहः पूर्वम् एव वृत्तो\ऽप्य् अत्र सङ्कर्षण-माहात्म्य-प्रसङ्गाद् आह—दुर्योधनेति । जांववती-सुत इति तस्या सौभाग्याधिक्यसूचनेन तस्मिन्-पितृ-स्नेहाधिक्यं दर्शितम् । अतिस्नेहेनाम्बया सह वर्तत इति साम्ब इत्य् अन्व् अर्थता-ज्ञापनार्थं यत्र तत्र जाम्बवती-सुत इति विशेषणं दीयते । सम् इतिं सङ्ग्रामं सभां च जयतीति सम् इतिञ्जयः । बलेन शत्रेण चोभयजयी ।

सामतिः सम्पराये स्यात् । सभायां सङ्गमे\ऽपि च ॥ इति मेदिनी॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

हृतो यदैव प्रद्युम्नः शम्बरेणात्म-घातिनाः ।

मासे\ऽस्मिन्न् एव साम्बस्तु जाम्बवत्य् आत्मजायत ॥ [ह।वं। २.५०.११०]

श्री-हरिवंशोक्त्या प्रायः श्री-प्रद्युम्न-समवयस्त्वाच्-छ्री-साम्बस्य पूर्व-वृत्तम् अपि विवाहं श्री-बलदेव-विक्रम-प्रसङ्गाद् अत्राह—दुर्योधनेत्य् आदिना । समितिञ्जयो महा-वीर इत्य् अर्थः । अतो\ऽहरत् । यद् वा, समितिं जय इति स्वयम्बरे समागतान् तान् सर्वान् राज्ञो युद्धे जित्वेति भावः । हे राजन् इति क्षत्रियस्यायं धर्म एवेति भावः । यद् वा, निज-शीयादिना राजमानः सन्, यतो जाम्बवत्याः सुत इति तस्याः प्रेम-प्रार्थनया श्री-भगवता प्रियतम् अस्य श्री-शिषस्य माहात्म्यं तत्वता बहुल-तपस्य या तम् आराध्य श्री-साम्बस्य प्राप्त्या श्री-प्रद्युम्न-सम-सौन्दर्यादिकं दान-धर्मोत्तानुसारेण सूचितम् । अत एव महा-स्नेहेन अम्बया सदैव वर्तत इति साम्ब-नामेति ज्ञेयम् ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

हृतो यदैव प्रद्युम्नः शम्बरेणात्म-घातिनाः ।

मासे\ऽस्मिन्न् एव साम्बस्तु जाम्बवत्य् आत्मजायत ॥ [ह।वं। २.५०.११०]

इति श्री-हरिवंशोक्त्या प्रायः प्रद्युम्न-समवयस्कत्वाच्-छ्री-साम्बस्य पूर्ववृत्तम् अपि विवाहं श्री-बलदेव-विक्रम-प्रसङ्गाद् अत्राह—दुर्योधनेत्य् आदिना । पूर्वं टीकायां प्रद्युम्नजत्मजाम्बवत्यादि-विवाहयोर् व्यतिक्रमेण स्वीकारस् त्व् अत्र यथा-क्रम-श्रवणापेक्षयेति ज्ञेयम् । जाम्बवत्याः सुत इति तस्याः सौभाग्याधिक्य सूचनेन तस्मिन् पितृ-स्नेहाधिक्यं दर्शितम् अत एव तस्यास् तत्-समसुन्दर-पुत्र-प्रार्थनया श्री-भगवता स्व-भक्त-वर-शिवस्य माहात्म्यं तन्वता तम् आराध्य स प्राप्त इति दान-धर्मे अत एव स्नेहेनान्वया सदा वर्त्तन्त इति साम्बः अत एव यत्र तत्र तद्-विशेषणत्वं तस्य श्रूयते एवं सति जाम्बवती-सुतस्यास्य नाम्नि दन्त्य-एवोष्मा न तु तालव्य इत्य् आयातम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्ट-षष्टितमे साम्बे निरुद्धे कुरुभिर् हली ।

दुरुक्त्या कोपितश् चक्रे गजाह्वय-विकर्षणम् ॥

समितिञ्जयः सङ्ग्रामजित् ॥१-२॥


॥ १०.६८.२ ॥

कौरवाः कुपिता ऊचुर् दुर्विनीतोऽयम् अर्भकः ।

कदर्थी-कृत्य नः कन्याम् अकामाम् अहरद् बलात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अकामाम् अजात-काम-विकाराम् । यद् वा, तद्-वरेच्छा-राहिताम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कौरवा दुर्योधनाद्याः । दुर्विनीतो\ऽशिक्षितः, यतो\ऽर्भकः । किं वा, अर्भको\ऽपि विनय-रहितः स-गर्व इत्य् अर्थः । ननु, बलाद् धरणं क्षत्रियस्य युक्तम् एव ? तत्राहुः—अकामां तद्-बरणेच्छा-रहिताम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कौरवा दुर्योधनादयः । अर्भकोऽपि विनय-रहितः स-गर्व इत्य् अर्थः । यद् वा, अर्भको\ऽयं पित्रादिभिर् अशिक्षित इति तान् अप्य् अधिक्षिपन्ति, यतः कदर्थीकृत्य खेदयित्वा, तत्रापि अकामां तद्-वरणेच्छा-रहिताम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.३॥

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।

येऽस्मत्-प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नो\ऽस्माकं महीम् अस्माभिर् दत्ताम् । न ते भूपतय इति भावः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इमं साम्बम् । दुर्विनीतम् अशिक्षितम् । ये वृष्णयः । इति भाव इति—यदु-शप्तत्वात् तेषां राज्याधिकार एव नास्तीत्य् आशयः । [वै।तो।] बध्नीत इति हनन-निषेधो द्योत्यते । तत्-स्पृष्टायाः कन्याया वरान्तरायोग्यत्वेन जामातृत्वावश्यकत्वात् । श्री-भीष्म-विदुरादीनां संमतेश् च । अत एवाग्रे जिघृक्षव [१०.६८.७] इति । बन्धने हेतुः—दुर्विनीतम् इति । अन्यथास्माकं पराभव एव जनैर् दृश्यत इति भावः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : [वनोतैवेति, न धनतेत्य्]{।मर्क्} उक्तिः, श्री-भगवत्-पुत्रत्वात् जामातृत्वाच् च, अत एवाग्रे च जिघृक्षव [१०.६८.७] इति । बन्धने हेतुः—विनीतम् इति, शिक्षार्थम् एवेति भावः । अत एवास्य पुनर् उक्तिः, न तु स्वयम् उपार्जिताम्, यतो\ऽस्माभिर् एव दत्ताम्, अतो दत्तापहार-दोष-शङ्कयापराधे\ऽप्य् अनाच्छिद्यमानाम् इति भावः । यतो नो\ऽस्मदीयाम् एव, न तु तेषाम् अराजत्वाद् इति । तेषां स्वतः सामर्थ्यं निरस्तम् । भुञ्जत इति तथापि भोग-मात्रम् एव, न तु तेषां तत्-स्वामित्वम् इति भावः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बध्नीत इति हनन-निषेधो द्योत्यते । स चाधुना तत्-स्पृष्टायाः कन्यायाः वरान्तरायोग्यत्वेन जामातृत्वावश्यकत्वात् । श्री-भीष्म-विदुरादीनां तथा सम्मतेश् च । अत एवाग्रे जिघृक्षव [१०.६८.७] इति । बन्धने हेतुः—दुर्विनीतम् इति । अन्यथास्माकं पराभव एव जनैर् दृश्यत इति भावः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नो\ऽस्माकं महीम् अस्माभिर् दत्तां न ते भूपतयः इति भावः ॥३॥


॥ १०.६८.३ ॥

निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः ।

भग्न-दर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यान्ति यास्यन्ति । प्राणा इन्द्रियाणीव । सुसंयताः प्राणायामादिभिर् दमिताः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [वै।तो।] निगृहीतं बद्धम् । इह हास्तिनपुरे । शमं यान्ति अस्मद्-वश्या भवन्तीति भावः । दुर्वश्यानाम् अपि वश्यत्वे दृष्टान्त—प्राणा इति ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तथापि पुत्र-स्नेहेन ते त्व् अवश्यम् उद्यमं कुर्युर् एव ? तत्राहुः—निगृहीतम् इति । सुतम् इति महा-स्नेह-पात्रतोक्ता । वृष्णयः श्री-कृष्णाद्याः । शमं यान्ति, अस्माकं वश्या भविष्यन्तीत्य् अर्थः । दुर्वश्यानाम् अपि वश्यत्वे दृष्टान्तः—प्राणा इति ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निगृहीतं बद्धम् । इह हास्तिनपुरे । शमं यान्ति अस्मद्-वश्या भवन्तीति भावः । दुर्वश्यानाम् अपि वश्यत्वे दृष्टान्त—प्राणा इति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यान्ति यास्यन्ति । प्राणा इन्द्रियाणीव ॥४॥


॥ १०.६८.५ ॥

इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः ।

साम्बम् आरेभिरे योद्धुं कुरु-वृद्धानुमोदिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुरु-वृद्धो भीष्मः, तेन अनुमोदितास् तत्-सहिताः षड् एत इत्य् अर्थः ॥५-६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति एवम् उक्त्वा । शलादयस् त्रयो बाहलीकात्मज-सोमदत्तात्मजाः । यज्ञकेतुर् भूरिश्रवाः । यज्ञ-शब्देनात्र यूपो लक्ष्यते । इत्य् अर्थ इति—क्षत्र-धर्म-निष्ठत्वात् पराभवम् असहमानो वृद्धो\ऽपि भीष्मस् साम्ब-बन्धनार्थं ययाव् इति भावः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शलादयस् त्रयः सोमदत्त-पुत्राः । तत्र यज्ञकेतुर् भूरिस्रवाः, कुरु-वृद्ध इति ज्ञातीनां लज्जया कुल-श्रेष्ठस्य लज्जोत्पत्तेस् तेन अनुमोदिता इति तेषाम् उत्साहः सूचितः । वस्तुतश् चायं भावः—दुर्योधनादीनां महाभिमानिनां कदाचित् कत्थनं श्रुत्वा तान् प्रति यादवानां माहात्म्यं दर्शयितुम् इच्छता तत्-तत्त्वाभिज्ञेन भागवत-प्रवरेण भीष्मेणावसरं प्राप्य तद्-अर्थं प्रेरिता इति ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शलादयस् त्रयः सोमदत्त-पुत्राः । तत्र यज्ञकेतुर् भूरिश्रवाः । कुरु-वृद्धेति तेषाम् उत्साह-कारणं तेन तु तेषाम् अभिमान-व्यञ्जनार्थम् एवानुमोदनम् इति ज्ञेयम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शलादयस् त्रयः सोमदत्त-पुत्राः । यज्ञकेतुर् भुरिश्रवाः । कुरु-वृद्धो भीष्मः, तेन अनुमोदिता इत्य् एतत्-स्पृष्टायाः कन्यायाः वरान्तरायोग्याद् अयम् एव वरो भवेत्, किन्त्व् एतद्-अन्याय-स्व-[शौर्ययोत्योर्तनार्थम्]{।मर्क्} अयं बन्धनीय एव, न तु वध्य इति कृतानुमोदनाः । ततश् च तेनापि सहिताः कर्णादयः षड् इत्य् अर्थः ॥५-६॥


॥ १०.६८.६ ॥

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महा-रथः ।

प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धार्तराष्ट्र-सम्बन्धिनः । एक एवैकलः, स्वार्थे लः । यद् वा, एकान् प्रधानान् अपि लुनाति छिनत्तीत्य् एकलः । लुनातेर् डः एके मुख्यान्य-केवलाः इत्य् अमरः । शूरतमः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनु पश्चात् धावतो वेगेन गच्छतः, प्रकर्षेण दृढ-सज्जीकरणादिना गृहीत्वा, रुचिरं शार्ङ्ग-जातित्वात्, इति तस्य दार्ढ्यादिकम् उक्तम् । एकत्र एव तस्थौ, यतो महारथो वीर-प्रवरः, सिंह इव इति निर्भयत्वादिकं द्योतयति ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण सज्जीकरणादिना गृहीत्वा ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.७ ॥

तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति भाषिणः ।

आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्णो\ऽग्र गीर् येषां ते ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं साम्बम् । ते कर्णादयः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आसाद्य निकटे प्राप्य, धन्विनो धनुर्-विद्या-दत्ता इत्य् अर्थः । अतः सम्यग् आकिरन् व्याप्नुवन् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् आकिरन् व्याप्नुवन् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाकिरन् सम्यग् आकीर्णं चक्रुः ॥७॥


॥ १०.६८.८ ॥

सोऽपविद्धः कुरु-श्रेष्ठ कुरुभिर् यदु-नन्दनः ।

नामृष्यत् तद् अचिन्त्यार्भः सिंहः क्षुद्र-मृगैर् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नामृष्यत् असहत् अचिन्त्यस्य भगवतो\ऽर्भो\ऽर्भकः । अचिन्त्यश् चासाव् अर्भश् चेति वा ॥८-९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स साम्बः । अपविद्धस् ताडितः । तत् कुरु-ताडनम् । अन्धाद् अन्धो न जायेत इति न्यायेन नहि पितृ-सम एव प्रायः पुत्रो भवतीति भावः । हे कुरु-श्रेष्ठ ! इति पूर्वेषां दुर्विनयेन लज्जमानं सान्त्वयतीति भावः । अचिन्त्या इति श्री-भगवल्-लीला-विशेषेच्छयैव अनिरुद्धवत् तज्-जातम् इति भावः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे कुरु-श्रेष्ठेति तद् अतिवेधेन शोकात्, किम् वा, अमर्षेण प्रहर्षात् । यद् वा, पूर्वेषां दुर्विनयेन लज्जमानं राजानं सान्त्वयति, यदुनन्दन इति । यदुवंश्यत्वेनापि तेभ्यः कुरुभ्यः श्रैष्ठयं किं वा, तद् अतिश्रेष्ठ्यार्थम् एव—

बाल्यात् प्रभृति रामेण शस्त्रेषु विनियोजितः ।

रामाद् अनन्तरश् चैव मानितः सर्व-वृष्णिभिः ॥ [ह।वं। २.११०.२]

इति श्री-हरिवंशोक्तं माहात्म्यं सूचयति । यद् वा, यदुनाम् आनन्दनार्थम् इति भावः । न च बालकत्वेन तेभ्यो\ऽस्य न्यूनतेत्य् आह—अचिन्त्यो\ऽद्भुतो लोकातीतो\ऽर्भकः । क्षुद्र-मृगैर् उपद्रुतः सिंहो यथा तद् उपद्रवं न सहते, किं तु तान हन्त्येव, तद्विद् इत्य् अर्थः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतिशयेन विद्धः पाठान्तरे अपकर्षणात् विद्धः हे कुरु-श्रेष्ठेति पूर्वेषां दुर्विनयेन लज्जमानं राजानं सान्त्वयति यदुनन्दन इति—

बाल्यात् प्रभृति रामेण शस्त्रेषु विनियोजितः ।

रामाद् अनन्तरश् चैव मानितः सर्व-वृष्णिभिः ॥ [ह।वं। २.११०.२]

इति श्री-हरिवंशोक्तं माहात्म्यं सूचयति स्वरूपतश् च अचिन्त्यार्भः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपविद्धः अपकर्मणा अन्यायेन विद्धः नामृष्यत् नसहत अचिन्त्यस्य भगवतो\ऽर्भः ॥८-९॥


॥ १०.६८.९ ॥

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।

कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक्॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-प्रपञ्चयति चतुभिर् इति चतुर्भिश् चतुर इत्य् अत्र वीप्सानुसन्धेया । तत्-कर्म ते संमानितवन्तः ॥९-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावन्तस् ते तावद् धि । षड्भिः तत्रापि प्रत्येकं, तत्रापि युगपद् इति सश्लाघिरे ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विस्फूर्ज्य गाढ्म् आकृष्य, रुचिरम् इति पुनर् उक्तिस् तस्योत्कृष्टत्व-बोधनाय । यद् वा, रुचिरं यथा स्यात्, तावाद्भिः षभिर् युगपत् तत्रापि पृथक् पृथ्कत्वेन विव्याध, यत् वीरो युद्ध-समर्थः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विस्फूर्ज्येति युगमकम् । गाढम् आकृष्य रुच्रं यथा स्यात् तावद्भिः षड्भ्ःइ पृथक् प्रत्येकं तत्रापि युगपत् अभितः अपूजयन् शश्लाघिरे ॥९-१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.१० ॥

चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् ।

रथिनश् च महेष्व्-आसांस् तस्य तत् तेऽभ्यपूजयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् षट्-सङ्ख्याक-बाणैस् ताडनम् । तस्य साम्बस्य । तत्-कर्म युगपत्-ताडन-रूपम् । ते कर्णालयः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महेष्वासा इति महा-वीरत्वम् उक्तम्, अतो\ऽभितो\ऽपूजयन्, साधु साध्विति शश्नाधिर इत्य् अर्थः । महा-वीराणाम् अन्य-वीर्य-विशेष-दर्शनेन प्रहर्षोदयात् । यद् वा, च अपि, महेष्वासा अप्य् अभ्यपूजयन्, आत्मनो महा-रथादि-सद्भावे\ऽपि तादृश-शक्त्य् अभावाद् इत्य् अर्थ ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्भिश् चतुर इत्य् अत्र वीप्सा\ऽनुसन्धेया तत्-कर्म ते सम्मानितवन्तः ॥१०-११॥


॥ १०.६८.११ ॥

तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् ।

एकस् तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं साम्बम् । ते कर्णादयः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथञ्चक्रुः ? तदाह—चत्वार इति पादाभ्याम्, एकः कर्णः, अन्यो भीष्मः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं चक्रुस् तद् आह—चत्वार इति पदाभ्याम् एकः कणः अन्यो भीष्मः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.१२ ॥

तं बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवो युधि ।

कुमारं स्वस्य कन्यां च स्व-पुरं जयिनोऽविशन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्य दुर्योधनस्य कन्यां च नीत्वेति ॥१२-१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं साम्बम् । जयिनो जेतुकामा न तु लब्धजयाः । कुमारम् इति—प्रौढैर् वृद्धैर् बहुभिश् च वलस्यैकस्य बन्धनादिकम् अन्याय्यम् इति भावः । गृहीत्वेति शेषः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : युधि कृच्छ्रेणैव विरथी-कृत्येत्य् उक्त-पोष-ण्यायात्, विरथी-कृत्यैव पश्चाद् बद्ध्वा, अन्यथा तत्राशक्तिर् इति भावः । कन्यां आदाय इति शेषः । कुमारम् इति प्रौढेर् वृद्धैश् च बहु-बलिर् बालकस्यैकस्य बन्धनादिकम् अन्यायम् इति भावः, जयिना सन्तः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विरथीकृत्य पश्चाद्-वद्ध्वा अन्यथा तत्राशक्तेः कन्याञ्चादायेतिशेषः । कुमारम् इति । प्रौढेर् वृद्धैर् बहुभिश् च बालकास्यैकस्य बन्धनादिकम् अन्याय्यम् इति भावः । जयिनः सन्तः अचिन्त्यार्भ इत्य् उक्तत्वादेतद् अपि श्रीमद् अनिरुद्धवच्-छ्री-भगवल्-लीला-विशेषेच्छैव जातम् इति भावः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुमारं कन्यां च गृहीत्वा इति शेषः ॥१२-१३॥


॥ १०.६८.१३ ॥

तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जात-मन्यवः ।

कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेन-प्रचोदिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् साम्ब-बन्धनम् ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नारदेनोक्तं यद्-वृत्तं तेन । किं वा, उक्त-मुक्तिस् तेन द्वारेण, तत् साम्ब-बन्धनादिकं श्रुत्वा, उग्रसेनेनैव, न तु श्री-कृष्णेन, अग्रजाभिप्रायज्ञानात् उग्रसेन-प्रतिष्टार्थं वा, प्रकृष्टेन चोदिता यादवाः । अत एवाग्रे श्री-बलदेवो वक्ष्यति—उग्रसेन इत्य्-आदि । हे राजन् इति प्रहर्षात् । किं वा, राज्ञां स्वभावो\ऽयं भवता ज्ञायत एवेति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नारदेनोक्ताम् उक्तिहिस् तेन तद्-वारेण उग्रसेनेनैव चोदिता यादवाः न तु श्री-कृष्णेन परमात्मीये ज्येष्ठे च भवद्-वन्धु-वृन्दे सक्ति स्वयं स्व-पुत्राद्य् अर्थम् उद्यमस्यानर्हत्वात् अग्रजाभिप्रायज्ञानात् उग्रसेने दत्त-राज्य-सम्माननत्वाच् च ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.१४ ॥

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् ।

नैच्छत् कुरूणां वृष्णीनां कलिं कलि-मलापहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतः कलिं नैच्छेदतः सान्त्वयित्वा जगामेति ॥१४-१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्नद्धान् युद्धार्थे परिणद्ध-कवचान् । कुरूणां वृष्णीनाम् इति । श्री-रोहिणी-कुन्त्यादि-सम्बन्धेनैक्यता प्राप्तत्वाद् इति भावः । कलेर् दुर्योधनस्य मलम् भिमानम् अपहन्ति तन्-मात्रं दूरीकरोति न तु तम् अपि हन्तुम् इच्छति करुण-स्वभावत्वाद् इति-भावः । युग्मान्वयः । उग्रसेनेति श्री-कृष्णेन न तु प्रेरिताः परमात्मीये ज्येष्ठे बन्धु-वृन्दे सति स्व-पुत्रार्थोद्यमानहत्वात् ॥१४-१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वृष्णि-पुङ्गवान् उग्रसेनादीन्, कलिं कलहं नैच्छत्, यतः कलहादि-कलि-काल-दोषापह इति शिष्यत्वापेक्षया दुर्योधनस्य स्नेहेन गमनं परिहतम् । एवं कुरु-वृष्णिकुलयो रमणाद्-रामः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सान्त्वयित्वेति युग्मकम् । कुरूणां वृष्णीनाम् इति श्री-रोहिणी-कुन्त्यादि-सम्बन्धेनैकता प्रातत्वाद् इति-भावः । कलिं कलहं नैच्छत् यतः सामान्यतोऽपि कलहादि-कलिकाल-दोषापहः यद् वा, कलेर् दुर्योधनस्य मलम् अभिमानादिकम् अपहन्ति तन्-मात्रं दूरीकरोति न तु तम् अपि हन्तुम् इच्छतीति तथा करुण-स्वभावत्वाद् इति भावः । एवं भगवद्-भागवत-द्वेष-दोषस्य स्वेनापि दुरुन्मूलत्वं दर्शितम् इति च ॥१४-१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सान्त्वयित्वा जगामेत्य् अन्वयः यतो नैच्छद् इत्य्-आदि ॥१४-१५॥


॥ १०.६८.१५ ॥

जगाम हास्तिनपुरं रथेनादित्य-वर्चसा ।

ब्राह्मणैः कुल-वृद्धैश् च वृतश् चन्द्र इव ग्रहैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः, श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदित्य-वर्चसेति रविवच्-छीघ्रगतित्वम्, तेन सद्य एव गमनञ् च सूचयति—ब्राह्मणादिभिर् वृत इति । दुर्बुद्धीनां प्रबोधनार्थम्, तथा निज-युयुत्साहित्य-द्योतनार्थञ् च ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.१६ ॥

गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः ।

उद्धवं प्रेषयाम् आस धृतराष्ट्रं बुभुत्सया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धृतराष्ट्रं प्रति बुभुत्सयेति अभिप्राय-जिज्ञासयेत्य् अर्थः ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बुभुत्सया बोधयितुम् इच्छया । अन्तर्भावितण्यर्थोयम् । तद् अभिप्राय-जिज्ञासया दुर्योधनादीनां दुर्बुद्धेर् अपि धृतराष्ट्र-मूलकत्वात् ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धृतराष्ट्रम् इति दुर्योधनादीनां दुर्बुद्धे स्तन्-मूलकत्वात् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धृतराष्ट्रम् इति । राजत्वात् दुर्योधनादीनां दुर्बुद्धेस् तन्-मूलकत्वाच् च ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुभुत्सया तद् अभिप्राय-जिज्ञासया ॥१६॥


॥ १०.६८.१७ ॥

सोऽभिवन्द्याम्बिका-पुत्रं भीष्मं द्रोणं च बाह्लिकम् ।

दुर्योधनं च विधि-वद् रामम् आगतम् अब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विधिवद् अभिवन्द्य ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स उद्धवः । युधिष्ठिरादीनाम् अभिवादने\ऽनुक्तिस्तु तेषां तदेन्द्रप्रस्थे\ऽवस्थानात् ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव प्राक् तम् अभिवन्द्य, एपाम् एवाभिवन्दनादिकं कुरुषु मुख्यत्वात्, श्री-युधिरादीनां चानुक्तिस्तदानीं तेषाम् इन्द्रप्रस्थे निवासात्, साम्ब-बन्धने च साहाय्याद्य् अभावात् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभिवादने श्री-युधिष्ठिरादीनाम् अनुक्तिस् तदानीम् इन्द्रप्रस्थ-वासात् दुर्योधनं चेति च-कारो निष्कर्षे स च तस्यानर्हत्वेऽपि लोक-रीतीवैवेदं बहिर् अभिवन्दनम् इति बोधयति अन्तस्तु तद्-विधशास्तृ-सर्वान्तर्यामित्वदृष्टैवेति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सो\ऽभिवन्द्य ॥१७-२३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युधिष्ठिरादीनाम् अभिवादने\ऽनुल्लेखस् तदानीं तेषाम् इन्द्रप्रस्थे\ऽवस्थानात् ॥१७॥


॥ १०.६८.१८ ॥

तेऽति-प्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्तमम् ।

तम् अर्चयित्वाभिययुः सर्वे मङ्गल-पाणयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् उद्धवम् अर्चयित्वा सत्कृत्य । मङ्गल-पाणय उपायन-हस्ताः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते भीष्मादयः । सुहृत्तमम् इति—सुहृदो यादवाः, सुहृत्तराः श्री-वसुदेवादयः, तेष्व् अपि पौरव्याः श्री-रोहिण्याः पुत्रत्वेन सुहृत्तमम् । यद् वा, दुर्योधनं प्रति गदा-विद्याप्रदत्वे न पूज्यं बलरामम् । तम् उद्धवम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुहृदो यादवाः, सुहृत्तराः श्री-वसुदेवादयः, तेष्व् अपि पौरव्याः श्री-रोहिण्याः पुत्रत्वेन सुहृत्तमम् यद् वा, परमोपकारिणं दुर्योधनं प्रति गदा-युद्धादि-शिक्षणात्, अतः प्रीताः, पाठान्तरे\ऽपि स एवार्थः । सर्व इति प्रत्येकं सर्वेषां मङ्गल-पाणित्वादिकं बोधयति ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुहृदो यादवाः सुहृत्तराः श्री-वसुदेवादयः तेष्व् अपि पौरव्याः श्री-रोहिण्याः पुत्रत्वेन सुहृत्तमं यद् वा, परमोपकारिणं दुर्योधनं प्रति गदादि-शिक्षणात् अतो\ऽतिप्रीताः यद् वा, साम्ब-मोचनार्थम् अस्मान् अनुनेतुं प्राप्तम् इत्य् अभिप्रेत्यातिप्रीताः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् अद्धवं सत्कृत्य ॥१८॥


॥ १०.६८.१९ ॥

तं सङ्गम्य यथा-न्यायं गाम् अर्घ्यं च न्यवेदयन् ।

तेषां ये तत्-प्रभाव-ज्ञाः प्रणेमुः शिरसा बलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वृद्धा अपि प्रणेमुः ॥१९-२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रामम् । तेषां मध्ये ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथान्याम् इति धृतराष्ट्रादयः साशिर्वादालिङ्गनादिना दुर्योधनादयश् च प्रणामादिना सङ्गम्येत्य् अर्थः । ये श्री-भीष्मादयः, शिरसेति भूमिस्पर्शने\ऽति-भक्तिर् उक्ता ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : थे श्री-भीष्मादयः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां मध्ये ये भीष्मादयस् ते प्रणेमुः ॥१९॥


॥ १०.६८.२० ॥

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् ।

परस्परम् अथो रामो बभाषेऽविक्लवं वचः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ कुशल-प्रश्नोत्तरम् ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शिवं क्षेमम्, अनामयं चारोग्यम्, परस्परं पृष्ट्वा, अघोतत्-प्रश्नानन्तरम् एव, अविक्लवं स्पष्टाक्षरमदैन्यं बा, निर्भयत्वात् ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रुत्वेत्य् अत्र हेतुः, शिवं क्षेमम् अनामयं चारोग्यं परस्परञ् च पृष्ट्वेति तद् एवं [दृ] पृष्ट्वा श्रुत्वा स्थितेष्व् इति शेषः । अथो तत्-प्रश्नानन्तम् एव अविक्लवं निर्भयम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परस्परं श्रुत्वा पृष्ट्वा स्थितेषु तेष्व् इति शेषः ॥२०॥


॥ १०.६८.२१ ॥

उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः ।

तद् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षितीशेशो राजाधि-राजः । क्षितीशा यूयं तेषाम् ईशो राजा ! तत्र हेतुः—प्रभुः । सुधर्मा-पारिजाताद्य् उपायन-समर्पका इन्द्रादयो यद् आज्ञाकारिणस् तत्र यूयं के वराका इति ययातिना यदूनां राजत्व-मात्रं निषिद्धं न तु राजेशत्वम् इति भावः । अव्यधियः सन्त इत्य् अन्यथा स युष्मान् दण्डयिष्यतीति भावः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आज्ञापन-योग्यताम् आह—क्षितीशानां राज्ञाम् ईशः सम्राडित्य् अर्थः । यतः प्रभुर् यादवानाम् अस्माकम् ईश्वरः । यद् वा, अत एव सर्वेषां प्रभुः, अव्यग्रधियः सावधानाः सन्तः, ईदृश्य् उक्तिश् च तेषां राजत्वाभिमान-नाशनार्थम्, तथा प्रकोपनाय च । तच् च स्व-विक्रम-प्रदर्शनाय, तद् अपि कृपया दुर्बुद्धीनां सद्-बुद्ध्य्-अर्थम् इति, तत्-त्व् अग्रे व्यक्त भावि ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आज्ञापन-योग्यत्वम् आह—क्षितीशेशः तत्र हेतुः प्रभुः महेन्द्रादीनाम् अप्य् आज्ञापकः इति राजत्व-मात्र ययातिना निषिद्धं न तु राजेशत्वम् इति न्यायाच् च दर्शितः अव्यग्रधियः सावधानास् सन्तः यद् वा, तेन साम्नैवादिष्टम् इति तत्रान्यथा शङ्कया भयम् अकुर्वाणाइत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षितीशा यूथं युष्माकम् अपीशो राजा तत्र हेतुः प्रभुः सुधर्मा-पारिजाताद्य् उपायन-समर्पका महेन्द्रादयोऽपि यस्याज्ञाकारिणस् तत्र के यूयं वराका इति ययातिना यदूनां राजत्व-मात्रं निषिद्धं न तु राजेशत्वम् इति भावः । अव्यग्रधियः सन्त इत्य् अन्यथा स युष्मान् दण्डयिष्यतीति भावः ॥२१॥


॥ १०.६८.२२ ॥

यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् ।

अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्य-काम्यया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यूयम् इत्य् उग्रसेन-वाक्यम् । मृष्ये सहे । अथाशु तम् आनीय समर्पयत इति शेषः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धार्मिकम् इति क्षत्रिय-धर्मे स्वयंवरे कन्या-हरण-रूपे स्थितम् ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधर्मेण इति । बहूनाम् एकेन सह युद्धात्, धार्मिकम् इति स्वयंवरे कन्या-हरणस्य क्षत्रिय-धर्मत्वाद् अनपराधिनम् अपीत्य् अर्थः । यद् वा, बहुभिर् एकस्य युद्धे कदाचिद् वैमुख्यम् अपि सम्भवेत्, तद्-अभावाद् आभिमुख्य-परम् इति । अथ माङ्गल्ये ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधर्मेण इति छेदः । अथ कार्त्स्न्ये । ऐक्यम् अभेदः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यूयम् इत्य् उग्रसेनस्य वाक्यम् । अधर्मेण जित्वा इति तन् मृष्ये सहे तस्माद् आशु तम् आनीय समर्पय इति वाक्य-शेषस्याप्रयोगस् तेषां तावन्-मात्र-श्रवणेनापि दुर्वचने प्रवृत्तत्वात् ॥२२॥


॥ १०.६८.२३ ॥

वीर्य-शौर्य-बलोन्नद्धम् आत्म-शक्ति-समं वचः ।

कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वीर्यं प्रभावः शौर्यम् उत्साहो बलं सत्त्वं तैरुनद्धम् उच्छृखलम् । कथम् । आत्मनः शक्तेः समम् अनुरूपम् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुरवो दुर्योधनादयः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीर्यादिभिर् मन इन्द्रिय-देह-शक्तिभिर् उच्चैर् नद्धं बद्धं ग्रथितम्, तत्र हेतुः—आत्मेति ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्य वाक्य-विशेषाकथनं च तेषां तावन्-मात्र-श्रवणेनैव दुर्वचने प्रवृत्तत्वात् प्रकर्षेण कोपिता स्तद्-वचसैव ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीर्यं प्रभावः शौर्यम् उत्साहः बलं च तैर् अन्नद्धम् उच्छ्रितम् । आत्मनः शक्तेर् अनुरूपं समम् । प्रकोपिता अर्थाद् वचसैव ॥२३॥


॥ १०.६८.२४ ॥

अहो महच् चित्रम् इदं काल-गत्या दुरत्यया ।

आरुरुक्षत्य् उपानद् वै शिरो मुकुट-सेवितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपानत् पाद-रक्षा शिर आरोढुम् इच्छति इति हीना अस्मान् आज्ञापयन्तीत्य् अर्थः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : “दुरतया” इति पाठः सम्यक् । “दुरत्यया” इति पाठे तृतीयार्थे प्रथमा आर्षत्वात्, दुरत्यययेत्य् अर्थः । यद् वा, औणादिक-क-प्रत्यय एतेर् बोध्यः । तथा चात्येतीत्य् अत्यो नाशः, दुर्गतो\ऽत्यो यस्याः सा दुरत्या, तया । पादौ रक्षतीति पादरक्षाइत्य् अर्थ इति सर्वथास्मद् अतुल्याः स्वाधिक्य-वर्णनेन निर्लज्जा इति भावः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो विस्मये । कालस्य गत्या गतिः, दूरत्यया दुर्लङ्घ्यया, कदाचिद् असम्भाव्यस्याप्य् उद्भवात्, तत्राहुः—आरुरुक्षतीतिवै अपि, मुकुटेन सेवितम् अपि ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो विस्मये न च चित्रम् इत्य् आहुः—कालस्य गत्या गतिः सो-स्थाने टादेशः छान्दसः । दुरत्यया दुर्लङ्घ्यया कदाचिद् असम्भवोदयात् । तद् एव दर्शयति—आरुरुक्षति इति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गत्या गतिः । सौ टादेशश् छान्दसः ॥२४-२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-गत्या काल-गतिः उपानत् चर्म-पादुकापि शिरः, तच् चापि मुकुट-युक्तम् ॥२४॥


॥ १०.६८.२५ ॥

एते यौनेन सम्बद्धाः सह-शय्यासनाशनैः ।

वृष्णयस् तुल्यतां नीता अस्मद्-दत्त-नृपासनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्यैव प्रपञ्च एत इति चतुर्भिः । यौनेन पृथाया विवाहेन ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एते यदवः । ततः किं तत्राह—सहेत्य् आदि ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एत इति साक्षाद्-वर्तमान-श्री-बलदेवोद्देशेन । किं वा, अतिदीना इत्य् अर्थः । सम्बन्धाः सम्बन्धं प्राप्ताः, अतः सह समाना एकत्र वा शय्यादयो येषां ते । किं च, अस्माभिर्दतं नपासनं येभ्यस्ते, अराजत्वेन तेषां तद् अभावात् । एवम् आत्म-तुल्यतां प्रापिताः ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एत इति । साक्षाद्-बलदेवोद्देशेन सम्बद्धाः सम्बन्धं प्रापिताः अतः सह एकत्र शय्यादयो येषां ते ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एते यौनेन पृथा-विवाहेनेति श्यालक-भावो व्यञ्जितः ॥२५॥


॥ १०.६८.२६ ॥

चामर-व्यजने शङ्खम् आतपत्रं च पाण्डुरम् ।

किरीटम् आसनं शय्यां भुञ्जतेऽस्मद्-उपेक्षया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किञ् च । चामर-व्यजने इति । भुञ्जत्य् उपभुञ्जत इत्य् अर्थः । अस्मद् अपेक्षयास्माकम् अनाग्रहेण ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं सिंहासनादिभिर् एते मानिता अपि तु राजा-चिह्नैर् अपीत्य् आह—किं चेति । इत्य् अर्थ इति भञ्जन्तीति परस्मै-पदम् आर्षम् भुजो\ऽनवने इत्य् आत्मने-पद-विधानाद् इति भावः । तीर्थस्तु—भुञ्जन्ति भजन्ति अन्योपद्रवमन्तरेण रक्षन्तीति पालनार्थम् अभिप्रेत्य परस्मैपदम् एवोचितम् इत्य् आह । अनाग्रहेणौदासीन्येन ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव चामरादीनि राजार्हद्रव्याणि भुञ्जते, चामरे एव व्यजने, न चायोग्यत्वेनास्माभिस् तेष्व् आच्छिद्यमानेषु सत्सु भोक्तुं शक्नुवन्तीत्य् आहुः—अस्मद् इति ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चामरे एव व्यजने ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भुञ्जन्ति अस्माकम् उपेक्षयेति अपेक्षा-लक्षण अनादर एवास्थि । हीन-कुलत्वेनादृतत्वाद् एतद् औद्धत्यं वयम् उपेक्षामहे इति भावः ॥२६॥


॥ १०.६८.२७ ॥

अलं यदूनां नरदेव-लाञ्छनैर्

दातुः प्रतीपैः फणिनाम् इवामृतम् ।

अयेऽस्मत्-प्रसादोपचिता हि यादवा

आज्यापयन्त्य् अद्य गत-त्रपा बत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अलम् इति । अतः परं तान्य् अपहरिष्याम इत्य् अर्थः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नेते राज-चिह्नार्ह इत्य् आह—अलम् इति । अतः परम् अद्यतनात्-परम् । इत्य् अर्थ इति—मूषिक-सिंह-न्यायेन पूर्व-सदृशान्-करिष्याम अर्थान्-नृप-चिहान्येतेभ्य उत्तारयिष्याम इति भावः । दातुर् अस्मद्-वंशस्य । प्रतीपौविरोधिभिः । दृष्टान्तः—सर्प-दत्तम् अमृतोपलक्षितं दुग्धादि-रसं यथा विषात्मना परिणतं दातुर् एव सर्पस्योपकाराग्रहीतृत्वाद्-दंशन-द्वारा मृति-प्रदं तथैतान्यपीत्य् अर्थः । बत खेदे ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दातॄणाम् अस्माकं प्रतीपैः प्रति-कूलैः सद्-द्रव्य-दानेन हितयोग्ये\ऽपि । प्रतिकूलतायां दृष्टान्तः—क्षणिनाम् इति । अमृतं क्षीरम्, नो\ऽस्माकं प्रसादेनानुग्रहेणैवोपचिता वृद्धिं प्राप्ताः, हि अपि, यादवा, अपि । अधेति प्राक् कदाप्य् अज्ञापनाद्-गतत्रपाः, अनाज्ञाप्य् एषु अप्याज्ञापनात्, बत खेदे, अतो बिज्ञापयन्तीत्य् एवं वक्तुम् अर्हन्तीति भावः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दातॄणाम् अस्माकं प्रतीपैः प्रतिकूलैः अमृतं क्षीरं तैर् इत्य् अर्थः भिसः सुभावोऽपि छान्दसः नो\ऽस्माकं प्रसादेनानुग्रहेणैवोपचितां वृद्धिं प्राप्ताः हि प्रसिद्धौ ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अमृतं क्षीरम्, तैर् इत्य् अर्थः ॥२७-५४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः परम् एषाम् अपराधोपेक्षानुचितैवेत्य् आह अलम् इति । तेनैतेभ्यो नृपालाञ्छनान्य् उत्तारयिष्याम इति भावः ॥२७॥


॥ १०.६८.२८ ॥

कथम् इन्द्रोऽपि कुरुभिर् भीष्म-द्रोणार्जुनादिभिः ।

अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इवोरणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवरुधीत स्वीकुर्यात् । उरणो मेषः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अदत्तम् अप्रत्तम् । अस्माकम् इन्द्रो\ऽनुकूलो\ऽस्तीति यद् अहं कुरुध्वे तत्रापि रे यदवः शृणुध्वम् इत्य् आह—कथम् इति । अवरुन्धीत ग्रहीतुं शक्नुयात् । उरण इति—यदीन्द्रम् अपि मेषम् इव पश्यामस् तत्र यूयं के इति भावः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, अवश्य-देयायाः कन्यायाः क्षत्रियत्वेन हरणात् कथम् एतावत् वैरस्यम् उत्थाप्यते ? सत्यम्, अस्माकम् असम्मत्या बलाद् धरणान् मान-हानिः स्याद् इत्य् आशयेन । यद् वा, न चास्माभिर् अदोयमानं न ते किञ्चिद् भोक्तुं शक्नुवन्तीत्य् आहुः—कथम् इति । आदि-शब्दात् कर्णादयस् तैः, अर्जुनस्य साहित्याभावे\ऽपि ग्रहणं ज्ञातित्वेनैक्यात् । किं वा, तेनाभिन्नतयात्मनो गौरबार्थम् ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथम् अपि तैर् अर्जुनस्य साहित्याभावे\ऽपि ग्रहणम् आत्मनो गौरवार्थम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्माकम् इन्द्रः खल्व् अनुकुलोऽस्तीति यद् अहं कुरुध्वे तथापि रे यदवः शृणुध्वम् इत्य् आह कथम् इति । अवरुन्धीति ग्रहीतुं शक्नुयात् । उरणो मेष इति यत्रेन्द्रम् अपि मेषम् इव पश्यामस् तत्र यूयं के इति भावः ॥२८॥


॥ १०.६८.२९ ॥

श्री-बादरायणिर् उवाच—

जन्म-बन्धु-श्रियोन्नद्ध-मदास् ते भरतर्षभ ।

आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्मना बन्धुभिश् चोपलक्षितया श्रिया उन्नद्ध उत्कटो मदो येषां ते । दुर्वाच्यं परुषं वाक्यम् । असभ्या दुर्जनाः ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [मूलः प्रतिलिप्यां टीकां नास्त्येव।[२९-३०-३१-३२] श्लोकाः]{।मर्क्}


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः)। विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी): न व्याख्यातम्।


॥ १०.६८.३० ॥

दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।

अवोचत् कोप-संरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : []{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : []{।मर्क्}


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एते इयद् वा वदन्ति कियद् वा कुर्वन्ति तद् वदं तु कुर्वन्त्व् इत्य् अपेक्षयैव तदानीं तूष्णीम् आसीत् । गतेषु तेषु पौरलोकेषु तु स्थितेषु स्व-समुचितं वक्तुं कर्तुं च कोपम् आव्श्चकारेत्य् आह दृष्ट्वेति । क्रोध-संरब्धः कोपाविष्टः ॥३०॥


॥ १०.६८.३१ ॥

नूनं नाना-मदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः ।

तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाना-धनाभिजनादि-मदैर् उन्नधास् तेषां दण्ड एव प्रथमः प्रकर्षेण शमयतीति तथा । यथा लगुडो दण्डः ॥३१-३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : []{।मर्क्}


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाना-धनादि-मदैर् उन्नद्धाः दण्ड एव नाना-मदान् प्रशमयतीति प्रशमः । न तु सामादिर् उपाय इत्य् अर्थः ॥३१-३२॥


॥ १०.६८.३२ ॥

अहो यदून् सु-संरब्धान् कृष्णं च कुपितं शनैः ।

सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : []{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : []{।मर्क्}


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : []{।मर्क्}


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : [+++]{।मर्क्}


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.३३ ॥

त इमे मन्द-मतयः कलहाभिरताः खलाः ।

तं माम् अवज्ञाय मुहुर् दुर्भाषान् मानिनोऽब्रुवन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्माषान् अवाच्य-शब्दान् ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मानिनः श्री-मदान्धाः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते मया चिकीर्षित-शमा इमे मन्द-मतयः कुबुद्धयः, यतः कल-हे\ऽभितो स्ताः, यतः खला दुष्टाः । खलत्वम् एव दर्शयति—ये माम् इति । मानिनः सगर्वाः सन्तः । यद् वा, इमे तु ये ते सर्व एवेत्य् अर्थः । अन्यत् समानम् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते मया चिकीर्षितसमाः मन्दमतित्वादिकम् एव दर्शयति—येमाम् इति तं माम् इति कचित् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं प्रसिद्धम् एतेषां हितकारिणम् अपि माम् ॥३३॥


॥ १०.६८.३४ ॥

नोग्रसेनः किल विभुर् भोज-वृष्ण्य्-अन्धकेश्वरः ।

शक्रादयो लोक-पाला यस्यादेशानुवर्तिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्भाषणम् अनुस्मरति षड्भिः, नोग्रसेन इति । विभुर् आज्ञापयितुं समर्थः ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न विभुः, अपि तु विभुर् एव । यस्योग्रसेनस्य ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, त्वम् अप्य् अवाच्यम् अवोच इति चेत्-तत्राह—नेति, किल किम् ? अपि तु विधुरेवेत्य् अर्थः । यद् वा, उग्रसेनः किल न विभुर् इति क्रोधावेशोक्तिः, यतो भोजादीनां सर्वेषाम् एव यादवानाम् ईश्वरा । किं च, शक्रति ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, त्वम् अप्य् अयुक्तम् एवावोचत इति चेत्-तत्राह—नेति । किल किम् अर्थै अनृते वा अपि तु विभुर् एवेत्य् अर्थः । यद् वा, उग्रसेनः किल निश्चयेन विभुर् इति विरोध-लक्षणया ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्भाषणान्यम् अनुस्मरति षड्भि—नोग्रसेन इति ॥३४॥


॥ १०.६८.३५ ॥

सुधर्माक्रम्यते येन पारिजातोऽमराङ्घ्रिपः ।

आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो धृष्टा श्री-कृष्णम् अप्य् अधिक्षिपन्तीति कुपित आह—सु-धर्मेत्य् आदिभिस् त्रिभिः ॥३५-३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलं यदूनाम् इत्य् उक्त्या कृष्णस्य यादवत्वेन तम् अप्य् आक्षिपन्तीति कुपित आह—सुधर्मेत्य् आदि-त्रिभिः येन कृष्णेन । सो\ऽसौ कृष्णः ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि स्व-पूर्व-पुरुष-श्रेष्ठययातिशापापेक्ष या नृपासनादिकं किल यादवा नाहन्तु, साक्षाद्-भगवान् श्री-कृष्णो नार्हत्वेव, तम् अपि तत्राविविच्योचुर् इति सक्रोधम् आह—सुधम्र्मेति द्वाभ्याम् । अमराणाम् अङ्घ्रिप इति मनुष्याभोग्यत्वं तथा तद् अर्थम् इन्द्रादि-देव-निर्जयादिकञ् च सूचयति । सो\ऽनिर्वचनीयेश्वर्यः, नृपस्याध्यासनं सिंहासनम् अर्हतीति तथा सः पाठान्तरे किलेति पाठे अध्यासनं किल, अपि असाव् अपि । यद् वा, उपहासे, एवम् अग्रे\ऽपि ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : टीकायां कृष्णम् अप्य् आक्षिप्तवन्त इत्य् अत्र समुदायोक्तेर् इति भावः । श्रमराणाम् अङ्घ्रिय इति मनुष्याभोग्यत्वं तथा तद् अर्थम् इन्द्रादि-देव-निर्जयादिकञ् च सूचितं न अध्यासनं सिंहासनम् अर्हतीति तथा सः किल शिरश्चालने उपहासे वा किं तु सुतराम् एव तद् अर्हण इति यद् वा, किल निश्चये तादृशो\ऽसौ तदति तुच्छ नार्हत्य् एवेत्य् अर्थः । एवम् अग्रेऽपि ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो धृष्टाः अलं यदुनाम् इत्य् उक्त्या कृष्णम् अप्य् आक्षिपन्तीति कुपित आह—सुधर्मेत्य् आदिभिस्त्रिभिः अध्यासनं नृप-सिंहासनं तद् अपि नार्हति ॥३५-३६॥


॥ १०.६८.३६ ॥

यस्य पाद-युगं साक्षाच् छ्रीर् उपास्तेऽखिलेश्वरी ।

स नार्हति किल श्रीशो नरदेव-परिच्छदान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य कृष्णस्य अर्हति तादृशो\ऽसौ तदति तुच्छं नार्हत्येवेत्य् अर्थं एवम् अग्रेऽपि ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिलानां श्री-ब्रह्मादीनाम् ईश्वरो सेव्यापि साक्षात् स्वयम् उपास्ते । यद् वा, रुक्मिणी-रूपेण-साक्षाद्-भूता, श्रीशः लक्ष्मीपतिर् अपि, किम् वा, भक्तभ्यो\ऽखिल-विभूति-प्रदान-समर्थो\ऽपि, नर-देवस्य राज्ञः परिच्छदान् चामरादीन् ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो कियद् वा, तावन्-माहात्म्यं यतो यस्येति साक्षाच्-छ्रीः स्वरूप-शक्ति-रूपा वैकुण्ठेश्वरी यद् वा, ततोऽपि पूर्णाविर्भावा रुक्मिणी-रूपा अत एवाखिलानां मत्-पर्यन्तानाम् ईश्वरी तत्र वा का वराकी माया-वृत्ति-रूपा स्वर्गादिश्री-र् इत्य् अर्थः । श्रीश इति पुनर् अनुवादस् तद्-दार्ढ्यार्थ्ः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.३७-३८॥

यस्याङ्घ्रि-पङ्कज-रजोऽखिल-लोक-पालैर्

मौल्य्-उत्तमैर् धृतम् उपासित-तीर्थ-तीर्थम् ।

ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः

श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व ॥

भुञ्जते कुरुभिर् दत्तं भू-खण्डं वृष्णयः किल ।

उपानहः किल वयं स्वयं तु कुरवः शिरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मौल्य्-उत्तमैर् मौलि-युक्तैर् उत्तमाङ्गैः, उत्तमैर् मौलिभिर् इति वा । उपासितानि तीर्थानि यैर् योगिभिस् तेषाम् अपि तीर्थम् ॥ यद् वा, उपासितं सर्वैः सेवितं तीर्थं गङ्गा तस्यास् तीर्थं तीर्थत्व-निमित्तम् । किं च, ब्रह्मा भवः श्रीश् चाहम् अपि उद्वहेम । कथं भूता वयम् ? यस्य कलाया अंशस्य कला अंशाः ॥३७-३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एक-देश-न्यायाश्रयणे गौरवं मत्वाह—उत्तमैर् इति । तीर्थानि शास्त्राणि गुरवो वा तीर्थं पावित्र्यापादकम् । सर्व-प्रसिद्धिम् आदाय—यद् वेति । तीर्थत्वं पवित्र-हेतुत्वम् । तस्य निमित्तं कारणं, भगवत्-पदोद्भूतत्वम् एव गङ्गायाः पावनत्वे हेतुर् इति भावः । न केवलं गङ्गोत्पत्ति-हेतुत्वाद् एव श्री-कृष्णस्याधिक्यम्, अपि तु ब्रह्माद्य्-उपास्यत्वाद् अपीत्य् आह—किं चेति । उद्वहेम शिरसि धारयामः । अस्य कृष्णस्य । कलायाः पुरुष-रूपायाः । ब्रह्मैव युष्मद्-विधानां स्रष्टा इन्द्रादिभ्योऽप्य् ऐश्वर्येणाधिकः, ततोऽपि भवस्, ततोऽप्य् अहं, तथास्मत्तः सर्वेभ्योऽप्य् अधिका श्रीः स्वरूप-भूता शक्तिः उत्कर्षेण धारयामः । अस्य नृपासनं क्व ? किं तेभ्यः सकाशाद् भिक्षित्वैव तत्-कृपयैव लभ्यं स्याद् इति वक्रोक्तिः ॥३७॥

उपानहस् तद्वत् ताडन-शीलाः । शिरस् तद्वत् ताड्या इति ध्वनिः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्। न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उक्तम् एव क्रोध-भराद् पुनर् अप्य् अनुवदन्न् आह—यस्येति । अङ्घ्रि-पङ्कजस्य रज एकम् एव कथञ्चित् कुत्रापि प्राप्तम् अखिल-लोक-पालैर् इन्द्रादिभिः । एवं विभूति-प्रदत्वम् उक्त्वा मुक्ति-प्रदत्वं चाह—उपासितेति । भक्ति-प्रदत्वम् अप्य् आह—ब्रह्मेति । अहम् अधुनाग्रजत्वं प्राप्तोऽपि । ननु यूयं पुत्रत्वादिना तत्-तुल्या एव कुतो वहथ ? कलायाश् चिच्-छक्तेः कला अंशा नित्य-भृत्या इत्य् अर्थः । अस्य ईदृशस्य नृपासनं क्व ? अपि तु कुत्रापि नास्तीति क्रोधोपहासः ॥३७॥

ननु, श्री-भगवन्तम् उद्दिश्य नोक्तं, किन्त्व् अन्यान् एव यादवान् इति चेत् तथाप्य् अयुक्तम् इत्य् आह—भुञ्जत इति । दत्तम् एव किल, तत्रापि भू-खण्डं कतिपयान् देशान् । अहोऽस्माकम् अपि यादवत्वाद् अस्मान् अप्य् उद्दिश्योचुर् इति क्रोधोद्रेकेणाह—उपेति । एवं दुर्भाषणं यथोत्तरं श्रैष्ठ्यम् ऊह्यम्, तद्-अपेक्षया क्रोधोद्रेकेणैव वा तद्-उक्त-क्रमातिक्रमणं वा ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथाखिलानाम् अखिलैश्वर्यास् तस्याश् चोपास्यत्वं विशेषतो दर्शयन्न् आह—यस्येति । अङ्घ्रि-पङ्कजस्य रज इति जात्यैकत्व-विवक्षया यत् किञ्चिद् एकम् अपि रजः कथञ्चित् कुत्रचित् प्राप्तम् अस्य ईदृशस्य नृपासनं क्व ? अपि तु कुत्रापि नास्तीति क्रोधोपहासः । वस्तुतस् तु क्वेत्य् अतिनिकृष्ट एव पद इत्य् अर्थः ॥३७॥

ननु, श्री-भगवन्तम् उद्दिश्य नोक्तं, किन्त्व् अन्यान् एव यादवान् इत्य् आशङ्क्यापि सोपहासम् आह—भुञ्जत इति । दत्तम् एव तत्रापि भू-खण्डं कतिपयान् एव देशान् अहोऽस्माकम् अपि यादवत्वाद् अस्मान् अप्य् उद्दिश्योचुर् इति । पुनः सक्रोधोद्रेकम् आह—उपेति ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मौल्य्-उत्तमैर् मौल्य्-उत्तमेषु धृतम् उपासीत तीर्थाः योगीन्द्रास् तेषाम् अपि तीर्थ-रूपं किं च ब्रह्मैव युष्मद्-विधानां स्रष्टा इन्द्रादिभ्योऽप्य् ऐश्वर्येणाधिकः ततोऽपि भवस् ततोऽप्य् अहम् एवम् एते ब्रह्मादयो वयं यस्य कलाया एकस्या एव कलाः तथा अस्मत्तः सर्वेभ्योऽप्य् अधिक-श्रीः स्वरूप-भूता शक्तिर् उद्वहेम उत्कर्षेण वहामः । अस्य कृष्णस्य नृपासनं क्व किन्त्व् एतेभ्यः सकाशात् भिक्षित्वैव एतत्-कृपयैव लभ्यं स्याद् इति वक्रोक्तिः ॥३७-३८॥


॥ १०.६८.३९-४०॥

अहो ऐश्वर्य-मत्तानां मत्तानाम् इव मानिनाम् ।

असम्बद्धा गिरो रूक्षाः कः सहेतानुशासिता ॥

अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः ।

गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्-त्रयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्तानाम् इव मद्यादिना । रूक्षाः परुषाः । अनुशासिता स्वयं दण्ड-धरः सन् ॥३९-४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असम्बद्ध अयोग्याः । रूक्षाः शब्दतोऽर्थतश् च कर्कशाः । अनुशासिता दक्ण्ड-कर्तां मादृशः कः सहेत अन्यथानुशासितत्वहान्या सर्वेषाम् उच्छृङ्खलता स्यद् इति ॥३९॥

पालनार्थम् अवतीर्णत्वादि-वोपादानम् । लाङ्गलाग्रेण तद् इच्छया वर्धित-लाङ्गलाग्रेण विचकर्षा बलाज्-जलान्तिकमानिनाय । किं कर्तुं प्रहरिष्यन् प्रहर्तुं साम्बं विना सर्वम् एव नगरं खजलेनैवं प्रहृत्य बध्यताम् इति गङ्गा प्रत्यादेशात् ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ऐश्वर्येण मत्तानां हत-विचाराणाम्, अतो मानिनाम् अभिमानवताम्, अत एवासम्बद्धा अयोग्या दुष्टा वा । किं च, रूक्षाः कः सहेत, अपि तु न कश्चित् सहेत, अन्यथानुशासितृत्व-हान्या सर्वेषासुच्छृङ्खलतापत्तेर् इत्य् अर्थः ॥३९॥

अतो\ऽद्यैव करिष्यामीत्य् एतद् वदन्न् अमर्षितं क्रुद्धः सन् ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऐश्वर्येण मत्तानां हत-विचाराणाम् अतो मानिनाम् अभिमानिनाम् अत एवासम्बद्धा निरर्गला उन्मर्यादा इत्य् अर्थः । किं च, रूक्षाः शब्दतश् चार्थतश् च कर्कशाः अनुशासितेत्यन्यथानुशासितृत्वहान्या सर्वेषाम् अप्य् उच्छृङ्खलतापत्तिः स्याद् इति भावः ॥३९॥

अतो\ऽद्यैव करिष्यामि इत्य् एतद् वदन् अमर्षितः क्रुद्धस् सन् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं वक्रोक्त्या उपहस्य तत्त्वम् आह—सार्ध-पादाधिकेन श्लोकेन अहो इति । मत्तानां मदिरा-मत्तानाम् इव मानिनां गर्ववताम् । अनुशासिता स्वयं दण्ड-कर्ता सन् मादृशं खलु कः सहेत अन्यः सहतां नामेति भावः ॥३९-४०॥


॥ १०.६८.४१ ॥

लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम्

विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लाङ्गलाग्रेण दक्षिणतः प्राकार-मूले निस्वातेन । उद्विदार्य उत्पाट्य ॥४१-४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स रामः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गङ्गायां विचकर्ष बलाद् आनेतुम् आरभत । किम् अर्थम् ? प्रहरिष्यन् संहर्तुम् इय र्थः । किं वा, गङ्गायां प्रहरिष्यन् पातयिष्यन् निमज्जयितुम् इत्य् अर्थः । एवं तद् इच्छया लाङ्गलस्य दैर्घादिकं ज्ञेयम् ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गङ्गायां विचकर्ष बलाद् आनेतुम् आरभत किम् अर्थं प्रहरिष्यन् संहर्तुम् इत्य् अर्थः । किं वा गङ्गायां प्रहरिष्यन् प्रकर्षेण पातयिष्यन् निमयितुम् इत्य् अर्थः । एवं तद् इच्छया लाङ्गलस्य दैर्घ्यादिकं ज्ञेयम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लाङ्गलाग्रेण तद् इच्छया वर्धितस्य लाङ्गलस्याग्रेण दक्षिणतः प्राकार-मूले निखातेन उद्विदार्य उत्पाट्य विचकर्ष बलाज्-जलान्तिकमानिनाय किं कर्तुं प्रहरिष्यन् प्रहर्तुं साम्बं विना सर्वम् एव नगरं स्व-जलेनैव प्रहृत्य बघ्यताम् इति गङ्गां प्रतीत्यादेशात् निष्कौरवां पृथ्वीं करिष्य इति प्राक्-प्रतिज्ञातश् च सर्व-नगर-निमज्जने\ऽपि साम्बस्य न किम् अप्य् अमङ्गलम भविष्यद् इति ज्ञेयम् ॥४१॥


॥ १०.६८.४२ ॥

जल-यानम् इवाघूर्णां गङ्गायां नगरं प्रति ।

आकृष्यमाणम् आलोक्य कौरवा जात-सम्भ्रमाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जलयानम् उडुपम् । जात-सम्भ्रमा उत्पन्न-भयाः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदावाघूर्णत् सञ्चलन्, आघूर्णम् इति पाठे पाठान्तरे\ऽपि स एवार्थः । पश्चात् पतद् आलोका, यत आकृष्यमाणं तेन । यद् वा, तत्-कारणं तद् आकर्षणं बालोक्येत्य् अर्थः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जलेति युग्मकम् । आदावाघूर्णतीत्य् आघूर्णं पश्चात् पतद् आलोक्य तत्-पश्चाच्-चाकृष्यमाणं तेन जिजीविषव एवेति सर्वाभिमानो निरस्तः प्रभुम् इति परमेश्वर-बुध्या शरणं जग्मुर् इत्य् अर्थः । यद् वा, सर्वापराधक्षमासमर्थम् इति शरणे योग्यतोक्ता यद् वा, साम्बस्य विशेषणं प्रभु-भावेन पुरस्कृत्य एतच् च पुरीपतनेनैतयोर् अनिष्टं स्याद् इत्य् अभिप्राय-व्यञ्जनेन श्री-राम् अस्य प्रीतये प्राक् तद् अपेक्षित-समर्पणेन च श्री-राम् अस्य तु साम्बपतन-शङ्कानपेक्षा पुर्याकर्षणस्य भीषणता-मात्रतात्पर्येण ॥४२-४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जलयानम् उडुपम् इव आ समन्तात् घूर्णत इत्य् आघूर्ण जिजीविषव इत्य् अक्षराधिक्यं न दोषः नवाक्षरैकपादो वृत्त-भेदोस्तीति भाषा-वृत्ताव् उक्तः सलक्ष्मणं साम्बं पुरस्कृत्यति रामं सद्यः प्रसादयितुम् ॥४२-४५॥


॥ १०.६८.४३ ॥

तम् एव शरणं जग्मुः स-कुटुम्बा जिजीषवः ।

स-लक्ष्मणं पुरस्-कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जिजीविषव इत्य् अक्षराधिक्यं सोढव्यम् ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रामम् । सोढ्व्यमार्षत्वात् । यद् वा, शेषं गाथा इत्य् उक्तेर् गाथाख्यवृत्तम् इदम् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जिजीविषव एवेति सर्वाभिमानो निरस्तः, प्रभुम् इति परमेश्वर बुद्धया शरणं जग्मुर् इत्य् अर्थः । यद् वा, सर्वापराधक्षमा-समर्थ इति शरण-योग्यतोक्ता । यद् वा, साम्बस्य विशेषणं वा । प्रभु-भावेन पुरस्कृत्य, एतच् च पुरीपतनेनैव तयोर् अप्य् अनिष्टं स्याद् इत्य् अभिप्रायेण । यद् वा, श्री-रामस्थ प्रीतये प्राक् तद् अपेक्षित समर्पणार्थम् उपायनवद् इति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.४४ ॥

राम रामाखिलाधार प्रभावं न विदाम ते ।

मूढानां नः कु-बुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मूढानां प्रभावान् अभिज्ञानाम् । अतिक्रमम् अपराधम् ॥४४-४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिक्रमम् अपराधम् । कथं शरणं जग्मुस् तद् आह—रामेति । हे जगत्-सुखप्रद वीप्सातिभयात् । ननु, भक्तान् एव रमथामि न त्वन्यान् इति चेत्सत्यन्, तथापि जगतस् त्वम् एव गतिर् न त्व् अन्यः को\ऽपीत्य् आहुः—हे अखिलाधार । तत्र हेतु—अधीश्वरेति । हे ब्रह्मादीनाम् अपीश्वरेति । अतो नास्माकम् अपराध इति शेषः । यद् वा, नो\ऽस्मान् शन्तुम् अर्हसि । ननु, महापराधिनो यूयं न क्षन्तव्यास् तत्राहुः—मूढानाम् अज्ञानाम् अत एव कुबुद्धीनां दुरभिमानिनां दुष्ट-विचाराणां वा यतस् तव प्रभाव न विद्मो अतो\ऽस्मद् आदीनाम् अपराधो दीनवात्सल्येन न ग्राह्य एवेति भावः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं शरणं जग्मुः? तद् आह—रामेति । हे जगत्-सुख-प्रद ! वीप्सातिभयात् । ननु, भक्तान् एव रमयामि, न त्व् अन्यान् इति चेत्, सत्यम्, तथापि जगतस् त्वम् एव गतिः, न त्व् अन्यः को\ऽपीत्य् आहुः—हे अखिलानाम् आधार ! आश्रयेति । तत्र हेतुः—अधीश्वर ! हे श्री-ब्रह्मादीनाम् अपीश्वरेति, अतो, नो\ऽस्माकम् अपराम् इति शेषः । न तु महा-पराधिनो यूयं न क्षमा-योग्याः, तत्राहः—मुढानाम् अज्ञानाम्, अतः कु-बुद्धीनां दुरभिमानिनां दुष्ट-विचाराणां वा, यतस् तव प्रभाव न विद्मः, अतो महादीनानाम् अपराधो दीनवत्सलेन भवता न ग्राह्य एवेति भावः । अथवा रमन्ते योगिनो\ऽनन्ते सत्यानन्दे चिदात्मनि इत्य्-आदि-वचनात् राम हे परब्रह्मन्न् इत्य् अर्थः । किं च, अखिलाधार ! हे परमात्मन्न् इत्य् अर्थः । सर्वेन्द्रियादि-शक्तेस् तद् एक-मूलत्वात् । किं च, अधीश्वर ! हे परमेश्वर ! अतो न विद्म, अत एव मूढानां कु-बुद्धीनाञ् च, अतः क्षन्तुम् एवार्हसि, इति जगदीशतया स्तुतिर् महा-भयात् । किं वा, अवतारत्वादिना तत्-त्वतः श्री-कृष्णेनाभेदात् ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं शरणं जग्मुस् तद् आह—रामेति । हे जगत्-सुखप्रद ! वीप्साति भयात् ननु, भक्तान् एव रमयामि नत्वन्यान् इति चेत्-सत्यं तथापि जगतस् त्वय् एव गतिः नत्वन्यः कोपीत्याहुः हे अखिलानाम् आधार आश्रयेति तत्र हेतुः अधीश्वर हे ब्रह्मादीनाम् अपीश्वरेति अतो\ऽस्माकं अपराम् इति शेषः यद् वा, नः अस्मान् क्षन्तुम् अर्हसि ननु, महापराधिनो यूयं न क्षमा-योग्याः तत्-राहुः मूढानाम् अज्ञानाम् अतः कुवुद्धीनां दुरभिमानिनां दुष्ट-विचाराणां वा यतस् तव प्रभावं न विद्मः अतोस्मदादीनाम् अपराधो दीनवात्सल्येन न ग्राह्य एवेति भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.४५ ॥

स्थित्य्-उत्पत्त्य्-अप्ययानां त्वम् एको हेतुर् निराश्रयः ।

लोकान् क्रीडनकान् ईश क्रीडतस् ते वदन्ति हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्थितेरादौ निर्देशः पालनापेक्षया । तेषु तवान्यापेक्षा नास्ति इत्य् आहुः—निजाश्रयः । निराश्रयः इति पाठेऽपि स एवार्थः । न च तैः प्रयोजनम् अस्तीत्या—लोकान् इति । लोकवत्तु लीला-कैवल्यम् इति न्यायेनेति भावः । तद् उक्तम्—

सृष्ट्यादिकं हरिनैव प्रयोजनम् अपेक्ष्य तु ।

कुरुतै केवलानन्दाद् यथा मत्-तस्य नर्तनम् ॥इति ।

अतः क्रीडया त्वया वयं यथा नियुक्तास् तथैव प्रहृत्ताः । अतः कुबुद्धित्वे\ऽपि को नामास्नाकं दोष इति भावः । ईशेति पाठे हे सर्व-नियन्त इत्य् अर्थः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अघीश्वरत्वम् एवाभिव्यञ्जयन्ति—स्थितीति । स्थितेर् आदौ स निर्देशः सम्प्रति पालनापेक्षया, न च तेषु तवान्यापेक्षास्तीत्य् आहुः—निजाश्रयेति । नापि तैः प्रयोजनम् अपीत्य् आहुः—लोकान् इति । क्रीडतः सदा क्रीडापरस्य, वदन्ति तत्-त्वज्ञाः, हि निश्चये, ननु, क्रीडायां को हेतुः ? तत्राः—हे ईशेति । ईश्वराभिप्रायस्य दुर्वितर्यत्वात् स केन ज्ञातं शक्य इति भावः । अतः क्रीड्ता त्वया बयं यथा नियुक्ताः स्मस् तथैव प्रवृत्ता इति कुबुद्धित्वे\ऽप्य् अस्माकं को नाम दोषस् तत् क्षन्तुम् एवाहसीति तात्पर्यम् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अंश-भूत-सङ्कर्षणास्यमहत्-स्रष्टृ-पुरुषाभेदेनाधीश्वरत्वम् एवाभिव्यञ्जयन्ति—स्थितीति । स्थितेरादौ निर्देशः सम्प्रति पालनापेक्षया न च तेषु तवान्यापेक्षास्तीत्य् आहुः निजाश्रय इति पाठः कचित् न च तैः प्रयोजनम् अपीत्याहुः लोकान् इति । लोकवत् तु लीला-कैवल्यम् इति-न्यायेनेति भावः । तद् उक्तं नारायणाध्य् आत्म्ये—

सृष्ट्य्-आदिकं हरिनैव प्रयोजनम् अपेक्ष्य तु ।

कुरुते केवलानन्दाद् यथा मत् तस्य नर्तनम् ॥इति ।

अतः क्रीडया त्वया वयं यथा नियुक्तास् तथैव प्रहृत्ताः । किं तु सङ्कल्प-मात्राद् यथावत् करणाच् च त्वयि सर्वज्ञत्वादिकं तु विशेष इति भावः । अतः क्रीडता त्वया वयं यथा नियुक्ताः स्मः तथैव प्रवृत्ता इति कुबुद्धित्वे\ऽप्य् अस्माकं को नाम दोषस् तत् क्षन्तुम् एवार्हसि इति तात्पर्यं निजाश्रय इति पाठे । भक्त-मात्रापेक्षया स्थित्य्-आदिकाप्य् आनुषङ्गिकतयान्येषाम् अपि स्थित्य्-आदि-कर्ता भवसीति व्याख्येयम् ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.४६ ॥

त्वम् एव मूर्ध्नीदम् अनन्त लीलया

भू-मण्डलं बिभर्षि सहस्र-मूर्धन् ।

अन्ते च यः स्वात्म-निरुद्ध-विश्वः

शेषेऽद्वितीयः परिशिष्यमाणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शेषे शयनं करोषि । शेष-पर्यङ्के परिशिष्यमाणो यः स च त्वम् एवेति वा ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किम् अहं जीववन्-निद्रा-लुर् इत्य् आशङ्कायाम् अर्थातरम् आह—शेषे पर्यके इति । परम-कृपालुतया त्वं हे अनन्तापरिच्छिन्न अधुना स्वस्मिन् जगद्-विभर्षि न तद्-वृत्तौ किञ्चित्-प्रयास इस्याहुः—हे सहस्रम् ऊर्धन् । सहस्र-मूर्धत्वेकस्मिन्न् एव धृतम् इदम् अज्ञात-प्रायम् एवोष्णीष-सक्तरोमवद् इति भावः ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रापि निज-मूर्ति-विशेषेण परम-कृपया पृथ्वी-धारणात् पालनम् एव तव मुख्यम् इत्य् आहुः—त्वम् इति । अनन्त ! हे अपरिच्छिन्नत्वाद् अनन्त-सञ्ज्ञक ! अतो हे सहस्र-मूर्धन् ! अतो लीलयैव तेष्व् एकेन मूर्ध्वा, पाठान्तरे\ऽपि स एवार्थः । इदं सर्वाधारं विभर्षि । ननु, धरणी-धरः शेषोहं परमेश्वराद्-भिन्नः, कथम् अभेदेन स्तूये ? तत्राहुः—अन्ते चेति तैर् व्याख्यातम् । यद् वा, न च प्रलये\ऽपि पालकत्वं व्यभिचरतीत्य् आहुः—अन्ते चेति, स्वस्य आत्मनि श्री-विग्रहे निरुद्धं स्थापितं संरक्षितं विश्वं येन सः । किं वा, अद्वितीया, अतः परितः शिष्यमाणो भगवच्-छेषतां प्राप्नुवन् शेषे, अत एव शेषनामापि त्वम् इति भावः । अथवा अनन्त ! हे अपरिच्छिन्न ! अतो हे सहस्र-मूर्धन् अपरिमित-शीर्षन् ! तच् च पुरुष-सूक्तादौ व्यक्तम् एव, अतएव लीलया अशेष-रूपेणेदं विभर्षि, अन्यत् समानम् ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रापि निज-मूर्ति-विशेषेण परम-कृपया पृथ्वी-धारणात् पालनम् एव तव मुख्यम् इत्य् आहुः—त्वम् इति । अनन्त हे अपरिच्छिन्नत्वाद् अनन्त-सञ्ज्ञक अतो हे सहस्र-मूर्धन् ! अतो लीलयैव तेष्व् एकेन मूर्ध्वा इदं सर्वाधारं बिभर्षि न च प्रलयेऽपि पालकत्वं व्यभिचरसीत्य् आहुः—अन्तेचेति । नैमित्तिक-प्रलये स्वस्य आत्मनि विग्रहे निरुद्धं स्थापितं संरक्षितं विश्वं येन स गर्भोदकशायि-रूपेण शेषे अद्वितीय इति तदानीं त्रैलोक्ये न विद्यते द्वितायो यस्य सः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शेषे स्वपिषि शेष-पर्यङ्के\ऽद्वितीयः त्रैलोक्ये त्वद् अन्यस्य तदानीम् अविद्यमानत्वात् ॥४६॥


॥ १०.६८.४७ ॥

कोपस् तेऽखिल-शिक्षार्थं न द्वेषान् न च मत्सरात् ।

बिभ्रतो भगवन् सत्त्वं स्थिति-पालन-तत्परः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मासु कोपश् च तवायम् अनुचित एवेत्य् आहुः । कोपस्तु इति स्थिति-पालने तत्-परस्तात्-पर्यवान्-कोपः । पाठान्तरे सम्बोधनम् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मत्सरात्परोत्कर्षासहनात् । पाठान्तरे निर्विसर्ग-पाठे । स्थितेः शिष्ट-मर्यादायाः पालने तत्-परस्त्वं, तव कोपः शिक्षार्थम् एव यतः पूर्व दुष्टास् त्वाम् अपश्यन्तो मदान्धा एव स्म इदानीं शिष्टा जाता इति भावा ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः कोपो\ऽपि तव जगत्-पालनायैवेत्य् आहुः—कोप इति । खलु निश्चिते, अखिलेति पाठे, पाठान्तरे अखिलस्य शिक्षार्थ हितायेत्य् अर्थः । यतः स्थितये यत्पालनं तत्परः, अत एव न द्वेषान् न च मत्सरात् पालकस्य पाल्येषु तद् असम्भवाद् इत्य् अर्थः । यतः सत्त्वं गुणं विभ्रतः पुष्णतः, तच् च सहज-कारुण्येनैवेत्य् आहुः—भगवन ! हे परमदयालो ! खलेति पाठे दृष्टानां दण्डार्थम् इत्य् अर्थः । तत्र हेतुः—स्थितीति । अन्यथा जगत्-पालनासिद्धिर् इति भावः ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः कोपोऽपि तव जगत्-पालनायवेत्य् आहुः—कोप इति । खलु निश्चितम् अखिलेति पाठे अखिलस्य शिक्षार्थं हितायेत्य् अर्थः । यतः स्थिवये यत्-पालनं तत्परः अत एव न द्वेषान् न च मत्सरात् यतः सत्त्वं गुणं श्री-विष्णु-रूपेण बिभ्रतः पुष्णतः तेन च न तवोपकृतिर् इत्य् आहुः—हे भगवन् ! स्वाभाविक-सक्ति-विलासैश्वर्यादि-प्रशस्तेति अतो लोकदययैव तत्-पोषम् इति भावः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्व पालनार्थकं सत्त्व-गुणम् इदानीं विभ्रतस् तव कोपोयम् अखिलानां शिक्षणार्थम् एव कोपः कीदृशः स्थितेः शिष्ट-मर्यादायाः पालने तत्-परस्तात्पर्यवान यद् अयङ्कोपः कृतस् तत एव वयं शिष्टाः सम्प्रत्यभूम पूर्वं तु दुष्टास् त्वाम् अपश्यन्तो गर्वान्धा एवास्मेति भावः निर्विसर्गपाठे सम्बोधन-पदम् ॥४७॥


॥ १०.६८.४८ ॥

नमस् ते सर्व-भूतात्मन् सर्व-शक्ति-धराव्यय ।

विश्व-कर्मन् नमस् तेऽस्तु त्वां वयं शरणं गताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्वं कर्मं कृत्यं यस्य स त्वम् इति सम्बोधनम् ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे सर्व-भूतात्मन्न् इति, सर्व-भूतान्तर्गता वयम् अपीति भावः । अहं दुष्टान्-वधिष्याम्य् एवेति चेत्-तत्राहुः—हे सर्व-शक्तिधरेति । अस्मन्-मारणे पालने च त्वं शक्त एवेति भावः । किञ् च है विश्वकर्मन्न् इति बिश्वम् इदं तवैव कार्यमतो\ऽस्मान् जीवयितुम् एवार्हसीति भावः ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् आकर्षणाद् अनिवृत्तं दृष्ट्रातिभीत्या तत्-प्रिय-नाम-सङ्कीर्तनेन महः प्रणमन्त आहुः—नम इति । नमस्कारे हेतुः—हे सर्वेषां भूतानाम् आत्मन् ! अन्तर्यामिन् ! अत एव हे सर्व-शक्तिधर ! सर्वेन्द्रिय विविध-वृत्तिप्रवर्त्तनात् । यतो\ऽव्यय ! हे सव्वैश्वर्य-पूर्ण ! अतो विश्वकर्मन् ! रे जगत्-स्रष्टुर् इत्य् अर्थः । अस्त्विति नमस्कारस्य नित्य-सत्तां प्रार्थयन्ते । यद् वा, शरण-गमन योग्यताम् आहुः । तत्र सर्वेति परमैश्वर्यम् उक्तम् । तत्र हेतुः—सर्व-शक्तिधरेति तत्राप्य् अव्ययेति । तद् एव दर्शयन्ति—विश्वेति । अन्यत् समानम् ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् आकर्षणाद् अनिवृत्तं दृष्व्टा अतिभीत्या तत्-प्रियनाम् असङ्गीत्तनेन महः प्रणमन्तः शरणं यान्ति—नम इति । नमस्कारे हेतुः हे सर्वेषाम्-भूतानाम् आत्मन् अन्तर्यामिन् ! अत एव सर्व-शक्ति-धर सर्वेन्द्रिय-विविध-वृत्ति-प्रवर्तनात् यतो\ऽव्यय हे सर्वेश्वय्य-पूर्ण ! अतो विश्वकर्मन हे जगत्-स्रष्ट-इत्य् अर्थः । अत्स्विति नमस्कारस्थ नित्य-सत्तां प्रार्थयन्ते शरण-गमन-योग्यता च तैर् एव विशेषणैः तत्र सर्वेति परमैश्वर्यम् उक्तं तत्र हेतुः सर्व-शक्तिधरेति तत्राप्य् अव्ययेति तद्-एव दर्शयन्ति विश्वेति ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुष्टान् वो वधिष्याम्येति चेत्-तत्राह—सर्व-शक्तिधर अस्माकं मारणेऽपि पालनेऽपि शक्ति दधास्येव अव्ययेत्य् अस्माकं जीवने मरणे वा तव न किम् अपि व्येति किञ् च हे विश्वकर्मन् इति विश्वम् इदं तवैव कर्म कार्यम् इति जीवयितुम् एवास्मानर्हसीति-भावः ॥४८॥


॥ १०.६८.४९ ॥

श्री-शुक उवाच—

एवं प्रपन्नाः संविग्नैर् वेपमानायनैर् बलः ।

प्रसादितः सु-प्रसन्नो मा भैष्टेत्य् अभयं ददौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वेपमानम् अयनं पुरं येषां तैः ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयनं गमने गेहे ज्ञाने च पुरवमनोः इति निरुक्तिः ॥४९-५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् विग्नैर् भीतैः । तत्र हेतुः—वेपेति । प्रसन्नस् त्यक्त-कोपो\ऽभूत्, यतो बलः कृपा-कोमल-स्वभाव इति भावः । ततश् च प्राकार-मूलाद् धलाद्धम् उद्धृत्य संवृतवान् इति ज्ञेयम् ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् उद्विग्नैर् भीतैः तत्र हेतुः—वेपेति । सम्प्रसन्नस् त्यक्त-कोपो\ऽभूत् ततश् च प्राकार-मूलाद् धलम् उद्धृत्य सम्वृतवान् इति ज्ञेयम् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेपमानमयनं पुरं येषां तैः ॥४९॥


॥ १०.६८.५०॥

दुर्योधनः पारिबर्हं कुञ्जरान् षष्टि-हायनान् ।

ददौ च द्वादश-शतान्य् अयुतानि तुरङ्गमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुरङ्गमांश् च द्वादशायुतानि ॥५०-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : षष्टिहायनान् तरुणानित्य् अर्थः, तदानीम् एव तेषां यौवन-सम्पत्तेः । सूर्यवर्चसाम् इति स्वर्णस्योत्कृष्टतां बहुल-महारत्न-खचितताञ् च बोधयति । ताबद्-दाने हेतुः—दुहित्र् इति, तच् च सर्वं श्री-बलदेव-प्रीत्य् अर्थम् एवेति ज्ञेयम् ॥५०-५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दर् इति युग्मकम् । तावज्-ज्ञाने हेतुः, दुहित्र् इति । अनेन श्री-बलदेवे न तत्रत्ये च लोके प्रीते सति मम दुहितृर् अनादरो न स्याद् इति विचिन्त्येति भावः ॥५०-५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुञ्जरान् द्वादश-शतानि तुरङ्गमांस्तु द्वादशायुतानि ॥५०-५४॥


॥ १०.६८.५१॥

रथानां षट्-सहस्राणि रौक्माणां सूर्य-वर्चसाम् ।

दासीनां निष्क-कण्ठीनां सहस्रं दुहितृ-वत्सलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रोक्माणां हैमानाम् ॥५१-५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.५२ ॥

प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः ।

स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुहृद्भिः कौरवैः ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वैर्य-पूर्णो\ऽपि, प्रतिगृह्य स्वीकृत्य, कुतः ? सात्वतर्षभः, भक्त-वात्सल्याद् इति भावः । यद् वा, यादव-श्रेष्ठो यदुकुल-प्रीत्य् अर्थम् इति अभिनन्दितो\ऽनुमोदितो\ऽनुज्ञात इत्य् अर्थः । यद् वा, अभितो नन्दितो हर्षितः सन्, प्रायात् प्रस्थानं चक्रे ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्वैश्वर्य-पूर्णोऽपि प्रतिगृह्य स्वीकृत्य कुतः सात्वतर्षभः श्री-भीष्मादि-भक्त-वात्सल्याद् इति भावः । यद् वा, यादव-श्रेष्ठः यदुकुल-प्रीत्य् अर्थम् इति अभिनन्दितः अनुमोदितः आनन्द-प्रदानेन अनुज्ञात इत्य् अर्थः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.५३ ॥

ततः प्रविष्टाह् स्व-पुरं हलायुधः

समेत्य बन्धून् अनुरक्त-चेतसः ।

शशंस सर्वं यदु-पुङ्गवानां

मध्ये सभायां कुरुषु स्व-चेष्टितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मध्ये-सभायां सभा-मध्ये ॥५३-५४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् सुहृद् अभिनन्दनानन्तरम् । स्व-चेष्टितं नगराकर्षण-रूपम् ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः प्रयाणाद् अनन्तरम् एव, सद्य इत्य् अर्थः । स्वकीयां पुरीम्, अता प्रकर्षेण मङ्गल-गीत-वाद्यादिनाविष्टः सन् । हलायुध इति हलेनैव तद् अभीष्ट-साधनाभिप्रायेण, बन्धून् श्री-कृष्ण-वसुदेवादीनादाव् आलिङ्गनादिना समेत्य, यतो\ऽनुरक्त-चेतसः-अनुरागेण सदा तद्वम निरीक्षकानित्य् अर्थः, पश्चाद् यदुपुङ्गवात् उग्रसेनादीन् प्रति शशंस । सभामध्य इति सर्वेषाम् एव प्रहर्षणाय, अतः स्वस्य चेष्टितम् एव, न तु तेषां दुरुक्तिम् इत्य् अर्थः ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वीयां पूरीम् अतः प्रकर्षेण गीत-मङ्गलवादित्रादिनाविष्टः सन् बन्धून् श्री-कृष्ण-वसुदेवादीन् यतो\ऽनुरक्त-चेतसः अनुरागेण सदा तद्-वर्त्म-निरीक्षकानित्य् अर्थः । पश्चाद् यदुपुङ्गवानुग्रसेनादीन् प्रति शशंस सभायां विषये यन्मध्यं तस्मिन् सभा-मध्य इति सर्वेषाम् एव प्रहर्षणाय अतः स्वस्य चेष्टितम् एव प्राधान्ये न तेषां दुरुक्तिस्तु यत्किञ्चिद् एवेत्य् अर्थः ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६८.५४ ॥

अद्यापि च पुरं ह्य् एतत् सूचयद् राम-विक्रमम् ।

समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राम-विक्रमो\ऽचिरविनाशी नेत्य् आह—अद्यापीति । एतत्-पुरं हास्तिन-नगरम् । गङ्गाया दक्षिणे पुरी-दक्षिण-भाग इत्य् आह—तोषिणी ॥५४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो महा-प्रभावः श्री-बलदेवस्येति सहर्षम् आह—अद्यापीति । वः इति बहुत्वं कुरु-कुलापेक्षया गौरवाद् वा, हि निश्चितम्, एतद् इति तद् अन्तिक एव कथनात् । किं वा, साक्षाद् एव दक्षिणतो गङ्गायां गङ्गायाः दक्षिणे पुरीदक्षिण भाग इत्य् अर्थः । सम्यग् उन्नतम् उच्चम् । ननु, हे राजनित्य् अर्थः ॥५४॥

अहो धार्ष्ट्यं साहसं वा सन्तः पश्यन्तु मे\ऽद्भुतम् ।

स्वाम्य् असौ मौन-कृद् यत्र तत्र वाचालतां भजे ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो महान् प्रभावः श्रीमतो बलदेवस्येति सहर्षम् आह—अद्यापीति । च इति चेति वा पाठ-द्वयम् एतद् इति साक्षाद्-दर्शयति दक्षिणतो गङ्गायां गङ्गाया दक्षिण पुरी दक्षिण-भाग इत्य् अर्थः । अनु निरन्तरं दृश्यते ॥५४॥

अहो धार्ष्ट्यं साहसञ् च सन्तः पश्यं तु मे\ऽद्भुतम् ।

स्वाम्य् असौ मौन-कृद् यत्र तत्र वाचालतां भजे ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे हस्तिनापुर-कर्षण-रूप-

सङ्कर्षण-विजयो नामाष्ट-षष्टितमोऽध्यायः ।

॥६८॥

(६९)