६३

श्री-कृष्ण-बाणासुर-संग्रामः, तत्र माहेश्वर-ज्वरेण महेश्वरेण च कृता भगवत्-स्तुतिः ।

॥ १०.६३.१ ॥

श्री-शुक उवाच—

अपश्यतां चानिरुद्धं तद्-बन्धूनां च भारत ।
चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रि-युक्-षष्टितमे चाथ बाण-यादव-सङ्गरे ।

स्तुतिर् ज्वरेण रुद्रेण बाण-बाहुमिदो हरेः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्गरः सङ्ग्रामः । बाण-बाहून् भिनत्तीति तथा तस्य । तद्-बन्धूनाम् अनिरुद्ध-बन्धूनाम् । तद् इति षष्ठया लुगार्षः । तस्य बन्धूनाम्, चाद्दासादीनाम् इत्य् अर्थः । वार्षिका वर्षा-कालीनाः । वैशाख-शुक्ल-द्वादश्याम् ऊषायाः स्वप्न-दर्शनम् । सप्त-रात्रेण ते भीरु दर्शयिष्याम्य् अहं प्रियम् इति हरि-वंशे चित्रलेखोक्तेर् ज्येष्ट-कृष्ण-पक्षे\ऽनिरुद्ध-हरणात् षण्मासेष्वतीतेषु वार्षिका अपि चत्वारो मासा गतास् ततो मार्ग-मासारम्भो\ऽभूत् । हे भारतेति भरत-वंश-श्रेष्ठ-पाण्डु-वंशोद्भवस् त्वं कृष्ण-लीला-मोग्ध्यं जानास्येवेति भावः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्व् अर्थे च शब्दो भिन्नोपक्रमात् । किं वा, अप्य् अर्थे, अपश्यताम् अपि तस्य बन्धूनां सर्व-यादवानाम्, चकाराद् आसदास्यादीनाञ् च, अनु निरन्तरम्, शोचतां सत्यम्, विशेषेणातीयुर् मार्ग-मासारम्भो\ऽभूद् इत्य् अर्थः । वैशाख-शुक्ल-द्वादशी-रात्रावूषायाः स्वप्नानन्तरम् सप्त-रात्रेण ते भीरु दर्शयिष्याम्यहं प्रियम् [ह।वं। २.११८।३०] इति श्री-हरिवंशोक्त-चित्रलेखा-वाक्यानुसारेण ज्येष्ठ-प्रथमे\ऽनिरुद्ध-हरणात् षण्मासेष्वतीतेष्व् अपि चत्वारो मासा इति प्रावृषि युद्धोद्यमाद्य् असम्भवात् । किं वा, श्री-भगवद् इच्छया बाणानिरुद्धयोर् युद्धापेक्षया विलम्बनात्, अतो वार्षिका अपीत्य् अर्थः । यद् वा, श्री-वादरायणि मते वर्षारम्भ एव तद्-धरणाद् इति दिक । श्री-भगवति साक्षात्-तत्रैव विराजमाने\ऽप्य् अनिरुद्ध-वृत्ताज्ञानादिनानुशोचनाद् आश्चर्येण सम्बोधयति—भारतेति । यथा त्वत्-पूर्वज भारत-कुल-युद्धादावभिमन्यु पतनादावप्य् अज्ञवत्-तस्य चेष्टितं तथेति भावः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वर्थ च-शब्दः भिन्नोपक्रमात् तस्य बन्धनां सर्व-यादवानां चकाराद्-दास-दास्यादीनाञ् च अनु निरन्तरं शोचतां सतां । विशेषेणातीयुः मार्ग-मासारम्भो\ऽभूद् इत्य् अर्थः । वैशाख-शुक्ल-द्वादशी-रात्रौ उषायाः स्वप्नानन्तरं सप्त-रात्रेण ते भीरु दर्शयिष्याम्यहं प्रियम् इति श्री-हरिवंशोक्त-चित्रलेखावाक्यानुसारेण ज्येष्ठ-प्रथमे श्री-अनिरुद्ध-हरणात् षण्मासेष्वतीतेष्व् अपि वार्षिकाश् चत्वारो मासा इति ते\ऽपीत्य् अर्थः । अतो\ऽत्रैव वा पूर्व-चकारान्वयः तेषु त्व् अधिका चिन्ता जातेत्य् अभिप्रायात् हे भारत भरत-कुलश्रेष्ठ ! पाण्डव-कुलोद्भवेति त्वं पुनर् एतच्-छ्री-भगवतो लीला-मौग्ध्यं जानास्येवेति-भावः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वार्षिकाश् चत्वारो मासा अपीत्य् अर्थः । वैशाख-शुक्ल-द्वादश्यां तस्याः स्वप्न-दर्शनम् इति श्री-हरि-वंशे ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-तस्यानिरुद्धस्य कर्म च युद्धादिकम् ॥२-५॥


॥ १०.६३.२ ॥

नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च ।
प्रययुः शोणित-पुरं वृष्णयः कृष्ण-दैवताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म च युद्धादिकम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अनिरुद्ध-बन्धनम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तदा तस्येति वा, उप समोपे, आकर्ण्य गुह्यत्वेन कर्णे कथनात्, सर्वज्ञ-शिरोमणिना श्री-भगवता स्वयं तद् अप्रतिपादनं तु समुद्र-कोटि-गम्भीर-स्वभावत्वेन लौकिक-लीला-पेक्षया वा, श्री-नारद-प्रतिष्ठार्थं वा । एवम् अग्रे\ऽपि ज्ञेयम् । प्रकर्षेण महोद्यमादिना ययुः, यतः कृष्णः साक्षाद्-भगवान् एव देवता इष्ट-देवो येषां ते, तदादेशाद् इति किं वा, तत्-प्रसादेन सर्व-सम्पत्ति-सद्-भावाद् इति भावः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-तस्यानिरुद्धस्य षष्ठी-लुकछान्दसः उप समीपे आकर्ण्य गुह्यत्वेन कर्णे कथनात् प्रकर्षेण महोद्यमेन ययुः यतः कृष्णस् तत्-पितामह-रूपः स्वयं भगवान् एव देवता परमाराध्यो येषां ते इति भयाभावः सूचितः तच्-छब्देन तस्य गमनं सूचितं तेषां तद् अनुगामित्वात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् तस्य भगवान् इति स्वयं सर्वज्ञत्वात्-तन्-महिमञ् च एव बाण-मन्यांश् च प्रति स्वपराभवेन तन्-महिमानं दयितुम् इति भावः ॥२-२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-तस्यानिरुद्धस्य कर्म च युद्धादिकम् ॥२-५॥


॥ १०.६३.३ ॥

प्रद्युम्नो युयुधानश् च गदः साम्बोऽथ सारणः ।
नन्दोपनन्द-भद्राद्या राम-कृष्णानुवर्तिनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : राम-कृष्णानुवर्तिन इति तौ पुरतो निर्गताव् इत्य् अर्थः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । इत्य् अर्थ इति—अनुवर्तनम् अग्रस्थस्यैव भवतीति भावः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अपि । [युद्धादाविष्ट]{।मर्क्} प्रसिद्धाः, सारणो\ऽपि यद् वा, साम्बस्यानन्तरम् इति राम-कृष्णानुयाने तेषां क्रम उक्तः । नन्दादयः पार्षद-प्रवरा यादव-विशेषाः । आद्य-शब्देन कृतवर्मादयो यदु-वीराः । यद् वा, नन्दो गोपेन्द्र उपनन्दस् तद्-भ्राता भद्रो भद्रसेना गोप-सेनाध्यक्षः । आद्य-शब्दात् श्रीदामादयः, प्रायस् तेषां श्री-कृष्ण-स्नेहेन द्वारकायाम् एव निवासात् । सदा प्रयाणाद् वा । किं वा, श्री-रुद्रेण सह श्री-कृष्णस्य युद्ध-शङ्कया स्नेह-भरेण द्रुतं व्रजात् तदानीम् एवागमनात् । ततश् चाथ-शब्दस्यात्रैवान्वयः । नन्दाद्या अपि प्रद्युम्नादीनाञ् च राम-कृष्णानुगमने यथा-पूर्वम् अग्र्यत्वम् । रामस्यादाव् उक्तिर् अग्रजत्वात् । किं वा, स्नेह-भरणो\ऽनुजस्याग्रे प्रयाणात् । इति सर्वेषां रमणाद् रामः, स्नेहेनाकर्षणाच् च कृष्ण इति ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रद्युम्न इति युग्मकम् । अथ साम्बस्य अनन्तरम् इति राम-कृष्णानुयाने तेषां क्रम उक्तः नन्दादयो\ऽत्र पार्षद-प्रवरा यादव-विशेषाः समेताः स्नेहेन मिलिताः समन्तात् नैरन्तर्येणेत्य् अर्थः ॥३-४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.४ ॥

अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् ।
रुरुधुर् बाण-नगरं समन्तात् सात्वतर्षभाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वतो-दिशम् इत्य् अस्योत्तरेणान्वयः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्तरेण सर्वतोदिशम् । भज्यमाने पुरोद्याने इत्य्-आदिना सर्वतो-दिशम् अभिनिर्ययाव् इत्य् अनेन वान्वयः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), वैष्णव-तोषणी :


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समेताः स्नेहेनान्योन्यं मिलिताः सन्तः, समन्तात् नैरन्तर्येणेत्य् अर्थः । यतः सात्वतेषु यादवेषु ऋषभाः श्रेष्ठाः, पक्षान्तरे गोपेन्द्रादीनां सद्भावे\ऽपि सात्वत-र्षभा इत्य् उक्तिः छत्रिणो गच्छन्ति\ऽ इति न्यायात् । किं वा, स्कान्दोक्तप्रामाण्येन यादवैरभिन्नतया तेषाम् अपि यादवत्वात् यद् वा, सात्वता भगवद्-भक्तास् तेषु ऋषभाः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.५ ॥

भज्यमान-पुरोद्यान-प्राकाराट्टाल-गोपुरम् ।
प्रेक्षमाणो रुषाविष्टस् तुल्य-सैन्योऽभिनिर्ययौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भज्यमानानि पुरोद्यानादीनि । द्वन्द्वैकवद् भावः । अट्टालाः प्राकाराद् उपरितनान्य् उन्नत-स्थानानि । अभिनिर्ययौ बाणः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तुल्य-सैन्यो द्वादशाक्षौहिणी-सैन्यः । पुरे द्वादशाक्षौहिण्य् अवस्थितिस् तु रुद्र-योग-बलाद् ध्येया ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरस्योद्यानादीनां यथोत्तरमान्तरत्वम् उत्कृष्टत्वं वा, प्रकर्षेण चरादि-द्वारा प्रत्यक्षवेन चेक्षमाणः, तुल्य-सैन्या द्वादशाक्षौहिणी-सहित इति भावत एव तत्-तत्सैन्यस्य सद्भावात् । किं वा, सैन्याधिक्ये\ऽपि दुर्मदेन साम्यार्थम् अन्यत्यागात्, अतो\ऽभिमुखे निर्ययो पुरात् ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भज्यमानेति समाहार-द्वन्द्व-गर्भः कर्म-धारयः प्रकर्षेण सैन्य गण नादिना ईक्षमाणः तुल्यसैन्य इति सैन्याधिक्येऽपि दुर्मदेनात्मनः सन्याय-युद्धत्वं दर्शयितुम् अन्य गो बोध्यते अतभिमुखे नियंयो पुरात् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाणार्थम् इति । तद्-दुःख-सङ्ग-दोष-व्यञ्जनाम् इति भावः । भगवान् इति सर्वज्ञोऽपि स्वपराभवेन बाण-मन्यांश् च तन्-महिमानं दर्शयितुम् इति भावः इति प्राञ्चः । भगवतो युद्धोत्साहसुख-सम्पादनार्थं नरलोलत्वे\ऽपि रामाधवतारतो लक्षण्यन सर्वोत्कर्षख्यापनार्थञ् च लीला-शक्तिप्रेरिता योगमायैव ब्रह्माणम् इव तम् अपि तदीयान् अपि विशेषतो मोहयामारोव अत एवोक्तं भक्ति-रसामृत-सिन्धौ ब्रह्म-रुद्रादिमोहनम् इति नवीनाश्चाहुः ॥५-१२॥


॥ १०.६३.६ ॥

बाणार्थे भगवान् रुद्रः स-सुतः प्रमथैर् वृतः ।
आरुह्य नन्दि-वृषभं युयुधे राम-कृष्णयोः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुतः स्कन्दस् तत् सहितैः प्रमथैर् गणैः । राम-कृष्णाभ्यां युयुधे ॥६-१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुत-पदेन गणेशो न ग्राह्यस् तद्-युद्धाश्रवणात् । प्रमथाः स्युः पारिषदाः इत्य् अमरः । भगवान् इति—स्वयं सर्वज्ञो\ऽपि स्वपराभवेण बाणमन्यांश् च प्रति कृष्ण महिमानम् अबोधयद् इति भावः । तृतीयार्थे षष्ठी राम-कृष्णयोर् इति ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् भक्तवत्सल इति भावः । अतो रुद्भक्तानां दुःखं द्रावयतीति रुद्रः, अत एव राम-कृष्णाभ्याम् अपि युयुधे, अन्यथा भक्तोपेक्षया तयोर् एवाप्रीतेर् इति भावः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाणार्थम् इति तद् दुस्सङ्ग-दोषव्यञ्जनार्थम् इत्य् अर्थः । बाणार्थ इति सप्त-म्यन्तं कचित् किं च, भगवान् इति स्वयं सर्वज्ञत्वात्-तन्महिमज्ञ एव किं तु बाणमन्यांश् च प्रति स्वपराभवेन तन्-महिमानं दर्शयितुम् इति भावः ॥ ६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.७ ॥

आसीत् सु-तुमुलं युद्धम् अद्भुतं रोम-हर्षणम् ।
कृष्ण-शङ्करयो राजन् प्रद्युम्न-गुहयोर् अपि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुतुम् अलं सुसङ्कुलम् तुमुलः कलि-वृक्षे ना क्लीबं तु रण-सङ्कुले इति मेदिनी ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुतुमुलम् अत्यन्त-सङ्कुलम्, अतोद्भतं लोकातीतं विस्मयावह वा, अत एव लोमहर्षणं सागेषु पुलकोद्गमकरम् । एवम् आदौ सामान्ये नोक्त्वा पश्चाद्-विशेषेण द्वन्द्व-युद्धम् आह—कृष्णेति सार्धन । तादृश-युद्धेन किं वा, श्री-कृष्णेन सह श्री-शङ्करस्य युद्धेन विस्मयादाह—हे राजन् इति । यद् वा, राजमानो द्वन्द्वत्वेन शोभमानो\ऽप्रतिहतो वा ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुतुमुलम् अत्यन्त-सङ्कुलम् अतो\ऽद्भुतम् अत एव लोमहर्षणं श्रवणाद् अपि पुलकोद्गमकरम् एवम् आदौ सामान्येनोक्त्वा पश्चाद्-विशेषेण द्वन्द्व-युद्धम् आह—कृष्णति सार्धन ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.८ ॥

कुम्भाण्ड-कूपकर्णाभ्यां बलेन सह संयुगः ।
साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सात्यकेः संयुग आसीद् इत्य् अन्वयः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : संयुगः कुम्भाण्ड-कूपकर्णाभ्यां सह बलेन बलस्य ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुम्भाण्ड-कूपकर्णाभ्यां सह बलेन बलस्य संयुग आसीत् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.९ ॥

ब्रह्मादयः सुराधीशा मुनयः सिद्ध-चारणाः ।
गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युद्धम् इति शेषः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुराधीशादीनां यथोत्तरं दिदृक्षायां न्यूनत्वम्, श्री-रुद्र-प्रबोधार्थं श्री-ब्रह्मादीनाम् एवागमने प्राधान्यात् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्मा आदिर् येषां ते सुराधीशाः एतद् आदीनां यथोत्तरं न्यूनत्वम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१० ॥

शङ्करानुचरान् शौरिर् भूत-प्रमथ-गुह्यकान् ।
डाकिनीर् यातुधानांश् च वेतालान् स-विनायकान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : डाकिन्यः काल-खण्डाशन्यः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शङ्करेति युग्मकम् । प्रेत-मातृ-पिशाचांश् चेति पाठः काश्यादौ । भूतमात्रेति पाठे तु पौनर् उक्त्यं समाधेयं देवमातृभ्यो गौर्यादिभ्यो\ऽन्या एता भूत-मातरः द्रावयामासैव नत्ववधीत् यतः स्वभक्तस्य शङ्करस्यानुचरान् शार्ङ्ग-धनुषश् च्युतैः निस्सतैर् इति करुण-माहात्म्यश् च दर्शितम् ॥१०-११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.११ ॥

प्रेत-मातृ-पिशाचांश् च कुष्माण्डान् ब्रह्म-राक्षसान् ।
द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्ग-धनुश्-च्युतैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कू ईषदूष्मा अण्डेषु बीजेषु यस्य स कूष्माण्डः । तद् आकारस्वाच् छिव-गणो\ऽपि कूष्माण्डः । शङ्करस्य स्वभक्तत्वेन तद् अनुचरान्-भूतादीन्केवलं द्रावयामास न त्व् अवधीत्, भक्तवत्सलत्वात् ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-शङ्करेण सह युद्धे\ऽग्रतो\ऽभिसृतांस् तदीय-गणानादौ श्री-कृष्णो भङ्ग प्रापयामासेत्य् आह—शङ्करेति द्वाभ्याम् । भूता देवयोनिविशेषाः, भूतादीनां यथोत्तरम् उग्रत्वम् अपकृष्टत्वं वा ज्ञेयम् । प्रेताः पिशाच-विशेषाः, द्रावयामासैव, न त्ववधीत्, यतः शङ्करस्यानुचरान्, शार्ङ्ग-धनुश्च्युतैर् निःसृतैर् इति अमोघत्वं वेगवत्त्वादिकञ् च सूचितम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१२ ॥

पृथग्-विधानि प्रायुङ्क्त पिनाक्य् अस्त्राणि शार्ङ्गिणे ।
प्रत्य्-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिर् अविस्मितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अविस्मितस् तुल्य-समर्थत्वात् ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिव्यानि ब्रह्मास्त्रादीनि, पृथग् असङ्कीर्णतया प्रायुक्त पृथग्-विधानीति पाठे पाठान्तरे\ऽपि स एवार्थः । शाङ्गिणे श्री-शिव-विषयकाद्रात् सर्व-संहारक—चक्रादि-व्यतिरेकेण केवलं धनुषैव युध्यमानायेत्य् अर्थः । एवं पिनाकीति शाङ्गपाणिर् इति च तत्-तद्-धनुषैव युद्धात्, अविस्मितः श्री-रुद्रेण तत्-तत्-सम्प्रयोगे\ऽपि गर्व-रहितः । यद् वा, तादृश-युद्धे\ऽपि न विगतं स्मितं यस्य सः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिब्यानि ब्रह्मास्त्रादीनि पृथक् असङ्कीर्णतया प्रायुक्त पृथग्-विधानीति-पाठे स एवार्थः शाङ्गिणे पिनाकीति चोभयोर् अपि धनुर् आदानम् उक्तं तच्̄च परम-न्याय-युद्धाङ्गीकार-व्यञ्जकम् अविस्मितः सावहेलः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१३ ॥

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्य् अस्त्राण्य् एवाह—ब्रह्मास्त्रस्येति । नैजं नारायणास्त्रम् ॥१३-१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न ह्य् अस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्षणम् इत्य् उक्तेर् ब्रह्मास्त्रस्य ब्रह्मास्त्रम् एव प्रत्यस्त्रम् इति भावः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नैजं निजम् इत्य् अर्थः । ह हर्षे चार्थे वा, अथानन्तरम् एव जृम्भितं जृम्भा-युक्तं सन्तं मोहयित्वा स्तम्भयित्वा । यद् वा, विसञ्ज्ञ कृत्वा, तथा च श्रीइहरि-वंशे—

सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः ।

सञ्ज्ञां न लेभे भगवान् विजेतासुररक्षसाम् ॥ [वि।उपु ५० १२५।५] इति,

अस्यादीनां यथोत्तरं दूरस्थ घातने श्रेष्ठयम् ॥१३-१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्मास्त्रस्य कृते ब्रह्मास्त्रं प्रायुङ्क्तेति पूर्वेणैवान्वयः नैजं निजं स्वार्थे\ऽण्॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यस्त्राण्येव् आह—ब्रह्मास्त्रस्य शमनार्थं ब्रह्मास्त्रं प्रायुङक्तेति पूर्वेणैवान्वयः नजं नारायणास्त्रम् ॥१३-१४॥


॥ १०.६३.१४ ॥

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।
बाणस्य पृतनां शौरिर् जघानासि-गदेषुभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जृभणास्त्रेण निद्रोत्पादकास्त्रेण । जृभितं जातास्फोटम् जृभितं करणे स्त्रीणां मोहास्फोटितयोर् अपि इति मेदिनी ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जृम्भितं जम्भाय् उक्तं सन्तं मोहयित्वा, तथा च हरि-वंशे

सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः । > सञ्ज्ञां न लेभे भगवान् विजेतासुररक्षसाम् ॥इति

अस्यादीनां यथोत्तरं दूरस्थ-घातेन श्रेष्ठ्यम् ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१५ ॥

स्कन्धः प्रद्युम्न-बाणौघैर् अर्द्यमानः समन्ततः ।
असृग् विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद् रणात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शिखिना मयूरेण वाहनेन ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिखिनौ वह्नि। केकिनौ इत्य् अमरः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-कृष्णस्य जयमुक्त्वा अन्येषाम् अपि तदीयानाम् आह—स्कन्द इति द्वाभ्याम् । शिखिना हेतुना, तद् अभावे\ऽत्यन्तपीड्या भङ्गे\ऽप्यशक्त इति भावः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-कृष्णस्य जयम् उक्त्वा तदीयानाम् आह—स्कन्द इति द्वाभ्याम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्कन्दः कातिकेयः शिखिना मयूरेण सह ॥१५-१९॥


॥ १०.६३.१६ ॥

कुम्भाण्ड-कूपकर्णश् च पेततुर् मुषलार्दितौ ।
दुद्रुवुस् तद्-अनीकानि हत-नाथानि सर्वतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोर् अनीकानि । हती नाथी येषां तानि ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वतो दुद्रुवुः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलदेवस्य मुषलेनाहिती, सर्वत इतस् ततः सर्वाणीति वा । एवं साम्बेनापि बाणपुत्रो निर्ज्जित इति ज्ञेयम् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुम्भाण्ड इति । एवं साम्बेनापि बाणपुत्रो निजित इति ज्ञेयम् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१७ ॥

विशीर्यमाणं स्व-बलं दृष्ट्वा बाणोऽत्य्-अमर्षितः ।
कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्ख्ये युद्धे सङ्ख्य समितिः इति मेदिनी ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशीर्यमाणं भंग क्षयं वा प्राप्नुवत्, स्वस्य बलं सैन्यम् । यद् वा, सात्यकिना सह युद्धे स्व-सामर्थ्यं क्षीयमाणं दृष्ट्वा अनेन सह युद्धे वृथा स्व-शक्ति-क्षपणेनालम्, मुख्यतमेन श्री-कृष्णेनैव युध्येयेति तम् अभ्यद्रवत्, द्रुतम् अभिमुखे आपतत्, यतो रथी नन्दीश्वर-सारथिकं रथम् आरूढ्ः सन्न् इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—

नन्दीश सङ्गृहीताश्वम् अधिरूढो महारथम् । > बाणस् तत्राययौ योद्धम् ॥ [वि।पु ५.३३.२८] इति,

सङ्ख्ये द्वन्द्व-युद्धे त्यक्तुम् अयोग्यपि सात्यकिं हित्वैव, न तु जित्वोपेक्ष्य वेत्येव-शब्दार्थः, यतो\ऽत्यम् अर्षणः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्य बलं सैन्यं सङ्ख्ये द्वन्द्व-युद्धे ॥१७॥

ज्———————————————————————————————————————

ईव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१८ ॥

धनूंष्य् आकृष्य युगपद् बाणः पञ्च-शतानि वै ।
एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रण-दुर्मदः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकैकस्मिन्-धनुषि ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै अपि, पञ्चशतान्य् अपि, यतो रणे दुर्मदो\ऽतिमत्तः । किं वा, अहं महायोद्धा सर्व-विजयीत्यादिर् दुष्टो मदो\ऽभिमानो यस्य सः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रण-दुर्मदो रणे दुरभिमानः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.१९ ॥

तानि चिच्छेद भगवान् धनूंषि युगपद् धरिः ।
सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपूरयद् अवादयत् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : युगपच् चिच्-छेद, तच्-च शरमोचनात् प्राक् सन्धानकाल एवेति ज्ञेयम् । यतो भगवान् सर्वैश्वर्य-युक्तः । सारथ्यादीनां यथाक्रमम् उपरि स्थितानां तथैव हननम्, तत्-तत्-संहाराद्धरिः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युगपच् चिच्छेद तच्-च शरसन्धान काल एवेति ज्ञेयम् एतच् च लीला-मात्रम् इत्य् आह भगवान् सर्वेश्वर्य-युक्तः सारथ्यादीनां यथा-क्रमम् उपरि-स्थितानां हननं तत्-तत्-संहाराद् धरिः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.२० ॥

तन्-माता कोटरा नाम नग्ना मुक्त-शिरोरुहा ।
पुरोऽवतस् थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-माता बाण-माता । श्री-हरिवंशानुरोधेन महा-तपसा श्री-शिव-पुत्रतां प्राप्तस्य तस्य पार्वती-मातृकत्वात् कोटाराख्या पार्वत्या काचिन् मूर्तिः श्री-हरि-वंशादौ कोटवी इति प्रसिद्धा । तथा हि बाणं त्रायस्व देवेशि देवि त्वम् इति शिवादिष्टया पार्वत्या गच्छेति लम्बे शीघ्रं त्वं बाणस्य रक्षणं प्रति इत्य् उक्तां लम्बाम् अधिकृत्य तद्-वाक्यम्—

कृष्णस्यैकस्य तद्-रूपं दर्शयत्-पार्श्वम् आगता । > अन्तर्धानम् उपागम्य त्यक्त्वा सा वाससी पुनः ॥ > परित्राणाय बाणस्य विजयाधिष्ठिता पुनः । > प्रमुखे वासुदेवस्य दिग्-वासाः कोटवी स्थिता ॥

अस्यार्थः—दर्शयत् अदर्शयत् । विजयया विजया-नाम्न्या पार्वती-सख्याधिष्ठिता कृतसाहाय्या । यद् वा, पार्वत्यैवाधिष्ठिता तन्-मति-विशेष इत्य् अर्थः । लम्बैव कोटवीति । विष्णु-पुराणे तु—कोटवी नाम मन्त्रमयी दैत्य-कुल-देवता नग्ना दैतेय-विद्याभूत् कोटवी पुरतो हरेः इति । बाण-माता त्व् अशनानाम्न्यस्ति बाण-ज्येष्ठं पुत्र-शतम् अशनायां ततो\ऽभवत् इति षष्ठ-स्कन्धोक्तेः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य बाणस्य मातेति श्री-हरिवंशोक्तानुसारेण महा-तपसा श्री-शिव-पुत्रतां प्राप्तस्य तस्य श्री-पार्वतीमातृकत्वात् कोटराख्या श्री-पार्वत्याः काचिन्-मत्तिः, तथा च श्री-हरि-वंशे बाणं त्रायस्व देवि त्वम् [ह।वं। २.१२६।१०८] इति श्री-शिवादिष्टया श्री-पार्वत्या गच्छेहि लम्बे शीघ्रं त्वं बाण-संरक्षणं प्रति [ह।वं। २.१२६।१०९] इत्य् उक्तां लम्बामधिकृत्य—

कृष्णस्यैकस्य तद्-रूपं दर्शयत्-पार्श्वम् आगता । > अन्तर्धानम् उपागम्य त्यक्त्वा सा वाससी पुनः ॥ > परित्राणाय बाणस्य विजयाधिष्ठिता पुनः ।

प्रमुखे वासुदेवस्य दिग्-वासाः कोटवी स्थिता ॥ [ह।वं। २.५० १२५।११०-१११] इति ।

अस्यार्थः—दर्शयत् अदर्शयत्, विजयया विजया-नाम्न्या पार्वतीसख्या अधिष्ठिता कृत-साहाय्याः यद् वा, पार्वत्याधिष्ठिता तन्-मूत्तिविशेष इत्य् अर्थः । लम्बैव कोटवीति, तद्-विशेषश् च तत एव ज्ञेयः, श्री-विष्णु-पुराणे तु कोटवी नाम मन्त्रमयी दैत्यकुल-देवता, तथा च तत्र नग्ना देतेयविद्याभूत् कोटवी पुरतो हरेः [वि।पु ५।३३।३६] इति । इतो\ऽत्रापि । कोटरीति पाठः क्वचित् ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य बाणस्य मातेति श्री-हरिवंशानुसारेण महा-तपसा श्री-शिव-पुत्रतां प्राप्तस्य तस्य पार्वतीमातृकत्वात् कोटराख्या पार्वत्याः काचिन्-मूर्तिः श्री-हरिवंशादी कोटरीति प्रसिद्धा, तथा-च श्री-हरि-वंशे बाणं त्रायस्व देवि त्वम् इति शिवादिष्टया पार्वत्या गच्छेतिलम्बे शीघ्रं त्वं बाण-संरक्षणं प्रति इत्य् उक्तां लम्बामधिकृत्य वाक्यम्—

कृष्णस्यैकस्य तद्-रूपं दर्शयत्-पार्श्वम् आगता । > अन्तर्धानम् उपागम्य त्यक्त्वा सा वाससी पुनः ॥ > परित्राणाय बाणस्य विजयाधिष्ठिता पुनः ।

प्रमुखे वासुदेवस्य दिग्-वासाः कोटवी स्थिता ॥ [ह।वं। २.५० १२५।११०-१११]

अस्यार्थः दर्शयत् अदर्शयत् विजयया विजयानाम्न्या पार्वती-सख्या अधिष्ठिता कृतसाहाय्या यद् वा, पार्वत्यैवाधिष्ठिता तन्-मूर्ति-विशेष इत्य् अर्थः । लम्बैव कोटरीति तद्-विशेषश् च ततो ज्ञेयः श्री-विष्णु-पुराणे तु कोटरी नाम मन्त्रमयी दैत्य कुलदेवता । तथा च तत्र नाम्ना दैतेय-विद्याभूत्-कोटरी पुरतो हरेः इति इत्य् अतोत्रापि कोटवीति पाठः कचित् रिरक्षया रिरक्षिषया ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोटरा पार्वत्या एव मूर्तिर् दैत्योपास्या कोटरीति चान्यत्रास्याः सञ्ज्ञा रिरक्षया रिरक्षिषया ॥२०॥


॥ १०.६३.२१ ॥

ततस् तिर्यङ्-मुखो नग्नाम् अनिरीक्षन् गदाग्रजः ।
बाणश् च तावद् विरथश् छिन्न-धन्वाविशत् पुरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिरीक्षमाणस् तिर्यङ्मुखो बभूवेति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गदाग्रज इति—गदस्यापि तादृश-शक्ति-परम्परा विराजते\ऽत्र तु किमद्भम् इति भावः । ततस् तन्-मातृ-नग्नीभवनानन्तरम् । अभूद् इति शेषः । तावत्तदा ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गदाग्रज इति निज-सर्व-सद्-गुण-प्रकटनार्थं यदुकुले श्री-वसुदेव-पुत्रतया पदस्याग्रे प्रादुर्भूतस्य तस्य तद्-युक्तम् एवेति भावः ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इत्य् अर्धकम् । गदाग्रज इति गदस्यापि तादृश-शक्तिपरम्परा विराजते तत्र तु किमाश्चर्यम् इति भावः । तत्र टीकायां योद्धुम् अभ्यधावद् इति शेष इत्य् अर्थः । ज्वरो\ऽयुद्धयतेति शेष इति चित्-सुखश् च ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिरीक्षमाणस् तिर्यङ्मुखो बभूव ॥२१॥


॥ १०.६३.२२ ॥

विद्राविते भूत-गणे ज्वरस् तु त्रि-शिरास् त्रि-पात् ।
अभ्यधावत दाशार्हं दहन्न् इव दिशो दश ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्वरस् तु योद्धुम् अभ्यधावद् इति ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभ्यपद्यत प्राप । श्री-हरि-वंशे ज्वर-स्वरूपम् उक्तम्—

ज्वरस् त्रिपादस् त्रिशिराः षड्भुजो नवलोचनः ।

भस्म-प्रहरणो रौद्रः कालान्तक-यमोपमः ॥ इति ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विद्राविते भूतगण इति श्री-शिवयुद्धादस्य प्राक्तनत्वं द्योतयति । यद् वा, ज्वरा-गमन-हेतुतयानुवादमात्रम्, ज्वरस्तु वणितः श्री-हरि-वंशे—

ज्वरस् त्रिपादस् त्रिशिराः षड्भुजो नवलोचनः ।

भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥

नदन्मेघ-सहस्रस्य तुल्य-निर्घात-निस्वनः ।

निःश्वसन् जृम्भमाणश् च निद्रान्वित-तनुर्भृशम् ॥ [ह।वं। २.५० १२२।७१-७३] ॥इति ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विद्राविते भूतगण इति श्री-शिव-युद्धादस्य प्राक्तनत्वं द्योतयति यद् वा, ज्वरागमन-हेतुतया अनुवादमात्र ज्वरस्तु वर्णितः श्री-हरि-वंशे—

ज्वरस् त्रिपादस् त्रिशिराः षड्भुजो नवलोचनः ।

भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥

नदन्मेघ-सहस्रस्य तुल्य-निर्घात-निस्वनः ।

निःश्वसन् जृम्भमाणश् च निद्रान्वित-तनुर्भृशम् ॥इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्वरस्तु योद्धुमभ्यधावद् इति शेषः ।

ज्वरस् त्रिपादस् त्रिशिराः षड्भुजो नवलोचनः ।

भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ [ह।वं। २.५० १२२।७१-७३] ॥इति ॥२२॥


॥ १०.६३.२३ ॥

अथ नारायणो देवस् तं दृष्ट्वा व्यसृजज् ज्वरम् ।
माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-नारायणः शीत-ज्वरमसृजत ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ माहेश्वर-ज्वरागमनारम्भे । अथाव्ययम् आरम्भेऽपि । तं ज्वरं । स्वीयं ज्वरम् । व्यसृजद् आदिदेश ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ सद्य एवेत्य् अर्थः । विशेषेण माहेश्वर-ज्वरादप्य् आधिक्येनासृजत्, तच् च क्रीडयैवेत्य् अभिप्रायेण् आह—दीव्यति क्रीड्तीति देव इति, यतो नारायण इच्छामात्रेणैवाशेष-जगत् स्रष्टेत्य् अर्थः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सद्य एवेत्य् अर्थः । इति कचित्-कमन्यथा व्याख्यानं प्रत्याख्यानं कृत-विशेषेण माहेश्वर-ज्वराद् अप्य् आधिक्येनासजत् तच् च क्रीडयेत्य् अभिप्रायेणाह—दिव्यति क्रीडतीति देव इति यतो नारायणः तद् रूपेणांशेन तत्रापीच्छामात्रेणैव जगत्-स्रष्टेत्य् अर्थः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शीतज्वरमसृजत् ॥२३॥


॥ १०.६३.२४ ॥

माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।
अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः ॥**

शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः

श्रीधर-स्वामी (भावार्थ-दीपिका) : माहेश्वरः समाक्रण्दन् युयुधे ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैष्णवेन बलेनादितः पीडितः समाक्रण्दन्नाकुलीभवन् । अन्यत्र नारायणेतरस्थाने । शरणार्थी शरणं गृह-रक्षित्रोर् वध-रक्षणयोर् अपि इति मेदिनी ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलाद्दर्हितो\ऽपि सम्यग् आक्रन्दन् । यद् वा, बलादितः सन्नत्यन्तार्तनादं कुर्वन् उच्चै रुदन् वा । एवम् अस्य परेणान्वयः, अन्यत्राभयमलद्ध्वेति भीत्या यत्र यत्रापयाति, तत्र तत्रैव तं वैष्णव-ज्वरो\ऽनुयाति । दुर्वाससं चक्रं सुदर्शनमिव । यद् वा, रक्ष रक्षेति महार्त्या शरणं याति, सो\ऽपि तम् इव भयान् न रक्षतीत्य् अर्थः । अतो भीतः, अत एव शरणं रक्षिता आश्रयो वा, तद् अर्थी सन् प्रयतो भक्त्या विशुद्ध उद्यतो वा अनलिर्येन सः पाठान्तरं चिन्त्यम् । असङ्गतत्वे\ऽपि तैर् अव्याख्यातत्वात् । तद्-दार्धेये च सति प्रणतं प्रणतिस् तयुक्तो\ऽञ्जलिर् यस्य । किं वा, प्रकृष्टौ नताञ्जली यस्य सः । हृषीकेशम् इति मोहेश्वरत्वेन कृपया तेनैवासौ तत्र प्रवर्तित इति भावः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : माहेश्वर इत्य् अर्धकम् । समाक्रन्दन् अत्युच्चरवं कुर्वन् युयुध इति ज्ञेयं ततश् च वैष्णवेण ज्वरेण क, बलेन करणेनादितः अन्यत्राभयमलब्ध्वेति भीत्या यत्र यत्रापयाति तत्र तत्र चैतं वैष्णवो ज्वरो\ऽनुयाति दुर्वाससं सुदर्शनम् इव यं वा रक्षरक्षेति महा शरणं याति सोऽपि तम् इव भयान रक्षतीत्य् अर्थः । अतो भीतः अत एव शरणं रक्षिता आश्रयो वा तदर्थी सन् प्रणतो नम्रो भक्त्या भूमिष्ठो\ऽञ्जलिर् यस्य सः पाठान्तरे प्रयतः भक्त्या विशुद्धः उद्यतो वाञ्जलिर्येन सः हृषीकेशम् इति माहेश्वरोयं मयोजितः सन् माम् एव शरणमागत इति कृपया तेनैवासो तत्र प्रवर्तितः स्फूत्तिं प्रापितश् चेति भावः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाक्रन्दन् रुदन्नभूत् अन्यत्राभयमलब्ध्वेति स्वस्वामिनः शम्भोर् अपि पाय गत्वा तस्य च स्व-रक्षणासामयं ज्ञात्वैव भीतः प्रणतो भक्त्या भूमिष्ठो\ऽञ्जलिर्यस्य सः ॥२४॥


॥ १०.६३.२५ ॥

ज्वर उवाच—

नमामि त्वानन्त-शक्तिं परेशं

सर्वात्मानं केवलं ज्ञप्ति-मात्रम् ।

विश्वोत्पत्ति-स्थान-संरोध-हेतुं

यत् तद् ब्रह्म ब्रह्म-लिङ्गं प्रशान्तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं परम-शक्तिमन्तं मन्यमानः श्री-कृष्णं तापयितुं प्रवृत्तः स्वयम् एव तप्तः सन्, तं परमेश्वरं ज्ञात्वा स्तुवन् नमस्करोति—नमामीति । त्वा त्वाम् अनन्त-शक्तिं नमामि । कुतः ? परेषां ब्रह्मादीनाम् ईशम् । तत्र हेतुः—सर्वात्मानं सर्वस्यात्मानं चेतयितारम् । तत् कुतः ? केवलं शुद्धम् । ज्ञप्ति-मात्रं चैतन्य-घनम् । तद् एवं सर्व-चेतयितृत्वेन परमेश्वरत्वम् उक्तम् । किं च, विश्व-सृष्ट्य्-आदि-हेतुत्वाद् अपीत्य् आह—विश्वोत्पत्तीति ।

नन्व् एवं-भूतं ब्रह्म प्रसिद्धं नाहम् इति तत्राह—यत् तद् ब्रह्मेति । यद् ब्रह्म तद् एव त्वम् इत्य् अर्थः । किं तद् ब्रह्म ? इत्य् अत आह—ब्रह्म-लिङ्गं ब्रह्मणा वेदेन लिङ्ग्यते द्योत्य् अत इति । तत् कुतः ? प्रशान्तम्, सर्व-विक्रिया-रहितत्वान् न साक्षाद् वाच्यम् इति भावः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलवद् विरोधो न सुखायेत्य् आह—आत्मानम् इत्य्-आदिना । तं कृष्णम् । अनन्त-शक्तित्वे हेतुम् आशङ्कते—कुत इति । तत्र परेशत्वे । तत् सर्वात्मत्वम् । प्रकारान्तरेणापि परमेश्वरत्वम् आह—किं चेति । निज-परमेश्वरत्वे पुनर् आशङ्कते—नन्व् इति । तत्राक्षेपे । इत्य् अर्थ इति—परं ब्रह्म परं धाम इति श्री-मुखोक्तेर् इति तात्पर्यम् । तत्राक्षिपति—किम् इति । तत् वेद-द्योत्यत्वम् । इति भाव इति—वेदो\ऽपीदम् इत्थंतया न बोधयति, किं तु तात्पर्येणेत्य् आशयः, यतो वाचो निवर्तन्ते इत्य्-आदि-श्रुतेः ॥ [विश्वनाथ-टीका]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नमामीत्य्-आदि । ब्रह्म-लिङ्गं ब्रह्म-वैभवम् । लिङ्ग्यते\ऽनेनेति लिङ्गं वैभवम्, यद् यतस् त्वं ब्रह्म बृहद् अपरिच्छिन्नं पूर्णं ब्रह्मेत्य् अर्थः । यद् वा, ब्रह्म ब्रह्मणोः शब्द-ब्रह्म पर-ब्रह्मणोः लिङ्गम् ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केवलम् एकम् अपि सर्वेषाम् आत्मात्मानं हृदि हृदि परमात्म-रूपेण वर्तमानम् । अन्यत् तैर् व्याख्यातम् । यद् वा, यज् जीव-तत्त्वं ब्रह्म, तद् अपि त्वम्, जीवानां तत्त्वतस् त्वद्-अङ्ग्य्-अंशत्वात् । किं च, ब्रह्म-लिङ्गं ब्रह्म-घन-मूर्तिम् इत्य् अर्थः, पर-ब्रह्मत्वात् । अत एव प्रकृष्टां शान्तं, शान्तिः सुखं यस्मात् तत्, तद्-रूपं वा ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमान् महेश्वरो\ऽप्य् अनेन जृम्भित इति पूर्ण-भगवद्-बुद्ध्या परिवृत्यागत्य शरण-योग्यत्वं स्तुति-योग्यत्वं च व्यञ्जयन् नमस्करोति—नमामीति । तैर् व्याख्यातम्


तत्र केवलम् इत्य् आदाव् अयं भावः—शुद्ध-चैतन्यम् एव खल्व् आत्मा भवसि, चेतयिता च । चैतन्याद् एव हि जड-प्रवृत्तिर् दृश्यते, ततस् तस्यैव तच्-छक्तित्वं तत्-तद्-ईशितृत्वं च, एवं सांसारिक-जीव-चैतन्यस्य स्व-स्वाधिष्ठान-गतम् एव, तत्-तत्-परमात्म-चैतन्यस्य तु सर्व-गतम् । अतो वाय्व्-आदि महा-भूत-प्रवृत्तिर् अपि तस्माद् एव न विना त्वत् क्रियते ।

किं च, नारे भीषास्माद् वातः पवते, एको देवः सर्व-भूतेषु गूढः इत्य्-आदि-श्रुतेः । अतो\ऽनन्त-शक्तित्वं ब्रह्मादीशितृत्वं च तस्यैव घटत इति । एवं व्यष्टि-द्वारा तस्य तत् तन् निरूप्य समष्टि-द्वारापि निरूपयतीत्य् आह—किं चेति । प्रशान्तम् इत्य् आदौ । अयं भावः—विकार-जातम् एव हि सर्वेषां प्रतीति-विषयः स्यात्, अनुभूत-जातीयत्वात् । ततत्ः शब्दो\ऽपि तद् एव साक्षाद् बोधयितुं शक्नोति, न त्व् अविकृतं तद् रूपम् अनुभूत-जातीयतो विलक्षणत्वात् । अतः कथञ्चित् द्योतयत्य् एव तद् इति ।

अथवा, ननु ब्रह्म निर्विशेषम्, अहं तु श्रीमद्-विग्रह-रूपत्वात् स-विशेषः ? तत्राह—ब्रह्मैव लिङ्गं श्री-विग्रहो यस्य तम् । तत्-स्वरूप-शक्ति-वृत्ति-वैचित्र्याविष्कारेण शुद्ध ब्रह्मैवैतद्-रूपेण प्रकाशित इति भावः । यद् वा, ब्रह्मणा वेदेन लिङ्ग्यते तथा व्यज्यते यस् तम् । यद् वा, ब्रह्मणो लिङ्गं लक्षणं यत्र तं विद्वद्-अनुभूत-तादृशत्वम् इत्य् अर्थः । यतः प्रशान्तम् अविकृतं प्रक्श्रीअं शान्तं शान्ति-सुख-रूपम् इति यावद् वा ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नमामीत्य् अत्र टीकायां केवलम् इत्य् आदौ । अयं भावः—शुद्ध-चैतन्यम् एव खल्व् आत्मा चेतयिता च । चैतन्याद् एव हि जड-प्रवृत्तिर् दृश्यते, ततस् तस्यैव तत्-तच्-छक्तित्वं तत्-तद्-ईशितृत्वं च । एवं सति जीव-चैतन्यस्य स्व-स्वाधिष्ठान-गतम् एव तत्-तत्-परमात्म-चैतन्यस्य तु सर्व-गतम् । अतो वाय्व्-आदि-महा-भूत-प्रवृत्तिर् अपि तस्माद् एव, भीषास्माद् वातः पवते इत्य्-आदेः । अतो\ऽनन्त-शक्तित्वं ब्रह्मादि ईशितृत्वं च तस्यैव घटत इति । एवं व्यष्टि-द्वारा तस्य तत् तन् निरूप्य समष्टि-द्वारापि निरूपयतीत्य् आह—किं चेति । प्रशान्तम् इत्य् आदाव् अयं भावः—विकार-जातम् एव हि सर्वेषां प्रतीति-विषयः स्यात्, अनुभूत-जातीयत्वात् । ततः शब्दो\ऽपि तद् एव साक्षाद् बोधयितुं शक्नोति


नन्व् अविकं तद्-रूपम् अनुभूत-जातीयतो विलक्षणत्वात्, अतः कथञ्चित् द्योतयत्य् एव तद् इति । आथवा ब्रह्म-निर्विशेषम् अहं तु श्रीमद्-विग्रहत्वात् स-विशेषः ? तत्राह—ब्रह्मैव लिङ्गं श्री-विग्रहो यस्य तम् ॥२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नमामि त्वाम् इत्य्-आदि । ज्ञप्ति-मात्रं ज्ञप्तिर् ज्ञानं मात्रा अंशो यस्य । ब्रह्म वेदस् तद् एव लिङ्गं गमकं यस्य, ब्रह्म बृहत् परिपूर्णम् । यद् वा, यद् यतो ब्रह्म वेदः, अत एव ब्रह्म-लिङ्गं ब्रह्मणस् त्वद्-गमकत्वं त्वज्-जन्यत्वेनैव, अत एवानन्त-शक्तिं, यतः परेशं परेषाम् ईशम् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्त-शक्तिम् इति मत्-स्वामिनः शम्भोः सकाशाद् अपि तव शक्तिर् अधिकानुभूतेति भावः । तत्र हेतुः—परेशम् । स ईशस् त्वं तु परंएश इत्य् अर्थः । सर्वात्मानम् इति सर्वेषां त्वं परमात्मा भवन्न् एव सर्वस्य शम्भोर् अप्य् आत्मा भवसीत्य् अर्थः । दन्त्यादि-सर्व-शब्दो\ऽपि शम्भु-वाची दृष्टः, सर्वः शर्वः शिवः स्थाणुः इत्य्-आदौ । विश्वोतपत्तीति त्वं तु सृष्टि-स्थिति-संहार-कर्ता, स तु केवलं संहार-कर्तेति भावः । ब्रह्मणा वेदेन लिङ्ग्यते द्योत्य् अत इति ब्रह्म-लिङ्गं यद् ब्रह्म प्रशान्तं तद् एव त्वं, स तु उग्रे ब्रह्मेति भावः ॥२५॥


॥ १०.६३.२६ ॥

कालो दैवं कर्म जीवः स्वभावो

द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।

तत्-सङ्घातो बीज-रोह-प्रवाहस्

त्वन्-मायैषा तन्-निषेधं प्रपद्ये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यत् स-विशेषं वस्तु, तत्र वयं प्रभवामः, त्वयि तु सर्व-विशेषातीते न कस्यापि प्रभुत्वं, किं तु त्वम् एव सर्व-प्रभुर् इति ज्ञप्ति-मात्रत्वं विवृण्वन् स्तौति—काल इति । कालः क्षोभकः । कर्म निमित्तम् । तद् एव फलाभिमुखम् अभिव्यक्तं दैवम् । स्वभावस् तत्-संस्कारः । जीवस् तद्वान् । द्रव्यं भूत-सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार एकादशेन्द्रियाणि, महा-भूतानि चेति षोडशकः । तत्-सङ्घातो देहः । तस्य च बीज-रोहवत् प्रवाहः, रोहोऽङ्कुरः, देहाद् बीज-रूपं कर्म । ततोऽङ्कुर-रूपो देहः, ततः पुनर् एवम् इति प्रवाहः । तं त्वां निषेधावधि-भूतं प्रपद्ये भजे इति ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवति निजासामर्थ्यम् आह—किं चेति । तत्र स-विशेष-वस्तुनि । किं तु प्रत्युत । तद् एव कर्मैव । तत् संस्कारः कर्म-संस्कारः । तद्वान् कर्म-संस्कारवान् । ततः कर्मणः । ततो देहात् पुनर् एवं कर्म जीवस्य मायाभिन्नत्वे\ऽपि माया-ग्रस्तत्वान् मायात्वं तस्या मायाया निषेधो यत्र तं त्वां त्वद्-देहेन्द्रियादीनि त्वन् मयान्येव न माया इत्य् अर्थः ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालादीनां यथोत्तरं सौक्ष्म्याधिक्य-न्यूनताभ्यां सङ्घातत्वे श्रैष्ठ्यम् । अन्यत् तैर् व्याख्यातम् ।

ईदृशं तज्-ज्ञानं मायिक-प्रवाहान्तः-पातितानां मादृशां त्वत्-कृपया माया-निवृत्तौ सत्याम् एव सदा सुसिध्यतीत्य् एतद्-अर्थं त्वाम् आश्रयामीत्य् आह—काल इति । दैवं देवस्य तवेच्छ-रूपं, स्वभावः शान्तत्वादिः । क्षेत्रं चित्तं बुद्धिश् च । तस्या मायायां निषेधो यस्मात् तम् । अतस् त्वन्-माया-हतस्य ममागस् त्वया क्षन्तव्यम् इति भावः ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं नमस्कुर्वन्न् एव शरणत्व-सम्पादनाय सर्वाश्रयत्वं न्य-रूपयत् । सर्वाश्रयत्वे\ऽपि केवलत्वादिना तत्-तद्-आपालिप्तत्वं च तद् एवाधुना विवृण्वन् शरणं याति—काल इति । क्षेत्रं प्रकृतिर् इति टीकायाः पाठो युक्तः, "क्षेत्रं शरीरम्" इति पाठे\ऽपि तच्-छब्देन कथञ्चित् प्रकृतिर् एव व्याख्येया पौनरुक्त्यात् । जीवः सोपाध्य्-अवस्थः । एषा त्वन्-माया, एते तव बहिरङ्ग-शक्तेर् एव विलासा इत्य् अर्थः । प्रपद्ये शरणतयाश्रये मायावृतत्वाद् अस्माकम् इति भावः ॥२६॥


जीव-गोस्वामी (परमात्म-सन्दर्भः ५३): अत्र काल-दैव-कर्म-स्वभावा निमित्तांशाः, अन्ये उपादानांशाः । तद्वान् जीवस् तूभयात्मकस् तथोपादान-वर्गे निमित्त-शक्त्य्-अंशोऽप्य् अनुवर्तते । यथा जीवोपाधि-लक्षणेऽहम्-आख्ये तत्त्वे तदीयाहम्-भावः, स ह्य् अविद्या-परिणाम इत्य्-आदि । यथोक्तं तृतीयस्य षष्ठे—

आत्मानं चास्य निर्भिन्नम् अभिमानोऽविशत् पदम् । > कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ [भा।पु। ३.६.२५] > इति ।

अत्र आत्मानम् अहङ्कारम् अभिमानो रुद्रः कर्मणा अहं-वृत्त्या इति टीका च । अत्र च यन् निर्भिन्नं, तद् अधिष्ठानं वाग्-आदीन्द्रियं तृतीयान्तम् अध्यात्मम् इति प्रकरण-निर्णयष् टीकायाम् एव कृतोऽस्ति ।

कर्मणो बीज-रूपत्वं कारणता-मात्र-विवक्षया । तद् एवम् अत्रापि मूल-मायायाः सर्वोपादानांश-मूल-भूतं क्षेत्र-शब्दोक्तं प्रधानम् अप्य् अंश-रूपम् इत्य् अधिगतम् । जीवस् तद्वान् इत्य् अनेन शुद्ध-जीवस्य मायातीतत्वं बोधयति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं सर्वश्रयत्वं तद्-दोषालिप्तत्वं यन् निरूपितं, तद् एव विवृण्वन् शरणं यात्—कालो दैवम् । अत्र क्षेत्रं प्रकृतिर् इति टीकायाः पाठो युक्तः । "क्षेत्रं शरीरम्" इति पाठो\ऽपि तच्-छब्देनाकथञ्चित् प्रकृतिर् एव व्याख्येया पौनरुक्त्यात् ॥२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केवलं ज्ञप्ति-मात्रत्वं विवृण्वन् प्रथमं केवल-पदेन व्यावृत्तानि वस्तूनि गणयति—काल इति । कालः क्षोभकः । कर्म निमित्तं, तद् एव फलाभिमुखम् अभिव्यक्तं दैवं । स्वभावस् तत्-संस्कारः । जीवः तद्वान् । द्रव्यं भूत-सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार एकादशेन्द्रियाणि महा-भूतानि चेति षोडशकः । तत्-सङ्घातो देहः । बीजं देहाज् जायमानं कर्म, रोहस् तस्माज् जनिष्यमाणो\ऽन्यो देहः, तयोः प्रवाहः पौनःपुन्यं परम्परा । एषा त्वन्-माया तत्र जीवस्य माया-भिन्नत्वे\ऽपि माया-ग्रस्तत्वान् मायात्वं, तन्-निषेधं तस्या मायायाः निषेधो यत्र तं, त्वद्-देहेन्द्रियादीनि त्वन्-मयान्य् एव न माया इत्य् अर्थः ॥२६॥


॥ १०.६३.२७ ॥

नाना-भावैर् लीलयैवोपपन्नैर्

देवान् साधून् लोक-सेतून् बिभर्षि ।

हंस्य् उन्मार्गान् हिंसया वर्तमानान्

जन्मैतत् ते भार-हाराय भूमेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु देवकी-तनयस्य मे कथम् एवं-भूतत्वम् ? तत्राह—नाना-भावैर् इति । सर्वोपाधि-विनिर्मुक्तम् एव त्वं यथा लीलया स्वीकृतैर् मत्स्याद्य्-अवतारैर् देवान् बिभर्षि पालयसि । तद्-अर्थं लोक-सेतून् वर्णाश्रम-धर्मान् । तद्-अर्थं तद्-अनुष्ठातॄन् साधून् तद् अङ्गत्वेन उन्मार्गान् दैत्यादीन् हंसि संहरसि । एवम् एतद् अपि ते तव जन्म भूमेर् भार-हरणाय । लीलावतारोऽयं न कस्यापि त्वं तनय इत्य् अर्थः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निजैश्वर्यत्वम् आच्छादायन्न् आक्षिपति—नन्व् इति । एवं-भूतत्वं माया-निषेधावधि-भूतत्वम् । तद्-अर्थं देव-पालनार्थम् । पुनस् तद्-अर्थं वर्णाश्रम-धर्मार्थम् । तद्-अनुष्ठातॄन् वर्णाश्रम-धर्म-निष्ठान् । तद्-अङ्गत्वेन सर्वादि-कारणीभूतस्य न कस्यापि पुत्रता सम्पनीपद्यत इति भावः ॥२७॥ [विश्वनाथ]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जन्मैतद् इति जन्म प्रादुर्भावः ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्यप्य् एवं पूर्वतः श्री-नारायण-रूपेण विविधावतारैश् च कृपां तनोषि, तथाप्य् अधुना निजाशेष-भगवत्ता-प्रकटनार्थं स्वयम् अवतीर्णो विशेषतो\ऽखिल-लोक-हितं करोषीत्य् आह—नानेति । विवधावतारैर् उपपन्नैस् त्वद्-योगैः सर्वैश्वर्य-युक्तैर् इत्य् अर्थः । अतो लीलयैव देवादीन् बिभर्षि । उन्मार्गांश् च हंसि । उन्मार्गान् विमार्ग-वर्तिनः । अत एव हिंसया वर्तमानान् लोक-हिंसकान् इत्य् अर्थः । यद् वा, उन्मार्गान् अतिक्रान्त-सन्-मार्गान् दैत्यान् दुष्ट-राजादींश् च, जीव-हिंसया जीवतश् च राक्षसादीन् । एतच् च तव जन्म श्री-देवक्यां प्रादुर्भावो यथा-योग्य-मुक्ति-भक्त्य्-आदि-प्रदानेन भूमेर् भारस्य हरणाय, इदं पूर्वं विवृतम् एव । अतो\ऽपराधिन्य् अपि मयि कृपाम् एव कर्तुम् अर्हसितराम् इति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, पूर्वतो\ऽप्य् अधुना कृपा-भरं विस्तारयन्न् असीत्य् आह—नाना-भावैर् बाल्यादि-चेष्टितैर् लीलयैव । न तु मनुष्यत्वादिना हेतुनोपपपन्नैः स्वीकृतैः । किं वा, विचित्र-क्रीडयैव, न तु पूर्ण-कामत्वाद् ईश्वर-भावेन युक्तैः, साधून् सद्-आचारान् लोक-सेतून् स्व-भक्तांश् च बाल्यादि-क्रीडया देवादीनां स्वत एव परंआनन्दोत्पत्तेः । हंसीति तच्-छ्रवणाद् दुष्टानां भयाद् उत्पत्तेः । इति तेषाम् अपि भयादिना तद्-ध्यानादिकं सूचितम् ।

यद् वा, उन्मार्गान् ब्भक्ति-विरुद्ध-मार्गान् पाषण्डादीन् तत्-तत्-क्रीदा-श्रवणादिना दुर्बुद्धीनाम् अपि विमार्ग-परित्यागेन सन्-मार्गे प्रवृत्तेः । अन्यत् समानम् । एवं भूमेर् भार-हरणाय, किं वा भार-युक्त-हाराय महालङ्कारायेत्य् अर्थः । अतो\ऽतिदुष्टत्वेन वध-योग्यम् अपि माम् अधुना त्वत्-कृपया शरणागतं परिपालयेति भावः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं निर्दोषश् चेद् अहं, तर्हि कथं कांश्चिद् धन्मि ? तत्राह—नानेति । लीला निज-परिकर-रूपैः भवतैः सह क्रीडा, तयैव हेतुना उपपन्नैर् योग्यतां लब्धैर् नाना-भावैः, एतान् मद्-भक्तानुगतान् बिभराणि तत्-प्रतिकूलांस् त्व् एतान् हन्मीत्य् एवं ये नाना-भावा विचित्राभिप्रायाः, तैर् देवान् इन्द्रादीन्, साधूंश् च मुन्य्-आदीन् बिभर्षि, उभयेषाम् अपि विशेषणं लोक-सेतून् लोकाश्रय-रूपानीति, तथा उन्मार्गान् हंसि, यतो\ऽयम् अवतार एतद्-अर्थम् इत्य् आह—जन्मेति । भूमेः परं-भक्तायाः पृथिव्याः, अतस् तादृश-साधु-शिरोमणि-भक्त-वृन्दानुग्रह-मयत्वाद् दुष्ट-हिंसादिको\ऽपि तव मायातीतो महा-गुण एवेति भावः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवं निर्दोषश् चेद् अहं तर्हि कथं कांश्चिद् धन्मि ? तत्राह—नानेति । लीला निज-परिकर-रूपैः भवतैः सह क्रीडा तयैव हेतुना । उपपन्नैर् योग्यतां लब्धैर् नाना-भावैर् अभिप्रायैर् देवान् इन्द्रादीन्, साधूंश् च मुन्य्-आदीन् बिभर्षि, उभयेषाम् अपि विशेषणं लोक-सेतून् तथा उन्मार्गान् हंसि, यतो\ऽयम् अवतार एव तद्-अर्थम् इत्य् आह—भूमेः परं-भक्तायाः पृथिव्याः ॥२७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं-भूतश् चेत् तर्ह्य् अनुग्रह-निग्रह-ज्ञापितौ राग-द्वेषौ मायिक-धर्मौ किं मयि दृश्येते ? तत्राह—नानेति । मद्-भक्तानुकूलान् बिभराणि एतांस् तत्-प्रतिकूलान् हनानीत्य् एवं भक्त-वत्सलस्य तव ये नाना भावा अभिप्रायास् तैर् लीलयानया बाण-युद्धादिकयैवोपपन्नैर् देवान् इन्द्रादीन् साधून् मुन्य्-आदींश् च बिभर्षि । उभयेषाम् अपि विशेषणं लोक-सेतून् लोकाश्रय-भूतान् । तेन भक्त-वात्सल्याङ्ग-भूतौ राग-द्वेषौ तेन न मायिकाव् इति । अहो मयेदम् अवगतम् इत्य् आह—एतत् ते जन्म भूमेः परं-भक्तायाः भार-हाराय तादृश-साधु-शिरोमणि-भक्त-वृन्दानुग्रह-मयत्वाद् दुष्ट-हिंसादिको\ऽपि तव मायातीतो महागुण एवेति भावः ॥२७॥


॥ १०.६३.२८ ॥

तप्तोऽहं ते तेजसा दुःसहेन

शान्तोग्रेणात्य्-उल्बणेन ज्वरेण ।

तावत् तापो देहिनां तेऽङ्घ्रि-मूलं

नो सेवेरन् यावद् आशानुबद्धाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽज्ञानतस् त्वद् अभिभवे प्रवृत्तं मां तप्तं रक्षेत्य् आशयेनाह—तप्तोऽहम् इति । ते तेजसा त्वत्-सृष्टेन ज्वरेण शान्तोग्रेण शीत-ज्वरेण । पर-सन्तापकस्य युक्त एव ताप इति चेद् अत आह—तावद् इति । सेवायां प्रवृत्तानाम् अनुचित इति भावः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् एव सर्वशो\ऽसीत्य् अतो हेतोः । इति भाव इति—अपराधः सकृद् भर्त्रा सोढव्यः स्व-प्रजा-कृतः इति न्यायेन नायं महताम् उचितः । किं च, तवास्मीति वदतो हननवद् अधुना मम सन्तापो\ऽपि पातक एवेति तात्पर्यम् ॥२८॥ [तोषणी]


कैवल्य-दीपिका : तप्तोऽहम् इति । शान्तः सन्न् उग्रः शान्तोग्रः, तेन शीतेन इत्य् अर्थः ॥२८॥ [मु।फ। १५.२७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र चादौ निज-ज्वरात् रक्षेत्य् आशयेनाह—तप्त इति । ननु त्वम् अपि माहेश्वरः, कथं तप्तो\ऽसि ? तत्राह—ते तेजसेति । अत एव दुःसहेन, यतः शान्तः शीतश् चासौ उग्रश् च दारुणस् तेन तत्राप्य् अत्युलणेन महोद्भटेन ताप आध्यात्मिकादिर् अपि । किं वा, सांसारिको\ऽपि किं पुनर् ज्वर-कृत इत्य् अर्थः । देहिनाम् इति देहाभिमानेन देह-स्वभावेन वा ताप्य-योग्यतोक्ता । अङ्घ्रेर् एकस्यापि मूलं तल-भागम् अपि नो सेवेरन्, कथञ्चित् किञ्चित् परिचर्याम् अपि न कुर्युर् इत्य् अर्थः । सम्भावनायां सप्तमी । तत्राप्य् आशया तापापगम् अस्य सेवनस्यैव वा वाञ्छया अनु ईषद् बद्धा यन्त्रिताः सन्तः, किं वा अनुबद्धाः कृतारम्भाः प्रवृत्ता अपीत्य् अर्थः । अतो\ऽधुना त्वत्-प्रपत्त्या कम् अपि तापं नार्हामि, किं पुनस् तज्-ज्वर-कृतम् इति भावः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं शरणम् आगम्य तन्-निमित्तं निवेदयति—तप्त इति । ज्वर-रूपेण ते तव तेजसा शान्तम् अपि मल्लानाम् अशनिः इत्य्-आदिवन् मादृश-दुर्जनं प्रत्य् उग्रायमाणं यत् तेन तत्राप्य् उल्बणेन महोद्भटेन तापः सर्वो\ऽपि किं पुनर् ज्वर-मात्र-कृत इत्य् अर्थः । नो सेवेरन्न् आश्रयेरन् । आसेवने हेतुः—आशाभिः पुत्र-वित्त-लोकेषणाभिर् निरन्तरं बद्धा इति । यद् वा, सेवाधिकारिण आह—आशया त्वद्-एक-कृपा-तृष्णया अनुबद्धा इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः परं त्वां स्तोतुम् अप्य् अहं न शक्नोमीत्य् आह—तप्तो\ऽहम् इति । ते तेजसा त्वत्-सृष्ट-ज्वरेण शान्तः शीतश् चासाव् उग्रो दाहकश् च तेन पर-सन्तापकस्य ते सतापो युक्त एवेति चेद्, अत आह—तावद् इति । अधुना त्व् अहं ते भक्त एवाभूवम् इति भावः ॥२८॥


॥ १०.६३.२९ ॥

श्री-भगवान् उवाच—

त्रि-शिरस् ते प्रसन्नोऽस्मि व्येतु ते मज्-ज्वराद् भयम् ।
यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे त्रि-शिरः, व्येतु अपयातु । मद्-आज्ञापालकः सन् सुखं विचर । कासावाज्ञा ताम् आह—य इति । नौ आवयोर् इमं संवादं यः स्मरेत् तस्य त्वत् त्वत्तो न भयं भवेत् । त्वया भयं नोत्पादनीयम् इत्य् अर्थः ॥२९-३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इमं श्लोक-चतुष्टयात्मकम् नमामि इत्य् आरभ्य यावद्-आशानुबद्धाः इत्य् अंतं संवादम् । इत्य् अर्थ इति—त्वया स त्यक्तव्य इति भावः । भयं न भवेद् इति भगवतोक्तं न तु तं त्वं मा स्पृशेत्य् उक्तमत एतत्-संवाद-श्रोतुर् अपि कचिज्-ज्वरो यत् तिष्ठति ततस् तस्य भयं न भवतीति बोध्यम् । हरि-वंशे त्वत्र श्लोक-द्वयात्मको मन्त्रोऽपि ज्वरघ्न उक्तः । तथा हि—

त्रिपाद्धस्म-प्रहरण-त्रिशिरा नवलोचनः । > स मे प्रीतः सुखं दद्यात्-सर्वामयपतिज्वरः ॥ > आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो\ऽप्य् अनुशासितारः ।

सर्वाञ्ज्वरान् ग्नन्तुं ममानिरुद्ध-प्रद्युम्न-सङ्कर्षण-वासुदेवाः ॥इति ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्वादम् अपि, किं पुनर् युद्धादिकम्, स्मरत्य् अपि किं पुनः शृणुयात् कीर्तयेद् वा, अन्यत्-तैर्याख्यातम् । यद् वा, तस्यापि न भवेत्, किं पूनर् मत्-प्रपन्नस्य तव मज्-ज्वराद्धयम् इत्य् अर्थः । किं वा, न भवेन्न भविष्यत्येवेति किं तद् अर्थम् आज्ञा कार्येति भावः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अस्य सकामत्वादापाततस् तत्-ताप एव शान्तो जातो नतु सर्वोपीति श्री-भगवद्-वाक्येनैव दर्शयति—त्रिशिर इति । सम्वादम् अपि किं पुर्न-युद्धादिकं स्मरत्य् अपि किम्-पुनः शृणुयात् कीर्तयेद् वा, अन्यौः तत्र मदाज्ञत्यस्यादौ त्वम् अपीत्य् अधिक वाच्यं यो नाविति करुणया तादृश-लोकतापकं मुञ्चतापि लोक-करुणयोक्तं यद् वा, तस्यापि न भवेत् किम्-पुनर् मत्-प्रपन्नस्य तव मज्-ज्वराद्धयम् इत्य् अर्थः । इति च तथैव ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नौ तव मम च त्वत्तः सकाशात् तस्य भयं न भवेद् इत्य् एव भगवतोक्तं न तु तं त्वं मास्पृशेत्य् उक्तम् अत एतत् सम्वाद-श्रोतुर्राप कचित् ज्वरो यत्तिष्ठति तद्-भयानुत्पादक एवाकिञ्चित्कर एवेति ज्ञेयम् ॥२९॥


॥ १०.६३.३० ॥

इत्य् उक्तोऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः ।
बाणस् तु रथम् आरूढः प्रागाद् योत्स्यन् जनार्दनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रागात् युद्ध इति । योत्स्यन् योत्स्यमानः । जनान् दुष्टानर्दयति पीडयतीति निरुक्तेः स्वपीडकम् इत्य् अर्थः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आनम्य दण्डवत् पातादिना सम्यङ् नत्वा, अच्युतम् इति तादृशापराधिनं प्रत्यपि भयेन सद्यो वाचैव प्रपत्त्या अभय-प्रदानेन—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते । > अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥

इत्य्-आदि-स्वप्रतिज्ञातस् तथा स्वल्प-स्तुति मात्रेण तत्रापि क्षणदैन्येनापि सर्व-दोष-क्षमादि-निज-माहात्म्यतश् च्युति-राहित्याभिप्रायेण । ननु, तथापि लोकोपतापके तस्मिस् तादृशो\ऽनुग्रहो\ऽनुचितः ? तत्राह—माहेश्वर इति, निज-प्रेष्ठ-श्री-रुद्र-भक्तत्वाद् इत्य् अर्थः । अतः श्री-भगवद् अनुग्रहेण तस्याशेष-दोषक्षयाद् अधुनैव तद् अपि सिद्धम् इति भावः । तु—शब्दस् तादृङ् अमहा-पराक्रम् अस्य ज्वरस्यापगमने\ऽपि बाणस्यागमनान् निर्बुद्धित्वं बोधयति, रथं माहेश्वरम् एव । श्री-नन्दीश्वर-सारथिकम्, अतः प्रकर्षेणागादागतः, योत्स्यन् योत्स्यमानः, जनान् दुष्टान इयतीति तथा तम् इति स्वपीडार्थम् एवागतम् इति भावः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युतम् इति । सर्व-दोष-क्षमादि-निज-माहात्म्यतश् च्युतिराहित्याभिप्रायेण तु-शब्दस् तादृङ् महा-पराक्रम् अस्य ज्वरस्यापगमेऽपि बाणस्यागमनान्-निर्बुद्धित्वं बोधयति रथं नन्दीश्वर-सारथिकं माहेश्वरम् एव यथोक्तं श्री-विष्णु-पुराणे—

नन्दीश-सङ्गृहीताश्वम् अधिरूढो महा-रथम् । > बाणस् तत्रागमद् योद्धुं कृष्ण-कार्ष्णि-बलैः सह ॥ इति ।

योत्स्यन् योत्स्यमानः जनान् दुर्जनान् अर्दयतीति तथा तम् इति स्वपोडनार्थम् एवागत इति भावः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योत्स्यन् योत्स्यमानः ॥३०-३१॥


॥ १०.६३.३१ ॥

ततो बाहु-सहस्रेण नानायुध-धरोऽसुरः ।
मुमोच परम-क्रुद्धो बाणांश् चक्रायुधे नृपे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो युद्ध-भूमावागमनानन्तरम् । चक्रायुधे\ऽपि बाण-च्छेदकास्त्रधरे\ऽपि बाणान्यतो मुमोचातो निर्बौद्धेर् अयम् इति हसन राजानं सम्बोधयति—नृपेति । नृपा एवंवृत्ता एवं भवन्ति यथा त्वया समाधिष्ठं जानतापि शमीककण्ठेहिनिक्षिप्तस् तद्वद् अयम् इति भावः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाना-युधधरो\ऽपि परम-क्रुद्धः सन् दूरादादौ बाणान् मुमोच । चक्रायुध इति तेषां तस्मिन् वैफल्यं सूचयति । यद् वा, चक्रायुधे\ऽपि बाणान् मुमोच । कुतः ? परम-क्रुद्धो महा-क्रोधेन विचार-लोपाद् इत्य् अर्थः । एवं तस्याप्य् अतिनिद्धित्वेन हसन् सम्बोधयति—नपेति ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नानायुध-धरोऽपि नृपः असुर-सैन्यराजोऽपि परम-क्रुवद्धः सन् स्वयम् एव दूराद् आदौ बाणान् मुमोच चक्रायुध इति तस्मिस् तेषां वैफल्यं सूचयति यद् वा, चक्रायुधेऽपि बाणान् मुमोच कुतः परम-क्रुद्धः महा-क्रोधेन विचार-लोपाद् इत्य् अर्थः । एवं तस्याति-निर्बन्द्धत्वेन हसन् सम्बोधयति नृपेति ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.३२ ॥

तस्यास्यतोऽस्त्राण्य् असकृच् चक्रेण क्षुर-नेमिना ।
चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य बाणस्य । वनस्पतेर् बृअहद्-वृक्षस्य । तदा बाणैर् न किम् अपि कर्तुं शक्तद्व-यथामापेति दृष्टान्तम् आह—वनस्पतेर् इति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चाद् अस्राणि विविधान्यस्यतः सतो\ऽस्त्राणि बाहूम्श् च चिच्छेद । यद् वा, अस्यत इति वर्तमान-निर्देशेनास्लमोचनात् प्राग् एव बाहून चिच्छेदेति ज्ञेयम्, यतो भग्वान् सर्व-शक्तिय् उक्तः । क्षुरवत्-तीक्षणतरा नेमयः प्रान्ता यस्य तेनेति छेदने शैघ्र्यमनायासादिकत्वं च द्योतयति, तथा च श्री-हरि-वंशे—

अलात-चक्रवत्-तूर्णं भ्राम्यच्-चक्रं सदाभवत् । > क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्धनि ॥ > विष्णु-चक्रं भ्रमत्याशु शैघ्र्याद्-रूपं न दृश्यते । > तस्य बाहु-सहस्रस्य पर्यायेण पुनः-पुनः ॥

बाणस्य छेदनं चक्रे तच्-चक्रं रण-मूर्धनि ॥ [ह।वं। २.१२६।१२८-१३०] इति ।

तत्र च बाणः किञ्चित् प्रतिकर्तुम् अशक्तो वृक्षवत् स्तब्धतां प्राप्त इत्य्-आदिकं दृष्टान्तेन बोधयति-शाखा इति ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्चादत्राणि विविधान्यस्यतः सत इत्य् अत्र मोचनारम्भ एव बाहून् चिच्छेदेति ज्ञेयं यतो भगवान् सर्व-शक्ति युक्तः क्षुरवत्-तीक्ष्णतरा नेमयः प्रान्ता यस्य तेनेति छेद ने शैघ्र्यमनायासादिकञ् च द्योतयति तथा च हरि-वंशे—

अलात-चक्रवत्-तूर्णं भ्राम्यच्-चक्रं सदाभवत् । > क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्धनि ॥ > विष्णु-चक्रं भ्रमत्याशु शैघ्र्याद्-रूपं न दृश्यते । > तस्य बाहु-सहस्रस्य पर्यायेण पुनः-पुनः ॥

बाणस्य छेदनं चक्रे तच्-चक्रं रण-मूर्धनि ॥ [ह।वं। २.१२६।१२८-१३०] इति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य बाणस्य अस्यतः क्षिपतः ॥३२॥


॥ १०.६३.३३ ॥

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।
भक्तानुकम्प्य् उपव्रज्य चक्रायुधम् अभाषत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्त-रक्षणार्थं श्री-रुद्रो भगवन्तं स्तौति, त्वं हीति । अयम् अर्थः, त्वाम् अज्ञात्वायं युध्यत इति न चित्रम् । यतस् त्वं वाङ्-मये ब्रह्मण्य् अपि गूढं ब्रह्म अभिधाविषयत्वात् । कुतः । परं ज्योतिः । ज्योतिषाम् अपि प्रकाशकत्वाद् अविषय इत्य् अर्थः । कथं तर्हि प्रतीतिर् अत आह—यम् इति । अमलात्मनां स्वतः प्रकाशसे इत्य् अर्थः ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, यदैव येनायुध्यत तदैव तम् उपव्रज्य तुष्टावेति भवस्य लज्जापि नाभूत्-तत्राह—भगवान् सर्वज्ञः । स्वस्य परस्य ब्रह्मादेर् अपि तन्-मायामोहितत्वं न चित्रम् इति जानात्येवातस् तस्मिन्-स्वप्रभौ स्वयं भगवति का लज्जेति भावः । भवो रुद्रः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् परमैश्वर्य युक्तो\ऽपि, चक्रायुधम् उपव्रज्य शरणागतत्वेनाश्रित्य । ननु, तथापि महा-पराधिनं तम् उपेक्षितुम् एवासावहति ? तत्राह—भक्तम् अनुकम्पितुं शीलम् अस्येति तथा सः । चक्रायुधम् इति बाहु-वर्गच्-छेदनानन्तरं चक्रेणाव्यर्थेन बाणस्य वधशङ्कयेति भावः । अस्तौद् इति वक्तव्ये अभाषतेति तत्त्वज्ञेन तेन स्वरूप-मात्र-वर्णनात्, अतस् तस्य जृम्भापि प्राग् एव गतेति ज्ञेयम् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् महा-प्रभावो\ऽपीति सर्वज्ञ इति वा चक्रायुधम् उपव्रज्य शरणागतत्वेनाश्रित्य ननु, तथापि महा-पराधिनं तम् उपेक्षितुम् एवासावर्हति तत्राह भक्तम् अनुकम्पितुं शीलम् अस्येति तथा सः अयं भावः स्वयं भगवन्-महिम-व्यक्त्यर्थम् एव युद्धादिकं कृतवान् इति सर्वज्ञे तस्मिन् स्वापराध-भञ्जनाथ यत्नम् अकरोत् किं तु निज-भक्तस्य तादृशत्व-दूरीकरणार्थम् एव पूर्वं प्रवृत्तत्वात्-तद् अर्थम् एवाधुनाप्य् उद्यम उचित इति चक्रायुधम् इति बाहु-वर्ग-च्छेदनानन्तरं चक्रेणाव्यर्थेन बाणस्य वधशङ्कयेति भावः । अस्तौद् इति वक्तव्ये अभाषतेति स्वरूप-मात्र-वर्णनस्याप्य् अशक्यत्वेन स्तुतावप्य् अशक्त । अतस् तस्य जम्भापि प्राग् एव गतेत्यागतम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, यद् एव येन सहा-युध्यत तदैव तम् उपव्रज्य तुष्टावेति भवस्य लज्जापि नाभूत्-तत्राह—भगवान् सर्वज्ञः स्वस्य परस्य ब्रह्मादेर् अपि तन्माया-मोहितत्वं न चित्रम् इति जानात्य् एवातस् तस्मिन् स्व-प्रभौ स्वयं भगवति का लज्जेति भावः ॥३३॥


॥ १०.६३.३४ ॥

श्री-रुद्र उवाच—

त्वं हि ब्रह्म परं ज्योतिर् गूढं ब्रह्मणि वाङ्-मये ।
यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्त-रक्षणार्थं श्री-रुद्रो भगवन्तं स्तौति । त्वं हीति । अयम् अर्थः । त्वाम् अज्ञात्वायं युध्यत इति न चित्रम् । यतस् त्वं वाङ्मये ब्रह्मण्य् अपि गूढं ब्रह्म अभिधाविषयत्वात् । कुतः । परं ज्योतिः ज्योतिषाम् अपि प्रकाशकत्वाद् अविषय इत्य् अर्थः । कथं तर्हि प्रतीतिरत आह । यम् इति । अमलात्मनां स्वतः प्रकाशस इत्य् अर्थः ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युद्ध-प्रवृत्तिम् आह—अयमर्थ इति । अयं बाणः । वाङ्मये वेदे । अभिधा कथनं तद् अगोचरत्वात् । कथनागोचरत्वे हेतुम् आशङ्कतेकुत इति । इत्य् अर्थ इति येनेद्धः सूर्यस्त पति इत्य्-आदि-श्रुतेर् इति भावः । अविषयप्रतीति-प्रकारं शङ्कते—कथम् इति । इत्य् अर्थ इति दृश्यते त्व् अग्रया बुद्धया इति श्रुतेर् इति भावः । त्वं परं ब्रौव ज्योतिर् अप्राकृत-ज्योतिस्-स्वरूपम्—

तत्-परं परमं ब्रह्म सर्व विभजते जगत् । > ममैव तद्-धनं तेजो ज्ञातुम् अर्हसि भारत ॥

इति हरि-वंशे\ऽर्जुनं प्रति भगवद् उक्तेः । नन्व् एवं जानन् कथं मया युद्धम् अकरोस् तत्राह—वेदेऽपि गूढं ब्रह्म साक्षाद् एव त्वं कथं ज्ञेयः स्या इति भावः । ताहमज्ञेय एव तत्राह—यं मायामालिन्य-रहिता एव पश्यति अहं तमोमयः कथं पश्येयम् इति भावः । मायाश्रयत्वेऽपि तव न तल्-लेप इत्य् आह—आकाशम् इवेति ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमलस् त्वद्-भक्त्या विशुद्धा । किं वा, अमले सर्वदोष-निवर्त्तके त्वयि आत्मा चित्तं येषां ते, केवलम् एकम् अपि आकाशम् इव बहुधा व्यापकं पश्यन्ति । अन्यत् तैर् व्याख्यातम् । यद् वा, त्वम् एव परमेश्वरो वयं तु तवांशांशाः, अतस् त्वतो निज-पराजयान् न लज्जे, अनुग्रहञ् च मन्य इत्य् आशयेनादौ परमेश्वरत्वं वर्णयति—त्वम् इति । हि एव, परम् इत्य् अस्योभयतो\ऽप्य् अनुषङ्गः । परं ब्रह्म त्वम् एव, न तु मिथ्याभिमानिनो वयम् । परब्रह्मत्वे हेतुः—परं ज्योतिर् इति, ब्रह्मणो\ऽपि प्रकाशकत्वात्, तच् च यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवास्मादात्मनः सर्व एवात्मानो व्युच्चवन्ति इति श्रुत्या जीवानां तत्त्वतः परमेश्वराद् एव प्रकाश-प्रसिद्धः । अतस् तद्-भक्तवरा एव तत्त्वतस् त्वां पश्यन्ति, न तु वयम् इत्य् आह—गूढम् अपि, यं त्वां केवलं निर्मलम् आकाशम् इव सुश्याम-कान्ति-सुन्दरं पश्यन्ति, वयं तु परमेश्वरत्वेनैव पश्यामः, न च सौन्दर्यमयत्वेन, अस्माकं भक्ति-विशेषाभावेन तद् एक-परत्वाभावात् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वं हि त्वम् एव परं परमतत्त्वं ननु, परमतत्त्वं नाम कथं परिच्छिन्नं दृश्यमानं च एतत् स्यात्-तत्राह—ब्रह्म यतो\ऽन्यद्-बृहन्-नास्ति तद्रूपं तथा ज्योतिः सर्व-प्रकाशकं स्वप्रकाशञ् च नन्व् अत्र किम्-प्रमाणं तत्राह वेदे गूढं रहस्यत्वेन कचिद् एव तथैव दर्शितं तथा च गोपाल-तापन्यां । तेहोचुर् एतस्य गोविन्दस्याखिलाधारिणो ब्रूहीति-चेतनश् चेतनानाम् इति तं ह देवम् आत्मवृत्ति-प्रकाशम् इति च अत एवोक्तं गूढं परं ब्रह्म मनुष्य-लिङ्गम् इति ननु, कथं तर्हि कश्चिद् अशुद्ध इव प्रतीयते तत्राह यम् इति यं त्वां शुद्धात्मानं केवलं शुद्ध स्वरूप-शक्त्यैक-विलासिनं पश्यन्ति यथावद् अनुभवन्ति किम् इव भाकाशम् इव यथान्य-धर्मैर् आकाशं न लिप्यते तथात्वम् इत्य् एतदंशे तत्-तुल्यम् इत्य् अर्थः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वं हि त्वम् एव परं परम-तत्त्वं ननु, परम-तत्त्वं नाम कथं परिच्छिन्नं दृश्यमानं च स्यात् तत्राह ब्रह्म सर्वतो बृहत् तथा ज्योतिः स्वप्रकाशम् अन्य-प्रकाशकञ् च नन्वत्र किं प्रमाणं तत्राह वेदे गूढं रहस्यत्वात् कचिद् एव तथैव दर्शितं यथा तापन्यां ते होचुर् एतस्य गोविन्दस्याखिलाधारिणो ब्रहीति चेतनश् चेतनानाम् इति तं ह देवम् आत्म-वृत्ति-प्रकाशम् इति च अत एवोक्तं गूढं परं ब्रह्म मनुष्य-लिङ्गम् इति कथं तार्किकैश् चिद् अशुद्ध इव प्रतीयते तत्राह यम् इति केवलं शुद्धं शुद्धत्वे दृष्टान्तः आकाशम् इवेति ॥३४-३६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वं हीत्य् आदि । त्वं हि परं ब्रह्म मूर्तिमद्-ब्रह्मत्य् अर्थः । ज्योतिः प्रकाश-स्वरूपम् । ननु, वेदो मां मूतं ब्रह्मेति न वदति इत्य् आशङ्क्य् आह—वाङ्मये ब्रह्मणि वेदे गूढ्म्, प्रचरद्-रूप-वेदगम्यो न भवसि किं तु आनुमानिक-वेद-बोधितं त्वा त्वाम् अलात्मानः पश्यन्ति जानन्ति । किम् इव ? केवलम् आकाशम् इव, आकाशो यथालिप्तस् तथा । तेन युद्धादि केवलं ते लीलैव । अत्र यः क्रोधादिस्तेन त्वं लिप्तो न भवसीति भावः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं परं ब्रह्मैव ज्योतिर् अप्राकृत-ज्योतिः-स्वरूपं—

तत्-परं परमं ब्रह्म सर्व विभजते जगत् । > ममैव तद्-धनं तेजो ज्ञातुम् अर्हसि भारत ॥

इति अर्जनं प्रति हरि-वंशे भगवद् उक्तेः नन्व् एवञ्चेज्जानासि तदा मया सह विग्रहं कथम् अकरो स् तत्राह—वाङ्मये ब्रह्मणि वेदेऽपि गूढं ब्रह्म साक्षाद् एव त्वं कथं ज्ञेयः स्या इति भावः तहि किम् अहम् अज्ञेय एव तत्राह—यम् इति । अमलात्मानो मायामालिन्य् अरहिता एव अहं तु तमोमयः कथं पश्येयम् इति भाव । आकाशम् इवेति मायाश्रयत्वेऽपि तव न तल्लेपः ॥३४॥


॥ १०.६३.३५ ॥

नाभिर् नभोऽग्निर् मुखम् अम्बु रेतो

द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी ।

चन्द्रो मनो यस्य दृग् अर्क आत्मा

अहं समुद्रो जठरं भुजेन्द्रः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां तवन् निर्गुणस्य तव ज्ञानं लीलयाधिष्ठितस् त्वया यो विराड्-विग्रहः सोऽपि न ज्ञायते उदुम्बर-फलान्तर्-वर्तिम् अशकैर् इवोदुम्बर-फलम् इत्य् आशयेन विराड्-रूपेण स्तौति द्वाभ्याम्, नाभिर् इति । यस्य नभ-आदयो नभ्य्-आद्य्-अवयवाः स भवण् लोक-कल्पः पुरुष इत्य् उत्तरेणान्वयः । नभो यस्य नाभिः । अग्निर् मुखम् अम्बु रेतः । द्यौः शीर्षम् । आशा दिशः श्रुतिः श्रवणेन्द्रियम् । उर्वी अङ्घ्रिः । चन्द्रो मनः । अर्को दृक् । अहं शिव आत्माहङ्कारः । समुद्रो जठरम् । इन्द्रो भुजा बाहुः । इन्द्रादयो लोक-पाला बाहव इत्य् अर्थः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वं साक्षाद्-ब्रह्मैव जगद् इदम् अस्मद् आद्यात्मकं तव विभूतय एवेत्य् आह—नाभिर् इति । यस्य तव नभोन्तरिक्षम्, द्यौः स्वर्गः, उर्वी भूमिः । इत्य् अर्थ इति इन्द्रादयो बाहव आहरुलाः इत्य् उक्तेर् इति ज्ञेयम् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वं होत्य् आदि । त्वं हि परम्ब्रह्म गढं ज्योतिः, वाङ्मये ब्रह्माणि वेदे अमलात्माना शुद्धान्तः-करणाः केवलं यं पश्यति श्रुति-प्रतिपाद्यम् एव ते जानन्ति, कम् इव आकाशम् इव आकाशो यथा केवलो\ऽन्यालिप्तस् तद्वत् । यद् वा, आकाशम् इव काशृ दोप्तो काशो दीप्तिः, आसम्यक् प्रकाशम् इव, इव एवार्थः ॥३५-३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनो\ऽन्येषां कार्य-कारणानां तद् अधिष्ठितविराड् विग्रहावयवत्वेन तद् अंशांशत्वं प्रतिपादयति—नाभिर् इति द्वाभ्याम् । लोक-कल्पः कारण-कार्यात्मक-प्रपञ्च-रूपः पुरुषो वैराजेन सहाभेदात्, वै प्रसिद्धौ, नाभ्यादीनाञ् च को\ऽपि क्रमो नापेक्षितः, अत्यन्तोच्चावचस्य प्रपञ्चस्य तद् अवयवत्व-मात्रापेक्षया तत्र तात्पर्याभावात् । अन्यत् तैर् याख्यातम् । तत्र लोकैः कल्पते\ऽवकल्पत इति चतुर्दश-भुवनैः कार्य—कारणात्मकैः सम्पद्यत इत्य् अर्थः । यद् वा, कल्पत इति सयल्वे लेख्य लेखक-भ्रमान्-निर्यत्वम् । अथवा वै एव, स चतुर्दश-भुवनात्मकः पुरुषः भवानेवाधिष्ठानत्वेनाभेदात्, अन्यत् समानम् ॥३५-३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाभिर् इति युग्मकम् । लोकैश् चतुर् दशभिर् भवनैः कल्पते कल्पनया उपास्यत्वेन सम्पाद्यते यः स लोक कल्पः यद् वा, तत्-तया सम्पद्यते यः पुरुषो विरारूपः स भवान् भवद् अधिष्ठानम् इत्य् अर्थः ॥३५-३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : विराड्रूपं तु तव विभूति-मात्रम्, न तु तवास्तवम् । तत् कीदृशम् ? इत्य् आहनाभिर्नभ इत्य्-आदि द्वाभ्याम् ॥३५-३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं साक्षाद्-ब्रह्म व जगद् इदम् अस्मदाद्य् आत्मकं तु तव विभूतिर् एवेत्य् आह—नभो यस्य तव नाभिः उर्वी तव अघ्रिः अर्को दृक् अहं शिवः आत्मा अहङ्कारः इन्द्रो भुजाः ओषधयो रोमाणि धिषणा बुद्धिः विसर्गः उपस्थः धर्मो हृदयं यच्-छब्दावृतिः स्पष्टतार्था नभ आदयो ये\ऽमी दृश्यन्ते ते सर्वे सच्-चिद्-आनन्द-शरीरस्य तव नाभ्यादीनि इति विभूतय इत्य् अर्थः ॥३५॥


॥ १०.६३.३६ ॥

रोमाणि यस्यौषधयोऽम्बु-वाहाः

केशा विरिञ्चो धिषणा विसर्गः ।

प्रजा-पतिर् हृदयं यस्य धर्मः

स वै भवान् पुरुषो लोक-कल्पः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ओषधयो रोमाणि । यच्-छब्दावृत्तिः स्पष्टतार्था । अम्बु-वाहाः केशाः । विरिञ्चो धिषणा बुद्धिः । प्रजा-पतिर् विसर्गो मेढ्रम् । धर्मो हृदयम् । लोकैः कल्प्यतेऽवकल्प्यत इति लोक-कल्पः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ओषधय उद्भिज्जम् रोमाण्य् उद्भिज्जजातीनि इत्य् उक्तेः । विसृज्यते रेतःसेचन-द्वारोत्पाद्यते देहो\ऽनेनेति विसर्गः बिण्दुद्वये विसर्गोथ रादेशे सर्ग-शिश्नयोः इति निरुक्तिः । लोकान कल्पयति स्वनाभ्यादिभिश् चिन्मयैर् नभोख्यादीन् प्राकृतान् चयतीत्य् अर्थः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनो\ऽन्येषां कार्य-कारणानां तद् अधिष्ठितविराड् विग्रहावयवत्वेन तद् अंशांशत्वं प्रतिपादयति—नाभिर् इति द्वाभ्याम् । लोक-कल्पः कारण-कार्यात्मक-प्रपञ्च-रूपः पुरुषो वैराजेन सहाभेदात्, वै प्रसिद्धौ, नाभ्यादीनाञ् च को\ऽपि क्रमो नापेक्षितः, अत्यन्तोच्चावचस्य प्रपञ्चस्य तद् अवयवत्व-मात्रापेक्षया तत्र तात्पर्याभावात् । अन्यत् तैर् याख्यातम् । तत्र लोकैः कल्पते\ऽवकल्पत इति चतुर्दश-भुवनैः कार्य—कारणात्मकैः सम्पद्यत इत्य् अर्थः । यद् वा, कल्पत इति सयल्वे लेख्य लेखक-भ्रमान्-निर्यत्वम् । अथवा वै एव, स चतुर्दश-भुवनात्मकः पुरुषः भवानेवाधिष्ठानत्वेनाभेदात्, अन्यत् समानम् ॥३५-३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाभिर् इति युग्मकम् । लोकैश् चतुर् दशभिर् भवनैः कल्पते कल्पनया उपास्यत्वेन सम्पाद्यते यः स लोक कल्पः यद् वा, तत्-तया सम्पद्यते यः पुरुषो विरारूपः स भवान् भवद् अधिष्ठानम् इत्य् अर्थः ॥३५-३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकान् कल्पयसि स्वनाभिमुखादिभिश् चिन्मयैर् नभोग्न्यादीन् प्राकृतान् सृजसीत्य् अर्थः ॥३६॥


॥ १०.६३.३७ ॥

तवावतारोऽयम् अकुण्ठ-धामन्

धर्म् अस्य गुप्त्यै जगतो हिताय ।

वयं च सर्वे भवतानुभाविता

विभावयामो भुवनानि सप्त ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तत्त्वतः प्रादेशिक-शरीरस्य कथं नभोनाभित्वादीत्य् अत आह—तवेति । हे अकुण्ठ-धामन्न् अप्रच्युत-स्वरूप, भवायाभ्युदयाय । न केवलम् एतावत् किन्त्व् अस्मद्-अनुग्रहार्थम् अपीत्य् आह—वयं चेति । सर्वे लोक-पालास् त्वया पालिताः सप्तापि भुवनानि पालयाम इति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते-नन्विति । प्रादेशिकं प्रादेशम् इतं शरीरं यस्य तस्य केचित्-स्वदेहान्तर् हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् इति द्वितीय-स्कन्धोक्तेः । यद् वा, प्रादेशो यत्किञ्चिद्-देशस् तत्र तिष्ठतीति प्रादेशिकः प्रादेशो देश-मात्रेऽपि इति मेदिनी । साक्षाद्-ब्रह्मणो\ऽदृश्यस्यापि यदृश्यत्वं तत्केवलं कृपानिबन्धनम् एवेत्य् आह—हे अकुण्ठधामन् परब्रह्मणो यदृश्यत्वं तस्मात्-तस्तव प्रभावः कुण्ठी-कर्तुम् अशक्य एवेति भावः । धर्म् अस्य स्वभक्ति-लक्षणस्य तत्-प्रतिपक्ष-मत-निरसनपूर्वकं रक्षणाय जगतः कर्मि-ज्ञानि-मूढ-बहिर्मुख-दुराचार-पर्यन्तस्याभवाय मोक्षाय न च सामान्य-जगत्-पालनायेत्य् आह—वयं सर्वे दिवपाला भवतानुभाविताः पालिताः सन्त! पालयाम एव तन्मात्रार्थे तवाविर्भावे किं प्रयोजनम् इति भाव इति विश्वनाथः ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विराड्-रूपं तु तव लीला-मात्रम्, तत् कीदृशम् इत्य् अनूद्य तवावतारो\ऽयम् इति वदन् श्री-कृष्णस्य परमैश्वयं प्रदर्शयति—वयञ् च सर्वे भवतानुभाविता सन्तो विभावयामो भुवनानि सप्त इति ॥३७-४०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सदात्म-त्वदीयत्वेन वयं त्वद्-अनुग्रहे योग्या एव, विशेषतश् चाधुना नितराम् अनुगृहीता इत्य् आह—तवेति । अवतारो वैकुण्ठ-लोकाद् अवतरणम्, धर्म् अस्य त्वद्-भक्ति-लक्षणस्य, अतो जगतः सर्व-जीवानाम् एव, भवाय लोक-द्वय-श्रेयसे, हे अकुण्ठ-धामन्न् इति साक्षाद्-भगवत्त्वात् । एवं भवतानुभाविताः सन्तो वयम् अपि त्वद्-भक्ति-विस्तारणादिना विशेषेण पूर्वत आधिक्येन भावयामः ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तवेति तैर् व्याख्यातं तत्र प्रादेशिकत्वम् एक-देशस्थत्वं नभो नाभित्वादित्वं तत्-तद् अङ्गाधिष्ठित-तत्-तद्-वस्तुत्वं तत्र सिद्धान्तः सर्व-देश-कालाप्रच्युत-स्वीय-विग्रह एव त्वम् अचिन्त्य-शक्त्यैव प्रादेशिकतया भासीति अप्रच्युत-स्वरूप इत्य् अस्य तात्पर्याद्गम्यः यद् वा, नन्व् एवम्भूतस्य मम कथं प्रपञ्चे स्व-स्वरूपेण प्राकट्यं तत्राह—तवेति ! हे अकुण्ठ-भामन् श्री-गोलोकादिन् इत्य् अ-स्थान ! तव अवतारः अपूर्ववत् प्रपञ्चे प्राकट्य-धर्म् अस्य प्राधान्मतस् त्वद्-भक्तानां त्वद्-भक्ति-लक्षणस्य [अतो] जगतः सर्व-जीवानाम् एव भवाय लोक-द्वय-श्रेयसे अतो वयं चेति विशेषेण त्वद्-भक्ति-विस्तारणादिना पूर्वत आधिक्येन भावयामः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवं-भूतस्य मम कथं प्रपञ्चे स्व-स्वरूपेण प्राकट्यम् ? तत्राह—तवेति । धर्म् अस्य प्राधान्यतस् त्वद्-भक्ति-लक्षणस्य ॥३७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वं तु सर्व-कारण-कारणं मुर्तानन्दः । नन्व् एवं चेदहं तदा कथम् अवनौ भविष्यामीत्य् आह—तवावतारो\ऽयम् इत्य्-आदि । हे अकुण्ठ-धामन् ! अयं तवावतारः किल धर्म् अस्य गुप्त्यै जगतो भवाय क्षेमाय । ननु, भवन्त एव लोक-पालकाः ? नेत्य् आह—वयं चेत्य्-आदि । वयञ् च सर्वे ब्रह्मादयस् त्वयानुभाविता अनुभावितं प्रापिताः, न त्वस्माकं स्वतो\ऽनुभावः, तद् अनुभावेनैव सप्त-भुवनानि विभावयामः ॥३७-४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साक्षाद्-ब्रह्म-स्वरूपत्वाद् अदृश्यस्यापि तव यत् प्रापञ्चिक-लोकैर् दश्यत्वं तद् अतर्क्य-शक्तेस् तव परम-कृपा-निबन्धनम् इत्य् आह । तवेति । हे अकुण्ठ-धामन् ! परब्रह्मणोऽपि तव यद्द्-दृश्यत्वं तस्मात्-तर्कैस् तव प्रभावः कुण्ठी-कर्तुम् अशक्य इत्य् अर्थः । धर्म् अस्य स्व-भक्ति-लक्षणस्य गुप्त्यै तत्-प्रतिपक्ष-मत-निरसनपूर्वक रक्षणाय जगतः कर्मि-ज्ञानि-मूढ-दुराचार-बहिर्मुख-पर्यन्तस्यापि अभवाय मोक्षाय न च सामान्य-जगत्-पालनायेत्य् आह—वयम् इति । सर्वे दश दिक्-पालाः भवता अनुभाविताः पालिताः सन्तः पालयाम एव तन्-मात्रार्थं तवाविर्भावे किं प्रयोजनम् इति भावः ॥३७॥


॥ १०.६३.३८ ॥

त्वम् एक आद्यः पुरुषोऽद्वितीयस्

तुर्यः स्व-दृग् धेतुर् अहेतुर् ईशः ।

प्रतीयसेऽथापि यथा-विकारं

स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि विभवयितारो यूयं विभाव्यानि च भुवनानि सन्ति तर्हि कथम् उक्तं त्वं हि ब्रह्मेति । न हि ब्रह्मत्वे मम सजातीय-विजातीय-भेदः सम्भवतीत्य् अत आह—त्वम् इति । एकः सजातीय-भेद-रहितः । कुतः । आद्यः पुरुषः पुरुषाणाम् अवस्था-त्रय-वताम् आद्यः प्रकृति-भूतः पुरुषः । कुतः । तुरीयः । शुद्ध इत्य् अर्थः । तद् अपि कुतः । स्व-दृक् स्व-प्रकाश-ज्ञान-रूपः । शुद्धाद् एव ह्य् उपाधि-योगाज् जीवा जायन्ते । “यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्य् एवम् एवास्माद् आत्मनः सर्व एव आत्मानो व्युच्चरन्ति” इति श्रुतेः । अतः सजातीय-रहितः । किं च अद्वितीयो विजातीय-रहितोऽपि । कुतः । हेतुः सर्वस्य । तथा स्वयं हेतु-रहितश् चेति । कथं तर्हि प्रति शरीरं जीव-भेदः प्रतीयतेऽत आह—प्रतीयस इति । सर्व-गुण-प्रसिद्ध्यै सर्व-विषय-प्रकाशनाय ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उनर् भग्यन्तरेणाक्षिपति—ननु, यदीति । एकत्वे हेतुम् आशङ्कते—कुत इति । अवस्था जाग्रदाद्याः । तत्र हेतुः—तुर्य इति । इत्य् अर्थ इति—मालिन्य-हेत्ववस्थास्पष्टत्वाद् इति भावः । तद् अपि तुर्यत्वम् अपि । उपाधिर् माया । विस्फु-लिङ्गा अग्निकणाः । आत्मानो जीवाः । अत एवम्भूतत्वात् । न केवलं सजातीयरहित एवेत्य् आह—किं चेति । विजातीय राहित्यं कस्माद् अत्राह—हेतुर् इति । प्रतीयत इति । प्रातीतिक एव भेदो न स्वाभाविक इति भावः । अत्र विश्वनाथः—ननु, केचिन्मम गुणावताराः केचिच् च विभूतय इति मत्तो यूयम् अभिन्ना एव तत्राह—त्वम् एवैक ईशः वयं तु सेवका एव । कुतः—आद्यः पुरुषो यतस् तुरीयः विराट् हिरण्यगर्भश् च कारणश्चेत्य् उपाधयः ईशस्य यस्त्रिभिर्हीनं तुरीयं तद् विदुर्बुधाः । किं च, नारायणवासुदेवाददयो\ऽपि त्वद्-अन्तःपाताद-द्वितीयाः । अन्येषां हेतुः स्वयं हेतुर् अहितश् च यतः स्वदृक् स्वेनैव दृग्-दर्शनं यस्य न त्व् अन्यः को\ऽपि त्वां द्रष्टुं शक्नोतीति भावः । यद् वा, स्वानां भक्तानां दृग्-यस्य सः । तथा स्वभक्तानां नित्य-सत्ता-विचित्र-बहुल-रूपेण प्रकाशस इत्य् आह—प्रतीति । स्वेषु या दया कृपा तया तेषाम् एकान्तित्वादिसर्व-गुणप्रसिद्धये लोके विख्यात्यै यथा-विकारं भावानुसारेण प्रतीतो भवसि । ईदृगैश्वर्यवान् अपि तुच्छ-माया-गुणानाम् उपकरोषीत्य् आह—प्रतीयस इति । यथा विकारं प्रति शरीरं स्वमायया कृत्वा बुद्धीन्द्रियादि-गुणानां प्रसिद्ध्यर्थम् अन्तर्यामितयानुभूयसे यदि त्वम् अन्तर्यामित्वं न कुरुषे तर्हि तेषां प्रकाशकाभावात्ते जडतया व्यर्थाः स्युर् इति भावः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वम् एवेशः, अत एकः । यद् वा, एवं सजातीय-विजातीय-भेद-राहित्यादीशः, अत एव परं ब्रह्मेति भावः । यथा विकारं स्व-स्व-देहानुसारेण देहानुरूप-चैतन्य-प्रकाशतारतम्येन नानाविधः प्रतीयत इत्य् अर्थः । तच् च स्वमाययेति तत्त्वतो\ऽपि जीवत्वं निरस्तम्, तच् च व्यक्तं भावि । अन्यत् तैर् व्याख्यितम् । यद् वा, ननु, केचिन् मम गणावताराः केचिच् च विभतय इति मत्तो युयम् अभिन्ना एवेति चेत्तत्राह—त्वम् इति । त्वम् एवैक ईशः, वयं तु सेवकाः एवेत्य् अर्थः । कुतः ? आद्य पुरुषः श्री-ब्रह्मादिभ्यो\ऽपि श्रेष्ठः, अतस् तुर्यः श्री-ब्रह्म-विष्णु-रुद्रेभ्यो\ऽवतारित्वेन भिन्नत्वात्, न च चतुर्व्यूहादीनां पृथक् पृथग् वर्तमानानां प्रत्येकम् ईश्वरत्वेन तव परमेश्वरत्व-हानिस् तेषाम् अपि त्वदभिन्नत्वाद् इत्य् आह—अद्वितीय इति । यतो हेतुस् तेषां त्वत्त एव प्रादुर्भावात्, स्वयं वा हेतुः, यतः स्वदृक् स्वप्रकाशः, तथापि स्वभक्तानां नित्य-सत्य-विचित्र-बहुल-रूपेण प्रकाशक इत्य् आह—प्रतीति । स्वेषु भवतेषु मायया कृपया । यद् वा, भक्तेषु तेषु अमायया तेषाम् एकान्तित्वादि-सर्व-गुणस्य प्रसिद्ध्यै लोकेष विख्यातये प्रकर्षेण सिद्धौ वा, यथा-विकारं भावानुसारेण प्रतीतो भवसि, स्वभक्तेषु प्रत्येक चतुर्व्यूहादीनां मध्ये स्व-स्व-सेव्यैकनिष्ठया नित्य-सत्यत्वेन परिस्फुरसीत्य् अर्थः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वम् एक इति तैर् व्याख्यातं तत्र सम्भवतीत्यस्यान्ते येन भेदेन भवन्तो भावयितार इति शेषः । पुरुषाणाम् इत्य् आदौ चिदंशेनैकापेक्षया जीवेश्वर-स्वरूप-भेद-विवक्षया प्रकाशनायेत्यस्यान्ते\ऽतो वयम् अपि तद्-विभूति-रूपा एवेति सजातीयादि-भेदाभावात् त्वम् एव ब्रह्मेति पर्यवसिम् इति शेषः । किञ् च यथा-विकारं स्व स्व देहानुरूपश् चैतन्य-प्रकाशतारतम्येन नाना-विधः प्रतीयस इत्य् अर्थः । तच् च स्वमाययाचिन्त्य-शक्त्येति तत्-स्वरूपे तद्-धर्मास्पर्शश् च निरूपितः अन्यत् तैः । यद् वा, त्वम् एकः सजातीय-भेद-रहितः अद्वितीयो विजातीय-भेद-रहितश् च यतः आद्यः विष्णोस्तु त्रीणि रूपाणि इत्य् उक्तानां पुरुषाणां मूल-रूपः अतस् त्वम् एव पुरुषः पूर्वम् एवाहम् इहासम् इति तत्-पुरुषस्य पुरुषत्वम् इति श्रुतेः । कुतस् तुरीयः विराट् हिरण्य-गर्भश् च कारणं चेत्युपाधयः ईशस्य यत्-त्रिभिर् हीनं तुरीयं तद् विदुर् बुधाः इत्य् उक्त-लक्षणः तद् अपि कुतः स्वदृक् स्वयं प्रकाशः अतो हेतुर् अहेतुर् अपि यद्य् अप्य् एवम् अखण्डस्त्वं तथापि यथाविकारं तत्-तद्-विकारानुसारेण सर्वेषां तेषां सत्त्वादि-गुण-प्रकाशनाय महत्-स्रष्ट्रादि-रूपस्सन् गुणवत्-प्रतीयसे तच् च मायया स्वपूर्णतावरण-शक्तितारतम्येनेत्य् अर्थः । अतस् त्वम् एव चेशः यद् वा,

ननु, केचिन्-मम गुणावताराः केचिच् च विभृतय इति मत्तो यूयम् अभिन्ना एवेति चेत्-तत्राह-त्वम् एवैक ईशा बयं तु सेवका एवेत्य् अर्थः । कुतः आद्यः पुरुषः यतस् तुर्यः नारायण-वासुदेवयोर् अपि त्वद्-अन्तःपातात् अद्वितीयश् च अतोन्येषां हेतुः स्वयं तु हेतुर् अहितः यतः स्वदृक् तथापि स्वभक्तानां नित्य-सत्य-विचित्र-बहुल-रूपेण प्रकाशसे इत्य् आह प्रतीति स्वेषु भक्तेषु मायया कृपया तेषाम् एकान्तित्वादि-सर्व-गुणस्य प्रसिद्धयै लोकेषु विख्यातये प्रकर्षेण सिद्धय वा यथा-विकारं भावानुसारेण प्रतीतो भवसीति ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वम् एकः सजातीय-भेदरहितः अद्वितीयो विजातीय-भेद-रहितश् च यत आद्यः विष्णोस्तु त्रीणि रूपाणि इत्य् उक्तानां पुरुषाणां मूल-रूपः अतस् त्वम् एव पुरुषः । पूर्वम् एवाहमिहासम् इति तत्-पुरुषस्य पुरुषत्वम् इति श्रुतेः । कुतस् तुरीया ! विराट् हिरण्य-गर्भश् च कारणं चेत्युपायः ईशस्य यत् त्रिभिर् हीनं तुरीयं तद्-विदुर्बधाः इत्य् उक्त-लक्षणः तद् अपि कुतः स्वदक स्व-प्रकाशः अतो हेतुर् अहेतुर् अपि यद्य् अप्य् एवम अखण्डस् त्वं तथापि यथा-विकारं तत्-तद् विकारानुसारेण सर्वेषां सत्त्वादि-गुण-प्रकाशनाय महत्-स्रष्टादि-रूपस्सन खण्डवत प्रतीयसे तच् च मायया स्वपूर्णत्वावरण-शक्ति-तारतम्येनेत्य् अर्थः । अतस् त्वम् एव चेश्वर इति ननु, ममैव चेन्-महत्-स्रष्ट्रादि-रूपत्वं तर्हि तत्-तद्-रूपेण माया-प्रवर्त्तयितुम्र् ममैव तत्-तद्-दोषलेषः स्यात् इत्य् आशङ्कय दृष्टान्तेन परिहरति—यथैवेति ॥३८-३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-विभूतयो यूयम् अपि मद् अभिन्ना एवेति तत्र नहि नहीत्य् आह । त्वम् एकः सजातीय-भेद-रहितः ईश्वरान्तराभावात् त्वत् स्वरूप-भूतानां मत्स्याद्य् अवताराणाम् अपि मध्ये त्वम् आद्यः स च त्वं मनुष्याकृतिर् एवेत्य् आह, पुरुषः त्वत्-स्वरूपाद् भिन्ना जीव-शक्तिः माया-शक्तिर् अपीत्य् आह । अद्वितीयः विजातीय-भेद-रहितः किं च, पुरुषाकाराणां मुख्यानां स्वरूप-भूतानां चतुर्णां व्यूहानाम् अपि मध्ये त्वं तुर्यः वासुदेव-स्वरूप इत्य् अर्थः । नतु त्वाम् अन्यः कोऽपि दर्शयितुं शक्नोतीत्य् आह । स्वदृक् स्वेनैव दृक् दर्शनं यस्य स अतः सर्व-श्रेष्ठत्वात्-त्वम् एव हेतुः सर्व-कारणम् अहेतुस्तव तु कारणं नास्तीत्य् अर्थः । अत एव ईशः मुख्यम् ऐश्वर्यं तवैवेति भावः एतादृग् ऐश्वर्यवान् अपि त्वम् अतितुच्छानां मायिक-गुणानाम् अप्य् उपकारं करोषीत्य् आह—प्रतीयस इति । तथापि तद् अपि यथाविकारं प्रतिशरीरं स्वमायया कृत्वा ये सर्वे गुणा बुद्धीन्द्रियादयस् तेषां प्रकृष्ट-सिद्धय् अर्थं प्रतीयसे अन्तर्यामि-रूपेणानुभूयसे तत्र तत्रान्तर्यामित्वं यदि त्वं न स्वीकुरुषे तदा माया-गुणानां प्रकाशनाभावात्ते व्यर्था एव भवेयुर् इति भावः ॥३८॥


॥ १०.६३.३९ ॥

यथैव सूर्यः पिहितश् छायया स्वया

छायां च रूपाणि च सञ्चकास्ति ।

एवं गुणेनापिहितो गुणांस् त्वम्

आत्म-प्रदीपो गुणिनश् च भूमन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् अहम् एवं संसारीत्य् उच्यते, न हि न हीति सदृष्टान्तम् आह—यथैवेति । हे भूमन्, स्वया छायया मेघ-लक्षणया पर-दृष्ट्या पिहितश् छादितोऽपि सूर्यश् छायां मेघं च रूपाणि च मेघान्तरितान् घटादीन् अपि सञ्चकास्ति प्रकाशयति । एवं गुणेनाहङ्कारेण स्व-कार्येण जीवावरकेण तद्-दृष्ट्या पिहितोऽपि गुणान् सत्त्वादीन् उपाधीन् गुणिनश् चोपहितान् जीवान् अपि चकास्ति । आत्म-प्रदीपः स्व-प्रकाशः । अतः सर्व-साक्षिणस् तव न संसार इत्य् अर्थः ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति-तीति । सूर्यकिरणा एव मेघाकारेण परिणमंत इत्य् उक्तं हरि-वंशे । एवमित्थम् । अतः स्वप्रकाशत्वात् । इत्य् अर्थ इति-"ददामि बुद्धियोगं तं येन मामुपयांति ते\ऽ इत्य् उक्तेर्यत्कृपया। \ऽन्येषां संसारो नश्यति तस्य कुतः स भवेद् इति भावः। एवं महाकृषां तन्बन्नपि त्वं साधवशिरोमणिः स्वाभाविकलज्जा। विनयादिना साक्षान्न तनोषि किं तु गुर्बादिद्वारा पारोक्ष्येणैवेति परमसद्गुणनिधित्वमाह-यथेति । पिहित एव सन्सम्यक्प्रकाशयसि गुणेन तत्रस्थांशेन तस्मिन्स्थानीयेन जीवे पूर्वपूर्वगुर्वादिरूपेणाच्छन्नस्संस्तारैवेत्यर्थः। गुणान् कारुण्यादीस् तत्प्रकाशनार्थ गुणिनश् च कारुण्यादिकतन् परस्परगुर्वादीन्सम्यनप्रकाशयसि । न च तत्तत्प्रकाशने\ऽन्यो हेतुरस्तीत्याह-आत्मना स्वयम् एव प्रदीपयति कृपया प्रकाशयतीति तथा सः । तत्र हेतु–भूमन् हे अपरिच्छिन्नमाहात्म्य \ऽमहांतो हि दयालवः\ऽ इत्य् उक्तेर् इति तोषणीकाराः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एव अपि, पिहितो\ऽपि, च—काराभ्यां द्वयोर् अपि प्राधान्यं द्योत्यते—दूरस्थानाम् अपि रूपाणां सन्निहित-मेघवत् प्रकाशनात् । सञ् चकास्तीति क्रियान्तर्गतः सं-शब्दो मेघाच्छन्नतया सूर्य-तेजसाम् अतीक्ष्णत्वेन दृष्टेः सम्यक् प्रसारणात्, एवं दान्तिके\ऽपि ज्ञेयम् । अहङ्काराच्छन्नस्यापि तत्-प्रवर्तनात् स्वयम् एवाभिव्यक्त-गुण-गुणिनाम् अप्य् आधिक्यप्रकाशन-सिद्धेः । अपिहितः पिहितः, तथा चामरः—अपिधान-तिरोधान-पिधान इत्य्-आदि, यद्यप्य् अहङ्कारेण जीव एव पिधीयते, न च परमात्मा, तथापि त्वम् इत्य् अहङ्काराच्छन्नतया जीवेन तद् अननुभवात् । अत एव तैर् अपि व्याख्यातम् । तद्-दृष्ट्येति जीवदृष्ट्यैवेत्य् अर्थः । एवं सर्वम् एव त्वं प्रकाशयसि, त्वञ् च स्वप्रकाश एवेत्य् आह—आत्मेति । एवं वस्तुतो\ऽहङ्कारेण पिहितत्वम् अपि निरस्तम्, सदा प्रकाशमानत्वादिकञ् च सूचितम्, तत्र हेतुः—भूमन् ! हे अपरिच्छिन्नेति अन्येन व्याप्तुम् अशक्यत्वाद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, एवं महाकृपां तन्वन्न् अपि साधु-वर्ग-शिरोमणिस्त्वं स्वाभाविक-लज्जाविनयादिना साक्षान् न करोषि, किं तु गुर्वादि-द्वारा परोक्षेणैवेति परम-सद्-गुण-गण-निधित्वम् आह—यथेति । पिहित एव सन् सम्यक् प्रकाशयति, गुणेन स्वांशेन सूर्यच्छाया-स्थानीयेन जीवेन गुर्वादि-रूपेणाच्छन्ना सन्न् एव तद्-द्वारेत्य् अर्थः । गुणान् कारुण्यादीन्, तत्-प्रकाशनार्थं गुणिनश् च कारुण्यादि-कर्तॄन् गुर्वादीन् सम्यक प्रकाशयसि । न च तत्-तत्-प्रकाशने त्वत्-कृपा विनान्यो हेतुर् अस्तीत्य् आह—आत्मना स्वयम् एव प्रदीपयति कृपया प्रकाशयतीति तथा सः । तत्र हेतुः—भूमन् ! हे अपरिच्छिन्न-माहात्म्येति ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथैवेति तैर् व्याख्यातं तत्र सर्वत्र हेतुः हे भूमन् ! सर्वात्मत्वाद् अपरिच्छिन्नेति यद् वा, ननु, ममैव चेन् महत्-स्रष्ट्रादि-रूपत्वं तर्हि तत्-तद्-रूपेण मायादि-प्रवर्तयितुम् अमैव तत्-तद्-दोष-लेपः स्याद् इत्य् आशङ्क्य दृष्टान्तेन परिहरति—यथैवेति । यद् वा, एवं महा-कृपां तन्वन्न् अपि साधु-वर्ग-शिरोमणिस् त्वं स्वाभाविक-लज्जाविनयादिना साक्षान् न तनोषि किं तु गुर्वादिद्वारा पारोक्ष्येणैवेति परम-सद्-गुण-गण-निधित्वम् आह—यथेति । [अपिहित] पिहित एव सन् सम्यक् प्रकाशयसि गुणेन तटस्थांशेन रश्मि-स्थानीयेन जीवेन पूर्व-गुर्वादि-रूपेणाच्छन्नः सन्न् इति तद्वारैवेत्य् अर्थः । गुणान् कारुण्यादीन् तत्-प्रकाशनार्थं गुणिनश् च कारुण्यादिकतन् परस्पर-गुर्वादीन् सम्यक् प्रकाशयसि न च तत्-तत्-प्रकाशने नान्यो हेतुर् अस्तीत्य् आह—आत्मना स्वयम् एव प्रदीपयति कृपया प्रकाशयतीति तथा सः तत्र हेतुः, भूमन् हे अपरिच्छिन्न-माहात्म्येति ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदृष्टस्याप्य् अन्तर्यामिणो माया-गुण-प्रकाशने दृष्टान्तम् आह—यथैव सूर्यः स्वया छायया मेघ-लक्षणाया पिहितः लोक-दृष्ट्या आच्छादितोऽपि छायां मेघं रूपाणि मेघान्तरितान् लोकांश् च घटादीन् अपि सञ्चकास्ति प्रकाशयति एवं गुणेनाहङ्कारेण स्वकार्येण जीवावरकेण तद्-दृष्ट्यापिहितोऽपि गुणान् बुद्धीन्द्रिय-विषयादीन् गुणिनो जीवान् अपि सञ्चकास्ति प्रकाशयसि आत्मा परमात्मा चासौ प्रदीपः प्रकाशकश् चेति ॥३९॥


॥ १०.६३.४० ॥

यन्-माया-मोहित-धियः पुत्र-दार-गृहादिषु ।
उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च मायाश्रयस्यान्यान् मोहयतस् तव कुतः संसृतिर् इत्य् आशयेनाह—यन् मायेअति । पुत्रादिषु प्रसक्ताः । वृजिनार्णवे दुःख-सागरे । उन्मज्जन्ति देवादि—योनिषु, निमज्जन्ति स्थावरादिषु । तद् उक्तं वायवीये, “विपर्ययश् च भवति ब्रह्मत्व-स्थावरत्वयोः” इति ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मायायाः स्वाश्रयानावरकत्वं प्रसिद्धमायासु दृष्टम् ततो\ऽपि न तव संसाराशंकेत्य् आह-किश्चति । उन्मज्जति ऊद्धवं गच्छन्ति । निमन्जंति अधो गम्छति । तदुन्मन्जनिमन्जनम् । वायवीये वायुपुराणे। विपर्ययो वैपरीत्यम् । ब्रह्मा\ऽप्यज्ञानवशात् स्थावरतां याति का कथा\ऽन्येषाम् इत्य् अर्थः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं भक्तेष्व् एव कृपां प्रकाशयसि, न त्व् अभक्तेष्व् इति ते सदा दुःखिन एवेत्य् आह—यद् इति, यस्य तव मायया ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं निगूढं तन्महिमानं व्यज्य प्रस्तुतं बाणार्थ-प्रसादनं योजयितुं परमापत्प्राप्त्या मद-रहितं बाणम् अपि शिक्षयितुं निवेदयति पञ्चभिः—तत्र तादृशत्वन्-महिमाज्ञानम् अस्य नाश्चर्यं प्रायशः सर्वस्यैव मोहितत्वाद् इत्य् अभिप्रेत्य् आह—यद् इति । यस्य तव माययेति [पूर्ववत्-तच्-छब्दान् अपेक्षा] वदतात्र तस्य प्रेरकत्वं नाभिमतं किं तु तत्-सम्बन्धाभासबलेन तस्या एव स्वतः-कतृत्वं तच् च युक्त तस्मिन्-नैर्घृण्यापातात् वक्ष्यते आत्मानं प्रियम् ईश्वरम् इति ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं निगढं तन्-महिमानं व्यज्य प्रस्तुतं बाणार्थं प्रसादनं योजयितं परमापत् प्राप्त्या मद-रहितं बाणम् अपि शिक्षयितुं निवेदयति पञ्चभिः । तत्र तादृश-त्वन्-महिमाज्ञानम् अस्य नाश्चर्यं प्रायः सर्वस्यैव मोहितत्वाद् इत्य् अभिप्रेत्य् आह—यद् इति ॥४०-४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स त्वम् एव कृपयावतीर्य जीवान् उद्धरसि जीवास् तु संसार-सिन्धौ पतिता एवेत्य् आह—यन्-मायेति ॥४०॥


॥ १०.६३.४१ ॥

देव-दत्तम् इमं लब्ध्वा नृ-लोकम् अजितेन्द्रियः ।
यो नाद्रियेत त्वत्-पादौ** स शोच्यो ह्य् आत्म-वञ्चकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं जीवेश्वर-व्यवस्थां निरूप्येदानीम् अभजन्तं निन्दति द्वभ्याम्—देव- इति । देवेन त्वया कर्माध्यक्षेण दत्तं नृ-देहम् इमं लब्ध्वापि इति ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—एवम् इत्य्-आदिना । इमं प्रत्यक्ष-सिद्धम् । आत्म-वञ्चको निज-प्रलम्भकः । शोच्यः विज्ञैः शोचनीयः ॥४१॥


कैवल्य-दीपिका : देवदत्तम् इति । लोके मनुष्य-देहं देव-दत्तं लब्ध्वा नात्म-यत्नेन अजितेन्द्रियत्वात् अनादरः ॥४१॥ [मु।फ। १३.३९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यो नाद्रियेत इत्य्-आदि । त्वत्-पादौ यो नाद्रियेत त्वच्-चरणाविन्दं हित्वा यो मुक्तिं प्रार्थयते, स शोच्य आत्म-वञ्चक इत्य् अर्थः ॥४२-५३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् त्वद्-अभक्ता महा-निन्द्या एवेत्य् आह—देव इति । इमं त्वद्-भजन-योग्यम्, देवदत्तम् इति परमोपकारित्वेनात्यन्तादर-योग्यताभिप्रेता । तथाप्य् अजितेन्द्रियः सन् नाद्रियेत, आदरेण न सेवेत । किं वा, न बहुमन्यते\ऽपि शोच्यो निन्द्यः, हि यत आत्मानम् अपि वञ्चयत इति तथा सः । यद् वा, हि निश्चितं शोच्याः—परमोपकारिणस् तवानादरेणाकृतज्ञत्वादि-सम्पत्तेः । किं च, आत्म-वञ्चको लोक-द्वय-सुख-रहितो\ऽभूद् इत्य् अर्थः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र त्वया त्वद्-भक्ति-योग्यता प्रापितोऽपि मयैष इव केनचित्-कारुणिकेन कृतोपदेशोऽपि त्वद्-विमुख स्त्वस् तस्मद्-विधानां शोच्य एवेत्य् आह—देवेति । इमं त्वद्-भजन-योग्यं देवेन त्वयैव दत्तं यद् वा, केषाञ्चिन्-निज-महा-भक्तानां सम्बन्धेन सर्वत्र प्रसारिण्या कृपया प्रापितम् इमं सम्प्रति त्वद् आविर्भाववन्तं नृ-लोकं मनुष्य-भुवनं लब्ध्वा इति परमोपकारित्वेनात्यन्तादर-योग्यताभिप्रेता, तथाप्य् अजितेन्द्रियः सन् न बहुमन्येत हि यस्माद् आत्म-वञ्चक इति ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतस् त्वां ये न भजन्ति, ते मूढाः इत्य् आह—देव-दत्तम् इत्य्-आदि । त्वत्-पादौ यो नाद्रियेत, न भजेत स शोच्यः, हि निश्चितम्, अत आत्म-वञ्चकः । त्वद् इति दृश्यमानं श्री-विग्रह-परम् । देवेन भवतैव दत्तं नृलोकं त्वद् इदं लब्ध्वा पादाव् इति पाद-सेवां हित्वा यो\ऽपवर्गम् अपि प्रार्थयते सो\ऽपि शोच्य इत्य् अर्थः ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभजन्तं निन्दति—देवेन त्वयैव दत्तं नृ-देहम् ॥४१॥


॥ १०.६३.४२ ॥

यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शोच्यत्वे हेतुः—यस् त्वाम् इति । विपर्यया विपरीता अनात्माप्रियानीश्वरा ये इन्द्रियार्थाः पुत्रादयः, तद्-अर्थम् ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मर्त्यो मरण-धर्मा ॥४२॥


कैवल्य-दीपिका : यस् त्वाम् इति । भृशम् अयुक्त-लोक-चेष्टित-दर्शनाद् आक्रोशेन कृपातिशयं ध्वनयन्ति । ये सुख-बुद्ध्या गृहीता दुःख-स्वरूपा भवन्ति, ते विपर्यया इन्द्रियार्था विषयाः । हे देवदेव ! यस् तद्-अर्थं त्वां विसृजते, सोऽमृतं परित्यज्य विषम् अत्ति ॥४२॥ [मु।फ। १३.४१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव् आह— इति । मर्त्यो मरण-धर्म-शील इत्य् अमृत-त्यागायोग्यतोक्ता । आत्मानम् अन्तर्यामित्वेन सर्व-सत्-कर्मादौ प्रवर्तनात् परमोपकारिणम् इत्य् अर्थः । प्रियं स्वत एवात्मनो\ऽप्य् अधिक-प्रेमास्पदम्, परमात्मत्वात् । एवम् अवश्य-भजनीयत्वेनापि त्यागायोग्यतोक्ता । अभजने दण्डयति चेत्य् आह—ईश्वरम् इति । एवम् एषां विशेषणानां यथोत्तरं भजन-हेतुत्वे श्रैष्ठ्यम् । तथापि विसृजेन भजेत् विषम् अत्त्य् अमृतं त्यजेत् इति परमाविवेकित्वम् उक्तम् विषय-भोगे\ऽपि सर्वदा महा-दुःखी, न कदाचिद् अपि सुखी स्याद् इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र चाधुना मयैव श्री-गुरुणा प्रकाशितम् अपि यस् त्वां त्यजेत् स तु परम-शोच्य इत्य् आह— इति । मर्त्यो मरण-शील इत्य् अमृत-त्यागायोग्यतोक्ता । आत्मानम् अन्तर्यामित्वेन सर्व-सत्-कर्मादौ प्रवर्तनात् परमोपकारिणम् इत्य् अर्थः । प्रियं स्वत एवात्मनो\ऽप्य् अधिक-प्रेमास्पदम्, परमात्मत्वात् । एवम् अवश्य-भजनीयत्वेनापि त्यागायोग्यतोक्ता । अभजने दण्डयति चेत्य् आह—ईश्वरम् इति । एवम् एषां विशेषणानां यथोत्तरं भजन-हेतुत्वे श्रैष्ठ्यं । तथापि विसृजेत् न भजेत विषम् अत्त्य् अमृतं त्यजेद् इति परमाविवेकित्वम् उक्तं । "त्यजन्" इति पाठः क्वचित् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विसृजते त्यजति । किम्-अर्थं ? विपर्ययाः त्वद्-विपरीता अनात्मानो\ऽप्रियाः अनीश्वराश् च ये इन्द्रियार्थाः पुत्रादयः, तद्-अर्थम् ॥४२॥


॥ १०.६३.४३ ॥

अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः ।
सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहम् अन्ये च शुद्ध-मनसस् त्वाम् एव प्राप्ता इत्य् आह—अहम् इति ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वज्ञताम् आह—अहम् इत्य्-आदिना । भक्ति-विद्यते येषां ते भक्ता भजत इत्य् अर्थः । सर्वात्मना काय-वाङ्-मनोव्यापारेण । भजनीयत्वे हेतु-त्रयम्-आत्मानम् इत्य्-आदि ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव वयं सर्वथा त्वाम् अभजामेत्य् आह—अहम् इति । विबुधा इन्द्रादिदेवाः, मुनय श्री-सनकादयः, अथ अपि, मुनयो\ऽपि, सर्वात्मना सर्वाभावेन प्रपन्ना आश्रिताः, यतो\ऽमलाशया, शुद्ध-चित्ताः, अन्यथा अपलाशयत्वहानिर् इति भावः । यद् वा, मुनीनाम् एव विशेषणम्, केषाञ्चित्-तेषाम् अद्वैतवासनया मलिनाशयानां व्यावृत्त्यर्थम् । प्रपत्ति—राहित्ये चाकृतज्ञत्वादि महा-दोषो\ऽपि पर्यवश्यतीति विशिनष्टि—आत्मानम् इत्य्-आदिना ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो परमतुच्छोपीदृश स्त्वां न भजति यं परम-पूर्णा अपि वयं भजामः अतस् त्वद् अभजने ईदृशस्यैव हानिर् इत्य् आह—अहम् इति । अहं ब्रह्मा च त्वया गुणावतात्वया स्वीकारेण सर्वोद्द्वकक्षां प्रापितः तथा विबुधा देवर्षयः मुनयो ब्रह्मर्षयश्व अमले ब्रह्मण्ये वाशयो येषां ते आत्मारामाश्चेत्य् अर्थः । तत्रापि सर्वात्मना सर्व-भावेन प्रपन्ना आश्रिताः स्वेषां [प्रपन्ने] प्रपत्तौ हेतुः आत्मानं सर्व-मूल-स्वरूपम् अत एव प्रेष्ठम् अत एवेश्वरमपीति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् त्वया कृतं तन्मया क्षान्तं सम्प्रति त्वया त्वत्-सङ्गिभिर् अन्यैश् च देवैः किं व्यवसितम् इति चेत्, तत्राह—अहम् इति । आत्मानं प्रेष्ठम् ईश्वरम् इति विशेषण त्रयेण अनात्मनः अप्रियस्य अनीश्वरय बाणस्य कृते यत् त्वया सह विग्रहम् अकरवं तद् अहम् एव अमृतं त्यक्त्वा विषम्भुक्तवान् अस्मीति पूर्व-श्लोकेन माम् एवाहम् अनिन्दम् इति भगवन्त ज्ञापयामास ॥४३॥


॥ १०.६३.४४ ॥

तं त्वा जगत्-स्थित्य्-उदयान्त-हेतुं

समं प्रशान्तं सुहृद्-आत्म-दैवम् ।

अनन्यम् एकं जगद्-आत्म-केतं

भवापवर्गाय भजाम देवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतो भजनीयत्वे हेतून् वदंस् तद्-भक्तिं प्रार्थयते, तं त्वेति । समत्वे हेतुः, प्रशान्तम् इति । सु-सेव्यत्वम् आह—सुहृद्-आत्म-दैवं सुहृद्-बुद्धि-प्रवर्तकत्वात्, आत्मा च सर्वात्मकत्वात्, एवं-भूतं दैवम् ईश्वरं त्वाम् । न चान्यो भजनीयोऽस्तीत्य् आह—अनन्यम् एकं समानासमान-जातीय-रहितम् । तत् कुतः । जगताम् आत्मनां च केतम् अधिष्ठानम् ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रशान्तस्य समता भवतीति प्रसिद्धम् एव । ननु, मदन्ये\ऽपि ब्रह्मादयो भजनीयाः सन्तीति चेद् अत्राह—न चेत्य् आदि । नास्ति अन्यो भिन्नो यस्मात् स तथा तम् । तेषाम् अपि त्वद् अभिन्नत्वात्-त्वद् आराधनेन ते\ऽप्य् आराधिता भवन्तोति भावः । अनन्यत्वे हेतुः एकम् इति । तद् एकत्वम् । जगतां स्थावराणाम् आत्मनां जङ्गमानां च कल्पितत्वेनाधिष्ठानानतिरेकात् ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यस्याभवत्या संसार महा-दुःखादिकं तम् । किं वा, अनिर्वचनीय-माहात्म्यं त्वा त्वाम्, महा-माहात्म्यम् एव दर्शयति—जगद् इत्य्-आदिना । जगतः सर्वस्य स्थित्य्-आदि-हेतुम् इति परमेश्वरत्वम् उक्तम्, अत एव समम् ईश्वरत्वेन सर्वेषु तुल्यम्, इत्य् अधिकाराद्य् अनपेक्षया सर्वैर् अपि भजनीयत्वम्, यहा, मया लक्ष्म्या सह वर्तमानं समम्, इति भत-वात्सल्यं तथा कदाचिद् अपराधे सति जगज्-जनन्या तया सोदयितव्य इति । साहाय्यं च कुतः ? प्रशान्तं तत्वतः क्रोधादि-रहितम् । किं वा, अक्षोभ्य इत्य् अशेष दोष-राहित्यम्, अत एव सुहृत् निरुपाधि-कृपाकारी, आत्मा स्वतः प्रष्टः, दैवम् ईश्वरः, तञ् च तञ् च तञ् च, इति सुसेव्यत्वम् अवश्य-भजनीयत्वञ् च । यद् वा, अत एव सुहृदां शोभन-चित्तानाम् आत्म-दैवम् इष्टदेवताम् इति साधु-सेव्यत्वम्, यतो\ऽनन्यम् एकञ् च, इति विजातीय-सजातीय-भेद-राहित्येन त्वद्-धजनात् सर्व-जीवानां सर्वावतारादीनाञ् च भजनसिसिध्या सर्वानुकूल्ये निर्विघ्नत्वादिकं सर्व-मूलत्वञ् च । किं च, देवं दीव्यति, भक्तेषु प्रकाशते, भक्तैः सह क्रीड्तीति वा, तथा तम्, पाठान्तरे\ऽपि स एवार्थः । किं वा, एवं सर्व-पूज्येति, अतो भवः श्रेयस् तद्-रूपो\ऽपवर्गो मोक्षः, श्री-वैकुण्ठ-लोक इत्य् अर्थः । तस्य तात्त्विकोत्तम सुखात्मकत्वात्-तस्मै यद् वा, पञ्चम-स्कन्धोक्तानुसारेण भवेषु जन्म-जन्मस्व् अपवर्गाय भक्ति-योग्यायेत्य् अर्थः । भजामेत्याशिषि पञ्चमी ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एवेदम् एव प्रार्थयाम् अह इति वदन् बाणानुग्रहेऽपि कारणतया विशेषणानि विन्यस्यति—तम् इति । ते भजन-योग्यं त्वा त्वां भजामः किमन्यार्थं भजध्वे ? नेत्य् आह—भवेति । पञ्चम-स्कन्धोक्त्यनुसारेण भवेषु जन्मजन्मसु अपवर्गाय भक्ति-योगायेत्य् अर्थः तत्र हेतुत्वेन स्वेषाम् आकर्षणं तदिय-परम-कारुण्य-गुणं सूचयति देवेति । दीव्यति भक्तेषु प्रकाशते क्रीडति वा यः सः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवेषु जन्म-जन्मसु अपवर्गाय प्रेम-लक्ष-भक्ति-योग्याय ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् स्वभक्ति स्वयम् एव देहीति प्रार्थयते—तम् इति । हे देव ! भवापवर्गाय भवे-भवे जन्मनि जन्मनि अपवर्गाय पञ्चम-स्कन्धोक्त-लक्षण-भक्ति-योगाय त्वाम् एव भजाम प्रार्थनायां लोट् त्वद् अन्यो भजनीयो न भवतीत्य् अभिप्रायेण विशिनष्टि—ईश्वरत्वात् जगत्-स्थित्य् उदयान्त-हेतुम् इत्य् अन्यस्त्वन् ईश्वरः समम् इत्य् अन्यो विषमः प्रशान्तम् इत्य् अन्यः प्रकर्षेण शान्तो न भवति सुहृद् इत्य् अन्यो हितकृन्न भवति आत्मदैवम् इति अन्यः परमात्मा न भवत्यतो द्योतमान श् च न भवतीत्य् अर्थः । अनन्य मित्यन्यो\ऽनन्यो न भवति किन्त्व् अन्य एव त्वं तु स्वभक्तस्यानन्य एव साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् इति त्वदुक्ते, एकम् इत्य् अन्यो\ऽनेकः जगताम् आत्मनश् च केतम् आश्रयम् इत्य् अन्यस्त्वन् आश्रयः ॥४४॥


॥ १०.६३.४५ ॥

अयं ममेष्टो दयितोऽनुवर्ती

मयाभयं दत्तम् अमुष्य देव ।

सम्पाद्यतां तद् भवतः प्रसादो

यथा हि ते दैत्य-पतौ प्रसादः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वयं भक्तिम् आशास्य स्व-भक्तस्याभीष्टम् आशास् ते, अयम् इति । दैत्य-पतौ प्रह्रादे ॥४५-४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं बाण्ः । अमुष्य बाणस्य । तत् अस्याभयप्रदानम् एव । भवस् तव ममोपरि प्रसादः । कथम् असुरे प्रसादस् त्वया कृत इति चेद् आह—यथा हीति ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इष्टः सखा, दयितः, प्रियः, अनुवर्ती च सेवकः, इष्टत्व-दयितत्वयोः सोपाधि-निरुपाधि-स्नेहद्वारा भेदः कल्प्यः । यद् वा, इष्टः प्रियः, यतो दयितः, सखा अनुवर्ती च । यद् वा, इष्टो दयितः प्रिय-सखः, इष्टो\ऽनुवर्ती च प्रिय-सेवकः, अतो\ऽमुष्य अस्मै अभयं दत्तम् । देव ! हे मत्प्रभो! इति मदीयो\ऽपि त्वदीय एव, विशेषतश् च भक्तस्य भक्तत्वान्मत्तो\ऽप्य् अधिकम् अनुग्राह्यस्त्वयेति भावः । अतस् तद्-अभयम् एव प्रसादः सम्पाद्यतां सम्यक् क्रियताम् । यद् वा, तत्-तस्मात् कीदृशः प्रसाद इत्य् अपेक्षायाम् आह—हि एव, यथा यादृश एव, प्रह्लादवद् आत्मनः परम-भक्तं कुर्वित्य् अर्थः । यद् वा, हि यद् वा, यथा यथावत्, अस्मतो\ऽप्य् अधिक इत्य् अर्थः । यद् वा, अहो मयि तवापेक्षा मास्तु, श्री-प्रह्लादापेक्षयापि सम्पाद्यताम् इति सदैन्यम् आह—यथेति । तद् अनुसारेणापीत्य् अर्थः ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् आत्मनस् तद् अनुपेक्ष्यत्वं प्रतिपाद्य चिरम् अभिटं बाणस्यापि तादृशत्वं युक्तम् इति प्रार्यते—अयम् इति । इष्टः त्वद्-भक्ति-विषेशात्मक-ताण्डवे वायसाचिव्येन प्र् इति -विषय्तां यातः तथा दयितः प्रह्लाद-बलि-सम्बन्धेन स्व्भावत एव दया-विषयश् चायम् अत एव मद् अनुवर्त्तिताम् अपि प्राप्तः अत एव मया त्वद् अनुग्रहाभिमानेन अमुष्य अस्मै अभयं दत्तं भवतो भवता स्वस्य युद्धाद्य् अपराध मत्वा लज्जमान आह—यथेति । दैत्यपतौ प्रह्लादे यथा तद् अनुसारेणापीत्य् अर्थः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इष्टः त्वद्-भक्ति-विशेषात्मक-ताण्डवे बाद्यसाचिव्येन प्रीति-विषयतो याताः तथा दयितः प्रह्लाद-बलि-सम्बन्धेन स्वभावत एव दयाविषयश् चायम् अत एव मदनुवर्तिताम् अपि प्राप्तः, अत एव मया त्वद् अनुग्रहाभिमानेन अमुष्य अस्मै अभयं दत्तं दैत्यपतो । प्रह्लादे यथा तद् अनुसारेणापीत्य् अर्थः ॥४५-५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोः शम्भो ! प्रसन्नो\ऽस्मि वरं वृणु इत्य् उक्ते सति है प्रभो ! दुष्टे\ऽप्य् अनुवर्त्तिनि बाणासुरे ममतां त्यक्तुं न शक्नोमि किङ्करोमि तस्माद् अस्मिन्न् अपि त्वत्-प्रसादोस्त्वित्येष एष मे वर इत्य् आह—अयम् इति । तत् अभयं सम्पाद्यतां नन्व् अत्र को हेतुस्त त्राहभवतः प्रसाद एव न त्वेतन्निष्ठं किम् अपि सुलक्षणम् अस्तीति भावः । ननु, कीदृशः प्रसादः कर्त्तव्यस् तत्राह—यथेति दैत्य पतौ प्रह्लादे ॥४५-४९॥


॥ १०.६३.४६ ॥

श्री-भगवान् उवाच—

यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव ।
भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नोऽस्मभ्यम् । यद् अस्याभय-प्रदानादि । अनुमोदितं निश्चितम् । वस्तुत आवयोर् अभेदत्वाद् इति भावः ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवन् ! हे सर्वज्ञेति त्वयि मम यादृशो भावः, यदर्थञ् चास्य वाहवो मया छिन्ना इत्य्-आदिकं सर्व त्वं वेत्स्येवेति भावः । नः अस्मान् प्रति यदात्थ, तत् करवाम करिष्याम एव, यतस् तव प्रियं प्रीतिकरम्, अहो भवोक्त्य् अपेक्षया वा किन्त्वत् सम्मतम् एव सर्वं मया सम्पाद्यम् इत्य् आहभवतेति । व्यवसितं बुद्धया निश्चितं साधु यथा स्यात्-तथानुमोदितं स्वीकृतम्, तद्-दार्ढ्य-विवक्षयातीत-निर्देशः । साध्विति व्यवसिताद् अप्य् आधिक्यार्थम् । आदौ बहुत्वं श्री-बलदेवादिस्वजनापेक्षया । अस्माकं मध्ये यं प्रति यदात्थ, तत्-तेन कार्यम् इत्य् अर्थः । पश्चान्म इत्य् एकत्वं त्वद्-भक्तिविशेषेण मयानुमोदितं सत् सर्वेर् अपि मदीयैः स्वत एव स्वीकर्तव्यम् इत्य् अभिप्रायेण । किं वत्तव्यम्, त्वत्-प्रीत्यर्थम् अयं न हन्तव्य इति ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवन् हे सर्वज्ञेति श्री-प्रह्लाद-सम्बन्धेनास्मिन् मयाप्य् अपेक्षणीयत्वं स्वस्मिन् मद् अनुग्रहं मन्-महिमानं स्वेन सह मम युद्धादि-कौतकं बाहुच्छेदनादिनास्य मद-शमनादि-मदभिप्रायञ् च ज्ञात्वैव त्वया सर्व व्यवसितम् इति भावः । नः अस्मान् प्रति यदात्थ तत्-करवामैव यतस् तव प्रियं प्रीतिकरम् अहो तवोक्त्य् अपेक्षाम् अपि न सहे यतस् त्वत्-सम्मतम् एव मया सम्पादनीयम् इत्य् आह—भवत इति । व्यवसितं बुद्धया निश्चितं साधु यथा स्यात्, तथा नु\ऽमोदितं तद्दार्ढ्य-विवक्षयातीत-निर्देशः साध्व् इति व्यवसिताद् अप्य् आधिक्याथं न इति बहत्वं श्री-बलदेवादि स्वजनापेक्षया अस्माकं मध्ये यं प्रति यदात्थ ततेन कर्त्तव्यम् इत्य् अर्थः । पश्चान्मयेत्येकत्वं त्वद्-भक्ति-विशेषेण मया यदनुमोदितं तत्-सर्वेर् अपि मदोयैश् च स्वत एव स्वीकर्तव्यम् इत्य् अभिप्रायेण ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.४७ ॥

अवध्योऽयं ममाप्य् एष वैरोचनि-सुतोऽसुरः ।
प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैरोच-निर्बलिर् मद्-भक्तस् तत् सुतत्वाद् अवध्यस् तावत् । किं च प्रह्रादायेति । अन्वयो वंशः ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एआष बाणः । अन्वय-शब्दोऽत्र सजातीयपरः, तत्रैब तद् अभिमानोपपत्तेः । विजातीये तु देहन्-निकृष्टे कीटादौ प्रसूते च सर्पम्ण्डूकादौ तद् अभिमानाभावेन झटिति तत्त्याग-दर्शनात् । अतो बक-बक्य् अघादीनाम् अपि तिर्यग् अन्तःपातित्वात् कंसादीनां सजातीयत्वाभावाच् च वध्यतैव युक्तेति भाबः ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ममाप्य् अवध्य एवेत्यत्यन्त-विनयादिना तत्-सङ्कोचनिरासार्थम् आह—अवध्य इति । असुरो\ऽप्य् अवध्यो\ऽयम् यत एष वैरोचनि-सुतः । एवं वाक्य-द्वयाद् एष इत्य् अपुनर् उक्तम् । यद् वा, पाठान्तरम् अत्रानुसन्धेयम्, तैर् अव्याख्यानत्वात् । दर्पः दोः सहस्र त्वया दत्तम् इत्य् आधुक्ति-हेतुस् तस्योपशमनाय शीघ्रहरणाय, बलं सैन्यञ् च, तु यत्त्विति भवदीयगणाश् च न सूदितास् तेषां भूभारत्वाभावाद् इत्य् अर्थः ॥४७-४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मया वध्यस्तु सर्वथा नेत्य् आह—अवध्य इति । असुरो\ऽप्य् अवध्योयं यत एव वैरोचन सुत, वैरोचनीति क्वचित् अन्वयशब्दोत्र सजातीय एवाभिमतः तत्रैव तद् अभिमान-सम्पत्तेः नहि देहानिकृष्टे कीटादो पुत्रवत्-प्रसुते सर्प-मण्डूकादौ वा परलोकस्य सोयं सम्पद्यते झटिति त्याग-दर्शनात् तद् एवं बकी-बकाघानां वधो न युक्तः लोकेण्य् अमङ्गल-शक्ङूया तत्-सुहृद्भिस्ते सर्पादयो हन्यन्ते सजातीयास्तु कुमतयोऽपि ताडनादिना शिक्षन्त एवेति ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.४८ ॥

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।
सूदितं च बलं भूरि यच् च भारायितं भुवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् इत्य् एवं कृतं तत्राह—दर्पोपशमनायेति ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्य बाणस्य । यत् बलम् । भार इवाचरतीति भारायते । ततः कर्तरि क्ते भारायितम् ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं तु दर्पः दोस्सहस्र त्वया दत्तम् इत्य् उक्ति-हेतुः तस्योपशमनाय शीघ्र-हरणाय प्रकृत्ताः छिन्नाः बलं सैन्यम् ॥४८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.४९ ॥

चत्वारोऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः ।
पार्षद-मुख्यो भवतो न कुतश्चिद्-भयोऽसुरः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुगृह्णाति, चत्वार इति ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्येत्य् उक्तार्थः ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं दर्पशमनाद् अधुना स्वरूपतां प्राप्तो भवत्-पार्षद-प्रवरो भावीत्य् आह—चरवार इति । असुरो\ऽपि, न कुतश्चिद् अपि भयं यस्येति संसारभयस्यापि निवृत्त्या जीवन्मुक्तो भावीत्य् अर्थः ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसादं सम्पादयति—चत्वार इति । असुरोऽपि पार्षद-मुख्यः त्वत्-प्रार्थनानुसारेण जातमद्-धतिवाद् इति भावः । अजरामरत्ववरप्रदानेन भुजकर्तन व्यथापि सद्यः शान्तेति ज्ञेयं न कुतश्चिद् अपि भयं यस्येति संसार-भयस्यापि निवृत्त्या जीवन्मुक्तो भावीत्य् अर्थः । वृषपर्वा बलिर्बाण इत्य् एकादशे सत्सङ्ग-लब्ध-सिद्धित्वस्य वक्ष्यमाणत्वात् नत्रो लोपाभाव आर्षः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.५०॥

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।
प्राद्युम्निं रथम् आरोप्य स-वध्वो समुपानयत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सह वध्वा उषया ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राधुम्निम् अनिरुद्धम् । स-सहेत्य् अर्थः । क्वचिद् आदेशो\ऽप्य् आदेशित्वेन गृह ते इति वैयाकरणाः । ५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एवम् ईदृशं वा, स श्री-कृष्णेनानुगृहीतो\ऽसुरः कृष्ण सचित्ताकर्षक-माहात्म्यं भगवन्तम्, दुष्टे\ऽपि तादृश-प्रसादात्, शिरसा प्रणम्येति छिन्न-बाहु-वर्गमूलतो रक्त-धारासावादि-वैकल्येन भूमौ दण्डवत्-पाता-शक्तः । यद् वा, कृष्णं परमानन्द-घन-मूर्तिम्, प्रणम्येति तत्-प्रणाम-मात्रेणैव छेदवेदनादि-निवृत्त्या तस्यापि परम-सुखत्वं सूचितम् । ततश् च शिरसेत्य् अस्य परेणान्वयः । वध्वा सह शिरसा कृत्वा सम्यग् बहु-लोपस्कर-युक्तत्वादिना उप श्री-कृष्णान्तिके आनयत् ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णं सर्व-चित्ताकर्षक-माहात्म्यं भगवन्तं दृष्टोऽपि तादृश-प्रसादात् सम्यक् बहुलोपस्कर-युक्तत्वादिना उप श्री-कृष्णान्तिके आनयत् ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स बाणासुरः वध्वा उषया सह ॥५०-५१॥


॥ १०.६३.५१॥

अक्षौहिण्या परिवृतं सु-वासः-समलङ्कृतम् ।
स-पत्नीकं पुरस्-कृत्य ययौ रुद्रानुमोदितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : रुद्रानुमोदित इति तद् अभिप्रेतस्यैव बाण-भुज-भङ्गस्य कृतत्वात् ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अभिप्रेतस्य रुद्राभिप्राय-विषयस्य । त्वद् अर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते इति रुद्रोक्तेः ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सं-शब्दार्थम् एव विवृणोति—अक्षीहिणीत्य् अर्धेन । सपत्नीकम् ऊषा-सहितं प्राद्युम्निम्, रुद्रेति तैर् व्याख्यातम् । यद् वा, सत्रेण वाणादि-सर्व-दुःख-द्रावकेण भगवता अनु निरन्तरं मोदितः, अनुव्रजनादिना हर्षितः सन् ययौ प्रतस् थे श्री-कृष्णः ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सं-शब्दार्थम् एव विवृणोति—अक्षौहिणीत्य् अर्धेन । सपत्नीकम् उषा-सहितं प्राद्युम्नि रुद्रेति तैर् व्याख्यातम् । यद् वा, रुद्रेण बाणादि-सर्व-दुःख-द्रावकेण भगवता अनुमोदितः अनुव्रजनादिना हर्षितः सन् ययौ प्रतस् थे श्री-कृष्णः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६३.५२ ॥

स्व-राजधानीं समलङ्कृतां ध्वजैः

स-तोरणैर् उक्षित-मार्ग-चत्वराम् ।

विवेश शङ्खानक-दुन्दुभि-स्वनैर्

अभ्युद्यतः पौर-सुहृद्-द्विजातिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पौरादिभिर् अभ्युद्यतोऽभिमुखम् आगत्य सत्-कृतः ॥५२-५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कृष्णः ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स श्री कृष्णो राजधानीं श्री-द्वारकां सम्यग् अलङ्कृताम् इति सदैवालङ्कृताम्, तदानीञ् च विशेषतो\ऽलङ्कृताम् इत्य् अर्थः ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स श्री-कृष्णः राजधानीं श्री-द्वारकां सम्यक् तदानीं विशेषतो\ऽलङ्कृतां भूषित-मात्य् अत्र उक्षित-मार्गेत्येकत्र ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स कृष्णः ॥५२-५३॥


॥ १०.६३.५३ ॥

य एवं कृष्ण-विजयं शङ्करेण च संयुगम् ।
संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । कृष्णस्य विजयो यत्र तत्-संयुगम् । तस्य स्मर्तुः ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्णेन वाणो निर्ज्जितः, श्री-रुद्रश् च जृम्भित इत्य् उद्भूतं न स्यात्, यतस् तत्-सरणेनापि न कस्यचित् कश्चित् पराजयो भवतीत्य् आह—य इति । कृष्णस्य साक्षाद्-भगवतो विशेषेण जयं वाण-बाहुं-च्छेदनादि-लक्षणम्, संयुगम् इति संयुगान्तर्गत-जृम्भणादिकम् अपि सूभितम् एव । साक्षात्-तद् अनुक्तिर्गौरवात्, शङ्करेणेति बाणस्य मङ्गलार्थम् एव युद्धे प्रवृत्त्यभिप्रायेण । यद् वा, कृष्णस्य विजयम् उत्कर्ष तम् एवाह च अपि, शङ्करेणापि संयुगम् । अन्यत् समानम् । सम्यक् स्मरेद् इति स्मरणमात्रम् अपेक्षितम्, न तु कीर्तनादि, प्रातरुत्थायेलि पावित्र्याधपेक्षापि निरस्ता । पराजयो बाह्यान्तरादिभ्यो भक्ति-विघ्नेभ्यश् च पराभबो न भवति ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णेन बाणो निर्जितः श्री-रुद्रश् च जृम्भितः इत्य् अद्भुतं न स्यात् यतस् तत्-स्मरणेनापि न कस्यचित् कश्चित्-पराजयो भवतीत्य् आहय इति । कृष्णस्य विजयम् एतं शङ्करेणेति बाणस्य मङ्गलार्थम् एव युद्ध-प्रवर्तनाभिप्रायेण सम्यक श्रद्धा-पूर्वकं स्मरेद् अपि किमत शृणुयात् कीर्तयेद्वेत्य् अर्थः । प्रातरुत्थायेति स्नानापेक्षा च निरस्तापराजयः बाह्याभ्यन्तरादिभ्यो भक्तिविघ्नेश्यश् च पराभवो न भवतीत्य् अर्थः ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे उत्रार्धेऽनिरुद्धायनं

नाम त्रिषष्टितमोऽध्यायः ।

॥ १०.६३ ॥

(१०.६४)