पौण्ड्रक-काशिराजयोर् वधः, स्व-प्रयुक्तेनाभिचाराग्निना सुदक्षिणस्य विनाशः, सुदर्शनेन वाराणसी-दहनं च ।
॥ १०.६६.१ ॥
श्री-शुक उवाच—
नन्द-व्रजं गते रामे करूषाधिपतिर् नृप ।
वासुदेवो \ऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षड्-युक्-षष्टितमे काशीं गत्वाहन् पौण्ड्रकं हरिः ।
तन्-मित्रं च ततो वृत्तं सुदक्षिण-वधादिकम् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-मित्रं पौण्ड्रक-मित्रं काशीशः । ततः काशी-शमरणोत्तरम् । वृत्तं जातम्। आदि-पदात् काशी-दाहादि-ग्रहः । करूषो देश-विशेषस् तद्-अधिपतिः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रामे नन्द-व्रजं गते इति वक्ष्यमाण-पौण्ड्रक-वधादि-श्री-कृष्ण-चरितस्यास्य तदानन्तर्यं बोधयति । किं च, एकाकिनैब तेन तद्-वधे तथैकाकिनं तं मत्वा दुर्बुद्धिना पौण्डकेण दूत-प्रस्थापनादौ चायं हेतुर् द्रष्टव्यः । कृष्णाय साक्षाद्-भगवते\ऽपि वासुदेवः परमेश्वरो\ऽहम् इत्य् एवं प्राहिणोत्, यतो\ऽज्ञः, अतो\ऽतिकौतुकेन सम्बोधयति-नृपेति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-राम-कृत-गोकुल-सान्त्वन-स्मरणेन स्वस्थ-चित्तस्तस्य व्रज-गमनानन्तरं द्वारकायां कौतुक-विशेष स्मृत्वाहनन्देति । रामे नन्द-व्रज गते इति श्री-कृष्णम् एकाकिनं मत्वेति भावः । अन्यथा तत्र श्री-रामे स्थिते दुर्निवार-तत्-क्रोध-जन्मतो वक्ष्यमाण-कौतुकं न स्याद् इति च वासुदेवः परमेश्वरो\ऽहम् इति सन्दिश्येत्य् अर्थः । यतो\ऽज्ञो निर्बद्धिः अज्ञत्वाद् एव स्ववत् श्री-कृष्णे\ऽपि भगवत्त्वम् आरोपितं मन्यमान इत्य् अर्थः । नृपेति सकौतुकं सम्बोधनम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षट्-षष्टितम ऐश्वर्यं पौण्ड्रकस्याद् यदीश्वरः ।
तत्-तन्-मित्रञ् च तत्-पुत्रः काश्यद् अह्यत चारिणा ॥
नन्द-व्रजं गते सति राम इति कृष्णम् एकाकिनं मत्वेति भावः । वासूदेवो\ऽहम् इति मत्वेति शेषः ॥१॥
॥ १०.६६.२ ॥
त्वं वासुदेवो भगवान् अवतीर्णो जगत्-पतिः ।
इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तीभितः स्तुत्या प्रोत्साहितः । बालैर् अज्ञः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मानं निजम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अज्ञत्वम् एव दर्शयति—त्वम् इति । सर्वान्तर्यामित्वेन वासुदेवाख्यो भगवान् सर्वैश्वर्य-युक्तो\ऽतो जगत्-पतिर्यः स एव त्वम् अवतीर्णो\ऽसीति, अच्युतं सर्वैश्वर्य पूर्ण भगवन्तम् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अज्ञत्वम् एव विवृण्वन् दूत-प्रस्थापनं विवृणोतित्वम् इति द्वाभ्याम् । सर्वान्तर्यामित्वेन वासुदेवाख्यो भगवान् सर्वैश्वर्य-युक्तः अतो जगत्-पतिर् यः स एव त्वम् अतीर्णो\ऽसीति अच्युतं सर्वैश्वर्य-पूर्णं भगवन्तम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रस्तोभितः स्तुत्या प्रोत्साहितः ॥२॥
॥ १०.६६.३॥
दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्त-वर्त्मने ।
द्वारकायां यथा बालो नृपो बाल-कृतो \ऽबुधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बालकृतो नृपो बालैन पत्वेन बालैर् नृपत्वेन क्रीडायां परिकल्पितः ॥३-७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वारकायां कृष्णायेत्य् अन्वयः । तथा त्वम् अबुध आत्मानं कृष्णं मेन इति पूर्वेणान्वयः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं मेने, दूतं प्राहिणोच्चेति । तस्यात्यन्त-निर्बुद्धित्वेनातिकौतुकाद् उक्तस्यापि पुनर् उक्तिः । मन्दो\ऽधमः, तत्र हेतुः—अभक्तेश्व् अव्यक्त-रूपायेत्य् अर्थः । यद् वा, आ सम्यक् सर्वैश्वर्य-प्रकटनाद् व्यक्तं रूपं तत्त्वं तद्वते\ऽपि प्राहिणोत् । अव्यक्त वर्त्मने इति पाठे पाठान्तरे—न व्यक्तं वर्मापि यस्य तस्मा इति । तत्-तत्त्व-ज्ञानाशक्त्या तस्य तद् युक्तम् एवेति भावः । किं वा, अबुधत्वम् एव व्यञ्जितम् । बालकृतो नृपो बालो यथात्मानं नृपं मन्यते, तथा मेन इति पूर्वेणान्वयः । यद् वा, यथा स बालस् तद्वद् अबुधः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं मेने द्वारकायां तादृश-देव-मुनि-राजादि-सम्बलितायां दूतञ् च प्राहिणोद् इति तस्यात्यन्त-दुर्बुद्धित्वेन कौतुकात् पुनर् उक्तिः अतो मन्दो\ऽत्य् अधमः निर्बुधिः यतो यथा बालैर् अन्यनैर् नृपत्वेन कल्पितः कश्चिद् अबुधो बालस् तादृश इत्य् अर्थः । किञ् च न व्यक्तं वापि यस्य तस्मै इति तस्य तु सुतरां तत्त्वज्ञानाशक्त्या तय् उक्तम् एवेति भावः । यथा स बालः तद्वद् अबुधः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दूतञ् च प्राहिणोद् इति तस्यातिनिर्बुदित्वेन विस्मयात् पुनर् उक्तिः । बालकृतः क्रीडायां बालेर् नृपत्वेन कल्पितः कश्चिद् बालो यथा ॥३-४॥
॥ १०.६६.४ ॥
दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् ।
कृष्णं कमल-पत्राक्षं राज-सन्देशम् अब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज-सन्देशं पौण्ड्रकाज्ञाम् ॥४-५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु अपि, दूरतो\ऽपि, इति तस्याप्य् अबुधत्वं बोधयति, तद् एवाह—सभायाम् इत्य्-आदिना । प्रभु यादवानां जगतो वा ईश्वरम्, यतः कृष्णं साक्षाद्-भगवन्तम्, अतः प्रभुं सर्व-शक्तिमन्तं कमल-पत्राक्षञ् च, इति परमैश्वर्यं सौन्दर्यञ्चोद्दिष्टम् । तेन च तस्यैव भगवत्त्व-योग्यता चोक्ता । यद् वा, कमल-पत्राक्षम् इति दूतं प्रति कौतुकेन निरीक्षणाच्-छ्रीनेत्रयोः प्रसक्ति-विशेषाभिप्रायेणेति दिक् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तुः-शब्देन दूतस्य ततो\ऽपि निर्बुद्धित्वं बोधयति, तद् एवाह—द्वारकाम् एत्य् एत्य् आदिना । तत्र द्वारका तादृशालौकिक-सम्पत्तिमती सभायां तत्-तन्-महानुभावपालितायां प्रभुं सर्व-शक्ति-युक्तं कृष्णं स्वयं भगवन्तं कमल-पत्राक्षं माधुर्येण च सर्वोत्कृष्टम् इत्य् अर्थः । एषु क्रमाधिक्यम् अपि-शब्दश् च सर्वत्र गम्यं तेन तेन च तस्मैव भगवत्त्व-योग्यतोक्ता कमल-पत्राक्षम् इत्य् अनेन दूतं प्रति सकौतुक-निरीक्षणात् श्री-नेत्रयोः प्रसत्ति-विशेषश् चाभिप्रेतः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.५ ॥
वासुदेवो \ऽवतीर्णो \ऽहम् एक एव न चापरः ।
भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधं त्यज ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः),श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूतानाम् अनुकम्पार्थम् अवतीर्ण एव प्रवाहं वासुदेवः, न चापरः कश्चिद् वासुदेवः, ईश्वरस्यैक्यात्, अतो मिथ्याभिधां वासुदेव इति नाम मत्-सनामत्वात् त्यज इति सूचयति—भूतानाम् इति । स-सैन्य-राजादि-वधेन मत्-प्रातिकूल्यं तव नोचितम् इति भावः । किं वा, भूतानाम् अनुकम्पार्थ त्यज, अन्यथा-वयार्युद्धेन सर्व-प्राणिनां किं वा, द्वारका-वासि जनानां दुःखं भवितेति भावः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूतानाम् अनुकम्पार्थम् एक एव वासुदेवो यः, सो\ऽहम् एवावतीर्णः न चापरा कश्चिद् वासुदेवः ईश्वरस्यैकत्वात् । अतो मिथ्या अभिधां वासुदेव इति मिथ्याभिधां [सञ्ज्ञां] त्यज सर्व-भूतावासत्वादि-निरुक्त्या-विषयत्वात् वसुदेव-पुत्रत्वे\ऽपि रूढि-वृत्त्य्-अभावाद् इति भावः । भूतानाम् इति कृतेन स-सैन्य-राजादि-वधेन मत्-प्रातिकूल्यं तव नोचितम् इति भावः । किं वा, भूतानाम् अनुकम्पार्थं त्यज, अन्यथा आवयोर् युद्धे सर्व-प्राणिनां, किं वा, द्वारका-वासिनां पीडा स्याद् इति भावः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्लोक-द्वयस्य सरस्वत्या अभिमतो वास्तवार्थो यथा अवतीर्ण इति भागुरि-मते\ऽकार-लोपे सति पुनर् -नञो\ऽकारः वासुदेवो\ऽहं न अवतीर्णः, किं तु भूतानाम् अनुकम्पार्थं त्वम् एक एव वासुदेवो नान्यः । अतः शुक्ती रजतस्येव मयि या मिथ्याभिधा, तां त्यज त्याजयेत्य् अर्थः । अत एव भगवता प्रतिवक्ष्यते त्याजयिष्ये\ऽभिधानम् [१०.६६.२०] इति ॥५॥
॥ १०.६६.६ ॥
यानि त्वम् अस्मच्-चिह्नानि मौढ्याद् बिभर्षि सात्वत ।
त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममावहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्मच्-चिह्नानि चक्रादीनि । सात्वत ! इति हे यादव-विशेष ! इत्य् अनादरात् । वस्तुतस् तु "न चाहं भूतानाम् अनुकम्पार्थं वासुदेवो\ऽवतीर्णः, यतो\ऽपरः, अश्रेष्ठस् तुच्छः" इत्य् अर्थः । किं तु स्वम् एवावतीर्णः । अतः शुक्तौ रजतस्येव मयि या तव मिथ्याभिधा तां त्यज त्याजयेत्य् अर्थः । साक्षात् तं प्रति वक्ष्यते स्वयं भगवान् एव—त्याजयिष्ये\ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् [१०.६६.२०] इति । तथा मौढ्याद् धेतोर् यान्य् अस्मच्-चिह्नानि कल्पित-चक्रादीनि बिभर्षि तानि त्यक्त्वा प्रक्षिप्य शरणं मुक्तिदत्वाद् आश्रयस् तन् माम् एहि स्वीकुर्व् इत्य् अर्थः । यदि सहसास्त्र-विमोक्षं न करोषि, तदा मुह्यं युद्धं देहि इति । युधि मां हत्वा मोक्षं प्रापयेति भावः।
ये ये हताश् चक्र-वरेण विष्णुना
त्रैलोक्य-नाथेन जनार्दनेन ।
ते ते गता विष्णु-पुरीं नरेन्द्राः
क्रोधो\ऽपि देवस्य वरेण तुल्यः ॥ [प्रपन्न-गीता] इत्य्-उक्तेः ॥५-६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, यानि इति । अस्मदीयान्य् एव चिह्नानि चक्रादीनि । सात्वत ! हे यादव ! हे भक्त ! इति वा, अनादरात् । वस्तुतस् तु दुष्टस्यापि तस्योक्ती दैवोद्भूतो\ऽयम् अर्थः—अवतीर्णो\ऽहम् इति मम मिथ्याभिधां त्यज त्याजय, यथा मौढ्याद् अन्यान्यस्मच् चिह्नानि तानि च मां प्रति त्याजयित्वा मद्-गृहम् एहि स्वीकुर्व् इति ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, यानि इति । अस्मादीयान्य् एव चिह्नानि चक्रादीनि । सात्वत ! हे यादव-विशेष ! इत्य् अनादरात् । वस्तुतस् तु न चाहं भूतानाम् अनुकम्पार्थं वासुदेवो\ऽवतीर्णः यतो\ऽपरः अश्रेष्ठस् तुच्छ इत्य् अर्थः । किं तु, एकस् त्वम् एवावतीर्णः । अतः शुक्तौ रजतस्येव मयि तव या मिथ्याभिधा तां त्यज त्याजय इत्य् अर्थः । तथा च । प्रतिवक्ष्यते साक्षात् तं प्रति भगवान् एव त्याजयिष्ये\ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् [१०.६६.२०] इति तथा मौढ्याद् धेतोर् यान्य् अस्मच्-चिह्नानि कल्पितानि चक्रादीनि तद्-रूपाणि त्वं बिभर्षि नित्यम् एव धरसि अतस् तानि त्यक्त्वा प्रक्षिप्य शरणं मुक्तिदत्वाद् आश्रयः सन् माम् एहि स्वीकुर्व् इत्य् अर्थः । नो चेद् यदि सहसास्त्र-विमोक्षं न करोषि, तदा मम मह्यम् आहवं युद्धं देहीति अत्रास्त्र-मोक्षणं यथावद् एव प्रतिवक्ष्यते दूतं प्रति तं प्रति च, उत्स्रक्ष्ये मूढ-चिह्नानि [१०.६६.८] इति तान्य् अस्त्राणि उत्सृजामि त इति च शरणापत्तिस् तु मल्लानाम् अशनिः इत्य्-आदिवत् तस्मिन् स-मत्सरे सोपहासोक्तैर् एव युक्तत्वाद् अन्यथान्यथैव प्रतिवक्ष्यते, भविता शरणं शुनाम् [१०.६६.९] इति, व्रजामि शरणं ते\ऽद्य यदि नेच्छामि संयुगम् [१०.६६.२०] इति च ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मौढ्याद् एव हेतोर् अस्मच्-चिह्नानि कृत्रिम-शङ्ख-चक्रादीनि यानि वर्तन्ते, तानि बिभर्षि अस्मन्-निग्रहाकरणात् त्वम् एव पालयसि, न तु दूरी-करोषि एतद् अन्याय्यम् इति भावः । तस्मान् मां त्यक्त्वा तानि चिह्नानि त्याजयित्वा एहि मोक्ष-दानार्थं कृपया आगच्छ नो\ऽस्माकम् असुराणां मोक्ष-दातृत्वात् त्वम् एव शरणं संसारात् रक्षिता चेद् भवसि, तदा मम मह्यम् आहवं युद्धं देहि युद्धे मां हत्वा मोक्षं प्रापयेति भावः ॥६-७॥
॥ १०.६६.७ ॥
श्री-शुक उवाच—
कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः ।
उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कत्थनम् व्यर्थ-भाषणम् । तद् "अहं वासुदेवः" इत्य् एवं-रूपम् । तदा श्रवण-काले ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अल्प-मेधसस् तुच्छ-बुद्धेस् तद् उक्तम् अपूर्व-कत्थनम् आत्म-श्लाघनं गर्ग-वाक्यं वा, पौण्ड्रकस्य इति तत्-सञ्ज्ञस्य नाम च वासुदेव इति ज्ञेयम् । उप श्री-भगवत्-समीप एव आकर्ण्य तथा सद्य एव उच्चकैः स-स्वनं जहसुः, सभ्याः सभा-स्थिताः सर्व एव ॥७॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १६०) : उत्प्रासात्मक-हास्य-रसस्य द्वितीयो दृष्टान्तः ॥
ज् ईव-गोस्वामी (लघु-वैष्णव-तोषणी) : कत्थनम् आत्म-श्लाघनम् अल्प-मेधसस् तुच्छ-बुद्धेः उप श्री-भगवत्-समीप एव आकर्ण्य ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.८ ॥
उवाच दूतं भगवान् परिहास-कथाम् अनु ।
उत्स्रक्ष्ये मूढ चिह्नानि यैस् त्वम् एवं विकत्थसे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे मूढ ! उत्स्रक्ष्ये त्वयि प्रक्षेप्स्यामि । यैः सह त्वम् एवं विकत्थसे तेष्व् अपीत्य् अर्थः । यद् वा, यैः कृत्रिमैः सुदर्शनादिभिस् त्वम् एवं श्लाघसे, तान्य् उत्स्रक्ष्ये त्याजयिष्यामीत्य् अर्थः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यैः पार्श्वस्थैर् नरैः न । इत्य् अर्थ इति—मूर्ख-सहितो मूर्ख उच्छृङ्खलो भवसीत्य् अतस् तैः सहैव तव नाश उचित इति भावः । तत्-प्रोत्साहकानाम् अत्रानुक्तेर् अर्थान्तरम् आह—यद् वा इति । इत्य् अर्थ इति—अन्तर्-भावि [तण्य्]{।मर्क्} अर्थः उत्स्रक्ष्ये उत्सर्जयिष्यामीति ध्येयम् । यद् वा, चिह्नानि स्वीय-सुदर्शनादीनि उत्स्रक्ष्ये प्रक्षेप्स्यामि यैः सह त्वम् एवं विकत्थसे भाषसे तेष्व् अपीत्य् अर्थः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिहास-कथाम् अन्व् इति । अवहेलया नर्म-कथया क्षणं विलम्ब्य परिहसन्न् एवेत्य् अर्थः, यतो भगवान् अनन्ताद्भुत-चातुर्यादि-गुण-युक्तः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परिहास-कथाम् अन्व् इति सभ्यानाम् उच्चैर् हासानन्तरं या मिथो दूतं प्रति च तत्-कथा तद् अनन्तरम् इत्य् अर्थः । तत्रास्त्र-त्यागो य आदिष्टः तं करिष्याम्य् एवेत्य् आह—उत्स्रक्ष्य इति । तैर् व्याख्यातं यद् वा, यैर् मन्दीयैः चिह्नैर् आत्मीयत्वेन विकत्थसे संश्लाघसे तान्य् उत्स्रक्ष्ये त्वयि विक्षेप्स्यामीत्य् अर्थः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यैः काशी-राजादिभिः ॥८-१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे मूढ ! चिहानि उत्स्रक्ष्ये त्याजयिष्यामीत्य् अर्थः । यद् वा, चिह्नानि स्वीय-सुदर्शनादीनि उत्स्रक्ष्ये त्वयि प्रक्षेप्स्यामि यैस् सह त्वम् एवं विकत्थसे तेष्व् अपीत्य् अर्थः ॥८॥
॥ १०.६६.९ ॥
मुखं तद् अपिधायाज्ञ कङ्क-गृध्र-वटैर् वृतः ।
शयिष्यसे हतस् तत्र भविता शरणं शुनाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : "**मां शरणम् एहि" [१०.६६.६] इत्य् अस्योत्तरम् । मुखम् इति । वटाः कङ्कादिवत्ंक्पक्षि-विशेषाः । तत्र तदा शुनां शरणम् आश्रयो भविता\ऽसि ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-ततो\ऽर्थान् मदस्त्रत्यागोत्तरम् । यद् वा, येन मुखेन सम्प्रत्य् एवं ब्रूषे तन्-मुखम् । अपिधायाच्छाद्य । शुनां सारमेयाणाम् । श्वानस्त्वां सुखेन भोक्ष्यन्तीति भावः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् कत्थनकरं मुखम् अपिधाय अधोमुखतया निपातेन बालुकादिभिर् आच्छाद्य, अन्यो\ऽपि शयानो मुखं वस्त्रेणाच्छाद्य शेते, तदैव त्वत्-कथनम् अपयास्यतीति । किं वा, कत्थनस्य फलं भक्ष्यस इति भावः । वटाः—मांसाहारि-तीक्ष्ण-तुण्डाः, भवितेति तृप्रत्ययान्तम्, भविष्यसि । अत एव तैर् अपि व्याख्यातम् । भवितासीति, अन्यच् च तैर् व्याख्यातम् । यद् वा, उत्स्रक्ष्ये त्वयि मोक्ष्यामि । यैर् उत्सृष्टैस् त्वं शयिष्यसे, येनेव विकत्थसे, तन्-मुखश् चापिधायेत्य् अन्वयः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं तु **"**मां शरणम् एहि" [१०.६६.६] इति यद् आदिष्टं तद्-भागधेयं शुनाम् एव सम्पत्स्यते नान्येषाम् इत्य् आह—मुखम् इति । तत्-कथनपर मुखम् अपिधाय अधोमुखतया निपातेन बालुकादिभिर् आच्छाद्य अन्योऽपि शयानो मुखं वस्त्रेणाच्छाद्य शेते कङ्कादिभिर् वृत इति तदाप्य् आधुनिकवत् सहायास् तव भविष्यन्तीति भावः । वटा मांसाहारि-तीक्ष्ण-तुण्डाः भवितेति तृच्-अप्रत्ययान्तः शयिष्य स इति मध्यम-पुरुषेण स्वम्पद-लाभात् भवितासोत्य् अर्थः । अन्यतः यद् वा, उत्स्रक्ष्ये त्वयि मोक्ष्यामि यैर् उत्सृष्टैस् त्वं यिष्यसे येनैव विकत्थसे तन्-मुखञ् चापिधायेत्य् अन्वयः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन मुखेन सम्प्रत्य् एवं ब्रूषे तन्-मुखम् अपिधाय आच्छाद्य वटाः कङ्कादिवत् पक्षि-विशेषाः शुनां शरणं भवितासीति श्वानस् त्वां सुखेन भोक्ष्यन्ते इति भावः ॥९.१३ ॥
॥ १०.६६.१० ॥
इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् ।
कृष्णो\ऽपि रथम् आस्थाय काशीम् उप जगाम ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काशीम् इति । पौण्ड्रकस्यापि तदा मित्र-पूरे\ऽवस्थानात् ॥१०-११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् उक्तम् । स्वामिने पौण्ड्रकाय । तदा प्रेषणादिसमये । मित्र-पुरे काश्याम् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उप काशी-समीपे जगाम । ह हर्षे, अन्यत् तैर् व्याख्यातम् । यद् वा, काशीम् इति काशी-करूष-देशयोर् नैकट्यात् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं पूर्वोक्तम् आक्षेपं । पाठान्तरे तद्-आक्षेपं तत्-कृतम् आक्षेपम् उप **काशी-**समीपे जगाम ह हर्षे अन्यत् तैर् व्याख्यातं । यद् वा, काशीति काशी करुष-देशयोर् नैकट्यात् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.११ ॥
पौण्ड्रको \ऽपि तद्-उद्योगम् उपलभ्य महा-रथः ।
अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् उद्योगं कृष्णोद्योगम् । द्रुतं क्षिप्रम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-रथो महायोद्धा, यदा, गरुडध्वज रथारोहणात् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-रथः महा-योद्धा यद् वा, गरुडध्वज-रथारोहणात् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.१२ ॥
तस्य काशी-पतिर् मित्रं पार्ष्णि-ग्राहो \ऽन्वयान् नृप ।
अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पाणिग्राहः पृष्टतो रक्षकः ॥१२-१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य पौण्ड्रकस्य । काशीशब्दो विभाषया डीपन्तः कृदिकारादक्तिनः इति विधानात् । काशते प्रलये\ऽपि प्रकाशते तेजो-रूपेणेति काशी काशृ-दीप्तो अतो धातोरिः । मित्र-मासीद् इति शेषः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृप इति समृद्धि सूचयति । ताम् एव दर्शयति—तिसृभिर् अक्षौहिणीभिः सहेति । हरिर् इति सह-निज-वेशादिना मनोहरणात् । किं वा, कर्तव्य-पौण्ड्रकादि-प्राण-हरणाभिप्रायेण, एवम् अग्रे\ऽपि ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्येत्य् अर्धकम् । नृप इति समृद्धि सूचयति नृपेति कचित्-पाठः अक्षौहिणीभिर् इति सार्ध-द्वयकम् । श्री-वत्सोऽपि पररोमरोपणया कृत्रिम एव वेषं कृत्रिमम् इति वक्ष्यमाणात् श्री-विष्णु-पुराणेऽपि वक्षस्यलकृतञ्चास्य श्री-वत्सं ददृशे हरिः इति आदि-शब्दात् पद्मादि इति चतुर्भुजत्वं महादेव-वरेणेति पाद्मोत्तर-खण्डे असेः कक्षाधःप्रतिम् उक्तत्वात् एतद् अपि रचितं ज्ञेयम् ॥१२-१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.१३ ॥
शङ्खार्य्-असि-गदा-शार्ङ्ग-श्रीवत्साद्य्-उपलक्षितम् ।
बिभ्राणं कौस्तुभ-मणिं वन-माला-विभूषितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अरि चक्रम् । आदिना नन्दकादि-ग्रहः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-वत्स्ः कृत्रिम एव, वेषं कृत्रिमम् इति, वक्ष्यमाणत्वात्, श्री-विष्णु-पुराणे\ऽपि वक्षःस्थल-कृतं चास्य श्री-वत्सं ददृशे हरिः [वि।पु ५.३४.१७] इति, आदि-शब्दात् प्द्मादि, इति चतुर्भुजत्वम्, ततश् च बाहु-द्वयम् अन्यद् अपि सर्व प्रयत्नात् किञ्चित्-सादृश्येन रचितं ज्ञेयम् । अमूल्येति दिव्य-श्री-भगवन्-मुकुटानुकारार्थम् ॥१३-१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.१४ ॥
कौशेय-वाससी पीते वसानं गरुड-ध्वजम् ।
अमूल्य-मौल्य्-आभरणं स्फुरन्-मकर-कुण्डलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गरुडः कृत्रिमो ध्वजे यस्य तम् । अमूल्यो\ऽनर्घ्यो मौलिर् आभरणं च यस्य तम् ॥१४-१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मौलिर् मुकुटम् । आभरणं कङ्कणोर्मिकादि रूपम् । मौलिः किरीटे धम्मिल्ले चुडायाम् अनपुंसकम् । नासावद्रौ स्त्रियां भूमौ इति मेदिनी । अमूल्यो\ऽल्पमूल्यः कृत्रिमत्वात् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अमूल्येति । यत्नतो दिव्य-भगवन्-मुकुटानुकरणार्थं ज्ञेयम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गरुडः कृत्रिम-मूतिर्ध्वजे यस्य तम् अमूल्यः कृत्रिमत्वाद् अल्पमूल्यो मौलिर् आभरणं यस्य तम् ॥१४-१६॥
॥ १०.६६.१५ ॥
दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् ।
यथा नटं रङ्ग-गतं विजहास भृशं हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं पौण्ड्रकम् ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तुल्यश्-चासौ वेषश् च तं कृत्रिमम् इति श्री-भगवच्-छङ्खादीनां नित्यत्वेन सहजत्वं सूचयति—यथेति दृष्टान्तेन, वेषधारणे नैपुण्यादिकं सूचितम्, अतो विशेषेण उच्चैर् जहास ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मनस् तुल्यम् आत्मना तुल्यम् इति वा पाठः । कुत्रिमम् इति श्री-भगवच्-छङ्खादीनां तु स्वाभाविकत्वं सूचयति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वेषं कृत्रिमम् आस्थितम् इत्य् अत्र महादेव-वर-प्रप्तित्वाद् इति पाद्मोत्तर-कण्डाल् लभ्यते ॥१५-२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.१६ ॥
शूलैर् गदाभिः परिघैः शक्त्य्-ऋष्टि-प्रास-तोमरैः ।
असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अरयः पौण्ड्र-सैनिकाः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अरय इति प्रहार-नैष्ठुर्यं सूचितम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अरय इति । प्रहारे नैष्ठुर्यं सूचितम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.१७ ॥
कृष्णस् तु तत् पौण्ड्रक-काशि-राजयोर्
बलं गज-स्यन्दन-वाजि-पत्ति-मत् ।
अगदासि-चक्रेषुभिर् आर्दयद् भृशं
यथा युगान्ते हुत-भुक् पृथक् प्रजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गज-स्यन्दनादि-चतुरङ्ग-बल-मर्दितवान् । पृथक् प्रजाश् चतुर्विधं भूत-ग्रामं यथा युगान्ताग्निर् इति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तब्-अलम् । युगान्ते प्रलये ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु शब्देन तत्-तत्-पहारस्य बैफल्यम् । किं वा, तस्मात् प्राग् एवेति बोधयति । भृशम् अत्य् अर्थमार्दयत् सञ्जहारेत्य् अर्थः । गजादीनां यथोत्तरं सेनाङ्गत्वे तथा गदादीनाञ्चार्दन-साधनत्वे न्यूनत्वम्, तत्र चर्मणेति चर्मावरणकरत्वेनैवार्दन-साधनम्, चक्रकृतञ् च वक्ष्यत्य् एव । पाठान्तरे चक्रेति पाठः स्पष्टः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु-शब्दो वैशिष्टये अरया प्राहरन्न् एव न तु किञ्चित्-कर्तुं शक्तवन्तः श्री-कृष्णस्तु भूशमत्य् अर्थमार्दयत् सज्-जहारेत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हुतभुक् प्रलयाग्निः पृथक् प्रजाः जरायुजादि-पृथग्-भेद-प्रजाः ॥१७॥
॥ १०.६६.१८ ॥
आयोधनं तद् रथ-वाजि-कुञ्जर-
द्विपत्-खरोष्ट्रैर् अरिणावखण्डितः ।
अबभौ चितं मोद-वहं मनस्विनाम्
आक्रीडनं भूत-पतेर् इवोल्बणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आयोधनं रण-स्थानम् । अरिणा चक्रेण चितम् आक्रीडनम् इव कल्पान्त रुद्रस्य क्रीडा-स्थानम् इव ॥१८-२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मनस्विनां शराणाम् मनस्वी योगिशूरयोः इति धरणिः । भूतपते रुद्रस्य ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र विशेषतो\ऽशेषायुध-श्रेष्ठ-चक्र-कृतम् आह—आयोधनम् इति । रथादीनां यथा-पूर्व युद्धार्थम् अग्रे\ऽभिगमने श्रैष्ठ्यात्, तत्-तत्-क्रमेणावखण्डनम्, उल्बणम्-अन्येषां भयङ्करम् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र विशेषतो\ऽशेषायुध-श्रेष्ठ-चक्रवृतम् आह—आयोधनम् इति । रथादीनां यथा-पूर्व युद्धार्थम् अग्रे\ऽभिगमने श्रैष्ध्यात्-तत्-तत्-क्रमेणावखण्डनम् उल्बणम् अन्येषां भयङ्करम् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आयोधनं युद्ध-स्थानं रथादिभिश् चितं व्याप्तम् अरिणा चक्रेण ॥१८-२१॥
॥ १०.६६.१९ ॥
अथाह पुण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् ।
दूत-वाक्येन माम् आह तान्य् अस्त्राण्य् उत्सृजामि ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ सेनाछेदोत्तरम् । वासुदेवो\ऽवतीर्णो\ऽहं यानि त्वम् अस्माच्-चिह्नानीत्य् आदिकं यद् आह—ते तानि उत्सृजानि मुञ्चामि ते त्वयि वेत्य् अर्थः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अर्दनानन्तरम् एव, शौरिः—निजाशेषैश्वर्य-प्रकटनाथं शरवंशे\ऽवतीर्ण इति, तादृश्य् उक्तिस् तस्य योग्यवेति भावः । भो भोः इति क्रोधाद् उपहासाद् वा, अत एव भवान् इति च यद् आह तेन तानि त्वद् उद्दिष्टानि, ते तुभ्यम् उत्सृजामि ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अर्दनानन्तरं सम्यग्-व्यवधाने गते शौरिः शूर-वंशे\ऽवतीर्णः स्वयं भगवान् भो-भो इत्य् उपहासात् अत एव भवान् इति च यद् आह तेन तानि त्वद् उक्तानि तुभ्यम् उत्सृजामि ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२० ॥
त्याजयिष्ये\ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् ।
व्रजामि शरणं ते\ऽद्य यदि नेच्छामि संयुगम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्याजयिष्ये हापयिष्यामि ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभिधानं च वासुदेव इति नामा त्यायिष्ये । अज्ञ इति पाठे मौढ्याद् एव धृतम् इत्य् अर्थः । ननु, दूत-वाक्यानुसारेण व्यवहरति वेहि **"**मां शरणम् एहि" [१०.६६.६], तत्राह—व्रजामि इति । त्यक्त्वैहि मां त्वं शरणम् इत्य्-आदि-दूत-वाक्यानुसाराद् एव युद्धे\ऽयं त्वां हस्तीति भावः । अयम् आक्षेप-विशेषः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वं तु मिथ्याभिधां त्यजेति यद् उक्तं तत्राह—त्याजयिष्य इति । धातूनाम् अन्तर्भूतण्य् अर्थतयापि प्रयोग-दर्शनाद् अनन्यथार्थम् एव करिष्यामीति भावः ।
ननु, दुत-वाक्यानुसारेण व्यवहरसि चेहि **"**मां शरणम् एहि" [१०.६६.६] तत्राह—व्रजामीति । त्यक्त्वैहि मां त्वं शरणम् इत्य् आदौ तत्राह—वस्यैव प्रथम-विहितत्वाद् इति भावः । अद्य त्वद्-दर्शनावसरे अज्ञेति पाठे\ऽपि न विद्यते ज्ञो यस्माद् इत्य् उपहास-व्यञ्जना ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२१ ॥
इति क्षिप्त्वा शितैर् बाणैर् विरथी-कृत्य पौण्ड्रकम् ।
शिरो \ऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गिरेः शृङ्गं यथेति ॥२१-२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रथाङ्गेन चक्रेण । रथाङ्गं न द्वयोश् चक्रे ना चक्राङ्ग-विहङ्गमे इति मेदिनी ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति—एवम्, क्षिप्त्वा आक्षिप्य, यथेति दृष्टान्तेन शिरोव्रश्वने अनायासत्व-शीघ्रत्वादिकं सूचयति । विशेषेण पुरान्तर् महा-शब्दादिना अपातयत् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्षिप्त्वा आक्षिप्य ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२२ ॥
तथा काशि-पतेः कायाच् छिर उत्कृत्य पत्रिभिः ।
न्यपातयत् काशि-पुर्यां पद्म-कोशम् इवानिलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा पौण्डूकस्य रथाङ्गेन तथा काशिपतेः पत्रिभिर् इति योज्यम् । पद्म-कोशाः पद्म-मुकुलम् । काशी-राजस्य शिरसः काशी-मध्य-निक्षेपे इदं कारणम् उन्नेयम्—भो भोः काशिस्था अद्य शत्रोः शिर एव काशी-मध्य उन्नेष्यामि मात्र-संशेध्वम् इति प्रतिज्ञायैव युद्धाय काशी-राजो यद् अगच्छत् अस्मद्-भर्ताद्य द्वारका-पतेः शिरो\ऽवश्यमानेष्यतीति तत्-पत्न्यो\ऽपि पापिन्यः स-प्रौढि-स्व-वयस्याः प्रति यद् अजल्पंस् तत एव हेतोस् तस्यैव शिरः काशी-मध्ये तत्रत्यजनान्विस्भापयितुं प्रवेशयामास कौतुकी भगवान् इति ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पत्रिभिर् इति बहुत्वं तत्र पातनार्थम्, तेषां बाहुल्याद् गौरवाद्वा ! पद्मेति दृष्टान्तेनाकस्माद् आकाशवर्त्मना पातनादिकं द्योतयति ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनिल इत्य् अदृश्य-कर्तृत्वेनोपमानीकृतं तथा पत्रिणाम् अपि तत्-प्रक्षिप्त्यैव निवृत्तेर् अदृश्यकरणत्वेन च ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काशि-राजस्य शिरसः काशी-मध्ये निक्षेपे इदं कारण-मुन्नेयं भो-भो काशीस्थाः! अद्य शत्रोः शिर एव काशी-मध्य-मानेष्यामि मात्र संशेध्वम् इति प्रतिज्ञायैव युद्धाय काशि-राजो यद् अगच्छत् अस्मद्-भर्ता द्वारकापतिः शिरो\ऽस्यावश्यम् एवानेष्यतीति तत्-पत्न्यो\ऽपि पापिन्यः सप्रौढिस्व-वयस्याः प्रति यद् अजल्पंस् तत एव हेतोस् तस्यैव शिरः काशी-मध्ये तत्रत्यजनान् विस्मापयितं प्रवेशयामास कौतुकी भगवान् इति ॥२२-२३॥
॥ १०.६६.२३ ॥
एवं मत्सरिणं हत्वा पौण्ड्रकं स-सखं हरिः ।
द्वारकाम् आविशत् सिद्धैर् गीयमान-कथामृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मत्सरिणम् इति, तस्य प्रायो भगवद् उत्कर्षासहनात्, सिद्वैर् जीवन्मुक्तैर् विमान-गामिभिर् वा, सर्वैः, गीयमानं कथामृतं पौण्ड्रक-वधादि-लक्षणं यस्य तथा-भूतः सन् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मत् सरिणं भगवद् उत्कर्षासहनं सिद्धैर् जीवन्-मुक्तैर् विमानगामिभिश् च सर्वैस् तन्-महा-कौतुक-दर्शनार्थम् आगतैर् गीयमानं कथामृतं पौण्डक-वधादि-लक्षणं यस्य तथाभूतस् सन् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२४ ॥
स नित्यं भगवद्-ध्यान-प्रध्वस्ताखिल-बन्धनः ।
बिभ्राणश् च हरे राजन् स्वरूपं तन्-मयो \ऽभवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स पौण्ड्रकः । तन्मयः कृष्ण-स्वरूपः कृष्ण-सारूप्यम् एव पेशस्कारीहृतकीटवद् इति भावः ॥२४-२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स पौण्ड्रकः, तत् ब्रह्म, तन्मयो भूतः, मोक्षं प्रापेत्य् अर्थः । कुतः ? नित्यं यद्-भगवतो ध्यानं मात्सर्येण चिन्तन-विशेषस् तेन प्रकर्षेण ध्वस्तम् अखिलं बन्धनं संसार-बन्धः, किं वा,
वध्यन्ते जीवा एतैर् इति बन्धनानि कर्माणि प्रध्वस्तानि अखिलानि पाप-पुण्य-लक्षणानि यस्य सः, प्र-शब्देनाखिल-शब्देन च श्री-भगवन्-मात्सर्यादि-दोषध्वंसो\ऽपि द्योतितः । भोग विनापि सर्व-कर्म-प्रध्वंसो भगवद्-ध्यान-प्रभावाद् एव, अन्यथा मोक्षासिद्धिः । नित्य-भगवद्-द्याने हेतुः—हरेः स्वकीयम् असाधारणं रूपं वेशं विभ्राण इति । चकारात्-तन्-मित्रं काशि-राजश् च, अथवा नित्येति सर्व-पाप-बन्ध-प्रध्वंस उक्तः, मात्सर्यादिना तद्-ध्यानेन सदा महा-दुःखोद्गमात् । पुण्य-ध्वंसं चाह—विभ्राण इति । च समुच्चये, तद्-रूप-धारणेन सुख-विशेषोदयाद् इति भावः । हरेर् इति रूपस्यापि मनोहरता सूचिता । हे राजन् इति भगवद्-ध्यानस्याश्चर्य-प्रभावात् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मत्सरावेशम् अपि दर्शयन् द्वेष्यादिवन्-मुक्तिम् आह—स पौण्ड्रकः हरेः स्वरूपं स्वीयं रूपं चतुर्भुजत्वादि तद्-विभ्राणः अनुकुर्वाण्ः तन्-मयः प्राचुर्येण तद् रूपो\ऽभवत् सारूप्यं प्रापेत्य् अर्थः । यतो नित्यम् इत्य्-आदि तादृश-भावनया पेशस्कारि-हृत-कीटवद् इति भावः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेः स्वरूपं चतुर्भुजत्वम् ॥२४॥
॥ १०.६६.२५ ॥
शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् ।
किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) :**प्रथमं किम् इदम् इति पश्चाद्-वक्त्रम् इति विभाव्य कस्य चेति संशयं कृतवन्त इति ॥२५-२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कस्य चेति संशिश्यिरे, निश्चेतुं न शक्ता इत्य् अर्थः । यतो जनाः पौर-प्रजाः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : संशिश्यिरे तस्य वान्यस्य वेदम् इति नाना-प्रकारं तर्कयामासुः जनाः साधारणाः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं किम् इदम् इति पश्चाद्-वक्त्रम् इति संशिश्यिरे सन्देहं प्रापुः ॥२५-२८॥
॥ १०.६६.२६ ॥
राज्ञः काशी-पतेर् ज्ञात्वा महिष्यः पुत्र-बान्धवाः ।
पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः),श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ज्ञात्वा परिचित्य, यतस् तस्य महिष्यादयः, अतः प्रकर्षेण उच्चैर् आर्तस्वरादिनारुदन् । वयम् ? राजन् ! हे भूपते ! नाथ ! हे अस्मत् स्वामिन् ! हा हता । स्मः इत्य् एवं वोप्सादि शोकात् महिष्यादीनां यथा-पूर्वं ज्ञाने प्ररोदने चाधिक्यम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हा हताः स्म इति शेषः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२७ ॥
सुदक्षिणस् तस्य सुतः कृत्वा संस्था-विधिं पतेः ।
निहत्य पितृ-हन्तारं यास्याम्य् अपचितिं पितुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संस्था-विधिम् उत्तरक्रियाम् । अपचितिं निष्कृतिम् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-पुत्रस् ततो\ऽपि दुर्बुद्धिर् इत्य् आह—तस्य काशिपतेः । भवेद् अपचितिः पूजा-व्यय-निष्कृति-हानिषु इति मेदिनी ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुदक्षिणस् तत्-सञ्ज्ञः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-सुतस् तु ततो\ऽपि दुर्बुद्धिर् इत्य् आह—सुदक्षिण इत्य्-आदिना । तत्रादौ द्वयं युग्मकं सुदक्षिणस् तत्-सञ्ज्ञः सोपाध्यायः । पुरोहित-सहितः समाधिना एकाग्रचित्ततया ॥२७-२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२८ ॥
इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् ।
सुदक्षिणो \ऽर्चयाम् आस परमेण समाधिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनाभिसन्धाय बुद्ध्या व्यवस्य । सुदक्षिणो\ऽत्य् उदारः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । समाधिना ध्यानेन समाधिर् ना समर्थने । ध्याने नीवाकनियमे काव्यस्य च गुणान्तरे इति मेदिनी । नीवाको धान्यसञ्चयः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सोपाध्यायः पुरोहित-सहितः, समाधिना एकाग्रचित्ततया, अन्यत् तैर् व्याख्यातम् । यद् वा, आत्मना स्वयम् एवाभिसन्धाय सङ्कल्प्य, इति तादृश-दुष्ट-सङ्कल्पे तस्यैव प्राधान्य सूचितम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.२९ ॥
प्रीतो \ऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः ।
पितृ-हन्तृ-वधोपायं स वव्रे वरम् ईप्सितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविमुक्तो महा-देवः । अविमुक्तं हि मे गृहम् इति हरि-वंशे पार्वतीं शिवः । सो विमुक्ते प्रतिष्ठितः इति जाबाल-श्रुतेश् च कुत्र तद् अविमुक्तम् इत्य् आकाङ्क्षायाम् । वरणायांनास्यां च मध्ये प्रतिष्ठितः इति श्रुतेर् वाराणसी-क्षेत्रं लभ्यते तत्रस्थत्वाच्-छिवो\ऽप्य् अविमुक्त इत्य् उच्यते । तस्मै सुदक्षिणाय । स सुदक्षिणः । इत्य् अर्थ इति-वर-शब्दस्य जामात्राद्य् अर्थकत्वादित्थं व्याख्येयम् इति भावः । प्रीत इति तत्-प्रतीत्य् अपेक्षया अविमुक्तस् तत्रत्याविमुक्ताख्य-क्षेत्राधिष्ठातृत्वेन तत्-सञ्ज्ञः । अविमुक्ते महा-क्षेत्रे भाषितस् तेन शङ्करा इति वैष्णवोक्तेः । भगवान् इति—सर्वज्ञत्वाद् एव सव्याज वरं ददाव् इति भावः । वधस्योपायम् एव न तु वधम् इति तदानीम् अपि बुद्धि-विभ्रंशं चकारेति लक्ष्यते । ब्राह्मणः समम् इति तस्य यज्ञस्य तन्-मूलत्वात्-तद्-भक्ते तु स न द्विष्यात्, एते च ब्राह्मणा न भवन्तीति भावः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरम् अदात् वृणीष्व् एत्य् उक्तवान् इत्य् अर्थः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अविमुक्तस् तत्रत्याविमुक्ताख्य—तीर्थाधिष्ठातृत्वेन तत्-सञ्ज्ञाकः । किं वा, भक्तवश्यत्वाद् अविमुक्तो\ऽस्वतन्त्र इत्य् अर्थः । यद् वा, अविमुक्ते तीर्थ इति सप्तम्य् अन्त-पाठः । तथा च श्री-विष्णु-पुराणे अविमुक्ते महा-क्षेत्र तोषितस् तेन शङ्करः [वि।पु ५.३४.३०] इति, भगवान् भक्तवत्सल इति वरदाने हेतुः । यद् वा, सर्वज्ञ इति तद्-ईप्सित-वरस्य वैफल्यं वैपरीत्यश् च जानन्न् अपि ददौ, यतो भवो भक्त-श्रेयोरूप इत्य् अर्थः । यद् वा, सर्वज्ञत्वां देवाब्रह्मणा इति सच्-छिद्रं वरं ददाव् इति भावः । वधस्योपायम् एव न तु वधम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रीत इति तत्-प्रीत्य् अपेक्षया अविमुक्तः तत्रत्याविमुक्ताख्य-तीर्थाधिष्ठातृत्वेन तत्-सञ्ज्ञः तथा च श्री-विष्णु-पुराणे अविमुक्ते महा-क्षेत्र तोषितस् तेन शङ्करः इति भगवान् इति सर्वज्ञत्वाद् एव सव्याज वरं ददाव् इति भावः । वधस्य उपायम् एव न तु वध इति तदानीम् अपि बुद्धि-विभ्रंशं तस्य च-कारेति रक्ष्यते ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविमुक्तो महा-देवः वरम् अदात् वृणुष्व् एत्य् अबदत् ॥२९॥
॥ १०.६६.३० ॥
दक्षिणाग्निं परिचर ब्रह्मणैः समम् ऋत्विजम् ।
अभिचार-विधानेन स चाग्निः प्रमथैर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दक्षिणाग्निमन्वाहार्यनामानम् । अग्निमीडे पुरोहितम्, यज्ञस्य देवं मुख्यं कृष्णस्य ब्रह्मण्यत्वात्, नमो ब्रह्म-देवाय इति मन्त्रात् । तद्-ब्रह्मण्याग्रणीर् भवान् इति वसुदेवया गोपाख्याने मुन्युक्तेश् च ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऋत्विजम् ऋत्विजम् इव स्व-नियोग-कारिणम् । यज्ञ्स्य देवम् ऋत्विम् इति श्रुतेः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिचर सेवस्व, समं सहित इति तैः सह परिचरणेन ब्रह्मण्य-देवे स्वत एवाभिचार-वैफल्यादिक सेत्स्यतीति भावः । सम्यग् इति पाठे क्रिया-विशेषणम्, अर्थः स एव ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दक्षिणेति युग्मकम् । ब्राह्मणैस् समम् इति तस्यापि यज्ञस्य तन्-मूलत्वात् तद् उक्त तु स न द्विष्यात् एते च ब्राह्मणा न भवन्तीति भावः । तथैवाह—अब्रह्मण्य इति । ब्रह्मण्ये तु न किञ्चित् करिष्यति ब्रह्मण्य-देवे तु तस्मिन् प्रयोजितः सन् प्रयोजयितॄणां हलान्तं ब्रह्मवर्चसम् इतिवद्-ब्रह्मण्यादिकं नाशयन् देह-नाशं करिष्यतीति श्री-रुद्राभिप्रायः क्वचिद् -ब्रह्मण्यानाम् अपि तस्मिन्-नमस्कारादि-श्रवणान् न तस्य ब्रह्मण्यत्वम् इति सुदक्षिणादीनाम् अभिप्रायः । वस्तुतस्त्व् एवं ज्ञेयं सर्वाराध्यो\ऽपि भगवान् क्वचिद् आराधकत्वेन च यल्-लीलायते तत्रो भयत्र च स्वस्मिन् प्रेम-दानम् एव मुख्यं प्रयोजनं भक्ति-योग-विधानार्थं कथं पश्येमहि स्त्रियः इति श्री-कुन्तीवाक्यात् भक्ति-योग-विधानार्थम् अवतीर्णं स्वाम् इति टीकाश् च मुख्यत्वञ् च तस्य सालोक्येत्य् आदि-वाक्यशतात् तत्-प्रेम च तत्-कतकाराधनेन विप्रादीनां तद्-गौरवातिक्रम-रूपं दोषम् अपि निरस्य हिताय प्रवर्तते श्री-नारदादीनां परम-तत्-तत्वाव्यभिचारश्रवणात् श्री-भगवत्-स्फूरण-मात्रस्यापि तथा स्वभावः श्रूयते किमुत तत्-प्रेम्णः तत्र तत्-कर्मकाराधनं तन्-महिमज्ञान-पूर्वम् इति भक्त्यात्मकं प्रेम जनयति तत्-कत्-कर्तृकाराधनं तु तादृश-महिम्नो\ऽपि तस्य विनयादि। साद्-गुण्य-दर्शनावेशेनापि तेन शुद्धं प्रेम निदधाति यत्-खलु ववचित्तन्-महिम-स्फुर्त्तिमत्य् आच्छादयति तदिदं शुद्ध-प्रेम च परमत्वेन स्तूयते नेमं विरिक इत्य् आदौ इत्थं सताम् इत्य् आदौ नायं श्रियोङ्गेत्यादौ च तस्माद् आराधकतयाराध्यतया च ब्राह्मणादीनाम् एतादृश-प्रेमदानाद्-ब्राह्मणानां सर्वेषाम् अपि हितम् एवाचरतीति न ब्रह्मण्यताव्यभिचारः प्रत्युतान्येषां तथा हिताचरणाशक्तेर् ब्रह्मण्य-देवत्वम् एव तस्य सिद्ध्यतीति नितरामाराधयिष्यतीति भावः ।] सम्यग् इति पाठे क्रिया-विशेषणं अर्थः स एव सङ्कल्पं त्वद् अभीष्टं कृष्णाय साक्षाद्-भगवद् अर्थम् अप्य् अभिचरन हिंसात्मक क्रियां कुर्वन् ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋत्विजम् ऋत्विजम् इव स्व-नियोग-कारिणं यज्ञश्य देवमत्विजम् इति श्रुतिः । अब्रह्मण्ये प्रयोजित इति श्री-कृष्णे तु प्रयोजितो विपरीतो भविष्यतीति श्री-रुद्राभिप्रायः । क्वचिद् ब्राह्मणानाम् अपि कृष्णे नमस्कार-श्रवणात् कृष्णस्य विप्र-नमस्कार जिघृक्षोर् ब्राह्मण्यता नैवास्तीति सुदक्षिणादेर् अभिप्रायः ॥३०-३३॥
॥ १०.६६.३१ ॥
साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः ।
इत्य्-आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विपरीतः सङ्कल्प-नाशकः । अभिचरन् इति शत्रु-वधकामः। तथैवाह—ब्रह्मण्यम् इति । ब्रह्मण्ये तु न किञ्चित्-करिष्यतीति ब्रह्मण्यदेवे तु तस्मिन्-प्रयोजितः सन्-प्रयोजयितॄणाम् हलान्तं ब्रह्मवर्चसम् इति ब्राह्मण्यादिकं नाशयन्-देहनाशम् अपि करिष्यतीति श्री-रुद्राभिप्रायः, क्वचिद् -ब्राह्मणानाम् अपि कृष्ण-नमनादि-श्रवणात्-कृष्णस्य विप्र-नमस्कार-जिघृक्षोर्-ब्रह्मण्यता नैवास्तीति सुदक्षिणादेर् अभिप्रायः
ननु, ब्राह्मणैस् समम् इत्य् उक्तेः कथं हिंसा-रूपे\ऽभिचारे विदुषां प्रवृत्तिः । श्येनेनाभिचरन्यजेत् इति वेद-विहितत्वाद् इति चेन् न, वेदोक्तो\ऽभिचारो वेदविहितो न भवति फलत्वात् फलं न विधेयं किं तु फलम् उद्दिश्य तत्-साधनत्वेन कर्मैव विधेयम् इति सिद्धान्तात् । अतो\ऽभिचारस्याविहितत्वेन प्रत्यवायजनकत्वेन तत्र न विदुषां प्रवृत्तिः किं तु कर्मणि सा भवत्येवेत्य् अलम् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अब्रह्मण्ये प्रयोजित इति कृष्णे प्रय्जितो विपरितो भविष्यतीति सूचितम् । अभिचरन्न् अभिचारं कुर्वन् । व्रती गृहीत-नियमः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्कल्पं त्वद्-अभीष्टम्, कृष्णाय साक्षाद्-भगवते\ऽपि, अभिचरन् हिसितुम् इच्छन् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.३२ ॥
ततो \ऽग्निर् उत्थितः कुण्डान् मूर्ति-मान् अति-भीषणः ।
तप्त-ताम्र-शिखा-श्मश्रुर् अङ्गारोद्गारि-लोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो\ऽभिचारविधिना यजनोत्तरम् । अङ्गाराण्युगिरन्तीत्य् अङ्गारोद्गारीणि ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तप्तं ताम्रम् इव शिखा श्मश्रुणि च स्य सः । अङ्गारोद्गारीणि ज्वलद् अङ्गारन् वमति लोचनानि यस्य सः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तत्-पश्चाद् इति बहुकाल-विलम्बं बोधयति । अतिभोषणत्वम् एव दर्शयति—तप्तेत्य् आदि तलम् इत्य् अन्तेन ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इति युग्मकम् । तत श्चिरकालात्-तत्-कर्म-समाप्त्य् अनन्तरम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.३३ ॥
दंष्ट्रोग्र-भ्रु-कुटी-दण्ड- कठोरास्यः स्व-जिह्वया ।
आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रि-शिखं ज्वलत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दंष्ट्राभिश्चोघ्रैर् भ्रुकुटीदण्डैश् च कठोरं क्रूरम् आस्यं यस्य स त्रिशिखं त्रिशलम् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
भृउकुटी भ्रुकुटी चाथो भ्रुकुटिर् ऊर्ध्व-देशके ।
नेत्रयोर् धनुवद्-वक्रे रोम-सङ्घ-समाकुले ॥ इति शब्दार्थ-कल्पद्रुमे ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वया विस्तीर्णत्वादिनासाधारणया जिह्वया सृक्किण्या आ सर्वतो लिहन् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतिभीषणत्वम् एव दर्शयति-दिश इत्य् अन्तेन । स्वया विस्तीर्णत्वादितो\ऽसाधारणया जिह्वया सृक्किणी सृक्किण्यौ आ सर्वतो लिहन ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.३४ ॥
पद्भ्यां ताल-प्रमाणाभ्यां कम्पयन्न् अवनी-तलम् ।
सो \ऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिशः प्रदहन ॥३४-३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते । तालः स्मृतो मध्यमया इति कोशात् । कचित् तु तालो हस्त-चतुष्टयम् इत्य् अपि । सो\ऽभिचाराग्निः ॥३४-३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूतैः प्रमथैः, वनेति दृष्टान्तेन गम्य-स्थानान्तराभावादिना त्रासाधिक्यं सूचितम् ॥३४-३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च पद्भ्याम् इति । भूतैः प्रमथैः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वारकाम् अभिमुखी-कृत्य अभ्यधावत् दिशः प्रदहन ॥३४॥
॥ १०.६६.३५ ॥
तम् आभिचार-दहनम् आयान्तं द्वारकौकसः ।
विलोक्य तत्रसुः सर्वे वन-दाहे मृगा यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वनेति दृष्टान्तेन गम्यस्थानान्तराभावादिना त्रासाधिक्यं सूचितम् ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आयान्तं दूराद् एव विलोक्य वनदाहे भविष्यति सति यथा मृगाः त्रस्यन्ति ॥३५॥
॥ १०.६६.३६ ॥
अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः ।
त्राहि त्राहि त्रि-लोकेश वह्नेः प्रदहतः पुरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्राहि-पाहीत्य् आहुर् इति शेषः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षैर् दुरोदरैः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अक्षैर् इति प्राग् उक्तार्थम् एव पुरं प्रकर्षेण दहतो दग्धुम् इच्छतो वह्नेः सकाशात् त्राहि त्रायस्व पुरस्मान् वा, वीप्सातिभयात्, हे त्रिलोकेशेति लोकत्रय-रक्षकस्य तवैतत् सुकरम् एवेति भावः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अक्षैर् इति । प्राग् उक्तार्थम् एव पुरं प्रकर्षेण दहतः दग्धं समीपम् आगतस्य वह्नेः सकाशात् त्राहि त्रायस्व पुरं वीप्सातिभयात् त्रिलोकेशेति लोक-त्रय-रक्षकेण त्वयैतत् सुकरम् एवेति भावः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्राहि त्राहि त्रायस्व त्रायस्वेत्य् आहुर् इति शेषः ॥३६॥
॥ १०.६६.३७ ॥
श्रुत्वा तज् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् ।
शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहम् अवितास्मि रक्षिष्यामीति ॥३७-३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् त्राहि-त्राहीत्य् एवं-रूपम् । साध्वसं भयम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जनानां पौराणां वैक्लव्यं भयात्तिवाक्यम्, स्वानां यादवानां स्नेहभरेण तद् अर्थ-भयम्, सम्यग् उच्चैः प्रकर्षणावहेलया भङ्गी-विशेषेण हसित्वेति तद् अग्रिलाघवत्वादि-बोधनाय । तच् च तेषां भय-निवृत्तार्थम्, यतः शरण्यो निज-जन रक्षापरः, अहम् इत्य् आश्वासनार्थं स्व-प्रभावं द्योतयति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनानां पौराणां वैक्लव्यं भयार्तिवाक्यं स्वानां यादवानां साध्वसमापातशङ्कां सम्यग् उच्चैः प्रकर्षेण अवहेलया भङ्गी-विशेषेण हसित्वेति तद् अतिलाघवादि-बोधनाय तच् च तेषां भय-निवृत्त्यथं यतः शरण्यः निज-जन-रक्षापरः अहम् इत्य् आश्वासनार्थं स्व-प्रभावं द्योतयति ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनानां पौराणां वैक्लव्यं स्वानां तत्-पालकानां यादवानाञ् च साध्वसं कारणाज्ञानाद्-भयम् ॥३७॥
॥ १०.६६.३८ ॥
सर्वस्यान्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः ।
विज्ञाय तद्-विघातार्थं पार्श्व-स्थं चक्रम् आदिशत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षैः सह भवतीति साक्षं ज्ञानं तद् अतति जानातीति साक्षात् ज्ञातेत्य् अर्थः । तद्-विघातार्थं कृत्याविधातार्थम् । यदा भगवद् आज्ञापेक्षया मूर्तिमत्त्वेन समीपे\ऽवतिष्टमानं सुदर्शनम् इत्य् अर्थः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषतः समूलतया सच्-छिद्ररवत्वादिना च ज्ञात्वा, यतः सर्वस्य जगतो बहिरन्तश् च साक्षी साक्षाद्-द्रष्टा, यतो विभुः सर्वैश्वर्य-परिपूर्णः । यद् वा, ननु, प्रियतम् अस्य महेश्वरस्य कृत्या-विघातनेन तद् अर्चक-घातनादिना चानादरः स्यात्-तत्राह—सर्वस्येति । अब्रह्मण्ये प्रयोजितः इति तस्य बहिर् वाक्यं तद्-दुष्टवधादौ चान्तरिच्छां जानातति भावः । पार्श्वस्थम् इति सदा श्री-भगवद् आज्ञापेक्षया मूर्तिमत्त्वेन समीपे\ऽवतिष्ठमानम् इत्य् अर्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषतः स्व-भक्त-महेश्वरस्य तादृशाभिप्राय-समेतं ज्ञात्वा पार्श्वस्थम् इति सदा श्री-भगवद् आज्ञापेक्षया मूर्तिमत्त्वेन समीपे\ऽवतिष्ठमानम् इत्य् अर्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चक्रमादिशद् इत्य् अल्पस्य कार्यस्य हेतोर् मे द्यूत-क्रीडा-सुख-भङ्गो मा भवत्वित्य् अभिप्रायेण ॥३८॥
॥ १०.६६.३९ ॥
तत् सूर्य-कोटि-प्रतिमं सुदर्शनं
जाज्वल्यमानं प्रलयानल-प्रभम् ।
स्व-तेजसा खं ककुभो \ऽथ रोदसी
चक्रं मुकुन्दास्त्रम् अथाग्निम् आर्दयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रोदसी च प्रकाशयद् इति शेषः । यद् वा, स्व-तेजसा खादीन् प्रति जाज्वल्यमानम् अत्यर्थं प्रकाशमानम् इत्य् अर्थः । आर्दयद् अपीडयत् ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ भगवद्-आज्ञानन्तरम् । अध्याहारे गौरवम् आशङ्क्याह—यद् वा इति । इत्य् अर्थ इति—गम्यमान-प्रतियोगे द्वितीया । खं व्योम । ककुभो दिशः । अथ अत्र चार्थे ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ आदेशानन्तरम् एव आर्दयत्, यतो मुकुन्दस्य श्री-रुद्रादीनाम् अपि भक्त्य्-आनन्द-प्रदस्य भगवतो\ऽस्त्रम्, अतस् तद्-अग्न्य्-अर्दन-सामर्थ्याय ततो\ऽधिकाधिक-माहात्म्यं दर्शयन् विशिनष्टि—सूर्य- इत्य्-आदिना । सुदर्शनम् इति तादृश-तिग्म-तेजोमयत्वे\ऽपि सुदृश्यतां बोधयति । स्वेन असाधारणेन तेजसा, अथ च, रोदसी च ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ आदेशानन्तरम् एव कार्त्स्न्येन आर्दयत् सुदर्शनम् इति । तादृश-तिग्म-तेजोमयत्वे\ऽपि भक्तैः सुदृश्यत्वं बोधयति—मुकुन्देति तद्-दग्धानां मुक्ति-प्राप्तिं च ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रोदसी च व्याप्येति शेषः । चक्रं कर्तृ अग्निं कृल्यानलम् आर्दयत् ॥३९-४३॥
॥ १०.६६.४० ॥
कृत्यानलः प्रतिहतः स रथाङ्ग-पाणेर् ।
अस्त्रौजसा स नृप भग्न-मुखो निवृत्तः ॥
वाराणसीं परिसमेत्य सुदक्षिणं तं ।
सर्त्विग्-जनं समदहत् स्व-कृतो \ऽभिचारः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्दितो\ऽग्निर् यत्-कृतवांस् तदाह कृत्यानल इति सहर्त्विग्भिर् जनै श् च वर्तमानम् । अभिचर्यते मार्यते\ऽनेनेत्य् अभिचारः कृत्यानलः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स सुदक्षिणोत्पादितः । अस्त्रौजसा सुदर्शनतेजसा । प्रतिहत आस बभूव ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रथाङ्गपाणेर् इति सदा चक्र-युक्त-हस्तत्वेन चक्रस्य माहात्म्यं सूचितम् । विभग्न-मुखो विनष्ट-दर्पः पराङ्मुखो वा सन्, हे नृपेति प्रहर्षात्, वाराणसीं प्रति वाराणस्याम् । यद् वा, प्रति प्रतिकूलतया सम्यग् भूत-गण-साहित्येनेत्य सम्यग भस्मावशेषतया अदहत् । कुतः ? स्वयम् एव कुतः, स्वयम् एव अस्थाने प्रयुक्तस्याभिचारस्य तस्मिन् वैयर्थ्येन बिपरीत-फलत्वत्, अत एव तत्-सहायान् ऋत्विग् आदीन अप्य् अदहत् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृत्येति-युग्मकम् । रथाङ्गपाणेर् इति तस्य सदा चक्र-हस्तत्वेन चक्रस्य माहात्म्यं सूचितं विभग्न-मुखः पराङ्मुखः सन् वाराणसीं प्रति समेत्य प्रतिकूलतया सम्यग्-भूत-गण-साहित्येनैत्य सम्यक भस्मावशेषतयादहत् स्व-कृत इत्य् आश्चर्येण आनन्देन च प्रयोगः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.४१ ॥
चक्रं च विष्णोस् तद्-अनुप्रविष्टं
वाराणसीं साट्ट-सभालयापणाम् ।
स-गोपुराट्टालक-कोष्ठ-सङ्कुलां
स-कोश-हस्त्य्-अश्व-रथान्न-शालिनीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अट्टादि-सहितां। अट्टा मञ्चः ॥४१-४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदनु सुदक्षिक्णदाहोत्तरं । अट्टं भक्ते मञ्च-शुष्के क्षौमेत्य् अर्थे इति धरणिः । कोष्ठम् अन्तर्गृहम् । कोषो धनागारम् ॥४१-४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चक्रञ् च वाराणसीं समदह, तस्याः कृयाया अनु पश्चात् प्रविष्तं सत्, विष्णोर् विश्व-व्यापकस्येति तच्-चक्रस्यासि व्यापकत्वं सूचितम् । अत एवाट्टादि-सहितां कोशादि-शाला-सहितां चेति । सर्वां शालिनीम् इति वा पाठः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चक्रं च वाराणसीं प्रति समदहत् इति पूर्वेणान्वयः शालिनीम् इति शालाम् इति वा पाठः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.४२ ॥
दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् ।
भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्ट-कर्मणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः),श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दग्द्वेत्यादि-पुनर् उक्तिः सम्यक् सर्वतो दाहाद्य् अभिप्रायेणोक्त-पोषन्यायात् । तत्र विष्णु-चक्रम् इत्य् उक्त्य् अभिप्रायम् एव । यद् वा, तद् एक-स्वामित्वं तेनासाधारणत्वञ्चोक्तम्, अत एव भूय उप उपासकतयातिष्थद् आश्रयत् । सुदर्शनम् इति सुदृश्य-रूपं तद् इति भावः । यतः कृष्णस्य सर्व-गुण-रूपादि-युक्तस्येत्य् अर्थः । अत एवाक्लिष्टं सर्व-सुखावहम्, किम् वा, अनायासेनैव तत्-तद् आचारणात् क्लेश-रहितं कर्म यस्य तस्य ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुदर्नम् इति सुदृश्य-रूपं सद् इति भावः । न चेद् अमाश्चर्यम् इति तस्य स्वभावम् अनुवदति अक्लिष्टेति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६६.४३ ॥
य एनं श्रावयेन् मर्त्य उत्तमः-श्लोक-विक्रमम् ।
समाहितो वा शृणुयात् सर्व-पापैः प्रमुच्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वक्तव्यम्, महा-तीऋथ-काशी-तन् निवासि-लोकादि-दहनम् अयुक्तम् इति दुष्त-तत्-सङ्ग्यादि-दण्डेन श्री-भगवतो माहात्म्य-विशेष-सम्पत्त्या तच्-श्रवणादिनापि समूल-सर्व-दुःखतो विमुक्तिः स्यद् इत्य् आह—य इति । एतद् आख्यानम्, उत्तम-शॢओकस्य विक्रमो यस्मिंस् तत्, एनम् इति पाठः स्पष्टः । मर्ता इति मरण-धर्मत्वाच् च्रावणयोर् अपेक्षकताधिकारा अपेषा चोक्ता । समाहितः श्रद्धयेहितः सन्न् इति अन्यथा नास्तिकत्वादि-प्रसक्तिः । यद् वा, श्री-कृष्णार्पितचित्तः, किम् वा, स मर्त्यो मया लक्ष्म्या हितः श्री-भगवद् भक्त्या स्नेह-विषयः सन् सर्वैः समूलैः फलोन्मुखैश् च पापैः प्रकर्षेण वैकुण्ठ-प्राप्ति-योग्यत्वादिना मुच्यते । अत एवोत्तम-श्लोक-शब्द-प्रयोगः । किं वक्तव्य, स्व-पर-हितकारी श्रावकः प्रमुच्यत इति केवलम् आत्म-हित-कृच्छ्रतोऽपि प्रमुच्यत इति वा-शब्दार्थः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद्-भगवद्-बहिर्मुखानां काशीवासिनां दमन-रूपम् आख्यानम् उत्तम-श्लोकस्य विक्रमा यस्मिन् तत् एतम् इति पाठः स्पष्ट समाहितः सावधानः सश्रद्ध इत्य् अर्थः । किं वक्तव्यं स्वपर-हितकारी श्रावयित्वा प्रमुच्य इति केवलम् आत्म् अ-हित-क्र्तृवत् श्रोतापि प्रमुच्यत इति वा-शब्दार्थः ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशोऽय्मे सङ्गतः सङ्गतः सताम् ॥ ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे पौण्ड्रकादि-वधो नाम
षट्-षष्टितमोऽध्यायः ।
॥६६॥
(६७)