श्री-कृष्ण-[सन्ततीनां]{।मर्क्} वर्णनम्, अनिरुद्ध-विवाहे रुक्मिणो वधश् च ।
॥ १०.६१.१ ॥
श्री-शुक उवाच—
एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबलाः ।
अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एक-षष्ठितमे शौरेः पुत्र-पौत्रादि-सन्ततिः ।
अनिरुद्ध-विवाहे च रुक्मिणो रामतो वधः ॥अ॥
अष्टाधिक-शत-द्व्यष्ट-सहस्र-स्त्री-समुद्भवान् ।
कोटिशः पुत्र-पौत्रादीन् हरिर् दारैर् अयोजयत् ॥ब्॥
तद् एतद् वक्तुम् आह—एकैकश इति । कृष्णस्याबला भार्याः । सर्वा या आत्मनि सम्पत्त्या । पितुः सकाशाद् अनवमान् अन्यूनान् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चाद् अन्येषाम् अपि । रामतो बलदेवात् ॥ अष्टभिर् अधिकं शतम् अष्टाधिक-शतम् । द्विर्-आवृत्ता अष्टौ द्व्यष्टौ च, तानि सहस्राणि द्व्यष्ट-सहस्राणि । तच् च तानि च स्त्रियोऽष्टाधिक-शत-द्व्य्-अष्ट-सहस्र-स्त्रियः, तासु समुद्भवान् ॥अ-ब्॥
तद् एतल् लोक-विडम्बनम् । ता रुक्मिण्य्-आद्याः । सर्वात्म-सम्पदाऽन्यून-देहादि-स्वभाव-समृद्ध्या । अजीजनन् जनयामासुः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताः षा अबलास् तन्व्-अङ्ग्यः, कृष्णस्य सर्व-शक्तिमतः । अतः सर्वात्म-सम्पदा अनवमान् अन्यूनान् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनवमान् अन्यूनान् कृष्णस्याबला न विद्यते, तं विना बलं गतिर् यासां तदृश-भार्या इत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकषष्टितमे कृष्ण-पुत्र-पौत्राभिधोच्यते ।
द्यूतेऽहन् रुक्मिणं रामोऽनिरुद्धोद्वाह-पर्वणि ॥
ताः कृष्णस्याबलाः भार्याः पितुः श्री-कृष्णस्य सर्वा आत्म-भूताः स्वरूप-भूता या सम्पत् तया अनवमान् अन्यूनान् ॥१॥
॥ १०.६१.२ ॥
गृहाद् अनपगं वीक्ष्य राज-पुत्र्योऽच्युतं स्थितम्1 ।
प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेष्ठं न्यमंसत अच्युतस्य प्रियतमं प्रत्येकं स्वं स्वं मेनिरे । न तस्य तत्त्वम् आत्मारामत्वं विदन्ति ताः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वं स्वं निजं निजम् आत्मनं देहम् इति यावत् । गृहात् स्व-स्व-पुरात् । अनपगम् प्रीति-पूर्वकम् अन्य-भार्या-पुराणि नापगच्छन्तं, किन्त्व् अनुरोध-वशात् कदाचिद् एवेति। तोषणी च—अनपगं नायिकान्तर-गृह-गमन-रहितम् इत्य् आह—तस्य तत्त्वं सर्व-गृहावस्थान-रूपं न विदन्तीति ताः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-भगवतस् तास्व् आसक्तिं तासां च तस्मिन् पञ्चभिर् वर्णयन्न् आदौ तद्-धेतुम् आह—गृहाद् इति । स्व-गृहान् नापगच्छति न निःसरतीति तथा-भूतम्, यतः स्थितं स्थिरतया स्व-गृहे सदा साक्षाद् वर्तमानम् इत्य् अर्थः । तत्र हेतुः—राज-पुत्र्यः सर्व-सद्-गुण-रूपादिमत्य इति भावः । देवादि-पुत्री सत्तायाम् अपि राज-पुत्र्य इति तासाम् एव प्राधान्यात् । एवं कस्माद् अपि गृहाच् च्युति-राहित्येन अच्युतम्, आत्मानं प्रत्येकं सर्वाः स्वं स्वं नितराम् अमंसत । इत्थम् आत्मानम् इत्य् एव तैः प्रत्येकं स्वं स्वम् इति व्याख्यातम् । अतः “स्वं स्वम्” इति पाठश् चिन्त्यः । न तस्य अनपगम् अस्य अच्युतस्य वा तत्त्वं मद्-गृह एवान्यत्रापि तिष्ठतीत्य् एव लक्षणं विन्दन्त्य् अनुसन्दधतीति तथा ताः, यतः स्त्रियस् तत्-प्रेम-भर-मोहिता इति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकस्य तावतीषु तावत् पुत्र-जननासम्भावनां कैमुत्येन परिहरति । तत्-प्रसङ्गे ताभिः समम् अत्यासक्तिं च दर्शयति—गृहाद् इति । स्थितम् इति प्रतिवारम् एव यथा-समयम् एव बहिः-प्रदेशाद् अन्तः-पुरम् अगच्छन्न् इव निज-गृह एवागत्य वर्तमानम् इति । तथापि तस्माद् अनपगं नायिकान्तर-गृह-गमन-रहितम् वीक्ष्य विषेशेण दृष्ट्वा राज-पुत्र्य इत्य् उपलक्षणं देवादि-पुत्र्योऽपि आत्मानं प्रेष्ठम् अमंसत प्रत्येकम् इति । टीकायां स्वं स्वं इति पुनर् -उक्तिस् तु प्रत्येकम् आत्मनं इत्य् अस्यैव निर्गलितार्थ-कथनाय । स्वम् इति पाठे तु प्रत्येकम् इत्य् अस्य वैयर्थ्यं स्यात् । अन्यत् तैः ।
यद् वा, न तस्य तत्त्वं सर्व-गृहावस्थान-रूपं विदन्ति इति ताः, तद्-विलास-भर-मोहेनान्यानुसन्धानासक्तेर् इति भावः ॥२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १४०) : आत्मानं प्रत्येकम् एव प्रेष्ठं सर्वतः प्रियतमम् अमंसत इत्य् अर्थः । अत एव अतत्त्व-विदः, ऊर्ध्वोर्ध्व-प्रेयसी-सद्-भावात् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्त्वं सर्व-गृह-स्थितत्वम् ॥२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गृहाद् इत्य्-आदि । स्त्रियः सत्यभामाद्या राज-पुत्र्यः । अतद् यथा भवति, सामान्य स्त्री-भाववद् यथा न भवति, तथा । स्वं स्वम् आत्मानं प्रेष्ठं सर्वतः प्रियतमं न्यमंसत नितरामम् अन्यत । कीदृश्यः ? तत्वविद आत्म-तत्वज्ञाः यद् वा, न विद्यन्ते तस्य श्री-कृष्णस्य तत्वविदो याभ्यस् ताः, ता यथा कृष्ण-तत्त्वं जानन्ति, न तथान्ये के\ऽपीति भावः । किं कृत्वा ? गृहात् स्व-गृहाद् अनपगं युगपद् एव सर्वेषु गृहेषु सदा सन्तम् अच्युतं वीक्ष्य आत्मानम् एव प्रेष्ठम् अमंसत ॥१-२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहात् स्व-स्व-पुरात् अनपगं प्रीति-पूर्वकम् अन्य-भार्या-पुराणि न अपगच्छन्तं, किं तु अनुरोध-वशाद् एव कदाचिद् एवेति वीक्ष्य आत्मानं स्वं स्वम् एव प्रेष्ठं परम-सुभगं न्यमंसत, न त्व् अन्य-जनम् । किं त्व् अतर्क्य-योग-मायया सर्व-प्रिया-जन-सुभगता-सम्पादकं तस्य तत्त्वं न विदन्त्इ इति ताः ॥२॥
॥ १०.६१.३ ॥
चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र-
स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः ।
सम्मोहिता भगवतो न मनो विजेतुं
स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मारामत्वं व्यनक्ति द्वयेन—चार्व् इति । **चार्व्-अब्ज-कोश-**वद् वदनं च आयतानि बाहु-नेत्राणि च स-प्रेम्णा हास-रसेन वीक्षितानि च । वल्गु-जल्पाश् च भगवतः एतैः संमोहिता वनिताः स्वैः स्वैर् अनेकैर् विभ्रमैस् तस्य श्री-कृष्णस्य मनो विजेतुं हर्तुं न समशकन्, न शक्ता बभूवुः । विभूम्नः परिपूर्णस्य ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्व् एवं तस्यातिकामुकत्वम् एव प्रतीयते ? न, किं तु प्रेमैक-वशत्वम् एवेत्य् उदाहरति द्वाभ्याम् । वनिता जनितात्यर्थानुरागास् ताः स्त्रियः स्वैः स्त्री-जातीयैः विभ्रमैर् विलासैर् भगवतो मनो विशेषेण तत्-प्रेमाधिक-सपत्नी-तुल्यत्वेन जेतुं वशीकर्तुं नाशकन्, किं तु स्व-प्रेमांशानुरोधेनेति भावः । अत एव स-प्रेम- इति । वनिता-शब्देन गृहाद् अनपगामित्वं वशत्वं च लक्षितम् । यद्यपि वि-सं-शब्दयोर् एकतरेणाप्य् अभीष्टार्थ-लाभः, तथापि वि-शब्देन श्री-भगवति वशीभाव-चिह्नं, सं-शब्देन तास्व् अपि तत्-कृति-योग्य-चिह्नं तादृशं न दृष्टम् इति पृथग् अवसितं ।
तादृश-विमम-व्यञ्जने हेतुश्—चार्व् इति । चार्व्-अब्ज-कोश-वदनादिभिः सम्मोहिताः, प्रेरणा कामेन वा क्षोभिता इति । अत्र पूर्वं वदनं पश्यन्ति, पश्चाल् लज्जा-दृष्ट्या बाहुं, ततस् तद्-दर्शनेन गाढालिङ्गन-स्पृहा-जात-धार्ष्ट्येन पुनर् मुखे दृश्यमाने मिथो नेत्र-मेलनं, ततः स-प्रेम-हासादि इति ।
एतद् उक्तं भवति—परस्परं तस्य ताभिः सह प्रेम-वशतास्त्य् एव, किं तु कदाचित् तत्-प्रेमाधिक-सपत्नीवत् तन्-मनो वशीकर्तुं काममयान् विलासान् दर्शयन्ति, तदा तस्य तद्वत् तन् न स्यात्, इत्य् अतो न कामुकत्वं, किं तु प्रेम-विशेष-वशत्वम् एवेति । विभूम्नः सर्वापेक्ष्य-परिपूर्णस्य कामुकत्वं न सम्भवति । भक्त-वश्यत्व-रूप-महा-गुणस्य तु तत्र सद्-भावोऽस्त्य् एवेति, अहं भक्त-पराधीनः [भा।पु। ९.४.६४] इत्य्-उक्तेः । अत एव गोपाल-तापिन्याम् उक्तम्—विद्यामयो यः स कथं विषयी भवति ? यो हि कामेन कामान् कामयते, स कामी भवति । यो हि वै त्व् अकामेन कामान् कामयते, सो\ऽप्य् अकामी भवति [गो।ता।उ। २.१९-२०] इति श्रुतेः । चारू रम्यो यो\ऽब्ज-कोशोऽम्बुज-मध्य-भागः, तत्-तुल्यं वदनम् आस्यं, तथा ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चार्व्-अब्ज-कोश-वदनादीनां यथोत्तरं सम्मोहने श्रैष्ठ्यम् । तत्र वदनाद् अपि बाह्वोर् आयततया गाढालिङ्गनाभिप्रायेण । भगवत इति लोकातीत-सम्मोहन-सामादिक वनितम् । अतः सम्यक् मोहिता आकृष्ट-चित्ता अपि विभूम्नो\ऽपि मनो-विशेषेण भक्तेभ्यो\ऽधिकतया जेतुं वशीकर्तुं न सम्यग् अशकन् किम् ? काक्वा, अपि तु सम्यक्तया शेकुर् एवेत्य् अर्थः । एवम् अग्रे\ऽपि । कुतः ? स्वैर् असाधारणैः प्रेम-विशेष-मयैर् इत्य् अर्थः । अत एव वनिता-जनित-पुरुषार्थानुरागा योषितः परम-स्वतन्त्रस्यापीश्वरस्य प्रिय-जन-प्रेम-परवशत्वाद् इति भावः । तथा चोक्तं श्री-भगवतैव अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज [भा।पु। ९.४.६३] इत्य्-आदि । एवम् अन्योन्यं भाव-विशेषेणान्योन्यं मोहनम् उक्तम् । यद् वा, विजेतुं विशेषेण जेतुं वशीकर्तुम्, यथा व्रज-देव्यो विजिग्यिरे, तथा जेतुम् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं तस्यातिकामुकत्वाम् इव प्रतीयते ? न, किं तु प्रेमैक-वशत्वम् एवेत्य् उदाहरंस् तापं मोहं च दर्शयति—चार्व् इति द्वाभ्याम् । वनिताः जनितात्यर्थानुरागास् ताः स्त्रियः स्वैः स्त्री-जातीय-विभ्रमैर् विलासैर् भगवतो मनो विजेतुं विशेषेण स्व-स्व-तत्-प्रेमाधिकस्य पत्नी-तुल्यत्वेन जेतुं वशीकर्तुं न सम्यग् अशकन्, किं तु यावांस् तत्-प्रेमांशः, तावद् एवेत्य् अर्थः । अत एव स-प्रेम- इति तस्यापि प्रेम-निगडेनैवोक्तम् ।
वनिता-शब्देन गृहानपगामित्वं लक्षितं वशत्वं च । यद्यपि वि-सं-शब्दयोर् एकतरेणाप्य् अभीष्टार्थ-लाभः स्यात्, तथापि वि-शब्देन श्री-भगवति वशीभाव-चिह्नं, सं-शब्देन तास्व् अपि तत्-कृति-योग्यत्व-चिह्नं तादृशं दृष्टम् इति पृथग् अवसितम् ।
तथा तादृश-विभ्रम-व्यञ्जने हेतुः—चार्व् इति । चार्व्-अब्ज-कोश-वदनादिभिः सम्मोहिताः सम्यक् प्रेम्णा कामेन च क्षोभिता इति । अत्र पूर्वं वदनं पश्यन्ति, पश्चाल् लज्जा-नम्र-दृष्ट्या बाहुं, ततस् तद्-दर्शनेन गाढालिङ्गन-स्पृहा-जात-धार्ष्ट्येन पुनर् मुखे दृश्यमाने मिथो नेत्र-मिलनं, ततः स-प्रेम-हासादि इति पाठ-क्रमेण व्यक्तम् ।
एतद् उक्तं भवति—परस्परं तस्य ताभिः प्रेम-वशतास्त्य् एव, किं तु यदि कदाचित् तत्-प्रेमाधिक-सपत्नीवत् तन्-मनो वशीकर्तुम् अनङ्ग-बाणैः [भा।पु। १०.६१.४] इति वक्ष्यमाणान् काममयान् विलास-विशेषान् दर्शयति । तदा तस्य तद्वत् तन् न स्याद् इत्य् अतो न कामुकत्वं, किं तु प्रेम-विशेषवत्त्वम् एवेति । तच् च युक्तम् इत्य् आह—विभूम्नः स्वतः सर्वापेक्षणीय-परिपूर्णस्य, ततः कामुकत्वं न सम्भवति, भक्त-वशत्व-रूपस्य महा-गुणस्य तु तत्र सद्-भाव एवेति भावः । तद् उक्तम्—अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज [भा।पु। ९.४.६४] इति । अतस् तम् उद्दिश्य श्री-गोपाल-तापन्याम् अप्य् उक्तं—विद्यामयो हि यः, स कथं विषयी भवतीति ? यो ह कामेन कामान् कामयते, स कामी भवति । यो ह वै त्व् अकामेन कामान् कामयते, सोऽप्य् अकामी भवति [गो।ता।उ। २.१९-२०] इति ॥३॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १४१) : नन्व् आत्माराम् अस्य कथं पत्नीषु प्रेम ? उच्यते, तासु रमणत्वेनैव लोकवन् न तस्य प्रेम, किन्तु शुद्ध-प्रेम-सम्बन्धेनैव । तथा हि—चार्व् इति । अत्र स-प्रेम- इति तासु श्री-कृष्ण-प्रेम दर्शितम् । अत एव वनिता-शब्द-प्रयोगः । वनिता-जनितात्यर्थानुरागायां च योषिति इति नानार्थ-वर्गात् । तेन तस्मिन् तासां च प्रेम दर्शितम् । अतस् तत्-प्रेम-मात्र-विजितं यद् भगवतो मनः, तत् तु स्वैः केवल-स्त्री-जातीयैर् विभ्रमैर् विजेतुं न शेकुर् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चार्व् इति तत्त्वम् ॥३-१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न तु तं वशीकर्तुं शेकुर् इत्य् आह— चार्व् इति द्वाभ्याम् ।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-विलास-मात्रेणापि वशीभूतानां तासां समञ्जस-रतिमत्त्वात् प्रेम-मयाः काम-मयाश् च विलासाः सम्भवन्ति । तत्र काम-मयैर् विलासैस् तस्या वशीभावम् आह—चार्व् इति द्वाभ्याम् । चार्व्-अब्ज-कोषवद् वदनं च आयतौ बाहू आयते नेत्रे च स-प्रेम-हास-रसेन वीक्षितानि च वल्गु जल्पाश् च तैः सम्मोहिताः स्वैः स्वीयैर् विभ्रमैर् विलासैस् तस्य मनो विजेतुं न समशकन् । तत्र हेतुः—विभूम्नः स्वत एव सर्वापेक्षणीय-पदार्थ-परिपूर्णस्य ॥३॥
॥ १०.६१.४ ॥
स्मायावलोक-लव-दर्शित-भाव-हारि-
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर्
यस्येन्द्रियं विमथितुं करणैर् न शेकुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तासां विभ्रमान् वर्णयन्न् एतद् विवृणोति—स्माय- इति । स्मायो गूढ-हसितं, तद्-युक्तोऽवलोक-लवः कटाक्षः, तेन दर्शितः सूचितो भावोऽभिप्रायः, तेन हारि मनो-हरण-शीलं यद् भ्रू-मण्डलं, तेन प्रहिताः प्रस्थापिता ये सौरता मन्त्राः, तेषु शौण्डैः प्रगल्भैर् अनङ्गस्य बाणैः शरैः, अन्यैश् च करणैः काम-शास्त्र-प्रसिद्धैर् यस्येन्द्रियं मनो विमथितुं क्षोभयितुं षोडश-सहस्रम् अपि पत्न्यो न शेकुर् इति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां स्त्रीणां । सौरताः सुरतोद्बोधकाः । शौण्डो मत्ते प्रगल्भे च ख्याते शौण्डी तु पिप्पला इति धरणिः । काम-शास्त्र-प्रसिद्धैर् हावादिभिः । यस्य कृष्णस्य । न शेकुर् वशीक्रित-कामत्वेन दृढ-वीर्यत्वात् । बाण-शब्देन भ्रू-मण्डलस्य धनुष्ट्वं ध्वनितम्, मण्डल-शब्देन तस्याकृष्टतम् ।
[वैष्णव-तोषणी] ततश् च तादृश-भ्रू-मण्डलेन प्रहिता मुक्ताश् च सौरत-मन्त्र-शौण्डाश् चेति विग्रहः । अन्येऽपि बाणा मन्त्रा शौण्डा भवन्तीति । यस्य इति यच्-छब्दस्यान्तिम-निर्देशात् तच्-छब्दानपेक्षयैवान्वयः । तथा चालङ्कारिकाः—यच्-छब्दोऽप्य् उत्तर-वाक्यार्थ-गतत्वेनोपपत्तेः पूर्व-वाक्य-गतस्य तच्-छब्दस्योपादानं नापेक्षते इति । यथा—
साधु चन्द्रमसि पुष्करैः कृतं > मीलितं यद् अभिरामताधिके । > उद्यता जयिनि राधिका2-मुखे > तेन साहसम् अनुष्ठितं पुनः ॥ [राम-चरित-महाकाव्ये २.९५] इति > ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अनङ्ग-बाणैर् मथितुं न शेकुः, प्रेम्णा तु शेकुर् एव ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्मायेत्य्-आदिकं विभ्रमाणां विशेषणम्, अनङ्ग-बाणानाम् एव विशेषणम्, ततश् च न तिष्ठत्य् अङ्गं येभ्यस् तथा-भूतैर् मर्म-भेदिभिर् बाणैर् इत्य् अर्थः । एवं बाण-शब्देन भ्रू-मण्डलस्य धनुष्ट्वं ध्वनितम्, ततश् चैवं वाक्यं—तादृश-भ्रू-मण्डलेन प्रहिता मुक्ताश् च ते सौरत-मन्त्र-शौण्डाश् च तैर् इति । विमथितुं विशेषेण मथितुम्, यथा व्रज-देव्यो विशेषेण ममन्थुस् तथा मथितुं न शेकुर् इति ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्मायेत्य्-आदिकं विभ्रमाणां विशेषणम् । प्रहितत्वं व्यञ्जितत्वं सौरत-मन्त्रत्वं सुरत-सम्बन्धि-रहस्य-युक्तित्वम् अनङ्ग-बाणैस् तद्-रूपैर् इत्य् अर्थः । यद् वा, तद् एव विवृणोति—करणैः काम-शास्त्र-प्रसिद्धैर् उपायैर् विशेषेण मथितुं न शेकुर् इति पूर्ववत् तेषां रूपकम् अनङ्ग-बाणैर् इत्य् एषां विशेषणम् । भ्रू-मण्डल- इति बाण-शब्देन च भ्रू-मण्डलस्य धनुष्ट्वं ध्वनितम् । मण्डल-शब्देन तस्याकृष्टत्वं, ततश् च तादृश-भ्रू-मण्डलेन प्रहिता मुक्ताश् च ते सौरत-मन्त्र-शौण्डाश् चेति विग्रहः । अन्येऽपि बाणा मन्त्रेण शौण्डा भवन्तीति ।
यस्य इति यच्-छब्दस्यान्तिम-निर्देशात् तच्-छब्दानपेक्षयैवान्वयः । तथा चालङ्कारिकाः यच्-छब्दोऽप्य् उत्तर-वाक्यार्थ-गतत्वेनोपपत्तेः पूर्व-वाक्य-गतस्य तच्-छब्दस्योपादानं नापेक्षत इति । तथा—
साधु चन्द्रमसि पुष्करैः कृतं > मीलितं यद् अभिरामताधिके । > उद्यता जयिनि राधिका-मुखे > तेन साहसम् अनुष्ठितं पुनः ॥ [राम-चरित-महाकाव्ये २.९५] इति > ।
एवं श्री-व्रज-देवीनां तत्र तत्र परम-शुद्धोत्कृष्टं प्रेम-प्रशंसनाद् आभ्यः सर्वाभ्योऽप्य् आधिक्यं सूचितम् ॥४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १४२) : स्त्री-जातीय-विभ्रमानुवाद-पूर्वकं पूर्वार्थम् एव विशदयति—स्माय- इति । स्वयम् एव अनङ्ग-बाण-रूपैः करणैर् भाव-हावादिभिर् स्माय- इति । तानि विशिनष्टि—स्माय- इति । स्मायः स्मितम् । भावोऽभिप्रायः । तादृश-भ्रू-मण्डलैः प्रहिता विक्षिप्ताश् च ते सौरत-मन्त्रैः सुरत-रूपार्थ-साधक-मन्त्रैः शौण्डाः प्रगल्भाश् च ते तादृशैः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अनङ्ग-बाणैर् विमथितुं न शेकुः, प्रेम्णा तु शेकुर् एव ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां काममयान् विभ्रमान् विवृणोति—स्माय- इति । करण-शब्दस्येन्द्रिय-वाचकत्वात् करणैर् नेत्रैर् अनङ्ग-बाणैर् यस्य कृष्णस्य इन्द्रियं विमथितुं न शेकुः । कीदृशैः ? स्मायं स्मितं तत्-सहितोऽवलोक-लवः कटाक्षः, तेन दर्शितः सूचितोऽभिप्रायः, तेन हारि मनोहरण-शीलं यद् भ्रू-मण्डलं, तेन प्रहिताः प्रस्थापिता ये सौरत-मन्त्राः, तेषु शौण्डैः प्रगल्भैः ॥४॥
॥ १०.६१.५ ॥
इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता
ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।
भेजुर् मुदाविरतम् एधितयानुराग-
हासावलोक-नव-सङ्गम-लालसाद्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुरागेण हासो\ऽवलोकश् च नव-सङ्गमे लालसम् औत्सुक्यं च ते आद्या यस्य विभ्रम-कदम्बस्य, तं भेजुः । अनुराग-हासावलोक-नव-सङ्गम-लालसाद्यं भेजुः, तस्य मनो विजेतुं न शेकुर् इति वा ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता रुक्मिण्य्-आद्याः । यदीयां यत्-सम्बन्धिनीम् । विभ्रम-पदाध्याहारे गौरवं मत्वार्थान्तरः—अनुराग- इति । पूर्वेणैव सम्बन्धः । नवो नित्य-नूतनः सङ्गमोऽङ्ग-सङ्गश् च लालसा तृप्त्य्-अभावश् च, तद्-आद्यं तद्-आदिक-विलासम् अनेक-स्व-कर्तृकं कृष्ण-कर्तृकं वा भेजुः । तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [भा।पु। १०.५३.२] इति भगवद्-उक्ति-ज्ञाप्यः—
ईक्षितो\ऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः ॥ [भा।पु। १०.७०.१६] इति ।
रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा [भा।पु। १.११.३६] इत्य्-आदिकोक्ति-ज्ञाप्यश् च पारिजाताद्य्-अपहरण-शाप्यश् च तासां प्रेममय-विलासैस् तद्-वशीभावस् त्व् अस्त्य् एवेति ज्ञेयम्॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यस्य भगवतः, तं प्रेष्ठं न्यमंसत [भा।पु। १०.६१.२] इति पूर्वेण । किं वा, रमापतिम् इति परेणान्वयः । तु अपि । षोडश-सहस्रम् अपि, न तु कतिचिद् इत्य् अर्थः । पूर्वोक्तानुसारेण साष्टशताधिकं ज्ञेयम् । इत्य् उक्तेन तन्-मनो-वशीकरण-प्रकारेण ॥५-६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तासां ब्रह्मादिभिर् अपि दुर्गम-भजनं दर्शयति—इत्थम् इति । रमापतिं श्री-रुक्मिणी-कान्तं श्री-गोपी-रूपाणां परम-रमाणां वा रमणं निरन्तरं वर्धमानया मुदा तादृशावलोकन-युक्त-नव-सङ्गम-लालसा आद्या यत्र, तद् यथा स्यात्, तथा भेजुः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां प्रेममयैर् विभ्रमैस् तद् इन्द्रिय-मथन-कारणकम् अङ्ग-सङ्गं चाह—इत्थम् इति । अनुरागः प्रेम-विलास-विशेषस् तन्मयो यो हासावलोकः, तेन नवः नित्य-नूतनः सङ्गमो अङ्ग-सङ्गश् च लालसा तृप्त्य्-अभावश् च तद्-आद्यं तद्-आदिकम् अनेक-विलासं स्वकत्तु के कृष्ण-कर्तृकं वा भेजुः, तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [भा।पु। १०.५३.२] इति भगवद्-उक्ति-ज्ञाप्यः—
ईक्षितो\ऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः ॥ [भा।पु। १०.७०.१६] इति ।
रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा [भा।पु। १.११.३६] इत्य्-आदि-शुकोक्ति-ज्ञाप्यश् च पारिजाताद्य्-आहरण-ज्ञाप्यश् च तासां प्रेममयैर् विलासैस् तद्-वशीभावस् त्व् अस्त्य् एवेति ज्ञेयम् ॥५॥
॥ १०.६१.६ ॥3
प्रत्युद्गमासन-वरार्हण-पाद-शौच-
ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।
केश-प्रसार-शयन-स्नपनोपहार्यैर्
दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं तु प्रत्युद्गमादिभिर् विभोस् तस्य दास्यं नित्यं विदधुर् इति । प्रौढ-भावे\ऽपि नव-सङ्गमाद्य्-अभिधानम् अगत-सारत्वेन औत्सुक्येन च तथा प्रतीतेः । तेषाम् एव श्लोकानां प्रस्तावान्तरे पुनः पुनर् आवृत्तिर् इति सौन्दर्यात् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सेवनानुरागम् आह—किन्त्व् इति । वरार्हणं पुष्पाञ्जलि-रत्नाञ्जलि-निक्षेपादि । प्रौढ-भावे\ऽपि नवोढात्वाभावेऽपि । अगत-सारत्वेन एक-रस-रूप-यौवनादिमत्त्वेन औत्सुक्येन अनुरागाधिवयेन च । तथा-प्रतीतेर् नव-सङ्गमास्वाद-प्रतीतेः । तेषाम् एव पूर्वोक्तानाम् एव । प्रस्तावान्तरे प्रकृतान्तरे ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् एवाह—प्रत्युद्गम- इत्य्-आदि । दास्यं सेवाख्यां प्रेम[-ऌआं]{।मर्क्} साध्यां भक्तिम् इत्य् अर्थः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च—प्रत्युद्गम- इत्य्-आदि । प्रसारेति प्रसाधेति वा पाठः । एषां प्रायो\ऽनुक्रमोपचारत्वं गम्यं । वरार्हणं पुष्प-लाज-रत्नालि-निक्षेपादि अत्र टीकायां प्रौढ-भावेऽपीत्य्-आदिकं प्रकरण-सङ्गमनं तथा तेषाम् एवेति प्रथम-स्कन्धाद्य्-उक्तानाम् इत्य् अर्थः ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां तद्-विषयक-प्रेम्णः परिचर्यात्म-काननुभावान् आह—प्रत्युद्गम- इति । वरार्हणं पुष्पाञ्जलि-रत्नाञ्जलि-निक्षेपादि ॥६॥
॥ १०.६१.७-८ ॥
तासां या दश-पुत्राणां कृष्ण-स्त्रीणां पुरोदिताः ।
अष्टौ महिष्यस् तत्-पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥**
चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्यवान् ।
सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रासङ्गिकम् उक्त्वा प्रस्तुतम् आह—तासाम् इति । दश दश पुत्रा यासां, तासां मध्ये\ऽष्टी महिष्यो याः प्राग्-उक्तास् तत्-पुत्रान् इति ॥७-१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रासङ्गिकं प्रसङ्गानुगतम् । तासां सर्वासाम्। तत्-पुत्रान् रुक्मिण्य्-आदि-पुत्रान् । ते तुभ्यम् ॥७॥ प्रद्युम्नाद् अन्येषां कानि नामानीत्य् अत आत—चारुदेष्ण इति । वीर्यवान् इति सर्व-विशेषणम् ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तासां पुत्रान् इति अन्यासां प्रत्येकं पुत्राणाम् उक्तौ प्रयोजनाभावात्, अति-बाहुल्येन प्रस्तुत-कथा-रस-विधाताच् च । प्रद्युम्न आदिर्येषां तान् इति तस्य सर्वेभ्यो ज्येष्ठत्वात् रूपगुणादिना श्रेष्ठत्वाच् च । वीर्यवान् इति सर्वेषां विशेषणम्, अतस् तत्-समुच्चयार्थं प्रायः सर्वत्रैव च-शब्दः । तथेति च परश्चारुगुप्तस्यानुज इत्य् अर्थः । एवम् अग्रजानुजक्रमेण सर्वे ज्ञातव्या इति भावः ॥७-८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-पुत्रान् तासाम् एव पुत्रान् इत्य् अर्थः । बाहुल्यभियेति भावः ॥७-८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एवाह—प्रत्युद्गमेत्य् आदि । दास्यं प्रेम-लक्षणं साध्यं पादसेवाख्यभक्तिम् ॥७-४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रासङ्गिकम् उक्त्वा प्रस्तुतम् आह—तासाम् इति । दश-दश पुत्राः यासां तासां मध्ये या अष्टौ महिष्यः प्राग् उक्ताः ॥७-१३॥
॥ १०.६१.९ ॥
चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः ।
प्रद्युम्न-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दशम इत्य् एकादशाभावं द्रढ्यति । एवं सर्वम् अग्रे\ऽन्यत्रापि ज्ञेयम् । हरेर् इति मनोहरस्य तस्य पुत्रा अपि तादृशा इति भावः । अनेनैवाभिप्रायेण सर्वत्र चारु—शब्दः, अत एव पितृर्नावमा न्यूना न भवन्ति, पूर्वोक्तस्याप्य् अस्य पुनर् उक्तिस् तद्-दार्ढ्यार्थम् । अतो\ऽग्रे\ऽपि सर्वत्रेदम् अनुवर्त्यम् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चाविति युग्मकम् । वीर्यवान् इति सर्वेषां विशेषणम् अतस् तत्-समुच्चयार्थं प्रायः सर्वत्रैव च-शब्दः तथेति च परश्चारु-गुप्तस्यानुज इत्य् अर्थः । एवम् अग्रजानुज-क्रमेण सर्वे ज्ञातव्या इति भावः । दशम इत्य् एकादशाभावं दृढयति एवं सर्वम् अग्रेऽपि ज्ञेयं हरेर् इति सर्व-मनोहरस्य तस्य पुत्रा अपि तादृशाः यथाबीजं तथाङ्करम् इति न्यायेनेति भावः । अनेनैवाभिप्रायेण सर्वत्र चारु-शब्दः अत एव पितुर्नावमा न्यूना न भवन्ति पूर्वोक्तस्याप्य् अस्य पुनर् उक्तिस् तद्-दार्ढ्यम् अतोग्रेऽपि सर्वत्रेदम् अनुवर्त्यम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.१० ॥
भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा ।
चन्द्रभानुर् बृहद्भानुर् अतिभानुस् तथाष्टमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वर्भानुः स्वर्गे\ऽपि यस्य दीप्तिर्यश इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भानुर् इति सार्धकम् । अष्टम इति पर इतिवत् भानु-शब्दश् चारुशब्दवत् ज्येष्ठाया जाम्बवत्याः प्राक् सत्यभामायाः पुत्राणाम् उक्तिः प्रेमाधिक्येन तस्याः श्रेष्ठयात् एवम् अग्रेऽपि ज्ञेयम् ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.११ ॥
श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश ।
साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुजिद् असङ्ख्य-जयी ॥११-१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साम्ब इति च सार्धकम् । द्रविणो द्रविडश् चेति पाठ-द्वयं । हि एव । पित्रा सम्मताः न्यायादनपेतत्वेन निश्चिताः एवं साम्ब-पुराणादौ साम्बवृजिनस्य नारद-कल्पितत्वेनैव प्रसिद्धत्वात् तत्र श्री-भगवतोऽपि लोक शिक्षाभिप्रायेणैव तद् इच्छत्वात यथा मुसल-शापादावपीति भावः ॥११-१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : साम्बाद्याः पितृ-सम्मताः ॥११-४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.१२ ॥
विजयश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः ।
जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अष्टम इति पर इतिवत्, विशेषत श् च दीप्त्या चारुदेष्णादिभ्यो\ऽप्याधिक्यं बोधयति, ज्येष्ठायाः श्री-जाम्बवत्याः प्राक् श्री-सत्यभामायाः पुत्राणाम् उक्तिः प्रौढतया प्राक् तत्-पुत्रोत्पत्तेः । किं वा, प्रेमाधिक्येन तस्याः श्रेष्ठ्यात् । एवम् अग्रे\ऽपि ज्ञेयम् । हि एव, पिता वत्सलो येषु ते, पितुर् अत्यन्त-स्नेह-विषया एवेत्य् अर्थः । इति कुत्रापि कथ्यमानः श्री-साम्बापराधो निरस्तः वस्तुतो लोक-शिक्षार्थम्-एव तस्य कारितत्वेन मायिकत्वाद् इति दिक् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : साम्बाद्याः पितृ-सम्मता इति ॥१२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.१३ ॥
वीरश् चन्द्रोऽश्वसेनश् च चित्रगुर् वेगवान् वृषः ।
आमः शङ्कुर् वसुः श्रीमान् कुन्तिर् नाग्नजितेः सुताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रीमान् इति वसोः कुन्तेर् वा विशेषणम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वेगवान् इति नामैव । अमात्रोगान् हिनस्तीत्य् आमश् चिकित्सा-विज्ञः तद्धित-प्रत्ययानां सर्वार्थे विधानाद् धिसायामत्राण् ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीमान् इति तैर् व्याख्यातम् । यद् वा, श्री-सत्यभामात्मजानां भानु-नामत्वात् श्रीमान् एको भानुश् चन्द्रश् चैको ज्ञेयः, हरिश्चन्द्रादिवत् सञ्ज्ञायां सूडागमः, अस कारपाठो वा ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमान् इति सर्वेषाम् एव वा विशेषणम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.१४ ॥
श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः ।
शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भद्रो नाम एकल एकः । सोमको\ऽवरः कनीयान् । एते कालिन्द्याः सुता इति ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वृष-पदावृत्तिस्तु प्रवृत्ति-निमित्त-भेदात्, पूर्व वृष-पदं धर्मवत्-परम् इह तु वदान्यपरम्
वृषो धर्मे बलीवर्दे राश्याखुशुक्रलेषु च । > श्रेष्ठे स्याद् उत्तरस्थोयं व्यासे\ऽपि परिकीर्तितः ॥ इति मेदिनी ।
वीर इति वृष-विशेषणं, सर्वेषां वा । स्वामिना त्वेकल इति भद्रविशेषणं कृत्वा बीर इति नामान्तरम् एवोक्तम् । पूर्व वीरपदं शूरपरमिह तु वीराः सन्त्यस्येति वीरो मत्वर्थीयाच् । अवरश् च रमे त्रिषु इति धरणिः इह ज्यैष्ठ्यानुज-भावस्तुद्देशक्रमत एव ज्ञेयः ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकल एकः, न तु भद्र इति सर्वेषां विशेषणम् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रातृणाम् अपि मध्ये द्वयोर्वष इत्य् एकनामत्वं केनचिद् अपरिहार्येण कारणेन भवेत् व्यवहारस्तु मात्रादिनाम् अविशेषणेन सिद्धयतीति ज्ञेयम् एवम् अग्रे वीरोऽपि तद्-वच्छरबलाव् अपि ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भद्रो-नाम एकलः एकः सोमको\ऽवरः कनिष्ठः ॥१४॥
॥ १०.६१.१५ ॥
प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः ।
माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : माद्रया लक्ष्मणायाः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सहओज इत्य् अत्र विनि लोपः गम्यमानस्याप्रयोग एव लोपः इति कैयटः ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सहादयस् त्रयो\ऽप्य् अकारान्ताः । यद् वा, सह ओजसो सान्तौ, अपराजित तकारान्तः द्वन्द्व-समासः, सञ्ज्ञापेक्षया तन्नायोः पुंस्त्वम् । किं वा, मूर्तं सह एव ओज एवेत्य् अभिप्रायेण नपुंसकत्वम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सह ओजसी सकारान्ते मूतं सह एवाम् इत्य् आद्यभिप्रायेण पुत्राः सुताः इति पाठ-द्वयम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायाः लक्ष्मणायाः ॥१५-१७॥
॥ १०.६१.१६ ॥
वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च ।
महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षुधिश् च दशमः । एते मित्रविदात्मजाः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महानाशो भोजनं यस्य स तथा । वैयधिकरण्ये पूर्व-पदस्याकार आर्षत्वाद् एव । महं तेजो\ऽश्रुत इति वा महश् च महसा सह इति द्विरूपकोशात् ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एव अपि, अन्नादो\ऽपि, महांसश् च, वर्धनादिसञ्ज्ञाया साम्येन, महाश इति पाठश् च क्वचित् , शेव्यानाम् अपि सैवेति टीकास्यास्ति, मित्रविन्दात्मजा इत्य् अस्यानन्तरं लेख्याया अपि लेखक-भ्रमेणैव ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सह ओजसी सकारान्ते मूतं सह एवाम् इत्य् आद्यभिप्रायेण पुत्राः सुताः इति पाठ-द्वयम् ॥१५॥ महांश इत्य् अत्र महासिः कचित् वह्वन इत्य् अत्र वर्धनः कचित् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.१७ ॥
सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणोऽरिजित् ।
जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्ग्रामजित्-प्रमुखाः सत्यकान्ता भद्रायाः सताः, शैब्यानामापि सैव ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सैव भव । अष्टानां सर्व-मुख्यानां पुत्रानुक्त्वा षोडश-सहस्रमुख्याया रोहिण्या आह—दीप्तिमान् इति ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भद्रायाः सुता इत्य् अस्यानन्तरं लेखः, श्री-विष्णु-पुराणीयै-तत्-प्रसङ्गे शैव्यायां मित्रविन्दायाम् [वि।पु। ५.३२.३] इति तथात्रैवाग्रे कुरुक्षेत्र-यात्रायां श्रोद्रौपदो प्रश्ने शैत्ये मित्रविन्दे इति च श्री-स्वामि-पादैर् एव व्याख्यातत्वात् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्ग्रामेति शेव्यानाम् अपि सैवेति टीका व्याख्यायास्तु मित्रविन्दात्मजा इत्य् अस्यानन्तरं योग्यायाः अपि लेखक-भ्रमेणैव भद्रायाः सुता इत्य् अस्यानन्तरं लेखः श्री-विष्णु-पुराणे ह्य् एतत्-प्रसङ्गे शैब्यायां मित्रविन्दायाम् [वि।पु। ५.३२.३] इति तथात्रैवाग्रे कुरुक्षेत्र-यात्रायां श्री-द्रौपदी-प्रश्ने शैब्यति मित्रविन्दे इति च टीकैव ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.१८ ॥
दीप्तिमांस् ताम्र-तप्ताद्या रोहिण्यास् तनया हरेः ।
प्रद्युम्नाच् चानिरुद्धोऽभूद् रुक्मवत्यां महा-बलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : रोहिण्याः सतानाम् उक्तिर् अन्यासाम् उपलक्षणार्थम् ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रासङ्गिक म् आह—प्रद्युम्नाद् इति । भोजकटे—स्थितस्येति शेषः ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रोहिणी शताधिक-षोडश-सहस्र-महिषीणां मुख्या, तस्याम्, त्वर्थे चकारः । पौत्रोत्पत्त्याभिन्नोपक्रमात् तु-शब्दो विरोधे, श्री-भगवद्-वेषिणो रुक्मिणः पुत्र्यां तत्रापि तत्-पुरे श्रीमद्-अनिरुद्धोत्पत्तः, अत एवाश्चर्याद् आह—हे राजन्न् इति । राजमान इति वा । एतेषां श्री-प्रद्युम्नादीनाम्ः हे नृपेति आनन्येनाद्भुतत्वात् ॥१८-१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दीप्तीत्य् अर्धकम् । रोहिणी शताधिक-षोडश-सहस्र-महिषीणां मुख्या तस्याः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अष्टानां सर्व-मुख्यानां पुत्रानुक्त्वा षोडश-सहस्र-मुख्याया रोहिण्या आह—दीप्तिमान् इति ॥१८॥
॥ १०.६१.१९ ॥
पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ।
एतेषां पुत्र-पौत्राश् च बभूवुः कोटिशो नृप ॥**
मातरः कृष्ण-जातीनां सहस्राणि च षोडश ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतेषाम् इति । अन्येषाम् अपि श्री-कृष्ण-पुत्राणां शत-सङ्ख्यस्त्रीषु पुत्राः पौत्राश् च कोटिशो बभूवः । तत्र हेतुत्वेन श्री-कृष्ण-पत्नीनां बाहुल्यमनुस्मारयति । मातरः कृष्ण-जातानाम् इति । च-शब्देनाधिकाश् चेत्य् उक्तम् ॥१९ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेषां प्रद्युम्नादीनाम् । तत्र कृष्ण-पुत्र पौत्रानन्त्ये । अधिका अष्टोत्तर-शतम् इति ज्ञेयम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आश्चर्याद् आह—हे राजन् इति ! एतेषां श्री-प्रधुम्नादीनाम् ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मातर इति कृष्ण-जातानां मातर एव सङ्ख्यातुं शक्यते नतु पुत्र-पौत्रादयः ताश् च षोडश-सहस्राणि अष्टोत्तर-शतानि च ॥१९॥
॥ १०.६१.२० ॥
श्री-राजोवाच—
कथं रुक्म्य् अरि-पुत्राय प्रादाद् दुहितरं युधि ।
कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते ॥**
एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः
श्रीधर-स्वामी (भावार्थ-दीपिका) : यः कृष्णं हन्तुं रन्ध्र प्रतीक्षते स कथं प्रादाद् इति । बैवाहिकं विवाह-निमित्तम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अरिपुत्राय कृष्ण-पुत्राय । रन्ध्रमवकाशम् । यो रुक्मी । विवाह-निमित्तं विवाहकारणम् । रंध्र तु दूषणे छिद्रे इति मेदिनी ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अरेः श्री-कृष्णस्य पुत्राय प्रादात् प्रणयेनादात् । अरिन्त्वम् एव दर्शयति—युधि परिभूत इति । प्रतीक्षते अपेक्षते मृगयते वा । हे विद्वन्न् इति तत्-त्वया ज्ञायत एवेति भावः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथम् इति सार्धकम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैवाहिक विवाहस्य कारणम् ॥२०॥
॥ १०.६१.२१ ॥
अनागतम् अतीतं च वर्तमानं अतीन्द्रियम् ।
विप्रकृष्टं वयवहितं सम्यक् पश्यन्ति योगिनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुक्मिणो\ऽभि प्रायं कथं जानीम इति चेद् अत आह । अनागतम् इति । अतीन्द्रियम् अस्मदादीद्रियागोचरम् । विप्रकृष्टं दूरस्थम् । व्यवहितं कुड्याद्यन्तरितम् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, दुर्घट-घटना कारिणीयं भगवद् इच्छा भगवल्-लीला-शक्तिर् एव सा सामान्यतो ज्ञायताम्, विशेष-पर्यालोचनं त्वस्या अशक्यम् इत्य् आशङ्क्याह—अनागतम् इति । योगिनस् तावद् अनागतादिकं जानन्ति, भगवद्-भक्ति-विशेषत्वेन परम-तद्-विशेषा भवन्तस्तु भगववत्-सम्बन्धिनम् अपि तत्-तद्-विशेष जानन्तीति भावः । अनागतं भावि ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-एवाभिव्यञ्जयति-अनागतम्-इति । ननु, वर्तमानम् अन्ये\ऽपि पश्यन्ति ? तत्राह—अतीन्द्रियम् इति । तद् एवाह—विप्रेति पदद्वयेन । योगिनो\ऽपि पश्यन्ति, किं पुनर् भवादृशाः श्री-भगवद्-भक्तवरा इत्य् अर्थः । अन्यत् तैर् याख्यातम् । यद् वा, अतीन्द्रियं ब्रह्म व्यवहितं मायान्तरतम् अविशेषेण श्री-नारायणाद् अप्याधिवयेन प्रकृदं श्री-कृष्णञ्च पश्यन्ति, यतो योगिनो भत्ति योगवन्तः, किं पुनः रुक्मिणो\ऽभिप्रायम् इति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, दुर्घट-घटनाकारिणीयं भगवद् इच्छा भगवल्-लीला-शक्तिर् एव वा सामान्यतो ज्ञायतां तद्-विशेष-पर्यालोचनन्त्व-शक्यम् इत्य् आशङ्कयाह—अनागतम् इति । योगिनस्तावद् अन्यदनागतादिकं जानन्ति भगवद्-भक्ति-विशेषत्वेन परम-तद्-विशेषाः भवन्तस्तु भगवत्-सम्बन्ध्य् अपि तत्-तद्-विशेषं जानन्तीति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनागतम् इति । तेनाहम् अप्य् अतेत्र जानामीति न वक्तव्यम् इति भावः ॥२१॥
॥ १०.६१.२२ ॥
श्री-शुक उवाच—
वृतः स्वयं-वरे साक्षाद् अनङ्गोऽङ्ग-युतस् तया ।
राज्ञः समेतान् निर्जित्य जहारैक-रथो युधि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रोत्तरम् । स्वयंवरे रुक्मवत्या वृतः सन् राज्ञो निर्जित्य जहारेति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राक्षेपे । एक रथः सेनाहितः । भीतो\ऽयं वैरि-पुत्राय कन्यां दित्सतीत्य् अप्रतिष्ठा-भयाद्-रुक्मिणा स्व-पुत्र्याः स्वयंवरणमकारि इत्य् आह—वृत इति । वरणे हेतुः—अन्यत्र य आवेश-भावेनानङ्गः स पुनर् अत्र साक्षात्-पूर्ण-रूपोङ्गयुत श्चेत्य् अर्थः । समेतान् तथा स्वयम्वरे तस्मिन्वृतेऽपि तेन सह योद्धुं मिलितान् । विवाहोत्तरं मातुल-प्रीत्या तस्य पुरे चिरवासेन । यद् वा, द्वारकातः पुनर् आनयनात्-तत्रानिरुद्धस्य जन्माभूद् इति ज्ञेयम् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तम् एवेयं वरीतेति निश्चित्य तद् असहिष्णु-निज-वर्ग-वञ्चनार्थं स्वयम्वरश् च कृत इत्य् आह—वृत इति । वरणे हेतुः, अन्यत्र य आवेश-भावेनानङ्गः स पुन रत्र साक्षात्-पूर्ण रूपः अङ्गयुत श्चेत्य् अर्थः, समेतान् स्वयम्बरे तया वृतेनापि तेन सह मत्सरेण योद्धुं मिलि तान् युधि निजित्येत्य् आदिना महा-पराक्रमः उक्तः एव विवाहानन्तरं मातुलस्य प्रीत्या तस्य पुरे चिर-निवासेन किं वा, द्वारकां गतस्य तस्य पुनः प्रत्यानयनात् तत्रानिरुद्धस्य जन्मेत्युक्तम् ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कारितेत्य् आह वृत—इति ॥२२॥
॥ १०.६१.२३ ॥
यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः ।
व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्यपि श्री-कृष्णावमानितस् तथापि वैरम् अनुस्मरन्न् अपि व्यतरत्-प्रादात् अन्वमोदतेत्य् अर्थः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-न तु तेन श्रद्धया दत्ता हतामन्यः शाल्व इवाम्बां न ग्रहीष्यतीति हेतोस्तद्-दानं स्वीकृतवान् इति भावः । कारणान्तरम् आह—स्वसुर् इति, स्वप्राण-रक्षिकायाः स्वसुः श्री-रुक्मिण्याः प्रियं कुर्वन् कर्तुम् ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैरमनुस्मरन् सदा चिन्तयन्न् अपि स्वसुः श्री-रुक्मिण्याः स्नेहेन ददाव् इत्य् अर्थः । अङ्गयुत इति कामद् एवत्वाद् अप्य् उत्कर्ष उक्तः, अतो वृतः, समेतान् स्वयम्बरे तया वृत्तेनापि तेन सह दुर्बद्धया द्वेषेण युद्धार्थं मिलितान्, युधि निजितेत्य् आदिना महा-पराक्रम उक्तः । एवं विवाहानन्तरं मातुलस्य प्रीत्या तस्य पुरे चिरं वासेन किं वा, द्वारकां तस्य पुनः गतस्य श्वशुरेण प्रत्यानयनात्-तत्रानिरुद्धस्य जन्मेति ज्ञेयम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपीति द्वयं तैर् व्याख्यातं तत्र व्यतिक्रमेण व्याख्यानं सिद्धान्ते स्वयंवरणस्य मुख्यत स्वसृ-प्रिय-चिकीर्षायासु तद्-अनुमोदन-मात्रत्वेन गौणतेति ज्ञापनार्थं यद् वा, वैरम् अनुस्मरन् सदा चिन्तयन्न् अपि स्वसः श्री-रुक्मिणी-नाम्न्याः श्री-भगवन्-महा-शशक्तेस् तत्-स्वसृ-भूतायाः स्नेह-प्राबल्येनैव ददाव् इत्य् अर्थः । अग्रेऽपि स्वसः प्रिय-चिकीर्षयेत्येव वक्ष्यते ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रोत्तर स्व-प्राण रक्षिकायाः स्वसुः प्रियं कुर्वन् कर्तुम् ॥२३॥
॥ १०.६१.२४ ॥
रुक्मिण्यास् तनयां राजन् कृतवर्म-सुतो बली ।
उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स् सर्वासाम् अपि एकैका कन्या तत्-सर्वविवाहोपलक्षणार्थं ज्येष्ठ-कन्या-विवाहम् आह—। रुक्मिण्या इति ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वासां कृष्ण-भार्याणाम् । चारुमतीनाम्नी बलीनामा । यद्य् अप्य् अयं विवाहो\ऽनुचितस् तथापि जन्मान्तरीय-कर्म-वशाद्-भगवद् अनुमोदनेनाशास्त्रीयम् अपि शास्त्रीयं भवति वेदस्यापि तदाज्ञा-रूपत्वात्-तद् उक्तं क्रियते मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके इति कपिल-देवोक्तेः । एतत्-पुंसां परं श्रेयो यत्-तवाज्ञानुपालनम् इति भृगक्तेः ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलीति—गुणः, विशालाक्षाख्य इति रूपञ्च सूचितम् । अतो राजन राजमानः, हे नपेति वा, किल निश् च ये, मृत्यस्य प्रभु-कन्या-विवाहे संशया न कार्यस् तस्य भक्त-वात्सल्याद् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नूनं बलीति-सञ्ज्ञा सा च सर्वेषां गुणानाम् उपलक्षणम् अत एव तस्मै सा दत्तेति भावः । विशालाक्षीम् इति धन्या पितृमुखी कन्या इति न्यायात् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.२५ ॥
दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः ।
रोचनां बद्ध-वैरोऽपि स्वसुः प्रिय-चिकीर्षया ॥**
जानन्न् अधर्मं तद् यौनं स्नेह-पाशानुबन्धनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यौनं विवाहः । तद्-यौनम् अधर्म जानन्न् इति द्विषन्नं न भोक्तव्यं द्विषतं नैव भोजयेत् इति लोकविरोधात् । अस्वयं लोकविद्विष्टं धर्मम् अप्य् आचरेन तु इति निषेधाच् चेत्य् अर्थः ॥२५-२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योन्यै तत्-प्राप्तय इदं यौनं विवाहः । तत् मातुल-पुत्रीविवाह-रूपम् । यद्यपि मातुलस्य सुतामूढ्वामातगात्रां तथैव च इत्य्-आदि-स्मृतेः प्रायश् चित्तविधानाद् अधर्मो\ऽपि तथापि आयाहीन्द्र पथिभिरीछनेभिर् यज्ञमिमं नो भागं जुषस्व तृप्तां जहुर् मातुलयेव योषा भागस्ते पैतृष्वसेयीम् इव इति मन्त्र-लिगात् । यौषापत्यं मातुलीयं यथा भागः पितृष्वसुः पुत्रस्यैवंवयान्तेंशंजुषस्वेन्द्रेत्यृषिजङ्गौ इति श्रुतेः स्मृत्य् अपेक्ष या बलवत्त्वम् । तद् उक्तम् श्रुत्या स्मृतेविरोधे श्रुतिर् बलीयसी । तथा हि—
श्रुति-स्मृति-पुराणानां विरोधो यत्र दृश्यते । > श्रौतं तत्र प्रमाणं स्याद्वयोर् द्वैधे श्रुतिर्वरा ॥ > श्रुति-द्वधं तु यत्र स्यात्-तत्र धर्मावुभौ स्मृतौ । > स्मृति-द्वैधे तु विषयः कल्पनीयः पृथक्-पृथक्॥
इत्य् आचारार्कोक्तेर् यद्यपि मातुलस्य सुतामूढ्वा इत्य्-आदि-स्मतेः मातुलस्येव व योषाभागस्ते इत्य्-आदि-श्रुतेः प्राबल्यम् अस्ति तथापि अस्वर्गं लोक-विद्विष्ट-धर्मम् अप्य् आचरेन्नहि इति लोक-विद्विष्टत्वाद्-धर्मत्वे\ऽप्य् अकार्यत्वम् एव । यच् चोक्तम्—
दक्षिणे मातुली-कन्या ह्य् उत्तरे मांस-भोजनम् । > चर्मोदक धन्वनि च न दुष्टं मनुर् अब्रवीत् ॥
इति तच् च तत्रत्यानां देश-धर्मत्वान्न दुष्टम् । तद् उक्तं स्मृत्यन्तरे।—
यद्यपि स्यात् स्वयं ब्रह्मा त्रैलोक्याकर्षण-क्षमः । > तथापि लौकिकाचारं मनसापि न लङ्घयेत् ॥ > समयाचारिको धर्मो जाति-देश-कुलोद्भवः । > ग्रामाचारः परिग्राह्यः सर्वत्रैव यथोदितम् ॥इति ।
एवम् एक-कुलस्थ-देवकी-वसुदेव-कृष्ण-सत्यभामा-विवाहवत्-पूर्वोक्त-चारुमती-कृतवर्म- सुतविवाहोऽपि कुल-धर्मत्वान्न दुष्टः । यद् वा, यादवानां चन्द्र-सूर्योभय-वंश्यानाम् अन्यतरत्वमादाय भिन्न वंशतापि सम्भवति । तथा च सर्वथैव तेषां परस्पर-विवाहे न दोषः । उभय-वंश्यत्वं यदूनां हरि-वंशे वर्णितम् । तथा हि—ययातेर् यदुः, यदोः क्रोष्टा, क्रोष्टुर् देवमीढः, तस्माच्-छूरः, तस्माद्-वसुदेवः, तत कृष्णः । पुनः सूर्य-वंशाद्-धर्यश्वाद्यदुः, यदोर् माधवः, तस्मात्-सत्त्ववान्, सत्त्वतो भीमः, भीमादन्धकः, ततो रैवतः, तत ऋक्षः, ततो विश्व-गर्भः, ततो वसुः, वसोर् वसुदेवः, ततः कृष्ण इति चन्द्रवंशीययदोः षष्ठस्य सूर्य-वंशीयात्तत एकादशत्वं च कृष्णस्य न कल्पान्तराभिप्रायं किं तु गृहाद्-गृहान्तर-प्रवेशवद्-योगबले नैक एव यदुः सूर्य-वंशे\ऽपि प्रादुर्बभूव सूर्य-वंशं स्ववंशे आनीतवान् । यथा ब्रह्मणो मानसः पुत्रो बसिष्ठः केनचिन्-निमित्तेन पुनर् मित्रावरुणाभ्यां जन्म लब्ध्वापि वसिष्ठत्वं न जहौ । एवं यदुर् अपि लीलया देह-द्वयं दध्रे, न तावद्द्वौ यदू जाताव् एक एव यदुवंश-द्वयकर्तेति । एवं वसुदेव-कृष्णाव् अपि वंश-द्वयानुगताव् एक एव । एवं वसुशरयोर् अपि पितृ-भेदान्नाम् अभेदे\ऽपि स्कन्द-सनत्कुमारवद्-यक्त्यैक्यम् एव । यादवानां देवतात्वेनाप्य् एकस्योमय-सम्बन्धस्य युगपत्-सम्भवान्न विरोधः । अत एव काचन्-नर-धर्मोल्लङ्घने\ऽपि न तेषां दोषः शास्त्रस्य मनुष्य-परत्वम् एव प्राय इति लोक-सङ्ग्रहार्थं स्वीकुर्वतुं शास्त्रं मा वेत्यलं प्रसक्तानुप्रसक्तेन ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरेः-हरी बद्धवैरो\ऽपि अधर्मम् लोकाचार-विरुद्धेन अन्याय्यं जानन्न् अप्य् अदात्, यतः स्नेह-पाशेन अनु निरन्तरं वध्यत इति तथा सः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दौहित्रायेति सार्धकम् । हरेः हरौ बद्धवैरोऽपि अधर्मं क्वचित् मातुल-कन्या-परिणयशास्त्रे आचारे सत्य् अपि शत्रु-सम्बन्धस्य तत्रत्यलोकानाम् अपि व्यवहार-विरुद्धत्वेनान्याय्यत्वं जानन्न् अप्य् अददात् यतः स्नेह-पाशेनानु निरन्तरं बध्यत इति तथा सः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यौनं विवाहं अधर्मम् अधर्म-हेतुं जानन्नपीति द्विषद् अन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् इत्य्-आदि-लोकविरोधात् अस्वर्ग्यं लोकविद्विष्टं धर्मम् अप्य् आचरेन् न तु इति निषेधाच् चेत्य् अर्थः ॥२५-२६॥
॥ १०.६१.२६ ॥
तस्मिन्न् अभ्युदये राजन् रुक्मिणी राम-केशवौ ।
पुरं भोजकटं जग्मुः साम्ब-प्रद्युम्नकादयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् विवाह-लक्षणे । अभ्युदये मङ्गले आविर्भावे प्रकाशे च मङ्गले\ऽभ्युदयः स्मृतः इति धरणिः ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभ्युदये महोत्सवे । आदि-शब्दात् सर्वे कुमारा यादवाश् च, साम्बात् पश्चात् प्रद्युम्नस्य उक्तिः, श्वशुरस्य मरण-शङ्कयागमने तस्य गौणत्वात् । अत एव संज्ञा-मात्रापेक्षया क-प्रत्ययः । हे राजन्न् ! इति दुष्ट-रुक्मिणो मृत्यु-हेतूपसत्त्या प्रहर्षात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अपि श्री-भगवति कौटिल्यस्य फलम् आह—तस्मिन्न् इति । अभ्युदये महोत्सवे रुक्मिण्या आदाव् उक्तेः भ्रातृ-गृहाय तस्या एव प्रयोजकत्वात् । श्री-राम् अस्य साम्बस्य चादाव् उक्तिः स्व-सम्बन्धि-गृहे श्री-कृष्णेन श्री-प्रद्युम्नेन च स्वस्माद् अपि यथा स्वं तस्य पुरस्कारात् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.२७ ॥
तस्मिन् निवृत्त उद्वाहे कालिङ्ग-प्रमुखा नृपाः ।
दृप्तास् ते रुक्मिणं प्रोचुर् बलम् अक्षैर् विनिर्जय ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकविरुद्धाचरण-फलं वक्तम् आह। तस्मिन्न् इति ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन्-प्रकृते । अक्षैः पाशकैः
अक्षो रथस्यावयवे व्यवहारे विभीतके । > पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥ इति हेमचन्द्रः > ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृपाः प्रायो दाक्षिणात्या रुक्मिणः सुहृदो विवाहोत्सवे तेनाहूताः, तथा च श्री-हरि-वंशे—
संयुक्ता ज्ञातयश् चैव रुक्मिणः सुहृदश् च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः ॥इति ॥ [ह।वं। २.६१.१५]
दृप्ताः गविताः, प्रोत्साह्योचुः, बलं महाबलिनमपीति भावः । विशेषेणान्यतो\ऽधिकतया, अतो निःशेषेण सर्वस्व-ग्रहणादिना जय ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मिन्-निवृत्त इति सार्धकम् । नृपो यथा हरि-वंशे—
संयुक्ता ज्ञातयश् चैव रुक्मिणः सुहृदश् च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर् नराधिपाः ॥ [ह।वं। २.६१.१५] इति ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलं रामम् इति कृष्णस्य द्यते\ऽपि दुर्जयत्वनिश्चयाद् इति भावः ॥२७॥
॥ १०.६१.२८ ॥
अनक्ष-ज्ञो ह्य् अयं राजन्न् अपि तद्-व्यसनं महत् ।
इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदीव्यत् क्रीडितवान् ॥२८-२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन बलेन ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथम् एतद् घटेतेत्य् अपेक्षायाम् आह—अनक्षज्ञ इति । हि यतः प्रोत्साहयन्ति, हे राजन्न् इति राजत्वेन तव सम्यग् अक्षज्ञानं भातीति भावः । अदीव्यत सभामध्ये, तथा च श्री-हरि-वंशे—
ते शुभां काञ्चन-स्तम्भां कुसुमैर् भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा ॥ [ह।वं। २.६१.२३]
किं च—
निकृत्य तं जिगीषन्तो दाक्षिणात्या नराधिपाः । > मणि-मुक्ताः सुवर्णञ्च तत्रानिन्युः सहस्रशः ॥ > ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम् ॥ [ह।वं। २.६१.२६-२७] इति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि यतः प्रोत्साहयन्ति हे राजन्न् इति राजत्वेन तव सम्यग् अक्षज्ञानं भवतीति भावः । इतीत्यर्धकम् अदीव्यत सभा-मध्ये तथा च तत्रैव—
ते शुभां काञ्चन-स्तम्भां कुसुमैर् भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा ॥ [ह।वं। २.६१.२३]
किं च—
निकृत्य तं जिगीषन्तो दाक्षिणात्या नराधिपाः । > मणि-मुक्ताः सुवर्णञ्च तत्रानिन्युः सहस्रशः ॥ > ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम् ॥ [ह।वं। २.६१.२६-२७] इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं सुवर्ण-मुद्राणां शतं ततः सहस्र ततो\ऽयुतं तं पणं नामृष्यत् अन्तश्चुकोपेत्य् अर्थः ॥२८-२९॥
॥ १०.६१.२९ ॥
शतं सहस्रम् अयुतं रामस् तत्राददे पणम् ।
तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पणं लापित-द्रव्यम्—
पणो वराटमाने स्यान्मूले कार्षापणे ग्रहे । > द्यूतदेये धने चैव भृतिस्तुत्योर् अपि स्मृतः ॥ इति धरणिः ।
तं पणम् । तत्र तदा । कालिङ्गस् तद्-देशेशः । केचित्तु दन्तवक्र एव स इत्यूचुः । कालिङ्गो भूमिकर्कारौ दन्ताबल-भुजङ्गयोः इति मेदिनी । तद्-धसनम् ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शतं निष्काणाम्, प्राक् ततः सहस्र ततो\ऽयुतम् इति क्रमेण ज्ञेयम् । तत्र द्यूते प्रहसनम् एवाह—दन्तान् इति । उच्चैर् अतिशयेन सम्यग् दर्शयन् प्रकटयन्, उच्चान् इति वा, तत् प्रहसनम्, हलायुधो महावीर इति भावः । अतो नामप्यत्, अन्तश्चुक्रोधेत्य् अर्थः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शतम् इति सार्धकम् । शतं निष्काणां प्राक् ततः सहस्रं ततो\ऽयुतं दश-सहस्राणि तत्र द्यते प्रहसनम् एवाह—दन्तान् इति । उच्चैर् अतिशयेन सम्यग् अदर्शयन् हलायुधः प्रसिद्ध-निजास्त्र-पराक्रम इत्य् अर्थः । अतो नामृष्यत् अन्तश् चुक्रोधेत्य् अर्थः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.३० ॥
दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः ।
ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्काणां लक्षं ग्लहं पणं कृतवान् । कैतवं कपटम् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः कालिङ्गहासोत्तरम् । निष्कणां दीनाराणाम् ।
निष्कामस्त्री साष्ट-हेमशते दीनारकर्षयोः । > वक्षोलङ्करणे हेम पात्रे हेमपले\ऽपि च ॥ इति मेदिनी ।
दीनारः स्वर्ण-मुद्रिका इति मञ्जर्याम् । ग्लहो द्यूतपणीकृते इति च । तत्र तदा । कैतवस्तुच्छले द्य ते इति मेदिनी॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र ग्लहे ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ग्लहम् अगृह्णात् पराजितेन देयम् इति स्थापितवान् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कैतवं कपटम् ॥३०॥
॥ १०.६१.३१ ॥
मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ।
जात्यारुणाक्षोऽति-रुषा न्यर्बुदं ग्लहम् आददे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न्यर्बुदं दश-कोटीर्ग्लहं क्षभितो राम आददे ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
अर्बुदो मांसकीले स्यात् पुरुषे दश-कोटिषु ।
महीधर-विशेषे ना इति मेदिनी ।
निश्चितो\ऽर्बद इत्य् अर्बुदः ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-धैर्य-सम्पत्तद्वान् अपि, अक्षोभस्यापि कदाचित् क्षोभे दृष्टान्तः—समुद्र इति । जात्या प्रकृत्यैवारुणाक्षः, क्षोभेण चाधिकारुणाक्षः सन्न् इत्य् अर्थः । यद् वा, जात्यारुणाक्षः पुनश् च मन्युना क्षुभित इति भ्रू-भङ्गादिकं सूचितम् । अतः श्रीमान् शोभाभरवान् इति, अपि एव, राम एव, धर्मेण न्यायेन जितवान् । यद् वा, अकार-प्रश्लेषेणाधर्मेणेति, ततश् चास्य परेणान्वयः । इत्य् आहेति शेषः ॥३१-३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमान्-नामः तच्-छब्देनोक्तिश् च तादृश-दुष्ट-वधोद्यतं स्मत्वा सन्तोषेण तदानी तेजो-विशेषाविर्भाव-स्मरणेन च अक्षोभिणोऽपि कदाचित् क्षाभे दुर्धर्षत्वेऽपि च दृष्टान्तः समुद्रः इति । जात्या प्रकृत्यैवारुणाक्षः अतिरुषा त्वतिशयेनारुणाक्षः सन्न् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यर्बुदं दश-कोटीः ॥३१॥
॥ १०.६१.३२ ॥
तं चापि जितवान् रामो धर्मेण छलम् आश्रितः ।
रुक्मी जितं मयात्रेमे वदं तु प्राश्निका इति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : छलमा श्रितो रुक्मो मया जितम् इत्य् आह ॥३२-३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अपि पणम् । धर्मेण न्यायेन । प्राश्निकाः पावस्थाः प्राश्निकः पार्श्वगे पुंसि गणके पृच्छके\ऽपि च\ऽ इति निरुक्तिः । पार्श्विकाः इति पाठः सम्यग्-भाति ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् अपि पणम् । धर्मेण न्यायेन । प्राश्निकाः पावस्थाः प्राश्निकः पार्श्वगे पुंसि गणके पृच्छके\ऽपि च\ऽ इति निरुक्तिः । पार्श्विकाः इति पाठः सम्यग्-भाति ॥३२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छलमाश्रितो\ऽतो रुक्मी मया जितम् इत्य् आह—प्राश्निकाः साक्षिणः ॥३२॥
॥ १०.६१.३३ ॥
तदाब्रवीन् नभो-वाणी बलेनैव जितो ग्लहः ।
धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राश्निकानां दुर्जनत्वेन मिथ्यात्वं सम्भाव्य श्री-बलस्य कोपं वर्धयितुं पाप-रुक्मि-वधार्थं नभो-वाण्य् अभूद् इत्य् आह—तदेति । धर्मतो मर्यादा-बन्धतो यद्-वचनं ग्लह-स्वीकार-वाक्यं तेनैव, रुक्मी तु मषैव वदति । विष्णु-पुराणेऽपि—
त्वयोक्तोऽयं ग्लहः सत्यं न मयैषोऽनुमोदितः । > एवं त्वया चेद् विजितं विजितं न मया कथम् ॥ [वि।पु। ५.२८.२०] > इति ।
आकाश-वाक्यम् अपि विजितं बलदेवेन रुक्मिणा भाषितं मृषा इति । तदा पार्श्वगकथनावसरे ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अब्रवीद् इति परेण वान्वयः । प्राश्निकानां नृपाणां दुष्टत्वेन मिथ्या-वाक्यं सम्भाव्य दुष्ट-रुक्मि-वधार्थं श्री-बलदेवस्य कोपं बर्धीयेतुम् आकाश-वाण्य् अभूद् इत्य् आह—तदेति । धर्मतो जितः, रुक्मी तु वचनेनैव जितम् इति वदति, न तु धर्मेण, तद् अपि वै एव, मषैव, तथा च श्री-विष्णु-पुराणे तस्य वाक्यम्—
त्वयोक्तो\ऽयं ग्लहः सत्यं न मयैषो\ऽनुमोदितः । > एवं त्वया चेद्-विजितं न मया विजितं कथम् ॥ [वि।पु ५.२८.२०]
किं च—
विजितं बलदेवेन रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित्-कृतं भवति कर्मणः ॥ [वि।पु ५.२८.२२] इति ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राश्निकानां नृपाणां दुर्जनत्वेन मिथ्या-साक्षित्वं सम्भाव्य पाप-रुक्मि-वधार्थ श्री-बलदेवस्य कोपं वर्धयितुम् आकाशवाण्य् अभूद् इत्य् आह—तदेति । धर्मतो मर्यादाबन्धतो यद्-ध्यसनं ग्लह-स्वीकार-वाक्यं तेनैव जितः रुक्मीतु मृषैव वदति तच् च यथा श्री-विष्णु-पुराणे—
त्वयोक्तो\ऽयं ग्लहः सत्यं न मयैषोनुमोदितः । > एवं त्वया चेद्-विजितः न मया विजितः कथम् ॥ [वि।पु ५.२८.२०]
तत्रैवाकाश-वाक्यञ् च—
विजितं बलदेवेन रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित्-कृतं भवति कर्मणः ॥ [वि।पु ५.२८.२२] इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा तेषां साक्षिणाम् अधर्मिष्ठ-नृपाणां मिथ्योक्ति-समये धर्मतो वचनं यस्य तेन बलेनैव जितः रुक्मीतु मृषा वदति ॥३३-३५॥
॥ १०.६१.३४ ॥
ताम् अनादृत्य वैदर्भो दुष्ट-राजन्य-चोदितः ।
सङ्कर्षणं परिहसन् बभाषे काल-चोदितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताम् आकाश-वाणीम् ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्कर्षणं सद्यः सर्वं संहर्तुं शक्यम् इति भावः—प्रलये तस्य मुखाग्निनैव विश्वस्य दाहात् । यद् वा, द्वितीय-व्यूहं साक्षाद्-भगवन्तम् इत्य् अर्थः । परिहसन् उपहसन् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षणं सद्यः सर्व संहर्तुं समर्थम् इति भावः । यद् वा, स्वयं भगवतो द्वितीय-व्यूहम् इति परिहसन् उपहसन् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.३५ ॥
नैवाक्ष-कोविदा यूयं गोपाल-वन-गोचराः ।
अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपाला इति वक्रोक्तिः । गीस्तु स्तौत्येव—गवां धेनु-पृथ्वीवेदादीनां पालका यूयम्, वने निर्जन-देशे एव गोचरा ध्यान-विषया भवथ नैव न तु अक्षेषु द्युत-सभासु कोविदा येषां तादृशा भवथ यतो\ऽक्षैर्णैश् च राजानः श्रियोन्मत्ता एव दीव्यन्ति परहिंसायां रमन्ते न तु भवन्त इव दृश्यन्ते ये भगवद्-भक्तास् तेपीत्य् अर्थः । ततो वयं न जानीमः किं तु भगवद्-भक्ता एव जानन्ति स्वतन्त्र-लीला-निबन्धनम् एवेदृशं भवतां चरितम् इति भावः ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यूयम् इति श्री-कृष्णापेक्षया, यतो गोपाला ऋजुबुद्धय इत्य् अर्थः । कुतः ? वनगोचरा बन्यतया नागर-जन-सङ्गाद्य् अभावेन वैदग्ध्यादि-राहित्याद् इति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यूयम् इति । श्री-कृष्णापेक्षया तत्-सङ्गिनोऽपि गृह्णाति अकोविदत्वे हेतुः गोपालाः क्षुद्र-जातयः वनम् एव गोचरो ज्ञान-विषयो येषां तादृशाश् च गीदेवीत् तं स्तावति गवां धेनुपृथ्वीवेदादीनां पालका यूयं वने निर्जन-देश एव गोचरा ध्यान-विषया भवथ नैव नतु अक्षेषु द्यूत-सभासु कोविदा येषां तादृशा भवथ यतः अक्षैर्बाणैश् च राजानः श्रियोन्मत्ता एव दीव्यन्ति परहिंसाया रमन्ते नतु भवन्त इव दृश्यन्ते ये भवद्-भक्तास् तेपीत्य् अर्थः । ततो वयं न जानीमः किं तु भवद्-भक्ता एव जानन्ति स्वतन्त्र-लीला-निबन्धनम् एवेदृशं भवतां चरितम् इति भावः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.३६ ॥
रुक्मिणैवम् अधिक्षिप्तो राजाभिश् चोपहासितः ।
क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्ण-संसदि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नृम्ण-संसदि मङ्गल-सभायाम् ॥३६-३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रुक्मिणम् । नृपूर् वकट-वर्ग-पवर्ग-पञ्चम-सञ्योग-मध्यश् चायम् अकारान्तो नम्ण-शब्दो वैदिको मङ्गलवाची ॥३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अनेन श्री-कृष्ण-व्यापक प्रकारेणोपहासित उपहासं कारितः । किं वा, भण्डकेन केनापि कृत्वा । किं वा, रुक्मिणैव प्रयोजकका, ते राजभिरुपहासं कारितः, अतो नृम्णसंसद्य् अपि जघान । नृम्णशब्दो\ऽयं वैदिको मङ्गले ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अनेन श्री-कृष्णस्यापि व्यापकेन प्रकारेण रुक्मिणैव हेतुक, तैराजभिः कतृभिर् उपहासितः अतो नृम्णसंसदि जघान नृपूर्वः पवर्ग-टवर्ग-पञ्चम-संयोग-मध्यमश् चायम् अकारान्तो नृम्ण शब्दो वैदिको मङ्गल-वाचकः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृम्णसंसदि मङ्गल-सभायाम् ॥३६-३९॥
॥ १०.६१.३७ ॥
कलिङ्ग-राजं तरसा गृहीत्वा दशमे पदे ।
दन्तान् अपातयत् क्रुद्धो योऽहसद् विवृतैर् द्विजैः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दशमे तत्-सङ्ख्ये । पदे पाद-न्यासे । शिखायां वा शिखा वै दशमं पदम् इति वारतान्तविः ॥३७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दशमे पद इति भीत्या पलायनात्, तथाप्य् अपातयत्, यतः क्रुद्धः, तत्र हेतुः—य इति, विवृतैः प्रकटितैः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दशमे पदे पाद-विन्यास इति भीत्या पलायनात् तथाप्य् अपातयत् यतः क्रुद्धः तत्र हेतुर्य इति विवृतैः प्रकटितैः वदन्न् असौ मन्महद्-दुःखम् इच्छति दुरात्मा अतो\ऽस्येमम् अभिलाषं कुतो न पूरयेयम् इति विभाव्य तथा कुर्वन् तस्य तम् अपूपुरद् इति च ज्ञातव्यम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.३८ ॥
अन्ये निर्भिन्न-बाहूरु- शिरसो रुधिरोक्षिताः ।
राजानो दुद्रुवुर् भीता बलेन परिघार्दिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्भिन्नानि बाहूरुशिरांसि येषां ते तथा ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्ये च राजानः परिघेणार्दिताः प्रहृताः, अतो निःएषेण भिन्नानि वाहादीनि येषां ते, वाह्वादीनां यथोत्तरं मर्म-स्थानत्वेन श्रेष्ठयम्, अतो रुधिरेणोक्षिताः सिक्ताः, अत एव भीताः सन्तो दुर्वेगेनापसताः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्ये च राजानः परिघार्द्दिताः अतो निश्शेषेण भिन्नानि बाह्वादीनि येषां ते बाह्वादीनां यथोत्तरं मर्मस्थानत्वे श्रैष्ठयम् अतो रुधिरेणोक्षिताः सिक्ताः अत एव भीताः सन्तो दुद्रुवुः वेगेनापसृताः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.३९ ॥
निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा ।
रुक्मिणी-बलयो राजन् स्नेह-भङ्ग-भयाद् धरिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्यालस्तु पत्नी-भ्राता इति कोशः । राजन्न् इति-यन्-निमितं बलदेवेन श्री-कृष्णं प्रति पूर्वं परुषम् उक्तं, तेनैव तद्-वध इति क्षत्रिय-जातेश्वरितमद्भतम् इति सञ्चित्या । रुक्मिणो दुष्टत्वेन तद्-वधे साध्विति वक्तुम् उचितं पत्नी-भ्रातृत्वेन तद्-वधे\ऽसाध्विति वक्तुम् उचितम्, यन्-नाब्रवीत्-तत्र हेतुः—स्नेह-भङ्गेति । साधूक्तौ रुक्मिण्याः, असाधूक्तौ बलदेवस्य स्नेह-भङ्ग इति विवेकः ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्याले\ऽपि साध्वित्य् उक्ते रुक्मिण्याः, असाध्वित्य् उक्ते च बलस्य यः स्वविषय स्नेह-भङ्गस् तद्-भयात् । यद् वा, तयोर्यो\ऽन्योन्यं स्नेहस्तस्य भङ्ग-भयात्, किञ्चिद् अनुक्त्या तत्रापि तस्य सङ्गत्य् अनुमानेन श्री-रुक्मिण्याः श्रीबले असूयानुत्पत्तर् इति दिक् । एवं द्वयोर् अपि स्नेहस् तस्य भङ्ग-हरणाद्-धरिर् इति । तादृश-श्री-भगवच् चातुर्येण प्रहर्षात्-तथा पूर्व विरूपतामात्रक रणाद् अपि श्री-कृष्णं प्रति अति-पुरुषम् उक्तवता तेनैवाधुना तद्-वध इति कौतुकाच्-चाह—हे राजन्न् इति । यद् वा, दुष्टवधेत राजमानो\ऽपि ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रुक्मिणि स्वनाम्नैव तादृश-दुष्टतया विख्याते इति साध्विति वक्तम् उचितं श्याले तादृश-निज-निकट-सम्बन्धिनीत्यसाध्विति । तथापि तत्-तनाब्रवीत् यतः साध्वित्य् उक्ते रुक्मिण्याः असाध्वित्य् उक्ते च बलदेवस्य स्व-विषयकोपः स्नेहस् तस्य भङ्गः पलायनं निलीनत्वं तस्माद्-यद्भयं तस्मात् यद्य् अप्येतन्न सम्भवति तथापि स्नेह एव तत्-सम्भावयति इति ज्ञेयं
यद् वा, भङ्गः कौटिल्यं प्रणयकोप इत्य् अर्थः । यद् वा, भङ्गस् तरङ्गः ततश् चानयोर् मय्येतादृशः स्नेह-तरङ्गः अहं तु तद्-विपरीतं कथं वदामीति तस्माद्-भयम् इव भयं लज्जेति ज्ञेयं यद् वा, तयोर् योन्योन्यं स्नेहस् तस्य भङ्ग-भयात् मनाग् अपि तत्र तस्य सम्मत्यनुभावेन रुक्मिण्या वलदेवे\ऽसूयोत्पत्तिः स्याद् इति तूष्णी स्थितिः साध्वित्य् अनुक्तिस्तु रुक्मिणी-प्रकट-परिभवस्य तत्-कुटुम्बलोव विगानस्य च शङ्कयेति भावः । अत एव श्याल इति विशेषितम् एवं स्नेह-भङ्ग-हरणात् हरिर् इति तादृश-भगवच्-चातुर्येण प्रहर्षात्-तथा पूर्व विरूपताम्-आत्रकरणेऽपि श्री-कृष्णं प्रति किञ्चित्-परुषम् उक्तवता तेनैवाधुना तद्-वध इति कौतुकाच् च सम्बोधयति—राजन्न् इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.६१.४० ॥
ततोऽनिरुद्धं सह सूर्यया वरं
रथं समारोप्य ययुः कुशस्थलीम् ।
रामादयो भोजकटाद् दशार्हाः
सिद्धाखिलार्था मधुसूदनाश्रयाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्यया नवोढया । सिद्धा अखिला अर्था अभ्युदय-शत्रु-वधादयो येषां ते ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो रुक्मि-हननानन्तरम् । सूर्या तु स्यान्न् अवोढायां सूर्य-पत्न्याम् अपि इति निरुक्तिः । सिद्धाखिलार्थत्वे हेतुः—मधुसूदनाश्रया इति । यद् वा, यथा मधुमादिदैत्यं वरदान-चातुर्येणाहंस् तथा रुक्मिणम् अपि द्यूत-क्रीडौदासीन्यमय्या बुद्धयेति भावः । एतेन राम् अस्य तद्-वधे कृष्ण-संमतिर् अपि द्योतितेत ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वरं श्रेष्ठम् । कथम् ? सम्यग्-गीत-वाद्यादि-साधु-प्रकारेणारोप्य, रामस्यादित्वं दृष्ट्वैरिवधेन सर्वैः सम्मानितत्वात्, तथा श्री-कृष्णस्य मौनावलम्बनाच् च, सिद्धाखिलार्थत्वे हेतुः—मधुसूदनाश्रया इति । एवं रामस्यादित्वे\ऽपि तद् अधीनत्वं तथा राम् अस्य रुक्मिणो वेति भावः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वरं श्रेष्ठं रथं सम्यक् गीत-वाद्यादि-साधुप्रकारेणारोप्य रामस्यादित्वं दुर्जन-वैरि-वधेन सर्वैः सम्मानितत्वात् तथा कृष्णस्य मौनावलम्बनाच् च सिद्धाखिलार्थत्वे हेतुः मधुसूदनाश्रया इति एवं रामस्यादित्वेऽपि तद् अधीनत्वं तथा राम् अस्य रुक्मिवधे तत्सम्मतिं च द्योतयत्येव तत्र मधुसूदनेति यथा पुरादिदैत्यं मधुं वरदानादि-चातुर्येणाहन् तथा द्यूत-क्रीडोदासीन्यम् अप्य् अबुद्धया रुक्मिणश् चेति भावः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्यया नवोढया सिद्धाखिलार्थाः सिद्ध-समस्त-वाञ्छिता इति विशेषणेन रुक्मिण्या अपि क्रोडीकृतत्वात्-तस्या रुक्मिणि हते सत्यन्तः सुखम् एवाभूद् इति गम्यते तेन स्नेह-भङ्ग भयाद् इत्य् अत्र रुक्मिण्या रुक्मिणि बहिः स्नेह एव व्याख्येयः ॥४०॥
इति श्रीमद्भागवते महापुराणे ब्रह्मसूत्रभाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशमस्कन्धे अनिरुद्ध-विवाहे
रुक्मिवधो नामैकषष्टितमोऽध्यायः ।
॥६१॥
(६२)