रैवतके द्विविदवधः ।
॥ १०.६७.१ ॥
श्री-राजोवाच—
भूयो \ऽहं श्रोतुम् इच्छामि रामस्याद्भुत-कर्मणः ।
अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
सप्त-षष्टितमे रामो गिरौ रैवतके मदात् ।
स्वैरं युवतिभिः क्रीडन्न् अवधीद् द्विविदं खलम् ॥
कालिन्दी-विदारणानन्तरं राम-चरित्रं द्विविद-वधादि-सङ्गतम् अप्य् अनुक्त्वा तत्-पूर्व-भावित्वेन पौण्ड्रक-वधादि निरूप्येदानीं तद् एव प्रस्तौति भूयो\ऽहम् इत्य्-आदिना । राम-चरित्र-श्रवणेच्छायाम् अद्भुत-कर्मत्वं हेतुस् तत्र चानन्तत्वं तत्राप्य् अप्रमेयत्वम् इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्विविदं वानरम् । तत्-पूर्वभावित्वेन द्विविद-वधात् प्राक्तनत्वेन । तद् एव राम-चरितम् एव । तत्राद्धुत-कर्मत्वे । तत्राप्य् अनन्तत्वेऽपि । अन्यत् कालिदीकर्षणेतरत् । यत्-कर्म ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विभुः सर्व-शक्ति-पूर्णः, अतो\ऽन्यत् उक्ताच्-छ्री-कालिन्द्याकर्षणादेः परं यत् कृतवान्, तत् राम् अस्य व्रज-जन-रमणस्य रोहिणेयस्य श्रोतुम् इच्छामि । तत्रैव हेत्वन्तरम्—अद्भूतानि श्री-यमुनाकर्षणादीनि कर्माणि यस्य तस्येति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालिन्दीत्यादि-टीकायाम् एवम् एव ज्ञेयं प्रस्तुत-श्री-राम-लीलामध्ये यत् पौण्ड्रक-वधादि निरूपितं तत्-तस्य तत्रैव जातत्वाद्य् उक्तम् एव अतस् तद्-विच्छेद-शङ्क्या राजा प्रस्तौति पृच्छतीति निरूप्य स्थितं श्री-शुकम् इति वाक्य-शेषात् भूय इत्य् आदी कर्मेति षः । तद् एवाह यद् अन्यद् इति विभुः सर्व-शक्ति-पूर्णः इति सर्वत्र हेतुः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रामस्येति चरितम् इति शेषः । तद् एवाह—यद् अन्यद् इति ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
गिरौ रैवतके कीडन् प्रेयसीभिर् अहन् कपिम् ।
कदर्थयन्तं द्विविदं सप्त-षष्टितमे बलः ।
कृष्ण-लीलायाम् अत्य् आवेशाद् राम-लीला काञ्चिद् उल्लङ्घय महा-मुनित्वं माधावत्व् इति पृच्छति—य इति । अद्भुत-कर्मण इति स्व-मज्जनार्थं नदीं को\ऽपि स्वान्तिकं नानीतवान् इति भावः । नचैतावद् एव तत्-कर्मेति वाच्यं यतो\ऽनन्तस्य न च तत्-कर्मणि त्वं जानास्येवेति वाच्यं यतो\ऽप्रमेयस्य मादृश-बुद्धया प्रमातुम् अशक्यत्वात् ॥१॥
॥ १०.६७.२ ॥
श्री-शुक उवाच—
नरकस्य सखा कश्चिद् द्विविदो नाम वानरः ।
सुग्रीव-सचिवः सो \ऽथ भ्राता मैन्दस्य वीर्य-वान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नरकस्य सखेति हरिणा वैरे कारणम् । सुग्रीव-सचिव इति तस्य मन्त्रबलम् । मैन्दस्य भ्रातेति रामायणे\ऽतिप्रसिद्धत्वेन वीर्याधिक्यम् उक्तम् इति ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सचिवो मन्त्रिचेटयोः इति मेदिनी । मैन्दो\ऽपि वानरः नरकस्य सखेति-महा-भक्त-राज-सुग्रीव-सचिवत्वे\ऽपि दुःसङ्ग-दोषस्यानर्थकारित्व-ज्ञापनार्थम् उक्तम्, दुःसङ्गस्यापि कारणं श्री-मल्-लक्ष्मणे तस्य पूर्वम् अनादर आसीद् इति यद्यपि मैन्द-द्विविदादानां श्री-राम-पूजायाम् आवरण-देवत्वाद् एव नित्यं सिद्धत्वम् एव तद् अपि महद् अपराध-दुःसङ्ग-दोषादि-ज्ञापनार्थं जय-विजय-वदेकेन प्रकाशेनैव द्विविदस्य भ्रंशो\ऽयं दर्शितः । सन्दर्भस्तु—श्री-राम-पूजावरण-देवो तु तदीय-वैकुण्ठस्थावन्याव् एव, एतौ पुनस् तच्-छक्त्यावेशिनावेवेत्य् आह । द्विविदो रात्रौ लङ्कां गत्वा राक्षसीर् नग्नाः कृत्वा तासा योनीः पस्पर्श तज्-ज्ञात्वा ततो रामेण सैन्यान्-निष्कासितस् तत्-प्राथितेन पुनर् उक्तम् बलदेवाद्-द्वापरे मृत्यु प्राप्य पुनः स्वर्-लोकं गमिष्यतीत्य् उक्तम् अन्यत्र ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कश्चिद् एकः । किं वा, वीर्यादिना लोकोत्तरः । अथ तु, स तु मैन्दस्य भ्रातेति सर्वत्र सुविख्यात एवेति भावः । अतो वीर्यवान् वानर इति नर-तुल्य-चेष्टां सूचयति ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि श्री-सुग्रीव-सङ्गी तथापि वक्ष्यमाण-दुर्बुद्धित्वे हेतुर् अयम् इत्य् आह—नरकस्येति । एवं दुस्सङ्गस्य दौरात्म्यातिशयो शितः तस्य कारणश् च बलगवितत्वात् श्री-लक्ष्मणादिष्व् अनादर एवेति ज्ञेयं यौत मैन्द-द्विविदो श्री-राम-पूजायाम् आवरण-देवौ तौ तदीय वैकुण्ठ-स्थावन्याव् एव एतौ पूनस् तच्-छक्त्यावेशिनाविवेति च ज्ञेयं तयोस् तद् असम्भवात् जय-विजयवत् सद् अपराध-फल-दर्शनार्थं तादृश-बुद्धित्वादेर् बहिर् एव व्यञ्जनम् इति वा अथेत्यानन्तर्ये मैन्दस्यानन्तर एवायं भ्रातेति तेनाति-सादृश्य-बोधनाय ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि श्री-राम-चन्द्र-सङ्गी तथापि वक्ष्यमाण-दुर्बुद्धित्वे हेतुर् अयम् इत्य् आह—नरकस्येति । दुःसङ्ग-दोषाद् इति भावः । तत्-कारणञ् च श्री-लक्ष्मणादौ बल-गर्वितत्वेनानादर एवेति ज्ञेयम् । यो तु मैन्द-द्विविदो श्री-राम-पूजायाम् आवरणदेवौ तौ तु तदीय-वैकुण्ठस्थावन्याव् एव एतौ पुनस् तच्-छक्त्यावेशिनाव् इति ॥२-१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरकस्य सखेति महा-भक्त-राज-सुग्रीव-सचियत्वे\ऽपि दुस्सङ्ग-दोषस्यानर्थकारित्वज्ञापनार्थम् उक्तं दुस्सङ्गस्यापि कारणं श्री-मल्-लक्ष्मणे तस्य पूर्वम् अनादर आसीद् इति ज्ञेयं यद्यपि मैन्द-द्विविदादीनां श्री-राम-पूजायाम् आवरणदेवत्वान्न् इत्य् असिद्धत्वम् एव तद् अपि महद् अपराध-दुस्सङ्गादि-दोष-ज्ञापनार्थं जय-विजयवद् एकेन प्रकाशेनैव द्विविदस्य भ्रंशो\ऽयं दर्शितः ॥२॥
॥ १०.६७.३॥
सख्युः सो \ऽपचितिं कुर्वन् वानरो राष्ट्र-विप्लवम् ।
पुर-ग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सख्युर् न रकस्यापचितिमानृण्यम् । राष्ट्रस्य विप्लवो नाशो यथा भवति तथा पुरादीनदहद् इति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राष्ट्रं श्री-द्वारिका-निकटं सौराष्ट्रादि, तस्य विप्लवो येन तद् यथा स्यात्-तथादयत् । उत्सृजन्ददत् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताम् एव दर्शयति—राष्ट्रेत्य् आदिना । राष्ट्रं श्री-द्वारका-निकटवर्ति-सौराष्ट्रादि-पुरादीनां यथोत्तरं न्यूनत्वं कैमुतिक-न्यायेनेव व्याख्येयम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपचितिरानृण्य-लक्षणः सम्माना वानर इति पुनर् उक्तिर् जात्यैव तावच्-चञ्चल-दुष्ट-प्रकृतिर् इति व्यञ्जनाय राष्ट्रं श्री-द्वारका-निकटवर्त्ति-सौराष्ट्रादि तस्य विप्लवो यत्र तादृशं यथा स्यात् यद् वा, राष्ट्र-विप्लव-रूपाम् अपचिति पूरादीनां यथोत्तरं न्यूनत्वं कैमुतिक-न्यायेन व्याख्येयम् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सख्युर् नरकस्य अपचितिरानृण्यं राष्ट्रस्य विप्लवो नाशो येन तद्-यथा स्यात्-तथादहत् ॥३-४॥
॥ १०.६७.४ ॥
क्वचित् स शैलान् उत्पात्य तैर् देशान् समचूर्णयत् ।
आनर्तान् सुतराम् एव यत्रास्ते मित्र-हा हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च क्वचिद् इति । कदाचित् स द्विविदः मित्रहा सखिहन्ता ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैः शैलैः । यत्रानर्तेषु ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तैः प्रक्षिप्तैः सम्यक् चर-स्थिर-समेतत्वादिनाचूर्णयत्, हरिर् इति तन्-मित्र-प्राण-हरणात् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तैः प्रक्षिप्तैः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.५ ॥
क्वचित् समुद्र-मध्य-स्थो दोर्भ्याम् उत्क्षिप्य तज्-जलम् ।
देशान् नागायुत-प्राणो वेला-कूले न्यमज्जयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य समुद्रस्य जलं बाहुभ्याम् उत्क्षिप्य वेलायाः कूले वर्तमानान् देशान् प्लावयामासेति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वेला समुद्र-जलं तस्य कूलं तटं समीपं तत्रत्यान् देशान् । तज्-जलं समुद्राम्बु । प्लावयामासानाशयद् इत्य् अर्थः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वेलाकूले वर्तमानान् इति शेषः । कूलान् इति पाठे\ऽपि स एवार्थः । अर्श आद्यच् । प्राणो बलम् ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेला समुद्र-जलं तत्-कूल-भवान् देशान् पुंस्त्वम् आर्षम् ॥५-६॥
॥ १०.६७.६ ॥
आश्रमान् ऋषि-मुख्यानां कृत्वा भग्न-वनस्पतीन् ।
अदूषयच् छक्र्ण्-मूत्रैर् अग्नीन् वैतानिकान् खलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आश्रमस्थान्वनस् पतीन् भक्त्वा आहवनीयाद्य् अग्निषु मूत्रादि कृतवान् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्त्वा त्रोटयित्वा । आहवनीयाद्य् अग्निषु कुण्डस्थेषु । शकृत्-पुरीषम् । वितानो यज्ञस् तत्-सम्बन्धिनस् तथा तान् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऋषि-मुख्यानां भगवद्-भक्तर्षीणाम् ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.७ ॥
पुरुषान् योषितो दृप्तः क्ष्माभृद्-द्रोणी-गुहासु सः ।
निक्षिप्य चाप्यधाच् छैलैः पेशस्कारीव कीटकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्य् अधास्पिदधे । पेशस्कारी भ्रमरः ॥७-९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्ष्माभृतो गिरेर्द्रोण्यां नितम्ब-देशे या गुहा गह्वर-देशास् तासु द्रोणी काष्ठाम्बु-वाहिन्यां गिर्यन्तर-नितम्बयो इति धरणिः । स द्विविदः । पेशस्कारी पक्षि-कीटस्-स्व-गृहे कीट-गोपके इति निरुक्तिः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योषितश्चेत्य् अन्वयः । दृप्तो बलिष्ठो बलेन गर्वितो वा, अतः क्ष्माभूतः द्रोणीषु गुहासु च निक्षिप्यमाण-पुरुषादीनाञ् च महा-भयेन किञ्चित् करणासामर्थ्यादिकं सूचयति—पेशस्कारीवेति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योषितश्चेत्य् अन्वयः दृप्तः बलेन गर्वितः कीटकम् इति जात्येकत्वम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्य् अधात् आच्छादयामास ॥७-८॥
॥ १०.६७.८ ॥
एवं देशान् विप्रकुर्वन् दूषयंश् च कुल-स्त्रियः ।
श्रुत्वा सु-ललितं गीतं गिरिं रैवतकं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं वह्नि-दाहादिना । विप्र-कुर्वन्-विरूपयन् । विष्णु-पुराणे तु—
काम-रूपी महा-रूपं कृत्वा सस्यान्य शेषतः ।
लुठन् भ्रमण-सम्मर्दैः सञ्चूर्णयति वानरः ॥
इति तद्दौष्ट्याधिक्यमप्युक्तम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विप्रकुर्वन् पीडयन्, एवम् उत्तरोत्तरं तस्य दुष्टताधिक्यं ज्ञेयम्, अन्यच्-चोक्तं श्री-विष्णु-पुराणे—
काम-रूपी महा-रूपं कृत्वा सस्यान्य शेषतः ।
लुठन् भ्रमण-सम्मर्दैः सञ्चूर्णयति वानरः ॥ [ ५.३६.९,१०]
इति तादृश—दुष्टस्यापि श्री-भगवतोपेक्षणं श्री-रघुनाथावतारे भक्तत्वापेक्षयेति ज्ञेयम् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विप्रकुर्वन् पीडयन् एवम् उत्तरोत्तरं तस्य दुष्टत्वाधिक्यं ज्ञेयम् । अन्यच्-चोक्तं श्री-विष्णु-पुराणे—
काम-रूपी महा-रूपं कृत्वा सस्यान्य शेषतः ।
लुठन् भ्रमण-सम्मर्दैः सञ्चूर्णयति वानरः ॥इति ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.९ ॥
तत्रापश्यद् यदु-पतिं रामं पुष्कर-मालिनम् ।
सुदर्शनीय-सर्वाङ्गं ललना-यूथ-मध्य-गम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र रैवतके ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुललित-गीतकरणम् एव दर्शयितुं श्री-राम् अस्य क्रीडां वदन् तद्-धेतुत्वेन तद्-वेशादिकं वर्णयति—तत्रेति द्वाभ्याम् । यदूनां पतिम् इति सर्व-वैभव-पूर्णत्वं परम-सुखित्वादिकञ् च, तथा यदुषु तद् अपकाराशक्तिञ् च सूचयति । रामम् इति श्री-रेवत्यादिभिः सह तत्र क्रीडनाभिप्रायेण, पुष्करेति वेशम् उद्दिश्य सौन्दर्यम् आह । ललना परम-सुन्दर-स्त्रियः श्री-रेवत्याद्यास् तासां यूथं समूहस् तन्-मध्यगम् इति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रेति युग्मकम् । यदूनां पतिम् इति सर्व-वैभव-पूर्णत्वं परम-सुखित्वादिकञ्चाह रामम् इति स्वभावत एवं रमण-रसिकत्वं पुष्करेति तद् उपलक्षित-विदग्ध-वन्य-वेषत्वं सुदर्शनीयेति स्वतो\ऽपि सौन्दर्य ललनेति तद् उचित-परिकर-शोभमानत्वम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रभिन्नं मत्तम् ॥९-११॥
॥ १०.६७.१० ॥
गायन्तं वारुणीं पीत्वा मद-विह्वल-लोचनम् ।
विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभिन्नं मत्तम् ॥१०-११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गलन्मदो गज्ः प्रभिन्नः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : माधुर्यम् आह—मदेति, प्रभावम् आह—वपुषैव पुष्ट्यादिमता महातेजस्विना रत्नालङ्काराद्य् अनपेक्षयापि विशेषतः सूर्य-चन्द्रादिभ्यो\ऽप्य् आधिक्येन भ्राजमानम् । विशेषणानाम् एषां यथोत्तरं क्रीडोपक रणत्वे श्रेष्टयम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गायन्तम् इति । वैदग्धी विलासश् च मदेति तत्र स्वाभाविक विलासं वारुणीम् इति तत्र तत्रातिशयं विभ्राजमानम् इति तेजस्वित्वं दृष्टान्तस्तु प्राकृत-श्रोतृचित्ते तत्-तद्-विशेष-माधुरी-स्फूर्तिसोपानत्वाय ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.११ ॥
दुष्टः शाखा-मृगः शाखाम् आरूढः कम्पयन् द्रुमान् ।
चक्रे किलकिला-शब्दम् आत्मानं सम्प्रदर्शयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किल-किलेति वानर-जाति-शब्दानुकरणम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किल-किलेति तज्-जाति-शब्दानुकरणम् । सम्यक् सर्वाङ्ग-प्रतारणादिना प्रकर्षेण च निकटागमनादिना दर्शयन् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एक-शाखा-रूढत्वे\ऽपि बहु-द्रुम-कम्पनम् अतिघनीभूतत्वात् किल-किलाशब्दम् अव्यक्तरावम् इत्य् अर्थः । प्रकर्षेण बहत्वप्रकटनेन तत्रापि सम्यक्त्वेन पराक्रम-प्रकटनेन च दर्शयन् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.१२ ॥
तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जाति-चापलाः ।
हास्य-प्रिया विजहसुर् बलदेव-परिग्रहाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जात्या स्वभावेनैव चापलं यासां ताः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जातिर् ज्ञाति-निसर्गयोः इति धरणिः । बलदेवस्य परिग्रहाः पत्न्यः परिग्रहः परिजने पत्न्यां स्वीकार-मूलयोः इति मेदिनी ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेणोच्चैर् जहसुः, यतो हास्यम् एव प्रियं यासां ताः, तत्र हेतुः—जातीति, तत्रापि तरुण्य इति, न च महा-दुष्टाद् अपि तासां किञ्चिद्-भयादिकम् इत्या ह—बलेति ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषेण उच्चैर् जहुसुः यतो हास्यम् एव प्रियं यासां ताः तत्र हेतुः जातीति तत्रापि तरुण्य इति न च महा-दुष्टाद् अपि तस्माद्-भयादिकम् इत्य् आह—बलेति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जात्या स्वभावेन चापलम् अगाम्भीर्यं यासां ताः ॥१२॥
॥ १०.६७.१३ ॥
ता हेलयाम् आस कपिर् भ्रू-क्षेपैः सम्मुखादिभिः ।
दर्शयन् स्व-गुदं तासां राम् अस्य च निरीक्षतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हेलयामासाव् अजज्ञे । निरीक्षतो निरीक्षमाणस्य तम् अनादृत्येत्य् अर्थः ॥१३-१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता बलदेव-पत्नीः । भ्रूक्षेपैर् भूचालनैः । इत्य् अर्थ इति अनादराधिक्य-षष्ठयायम् अर्थ इति भावः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्मुखं विविध-भङ्ग्या मुख-प्रदर्शनं मुख-विक्रिया वा, आदि-शब्दात् दन्त-दर्शन-वाग्-विकारादयः, तासां ताः प्रत्येव च, अपि निरीक्षमाणस्यापि ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् नानातिसुखं यत्र तदादिभिः तासां ताः प्रति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेलयामास अवज्ञातवान् सम्मुखादिभिः सम्मुख-स्थिति-गति-मूत्रणादिभिः तासां ताः राम् अस्य निरीक्षमाणस्येत्य् अनादरे षष्ठी ॥१३-१४॥
॥ १०.६७.१४ ॥
तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः ।
स वञ्चयित्वा ग्रावाणं मदिरा-कलशं कपिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं द्विविदम् । ग्राव्णा पाषाणेन पाषाण-ग्राव-प्रस्तराः इति कोशात् । स द्विविदः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलत्वात् प्रहरतां मध्ये वरो\ऽपि तथा कुऋद्धो\ऽपि ग्राब्णैव प्राहरत्, न तु मुषलेन, तस्य पूर्व-भक्त्य् अपेक्षयेत्य् अर्थः । स तु महा-दुष्टताम् एवातनोद् इत्य् आह—स इति द्वाभ्याम् । वञ्चयित्वा द्रुतम् उप्लुत्यान्यत्र गमनेनातिमाय ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इत्य् अर्धकम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.१५ ॥
गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् ।
निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्फालयद् योषितां वासांस्याकृष्य पाटितवान् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं बलम् । स्फाल-कूर्दन-पाटनयोः चुरादिः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कोपयन् कोपयितुं हसन् यदा पूर्वं कोपयन् पश्चात्-तद्-दर्शनेन हसन् बलं सर्वतो\ऽधिक-बलम् अपि कदर्थी-कृत्य मुहुः खेदयित्वा यतो मदेन गर्वेणोद्धतः अविनीतः उच्चैर् हत इति तु श्लेषः हेतुः बलवान् इति ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासांसि शय्योपरि-स्थितानि आस्फालयत् आकृष्य पाटितवान् ॥१५॥
॥ १०.६७.१६ ॥
कदर्थी-कृत्य बल-वान् विप्रचक्रे मदोद्धतः ।
तं तस्याविनयं दृष्ट्वा देशांश् च तद्-उपद्रुतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विप्रचक्रे एवम् अपकृतवान् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कदर्थीकृत्य तिरस्कृत्य । तस्य द्विविदस्य । अविनयमौद्धत्यम् विनया तु कलायां स्त्री शिक्षायां प्रणतो पुमान् इति मेदिनी । तद् उपद्रुतान् द्विविद-कृतोपद्रवयुक्तान् ॥१६-१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धूर्तः खलाः, अत एव कोपयन् कोपयितुं हसन्, दुष्टः स्त्रीणां वस्त्रास्फालनात्, बलं सर्वतो\ऽधिक-बलवन्तम् अपि कदर्थीकृत्य अवज्ञाय, यतो मदेन गर्वेणोद्धतो\ऽविनीत उच्चैर् हतो वा, मदे हेतुः—बलवान् इति ।
ननु, पूर्व-भक्त्य् अपेक्षया तस्याविनयः क्षन्तुं युज्येत, तत्राह—देशांश् चेति । अतः क्रुद्धः सन्, अत एव अरेर्-निज-प्रातिकूल्येनारित्वं प्राप्तस्य तस्य जिघांसया प्रहरणेच्छया आदत्त ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देशांश् चैतद् उपप्लवेनैव भग्नान् दृष्ट्वा अनुसन्धाय ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्र-चक्र एवम् अपकृतवान् ॥१६-१८॥
॥ १०.६७.१७ ॥
क्रुद्धो मुषलम् आदत्त हलं चारि-जिघांसया ।
द्विविदो \ऽपि महा-वीर्यः शालम् उद्यम्य पाणिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शालं वृक्षम् ॥१७॥
वंशीधरः, चैतन्य-मञ्जुषा, न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रुद्धः पुनर् अतिकद्धः सन् [पादेनैकेन] पाणिनैकेनोत्पाट्य अभ्येत्य अभिमुखम् एत्य ॥१७-१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.१८ ॥
अभ्येत्य तरसा तेन बलं मूर्धन्य् अताडयत् ।
तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभ्येत्य सम्मुखम् आगत्य । तेन शालेन तं वृक्षम् ॥१८॥
चैतन्य-मञ्जुषा, वैष्णव-तोषणी, सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.१९ ॥
प्रतिजग्राह बल-वान् सुनन्देनाहनच् च तम् ।
मूषलाहत-मस्तिष्को विरेजे रक्त-धारया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुनन्देन मुसलेनाहनत् । अहन्न् इत्य् अर्थः । तं वानरम् । मस्तिष्कं मस्तकावयव-विशेषः ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कपिम् । इत्य् अर्थ इति—शबार्षो\ऽत्रेति बोध्यम् । सुनन्दो बलदेवस्य मुशले विष्णुपार्षदे इति वारतान्तविः । मस्तिष्कं मस्तकान्तरम् इति धरणिः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः सो\ऽपि क्रुद्धः सन् निज-विक्रमं दर्शयामासेत्य् आह—द्विविदो\ऽपीति । पाणिनैकेनोत्पाट्य, यतो महा-वीर्य!, अतस् तरसा वेगेनाभिमुखम् एत्य तेन सालेन तं सालम्, अचलं यथेति तस्य गुरुत्वादिकं सूचितम्, प्रति आभिमुख्येन जग्राह, पाणिना हलेन वा, यतः सङ्कर्षणो द्वितीय-व्यूहः, अतो भगवान् साक्षाद् ईश्वरः, तं द्विविदं प्राहरत् । यद् वा, युगपत् प्रतिग्रहणे हनने च योग्यताम् आह—भगवान् सर्व-शक्तिमान्, यतः सङ्कर्षणः श्री-कृष्णाद् अपृथग्-भूतः । विशेषेण पूर्वतो\ऽप्य् आधिक्येन रेजेऽशोभत । तत्रैव हेत्वन्तरम्—प्रहारम् अनुचिन्तयन्न् इति महा-वीर-स्वभाव-प्रदर्शनाद् इति भावः । यद् वा, अस्य परेणान्वयः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रतिजग्राह स्वीकृतवान् अचलो यथेति तस्य तेनाकिञ्चित् करत्वं सूचितं तद् इदं च क्षमा पौनापुन्यं तस्य श्री-राघवेन्द्र-सेवा-प्राग् भावम् अनुसन्धाय कृतम् इति गम्यते । मुसलेति युग्मकं । नानुचिन्तयन्न् इत्य् अस्य परेणान्वयः ॥१९-२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मस्तिष्कं मस्तक-मज्जा ॥१९-२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुनन्देन मुसलेन मस्तिष्कं मस्तकावयव-विशेषः ॥१९-२३॥
॥ १०.६७.२० ॥
गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् ।
पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गैरिकया लोहित-धातुना । नानुचिन्तयन्न् अगणयन् ॥२०-२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यं वृक्षम् । समुत्क्षिप्योत्पाट्य ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.२१ ॥
तेनाहनत् सु-सङ्क्रुद्धस् तं बलः शतधाच्छिनत् ।
ततो \ऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन वृक्षेण । तं वृक्षम् । ततस् तद्-वृक्ष-च्छेदानन्तरम् ॥२१-२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इत्य् अर्धकम् । जघ्ने द्विविदः अभिनद्-बलः ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.२२ ॥
एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः ।
आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यं सालं सम्यक् समूलतयोक्षिप्य उत्पाट्य, ओजसा बलेन । सुसङ्क्रुद्धः सन् अहनत्, तं हन्तं चिक्षेपेत्य् अर्थः । सुसङ्क्रुद्धः इति हननस्य दार्ड्यादिकं सूचयति, एवम् अग्रे\ऽपि । जघ्ने द्विविदः, अभिनत् बलः, भगवते\ऽपि, तथापि भक्त-वात्सल्येन प्रायस् तत्-प्रहार-प्रतिकारम् एवाकरोत, न तु तं प्राणतो मारयतोति भावः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतेति प्रायस् तत्-कृत-प्रहार-प्रतीकारम् एवाकरोत् न तु तं तदापि प्राणतो मारयत् लोलामात्र प्रयोजनस्वाद् इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.२३ ॥
ततो \ऽमुञ्चच् छिला-वर्षं बलस्योपर्य् अमर्षितः ।
तत् सर्वं चूर्णयाम् आस लीलया मुषलायुधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वृक्षाभावानन्तरम् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो वृक्षाभावे सतीत्य् अर्थः, शिलानां वर्षं वृष्टिवद् अविच्छिन्नत्वादिना परम्पराम, लीलया अनायासेन, मुषलायुध इति मुसलेनैव चूर्णयामासेत्य् अर्थः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो वृक्षाभावे सतीत्य् अर्थः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.२४ ॥
स बाहू ताल-सङ्काशौ मुष्टी-कृत्य कपीश्वरः ।
आसाद्य रोहिणी-पुत्रं ताभ्यां वक्षस्य् अरूरुजत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अरूरुजत्-ताडयामास ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स द्विविदः । तालसङ्काशौ ताल-तरू-वल्लम्बौ । ताभ्यां मुष्टी-कृत-बाहुभ्याम् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शिला-वर्षेण, शिलानाम् अप्य् अभावे सति बाहू मुष्टी-कृत्य दृढ्व-वद्धकराग्रौ कृत्वा, ताल-सङ्काशाव् इति मुष्टेर् गुरुत्व-दार्ड्यादिकम् अभिप्रेतम् । यतः कपीश्वरो वानर-श्रेष्ठः, आसाद्य सन्निधौ गत्वा, रोहिण्याः पुत्रम् इति तादृश-ताडनायोग्यत्वम् आह, श्री-वादरायणिर् भक्ति-विशेषेण शोकात् । यद् वा, देवक्यां श्री-कृष्णवत्-स्व-प्रभाव-प्रकटनार्थं रोहिण्याम् आविर्भूतम् इति तस्य सर्व-शक्तिमत्त्वं सूचयति ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिलानाम् अप्य् अभावे सति बाहू मुष्टी-कृत्य दृढ-वद्ध-करागौ कृत्वा रोहिणी-पुत्रम् इति श्री-रोहिणी-प्रेम-स्मरणेन तत्र मुनेर् दुःखोक्तिः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुष्टी-कृत्य मुष्टिमन्तौ कृत्वेत्य् अर्थः । अरूरुजत् ताडयामास ॥२४॥
॥ १०.६७.२५ ॥
यादवेन्द्रो \ऽपि तं दोर्भ्यां त्यक्त्वा मुषल-लाङ्गले ।
जत्राव् अभ्यर्दयत् क्रुद्धः सो \ऽपतद् रुधिरं वमन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यादवेन्द्रः सङ्कर्षणः क्रुद्धः सन् । जत्रौ कण्ठ-बाहु-मले ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं द्विविदम् । स द्विविदः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यादवेन्द्र इति तद् वधेनैव यदूनाम् अपि हितं स्याद् इति भावः । अतः क्रुद्धः सन् मुषल-लाङ्गले त्यक्त्वेति निरायुधेन सह निरायुधतयैव योद्धव्यम् इति युद्ध-धर्मापेक्षया दोर्भ्यां तद्वत् समुष्टिभ्याम् एवाभितो\ऽदयत् । स द्विविदः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुसल-लाङ्गलौ त्यक्त्वेति । तस्य निरायुधत्वेन तन्-न्याय्यत्वात् दोर्भ्यां तद्वत् समुष्टिभ्याम् एव अभित आर्दयत् आङ-भाव आर्षः स द्विविदः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्यक्त्वा मुसल-लाङ्गलाव् इति तस्य निरायुधत्वे सति स्वस्यापि निरायुधत्वौचित्यात् जत्रौ कण्ठ-बाहु-मूले ॥२५॥
॥ १०.६७.२६ ॥
चकम्पे तेन पतता स-टङ्कः स-वनस्पतिः ।
पर्वतः कुरु-शार्दूल वायुना नौर् इवाम्भसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : टङ्काः सतोयविवराणि तत्-सहितः ॥२६-२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
टङ्कस्सतोयविवरे कोपासिग्रावदारणे ।
मान-भेदे खनित्रे च जङ्घायां स्त्री ॥ इति धरणिः ॥२६-२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बायुनेति दृष्टान्तेन मुलतो\ऽतिकम्पः सूचितः, हे कुरु-शार्दुलेति भारत-युद्धे\ऽपि तादृशं न वृत्तम् इति परम-विस्मयात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सटङ्क इति । तेन जलप्लावनं व्यञ्जितं
जङ्घायाम् अद्रिभित्तौ च खनित्रे ग्रावदारुणे ।
कपित्थे चास्त्रियां टङ्कः
इति तु त्रिकाण्ड-शेषः ततश् च सावरण इत्य् अर्थः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सटङ्कः भित्ति-सहितः पर्वतः रैवतकः,
जङ्घायाम् अद्रिभित्तौ च खनित्रे ग्रावदारुणे ।
कपित्थे चास्त्रियां टङ्कः इति त्रिकाण्ड-शेषः ॥२६-२८॥
॥ १०.६७.२७ ॥
जय-शब्दो नमः-शब्दः साधु साध्व् इति चाम्बरे ।
सुर-सिद्ध-मुनीन्द्राणाम् आसीत् कुसुम-वर्षिणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च यादवानां सर्व-मनुष्याणां वा, प्रहर्षो\ऽभूद् इति किं वक्तव्यम्, इन्द्रादीनाम् अपि वृत्त इत्य् आह—जयेति । साध्विति शब्दश् च सुरादिषु इन्द्राणां श्रेष्ठानाम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साधु साध्विति शब्दश्वासीत् सुरादिषु इन्द्राणां श्रेष्ठानाम् एते च शब्दाः सर्वेषां प्रत्येकम् एवानन्द-भक्ति-विस्मयैर्जाताः भावब्-हेदेन सुरेन्द्रादीनां यथा-सङ्ख्यम् एव वा ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६७.२८ ॥
एवं निहत्य द्विविदं जगद्-व्यतिकरावहम् ।
संस्तूयमानो भगवान् जनैः स्व-पुरम् आविशत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जगतो व्यतिकरं नाशमावहतीति तथा तम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
व्यतिकरस्तु सङ्घाते व्यसन-व्यतिषङ्गयोः ।
अल्प-ग्राह्यकरे देशे नाशे क्षोभे विपर्यये ॥इति निरुक्तिः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जनैः स्वजनैः सर्व-लोकैर् वा, सम्यग् भक्त्या भगवत्-प्रतिपादनादिना स्तूयमानः सन् । यद् वा, एवं सुरेन्द्राद् इति स्तूयमानो जनैः श्री-रेवत्यादिभिः सह स्वकीयं पुरम् आ सम्यक् मङ्गल-गीतादिमहोत्सव-पूर्वकम् अविशत्, भगवान् सर्व-लोकोपकारक इत्य् अर्थः । अयं निहनने संस्तवे च हेतुः । एवं द्रोण्यादिषु द्विविद-रुद्ध-लोक-मोचनादिकञ् च ज्ञेयम् । स्व-शब्देन तादृश-महा-दुष्टोपद्रव-वेषेणापि तस्याभिभवं सदा-मङ्गलत्वञ् च सूचयति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जमैः स्वर्गस्थैर् भूमिष्ठैश् च भगवान् इति सार्वज्ञ्य-कारुण्यादि-व्यञ्जनात् एवं द्रोण्यादिषु द्विविद-रुद्ध-लोक-मोचनादिकञ् च ज्ञेयम् । स्व-शब्देन स्व-जन-समागम-महोत्सवश्वश् च सूचितः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
सप्त-षष्ठितमे सङ्गतः सङ्गतः सताम् ॥ ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे द्विविद-वधो नाम
सप्त-षष्टितमोऽध्यायः ।
॥६७॥
(६८)