ऊषानिरुद्ध-समागमः, अनिरुद्धस्य बन्धनं च ।
॥ १०.६२.१ ॥
श्री-राजोवाच—
बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः ।
तत्र युद्धम् अभूद् घोरं हरि-शङ्करयोर् महत् ।
एतत् सर्वं महा-योगिन् समाख्यातुं त्वम् अर्हसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्वियुक्-षष्टितमे प्रोक्तम् अनिरुद्धस्य रोधनम् ।
कन्यया रममाणस्य बाणेन बहु-बाहुना ॥
अनिरुद्धोद्वहे\ऽन्यस्मिन् बाण-यादव-संयुगे ।
श्री-कृष्णः श्री-हरं जित्वा बाण-बाहून् अथाच्छिनत् ॥१-४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कन्यया ऊषया । अन्यस्मिन् द्वितीये । पाणि-ग्रहणम् उद्वहः इति नाम-माला । अथ हर-जयानन्तरम् । उपयेमे उपाद्यमः स्व-करणे इत्य् आत्मनेपदम् । तत्र विवाह-निमित्तम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः): न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्वि-षष्टितम ऊषाया अनिरुद्धेन सङ्गमः ।
चित्रलेखाहृतेनैतं बाणो बध्नाद् इतीर्यते ॥१-४॥
॥ १०.६२.२ ॥
श्री-शुक उवाच—
बाणः पुत्र-शत-ज्येष्ठो बलेर् आसीन् महात्मनः ।
येन वामन-रूपाय हरये\ऽदायि मेदिनी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्राणां शतं तत्र ज्येष्ठः । येन बलिना । अदायि दत्ता ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महात्मनः श्री-भगवद्-भक्तस्यापि, इति बाणस्याभक्तत्वं ध्वनितम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.३॥
तस्यौरसः सुतो बाणः शिव-भक्ति-रतः सदा ।
मान्यो वदान्यो धीमांश् च सत्य-सन्धो दृढ-व्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य बलेः । पाणि-गृहोती-भार्यायां जात औरसः । वदान्यः गुणवान्-दानशीलश् च वदान्यः पुरुषो मतः इति नील-कण्ठः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वैश्वर्य-युक्त इति श्री-कृष्ण-गुणावताराभिप्रायेण, अत एव सर्वेषां भूतानां [जीवानाशीशः]{।मर्क्} प्रभुः । किं च, शरण्य आश्रयण-योग्यः, यतो भक्त-वत्सलः, अतश् छन्दयामास, इच्छां कारितवान् । [[१०.६२.५]{।मर्क्}]
यद् वा, भगवान् परम-दयालुर् इत्य् अर्थः, अतः सर्वेषां भूतानां निज-गण-भेदानां दुःस्वभावानाम् अपीशः पालकः । किं च, शरण्यः शरणागत-रक्षकः । किं च, भक्त-वत्सलः । एवं विशेषणानाम् एषां यथोत्तरं वरच्छन्द नहेतुत्वे श्रेष्ठ्यम् ॥३॥ [[१०.६२.५]{।मर्क्}]
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.४ ॥
शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा ।
तस्य शम्भोः प्रसादेन किङ्करा इव ते\ऽमराः ।
सहस्र-बाहुर् वाद्येन ताण्डवे\ऽतोषयन् मृडम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बाणः । तस्य बाणस्य । ते प्रसिद्धाः । ताण्डवे नृत्ये ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने इत्य् अमरः । मृडं शिवम् गिरीशो गिरिशो मृडः इति च ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवता युद्ध कार्यो वाण-बाहु-दर्पच्छेदः श्री-शिवस्यानुमत एवेति दर्शयंस् तत्-प्रसङ्गम् आह—स इति पञ्चभिः । पार्श्वस्थं पुराधिपत्येन सदा तत्-पुरे सपरिवारस्य तस्य निवासात, तथा च श्री-हरि-वंशे कुम्भाण्ड-चिन्तायाम्—
देव-दानव-सङ्घानां यः कर्ता भुवन-प्रभुः ।
स भवः कार्त्तिकेयश् च कृत-वासो हि नः पुरे ॥ [ह।वं। २.११६.८२] इति ।
अर्कवणेनेति श्री-शिव-प्रसादान्-महा-धन-सम्पत्तिस् तया दुर्मदता च सूचिता, सम्यक् स्पृशन्न् इति भक्तिश् च ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महात्मनः श्री-भगवद्-भक्तस्यापि इति बाणस्याभक्तत्वं व्यज्य भगवद्-विद्वेष-प्रापकापराध-विशेषस्य तादृश-सत्सङ्गेनापि दुर्निर्वारत्वं दर्शितम् । तं चापराधं महा-भागवत-सार्वभौम-श्री-मृडाराधनेऽपि दुर्नाशं दर्शयन् प्रत्युत तत्-सम्बन्धेन तस्यापि श्री-भगवता सह स्पर्धाभासो दृष्ट इति दर्शयितुम् आह—सहस्रेत्य्-आदि । सहस्रबाहुर् इति वाद्ये कौशलादिकं व्यञ्जितं मृडम् इति ताण्डवे हेतु-गर्भं नाम मृडयति भगवद्-भक्ति-मय-ताण्डवादिना सुखयति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.५ ॥
भगवान् सर्व-भूतेशः शरण्यो भक्त-वत्सलः ।
वरेण छन्दयाम् आस स तं वव्रे पुराधिपम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुराधिपं पुर-पालकम् ॥५-६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : छन्दयामास वरार्थं प्रेरयामास । छदि—संवरणे । स बाणः । तं शिवं पुराधिपं वव्रे—त्वं मम पुराधिपः स्या इति वरयामास ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नमने हेतुः—हे महा-देवेति सर्व-देवश्रेष्ठत्वाद् इत्य् अर्थः । किं च, लोकानां सर्व-जीवानां गुरु पालकत्वादिना उपदेशकत्वेन च पित्रादि-रूपम्-ईश्वरञ् च प्रभुम् । प्रयोजनञ् च सूचयति—पंसाम् इति । अतो मे कामः पूयितव्य इति भावः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कथम् असौ तादृशं दुर्जनं स्वीकरोति ? उच्यते, सम्पद्-ऐश्वर्य-संवलित-कारुण्य-गुण-स्वाभाव्येनैवेति तच् च कदाचिद् अस्य दुर्जीवस्य मत्-सम्बन्धेन तादृश-दोषो\ऽपय् आदित्यभिप्रेत्येति ज्ञेयं भगवद् आवेश-मय-स्व-ताण्डवे वाद्य-साहाय्येन कारुण्योदयाद् इति तद् एतद् अभिप्रेत्य् आह—भगवान् इत्य् अर्धेन । अत एव वरेण निमित्तेन छन्दयमास स्वाभिप्रायम् आचष्ट बाणं प्रति वरं वृणुष्वेति प्रोवाचेत्य् अर्थः । सा च बाणस्तं पुराधिपतया ववे त्वं मम पुराधिपः स्या इति ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छन्दयामास वशयामास दित्सितेन रणेन वरेण तं वशीचकारेत्य् अर्थः । अभिप्राय-वशौ छन्दौ इत्य् अमरः । स बाणः तं पुराधिपं स्वपुर-पालकं वव्रे ॥५-६॥
॥ १०.६२.६ ॥
स एकदाह गिरिशं पार्श्व-स्थं वीर्य-दुर्मदः ।
किरीटेनार्क-वर्णेन संस्पृशंस् तत्-पदाम्बुजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बाणः । तत्-पदाम्बुजं हर-पदारविन्दम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परं केवलं भारत्वे हेतुम् आह—त्रिलोक्याम् इति । त्वत्त ऋत इति त्वम् एव समः, त्वया च युद्धं न घटेतैवेति प्रयोजनाभावाद्-भारायैवाभूद् इत्य् अर्थः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रस्ताव-विशेषम् आह—स इत्य्-आदिना । पार्श्व-स्थम् इति पुराधिपत्वेन सदा तत्-पुरे स-परिवारस्य तस्य निवासात् तथा च हरि-वंशे कुम्भाण्ड-चिन्तायां—
देव-दानव-सङ्घानां यः कर्ता भुवने प्रभुः ।
स भवः कार्तिकेयश् च कृत-वासो हि नः पुरे ॥ [ह।वं। २.११६.८२] इति ।
पार्श्वत इति वा पाठः वीर्य-दुर्मद इति तद् अपि वरोन्मुखं प्राप्य स्व-दौर्जन्यानुरूपम् एव वरयिष्यतीति भावः । अर्क-वर्णेनेति । शिव-प्रसादान्-महा-धन-सम्पत्तिस् तया च तस्य दुर्मदता सूचिता ततश् च सम्यक् स्पृशन्न् इति भक्तिश् च रजस्-तमो-मय्य् एवेति सूचितम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.७ ॥
नमस्ये त्वां महा-देव लोकानां गुरुम् ईश्वरम् ।
पुंसाम् अपूर्ण-कामानां काम-पूरामराङ्घ्रिपम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कामान् पूरयतीति काम-पूरः स चासाव् अमराङ्घ्रिपः कल्पतरुस् तं त्वाम् ॥७-८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोकानां गुरु ब्राह्मणत्वात् । ब्राह्मणत्वं तु शिवस्य दित्या तृतीय-स्कन्धे स्फुटी-कृतम् ।
वधं भगवता साक्षात्-सुनाभोदार-बाहुना ।
आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् विभो ॥ [भा।पु। ३.१४.४२] इति वाक्येन ।
आचार्यत्वम् आद्य-वर्णे मया संस्थापितं धरे इति वाराहोक्तः । काम-पूरको यो\ऽमराङ्घ्रिपः कल्पतरुस् तत्-तुल्यस् तम् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलम् एव वैफल्येन दुःखम्, कण्डत्या चेत्य् आह—कण्डत्यति । आद्य ! सर्व-श्रेष्ठेति त्वम् एव मम योद्धा योग्यो न त्वन्य इति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नमने हेतुः, हे महा-देवेति । सर्व-देव-श्रेष्ठत्वाद् इत्य् अर्थः । किं च, लोकानां सर्व-जीवानां गुरु सर्व-हितोपदेष्टारम् ईश्वरं च प्रभु नमस्कारे प्रयोजनं सूचयति—पंसाम् इति । अतो ममापि कामः पूरयितव्य इति भावः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामपूरको यो\ऽमराङ्घ्रिपः कल्पतरुस् तत्-तुल्यम् ॥७॥
॥ १०.६२.८ ॥
दोः-सहस्रं त्वया दत्तं परं भार्याय मे \ऽभवत् ।
त्रि-लोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मात्-ममापि कामः पूरणीय इत्य् आह—दोर् इति । त्वदृते त्वां विनेति । यदि कृपया स्वयम् एव मे प्रतियोद्धा त्वं भवेस् तदा मे रणकण्ड्या दुःख-निस्तार इति ध्वनिः । ततश् च त्वां विजित्यैव सर्व-दिग्विजयेन सम्पूर्णेन सम्पूर्ण यशा अहं भवेयम् इत्य् अनुध्वनिः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् ईश्वर आहेति शेषः । क्रुद्धः सन् दुर्मदा-दुर्वाक्याच् च केतुर् मायुर-ध्वजो भज्यते स्वयम् एव । हे मूढेति स्वयम् एवात्म-विपद्-वञ्छनात् दुर्दपाच् च, अहम् एव समः कथञ्चित्-तुल्यो यस्य स श्री-कृष्णस् तेन । यद् वा, मत्-समेनानिरुद्धेन । यद् वा, मया लक्ष्म्या सह वर्त्तत इति समः श्री-कृष्णः, मदीयो मत्-सेव्यो यः समस्तेन सहेत्य् अर्थ ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वरम् अपि स-गर्वयैव भङ्ग्या व्यञ्जयति । दोर् इति द्वाभ्याम् । परं केवलं, भारत्वे हेतुम् आह—त्रि-लोक्याम् इति । त्वदृते त्वां विना इति त्वम् एव मम समस् त्वया तु युद्धं न घटेतैवेति प्रयोजनाभावात् भारायैवाभूद् इत्य् अर्थः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मान्-ममेदं दुःखम् उपशमयितव्यम् इत्य् आह—दोर् इति । त्वदते त्वां विनेति यदि कृपया स्वयं त्वम् एव मे प्रतियोद्धा भवेस् तदैव मे रण-कण्डया दुःखान्-निस्स्तार इति ध्वनिः । ततश् च त्वां विजित्यैव सर्वदिग्-विजयेन सम्पूर्णेन सम्पूर्णयशा अहं भवेयम् इत्य् अनुध्वनिः ॥८॥
॥ १०.६२.९ ॥
कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्-गजान् अहम् ।
आद्यायां चूर्णयन्न् अद्रीन् भीतास् ते\ऽपि प्रदुद्रुवुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे आद्य ! निभृतैर् भरितैर् दोर्भिर् अद्रींश् चूर्णयन् अयाम् अगच्छम् ॥९-१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कण्डूतिर् गात्र-घर्षणम् । निभृतं भरिताचले इति कोषः । यातेर् लङि रूपमयाम् इति । कण्डूत्या रण-कण्डूत्या नितरां भृतैः पूर्णैर् दोर्भिर्युयुत्सुर् अहं दिग्-गजान्प्रति हे आद्य एतादृश-बलैश्वर्यादेस् त्वम् एव कारणमसीत्यतस् त्वम् एवैतां रणकण्डूतिं शमयेति भावः । ऐशानीदिशं विनान्याः सर्वा मया जिता एव, परं त्वष्टौ दिग्गजाञ्जित्वा ममाष्ट-दिग्-विजयोस्त्वित्य् अभिप्रायेणाहं गतवांस्ते\ऽपि भीताः प्रदुद्रुवुः । किं कुर्वन्—कण्डूतिशाम्त्य् अर्थमद्रीन् अपि चूर्णयन् । अतः कथय त्वया सह युद्धं विना मम रण-कणूड्या कथम् उपशाम्येत्, तस्या उपशमं विना मम कथं धैर्य भवेद् इति मयि दोषो न देय इति भावः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मूढ ! संयुगं मत्-समेन ते [[१०.६२.१०]{।मर्क्}] इत्य्-आदि । अहं समः सश्रीकः तस्माद्-धेतोः स तथा तेन मदधिकेनेत्य् अर्थः । यद् वा समेन सश्रीकेन श्री-कृष्णेन, संयुगं कीदृशम् ? मनातीति मत्, संयुगम् इति क्लीबत्वम् आर्षम् ॥९-१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हेत्युक्तो\ऽपि हृष्टः, यतः कुमतिः, ततश् च स्व-वीर्य-नशन-रूपम् अपि गिरिशस्यादेशम् । यद् वा, गिरिशस्यादेशे यस्मिंस् तद्-गिरिशादिष्टम् इत्य् अर्थः । स्व-वीर्यस्य नशनं नाशो यस्मात्-तत् संयुगं प्रतीक्षमाणो बभूव, यतः कुधीः । एवं वाक्य-भेदाद् अपौनर् उक्त्यम् । यद् वा, कुमतिः कुत्सित-सङ्कल्पः, कुधीर् दुर्यवसाय इत्य् अर्थः । इत्य् आश्चर्याद् आह—हे पेति । तदैव ध्वजश् चासौ भग्न इति शेयम् । तथा च श्री-विष्णु-पुराणे—
ततः प्रणम्य मुदितः शम्भुम् अभ्यागतो गृहम् ।
भग्नं तं ध्वजम् आलोक्य हृष्टो हर्षान्तरं ययौ ॥ [वि।पु ५.३३.४] इति ।
ईदृशं श्री-हरि-वंशे\ऽपि, किं तु बाण-कुम्भाण्डयोः संवादस् तत्र विशेषः, बहुत्वाद् अत्र न सङ्गृह्यते । एवम् अग्रे\ऽपि ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च वैफल्येनैव दुःखम् इत्य् आह—कण्डत्येति । कण्डतिवत् दुस्सहा युद्ध-स्पृहा तया ते दिग्-गजा अपि आद्य सर्व-श्रेष्ठेति त्वम् एव मम युद्ध-योग्यो न त्वन्य इति त्वम् एव मया युद्धयस्वेति-भावः । एवं श्री-भगवद्-बहिर्-मुखस्य स्व-सेव्यत्या गृहीते देवतान्तरे\ऽप्य् अपराध एव फलित! स्याद् इति दर्शितम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तच् छ्रुत्वेत्य् आदि । मत्-समेन अहं समः सस्त्रीको यस्मात् स तथा, यस्य प्रसादाद् अहम् ईश्वर इत्य् अर्थः । तेन मदधिकेनेत्य् अर्थः । यद् वा, समेन सश्रीकेन श्री-लक्ष्मणेन श्री-कृष्णेन समं संयुगं भवेत् । कीदृशम् ? मत्, मथ्नातीति मत् क्विपि रूपम् अतस् त्वद् अर्पघ्नः ॥९-१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कण्डूत्या रणकण्डूयया नितरां भृतैः परिपूर्णैर् दोर्भिर् युयुत्सुरहं दिग्-गजान् प्रति हे आद्य अयाम् अगच्छम् ऐशानी दिशं विना सर्व एवान्या दिशो मया जिता एव परं तु अष्टौ दिग्-गजान जित्वा ममाष्ट-दिग्-विजयो\ऽस्त्वित्य् अभिप्रायेणाहं गतवान् इति भावः । किं कुर्वन् भुज-बल-कण्डूय-निवर्तनार्थम् अद्रींश्चूर्णयन् ते दिग्-गजा अपि भीताः अतः कथय त्वया सह युद्धं विना मम रण-कण्डया कथम् उपशाम्यतु तस्या उपशमं विना मम कथं धैर्य भवेद् इति मयि दोषो न देय इति भावः ॥९॥
॥ १०.६२.१० ॥
तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा ।
त्वद्-दर्प-घ्नं भवेन् मूढ संयुगं मत्-समेन ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् उद्धत-वचः । ते केतुः भज्यते कर्म-कर्तरि प्रयोगः । ते संयुगम् इति पृथक्-सम्बन्धाद् अपौनर् उक्त्यम् । मत्समेन मत्-तुल्येन क्रुद्ध इति प्रथमं तज्-जिघांसा शिवम् अनस्युभूद् इति भावः । ततश् च स्वहस्तेन स्व-सेवक-वधो\ऽनुचितः । परं तु मत्-प्रसाद-लब्धं महा-बलवद्-भुज-सहस्र यदायं दुर्मदो भारं मन्यते तर्हि भारावतारण-कर्ता मत्-प्रभुर् एव खल्विमम् अपि भारमपनेष्यतीति परामृश्य् आह—हे मूढ ! स्वाभीष्ट-ज्ञानशन्य । केतुर् मयूर-ध्वजः स्वयम् एव यदा भज्यते त्रुट्यति । वर्तमान-सामीप्ये वर्तमानवत् । मत्-समेनेति-तं प्रीणयितुम् उक्तम् । वस्तुतस् तु मा लक्ष्मीः तया सह वर्तत इति समः श्री-कृष्णः, मदीयो मत्-सेव्यो यः समः स मत्-समस्तेनेत्य् अर्थः । यद् वा, मा शोभा तत्-सहित-समः, अहं समः सशोभो यतस् तेन । अत्र क्रुद्ध इतो उवाचेति शेषः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कन्या कुमारी, कान्तेन श्री-पार्वत्या पतित्वेनादिष्टेनेत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
ऊषा बाणसुता विप्र पार्वतीं शम्भुना सह ।
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तद्-आश्रयाम् ।
ततः सकल-चित्तज्ञा गौरी ताम् आह भाविनीम् ।
अलम् अत्यर्थ-तापेन भर्त्रा त्वम् अपि रंस्यसे ।
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः ।
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ।
वैशाख-शुक्ल-द्वादश्यां स्वप्ने यो\ऽभिभवं तव ।
करिष्यति स ते भर्ता बाण-पुत्रि भविष्यति ॥ [वि।पु ५.३२.११-१४] इति ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रुद्रोऽपि भगवान् भूत-भव्यभववृत्तश् च ईश्वर आहेति शेषः । तद् अनुरूपम् एवोक्तवानिर्थः । केतुर् मायूरध्वजः भज्यते स्वयम् एव हे मति स्वाभीष्ट-सिद्धिञ् च न जानासि दर्द त भावः । मत्-समेनेति एतावतैवास्य चमत्कारो भविष्यति किम् अधिकनिर् देशेनेति भावः । वस्तुतस् तु मया लक्ष्म्या सह वर्तत इति समः श्री-कृरणः मदीयो मत्-सेव्यो यः मत्-समस्तेन सहेत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रूद्ध इति प्रथमं तज्-जिघांसा शिवम् अनस्युदभूद् इति भावः ततश् च स्व-हस्तेनैव स्वसेवक वधो\ऽनुचितः परं तु मत्-प्रसादलब्धं महा-बलद्-भजसहस्र यद्य् अयं दुर्मदो भारं मन्यते तर्हि भारावतारण-कर्ता मत्-प्रभुर् एव खल्विमम् अपि भारमपनेष्यतीति परामृश्याह केतुर् मायूरध्वज, भज्यते स्वयम् एव यदा वर्तमानसामीप्ये वर्तमानत्वं मत्समेनेति तं प्रीणयितुम् उक्तं वस्तुतस् तु मा शोभा तया सह वर्तमानः समः अहं समः सशोभा यतस् तेन अत्र ऋद्ध इत्य् अनन्तरम् उवाचेति शेषः ॥१०॥
॥ १०.६२.११ ॥
इत्य् उक्तः कु-मतिर् हृष्टः स्व-गृहं प्राविशन् नृप ।
प्रतीक्षन् गिरिशादेशं स्व-वीर्य-नशनं कु-धीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-वीर्यस्य नशनं नाशनं केतु-भंगं प्रतीक्षमाणः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वपराभव-श्रुतेर् हर्ष एव कुमतित्वे हेतुः । पुनः कुधीर् इत्य् अत्यन्त-मौढ्यम् आहुः । सर्वेशेन युद्धाकाङ्क्षावत्त्वात् । यद् अयं मूढेति मां सम्बोध्य त्वद् अर्पघ्नं संयुगं भवेद् इति ब्रूते तद् अयम् एव मूढो मद् अर्पघ्न-संयुगस्यासम्भवाद् एवेति कुत्सिता मतिर् मननं यस्य सः । परं त्वेतद्-वाक्येनानुमीयते मदणकण्डूपशमकः कश्चिद्-वलिष्ठो योद्धम् एष्यतीति मत्वा हृष्टः गिरिशाद् इष्टं केतुभङ्गं प्रतीक्षमाणः कदा मे केतुभङ्गो भविष्यतीत्य् अमङ्गलसोत्कण्ठत्वाकुधीर् एव स इति विश्वनाथः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सा तथा श्री-पार्वत्य् अनुगृहीता सौन्दर्यादिनानिर्वचनीया वा, तत्र स्वप्ने स्थाने वा, सखीनां निरयेकत्र सुप्तानाम्, विह्वला अत्यार्त्ता, भावि-विरहात् । यद् वा, विह्वला रति-परिश्रमाद् व्याकूला वीडिता च, तादृशोक्तेः, अतो वीडिता, तथा च श्री-हरि-वंशे—
सा स्वप्ने रमिता तेन स्त्री-भावञ्चापि लम्भिता ।
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥ [ह।वं। २.११८.३] इति ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् उक्तो दृष्टः यतः कुमतिः कुत्सितो विचारो यस्य सः ततश् च स्ववीर्यस्य नशनं यस्मात्-तादृशं गिरिशादेशं तद् आदिष्टम् अर्थं प्रतीक्षमाणः स्व-गृहं प्राविशत् यतः कुधी दुर्व्यवसाय इति टीकायां नेशनं नाशम् इति नाश-रूपम् इत्य् अर्थः । नशनं नाशनम् इति कचित्-पाठः तदैव ध्वजश् चासौ भग्न इति ज्ञेयं तथा च श्री-विष्णु-पुराणे—
ततः प्रणम्य मुदितः शम्भुम् अभ्यागतो गृहम् ।
भग्नं तं ध्वजम् आलोक्य दुष्टो हर्षान्तरं ययौ ॥ [वि।पु। ५.३३.४] इति ।
ईदृशं हरि-वंशेऽपि किं तु बाण-कुम्भाण्डयोः सम्वादस् तत्र विशेषः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुमतिर् इति यद् अयं मूढेति मां सम्बोध्य त्वद्-दर्पघ्नं संयुगे भवेद् इति बते तद् अयम् एव मूढः मद्-दर्पघ्नस्य संयुगस्यासम्भवाद् एवेति कुत्सितं मननं विचारो यस्य सः परन्त्वेतादृश-वाक्येनानुमीयते मदीय-रण-कण्डूयोपशमकः कश्चिद्-वलिष्ठो योद्धमेष्यतीति मत्वा हृष्टः स्व-वीर्यस्य नशनं नाशो यस्मात् तं गिरिशादेशं तदादिष्टं केतु-भङ्गं प्रतीक्षन् प्रतीक्षमाणः कदा मे केतु-भङ्गो भविष्यतीत्य् अलक्षणसोत्कण्ठत्वात् कुधी ॥११-१२॥
॥ १०.६२.१२ ॥
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।
कन्यालभत कान्तेन प्राग् अदृष्ट-श्रुतेन सा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रीमहेशादिष्ट-सङ्ग्राम् अस्य प्रसङ्गम् आह । तस्योषेति । प्राद्युम्निनानिरुधेन तत्रापि स्वप्ने ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य बाणस्य । तत्रापि तस्मिन्न् अपि स्वप्नः । कन्या कुमारो । कान्तेन श्री-पार्वत्या पतित्वेनादिष्टेनेत्य् अर्थः । तथा विष्णु-पुराणे—
ऊषा बाणसुता विप्र पार्वती शम्भुना सह ।
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ।
ततः सकल-चित्तज्ञा गौरी ताम् आह भाविनीम् ।
अलम् अत्यर्थ-तापेन भर्ता त्वम् अपि रंस्यसे ।
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः ।
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ।
वैशाख-शुक्ल-द्वादश्यां स्वप्ने यो\ऽभिभवं तव ।
करिष्यति स ते भर्ता बाण-पुत्रि भविष्यति ॥ [वि।पु। ५.३२.११-१४] इति ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सखी सखीम् इति मिथो विश्वास उक्तः, अतो\ऽपृच्छत्, कौतूहलेन सम्यग् अन्वितेति तस्यास् तादृग् उक्त्यादिना ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कन्या-कुमारी कान्तेन श्री-पार्वत्या पतित्वेनाद् इष्टेनेत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
ऊषा बाणसुता विप्र पार्वती शम्भुना सह ।
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ।
ततः सकल-चित्तज्ञा गौरी ताम् आह भाविनीम् ।
अलम् अत्यर्थ-तापेन भर्ता त्वम् अपि रंस्यसे ।
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः ।
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ।
वैशाख-शुक्ल-द्वादश्यां स्वप्ने यो\ऽभिभवं तव ।
करिष्यति स ते भर्ता बाण-पुत्रि भविष्यति ॥ [वि।पु। ५.३२.११-१४] इति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.१३ ॥
सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी ।
सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तं कान्तम् अपश्यन्ती सा उत्तस्थौ ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा ऊषा । विह्वला विवशा विरहात् । यद् वा, रति-श्रमाकुलातो वीडिता । तथा च हरि-वंशे—
सा स्वप्ने रमिता तेन स्त्री-भावं चापि लम्भिता ।
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥ [ह।वं। २.११८.३-४] इति ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मृगयसे क्वासीत्य् उक्तेः । सुभ्रू ! हे सुन्दरीति सुन्दरं कञ्चित् मृगयस इति भावः । मार्गणञ्च कया वाञ्छयेत्य् आह—कीदृश इति । ननु, स्व-रमणं मृगये, तेन रन्तुं चेच्छामीति चेत्, तत्राह—हस्तेति । अद्यापि नोपलक्षये, न पश्यामि, वरान्वेषणस्याप्य् अकृतत्वात्, हे राज-पुत्रीति स्वातन्त्र्याभावाद् इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विह्वला अत्यार्त विरहात् यद् वा, रति-परिश्रमाद्याकुला अतो ब्रीडिता तथा च हरि-वंशे—
सा स्वप्ने रमिता तेन स्त्री-भावं चापि लम्भिता ।
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥ [ह।वं। २.११८.३-४] इति
तद् एवं श्रीमद् अनिरुद्धस्य साक्षाद् आगमनम् एव गम्यते तच् च वक्ष्यमाणया चित्रलेखय् एव देव्या कृतम् एव ज्ञेयं तद् इदम् उत्तरञ्च तस्य वृत्तं नर-लीला-व्यञ्जनाद्-घटते ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महेशादिष्ट-संयुग-प्रसङ्गम् आह—तस्येति । प्राद्युम्निना अनिरुद्धे न स्वप्न इति तत्-कारणं श्री-विष्णु-पुराणे यथा—
ऊषा बाणसुता विप्र पार्वती शम्भुना सह ।
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ।
ततः सकल-चित्तज्ञा गौरी ताम् आह भाविनीम् ।
अलम् अत्यर्थ-तापेन भर्ता त्वम् अपि रंस्यसे ।
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः ।
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ।
वैशाख-शुक्ल-द्वादश्यां स्वप्ने यो\ऽभिभवं तव ।
करिष्यति स ते भर्ता बाण-पुत्रि भविष्यति ॥ [वि।पु ५.३२.११-१४] इति ॥१३-१४॥
॥ १०.६२.१४ ॥
बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्-सुता ।
सख्य् अपृच्छत् सखीम् ऊषां कौतूहल-समन्विता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किं वृत्तं ? तत्राह—बाणस्येति ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् तद्-अनन्तरम् । तत्-सुता कूम्भाण्डात्मजा ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नरो मनुष्याकार । कश्चित्, श्यामत्वादिना क्रमेणोत्तमकान्ति सौन्दर्य परिच्छद-बलिष्टत्वादीनि सर्वाण्य् उपलक्ष णत्वेन सूचितानि । अतो हृदयङ्गम इत्य् अनुक्तं नव-यौवनोद्भेदादिकम् अन्यद् अपि सङ्गृह्णाति ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सखी सखीम् इति विश्वास उक्तः अतो\ऽपृच्छत् अतो\ऽनेन कुम्भाण्ड इत्य् अस्य नान्वयः, किं तु तत्-सुतात्व-निर्देशानुवाद-मात्रत्वम् अतश् च-शब्दोऽपि तु शब्दार्थ एव कौतूहलेति तस्यास् तादृग् उक्त्य्-आदिना ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.१५ ॥
कं त्वं मृगयसे सु-भ्रु कीदृशस् ते मनोरथः ।
हस्त-ग्राहं न ते\ऽद्यापि राज-पुत्र्य् उपलक्षये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हस्तस्य ग्राहो यत्र स तथा विवाहः । यद् वा, हस्तं गृहातीति हस्तग्राहो भर्ता तम् इत्य् अर्थः । पत्य्-उद्वाहे हस्त-ग्राहः इति निरुक्तिः । अद्याप्य् अद्य-पर्यन्तम् अपि ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मधु मधुरम् । यद् वा, आधरम् अधर-सम्बन्धि-मधु स्पृहयतीम्, अपूर्ण-कामाम् इत्य् अर्थः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृगयसे कासीत्य् उक्तेः । तत्र च कान्तेति यद् उक्तं, तत्राह—हस्तेति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हस्त-ग्राहं भरि विवाहाभावान् न लक्षये ॥१५-१७॥
॥ १०.६२.१६ ॥
दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमल-लोचनः ।
पीत-वासा बृहद्-बाहुर् योषितां हृदयं-गमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हस्त-ग्राहं भर्तारम् ॥१६-१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हृदयङ्गमो मनोहरः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपकर्षामीति वर्तमान-निर्देशः शैघ्र्य-बोधनार्थम्, त्रिलोक्यां सो\ऽस्तीति यदि केनचिद्-भाव्यते ज्ञायते सम्भाव्यते वा । यद् वा, स्वार्थे इण, भूयते तेन स्थीयते, तदानेष्ये, आदिश मया लिख्यमानेषु मध्ये दृष्ट्वा कथयेत्य् अर्थः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृदयङ्गम इत्य् अनुक्तं यौवनोद्भेदादिकम् अपि सङ्गृह्णाति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.१७ ॥
तम् अहं मृगये कान्तं पाययित्वाधरं मधु ।
क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं स्वप्न-दृष्टम् । वृजिनार्णवे दुःख-सागरे ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवादीनां प्रायो द्विभुजत्वादिना [नराकार-साम्यात् तान् अप्य् अलिखत् ।]{।मर्क्} श्यामत्वादि-लक्षणे गदिते\ऽप्य् अन्यान् अप्य् अलिखद् इति स्व-सर्वज्ञता-ज्ञापनेन तस्या विश्वासोत्पादनार्थम् इति ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आधरं अधर-सम्बन्धि मधु स्पृहयन्तीम् अपूर्ण-कामाम् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.१८ ॥
चित्रलेखोवाच—
व्यसनं ते \ऽपकर्षामि त्रि-लोक्यां यदि भाव्यते ।
तम् आनेष्ये वरं यस् ते मनो-हर्ता तम् आदिश ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भाव्यते मल्-लिखितस् तद्-आकारो भवत्यानुसन्धीयेत, तदा तम् आनेष्ये । तस्माच् चित्राणि दृष्ट्वा आदिश कथय ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेणालिखद् इति नर इत्य् अनुक्त्वा तत्रापि श्यामत्वादि-लक्षणोक्त्या तेष्व् एव सम्भावनात् । लज्जिता सारूप्ये किञ्चिद् वयो\ऽतिरेक दृष्ट्या श्वशुर-मननात् स्वाभाविक-भावाद् वा ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपकर्षामीति वर्तमान-निर्देशः शैघ्र्य-बोधनार्थः । यतो यदि त्रि-लोकी-मध्ये भाव्यते मया लिखितस् तद्-आकारो भवत्यानुसन्धीयेत, तदा तं चानेष्य इत्य् अर्थः । तस्माद् य इति आदिश, चित्राणि दृष्ट्वा कथयेत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भाव्यते प्राप्यते ॥१८-१९॥
॥ १०.६२.१९ ॥
इत्य् उक्त्वा देव-गन्धर्व-सिद्ध-चारण-पन्नगान् ।
दैत्य-विद्याधरान् यक्षान् मनुजांश् च यथालिखत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वप्ने त्वया दृष्टः एषां मध्ये को वा भवेत् ? इति देवादीन् यथावत् पटे\ऽलिखत् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् उक्त-रीत्या ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ह्रिया भाव-विशेष-जनितया, अतो\ऽवाङ्-मुखी । एवं गुर्व्-आदि-भेदेन लज्जाया अपि भेदो ज्ञेयः । प्रकर्षेण भाव-विशेषेण सगद्गदत्वादिनाह—हे महीपते ! इति, चित्र-लेखायास् तादृशं लिखन-सौष्ठवम् ऊषायाश् च प्रत्य् अभिज्ञानादिकं पृथ्व्यां कुत्रापि न सम्भवेद् इति त्वया पथ्वीशत्वाद्-विज्ञायत एवेति भावः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्यामत्वादि-लक्षणे गदिते\ऽप्य् अन्यान् अलिखद् इति स्व-सर्वज्ञता-ज्ञापनेन, तस्याः विश्वासोत्पादनार्थम् इति ज्ञेयम् । नाना तादृशानां सह योगिन एव ते ज्ञेयाः विश्वेषां लिखनस्यानन्त्य-प्राप्तेः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.२० ॥
मनुजेषु च सा वृष्णीन् शूरम् आनकदुन्दुभिम् ।
व्यलिखद् राम-कृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रद्युम्नं लिखितं वीक्ष्य श्वसुरो\ऽयम् इति लज्जिता ॥२०-२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा चित्रलेखा ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगिनीति, अत एव तस्या विद्या-विशेषवत्त्वात् । किं वा, श्री-हरिवंशोक्त्य्-अनुसारेण श्री-नारदतो विद्या-प्राप्तेः । तथा च तत्र श्री-भगवतो बिभ्यती चित्रलेखा समाश्वास्य तेनोक्ता—
गृह्यतां तामसी विद्या सर्व-लोक-प्रमोहिनी ।
कृत-कृत्यस् तु ते देवि एतां विद्यां ददाम्य् अहम् ॥ [ह।वं। २.११९.१९] इति ।
कृष्णेन साक्षाद्-भगवता पालिताम् अपि, अतस् तद्-इच्छयैव तत्-तत् सर्वम् इति भावः । तच् च बुद्ध्या प्रकाशमानत्वम् अवकलयस्य् एवेति सम्बोधयति—राजन् इति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मनुजेष्व् इति युग्मकम् । विशेषेणालिखद् इति । नरः इत्य् उक्त्या तत्रापि श्यामलादि-लक्षणोक्त्या तेष्व् एव सम्भावनात् प्रद्युम्नं विलिखितं वीक्ष्य लज्जिता स्वाभाविक-भावात्, अनिरुद्धं तं तु वीक्ष्य विलिखितं ह्रिया भाव-विशेष-जनितयावाङ्मुखीती एवङ्गुर्वादिभेदेन लज्जाया अपि भेदश्चेतसो सनेत्रादेर् अपि सङ्कोच-विकासादितो ज्ञेयः प्रकर्षेण सगद्गदत्वादिनाह हे महीपते इति चित्रलेखायास् तादृशं लिखन-सौष्ठवम् ऊषायाश् च प्रत्य् अभिज्ञानादिकं पृथ्व्यां कुत्रापि न सम्भवेद् इति त्वया पृथ्वीशत्वाद् विज्ञायत एवेति भावः ॥२०-२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतेषां पुरुषाणां मध्ये तव पुरुषः क इति पृष्टा उषा प्रद्युम्नं वीक्ष्य श्वशुरोऽयम् इति बुद्ध्या लज्जिता तत्-पुत्रम् अनिरुद्धं वीक्ष्य सोऽसाव् असाव् इति द्विरुक्तिर् अतिविस्मय-हर्षोदयात् । अतस् तत्र चित्र-पटे अयम् अस्य पुत्रो\ऽयम्, अस्य नामेति प्रतिलेख्य प्रतिमोपरि तया अक्षराण्य् अपि लज्जितानीति बुध्यते ॥२०-२२॥
॥ १०.६२.२१ ॥
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्-मुखी ह्रिया ।
सो\ऽसाव् असाव् इति प्राह स्मयमाना मही-पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेषां मध्ये तव पुरुषः क इति पृष्टोषा प्रद्युम्नं वीक्ष्य श्वशुरो\ऽयम् इति बुद्ध्या लज्जिता, चित्र-पटे\ऽयम् अस्य पुत्रो\ऽयम् अस्य नप्तेति प्रतिलेख्य-प्रतिमोपरि तयाक्षराण्य् अपि लिखितानीति बुध्यते । असाव् अनिरुद्धः । वीप्सा सम्भ्रमे । स स्वप्नदृष्टः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रियं वल्लभम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.२२ ॥
चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी ।
ययौ विहायसा राजन् द्वारकां कृष्ण-पालिताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् उषोद्दिष्टम् । योगिनी दैत्य् आत्मजत्वान्-माया-योगविशारदा । यद् वा, हरिवंशानुसारेण श्री-नारदतः प्राप्तविद्या । द्वारका प्रवेष्टुम् अशक्नवत्ये चित्रलेखायै नारदेन समाश्वास्य सोक्ता
गृह्यतां तामसी विद्या सर्व-लोक-प्रमोहिनी ।
कृतकृत्यां तु देतेयि विद्यामेतां ददाम्यहम् ॥ [ह।वं। २.११९.१९]
इति चित्रलेखा योगमायांशेति केचिद् आहुः । हे राजन् इति बुद्ध्या प्रकाशमानस् त्वम् अवकलयस्य् एवेति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुदितं हर्षेण विकसितम् आननम् अपि यस्याः सा, हर्षोद्रेकेण अवहित्थायाम् अप्य् अशक्तेः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योगिनीति । स्वत एव तस्या विद्या-विशेषवत्त्वात् किम्बा श्री-हरिवंशोक्त्य् अनुसारेण श्री-नारदतो विद्याप्राप्तेः तथा च तव श्री-भगवतो बिभ्यती चित्रलेखा समाश्वास्य तेनोक्ता
गृह्यतां तामसी विद्या सर्व-लोक प्रमोहिनी ।
कृतकृत्यास् तु दैतेयी एतां विद्यां ददाम्य् अहम् ॥ [ह।वं। २.११९.१९] इति ।
कृष्णेन स्वयं भगवता पालिताम् अपि अतस् तद् इच्छयैव तत्-तत्-सर्वम् इति भावः । तत्र बुद्धया प्रकाशमानस् त्वम् अवकलस्य् एवेति सम्बोधयति राजन् इति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.२३ ॥
तत्र सुप्तं सु-पर्यङ्के प्राद्युम्निं योगम् आस्थिता ।
गृहीत्वा शोणित-पुरं सख्यै प्रियम् अदर्शयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शोणित-पुरं नीत्वा ॥२३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र द्वारकायाम् । योगं मायाबलम् योगो\ऽपूर्वार्थ-सम्प्राप्ती सङ्गति-ध्यान-युक्तिषु इति कोशः । नीत्वेति शेषः । सप्तम्यन्त-पाठस्तु सुगमः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथा तेन सा परम-प्रीताभूत्-तथा तया च स इत्य् आह—पराद्धयेति द्वाभ्याम् । आदि—शब्दात् शय्यादयः, भोजन-भक्ष्ययोश् चर्व्यात्विदिना भेदः, वाक्यैश् च नादिभिः, शुश्रूषणं पाद-प्रक्षालनादि-सेवा भक्तिर् वा ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रियं वल्लभम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोणित-पुरम् इत्य् अनन्तरं गत्वेति शेषः । योगम् आस्थितेति द्वारकायां प्रवेष्टुम् अशक्नुवत्यै तस्यै श्री-नारदेन योग-विद्योपदेशो हरिवंशादौ दृष्टः चित्रलेखापि योग-मायांश-भूतेति केचिदाहुः ॥२३॥
॥ १०.६२.२४ ॥
सा च तं सुन्दर-वरं विलोक्य मुदितानना ।
दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुम्भिर् दुष्प्रेक्ष्ये प्रेक्षितुम् अशक्ये ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा ऊषा । तम् अनिरुद्धम् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शश्वत् पुनः पुनः, प्रकर्षेण नित्य-नूतनत्वादिना वृद्धः स्नेहो\ऽनुरागो यस्यां वा तया, रूपादिना सुप्रसिद्धया, न बुबुधे, कति दिनान्य् अतीतानि, अधुना दिनं निशा वेत्य् आदिक न ज्ञातवान् । कुतः ? अपहृतम् इन्द्रियं मनो यस्य सः, प्रेम-मोहितत्वाद् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुदितं हर्षेण विकासितम् आननम् अपि यस्याः सा होद्रके न अवहित्थायाम् अप्य् अशक्तेः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुम्भिर् दुष्प्रेक्ष्ये पुरुषान्तर-प्रवेशाशक्य इत्य् अर्थ ॥२४॥
॥ १०.६२.२५ ॥
परार्ध्य-वासः-स्रग्-गन्ध-धूप-दीपासनादिभिः ।
पान-भोजन-भक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स च परार्ध्यैर् अमूल्यैर् वासः स्रगादिभिः शुश्रूषण-पूर्वकम् अर्चितः सन् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भोजन-पदम् अत्र लेह्यादि-परम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेनोक्त-प्रकारेण भुज्यमानाम्, अतो हतं व्रतं कन्या-नियमो यस्यास् ताम्, हत-त्रपाम् इति पाठे यतो निर्लज्जाम्, अत एव आप्रीताम्, यदु-वीरेणेति परमं निर्भयत्वं वैदग्ध्यादिकं च सूचितम्, अत एव दुरवच्छदे हेतुभी रति-चिह्नः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परार्ध्यर्थेति युग्मकम् । पान-भोजने पेय-भोज्ये, कृत्यल्युटो बहुलम् [पा। ३.३.११३] भोज्य-भक्ष्ययोश् चर्व्याचर्व्यत्वादिना भेदः । एतैर् यच्-छुश्रूषणं तेनाचितः शश्वत् पुनः पुनः प्रकर्षेण नित्य-नूतनादिना वृद्धः स्नेहो\ऽनुरागो यस्याः यस्यां वा तया नार्ह-गणान् इति श्री-कृष्ण-परित्यागेन तत्र चिर-स्थितौ सिद्धान्तः । तच् च लीला-विशेषाय श्री-कृष्णेच्छयैव ज्ञेयम् । तत एव उषया अपहृतम् इन्द्रियं मनो यस्य सः प्रेम-मोहित इत्य् अर्थः ॥२५-२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतैर् यत् शुश्रूषणं तेनार्चितः ॥२५-२६॥
॥ १०.६२.२६ ॥
गूढः कन्या-पुरे शश्वत्-प्रवृद्ध-स्नेहया तया ।
नाहर्-गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तया ऊषयापहृतेन्द्रियो\ऽहर्-गणान् दिन-समूहान् न बुबुधे ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽनिरुद्धः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भटा अन्तःपुरचराः षण्टकुब्जादयो रक्षिणो वाणभृत्याः, एषामुभयतो\ऽप्यन्वयः । हे राजन् इति राज्ञे भृत्यैर् अवश्यम् एव स्वप्रयोजनं विज्ञाप्यम् इति । किं वा, राज्ञस्तव पुत्र्यास् तद् असम्भाव्यम् इति भावः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अपहृतेन्द्रियः प्रेम-मोहित इत्य् अर्थः ॥२६-२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.२७ ॥
तां तथा यदु-वीरेण भुज्यमानां हत-व्रताम् ।
हेतुभिर् लक्षयां चक्रुर् आप्रीतां दुरवच्छदैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आप्रीताम् अतिहृष्टाम् । दुरवच्छदैश् छादयितुम् अशक्यैः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हतो नष्टो व्रतः पितृदान-पूर्वक-पतिस्वीकार-रूपो धर्मो यस्यास्सा ताम् व्रतो धर्मोपवासयोः इति धरणिः । हेतुभिः पुंसङ्गबोधकैर् वक्रनिरीक्षण-देह-संस्कारादिभिः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् च कथम् अभूद् इत्य् अस्माभिर् बोद्धं न शक्यत इत्य् आहुःअनपायिभिर् इति । तु अपि, अस्य यथापेक्षं सर्वैर् अन्वयः । हे प्रभो! इति त्वत्-प्रभावेणान्तःपुरे\ऽन्यस्य प्रवेशो नैव सम्भवतीति भावः । अतः पुम्भिदष्प्रेक्षाया अपि । यद् वा, अस्माभिः सदा द्रष्टुम् अशक्याया इत्य् अर्थः । केवलं गृहान्तरावृत्य गुप्ताया इति स्वदोषः परिहृतः, दुष्प्रेष्या इति पाठे सखीद्वारैव तद् इति भावः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदु-वीरेणेति । परम-विदग्धेन निर्भयेन च तेन भुज्यमानां तां हतव्रतां स्खलित-कन्या-नियमां लक्षयाञ्चक्रुः भटा इत्य् उत्तरस्थेनैवान्वयः । कैर् हेतुभिः दुरवच्छदैः हेतुभिः परम्परावगतैः रति-चिह्नैः तत्र मुख्यं चिह्नम् आप्रीताम् इति ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेतुभिः रति-चिह्नः दुरवच् छदैः छादयितुम् अशक्यैः आप्रीताम् अत्यानन्दवतीम् इति मुख्यं रति-चिह्न-पुर-पालक भट-श्रिय इति शेषः ॥२७॥
॥ १०.६२.२८ ॥
भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् ।
विचेष्टितं लक्षयाम कन्यायाः कुल-दूषणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विचेष्टितं विरुद्धाचरणम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भटा गृह-रक्षकाः भटः स्यात् पुंसि वीरे\ऽथ प्रभेदे पामरस्य च इति मेदिनी । कुल-दूषणं व्यभिचारम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तस्माद्-भटानाम् आवेदनाच्छुतदूषणः, ततो\ऽति-दुःखितः-प्रकर्षण शनैर् निगूढतया प्राप्तो गतः सन् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भटा अन्तः-पुरचराः षण्डादयो रक्षिणो बाणभृत्याः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भटाः षण्डादयः ॥२८-३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भटाः प्रकारान्तरेण जानन् बाणो नः शास्ति करिष्यतीति प्राप्ताशङ्काः ज्ञापयामासुः कन्याया अपरिणीतायाः अपि ॥२८॥
॥ १०.६२.२९ ॥
अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो ।
कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनपायिभिः अपायो\ऽपसर्पणं प्रमादो वा तद्-रहितैः । पाठान्तरे दुष्टा प्रेष्या सखी यस्यास् तस्याः पुम्भिर्-दूषणं कुतो वेति न जानीम इत्य् अर्थः ॥२९-३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाठान्तरे दुष्प्रेष्याया इति पाठे पुम्भिः कृत्वा ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदूद्वहत्वम् एव दर्शयंस् तं वर्णयति—कामेति द्वाभ्याम् । काम् अस्य प्रद्युम्नस्यात्मजत्वाद् एव भुवनेषु एकम् अद्वितीयं सुन्दरम्, सौन्दर्यम् एवाह—श्यामम् इत्य्-आदिना । कुण्डलयोः कुन्तलानां चालकानां त्विषा कान्त्या ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वेषाम् अपराधं परिहरन्त आहः—अनपायिभिर् इति । तु-शब्दः अशङ्का-निरासार्थः पुम्भिर् दुष्प्रेक्षाया अपि पाठान्तरे पुम्मिर् दूषणम् इति पुंश्चल्या दूषणं न विद्मः अनुमीयमानम् अपि प्रत्यक्षीकतु न शक्नुम इत्य् अर्थः । जात्याख्यायाम् एकस्मिन् बहु-वचनम् अन्यतरस्याम् [१-२-५८] इति स्मरणाद्-बहु-वचनम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनपायिभिः अपायः अपसर्पणं प्रमादो वा तद् रहितैः दुष्प्रेक्षाया इति पाठे दुष्टा या योगिनी प्रेष्या सखी यस्यास् तस्याः पुम्भिर् दूषणं पुञ्जात्यादूषणं न विद्मा अनुमीयमानम् अपि प्रत्यक्षी-कर्त्तुं न शक्नुम इत्य् अर्थः जात्य्-आख्यायाम् एकस्मिन् बहु-वचनम् अन्यतरस्याम् इति बहु-वचनम् ॥२९-३१॥
॥ १०.६२.३० ॥
ततः प्रव्यथितो बाणो दुहितुः श्रुत-दूषणः ।
त्वरितः कन्यकागारं प्राप्तो \ऽद्राक्षीद् यदूद्वहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भटोक्तिश्रुत्य् उत्तरम् । अपत्ये वायुभेदे चोद्वाहे उद्वह ऊर्ध्वगे इति निरुक्तिः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, दीव्यन्तम् इति, अनेन निर्भयत्वादिकम् अपि सूचितम् । तद् अङ्गेत्यादिना वैदग्ध्यादिकञ् च, अभिनृम्णयेति तस्या अपि मङ्गल-वेशादिकम् अवेक्ष्य दूराद् दृष्ट्वा विस्मितः सौन्दर्यादिना तस्य तत्र गमनादिना च । अन्यत् तैर् व्याख्यातम् । तत्र चत्वारो वार्षिका मासाः इत्य् अग्रे वक्ष्यमाण-प्रावृट्-काले\ऽपि वसन्त-भव-मल्लिका इति बाणस्य भीत्या तत्-पुरे सर्वेषाम् ऋतूणां सन्निपाताद् इति । यद् वा, श्री-हरि-वंशानुसारेण वैशाख-शुक्ल-द्वादश्यां ऊषा-स्वप्न-दर्शनाद् वसन्त-मल्लिका एव । ततश् चत्वारो वार्षिका मासा इति वसन्त-शेषे ग्रीष्मे च सर्वतो मार्गणेनापि तद्-उद्देशालाभतो वर्षास्व् एव शोकोद्रेकात्, अथवा बाह्वोर् बाहु-मूलयोः, मधोर् वसन्तस्येव । किं वा, मधु-युक्ता मल्लिकास् तद्-आश्रिताः, तस्य बाणस्याग्रे\ऽप्य् आसीनम् एव, न तु भयादिनोत्थितम् इत्य् अर्थः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण शनैर् निगूढतया आप्त आगतः सन् यद् ऊद्वहं यदु-श्रेष्ठम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.३१ ॥
कामात्मजं तं भुवनैक-सुन्दरं
श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् ।
बृहद्-भुजं कुण्डल-कुन्तल-त्विषा
स्मितावलोकेन च मण्डिताननम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कामस्यात्मनो देहाज्-जातम् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काम् अस्य प्रद्युम्नस्य ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स दीव्यन् किं वा, अनिर्वचनीय-वीर्यः, यतो माधवो मधुकुलोद्भवः, तं बाणं भटैर् वीरैर् जिघांसया विशेषेण महा-घोरत्वेन परमोत्साहादिना चावस्थितो\ऽवज्ञा-पूर्वकम् अतिष्ठत्, तत्रानुरूपो दृष्टान्तः—यथेति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदूद्वहत्वं दर्शयति—कामेति युग्मकेन । सौन्दर्यम् एवाह—श्यामम् इत्य्-आदिना । निर्भयत्वं दीव्यन्तम् इत्य् अनेन वैदग्ध्यादिकं तद्-अङ्गेत्य्-आदिना तस्या अपि व्यूढोचित-मङ्गल-वेषादिकम् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.३२ ॥
दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया
तद्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम् ।
बाह्वोर् दधानं मधु-मल्लिकाश्रितां
तस्याग्र आसीनम् अवेक्ष्य विस्मितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिनृम्णया सर्व-मङ्गलया तस्या अङ्गसङ्गेन स्तन-कङ्कुमं यस्यां स्रजि तां बाह्वोर् मध्ये वक्षसि दधानम् । मधुमल्लिका वसन्तभवा मल्लिकास् तद् आश्रिताम् । तस्याग्र इत्य् आर्षः सन्धिः । तस्या अन इत्य् अर्थः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृम्णं रम्य-भद्रयोः इति धरणिः । इत्य् अर्थ इति व्याख्या । तत्रागमन-सौन्दर्य-निर्भयत्वादिभिर् विस्मितो बाणो\ऽभूत् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : [+++]{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जिघृक्षया अन्तःपुर-प्रवेशादि-वार्तापेक्षया, किं वा श्री-हरिवंशोक्त—कुम्भाण्ड-वाक्यापेक्षयापहरणेच्छैव, न तु जिघांसा तया अहनत् परिघेण प्रहतवान्, शूकर-यूथपो महा-वराहः, सो\ऽपि यथात्मनो जिघृक्षया परितः प्रसर्पतः शुनो हन्ति, तद्वत्, भवनात् ऊषायाः, कन्यागाराद् वा, निःशेषेण भिन्नाः केषाञ्चिन्-मूर्दानः केषाञ्चिद् ऊरवः केषाञ्चिच् च भुजा येषां ते, अत एव प्रकर्षेण दुद्रुवुः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभिनृम्णयेत्यनेन मधु-मल्लिका मधुस्रावि तद् उत्तम-जाति-विशेषः चत्वारो वार्षिका मासा इति वक्ष्यमाणात् प्रावट्-अकाल-प्राप्तेः । तस्य बाणस्यागेऽपि आसीनम् एव न-तु भयादिनोत्थितम् इत्य् अर्थः । विस्मितो\ऽभूत् सौन्दर्यादिना तस्य तत्र गमनादिना निर्भयत्वादिना च ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मधु-मल्लिका शत-दल-मल्लिका-जाति-विशेषः ॥३२-३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिनुम्णया परम-मङ्गलया तस्या अङ्गसङ्गेन स्तन-कुङ्कमं यस्यां तां स्रजम् अंसाभ्यां सकाशात् रखलिता बाह्वोर्दधानं यद् वा, बाह्वोर् बाहु-शिरसो स्कन्धयोर् इत्य् अर्थः । मधु-मल्लिका वसन्त-भवा मल्लिका तद् आश्रितां तस्या उषाया अग्रे सन्धिर् आर्षः अहो महा-साहसिनो\ऽस्यै तावद् अपि धार्ष्ट्यम् इति विस्मितः ॥३२॥
॥ १०.६२.३३ ॥
स तं प्रविष्टं वृतम् आततायिभिर्
भटैर् अनीकैर् अवलोक्य माधवः ।
उद्यम्य मौर्वं परिघं व्यवस्थितो
यथान्तको दण्ड-धरो जिघांसया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आततायिभिर् उद्यत-शस्त्रैः । माधवो \ऽनिरुद्धः । मौर्वं मुरुर् लाह-विशेषस् तन् निर्मितम् ॥३३-३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽनिरुद्धः । तं बाणम् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलि-नन्दनत्वाद् एव बली, पाठान्तरे बलिनम् इति श्री-हरिवंशोक्त-शक्ति-प्रहारादिना बाण-निर्जयात्, नाग-पाशैर् इति साक्षाद्-युद्धाशक्त्या कुम्भाण्ड-वचनेन मायया सस्त्रैर् वबन्धेति ज्ञेयम् । ह खेदे, तथा च श्री-विष्णु-पुराणे—
युध्यमानो यथा-शक्ति यदा वीरेण निजितः ।
मायया युयुधे तेन स तदा मन्त्रिचोदितः ॥ [वि।पु ५।३३।८] इति ।
निशम्य श्रुत्वेति कन्या-गाराद्-बहिर् युद्धात् किं वा, निशाम्येति पाठः । तथा च हरि-वंशे नागैर् विचेष्टितं दृष्ट्वा उषा प्राधुम्निमातुरा [ह।वं। २.११९।२००] इत्य्-आदि, तत्-तद्-विस्तारश् च तत्रैव ज्ञेयः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भटैस् तन्-निकटवत्ति-वीरैः स्वयम् अवज्ञया लज्जया च तद्-द्वारैव ग्रहणार्थं पश्चाद् आहुतैः मौरवम् इति वक्तव्ये मौर्व्यम् इत्य् आर्षं विशेषेण महा-घोरत्वेन परमोत्साहादिना-चावस्थितो\ऽवज्ञा-पूर्वम् अतिष्ठत् तत्रानुरूपो दृष्टान्तः यथेति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माधवो \ऽनिरुद्धः मूर्वा लोह-विशेषस् तन्-निर्मितम् ॥३३-३४॥
॥ १०.६२.३४ ॥
जिघृक्षया तान् परितः प्रसर्पतः
शुनो यथा शूकर-यूथपो \ऽहनत् ।
ते हन्यमाना भवनाद् विनिर्गता
निर्भिन्न-मूर्धोरु-भुजाः प्रदुद्रुवुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् बाण-भटान् । ते बाण-भटाः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जिघृक्षा ग्रहीतुम् इच्छेव या जाता नतु जिघांसा तया अहनत् परिघेण प्रहृतवान् उषाया भवनात् ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६२.३५ ॥
तं नाग-पाशैर् बलि-नन्दनो बली
घ्नन्तं स्व-सैन्यं कुपितो बबन्ध ह ।
ऊषा भृशं शोक-विषाद-विह्वला
बद्धं निशम्याश्रु-कलाक्ष्य् अरौत्सीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शोकविषादाभ्यां विह्वला अवशा । अश्रूणां कला बिदवो ययोस्ते अक्षिणी यस्याः सा ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अनिरुद्धम् । नागपाशः पुमान्स् त्रीणां करणे वरुणायुधे इति मेदिनी । बलि-नन्दन इति विरुद्ध-लक्षणया मङ्गल-शब्दवत् तस्य दुःखदः पुत्र इत्य् अर्थः । बलीति श्री-कृष्णस्य लीला-विशेषेच्छाया विपर्ययाद् इति । यद् वा, कलि-बली काम-धेनू—
अपिस्विदास्ते भगवान् सुखं वो
या सात्वतां काम-दुघो\ऽनिरुद्धः ।
यमामनन्ति स्म हि शब्दयोनि
मनोमयं सत्त्वतुरीयतत्त्वम् ॥
इति तृतीये विदुर-प्रश्नाच्-छब्द-योनि निःश्वास-व्यञ्जित-वेदवृन्दं मनोमयं चित्ते वासुदेववन्-मनस्युपास्यं सत्त्वं शुद्ध-सत्त्वात्मकं भगवत्तत्त्वं तस्य च तद्-व्यूहत्वे चतुर्थ व्यहम् इत्य् अर्थः । विष्णु-धर्मोत्तरे वज्रप्रश्ने—
कस् त्व् असौ बाल-रूपेण कल्पान्तेष पूनः पुनः ।
पृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥
मार्कण्डेय उवाच—
भूयोभूयो मया दृष्टस्त्व् असौ देवो जगत्पत्तिः ।
कल्पक्षये न विज्ञातः स मायामोहितेन वै ॥
कल्पक्षये तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥
पाद्म-सहस्रनाम्नि तस्य नामानि—
अनिरुद्धो बृहद्-ब्रह्म प्राद्यम्निर् विश्व-मोहनः ।
चतुरात्मा चतुर् वर्णश् चतुर् युग-विधायकः ।
चतुर् भेदैक-विश्वात्मा सर्वोत्कृष्टांशकोटिसूः ।
आश्रयात्मा इति ।
श्री-गोपालोत्तर-तापिन्यां त्वसौ प्रणवार्थत्वेनापि दर्शितः—
रोहिणी-तनयो रामः अकाराक्षर-सम्भवः ।
तैजसात्मक-प्रद्युम्न उकाराक्षर-सम्भवः ॥
प्राज्ञात्मको\ऽनिरुद्धो वै मकाराक्षर-सम्भवः ।
अर्ध-मात्रात्मकः कृष्णो यस्मिन्-विश्वं प्रतिष्ठितम् ॥इति ।
बलिनं ततो बली इति पाठे हरिवंशोक्त-शक्तिप्रहारेण बाणनिर्जयात्-साक्षाद् युद्धाशक्त्या कुम्भाण्डोक्त्या मायया सर्पास्तैर् बबन्धेति ज्ञेयम्—
युध्यमानो यथा-शक्ति यदा वीरेण निजितः ।
मायया युयुधे तेन स तदा मन्त्रिचोदितः ॥इति वैष्णवोक्तेः ।
व्यष्टीनाम् अन्तरात्मानं श्वेत-द्वीपेशम् अंशतः ।
बाणो\ऽबध्नात्-प्रभोर् लीला-शक्तिर् एवात्र कारणम् ॥इति ।
निशम्य श्रुत्वा, कन्यागाराबहिर् यद्धात् । निशाम्य इति पाठे तु नागैर् विचेष्टितं दृष्ट्वा ऊषा प्राद्युम्नि-मातुरा इति अरौद् इत्य् अर्थः । अरौदिषीद् इत्य् आर्षः सिचो लोपाभावः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बलि-नन्दन इति यौगिकार्थो विरोधि-लक्षणया मङ्गल-शब्दवत् तस्य दुःखद-पुत्र इत्य् अर्थः । बलीति श्री-कृष्णस्य लीला-विशेषेच्छया तदानीं विपर्ययाद् इति ज्ञेयम्—
अपिस्विदास्ते भगवान् सुखं वो
या सात्वतां काम-दुघो\ऽनिरुद्धः ।
यमामनन्ति स्म हि शब्दयोनि
मनोमयं सत्त्वतुरीयतत्त्वम् ॥
इति तृतीये श्री-विदुर-प्रश्ने तस्य तादृश-माहात्म्यात् तत्र शब्द-योनिं निश्वास-व्यञ्जित-वेद-वृन्दं मनोमयं चित्ते श्री-वासुदेववन्-मनस्युपास्यं सत्त्वं शुद्ध-सत्त्वात्मकं भगवत्तत्वं तस्य चतुर्वृहत्वे चतुर्थ तत्त्वम् इत्य् अर्थः । तथा च विष्णु-धर्मोत्तरे श्री-वज्रण पृष्टम्—
कस्त्व् असौ बाल-रूपेण कल्पान्तेष पूनः पुनः ।
पृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥ इति ।
अत्र श्री-मार्कण्डेयेनोत्तरितं—
भूयोभूयो मया दृष्टस्त्व् असौ देवो जगत्पत्तिः ।
कल्पक्षये न विज्ञातः स मायामोहितेन वै ॥
कल्पक्षये तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥इति ।
अस्य पाद्म-बृहत्-सहस्र-नाम्नि माहात्म्य-नामानि चैतानि—
अनिरुद्धो बृहद्-ब्रह्म प्राद्यम्निर् विश्व-मोहनः ।
चतुरात्मा चतुर् वर्णश् चतुर् युग-विधायकः ।
चतुर् भेदैक-विश्वात्मा सर्वोत्कृष्टांशकोटिसूः ।
श्री-गोपालोत्तर-तापिन्यां आश्रयात्मेति तु असौप्रणवार्थत्वेनापि दर्शितः—
रोहिणी-तनयो रामः अकाराक्षर-सम्भवः ।
तैजसात्मक-प्रद्युम्न उकाराक्षर-सम्भवः ॥
प्राज्ञात्मको\ऽनिरुद्धो वै मकाराक्षर-सम्भवः ।
अर्ध-मात्रात्मकः कृष्णो यस्मिन्-विश्वं प्रतिष्ठितम् ॥इति ।
अतः श्री-कृष्ण-व्यूहत्वेनान्यानिरुद्धत्वात्-परमत्वम् अपीति । बलिनं ततो बलीति पाठस्तु श्री-हरिवंशोक्त-शक्ति-प्रहारादिना बाण-निर्जयात् नागपाशैर् इति साक्षाद् युद्धाशक्त्या कुम्भाण्ड-वचनेन मायया सर्पास्तैर् बबन्धेति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
युध्यमानो यथा-शक्ति यदा वीरेण निजितः ।
मायया युयुधे तेन स तदा मन्त्रिचोदितः ॥इति ।
निशम्य श्रुत्वेति कन्या-गाराद्-बहिर् युद्धात् किं वा, निशाम्येति पाठः । तथा च श्री-हरि-वंशे—
नागैर् विचेष्टितं दृष्ट्वा उषा प्राधुम्निमातुरा इत्य्-आदि तत्-तद्-विस्तारश् च तत एव ज्ञेयः अश्रणां कला धारा रूपा विभागा ययोस्ते अक्षिणी यस्याः सा अरोदीति वक्तव्ये अरौदिषीद् इत्य् आर्षं पदम् अरौत्सीद् इति पाठेति इरुभावः आर्षः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनिरुद्धस्य बन्धः श्री-कृष्ण-सन्दर्भे वाख्यातः बलि-नन्दनः विरोध-लक्षणायाः तस्य दुखदः पुत्र इत्य् अर्थः । बलीति श्री-कृष्णेच्छयेदानी विपर्ययाद् इति ज्ञेयम् ॥३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अश्रूधरे अक्षिणी यस्याः सा कलिवली काम-धेनू अरौत्सीद् इत्य् आर्षम् अरोदीद् इत्य् अर्थः—
व्यष्टीनाम् अन्तरात्मानं श्वेत-द्वीपेशम् अंशतः ।
बाणो\ऽबध्नात्-प्रभोर् लीला-शक्तिर् एवात्र कारणम् ॥३५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वि-षष्टितम एतस्मिन् दशमेऽजनि-सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्ध-निरोध-लीला उत्त्रार्धे
ऽनिरुद्द-बन्धोनामो द्वि-षष्टितमोऽध्यायः ।
॥ १०.६२॥
(६३)