६४

नृगस्योद्धारः ।

॥ १०.६४.१ ॥

श्री-बादरायणिर् उवाच—

एकदोपवनं राजन् जग्मुर् यदु-कुमारकाः ।
विहर्तुं साम्ब-प्रद्युम्न-चारु-भानु-गदादयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुः-षष्टितमे कृष्णो नृगं पापाद् अमोचयत् ।

ब्रह्म-स्व-हारि-दोषोक्त्या राज्ञो दृप्तान् अशिक्षयत् ॥

विभूति-भाग्य-भोगादि- मदोन्नद्ध-मनोरथान् ।

अन्वशासद् यदून् कृष्णो नृगोद्धार-प्रसङ्गतः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृगं नृपम् । विभूतिर् ऐश्वर्यम् । भाग्यं सम्पदम् । भोग्यम् इति पाठे भोग्याः स्त्र्य्-आदयः । भोगस् तत्-तद्-विषयानुभवः, तेषां मदोन्नद्धा उच्छृङ्खला मनोरथा येषां तान् । अन्वशासत् विभूत्य्-आदि-मदान्धानाम् एषा गतिर् भवतीति स च न कार्य इत्य् अशिक्षयद् इत्य् अर्थः ।

लीले यमनुर् उद्धतः जन्मतः प्राग् ऊह्या श्री-प्रद्युम्नादीनां यौवनोद्भेद एवास्या लीलाया औचित्यात्, क्रीडा-सक्तत्वात् तु कुमार-शब्द-प्रयोगः कुमार-प्राचुर्याद् वा । साम्बस्यादाव् उद्देशः प्रद्युम्नस्य शम्बर-पुरात्-तत्-कालागमनेनागमनाभावात् । स्वल्प-पापेनापि तादृश-जनस्थ तादृशी गतिर् इत्य् आश्चर्येण सम्बोधयति—राजन्न् इति । हे हरिभक्ति-द्योतमानेत्य् अर्थः । उपवनं नगरोपकण्ठवनम् ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्मिन् अध्याये एतयोर् व्याख्यानं नास्ति ।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-रुद्र-निर्जयादिना प्रकटतरम् ऐश्वर्यम् उक्त्वा प्रसङ्गात् तादृश-चरितान्तरम् अप्य् आह—एकदेत्य्-आदिना नृणाम् इत्य् अन्तेन । एकदा कदाचिद् इति क्रीडा-क्रमो निरस्त इतीयं लीलानिरुद्ध-जन्मतः प्राग् ऊह्या । श्री-प्रद्युम्नादीनां यौवनोद्भेदेऽस्या लीलाया औचित्यात् नैश् चिन्त्यात् क्रीडासक्तत्वात् कुमार-शब्द-प्रयोगः । स्वल्प-पापेनापि तादृश-जनस्य तादृश-गतिः स्याद् इत्य् आश्चर्येण सम्बोधयति—राजन्न् इति ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-रुद्र-निर्जयादिना प्रकटतरम् ऐश्वर्यम् उक्त्वा प्रसङ्गात् किञ्चिद् अन्यद् अप्य् आह—एकदेत्य्-आदिना । एकदा कदाचिद् इति क्रीडा-क्रमो निरस्त इतीयं लीलानिरुद्ध-जन्मतः प्राग् ऊह्या श्री-प्रद्युम्नादीनां यौवनोद्भेद एवास्या लीलाया औचित्यात् क्रीडासक्तत्वात् तु कुमार-शब्द-प्रयोगः कुमार-प्राचुर्याच् च साम्बस्यादाव् उद्देशः प्रद्युम्नस्य शम्बर-पुरात् तत्-कालागमनेनाग्र-गामित्वाभावात् स्वल्प-पापेनापि तादृशी गतिः स्याद् इत्य् आश्चर्येण पूर्वोक्त-लीलावेश-परिहारेच्छया वा सम्बोधयति राजन्न् इति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुष् षष्टितमे कूपोद्धृतात् श्रुत्वा नगाद्-धरिः । दानं स्वान् शिक्षयामास विप्र-भक्त्तिं सुशङ्किताम् ॥१-२॥


॥ १०.६४.२ ॥

क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः ।
जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पिपासितास् तृषिता जलं विचिन्वन्तः । सत्त्वं जीवम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रोपवने ।

सत्त्वं गुणे पिशाचादौ बले द्रव्य-स्वभावयोः ।

आत्मत्वे व्यवसायासुचित्तेष्वस्ती तु जन्तुषु ॥इति मेदिनी ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रोपवने । अद्भुतं महा-कायत्वेन कूपान्तरम् अपि जिवनादिना लोकातीतत्वात्, महा-कायस्य तस्य चिरम् उपवन-कूपान्तर्-वर्तमानस्य प्रसिद्धि-सम्भवेऽपि तदानीम् एव दर्शनं तेषां बाल्येन तद्-अज्ञानात् । किं वा, यथा-कालं तद्-उद्धारे श्री-भगवद्-इच्छोदयात् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रोपदने \ऽद्भुतं महा-कायत्वेन कूपान्तर् अपि जीवनादिना च लोकातीत्वलात् महा-कायस्य तस्य चिरम् उपवन-कूपान्तर्वर्तमानस्य प्रसिद्धि-सम्भवेऽपि तदानीम् एव दर्शनं वस्तुतो भगवत एव तादृश-लीलेच्छातः व्यवहारतस् तु तस्याति-पुरातन-कूपस्याति-गभीरत्वेन चिरासंस्कृततया लताद्य् आवृतत्वेन च जलान्वेषणेनैव दृष्टत्वात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.३॥

कृकलासं गिरि-निभं वीक्ष्य विस्मित-मानसाः ।
तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं च कृकलासं वीक्ष्य ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृकं लासयति नर्तयतीति कृकलासः । शिरः-प्राग्रं कृतं प्रोक्तं कृको गल उदीरितः इति वामनः । तस्य कृकलासस्य । ते यदु-कुमाराः । महाकायस्य तस्य चिरम् उपवनान्तर्वति-कूपस्थस्य भगवद् इच्छातो दर्शनं तदैव जातं व्यवहारतस् तु तस्यातिपुरातन-कूपस्य गभीरत्वेन चिरासंस्कृतत्वेन लतापत्राद्य् आवृतत्वेन जलान्वेषण-वेलायाम् एव दृष्टत्वात् ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गिरि-निभम् इति । महा-गौरवं तथा तत्-कूपस्याप्य् अतिबृहत्त्वं सूचितम् । वीक्ष्य साक्षाद् दृष्ट्वा विस्मित-चेतसः कृपयान्विताश् च सन्तः । यद् वा, च अपि, तस्य तादृशस्यापि कूपात् पापाच् चोद्धरणे यत्नं चक्रुः । यतः कृपान्विता दया-शीलाः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतिप्राक-कालीनत्वेन तादृश-तत्-तज्जीवत्वात् गिरिनिभिम् इति महा-गौरवं तथा तत्-कूपस्याप्य् अतिबृहत्त्वं सूचितं वीक्ष्य साक्षात् दृष्ट्वा विस्मितच् एतसः कृपयान्विताश् च सन्तः विस्मित-मानसा इति क्वचित् -पाठः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं सत्व कृकलासं वीक्ष्य ॥३॥


॥ १०.६४.४ ॥

चर्म-जैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः ।
नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चर्म-जैश् चर्म-मयैः पाशैस् तान्तवैस् तन्तु-मयैश् च ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्तु! सन्तति-कार्पासादि-सूत्र-विस्तृतिषु च इति निरुक्तिः ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं चक्रुः ? तदाह—चर्मभिर् इत्य् अर्धेन । तैर् व्याख्यातम् । यद् वा, कृपान्वितत्वेन पीडा-परिहारार्थम् आदौ चर्मभिर् वेष्ट꣡ तद् उपरि सूत्रादि-निर्मित-पाशैर् बद्ध्वा । पतितम् इत्य् अर्भकत्वेन तैस् तस्य तत्र पात-मननात् । यद् वा, प्राग् एव कृकलास-रूपेण तत्रैव स्वर्गतो भ्रंशात् । नाशक्नुवन्, यतोऽर्भका बाल्य-लीलापेक्षया नाविष्कृत-प्रौढ-भावाः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं चक्रुस् तद् आह—चर्मभिर् इत्य् अर्धेन । पतितम् इति कृकला-स-रूपं प्राप्य भ्रंशात् नाशक्नुवन् यतो\ऽर्भकाः बाल्य-लीलापेक्षयानाविष्कृत-प्रौढ-भावाः तम् उद्धर्तुम् इति वा पाठः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्भका इति श्री-प्रद्युम्नस्याप्य् अर्भकत्वाद् अपि पूर्व-लीलेयम् इति ज्ञेयम् ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चर्मभिश् चर्ममयैः पाशः तान्तवैः सूत्रमयैश् च ॥४-८॥


॥ १०.६४.५ ॥

तत्रागत्यारविन्दाक्षो भगवान् विश्व-भावनः ।
वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कूप-समीपे । तं कृकलासम् ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स कृष्णो लीलामृत्योज्जहार, यतो विश्व-भावेन इच्छा-मात्रेण विचित्र-जगत्-स्रष्टा, यतो भगवान् कारुण्याद्य्-अशेष-गुण-प्रकटन-पर इत्य् अर्थः । अरविन्दाक्ष इति कृपया वीक्षणेनाक्ष्णोः प्रसारण-विशेषेण साक्षाद् अरविन्दत्वापत्तेः । किं वा, दृष्टि-मात्रेण तस्य सर्व-ताप-हरणात् । करेणेति साक्षात् तेनैव किं वा तेन तत्-पाश-ग्रहण-द्वारा ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स कृष्णः अरविन्दाक्षः तच्छ्रुत्या विस्मय-लीलयारविन्दवत् प्रफुल्ल-दृष्ठिस्सन् तत्रागत्य वीक्ष्य च तं वाम-करण तत्रापि लीलया सहेलया समाकर्षण-रूपयोज्-जहार तत्र हेतुः विश्व- भावनः सर्व-पालनशीलः तत्र योग्यता भगवान् इति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.६ ॥

स उत्तमः-श्लोक-कराभिमृष्टो

विहाय सद्यः कृकलास-रूपम् ।

सन्तप्त-चामीकर-चारु-वर्णः

स्वर्ग्य् अद्भुतालङ्करणाम्बर-स्रक्॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्तप्तं चामीकरं सु-वर्णं तद्वद् वर्णो यस्य सः । अद्भुता अलङ्काराम्बर-स्रजो यस्य सः स्वर्गी देवो बभूवेति ॥६-७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः कूपोद्घृतः । सुवर्णम् इति चामीकरं स्वर्ण-हेम-हाटकं वह्निजं तथा इति कोशान्तरात् ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च सर्व-पापान् मुक्तः सद्-गतिं प्रापेत्य् आह—स इति । उद्गतं तमो यस्मात् तादृशः श्लोकोऽपि यस्य, यशः-चरणारविन्दादिना संसारार्ति-निवृत्तेः । यद् वा, नामाभासादिनापि जगद्-उद्धाराद् उत्तम उत्कृष्टः श्लोको यस्य तस्य भगवतः करेणाभिमृष्टः स्पृष्टः सन्न् इति हेत्व्-अन्तर-निरसनेन प्रारब्ध-भोगापेक्षा निरस्ता । स्वर्गि-लक्षणम् आह—सन्तप्तेति । अद्भुतेति च अलङ्करणानि किरीट-कुण्डलादीनि । यद् वा, स्वर्गितो विशेष-विवक्षया विशिनष्टि तत्-पद-द्वयेन । अत एव सं-शब्दश् चारु-शब्दोऽद्भुत-शब्दश् च । अन्यत् तैर् व्याख्यातम् ।

तत्र तद्वच् चारु-कर्ण इति लेख्ये चारु-शब्दाभावो लेखक-भ्रमात् । तथालङ्करणेति लेख्येऽलङ्करोति च । किं वा, तद्-अर्थ-मात्र-व्याख्यानाद् इति । अथवा, सन्तप्त-चामीकराद् अपि चरु-वर्णो यस्य सः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च सद्यः सर्व-पापान्-मुक्तः सद्गति प्रापेत्य् आह—स इति । उगतं तमो यस्मात्-तादृशः श्लोकोऽपि यस्य यशः-श्रवणेनापि संसार-निवृत्तेः यद् वा, नामाभासादिनापि जगद् उद्धाराद् उत्तमः उत्कृष्टः श्लोको यस्य तस्य भगवतः करेणाभिमृष्टः स्पृष्टः सन्न् इति हेत्वतर-निरसनेन प्रारब्ध-भोगापेक्षा निरस्ता स्वर्गि-लक्षणम् आह—सन्तप्तेति अद्भुतेति च । यद् वा, स्वर्गि-विशेष-विवक्षया विशिनष्टि, तत्-पद-द्वयन, अत एव सं-शब्दश्चारु-शब्दो\ऽद्भत-शब्दश् च अन्यत्-तैः तत्र तद्-वच्-चारुवर्ण इति लेख्ये चारु-शब्दाभावो लेखक-भ्रमाद् इति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वगा देवो बभूव ॥६-७॥


॥ १०.६४.७ ॥

पप्रच्छ विद्वान् अपि तन्-निदानं

जनेषु विख्यापयितुं मुकुन्दः ।

कस् त्वं महा-भाग वरेण्य-रूपो

देवोत्तमं त्वां गणयामि नूनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुकुन्द इति विख्यापन-द्वारा ब्रह्म-स्वापहारादि-पापतो लोकानां मोचनाद्य्-अभिप्रायेण । महान् भागो भाग्यं यस्य तत्-सम्बोधनम् । महा-भाग-लक्षणम् आह—वरेण्यं सर्व-श्रेष्ठतमं रूपं सौन्दर्यं यस्य सः । अतो देवेषूत्तमं गणयामोऽवकलयामः । नूनं वितर्के ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पप्रछेत्य् अर्धकम् मुकुन्द इति तन्-मोचनाभिप्रायेण महान् भागो भाग्यं यस्य तत्-सम्बोधनं महा-भाग्य-लक्षण माह वरेण्यं सर्व-श्रेष्ठतमं रूपं सौन्दर्यं यस्य सः अतो देवेषूत्तम गणयामि अवकलयामि नूनं वितर्के ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.८ ॥

दशाम् इमां वा कतमेन कर्मणा

सम्प्रापितोऽस्य् अतद्-अर्हः सु-भद्र ।

आत्मानम् आख्याहि विवित्सतां नो

यन् मन्यसे नः क्षमम् अत्र वक्तुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यदि । क्षमं योग्यम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य नृगस्य । विवित्सतां ज्ञातुम् इच्छताम् । अत्राधुना ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वा शोके, हि अपि, अतद् र्ह ईदृग् दशाया अयोग्यो\ऽपि वा, असीति पाठः स्पष्टः । पाठान्तरे स्पष्टम् । तत्र हेतुः—सुभद्र ! हे परम-मङ्गलेति, अतो विवित्सताः त्वत्तत्वं वेत्तुं लब्धुं ज्ञातुम् इच्छताम् इत्य् अर्थः । इच्छतां नो\ऽस्माकम्, कर्मणि षष्ठी, बहुत्वं परमाश्चर्येण सद्यस् तत्रागतानां यादवानाम् अपेक्षया वा, अत्र स्थाने नो\ऽस्मान् प्रति, यदि क्षमम् इति वाक्-चातुर्या गुह्यस्यापि प्रकाशनार्थं सर्व-सद्-गुण-निधेर् विनय-स्वभावाद् एव । अत एव न इति पुनर् बहुत्वम् ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वा शोके हि निश्चये अतद् अर्ह्ः ईदृग्-दशाया अयोग्योऽपि असीति पाठः स्पष्टः तत्र हेतुः सुभद्र हे परम-मङ्गलेति कतमनेति पाठः समञ्जसः आत्मानम् इत्य् अर्धकं विवित्सतां त्वत्-तत्त्वं विविदिषतां नो\ऽस्माकं कर्मणि षष्ठी बहुत्वं परमाश्चर्येण सद्यस् तत्रागतानां यादवानाम् अपेक्षया तत्र स्थाने नो\ऽस्मान् प्रति यदि क्षमम् इति वाक् चातुर्या गुह्यस्यापि प्रकाशनेच्छातः किं वा सर्व-सद्-गुण-निधेविन-स्वभावाद् एव अत एव । इति पुनर् बहुत्वम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विवित्सतां विविदिषतां कर्मणि षष्ठी आर्षी यदि क्षमं योग्यम् ॥८-९॥


॥ १०.६४.९ ॥

श्री-शुक उवाच—

इति स्म राजा सम्पृष्टः कृष्णेनानन्त-मूर्तिना ।
माधवं प्रणिपत्याह किरीटेनार्क-वर्चसा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्त-मूर्तिनेत्य् उक्त्या तद्-दान-काले\ऽपि भगवान्-मूर्त्य् अन्तरेणासीद् इति ध्वनितम् । प्रश्नस् तु मनुष्य-नाट्याभिप्रायेण श्रीमदमत्त-जन-शिक्षणार्थम् एवेति भावः ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्म प्रसिद्धी, इति एवम्, कृष्णेन साक्षाद्-भगवतापि सम्यक् पृष्टः सन्, राजेति तत्त्वतः क्षत्रियत्वाद् राज-वेशाद् वा, आनन्द-मूर्तिना सुख-घन-विग्रहेणेति दर्शन-मात्रेण तत्रापि प्रश्नेन तस्याप्य् आनन्दाविर्भावः सूचितः । माधवं निजाशेष-रूप-गुणादि-प्रकटनाथं मधुकुले\ऽवतीर्णम्, अतस् तत्-सौन्दर्य-दिदृक्षया केवलं किरीटेनैव, तत्र चार्कवर्चसेति ईषद्-ग्रीवानम् अनेन तन्-महादीप्त्यैव प्रणिपत्य नमस्कृत्य । यद् वा, अत एव भक्तिभरण दण्डवद्-भूमौ निपातेन साष्टाङ्गं प्रणम्य, अर्कवर्चसा किरीटेन विशिष्टो\ऽपि । यद् वा, दूरतः किरीट-दीप्त्यापादाम्बुज-स्पर्शनेन प्रणिपत्येत्य् अर्थः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्म प्रसिद्धौ साजेति प्राग् अवस्थाम् आरोप्योक्तम् । आधुनिकावस्थाया विशेषाव्यक्तेः आनन्द-मूर्तिना सुख-घन-विग्रहेणेति दर्शन-मात्रेण तत्रापि प्रश्नेन तस्याप्य् आनन्दाविर्भावः सूचितः अनन्तमूर्तिनेति पाठे नित्य-विभु-विग्रहेणेत्य् अर्थः । ततश् तस्य तादृशत्व-स्फूर्त्या चमत्कार-विशेषो जात इति भावः । एवं प्रथमं तावत् स्वर्गित्वं प्राप्य स्तब्ध एव जातः न-तु श्री-भगवन्तं ज्ञातवान् पश्चात्-कृपया तेन सम्भाषितस् तु तत्-स्वरूपानन्दम् अनुभूतवान् पश्चाद् ऐश्वर्यानन्दे\ऽप्य् अनुभूते नमस्कारम् अकरोत् तदाज्ञानुरूपम् आह चेत्य् आह—माधवं लक्ष्मीकान्तं तद्र्-ऊपत्वेन विज्ञातम् इत्य् अर्थः । प्रणिपत्य दण्डवत् प्रणम्य अर्कवर्चसा किरीटेनोपलक्षित इति तत्र शोभाविशेषो वणितः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.१० ॥

नृग उवाच—

नृगो नाम नरेन्द्रोऽहम् इक्ष्वाकु-तनयः प्रभो ।
दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि ते कर्णम् अस्पृशम् इत्य् असन्देहे सन्देह-वचनं यदि वेदाः प्रमाणं स्युर् इति-वत् । कर्ण-पथं नूनं प्राप्तः स्याम् इत्य् अर्थः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—श्रीमतावश्यं मम नाम श्रतम् एवेति भावः ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नरेन्द्रः सम्राड् इति देवोत्तमत्व-परिहारः, कस्त्वम् इत्य् अस्योत्तरं नृगो नामेत्य् आदि, प्रभो! हे सर्व-शक्ति-युक्तेति कर्ण-स्पर्श-योग्यताभिप्रेता । यदीति तैर् व्याख्यातम् । यद् वा, संशय एव विनयभरेणात्यन्त-दैन्येन चात्मनस् तच्-छ्रवणासम्भवाद् इत्य् अर्थः । दातृष्वित्य्-आदिना निज-दातृत्वस्य गोप्यस्यापि सुचनम् । ईदृशस्यापि स्वल्प-पापेनेदृशी गतिः स्याद् इति श्री-भगवद् अभिप्रायानुसारेण लोकेषु विज्ञापनार्थम्, एवम् अग्रे\ऽपि ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि नवम-स्कन्धरीत्या श्राद्ध-देवस्य पूत्र इक्ष्वाकोर् भातेति नृगः प्रसिद्धस् तथाप्य् अत्रेक्ष्वाकुतनय इत्य् उक्तेर् अन्यो\ऽसौ नृग इति ग[ण्य]म्येत नरेन्द्रः सम्राड् इति देवोत्तमत्व-परिहारः कस्त्वम् इत्य् अस्योत्तरं नृगो नामेत्य् आदि प्रभो हे राज-राजेश्वर ! लीलेति विविध-वन्दि-वृन्द-सङ्ग्रहेण कर्ण-स्पर्शर् योग्यताभिप्रेता यद् इति तैर् याख्यातं यद् वा, संशय एव विनयभरेणात्यन्त-दैन्येन चात्मनस् तच्-छ्रवणायोग्यत्वमननात् अत एवोक्तं कर्णम् अस्पशम् इति कथञ्चिद् ईषच्-छ्रुतः स्याम् इत्य् अर्थः । तत्र हेतुः प्रभो इति सर्वेश्वरेश्वर-स्वाल्पक-जन-श्रवणासम्भवाद् इत्य् अर्थः । दानिष्वित्य्-आदिना निजदातृत्वस्य गोप्यस्यापि सूचनम् ईदृशस्यापि स्वल्प-पापेनेदृशो गतिः स्याद् इति श्री-भगवद् अभिप्रायानुसारेण लोकेषु विज्ञापनार्थम् एवम् अग्रेऽपि ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदीत्य-सन्देहेऽपि यदि वेदाः प्रमाणम् इतिवत् दानिष्वाख्यायमानेषु दातृजनानां गणन-प्रसङ्गे सति अहं तव कर्णम् अस्पृशं कर्ण-पथमगमम् एवेत्य् अर्थः ॥१०॥


॥ १०.६४.११ ॥

किं नु तेऽविदितं नाथ सर्व-भूतात्म-साक्षिणः ।
कालेनाव्यहत-दृशो वक्ष्येऽथापि तवाज्ञया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च किं न्व् इति । सर्वेषां भूतानाम् आत्मनो बुद्धेः साक्षिणस् तेऽविदितं किं नु, न किञ्चित् ॥११-१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रीहरेस् त्रिकालज्ञताम् आह—किं चेति । यद्यपि ते नाविदितम् अर्थापीत्य् अन्वयः । नु वितर्कानुन ययोः ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, श्रुतो\ऽस्येव, किन्त्वेतद्-दशा-निदानं न वेद्मीति चेत्-तत्राह—किं न्विति । नाथ ! हे परमेश्वर ! अत एव सर्वेति, अत आन्तरम् अपि सर्वं वेत्सि, किं पुनर् बाह्यम् इत्य् अर्थः । न च वक्तव्यम्, चिर-कालेन विस्मृतम् इत्य् आह—कालेनेति ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, श्रुतो\ऽस्येव किन्त्वेतत्त्वद्दशानिदानं न वेद्मीति त्तत्राह, किन्विति । नाथ हे परमेश्वर ! अत एव सर्वेति अत एवान्तरम् अपि सर्व वेत्सि किम्-पुनर् बाह्यम् इत्य् अर्थः । न च वक्तव्यं चिरकालेन विस्मृतम् इत्य् आह—कालेनेति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्नु तव अविदितम् अपि तु सर्वम् एव विदितम् इत्य् अर्थः ॥११॥


॥ १०.६४.१२ ॥

यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः ।
यावत्यो वर्ष-धाराश् च तावतीर् अददं स्म गाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सिकता रजांसि । यद् वा, सिकता द्वीपाः, अदिवि मर्त्य-लोके भारते तारका नद्यः, वर्ष-धाराः पर्वताः २७४५७ वामरीत्या सप्त-विंशस्-अहस्र-चतुर्ःशत-सप्त-पञ्चाशद्-गावो नगेण दत्ताः, यथा-ष्रुथतार्थ-ग्रहणे गवां स्थितिर् अपि दुर्घटास्तीति ज्ञेयम् । अददां ददातेर् लङ उत्तम-पुरुषैक-वचनम् ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सिक्ता इति गवामानन्त्यम्, तारका इति दिव्यत्वम्, वर्ष-धारा इति तद्-दाने\ऽविरतत्वम् अभिप्रेतम् । यद् वा, सर्वासाम् आनन्त्य-मात्रे तात्पर्यम्, ततश् च सिकता नदी-पूलिनादि-गत-बालुका ज्ञेयाः, एवं सिकतादीनां यथोत्तरम् आधिक्यम्, स्मेति प्रसिद्धम् एवैतद् इत्य् अत्रासम्भावना न कार्येत्य् अर्थः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावत्य इत्य् आदेस् तस्य गणत्रयस्य मिलित्वा यावत्वम् इत्य् अर्थः । अत एव च-शब्दः अगण्यता-मात्र-तात्पर्यकम् इदं स्मेति प्रसिद्धम् एवैतद् इत्य् अत्र सम्भावना न कार्येत्य् अर्थः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिक्ता इत्य्-आदिकम् अगण्यता-मात्र-तात्पर्यकम् इति प्राञ्चः कुरुक्षेत्रादि-देशेषु सूर्य-ग्रहणादि-कालेष्व् एकस्या अपि गोः कोट्य् अर्बुद-गुणीभूतत्वात् तत्र तत्र देश-कालेषु प्रतिदिनं च कोट्य् अर्बुद-सङ्ख्यानां गवां दातुस् तस्य तावत् सङ्ख्याकत्वम् अपि नानुपपन्नम् इत्य् अन्ये ॥१२॥


॥ १०.६४.१३ ॥

पयस्विनीस् तरुणीः शील-रूप-

गुणोपप्पनाः कपिला हेम-शृङ्गीः ।

अन्यायार्जिता रूप्य-खुराः स-वत्सा

दुकूल-मालाभरणा ददाव् अहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : [+++]{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यादृशी गौर् देया तत्-स्वरूपम् आह—पयस्विनीर् इत्य् अनेन दुग्धाभाववत्याः तरुणीर् इत्य् उक्तेर् बालाया वृद्धायाश् च दानं न कार्यम् । शीलेत्य् आद्य् उक्तेः सुषीलायाः पर-ताडन-हीनायाः स-रूपायाः शृङ्ग-भङ्गादि-दोष-हीनाया बहु-दुग्धायाश् च दानं कार्यम् । कपिला इत्य् उपलक्षणम् । यद् वा, कपिला इति बहुत्वोक्तेर् वाराहोक्ता दशविध-कपिला ग्राह्याः । तथा हि—

सुवर्ण-कपिला पूर्वा द्वितीया गौर-पिङ्गला । > तृतीया चैव रक्ताक्षी चतुर्थी गूढ-पिङ्गला ॥ > पञ्चमी बहु-वर्णा स्यात्-षष्ठी स्थाच्-छ्रुवेत-पिङ्गला । > सप्तमी श्वेत-पिङ्गाक्षी ह्य् अष्टमी कृष्ण-पिंगला ॥ > नवमी पाटला ज्ञेया दशमी पुच्छ-पिङ्गला । > एतां दश समाख्याताः कपिलास्ते वरानने ॥ > सर्वाश्चैता महा-भागास् तारयन्ति न संशयः ॥

इति हेम-शृङ्ग-रूप्यखुराद्य् उक्तेः साङ्गायाः । न्यायाजिता इत्य् उक्तेर् मौल्यगृहीतायाः, स्व-गेह-जातायाः, प्रतिग्रहादि-लब्धायाश् च । सवत्सा इत्य् उक्तेर् वत्सवत्सी-सहितायाः, वत्सः पुत्रादि-वर्षयोः इत्य् उक्तेर् इहादि-पदं पुत्रीपरम्, तेन केवलाया दानं न कार्यम् इति भावः ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं द्रव्यस्यानन्त्यम् उक्त्वा साद्गुण्यम् आह—पयस्विनीर् इति । शीलं सुस्वभावः स्वामि-वश्यतादि रूपं पुष्ट्यादि-सौन्दर्यं गुणः सदैव बहुलोत्कृष्ट-क्षोरदत्वादिः तैर् उपपन्नाः युक्ताः कपिलाश् च दशविधाः, ताश् चोक्ताः वाराहे—

सुवर्ण-कपिला पूर्वा द्वितीया गौर-पिङ्गला । > तृतीया चैव रक्ताक्षी चतुर्थी गूढ-पिङ्गला ॥ > पञ्चमी बहु-वर्णा स्यात्-षष्ठी स्थाच्-छ्रुवेत-पिङ्गला । > सप्तमी श्वेत-पिङ्गाक्षी ह्य् अष्टमी कृष्ण-पिंगला ॥ > नवमी पाटला ज्ञेया दशमी पुच्छ-पिङ्गला । > एतां दश समाख्याताः कपिलास्ते वरानने ॥

सर्वाश्चैता महा-भागास् तारयन्ति न संशयः ॥ इति ।

विशेषणानाम् एषां यथोत्तरं साद्-गण्ये श्रैष्टयम् एवम् अग्रे\ऽप्य् ऊह्यं न-च केवलाः किं तु सालङ्कारा इत्य् आह—हेमेति रूप्येति च । किञ् च दुकलाद्या आभरणानि यासां ता इति तत्र दुकूलं पृष्ठोपरि-पट्टवस्त्रं मालाश् च रत्नादि-निर्मिता गले । किं च सवत्सा इति प्रायो धेनवो ज्ञेयाः । न च नरेन्द्रत्वेन कथञ्चिद् अन्यायेन सञ्चिता इत्य् आह—न्यायेति । अहं ददाव् इति पुनर् उक्त्या तनिश्चयं बोधयति ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं द्रव्यस्यानन्त्यम् उक्त्वा साद्गुण्यम् आह—पयस्विनीर् इति । शीलं सुस्वभावः स्वामि-वश्यतादि रूपं पुष्ट्यादि-सौन्दर्यं गुणः सर्व-दैव बहुलोत्कृष्ट-क्षोरदत्वादिः तैर् उपपन्नाः युक्ताः कपिलाश् च दवि-धाः, ताश् चोक्ताः वाराहे—

सुवर्ण-कपिला पूर्वा द्वितीया गौर-पिङ्गला । > तृतीया चैव रक्ताक्षी चतुर्थी गूढ-पिङ्गला ॥ > पञ्चमी बहु-वर्णा स्यात्-षष्ठी स्थाच्-छ्रुवेत-पिङ्गला । > सप्तमी श्वेत-पिङ्गाक्षी ह्य् अष्टमी कृष्ण-पिंगला ॥ > नवमी पाटला ज्ञेया दशमी पुच्छ-पिङ्गला । > एतां दश समाख्याताः कपिलास्ते वरानने ॥

सर्वाश्चैता महा-भागास् तारयन्ति न संशयः ॥इति

विशेषणानाम् एषां यथोत्तरं साद्-गण्ये श्रैष्टयम् एवम् अग्रे\ऽप्य् ऊह्यं न-च केवलाः किं तु सालङ्कारा इत्य् आह—हेमेति रूप्येति च । किञ् च दुकलाद्या आभरणानि यासां ता इति तत्र दुकूलं पृष्ठोपरि-पट्टवस्त्रं मालाश् च रत्नादि-निर्मिता गले किञ् च सवत्सा इति प्रायो धेनवो ज्ञेयाः न च नरेन्द्रत्वेन कथञ्चिद् अन्यायेन सञ्चिता इत्य् आह—न्यायेति । अहं ददाविति पुनर् उक्त्या तनिश्चयं बोधयति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देय-वैशिष्ट्यम् आह—पयस्विनीर् इति ॥१३॥


॥ १०.६४.१४ ॥

स्वलङ्कृतेभ्यो गुण-शीलवद्भ्यः

सीदत्-कुटुम्बेभ्य ऋत-व्रतेभ्यः ।

अतपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः

प्रादां युवभ्यो द्विज-पुङ्गवेभ्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋत-व्रतेभ्योऽदम्भाचारेभ्यः । तपसा श्रुताः प्रख्याताश् च ते ब्रह्मणि वदान्या अत्युदार अध्यापन-शीलाश् च ते सन्तश् च तेभ्यः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पात्र-स्वरूपम् आह—गुणाः सत्य-शौच-सौमनस्यादयः, शीलं सुचरितं तद्-वद्-भयः । एतेन कटु-भाष्यादयः सत्य-शौचादि-हीना न दान-पात्रम् । सीदत्-कूटुम्बेभ्य इत्य् अनेन धनिनाम् अगृहस्थानां विद्यादिमताम् अपि पात्रत्वं नास्ति वृथा दानं धनाढ्येषु यथा दीपो दिवाकरे इत्य् उक्तेः,

हव्य-कव्ये यत्र दुग्ध-धृताद्यम् उपयुज्यते । > तस्मै विप्राय गौर् देया यद् वा बाल-सुताय वै ॥ इति भारतोक्तेश् > च ।

ऋत-व्रतेभ्य इत्य् अनेन दाम्भिकानां न पात्रत्वम्

धर्मश् च सत्यं च दमस् तपश् च > अमात्सर्यं ह्रीस् तितिक्षानसूया । > यज्ञश् च दानञ् च द्युतिः श्रुतञ् च > व्रतानि वै द्वादश ब्राह्मणस्य ॥

इत्य् उद्योग-पर्वोक्तानि व्रतानि ग्राह्याणि । तपः श्रुतेत्याद्य्-उक्तेस् तपश्चर्या-पराणां वेद-वेदाङ्गाध्यापन-पराणां सदाचाराणाम् एव पात्रत्वम् । युवभ्य इत्य् उक्तेर् वृद्धानां दान-प्रतिग्रह-प्रायश् चित्तासमर्थत्वात् शौचाचार-शैथिल्याद् गो-सेवा-सामर्थ्याभावाच् च तेभ्यो दत्तानां गवां दुःखं स्यात् । तेन पापोत्पत्तिश् चेति भावः । द्विज-पुङ्गवेभ्य इत्य् उक्तेर् ब्राह्मणेतराणाम् अविद्यादि-मतां च पात्रत्वाभाव उक्तः । स्वलङ्कृतेभ्य ऊर्ध्व-पुण्ड्रादिना भूषितेभ्यः । एतेन रिक्त-मस्तकादीनाम् अपि दानान् अर्हतोक्वेतेति सोर्ध्व-पुण्ड्राय दानम् इति मायापुरी-माहात्म्ये । यद् वा, मयैव पूर्वं सुवर्ण-कुण्डलादिनालंकृतेभ्यः गो-दानार्थ-वरणे पात्राय स्वर्ण-कुण्डलाद्य् अवश्यं दत्त्वैव तस्मै गां दद्याद् इति सूचितम् अनेन ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना पात्रसाद्-गुण्यम् आह—स्वलङ्कृतेभ्य इति । मयैव कनक-कुण्डलादिनादौ सुष्ठ्वलङ्कृतेभ्य इत्य् अर्थः । गुणाश्चोक्ता उद्यमपर्वणि—

धर्मश् च सत्यं च दमस् तपश् च > अमात्सर्यं ह्रीस् तितिक्षानसूया । > यज्ञश् च दानञ् च द्युतिः श्रुतञ् च

व्रतानि वै द्वादश ब्राह्मणस्य ॥इति ।

शीलं विनतनमृत्वादि, तपः स्वधर्मः कृच्छ्रादि वा, सत्त्वं श्री-वैष्णवत्वम्, तप-आदीनां प्रायो गुणान्तर्गतत्वेऽपि पृथग् उक्तिस् तद्-विशेषापेक्षया, अत एव द्विजेषु विप्रेषु पुङ्गवेभ्यः प्रक्र्षेण भक्त्या पाद-प्रक्षालनादि-पूर्वकमदाम् अन्यत् तैर् व्याख्यातम् । यद् वा, श्रुतं स्मृत्यादि-शास्त्रम्, ब्रह्म वेदः, त-आदि-युक्ता वदान्याश् च ते सन्तश् च तेभ्यः, वदान्यतया गुणान्तर्गतत्वेऽपि पृथग् उक्तिः सत्-पात्रत्वेन तस्या अवश्यापेक्ष्यत्वात्, अत एवाग्रे श्री-भगवान् वक्ष्यति [३७श श्लो] वदान्यानां कुटुम्बिनाम् इति । काल-साद्गुण्यं चाविश्रामत्वेन, तद् नपेक्षया नोक्तम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना पात्र-साद्गुण्यम् आह—स्वलङ्कृतेभ्य इति । मयैव कनक-कुण्डलादिनादौ सुष्ठ्वलङ्कृतेभ्य इत्य् अर्थः । गुणा दैहिकाः सल्-लक्षणादयः शीलानि आन्तराणि सारल्य-विनयादि-सुस्वभावाः व्रतानि स्वोत्कर्षाय यत्न-सम्पादितानि उद्यम-पर्वोक्तानि

धर्मश् च सत्यं च दमस् तपश् च > अमात्सर्यं ह्रीस् तितिक्षानसूया । > यज्ञश् च दानञ् च द्युतिः श्रुतञ् च

व्रतानि वै द्वादश ब्राह्मणस्य ॥

इति व्रतानि अकापट्येन प्रकटितानि व्रतानि यैस्तेभ्यः तपः स्वधर्मो नित्यं सन्ध्या-वन्दनादिः सत्यं सदाचार-परत्वं युवभ्य इति तेषाम् एव धर्माचरण सामर्थ्येन प्राधान्यात् अत एव द्विजेषु श्रेष्ठेभ्यः प्रकर्षेण भक्त्या पाद-प्रक्षालनादि-पूर्वकमदाम् ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्प्रदान-वैशिष्टयम् आह—स्वलङ्कृतेभ्यः इति । तपसा श्रुताः ख्याताश् च ब्रह्मणि वेद-शास्त्रे अध्यापन-परत्वाद् अत्युदाराश् च ते सन्ताष् च तेभ्यः ॥१४॥


॥ १०.६४.१५ ॥

गो-भू-हिरण्यायतनाश्व-हस्तिनः

कन्याः स-दासीस् तिल-रूप्य-शय्याः ।

अवासांसि रत्नानि परिच्छदान् रथान्

इष्टं च यज्ञैश् चरितं च पूर्तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्तं वापी-कूपादि । चरितं कृतम् ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विप्रापराधः सुकृतानन्त्यम् अपि नाशयतीत्य् आह—गो-भू-हिरण्येति । आयतनञ् च वासोचित-गृहम् । वासांसि कार्पासोर्णाक्षौमकौशादीनि । परितश्छाद यन्तीति परिच्छदा वस्त्र-गृहादयः । यद् वा, परिच्छद-पदेन तत्-तत्-कार्योचित-सामग्री ग्राह्या । तद् उक्तम्

विवाहादि-क्रिया-काले तत्-क्रिया-साधनं तु यः ।

ददाति दीन-विप्रेभ्यः सो\ऽश्वमेध-फलं लभेत् ॥ इति पुराणात् ॥१५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं ता एव अन्यांश् च बहून् पदार्थानदाम् इत्य् आह—गो इति । गावो वृषाः आयतनानि गृहादीनि परिच्छदाश् छत्र-चामरादयः गवादीन् रथान्तान् प्रादाम् इति पूर्वेणैवान्नयः । यज्ञैः सर्वैर् एव च-काराभ्यां यज्ञानां पूर्तस्य प्राधान्यं बोधयंस् तद्-विधाने सम्यक्त्वं बोधयति ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विप्रापराधः सुकृतानन्त्यम् अपि नाशयतीत्य् आह—गो-भू-हिरण्येति । आयतनञ् च वासोचित-गृहम् । वासांसि कार्पासोर्णाक्षौमकौशादीनि । परितश्छाद यन्तीति परिच्छदा वस्त्र-गृहादयः । यद् वा, परिच्छद-पदेन तत्-तत्-कार्योचित-सामग्री ग्राह्या । तद् उक्तम्

विवाहादि-क्रिया-काले तत्-क्रिया-साधनं तु यः ।

ददाति दीन-विप्रेभ्यः सो\ऽश्वमेध-फलं लभेत् ॥ इति पुराणात् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देयान्तराण्यप्य् आह—गो-भू इति । प्रादाम् इति पूर्वेणैवान्वयः चरितं कृतम् ॥१५॥


॥ १०.६४.१६ ॥

कस्यचिद् द्विज-मुख्यस्य भ्रष्टा गौर् मम गो-धने ।
सम्पृक्त्वाविदुषा सा च मया दत्ता द्विजातये ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं वर्तमानस्य मम सङ्कटं किञ्चिद् आपन्नं शृण्व् इत्य् आह—कस्यचिद् इति । द्विज-मुख्यस्य प्रतिग्रह-निवृत् तस्य । सम्पृक्ता मिलिता । अविदुषा ब्राह्मणस्येयम् इत्य् अजानता ॥१६-१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृकलासत्व-प्रापकं किं पापं तत्र अज्ञातापराधं निवेदयति-कस्येति । भ्रष्टाभ्यस् तद् एशं विहायान्य-देशं गता ॥१६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कस्यचिद् इति—तप-आदिना प्रसिद्ध्यभावात्, भ्रष्टा स्व-यूथाद् गृहद् विच्युता, गाव एव धनं देयाशेष-द्रव्योत्तमत्वात् तस्मिन् । यद् वा, गोधने गोकुले ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रष्टा विच्युता गोधने गोकुले ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, कृकलाससत्व-प्रापकं किं पापम् ! तद्-ब्रहीत्य् अत आह—कस्यचिद् इति । भ्रष्टा विच्युता गौरेकैव मम गोकुले सम्पृक्ता मिलिता अविदुषा ब्राह्मणस्येयम् इत्य् अजानता ॥१६-१७॥


॥ १०.६४.१७ ॥

तां नीयमानां तत्-स्वामी दृष्ट्वोवाच ममेति तम् ।
ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां मयाज्ञात-दत्ताम् गाम् । तत्-स्वामी तस्या गोः पूर्वो नाथः ॥१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं गोर् नेतारम् उवाच, तेनैव प्रतिग्राहि—दम्भ-भङ्गस् तत्-स्मरणेनाधुनापि भयानुवृत्त्या वाग्-वैकल्यात् । एवम् अग्रे\ऽपि । किं वा, लेखक-भ्रमाद् एव । प्रतिग्राही ममेत्याहेति मां समुद्धरताम् इति च पाठः । एवम् अन्यत्राप्य् ऊह्यम् । ननु, मामकेयं मह्यं दत्ता, कथं तव स्यात्-तत्राह—नृग इति, इत्य् अस्माद्-धेतोः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् अस्माद्-धेतोः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.१८ ॥

विप्रौ विवदमानौ माम् ऊचतुः स्वार्थ-साधकौ ।
भवान् दातापहर्तेति तच् छ्रुत्वा मेऽभवद् भ्रमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिग्राहिणोक्तं, दातेति । स्वामिनोक्तम् अपहर्तेति । अभवद् भ्रमः, व्याकुलोऽभवम् इत्य् अर्थः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विवदमानौ भासनोप-सम्भाषाज्ञान-यत्न-विमत्य् उपमन्त्रणेषु वदः इत्य् आत्मनेपदम् । तङानावात्मनेपदम् इत्यानस्यात्मनेपद-सञ्ज्ञेति । इत्य् अर्थ इति-भ्रम-पदम् अत्र चेतो\ऽस्वास्थ्यपरम् इति ज्ञेयम् ॥१८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वार्थसाधकाव् इति तयोर् अपि तद् एक-धेनुपरतोक्ता ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वार्थस्य स्वीयाभिमान-मात्रस्य साधकौ ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिग्राही विप्र उवाच भवान् दातेति गोस्वामी उवाच भवान् अपहर्तेति भ्रमः अतिवैयग्रयम् इत्य् अर्थः ॥१८-२०॥


॥ १०.६४.१९ ॥

अनुनीताव् उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै ।
गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदोभाव् अपि प्रत्येकम् अनुनीतौ प्रार्थितौ । कथं तद् आह—गवाम् इति सार्धेन ॥१९-२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुनीतौ प्रार्थितो धर्म-कृच्छ्र-गतेन धर्म-सम्बन्धिकष्टं प्राप्तेन । प्रकृष्टानाम् इतो\ऽपि शोभनानाम् । एषा मद् अज्ञान-दत्ता ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धर्म् अस्य कृच्छ्रे सङ्कटे प्रकृष्टानाम् अस्या अप्य् उत्तमानां प्रकर्षेण निजाग्रह—त्याग-पूर्वकान्तः-शुद्धयादिना दीयताम् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धर्म् अस्य कृच्छ्रे सङ्कटे गते न मयेति शेषः । धर्म-कृच्छ्र उपायत इति क्वचित् प्रकृष्टानाम् अस्या अप्य् उत्कृष्टानां प्रकर्षेण निजाग्रहत्यागपूर्व-कान्तः-शुद्ध्यादिना दीयताम् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.२० ॥

भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः ।
समुद्धरतं मां कृच्छ्रात् पतन्तं निरयेऽशुचौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृच्छ्राद्-धर्म-कृच्छ्रात् । अशुचौ महा-मलादि-पूर्णे अकाराप्रश्लेषे तप्ते इत्य् अर्थः । शुचिर् अनुपहते तप्ते च इति कोशात् ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृच्छ्रात् कष्टान् मां समुद्धरतम् इच्छम् एवाह—पतन्तम् इति । यद् वा, कृच्छ्रात् पापाद्द्-हेतोः पतन्तम् ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृच्छ्रात् कष्टात् समुद्धरतं कृच्छ्रम् एवाह—पतन्तम् इति । यद् वा, कृच्छ्रात्-पापाद्-धेतोः पतन्तम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.२१ ॥

नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् ।
नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपरः प्रतिग्राही । दुराग्रहो यल् लक्षं त्वयोक्तम् अन्यद् अपि गवाम् अयुतं यदि तद् अपीमां विहाय नेच्छामीत्य् उक्त्वा गां त्यक्त्वा ययाव् इत्य् अर्थः ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रज्यं राज-प्रतिग्रहम् अहं न प्रतीच्छे करोमीति प्रतिग्रह-भयाद् अपाक्रमद् गां त्यक्त्वैवापासरद् इत्य् अर्थः । इत्य् अर्थ इति—अव्ययानाम् अनेकार्थत्वाद् इति-पदं त्यागम् अपि बोधयतीति भावः ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, न प्रतीच्छे नैव प्रतिगृह्नामीत्य् अर्थः । किम्वा, प्रतिग्रहं मनसापि नेच्छाम्य् एवेति, अपाक्रमद् गां त्यक्त्वा प्रतिग्रह-भयेनापसृतः, कोपेन मयि पृष्टं दत्त्वा निर्गतो वा ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव न प्रतीच्छे नैव प्रतिगृह्णामीत्य् अर्थः । अपाक्रमत् गां त्यक्त्वा प्रतिग्रह-भयेनापसृतः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञां न प्रतीच्छे राज-प्रतिग्रहं न करोमीत्य् उक्त्वा अपाक्रमत् स्वीयां गां विहायैव ययो अपरः प्रतिग्राही दुराग्रहः यल्-लक्षं त्वयोक्तम् अन्यद् अप्य् अयुतम् अपि यदि ददासि तद् अपीमां विहाय नेच्छामीत्य् उक्त्वा ययौ ॥२१॥


॥ १०.६४.२२ ॥

एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यम-क्षयम् ।
यमेन पृष्टस् तत्राहं देव-देव जगत्-पते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतस्मिन्न् अन्तर इति । इतः पूर्वं पापाभावान् नेतुम् असमर्था इति भावः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतस्मिन्न् अज्ञातापराध-लक्षणे अन्तरे\ऽवकाशे सति पापाद् आयुषः सङ्कोचे सति । यद् वा, अज्ञात-विप्र-गो-दानतः प्राग्यमो ममाह्वा ने\ऽपि न प्रभुर् अभूत्-तत्-सत्त्वे तेनाहम् आहूतः । हे देवानां पूज्यानाम् अपि पूज्य जगत्पते इति जगत्-पालनार्थं त्वयैव नियुक्तस्य तद् उचितम् एव । यद् वा, त्वत्-कृत-निबन्धस् तेषाम् अप्य् उलङ्घ्य एवेति भावः । इति भाव इति याञ्चामृते पथि चरन्-प्रभुभिर् न चाल्यः इति न्यायेन धर्मशीलानां छिद्रं विना दण्डो न भवतीति तात्पर्यम् । तत्र यमालये ॥२२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तरे अवकाशे छिद्रे वा, यम् अस्य क्षयं निवासम् एव, न तु नरकम् । तत्र यमक्षय एव, न त्व् अन्यत्रेति आदरेण साक्षात्-प्रश्नः सूचितः । हे देवानां यमादीनाम् अपि देव पूज्य ! यतो हे जगत्-पते ! जगत्-पालनार्थं त्वयैव धर्माधिकारे नियुक्तस्य तस्य तद् उचितम् एवेति । किं वा, त्वत्कृतनिबन्धस्तेषाम् अप्यलङ्घ्य इति भावः । अयं प्रश्ने हेतुः ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तरे छिद्रे परिमितायुषः समाप्तेर् मरणावकाशे सति यम् अस्य क्षयं पतत्यग्रे वक्ष्यमाणात्-पुण्यात्मानस् तस्य गम्यं दक्षिणस्यां मानस्योपरिस्थं निवासम् एव न-तु भूमिष्ठं तत्र यमक्षय एव नत्वन्यत्रेति आदरेण साक्षात् प्रश्नः सूचितः हे देवानां त्रयादीनाम् अपि देव पूज्य यतो हे जगत्-पते जग-पालनार्थं त्वयैव धर्माधिकारे नियुक्तस्य तस्य तद् उचितम् एवेति किम्वा, त्वत्-कृत-निबन्धस् तेषाम् अप्य् अलङ्घ्य इति भावः । अयं प्रश्ने हेतुः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मरणानन्तरम् इति शेषः यमक्षयं संयमनीम् ॥२२॥


॥ १०.६४.२३ ॥

पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् ।
नान्तं दानस्य धर्म् अस्य पश्ये लोकस्य भास्वतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उताहो इत्य् एकं पदम् । अथवा पूर्वं शुभम् इति । नान्तम् इति यम् अस्य स्वस्य वा वाक्यम् । पश्ये पश्यामि ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यमो माम् इत्थम् अपृच्छद् इत्य् आह—पूर्वम् इति । भुङ्क्षे भोक्ष्यसे । वर्तमान-सामीप्ये लट् । भुजो\ऽनवने इत्य् आत्मनेपदम् । उताहो परिप्रश्न विचारयोः इति मेदिनी । दानस्य दान-रूपस्य । यद् वा, मत्वर्थीयो\ऽत्र बोध्यस् तेन प्रकृष्ट-दानवतो धर्मस्येत्य् अर्थः ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अशुभं पापं तद्-विप्र-गो-हरणजम् । किं वा, दुःखं तत्-पापजं भुङ्क्ष भोक्ष्य से । भुङ्क्षवेति पाठे पाठान्तरे\ऽपि स एवार्थः । धर्म् अस्य यज्ञादेः, दानस्य धर्मान्तर्गतत्वे\ऽपि पृथग् उक्तिस् तद् अतिशयापेक्षया । यद् वा, दान-लक्षणस्य धर्म् अस्य अन्य-विविध-धर्म-सद्भावे\ऽपि तस्यैवोक्तिस् तथैव, लोकस्य धर्माज् जितस्य स्वर्गादेः, कथम्-भूतस्य ? भास्वतो\ऽनन्ताद्भुत-सुख-वैभवादिना राजमानस्येत्य् अर्थः । एवं श्री-ध्रुव-पदादिवद् ऊर्ध्व-लोकेष्व् एव तस्य वैशिष्ट्यम् उक्तम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अशुभं पापं तद् विप्र-गोहरणजं भुङ्क्ष्व भोक्ष्यसे धर्म् अस्य यज्ञादेः साधनानन्त्यात् साध्यस्य लोकस्य स्वर्गादेर् अपि भास्वतः अद्भत-सुख-वैभवादिना राजमानस्येत्य् अर्थः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अशुभम् अजानता यद् विप्रस्य गौरपहता तज्-जन्यपाप-फलम् उताहो किं वा शुभं पुण्य-फलं तव दानस्य अन्तं न पश्यामि तत्-फलस्य भास्वतो लोकस्य स्वर्गस्यापि अन्तं न पश्यामि ॥२३॥


॥ १०.६४.२४ ॥

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः ।
तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे देव यम, पूर्वम् अशुभं भुञ्ज इति मयोक्ते स यमः पतेति प्राह ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावत्-साकल्येन । कृकलासं सरटम् । वाल्मीकीये तु ताभ्यां विप्राभ्यां त्वं कृकलासो भवेति शाप एव राज्ञे दत्तस्स च विरोधः कल्पान्तर-व्यवस्थयानुसन्धेय इति तोषणीकाराः ॥२४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वम् इति अशुभोदर्कतायाः परमाशोभनत्वात्, प्रकर्षेणाभिनयादिन् आह—तावत् तत्-क्षण एव पतन् सन् प्रभो हे सर्व-कर्मेश्वरेति त्वया दीयमानं कर्म-फलम् अवश्यम् एव भोग्यम् इति । किं वा, तच् च त्वद् इच्छैवेति भावः । कृकलासम् इति तादृश-पापस्य तादृक् फलत्वात् । श्री-रामायणादौ च ताभ्यां विप्राभ्यां तथैव शयनात् तत्रोक्तञ्चैतद् विरुद्धं कल्पभेद-व्यवस्थया परिहार्यम् एव ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वम् इति अशुभोद् अर्कतायाः परमाशोभनत्वात् प्रकर्षेण अभिनयादिन् आह तावत् तत्-क्षण एव पतन् सन् प्रभो हे सर्व-कर्मेश्वरेति त्वया दीयमानं कर्म फलम् अवश्यम् एव भोग्यम् इति किं वा तच् च त्वद् इच्छयैवेति भावः । कृकलासम् इति तादृश-पापस्य तादृश-फलत्वात् श्री-रामायणादौ च ताभ्यां विप्राभ्यां तथैव शपनात् तत्रोक्तञ् च तद् विरुद्धं कल्प-भेद-व्यवस्थया परिहार्यम् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे देव यम ! पूर्वम् अहम् अशुभं भुञ्जे इति मयोक्ते स यमः पतेति प्राह ॥२४॥


॥ १०.६४.२५ ॥

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मृत्य् अनाशे हेतुः—तव दासस्येति । न हि नारदादिवद्-भगवद्-भक्तानां जन्मान्तरीय-स्मृति-नाशो भवतीति भावः । दास्यत्वे च हेतु-त्रयं ब्रह्मण्यस्येत्य् आदि । ब्राह्मण-सेवा च वदान्यानाम् एव तया च भगवद्-दर्शनेच्छोत्पद्यते। तया तद्-दास्यं जायत इति स्मृतिर् ममेति शेषः । अद्य कृकला-सदेहे तथा महाभिमानिदेव-देहे\ऽपि न ध्वस्ता भ्रष्टा तत्र हेतवः—ब्रह्मण्यस्येत्य् आदयः । ब्रह्मण्यस्य ब्राह्मण-भक्तस्य, तत्रापि वदान्यस्य यथेष्ट-दानेन तांस् तोषयतः, तत्रापि दासस्य कर्म-साद्-गुण्यार्थं तत्-तत्-कर्म समर्पणेन त्वदीयं दास्य-भक्ति प्राप्तस्य ततो भवन्महिम् अज्ञानेन भवतः सन्दर्शनार्थिनः । दास्ये हेतुः—हे केशव

को ब्रह्मेति समाख्यात1 ईशो\ऽहं सर्व-देहिनाम् । > अवान्तरांश-सम्भूतौ2 तस्मात् केशव-नामवान् ॥ [ह।वं। > ३.८८.४८]

इति हरिवंशोक्त-वैभव एवं-भूतं त्वां त्यक्त्वा कस्मायन्य् अस्मै सत्कर्म समर्पय इति भावः । सन्दर्भस्तु ब्रह्मण्यस्य वदान्यस्य च तव यो\ऽहं दासः ब्रह्मण्य-वदान्यत्वांशेन त्वद् अनुगस्येत्य् अर्थः । न तु त्वत्-सेवैक-पुरुषार्थिन इति । भवत्-सन्दर्शनार्थिन इति—भवतः परम-ब्रह्मण्यत्वं वदान्यत्वं च श्रुत्वा दर्शन-कौतुकिन इत्य् एवार्थः । न तु तद् अर्थानुरागिण इति । तस्मिन्न् अपि तद्-गुण-द्वयख्यापनेन तद् अंश-मात्र-व्यक्तेः गत्यन्तर-प्राप्तेश् च । अत एव साधक-दशायामप्य् अम्बरीषादिवत्-सेवादिवत्-सेवादि-लक्षण-साक्षाद्-भक्तिनादतेति विघ्नो जातो न तु तद्वद्-दुर्वाससा क्रोधे विघ्न इति गम्यते । भगवद्-दर्शनादिकं तु यथा-कथञ्चिद् अभिलाष-गुणाद् इति ज्ञेयम् । विश्वनाथस्तु नृगरय भक्ति-मिश्र-कर्मित्वाद् गुणा भूता या भक्तिस्तयैव भगवद् अग्रे दासस्येति विनय-व्यञ्जिकोक्तिः । भवत्-सन्दर्शनार्थिन इति कदाचिद् अतिसुन्दर-श्री-विग्रह-मन्दिरादि-श्री-गीता-श्री-भागवतादि-शास्त्र-प्राप्त्य् उत्कण्ठस्य महा-भागवतस्यापेक्षणीयं नृगेण यद्वोदारत्वात्-सम्पादितं ततश् च तेन सन्तुष्यता भोराजंस् तव भगवद्-दर्शनं भूयाद् इत्य् आशीर् यदा दत्ता तदैव नृगस्य भगवद्-दिदृक्षाभूद् इति गम्यते ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्मृतिर् ममेति शेषः । साक्षात् तथानुक्तिर् विनयादिना । इयं कृकलास-देहे तथा महाभिमानि-देव-देहेऽपि तद्-विरोधिन्य् अपि न ध्वस्ता न भ्रष्टा । तत्र हेतवः—ब्रह्मस्येत्य्-आदयः । दासत्वाद् एव भवतो भवतां वा, श्री-प्रद्युम्नाद्य्-अपेक्षया सन्दर्शनं साक्षाद्-दर्शनं तद्-अर्थिनस् तद्-एकापेक्षकस्येत्य् अर्थः । दास्ये हेतुः—केशव ! हे साक्षात् परमेश्वर ! तथा च श्री-हरि-वंशे—

को ब्रह्मेति समाख्यात् अईशोऽहं सर्व-देहिनाम् । > आवां तवाङ्ग-सम्भूतौ तस्मात् केशव-नामवान् ॥ [ह।वं। ३.८८.४८] > इति ।

किं वा, केशि-मथनेति । अनेन श्री-वृन्दावन-क्रीडायाः प्रान्त-सूचनेन सा सर्वैव संगृहीता, तया चाशेष-भगवत्ता-प्रकटनम् एवाभिप्रेतम् । इति तस्य पूर्वं श्री-जगन्नाथ-दर्शन-प्रभावाद् एव श्री-द्वारकेश्वरोपासनं जातम् इति ज्ञेयम् । जगन्नाथत्वेन स्तोष्यमानत्वात् तद्-दर्शनं सम्भाव्यम् । अत एव द्वारकोपकण्ठ-कूपे पतनम् । एव्ग् श्री-भगवद्-दास्येनैव तत्रापि तद्-दर्शनैकाकाङ्क्षया तस्य तज्-ज्ञानादिकम् अपि लोक-शिक्षार्थ-प्रवृत्त्या विप्र-स्व-हरण-दोष-प्रदर्शनार्थं हरिणत्वादि-स्वीकारवत् । एतच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्मृतिर् ममेति शेषः । साक्षात्-तथानुक्तिर् विनयादिना अद्य कृकला-सदेहे तथा महाभिमानि-देव-देहेऽपि तद्-विरोभिनि ध्वस्ता न भ्रष्टा तत्र हेतवो ब्रह्मण्यस्येत्य् आदयः प्रथमतो ब्रह्मण्यस्य ब्राह्मण-भक्तस्य तत्रापि-वदान्यस्य यथेष्ट-दानेन तान् परितोष्यतः तत्रापि तव दासस्य कर्म-साद्-गुण्यार्थं तत्-तत्-कर्म-समर्पणेन त्वदीय-दास्यक्तिं प्राप्तस्य ततो भवन् महिमज्ञानेन भवतः सन्दर्शनं तद् अर्थमः दास्ये हेतुः केशव—

को ब्रह्मेति समाख्यात ईशो\ऽहं सर्व-देहिनाम् ।

अवान्तरांश-सम्भूतौ तस्मात् केशव-नामवान् ॥ [ह।वं। ३.८८.४८]

इति तन्-नाम्ना श्री-हरिवंशोक्त-वैभव एवम्-भूतं त्यक्त्वा कस्मै वा अन्यस्मै सत्-कर्म-समर्पय इति भावः । यद् व, भृगु-साक्षितया ब्रह्मण्यः श्री-बलिसाक्षितयात्मपर्यन्तस्य वदान्यश् च यस्त्वं तस्य तव योहं दासस् तत्-तत्-कर्म-समर्पयतस् तस्य मम शेष समानम् एवम् अप्य् अस्य कृकलासत्वं सुसाध्यायाम् अपि श्रवणादि-लक्षण-साक्षाद्-भक्ताव् अप्रवृत्तस् तत्र अविश्वास-दोषेण दानादि-कर्मण्य् अपि वैफल्यापातात् सङ्कल्प-माहात्म्येन तु पश्चात्-तद्-दर्शनादिकं किं तु ते दास्य-दिदृक्षे अपि फल-विशेष-प्राप्त्य् अर्थे एव न तु निष्कामे देव-गति-फल-लाभेन कारणानुमानात् अत एव वदान्यस्येति भगवन्तं विशेष्य पर्यवसाने तु परम-गतिर् भविष्यति सत्यं दिशत्य् अर्थितम् अर्थिनो नृणाम् इत्य् आदौ तथा त्व् अप्राप्तेः दर्शनाद् एव-नश्वरं तद्-वीज-रूत्वाच्चेति ज्ञेयं पूर्णयोर् ब्रह्मण्य-वदान्यत्वयोर् अंशानुवर्त्तित्वाद्योहं दास इव दासस् तथा तत्-तद्-गुण-मात्रेण न तु त्वन् निजदासवद्-विचित्रेण गुण-वृन्देन चमत्काराद्-भवद्-दर्शनकाङ्क्षी च योहं तस्य मम तत्-तत्-त्वद्-गणांशानुभव-प्रभावान्नाद्यापि तत्-तत्-स्मृतिर् विध्वस्ताभूत् प्रत्युत तादृशत्व-दर्शनम् अपि जातम् इत्य् अर्थः । अथ तद् इदम् अनुमिमे त्वदीय-ब्रह्मण्यत्व-वदान्यत्वयोर् अंशानुकरणम् अप्य् अभिमानमयम् एव ममासीत् येनाद्यापि त्वद् अग्रेऽपि तत्-प्रकटन-धार्ट्यम् एव जातं पूर्वम् अपि न-त्व् अम्बरीषादि-विधि-शास्त्रेष्व् आदरो जातः तत एव तादृश-दान-कर्मण्य् अपि विघ्नो बभूव तथापि त्वत्-कारुण्य-प्रभावादी-दृशत्व-दर्शनम् अभूत् तादृग् अभिमानाविच्छेदाद् एव स्वर्गित्वं भजन्न् अपि त्वत्-कारुण्यात् तु सत्यं दिशत्य् अर्थितम् अर्थितो नृणाम् इति न्यायेन त्वद् अनुवर्तित्व् अपि भविष्यतीति भावः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मण्यस्य वदान्यस्य च तव योऽहं दासस् तस्येति ब्रह्मण्यत्व-वदान्यत्वांशेन भवद्-अनुगतस्येत्य् अर्थः, न तु भवतः सेवैक-पुरुषार्थिन इति । तथा भवत्-सन्दर्शनार्थिन इति भवतः परम-ब्रह्मण्यत्वं वदान्यत्वं च श्रुत्वा दर्शन-कौतुकिन इत्य् एवार्थः, न तु तद्-अर्थानुरागिण इति । स्वस्मिन्न् अपि तद्-गुण-द्वय ख्यापनेन तद्-अंश-मात्र-व्यक्तेः, गत्य्-अन्तर-प्राप्तेश् च । अत एव साधक-दशायाम् अपि श्रीमद्-अम्बरीषादिवत् सेवादि-लक्षण-साक्षाद्-भक्तिर् नादृतेति विघ्नो जातः । न तु तद्वद् दुर्वाससः मुनेः क्रोधेऽप्य् अविघ्न इति गम्यते । तथापि भगवद्-दर्शनादिकं यथा कथञ्चिद् अभिलाष-गुणाद् इति ज्ञेयम् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृगस्य भक्ति-मिश्र-कर्मित्वाद्-गुणभूतैव या भक्तिर् आसीत्तामाश्रित्यैव भगवद् अग्रे दासस्येति विनय-व्यञ्जकोक्तिर् इयं ज्ञेया भवत्-सन्दर्शनार्थिन इति कदाचित् कदाचिद् अतिसुन्दर-श्री-भगवद्-विग्रह-तन्-मन्दिरादि-श्री-गीता-श्री-भागवतादि-शास्त्र-प्राप्त्य् उत्कण्ठस्य महा-भागवतस्यापेक्षणीयं नगेण महा-दातृत्वात् सम्यक् सम्पादितं ततश् च तेन सन्तुष्यता भो राजंस् तव भगवद्-दर्शनं भूयाद् इति यदैवाशीर्दत्ता तद् आरभ्यैव नृगस्य भगवद्-दिदृक्षाभूद् इति गम्यते ॥२५॥


॥ १०.६४.२६ ॥

स त्वं कथं मम विभोऽक्षि-पथः परात्मा

योगेश्वरः श्रुति-दृशामल-हृद्-विभाव्यः ।

साक्षाद् अधोक्षज उरु-व्यसनान्ध-बुद्धेः

स्यान् मेऽनुदृश्य इह यस्य भवापवर्गः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्घटेन श्री-कृष्ण-दर्शनेन विस्मितः सन्न् आत्मनो भाग्यम् अभिनन्दति—स त्वम् इति । हे विभो, स त्वं ममाक्षि-पथो लोचन-गोचरः सन् कथं साक्षात् प्रत्यक्षोऽसीत्य् अर्थः । किम् अत्राश्चर्यम् ? तद् आह—पर आत्मा । अत एव योगेश्वरैर् अपि श्रुति-दृशा उपनिषच्-चक्षुषामले हृदि विभाव्यश् चिन्त्यः । यतोऽधोक्षजः । अक्ष-जम् ऐन्द्रियक-ज्ञानं, तद् अधोऽर्वाग् एव यस्मात् सः । यस्येह भवापवर्गो भवेत्, तस्य भवान् अनुदृश्यः स्यात् । उरु-व्यसनेन कृकलास-भव-दुःखेनान्ध-बुद्धेस् तु ममैतच् चित्रम् इत्य् अर्थः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-दर्शन-दौर्लभ्यम् आह—दुर्घटेत्य् आदिना । इत्य् अर्थ इति । साक्षाद् अव्ययस्य प्रत्यक्षार्थकत्वाद् अयम् अर्थः । प्रत्यक्षस्यानेक-विधत्वात्-साक्षाद् इत्य् उक्त्या चाक्षुष-प्रत्यक्षम् एव न लभ्यते\ऽत उत्तम—अक्षि-पथः सन्न् इति । अत्र चाक्षुष-प्रत्यक्षे । तद् आश्चर्यम् । न हि परात्मा चक्षुषा गृह्यते । दृश्यते त्वरयया बुद्धया इत्य् उक्तेः नैतत्-स्वरूपं भवतो\ऽसौ पदार्थ-भेद-ग्रहिअः पुरुषोवद् ईक्षेत इति ब्रह्मणोक्तेश् च । अत एव चक्षुर् इन्द्रियागोचरत्वाद् एव । अपि शब्दात्-किम् उत मादृशैर् इत्य् अर्थः । यतो हेतोः । अधोक्षज इन्द्रिय-जन्य-ज्ञानागोचर इत्य् अर्थः । यस्य पुंसः । भवापवर्गस् संसारान्तः । साक्षात्-पद-मत्रापि योज्यं साक्षाद् अनुदृश्य इति । इत्य् अर्थ इति-बहु-जन्म-सुकृतावाप्त-चरम-देहस्य तव दर्शनम् उचितं तानाद्य् अनधिकारि-तिर्यग्-जन्मनः कथं जातम् इति न जाने इति भावः ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स परम-दुर्लभः । किं वा, अनिर्वचनीय-माहात्म्यस् त्वम् । विभो ! हे सर्व-व्यापकेति अक्ष-पथायोग्यत्वं, तथा परात्मा परमात्मएति आत्म-साक्षात्कारस्य दुर्घटत्वं सूचितम् । किं च, मे मदीये इह अस्मिन् कूपे जन्मनि वा । एवं मे इत्य् अस्यापौनरुक्त्यं तस्याप्य् अनुदृश्य ईषद् एव दृश्यः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, हे मम विभो ! हे मद्-ईश्वर ! ननु ईश्वरो दासानां दृश्यः स्याद् एव ? तत्राह—परात्मेत्य्-आदि । योगो भक्ति-योगस् तस्मिन् । ईश्वरैः समर्थैः परम-भक्तैर् इत्य् अर्थः । श्रुति-दृशा वेदार्थ-तत्त्व-ज्ञानेन यद् अमलं हृत् तस्मिन् विशेषेण भाव्यस् तत्रापि साक्षात् स्वयं योऽधोक्षजोऽवतारीत्य् अर्थः । किं वा, शकट-भञ्जने पूतना-वधे शकटाक्षाद् अधोऽजायत इत्य् एवम् अधोक्षज-नाम्ना गोकुले प्रसिद्धः श्री-यशोदा-नन्दन इत्य् अर्थः । यस्य भवापवर्गः स्यात्, उ वितर्के, तस्यैव इह श्री-द्वारकायां दृश्यः स्याः । अन्यत् समानम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स परम-दुर्लभः किं वा अनिर्वचनीय-माहात्म्यस् त्वं विभो हे सर्व-व्यापकेति चाक्षपथ-योग्यत्वं तथा परमात्मा परमात्मेत्य् आत्म-साक्षात्काराद् अपि तत्-साक्षात्कारस्य दुर्घटत्वं सूचितं योगो भत्ति-योगः तस्मिन्न् ईश्वरैः समर्थैः परम भक्तर् इत्य् अर्थः । योजना तु तैः कृता यद् वा, कथं केन प्रकारेणाक्षपथं प्रयातोसि तं तु विचारेणापि न लभे इत्य् अर्थः । यतः पूर्वोक्त-प्रकारेणाधोक्षजो ज्ञानाविषयो यः स साक्षात् स्यात् काक्वा नैवेत्य् अर्थः । तत्रापि मे मम उरुव्यसनान्ध-बुद्धः साक्षात्-स्यात् काक्वा नतराम् इत्य् अर्थः । यतो यस्य भावापवर्ग उपस्थितोस्ति तेनैवानुदृश्यः दृष्ट-सदृशो भवसि सर्वातीतत्वादानन्त्याच् च तस्मान् मम स्वगितां प्राप्तस्य त्व् इदं दर्शनम् अतीव चित्रम् इति भावः कथं जातम् इति तं कारुण्य प्रकारं स्व-शक्ति-प्रकारं च स्वयम् एव वेत्सीति भावः ॥२६॥


जीव-गोस्वामी (भगवत्-सन्दर्भः ३४) : अथ प्रत्यग्-रूपतत्वम् अप्य् आह—स त्वम् इति । टीका च—हे विभो ! स त्वं ममाक्ष-पथः लोचन-गोचरः एतच् चित्रम् इत्य् अर्थः । किम् अत्राश्चर्यम् ? तद् आह पर आत्मा, अत एव योगेश्वरैर् अपि श्रुति-दृशा अमल-हृदि विभाव्यश् चिन्त्यः । यतोऽधोक्षजः अक्षजम् ऐन्द्रियकं ज्ञानं तद् अधः अर्वाग् एव यस्य सः । यस्य हि भवापवर्गो भवेत् तस्य भवान् अनुदृश्यः स्यात् उरु-व्यसनेन कृकलास-भव-दुःखेन अन्ध-बुद्धेस् तु मम एतच् चित्रम् इत्य् अर्थः । इत्य् एषा ।

दर्शन-कारणं तूक्तं नारायणाध्यात्मे—

नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः । > ताम् ऋते परमात्मानं कः पश्येतामृतं प्रभुम् ॥इति ।

तादृश-शक्तेर् अप्य् उल्लासे तत्-कृपैव कारणम् । तद् उक्तं श्रुतौ—

न चक्षुषा पश्यति रूपम् अस्य > यम् एवैष वृणुते तेन लभ्यस् > तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ [कठ।उ। १.२.२३]

न सन्दृशे तिष्ठति रूपम् अस्य । इत्य्-आदिकं च कुत्रचित् । एवम् एव मोक्ष-धर्मे नारायणीये नारदं प्रति श्री-श्वेतद्वीप-पतिनोक्तम्—

एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते । > इच्छन् मुहूर्तान् नश्येयम् ईशोऽहं जगतो गुरुः ॥ > माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद । > सर्व-भूत-गुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि ॥ [म।भा। > १२.३०६.४२-४३]

यथाऽन्यो रूपवान् इति हेतोर् दृश्यते तथायम् अपीत्य् एतत् त्वया न ज्ञेयम् । ततश् च स्वय रूपित्वेऽप्य् अदृश्यत्वम् उक्त्वा निज-रूपस्याप्राकृतत्वम् एव दर्शितम् । तद्-दर्शने च परम-कृपा-मय्य् अकुण्ढा ममेच्छैव कारणम् इत्य् आह ।

इच्छन्न् इति । नश्येयम् अदृश्यताम् आपद्येयम् । तत्र स्वातन्त्र्यं जगद्-विलक्षणत्वं च हेतुम् आह—ईश इत्य्-आदि । तथापि मां सर्व-भूत-गणैर् युक्तं यत् पश्यसि तद् युक्तत्वेन यत् प्रत्येषि एषा माया मयैव सृष्टा मम माययैव तथा भानम् इत्य् अर्थः । तस्मिन् नैवम् इत्य्-आदि । मयात्र प्रतारण-शक्तिः । तथा हि तत्रैव श्री-भाष्य-वचनम् ।

प्रीतस् ततोऽस्य भगवान् देव-देवः सनातनः ।

साक्षात् तं दर्शयामास दृश्यो नान्येन केनचिद् ॥इति । [म।भा। १२.३२३.११]

तम् उपरिचरं वसुं प्रति स्वात्मानम् इति शेषः । तद्-अग्रे च वस्व्-आदि-वाक्यम् ।

न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते ।

यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥ [म।भा। १२.३२३.१८] इति ।

तद् एवं श्रुताव् अप्य् अदृश्यत्वादयो धर्माः श्री-विग्रहस्यैवोक्ताः । श्रुत्यन्तरं च न चक्षुषा पश्यति रूपम् अस्य । इति ॥२६॥ (भगवत्-सन्दर्भः ३४)


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मृतिर् ममेति शेषः साक्षात्-तथानुक्तिर् विनयादिना अद्य कृकला-सदेहे तथा महाभिमानी देव-देहेऽपि तद्-विरोधिनि न ध्वस्ता न नष्टा दुर्घटेन श्री-कृष्ण-दर्शनेन विस्मितः सन्न् आत्मनो भाग्यम् अभिनन्दति स एव त्वं मम स-कथम् अक्षपथो\ऽभूर्यः खलु योगेश्वरैः सनकाद्यैर् अपि श्रुति-दृष्ट्या निर्मले हृदि विभाव्यो ध्येय एव तत्रापि त्वं साक्षाद् अधोक्षजः शकटासुर-भञ्जनः स्वयं भगवान् एव तत्रापि उरु-व्यसनान्ध-बुद्धेर् मद्-विधस्याधमस्यापि किञ् च यस्य जनस्य भवापवर्गः संसारनाशो भवेत् तस्यापि मे मम किं भवान् दृश्यः स्यात् अपि तु न स्याद् एव किं तु महा-भागवतस्य कस्यचिद् आशीर्वादाद् एव स्याद् इति भावः ॥ २६॥


॥ १०.६४.२७ ॥

देव-देव जगन्-नाथ गोविन्द पुरुषोत्तम ।
नारायण हृषीकेश पुण्य-श्लोकाच्युताव्यय ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्रिक्त-भक्तिर् बहुधा सम्बोधयन्न् आह—देव-देव इति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दशभिः सम्बुद्धिभिर् भगवतः परम-वैभवं द्योतयन्न् अनुज्ञापयत्य् अनुज्ञां प्रार्थयति तद्-दर्शन-शुद्ध-चेताः स्वस्य श्रवण-कीर्तनादि-शुद्ध-भक्त्य् अभावे\ऽपि तद्-दर्शने तस्य कारुण्यं प्रशस्यानुज्ञां ग्रहीष्यन् बहुधा सम्बोध्य प्रार्थयते युग्मेन । प्रथम-देवेति देव-गति-गमनानुज्ञायां तद्-गति प्राप्तस्यापि तस्यैव परमाश्रयत्वेन, द्वितीय-देवेति अधुना त्वम् अपि देवो जात किम् अर्थं मां प्रार्थयसे तत्राह—हे देवानां ब्रह्मादीनाम् अपि त्वं देवो\ऽसि मम तु का वार्तेति ।

ननु, यद्य् अहं ब्रह्मादीनाम् अपि देवस् तर्हि क्षुद्रस् त्वमौ-दृश-प्रार्थन-धाष्टर्थेन कथं न सङ्कूचसि तत्राह—हे जगत्पते, जगन्मध्यपातित्वेन प्रार्थनार्होऽस्मीति भावः । ननु, सत्यादि-लोकस्था ब्रह्मादय एव महान्तो\ऽहं मर्त्य-लोकस्यो न तादृशो\ऽतस्तान् एव प्रार्थयस्व तत्राह—हे गोविन्द, कृपया गां भवं विन्दतीति तथाभुत मादृङ्-मूढ-पालनायैव भुवम् आगतो\ऽसीति भावः । किं च, हे पुरुषोत्तम दीनदयालो तेन त्वादृश-कृपालव इति त्वं स्वभावत एव सर्व-जीवाश्रयो\ऽसीत्याह—नारायणेति । नारं नर-समूहस् तस्यायनाश्रयीभूतेत्य् अर्थः । एतादृश-प्रार्थना-प्रवर्तको\ऽपि त्वम् एवेत्य् आह—हे हृषीकेश सर्वेन्द्रिय-प्रवर्तक । त्वम् एव पावकत्वात्-प्रार्थनायोग्य इत्य् आह—हे पुण्य-श्लोक नामोच्चारणादिना पावक मादृश-दीन-पालने च्युतिर् अहितत्वाद् अपि त्वम् एव प्रार्थयितुं योग्य इत्य् आह—हे अच्युत ।

किं च, अनन्त-भक्ताभीष्टदानैर् अपि न क्षीयते इत्य् आह—हे अव्ययेति । अत्र विश्वनाथः—देवानां देवो\ऽपि त्वं जगताम् अपि नाथत्वान् मन्-नाथो भव ।

गोविन्देति कृपा-दृष्ट्या मां विन्दस्व । अत्र हेतुः—पुरुषेषु विष्ण्वादिषूत्तमः । नारा जीवा अयनम् अधिष्ठानं यस्येति मां दुर्जीवम् अप्य् अधितिष्ठ । हृषीकेश मन्दिद्रियाण्य् आत्मसात्-कुरु । पुण्य-श्लोक तवैषानृग-मोचनी कीति रभूद् एव । अच्युत मद् अन्तःकरणाद् विच्युतो मा भव । अव्ययेति अत्र न ते को\ऽप्य् अपचय इति ध्वनयः ॥२७॥


कैवल्य-दीपिका : देवदेव इत्य्-आदि सम्बोधनानि ॥२७॥ [मु।फ। १३.४०]


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुज्ञां ग्रहीष्यन् सङ्कीर्तन-प्रियत्वेनादौ श्री-भगवतो नाम-सङ्कीर्तनेन सम्बोधयन् स्तौति—देवेति । देवानां जगत्पूज्यानां श्री-ब्रह्मादीनाम् अपि देव ! यतो जगन्नाथ श्री-नीलाद्रिपते ! तत्र प्राक् स्वयं श्री-ब्रह्मणा अधुनापि देवैस् तत्-पूजनात्, अतो गोविन्द ! पृथ्व्यां दारु-ब्रह्म-रूपेणावतीर्ण ! साक्षाद्-भगवन् ! अत एव पुरुषोत्तम ! पुरुषोत्तमाख्ये स्वक्षेत्रे तत्-सञ्ज्ञया प्रसिद्ध ! अतो नारायण ! देव-दुर्लभ-निजोच्छिष्ट-महा-प्रसाद-वर्ग-प्रदानादिना सर्व-जीवाश्रय ! न केवलं मद्-रूपेण बहिर् एवासि, किन्त्वन्तश् चेति सेवकानां सर्व-शक्ति-सम्पादकत्वम् आह—हृषीकेश ! निज-सेवादी सर्वेषां सर्वेन्द्रिय-प्रवर्तक ! यद् वा, तत्रापि भक्त-वात्सल्यभरम् आह—हृषीकेश ! स्व-भक्त-वाक्-सत्यतार्थम् एकदा दीर्घ-केशाविर्भावनात् तदाख्यानं तत्रता-नृपतेर् बाल-भोग-प्रदानात् प्रसिद्धम् एव, अतः पुण्या उत्कृष्टाः श्लोकास् तत्-तन्-माहात्म्य-निबन्धनानि कवीनां पद्यानि यस्मिंस् तथा-भूत उत्कृष्ट-भक्त-वात्सल्यादि-यश इति वा । कुतः ? अच्युत अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य्-आदि स्व-वाग् अर्थाच्युति-रहित ! किं वा, सदा नीलाचल-निवासिन् ! किञ् च अव्यय ! निरन्तरं तत्-तन्-महा-प्रसाद प्रदानेनापि न व्ययो धनादि-त्रुटिः । किं वा, अकाले\ऽपि भोगादि—ह्रासो यस्य तथा तथा-भुत ! साक्षान्-महा-लक्ष्म्या सेव्यमानत्वात्, अथवा देव-देवेति परमेश्वरत्वम् उक्तम् । तद् एव दर्शयति—जगतां कार्य—कारणानां सर्वेषां नाथेति, तत्रापि गोविन्द ! निजाशेष-भगवत्ता-प्रकटनार्थं प्राप्त-गोकुलेन्द्रत्व ! अत एव पुरुषोत्तम ! क्षराक्षरातीत ! तथा च श्री-गीतासु—

यस्मात् क्षरम् अतीतो\ऽहम् अक्षराद् अपि चोत्तमः । > अतो\ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति,

यद् वा, पुरुषेषु श्री-ब्रह्मादिषु त्रिषूत्तम ! यतो नारायण साक्षाद् अवतारि-परमेश्वर ! किं च, हृषीकेश ! स्वभक्तौ सर्वेषां सर्वेन्द्रिय-प्रवर्तक ! तच् च यथा-यथम् ऊह्यम् । अतः पुण्य-श्लोक ! सर्वोत्कृष्ट-यश कारुण्यादि-निजाशेष-गुण-प्रकटनात्, यतो\ऽच्युत सर्वथा परिपूर्ण ! किं वा, अत एव सकृद् एव प्रपन्नो यः [रामायण-युद्ध-काण्डे १८३३] इत्य्-आद्य्-उक्त-स्वप्रतिज्ञातो विच्युति-रहित ! अत एवाव्यय अपरिच्छिन्न-माहात्म्य ! यद् वा, आत्म-दानेनापि न व्येतीत्यव्यय ! अथवा अनुज्ञाप्रार्थने\ऽपि दैन्येन स्वस्य योग्यतां मन्यमानः श्री-भगवन् माहात्म्येन तां सम्भावयंस् तद्-वर्णयति—देवेति । जगन्नाथेति देव-देवो\ऽपि नीचानामप्य् अस्माकं प्रभुस् त्वम् एवासि, जगद् अन्तर्गतत्वेन मादृशाम् अपि त्वद् एकनाथत्वाद् इति भावः । तत्रापि गोविन्द ! गो-पालनादिना महा-कारुण्यादि निजाशेष-गुण-प्रकटनाद् इत्य् अर्थः । अत एव पुरुषोत्तम ! वैदग्ध्याद्य् अशेष-महा-पुरुष-लक्षणसेवित ! किं च, नारायण ! सर्व-जीवैकशरण ! स्थावरादिनाम् अप्य् उद्धारात् । किं च, हृषीकेश परमसुन्दरेत्य् अर्थः । न च केवलम् आकृत्या सुन्दरः प्रकृत्या चेत्य् आह—पुण्य-श्लोक ! तत्-तद्-बाल्य-लीलादिना जगत्-पुण्य जनक-यशो-विस्तारणात्, अच्युत ! बाल्य-क्रीडादाव् अपि निजैश्वर्याच्युति रहित ! अन्यत् समानम् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-दर्शन-प्रभावेन जात-शुद्ध-भक्ति-श्रद्धाः स्वस्य प्राचीन-श्रवण-कीर्तनादि-शुद्ध-भक्त्य् अभावेऽपि तद्-दर्शनं जातम् इति तस्य कारुण्यं प्रशस्यानुज्ञां ग्रहीष्यन् नामकीर्तन-प्रियतमत्वेनादौ तैर् एव स्तुत्या तं सम्बोधयन् प्रार्थयते-देव-देवेति युग्मकेन । तत्र प्रथमं देव गति-गमनानुज्ञायां तथा तद्-गतिं गतस्यापि परमाश्रयत्वे च तत्रैव योग्यतां दर्शयति-देव-देवेति । नन्वहं देवानां ब्रह्मादीनाम् अपि देव इत्य् अतिक्षुद्रस्त्वम् ईदृश-प्रार्थन-धार्ष्ट्येन कथं न सङ्कुच-सीत्य् आशङ्कय् आह—हे जगन् नाथेति । एवं जगन् मध्यपातित्वेऽपि प्रार्थनार्होस्मीति भावः । नन्वासतान्तावद्-ब्रह्मादयः जगति सत्य-लोकादि-गता एव महान्तः स्वं मत्र्य-लोक-गतः कियान् इत्य् आशङ्कय् आह—हे गोविन्द ! कृपया गां पृथिवीं विन्दतीति तथा-भूत ततः सम्प्रति तेभ्योऽपि वयं त्वत्-कृपा-भाजनानीति भावः । नन्वत्रापि महान्तः सन्ति तत्राह—हे पुरुषोत्तम इति । भवद् उचितां दीनदयालुताम् इवालम्ब्ये-दृशं प्रार्थये न तु स्वगुणम् इति भावः । किञ् च हे नारायण स्वभावत एव सर्व-जीवाश्रय हे हृषीकेश एतादृश-प्रार्थनादीनाम् अपि प्रवर्तक ! हे पुण्य-श्लोक एतादृश-कृपा-कीर्ति-सुधाकर ! हे अच्युत एतादृश-शरणागत-दीन-जन-पालनकृते च्युतिर् अहित ! हे अव्यय अनन्त-भक्ताभीष्ट-दान-नैरन्तर्ये\ऽपि सर्वदा परिपूर्ण इति युक्तम् इदं प्रार्थनम् इति भावः ।

ननु, यादव-विशेषोहं नाहं भवद् अभिप्रेतो भगवान् इत्य् आक्षेपान्तरम् आशङ्कय् आह—हे कृष्ण ! स्वयं भगवान् कृष्णस्तु भगवान् स्वम् इति प्रसिद्धेः अत एव हे विभो सर्वतः परिपूर्णेति ॥२७-२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहसोत्पन्नया श्रद्धया भगवत्-कृपया लब्ध-दास्यो नामान्येवानु-कीर्तयन्न् अनुज्ञां प्रार्थयते—देव-देव इति । देवानां देवोऽपि त्वं जगताम् अपि नाथत्वान् मन्-नाथो भव । गोविन्द गवां कृपा-दृष्ट्या मां विन्दस्व । अत्र हेतुः पुरुषेषु विष्ण्व्-आदिष्व् अप्य् उत्तमः नारायण नारा जीवा अयनम् अधिष्ठानां यस्येति मां दुर्जीवम् अप्य् अधितिष्ठ हृषीकेश मद्-इन्द्रियाण्य् आत्म-सात्कुरु पुण्य-श्लोक तवैषा नृग-मोचनी कीर्तिर् अभूद् एव अच्युत मद्-अन्तःकरणाद् विच्युतो मा भव अव्यय अत्र न ते को\ऽप्य् अपचय इति ध्वनयः त्वत्-पदम् एव आस्पदं विषयो यस्य तथा-भूतं मच्-चेतो भूयात् ॥२७-२८॥


॥ १०.६४.२८ ॥

अनुजानीहि मां कृष्ण यान्तं देव-गतिं प्रभो ।
यत्र क्वापि सतश् चेतो भूयान् मे त्वत्-पदास्पदम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुज्ञापयति, अनुजानीहीति । देव-लोकेऽपि सतो वर्तमानस्यात्मनो मनसः सन्निधिं प्रार्थयते । यत्र क्वापीति । त्वत्-पदम् आस्पदं विषयो यस्य तथाभूतं भूयाद् इति ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सतः स्थितस्य । यत्र क्वापि यस्मिन्-कस्मिन् योनौ स्थाने वा त्वत्-पदम् एवास्पदं विषयो यस्य तथा-भूतं मच्चेतो भूयाद् इति ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण साक्षाद्-भगवन् ! अत एव विभो ! सर्व-प्रेरक ! अतस् त्वद् इच्छयैव देव-गति देवत्वं स्वर्ग वा, किं वा देवस्य तव गति स्थानं श्री-वैकुण्ठ-लोकं क्रमेण यान्तम्, तत्र च ममापेक्षा नास्ति, किं तु तद्-भक्तावेवेत्य् आहयोति । यद् वा, तव पदं श्री-द्वारका-मथुरादि-स्थानं तदास्पदम् ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.२९ ॥

नमस् ते सर्व-भावाय ब्रह्मणेऽनन्त-शक्तये ।
कृष्णाय वासुदेवाय योगानां पतये नमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यास्यन् नमस्यति—नम इति । सर्व-भावाय सर्वस्य भावो जन्म येन तस्मै । ब्रह्मणे कर्तृत्वेऽप्य् अविकाराय । कुतः ? अनन्त-शक्तये, अनन्ता मायाख्या शक्तिर् यस्य तस्मै । वासुदेवाय सर्व-भूताश्रयायेत्य् उपादानत्वम् उक्तम् । श्री-कृष्णाय सदानन्द-रूपायेति पुरुषार्थत्वम् उक्तम्—

कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः । > तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति स्मृतेः ।

किं च योगानाम् इष्टापूर्तादि-कर्मणां पतये फल-दात्रे । अयं भावः, एवं-भूतं त्वां विहाय गन्तुम् अनिच्छुर् अपि गमिष्यामि त्वद्-दत्त-दर्म-फल-भोगायेति ॥२९-३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्मतेर् इति-पदम् अत्र श्रति-परं, गोपाल-तापनीयोपनिषद्यस्य पाठाच्छ्रुतिर् एवेयम् । क्वचिच्-छ्रुति-स्मृत्योरेक-रूपत्वेनैव । यथा गोत्रं नो वर्धताम् अयं श्लोकः श्रुतित्वेन स्मृतित्वेन च पठ्यते तथायम् अपीति । न केवलं सच्-चिद्-आनन्द-रूप एव त्वम् अपि तु कर्म-फल-दातापीत्य् आह-किं चेति । स्वाशयं प्रकाशयति—अयं भाव इति । एवं-भूतं सर्व-कर्म-फल-दातारम् अनन्त-शक्तित्वादि-रूपम् । सर्वेषां भावश्चेष्टा यस्मात्-तस्मै । कुतः—ब्रह्मणे बाह्याभ्यन्तर-व्यापकाय


ननु, जीवाः स्वयम् एव प्रत्यलं चेष्टन्ते, नेत्य् आह—अनन्त-शक्तये ता शक्त्यैव तेषां तत्-तच्-छक्तिर् न स्वतः । कूलः—वासुदेवाय सर्व-चित्ताधिष्ठात्रे । अत एव योगानां कर्म-ज्ञानादि-लक्षणानां पतये प्रवर्तकाय एवम्-भूताय तुभ्यं कृष्णाय नमोनमः । भक्त्य् उद्रेकेण द्विरुक्तिः ।

यद् वा,-सर्वेषां ब्रह्मादीनां स्थावरान्तानां भावायोत्पादकाय । स्व-रूपतः सर्व-बृहत्तमाय । स्वरूप-शक्ति-माया-शक्ति-वृत्तिभेदेनानन्त-शक्तये । एवम् अपि कृष्णाय नराकृति-परब्रह्मणे तत्रापि वसुदेवाज्-जन्म-लीलयैव प्रकटी-भूताय योगानां दुर्घट-घटना-शक्तीनां पतये नमोनमो नति-मात्रम् एव मुहुरस्तु तन्-निकटस्थातुम् अयोग्यत्वाद् अलं सेवाद्य् अभिलाषेणेति भावः । अत्र विश्वनाथस् तु मम त्वयि दास्य-भाव एवास्तु त्वं तु सर्व-भाव-विषयीभूत एवासोत्य् आह—सर्वे भावा यस्मिंस् तस्मै । तत्र शान्त-भावस्य विषयालम्बनम् आह—ब्रह्मणे मूर्त-ब्रह्म-स्वरूपाय । दास्य-भावस्य् आह—अनन्त-शत्तये महा-महैश्वर्याय । सख्य भावस्य् आह—कृष्णस्यार्जुनस्य नाम-रूप-गुणादिभिः साम्याद् एव सदानन्ददात्रे । वात्सल्यस्य् आह—वसुदेवस्य पुत्राय । उज्ज्वल-भावस्य् आह—योगानां भक्ति-योगमयीनां श्री-रुक्मिण्यादीनां पतये भत्रे ॥२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्ह्य् अत्रैव तिष्ठेति चेत्-तत्राह—नम इति । तैर् व्याख्यातम् । यद् वा, अन्तस् त्वत्-प्रेरणया यामि, तत्र मच्-छक्त्या किं स्याद् इत्य् आशयेन तस्य सर्व-प्रेरकता प्रदर्शयन्न् ऐश्वर्यं वर्णयति—सर्वेषां भावश् चेष्टा यस्मात्-तस्मै । कुतः ? ब्रह्मणे बहिरन्तश् च सर्व-व्यापकाय ! ननु, जीवाः प्रत्यक्षं स्वयम् एव बहुधा चेष्टन्ते, नेत्य् आह—अनन्तेति । तव शक्त्यैव तेषां तच्-छक्ति स्वत इत्य् अर्थः ? कुतः ? वासुदेवाय सर्व-चित्ताधिष्ठात्रे, अत एव योगानां कर्म-ज्ञानादि लक्षणानां पत्ये प्रवर्तकाय । एवं कृष्णाय साक्षात् परब्रह्मणे तुभ्यं नमो नमः, भक्त्य् उद्रेकेण द्विरुक्तिः । अथवा सर्वेषां श्री-ब्रह्मादि-स्थावरान्तानां भावाय निज-पादाब्ज-प्रेमार्थ वासुदेवाय वसुदेव-गृहे\ऽवतीर्णाय, अत एव ब्रह्मणे भाव-विस्तारणेन सर्व-व्यापकाय, यतो\ऽनन्ताः शत्तयो यस्य तस्मै, अत एव योगानां भावोपायानाम् । किं वा, बहुत्वं गौरवात्, भक्ति-योगस्य पत्ये पालकाय, एवं कृष्णाय गुह्य-निजैश्वर्य-प्रकटनपराय ते नमो नमः । अतो\ऽस्मिन्न् अवसरे तत्राप्य् अस्मिन् स्थाने स्थातं नार्हामि, तथा तल्-लीला-हेत्वाद्य-वितर्कणेन मुह्येयं चेति भावः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तर्ह्यैव तिष्ठेति चेत् तत्राह—नम इति । तैर् व्याख्यातं यद् वा, अतस् त्वत्-प्रेरणया यामि तत्र मच्-छक्त्या किं स्याद् इत्य् आशयेन तस्य सर्व-प्रेरकतां प्रदर्शयन्न् ऐश्वर्यं वर्णयति—सर्वेषां भावश् चेष्टा यस्मात् तस्मै कुतः ब्रह्मण बहिरन्तश् च सर्व-व्यापकाय ननु, जीवाः प्रत्यक्षं स्वयम् एव बहुधा चेष्टन्ते नेत्य् आह—अनन्तेति । तव शक्त्यैव तेषां तत्-तच्-छक्तिर् न स्वत इत्य् अर्थः कुतः वासुदेवाय सर्व-चित्ताधिष्ठात्रे अत एव योगानां कर्म-ज्ञानादि-लक्षणानां पतये प्रवर्तकाय एवम् एवम्भूताय कृष्णाय तुभ्यं नमो नमः भक्त्य् उद्रेकेण द्विरुक्तिः सदा नम इत्य् अर्थः । अथवा सर्वेषां ब्रह्मादि-स्थावरान्तानां भवाय उत्पादकाय स्वरूपतः सर्व-बृहत्तमाय शक्ति तश् च स्वरूप-शक्ति-माया-शक्ति-वृत्तिभेदेनानन्त-शक्तये एवम् अपि कृष्णाय नराकृत्यैव परब्रह्मणे तत्रापि वसुदेवाज्-जन्म-लीलयैव प्रकटीभूताय यतो योगानां दुर्घट-घटना-शक्तीनां पतये नमो नमः पुनः-पुनर् नमस्कार-मात्र त्वन्निकटे स्थातुम् अयोग्यत्वादलं सेवाभिलाषेणेति भावः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम त्वयि दास्य-भाव एवास्तु त्वं तु सर्व-भाव-विषयीभूत एवासीत्य् आह—नम इति । सर्वे\ऽपि भावा यस्मिंस् तस्मै तत्र शान्त-भावस्य विषयालम्बनम् आह ब्रह्मणे मूर्त-ब्रह्म-स्वरूपाय दास्य-भावस्याह अनन्त-शक्तये महा-महैश्वर्याय सख्य-भावस्याह—कृष्णाय कृष्णस्यार्जुनस्य नाम-रूप-गुणादिभिः साम्याद् एव सदानन्ददात्र कृषिर् भू-वाचकः शब्दोणश् च निर्वृति-वाचकः इति स्मतेः । वात्सल्य-भावस्याह—वासुदेवाय वसुदेव-पुत्राय उज्ज्वल-भावस्याह योगानां भक्ति-योगमयीनां श्री-रुक्मिण्यादीनां पतये भर्ते ॥२९॥


॥ १०.६४.३० ॥

इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना ।
अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भोगान्ते मामाप्स्यसीत्य् अनुज्ञातः इत्य् उक्त-रीत्या । तं श्री-कृष्णम् । विमानाग्र्यं विमान-श्रेष्ठम् ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विमानेष्व् अग्र्यं श्रेष्ठम्, भगवदीयत्वात्, पश्यतां नृणाम्, आश्चर्येण सर्व-लोकेषु पश्यत्सु सत्सु तादृशस्यापि सद्यस् तादृश-गतेः । ननु, तथापि कञ्चित् कालं विलम्बितुं युज्यते, तत्र् आह—अनुज्ञातः श्री-भगवता प्रस्थापितः सन् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्यतां नृणाम् आश्चर्येण सर्वेषु लोकेषु पश्यत्सु ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुज्ञातः भोगान्ते मां प्राप्स्यसीत्य् आदिष्टः ॥३०-३१॥


॥ १०.६४.३१ ॥

कृष्णः परिजनं प्राह भगवान् देवकी-सुतः ।
ब्रह्मण्य-देवो धर्मात्मा राजन्यान् अनुशिक्षयन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिजनम् परीवारे समीपस्थे ज्ञातौ परिजनः स्मृतः इति निरुक्तिः ॥३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिजनं यादवादि-निज-परिवार-वर्गं प्रकर्षेण न्याय-प्रमाणादि-दर्शनेन् आह । किम् अर्थम् ? राजन्यान् सर्व-क्षत्रियान्, अनुशिक्षयन् स्वाचारेण शिक्षितान् अपि नृग दृष्टान्तेन पुनश् च शिक्षयितुम् इत्य् अर्थः, यतो धर्मात्मा धर्म-स्वरूपः । किं वा, धर्मस्यामा प्रवर्तकः, तत्रापि ब्रह्मण्येषु ब्राह्मण-भक्तेषु देवः श्रेष्ठः, तत्र हेतुः-देवकीसुत इति, अत एव भगवान् सर्वेश्वर्य-परिपूर्णः, कृष्णश् च मुनीनाम् अपि चित्ताकर्षकः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वयं भगवान् अपि निजान्तरङ्गवर्गम् अपि प्रकर्षेण ब्राह्मणापराध-दुष्फल-दर्शनेनावोचत् यतो देवकी-सुतः तैर् निज-परिकरैः सहाङ्गीकृत-तज्-जन्मादि-मनुष्य-लीलः तत्रापि ब्रह्मण्यो ब्राहण हितावतारश् चासौ देवः सर्व-श्रेष्ठश् च न केवलं तावन्मात्रो धर्म-प्रवर्तकः किं तु धर्मात्मा सर्व-धर्म-प्रवर्तकश् च ननु, ते तत्-परिजनाश्चेत्-तर्हि तेषु किं शिक्षा पिष्टपेषणेन तत्राह राजन्यान् तत्र-स्थान क्षत्रियान् ततोन्यान् अपि तद्व्याजेन शिक्षयितुम् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.३२ ॥

दुर्जरं बत ब्रह्म-स्वं भुक्तम् अग्नेर् मनाग् अपि ।
तेजीयसोऽपि किम् उत राज्ञाम् ईश्वर-मानिनाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनाग् ईषद् अपि भुक्तं सद्-अग्नेर् अग्नि-सदृशस्य तेजीयसोऽति-तेजस्विनोऽपि दुर्जरम् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मस्वं ब्राह्मण द्रव्यम् । ब्राह्मणेन स्वत्वेन स्वीकृतम् अन्यथा मरुत-नृपयज्ञावाप्तत्यक्त-ब्राह्मण-स्वर्णाहरणे युधिष्ठिरस्य स्वर्ण-स्तेयित्वेन महा-पातकित्वं स्याद् इति भावः । ब्रह्म विप्र-परात्मनोः इति कोशात् । यद् वा, अग्नेर् अपि दुर्जरम्, अग्निस्तु भुक्तो यथा-कथञ्चिज्-जीर्णो भवेदपीत्य् अर्थः । तेजीयसस् तपस्विनोपि, क्षत्रियादेः किमुत केवलम् ईश्वरमानिनां प्रभुत्वाभिमानवताम् इत्य् अर्थः ॥३२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दुर्जरं दुष्टा-जीर्णवन् महा-दुःखदम् इत्य् अर्थः ? वत विस्मये\ऽवधारणे वा, भुक्तं चौर्यादिना । ईश्वर-मानिनाम् इति तत्त्वत ऐश्वर्याभावेन तेजस्वितोक्ता, अन्यत् तैर् व्याख्यातम् । यद् वा, मनाक् स्वल्पम् अपि ब्रह्मस्वम् अग्नेः सकाशाद् अपि यस्तेजीयान् महा-तपस्वी ज्ञानी वा तस्यापि ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दुर्जरं दुष्टाजीर्णवन्-महा-दुःखदम् इत्य् अर्थः । बत विस्मये भुक्तं चौर्यादिना तेजीयसः इत्य् आर्षं तपो-योगादि-बलेन पापाद्य् अपरिभाव्यस्यापीत्य् अर्थः । ईश्वर-मानिना तद् अभिमानेन तपो-योगादि-सम्भावना-शून्यानां तु राज्ञां किमुत सुतराम् एव दुर्जरम् इत्य् अर्थः । अन्यत्-तैः यद् वा, मनाक् स्वल्पम् अपि ब्रह्मस्वम् अग्निम् अतिक्रम्यापि यस्तेजीयान् तेजस्वितमः तस्यापि ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मस्वं मनाक् ईषद् अपि चौर्यादिना भुक्तं सत् अग्नेः सकाशाद् अपि यस्तेजीयान् तपो-योगादि-युक्तस् तस्यापि दुर्जरम् ॥३२॥


॥ १०.६४.३३ ॥

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।
ब्रह्म-स्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हालाहलम् इत्य् उपलक्षणं स्थावर-जङ्गमोभय-विध-विषस्य । स्थावरं तिन्दुकादि जङ्गमं सर्प-वृश्चिकाद्य् उत्थम् । विषं नाशक विशेषेण स्यत् यन्तं करोतीति षो अन्तकर्मणि इत्य् अतः आतश्वोपसर्गे इति कः । यस्य हालाहलादेः । प्रतिक्रिया मन्त्रौषधादि-रूपः शम्भुना जर्जरितत्वान् निवृत्त्य् उपायो\ऽस्तीत्य् अर्थः । अस्य ब्रह्मस्वस्य । प्रतिविधिः प्रतिक्रिया प्रतीकारः प्रतिविधि-निवर्तक-प्रतिक्रियाः इति धरणिः । भुवीत्य् उक्तेर् भू-शब्दोपलक्षिततीर्थ-स्नानादिकञ्चास्य निवर्तकं नास्ति किं तु बहुधा ब्राह्मणार्चनोपवास-चान्द्रायणादि कथञ्चिन् निवर्तकं भवेद् इति भावः ।

यो ब्राह्मणरय सद्धनम् अभिन्नारद-मन्यते । > विषमे तद्-देवकृतं राजा वरुणो\ऽब्रवीत् ॥

इत्य् अथर्व-संहिता-चतुर्थ-काण्ड-श्रुते । न विषं विम् इत्य् आहुर् ब्रह्मस्वं हि विषं स्मृतम् इति स्मृतेश् च ॥३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्मस्वं प्रसिद्ध-विषतो विषमम् इत्य् आह—नेति द्वाभ्याम् । विषं मारकम् इत्य् अर्थः । प्रतिक्रिया मणिमन्त्रादिभिः प्रतिकारो\ऽस्ति, हि एव, ब्रह्मस्वम् एव, प्रकर्षेण न्याय-प्रदर्शनादिनोक्तम्, बुधैर् भुवि सर्वत्रापीत्य् अर्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्मस्वं विषतो\ऽपि विषमम् इत्य् उत्तरोत्तर-वाक्याधिवयेनाह—नेति द्वाभ्याम् । विषं हिंसा-लक्षण-स्वभावाव्यभिचारीत्य् अर्थः । प्रतिक्रिया मणिमन्त्रादिभिः प्रतीकारो\ऽस्ति हि एव ब्रह्मरस्व्म् एव प्रकर्षेण न्याय प्रदर्शनादिनोक्तं बुधैः भुवि सर्वत्रापीत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं दुर्जरमन्नम् इव न विषाद् अप्य् अति-तीव्रम् इत्य् आह—नेति । हालाहलं हि शम्भुर्जरयामासैव अस्य प्रतिविधिः प्रतिक्रिया ॥३३॥


॥ १०.६४.३४ ॥

हिनस्ति विषम् अत्तारं वह्निर् अद्भिः प्रशाम्यति ।
कुलं स-मूलं दहति ब्रह्म-स्वारणि-पावकः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च विषाद् अपि घोरम् इत्य् आह—हिनस्तीति । संसर्गि संसर्गेण मारकत्वाद् अग्नि-तुल्यता स्यात् तद् अपि नेत्य् आह—वह्निर् इति । अपि च समूलम् इति । वह्निर् मूलान्य् अवशेषयति, ब्रह्म-स्व-लक्षणारणिजः पाप-पावकस् तु कुलं तद् अपि समूलम् इति ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वथा-प्रतिकार्यत्वम् एवाह—किं चेति । अत्तारं केवलं संसर्गिणम् । संसर्गेण वह्नि-संसृष्ट-लोह-संसर्गो यथा मारकस् तथा नेत्य् अर्थः । ब्रह्म-स्वलक्षणारणिजता ब्राह्मण-धन-रूपारण्य् उत्थितः पापाग्निः । तद् अपि कुलम् अपि । ब्राह्मण-धन-हारिणो वंशो नश्यतीत्य् अर्थः ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्तारं तद्-भक्षकम् एव, न तु सङ्ग्यादिकम्, प्रकर्षेण शाम्यतीति ब्रह्म-स्वारण्य् अग्निस्तु प्रतीकारैर् ईषद् अपि न शाम्यतीति प्र-शब्द-ध्वनिः, समूलं पितृ-पितामहादि-सहितम् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्तारं तद्-भक्षकम् एव न सङ्ग्यादिकं प्रकर्षेण शाम्यतीति ब्रह्म-स्वारण्य् अग्निस्तु प्रतीकारैर् अपीषद् अपि न शाम्यतीति प्रशब्द-ध्वनिः कुलं पुत्र-पौत्रादिकं समूलं पितृ-पितामहादि-सहितम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृशं विषम् अपि वरं भोक्तव्यं न तु ब्रह्म-स्वम् इत्य् आह—वह्निहि मूलान्य् अवशेषयति ब्रह्म-स्वारणिपावको हि दुरुपशमत्वाद्-वह्नि-विशेषः पुरातन-तरु-कोटर-मध्यन्यस्त-वह्निर्यथा कालेनान्तः प्रवृद्धो बहुवार्षिक-जलैर् अपि न निर्वाति किं तु मृतिकान्तर्गत-मूल-पर्यन्तम् अपि तरं दहति तथा कुलं तद् अपि समूलम् ॥३४॥


॥ १०.६४.३५ ॥

ब्रह्म-स्वं दुरनुज्ञातं भुक्तं हन्ति त्रि-पूरुषम् ।
प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुरनुज्ञातं यथावद् अननुज्ञातम् । त्रि-पूरुषं कुलं स्वयं पुत्रं पौत्रं च । प्रसह्य हठात् । बलाद् राजाद्य्-आश्रयतः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुरत्र वर्जने । अनुज्ञां विना, यथावद् अमुज्ञां विना च । एतेन अयं मे बन्धु-रुपकारी मद्-धनं मया खल्वदत्तम् अपि भुक्ते चेत् भुङ्क्ताम् इत्य् एवम् अनुज्ञातम् इत्य् अर्थः । प्रीत्या दत्तं सेवादिना गृहीतं च न दोषायेति भावः । प्रीति-दानं न दोषाय इति वाल्मीक्य् उक्तरत्र प्रीति-रुप-लक्षणं सेवादेः, अन्यथा ब्राह्मण-जातेर् व्यवहार-निरोधा स्याद् इति । राजाद्य् आश्रयाद् उत्कोच-रूपेण गृहीतं पूर्वानिपतृ-वंश्यान् अपरान्-मातृवंश्यान् एकश् च भोक्तेत्य् एवम् एकविंशति-पुरुषान् । हन्तिरत्र दुर्गति-दाने\ऽस्तीति ध्येयम् औचित्यात् ॥३५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं दहति ? तद् आह—ब्रह्मस्वामति । तु वा, बलाद्वा ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं कियद्-दहति तद् आह—स्वम् इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुरनुज्ञातम् इति दुःशब्देन यथावद् अननुज्ञातम् इत्य् अर्थः । अयं मे बन्धु-रुपकारी मद्-धनं मया खल्वदत्तम् अपि भुङ्क्ते चेद्-भुक्ताम् इत्य् एवम् अनुज्ञातम् इत्य् अर्थः । त्रिपुरुषं स्वं पुत्रं पौत्रं च प्रसह्य हठात् बलात् राजाद्याश्रयतश् च ॥३५॥


॥ १०.६४.३६ ॥

राजानो राज-लक्ष्म्यान्धा नात्म-पातं विचक्षते ।
निरयं येऽभिमन्यन्ते ब्रह्म-स्वं साधु बालिशाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ये ब्रह्म-स्वम् अभिमन्यन्ते इच्छन्ति ते निरयम् एवाभिमन्यन्ते । अतो बालिशा अज्ञा आत्म-पातं न विचक्षत इति ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्म-पातं राज्य-श्रियः पतित्वा नरके स्वात्म-पतनम् ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च वक्तव्यं रक्षकाणां ब्रह्म-स्व-भोगो न दोषाय कल्पत इत्य् आह—राजान इति । राजा लक्ष्य आश्रयो येषां ते, पाठान्तरे राज-श्रिया तन्-मदेनेत्य् अर्थः । साधु सम्यग् यथा स्यात्, तथा निरयं ये\ऽभिमन्यन्ते । यद् वा, साधु-बालिशा अभ्यन्ताज्ञा इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मात् राजान इति । राजकुल्याः राज्ञां पुत्रादयो भूत्य् आदयश् च तद् उपलक्षणत्वाद् अन्ये\ऽपीत्य् अर्थः । राजलक्ष्म्येति पाठे राजश्रिया तन्-मदेनेत्य् अर्थः । साधु सम्यक् यथा स्यात्, तथा यद् वा, साधु बालिशा अतिशयेन मूर्खाः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजकुल्याः राज-कुल-प्रसूताः ये ब्रह्म-स्वम् अभिमन्यन्ते ते निरयं नरकम् एवाभिमन्यन्ते अतो बालिशा अज्ञाः आत्म-पातं न चक्षते ॥३६-३९॥


॥ १०.६४.३७ ॥

गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः ।
विप्राणां हृत-वृत्तीनां वदान्यानां कुटुम्बिनाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च गृह्णन्तीति ॥३७-३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—अपि चेति । यावतो यावत्-सङ्ख्याकान् । पांशून् रज्ःकणान् । गृह्णन्त्यार्द्रीकुर्वन्ति । वदान्यानां कुटुम्बिनाम् इति विशेषण-द्वयेन कदर्येभ्यः कुटुम्ब-हीनेभ्यो गृहीत्वा तद्-धनस्य कुटुम्बिने स्वधर्म-निष्ठाय दाने राज्ञो न दोष इति सूचितम् ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वदान्यानाम् आतिथ्यादि-पराणाम्, अतो हृत-वृत्तित्वेन तद् असिद्ध्या कुटुम्ब-भरणाशक्त्या च दुःखेन रुदतां सताम् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निरयम् एव दर्शयति—गृह्नन्तीति युग्मकेन । वदान्यानाम् आतिथ्यादि-पराणाम् अतो हृतचित्तत्वेन तद् अर्सिद्ध्या कुटुम्ब-भरणा-शक्त्या च दुःखेन रुदतां सतां गृह्णन्तीत्य् आदिकं नरक-काल-सङ्ख्या-दर्शनार्थं क्वाचित्कम् एवोक्तं रोदनाभावे\ऽपि नरक-प्राप्तेः निरङ्कुशाः स्वतन्त्राः अत एव ब्रह्मस्वापहारवन्तश् च भवन्ति तदा कुम्भीपाकेषु तद्-भेदेषु प्रत्येक तावदब्दान् व्याप्य पच्यन्ते यम-दूतैः ॥३७-३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.३८ ॥

राजानो राज-कुल्याश् च तावतोऽब्दान् निरङ्कुशाः ।
कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दायापहारिणः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज-कुल्यास् तद् अधिकार्-इपुरुषाः । दायो द्रव्यम् । कुल्यो मान्ये कुलोद्भवे इति मेदिनी । विभक्तव्ये पितृद्रव्ये दाने दायो धने\ऽपि च इति निरुक्तिः ॥३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राजकुल्या राज्ञां पुत्रादयो भृत्यादयश् च, अतो निरङ्कुशाः स्वतन्त्राः, अत एव ब्रह्मस्वापहरणशीलाः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.३९ ॥

स्व-दत्तां पर-दत्तां वा ब्रह्म-वृत्तिं हरेच् च यः ।
षष्टि-वर्ष-सहस्राणि विष्ठायां जायते कृमिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मवृत्तिं ब्राह्मण-जीविकाम् ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो विप्रजीविका हरणाच् च महती दुर्गतिर् इत्य् आह—स्वेति । किं वक्तव्यम्, स्वदत्तापहारेणेति, परदत्तां वा, जायते कृमिर् भूत्वा तिष्ठति । किं वा, तत्रैव तावत्-कालं पुनः पुनर् मृत्वा पुनः पुनर् जायत इत्य् अर्थः ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो कुम्भीपाकानन्तरञ् च महती दुर्गतिर् इत्य् आह—तत्रैव वृत्तिहरणम् अपि विशेष्य् आह—स्वेति । जायते तत्रैव तावत्-कालं पुनः पुनर् मत्वा जायत इत्य् अर्थः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६४.४० ॥

न मे ब्रह्म-धनं भूयाद् यद् गृध्वाल्पायुषो नराः ।
पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनोऽहयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : गृद्ध्वा अभिकाङ्क्ष्य ॥४०-४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्री-कृष्णो लोक-सङ्ग्रहम् आह—नम इति । उद्वेजितुं भीतं कर्तुं कम्पयितुं वा शीलं येषां ते तथा ब्राह्मणोद्वेग-कर्तारो\ऽहया सर्प-योनि लभन्त इत्य् अर्थः । मे मदर्थ मत्-सम्बन्धि वा न भवतु न मायि पर्यवस्य तु । एतेन विप्रदत्तं भगवान् न किम् अपि गृह्नातीति न शङ्कनीयम्, कथम्—छलादिना मत्-सम्बन्धि मा भवत्व् इति भगवतो\ऽभिप्रायः । तद् एवाह—यत् गृद्ध्वा बलेन छलेन याच्ञया वा इदं ग्रहीष्यामीत्य् अभिकाङ्क्ष्यापि इह जन्मन्य् अल्पायुषः जीवतो\ऽपि शत्रभिः पराजितास्सन्तो राज्याच्च्युता जन्मान्तरे सर्पा भवन्ति, येन लोकेषूद्वेजनं ददति स्वयं च लभन्त इत्य् एवं महा-दुःखभाज एव चिरं भवन्तीति भावः ॥ ४०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं वक्तव्यम्, हरणाद्-दुर्गतिर् इति, तद्-वाञ्छयापि जन्मद्वये दुःखं स्याद् इत्य् आह—नेति । मे मद् अर्थं मत्-सम्बन्धि वा न भूयान् न भवतु, न मयि पर्यवस्यतु । तत्र हेतुः—यद् इति, इह जन्मनि अल्पायुषो जीवने\ऽपि शत्रुभिः पराजिताः सन्तो राज्याच्च्युता भ्रष्टाः, अन्यस्मिश् च लोकोद्वेजनशीलाः सर्पा भवन्ति । उद्वेजितया सदा भयादिना तत्रापि दुःखं सूचितम् । किं वा, सर्प-तुल्याः, तथापि पुनः पुनर् नरकादि-दुर्मतिः सूचितैव । भक्त्या विप्रैर् अर्पितानां स्वद्रव्याणां भगवतः स्वीकार्यत्वे\ऽपि न मे भूयाद् इति वलाद्-ग्रहणाभिप्रायेण । किं वा, लोक शिक्षार्थं निज-भगवत्तानपेक्षयेति दिक् ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं वक्तव्यं ब्रह्म-स्वहरणात् दुर्गतिर् इति बल-च्छलादिना तज्-जिहीर्षयापि जन्मद्वये दुःखं स्याद् इत्य् अन्येषां-भय-दर्शनार्थ स्वयम् अप्य् अरुच्यतिशयेन भीतैवाह—नेति । मे मद् अर्थं मत्-सम्बन्धि वा न भूयात् न भवतु न मयि पर्यवस्यतु तत्र हेतु । यद् इति गृध्वा बलेन छलेन याच्ञा वा इदं गृह्णामीत्यभिकाङ्क्ष्यापि इह जन्मनि अल्पायुषः जीवने\ऽपि शत्रुभिः पराजिताः सन्तो राज्यात् च्युता भ्रष्टा अन्यस्मिश् च सर्पा भवन्ति येन लोकेषूद्वेगं ददति स्वयं च लभते इत्य्-आदि महा-दुःखभाज एव चिरं भवन्तीति भावः नपा इत्य् अत्र नरा इति पाठः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्-गृद्ध्वा अभिकाङ्क्ष्यापि किमुत हृत्वेत्य् अर्थः ॥४०॥


॥ १०.६४.४१ ॥

विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्राह्मणो यदि कृतागा भवेत्-तर्हि किं कार्यम् इति चेद् आह—विप्रम् इति । दृउह्यत द्रोहं कुरुत । मामका इत्य् अनेन विप्र-द्रोही न नामकः इत्य् उक्तम्, तत्र मदीयत्वाभिमानं त्यक्त्वा तान्न रक्षाम् ईति भावः । नन्तं ताडयन्तम् । शपन्तं गाली-प्रदानादि कुर्वतम् ॥४१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, यदि कदाचिद्-विप्र एवास्माकं धनं हरेत् कथञ्चिद्-द्विष्याद् वा, तदा हि किं कार्यम् इत्य् अपेक्षायाम् आह—विप्रम् इति । मा द्रुह्यत, विप्रं प्रति हन्तुम् इच्छाम् अपि न कुस्त, एव-शब्देन सदा सर्वथा सा निरस्ता । हे मामका इति ये मदीयास्ते एवं कुर्वन्तु, अन्यथा तु मदीया एव न स्युर् इति भावः । घ्नन्तं ताडयन्तम् अपि ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, यदि विप्र एवास्माकं धनं हरेत् कथञ्चित् द्विष्याद् वा तदा किं कार्यम् इत्य् अपेक्षायाम् आह—विप्रम् इति । मा द्रुह्यत हन्तुम् इच्छाम् अपि न कुरुत एव-शब्देन सदा सर्वथा च सा निरस्ता हे मामका इति ये मदीयास् ते न द्रुह्यं तु अन्यथा तु मदीया न स्युर्मयापि न रक्ष्या इति भावः । घ्नन्तं ताडयन्तम् अपि ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, विप्र एवास्माकं यदि धनं हरेत् विनैवापराधं द्विष्याद् वा किङ्कार्यम् इत्य् अपेक्षायाम् आह—विप्रम् इति द्वाभ्याम् । हे मामकाः ! इति ये केचन मदीया भवन्ति तान् अपि प्रत्यादिशामि न केबलं युष्मान् एवेति अन्यथा तु तेषु मया मामकत्वाभिमानस्त्यक्तव्य इति भावः ॥४१॥


॥ १०.६४.४२ ॥

यथाहं प्रणमे विप्रान् अनुकालं समाहितः ।
तथा नमत यूयं च योऽन्यथा मे स दण्ड-भाक्॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रणमे नमामि ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रणम इत्य् आत्मनेपदम् आर्षम् । अनुकाल-मुहुर् महुः । यो\ऽन्यथा मदाचरण विपरीतः । दण्ड-भाक् नरक-गामी भवति । तद् उक्तं श्री-कृष्णेन पुराणान्तरे—

विप्रोत्कर्षासहा ये च नरा लोके नराधिप । > ते मद्-द्वेष्या न सन्देहस् सर्व-धर्म-बहिष्कृताः । > तेषां भक्तिं न मन्ये\ऽहं न दानं न व्रतादिकम् । > तीर्थ-सेवां जपं ज्ञानं यद् अन्यत्-सुकृतं कृतम् ॥ > मद्-इज्या-द्वेषिणस् तान् वै प्रक्षिपामि मुहुर् मुहुः । > घोरे बहु-क्लेश-करे नरके भृश-दारुणे ॥ > न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्भुजम् । > सर्वं सहे महा-राज विनिदां विना प्रभो ॥ > जार-जातस्य विज्ञेयो यो निन्दत्य् अनपत्रपः । > ब्राह्मणं मम सर्वस्वं सर्व-देवमयं परम् ॥ > दानं व्रतं तथा स्नानं श्राद्धं विप्र-मृते वृथा । > विप्रस्य देहो राजेन्द्र सर्व-देहिषु सर्वदा ॥ > परः शुचिर् विना कर्म सुकृतं किम् उ कर्मणा ।

नैव विप्रात् परं मन्ये आत्मानम् अपरं किम् उ ॥ इति ॥४२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न चापराधादिनाप्य् अनादरेण नमस्कारः, किं तु भक्त्यैव कार्य इत्य् आह—यथेति । अनुकालं सदा समाहितः सावधानः सन् । विप्रान् इति बहुत्वेन तज्-जातीन् सर्वान् सङ्गृह्णाति, च अपि, यूयम् अपि, यो जनो\ऽन्यथा करोति, स मे दण्ड-भाग्-भवेत् । यमादि-द्वारा अमुत्र साक्षात् स्वयं चात्र तं दण्डयिज्यामीत्य् अर्थः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न चापराधादिनाप्य् अनादरेण नमस्कारः कार्यः किं तु भवत्यैवेत्य् आह—यथेति । अनुकालं सदा समाहितः सावधानः सन् विप्रान् इति बहुत्वेन तज्-जातीन् सर्वान् एव सगृह्णाति च अपि यूयम् अपि यो जनो\ऽन्यथा करोति स मे दण्ड-भाग्भवति यमादि-द्वारामुत्र साक्षात्-स्वयञ् च दण्ड्यिष्यामीति भावः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रणमे प्रणमामि ॥४२॥


॥ १०.६४.४३ ॥

ब्रह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः ।
अजानन्तम् अपि ह्य् एनं नृगं ब्राह्मण-गौर् इव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् अर्थ-वद-विभीषिकेयं, किं तु प्रत्यक्षम् इत्य् आह—ब्राह्मणार्थ इति ॥४३-४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थ-वादेन ब्राह्मणोत्कर्ष-पुरःसर-तद्-धन-हरण-निषेध-बोधक-वाक्येन विभीषिका भय-हेतुकोक्तिः । अर्थवाद-वाक्यं हि स्वार्थ-प्रतिपादन-परं न भवति, किं तु विधेय-निषेध्ययोः प्राशस्त्य-निन्दितत्वे लक्षणया प्रतिपादयन्न् अस्ति । तल्-लक्षणं च प्राशस्त्य-निन्दान्यतर-परं वाक्यम् अर्थ-वादः इति बहुधा निरूपितम् अक्रूर-स्तुताव् एतत् ।

वेदोक्ति-स्तुति-निन्दायां धनार्थ-शक्ते\ऽपि च । > शास्त्रार्थे\ऽप्य् अर्थ-वादो\ऽस्ति इति निरुक्तिः ।

अजानन्तम् इत्य् उक्तेः किम् उ जानन्तम् इति भावः ॥४३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः सर्वथा विप्रेषु भक्तिर् एव कार्या, न च कदाचित् कञ्चित् किञ्चित् एषां हर्तव्याम् इत्य् उपसंहरति-ब्राह्मणेति । अर्थो धनम्, हि यतः, अजानन्तम् अपि पातयति, किं पुनर् ज्ञात्वा हरिम् इत्य् अर्थः । हि निश्चितम्, यतस् तत्-प्रत्यक्षम् एवेत्य् आह—एनम् इति । युष्माभिः साक्षाद् अनुभूतम् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एनम् इति युष्माभिः साक्षाद् अनुभूतम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् अर्थवाद-विभीषियं किन्त्वयम् अर्थः प्रत्यक्ष एवेत्य् आह—ब्रह्मणार्थ इति ॥४३-४४॥


॥ १०.६४.४४ ॥

एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः ।
पावनः सर्व-लोकानां विवेश निज-मन्दिरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वारकौकस इत्य् उपलक्षणम् । कथन-तात्पर्यम् आह—पावन इति । पावयति शोधयति सन्मार्गोपदेशे नेति पावनः । लोकानां सन्मार्ग-प्रवृत्त्य् अर्थं भगवाञ्-छ्रावयामासेति भावा ॥ ४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं विशेषेण प्रत्यक्ष-प्रमाणत्वादिना श्रावयित्वा, यतो भगवान् ब्रह्मण्यद् एवत्वाद्य् अशेष-सद्-गुण-गण-युक्तः । किं च, मुकुन्दो-ब्रह्मस्वहरणादि-दोष-प्रदर्शनेन लोकानां सर्व-दुःखान्मुक्ति प्रदः परमानन्ददो वेत्य् अर्थः । ननु, श्री-द्वारका-वासिनो यादवादयः सर्वे तद् अनुवर्त्तिनः स्वत एव ब्रह्मण्याः, किम् अर्थं ते तथा विश्राविताः ? तत्राह—पावन इति । तेषां शिक्षाव्याजेन सर्वान् अपि लोकान् शिक्षयित्वा पावयितुम् इत्य् अर्थः। यथा लोक-हितार्थं नरावतारं स्वप्रिय-सखं श्रीमद्-अर्जुनं प्रत्य् अपि गीतोपदेश इति ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषेण प्रत्यक्ष-दर्शनेन श्रावयित्वा तेषां शिक्षा-व्याजेन सर्वेषां लोकानां पावनः तान् पावयितुम् इत्य् अर्थः । यथा लोक-हितार्थम् एव नरावतारं स्वप्रिय-सखं श्रीमद् अर्जुनं प्रति गीतोपदेश इति भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे उत्रार्धे नृगोपाक्यानं

नाम चतुःषष्टितमोऽध्यायः ।

॥ १०.६४ ॥

(१०.६५)


  1. क इति ब्रह्मणो नाम इत्य् आकरे। ↩︎

  2. आवां तवाङ्ग-सम्भूतौ इत्य् आकरे। ↩︎