बलभद्रस्य व्रजे गमनं, कालिन्दी-कर्षणं च ।
॥ १०.६५.१ ॥
श्री-शुक उवाच—
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्च-षष्टितमे रामश् चक्रे गोकुलम् आगतः ।
रममाणस् तु गोपीभिः कालिन्द्याः कर्षणं मदात् ॥
राम् अस्य चरितं चित्रं कालिन्द्य्-आकर्षणादि यत् ।
पौण्ड्रकान्तादि कृष्णस्य पृथग् उक्तम् अतः परम् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्षणम् आकर्षणम् । चित्रम् अद्भुतम् ॥ बलेन भद्-अन्ते लोकान् कल्याण-युतान् करोतीति बलभद्रः ।
[तोषणी] अथ श्री-परीक्षितस् तत्-तल्-लीलानन्दम् अनुभवतो बलाद् अनुगच्छता श्री-गोकुल-व्याकुलता-स्मरणेन दूयमानं मनो ज्ञात्वा श्रीमन्-मुनीन्द्रः पुनस् तद्-आश्वासन-कथां कथान्तरावेशेन त्यक्ताम् अपि पातयति—बलभद्र इति । सम्बुद्ध्या श्लाघते—हे कुरु-श्रेष्ठ ! इति । अतीव-शुद्ध-कुलोद्भूतस्य तव हृदि श्री-व्रज-लीलैव स्फुरति मुहुर् इति भावः । सुहृदः श्री-वसुदेवादितोऽपि पितृत्वादिमय-शुद्ध-स्नेहांशेन शोभनः, सुहृद् येषां तान् नन्दादीन् दिदृक्षुः सन् यश् चिर-विरहेणोत्सुकः नित्य-तद्-दर्शन्ओत्कण्ठः तदा तु लब्ध-श्री-कृष्णानुज्ञ इति ज्ञेयम् । तद् उक्तं श्री-हरि-वंशे—जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः [ह।वं २.४६.१] इति ।
अत एव वक्ष्यति—कृष्णस्य सन्देशैः सान्त्वयामास [ह।वं। १०.६५.१६] इति । श्री-कृष्णस् तु श्री-वसुदेवादिभिर् अनुज्ञात एव तेन सह नागच्छत् । अयं श्री-नन्दादि-प्रेम-बद्धः । पुनर् अत्रानागमिष्यतीत्य् अननुज्ञात इति ज्ञेयम् । प्रकर्षेण गोप-वेशादिना ययौ । तद् उक्तं श्री-हरि-वंशे—
स प्रविष्टस् तु वेगेन तं व्रजं कृष्ण-पूर्वजः । > वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः ॥ [ह।वं। २.४६.३] इति > ।
रथ-स्थितिस् तु शीघ्र-गमनार्थैव ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-कृष्णस्य दीन-वात्सल्यम् उक्त्वा प्रसङ्गाच् छ्री-रामस्यापि तद् आह—बल- इत्य्-आदिना यावत्-समाप्ति । सुहृदः श्री-नन्द-यशोदादीन् दिदृक्षुः सन्, यत उत्कण्ठश् चिर-विच्छेदेन नित्य-दर्शनोत्सुकः, अतः शीघ्र-गमनार्थं तत्-परिचितं रथम् आस्थित आरूढं सन्, नन्दस्य गोपेन्द्रस्य । किं वा, नन्दयति जगद् विशेषतश् च सानुजम् आत्मानं हर्षयतीति नन्दं यद् गोकुलं तत् प्रकर्षेण गोप-वेश-धारणादिना ययौ । तथा च श्री-हरि-वंशे—
स प्रविष्टस् तु वेगेन तं व्रजं कृष्ण-पूर्वजः । > वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः ॥ [ह।वं। २.४६.३] इति > ।
यतो भगवान् परम-दयालुः । किं वा, सर्वज्ञो\ऽनुजाभिप्रायं जानन्न् इत्य् अर्थः । तथा च तत्रैव जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः [ह।वं। २.४६.१] इति । अत एवात्रापि वक्ष्यति कृष्णस्य सन्देशः सान्त्वयामास [भा।पु। १०.६५.१६] इति । बल-भद्र इति बुद्ध्य्-आदि-बलाधिक्येन महताम् आश्वासनादौ समर्थतर इति भावः । हे कुरु-श्रेष्ठ ! इति तद्-अर्थं तत्-प्रयाणेन प्रहर्षात् । यद् वा, कुरु-श्रेष्ठो भवानिवासौ श्री-कृष्णाग्रजतया यदु-श्रेष्ठो\ऽनुजस्यायास्य इत्य्-आदि वाक्यासत्यता-समाधानार्थं प्रयातुम् अर्हत्येवेति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-परीक्षितस् तत्-तल्-लीलानन्दम् अनुभवतोऽपि बलाद् अनुगच्छता श्री-गोकुल-व्याकुलता-स्मरणेन दूयमानं मनो विज्ञाय श्रीमन्-मुनि-राजः पुनस् तद्-आश्वासन-कथां कथान्तरावेशेन त्यक्ताम् अपि पातयति—बल-भद्र इत्य्-आदिना । सम्बोधनेन [तं लाते]{।मर्क्} च—हे कुरु-श्रेष्ठ ! इति । बल-भद्रो भगवान् इति च तं प्रति श्लाघा-गर्भम् । सुहृदः श्री-वसुदेवादितोऽपि पितृत्वादिमय-शुद्ध-स्नेहांशेन शोभनं हृद् येषां तान् श्री-नन्दादीन् दिदृक्षुः सन् प्रययौ । यः पूर्वत एवोत्कण्ठः चिर-विरहेण नित्य-तद्-दर्शनोत्सुकः तदा तु लब्ध-श्री-कृष्णानुज्ञ इति ज्ञेयं । तथा च हरि-वंशे जगामैको व्रज रामः कृष्णस्यानुमते स्थितः [ह।वं २.४६.१] इति । अत एवात्रापि वक्ष्यति कृष्णस्य सन्देशैः सान्त्वयामास [भा।पु। १०.६५.१६] इति एतावद्-दिनं तद्-अनुज्ञा च सहैव स्व-गमनेच्छयेति लक्ष्यते । तच् च श्री-वसुदेवादीनां श्री-नन्दादि-प्रेम-बद्धो\ऽसौ तत्रैव तिष्ठेद् इत्य् अननुज्ञयैवेति पूर्ववज् ज्ञेयम् । अत एव श्री-नन्दादिषु निजागमन-सन्देशादि-गोपनार्थम् एकाकित्वेनैव तत्-प्रस्थापनम् अपि एवम् अन्तस् तद्-भावभावितत्वेन प्रययाव् इति गोप-वेषधारणादि प्रकर्षेण ययाव् इत्य् अर्थः । तथा च तत्रैव—
स प्रविष्टस् तु वेगेन तं व्रजं कृष्ण-पूर्वजः । > वन्येन रमणीयेन वेशेनालङ्कृतः प्रभुः ॥ [ह।वं। २.४६.३] इति > ।
इति रथ-स्थितत्वं तु परमोत्कण्ठितत्वाच् छीघ्र-गमनार्थम् एव ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बलभद्र इत्य् अत्र कृष्णस्यानुमते स्थित इत्य् अपि श्री-हरि-वंशाल् लभ्यते । तथा हि—
कदाचित् त्व् अथ कालस्य स्मृत्वा गोपेषु सौहृदम् । > जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥ [ह।वं। २.४६.१] > इति ।
तेन सह स्वागमनस्य सम्प्रत्य् अयोग्यतायां, तत्-तद्-व्रजस्थ-सान्त्वनार्थं तम् एकम् एव श्री-कृष्णः स्वयम् अनुगतवान् इति भावः ॥१-२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चषष्ठितमे रामो गोष्ठं गत्वा स्व-बन्धुभिः ।
मिलितः स्वीय-गोपीभी रेमे कृष्णां चकर्ष च ॥ ॥
बलभद्र इति । ननु, प्रेम-महोदधिः कृष्णः कथं व्रजं न ययौ ? इति चेद् उच्यते—
प्रेयसीः प्रेम-विख्याताः पितराव् अतिवत्सलौ । > प्रेम-वश्यश् च कृष्णस् तांस् त्यक्त्वा नः कथम् एष्यति । > इति मत्वैव यदवः प्रत्यबध्नन् हरेर् गतौ । > व्रज-प्रेम-प्रवर्धि-स्व-लीलाधीनत्वम् ईयुषः ॥
ननु तर्हि बलदेवोऽपि स्व-प्राण-प्रेष्ठ-भ्रातरं कृष्णं त्यक्त्वा एकाकी एव गन्तुं नार्हति । तत्राह—उत्कण्ठा अत्युत्कण्ठा-चुलुकित-धैर्य-विवेकादिर् इत्य् अर्थः ॥१॥
॥ १०.६५.२ ॥
परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च ।
रामोऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आशीर्भिर् अभिनन्दितो बभूव ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितरौ यशोदा-नन्दौ । परिष्वक्तः सर्वाङ्ग-सङ्गतं गाढं बहु-विधम् अश्रु-पुलकादि-वलितं चालिङ्गितः, यतश् चिरोत्कण्ठैः । पितरौ तस्य तयोश् च भावानुसारेण तत्र प्रथमम् इतस् ततो लब्धैर् गोपैर् मेलनम् । व्रजाभ्यन्तरे तु गोपीभिर् मातृ-वयस्याभिर् दृधाभिर् अपि । एव च इत्य् अनुक्त-समुच्चये, पुरोहितादिभिर् इत्य् अपि ज्ञेयम् ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परितो बहुधा गाढतया सर्वाङ्ग-सम्मिलनादिना स्वत आलिङ्गतः, यतश् चिरोत्कण्ठैः, एव अपि, गोपीभिर् अपि, च-काराद् भृत्य-पुरोहितादिभिश् च, इति चिरोत्कण्ठतया परम-सम्भ्रमात् । आदौ सामान्येन सर्वेषां परिष्वङ्गम् उक्त्वा, अधुना विशेषतो यथार्ह-व्यवहारम् आह—राम इति सार्ध-द्वयेन । पितराव् इति तदानीम् अपि तयोस् तस्मिन्न् अपि पुत्र-बुद्ध्य्-अनुवृत्तेः, तथा तस्यापि तौ प्रति तादृङ्-मतेर् अनपगमात् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-भाव-भावितत्वम् एव दर्शयति—परि इत्य्-आदिभिः । परिष्वक्तः परीति सर्वाङ्ग-सङ्गतं गाढं बहु-विधम् अश्रु-पुलकादि-वलितं चालिङ्गितः, यतश् चिरोत्कण्ठैः पितराव् इति तस्य तयोश् च भावानुसारेणोक्तम् । तत्र प्रथमम् इतस् ततो लब्धैर् गोपैर् मिलनम् । व्रजाभ्यन्तरे तु गोपीभिर् मातृ-वयस्याभिर् दृढाभिर् अपि । एवं चेत्य् अनुक्तयापि समुच्चयात् पुरोहितादिभिश् चेति ज्ञेयम् । तत उद्दिश्य प्रथम-मिलनौ पितरौ श्री-यशोदा-नन्दाव् अभिवाद्या स्थितो रामस् ताभ्याम् अपि परिष्वक्तः सन्न् आशीर्भिर् अप्य् अभिनन्दित इत्य् अर्थः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नित्यानन्द-स्वरूपोऽपि प्रेम-तप्तो व्रजौकसाम् ।
ययौ कृष्णम् अपि त्यक्त्वा यस् तं रामं मुहुः स्तुमः ॥ ॥
गोपीभिः मातृ-वयस्याभिः । पितराव् इति तस्य तयोश् च भावानुसारेणोक्तम् अभिनन्दितो बभूव ॥२॥
॥ १०.६५.३ ॥
चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः ।
इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह—चिरम् इति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् आशीर् अभिनन्दनम् [नेत्रेभ्यश् चक्षुर् नाडीभ्यो निर्गतानि नेत्राणि तैः कारकात् क्रिया-युक्ते इत्य् अपादान-कारकान् निर्गते\ऽर्थे अण्, वैकल्पिक-णित्त्वाद्-वृद्धा-भावः] । नेत्रं नाड्यां तरोर् मूले इति यादवः ।
[तोषणी] चिरं पाहि इति वाग्-भङ्ग्या दीर्घायुष्ट्वाप्रतिहत-बल-वीर्याद् आशिषः सूचिताः । जगद्-ईश्वरः सन्न् इत्य् अनन्तरं यद्यपि स्वेषाम् अपि दाशार्हत्वम् अस्ति, तथा पाण्डव-कौरववत् प्राचुर्य-प्रयोग-विवक्षया यादवेष्व् एव मुख्यत्वात् तच्-छब्द-प्रवृत्तिः । वसुदेव-पुत्रत्वेनैव तथा सम्बोधितः । यद्यपि स्वीयो\ऽपि पुत्र-भावस् तस्मिन्न् अधिकः, तथापि प्रिय-भ्रातृ-पुत्रताम् आश्रित्यैव स्वयं पुत्रत्वेन पालितस् सौजन्योत्तर-सम्बन्धम् एव बहुतरं तेनात्मनश् चैक्यं व्यञ्जयित्वा स्व-पुत्र एव विशिष्य दर्शितः । अत एव सानुज इति साक्षात्-स्व-पुत्रे तद्-अनुजत्वम् उक्तम्, तस्यैव प्राधान्य-विवक्षया गौणत्वं च । अत एव न इत्य् अविशेषेणास्मान् यादवांश् चेत्य् अर्थः । अथवोत्कण्ठया श्लेषेण सम्प्रति तयोः स्वेष्व् औदासीन्यं दर्शितम्, तद् अनुचितम् इत्य् आह—न इति । यथा यादवान् पासि, तथास्मान् पाहीत्य् अर्थः
[विश्वनाथस् तु]—सानुजो\ऽपि त्वं जगदीश्वर इति सर्वत्र शूच्यते, तद् अपि वृद्धौ स्व-माता-पितराव् आवां कथं न पालयसि ? इति भावः ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चिरं पाहीति वाग्-भङ्ग्या दीर्घायुष्ट्वाप्रतिहत-बल-वीर्याद्य् आशिषः सूचिता एव । न इति सर्व-व्रज-जनापेक्षया जगद्-ईश्वरः सन्न् इत्य् आशीर्-अन्तरम् । सानुज इति तस्यानागमनेन आत्म-विषयकं निर्दयत्वं मत्वा प्रार्थना, रक्षायां सत्याम् अपि तत् सम्बन्ध-राहित्येनारक्षायाम् एव पर्यवसानात् । दाशार्ह ! हे यदु-कुलोद्भवेति स्व-परित्यागेन यदूनाम् एव पालनाद् ईर्ष्यया परमार्त्या वा सम्बोधनम् । तज्जैर् यानि जलानिः तैः । “नेत्रैर्” इति वा पाठः, नेत्र-भर् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, आशीर्भिः—
दीर्घायुर् अप्रतिहत-बल-वीर्य-समन्वितः । > पुत्र-पौत्र-धनैश्वर्यैर् युक्तो वत्स भवोत्तमः ॥
इत्य्-आदि-लक्षणाभिः, पितृत्वेनादी स्नेह-भरेणाशीर्भिर् अभिनन्द्य पश्चाद् दैन्येन प्रार्थयते—चिरम् इति । दाशार्ह ! हे यदु-कुलेश्वरेति । तत्-पालन-परो\ऽपि जगदीश्वरत्वेन जगद्-अन्तर्-गतान् अस्मान् अपि पाहीत्य् अर्थः । अन्यत् समानम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चिरं पाहि इति वाग्-भङ्ग्या दीर्घायुष्ट्वाप्रतिहत-बल-वीर्याद्य्-आशिषः सूचिताः । जगद्-ईश्वरः सन्न् इत्य् आशीः । अनन्तरं यद्यपि स्वेषाम् अपि दाशार्हत्वं वर्तते, तथापि पाण्डव-कौरववत् प्राचुर्य-प्रयोगाविवक्षया यादवेष्व् एव मुख्यत्वात् तच्-छब्द-प्रवृत्तिर् इति श्री-वसुदेव-पुत्रत्वेन तथा सम्बोधितं । यद्यपि चोक्त-रीत्या स्वीयोऽपि पुत्र-भावस् तस्मिन् अधिकः, तथापि स्व-प्रिय-भ्रातृ-श्री-वसुदेव-पुत्रताम् अवलम्ब्यैव स्वयं पुत्रत्वेनासौ पालित इति सौजन्यात् तत्-सम्बन्धम् एव बहुतरं मत्वा तेन आत्मनश् चैक्यं व्यञ्जयित्वा स्व-पुत्र-भाव एव विशिष्य दर्शितः । अत एव सानुज इत्य् अनेन साक्षात् स्व-पुत्रेऽपि तद्-अनुजत्वम् उक्तम् । [तस्येय]{।मर्क्} प्राधान्य-विवक्षया गौणत्वं च, अत एव न इत्य् अविशेषेण यादवान् अस्मांश् चेत्य् अर्थः । अथवोत्कण्ठया श्लेषेण सम्प्रति तयोः स्वेषौदासीन्यं व्यञ्जितं तत् त्व् अनुचितम् इत्य् आह—न इति । यथा यादवान् पासि, तद्वद् अप्य् अस्मान् पाहीत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सानुजस् त्वं जगद्-ईश्वरः सन् चिरं सर्वदैव अस्मान् पाहि इत्य् आशिषं ददे । तत्र सानुज इति ज्येष्ठत्व-मानेन । तथा स्वस्य तस्मिन् पुत्र-भावाधिक्ये\ऽपि दाशार्ह इति श्री-वसुदेवेन सह स्वाभेद-विवक्षया सा चातिस्नेहेन अथ तद्-दिनानन्तरे दिने इत्य् अर्थः ॥३-४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सानुजोऽपि त्वं जगदीश्वर इति सर्वत्र श्रूयसे । तद् अपि वृद्धौ स्व-माता-पितराव् आवां न पालयसि कथम् इत्य् उक्त्वा प्रथमं नन्दस् ततो यशोदा च बलाद् अङ्कम् आरोप्य स-चुम्बनम् आलिङ्ग्य नेत्रैः नेत्रजैः ॥३॥
॥ १०.६५.४-६ ॥
गोप-वृद्धांश् च विधिवद् यविष्ठैर् अभिवन्दितः ।
यथा-वयो यथा-सख्यं यथा-सम्बन्धम् आत्मनः ॥**
समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः ।
विश्रान्तं सुखम् आसीनं पप्रच्छुः पर्युपागताः ॥**
पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा ।
कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोप-वृद्धांश् च विधिवद् अभिवन्द्य यविष्ठैर् अभिवन्दितो बभूवेत्य् अर्थः। अपि च यथा-वय इति ॥ ते सर्वे स्वेषु यादवेषु तं रामम् अनामयम् आरोग्यं पप्रच्छुः । ते च तेन पृष्टा इति । कृष्णे कृष्ण-प्राप्त्य्-अर्थं संन्यस्ताखिल-राधसस् त्यक्त-सर्व-विषयाः ॥४-६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यविष्ठः कनिष्ठः । इत्य् अर्थ इति शेषः । यथोचितं कर्तव्यम् आह—अपि च इति । आत्मनः वय-आद्य् अनतिक्रमेण गोपालान् सम्प्राप्येति सार्ढेनान्वयः । तत्रादिनाश्लेष-ग्रहः ॥४। अथ गोपाः पप्रच्छुः । "गोपालाः" इति पाठो\ऽपि साधीयान् । ते च गोपा । तेन रामेण ॥५॥ कृष्ण इति निर्मित्ते सप्तमी । यद् वा, कृष्णे संन्यस्ताः समर्पिता अखिल-राधसः सर्व-सम्पदः । राधस् तेजसि हिंसायां विषये सिद्धि-सम्पदो इति धरणिः ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अनन्तरं गोपालानां वय-आद्य्-अनतिक्रमेण हास्यादिभिः सम्यग् उपेत्य मिलित्वा विश्रान्तं विगत-वर्त्म-श्रमं सन्तं पश्चात् सुखम् आसीनम् । किं वा, हास्यादिभ्यो विश्रान्तम् उपरतम् । यद् वा, चिर-प्रवास-श्रम-रहितम्, अत एव सूखम् आसीनम् । आदि-शब्दात् प्रियोक्त्यादयः । परितः सर्वत उप समीपे आगताः । आत्मनो यथा-सम्बन्धम् इति श्री-नन्द-यशोदयोर् भ्रात्रादि-सम्बोधनेनैवात्मनः पितृव्य-मातुलेयत्वादि-सम्बन्धानुसारेणेत्य् अर्थः । इति पूर्ववद् एव सर्वो व्यवहारो द्योतितः । तथा च तत्रैव श्री-हरि-वंशे—
स तान् अभाषत प्रीत्या यथा-पूर्वम् अरिन्दम । > गोपीस् तेनैव विधिना यथा-न्यायं यथा-वयः ॥ > तथैव प्राह तान् सर्वान् तथैव परिहर्षयन् ।
तथैव सह गोपीभिर् योजयन् मधुराः कथाः ॥ [ह।वं। २.४६.४-५] इति ।
प्रेम-गद्गदया गिरा इत्य् अस्य च-कारात् पृष्टा इत्य् अ नेन पप्रच्छुर् इत्य् अनेन वान्वयः । कृष्णे निज-चित्ताकर्षके, यतः कमल-पत्रवत् परम-सुन्दरे, दृष्टि-मात्रेण सर्व-ताप-हरे, परमामोदके च अक्षिणी यस्य, तस्मिन्न् इति तत्-साक्षात्-सन्दर्शनार्थम् इत्य् अर्थः । संन्यस्ताखिल-राधसः सन्न्यासिवत् परित्यक्ताशेष-विषया इति, श्रीमद्-उद्धवागमनात् प्राक् श्री-कृष्णस्यागमनाशया तत्-प्रीत्य्-अर्थम् अत्यक्त-विषयाणां तेषां व्रज-वासिनां पश्चाद् उद्धवागमनेन तस्यागमने प्रायो निराशतया दीर्घ-विरह-विह्वलतया वा, स्व-देह-दैहिकाद्य्-अशेषोपेक्षणात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, स्वेषु यत् प्रेम, तेन गद्गदया, गोपैः पृष्टश् च कच्चिद् इत्य्-आदिना वक्ष्यत्य् एव । अन्यत् समानम् ॥५-६॥
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.६.९२] [सन्न्यस्ताखिल-राधसः] कृष्ण-प्राप्त्य्-अर्थं त्यक्ताः सर्व-विषयाः इति। पूर्वं चोद्धवेन गत्वैतादृशावस्था-भाजः श्री-राधिकादयो न दृष्टाः, किन्तु भूषण-भूषिताङ्गा हृष्टा इव दृष्टाः श्री-नन्द-कृताश्वासन-विश्वासात् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तत्-सङ्गतैर् मिलनम् आह—गोप- इत्य् अर्धेन, यथा- इति सार्ध-द्वयकम्। अथ तद्-दिनानन्तर-दिन इत्य् अर्थः । गोपालान् वयस्यादीन् सम्यक् स्नेहादरादि-पूर्वकम् उपेत्य उप समीपे तत्-तद्-गृहादौ एत्य स्वयम् आगत्य, तत्रापि आत्मनो वय-आद्य् अनुरूपं हास्य-हस्त-ग्रहणादिभिः समुपेत्य विश्रान्तं तत्-तत्-कृतोपचारैर् लब्ध-विश्रामं सन्तं तत्रैव भोजनाद्य्-अनन्तरं सुखम् आसीनं च परि सर्वत उपागताः समीपोपविष्टाः सन्तः, ते स्वेषु सम्बन्धिषु यादवेषु विषयेषु अनामयं पप्रच्छुः । तत्र वयस्या यथा-सख्यं तत्-तारतम्येनेत्य् अर्थः । अन्ये तु यथा-सम्बन्धं पितृ-भ्रातृ-पुत्र-वर्गत्वानुरूपं, तत्रापि यथा-वयः वयस्-तारतम्येनेत्य् अर्थः । एव हास्य-हस्त-ग्रहौ वयस्यानाम् उद्धवागमनोक्त-युक्ति-रीत्या रहसि तेषां मुहुस् तद्-आगमन-स्फूर्तेर् मिथो हर्षोदयात् । आदि-ग्रहणात् पितृ-वर्गादीनां वन्दनादयो ज्ञेयाः । तथा च तत्रैव—
स तान् अभाषत प्रीत्या यथा-पूर्वम् अरिन्दम । > गोपीस् तेनैव विधिना यथा-न्यायं यथा-वयः ॥ > तथैव प्राह तान् सर्वान् तथैव परिहर्षयन् । > तथैव सह गोपीभिर् योजयन् मधुराः कथाः ॥ [ह।वं। > २.४६.४-५] इति ।
पृष्टाश् च इति तद्-अनन्तरं ते च तेन पृष्टा इत्य् अर्थः । तथा पप्रच्छुर् इत्य् अत्र पृष्टाश् चेत्य् अत्र च विशेषणं प्रेमेत्य्-आदि उभयत्रापि हेतुत्वेन तेषां विशेषणं—कृष्ण इत्य्-आदि । कृष्णे स्वभावत एव सर्वाकर्षके कमल-पत्राक्षे सौन्दर्यतोऽपि तादृश इत्य् अर्थः । तथा प्रथमेन सर्वेषाम् आनन्द-रूपत्वं, द्वितीयेन सर्व-ताप-हरत्वं च व्यञ्जितं, तस्मिन् निमित्ते सन्न्यस्ताखिल-राधस इति यद्-धामार्थ-सुहृत्-प्रियामतनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इत्य् उक्त-रीत्या पूर्वेव तद्-अर्था एव सर्वे विषयाः, अतस् तद्-विरहिणां स्वतस् तद्-अनभिरुचेर् अपि तद्-आगमनाशयैव तद्-धारिण इत्य् अर्थः । तस्य दैत्यादिभिः सङ्गरं शृण्वतां च तत्-तद्-विघ्न-निरसनाय संन्यस्तानि देव-ब्राह्मणेष्व् अर्पितानि राधांसि गृहान्तर्गत-भोग्यानि द्रव्याणि यैः, ते ते श्री-कृष्णार्थम् एव सम्प्रति तत्-सहायेषु तेष्व् अनामयं पप्रच्छुः श्री-कृष्णार्थ-संन्यस्त-सर्वार्थत्वेन परमानुकम्पा-चिन्तयोर् विषयत्वात् पृष्टाश् च इत्य् अर्थः । अत्र प्रकरणे कष्टान्वयतया श्रीमन्-मुनीन्द्रस्य तत्-स्मरण-वैवश्यं व्यज्यते ॥४-६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हास्य-हस्त-ग्रही वयस्यानाम् उद्धवागमनोक्त-युक्ति-रीत्या रहसि तेषां मुहुः तद्-आगमन-स्फूर्तेः मिथो हर्षोदयात् । आदि-ग्रहणात् पितृ-वर्गादीनां वन्दनादयो ज्ञेयाः ॥५-८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोप-वृद्धान् अभिवाद्य यविष्ठैर् अभिवन्दितो बभूवेत्य् अन्वया । यथा-वय इति वय-आद्य्-अनुरूपं गोपालान् हास्य-हस्त-ग्रह-आलिङ्गनादिभिः समुपेत्य तत्-समीप-गमनादिना मिलित्वा विश्रान्तं भोजनानन्तरं कृत-शयनं, पुनश् च सुखम् आसीनं तम् अनामयं कुशलं पप्रच्छुः । तेन रामेणापि स्वेषु गोपेषु वा प्रेम्णा गद्गदा गीः, तया ते गोपाः कुशलं पृष्टाः, ते गोपाश् च कृष्णे सम्यक् प्रकारेण न्यस्तान्य् अर्पितान्य् अखिलस्य देहादि-व्यवहारस्य राधांसि सिद्धयो यैस् ते कृष्ण-गमन-दिनम् आरभ्य तेषां स्वाभाविक्योऽपि शयन-भोजनादि-क्रियाः नैव सिद्ध्यन्तीत्य् अर्थः ॥४-६॥
॥ १०.६५.७ ॥
कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते ।
कच्चित् स्मरथ नो राम यूयं दार-सुतान्विताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बान्धवा वसुदेवादयः । यथा-वयो [४-६ द्रष्टव्यम्] वय-आद्य्-अनुरूपम् । गोपालान् हास्य-हस्त-ग्रहादिभिः समुपेत्य तत्-समीपागमनादिना मिलित्वा विश्रान्तं भोजनानन्तरं कृत-शयनं, पुनश् च सुखम् आसीनं तम् अनामयं कुशलं पप्रच्छुः । तेन रामेणापि स्वेषु गोपेषु या प्रेम्णा गद्गदा गीः, तया ते गोपाः कुशलं पृष्टाः । ते गोपाश् च कृष्णे सम्यक्-प्रकारेण न्यस्तान्य् अर्पितान्य् अखिलस्य देहादि-व्यवहारस्य राधांसि सिद्धयो यैस् ते, कृष्ण-गमन-दिनम् आरभ्य तेषां स्वाभाविक्यो\ऽपि शयन भोजनादि-क्रियाः नैव सिध्यन्तीत्य् अर्थः ।
तोषिण्यां तु यद्-धामार्थ-सुहृत्-प्रियात्मतनयाः [भा।पु। १०.१४.३५] इति रीत्या पुरैव तस्मिन्न् अर्पित-सर्व-विषयाः, अतस् तद्-विरहिणां स्वतस् तद्-अनभिरुचिर् अपि तद्-आगमनाशयैव तद्-धारिण इत्य् उक्तम् । तत्र वृद्धाः पृच्छन्ति—कच्चिन् नो\ऽस्माकम् इति । समान-वयसः पृच्छन्ति—कच्चित् स्मरथ नो राम इति ॥४-७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नो\ऽस्माकं बान्धवा यादवाः । राम हे बन्धु-वर्ग-रमण ! इति तस्य बन्धु-वात्सल्येन पुनर् अपि तथैव सम्बोधनम् । दार- इति तत्-तद्-अन्वितत्वेन्[आन्येष]{।मर्क्} स्नेहोत्पत्त्या युष्माकं स्मरण-योग्या न भवाम एव, तथापि किं स्मरथ ? तच् च सम्भवेद् इति सम्बोधयति—राम इति । यूयम् इति श्री-कृष्णापेक्षया साक्षात्-तद्-अनुक्तिः, अनागमनेन तस्य विस्मरण-शङ्कया तद्-उच्चारणाशक्तेः । एवं द्वयोर् भ्रात्रोस् तयोर् विवाहात्, तत्रापि पुत्राद्य्-उत्पत्तेर् अनन्तरम् एवास्य तत्रागमनं ज्ञेयम् । यच् चोक्तं श्री-विष्णु-पुराणे विवाहात् प्राग् एव कालयवन-वधार्थं श्री-मथुराम् आगतयोस् तयोस् तद्-वधे वृत्ते ततः श्री-कृष्णस्य द्वारकायां गमनम् अस्य च गोकुल इति । तथा श्री-हरि-वंशे\ऽपि गोमन्त-युद्धे वृत्ते करवीर-पुरे शृगाल-वधानन्तरं तयोः श्री-मथुरायाम् आगमने सत्यस्य गोकुलागमनम् इति तच् च कल्प-भेद व्यवस्थया [सू]{।मर्क्}परिहार्यम् एव ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र गोप-कर्तृक-प्रश्नम् एव स्पष्टयंस्तेष्व् अतिवृद्धानां प्रश्नम् आह—कच्चिन् न इति । नो\ऽस्माकं बान्धवा यादवाः वयस्यानां प्रश्नः कच्चित् स्मरथ इति दार-सुतैः सह मिलित्वेत्य् अर्थः । यूयम् इति श्री-कृष्णापेक्षया एवं द्वयोर् भ्रात्रोः पुत्रोत्पत्तेर् अनन्तरम् एवास्य तत्रागमनं गम्यते, किं तु दिष्ट्या कंसो हत [भा।पु। १०.६५.८]1 इत्य्-आदि-वक्ष्यमाणात् सन्निहित्यावगमनेन ज्येष्ठ-पुत्रोत्पत्तेर् इति ज्ञेयं यथोक्तं श्री-विष्णु-पुराणे विवाहात् प्राग् एव काल-यवन-वधार्थं मथुराम् आगतयोस् तद्-वधे वृत्ते ततः श्री-कृष्णस्य द्वारकायां गमनम् अस्य च गोकुले इति । तथा हरि-वंशेऽपि गोमन्थ-युद्धे प्रवृत्ते करवीर-पुरे शृगाल-वधानन्तरं तयोः श्री-मथुरायाम् आगमने सति चास्य गोकुलागमनम् इति । तत् तु कल्प-भेद-व्यवस्थया स्थाप्यमानम् अपि तद्-आगते नातिविलम्ब-रोधने तु समवेतः स्यात् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र वृद्धाः पृच्छन्ति—कच्चिन् नो\ऽस्माकम् इति । समान-वयसः पृच्छन्ति—स्मरथ नो\ऽस्मान् इति ॥७-८॥
॥ १०.६५.८ ॥
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः ।
निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्ताः दुःखेभ्यः ॥८॥
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः ।
निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रिताः ॥**
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विविधोपद्रवादिना अस्मद्-दौर्भाग्येन वा मास्तु वा अस्मत्-स्मरण-मङ्गलम्, तथापि युष्माकं [शत्रु-निजयादिना सुखस्थ् इति रेवास्माकं]{।मर्क्} महा-मङ्गलम् इत्य् आशयेनाहुः—दिष्ट्या इति । पाप इति वध-योग्यतोक्ता, सुहृज्-जना आत्मनः सर्वे ज्ञातय इत्य् अर्थः । किं वा, सुहृदो जनाश् च भृत्याः । यद् वा, अस्माकं बान्धवा यादवा मुक्ताः कंसाद्य् उपद्रव-दुःखात् रिपून् कश्चित् नितरां हत्वा काश्चिच् च निःशेषेण जित्वापि दुर्गं समुद्र-परिखत्वादिना परैर् गन्तुम् अशक्यं स्थानं श्री-द्वारकाख्यं सम्यक् सुहृज्-जन-साहित्यादिना दृढम् आश्रिता इति यत् तच् च दिष्ट्या, अनिहतानां केषाञ्चिद् दुष्टानां तेषां तत्र गमन-शङ्का-निवृत्तेः, अन्यो\ऽपि विशेषस् तत्रैव श्री-हरि-वंशे—
तम् ऊचुः स्थविरा गोपाः प्रियं मधुर-भाषिणः । > रामं रमयतां श्रेष्ठ प्रवासात् पुनर् आगतम् ॥ > स्वागतं वो महा-बाहो यदूनां कुल-नन्दन । > अद्यास्म निर्वृतास् तात यत् त्वां पश्यामहे वयम् ॥ > प्रीताश् चैव वयं वीर यत् त्वं पुनर् इहागतः । > त्रिदशानां वयं मान्या ध्रुवम् अद्यामलानन ॥ > ये स्म दृष्टास् त्वया तात काङ्क्षमाणास् तवागतम् ।
तव चागमनं दृष्ट्वा स-भाग्याः स्म यथा पुरा ॥ [ह।वं। २.४६.६-८,१०,१६] इत्य्-आदि ।
किं च, श्री-हरि-वंशे—
प्रत्युवाच ततो रामः सर्वांस् तान् अभितः स्थिता । > यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः ॥ > इत्य् आवयोर् गतं बाल्यम् इहाचैवावयो रतम् । > भवद्भिर् वर्धिताश् चैव यास्यामो विक्रियां कथम् ॥ > गृहेषु भवतां भुक्तं गावश् च परिरक्षिताः ।
अस्माकं बान्धवाः सर्वे भवन्तो बद्ध-सौहृदा ॥ [ह।वं। २.४६.१७-१९] इत्य्-आदि ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पितुस् सवयसां प्रश्नः, दिष्ट्येति । ते च स्व-दुःखम् अप्य् अनादृत्य तन्-मङ्गलम् एव बहु मन्यन्ते स्म तत्रापि सम्प्रति तत्-सहायानां यादव-मात्राणां मङ्गलं बहुमन्यमानाः श्री-रामकृष्णयोः कैमुत्यम् आनयन्ति स्म । कंसो हत इत्य्-आदिका लीलाः क्रमश एवोक्ताः क्रमेण स्व-सुखातिशय-व्यञ्जनाय सुहृज्-जना इति भवतो माहाय्यकरणात् सम्प्रत्य् अस्माभिस् तच्-छब्देनैव शंसनीया इत्य् अर्थः । कांश्चिन् निहत्य कांश्चिन् निर्जित्य दुर्गं समाश्रिताः यत्-तद् अपि दिष्ट्या भद्रम् अस्माकं भाग्येनैवेत्य् अर्थः । अवशिष्टागमन-शङ्कानिवृत्तेः अतो\ऽस्माकं भवतां दूरगमनम् अपि शङ्कानिवृत्तः । अतो\ऽस्माकं भवतां दूरगमनम् अपि सुखायैव जातम् इति द्योतितम् अन्यो\ऽपि शेषस् तत्रैव—
तम् ऊचुः स्थविरा गोपाः प्रियं मधुर-भाषिणः । > रामं रमयतां श्रेष्ठ प्रवासात् पुनर् आगतम् ॥ > स्वागतं वो महा-बाहो यदूनां कुल-नन्दन । > अद्यास्म निर्वृतास् तात यत्त्वां पश्यामहे वयम् ॥ > प्रीताश् चैव वयं वीर यत्त्वं पुनर् इहागतः । > त्रि-दशानां वयं मान्या ध्रुवमद्यामलानन ॥ > ये स्म दृष्टास् त्वया तात काङ्क्षमाणास् तवागतम् । > तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ॥ [ह।वं। > २.४६.६-८,१०,१६] इत्य्-आदि ।
किं च—
प्रत्युवाच ततो रामः सर्वांस् तान् अभित! स्थिता । > यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः ॥ > इत्य् आवयोर् गतं बाल्यम् इहाचैवावयोरतम् । > भवद्भिर् वर्धिताश् चैव यास्यामो विक्रियां कथम् ॥ > गृहेषु भवतां भुक्तं गावश् च परिरक्षिताः । > अस्माकं बान्धवाः सर्वे भवन्तो बद्ध-सौहृदा ॥ [ह।वं। > २.४६.१७-१९]
इत्य्-आदि अत्र प्रवासात् पुनर् आगतम् इति तद् आपि तस्मिन् स्व-गृह-सम्बन्धित्वाभिमानम् एव बोधयति तत्र यदूनां कुलनन्दनेति तथाप्य् अस्माकम् एवेति निज-प्रणय-व्यञ्जना त्वाम् इत्य् आदी तव चेत्य् उत्तरतश् च कारान्वयात् त्वामपीत्य् आद् इत्य् अर्थः । श्री-कृष्णं प्रत्युत कण्ठाव्यञ्जनया तवागमनम् इति तवैवास्मासु दयालुत्वम् अनुभूयते त्वद् अनुजस्य त्व् औदासीन्यम् एवेति दर्शितम् अथ श्री-रामवाक्ये यादवेष्वेति तेषाम् अपि यादवत्वान् निर्भरणे सप्तमी शुद्ध-पितृ-भावादेः तस्यैव निश्चयाय श्री-कृष्ण-साम्येनात्मानं निर्दिशति इत्य् आवयोर् इति बाल्यं जन्मादि तस्य यथा-गतं तथा ममापि गतम् इत्य् अर्थः । रतं बाल्य-क्रीडा बद्धिता इत्य् आदाबेकत्व एव बहुत्व-निर्देशस् तेनात्म-सम्भावनया न-तु द्वित्वे श्री-कृष्णस्यापि तादृशत्वम् उद्देष्टुम् असुष्ठुत्वात् अन्यथा द्विवचन-प्रकरणद् वर्धितावितोवोच्येत यादवेष्व् अप्य् आधिक्ये हेतुर् बद्ध-सौहृदाः स्वाभाविकत्वात् । परित्याग-भ्रमे\ऽपि स्थिर-पित-भावादय इति तेषां तु तथा न तिष्ठेद् इति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६५.९ ॥
गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः ।
कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : राम् अस्य सन्दर्शनेनादृताः सादराः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कच्चिद् इतीष्ट-प्रश्ने । पुरस्त्रीजन-वल्लभ इति साभिप्रायोक्तिः, तद्-अर्थ यो\ऽस्मांस् त्यक्तवान् इति । गोप्यः श्री-कृष्ण-प्रेयस्यः । हसन्त्य इत्य् उन्माद-बोधदम्, तादृश-महाविरह-दुःखे श्री-बलदेवस्याग्रे तादृश-परम-लज्जावतीनां कथम् अन्यथा हासस् सम्भवेद् इति । रामों\ऽपि तन्-महा-भाव-लक्षणम् अधिगम्यैव ताः संमानयामासैव न त्वव-हेलयामासेत्य् आह—रामेण कार्ता सन्दर्शनेन स्वानुज-प्रेमवत्-प्रेयसीबुद्धया स्व-कर्तृकेण सवात्सल्य-दर्शनेन कारणेनादृताः । कच्चित्-कृष्णस् तत्र सुखमाते । ननु, युष्मद्-विरहे तत्र तस्य कुतः सुखं तत्राः—पुरेति । नागरीः सुन्दरीः स्त्रीः प्राप्तस्य तस्य कुतो\ऽस्माकं ग्राम्याणां विरह-दुःखं सम्भवेद् अतः सुखं घटेतैवेति भावः ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राम् अस्य व्रज-जन-रमणस्य सम्यग् गोप-वेशादिना साक्षाद्-दर्शनेनादृताः सम्मानिताः प्रहर्षिता इत्य् अर्थः । अतो हसन्त्यः, स्मितम् उपहासं वा कुर्वत्यः । यद् वा, राम-सन्दर्शनादृता अपि, अकार-प्रश्लेषेण—अहसन्त्यो\ऽन्तःशोकभरोदयेनाप्रसन्न-मुखाः सत्यः । कृष्णः परमानन्द-घन इति सुखार्हतोक्ता । यद् वा, अस्मच् चित्ताकर्षकः । ननु, युष्माभिर् विना कथं तस्य सुखम् ? तत्राहुः—पुरस्य स्त्री-जनाः सर्वाः स्त्रियस् तासां वल्लभः । किं वा, ता एव वल्लभा यस्य सः, नागर-विदग्ध-स्त्रीगण-प्राप्त्या वन्य-विदग्धास्मद्वियोगे\ऽपि तस्य सुखं घटेतैवेति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोप्यस् तद्-विशेषाः श्री-कृष्ण-प्रेयस्यः ताश् च तद्-वत्त-श्रवणाद्य् अर्थं नित्यं रहसि मिथो मिलन्त्यः श्रीमद्-उद्धव-वदन्विष्य तेनाप्य् एकत्र प्राप्ता इति ज्ञेयं तादृश-दुःखे\ऽप्य् अनुवर्तमाने हसन्त्य इत्य् उन्माद-बोधकं श्री-कृष्णोपहास-गर्भं हास्यं कुर्वत्य इत्य् अर्थः । तस्य चोन्मादमयस्योतकण्ठामयत्वात् स्व-कान्त-ज्येष्ठम् अपि पप्रच्छुः टीकायां सादरा इति कृत-नमस्कारादिका इत्य् अर्थः । यद् वा, राम् अस्य उद्धवात् परमान्तरङ्गस्य यत्-सम्यक् पूर्व-पूर्व-स्फूर्त्तिमय-दर्शन-विलक्षणत्वात् पूर्ण दर्शनं तेनादृताः श्री-कृष्णागमनादी विश्वस्ताः तत्र स्व-त्याग-जातेर्षयोपहसन्योऽपि शद्ध-प्रेम-विशेपस्वाभाव्येन तत्-सुखैक-पूरुषार्थत्वात् तन्-मात्रं पृच्छन्ति कच्चिद् इति ननु, युष्माभिर् विना कथं कस्य सुखं तत्राहः पूरेति नागर-स्त्रीगण-प्राप्त्या ग्राम्यावियोगे तस्य सखं घटेतैवेति भाव ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हसन्त्य इत्य् उन्माद-बोधकं श्री-कृष्णोपहास-गर्भ हासं कुर्वत्य इत्य् अर्थः ॥९-१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गोप्यो हसन्त्यः पप्रच्छुर् इत्य्-आदि । गोप्योऽत्र नित्य-सिद्धेतरा मुनि-रूपा इति बोद्धव्यम् । हसन्त्य इत्य् अस्यायं भावः—प्राक् यदूत्तमोऽयम् आयातीति कृष्णागमनम् आशङ्क्य त्वरयागताः, पश्चाद् बलदेवम् आलोक्य स्वाभाग्यं प्रति सासूयं हसनं चक्रुः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोप्यः श्री-कृष्णप्रेयस्यः हसन्त्यः इत्य् उन्मादबोधकं तादृश-महाविरह-दुःखे श्री-बलदेवस्याग्रे तादृश-परम-लज्जावतीनां कथम् अन्यथा-हासः सम्भवेद् इति रामोऽपि तन्-महा-भाव-लक्षणम् अधिगम्यैव ताः सम्मानयामासैव न त्व् अवहेलयामासेत्य् आह—रामेण का सन्दर्शनेन स्वानुजप्रेमवत् प्रेयसी-बुध्या स्व-कर्तृकेण सवात्सल्य-दर्शनेन कारणेन आदृताः कच्चित कष्णस् तत्र सुखमास्ते ननु, युष्मद् विरहे तत्र तस्य कुतः सुखं तत्राहुः, पुरेति, नागरीः सुन्दरीः स्त्रीः प्राप्तस्य तस्य कुतो\ऽस्माकं ग्राम्याणां विरह-दुःखं सम्भवेत् अतः सुखं घटेनैवेति भावः ॥९॥
॥ १०.६५.१० ॥
कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः ।
अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति ।
अपि वा स्मरतेऽस्माकम् अनुसेवां महा-भुजः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कृष्णः । स्मरतीति चेत्-तच्छ्रुत्वा तद् आगमनं सम्भाव्याहुः—सकृद् इति । महाः पूज्या राज-कन्या भुङ्क्त सेवते इति महा-भुजः । इगुपधत्वात्कः । अनेन राजकन्या-भोक्ता कथम् अप्य् अस्मान् स्मरतीति भावः । अस्मान् मा स्मरतु नाम बन्धून् पितृव्य-मातुलादीन् पितरं नन्दं मातरं यशोदां च किं स्मरति न वा । शृङ्गार-रस-विलासेनास्मत्तस्ताः पुरत्रियो\ऽधिकात्तम् अधिकं सुखयन्तीति जानीम एव । किं तु वन-माला-विरचन-स्थासक-सम्पादन-कुसुम-पल्लवमय-व्यजन-शय्योल्लोचादि-निर्माणादिषु वयं तस्य स्मृति-पथम् अवश्यं याम एवेत्य् अभिप्रायेण पृच्छन्ति-अपि वेति । स्मरते स्मरति । महा-भुज इति तस्य पीनभुजयोर् भक्तिच्छेदरीत्या कुङ्कुम-रस-चर्चा न जाने साम्प्रतं कीदृशी भवतीति भावः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोप्यो हसन्त्यः पप्रच्छुर् इति हसन्त्य इत्य् अस्यायं भावः-प्राक् यदूत्तमो\ऽयम् आयातीति कृष्णागमनम् आशङ्क्य त्वरया गता बलदेवं वीक्ष्य स्वादृष्टं प्रति सासूयत्वेन हसनम् एव चक्रः, यथा-गतं तथा निवर्त्तितुम् अयुक्तम् इति समयोचितं पृच्छन्ति-कच्चिद् इत्य्-आदि ॥१०-१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्यपि तस्य सुखेनैव किलास्माकं सुखम्, तथापि तत्-स्मरणम् अवश्यम् अपेक्ष्यम् इत्य् आशयेन पृच्छन्ति-कच्चिद् इति । बन्धन सखीन, श्री-दामादि-गोपान, वा संशये शोके वा, अपि किम् अनुसेवां निरन्तर-भजनम् । यद् वा, अनुस्मरत पुरस्त्रीभिः सह गोष्ठ्यनन्तरं प्रसङ्गाद्-गौणतयापि स्मरति, स्मरत इति पुनर् उक्तिः परम-दैन्येन स्मृति-मात्रापेक्षणात् । वा-शब्दः कटाक्षे, महाभुज इति व्रज-रक्षार्थं केशि-वधे भुजस्य वृहत्तायाः । किं वा, पौर्विक गाढालिङ्गनस्याभिप्रायेणेति स्मरणं स्म्भावितम् । बन्धादीनां यथोत्तरं श्रेष्ठयम्, ततश् च बन्धून् न स्मरतु नाम, पितरं तु किम् अहो स्मरतीत्य् एवं व्याख्येयम् । यद् वा, अत्यन्त् दैन्येनोक्तत्विद्-यथोत्तरं न्यूनत्वमूह्यम् । ततश् च बन्धून् स्मरत्य् एव, पितरं कं स्मरतीत्य् एवं व्याख्येयम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि तस्य सुखेनैव किलास्माकं सुखं तथापि स्वेषु तत्-कतृक-तत्-स्मरणम् अवश्यम् अपेक्ष्यम् इत्य् आशयेन तं पृच्छन्ति-कच्चिद् इति बन्धून सखीन् श्री-दामादि-गोपान् वा संशये स च शोक-व्यञ्जकः अपि किम् अनुसेवां निरन्तर भजनं यद् वा, अनुस्मरते पुरस्त्रीभिः सह गोष्ठ्यनन्तरं प्रसङ्गाद्-गौणतयापि स्मरति स्मरते इति पुनर् उक्तिरात्या वा-शब्दः कटाक्षे महा-भुज इति महा-पुरुषस्यैतद् उचितम् इति व्यज्यते वस्तु-तस्तु भाव-विशेषोत्कण्ठया बन्ध्वादीनां त्रयाणां यथोत्तरं श्रेष्ठ्यै ततश् च बन्धून् न स्मरतु नाम पितरं तु किं महो स्मरतीत्य् एवं व्याख्येवं स्वेषां तु पृथक्कृत्य पश्चाद् उक्तिर् दैन्येन ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यथागतं तथा निवर्तितुम् अयुक्तम् इति समयोचितम् एव पृच्छन्ति—कच्चिद् इत्य्-आदि । कच्चिद् बन्धून् स्मरति ? बन्धु-स्मरणं तु युक्तम् एव । अथवा, पुर-स्त्री-जन-वल्लभश् चेद् अतो बन्धु-स्मरणम् अपि तस्यासम्भाव्यम् । किं स्मरतीति साभ्यसूयोक्तिः । अपि प्रश्ने । वा कटाक्षे । अस्माकम् अनुसेवां स्मरते ? महाभुज इति गाढालिङ्गन-परम् ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मान् मास्मरतु नाम बन्धून पितृव्य-मातुलादीन पितरं नन्दं मातरं यशोदां च किं स्मरति नवा शृङ्गार-रस-विलासेनास्मतस् ताः पुरस्त्रियो\ऽधिकास् तम् अधिकं सुखयन्तीति जानीमः एव किं तु वनमाला-विरचनस्थासकसम्पादनकुसुम-पल्लवमय-व्यजनशय्योल्लोचादि-निर्माणादिषु वयं तस्य स्मृतिपयम् अवश्यं याम एवेत्यभिप्रायेण पृच्छन्ति, अपि चेति । स्मरते स्मरति महा-भुज इति तस्य पीनभुजयोर् भक्ति-च्छेदरीत्या कुङ्कुम-रसचर्चा न जाने साम्प्रतं कीदृशी भवतीति भावः ॥१०॥
॥ १०.६५.११ ॥
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि ।
यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् अर्थे कृष्ण-निमित्तम् । अक्षराधिक्यम् आर्षम् । ननु, भोः कृष्ण-प्रियाः स प्रेमवान् कृष्णः सदा वः स्मरत्येवेति चेन् न, अनन्य-गतीनाम् अस्माकं परित्यागेन तत्-प्रेमणि न विश्वसिम इत्य् आहुः—मातरम् इति सार्धन ॥११॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, वध्वः ! सदा स्मरत्येवेति चेन्-न, अनन्य-गतीनाम् अस्माकम् अपि परित्यागेन सौहृद-लक्षणापगमाद् इत्य् आहुः—मातरम् इति सार्धेन ! दुस्त्यजान् अपि मात्रादीन् स्वजनान् । किं वा, मात्रादीन्, मात्रादीनां यथोत्तरं स्निग्धत्वे न्यूनत्वम्, तत्र भ्रातृभ्यो\ऽपि पतीनां न्यूनत्वम्, तेषु तासाम् अदराभावात्, एवम् अन्यदप्य् ऊह्यम् । यद् वा, श्री-कृष्णार्थम् अत्याज्यतायाम् आधिक्यम् । प्रभो ! हे सर्व-ज्ञान-समर्थेति तत् सव्वं त्वया ज्ञायत एवेत्य् अर्थः । हे दाशार्हेति यदुकुलोद्भवो\ऽपि त्वं सौहृदाद् आगतः, स च श्री-गोपेन्द्र-नन्दनो नैवागत इति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, बध्वः सदा स्मरत्य् एवेति चेन्-न अनन्य-गतीनाम् अस्माकं परित्यागेन सौहृद-लक्षणापगमाद् इत्य् आहुः—मातरम् इति सार्धेन । दुस्त्यजान् अपि मात्रादीन् स्व-जनांश् च सख्यादीन् मात्रादीनां यथोत्तरं स्निग्धत्वे न्यूनत्वं तत्र भ्रातृभ्योऽपि पतीनां न्यूनत्व-निर्देशस् तेषु तासाम् आदराभावात् एवम् अन्यदप्य् ऊह्यं तत्र पति-सुतान्वय-भ्रातृ बान्धवान् अतिविलङ्घ्य तेत्य् अच्युतागताः [भा।पु। १०.३१.१६] इति प्राप्त नेन तासां वचनेन तेषाम् अतिक्रम एव पूर्व लभ्यते सम्प्रति तु सर्वथा तत्-परित्याग-पूर्वकतया संहत्य सर्वासां वनवास एव जहिमेत्य् अनेन गम्यते तद् उक्तं भ्रमरं प्रति अगृहाणां न इति ततश् च पति-पुत्र-शब्द-प्रयोगश् च लोक-प्रसिद्धिम् अनुसृत्य गौण्यैव वृत्त्येति बोधितं प्रभो इति तद् ग्रजत्वाद्-भवान् एव सर्वेषां प्रभुः ततोन्यस्मै वा कस्मा इमं तस्य दुर्नयं निवेदयामेति लज्जाम् अपि परित्यज्य भवत्-पार्श्वमागता । स्म इति भावः । हे दाशार्हेति यदुकुलोद्भवोऽपि त्वं सौहृदादागता स तु श्री-गोपेन्द्र-नन्दनोऽपि नागत इति भावः । ताः त्यक्ताशेषस्वजनाः अनन्य-गतीर् वा परितः सर्वतोभावेन त्यक्त्वा स गतः
ननु, वत्सा दुष्ट-कंस-वधार्थं गतो\ऽधुनावश्यकृत्यं समाधायाचिराद् आगन्तेति चेन्न सम्भाव्यत इत्य् आहुः, सम्यक् तृणवच्-छिन्नं सौहृदम् अस्मासु प्रेम-शृङ्खला येन सः अन्यथा परित्यागासम्भवात् । कथं नु तादृशम् इत्य् अर्धकम् । तादृशं मधुर-स्वर-विनय-शपथादि-सम्वलितं न पारयेहम् इत्य्-आदि-लक्षणं स्त्रीभिः कोमलर्जुस्व-भावाभिर् इत्य् अर्थः । अन्यत्तः ।
यद् वा, ननु, कल्याण्यो युष्माभिर् बतै-तादृशार्त्तिप्रदं तस्मिन् सौहार्दं किम् इति कृतं तत्र तादृशोक्ति-प्रतिहतत्वाद् इत्य् आह—कथं न्व् इति ॥११-१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, भोः कृष्ण-प्रियाः स प्रेमवान् कृष्णः सदा वः स्मरत्य् एवेति चेन्-न अनन्य-गतीनाम् असमां परित्यागेन तत्-प्रेमणि न विश्वसिम इत्य् आहः—मातरम् इति सार्धन । तास् तथा-भूता अपि अस्मान् सद्यः परित्यज्य गतः ननु, तर्हि तद्-गमने युष्माभिः प्रतिबन्धः किं न कृतः तेन सार्धम् एव वा कथं न गतं तत्राहुः—तृणपत्रवत् सञ्छिन्नं सौहृदं प्रेम-शृङ्खाला येन सः अतः कथय किं वयं कुर्म इति भावः ।
ननु, तर्हि तेन विना प्राण-धारणात् युष्माभिर् अपि तस्मिन् प्रेमच्-छिन्नम् एवेति चेन्-मैवम् आयास्ये इति दूत-द्वारा मुहुर् उक्त्याच्छिन्नाया अपि प्रेम-शृङ्खलायाः पुनर् ग्रन्थनात् निर्गच्छन्तो\ऽप्य् अस्माकं प्राणाः पुनर् बद्ध्वा तेनैव स्थापिता इति ननु, तर्हि स आयास्यत्य् एव कथम् अधीराः स्थेति चेन्, मैवम् अद्याप्य् अनागमनात् । तेन तदा तन्-मृषैव भाषितम् इत्य् अधुना विमृशामः कथं तर्हि तद्-भाषिते तदा विश्वस्तं तत्राहुः कथन् न्व् इति स्त्रीभिरवकबुद्धिभिर् अबुधाभिर् अस्माभिस् तादृशं भाषितं कथं न श्रद्धीयेत ॥११-१२॥
॥ १०.६५.१२ ॥
ता नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः ।
कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत भाषितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि तद्-गमने युष्माभिः प्रतिबन्धः किं न कृतः, तद्-वाक्य-विश्वासाद् इति चेत् । ननु विश्वासः किम् इति कृतः ? तत्राहुः—कथं न्व् इति । वक्तृ-बहुत्वान् नाना-विधानि वाक्यानि ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताः सर्व-त्यागवतीः । तन् निरोधः कथं न कृत इत्य् आह—तीति । तस्य कृष्णस्य “अहं शीघ्रम् आयास्ये” इत्य्-आदि-वाक्ये विश्वासात् सत्य-प्रत्ययात् । विश्वसः कथं कृतं इत्य् आशङ्कते—नन्व् इति । तत्राक्षेपे । तादृशं गुड-जिह्विका-लक्षणं किं तु श्रद्धेयम् एवेत्य् अर्थः । गुड-जिह्विका चेत्थम्—यथा तत्-कटुताभीत्या निम्ब-पानम् अकुर्वाणस्य जिह्वायां गुड-लेपनं कृत्वा तं निम्बं पाययन्ति, तथा प्रिय-वाक्यान्युक्त्वा पश्चात्-कपटकरो\ऽपि गुड-जिह्विक एवेत्य् अर्थः । तास् तथा-भूता अप्य् अस्मान्-सद्यः परित्यज्य गतः ।
ननु, तद्-गमने युष्माभिः प्रतिबन्धः किन् न कृतः, तेन सार्धं वा किन् न गतास् तत्राहुः—तृण-पत्रवत्-सञ्छिन्नं सौहृदं प्रेम-शृङ्खला येन सः । अतः कथय किं वयं कुर्म इति भावः ।
ननु, तेन विना प्राण-धारणाद्य् उष्माभिर् अपि तस्मिन्-प्रेम सञ्छिन्नम् एवेति चेन्-मैवम्, आयास्ये इति दूत-द्वारा मुहुर् उक्त्या सञ्छिन्नाया अपि प्रेम-शृङ्खलायाः पुनर् ग्रथनान् निर्गच्छन्तो\ऽप्य् अस्माकं प्राणाः पुनर् बद्ध्वा तेनैव स्थापिता इति ।
ननु, तहि स आयास्यत्य् एव कथम् अधीराः स्थ इति चेन्-मैवम् , अद्याप्य् अनागमनेन तेन तदा तन्-मूषेवोक्तम् इत्य् अधुना विमशामः । कथं तर्हि तद् उत्तो तदा विश्वस्तं तत्राहुः कथं न्व् इति स्त्रीभिर् अबुद्धिर् अवक्रधीभिर् अस्माभिस् ताद्र्शं तद्-वचः कथं न श्रद्धीयेत ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तास् त्यक्ताशेष-स्वजना अनन्य-गतीर् वा, परितः सर्वतोभावेन त्यक्त्वा स गतः, ता इत्य् अत्र स इति पाठो वा । ननु, वत्साः ! दुष्ट-कंस-वधाद्य् अर्थं गतो\ऽधुनावश्यकृत्यं समाधायाचिराद् आगन्तेति चेत्-तन्-न सम्भाव्यत इत्य् आहुः—सम्यक् तृणवच्छिन्नं सौहृदम् अस्मासु प्रेम-शृङ्खला येन सः, अन्यथा परित्यागासम्भवः । तादृशं शपथादि-पूर्वक-विचित्रन्याय-वृंहितं स्त्रीभिः कोमलर्जुस्वभावाभिर् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ननु, कल्याण्यो युष्माभिर् वतै-तादृशातिप्रदं तस्मिन् सौहृदं किम् इति कृतम् ? तन्-मधुर-मधुरोक्ति-प्रतीति-हतत्वाद् इत्य् आहुः—कथं न्व् इति । तादृशम् न पारये\ऽहम् [भा।पु। १०.३२.२२] इत्य्-आदि-लक्षणम् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६५.१३ ॥
कथं नु गृह्णन्त्य् अनवस्थितात्मनो
वचः कृत-घ्नस्य बुधाः पुर-स्त्रियः ।
अगृह्णन्ति वै चित्र-कथस्य सुन्दर-
स्मितावलोकोच्छ्वसित-स्मरातुराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रान्या ऊचुः—कथं न गृह्णन्तीति । अन्या ऊचुः—गृह्णन्ति वा इति । चित्रकथस्य चित्र-कथा-कथन-कोविदस्य । किं च सुन्दरं स्मितं यस्मिंस् तेनावलोकनेनोच्छ्वसितः क्षुभितो यः स्मरस् तेनातुराः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तासु । अन्याः किन्चिद् बुद्धिमत्यः । अन्यास् तच् चरितज्ञाः । न केवलम् उक्ति-कौविद्येनैव मोहो\ऽपि तु तद्-भावेनापीत्य् आहुः—किं चेति । किं च, वन्याः स्त्रियो वयं निर्बुद्धय एव स्मः, नागर्यस्ता अतिसुधियस् तद्-भाषिते कथं विश्वसन्तीत्य् आहुः—कथं न्व् इति । ताः प्रत्यन्याः समादधत्य आहुः—चित्र-कथस्य मिथ्या कथापि तन्-मुखे विस्मय-रसमयी परमस्वाद्वी भवतीति कथा-रसत्यागासामर्थ्याद् एव शृण्वन्तीत्य् अर्थः । हेत्वन्तरम् अप्य् अस्तीत्य् आहुः—सुन्दरस्मित-पूर्वावलोकेनोच्छ्वसित उद्भूय प्रवृद्धो यः स्मरस् तेनातुराः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथं वित्य्-आदि-पृथक् पृथक् वक्तृयुः । अनवस्थितात्मन इत्य्-आदि सासूयत्वपरम् । अन्या ऊचुः । किं न इत्य्-आदि । तत्-कथया किम् ? न किम् अपीत्य् आक्षेपः, तत्-कथां त्यक्त्वा किं कार्यम् ? तत्राह—कथाः कथयतापराः । अपरास् तद् अन्याः तत्-कथां विना कालो न यातीति चेत् यास्यति, तस्य यथा अस्मान् विना कालो याति तथास्माकम् अपि यास्यतीत्य् आक्षेपो भावः ॥१३-१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वक्तृ-भेद-व्यवस्थया पूर्वापर-सङ्गत्य् अनपेक्षायाम् अपि सतां प्रीतये काचित् सङ्गतिः कार्या, तथा हि—अहो वन्या वयं निर्बद्धित्वेन तद्-उत्तौ विश्वसिमः स्म, पुरस्त्रियस्त्व् अभिज्ञाः कथं विश्वसन्तीत्य् अत्यन्त-तत्-प्रेमार्त्ति-धर्षिता आहुः—कथम् इति । नु विस्मये, कुतो गृह्णन्ति स्वीकुर्वन्ति श्रद्दधते वा अपि तु ग्रहीतुं नाहन्त्येवेत्य् अर्थः । कुतः ? अनवस्थितात्मनो\ऽस्थिरचित्तस्य, अत एव कृतम् अन्यस्यात्मनश् च सर्व सौहार्दं हन्तीति तथा तस्य,
यद् वा, उपकारिजनानां परित्यागादिना द्रोहकारिणः, पुरस्त्रीत्वाद्-बुधा अपि, वै स्मरणे, आं ज्ञातम् इत्य् अर्थः । वचोग्रहणं विना तास्वनासक्त्यास्माकं स्मरणं सम्भवेद् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, विचित्र-वार्ता कथयतः सतो यः सुन्दर-स्मितावलोकस् तेनोच्छ्वसित-स्मरातुराः—चित्र-कथादिना कामोद्रेक-विवशतया हतविचारत्वाद् इत्य् अर्थः । अन्यत् समानम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो वन्या वयं निर्बद्धित्वेन तद्-उक्तौ विश्वासिन्यः स्मः पुरस्तियस् त्व् अभिज्ञाः कथं विश्वसन्तीत्यत्यन्त-प्रेमार्ति-धर्षिता आहुः कथम् इति । नु विस्मये कुतो गृह्णन्ति स्वीकुर्वन्ति श्रद्दधते वा अपितु ग्रहीतुं नार्हन्त्येवेत्य् अर्थः । कुतः ? अनवस्थितात्मनः अस्थिर-चित् तस्य अत एव कृतम् अन्यस्यात्मनश् च सर्वं सौहार्दं हन्तीति तथा तस्य पुरस्त्रीत्वाद्-बुधा अपि वै स्मरणे आं ज्ञातम् इत्य् अर्थः । वाचा ग्रहणं विना आत्मनासक्त्या अस्माकं स्मरणं सम्भवेद् इत्य् अभिप्रायेणेति भावः ।
यद् वा, विचित्र-वार्तां कथयतः सतो यः सुन्दर-स्मितावलोकस् तेनोच्छ्वसित-स्मरातुराः चित्र-कथादिना कामोद्रेक-विवशतया हत-विचारत्वाद् इत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, वन्याः स्त्रियो वयं निर्बुद्धय एव स्म नागर्यस् ताः अति सुधियः स्त्रियस् तद्-भाषिते कथं विश्वसन्तीत्य् आहुः—कथनिन्वति । ताः प्रत्यन्याः समादधन्यः आहुः—चित्र-कथस्य मिथ्या कथापि तन्-मुखे विस्मय-रसमयी परम-स्वाद्वी-भवतीति कथा-रसास्वाद-त्यागासामर्थ्याद् एव शृण्वन्तीत्य् अर्थः । हेत्व् अन्तरम् अप्य् अस्तीत्य् आहुः—सुन्दर-स्मित-पूर्वावलोकेन उच्छ्वसितः उद्भूय प्रवृद्धो यः स्मरस् तेन आतुराः ॥१३॥
॥ १०.६५.१४ ॥
किं नस् तत्-कथया गोप्यः कथाः कथयतापराः ।
यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—किं न इति । क्लष् तावत् तत् तस्य चास्माकं च यात्व् एव, किं तु तस्य सुखेन । अस्माकं तु दुःस्वेनेत्य् एतावान् एव विशेष इति ध्वनितम् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्या अर्ध-कुपिताः । तत्-कथया कृष्ण-वार्तया । अपराः कृष्ण-भिन्नाः । तस्य कृष्णस्य । तथैव तेन विना । सुखेन तस्यान्यास्व् आसक्तत्वात् , अस्माकं तु तद् आसतानां तद्-विरहाद् दुःखेन । ध्वनितं सूचितम् । ताः सर्वाः प्रत्यन्या असूया-प्रेम-संरम्भरता आहुः—किन्-न इति । कालस् तावत्-तस्य चारमाय च यात्य् एव किं तु तस्य सुखेनास्माकं दुःखेनेतीयान् एव विशेषः । संयुक्तो जीवति वियुक्तो म्रियते वयं तु न जीवामो नापि म्रियामह इत्य् अन्यस्तीभ्यो विधात्रैवास्माकं ललाटे लिखितस् तत्र कः प्रतीकार इति भावः । इतीति—स्वीय-सुधार-समय-प्रहसितादि-शल्यपञ्चकेन लासा हृदयं विद्ध्वा कृष्ण-चन्द्रण गत-मतस् ताः कथं जीवं तु कथं वा म्रियन्ताम् इति श्रीबलदेवाग्रे\ऽपि विह्वलीभूय रुरुदुर् एव ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथोद्रिक्त-शोक-सन्तप्ताः परस्परम् आहुः—किम् इति । तस्य वार्तया किम् ? न किञ्चित् प्रयोजनम्, अपि च दुःखम् एव स्थाद् इत्य् अर्थः । गोप्यः । हे कोमलर्जुस्बभावा इत्य् अर्थः । ननु, सत्यम्, तथापि तां त्यक्तुं न शक्नुमो हन्त शोकार्ताः किं करवामेति चेत्-तत्राहुः—कथा इति । अपरा अन्यदीयाः गाढ-शोक-प्रहाराणाम् अन्यचिन्ता महौषधिः इति न्यायेनान्य कथाभिस् तत्-कथाच्छादनस्य तेन तच्-छोकतरणस्यापि सम्भवाद् इति भावः । न च मन्तव्यम्, तं विनास्माकं कालो न यास्यतीत्य् आहुः—यातीति । यद्-यस्माभि-विनापि तस्य कालो याति, तर्ह्य् अस्माकम् अपि तेन विना दुःखेनापि यास्यत्येवेत्य् अर्थः । यद् वा, यथा अस्माभिर् विनापि तस्य कालो याति, तथा तं विनास्माकम् अपि, तद्-विरहेणास्माकं काञिद्-दशमी दशां नाद्यापि प्राप्तेत्या ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथोद्रिक्त-शोक-सन्तप्ताः परस्परम् आहुः—किम् इति । तस्य कथया वार्तया किं न किञ्चित्-प्रयोजनम् अपि च दुःखम् एव स्याद् इत्य् अर्थः । गोप्यः हे कोमलर्जु-स्वभावा इत्य् अर्थः ।
ननु, सत्यं तथापि त्यक्तुं न शक्नुमो हन्त शोकार्ताः किं करवामेति चेत्-तत्राहुः कथा इति । अपरा अभ्यदीयाः गाढ-शोक-प्रहाराणाम् अचिन्त्यैव महौषधिः इति न्यायेनान्य-कथाभिस् तत्-कथाच्छादनस्य तेन तच्-छोकतरणस्यापि सम्भवाद् इति भावः । न-च मन्तव्यं तं विनास्मात्-कालो नः यास्यतीत्य् आहुः, यातीति । तथैवेति तर्ह्य् अस्माकम् अपि तेन विना कालो यास्यत्येवेत्य् अर्थः । तद्-विरहेण चाद्यावध्यस्माकं हि मध्ये काचिद् अपि दशमीं दशां न प्राप्तेति-भावः ।
यद् वा, तथैव वैन विनास्माकम् अपि सुखेनैवेत्य् अर्थः । परम-दुःखे\ऽप्य् अदुःखता-निर्देशोयं तज्-जन्म-दुःखेनैव तत्-सहनाङ्गीकाराद् अत्यन्त-दुःखम् एव द्वनितम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या ऊचुः—किं न इत्य्-आदि । य एवं निष्करुणः । तस्य कथया किम् ? अपराः कथाः कथय । जीवन-त्यागायुक्तः क्रियताम् इत्य् अर्थः । तत्-कथां विना कालो न यातीति चेत्, तद् अपि न, इत्य् अपरा आहुः—यातीत्य् आदि । अस्माभिर् विना यदि तस्य कालो यथा यास्यति, तथैव नो यास्यतीति सामर्षोक्तिः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ताः सर्वाः प्रत्यन्या अत्यसूया-प्रेम-संरम्भवत्य आहुः—किन्-न इति । कालस् तावत्-तस्य चास्माकं च यात्य् एव किं तु तस्य सुखेन अस्माकं दुःखेनेत्येतावान् तस्माद्-विशेषः । संयुक्ता जीवन्ति वियुक्ता नियन्ते वयं तु न जीवामो नापि म्रियामहे इत्य् अन्य-स्त्रीभ्यश् च विशेषो विधात्रैवास्माकं ललाटे लिखितस् तत्र कः प्रतीकार इति भावः ॥१४॥
॥ १०.६५.१५ ॥
इति प्रहसितं शौरेर् जल्पितं चारु-वीक्षितम् ।
गतिं प्रेम-परिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्त्रीणां धैर्य-शिथिल-वचनं वज्र-धारोपमम् इति लोक-सिद्धम् इत्य् आशयेनाह—इतीति । इतीत्थम् उक्त्वा । प्रेम्णा परिष्वङ्गम् आलिङ्गनम् ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एवं प्रहसितादिकं स्मरन्त्यः, प्रहसितं स्मितं चार्व् इति लिङ्ग-विपरिणामेनापि सर्वैर् योज्यम् । प्रेम्णा परिष्वङ्गं सर्वाङ्ग-गाढालिङ्गनम् । यद् वा, प्रेम स्नेहास्वभावा, एषां यथोत्तरं स्मरणेन रोदकत्वे श्रैष्ठ्यम् । शौरेर् इति निजाशेष-भगवत्ता-प्रकटनाथं शूर-वंशे\ऽवतीर्णस्य तस्य तत्-तत् सर्वम् । स्त्रिय इति च प्रेमार्त-स्वभावानां तासाम् अपि तत् युक्तम् एवेति भावः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति एवं प्रहसितादिकं स्मरन्त्यः प्रहसितं स्मितं प्र-शब्दस्य आरम्भे प्रयोगात् चार्व् इति लिङ्ग-विपरिणामेनापि सर्वैर् योज्यं प्रेम्णा परिष्वङ्गः सर्वाङ्ग-गाढालिङ्गनं यद् वा, प्रेम-स्नेहार्द्र-स्वभावः एषां यथोत्तरं स्मरणेन रोदकत्वे श्रैष्ठ्यं शोरेर् इति सम्प्रति शूरवंश्यतया प्रकटितात्मन इति गोपिका-पक्षपातेन सप्रणयेष्यं वचनं स्त्रिय इति तासां तत्र विवेक-राहित्यं व्यजितम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इतीत्य् आदि । अमर्षादि-भाव-शान्तौ स्मृति-भावोदये रुरुदुर् इत्य् अर्थः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इतीति । स्वीय-सुधा-रसमय-प्रहसितादि-शल्यपञ्चकेन तासां हृदयं बिद्वद्ध्य कृष्ण-चन्द्रेण गतम् अतस् ताः कथं जीवं तु कथं नियन्ताम् इति श्री-बलदेवाग्रे\ऽपि विह्वली-भूय रुरुदेर् एव ॥१५॥
॥ १०.६५.१६ ॥
सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयङ्गमैः ।
सान्त्वयाम् आस भगवान् नानानुनय-कोविदः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाना-विधेष्व् अनुनयेषु कोविदः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताः गोपीः । नाना-प्रकारा ये\ऽनुनया बोधक-वाक्यानि तेषु कोविदः । ता इति याः खलु तादृग् अवस्था अपि कच्चिद् आस्ते इत्य् अनेन पद्येन तत्-सुखाद् एव सुखं मन्यमानाः, याश् च अपि वा इत्य् अर्धेन स्व-कर्तृक-तत्-सेवनाय तत्-कर्तृक-स्मरण-मात्रेण कृतार्थं मन्यमानाः, याश् च मातरम् इत्य् अनेन तद् अर्थं साक्षाद् एव मात्रादिकं सर्वम् अपि त्यक्तवत्यः, याश् च ता नः इत्य् अर्धेन स्वेषां तु तस्मिन्न् अविचल-सौहृद्यं विज्ञापितवत्यः, याश् च कथं नु इत्य् अर्धेन स्वीय भावस्य तद् एक-निष्ठ-कैमुत्याय स्त्र्यन्तर-भावम् अपि प्रमाणी-कृतवन्त्यः, याश् च कथं नु गृह्णन्ति इत्य् अर्धान्तरेण तस्यानवस्थितात्मकत्वं कृतघ्नत्वं च दर्शयित्वा स्वेषां तद् अव्यभिचारित्वं निश्चितवत्यः, याश् च गृह्णन्ति इत्य् अर्धान्तरेण स्वेषां तद् एकहृत-चित्तत्वं सूचितवत्यः, याश् च किं नु तत्-कथया इत्य् उक्त्या महद् विरह-दुःखासहिष्णुतया स्व-मनःकठिनी-भावाय निवृत्त-प्राया अपि इति प्रहसिताम् इति मुनीन्द्र-वचनेन प्रत्युत तदीय-स्नेहवारिधि-मग्नतया लब्ध-द्रवा इत्य् अवगतास् तादृश्यस्ताः । आसां तावद्-धेतुक-वधान्त-सन्ध्याम् आरभ्य कुरु-क्षेत्र-गमनावधि-तद् एक-जीवनवनि यथः । अत एवोत्तरे गोपीनाम् इत्य् अत्राभियुक्तानाम् अन्या एव मता इति तैर् याख्यास्यते । तत्र श्री-सङ्कर्षणस्यानुनयाः प्रथमतः सास्रावलोकन-कला ततस् सश्लाघतानिवेदनाकर्णता, ततः सप्रेम-तद्-विषयक-निजानुकम्पावर्णना, ततः सानुताप-तद्-आगमन विलम्ब-कारणनानोपद्रव-सूचना, तत्ः सयुक्तिक-शपथ-तदानयन-प्रतिज्ञा, ततो युष्माकमोदृशरोदनार्तिं श्रुत्वा स तु प्राण-कोटि-प्रियतमो बहुतरं दुःखं प्राप्स्यतीति बिभीषिकेत्य् एवं रूपाः । श्री-कृष्ण-सन्देशानां हृदयङ्गमत्वं पराशरेण दर्शितम्—
सन्देशैः साम-मधुरैः प्रेम-गर्भैर् अगर्वितैः । > रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ [वि।पु। ५.२४.२०] इति > ।
तत्र साम्ना—स्तुति-पूर्वकाश्वासनेन । मधुरैर् अभिरुचितैः । स्तुतिश् च—न पारयेयं निरवद्य-संयुजाम् [भा।पु। १०.३२.२०] इत्य्-आदि-रूपा । आश्वासनम् अचिरान् माम् उपैष्यथ [] इत्य् एवं-विधम् । प्रेम-गर्भत्वम् यत् त्व् अहं भवतीनां वै [] इत्य्-आदि-रूपम् । अगर्वितत्वम् तद् वः प्रतियातु साधुना [] इत्य् एवं प्रकारम् । एवं च पूर्ववन्-नित्य-प्रिय-कृष्ण-संयोगमय-प्रकाश-विशेषव्यञ्जनयातिमनोहरैर् इत्य् अर्थः । सङ्कर्षण इति तासां मन आकृष्य श्री- कृष्णं प्रति प्रापकत्वाद् इति तोषणीकारा । कृष्णस्य सन्देशैर् इति उद्धवस्य दास्यभावः, सङ्कर्षणस्य वात्सल्य-भावश् च कृष्णेन गणितः । किन्तुभयोः सख्य-भाव एव सन्देश-प्रेषणे हेतुर् अभूद् इति । बहु-वचनेन कश्चित्-सन्देशो ज्ञान-गर्भः, कश्चिद् अनुनय-गर्भः, कश्चित्-प्रभाव-गर्भ इत्य् एवं बहव एव सन्देशाः । हृदयङ्गमैः रहस्यत्वात्-सर्वत्र प्रकाशयितुम् अनहैः । नानानुनयकोविद इति भो वत्स्यः समाश्वसित साम्प्रतम् अहम् एव द्वारवतीं गत्वा बलाद् एव तम् इहानयिष्यामि नाहम् उद्धव इव तद् अधीन एव केवलम् इति स्व-प्रौढिज्ञापक इत्य् अर्थ इति विश्वनाथः ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुष्णस्य सर्व-चित्ताकर्षकस्य, अत एव हृदयङ्गमैश् चित्तग्राहकैः कच्चिद्-भीतिं न भजत [उ।स १०४] इत्य् आद्य् उधव-सन्देशोक्तः सान्त्वयामास आश्वासयत्, तथा च श्री-विष्णु-पुराणे—
सन्देशैः साम-मधुरैः प्रेम-गर्भैर् अगर्वितैः । > रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ [वि।पु ५.२४.२०] इति > ।
यतो भगवान् सर्व-शक्ति-युक्तः, अत एव नाना-विधाः—"भ्राता अचिराद् एवागत्य युष्मान् प्रीणयिष्यति । युष्माकम् ईदृशातिरोदनादि-श्रवणेन बहु-दुःखं प्राप्स्यति।" इत्य्-आदि-स-शपथ-वाक्याश्रु-प्रमार्जनादि-लक्षणा ये\ऽनुनयाः सान्त्वनोपायास् तेषु कोविदः, यतः सङ्कर्षणः श्री-कृष्णेन सहापृथग्-भूत इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षण इति । अत्र कृष्णस्य सन्देशैर् इति तृतीयानिर्देशेन साधकतमत्व-प्राप्तेर् इदं गम्यते यद्य् अप्य् असौ भगवान् सर्वथा समर्थः तथा सङ्कर्षणः श्री-कृष्ण-ज्येष्ठ-भ्रातृत्वेन गौरव-विषयः तथा नानानुनयकोविदः नाना-विधेषु सान्त्वनोपायेषु पण्डितः तेनानुनयेनारब्धसान्त्वन इत्य् अर्थः । तथापि कृष्णस्य स्वभावत एव सर्वेषाम् अपि चित्ताकर्षकस्य किम् उत तासाम् इत्य् एवं रूपस्य सन्देशैर् एव ताः सान्त्वयामास यतो हृदयङ्गमैः तैर् एव तासां हृदयाभ्यन्तरं प्रविश्य द्रावकैः तत्र हेतुस्ता इत्य् एव याः खलु तादृग् उन्मादवश्या अपि कच्चिद् आस्त इत्य् अनेन पद्येन तत्-सुखाद् एव तदीय-हित-वर्ग-सुखाद् एव च सुखं मन्यमानाः याश् च अपि वेत्य् अर्धेन स्व-कर्तृक-प्राक्तन-तत्-सेवायास् तत्-कर्तृक-स्मरण-मात्रेण कृतार्थं मन्यमानाः याश् च मातरम् इत्य् अनेन सम्प्रति तद् अर्थं साक्षाद् एव मात्रादिकं सर्वम् अपि त्यक्तवत्यः तच् च स्वयं तस्मै तज्-ज्यायसे निवेद्य स्वेषां तद् एक-निष्ठत्वं दर्शितवत्यः याश् च तान् इत्य् अर्धेन स्वेषां तु तस्मिन्न् अविचल सौहृद्यं विज्ञापितवत्यः याश् च कथं न्वित्य् अर्धेन स्वीय-भावस्य तद् एक-निष्ठत्व-कैमुत्याय अस्त्र्यन्तर-भावम् अपि प्रमाणीकृतवत्यः याश् च कथं नु गृह्णन्तीत्य् अर्धान्तरेण तस्यानवस्थितात्मत्वं कृतघ्नत्वञ् च दर्शयित्वा स्वेषां तद् अव्यभिचारित्वं निश्चितवत्यः याश् च गृह्णन्तीत्य् अर्धान्तरेण स्वेषां तद् एक-हृत-चित्तत्वं सूचितवत्यः । याश् च किं नस् तत्-कथयेत्य् उक्त्या महा-तद्-विरह-दुःखा-सहिष्णुतया स्व-ममःकठिनीभावाय निवृत्त-प्राया अपि इति प्रहसितम् इति मनीन्द्र-वचनेन प्रत्य् अत तदीय-स्नेह-वारिधि-मग्नतया लब्ध-द्र[वा]व्या इत्य् अवगतास् तादृश्यस् ताः आस्तान्तावद्-धेनुक-बधान्त-सन्ध्याम् आरभ्य कुरु-क्षेत्र-गमनावधि तासां तद् एक-जीवनत्व-वर्णनेत्य् अर्थः । एकादशे च रामेण सार्धम् इत्य्-आदिभिः श्री-भगवता स्वयं तत्-तद् अनुराग-विस्तारणया स्वैक-प्राप्ति-कथनयेत्य् अर्थः । अत एवोत्तरत्त्र गोपीनाम् इत्य् अत्राभियुक्तानामन्या एव मता इति तैर् व्याख्यास्यते तत्र श्री-सङ्कर्षणस्यानुनयाः प्रथमतः शास्त्रावलोकनकला ततः सश्लाघा तानिर्वेदनाकर्णना ततः सप्रेम-तद्-विषयक-निजानुकम्पावर्णना ततः सानुतापतद् आगमन-विलम्बकारणनानोपद्रव-सूचना ततः सयुक्तिक-शपथ-तदानयन-प्रतिज्ञा ततो युष्माकम् ईदृशार्तिरोदनं श्रुत्वा स तु प्राण-कोटि-प्रियतमो बहुतरं दुःखं प्राप्स्यतीति विभीषिकेत्य् एवं रूपाः श्री-कृष्ण-सन्देशानां हृदयङ्गमत्वश् च श्री-पराशरेण विशिष्य दोशतम्—
सन्देशैः साम-मधुरैः प्रेम-गर्भैर् अगर्वितैः । > रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ [वि।पु। ५.२४.२०] इति > ।
अत्र साम्ना स्तुति-पूर्वकाश्वासनेन मधुरैर्चभिरुचितैः स्तुतिश् चात्र न पारयेहं निरवद्य-संयुजाम् इत्य्-आदिरीतिका आश्वासनम् अचिरान्-माम् उपैष्यथ इत्य् एवं विधम् प्रेम-गर्वत्वं यत्-त्व् अहं भवतीनां वै इत्य्-आदि-लक्षणम् अस्तित्वं तद्-वा प्रतियातु साधुना इत्य्-आदि-प्रकारम् अन्ते च पूर्ववन्-नित्य-श्री-कृष्ण-संयोगमय-प्रकाश-विशेष-व्यञ्जनयाति-मनोहरैर् इत्य् अर्थः ।
किं च, यस् ताः स्वयं नाम्ना सङ्कर्षणः सान्त्वयामास स मध्ये मध्ये श्री-कृष्णम् अपि मनसैव समाकृष्य रहसि काश्चित् प्रति कदाचिद् अनुभावयतीति तथा स इत्य् अर्थः । अत एव सान्त्वयामासेति सुष्ठु घटते एवम् एवास्य वक्ष्यमाणस्व् अप्रियाभिः क्रीडापि युक्ता स्यात् तत्र तत्र हेतुः भगवान् सर्वज्ञत्वात् । तासु तन्-नित्य-प्रेयसोत्वस्य तत्त्वज्ञ-सुख-सर्वशक्ति-युक्त इत्य् अर्थः । अन्यथा व्याख्याने तु द्वारकायाम् अपि मर्यादालोपः प्रसज्ज्येत इत्य् अलम् अतिविस्तरेण । एवं सन्देश-प्रस्थापनेन तस्मिन् तस्य श्री-कृष्णस्य सख्यांशो\ऽपि दर्शितः । स च युक्तः अति-समान-वयस्त्वाद्-बाल्यम् आरभ्य सहविहाराच् च गोप्यन्तरेण भुजयोर् अपि यत्स्पृहाः श्रीः इति विनयोक्ति-दर्शनात् शङ्खचूडा-वधादौ तथा दृष्टत्वाच् च अग्रजत्वांशस्तु दशमीम् इव दशां गतानां तासां रक्षणार्थम् अस्फुरन्न् एवासीत् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हृदयङ्गमैर् इति प्रकट-लीलोपदेश-पर्यन्तत्वात् सन्देश-विशेषणानि चैतानि श्री-विष्णु-पुराणे—
सन्देशैः साम-मधुरैः प्रेम-गर्भैर् अगर्वितैः । > रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ [वि।पु। ५.२४.२०] इति > ।
सङ्कर्षणः मध्ये मध्ये श्री-कृष्णम् अपि मनसि समाकृष्य दर्शयतीति च तथेत्य् अर्थः । ताः श्री-कृष्ण-प्रेयसीः गोपीनां गोप्यन्तरेण भुजयोर् इत्य् अनुसारेण शङ्खचूड-वधादिमहोरिका-विहारे श्री-कृष्ण-प्रेयसीभिः सम्वलितानां तत्-प्रेयसीचरीणां गोपी-विषेषणाम् इत्य् अर्थः । अत्र च श्री-कृष्णस्यानुमते स्थित इति कारणं योज्यं पूर्वं ह्य् अनेन तासाम् अङ्गसङ्गो न वर्णितः किन्त्व् अनुरागमानं ततश् च तद् अर्थं रक्षित-कौमारासु तासु च कृपयासौ तथा प्रार्थितवान् इति क्षपास्व् इति परम-गुप्तत्वं व्यञ्जितम् ॥१६-२४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सङ्कर्षणस् ता इत्य्-आदि । ताः कृष्ण-परिगृहीताः कृष्णस्य सन्देशैः सान्त्वयामास । ननु, कथं सन्देशेनैव सान्त्वनम् इत्य् आह—हृदयङ्गमैः । अचिराद् एव मे दर्शनं भविष्यतीत्य् आदिको य आश्वासस् तेन हृदयङ्गमैः । नानानुनयाः कृष्णस्य ये ये नानानुनयास् तेषु कोविदः पण्डितः । तस्यैकस्यापि स्मृतिर् न जातेत्य् अर्थः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्य सन्देशैर् इति उद्धवस्य दास्य-भावः सङ्कर्षणस्य वात्सल्य-भावश् च कृष्णेन न गणितः किन्तुभयोर् अनयोः सख्य-भाव एव सन्देश-प्रेषण-हेतुर् अभूद् इति ज्ञेयं बहु-वचनेन कश्चित् सन्देशो ज्ञान-गर्भः कश्चिद् अनुनय-गर्भः कश्चित् प्रभाव-गर्भ इत्य् एवं बहव एव सन्देशाः हृदयङ्गमैर् इति रहस्यत्वात् सर्वत्र प्रकाशयितुम् अनर्हैर् इति भावः । नानानुनय-कोविद इति भो वत्साः समाश्वसित साम्प्रतम् अहम् एव द्वारवर्ती गत्वा बलाद् एव तम् इह आनेष्यामि नाहम् उद्धव इव तद् अधीन एव केवलम् इति स्व-प्रौढिम् अज्ञापक इत्य् अर्थः ॥१६॥
॥ १०.६५.१७ ॥
द्वौ मासौ तत्र चावात्सीन् मधुं माधवम् एव च ।
रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मधुं चैत्रम् । माधवं वैशाखम् । गोपीनां रतिम् इति श्री-कृष्ण-क्रीडा-समयेऽनुत्पन्नानाम् अतिबालानाम् अन्यासाम् इत्य् अभियुक्त-प्रसिद्धिः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र व्रजे । अभियुक्त-प्रसिद्धिस् तत्पर-प्रसिद्धिः किं-वदन्त्य् अस्तीत्य् अर्थः । अभियुक्तः परै रुद्धे तत्-परे त्व् अभिधेयवत् इति मेदिनी । गोपीनां गोप्य्-अन्तराणाम् इत्य् एवार्थः । नाना-वाचक-शब्दानां युक्त एवार्थो गृह्यते सैन्धवम् आनयेतिवत् । न हि सर्वत्र गोपी-शब्देन श्री-कृष्ण-प्रेयस्य एव गृहीता इति नियमः । गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् [भा।पु। १०.५.९] इह, गोप्यस् तूर्णं समभ्येत्य [भा।पु। १०.६.१८] इति, रुदितम् अनुनिशम्य तत्र गोप्यः [भा।पु। १०.७.२५] इति, कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् [भा।पु। १०.८.२८] इह, गोप्य् आददे त्वयि कृतागसि दाम [भा।पु। १.८.३१] इह च, तथा परिष्वक्तश् चिरोत्कण्ठैर् मोपैर् गोपीभिर् एव च [भा।पु। १०.६५.२] इत्य् अत्र च व्यभिचारात् । न च पूर्वोत्तराणां प्रसङ्ग-प्राप्तत्वेनैकत्वम् आशङ्क्यम्, यथा तत्-प्राप्ततमत्वे\ऽपि स्वायम्भुवारम्भ-गत-पृथिवी-मज्जनेनैव स्वर्-जात-हिरण्याक्ष-वधानुपपत्त्या तन्-मज्जनम् अन्यद् एव समर्थनीयं तथेहायुक्त-प्राग् उत्कान्यथानुपपत्त्या पूर्वाभ्यस्ता एता अन्या एवेति तस्मात् प्रकरणम् इदम् एवावतार्यम् । एवं कृष्ण-प्रियाः सुष्ठु सान्त्वयित्वैव याः खलु कुमार-गतेन गोप्योऽन्तरेण भुजयोः इत्य् अनेन या अनुभूतास्ता एव ग्राह्याः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोपीनां रतिम् आवहन्न् इत्य्-आदि । गोपीनां पूर्व-परिगृहीतानाम् । एवं स्त्री-गणैर् इत्य् अपि ॥१७-३४॥
द्वौ मासौ तत्र चावात्सीन् मधुं माधवम् एव च ।
रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् ॥**
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्राक् श्री-कृष्णैक-प्रियास् ताः सान्त्वयित्वा निजागमन-मुख्य-प्रयोजनं विधायात्मनो व्रज-जनैक-प्रियतादिकं दर्शयन्न् अन्याश् च वसन्ते रमयामासेत्य् आह—द्वाव् इति । त्व् अर्थे चकारो भिन्नोपक्रमात्, एव अपि, माधवम् अपि, चकाराद् अन्यानि च कतिचिद्-दिनानि मधु माधवम् इति तदानीं श्री-वृन्दावनस्य श्री-बलदेव-गमनापेक्षया, तदानीं पुष्पादि-रसोद्रेकेण शोभा-विशेषः सूचितः । क्षपासु वसन्त-ज्योत्स्नामय-रात्रिषु रतिम् आद्य-रसम्, आ सम्यग् वहन् प्रापयन्, यतो रामो रतिकुशल इत्य् अर्थः । तत्र हेतुः—भगवान् काम-शास्त्राद्य् उक्त-तत्-तत्-प्रकाराभिज्ञ इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
अथवा तादृशो\ऽपि स तादृशैर् अपि सन्देशैः सान्त्वयामास किम्—काक्वा अपि तु सान्त्वयितुं नाशक्नोद् इत्य् अर्थः । यतस् ताः श्री-कृष्ण-विरहान्यस्तातुरास् तद्-दर्शनैक-लालसाकुला इत्य् अर्थः । अपि च, अतः क्षपासु निद्राकालेष्व् अपि गोपीनां तासां रतिं सुखम् आ ईषद् अपि वहन् प्रापयितुं द्वौ मासौ चावात्सीत् । चकारात् किञ्चिद् अधिकौ, तदानीं तासां विरहार्तिभरोत्पत्ते, यतो भगवान् परम-दयालुः । किं च, रामः सर्व-सुखकरः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं ता इत्य् अस्य व्याख्या प्रघट्टकानुसारेण तम् एवालम्बमानानाम् अभियुक्तानां मत-प्रामाण्येन च द्वावित्य् अत्र गोपीनाम् इति तद् एकम् अति-गतिभ्यस् त्व् अपरासां गोप्यन्तराणाम् इत्य् एवार्थः । सामान्य-विशेष-वाचकाः शब्दाः प्रसङ्गवशाद् एव तत्-तत्-प्रतिपादयन्ति यथा ब्राह्मणा नावमन्तव्या इत्य् उक्ते सर्वे ते गृह्यन्ते ब्राह्मणावरणीया इत्य् उक्ते तत्-तत्-कर्मणि योग्या एव ते व्रियन्ते न तु सर्वे न चान्ये तद्-वत् नाना-वाचक-शब्दानाम् अर्थः खलु युक्त एव गृह्यते सैन्धवमानयेतिवत् । नहि सर्वत्र गोपी-शब्देन श्री-कृष्ण-प्रेयस्य एव ता गृहीता इति नियमः गोप्यश् चाकर्ण्य मुदिता यशोदाया । सुतोद्भवम् इत्य् अत्र गोप्यस्तुणं समभ्येत्य इत्य् अत्य् अत्र रुदितम् अनुनिशम्य तत्र गोप्यः इत्य् अत्र कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् इत्य् अत्र गोप्याददे त्वयि कृतागसि दाम इत्य् अत्र प्रसादं लेभिरे गोप्य इत्य् अत्र च तथात्रैव परिष्वक्तश् चिरोत्कण्ठैर् गोपीभिर् एव च इत्य् अत्र व्यभिचारात् । न च प्रसङ्ग-प्राप्तत्वेनात्र पूर्वोत्तराणाम् एकत्वम् आशङ्कयं किं तु यथा पञ्चम-स्कन्धे क्षेत्रज्ञ एता मनसो विभूतीः इति क्षेत्रज्ञ आत्मा पुरुषः पुराणः इत्य् अव्यवहिते\ऽपि पद्य-द्वये क्षेत्रज्ञ-शब्दो जीवात्म-परमात्मकत्वेन पृथग् एव व्याख्याती यथा च स्वायम्भुवारम्भ-गत-पृथिवीमज्जनेनैव स्वतान्तर् जात-हिरण्याक्ष-वधानुपपत्त्या तन्-मज्जनम् अन्यद् एव समर्थनीयं तथा ता इत्य् अत्रोक्ताः प्राग् उक्तान्यथानुपपत्त्या पूर्वाभ्यस्ता एता अन्या एव व्याख्यान्तरे तु द्वारकायाम् अपि मर्यादा-लोपः प्रसज्जेतेत्य् अलम् अतिविस्तरेण । तस्मात् प्रकरणम् इदम् एवम् अवतार्यम् एवं श्री-कृष्ण-प्रियाः सुष्ठु सान्त्वयित्वा याः खलु कौमार-गतेन गोप्यन्तरेण भुजयोर् इत्य् अनेन श्री-कृष्ण-परिहासेन भावितद् अङ्ग-सङ्गत्वेऽपि सिद्धतया सूचिताः, याश् च शङ्खचूड-वध-समय-होरिका-क्रीडायां श्री-कृष्ण-प्रेयसी-सम्वलिततया वणितास् ताश् च प्राग् अश्रु-तत्-तद् अङ्ग-सङ्गास् तद् अर्थ-रक्षितकौमाराः कृष्णस्यानुमते स्थित इत्य् अनुसारेण तत्-प्रार्थनया सान्त्वयामासेत्य् आह—द्वाव् इत्य्-आदिना । च-कारोवान्-वाचये सुहृद्-दिदृक्षुर् उत्कण्ठ इत्य् उक्तत्वान्-मुख्यतया सुहृदां दर्शनम् एव वाञ्छितम् आसीन् आनुषङ्गिकतया गोपी-विशेषाणां रतिं चावहन्न् इत्य् अर्थः । क्षपास्व् इति परम-गुह्यत्वं व्यञ्जितम् । अत एव यमुनोपवन इति दूरनयनं च राम इति रमण-योग्यता-व्यञ्जकं तत्रापि भगवान् इति तत्राप्य् अनेकासाम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गोपीनां रतिम् आवहन्न् इत्य्-आदिषु गोपीनां स्व-परिगृहीतानाम् । एवं स्त्री-गणैर् इत्य् अत्रापि तथा ॥१७-३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधुं चैत्रं माधवं वैशाखं गोपीनां रतिम् इति श्री-कृष्ण-क्रीडा-समये\ऽनुत्पन्नानाम् अतिबालानाञ्चान्यासाम् इत्य् अभियुक्त-प्रसिद्धिर् इति श्री-स्वामिचरणाः शङ्खचूड-वध-समय-होरिका-क्रीडायां याः कृष्ण-प्रेयसीसम्वलिततया राम-प्रेयस्यापि निर्दिष्टास् तासाम् एवेत्य् अस्मत्-प्रभुचरणाः ॥१७॥
॥ १०.६५.१८ ॥
पूर्ण-चन्द्र-कला-मृष्टे कौमुदी-गन्ध-वायुना ।
यमुनोपवने रेमे सेविते स्त्री-गणैर् वृतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्ण-चन्द्रस्य कलाभिर् मरीचिभिर् आमृष्टे उज्ज्वले । कौमुदी-गन्ध-वायुना कुमुद्वतीनां गन्ध-वातेन सेविते । यद् वा कौमुदी-शब्देन तद्-विकासितानि कुमुदानि लक्ष्यन्ते । कुमुद-गन्ध-वातेनेत्य् अर्थः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कला वृद्धिम् अरीच्योश् च कला रक्षण-माययोः इति धरणिः । कुमुदानि सन्त्यास्व् इति कौमुदाः सरस्यस् तासां कुमुद्वतीनाम् इत्य् अर्थः । अत्रार्थ कुमुदानां गन्धस्य कुमुद्वतीष्व् आरोपात्-सौष्ठवानुपलब्धेर् अर्थान्तरम् आह—यद्वेति । इत्य् अर्थ इति—अयम् अर्थोऽपि लक्षणालब्धत्वात्-प्राक्तनार्थ-सदृशो यद्य् अप्य् अस्ति तथापि कुमुद्वतीनां गन्धासम्भवाद् अर्थानुपपत्त्या लक्षणैवोचितेति स्वामि-चरणाशयः ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथपवात्सीत्-तद् आह—पूर्णेति । श्री-राम् अस्य प्रीत्य् अर्थं श्री-वृन्दावन-शोभार्थं वा, तदानीं नित्यं पूर्ण-चन्द्रोदयात् स्त्रीगणैः श्री-कृष्णरमितेतरैः, ते च तैर् व्यञ्जिता एव, अन्यच्-च व्याख्यातम् । यद् वा, कौमुदी शारदी ज्योत्स्नामयी रात्रिः, तथा च कोषे—कौमुदी चन्द्रिका प्रोक्ता कार्तिकस्य च पूर्णिमा इति , तस्याम् इव कुमुदादि-सम्बन्धी यो गन्धस् तद्-युक्तेन वायुनेति ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव विशिष्य बर्णयति—पूर्णेति । श्री-रामस्येच्छया तदा सदा रहसि पूर्ण-चन्द्र-विशेषोदयात् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्ण-चन्द्रस्य कलाभिः कौमुदीभिर् आमृष्टे उज्ज्वले । कौमुदीनां कौमुदी-विकसितत्वात् कुमुद्वतीनां गन्धवद् वायुना सेविते यमुनोपवने श्री-राम-घट्टया प्रसिद्धे स्थले किं तु यत्र श्री-कृष्णेन रास-क्रीडा कृता तत्-स्थलम् अपि रामेण दूरतः परिहृतम् ॥१८॥
॥ १०.६५.१९-२३ ॥
वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात् ।
पतन्ती तद् वनं सर्वं स्व-गन्धेनाध्यवासयत् ॥**
तं गन्धं मधु-धाराया वायुनोपहृतं बलः ।
आघ्रायोपगतस् तत्र ललनाभिः समं पपौ ॥**
उपगीयमान-चरितो वनिताभिर् हलायुधः ।
वनेषु व्यचरत् क्षीवो मद-विह्वल-लोचनः ॥**
स्रग्व्य् एक-कुण्डलो मत्तो वैजयन्त्या च मालया ।
बिभ्रत् स्मित-मुखाम्भोजं स्वेद-प्रालेय-भूषितम् ॥**
स आजुहाव यमुनां जल-क्रीडार्थम् ईश्वरः ।
निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः ।
अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वारुणी सुधया सहोत्पन्ना मदिरा ॥१९-२०॥ क्षीबो मत्तः ॥२१॥ स्वेद एव प्रालेयं हिमं तेन भूषितम् ॥२२॥ मत्तोऽयम् इत्य् अनादृत्यानागताम् आपगां नदीम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अध्यवासयत् सुगन्धितं चकार । प्राकृत-मदिरातो वैलक्षण्यम् आह—देवी देवता-रूपा लक्ष्मी-सहोदरीत्वाद् इति भावः ॥१९॥
तम् अपूर्वम् । यत्र वृक्षात्-पतति तत्रेत्य् अर्थः । महेला ललना रामा इति धरणिः ॥२०॥
वन्यन्ते सेव्यन्ते कामिभिर् इति वनिताः स्त्रियः । वन सम्भक्तो कर्मणि क्तः ॥२१ ॥
बैजयन्त्या पञ्च-रत्न-रचितया ॥२२॥
अयं बलो मत्त इति हेतोर् अनागताम् अप्राप्ताम् । मत् तस्य वाक्यं न प्रमाणं यतो नदीम् अप्य् आह्वयते । मज्-जले विजिहीर्षा चेत् तर्हि स्वयम् एवागच्छत्व् इत्य् अनादृत्यानागताम् ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवी अमृत-मथनोत्पन्नतया लोकातीता, मदिराधिष्ठात्री देवता वा, वारुणीति वरुणोद्भुतत्वादिना तद् आख्ययैव प्रसिद्ध त्वात् । तथा च श्री-हरि-वंशे तं प्रति तस्या एव वाक्यम् समीपं प्रेषिता पित्रा वरुणेन तवानघ इति वृक्ष कोटरात् श्री-वृन्दावन-कन्दर-कुहरात् पतन्ती धारा-रूपेण अधि अधिकम् अवासयद् इति, स्वत एव पूव्वं विचित्र-सौरभ्य-वासितम् अधुना स्वकीयेन गन्ध-विशेषेण वासितम् अकरोद् इत्य् अर्थः ॥१९॥
उप तद्-धारान्तिकम् आगतः सन्नति-तृष्णया तत्र तत्-स्थान एव पपौ तन्-मधु । बल इति सत्-पानाधिक्ये सामर्थ्यम् । तथा बलात् स्त्रीणां तत्-पायनञ् च सूचयति-हलायुध इति स्कन्धन्यस्त-लाङ्गलाभिप्रायेण, तत्-प्रयोजनञ्चाग्रे व्यक्त भावि । मदेन स्वभावतो मद्य-पानाद् वा, मत्ततया विह्वले घूर्णिते लोचने यस्य सः ॥२०-२१॥
स्रग्वी माला-निर्मितैक-कर्णाभरणवान् इत्य् अर्थः । यद् वा, आपीडादि-रूपेणानेकान्य-माला-युक्तो वैजयन्त्या च पञ्च-वर्णया विशिष्टः । स्मित-युक्तं मुखाम्भोजं बिभ्रत् । धारणस्य विशेषणे तात्पर्यम् । स च विशेषतो वर्णितः श्री-हरि-वंशे—
शिरसा चारु-केशेन किञ्चिद् आवृत्त-मौलिना । > श्रवणैकावलम्बेन कुण्डलेन विराजिता ॥ > चन्दनार्द्रेण पीतेन वन-मालावलम्बिना । > विबभाव् उरसा रामः कैलासेनेव मन्दरः ॥ > नीले वसानो वसने प्रत्यग्रज-दल-प्रभे । > रराज वपुषा शुभ्रस् तिमिरोघैर् यथा शशी ॥ > लाङ्गलेनावसक्तेन भुजगाभोग-वर्तिना । > तथा भुजाग्र-श्लिष्टेन मुसलेन च भास्वता ॥ > स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥ [ह।वं। २.४६.२५-२९] इति ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवी तन्-मदिराधिष्ठात्री वारुणी वरुण-कन्या सैव वृक्ष-कोटरात् श्री-वृन्दावन-कदम्ब-कुहराद्-धारा-रूपेण पतन्तीत्य् अधिष्ठानाधिष्ठात्योर् अभेदेन निर्देशो नद्यादिवत्, स च द्वयोर् अपि लाभ-विवक्षया अस्या वारुण्या निषिद्ध-वारुणी-भिन्नत्व-सूचनाय च तथा हरि-वंशे तं प्रति तस्या एव वाक्यं समीपं प्रेषिता पित्रा वरुणेन तवानघ इति अध्यवासयत् स्व-सौरभ्येन पूर्वतो\ऽप्य् अधिक वासयामास ॥१९ ॥
तत्रेत्य् अतितृष्णया तत्र स्थान एव तन्-मधु पपौ बल इति बलाविर्भाव-विशेष बलात् स्त्रीणां तत्-पायनश् च सूचयति ॥२०॥
हलायुध इति स्कन्धन्यस्तलाङ्गलत्वाभिप्रायेण तत्-प्रयोजनं चाग्रे व्यक्तं भावि । मदेन विह्वले घृणिते लोचने यस्य सः ॥२१॥
स्रग्वीति सार्धकम् आपीडादि-रूपेणानेक-माला-युक्तः वैजयन्त्या च पञ्च-वर्णया लक्षितः स्मित-युक्त मुखाम्भोज बिभ्रत् धारणस्य विशेषेण तात्पर्य, स च विशेषतो वणितः श्री-हरि-वंशे—
शिरसा चारु-केशेन किञ्चिद् आवृत्त-मौलिना । > श्रवणैकावलम्बेन कुण्डलेन विराजिता ॥ > चन्दनार्द्रेण पीतेन वन-मालावलम्बिना । > विबभाव् उरसा रामः कैलासेनेव मन्दरः ॥ > नीले वसानो वसने प्रत्यग्रज-दल-प्रभे । > रराज वपुषा शुभ्रस् तिमिरोघैर् यथा शशी ॥ > लाङ्गलेनावसक्तेन भुजगाभोग-वर्तिना । > तथा भुजाग्र-श्लिष्टेन मुसलेन च भास्वता ॥ > स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥ [ह।वं। २.४६.२५-२९] इति ॥२२॥
निजम् इत्य् अत्र नैतीति पाठः क्वचित् । स दुरन्वयः स्वाम्य-सम्मतश् च ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवी तन्-मदिराधिष्ठात्री वारुणी वरुण-कन्या सैव वृक्ष-कोटरात् कदम्ब-कुहराद् धारा-रूपेण पतन्ती । तथा च हरि-वंशे तं प्रति तस्या वाक्यम्—समीपं प्रेषिता पित्रा वरुणेन तवानघ [ह।वं। २.४१.२१] इति । वारुणीयं सुधया सहोत्पन्ना मदिरेति श्री-स्वामि-चरणाः । अध्यवासयत् पूर्वतोऽप्य् अधिकं सुगन्धी-चकार ॥१९-२१॥
स्वेद एव प्रालेयं ह्मस् तेन भूषितम् ॥२२॥
मत्त इति मत् तस्य वचनं न प्रमाणं यतो नदीम् अपि माम् आह्वयते मदीय-जले विजिहीर्षा चेत् स्वयम् आयातु इत्य् अनादृत्य नागताम् ॥२३॥
॥ १०.६५.२४-२५ ॥
पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता ।
नेष्ये त्वां लाङ्गलाग्रेण शतधा काम-चारिणीम् ॥**
एवं निर्भर्त्सिता भीता यमुना यदु-नन्दनम् ।
उवाच चकिता वाचं पतिता पादयोर् नृप ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आहुता आहूता यद्य् अस्मान् नागच्छसि तस्मात् । नेष्ये गमयिष्यामि ॥२४॥
चकिता कम्पिता ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आहुतेति छान्दसो ह्रस्वः । वस्तुतस् तु पापे निमित्ते लोकानां पाप-निवृत्त्य्-अर्थं स्वेच्छयेतस् ततो बहुधा गामिनीम् इत्य् अर्थः । देवी चेयं संज्ञा-छाया-न्यायेन लक्ष्म्या विविध-मूर्तिवत् तन्-महिषीति ज्ञेयम् । यमुना चेयं समुद्र-भार्या । समुद्रस्यापि भगवद्-विभूतित्वात् तद्-भार्या त्वम् अपि कालिन्द्याः सङ्गच्छत एवेति । वस्तुतस् तु द्वितीय-व्यूहस्य भार्येयं कान्तिर् इति ॥२४॥
एवम् पापे त्वं माम् इत्य् आधुक्तप्रकारेण ॥२५ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्रग्वी माला-निर्म्मितैक-कर्णाभरणवानित्य् अर्थः । यद् वा, आपीडादिरूपेणानेकान्यमालायुक्तो वैजयन्त्या च पश् चवर्णया विशिष्टः, स्मितयुक्तं मुखाम्भोजं बिभ्रत्, धारणस्य विशेषणे तात्पर्यम् । स च विशेषतो वणितः श्री-हरि-वंशे—
शिरसा चारु-केशेन किञ्चिद् आवृत्त-मौलिना ।
श्रवणैकावलम्बेन कुण्डलेन विराजिता ॥
चन्दनार्द्रेण पीतेन वन-मालावलम्बिना ।
विबभाव् उरसा रामः कैलासेनेव मन्दरः ॥
नीले वसानो वसने प्रत्यग्रज-दल-प्रभे ।
रराज वपुषा शुभ्रस् तिमिरोघैर् यथा शशी ॥
लाङ्गलेनावसक्तेन भुजगाभोग-वर्तिना ।
तथा भुजाग्र-श्लिष्टेन मुसलेन च भास्वता ॥
स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥ [ह।वं। २.४६.२५-२९] इति ॥२४॥
ईश्वरस् तदाह्वानादौ समर्थः पर-स्वच्छन्दो वा, आ सम्यक् अप नीचैर् गच्छतीत्य् आपगा ताम्, इति गाढाकर्षणान् निम्न-खातेनागमन-योग्यतोक्ता, विशेषेण गभीरत्वादिना चकर्ष, यतो बलो वलिष्ठ-श्रेष्ठ इत्य् अर्थः । ह स्फुटम्, अन्यत् तैर् व्याख्यातम् । यद् वा, आपगाम् इत्य् आगमनासामर्थ्य सूचितम् । तथापि विचकर्ष, कुतः ? मत्त इत्य् अस्माद्-धेतोः, अत एव कुपितः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पापे इति युग्मकम् । काम-चारिणीं स्वैरिणीं वस्तुतस् तु पापे निमित्ते लोकानां पाप-निवर्त्तनार्थं स्वेच्छयेतस् ततो बहुधा गामिनीम् इत्य् अर्थः । उवाचेत्य् उक्त्वापि वाचम् इति पौनर् उक्त्यं जलमय-रूपेण् एव तद्-वचनात्-तत्-पादपतनाच् च विस्मयेन देवी-रूपा तु सम्प्रति श्री-भगवन्-महिषी-रूपेति अथवा वाचम् इति वाग्-वैशिष्ट्य-व्यञ्जनाय देवी चेयं श्री-भगवद्-रूपानुसारेण लक्ष्म्याः विविध-मूर्तिवद्-भगवन्-महिषी-वरायाः श्री-कालिन्द्या एव संज्ञा छाया-न्यायेन तच्-छाया-विभूति-रूपा भगवत एव महा-विभूतेः समुद्रस्य भार्या-स्वरूपा मूर्तिर् एकाज्ञेया । तथा च तत्रैव प्रत्य् उवाचार्णववधूम् इति तां प्रति सम्बोधनं च सागराङ्गने इति ॥२४-२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति यमुनेयं द्वारकास्थायाः श्री-कृष्ण-पट्ट-महिष्याच्छायारूपैव । एषैव च समुद्र-पत्नीति तत्र तत्र प्रसिद्धिः । तथा च हरि-वंशे । प्रत्युवाचार्णव-वधूम् इति । तां प्रति सम्बोधनश् च सागराङ्गने ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आहुता आहूता यमुना वाचम् उवाचेति यमुनेयं नदी-रूपा समुद्र-भार्या कालिन्द्या विभूतिर् ज्ञेया न तु सा । तथा च हरि-वंशे—प्रत्युवाचार्णव-वधूम् [ह।वं। २.४६.४९] इति ॥२४-२५॥
॥ १०.६५.२६ ॥
राम राम महा-बाहो न जाने तव विक्रमम् ।
यस्यैकांशेन विधृता जगती जगतः पते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकांशेन शेषाख्येन ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जगती भूः ॥ २६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काम-चारिणी स्वैरिणीम्, वस्तुतस् तु पापे निमित्ते लोकानां पाप-निवर्तनार्थं स्वेच्छयेतस् ततो बहुधा गामिनीम् इत्य् अर्थः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राम हे जगद्-रमण ! अतो मां पीडयितुं नाहसीति भावः । वीप्सा भीतत्वात किम् वा, क्रुधस्य तस्याभिमुखीकरणमय-दैन्यात । हे महा-बाहो परम-बलिष्ठ ! विक्रमं प्रभावं न जाने न ज्ञातुं षक्तास्मीत्य् अर्थः । तत्र हेतुः, यस्येति अत्र षष्ठी-निर्दशाद् एकांशस्यैव कर्तृत्वं लक्ष्यते अत एकांशत्वम् अवतार-विशेषत्वम् एव न त्व् अङ्ग-विशेषत्वं तथा च सति यच्-छब्दस्य कर्तृत्वे प्राप्ते तृतीयानिर्देश एव स्याद् इति विचार्य तैर् अपि व्याख्यातं शेषाख्येनेति जगती पृथ्वी विशेषेणानायासेन घृतास्तीति शेषा । किम् अर्थं हे जगतः पते जगद्-रक्षार्थम् इत्य् अर्थः । मादृश-नदी-समुद्रादि-धारिणी धरणी यस्यैकांशेन विधृते तद्-विक्रम-ज्ञानं मादृशाम् अशक्यम् एव स्याद् इति भावः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : राम राम इति ॥२६-२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकांशेन शेषाख्येन ॥२६॥
॥ १०.६५.२७-२८ ॥
परं भावं भगवतो भगवन् माम् अजानतीम् ।
मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्त-वत्सल ॥**
ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः ।
विजगाह जलं स्त्रीभिः करेणुभिर् इवेभ-राट् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विजगाह अवगाहनं कृतवान् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परं भावं पारमैश्वर्यम् । मोक्तुं त्यक्तुम् । विश्वात्मन्-सर्वाधार ॥२७॥
ततः प्रार्थनातः ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वार्च काकु-युक्तां दीनाम् । यद् वा, चकिताया भीतायाः स्त्रियो या वाक् ताम्, यदुनन्दनम् इति श्री-कृष्णाग्रजत्वादिना तस्य पादयोः पतनं योग्यम् एवेति । हे नृपेति च नृपाद्-भीतानां प्रजानाम् इव भयात्-तस्यास् तद्-युक्तम् एवेति भावः । एवं श्री-यमुनेयं श्री-भगवद्-रूपानुसारेण लक्ष्म्या विविध-मूर्तिवद्-भगवन्-महिषी-वरायाः श्री-कालिन्द्या एव विभूति-रूपा, भगवन्-महा-विभूति-समुद्र-भार्या-स्वरूपा मूर्तिर् एका ज्ञेया । तथा च तत्रैव श्री-हरि-वंशे प्रत्युवाचार्णव-वधूम् [ह।वं। २.४६.४९] इति , तां इति , तां प्रति तत्-सम्बोधन सागरङ्गमे [ह।वं। २.४६.५१] इति ॥२७॥
राम हे जगद्-रमण ! अतो मां पीडयित माहसीति भावः । वीप्सा भीतत्वात् । किं वा, क्रुद्धस्य तस्याभिमुखीकरणार्थम्, महा-बाहो ! हे परम-बलिष्ठ ! विक्रम प्रभावं न जाने, न ज्ञातुं शक्तास्मीत्य् अर्थः । तत्र हेतुः—यस्येति । जगती पृथ्वी, विशेषेण लीला-तपत्रवदनायासादिना धृतास्तीति शेषः । किम् अर्थम् ? हे जगतः पते ! जगद्-रक्षार्थम् इत्य् अर्थः। मादृशानन्त-नदी-नद-समुद्र-सर्वतादिसहिता पृथ्वी यस्येकांशेन विध्रियते, तद्-विक्रम-ज्ञाने\ऽतिदूरवर्त्ति-दुष्ट-जड-जनस्याशक्तर् इत्य् अर्थः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव परं भावं महासङ्कर्षणत्व-लक्षणं स्वभावं तच् च त्वया ज्ञायत एवेत्य् आह, भगवन् हे सर्वज्ञेति तत्र हेतुः विश्वस्य आत्मन् परमात्मन्न् इति अतो विकर्षणान्-मोक्तुम् अर्हसि ननु, मद् आज्ञा-लङ्घिनी त्वां कुतो मुञ्चे\ऽहं तत्राह—प्रपन्नां शरणागतां प्रपन्नजने च तव कृपेवोचितेत्य् आह—हे भक्त-वत्सलेति ॥२७ ॥
विशेषेण समाश्वासन-पूर्वक ममुञ्चत् तथा तत्रैव शान्तिं व्रज महा-भागे गम्यतां च यथा-सुखम् इत्य्-आदि विमोचनेन दूराकृष्टिर् अपि ध्वनिता । तथा च तत्रैव वृन्दावनस्य मध्ये तु सा नीता यमुना नदी इति । श्री-विष्णु-पुराणे च—
सा कृष्टा तेन सहसा मार्गं सन्त्यज्य निम्नगा । > यत्रास्ते बलदेवो\ऽसौ प्लावयामास तद् वनम् ॥ [वि।पु। ५.२५.११]
इति जलं तत्रागतं नदी-भागम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परं भावं महा-सङ्कर्षणत्व-रूपं तत्-स्वरूपम् ॥२७-२८॥
॥ १०.६५.२९ ॥
कामं विहृत्य सलिलाद् उत्तीर्णायासिताम्बरे ।
भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तीर्णाय निर्गतायासिताम्बरादीनि कान्तिर् ददौ । कान्तिर् लक्ष्मीः । यथोक्तं वैष्णवे—
वरुण-प्रहिता चास्मि मालाम् अम्लान-पङ्कजाम् । > समुद्राग्रे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत ॥ [वि।पु। ५.२५.१६] > इति ।
हरि-वंशे च बलं प्रति लक्ष्मी-वाक्यम्—
जात-रूप-मयं चैकं कुण्डलं वज्र-भूषणम् । > आदि-पद्मं च पद्माख्यं दिव्यं श्रवण-भूषणम् । > देवेमां प्रतिगृह्णीष्व पौराणीं भूषण-क्रियाम् ॥ इत्य्-आदि ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
कान्ति-लक्ष्मी रमा माया वार्धिजा विष्णु-वल्लभा । > विभूतिभिर् भूति-पद्मा मा हिमांशु-भगिनी शुभा ॥ इति धरणिः ।
वैष्णवे विष्णु-पुराणे । अस्मै बलाय । मुद्रा लतादि-चिह्नम्, तत्-सहिते समुद्रे आभाते इत्य् आभे ते च ते समुद्राभे । यद् वा, मुद्राभि-रामा मुद्राभा, तया सहिते समुद्राभे । जात-रूपं सुवर्णम् । वज्रो हीरक-मणिः । आदि-पद्मम् महा-पद्मश् च पद्मश् च इत्य् अत्र निधिगणनायां पद्मस्यादि-महा-पद्मोस्ति, तेन तद् अधिष्ठितकम् अलं ददौ । तच् च पद्माख्यं कर्ण-भूषणम् उच्यते, तद् अपि देवानाम् एवास्तीत्य् आह—दिव्य-श्रवण-भूषणम् इति प्रतीयत इति । पौराणीं प्राक्तन-शेष-रूप-देव-देह-सम्बन्धिनीम् ।
कदम्ब कोटरे जाता नाम्ना कादम्बरीति सा । > रूपिणी वारुणी तत्र देवानाम् अमतारणी ॥ > कादम्बरीम मद् अकलं विदित्वा कृष्ण-पूर्वजम् । > तिस्रस् त्रिदश-नार्यस्तम् उपतस् थुः प्रियंवदाः ॥ > मदिरा-रूपिणी भूत्वा कान्तिश् च शशिनः प्रिया । > श्रीश् च देवी वरिष्ठा स्त्री स्वयम् एवाम्बुजध्वजा ॥ > साञ्जलिप्रग्रहा देवी रोहिणेयम् उषस्थिता । > वारुण्या सहिता वाक्यम् उवाच मद् अविह्वलम् ॥ > बलं जयस्व देवानां बलदेव दिवीश्वर । > अहं ते दयिता कान्ता वारुणी समुपस्थिता ॥ > स्वाम् एवान्तहितं श्रुत्वा शाश्वतं वडवामुखे । > क्षीणपुण्येव वसुधां पर्येमि विमलानन ॥ > पुष्प-चक्रानुलिप्तेषु केसरेषितं मया । > अतिमुक्तेषु चाक्षोभ्य पुष्प-स्तबकवत्सु च ॥ > अहं कदम्ब-मालीना मेघकाले मुखप्रिया । > तृषितं मार्गमाणा त्वां स्वेन रूपेण छादिता ॥ > सास्मि पूर्णेन योगेन यथैवामृत-मन्थने । > समीपं प्रेषिता पित्रा वरुणेन तवानघ ॥ > सा यथैवार्णव-गता तथैव वडवामुखे । > त्वयोपभोक्तुम् इच्छामि संमतस् त्वं हि मे गुरोः ॥ > न त्वानन्त परित्यक्ष्ये भर्त्सितापि त्वयानघ ॥ > नाहं त्वया विना लोकानुत्सहे देव सेवितुम् । > आदिपद्मं च पद्मं च दिव्यं श्रवणभूषणम् ॥ > समुद्रार्हाणि नीलानि कौशेयानि च बिभ्रती ॥ > मदिरानन्तरं कान्तिः सङ्कर्षणम् उपस्थिता । > मदेनागलित-श्रोणी किञ्चिद् आधुणितेक्षणा ॥ > प्रोवाच प्रणयात्कान्तिबद्धाञ्जलिपुटा सती । > जय-पूर्वेण योगेन सस्मितं वाक्यम् अर्थवत् ॥ > अहं चन्द्राद् अपि गुरु सहस्र-शिरसं प्रभुम् । > स्वैर्गणैर् अनुरक्ता त्वां यथैव मदिरा तथा ॥ > श्रीश् च पद्मालया देवी विधेया वैष्णवोरसि । > रौहिणेयोरसि शुभा मालेवामलतां गता ॥ > सा मालाम् अमला गृह्य बलस्योरसि दंशिता । > पद्मास्या पद्महस्ता वै सङ्कर्षणम् अथाब्रवीत् ॥ > राम रामाभिरामस् त्वं वारुण्या समलङ्कृतः । > कान्त्या मया च देवेश सङ्गतश् चन्द्रमा यथा ॥ > इयं च सा मया मौलिः प्रोद्धृता वरुणालयात् । > मूर्ध्नि शीर्ष-सहस्रस्य याते भानुरिवाबभौ ॥ > जात-रूपमयं चैक कुण्डलं वज्र-भूषितम् । > आदिपद्मं च पद्मं च दिव्यं श्रवण-भूषणम् ॥ > कौशेयानि च नीलानि समुद्राहाणि भावतः । > हारञ् च पीनतरलं समुद्राभ्यन्तरोषितम् ॥ > देवेमां प्रतिगृह्णीष्व पौराणीं भूषण-क्रियाम् । > समयस्ते महाबाहो भूषणानाम् अलङ्क्रिया ॥ > सङ्गृह्य तमलङ्कारं ताश् च तिस्रः सुर-स्त्रियः । > शुशुभे बलदेवो हि शारदेन्दु-सम-प्रभः ॥ इति ।
अत्र वडवा-मुखे वडवाग्नि-सन्निधौ । पाताले शेष-रूपेण नित्यं स्थितं त्वाम् इदानीम् अन्तर्हितम् । एतेन रामः पूर्ण एव शेषो न तु शेषांश इत्य् उक्तम् । पर्येमि परिभ्रमामि, अन्वेषयितुम् इति शेषः । पुष्प-चक्रं विकसित-समुदायः । केसराणां पुष्प-विशेषाणाम् एव तेनानुलिप्तेषु केसरवत्सु कुसुमादिषु अतिमुक्तेषु । बासन्ती-लतास पूर्णेन योगेन सर्वाङ्ग-सम्पत्त्या युक्ता सती त्वया कर्त्रात्मनं भोक्तुमीहे । गुरोः पितुः । कान्ति-मूर्तिमती । जय-पूर्वेण योगेन । राम-सम्बोधनेन हे राम त्वं जयेति शब्देनाभिमुखीकृत्येति शेषः । श्रीश् च वैष्णव्यपी रामम् एवानुमतेत्य् आह—श्रीश् चेति । दन्शिता वस्त्र-भूषाद्य् अलङ्कृता । मौलिर् मुकुटः । वज्रं हीरकम् । समुद्रो मनोरथस् तद् अर्हाणि । भावतो\ऽत्यादरेण । भूषणानाम् एवालङ्क्रिया त्वया न तु तैस्तवेति भावः । द्वितनुत्वे\ऽपि तयोर् एक-रूपत्वात्-तत्र लक्ष्मी-स्वीकारो\ऽपि न विरुद्ध इति विष्णु-पर्वणि पञ्च-नवतितमाध्याये वर्णितम् ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः परं परमं तव भगवतो भावं भगवत्त्वम् । यद् वा, जगतीविधारणाद् अन्यं भगवतः सर्वैश्वर्य-पूर्णस्य तव भावं माहात्म्यम् अजानतीम् तच् च मम ज्ञानं त्वया ज्ञायत एवेत्य् आह—भगवन् हे सर्वज्ञेति । तत्र हेतुः—विश्वस्य आत्मन् ! परमात्मन्न् इति । अतो विकर्षणान्-मोक्तुम् अर्हसि
ननु, मानिनि ! मद् आज्ञालङ्घ्कां त्वां कुतो मुञ्चेयम् ? तत्राह—प्रपन्नां शरणागताम्, प्रपन्नजने च तव कृपैवोचितेत्य् आह—हे भक्त-वत्सलेति । अथवा ननु, एवं जानास्य् एव, कथं मिथ्या वदसिन जान इति ? तत्राह—परम् इति । भोक्तुम् अर्हसीत्य् अत्र हेतुः—भगवन्न् इति । सर्वज्ञस्याज्ञे कृपा युक्तैवेति भावः ।
यद् वा, हे परम-दयालो ! ननु, अपराधिषु दण्डो युक्त एवेति चेत्-तत्राह—विश्वस्यात्मन् परम-प्रिय ! इत्य् अपराधस् त्वया न गृह्यत एवेति भावः । यद् वा, सर्व-प्रवर्तकेति यथा नियुक्तास्मि, तथा अकरवम् इति को मे\ऽपराध इति ।
ननु, एवं सर्व-मर्यादा-रहितं स्यात् ? तत्राह—भक्तवत्सलेति । ननु, आज्ञालङ्गिन्याः कुतस्ते भक्तत्वम् ? तत्राह—प्रपन्नां पूर्वं सानुजस्य तव जल-क्रीडादि-सुख-विस्तारणेन कृत-भक्तिम् इत्य् अर्थः । यद् वा, श्री-कृष्ण-महिष्याः श्री-कालिन्द्या अंशत्वेन मम त्वद्-भक्तता-सिद्धः । यद् वा, हलखातपथेन त्वत्-पाश्र्वागमनाद् इति दिक् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कान्तिर् लक्ष्म्याः मूर्ति-विशेषः श्री-विष्णु-पुराणादौ तु लक्ष्मीर् इत्य् अंशेनाभे दाभिप्रायात् इयम् एव द्वितीय-व्यूहस्य सङ्कर्षणस्य पत्नी ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कान्तिर् लक्ष्म्य् अंशा ॥२९-३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कान्तिर् लक्ष्म्या मूर्ति-विशेषः । यद् उक्तं वैष्णवे—
वरुण-प्रहितां चास्मै मालाम् अम्लान-पङ्कजाम् । > समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत ॥ [वि।पु। ५.२५.१६] > इति ।
इयम् एव द्वितीय-व्यूहस्य सङ्कर्षणस्य स्त्रीति प्राञ्चः ॥२९॥
॥ १०.६५.३० ॥
वसित्वा वाससी नीले मालाम् आमुच्य काञ्चनीम् ।
रेजे स्व्-अलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वसित्व परिधाय । आमुच्य कण्ठे निधाय । चन्दनादिभिर् आलिप्तः ॥३०-३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माहेन्द्र ऐरावतः ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो दीनोक्तेः प्रपत्तेर्वानन्तरम्, विशेषेण समाश्वासन-पूर्वकम् अमुञ्चत् । तथा च तत्रैव श्री-हरि-वंशे शान्तिं व्रज महा-भागे सम्यतां च यथा सुखम् [ह।वं। २.४६.५१] इत्य्-आदि, यतो भगवान् प्रपन्न-वत्सला, तत्रापि याचित! काकुभिर् मोचनं प्रार्थितः, जलं हत्वा आकृष्टयाः श्री-वृन्दावनन्तःप्रविष्टायाः श्री-बलदेवान्तिकागतायास् तस्या एव, तथा च तत्रैव वृन्दावनस्य मध्येन सा नीता यमुना नदी [ह।वं। २.४६.४२] इति , श्री-विष्णु-पुराणे च—
सा कृष्टा तेन सहसा मार्गं सन्त्यज्य निम्नगा । > यत्रास्ते बलदेवो\ऽसौ प्लावयामास तद्-वनम् ॥ [वि।पु ५.२५.११] > इति ।
बल इति स्त्रीभिः सह विचित्र-जल-क्रीडादौ समर्थतर इति भावः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वसित्वेति स्पष्टम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वसित्वा परिधाय आमुच्य कण्ठे निधाय लिप्त-चन्दनेन वारण ऐरावतः ॥३०॥
॥ १०.६५.३१ ॥
अद्यापि दृश्यते राजन् यमुनाकृष्ट-वर्त्मना ।
बलस्यानन्त-वीर्यस्य वीर्यं सूचयतीव हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आकृष्ट-वर्त्मनाकर्षण-मार्गेण उपलक्षिता ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूषणानि वज्र-खचित-स्वर्णैक-कुण्डल-पद्मादीनि, शुभाम् अम्लान-स्वर्ण-पञ्कज-ग्रथिताम् इत्य् अर्थः । कान्तिः श्री-यमुनाया विकर्षणेन मोचनेन सन्तुष्टाया लक्ष्म्या मूर्ति-विशेषः । श्री-विष्णु-पुराणादौ च लक्ष्मीर् इति अंशांशि-भेदाभावाभिप्रायेण । इयम् एव द्वितीय-व्यूहस्य श्री-सण्कर्षणस्य पत्नी ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-बलदेव-प्रीत्या तथैवाद्यापि वहतीत्य् आह—अद्येति । कृष्टेन हलखातेन वर्मना लक्षिता किम् वा, तेन वीर्यं सूचयन्ती स्वावस्थाविशेषेण किञ्चिज्-ज्ञापयन्ती इवेत्य् अबुद्धि-पूर्वकत्वात् किञ्चित्त्वे हेतुः अनन्तेति हि प्रसिद्धौ तथा च तां प्रति तस्याज्ञा श्री-हरि-वंशे—
लाङ्गलादिष्ट मार्गात्वम् इमं मे प्रिय-दर्शने । > देशम् अम्बु-प्रदानेन प्लावयस्वाखिलं शुभम् ।
यावत् स्थास्यति लोको\ऽयं तावत् स्थास्यति मे यशः । [ह।वं। २.४६.५०, ५२] इति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आकृष्ट-वर्त्मन उपलक्षिता ॥३१॥
॥ १०.६५.३२ ॥
एवं सर्वा निशा याता एकेव रमतो व्रजे ।
रामस्याकृष्ट-चित् तस्य माधुर्यैर् व्रज-योषिताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकेव एकैव निशा यथा तथा । माधुर्यैर् विलासैः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आक्षिप्त-चित् तस्य वशीकृत-मनसः । एकैवेति प्रति-रजनि नवनवायमानानुभवात् ॥३२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्ठु अलङ्कृतः कुण्डलादिभिः, लिप्तो मृग-मदादि-पङ्केन, रेजे अशोभत ॥३२॥
श्री-बलदेव-प्रीत्याद्यापि श्री-यमुना तथैव वहतीत्याह—अद्येति । कृष्टेन हलखातेन वर्त्मना विशिष्टा । किं वा, तेन वीर्य सूचयन्ती इवेति । तत्-त्वतो गाढाकर्षणेन प्रवाह-वक्र-गति-स्वभावेन वा श्री-वृन्दावनातर् भ्रमण-लोभेन वान्यत्र गमनाशक्तः। यद् वा, लौकिकोक्तिरीत्यपेक्षया अनधिकार्थम्, हि निश्चितम् ।
ननु, तद्-वीर्य-सूचनेनात्मनो लघुतैव पर्यावस्यति ? नेत्य् आह—अनन्तेति । यतो बलस्य महत्तम् अस्य विक्रम-सूचनेन महिमैव स्याद् इति भावः । यद् वा, तद्-वीर्य-सूचने हेतुः—अनन्तेति । तादृशस्य तस्याज्ञालङ्घनाशक्तेर् इति भावः । तथा च तां प्रति तस्याज्ञा श्री-हरि-वंशे—
लाङ्गलादिष्ट-मार्गा त्वम् इमं मे प्रिय-दर्शने । > देशम् अम्बुप्रदानेन प्लावयस्वाखिलं शुभम् ॥ > यावत् स्थास्यति लोको\ऽयं तावत् स्थास्यति मे यशः ॥ [ह।वं। > २.४६.५०, ५२] इति ।
हे राजन् ! इति चिरकाले\ऽपि तस्यास् तथैव वृत्त्या श्री-बलदेवस्य च वीर्यातिशयेन परम-कौतुकात् ॥३३॥
एवम् अनेनोक्त-प्रकारेण वारुणी-पानपूर्वक-विचित्र-वेशादिना रममाणस्य सर्वाः किञ्चिद् अधिकमास-द्वय-वर्तिन्यो बहुला अपि निशा राम् अस्य एक् एव याताः । व्रज इति तत्रैव तद्-योग्यतां बोधयति । अतः ? ब्रज-योषितां माधुर्यैः परम-सौन्दर्य-वैदग्ध्यादिभिर् आक्षिप्तम् आकृष्टं चित्तं यस्य तस्य, इवेति तत्त्वतो निशाना बाहुत्यात् । पाठान्तरे कण्डुमुनेरिवानुसन्धानाभावेन तस्यकेति प्रतीतः । इति द्वारकादौ श्री-रेवत्यादिभिः सह रतेर् अप्य् अस्यानन्द-विशेष उक्तः । इत्य् अपूर्वानुभूत-सुखार्थम् अपि स्नेहभरेण श्री-भगवतासौ तत्र प्रस्थापितस् तद् उक्तिबलाद् एवताभिः सह तथा रेम इति ज्ञेयम् । ततश् च द्वारकां गत इति वक्तुम् अपेक्ष्यम् अपि नोक्तं पुनर् व्रजात्-तद्-गमनेन तत्रत्यानां द्विगुणित—महार्तिवार्तयात्मनो राज्ञश् च दुःख-विशेषेण इञ्चिद्-दृष्टं श्री-विष्णु-पुराणे मास-द्वयेन यातश् च पुनः स द्वारकां पुरीम् [वि।पु ५.२५.१८] इति , ततः श्री-कृष्ण-मिलनं तु श्री-हरि-वंशे—
तथैवाध्वगवेषेण सोपस्पृष्टो जनाईनम् । > प्रत्य् अग्र-वन-मालेन वक्षसाति-विराजता ॥ > स दृष्टा तूर्णम् आत्मानं राम लाङ्गल-धारिणम् । > सहसोत्थाय गोविन्दः प्रददावसनोत्तमम् ॥ > उपविष्टं ततो रामं पप्रच्छ कुशलं व्रजे । > बान्धवेषु च सर्वेषु गोष चैव जनार्दनः ॥ > प्रत्युवाच ततो रामो भ्रातरं साधु भाषिणम् । > सर्वेषां कुशल कृष्ण येषां कुशलम् इच्छसि ॥ > ततस् तयोर् विचित्रार्थाः पौराण्यश्चाभवन कथाः ।
वसुदेवाग्रतः पुण्या राम-केशवयोस् तदा ॥ [ह।वं। २.४६.५६-६०] इति ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकेवेति । प्रतिरजनि नव-नवायमानानुभवात् इति देवी-वर्गतोऽपि तासां माधुर्य-विशेषो दर्शितः तद् एवम् अपूर्वं भोगवृन्दं श्री-मद्-व्रज-सान्त्वनसन्तुष्ट-हृदयेन श्री-कृष्णेनैव तस्मै दूरतोऽपि दापितम् इति गम्यते । अत्र यद्यपि श्री-रामो\ऽसौ श्री-कृष्ण-बन्धूनां सर्वेषां स्वस्य प्रेयसीनाञ् च स्व-गमन-समये पूर्वतो\ऽप्य् अधिकं नित्य-लीलानुभावनादिना नूनं सान्त्वनं कृतवान् एवास्ति एतद् अर्थम् एवागतत्वात् तथैव हि तेन श्री-कृष्णोऽपि सान्त्वयिष्यते हरि-वंशे सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि [ह।वं। २.४६.५९] इति तथाप्य् आपाततः प्रकट-लीला-दर्शनेन दुःखांश-सद्-भावम-यत्नात्-तद्-गमनं न वर्णिम् इति ज्ञेयं किञ्चित् तूद्दिष्टं विष्णु-पुराणे मास-द्वयेन यातश् च पुनः स द्वारकां पुरीम् [वि।पु। ५.२५.१८] इति । ततः श्री-कृष्ण-मिलनं तु हरि-वंशे—
तथैवाध्वगवेषेण सोपस्पृष्टो जनाईनम् । > प्रत्य् अग्र-वन-मालेन वक्षसाति-विराजता ॥ > स दृष्टा तूर्णम् आत्मानं राम लाङ्गल-धारिणम् । > सहसोत्थाय गोविन्दः प्रददावसनोत्तमम् ॥ > उपविष्टं ततो रामं पप्रच्छ कुशलं व्रजे । > बान्धवेषु च सर्वेषु गोष चैव जनार्दनः ॥ > प्रत्युवाच ततो रामो भ्रातरं साधु भाषिणम् । > सर्वेषां कुशल कृष्ण येषां कुशलम् इच्छसि ॥ > ततस् तयोर् विचित्रार्थाः पौराण्यश् चाभवन् कथाः । > वसुदेवाग्रतः पुण्या राम-केशवयोस् तदा ॥ [ह।वं। २.४६.५६-६०]
इति तत्र सभोपविष्टत्वाद् आपाततः सामान्यत एव प्रश्नोत्तरे इमे श्री-कृष्ण-गोकुल-प्रेयसी-पर्यन्त-विषये ज्ञेये विशेषस् त्व् एकान्त एवाभवद् इति गम्यते ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकेवेति प्रतिरजनि नवनवायमानानुभवात् ॥३२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चषष्टितमोऽध्यायो दशमेऽजनि सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे बलदेव-विजये यमुनाकर्षणं नाम
पञ्चषष्टितमोऽध्यायः ।
॥६५॥
(६६)
-
१०.४६.१७ ↩︎