६०

रुक्मिणी-श्री-कृष्णयोः प्रणय-कलहः ।

॥ १०.६०.१ ॥

श्री-बादरायणिर् उवाच—

कर्हिचित् सुखम् आसीनं स्व-तल्पस्थं जगद्-गुरुम् ।
पतिं पर्यचरद् भैष्मी व्यजनेन सखी-जनैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अथ षष्टितमे कृष्णः परिहासेन रुक्मिणीम् ।

कोपयित्वा ततः प्रेम-कलहे ताम् असान्त्वयत् ॥

रामाराम-जनानन्द-महोदय-विडम्बनैः ।

रुक्मिण्या प्रेम-कलह-च्छद्मनैश्वर्यम् ईयते ॥

स्व-तल्प-स्थं स्व-पर्यङ्क-स्थम् ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः कोपानन्तरम् । तां रुक्मिणीम् । रामास्व् आरामो रमणं येषां ते जनाः, तेषाम् आनन्दः, तस्य महोदयः, तस्य विडम्बनैःपर्यङ्कः शय्या-भेदः ।

[वैष्णव-तोषणी-] श्रीमद्-अनिरुद्ध-विवाहानन्तरम् एव वक्तुं योग्याम् अप्य् एतां श्री-रुक्मिणी-देव्याः प्रेम-कलह-क्रीडां महिषीविलास-प्रसङ्गाद्रस-विशेषोदयेनाधुना वक्तुम् आरभते—कर्हिचिद् इत्य्-आदिना यावद्-अन्तम् । कस्मिश्चिद्गृहसुख-क्रीडाकाले तस्या गृहे तस्या एव पर्यङ्के वर्तमानम् । तादृश-परिचरणे हेतुः—जगतः सर्वस्मात् सकाशाद् गुरुं महत्तमम् । विशेषतश् च स्व-पतित्वात् परम-प्रेमास्पदं चेत्य् अर्थः । सखी-जनैः सह पर्यचरन् नाना-परिचर्याम् अकरोत्, पश्चात् तु व्यजनेन स्वयं पर्यचरद् इत्य् अर्थः, सखी-जनानां बहुत्वस्य निर्देशात्, व्यजनस्य त्व् एकत्वे, तथा बह्वीनाम् एक-सेवानर्हत्वात्, बाल-व्यजनम् आदाय [भा।पु। १०.६०.७] इत्य् अनुवदिष्यमाणत्वाच् च ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीमद्-अनिरुद्ध-विवाहानन्तरम् एव वक्तुं योग्याम् अप्य् एतां श्री-भगवद्-रुक्मिणी-देव्योः प्रेम-कलह-क्रीडां रति-प्रसङ्गात् स-विशेषोदयेन वक्तुम् आरभते—कर्हिचिद् इत्य्-आदिना यावद्-अन्तम् ।

कस्मिंश्चिद् गृह-सुख-क्रीडा-काले सुखं यथा स्यात् तथा आसीनम् । किम् अधिकरणकम् ? इत्य् अपेक्षायाम् आह—स्व-तल्प-स्थं तस्या गृहे, तस्या एव पर्यङ्के वर्तमानम् । यद् वा, सुखम् आसीनम् इत्य् अत्र हेतुः—स्व-तल्प-स्थम् इति । सखी-जनैः सह पर्यचरद् असेवत, यतो जगतो गुरुः, विशेषतश् च पतिम् आत्मनः प्रियम् इति परिचरणे भक्ति-विशेषः सूचितः । तच् च तस्या युक्तम् एवेत्य् आशयेनाह—भैष्मीति । कन्यात्वे\ऽपि निज-पित्र्-आद्य्-अनादरेण या स्वयं निभृतं श्री-कृष्णं प्रति स्व-नयनार्थं दूतं प्राहिणोद् इति भावः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमद्-अनिरुद्ध-विवाहानन्तरम् एव वक्तुं योग्याम् अप्य् एतां श्री-भगवद्-रुक्मिणी-देव्योः प्रेम-कलह-क्रीडां महिषी-विलास-प्रसङ्गाद् रस-विशेषोदयेन वक्तुम् आरभ्यते—कर्हिचिद् इत्य्-आदिना यावद्-अन्तम् । कस्मिंश्चिद् गृह-सुख-क्रीडा-काले स्व-तल्प-स्थं तस्या गृहे तस्या एव पर्यङ्के वर्तमानं । तादृश-परिचरणे हेतुः—जगतः सर्वस्मात् सकाशात् गुरुं महत्तमं विशेषतश् च स्व-पतित्वात् परम-प्रेमास्पदं चेत्य् अर्थः । सखी-जनैः सह भैष्मी पर्यचरत् नाना-परिचर्याम् अकरोत्, पश्चात् तु व्यजनेन स्वयं पर्यचरद् इत्य् अर्थः । सखी-जनानां बहुत्वस्य निर्देशात्, व्यजनस्य त्व् एकस्य तथा बह्वीनाम् एक-सेवानर्हत्वात् । बाल-व्यजनम् आदाय [भा।पु। १०.६०.७] इत्य् अनुवदिष्यमाणत्वाच् च ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जगद्-गुरुत्वम् एव दर्शयति ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

कृष्ण-वाक्-पेषणी-पिष्ट-हृत्-कर्पूरात्र रुक्मिणी ।

सम्मोह्याश्वासिता [##]{।मर्क्} तं प्रत्यूचे षष्टितमे स्फुटम् ॥

जगद्-गुरुं पतिम् इति च परिचरणे हेतू ॥१॥


॥ १०.६०.२ ॥

यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः ।
स हि जातः स्व-सेतूनां गोपीथाय यदुष्व् अजः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वक्ष्यमाणं रुक्मिण्याः श्री-कृष्ण परमं प्रेम सम्भावयितुं तस्योक्तम् एव तत्त्वम् अनुस्मारयति—यस् त्व् इति ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य उक्तं तत्त्वम्—ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् [भा।पु। १०.५९.४४] इत्य्-आद्य्-उक्तम् । गोपीथं रक्षणे दुग्धे इति निरुक्तिः ।

[तोषणी-] जगद्-गुरुत्वम् एव दर्शयति । तु प्रसिद्धौ । एतद् विविधाश्चर्य-मयम् । ईश्वरः प्रकृत्य्-आदि-नियन्ता पुरुषावतारः सन् हि एव स्वयं भगवान् एव स्वेन ईश्वर-रूपेण कृतानां नाना-सेतूनां गोपीथाय रक्षणाय अजोऽपि जातः जन्म-लीलया प्रादुर्भूतः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृश-पतित्वेन तथा परिचर्यया च श्री-रुक्मिण्या महा-भाग्यं द्योतयन् जगद्-गुरुत्वम् एव दर्शयति—यस् त्व् इति । तु प्रसिद्धौ । एतद् विविधाश्चर्य-मयम् । ईश्वर इति सर्व-नैरपेक्ष्येण बालकवत् केवलं क्रीडार्थम् एवेति । किं वा, किम्-अर्थं सृष्ट्य्-आदि करोति, तत् केनापि बोद्धुं न शक्यत इति । यद् वा, सर्व-जीवानां पालकत्वेन तेषां स्व-स्व-कर्मोपभोगेन परम-पद-प्राप्त्य्-अर्थम् इति भावः । हि एव, एव, स्व-कृतानां सेतूनां तत्-तन्-मर्यादानां गोपीथाय रक्षणाय अजो\ऽपि जातः । अतस् तस्येयं सृष्ट्य्-आदेर् अप्य् अधिकाश्चर्य-मयी मधुर-मधुरा क्रीडा योग्या वेति भावः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जगद्-गुरुत्वम् एव दर्शयति—यस् त्व् इति । तु प्रसिद्धौ । एतद् विविधाश्चर्य-मयम् । ईश्वरः प्रकृत्य्-आदि-नियन्ता पुरुषावतारः सन् हि एव स स्वयं भगवान् एव स्वेन ईश्वर-रूपेण कृतानां सेतूनां तत्-तन्-मर्यादानां गोपीथाय रक्षणाय अजोऽपि जातः जन्म-लीलया प्रादुर्भूतः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस् त्व् इति राज-पुत्रीत्य्-आदि ॥२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वक्ष्यमाणे रुक्मिण्याः प्रेम-सेवा-रस-भञ्जने तस्य केवलं विनोद एव हेतुः, वस्तुतस् तु नान्य इति निदर्शनार्थं विश्व-सृष्ट्य्-आदेर् अपि विनोद-हेतुकत्वम् अभिव्यञ्जयति—यस् त्व् एतद् इति । स्व-सेतूनां धर्मादि-मर्यादानां गोपीथाय पालनायेति स्व-प्रिय-जन-प्रेम-मर्यादायास् त्रोटनं न तस्याभीप्सितं, किं तु तेन तद्-दृढीकरणम् एवेति भावः ॥२॥


॥ १०.६०.३-७ ॥

तस्मिन् अन्तर् गृहे भ्राजन् मुक्ता-दाम-विलम्बिना ।

विराजिते वितानेन दीपैर् मणिमयैर् अपि ॥३

मल्लिका-दामभिः पुष्पैर् द्विरेफ-कुल-नादिते ।

जालरन्ध्र-प्रविष्टैश् च गोभिश् चन्द्रमसोऽमलैः ॥४

पारिजात-वनामोद-वायुनोद्यान-शालिना ।

धूपैर् अगुरुजै राजन् जालरन्ध्र-विनिर्गतैः ॥५

पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपूत्तमे ।

उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम् ॥६

बाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् ।

तेन वीजयती देवी उपासाञ्चक्र ईश्वरम् ॥७

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदौ तावत् त्रिभिः श्लोकैर् मन्दिरम् अनुवर्णयति—तस्मिन्न् इति । तच्-छब्देनातिप्रसिद्धम् आह । भ्राजन्ति मुक्ता-दामानि तेषां विलम्बाः सन्ति यस्मिंस् तेन वितानेनविराजिते तृतीयान्तानां विराजित-पदेनान्वयः ॥३॥

सुगन्धितया द्विरेफ-कुलैर् नादिते । प्रविशद्भिश् चन्द्र-रश्मिभिः ॥४॥

निर्गच्छद्भिर् अगुरु-सम्भवैर् धूपैश् चातिमनोहरत्वं दर्शितम् ॥५॥

पयसः क्षीरस्य फेन इव मृदुनि पर्यङ्क-स्थे कशिपूत्तमे हंस-तूलिकायाम् उपतस् थे असेवत ॥६॥

तद् एवाभिनयति—बाल-व्यजनम् इति ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वितानो यज्ञ उल्लोचे विस्तारे पुनपंसकम् इति मेदिनी ॥ [तोषणी-]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : बाल-व्यजनं चामरम्, स्वल्प-व्यजनं वा ॥७.८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र वक्ष्यमाण-श्री-भगवद्-भाव-विशेषोद्दीपनोपकरणानि सप्तभिर् वदन्न् आदौ गृहं वर्णयति—तस्मिन्न् इति त्रिभिः । अन्तर्-गृहे गृह-मध्ये विराजित इति स्वत एव रत्न-भित्त्य्-आदिना राजमाने वितानादिभिश् च विशेषेण राजित इत्य् अर्थः । मल्लिकानां दामभिर् भित्त्य्-आदि-बद्धैः पुष्पैर् अन्यैश् च स्थाने स्थाने विकीर्णैर् अरुणैर् इति प्राग्-उद्यन्-मात्रता सूचिता ॥३-४॥

एवम् इयं क्रीडा प्रदोषारम्भे ज्ञेया । वन-शब्दः सर्वासां श्री-महिषीणां प्रीत्यै प्रतिगृहम् एकैकस्य पारिजातस्य सृष्टेः, किं वा तेनैकेनैव वनिकावत् सर्व-द्वारका-व्याप्तेः । न च केवलं तद्-आमोद एव, विचित्रान्य-पुष्पादीनाम् अपि सौरभ्यम् अस्तीत्य् आह—उद्यानेति । एवं वायोः शीतलोद्यान-सम्बन्धेन शैत्यम्, शालित्वेन मान्द्यं चोक्तम् । जाल-रन्ध्रभ्यो विशेषेण सर्व-दिग्-व्यापकत्वादिना निर्गतैः । तत्-तच्-छ्रवणेन प्रहर्षाद् राजमान श्री-परीक्षितं दृष्ट्वा तथैव सम्बोधयति—राजन्न् इति ॥५॥

उक्त-पोष-न्यायेन परिचरण-प्रकारम् एव प्रहर्षाद् वर्णयति—पय इति द्वाभ्याम् । तादृशे\ऽन्तर्-गृहे यः पल्यङ्कः, तस्मिंश् च यः कशिपूत्तमः, तस्मिन् । तत्र च बहिर् विशिनष्टि—पय इति द्वाभ्याम् । उपतस्थ इत्य्-आदेः पुनः पुनर् उक्तिर् भाव-विशेषेण तादृक्-सेवाभिकामात् ॥६॥

व्यजनेन पर्यचरद् [भा।पु। १०.६०.१] इत्य् उक्तम् । तत्-प्रकारम् एव विशिष्याह—बाल-व्यजनम् इति चामरम् । किं वा, पिञ्जादि-चितं लघुतर-स्वल्प-व्यजनम्, कोमलतर-करत्वात् । देवी इति तादृग्-उपासनेन शोभा-भरोदयात् । यद् वा, श्री-महिषी ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : [तोषणी-] तत्र प्रेम-कलह-क्रीडा च जातेति वर्णयितुं सप्तभिः पद्यैः प्रेम वर्णयन्न् आदाव् उभयोस् तद्-उद्दीपन-सामग्रीं वर्णयति—सार्धैस् त्रिभिः । गृहस्य वर्णनं त्रिभिः, अर्धेन शय्यायाः । अथ श्री-रुक्मिण्याः प्रेम-वर्णनं सार्धेन, ततः श्री-भगवतस् तत्त्व-वर्णनं सोप- इति द्वयेन [८-९] इति सप्त । तत्र तस्मिन्न् इति चतुष्कम् । अन्तर्-गृहे चन्द्र-शालादि-युक्ते नाना-गृह-शालि-स्वाङ्गनान्तः-पुर-मध्ये । विराजित इति स्वत एव रत्नम् इत्य्-आदिना राजमाने वितानादिभिश् च विशेषतो राजित इत्य् अर्थः ॥३॥

दामोक्तं गुण-मालयोः इति कोशान् मल्लिका-दामभिर् मल्लिकाधिकैः पूष्पैः शोभित इत्य् अर्थः। मल्लिका-दामभिर् आदि-बद्धः । पूष्पैर् अन्यैश् च स्थाने स्थाने विकीर्णैः । "धूपैः" इति क्वचित् पाठे, आगुरवस् त्व् अग्रे । "अरुणैर्" इति प्राग्-उद्यन्-मात्रता सूचिता । इयं क्रीडा प्रदोषारम्भे ज्ञेया । जालरन्ध्र-प्रविष्ट-गोभिर् धूपैश् च गृह-शोभा दर्शिता ॥४॥

वन-शब्दः सर्वासां पट्ट-राज्ञीनां गृहेष्व् इन्द्रेण पूर्व-प्रस्थापित-पारिजातस्य एकैकस्य सर्वत्र वृत्तेः । न च केवलं तद्-आमोद एव विचित्रान्य-पुष्पादीनाम् अपि सौरभ्यम् अस्तीत्य् आह—उद्यान- इति । जालरन्ध्रेण विशेषतो निखिल-दिग्-व्यापकत्वादिना निर्गतैः ॥५॥

तादृश-गृहे यश् चन्द्रशालाङ्गण-गतः पर्यङ्कस् तस्मिन् यत् कशिपूत्तमं तस्मिन्, एकोक्त्या कशिपुर् भक्ताच्छादने च द्वयोः पृथक् इति विश्वः ।

आयामः सप्ततालः स्याच् चतुस्तालं तु विस्तृतम् । > द्वितालम् उन्नतं ज्ञेयम् एतत् पर्यङ्क-लक्षणम् ॥ इति शिल्पिशाने > ।

अङ्गुष्ठ-मध्यमयोर् वितस्त्योर् अन्तरालस् तालः इति प्रयोग-रत्ने । शय्याच्छादन-वने च कशिपूर् लघु-मञ्चके इति धरणिः । तद् एव विशिनष्टि—पय इत्य्-आदि-पदाभ्याम् । उपतस्थे इत्य्-आदेः पुनः पुनर् उक्तिस् तु भाव-विशेषेण पुनः पुनस् तादृक् सेवाभिकामात् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इदम् अस्यावतारिका प्रघट्टके ॥३-१२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : बाल-व्यजन- इत्य्-आदि । बाल-व्यजनं चामरम्, स्वल्प-व्यजन-खण्डं वा ॥५-८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रेम-कलह-क्रीडा च जातेति वर्णयितुं सप्तभिः पद्यैः प्रेम वर्णयन्न् आदाव् उभयोस् तद्-उद्दीपन-सामग्रीं वर्णयति—सार्धैस् त्रिभिः । तत्र गृहस्य वर्णनं त्रिभिः, शय्याया अर्धेन । अथ रुक्मिण्याः प्रेम-वर्णनम् उपेति सार्धेन । श्री-भगवतस् तत्त्व-वर्णनं सोपेति द्वयेनेति सप्त । तत्र तस्मिन्न् इति चतुष्कम् । अन्तर्-गृहे चन्द्र-शालादि-युक्त-नाना-गृह-शालि-स्वाङ्गणान्तःपुर-मध्ये विराजित इति । स्वत एव रत्नम् इत्य्-आदिना राजमाने वितानादिभिश् च विशेषेण राजित इत्य् अर्थः ॥३॥

मल्लिकानां दामभिर् आदि-बद्धः पुष्पैर् अन्यैश् च स्थाने स्थाने "विकीर्ण-धूपैः" इति क्वचित् पाठे साधारणो धूप आगुरवस् त्व् अग्रे अरुणेर् इति प्राग् उद्यन्-मात्रता सूचिता एवम् इयं क्रीडा प्रदोषान्ते ज्ञेया । जालरन्ध्र-प्रविष्टैश्गोभिर् इति धूपैर् आगुरवैर् इति च तत्रत्य-गृह-शोभा दर्शिता । किं तु चन्द्रांशु-प्रवेशः पूर्वतः धूप-निर्गमस् तु मारुतानुकूल्येन ज्ञेयः । वन-शब्दः सर्वासां पट्ट-महिषीणां गृहेष्व् इन्द्रेण पूर्व-प्रस्थापितस्यैकैकस्य पारिजातस्य वृत्तैः, यस् तु मुख्य-मूल-चन्दन-वृक्ष-वन-मुख्य-मूल-पारिजात-वृक्ष-पवन-सम्बन्धात् अन्ये वृक्षास् ते भवन्ति । स तु न प्रेषितः श्री-भगवतैव परम् आच्छिद्यानीत इति ज्ञेयम् । न च केवलं तद्-आमोद एव विचित्रान्य-पुष्पादीनाम् अपि सौरभ्यम् अस्तीत्य् आह—उद्यानेति । जाल-रन्ध्रेभ्यो विशेषेण सर्व-दिग्-व्यापकत्वादिना निर्गतैः तादृशे अन्तर्-गृहे यश् चन्द्र-शालाङ्गण-गतः पर्यङ्कः, तस्मिंश् च यत् कशिपूत्तमं, तस्मिन् ॥४-५॥

तद् एव विशिनष्टि—पय इति । पदाभ्याम् उपतस्थ इत्य्-आदेः पुनः पुनर् उक्तिर् भाव-विशेषेण तादृक्-सेवाभिकामात् ॥६॥

व्यजनेन पर्यचरद् इत्य् उक्तं तत्-प्रकारम् एव विशिष्याह—बाल-व्यजनम् इति । बाल-व्यजनं चामरं देवी [महा] पट्ट-महिषी अत्र टीकायाम् अभिनयतीत्य् अभिनय-पूर्वकं वदतीत्य् अर्थः ॥७॥

विश्वनाथ-चक्रवर्ती : तस्याः प्रेम-सेवा-सुखस्य सर्वाण्य् एवोपकरणानि पूर्णानीति दर्शयितुं मन्दिरं वर्णयति—तस्मिन्न् इति त्रिभिः । भ्राजन्-मुक्ता-दाम्नां विलम्बाः लम्बमाना गुच्छाः सन्ति यस्मिन्, तेन वितानेन चन्द्रातपेन विराजिते, तृतीयान्तानां विराजिते इत्य् अनेनान्वयः । अरुणैर् गोभिर् इति चन्द्रमस उदय-राग-मयैः किरणैः प्रविशद्भिः आगुरवैर् धूपैश् च निर्गच्छद्भिः कशिपूत्तमे शयनीयेषु श्रेष्ठे ॥३-७॥


॥ १०.६०.८ ॥

सोपाच्युतं क्वणयती मणि-नूपुराभ्यां

रेजेऽङ्गुलीय-वलय-व्यजनाग्र-हस्ता ।

वस्त्रान्त-गूढ-कुच-कुङ्कुम-शोण-हार-

भासा नितम्ब-धृतया च परार्घ्य-काञ्च्या ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपाच्युतम् अच्युतस्य समीपे सा मणि-नूपुराभ्यां रेजेक्वणयती मणि-मयौ नूपुरी कूजयन्ती, तथा अङ्गुलीय-वलय-व्यजनान्य् अग्र-हस्ते हस्ताग्रे यस्याः सा । वस्त्रान्तेन गूढौ स्थगितौ कुचौ, तयोः कुङ्कुमं, तेन शोणो हारः, तस्य भासा नितम्बे धृता या परार्घ्या अमूल्या काञ्ची, तया च रेजे ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्गुलीय-वलयान्य् अङ्गुलि-भूषणानि । हस्तस्याग्रम् अग्र-हस्तम् इति राजदन्तादित्वात् समासः । स्थगिताव् आच्छादितौ । पश्चान् नितम्बः स्त्री-कट्याः इत्य् अमरः । काञ्ची स्यान् मेखला-दाम्नि प्रभेदे नगरस्य च इति मेदिनी । स्यात् परायम् अनर्थे\ऽपि पर-भागे द्वयोः इति निरुक्तिः । सेति सा क्वणयन्ती शब्दायमाना रेजे

राजने हेतुः—मणि-नूपुराभ्याम् उपलक्षिता, अङ्गुलीय- इत्य्-आदि-लक्षणा । तत्र तत्-स्मारितानन्त-हताखिलेन्द्रियः [भा।पु। १०.१२.४४] इति, वासुदेवे भगवति निमग्न-हृदयो\ऽब्रवीत् [भा।पु। १०.८०.५] इत्य्-आदि-रीत्या प्रस्तूयमान-तद्-एक-स्फूर्त्या तां सभाम् अप्य् अनवधाय बाहु-प्रसार-परिरम्भ-करालकोरू [भा।पु। १०.२९.४६] इत्य्-आदिकं यथावर्णयत्, तथैव तत्-सखी-जन-स्फुरण-वशात् तद्-भावितः संस् तस्या रहस्याम् अपि शोभां वर्णयति—वस्त्र- इति । तत्र वस्त्रान्तेत्य्-आदि-द्वयेनोपलक्षिता चेत्य् अर्थः । तत्र शाटी-रूप-वस्त्रस्य दीर्घत्वात् सम्यग् एव गूढत्वं ज्ञेयम्, अन्त-शब्दस्य स्वरूपार्थकः । क्वणने हेतुः—मणि- इति, वलय- इति, परार्घ्य- इति च । वीजनेन भावेन चलनाद् इति ज्ञेयम् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तम् एव स-साधनं दर्शयन् वक्ष्यमाण-श्री-भगवत्-प्रीति-हेतुत्वेन तां वर्णयति—सा- इति । मणि- इत्य्-आदिना क्रमेण पादयोर् हस्तस्य वक्षसो मध्य-भागस्य चेत्य् एवं सर्वाङ्ग-शोभोक्ता । अन्यत् तैर् व्याख्यातम् । यद् वा, वीजनेन सर्वाङ्ग-चलनाद् वलयादीन् क्वणयन्ती ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सा इति । सा क्वणयति शब्दायमाना रेजे । राजने हेतुः मणि-नूपुराभ्याम् उपलक्षिता अङ्गुलीयेत्य्-आदि-लक्षणा तत्र तत्-स्मारितानन्त-हताखिलेन्द्रियः [भा।पु। १०.१२.४४] इति वासुदेवे भगवति निमग्न-हृदयो\ऽब्रवीत् [भा।पु। १०.८०.५] इति रीत्या प्रस्तूयमान-तद्-एक-स्फूर्ता तां सभाम् अप्य् अनवधाय बाहु-प्रसार-परिरम्भ-करालकोरू [भा।पु। १०.२९.४६] इत्य्-आदिकं यथावर्णयत्, तथैव तत्-सखी-जन-स्फुरण-वशात् तद्-भाव-भावितः सन् । तस्या रहस्याम् अपि शोभां वर्णयति—वस्त्र- इति । तत्र वस्त्रान्त- इत्य्-आदि-द्वयेनोपलक्षिता चेत्य् अर्थः । अत्र शाटी-रूप-वस्त्रान्तस्य दीर्घत्वात् सम्यग् एव गूढत्वं ज्ञेयम्, अन्त-शब्दस्य स्वरूपार्थकत्वात् । क्वणने हेतुः— मणि- इति, वलय- इति, परार्घ्य- इति च । वीजनेन भावेन च चलनाद् इति ज्ञेयम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपाच्युतम् अच्युतस्य समीपे सा मणि**-नूपुराभ्यां रेजे क्वणयन्ती** अर्थान् मणि-नूपुरौ काशी च अत्यायत-व्यजन-चालनेन सर्वाङ्ग-स्पन्दनात् स्वनयन्तीत्य् अर्थः । अङ्गुलीय-वलय-व्यजनानि अग्र-हस्ते यस्याः सा वस्त्रान्तेन शाटिकाञ्चलेन गूढौ गुप्तीकृतौ स-कञ्चुकौ यौ तयोः कुचौ कुङ्कुमेन शोणस्य हारस्य भासा परार्घ्या परार्घ-मूल्यया काञ्च्यारेजे ॥८॥


॥ १०.६०.९ ॥

तां रूपिणीं श्रियम् अनन्य-गतिं निरीक्ष्य

या लीलया धृत-तनोर् अनुरूप-रूपा ।

प्रीतः स्मयन्न् अलक-कुण्डल-निष्क-कण्ठ-

वक्त्रोल्लसत्-स्मित-सुधां हरिर् आबभाषे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तां निरीक्ष्य प्रीतह् सन् स्मयमानो हरिर् आबभाषे । कथं-भूताम् ? **या लीलया धृत-**नर-तनोस् तस्य अनुरूप-रूपा अनुरूपं रूपं यस्यास् ताम् । यथोक्तं श्री-पराशरेण—

देवत्वे देव-देहेयं मनुष्यत्वे च मानुषी । > विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥ [वि।पु। १.९.१४३] > इति ।

किं च, अलकैः कुण्डलाभ्यां निष्केण पदकेन अलङ्कृत-कण्ठेन च चतुर्दिक्षु शोभिते वक्त्रे उल्लसन्ती स्मित-सुधा यस्यास् ताम् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां रुक्मिणीम् । अनुरूपं योग्यम् । देवत्वे देव-भावे । इयं लक्ष्मीः । पुनः शोभाधिक्यम् आह—किं चेतिअलकादीना चतुष्कत्वाच् चतुर्-दिक्ष्व् इति ज्ञेयम् ।

[तोषणी-] ताम् इति । रूपिणी वैकुण्ठ-लोकादी लक्ष्मी-रूपादेर् अप्य् अधिक-रूपशालिनीम् इत्य् अर्थः । प्रशंसायां मत्व्-अर्थीयः । तत्र हेतुः—या इति । विस्मापनं स्वस्य च [भा।पु। ३.२.१२] इत्य्-आदि-वचन-प्रामाण्येन तेनाप्य् अधिक-सौन्दर्य-प्रकटनाद् इति भावः । प्रीत इति भाव-विशेषं द्योतयति । अत एव नर्म-विशेषस्य वक्तव्यत्वात् । स्मयन् स्मयमानः । सर्व-प्रकारेण मद्-अनुरूपाया अप्य् अस्याः स्वस्यानुरूपत्वं युक्त्या प्रदर्श्य परिहसामि, तत इयं किं वदेत् तद् अहम् अद्य शृणवानि इति भावः । अनन्य-गतिम् अपि ताम् सम्यग् वाग्-भङ्ग्य्-आदिना बभाषे । यतो हरिः नर्मादिना प्रिय-जनानां धैर्यादिहर इति भावः ॥ यद् वा, इति पृथक् पदं खेदे, तां प्रति तादृग्-उक्तेर् अयोग्यत्वात् । तच् च वक्ष्यत्य् एव—अतद्-अर्हाम् [भा।पु। १०.६०.२८] इति ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तां रूपिणीं श्रियम् इत्य्-आदि । रूपवतीं श्रियम् अस्मिन्न् एव शरीरे श्री-रूपवतीं बभूवेत्य् अर्थः । अथवा तां निरीक्ष्य तां काम् इत्य् अपेक्षायाम् आह—या तनोः श्रियं कान्तं रूपवती लीलया सह अधृत धृतवती, ताम् इत्य् अर्थः । श्रियं कीदृशीम् ? अनन्य-गतिम्—न विद्यते अन्या गतिर् यस्याः, अतो\ऽनुरूपं रूपं यस्याः । स्मयन्न् इति सोपहासम् प्रीत इति सौन्दर्य-दर्शनेन ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृश्यास् तस्याः सन्दर्शनेन जात-भाव-विशेषाच् छ्री-भगवान् अपि कौतुकेन वाक्-क्रीडा-विशेषं चकारेत्य् आह—ताम् इति । रूपिणीं वैकुण्ठ-लोकादि-लक्ष्मी-रूपादेर् अप्य् अभ्यधिक-सौन्दर्य-शालिनीम् इत्य् अर्थः । तत्र हेतुः—या इति । विस्मापनं स्वस्य च [भा।पु। ३.२.१२] इत्य्-आदि-वचन-प्रामाण्येन पूर्वतस् तेनाप्य् अधिक-सौन्दर्य-प्रकटनाद् इति भावः । प्रीत इति भाव-विशेषं द्योतयति । किं वा, नर्म-विशेषस्य वक्तव्यत्वात् स्मयन् स्मयमानः, अनन्य-गतिम् अपि ताम्, सम्यग् वाग्-भङ्ग्य्-आदिना आबभाषे, यतो हरिनादिना प्रिय-जनानां धैर्यादि-हर इति भावः । यद् वा, इति पृथक् पदं खेदे, तां प्रति तादृग्-उक्तेर् अयोग्यत्वात् । तच् च वक्ष्यत्य् एव—अतद्-अर्हाम् [भा।पु। १०.६०.२८] इति ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् इति । रूपिणीं वैकुण्ठ-लोकादौ लक्ष्मी-रूपादेर् अप्य् अधिक-रूप-शालिनीम् इत्य् अर्थः । प्रशंसायां मत्व्-अर्थीयः । तत्र हेतुः—या इति । विस्मापनं स्वस्य च [भा।पु। ३.२.१२] इत्य्-आदि-वचन-प्रामाण्येन तेनाप्य् अधिक-सौन्दर्य-प्रकटनाद् इति भावः । अत्र [लीलया इति कर्तृ तृतीयान्तं] प्रीत इति भाव-विशेषं द्योतयति । अत एव नर्म-विशेषस्य वक्तव्यत्वात् स्मयन् स्मयमानः अनन्य-गतिम् अपि ताम् सम्यक् वाग्-भङ्ग्य्-आदिना बभाषे यतो हरिः, नर्मादिना प्रिय-जनानां धैर्यादि-हर इति भावः । यद् वा, इति पृथक् पदं खेदे तां प्रति तादृग्-उक्तेर् अयोग्यत्वात् । तच् च वक्ष्यत्य् एव—अतद्-अर्हाम् [भा।पु। १०.६०.२८] इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तां रूपिणीम् इत्य्-आदि । रूपिणीं रूपवतीं श्रियम्, अस्मिन्न् एव शरीरे श्री रूपवती बभूवेत्य् अर्थः । एवम्भूतां तां निरीक्ष्य हरिर् आबभाषे इत्य् अन्वयः । तां काम् इत्य् आह—या लीलया लीला-देव्या धृता आलिङ्गिता तनुर् यस्य, तथा-भूतस्य हरेर् अनुरूप-रूपया अनुरूपं यस्याः । अथवा, या अनुरूप-रूपा अर्थात् हरेर् एव तनोः श्रियं कान्तिर् लीलया सह, रूपिणो\ऽधृत-तनु-कान्तिस् तनु-लीला-रूपवती यस्या इत्य् अर्थः । तां हरिर् आबभाष इत्य् अन्वयः । श्रियं कीदृशीम् ? अनन्य-गतिम्, न विद्यते\ऽन्यत्र गतिर् यस्याः । तत्रैव सर्वतो-भावेन वर्तमानाम् इत्य् अर्थः । स्मयन् इति सोपहासम्, प्रीत इति सौन्दर्य-दर्शनेन ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां निरीक्ष्य हरिर् आबभाषे इत्य् अन्वय, रूपिणीं श्रियं वैकुण्ठस्थायाः श्रियः सकाशाद् अपि बहु-सौन्दर्यवती भूम्नि मत्व्-अर्थीयः । तत्र हेतुः—या इति—

देवत्वे देव-रूपा सा मानुषत्वे च मानुषी । > विष्णोर् देहानुरूपां वै कारोत्य् एषात्मनस् तनुम् ॥ [वि।पु।]

इति पराशरोक्तेः वैकुण्ठ-नाथाद् अप्य् अधिक-सौन्दर्यवतः कृष्णस्य कान्ता सापि तत्रत्य-श्रियो\ऽप्य् अधिक-सौन्दर्यवतीत्य् अर्थः । स्मयन् स्मयमान इति—“सर्व-प्रकारेण मद्-अनुरूपाया अप्य् अस्याः, स्वस्या अननुरूपत्वं युक्त्या प्रदर्श्य परिहसामि । तत इयं किं वदेत्? तद् अहम् अद्य शृण्वानि” इति भावः । अलकैः कुण्डलाभ्यां निष्कालङ्कृत-कण्ठेन च चतुर्-दिक्षु शोभिते वक्त्रे उल्लसन्ती स्मित-सुधा यस्यास् ताम् ॥९॥


॥ १०.६०.१० ॥

श्री-भगवान् उवाच—

राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः ।
महानुभावैः श्रीमद्भी रूपौदार्य-बलोर्जितैः ॥**

स्रीधर- सर्व-गुण-युक्तापि तव बुद्धिर् मन्देत्य् आशयेनाह—राज-पुत्री इत्य्-आद्य्-एकादशभिः । हे राजपुत्रि ! लोक-पालानाम् इव विभूतिर् ऐश्वर्यं येषां, तैस् तथा महा-प्रभावैर् आढ्यैः रूपादिभिर् ऊर्जितैश् च पूर्वम् ईप्सितासि ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधिक्षिपति—सर्व-गुण- इत्य्-आदिना । न हि राज-पुत्रं विना राज्य-पुत्र्य्-अन्य-योग्या भवतीति सम्बुद्ध्य्-आशयः । अत्रायं भगवतो\ऽग्रिम-वाक्-प्रदृष्ट्या भावो\ऽधिगम्यते—एकेनैव तरु-कुसुमेन अस्यै दत्तेन सत्यभामा तादृश-मान-कोप-रस-वर्षिण्य् अभूद्—"यथा मया पाद-पतनादिभिर् अप्य् उपशमयितुम् अशक्या, दत्तेन तद्-वृक्षेणैव प्रसादिता, इयं रुक्मिणी तु तद्-वृक्ष-दान-दर्शनेनापि न कोपं व्यञ्जयामास । तद् अस्या असम्भावित-मानायाः परम-गम्भीरायाः प्रियंवदाया रोषोक्ति-माध्वीकं कथम् अहं लभेय ?" इति विमृश्य खल्व् इयम् उक्तिर् एवास्याः कोपम् उत्पादयिष्यतीति निरचैषीद् भगवान् इति केचिद् आहुः ।

अन्ये तु—"नायकेन प्रेम-वृक्षस्योन्मूलने कृते सति प्रेमवती नायिका कीदृशी भवेत्" इति दिदृक्षैव भगवत आसीद् इति तत्त्वम् इत्य् आहुः । “प्रिये ! त्वम् आत्मनः परम-बुद्धिमत्त्वं मन्यसे, वस्तुतस् तु सम्पूर्ण-साद्गुणवत्या अपि स्वार्थानभिज्ञायास् तव बुद्धिर् एवैकात्यल्पीयसी भवति कथम् ? इति चेत्, श्रूयताम् इत्य् एकादशभिर् आह—हे राज-पूत्रि इति । त्वं राज्ञः पुत्री, अहं तु वसुदेवस्याकिञ्चनस्य पुत्रो\ऽतः कस्माद् अस्मान् मां ववृषे वृतवत्य् असि । स-विशेषणस्य बहुत्वम् आर्षम् । न च गत्य्-अन्तराभावात् त्वाम् अहं वृतवत्य् अस्मीति वाच्यम्, भूपैर् ईप्सिता असि । न च ते भूपा मत्तो विभूति-रूप-गुणादिभिर् न्युनाः इत्य् आह—लोक-पाल-विभूतिभिर् इति । श्रीमद्भिर् इति न तु रन्तिदेवाद्यैर् इव धन-समृद्धि-भोग-रहितैर् इत्य् अर्थः ॥१०-११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : राज-पुत्री इति सोत्प्रास-परम् ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राज-पुत्रि ! इति सर्व-गुण-रूपादि-सम्पत्तिः सूचिता । अत एव भूपैर् ईप्सिता आसीः । यद् वा, आत्म-तुल्यम् एव वरीतुम् अर्हसीति भावः । श्रीः सम्पत् शोभा वा, तद्भिः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र स्ववरणे कारणम् अज्ञातम् इव पृच्छन्न् आह—राज- इति त्रिकेण । हे राज-पूत्रि ! इति सर्व-गुण-रूपादि-सम्पत्तिः सूचिता । अत एव श्री-हरि-वंश-प्रोक्ते प्राचीने स्वयं-वरोद्यमे भूपैर् ईप्सितासि महानुभावैर् महा-प्रभावैः श्रीमद्भिर् आढ्यैः । यद् वा, श्रीः सम्पत् शोभा च तद्भिः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याखातम्।


जीव-गोस्वामी (प्रीति-सन्दर्भः ३८६) : यासां खलु प्रणयः स्व-प्रवाहाद्य्-उद्रेकेन स्वरसावर्त-रूपं कौटिल्यं स्पृशन्-मानाख्य-प्रीति-विशेषतां प्राप्नोति । तासाम् एव मानाख्य-विप्रलम्भोऽपि शुद्धो जायते ।

ततोऽन्यासां पुनर्-हेतु-लाभेऽपि विषाद-भय-चिन्ता-प्राय एव जायते । यथा श्री-रुक्मिणीं प्रति श्री-कृष्णस्य स-प्रणय-परिहास-वचनमयेऽध्याये तद् वृत्तम् । तत्र श्री-कृष्णस्य स-कौतुकोऽयम् अभिप्रायः—"इयं खलु सरल-प्रेमवती परम-गाम्भीर्यवती च । ततो ममाभीष्टः प्रिया-कोप-विलासः प्रेम-निर्बन्ध-प्रकाशक-स-विकार-कण्ठोक्ति-विशेषो वा नास्यां स्फुटम् उपलभ्यते । तस्मात् कोप-विलासो वा तज्-जननाभावे तु तादृशोक्तिर् वा यथास्यां प्रकाशते, तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप-जनने भ्रातृ-वैरूप्यादिकम् अपि कारणं नासीत्, तस्यां तत्रान्यत् परमायोग्यम् एव किन्तु मद-विश्लेष-सुखम् एवास्याः सर्वस्वम् इति तद्-दर्प-न्यक्कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत्, तथापि मद्-विश्लेष-भयेन पूर्वानुरागवद् अधुनापि विकार-विशेष-सहित-निगदेनैव प्रेम-निर्बन्धं प्रकाश्येत" इति । तथा हि तत्र तां रूपिणीम् [भा।पु। १०.६०.१०] इत्य्-आदौ, प्रीतः स्मयन् इत्य् अनेन व्यक्तम् । परिहासमयत्वं तु विशेषतोऽप्य् उक्तम् । प्रसङ्गेन तस्याः प्रेम-सारल्यादि-द्वयम् अपि—

तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् । > हास्य-प्रौढिम् अजानन्त्याः करुणः सोऽन्वकम्पत ॥ [भा।पु। > १०.६०.२५] इति ।

हास्यं परिहासः । तत्र प्रौढिः अवश्यम् एनां सरल-प्रेमाणम् अपि गम्भीराम् अपि क्षोभयिष्यामीति गर्वः । तां प्रणय-रस-कौटिल्याभावेन अजानन्त्या इत्य् अर्थः । एवम् अग्रेऽपि हास्य-प्रौढि-भ्रमच्-चित्ताम् [भा।पु। १०.६०.२८] इत्य् उक्तम् ।

तत्र तेन परिहासेन कोप-विलासादि-दर्शनम् एवाभीष्टम् इति स्वयम् एवोक्तम्—

मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् । > त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥ > मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् । > कटाक्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥ > अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् । > यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ [भा।पु। > १०.६०.२९-३१] इति ।

अत्र यद्यपि तस्याः प्राग् भयम् एव वर्णितं, तथापि तत्रासूया-प्रयोगः प्रोत्तम्भनार्थ एव । तत्-प्रयोगेण हि स्वस्य तद्-अधीनताक्षिप्यते । अत एव "भामिनि" इत्य् अपि सम्बोधितम् ।

अथ तस्य प्रेम-निर्बन्ध-प्रकाशक-विकार-दर्शनेच्छापि प्राक्तनेनैव वाक्येन व्यक्ता । तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् [भा।पु। १०.६०.२५] इत्य् अनेन । तथा निगदेनैव तद्-व्यक्ति-दर्शनेच्छा स्वयम् एव व्यञ्जिता—साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्रि प्रलम्भिता [भा।पु। १०.६०.४९] इति । पूर्वं हि त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा [भा।पु। १०.६०.३८] इत्य्-आदिकं तयापि निगदितम् अस्ति । अत्र परिहास-ज्ञानानन्तरं तद्-दिदृक्षिता किञ्चित् कोप-व्यक्तिश् च जातास्ति—जाड्यं वचस् तव गदाग्रज [भा।पु। १०.६०.४०] इत्य्-आदिषु । जाड्यस्य प्राचुर्य-विवक्षया जाड्यम् एव वच इति सामानाधिकरण्येनोक्तम्, माधुर्यम् एव नु मनो-नयनामृतं नु [कर्णामृत ६८] इतिवत् ।

अथ तद्-अविश्लेष-दर्प-न्यक्-कार एव तत्-क्षोभे हेतुर् इत्य् अत्रापि श्री-शुक-वाक्यम्—

एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव > मन्यमानां अविश्लेषात् तद्-दर्पो-घ्न उपारमत् ॥ [भा।पु। १०.६०.२१] > इति ।

अन्यस्य च तत्र हेतुत्वं स्वयम् एव निराकृतम्—

भ्रातुर् विरूप-करणं युधि निर्जितस्य > प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् । > दुःखं समुत्थम् असहोऽस्मद्-वियोग-भीत्या > नैवाब्रवीः किम् अपि तेन वयं जितस् ते ॥ [भा।पु। १०.६०.५६] इति > ।

अत्र च प्रकरणे तस्याः प्रणयस्यापि तादृशत्वाभावात् मानायोग्यत्वम् अपि दर्शितम् । तस्मात् साधूक्तं—"यासां खलु प्रणयः" इत्य्-आदि ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रायं भगवतो\ऽग्रिम-वाक्य-दृष्ट्या भावो\ऽधिगम्यते । “एकेनैव द्युतरु-कुसुमेनास्यै दत्तेन सत्यभामा तादृश-मान-कोपोक्ति-रस-वर्षिण्य् अभूत् । यथा मया पाद-पतनादिभिर् अप्य् उपशमयितुम् अशक्या, दत्तेन तद्-वृक्षेणैव प्रसादिता । इयं रुक्मिणी तु तद्-वृक्ष-दान-दर्शनेनापि न कोपं व्यञ्जयामास । तद् अस्या असम्भावित-मानायाः परम-गम्भीरायाः प्रियंवदायाः रोषोक्ति-माध्वीकं कथम् अहं लभेय ?” इति विमृश्य खल्व् "एवम् उक्तिर् एवास्याः कोपम् उत्पादयिष्यति" इति निरचैषीत् भगवान् इति केचिद् आहुः । अन्ये तु “नायकेन प्रेम-वृक्षस्योन्मूलने कृते सति प्रेमवती नायिका कीदृशी भवेत् ?" इति दिदृक्षैव भगवत आसीद् इति तत्त्वम् इत्य् आहुः । ततश् च प्रिये त्वम् आत्मनः, परम-बुद्धिमत्त्वं मन्यसे । वस्तुतस् तु सम्पूर्ण-सर्व-साद्गुण्यवत्या अपि स्वार्थानभिज्ञायास् तव बुद्धिर् एवैकात्यल्पीयसी भवति । कथम् ? इति चेत्, श्रूयताम् इत्य् आहैकादशभिः ।

हे राज-पुत्रि ! त्वं राज्ञः पुत्री । अहं तु वसुदेवस्य अकिञ्चनस्य पुत्रः । अतः कस्माद् अस्मान् नो ववृषे वृतवत्य् असि ? स-विशेषणस्य बहुत्वम् आर्षः । न च गत्य्-अन्तराभावात् त्वाम् अहं वृतवत्य् अस्मीति वाच्यं । भूपैर् ईप्सितापि न च ते भूपा मत्तो विभूति-रूप-गुणादिभिर् न्यूना इत्य् आह—लोकपाल इत्य्-आदि । श्रीमद्भिर् इति न तु रन्तिदेवाद्यैर् इव धन-समृद्धि-भोग-समृद्धि-रहितैर् इत्य् अर्थः । न च ते तदानीं दूरे स्थिता इत्य् आह—प्राप्तान् इति । न च बन्धूनां तत्रासम्मतिर् इत्य् आह—भ्रात्रा पित्रापि दत्ता वाग्दत्तवेत्य् अर्थः । किं च, क्षत्रियजातेमम भीरुत्वलक्षणम् महादोषम् अपि त्वं नाद्राक्षीर् इत्य् आह राजभ्य इति नच भीतत्वेषि मम शिष्टत्वम् अस्तीत्य् आह बलवद्भिर् इति प्राय ग्रहणात् द्वित्रेवार्जुनादिभिर्मैत्र्यं नतु बहुभिः किं च, यादवत्वात् न्यायतो राजत्वाभावेऽपि कंस-वधात् यत् प्राप्तं राजत्वं तद् अपि उग्रसेनाय दत्वा त्यक्तम् इत्य् आह त्यक्तेति ॥१०-१२॥


॥ १०.६०.११-१२ ॥

तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मर-दुर्मदान् ।
दत्ता भ्रात्रा स्व-पित्रा च कस्मान् नो ववृषेऽसमान् ॥**

राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् ।
बलवद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् हित्वा नो\ऽस्मान् असमानान् कस्माद् ववृषे वृतवती त्वम् ॥११ ॥ प्रायशो राजभ्यो जरासन्धादिभ्यो बिभ्यतो भयं प्राप्नुवतः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थिनस् त्वद्-इच्छावतः । स्मर-दुर्मदान् युवानः । अस्मान् सर्वथा त्वत्-सादृश्य-रहितान् । दत्ता वाचा दत्ता । न च ते तदानीं दूरे स्थिता इत्य् आह—प्राप्तान् इति । न च बन्धनां तत्रासम्मितिर् इत्य् आह—भ्रात्रा पित्रा अपि वाग् दत्त्वा इत्य् अर्थः । स्व-पित्रा इत्य् अत्र स्व-शब्देन कन्यायाः पित्रधीनतोक्ता ॥११॥

न केवलं त्वद्-असमाः, किं तु नृपान्तर-समा अपि नेत्य् आह—किं च इति । प्रायः-पदेन न सर्वथेत्य् अर्थो बोध्यः, वज्रं तत्राभ्यषेचयत् [११.३१.२५]1 इत्य्-आद्य्-उक्तेः । किं च, क्षत्रिय-जातेर् मम भीरुत्व-लक्षणं महा-दोषम् अपि त्वं नाद्राक्षीर् इत्य् आह—राजभ्य इति । न च भीरुत्वे\ऽपि मम शिष्टत्वम् अस्तीत्य् आह—बलवद्भिर् इति । प्रायो-ग्रहणाद् द्वित्रैर् एवार्जुनादिभिर् मैत्र्यं, न तु बहुभिः । किं च, यादवत्वाम्नायतो राजत्वाभावे\ऽपि कंस-वधात् प्राप्तं यद् राजत्वं, तद् अप्य् उग्रसेनाय दत्त्वा त्यक्तम् इत्य् आह—त्यक्त- इति ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राप्तान् स्वयम् एव गृहागतान् । तत्र अर्थिनः, त्वां याचमानान् । तत्रापि स्मरेण दुर्मदान् अत्यर्थं मत्तान् । अपि । तत्रापि भ्रात्रा स्व-पित्रा अपि दत्तास्व-शब्देन कन्यायाः पित्र्-अधीनतोक्ता । एवं यथोत्तरं भूपानां त्यागायोग्यानां चासमान् अयोग्यान् । किं वा, आत्मनो\ऽसदशान् । यद् वा, भूपैः सह असमान्, इत्य् आत्मनो लोक-पाल-विभूत्य्-आदि-राहित्यम् उक्तम् । अतस् तत्-तद्-वैपरीत्यम् अस्य व्याख्येयम् । नः इति बहुत्वेन श्री-बलदेवादीन् सर्वान् एव यादवान् सङ्गृह्णाति । न च मन्तव्यम्, यादवानां मद्-बन्धूनां मध्ये को\ऽपि तादृशो\ऽस्ति, यत्-सम्बन्धाद् अहं वरीतुं योग्यो\ऽस्मीति भावः ॥११॥

किं च, भयादि-दोषाद् अपि वरण-योग्या न भवाम इत्य् आह—राजभ्य इति । तेभ्यो भयाद् एव समुद्रम् आश्रितान् । कुतस् तेभ्यो भयम् इत्य् अपेक्षायाम् आह—बलवद्भिः तैः सहेति । तैः कृतो द्वेषो येष्व् इति वाक्ये\ऽपि स एवार्थः ।

ननु, भवन्तोऽपि बलिनः ? तत्राह—त्यक्त- इति । राजत्वाभावेन सैन्याद्य्-अभावात् । यद् वा, राज-परिच्छदाभावेनापि । किं वा, राज-पुत्री राज-पुत्रस्यैव योग्येति न वरण-योग्या इत्य् आह—त्यक्त- इति । प्राय इति कदाचिन् महाराज-परिच्छदाद्य्-अङ्गीकारात् । एवम् अस्य सर्वैर् अप्य् अन्वयः। सुभ्रु ! हे सुन्दरीति सौन्दर्यम् एव तवास्ति, न तु को\ऽपि विचार इति भावः । एवम् अग्रे\ऽन्यत्रापि ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राप्तान् स्वयम् एव गृहागतान् । तत्र च अर्थिनः त्वां याचमानान् । तत्रापि स्मरेण दूर्मदान् अतिमत्तान् अतिपरिहासो\ऽयं च अपि तत्रापि भ्रात्रा स्व-पित्रादत्ता चैद्यायेति शेषः । स्व-शब्देन कन्यायाः पित्र्-अधीनतोक्ता । एवं यथोत्तरं भूपानां त्यागायोग्यता च असमान् आत्मनस् तेषां वास-दशान् । इति बहुत्वम् अस्मद् द्वयोश् च [पा। १.२.५९] इति वचनात् । यद् वा, नः मद्-आदीन् यादवान् ववृषे पत्य्-आदि-रूपेणाङ्गीचकर्थ परोक्ष-निर्देशस् तथैव वृतत्वात् अन्यथाहम् आप न्यावारयिष्यम् इति भावः ॥११ ॥

असमत्वे हेतुः—राजभ्य इति । तथाप्य् असमर्थ-स्व-दुरन्त-कारिता इति न्यायेन बलवद्भिस् तैः सह तव हरणादिना कृतो\ऽनुवर्तितो द्वेषो यैस् तान् । किं च, ते भूपाः, वयं तु नेत्य् आह—त्यक्त- इति । प्राय इति [हरिवंश-प्रोक्तस्य] स्वस्य राजेन्द्राभिषेकस्य क्षण-मात्र-स्वीकाराभिप्रायेण उग्रसेनादीनां च तद्-अङ्गीकारो बलाद् इवेति च । हे सुभ्रु ! इति तच्-छ्रवणात् तस्या भ्रू-कौटिल्य-दर्शनेन तादृश-स्फूर्तेः स्तुति-पूर्वकम् एवोपालम्भस्य प्रारब्धत्वाच् च। एवम् उत्तरत्रापि ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : राजपुत्रि ! इत्य्-आदि । राजपुत्रि इति सोत्प्रास-परम् ॥११-१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या।


॥ १०.६०.१३ ॥

अस्पष्ट-वर्त्मनां पुंसाम् अलोक-पथम् ईयुषाम् ।
आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्पष्ट-वर्त्मनाम् अविज्ञाताचाराणाम् । अलोक-पथम् अस्त्री-पारतन्त्र्यम् । पदवीं मार्गम् । आस्थिता अनुसृताः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रायः-पदं पूर्वोक्तार्थ-परम् । अस्त्री-पारतन्त्र्यं वनितानुकूल्य-वर्जितम्॥१३॥ अतः परं वैष्णव-तोषणी उद्धृता।


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोक-वैलक्षण्येनापि न वरण-योग्या भवाम इत्य् आह—अस्पष्टेति । प्रायो बाहुल्ये, सदैव सर्वथा सीदन्ति इत्य् अर्थः । किं वा, प्रायः इत्य् आश्रिताः पातिव्रत्याद्य्-अभावेन ईषद् आश्रितास् तु न सीदन्ति, अतो\ऽत्यन्तासक्त्या मद्-आश्रयणेन त्वं दुःखं प्राप्स्यसीति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रोत्तरम् अलभमानः साक्षाद् एव तद् आक्षिपन्न् इव स्त्री-मात्रस्यापि मादृश-भजनम् अयुक्तम् इत्य् आह—अस्पष्ट- इति । क्वचित् पर-दार-सेवादि-दर्शनेन, क्वचिद् वैदिकाचार-दर्शनेनायं किं नास्तिक आस्तिको वा ? आस्तिकत्वे\ऽपि क्वचिद् यज्ञाद्य्-अर्थ-मृगयादि-दर्शनेन, क्वचिन् मुचुकुन्दादौ तन्-निन्दा-दर्शनेन च । किं प्रवृत्तो निवृत्तो वा ? इत्य्-आदि न स्पष्टं न सुबोधं वर्त्म अदुष्ट-हिताचरणं येषाम्, तथा लोक-पथं स्त्री-पुत्राद्य्-अपेक्षादि-लक्षणं दृष्ट-हिताचरणं नतं प्राप्नुवन्तं स्त्रियाः पुरतस् तद्-भ्रात्र्-आद्य्-अपमानात् जात-मात्र-पुत्राद्य्-अरक्षणाच् च । प्रायो वितर्के, बाहुल्ये वा । यच् च काश्चिन् न सीदन्ति, तत् तासाम् एव गुण इत्य् अपि तादृशीभिर् वयम् अभजनीया एवेति भावः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वर्त्म अदृष्ट-हिताचरणम् । लोक-पथो दृष्ट-हिताचरणम् भव आयतिर् उत्तर-कालो भवितव्यत इत्य् अर्थः ॥१३-२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्पष्ट-वर्त्मनां कदाचित् पर-दार-ग्रहणेन, कदाचिद् वैदिकाचारवत्त्वेन च वयम् अधार्मिका धार्मिका वेत्य् अस्पष्ट-वर्त्मनां, भार्याया अपि अग्रतस् तद्-भर्तुर् अवमानत्वान् न लोक-पथम् अपि ईयुषाम् अस्मद्-विध-जनानां पदवीम् आस्थिता धार्मिका अनुसृताः सीदन्ति प्राय-प्रहणात् काश्चित् यन् न सीदन्ति, तत् तासाम् एव गुण इति भावः ॥१३॥


॥ १०.६०.१४ ॥

निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः ।
तस्मात् प्रायेण न ह्य् आढ्या मां भजन्ति सुमध्यमे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, निष्किञ्चना इति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज-नैःस्वं द्योतयति—किं च इति । निरव्ययम् अभावे । निष्किञ्चना अकिञ्चना । यतो\ऽकिञ्चन-प्रियाः, तस्माद् धेतोः । प्रायेणेत्य्-उक्तेर् ध्रुवाम्बरीषादय आढ्या भजन्त्य् अपीत्य् अर्थः । किं च, आढ्य-मात्रस्यापि न मद्-भजनम् आचार-मात्र-प्राप्तम् इत्य् आह—उदासीना वयं नूनम् [भा।पु। १०.६०.२०] इति वक्ष्यमाणानुसारेण न विद्यते किञ्चन येषां ते वयं मत्-प्रधाना इत्य् अर्थः । किं च, निष्किञ्चन-जनानां प्रियाः । यद् वा, निष्किञ्चन-जन एव प्रिया येषां ते । शश्वन् नित्यम्, अस्योभयतो\ऽप्य् अन्वयः । प्रायेण इत्य् आढ्यत्वे\ऽप्य् अन्तर्-विरक्तान् वर्जयित्वेति भावः । वस्तु-मात्रे\ऽप्य् आसक्ति-भावानिष्किञ्चना एवेति भावः । अतो मां तेषु प्रधानं सुतरां न भजन्ति इत्य् अर्थः । अतो महाराज-पुत्र्यास् तव आढ्यत्वेन अन्तर्-वैराग्यासम्भवेन सुतरां मद्-भजनम् अयुक्तम् इति भावः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धनाद्य्-अभावेनापि न वयं वरण-योग्याः । यद् वा, निष्किञ्चनत्वेन मम निष्किञ्चन-जना एव प्रियाः, न तु विभूतिमन्तो राजन्यादय इत्य् आह—निष्किञ्चना इति ।

ननु, स्वतो मास्तु धनादिकम्, प्रिय-जन-धनादिनापि तत्-सत्ता सम्भवेत् ? तत्राह—निष्किञ्चना इति, निष्किञ्चन-जनानां प्रियाः । किं वा, निष्किञ्चन-जना एव प्रिया येषां ते । शश्वन् नित्यम् इत्य् अर्थः । अस्योभयतो\ऽप्य् अन्वयः । पक्षान्तरे चार्थः स्पष्ट एव । नैव प्रायेण इति धनादि-वृद्ध्य्-अर्थं कदाचित् केनचिद् आढ्येनापि भजनात् । अतस् तवाढ्यत्वेन धनादि-वृद्ध्य्-अनपेक्षया च मद्-भजनम् अयुक्तम् इति भावः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च—आढ्य-मात्रस्यापि मद्-भजनं नाचार-प्राप्तम् इत्य् आह—उदासीनां वयं नुनम् इति । वक्ष्यमाणानुसारेण न विद्यते किञ्चन येषां ते। वयं मत्-प्रधाना इत्य् अर्थः । किं च, निष्किञ्चन-जनानां प्रियाः । यद् वा, निष्किञ्चन-जना एव प्रिया येषां ते । शश्वन् नित्यम् अस्योभयतो\ऽप्य् अन्वयः । अतो मां तेषु प्रधानं सुतरां न भजन्तीत्य् अर्थः । प्रायेण इति आध्यत्वे\ऽप्य् अन्तर्-विरक्तान् वर्जयित्वेति भावः । अतो महाराज-पुत्र्यास् तवाढ्यत्वेनान्तर्-वैराग्यासम्भवेन च मद्-भजनम् अयुक्तम् इति भावः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्किञ्चना इति वस्तु-मात्रेऽप्य् आसक्त्य्-अभावाद् इति भावः ॥१४॥


॥ १०.६०.१५ ॥

ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः ।
तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-समं परस्परम् अनुरूपम् । जन्मैश्वर्याभ्यां सहिता आकृतिः रूपं जातिर् वा समा । भव आयतिः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मया तव विवाहस् तु सर्वथानुचित एवेत्य् आह—ययोर् इति । आत्मना समं परस्परार्थकम् अत्रात्म-पदम्, ययोर् इति सान्निध्यात् । सन्निधेर् अप्य् अर्थ-ग्राहकत्वम् उक्तम्—वाक्य-वाच्यान्य-सन्निधेः प्रस्ताव-देश-कालादेः [का।प्र। ३.१-२] इति काव्य-प्रकाशे मम्मटेन । आकारे\ऽवयवे रूपे जाताव् आकृतिर् उच्यते इति धरणिः । आयतिस् तु स्त्रियां दैर्घ्ये प्रभावागामि-कालयोः इति मेदिनी । भवः क्षेमेश-संसारे सत्तायां प्राप्ति-जन्मनोः इति च । भव आयतिः, प्रभाव इत्य् अर्थः


किं च, सर्वेषाम् अप्य् एवम् एव युक्तम् इत्य् आह—ययोर् इति । तयोर् एव युज्यत इति शेषः । अन्यत् तैः । तत्र आयतिर् उत्तर-कालो भवितव्यतेत्य् अर्थः । तज्-ज्ञानं च ज्योतिः शास्त्रादिना । सम-काल-जन्मना वयो\ऽभिप्रेतम् । न केवलं विवाहः । मिथः सौहार्दम् अपि तयोर् एव स्याद् इत्य् आह—मैत्री च, मैत्र्य् अपि व्यतिरेकेण । तद् एव द्रढयति— इति । क्वचित् कस्मिंश्चिद् देशे काले वा ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैषम्येण लोक-व्यवहार-विरोधाल् लज्जादिनापि न वयं वरण-योग्या इत्य् आह—ययोर् इति । आकृतिः रूपं भवश् चोत्पत्तिर् इति सम-काल-जन्मना वयो\ऽभिप्रेतम्, मैत्री चेति दृष्टान्तत्वेन । यद् वा, न केवलं विवाहः, मिथः सौहार्दम् अपि तयोर् एव स्याद् इत्य् आह—मैत्री इति । अपि मैत्र्य् अपि, अन्यथा तु न स्याद् एव, विरुद्धत्वाद् इति । उक्तार्थम् एव द्रढ्यति— इति । एको जनो धनादि-सम्पत्त्योत्तमः, परश् च तद्-अभावेनाधमः, तयोः । क्वचित् कस्मिंश्चिद् देशे काले वा ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं तु सर्वेषाम् अप्य् एवम् एव युक्तम् इत्य् आह—ययोर् इति । ययोर् एव युज्यत इति शेषः । अन्यत् तैः । तत्र आयतिर् उत्तर-कालो भवितव्यतेत्य् अर्थः । तज्-ज्ञानं च ज्योतिः-शास्त्रादिना । यद् वा, जन्म जातिः आकृतिः रूपं, भवश् चोत्पत्तिर् इति सम-काल-जन्मना वयो\ऽभिप्रेतं । मैत्री इति दृष्टान्तत्वेन । यद् वा, न केवल विवाहः मिथः सौहार्दम् अपि तयोर् एव स्याद् इत्य् आह—मैत्री इति । अपि, मैत्र्य् अपि व्यतिरेकेण । तद् एव द्रढयति— इति । क्वचित् कस्मिंश्चिद् देशे काले वा ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तव मद्-भार्यात्वं नोपपद्यत इत्य् अत्र नीति-शास्त्र-वाक्यं शृण्व् इत्य् आह—ययोर् इति । तव पितृ-पैतामह-बहुध-नवत्वात् बहूनि वित्तानि, मम तु पितुर् वसुदेवस्य वित्ताभावान् मद्-उपार्जितम् एवेदं यत् किञ्चिद् वित्तं जन्मेति त्वं महा-कुल-प्रसूता, अहं यादवत्वाद् अकुलीनः ऐश्वर्यम् इति तव विदर्भ-देशस्थ-कुण्डिनादि-बहु-नगरेष्व् अधिकारः । ममत्वानर्त-देशस्थायाम् एकस्यां द्वारका-नगर्याम् एव । आकृतिर् इति त्वं गौरी, अहं तु काल । ऐश्वर्येण सहाकृतिर् ऐश्वर्याकृतिः । भव इति, भवः क्षेमेश संसारे इत्य् अभिधानात् त्वं सदा कल्याण्य् एव । मम तु कल्याणवत्त्वं बहु-शत्रुकत्वात् सन्दिग्धम् एवेति ॥१५॥


॥ १०.६०.१६ ॥

वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया ।
वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :दीर्घा समीक्षा विचारो यस्यास् तया ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् वित्त-जन्मादि । मुधा वितथे । उपसंहरति—वैदर्भी इति । एतत् सर्वं पूर्वोक्तम् अविज्ञाय अविचार्य ।

ननु, स्वैः सद्-गुणैर् युक्ता एव यूयं, तच् च श्रुत्वा गुणान् [१०.५२.३७] इत्य्-आदिना विज्ञापितम् एव तत्राह—भिक्षुभिर् इति । याचकैर् धनादि-लोमेनैव श्लाघिता इत्य् अर्थः । वैदर्भी इति दूर-देशोद्भवत्वात् तद्-वारका-मात्र-श्रवणम् अभिप्रेतम् ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अविज्ञाय अविचार्य, हे वैदर्भी इति दाक्षिणात्यत्वेन वैदग्ध्यादिकं सूचितम्, तथापि अदीर्घ-समीक्षया । ननु, सर्व-सद्-गुण-गणैर् युक्ता यूयम्, तच् च श्रुत्वा गुणान् [भा।पु। १०.५२.३७] इत्य्-आदिना मया लिखितम् एव ? तत्राह—भिक्षुभिर् इति । याचकैर् धनादि-लोभेनेतस् ततः श्लाघ्यामान इत्य् अर्थः । न च वक्तव्यम्, तेभ्यो धनादि-दानेनापि वदान्यत्व-महा-गुणः स्याद् इति । यतो मुधा धनाद्य्-अलाभेनापि केवल-त्वादृशीषु तल्-लोभेन श्लाघिता इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरति—वैदर्भि इति । एतत् पूर्वोक्तं सर्वम् अविज्ञाय अविचार्य ननु स्वैः सर्वसदगुणैर्युक्ता एव यूयं तच् च श्रुत्वा गणान् [भा।पु। १०.५२.३७] इत्य्-आदिना मया विज्ञापितम् एव तत्राह—भिक्षुभिर् इति । याचकैर् धनादि-लोभेनैव इतस् ततः श्लाघिताः इत्य् अर्थः श्लाघ्यामाना वैदर्भी इति दूर-देशोद्धवत्वात् तद् वारक-मात्र-श्रवणम् अभिप्रेतं न च वक्तव्यं तेभ्यो धनादि-दानेनापि वदान्यत्वं महा-गुणः स्याद् इति यतो मुधा धनाद्य्-अलाभेनापि2 त्वादृशीषु तल्-लोभेनैव श्लाघिता इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न दीर्घा समीक्षा विचारो यस्यास् तया ॥१६॥


॥ १०.६०.१७ ॥

अथात्मनोऽनुरूपं वै भजस्व क्षत्रिय-र्षभम् ।
येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यस्ये ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ इदानीम् अपि ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : येन अनुरूपेण । एवम् उक्तम् इव, यद् उक्तं यच् च वक्ष्यते, तत्रात्यन्तासम्भवोक्त्या तस्यां परम-कोमल-चित्तायां परिहासत्वं चातिस्फुटीकरोति । किं च, यद् अभूत् तद् अभूद् एव । तव स्थिर-यौवनत्वाद् अधुनापि काचित् क्षतिर् नाभूत् । अतो विवेकं कुर्व् इत्य् आह—अथ इति, इदानीम् अपि । वै एव । अनुरूपं सदृशम् एव ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथात्मन इत्य्-आदि । वाक्यान्तरे अथ-शब्दः । एतद् वाक्यं तु पूर्वम् एव देव्या प्रतिहत-ज्ञानया न श्रुतम्, अस्य प्रत्युत्तराभावात् । एतेनैव देहे\ऽपि स्थितः ॥१७-२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, अनुरूपं सदृशम् एव । अतः क्षत्रियेषु ऋषभं श्रेष्ठं पुरु-वंश्यादि-जातम् अर्जुनादिकम् इत्य् अर्थः । आशिषः कामान् सत्याः स्थिरा उत्तमा वा ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अयुक्तम् इव यद् उक्तं, यच् च वक्ष्यते, तत्रात्यन्तासम्भवोक्त्या तस्यां परम-कोमल-चित्तायां परिहासत्वं चातिस्फूटीकरोति । अथ इति वै एव अनुरूपं सदृशम् एव आशिषः कामान् सत्याः स्थिरा उत्तमा वा ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथात्मन इत्य्-आदि । अथ-शब्दो वाक्यान्तर-द्योतकः । तद् वाक्यं तु देव्या पूर्वम् एव प्रतिहत-ज्ञानया न श्रुतम् अस्य प्रत्युत्तराभावात् । अत्यन्तासह्यम् अप्य् एतत् तद् अश्रवणम् एव देह-सद्भावे हेतुः ॥१७-२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यद् अभूत् तद् अभूद् एव । तव स्थिर-यौवनत्वाद् अधुनापि काचित् क्षतिर् नाभूत्, अतो विवेकं कुर्व् इत्य् आह—अथ इदानीम् अपि ॥१७॥


॥ १०.६०.१८ ॥

चैद्य-शाल्व-जरासन्ध-दन्तवक्रादयो नृपाः ।
मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् इत्य् आनीताहम् ? इति चेत्, तत्राह—चैद्य-शाल्व-जरासन्ध- इति । मम मां द्विषन्ति ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयम् आशङ्क्य समाधत्ते—इति इति । आदिना पौण्ड्रकादिः । चैद्य- इत्य्-आदि तैर् अवतारितम्, तत्र चेद् इत्य् अधिकं भाति । किं च, द्वाभ्याम् इति शेषः । विशेषस् तु तव मद्-भक्ताया अग्रजोऽपीति । अत्र वर्तमान-समीप एव वर्तमानत्वम् अस्य मारितत्वेन वक्ष्यमाणत्वात् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चैद्यादीनां यथा-पूर्वं द्वेषं श्रैष्ठ्यम्, तव मद्-भक्ताया अग्रजो\ऽपि, मम इत्य् एकत्वं, द्वेष्यत्वे स्वस्याप्राधान्य-मननात् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चैद्य- इति तैर् अवतारितं । तत्र इति चेद्\॥। इत्य् अधिकम् इव भाति । किं च, आह इत्य् अस्यानन्तरं चैद्य- इत्य्-आदि-द्वाभ्याम् इति शेषः । विशेषतस् तु तव मद्-भक्ताया अग्रजोऽपीति अत्र वर्तमान-सामीप्य एव वर्तमानवत्त्वम् अस्य मारितत्वेन वक्ष्यमाणत्वात् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किम् इत्य् आनीताहम् ? इत्य् आशङ्क्याह—चैद्य- इति। मम माम् ॥१८॥


॥ १०.६०.१९ ॥

तेषां वीर्य-मदान्धानां दृप्तानां स्मय-नुत्तये ।
आनीतासि मया भद्रे तेजोऽपहरतासताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्मय-नुत्तये गर्वापनयनाय ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां चैद्यादीनाम् । स्मयो गर्वः, तस्य नुत्तये नाशाय । न च तत्र मम को\ऽपि दोषः, किं तु दुष्ट-स्वभावेनैव ते द्विषन्ति इत्य् आह—वीर्येण प्रभावेण बलेन वा यो मदो मत्तता, तेन अन्धानां हत-विवेकानाम्, अतो दृप्तानां गवितानाम् इति । अतस् तेषां स्मय-नुत्तये आनीतासि । तत्र हेतु-विशेषः—असतां तेजोऽपहरता इति । त्वद्-आनयने तद् एव प्रयोजनं, न तु त्वद्-विवाहादिकम् इति भावः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च तत्र मम को\ऽपि दोषः, किं तु दुष्ट-स्वभावेनैव ते द्विषन्तीत्य् आह—वीर्येण प्रभावेण बलेन वा यो मदो मत्तता, तेन अन्धानां हत-विवेकानाम्, अतो दृप्तानां गर्वितानां स्मय-नुत्तये । अतो हेतु-विशेषः—असतां तेजो\ऽपहरता इति त्वद्-आनयने मे तद् एव प्रयोजनम्, न तु त्वद्-विवाहादिकम् इति भावः । पाठान्तरे\ऽपि स एवार्थः । किं त्व् अस्माभिर् इति बहुत्वेनात्मनः सर्व-साधारण्य-प्रतिपादनात् तस्याम् औदासीन्यम् एव बोधयति ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च तत्र मम कोऽपि दोषः, किं तु दुष्ट-स्वभावेनैव ते द्विषन्तीत्य् आह—वीर्येण प्रभावेण बलेन वा यो मदो मत्तता, तेन अन्धानां हत-विवेकानाम् अतो दृप्तानां गर्वितानाम् इति । अतस् तेषां स्मय-नुत्तये एवानीतासि । तत्र हेतु-विशेषः—असतां तेजोऽपहरता इति त्वद्-आनयने तद् एव प्रयोजनं, न तु त्वद्-विवाहादिकम् इति भावः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मय-नुत्तये गर्वापनोदनाय ॥१९॥


॥ १०.६०.२० ॥

उदासीना वयं नूनं न स्त्र्य्-अपत्यार्थ-कामुकाः ।
आत्म-लब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर्-अक्रियाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्रीणाम् अतिदुःसहम् औदासीन्यम् अकामत्वं चाह—उदासीना इति । गेहयोर् देह-गेहयोर् उदासीनाः, अत एव ज्योतिर्-अक्रियाः ज्योतिः प्रदीपादि तद्वत् साक्षि-मात्रतया क्रिया-रहिता आस्महे वर्तामहे इति ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्य स्त्रीणाम् अयोग्यताम् आह—स्त्रीणाम् इति । उदासीना अनासक्ताः विषय-व्यापार-शून्याः, खपुष्पादिवद् अप्रसिद्धा वा । उदासीनस् त्व् अप्रसिद्धे विषयासक्ति-वर्जिते । मध्यस्थ ऊर्ध्वम् आसीने इति धरणिः । अत एवोदासीनत्वाद् एव ।

ननु, नाना-वैभव-युक्तस्य नाना-स्त्री-सङ्ग्रहवतः कुतो\ऽकिञ्चनत्वादिकम् । किं च, अस्पष्ट-वर्मत्वादिनात्मनि वा कुतो दाम्भिकत्वम् इवाङ्गीक्रियत इत्य् आशङ्क्य सर्व समादधद् एव तद्-विधानाम् अतिदुःसहम् आह—उदा- इति । नूनं निश्चये । उदासीना न तु कुत्राप्य् आसक्ता न चात्मीयेष्व् अपीत्य् अह— इति । कुतः ? आत्म- इति । आत्म-सुखेनैव सुखिन इत्य् अर्थः । गेहयोर् इत्य् एक-शेषात्, न च देहस्य गेह-सामान्येन तच्-छब्द-प्रयोगात् । ज्योतिर्-अक्रिया इति—परमात्मैक-भावेनेति भावः । तद् इदं परमार्थतः स्वस्य जीवान्तर्यामित्वापेक्षयोक्तम्, अतो देह-गेहौ चात्र जीव-सम्बन्धिनाव् अभिप्रेतौ, न तु स्व-सम्बन्धिनी, लीला-विनोदस् तु स्व-देह-गेहेषु लौकिक-ज्ञानित्वाद्य्-आरोपणायोक्तम् इति ज्ञेयम् ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं नृपाणां निर्जयादिनापि राजभ्यो बिभ्यत इत्य् एव दृढीकृतम्, दुष्टत्वेन तैः सदा छिद्रान्वेषणात् । नूनं निश्चये, उदासीनत्वादीनाम् उत्तरोत्तरं पूर्व-पूर्वस्मिन् हेतुः । आत्म-लब्ध्या स्वानन्दानुभवेन पूर्णाः । एवम् उक्तानाम् असमत्वादीनां दोषाणां यथोत्तरं वरणायोग्यत्वे श्रैष्ठ्यम् । यद्यपि अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् [ह।भ।सु। १४.२८]3 इत्य्-आदि-वचन-प्रामाण्येन तस्य भक्त-भक्त्य्-आद्य्-अपेक्षास्ति, तथापीदृश्य् उक्तिर् नर्म-परत्वाद् एव, न तु तत्त्वत इति सर्वम् एव तद् उक्तं विपरीतार्थत्वेन ज्ञेयम् ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, नाना-वैभव-युक्तस्य नाना-स्त्री-सङ्ग्रहवतः कुतो निष्किञ्चनत्वादिकं ? किं च, अस्पष्ट-वर्मत्वादिनात्मनि वा कुतो दाम्भिक त्वम् इवाङ्गीक्रियते ? इत्य् आशङ्क्य सर्वं समादधद् एव तद्-विधानाम् अतिदुःसहम् आह—उदा- इति । नूनं निश्चये । उदासीनाः, न तु कुत्राप्य् आसक्ताः, न चात्मीयेष्व् अपि इत्य् आह— इति । कुतः ? आत्म- इति आत्म-सुखेनैव सुखिन इत्य् अर्थः । गेहयोर् इत्य् एक-शेषात्, न च देहस्य गेह-सामान्येन तच्-छब्द-प्रयोगात् । ज्योतिर्-अक्रिया इति परमात्मैक-भावेनेति भावः । तद् इदं परमार्थतः स्वस्य जीवान्तर्यामित्वापेक्षायोक्तम् । अतो देह-गेहौ चात्र जीव-सम्बन्धिनाव् एवाभिप्रेतौ, न तु स्व-सम्बन्धिनौ लीला-विनोदस् तु स्व-देह-गेहेषु लौकिक-ज्ञानित्वाद्य्-आरोपणायोक्तम् इति ज्ञेयम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चान्य-भजने मम दुःखं मा शङ्किष्ठा इत्य् आह—उदासीना इति । गेहयोर् देह-गेहयोर् उदासीनाः । अत एव ज्योतिः प्रदीपादि तद्वत् साक्षि-मात्रतया क्रिया-रहिता आस्महे ॥२०॥


॥ १०.६०.२१ ॥

श्री-शुक उवाच—

एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव ।
मन्यमानाम् अविश्लेषात् तद्-दर्पोघ्न उपारमत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविश्लेषाद् धेतोः आत्मानम् एव वल्लभाम् इत्य् एवार्थे इव-शब्दः ॥२१-२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतावत् राज-पुत्रीप्सिता [१०] इत्य् आरभ्य ज्योतिर्-अक्रियाः [२०] इत्य्-अन्त-वाक्य-सन्दर्भम् । तद्-दर्पघ्नो रुक्मिणी-दर्प-हरः । **वल्लभा-**शब्दस्य परम-प्रिय-भार्यायां रूढत्व-स्वीकारेणाजहल्लिङ्गत्वाद् आत्म-तुल्याधिकरणत्वे\ऽपि स्त्रीत्वम् । तस्या दर्पो वल्लभात्वाभिमानः, तद्-घ्न इव इति नर्ममयत्वात् । तथा च वक्ष्यति हास्य-प्रौढिम् अजानन्त्याः [२५] इत्य्-आदि । तथा च स्वयम् एव वक्ष्यति त्वद्-वचः श्रोतु-कामेन क्श्वेल्याचरितम् अङ्गने [२९] इति ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतावद् इत्य्-आदि । आत्मानं वल्लभां मन्यमानां तद्-दर्पघ्न इव एतावद् उक्त्वा उपारमद् विरराम । अयम् अर्थः—न सा अहम् एव सर्वासां मध्ये वल्लभेति गर्ववतो, नाप्य् अयं तस्यास् तं दर्प हन्तुं परुषम् अवदत्, अपि तु अविश्लेषात् हेतोस् तया सह तस्य विश्लेषो नास्ति, तेन न विना विप्रलम्भेन सम्भोगः तुष्टिम् अश्नुते [उ।नी। १५.३] इति न्यायात् विप्रलम्भम् एतम् उद्भावयितुं कृत्रिम-कर्कशम् उक्तवान् इत्य् अर्थः । विप्रलम्भस्य पञ्च-प्रकारत्वात् साक्षाद् अपि ईर्ष्याख्यः स्वानन्दे विप्रलम्भः सम्भवतीति ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इव इति वस्तुतः प्रेम-भर-स्वभावान्योदयेन आत्मनः प्रायो दासीत्व-मननात् । तथा चाग्रे कुरुक्षेत्र-यात्रायां श्री-द्रौपदीं प्रति तस्य एवोक्तौ—तच् छ्री-निकेत-चरणो\ऽस्तु ममार्चनाय [भा।पु। १०.८३.८] इति । इव इत्य् अस्य परतो\ऽप्य् अन्वयः । मन्यमानाम् इव, वस्तुत उक्त-न्यायेन तादृश-मननस्याप्य् अभावात् तस्या दर्पो वल्लभाभिमानस् तद्-घ्न इव, वस्तुतो दर्पाभावात् तस्याः, नर्म-केलि-परत्वाच् च तस्य, तथा च वक्ष्यति हास्य-प्रौढिम् [२५] इत्य्-आदि । तादृशोक्तेर् हेतुः—भगवान् महा-कौतुकीत्य् अर्थः । तथा च स्वयम् एव वक्ष्यति त्वद्-वचः श्रोतु-कामेन क्ष्वेल्या-चरितम् [२९] इति ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वल्लभा-शब्दस्य परम-प्रिय-भार्यायां रूढत्व-स्वीकारेणाजहल्-लिङ्गत्वाद् आत्म-तुल्याधिकरणत्वेऽपि स्त्रीत्वं ताम् इव मन्यमानाम् इति केवलम् उत्प्रेक्षते, वस्तुतस् तु उपतस्थे सुखासीनम् [६] इत्य्-आद्य्-उक्त-रीत्या दासी-तुल्यत्वम् एव स्थाप्यते । ततश् च तस्या दर्पं सत्यभामादिवद् अहं प्रणयं प्रणय-कोपं न व्यञ्जयामि इत्य् अयम् अपि कदाचिन् नोदासिष्यत इत्य् एतम् अभिमानं स-कौतुकं हन्तीति तद्-दर्पघ्नः सन् उपारमत प्रणयस्य प्रणय-कोपस्य च दर्शन-प्रतीक्षया तूष्णीम् आसेत्य् अर्थः । तथा च वक्ष्यति श्रीमान् मुनीन्द्रः—हास्य-प्रौढिम् अजानन्त्याः [२५] इत्य्-आदि । तथा च स्वयम् एव वक्ष्यति—

त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने । > मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुम् ॥ [२९] इति ।

तद् इदं तु पुरस्ताद् विस्तारयिष्यते ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वल्लभा-शब्दस्य परम-प्रिय-भार्यां रूढत्व-स्वीकारेणाजहल्-लिङ्गत्वाद् आत्मनस् तुल्याधिकरणत्वेऽपि स्त्रीत्वं तदानिम् अपि क्रोधांशानभिव्यक्तौ स-कौतुक-तद्-भावनाय तम् आरोपयति ॥२१-३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एतावद् इत्य्-आदि । आत्मानं वल्लभां मन्यमानां तद्-दर्पघ्न इव एतावद् उक्त्वा विरराम । अयं भावः—नैषा सर्वासां मध्येऽहम् एव वल्लभेति गर्ववती । नाप्य् अयं तद्-दर्पघ्नः, अपि त्व् अविश्लेषाद् धेतोस् तया सह तस्य विश्लेषाभावाद् विप्रलम्भ-सुखानुभवो नास्ति, विप्रलम्भो रसनीयो न भवतीत्य् अस्य चानेक-विधत्वे साक्षाद्-विप्रलम्भ-रूपं प्रणय-कोपम् उद्भावयितुं स-परिहासम् एवाह, न तु वास्तवम् । तेन आत्मानं वल्लभां मन्यमानां स्त्रियं यथा तद्-दर्पघ्नः पुरुषोऽतिपरुषं वदति, तथायम् अपि परिहासेनोक्तवान् । इव-शब्द उभयत्र सम्बध्यते । न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते इति न्यायात् । विप्रलम्भार्थमयम् उद्यमः । वक्ष्यति च तद्-वचः श्रोतु-कामेन [भा।पु। १०.६०.२९] इत्य्-आदि ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वल्लभाम् इव इति सर्व-वल्लभासु श्रेष्ठाम् अपि तां परमानुरागोत्थ-स्वयोग्यत्व-मननेनैव आत्मानं वल्लभाम् इव मन्यमानाम् एतावद् उक्त्वा अविश्लेषाद् धेतोर् इति । हार्यात्वायोग्याम् अपि माम् अयं स्व-गुणेनैव सुभगां भार्यां करोति । तद् अहम् एतावद् अद्भुत-गुणार्णव-भर्तृकैवास्मीति यो दर्पस् तं हन्तीति सः । वल्लभा-शब्दस्य परम-प्रिय-भार्यावाचित्वेनोद्देश्य-विधेय-भावेनान्वयात् न पुंस्त्वम् । वल्लभा-शब्दस्य परम-प्रिय-भार्यायां रूढत्व-स्वीकारेणाजहल्लिङ्गत्वाद् आत्म-तुल्याधिकरणत्वेऽपि स्त्रीत्वं तस्या दर्पो वल्लभात्वाभिमानः, तद्-घ्न इति नर्ममयत्वात् । तथा च वक्ष्यति—हास्य-प्रौढिम् अजानन्त्याः [भा।पु। १०.६०.२५] इत्य्-आदि, तथा च स्वयम् एव वक्ष्यति—तद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितं [भा।पु। १०.६०.२९] इति वैष्णव-तोषणी ॥२१-२२॥


॥ १०.६०.२२ ॥

इति त्रिलोकेश-पतेस् तदात्मनः

प्रियस्य देव्य् अश्रुत-पूर्वम् अप्रियम् ।

आश्रुत्य भीता हृदि जात-वेपथुश्

चिन्तां दुरन्तां रुदती जगाम ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् तत्-पूर्वोक्तम् । “तदा” इति वा पाठो ज्ञेयः । तत्र यदा हरिणा ईदृग्-दुःख-करं वच उक्त्वोपरतं, तदा इत्य् अर्थः । दुरन्ताम् अपाराम् ।

अस्या रास-व्याख्यातः प्रेम-जाति-द्वये दाक्षिण्य-मय-प्रेमत्वान् मानस्य नोदयः, किं तु परिहासतायाः स्फुटत्वे\ऽपि चिन्ताया एवोदय इत्य् आह—इति इति । इत्य् एतद्-वचनम् । तदा सुख-केलि-समये । लोकेशानां ब्रह्मादीनाम् अपि पालकस्येति तस्य सर्व-परिपालकतया परुषोक्त्य्-अयोग्यता विशेषता च । आत्मनः स्वस्य प्रियस्य । स्वयं देवी सर्वासु प्रेयसीषु मुख्यतया । तथाप्य् अप्रियम् । किं च, अश्रुत-पूर्वम् इति तया दुस्तर्काभिप्रायत्वं परमासह्यत्वं चाभिप्रेतम् । अतिनैकट्यादिना सम्यक् श्रुत्वा त्याग-शङ्कया भीताहृदि इति कम्पस्यान्तरतया भयस्य गौरवं सूचितम् । चिन्ताम् अनिष्टावाप्ति-जन्य-ध्यान-लक्षणाम् । दुरन्तां दीर्घां दारुणां वा । इत्य् अव्ययम् आचारातिक्रमे ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इति इत्य्-आदि । त्रिलोकेशपतेर् अपि सैव आत्मा यस्य, स तदात्मा, तस्य तद्-आत्मनः, प्रियस्य न तु भर्तुः । अश्रुतपूर्वं तस्मिन्न् एव दिने श्रुतम् ॥२२-२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं तद्वचनम् । किं वा, इत्य् एतत् तदा तादृश-सख-केलि-समये । त्रिलोकेशानां श्री-ब्रह्मादीनाम् अपि पत्युः पालकस्येति तस्य सर्व-परिपालकतया अपकर्षोक्त-योग्यतोक्ता, विशेषतश् चात्मनः स्वस्य प्रियस्य तथाप्य् अप्रियम् । किं च, अश्रुतपूर्वम् इति दुस्तर्काभिप्रायत्वं चाभिप्रेतम्, पूर्व-श्रुतत्वे सति चिर-विचारादिना कथञ्चिद् अभिप्राय-तर्कण-सह्यत्वयोर् अपि सम्भवात् । इति नैकट्यादिना सम्यक् श्रुत्वा त्याग-शङ्कया भीता, त्रिलोकेशपतित्वाद् एव परमस्वातन्त्र्येण तस्य सर्व-सम्भवाद् इति भावः। हृदि इति—आन्तरतया कम्पस्य भयस्य च गौरवं सूचितम् । चिन्ताम् अनिष्टावाप्ति-जन्य-ध्यान-लक्षणां दुरन्तां दीर्घा दारुणां वा, यतो देवी श्री-भगवत्-प्रियतमा, अनेन सह सदा-क्रीडा-परा वा, चिन्ताया अनुभावान् आह । खेदे ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चास्या रास-व्याख्यातः प्रेम-जाति-द्वये दाक्षिण्य-मय-प्रेमत्वात् मानस्य नोदयः, किं तु परिहासतायाः स्फुटत्वेऽपि चिन्ताया एवोदयः इत्य् आह—इति इति । इत्य् एतद्वचनं तदा तादृश-सुख-केलि-समये । त्रिलोकेशानां श्री-ब्रह्मादीनाम् अपि पत्युः पालकस्य इति तस्य सर्व-परिपालकतया परुषोक्त्य्-अयोग्यता, विशेषतश् च आत्मनः स्वस्य प्रियस्य स्वयं देवी सर्वासु प्रेयसीषु मुख्यतमा तथाप्य् अप्रियं, किं च अश्रुत-पूर्वम् इति तथा दुस्ताभिप्रायत्वं परमासह्यत्वं चाभिप्रेतम् । अतिनैकट्यादिना सम्यक् श्रुत्वा त्याग-शङ्कया भीताहृदि इति कम्पस्यान्तरतया भयस्य गौरवं सूचितं । चिन्ताम् अनिष्टावाप्ति-जन्य-ध्यान-लक्षणां दुरन्तां दीर्घां दारुणां वा । इत्य् अव्ययम् आचारातिक्रमे ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इति इत्य्-आदि । त्रिलोकेशपतेर् अपि सा एव आत्मा यस्य, स तथा, तस्य । तद्-आत्मनः प्रियस्य प्रेयसः, न तु भर्तुर् एव । अश्रुतपूर्वं तस्मिन्न् एव दिने तच् छ्रुतम् इत्य् अर्थः ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.६०.२३ ॥

पदा सुजातेन नखारुण-श्रिया

भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः ।

आसिञ्चती कुङ्कुम-रूषितौ स्तनौ

तस्थाव् अधोमुख्य् अतिदुःख-रुद्ध-वाक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चिन्ता-लक्षणम् आह—पदा इति । नखैर् अरुणा श्रीः कान्तिर् यस्य, तेन सुजातेन सुकोमलेन पदा ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लक्षणं चिह्नम् । रूषितो लिप्तः, रूष सङ्गे धातुः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुजातेन इति । भूमि-लिखनायोग्यतोक्ता, तथापि तेन लिखन्ती इति दुरन्त-चिन्ता दर्शिता । एवम् अञ्जनासितैर् इति कुङ्कुमरूषिताव् इति च ज्ञेयम् । सम्यक् सिञ्चन्ती इत्य् अश्रूणां धारा सूचिता । नखारुणश्रिया इत्य् उपरि-भागेऽपि तच्-छविभिर् अरुणायितत्वात् ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पदा सुजातेन इत्य्-आदि । आभ्यां विशेषणाभ्याम्, तेन भूमि-लिखनायोग्यतोक्ता, तथापि तेन लिखन्ती इति दुरन्त-चिन्ता दर्शिता । एवम् अञ्जनासितैर् इति कुङ्कुम-रूषिताव् इति तथा शेयम् । सम्यक् शिञ्चती इति अश्रूणां धारा द्योतिता ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिन्ता-लक्षणम् एवाह—पदा इति । नखैर् अरुणा श्रीः कान्तिर् यस्य, तेन सुजातेन सुकोमलेन ॥२३॥


॥ १०.६०.२४ ॥

तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेर्

हस्ताच् छ्लथद्-वलयतो व्यजनं पपात ।

देहश् च विक्लव-धियः सहसैव मुह्यन्

रम्भेव वायु-विहता प्रविकीर्य केशान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदुःखम् अप्रिय-श्रवणात्, भयं त्याग-शङ्कया, शोकोऽनुतापः, तैर् विनष्टा बुद्धिर् यस्याः, तस्याः । श्लथन्ति पतन्ति वलयानि यस्माद् धस्तात्देहश् च पपातविक्लवा अवशा धीर् यस्याः, तस्याः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्याः रुक्मिण्याः । रम्भा कदलो रम्भा कदल्य्-अप्सरसोर्ना वेणौ वारणान्तरे इति कोशात् । सुदुःखम् अप्रिय-श्रवणात्, भयं त्याग-शङ्कया, शोकः ताभ्यां तापः, तैर् विनष्टा बुद्धिर् यस्याः । अतः परिहासो\ऽयम् इति विचारो नाभूद् इति भावः । श्लथन्ती इति सहसैव विरह-पीडोत्थाद् अतिकार्श्याद् वलयानि पेतुर् इति गम्यते । तत्र हेतुम् आह—न च केवलं विचारो नष्टश् चेतना अपीत्य् आह—विक्लव-धियः, नष्ट-चेतनापीत्य् अर्थः । ततश् च मुह्यन् इति सहसैव नवम्य् अपि दशान्तः पपात इति । स्तम्भाद् अन्तिमः प्रलयश् च सात्त्विको\ऽभूद् इति भावः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्या इत्य्-आदि । श्लथद्-वलयतो हस्ताद् व्यजनं पपात, वलयैः सह पपातेत्य् अर्थः । न केवलं व्यजनं पपात, तद्-देहश् च ॥२४-२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, स्वभावतः सदा महा-कौतुक-पर एव सः । किं च, पौत्राद्य्-उत्पत्त्य्-आदिना कश्चिद् अपि त्यागो न सम्भवेद् एवेति कथं तया न विचारितम् ? तत्राह—सुदुःख- इति । विनष्ट-बुद्धित्वाद् विचाराभावः, श्लथद्-वलयत इत्य् अनेन वलयान्य् अपि पतितानीति ज्ञेयम् । न च केवलं विचारो विनष्टः, चेतना च विनष्टेत्य् आह—विक्लव-धिय इति । अत एव मुह्यन्, प्रकर्षेण विकीर्य केशान् इति मोहस्य । रम्भा इति दृष्टान्तेन च पातस्यातिशयः सूचितः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, स्वभावतो महा-कौतुक-पर एव सः । किं च, पुत्र-पौत्राद्य्-उत्पत्त्य्-आदिना कथम् अपि त्यागो न सम्भवेद् इति । कथं तया न विचारितं ? तत्राह—तस्याः परम-दाक्षिण्य-मय-प्रेम-विख्यातायाः विनष्ट-बुद्धित्वाद् विचाराभावः । श्लथद्-वलयत इत्य् अनेन वलयान्य् अपि पतितानीति ज्ञेयं । न च केवलं विचारो नष्टः, चेतनापि इत्य् आह—विक्लव-धिय इति । अत एव मुह्यन् । प्रकर्षण विकीर्य केशान् इत्य् अनेन मोहस्य, रम्भा इति दृष्टान्तेन च पातस्यातिशयः सूचितः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्याः इत्य्-आदि । श्लथद्-वलयत इति तत्-काल-कार्श्यं ध्वनितम् । न केवलं व्यजनं पपात, अपि तु देहश् च निपपात, नितरां पपातेत्य् अर्थः । व्यजनं पपात, देहो निपपात इत्य् उपसर्ग-कृतो विशेषः । केव ? वात-विहता रम्भा इव । सा यथा स्वयं नोत्तिष्ठति, तथा । प्रविकीर्य केशान् इति पतनात् पूर्वम् एव केशाः स्रस्ता इत्य् अर्थः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुदुःखम् अप्रिय-श्रवणात्, भयः त्याग-शङ्कया, शोकः ताभ्याम् अनुतापः, तैर् विनष्टा बुद्धिर् यस्याः । अतः परिहासोऽयम् इति विचारो नोदभूद् इति भावः । श्लथन्ति वलयानि यस्माद् धस्ताद् इति सहसैव विरह-पीडोत्थाद् अतिकार्श्याद् वलयान्य् अपि पेतुर् इति गम्यते । तद्-अनन्तरं देहश् च पपात । तत्र हेतुः—विक्लव-धिय इति । बुद्धेर् नाशस्यापि प्रागुक्तेर् नष्ट-चेतनाया इत्य् अर्थः । ततश् च मुह्यन् इति सहसैव नवम्य् अपि दशा । अतः पपात इति स्तम्भाद्य्-अन्तिमः प्रलयश् च सात्त्विकोऽभूद् इति भावः ॥२४॥


॥ १०.६०.२५ ॥

तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् ।
हास्य-प्रौढिम् अजानन्त्याः करुणः सोऽन्वकम्पत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हास्यस्य प्रौढिं गाम्भीर्यम् ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् प्रेम-बन्धनम् । प्रौढिर् गाम्भीर्य-शकटीधारणास्व् अधिके\ऽपि च इति निरुक्तिः । कृष्णः । यथा सांसारिक-जीवानाम् अविद्यया बन्धनं, तथा तस्याः प्रेम्णा बन्धनं । तद् इति तस्य महा-दार्ढ्यं ध्वनितम् । यतः हासस्य प्रौढिं प्रौढत्वम् अजानन्त्या इति । प्रेम-परिणामो\ऽनुरागो हि स्वाश्रयस्य प्रतिक्षणं दैन्यम् एवापादयति, ततश् च "नाहम् एतद्-योग्या इत्य् अतो\ऽनेन त्यक्तैवाहम्" इति भ्रान्त-चित्ताया इत्य् अर्थः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् अनिर्वचनीयम् । प्रेमैव बन्धनं शृङ्खला तत्, इति तस्य महा-दार्ढ्यं ध्वनितम् । यतः प्रियायाः, अत एव हास्य-प्रौढिम् अजानन्त्या विचारयितुम् अनवगच्छन्त्याः , स महा-कौतुक-परो\ऽपि । यद् वा, प्रिय-जन-परवशः । किं च, करुणः कृपालुः, तत्रापि भगवान् निजाशेष-गुण-प्रकटन-परः, यतः कृष्णः अनिर्वचनीय-विचित्र-माहात्म्यामृत-महोदधिः । किं वा, अत एव प्रिय-जन-चित्ताकर्षकः, अतो**\ऽन्वकम्पत** । यद् वा, करुणः स्वयम् अपि रोदनादिना निजानां मूर्त-करुण-रसः सन् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अनिर्वचनीयं । प्रेमैव बन्धनं शृङ्खला । तद् इति तस्य महा-दार्ढ्यं ध्वनितं । किं तु हास्य-प्रौढिम् अजानन्त्या आजनत्या विचारयितुम् अशक्नुवत्याः वाम्यमय-द्वितीय-प्रेम-भेदाभवात् । स महा-कौतुक-परो\ऽप्य् अन्वकम्पत । यतः करुणः सर्व-प्राणिषु दयालुः, किम् उत तस्याम् इति भावः । यतो भगवान् कृष्णः तत्-तन्-महा-गुणत्वेन अतिप्रसिद्धः इत्य् अर्थः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा सांसारिक-जीवानाम् अविद्यया बन्धनं, तथा तस्याः प्रेम्णा बन्धनं यतो हास्यस्य प्रौढिं प्रौढित्वम् अजानन्त्या इति प्रेम-परिणामः अनुरागो हि स्वाश्रयस्य प्रतिक्षणं दैन्यम् एवोत्पादयति । "ततश् च नाहम् एतद् योग्या इत्य् अतोऽनेन त्यक्तैवाहम्" इति भ्रान्त-चित्ताया इत्य् अर्थः ॥२५॥


॥ १०.६०.२६ ॥

पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्भुजः ।
केशान् समुह्य तद्-वक्त्रं प्रामृजत् पद्म-पाणिना ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुर्भुज इति उत्थापनाश्लेषण-वक्त्र-परिमार्जनाद्य्-अर्थम् आविष्कृत-चतुर्भुज इत्य् अर्थः । समुह्य निबध्य ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां रुक्मिणीम् । इत्य् अर्थ इति तात्पर्यम् । तद्-वक्त्रं रुक्मिणी-मुखम् । अनुकम्पाम् एवाह—पर्यङ्काद् इति त्रिभिः । उत्थाप्य भूमितः स्वाङ्के निवेश्येत्य् अर्थः । प्रकर्षेण आवृत्त्यादिना अमृजत् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : चतुर्भुज इति । द्वाभ्यां परिरेभे, द्वाभ्यां केशं बबन्धेति चतुर्भुजत्वम् अत्रैव शोभते स्म ॥२६-२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुकम्पाम् एवाह—पर्यङ्काद् इति त्रिभिः । उत्थाप्य भूमितः स्वाङ्के निवेश्येत्य् अर्थः । पद्मवत् सर्व-सन्तापहरणादि-गुण-युक्तेन पाणिना प्रकर्षेण पुनः पुनर् आवृत्त्य्-आदिना अमृजत् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुकम्पाम् एवाह—पर्यङ्काद् इति त्रिभिः । उत्थाप्य भूमितः स्वाङ्के निवेश्येत्य् अर्थः । प्रकर्षेण आवृत्त्य्-आदिना अमृजत् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ताम् उत्थाप्य चतुर्भुज इत्य्-आदि । चतुर्भुज इति द्वाभ्यां परिरेभे, द्वाभ्यां केशान् बबन्धेत्य् अर्थः । चतुर्भुजस् तदैवाभवद् इति मन्तव्यम् । अन्तः-पुरे सन्ततं द्विभुजत्वेनैव स्थितत्वात् । चतुर्भुजत्वम् अत्रैव शोभते ॥२६॥ (२७-२८)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्भुज इति उत्थापनाश्लेषण-वक्त्र-परिमार्जनार्थम् आविष्कृत-भुज-चतुष्टय इत्य् अर्थः । समूह्य निबध्य ॥२६॥


॥ १०.६०.२७-२८॥

प्रमृज्याश्रु-कले नेत्रे स्तनौ चोपहतौ शुचा ।
आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम् ॥**

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः ।
हास्य-प्रौढि-भ्रमच्-चित्ताम् अतद्-अर्हां सतां गतिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अश्रुकले अश्रुभिः शोभिते । शुचा शोकाश्रुभिः । सान्त्वयामास अनुनीतवान् ॥२७-२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्य-विषयां हठ-प्राप्त-कृष्णाम्—

विषयो गोचरे देशे तथा जनपदे\ऽपि च । > प्रबन्धाद् यस्य यो ज्ञातस् तत्र रूपादिके पूमान् ॥ इति मेदिनी ।

अतदर्हाम् एवं-विध-हास्यायोग्याम् । प्रमृज्य इति युग्मकम् । प्रभुः सतीं पातिव्रत्यादि-सद्-गुणवतीं तां सान्त्वयामास । सान्त्वने हेतुः—सतां गतिः । सन्मात्राणां स्वयम् एव शरणं, किम् उत तस्या इत्य् आह—अनन्य-विषयाम् आत्मैकाश्रयाम् । तादृश-सान्त्वने हेतुः—कृपणां स्वोपेक्षा-मननेन दुःख-दीन-चित्ताम् । तत्र हेतुः—हास्य- इति । तत्र हेतुः—अतदर्हां परम-सरल-स्वभावत्वात् ।

ननु, तादृश-खेदने झटिति कथं सान्त्वनं स्यात् ? तत्राह—सान्त्वज्ञः सान्त्वना-चातुर्य-पण्डितः । तज्ज्ञत्वम् एव विवृणोति—प्रमृज्य इति । अश्रूणि कलयतः क्षरत इत्य् अश्रु-कले । एवं तस्य खेदने सान्त्वने च चातुरीम् अनुस्मृत्य साश्चर्यम् इवाह—प्रभुः, यदा यत् करोति, तदा तत्रैव समर्थ इत्य् अर्थः ॥२७-२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अश्रूणि कलयतः प्रवहत इत्य् अथ कले, तद् वा श्रवणेन शोकाकुलं श्रीपरीक्षितं स्वस्थयन्न् आह—हे राजन् इति । यद् वा, अ-कार-प्रश्लेषेण अराजमानो महा म्लानः सन्न् इत्य् अर्थः । यतो न विद्यते\ऽन्यो विषयो गतिर् यस्यास् ताम्, यतः सतीं पतिव्रताम् । बाहुना इत्य् एकत्वं व्यग्रतयेकेनाङ्के ग्रहणात् । अन्येन नेत्रयोर् अपरेण, स्तन-योजनाच् च । यद् वा, प्राग्-उक्त-न्यायेन एकत्वे\ऽपि द्वित्वस्य बहुत्वस्य च प्राप्त्या गाढालिङ्गनं बोधयति । प्रभुः सान्त्वन-समर्थः, यतः सान्त्वं मिष्ट-वाक्यं जानातीति, शङ्कया व्याकुलं चित्तं यस्यास् ताम्, अतो न तां हास्य-प्रौढिम् अर्हतीति तथा ताम् । सो\ऽपि तादृश-जनेषु तादृशीं हास्य-प्रौढिं कर्तुं नार्हतीत्य् आशयेनाह—सतां गतिर् इति ॥२७-२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रमृज्य इति युग्मकम् । प्रभुः सतीं पातिव्रत्यादि-सद्-गुणवतीं तां सान्त्वयामास । सान्त्वने हेतुः—सतां गतिः सन्-मात्राणां स्वयम् एव शरणं, किम् उत तस्या इत्य् आह—अनन्य-विषयाम् आत्मैकाश्रयां । तादृश-सान्त्वने हेतुः—कृपया । तत्र हेतुः—कृपणां स्वोपेक्षा-मननेन दुःख-दीन-चित्ताम् । अत्र हेतु—हास्य- इति । तत्र हेतुः—अतद्-अर्हां परम-सरल-स्वभावत्वात् ।\


ननु, तादृश-खेदने झटिति कथं सान्त्वनं स्यात् ? तत्राह—सान्त्वज्ञः सान्त्वना-चातुर्ये पण्डितः । तज्-ज्ञत्वम् एव विवृणोति—प्रमृज्य इति । अश्रूणि कलयतः क्षरत इति अश्रु-कले । एवं तस्य खेदने सान्त्वने च चातुरीम् अनुस्मृत्य साश्चर्यम् इवाह—प्रभुः यदा यत् करोति तदा तत्रैव समर्थ इत्य् अर्थः ॥२७-२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अश्रु-कले अश्रु-धरे । शुचा शोकाश्रुणा ॥२७-२८॥


॥ १०.६०.२९ ॥

श्री-भगवान् उवाच—

मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् ।
त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मा माम्त्वद्-वचः "किं नु वदिष्यसि" इति श्रोतु-कामेन श्रोतुम् इच्छता क्ष्वेल्या नर्मणा एवम् आचरितम् उक्तं, न तत्त्वतः । हे अङ्गने ! सुन्दरि ! ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्ष्वेलिर् नर्मणि हासे च इति निरुक्तिः । मा इत्य् अपि युग्मकम् । मा माम्माभ्यसूयेथा मयि दोष-दृष्टिं मा कुरु ।

नन्व् अनन्य-गतिम् अपि मां त्यक्तुम् इच्छसि कुतो नाभ्यसूया कार्या ? तत्राह—जाने इति । अतः कदाचित् कथञ्चिद् अपि न त्याज्या इति भावः ।

ननु, तत् कुतस् तादृग् उक्तं ? तत्राह—त्वद्-वच इति ।

ननु, तथापि सत्यवचनेन त्वया मिथ्या वक्तुं न युज्यते ? तत्राह—क्ष्वेल्याचरितम् इति । नर्मसु तद् योग्यम् इत्य् अर्थः । अङ्गने ! परम-सुन्दरि ! इति स्तुतिः । अङ्गनास्व् एतद् उचितम् एवेति भावः । हे वैदर्भि ! इति—विशिष्ट-दर्भ-वनवासिभिर् मृग-पक्ष्य्-आदिभिर् इव त्वयापि तन् न ज्ञातम् इति भावः ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मा मा इति संश्रयाद् वीप्सा ॥२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मां माभ्यसूयेथा मयि दोष-दृष्टिं मा कुरु। मा-शब्दस्य तत्राप्य् आदौ प्रयोगो निषेधस्य दार्ढ्यार्थं, तत्-प्रार्थने वैयग्र्याच् च । ननु, अनन्य-गतिम् अपि मां त्यक्तुम् इच्छसि, कुतो\ऽसूया न कार्या ? तत्राह—जाने इति । अतः कदाचित् कञ्चिद् अपि न त्याज्यैवेति भावः । ननु, तत् कुतस् तादृग् उक्तम् ? तत्राह—त्वद्-वचः इति । ननु, तथापि सत्य-वचनेन त्वया मिथ्या वक्तुं न युज्यते ? तत्राह—क्ष्वेल्या इति । नर्मसु तद्योग्यम् एवेत्य् अर्थः । हे अङ्गने ! इति सर्वथा सौन्दर्यवत्या त्वया सुन्दरम् एव वचो वक्तव्यम् इत्य् आशयेनेति भावः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मा मा इत्य् अपि युग्मकम् । मा मां मा अभ्यसूयेथाः मयि दोष-दृष्टिं मा कुरु । ननु अनन्यगतिम् अपि मां त्यक्तुम् इच्छसि कुतो\ऽसूया न कार्या ? तत्राह—जाने इति । अतः कदाचित् कथञ्चिद् अपि न त्याज्येति भावः । ननु, तत् कुतस् तादृग् उक्तं ? तत्राह—त्वद्वचः इति । ननु, तथापि सत्य-वचनेन त्वया मिथ्या वक्तुं न युज्यते ? तत्राह—क्ष्वेल्या इति, नर्मसु तद्योग्यम् इत्य् अर्थः । हे अङ्गने ! परमसुन्दराङ्गीति स्तुतिः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मा मा इत्य्-आदि । हे वैदर्भि ! मा मां मासूयेथाः । मयि असूयां मा कृथाः । यद् वा, मा मा अभ्यसूयेथा इति सम्भ्रमाद् वीप्सा । नन्व् एवं परुषं वचस् त्वयाभिहितं, कथम् असूयात्र न कार्या ? इत्य् आह—त्वद्-वचः श्रोतु-कामेन क्ष्वेल्या परिहासेन एतद् आचरितम्, न तु हृत्-कषायेण ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, त्वया चेद् इदं शरीरं त्यक्तं, तर्हि कथम् एष महा-भारो मया वोढव्यः ? इत्य् अतो मयाप्य् एतत् त्यज्यते । तत्राश्लेषाश्रु-मार्जनादिना कपट-प्रेमाणं प्रकटीकृत्य यत् प्रत्यूहं विधत्से, तत् किं ? अतोऽप्य् अतिदुःख-दित्सा पुनर् अपि ते वर्तते ! इति स्वस्मिन् दोषारोपणम् आशङ्क्याह—मा इति ।

हे वैदर्भि ! मा मां मा असूयेथाः । ननु च हन्त हन्त परम-कारुणिके त्वयि मम नेयम् असूया, किं तु त्वत्-पार्श्वे स्थित्वा दुःखम् एव प्राप्नुवत्याः मम हितार्थम् एव सुखमयीम् अन्यां गतिं यद् उपदिष्टवान् असि तद् आकर्णितवत्या ममेयम् आनन्द-मूर्च्छैवाभूत् । तद्-भङ्गं च त्वं किम् अकार्षीः ? सा यदि क्षणम् अपरम् अप्य् अस्थास्यत्, तदा मम तव च परमैव निर्वृत्तिर् अभविष्यद् इति तस्याः स-प्रेम-वक्रोक्तिम् आशङ्क्याह—त्वां मत्-परायणां मद्-अनन्य-गतिम् अहं जाने, तर्हि कथम् एवं दुर्वाक्यम् अवोचः ? तत्राह—त्वद्-वचः कां कां वक्रोक्तिं वदिष्यतीति श्रोतुकामेन मया क्ष्वेल्या नर्मणैव आचरितम् । एवम् उक्तं न तु तत्त्वतः । हे अङ्गने ! सुन्दरि ॥२९॥


॥ १०.६०.३०-३१ ॥

मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुम् ।
कटाक्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥**

अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् ।
यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेम-संरम्भेण प्रणय-कोपेन स्फुरितः कम्पितोऽधरो यस्मिंस् तत् । कटाक्षास् तैर् आक्षेपैर् अरुणाव् अपाङ्गौ यस्मिंस् तत् । अत एव सुन्दरं कुटिलं भ्रुकुटी-तटं यस्मिंस् तत् ॥३०॥

ननु कलहे किं कौतुकं सुखं वा ? अत आह—अयं हि इति । नर्मैर् नर्मभिः । यामः कालः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एक-देश-न्यायेन कट-पदं कटाक्ष-परम् । नर्मोक्तो प्रयोजनान्तरं चाह—प्रेम-संरम्भेण इति तैर् व्याख्यातम् । ननु, यदि सत्य-कामस्य भगवतस् तथाभूतैवेच्छासीत्, तदा तदानीम् एव रुक्मिणी स-कोप-कुटिल-कटाक्षा कथं नाभूत् ? इति चेत्, इच्छा-शक्तिर् हि भगवत एवाधीना, प्रेमा तु तं भगवन्तम् अप्य् अधीनीकरोतीति प्रेम्णो\ऽग्रे न तस्याः कापि प्रभविष्णुता । प्रेमा ह्य् आनन्द-रूपम् अपि भगवन्तम् अतिशयेनानन्दयितुं तद्-इच्छाम् अपि कदाचिद् अन्यथा करोति ।

इदम् अत्र तत्त्वम्—आसां रुक्मिण्य्-आदीनां मधुर-प्रेम-स्नेह-प्रणय-मान-रागानुरागेषु सप्तसु स्थायि-भावेषु मध्ये कदाचित् कश्चित् स्वावसरं प्राप्योदयत इति । अतस् तदानीं व्यजन-सेवा-मये\ऽनुरागः स्थायि-भाव एवोदगात् । तस्य च दैन्य-सञ्चारि-प्राबल्यात् तस्याः खेद-चिन्ता-मोह एवाभूत्, न तु तस्मिन् प्रणय-कोप-कटाक्षादयः । ते चोपरिष्टान् मान-स्थायि-भावोदय-क्षणेषु भविष्यन्त्य् एव । किं च, घृत-स्नेहवत्या रुक्मिण्या मान-कौटिल्यातिशयः प्रायो नोदयते, मधु-स्नेहवत्याः सत्यभामाया अनुरागो\ऽपि मान-गर्भ एवेति संरम्भ-सकम्पाधर-कुटिल-कटाक्षादि-मुखं कृष्णस्य तत्रैव सम्पद्यत इति ॥३० ॥

प्रेम-संरम्भेण प्रणय-कोपेन स्फुरितः कम्पितोऽधरो यस्मिंस् तत् । कटाक्षास् तैर् आक्षेपैर् अरुणाव् अपाङ्गौ यस्मिंस् तत् । अत एव सुन्दरं कुटिलं भ्रुकुटी-तटं यस्मिंस् तत् ॥३०॥

ननु कलहे किं कौतुकं सुखं वा ? अत आह—अयं हि इति । नर्मैर् नर्मभिः । यामः कालः ॥३१-३२॥

कौतुकम् अद्भुतम् । यत् यः । नर्मस् तु नर्मणा साद्धम् इति द्विरूप-कोशाद् अद्-अन्तोऽपि नर्म-शब्दः । यामस् तु प्रहरे काले इति मेदिनी ।

[तोषाणी-] हिं यस्माद् अयं गृहेषु वर्तमानानां गृह-मेधिनां गृहेषु लाभः फलं सुखम् इत्य् अर्थः । गृहेषु इति प्रोषितादीनां तत्-सुखं निषेधति—याम एक-प्रहरोऽपि । प्रियया इति सर्वाभ्यो मे त्वम् अतिवल्लभा, अतस् त्वयैव सह एतद् युज्यत इति । हे भीरु ! इति—भयमय-दक्षिण-प्रेम-स्वभावाद् एव शङ्कां वहसि, न तु विचारेणेति भावः । अतस् तदानीम् अपि क्रोधांशानभिव्यक्तौ स-कौतुकं तद्-उद्भावनाय तम् आरोपयति—हे भामिनि ! इति । एवं मा मा वैदर्भ्य् असूयेथाः [२९] इत्य् अपि ।

अत्र श्री-भगवतः स-कौतुको\ऽयम् अभिप्रायः—इयं खलु सरल-प्रेमवती परम-गाम्भीर्यवतीति ततो ममाभीष्टः प्रिया-कोप-विलासः प्रेम-निबन्ध-प्रकाशक-सविकार-कष्टोक्ति-विशेषो वा नास्यां स्फुटम् उपलभ्यते, तस्मात् कोप-विलासो वा तज्-जननाभावे तु द्वितीयस् तादृशोक्ति-विशेषो वा यथा स्यात् प्रकाशेत, तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप-जनने भ्रातृ-वैरूप्यादिकम् अपि कारणं नासीत् तस्यां तत्रान्यत् परमायोग्यम् एव । किन्त्व् अहम् एव मद्-अविश्लेष-सुखम् एवास्याः सर्वस्वम् इति तद्-दर्प-न्यक्-कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत्, तथापि मद्-विश्लेष-भयेन पूर्वानुरागवद् अधुनापि विकार-विशेष-सहितो निगदेनैव प्रेम-निर्बन्धः प्रकाश्यतेति । तत्र राज-पुत्रीप्सिता भूपैः [१०] इत्य्-आदिकस्य तस्य श्री-कृष्ण-वचनस्य स-प्रणयत्वं परिहास-मयत्वं च, तां रूपिणीम् [९] इति, प्रीतः स्मयन् [९] इत्य् अनेन च व्यक्तम् । परिहासमयत्वं तु विशेषतो\ऽप्य् उक्तं प्रसङ्गेन । तस्याः प्रेम-सारल्यादि-द्वयम् अपि तद् दृष्ट्वा भगवान् [२५] इत्य्-आदिना ।

हास्यं [२५] परिहासः । तत्र प्रौढिः [२५] "अवश्यम् एनां सरल-प्रेमवतीम् अपि गम्भीराम् अपि क्षोभयिष्यामि" इति गर्वः । तां प्रणय-रस-कौटिल्याभावेन अजानत्या इत्य् अर्थः । एवमग्रेऽपि हास्य-प्रौढ-भ्रमच्-चित्ताम् [२८] इति । तत्र तेन परिहासेन कोप-विलासादि-दर्शनम् एवाभीष्टम् इति स्वयम् एवोक्तम्—मा मा वैदर्भि [२९-३१] इति त्रिभिः ।

अथ तस्य तत्-प्रेम-निबन्ध-प्रकाशक-विकार-दर्शनेच्छापि प्राक्तनेनैव वाक्येन व्यक्ता— तद् दृष्ट्वा भगवान् [२९] इत्य्-आदिना । तथा निगदनेनैव तद्-व्यक्ति-दर्शनेच्छापि स्वयम् एव व्यञ्जयिष्यते—साध्व्य् एतच् छ्रोतु-कामैः [४९] इति । तथैव च तस्या वाक्यम्—जाड्यं वचस् तव गदाग्रज [४०] इत्य्-आदि । एवं स्व-दर्प-न्यक्कारेण तत्-क्षोभो दर्शितः ।

अथ तद्-अविश्लेष-न्यक्कारेण तत्-क्षोभो दर्शितः । तद्-अविशेष-न्यक्कारे श्री-शुक-वाक्यम्—एतावद् उक्त्वा [२१] इत्य्-आदि । अन्यस्य तत्र हेतुत्वं भगवतैव निराकरिष्यते—भ्रातुर् विरूप-करणम् [५६] इत्य्-आदिनेति ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कोपाविलं वचो\ऽपि न श्रुतम्, तद्-दर्शन-श्रवणार्थम् इदम् उक्तम् इत्य् आह—मुखं च इत्य्-आदि । कटाक्षे अपारुणः, अत्यन्तारुणो\ऽपाजो यत्र, अप-शब्दो\ऽत्राधिक्यार्थः । हे भीरु भीत! हे भामिनि कोपने ॥३०-३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् अवाच्यं तादृशं दुःख-प्रदं वचो वक्तुं न युज्यते ? सत्यम्, किं तु दैहिक-सौन्दर्य-विशेषं च द्रष्टुम् इत्य् आह—मुखश् च इति । समासान्तः प्रविष्टस्यापि प्रेम-संरम्भ- इत्य् अस्य परतो\ऽप्य् आकर्षः, तत्रैव तत्-तत्-सम्पत्तेः, स्फुरिताधरत्वादीनां यथोत्तरं सौन्दर्याधिक्ये संरम्भ-लक्षणत्वे वा श्रैष्ठ्यम् । तादृग्-उक्तिं विना क्रोधानुदयेन तत्-तत्-सौन्दर्यानुभवासिद्धेर् इति भावः ॥३० ॥

हि एव । अयम् एव, गृहेषु वर्तमानानां गृह-मेधिनां पञ्च-यज्ञादि-गृहस्थ-धर्मे दीक्षितानां गृहिणां वा, लाभः फलं सुखम् इत्य् अर्थः । गृहेषु इति प्रोषितादीनाम् अन्य-प्रयोजनस्याप्य् अपेक्ष्यत्वात् । यद् वा, गृह-मध्य इत्य् अर्थः, सभादौ तद्-असम्भवात् । परम इति विषयान्तर-भोगादिना सद्यस् तादृक्-सुखानुत्पत्तेः । याम एक-प्रहरो\ऽपि । प्रियया इति सर्वाभ्यो मे त्वम् अतिवल्लभा, अतस् त्वयैव सह एतद् युज्यत इति । हे भीरु ! इति साध्वीत्वेन भय-स्वभावाद् एव शङ्कां वहसि, न च विचारेणेति । हे भामिनि ! इति च प्रणय-कोप एव त्वया कर्तुं युज्यते, न त्व् ईदृश-दुःखादिकम् इति भावः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेम-संरम्भ- इति तृतीया-लुक् छान्दसः । अतः कट- इत्य्-आदिकयोर् अप्य् अन्वयः सर्वेषाम् एव विशेषणानां । वचसि मुखे चान्वयः ॥३० ॥

हि यस्माद् अयं गृहेषु वर्तमानानां गृह-मेधिनां गृहिणां लाभः फलं सुखम् इत्य् अर्थः । गृहेषु इति प्रोषितादीनां तु तथा सुखं निषेधयति । यामः एक-प्रहरोऽपि । प्रियया इति सर्वाभ्योऽपि मे त्वम् अतिवल्लभा, अतस् त्वयैव सहैतत् युज्यत इति । हे भीरु ! इति भय-मय-दक्षिण-प्रेम-स्वभावाद् एव शङ्कां वहसि, न तु विचारेणेति भावः । अतस् तदानीम् अपि क्रोधांशानभिव्यक्ती स-कौतुकं तद्-उद्भावनाय तम् आरोपयति—हे भामिनि ! इति ।

एवं मा मा वैदर्भ्य् असूयेथा [२५] इत्य् अपि । अत्र श्री-भगवतः स-कौतुको\ऽयम् अभिप्रायः—इयं खलु सरल-प्रेमवती परम-गाम्भीर्यवतीति ततो ममाभीष्टः प्रिया-कोप-विलासः प्रेम-निबन्ध-प्रकाशक-सविकार-कष्टोक्ति-विशेषो वा नास्यां स्फुटम् उपलभ्यते, तस्मात् कोप-विलासो वा तज्-जननाभावे तु द्वितीयस् तादृशोक्ति-विशेषो वा यथा स्यां प्रकाशेन, तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप-जनने भ्रातृ-वैरूप्यादिकम् अपि कारणं नासीत् तस्यां तत्रान्यत् परमायोग्यम् एव । किन्त्व् अहम् एव मद्-अविश्लेष-सुखम् एव चास्याः सर्वस्वम् इति तद्-दर्प-न्यक्-कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत्, तथापि मद्-विश्लेष-भयेन पूर्वानुरागवद् अधुनापि विकार-विशेष-सहितो निगदेनैव प्रेम-निर्बन्धः प्रकाश्यतेति ।

तत्र राज-पुत्रीप्सिता भूपैः [१०] इत्य्-आदिकस्य तस्य श्री-कृष्ण-वचनस्य स-प्रणयत्वं स-परिहास-मयत्वं च, तां रूपिणीम् [९] इत्य्-आदौ, प्रीतः स्मयन् [९] इत्य् अन्तेन च व्यक्तम् । परिहासमयत्वं तु विशेषतो\ऽप्य् उक्तं प्रसङ्गेन । तस्याः प्रेम-सारल्यादि-द्वयम् अपि तद् दृष्ट्वा भगवान् [२५] इत्य्-आदिना ।

हास्यं [२५] परिहासः । तत्र प्रौढिः [२५] "अवश्यम् एनां सरल-प्रेमवतीम् अपि गम्भीराम् अपि क्षोभयिष्यामि" इति गर्वः । तां प्रणय-रस-कौटिल्याभावेन अजानत्या इत्य् अर्थः । एवम् अग्रेऽपि हास्य-प्रौढ-भ्रमच्-चित्ताम् [२८] इति । तत्र तेन परिहासेन कोप-विलासादि-दर्शनम् एवाभीष्टम् इति स्वयम् एवोक्तम्—मा मा वैदर्भि [२९-३१] इति त्रिभिः ।

अथ तस्य तत्-प्रेम-निबन्ध-प्रकाशक-विकार-दर्शनेच्छापि प्राक्तनेनैव वाक्येन व्यक्ता— तद् दृष्ट्वा भगवान् [२९] इत्य्-आदिना । तथा निगदनेनैव तद्-व्यक्ति-दर्शनेच्छापि स्वयम् एव व्यञ्जयिष्यते—साध्व्य् एतच् छ्रोतु-कामैः [४९] इति । तथैव च तस्या वाक्यम्—जाड्यं वचस् तव गदाग्रज [४०] इत्य्-आदि । एवं स्व-दर्प-न्यक्कारेण तत्-क्षोभो दर्शितः ।

अथ तद्-अविश्लेष-दर्प-न्यक्कारेण तत्-क्षोभो दर्शितः । तद्-अविशेष-न्यक्कारे श्री-शुक-वाक्यम्—एतावद् उक्त्वा [२१] इत्य्-आदि । अन्यस्य तत्र [तु] हेतुत्वं श्री-भगवतैव निराकरिष्यते—भ्रातुर् विरूप-करणम् [५६] इत्य्-आदिनेति ॥३१॥

[प्रीति-सन्दर्भस्य ३८६-अनुच्छेदो द्रष्टव्यः, तथा चात्र १०.६०.१०-श्लोको\ऽपि द्रश्टव्यः।]


जीव-गोस्वामी (क्रम-सन्दर्भः) : तदानीम् अपि क्रोधांशानभिव्यक्तौ स-कौतुक-तदनाय तम् आरोपि—हे भामिनीति । एवं मा मां वैदर्भ्यसूयेथाः [भा।पु। १०.६०.२९] इत्य् अपि न त्वेवम् ॥३१-३४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् एवं परिहासः किं बुद्धिमता क्रियते ? इत्य् आह—मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुम् । तव कोपो न मया दृष्टः कदाचिद् अपि, तदावलम्ब-वचो न श्रुतम् इति तथा विहितम् इत्य् अर्थः । कटाक्षे अपारुणः अपाङ्गो यत्र, अप-शब्दोऽत्राधिक्यार्थः, अव्ययानाम् अनेकार्थत्वात् । हे भीरु भीते ! ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नर्मोक्तौ प्रयोजनान्तरं चाह—प्रेम-संरम्भेण प्रणय-कोपेन स्फुरितः कम्पितोऽधरो यत्र तत् । **कटा-**शब्देन कटाक्षाः, तैर् आक्षेपे अरुणाव् अपाङ्गौ यस्मिन्, अत एव सुन्दरं कुटीलं भ्रूकुटि-तटं यस्मिन्, तच् तत् मुखम् ईक्षितुं च ।

ननु, यदि सत्य-कामस्य भगवतस् तथा-भूतैवेच्छा आसीत्, तदा तदानीम् एव रुक्मिणी स-कोप-कुटिल-कटाक्षा कथं नाभूत् ? इति चेत् उच्यते—इच्छा-शक्तिर् हि भगवत एवाधीना । प्रेमा तु तं भगवन्तम् अप्य् अधीनीकरोतीति प्रेम्णाग्रेण तस्याः कापि प्रभविष्णुता प्रेमा हि आनन्द-रूपम् अपि भगवन्तम् अतिशयेनानन्दयितुं तद्-इच्छाम् अपि कदाचिद् अन्यथा करोति । इदम् अत्र तत्त्वम्—आसां रुक्मिण्य्-आदीनां मधुर-प्रेम-रसवतीनां रति-प्रेम-स्नेह-प्रणय-मान-रागानुरागेषु सप्तसु स्थायि-भावेषु मध्ये कदाचित् कश्चित् स्वावसरं प्राप्योदयते इत्य् अतस् तदानीं व्यजन-सेवा-समये अनुरागः स्थायि-भाव एवोदगात् । तस्य च दैन्य-सञ्चारि-प्राबल्यात् तस्याः खेद-चिन्ता मोह एवाभूत्, न तु तस्मिन् प्रणय-कोप-कटाक्षादयः । ते चोपरिष्टान् मान-स्थायि-भावोदय-क्षणेषु भविष्यन्त्य् एव । किं च, घृत-स्नेहवत्या रुक्मिण्या मान-कौटिल्यातिशयः प्रायो नोदयते । मधु-स्नेहवत्याः सत्यभामायास् तु अनुरागोऽपि मान-गर्भ एवेति संरम्भ-सकम्पाधर-कुटिल-कटाक्षादि-सुखं कृष्णस्य तत्रैवाभिसम्पद्यत इति ॥३०॥

ननु, मत्-कृतया व्यजनादि-परिचर्यया दुःखं लभसे, किं तु तां परित्यक्तवत्या मम कठोर-कोपोक्त्यैव सुखं लभसे । अपरं च प्रियाया मम सहर्ष-सोत्फुल्लं मुखं त्वन्-नयनाभ्यां न रोचते, किन्त्व् अतिदुःख-रुक्षं कोप-विवर्णीकृतं रस-प्रतिकूलं भ्रु-कुटि-भीषणं मुखम् एव रोचत । इति कोऽयं ते स्वभावः ? तत्राह—अयम् इति ॥३१॥


॥ १०.६०.३२-३३॥

श्री-शुक उवाच—

सैवं भगवता राजन् वैदर्भी परिसान्त्विता ।
ज्ञात्वा तत्-परिहासोक्तिं प्रिय-त्याग-भयं जहौ ॥**

बभाष ऋषभं पुंसां वीक्षन्ती भगवन्-मुखम् ।
स-व्रीड-हास-रुचिर-स्निग्धापाङ्गेन भारत ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतस् तस्य ऐश्वर्य-युक्तं मुखं स-व्रीडेन हासेन रुचिरेण स्निग्धेनापाङ्गेन वीक्षमाणा ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा वैदर्भी । तस्य कृष्णस्य परिहास-वचनम्वैदर्भी तादृशानुरागेण विदर्भाद् आगता वा । प्रियेण तेन यस् त्यागः स्वस्य त्याजनं, तस्माद् भयम् ॥३२॥

पुंसाम् ऋषभम् इति सर्व-सौन्दर्य-वैदग्ध्यादिकम् उक्तम् । अतो भगवद् इति । स्वेनैव सुस्निग्ध-स्मित-श्रम-जलादिना च श्रीमत्, अत एव विशेषेण ईक्षमाणा । केन ? स-व्रीड-हास-रुचिर-स्निग्धापाङ्गेन । तत्र व्रीडा-पूर्वं हास्य-प्रौढि-ज्ञानाशक्तेः, हासः सम्प्रति हास्य-प्रौढानुसन्धानात्, व्रीडा-सहितेन हासेन रुचिरः स्निग्धश् च प्रेम-रसार्द्रो यो\ऽपाङ्गः, तेन, इतीक्षण-विशेषोऽपि दर्शितः । एवं च परमोत्तमयोस् तयोः प्रेम-संवादो महावंश-यशस्कर-गुणत्वात् त्वम् एव बोद्धुम् अर्हसीति । अतस् तत्र मनो निधेहीत्य् आह—भारत इति ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुंसाम् ऋषभं पुरुषोत्तमं मुखं वीक्षती निरीक्षमाणा, मुखं विशिनष्टि—भगवत् श्रीमत्, भगं श्री-काम-माहात्म्यम्, अन्यथा भगवन्-मुखं वीक्ष्य पुंसाम् ऋषभं बभाष इति विरुद्धं स्यात् ॥३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता सर्व-शक्तिमता, अतः परि सर्वतो-भावेन सान्त्विता सती, यतो वैदर्भी कन्यात्वे\ऽपि तद्-अर्थं त्यक्त-सर्वार्था इति । यद् वा, परम-वैदग्ध्या तत्त्वं बोद्धुं समर्थेति भावः । अतस् तस्य तां वा तेन प्राग्-उक्तां सर्वां परिहासेनैवोक्तिं ज्ञात्वा प्रियेण तेन यस् त्यागः स्वस्य त्यजनं, तस्माद् भयम् । यद् वा, भय-त्यागे हेतुः—वैदर्भी, न च मैथिलीति तज्-जन्मन्य् एव तत्-सम्भवात् ।

ननु, तथापि तस्मिन् विश्वसितुं नार्हति ? इति, तत्राह—भगवान् इति । श्री-रघुनाथत्वे प्राय आर्य-धर्मो दर्शितः, अधुना च भक्त-वात्सल्यादि-सर्व-सद्गुण-प्रकटनात् तादृक्त्वं न सम्भवेद् इति भावः । हे राजन् ! इति च अहो तयापि तस्मात् तादृश-भयं प्राप्यते, कथम् अन्येन विश्वासः कार्यः ? इति प्रणयोक्तिः ॥३२॥

पुंसाम् ऋषभम् इति—सर्व-सौन्दर्य-वैदग्ध्यादिकम् उक्तम् । अतः श्री-भगवतः श्रमादि-जात-प्रस्वेद-कणिकादिना स्निग्ध-हासादिना च श्रीमतः, इत्य् अन्तः-प्रसादः सूचितः । अत एव वीक्षमाणा । केन ? स-व्रीड-हास-रुचिर-स्निग्धापाङ्गेन । तत्र व्रीडा हास्य-प्रौढि-ज्ञानाशक्तेः । किं वा, साध्वी-स्वभावाद् भाव-विशेषाद् वा हासो हास्य-प्रौढानुसन्धानात्, अन्तः-प्रसादोदयाद् वा, भाव-विशेषाद् एव वा, व्रीडा-सहितेन हासेन रुचिरश् च स्निग्धश् च प्रेम-रसार्द्रो यो\ऽपाङ्गः तेनेति । वीक्षमाणा इति वि-शब्दार्थो\ऽपि दर्शितः । एवं तस्या अपि परम-वैदग्ध्यादिकम् उक्तम् । तेन च द्वयोर् अपि परमोत्तमत्वादिना वक्ष्यमाणार्थस्य परतमत्वं सूचितम् । तच् च महावंशजत्वात् परमोत्तमस् त्वम् एव बोद्धुम् अर्हसीति । अतस् तत्र मनो निधेहीत्य् आह—हे भारत इति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः): न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैदर्भी तादृशानुरागेण विदर्भाद् आगता या । प्रियेण तेन यस् त्यागः स्वस्य त्यजनं, तस्माद् भयम् ॥३२॥

पुंसाम् ऋषभम् इति सर्व-सौन्दर्य-वैदग्ध्यादिकम् उक्तम् । अतो भगवद् इति स्वेनैव सुस्निग्ध-स्मित-श्रम-जलादिना च श्रीमत्, अत एव विशेषेणेक्षमाणा । केन ? स-व्रीड-हास-रुचिर-स्निग्धापाङ्गेन, तत्र व्रीडा पूर्व-हास्य-प्रौढि-ज्ञानाशक्तेः हासः सम्प्रति हास्य-प्रौढ्य्-अनुसन्धानात् व्रीडा-सहितेन हासेन रुचिरश्स्निग्धश् च प्रेम-रसार्द्रो यो\ऽपाङ्गः, तेन ईक्षण-विशेषोऽपि दर्शितः । एष च परमोत्तमयोः तयोः प्रेम-संवाद-महावंश-यशस्कर-गुणत्वात् त्वम् एव बोद्धुम् अर्हसि इत्य् अतस् तत्र मनो निधेहीत्य् आह—भारत इति ॥३३॥


॥ १०.६०.३४ ॥

श्री-रुक्मिण्य् उवाच—

नन्व् एवम् एतद् अरविन्द-विलोचनाह

यद् वै भवान् भगवतोऽसदृशी विभूम्नः ।

क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः

क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

असमत्वं भयं दुर्गाश्रयणं प्रबलैः कलिः ।

अराजत्वम् अविज्ञातालौकिकेहावसादनम् ॥

निष्किञ्चनत्वं तत्-प्रीतिर् आढ्यानादरणीयता ।

अनौचित्यं निर्गुणत्वं वृथा-श्लाघा च भिक्षुभिः ॥

औदासीन्यम् अकामत्वं स्व-दोषान् षोडशासतः ।

अज्ञत्वादीर्घ-दर्शित्वे भैम्या राज्ञां बहून् गुणान् ।

कृष्णे नर्मोदितान् भैष्मी न्यषेधत् तद्-गुण-स्तवैः ॥

भगवता स्व-निन्दा-पराणीव यानि वचनान्य् उक्तानि तानि सर्वोत्कर्ष-परतया व्याचक्षाणा प्रतिभाषते स्म, तत्र यद् उक्तं, कस्मान् नो ववृषेऽसमान् [भा।पु। १०.६०.११] इति तत्रासाम्यं सत्यम् एवेत्य् आह—नन्व् एवम् इति । हे अरविन्द-विलोचन, त्र्य्-अधीशस् त्रयाणां ब्रह्मादीनाम् अप्य् अधीशो नियन्ता त्वं क्व ? क्व चाहं गुण-प्रकृतिस् त्रिगुण-स्वभावा प्राकृता गुणमयी प्रकृतिर् वा । ननु त्वम् एवाधीश्वरी श्रीः सर्वैर् उपास्यत्वाद् इति चेद् अत आह—अज्ञैः सकामैर् गृहीतौ पादौ यस्याः सा ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असमत्वम् अतुल्यत्वम् । अविज्ञातं चालौकिकं च अविज्ञातालौकिके ते च ते ईहे चाविज्ञातालौकिके । हे ते च अवसादनं चैतेषां समाहारो विज्ञातालौकिकेहावसानम्, तथा चाविज्ञातेहालौकिकेहावसादनं चेति त्रयम् । तत्-प्रीतिर् निष्किञ्चन-प्रीतिः । अनौचित्यम् औचित्याभावः । असतो\ऽविद्यमानान् । भैष्म्या द्वौ दोषो । तद्-गुण-स्तवैः कृष्ण-गुण-कथनैः । ते दोषा एव गुणास् तद्-गुणा इतिव । तत्र तेषु षोडशसु, तत्रेत्य् उक्तार्थम् एव ॥

यद् भवान् आह, तद् एवम् एव । ननु एवार्थे । समो न त्वयेति कथं ? विभूम्नो देश-काल-वस्तु-परिच्छेद-सहितस्य व्याप्तस्य भवतः सदृशो नास्तीति, किं तु भवान् एव भवत्-समः, राम-रावणयोर् युद्धं राम-रावणयोर् इव इतिवत् । मत्-सदृशी त्वम् इति चेन् नेत्य् आह—क्व ? इति ।

ननु, ब्रह्मादयो मत्-सदृशा एव ? इति चेद्, आह—अधीश इति । त्रिगुण-स्वभावत्वे वैलक्षण्यासिद्धेर् आह—प्राकृत-गुणमयी स्वाभाविक-गुण-विकारा । प्रकृतिर् मूल-कारणं, गुणानाम् इत्य् अर्थः । अत्राक्षिपति भगवान्—नन्व् इति । इत्य् अत इत्य् अत्र । अज्ञ- इति—विद्वांसस् तु मां त्यक्त्वैव त्वाम् उपासत इति भावः ।

[तोषणी- ] अत्र टीका-पद्येषु अविज्ञात- इत्य्-आदिना दोष-त्रयम् अविज्ञातेहालौकिकेहाअवसादनं च इति । भवतः सदृशी नाहम् इति यद् भवान् आह—एतद् एवं सत्यम् एवेत्य् अर्थः । किं तु भवत इति वक्तव्ये भगवत इति गौरवात् । वै व्यक्तम् ।

ननु निश्चितम् । कुतः ? विभूम्नः, अनन्ताद्भुत-माहात्म्य-परिपूर्णस्य । अरविन्दाद् अपि विशिष्ट-लोचनेति सौन्दर्येणापि न सदृशी इति भावः । असदृशीत्वम् एव व्यञ्जयति—क्व ? इति । स्वे महिम्नि इति स्वरूपम् एव महिमा परम-प्रशंसा-हेतुः, परमानन्द-रूपत्वात् तस्मिन्न् इत्य् अर्थः । तादृशे तत्र अभि सर्वतो-भावेन, यतो भगवान् सर्वोत्कृष्ट-पदे वर्तते, अहं तु गुणा जाड्यादि-दोष-युक्तास् तमः-पर्यन्ता त्रयः । प्रकृतिः स्वरूपं यस्याः सा । क्व सर्व-निकृष्ट-पदे वर्ते\ऽतो महद् एवान्तरम् इति भावः । एवं स्वरूप-गते गौरव-लाघवे दर्शिते


ऐश्वर्य-गते अप्य् आह—त्रयाणां गुणानां ब्रह्मादीनां वा ईश आराध्यः पुरुषः, तस्याप्य् उपरीशो भगवान् अधीशः, अहं त्व् अज्ञैस् त्वद्-बहिर्मुखैर् गृहीता आश्रिताः पादा अंशाः सत्त्वादि-वैभव-रूपा यस्याः, सा, तत्-सारांश-जगल्-लक्ष्मीत्वे\ऽप्य् अज्ञैर् इन्द्रादिभिर् एवाश्रितो पादौ चरणे यस्याः सा इत्य् अर्थान्तर-व्यक्तिर् इति स्वस्य स्वरूप-शक्तित्वे\ऽपि निजांशाभास-माया-शक्तित्वेनोपन्यासो दैन्येनेव, टीकायां प्रथमार्थवत् । अतो वास्तवार्थे दैन्यं यथा स्वे स्वीये महिम्नि [का कदा]{।मर्क्} सर्वज्ञत्वादि-रूप-सौन्दर्य-सामर्थ्यादि-रूपे वैभवे\ऽभिरतो भगवान् क्व ? क्व वाहं स्वरूप-भूतत्वे\ऽपि शक्तित्वेन शक्तिमत्त्वापेक्षया गौणी प्रकृतिर् यस्याः सा, तथा त्रयाणाम् त्रिपाद्-व्याप्तिः परे धाम्नि अनित्यं पादम् ऐश्वरम् इति पाद्मोत्तर-खण्डानुसारेण वैकुण्ठ-गत-त्रिपाद्-विभूति-रूपायां सर्वोपरीश्वरो भगवान् क्व ? क्व चाहम् अस्य विष्णोस् तव ज्ञैर् ज्ञातृभिर् एव गृहीतौ पादौ यस्याः सा, त्वन्-महिमानुगति-मात्र-सिद्ध-तत्-तद्-ऐश्वर्येत्य् अर्थः ।

अथ दैन्यं विनापि वास्तवार्थे तत्-तद्-उत्तरम्—यथैवम् एवम्भूतो भगवान् क्व कुत्रान्यत्र वर्तते ? किं तु सर्वदा । ममाश्रयत्वेनैव वर्तते, अहं क्व कुत्रान्यत्र ? किं तु सर्वदा त्वद्-आश्रितत्वेनैव वर्ते, तथा गुणा भवत ऐश्वर्यादय एव प्रकृतिः स्वरूपं यस्याः सा । अत एव न विद्यते ज्ञः पण्डितो येभ्यस् तैर् गृहीत-पादेति । एवं कथम् असमत्वं घटत इति भावः ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् एवम् इत्य्-आदि । ननु, भोः! एवम् एतद् यद् उक्तं तद् एव, किन्त्व् अर्थो\ऽन्य इति प्रपञ्चयति—त्वं त्र्यधीशः, त्रयाणां गुणानाम् अधीशो नियन्ता गुणातीतः, अहं गुण-प्रकृतिः । त्वं स्वे महिम्नि आनन्दे अभिरतः । अहम् अज्ञ-गृहीत-पादा इति श्रीर् अप्य् अहं न तव योग्या इति सत्यम् एव, किं तु तवैतद् वक्तुं न योग्यम्, न ह्य् उत्तमः स्वं महिमानं प्रकटयति । राजपुत्रि [भा।पु। १०.६०.१०] इति सम्बोधन-जनिते कोपे स्वरूप-स्फूर्त्या प्रत्युत्तरम् ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भवतः सदृशी नाहम् इति यद् भवान् आह । पाठान्तरे\ऽपि स एवार्थः, किन्तु भवत इति वक्तव्ये भगवत इति गौरव-भवात् । वै व्यक्तम्। ननु निश्चितम् । एवम् एतत् सत्यम् एवेत्य् अर्थः । कुतः ? विभूम्नो\ऽनन्ताद्भुत-माहात्म्य-परिपूर्णस्य, अरविन्दाद् अपि विशिष्ट-लोचन इति सौन्दर्येणापि न सदृशीति भावः । तत् तद् एवाभिव्यञ्जयति—क्व इति । स्वे\ऽसाधारणे महिम्नि निजानन्दे\ऽभितो रतः, यतो भगवान् साक्षात् परमेश्वरः, अत एव अधीशः, अहं विषय-सुखाद्य्-अपेक्षिका स्त्री । एवं तस्य त्रयाणां विशेषणानां विरुद्धार्थत्वेन यथा-सङ्ख्यं व्याख्येयम् । यद् वा, भगवान् इति पूर्ववद् भवान् इत्य् अर्थः । ततश् च तस्य द्वयोर् विशेषणयोर् विरोधेनास्या विशेषण-द्वयम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, स्वे महिम्नि एकस्मिन्न् एव कर्मणि युगपल् लौकिकत्वैश्वर्ययोर् योगेन पूर्व-पूर्वतो माहात्म्य-विशेषे\ऽभिरतस् तत्-प्रकटन-परः । तथा चोक्तं श्री-ब्रह्मणा द्वितीय-स्कन्धे कर्माणि आत्म-महिमोपनिबन्धनानि [भा।पु। २.७.२६] इति । तच् च पूर्वं व्याख्यातम् एव । तत् सम्भावयति—यतो भगवान् अनन्ताद्भुत-शक्ति-युक्त इति । अतस् त्रयाणाम् अधो-मध्योर्ध्व-लोकानाम् अधीशः, अहं दक्षिणैक-देश-विदर्भ-राज-कन्या । किं च, स्व-गुणैः प्रकृतिर् इव प्रकृतिर् जडेत्य् अर्थः ।

ननु, तर्हि कृतैर् लोक-पाल-विभूतिभिर् भूपैः प्रार्थिता, विचाराभावात् ? इत्य् आह—अज्ञ- इति । इत्य् आत्मनो\ऽज्ञ-जनाधीशता परमाज्ञता च सूचिता । एवम् उत्क्रमेण विरोधो वितर्क्यः ।

यद् वा, पूर्ववत् तस्य विशेषणाभ्यां क्रमेणैवास्या विशेषणयोर् विरोधः । तथा हि, क्व स्वे महिम्न्य् अभिरतः, क्व गुण-प्रकृतिः, क्व सर्व-लोकानाम् अपीश्वरः, क्व भवन्-महिमानभिज्ञैः क्षुद्रैः सेव्याज्ञा इति दिक् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र टीका-पद्येषु अविज्ञात- इत्य्-आदिना दोष-त्रयम् अविज्ञातेहालौकिकेहाअवसादनं च इति । भवतः सदृशी नाहम् इति यद् भवान् आह—एतद् एवं सत्यम् एवेत्य् अर्थः । किं तु भवत इति वक्तव्ये भगवत इति गौरवात् । वै व्यक्तम् ।

ननु निश्चितं । कुतः ? विभूम्नः, अनन्ताद्भुत-माहात्म्य-गुण-सौन्दर्यादि-परिपूर्णस्य अरविन्दाद् अपि विशिष्ट-लोचन- इति भवद्-एकाङ्ग-सौन्दर्येणापि न सदृशी, किम् उत सर्वाङ्ग-सौन्दर्येणापि न सदृशी, किम् उत सर्वाङ्ग-सौन्दर्येणेति भावः ।

असदृशीत्वम् एव व्यञ्जयति—क्व ? इति । स्वे महिम्नि इति स्वरूपम् एव महिमा परम-प्रशंसा-हेतुः परमानन्द-रूपत्वात् तस्मिन्न् इत्य् अर्थः । तादृशे तत्र अभि सर्वतो-भावेन, यतो भगवान् सर्वोत्कृष्ट-पदे वर्तते, अहं तु गुणा जाड्यादि-दोष-युक्तास् तमः-पर्यन्ता त्रयः । प्रकृतिः स्वरूपं यस्याः सा । क्व सर्व-निकृष्ट-पदे वर्ते\ऽतो महद् एवान्तरम् इति भावः । एवं स्वरूप-गते गौरव-लाघवे दर्शिते ।

ऐश्वर्य-गते अप्य् आह—त्रयाणां गुणानां ब्रह्मादीनां वा ईशः आराध्यः पुरुषः, तस्याप्य् उपरीशो भगवान् अधीशः । अहं त्व् अज्ञैस् त्वद्-बहिर्मुखैर् एव गृहीताः आश्रिताः पादा अंशाः सत्त्वादि-वैभव-रूपा यस्याः सा । तत्-सारांश-जगल्-लक्ष्मीत्वेऽपि अज्ञैर् इन्द्रादिभिर् एवाश्रितौ पादौ चरणे यस्याः सा इत्य् अर्थान्तर-व्यक्तिः इति स्वस्य स्वरूप-शक्तित्वेऽपि निजांशाभास-माया-शक्तित्वेन उपन्यासो दैन्येनैव, टीकायाः प्रथमार्थवत् । त्र्यधीश इत्य् अस्य टीकायां श्री-शिव-श्री-ब्रह्मणोर् इव भगवतः श्री-विष्णोर् अपि श्री-कृष्ण-नियाम्यत्वं स्फुटम् एवाङ्गीकृतम् । अतो वास्तवार्थे दैन्यं यथा स्वे स्वीये महिम्नि [काकस्य]{।मर्क्} सर्वज्ञादि-रूप-सौन्दर्य-सामर्थ्यादि-रूपे च वैभवे\ऽभिरतो भगवान् क्व ? क्व चाहं ? स्वरूप-भूतत्वेऽपि शक्तित्वेन शक्तिमत्त्वाद् अपेक्षया गौणी प्रकृतिर् यस्याः सा ।

तथा त्रयाणां त्रिपाद्-व्याप्तिः परे धाम्नि अनित्यं पादम् ऐश्वरम् [पद्म-पु। ६] इति पाद्मोत्तर-खण्डानुसारेण वैकुण्ठ-गत-त्रिपाद्-विभूति-रूपाणां सर्वोपरीश्वरो भगवान् क्व ? क्व वाहम् अस्य विष्णोस् तव ज्ञैर् ज्ञातृभिर् एव गृहीतौ पादौ यस्याः सा । त्वन्-महिमानुगति-मात्र-सिद्ध-तत्-तद्-ऐश्वर्येत्य् अर्थः ।

अथ दैन्यं विनापि वास्तवार्थे तत्-तद्-उत्तरं—यथा एवम् एवम्-भूतो भगवान् क्व कुत्रान्यत्र वर्तते ? किं तु सर्वदा ममाश्रयत्वेनैव वर्तते अहं च कूत्रान्यत्र किं तु सर्वदा तदाश्रितत्वेनैव वर्ते तथा गुणा भवत ऐश्वर्यादय एव प्रकृतिः स्वरूपं यस्याः सा। अत एव न विद्यते ज्ञः पण्डितो येभ्यः, तैर् गृहीत-पादेति एवं कथम् असमत्वं घटते ? इति भावः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं बभाषे ? इत्य् आह—नन्व् एवम् इत्य्-आदि । ननु, भो अरविन्द-विलोचन ! यद् भवान् आह, तद् एवम् एतत् कथं नो ववृषेऽसमान् [भा।पु। १०.६०.११] इति यद् उक्तम्, तत् सत्यम् एव । भवतः सदृशी न भवाम्य् एव, यतस् त्वं त्र्य्-अधीशः, त्रयाणां गुणानां नियन्ता गुणातीत इति यावत् । अहं गुण-प्रकृतिर् गुणाः प्रकृतयो यस्याः, गुण-स्वभावेत्य् अर्थः । त्वं स्वे महिम्नि स्वानन्दे नित्य-परिपूर्ण-भावेऽभिरतः, अहम् अज्ञ-गृहीत-पादा । अतोऽहम् असदृश्य् एव, अत्यन्तासम्भावनायां क्व-द्वयम् । अतस् त्वं सत्य-वाग् एव । इति लक्ष्मीत्व-स्फूर्ताव् अपि दैन्यम् एवास्याः । इति गर्व-गर्भं दैन्यम् । किं च, तवैतद् उक्तम् अनुचितम्, न ह्य् उत्तमः स्वं महिमानं प्रकटयति सोत्प्रास-प्रत्युत्तरं च ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवता येन येन वाक्येन स्वस्यापकर्षः रुक्मिण्या उत्कर्षश् चोक्तः, तद् एव वाक्यम् अनुवदन्ती रुक्मिणी तद्-विपर्ययं व्याचष्टे । तत्र यद् उक्तं—कस्मान् नो ववृषेऽसमान् [भा।पु। १०.६०.११] इति, तत्रासाम्यं सत्यम् एवेत्य् आह—हे अरविन्द-विलोचन ! यद् भवान् आह—कस्मान् नो ववृषेऽसमान् [भा।पु। १०.६०.११] इति तत् ।

ननु निश्चितम् एवम् एतत् सत्यम् एवेत्य् अर्थः । स्वे स्वीये महिम्नि षडैश्वर्य-लक्षणे अभिरतो भगवान् त्र्य्-अधीशः । त्रिगुण-नियन्ता भगवान् क्व, अहं गुण-प्रकृतिर् जडा नियम्या वा क्व ? इति त्वत्तोऽतिनिकृष्टाया मम कुतस् त्वत्-साम्य-सम्भावनापीति भावः । गुण-प्रकृतिर् बहिरङ्ग-शक्तिस् तस्याः स्वांशत्वात्, स्वस्य तत्-स्वरूपत्व-मननम् अतिदैन्याद् एव ॥३४॥


॥ १०.६०.३५ ॥

सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः

शेते समुद्र उपलम्भन-मात्र आत्मा ।

नित्यं कदिन्द्रिय-गणैः कृत-विग्रहस् त्वं

त्वत्-सेवकैर् नृप-पदं विधुतं तमोऽन्धम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उक्तं राजभ्यो बिभ्यतः सुभ्रूः समुद्रं शरणं गतान् [भा।पु। १०.६०.१२] इति तत्राह—सत्यम् इति । हे उरुक्रम ! इति भयाभावं दर्शयति—गुणाः शब्दादय एव राजन्त इति राजानः, तेभ्यो भयाद् इव इति । अन्तर् हृदये समुद्रे तद्वद् अगाधे विषयाकारैर् अपरिच्छिन्न इत्य् अर्थः । शेते निश्चलतया प्रकाशते । उपलम्भन-मात्रश् चैतन्य-धन आत्मा भवान् इति । बलवद्भिः कृत-द्वेषान् [भा।पु। १०.६०.१२] इति यद् उक्तं तद् अपि सत्यम् इत्य् आह—नित्यम् इति । कदिन्द्रिय-गणैः कुत्सितैर् बहिर्मुखैर् इन्द्रिय-गणैः । वृत्त्य्-अभिप्रायेण बहु-वचनम् । कुत्सित इन्द्रिय-गणो येषाम् इति वा । तैस् त्वं नित्यं कृत-विग्रहः, तेषु तवाप्रतीतेः । यद् उक्तं, त्यक्त-नृपासनान् [भा।पु। १०.६०.१२] इति तद् अपि युक्तम् एवेत्य् आह—त्वत्-सेवकैर् इति । नृपाणां पदम् आसनम् अन्धं गाढं तम एव तत् । अविवेक-बहुलत्वात् । त्वत्-सेवकैर् एव तत् त्यक्तं किं पुनर् वक्तव्यं त्वया त्यक्तम् इति ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : येन पाद-न्यासेनातिबल-दैत्यानीक-पतेर् बलेः पृथिवी गृहीता, तस्य कुतो भयम् इति सम्बुद्ध्य्-अभिप्रायः । इत्य् अर्थ इति—समुद्रवद् अगाधान्तः-करणं विषयाकार-तरङ्गैर् न परिच्छिद्यत इति भावः । यद्यपि इन्द्रिय-गण एक एव, तथाप्य् एकैकेन्द्रिय-वृत्तीनाम् अनन्तत्वाद् गणैर् इति बहुत्वम् इत्य् अर्थः । इन्द्रियाणां जडत्वात् स्वतो बहिर्मुखता न सम्भवतीत्य् अत आह—कुत्सितो विषयोन्मुखः । सत्यम् इत्य् आङ्गीकारे । यद् वा, राजन्ते स्व-शक्त्या द्योतन्ते इति राजानो गुणाः, तेभ्यः इवेति शिक्षायां संसारावृत्ति-हेतु-गणेभ्यो बिभ्यज् जनः समुद्रिक्त-सुखाय समुद्रादि-जल-वासेन तपस्यति, तथाहम् अपीति भावः ।

यद् वा, —पञ्च-भूत-मुद्रा-सहिते शरीरे शेते भयाद् इव अङ्गुष्ठ-मात्रः सन् अङ्गुष्ठ-मात्रः पूरुषः [तै।आ। १०.३८.१, म।ना।उ। १६.३] इति श्रुतिः । तर्हि जीववज् जन्माद्य् अपि स्याद् अत आह—उपलम्भन-मात्रः केवल-चिन्मयः देह-धर्मास्पृष्टः । कथम् ? [भा।पु। १०.६०.१२]

[तोषणी-] भगवद्-विवक्षितस्योत्तरानुपपत्तेः—सत्यम् इति । अस्य टीकायास् तात्पर्यम् इदम् राजभ्यः [भा।पु। १०.६०.१२] इत्य्-आदि यद् उक्तं तत् तु गौण्यैव वृत्त्या सम्भवति, न तु मुख्ययेत्य् आह—सत्यम् इति । यद् भवान् अन्तः समुद्रे समुद्र-मध्ये द्वारकायां दुर्गे शेते लीनतया प्रकाशते, तद् भयाद् इव इत्य् एव, न तु भयाद् एवेत्य् अर्थः । यतो गुणाख्य- राजभ्यश् चित्ताख्यान्तः-करण-समुद्रे तस्माद् इवान्तर्यामि-रूपेणापि शेते, न तु तस्माद् एवेत्य् अर्थः । उभयत्र हेतुः—उपलम्भन- इति । यच् च बलवद्भिः इत्य्-आदिकम् उक्तं तत् तु मुख्ययैव । सत्यम् इत्य् आह—कदिन्द्रिय-गण-युक्तैर् जिवैः कर्तृभिर् नित्यम् एव कृतो विग्रहो विरोधो यत्र, तथाभूतस् त्वम् अतः सम्प्रत्य् अपि तादृशे राजभिः स एव कर्तुं योग्य इत्य् अर्थः । श्लेषेण यतो\ऽन्तर्यामि-रूपत्वेऽपि कुत्सितैर् इन्द्रिय-गणैः कृत-विग्रहस् त्वम् इत्य् अर्थः। यतस् तादृशेषु च त्वदीय-स्वरूपादीनां यथावत् स्फूर्तिर् नास्ति, ततस् तेषां त्वयि विरोधारुच्य्-आदिमय-द्वेषी युक्त एवेति भावः ।

अथवा—आत्मा त्वम्, शेते इत्य् अन्वयानुपपत्तेर् आत्मत्वम् इत्य् एतयोः पदयोर् न विशेषण-विशेष्य-भावः, अत उपमानोपमेय-भाव एव योज्यः । इवाद्य्-अभावः, न तु लुप्तोपमेयम् । अयम् अर्थः—हे उरुक्रम ! आत्मा शुद्ध-जीवो यथा गुणेभ्यस् तन्-मयेभ्यः कदिन्द्रियेभ्यो भयाद् इव अन्तर् हृदयाकाशे समुद्रवद्-अनवगाह्ये शेते लीनतया वसति, तथा त्वं गुणेभ्यः सदा, अधुना तु तत्-प्रधानेभ्यो राजभ्यश् च भयाद् इवान्तः समुद्रे समुद्रस्य मध्ये श्वेतद्वीपादाव् इव द्वारकाख्ये धाम्नि शेते नित्यं तथा वससि । तथा च श्रुतयः—

यम् अन्तः-समुद्रे कवयो वयन्ति > तद् अक्षरे परमे प्रजातयः । > यतः प्रसूता जगतः प्रसूती > तोयेन जीवान् व्याससर्ज भूम्याम् ॥ [म।ना।उ। १.३-४]

इत्य् आरभ्य, तद् एव ब्रह्म परमं कवीनाम् [म।ना।उ।१.६] इत्य्-आद्याः,

यं कामये तं तम् उग्रं कृणोमि, तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् [देवी-सूक्त ५] समयो निश्चरन्तः इति महा-लक्ष्मी-वचनाद्याश् च, नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भा।पु। ११.३१.२४] इत्य् एकादश-वचनं च । तत्रोभयत्र साम्यम् उपैति भगवत्य् अपि तन्-मात्रत्वं सच्-चिद्-आनन्द-विग्रहत्वाद् इति ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं भगवता यद् उक्तम्, तद् एवान्यथयति सत्यं भयाद् इव इत्य्-आदि बहुभिः । ॥३५॥

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सत्यम् अन्तः शेते । कूतः ? गुणेभ्यो भयात् । कुतः ? बहिः स्थित्या विषय-दोष-स्पर्श-शङ्कात इत्य् अर्थः । इव इति तत्त्वतो दोषास्पर्शेन भयाभावात् । क्रमो विक्रमः । गुणेभ्य इति तेषां प्रायः सर्वत्र प्रकाशमानतया राजभिर् ऐक्येन तेनैव राज्ञां बोधनात् । एवं बलवत्त्वेन कदिन्द्रियैर् इत्य् अपि बहिः-स्थस्य अन्तः-शयनम् उपपादयति—उप- इति । ज्ञान-घन-मूर्तिः, अत एव आत्मा भवान् एव । भवान् इति वक्तव्ये आत्मा इति पूर्ववद् गौरवात् ।

यद् वा, पूर्वतो भवान् इत्य् अनुवर्तत एव, आत्मा स्वयम् एवेति । किं वा, अन्तर्यामितयेत्य् अर्थः । सत्यम् इति परत्राप्य् अनुवर्तते । कदिन्द्रिय-गणैः सह कृतो विग्रहो विरोधो येन सः, तेभ्यो नरकादिषु दुःख-प्रदानात् । यद् वा, तैः कृतो विग्रहो यस्मिन् सः, तेषां त्वद्-अभजनात्। एवं पूर्वोक्त-बलवद्भिर् इत्य् अत्रापि वाक्यं ज्ञेयम् । तव सेवकैः परिचर्या-मात्र-भक्तौ प्रवर्तमानैर् अपि, अत्रैवम् एक-वाक्यता, यतो\ऽन्तः शेते, अतः कदिन्द्रियैः कृतविग्रहः, बहिर्मुखतया अन्तर्-दृष्ट्य्-अभावेन महा-दुष्टता-सम्पत्तेः । अत एव त्वत्-सेवकैर् विधूतम् । नृप-पदे कदिन्द्रियत्व-सिद्धेर् इति ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवद्-विवक्षितस्योत्तरानुपपत्तेः—सत्यम् इति । अस्य टीकायास् तात्पर्यम् इदम् राजभ्यः [भा।पु। १०.६०.१२] इत्य्-आदि यद् उक्तं, तत् तु गौण्यैव वृत्त्या सम्भवति, न तु मुख्ययेत्य् आह—सत्यम् इति । यद् भवान् अन्तः समुद्रे समुद्र-मध्ये द्वारकायां दुर्गे शेते लीनतया प्रकाशते, तद् भयाद् इव इत्य् एव, न तु भयाद् एवेत्य् अर्थः । यतो गुणाख्य-राजभ्यश् चित्ताख्यान्तः-करण-समुद्रे तस्माद् इवान्तर्यामि-रूपेणापि शेते, न तु तस्माद् एवेत्य् अर्थः । उभयत्र हेतुः—उपलम्भन- इति । यच् च बलवद्भिः इत्य्-आदिकम् उक्तं, तत् तु मुख्ययैव । सत्यम् इत्य् आह—कदिन्द्रिय-गण-युक्तैर् जिवैः कर्तृभिर् नित्यम् एव कृतो विग्रहो विरोधो यत्र, तथाभूतस् त्वम् अतः सम्प्रत्य् अपि तादृशे राजभिः स एव कर्तुं योग्य इत्य् अर्थः । श्लेषेण यतो\ऽन्तर्यामि-रूपत्वेऽपि कुत्सितैर् इन्द्रिय-गणैः कृत-विग्रहस् त्वम् इत्य् अर्थः। यतस् जीवेष्व् इन्द्रियेषु च त्वदीय-स्वरूपादीनां यथावत् स्फूर्तिर् नास्ति, ततस् तेषां त्वयि विरोधारुच्य्-आदिमय-द्वेषी युक्त एवेति भावः । अन्यत् तैः ।

अथवा—आत्मा त्वम्, शेते इत्य् अन्वयानुपपत्तेर् आत्मत्वम् [आत्मा त्वम्] इत्य् एतयोः पदयोर् न विशेषण-विशेष्य-भावः, अत उपमानोपमेय-भाव एव योज्यः । इवाद्य्-अभावः, न तु लुप्तोपमेयम् । अयम् अर्थः—हे उरुक्रम ! आत्मा शुद्ध-जीवो यथा गुणेभ्यस् तन्-मयेभ्यः कदिन्द्रियेभ्यो भयाद् इव अन्तर् हृदयाकाशे समुद्रवद्-अनवगाह्ये शेते लीनतया वसति, तथा त्वं गुणेभ्यः सदा, अधुना तु तत्-प्रधानेभ्यो राजभ्यश् च भयाद् इवान्तः समुद्रे समुद्रस्य मध्ये श्वेतद्वीपादाव् इव द्वारकाख्ये धाम्नि शेते नित्यं तथा वससि । तथा च श्रुतयः—

यम् अन्तः-समुद्रे कवयो वयन्ति > तद् अक्षरे परमे प्रजातयः । > यतः प्रसूता जगतः प्रसूती > तोयेन जीवान् व्याससर्ज भूम्याम् ॥ [म।ना।उ। १.३-४]

इत्य् आरभ्य, तद् एव ब्रह्म परमं कवीनाम् [म।ना।उ।१.६] इत्य्-आद्याः,

यं कामये तं तम् उग्रं कृणोमि, तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् [ऋ।वे। १०.१२५.५, देवी-सूक्त ५] समयो निश्चरन्तः इति महा-लक्ष्मी-वचनाद्याश् च, नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भा।पु। ११.३१.२४] इत्य् एकादश-वचनं च । तत्रोभयत्र साम्यम् उपैति भगवत्य् अपि तन्-मात्रत्वं सच्-चिद्-आनन्द-विग्रहत्वाद् इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्यम् इति । [कद्-इन्द्रिय-गणैः इति भा। ८.३.२८-पद्ये द्रष्टव्यम्]॥३५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : राजभ्यो बिभ्यत् सुभ्रु समुद्रं शरणं गतान् [भा।पु। १०.६०.१२] इति यद् उक्तम्, तद् अपि सत्यम् एवेत्य् आह—सत्यम् इत्य्-आदि । हे उरुक्रम ! आत्मा भवान् विग्रह-रूपी, त्वं गुणेभ्यो गुण-कार्येभ्यो राजभ्यो भयाद् इव समुद्रेऽन्तः अन्तः-समुद्रं शेते इति यत् तद् अपि सत्यम् । कीदृश आत्मा ? उपलम्भन-मात्रः । उपलम्भनम् उपलब्धिर् ज्ञानं तन्मात्रम् अंशो यस्य । ज्ञानम् इति यद् वस्तु, तद् अपि तवैव मात्रेत्य् अर्थः । वस्तुतस् तु, असमुद्रो मुद्रा सङ्कोचः, तया सह वर्तत इति तथा । न समुद्रम् असमुद्रम् असङ्कोचम् इति यावत् । एवं-विधेऽन्तः भक्तानाम् अन्तःकरणे शेते इव । कीदृशः ? भयात्, भयम् अत्ति इति भयात् । यद् बिभेति स्वयं भयं [भा।पु। १.१.१४], भीर् अपि यद् बिभेति [भा।पु। १.८.३४] इत्य्-आद्य्-उक्तेः । पुनः कीदृशः ? गुणेभ्यो गुणाढ्यः । इभ्य आढ्यो धनी इत्य्-आद्य्-अमरः । गुणातीतोऽपि भक्त-वात्सल्यादि-मङ्गल-गुण-भूयिष्ठः । अतस् तव कुतो भीः ? अतो राजभ्यो बिभ्यत इति यद् उक्तम्, तद् अबिभ्यत इति मन्तव्यम् । समुद्रं मुदानन्दस्य रा दानं, तया सह वर्तमानम्, शरणं गृहं धाम, गता इति ।

भगवद्-वचनम् अन्यथा व्याख्याति । किं तु अभक्तास् तु त्वाम् एवम् अजानन्तो भवता सह विग्रहं कुर्वन्तीत्य् आह—नित्यम् इत्य्-आदि । कदिन्द्रिय-गणास् तद्-विमुखेन्द्रियाः । अत एव तेऽबला एव ज्ञान-रहितत्वात्, तैः कृत-विग्रहः कृत-देह एव त्वं न तु तैर् गीयसे, कदिन्द्रिय-गणत्वेन अधमत्वाद् दुर्बला एव ते, यतस् तेन बलवद्भिः [१२] कृत-द्वेषान् इति यद् उक्तम्, तद् अपि विरोधि-लक्षणयैवेति सत्यं त्यक्त-नृपासनान् इति यद् उक्तम्, तद् अपि सत्यम् एव । कुतः ? इत्य् आह—त्वत्-सेवकैर् इत्य्-आदि । त्वत्-सेवका अपि नृप-पदं त्यजन्ति, किं पुनस् त्वम् इति सर्वथा सत्य-वाग् एव भवान् इति वक्रोक्तिः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं—राजभ्यो बिभ्यत् सुभ्रु समुद्रं शरणं गतान् [भा।पु। १०.६०.१२] इति तत्राह—सत्यम् इति । हे उरुक्रम ! महाशक्ते इति भयाभावं दर्शयति—क्रमः शक्तौ परीपाट्याम् इति विश्वः । गुण-शब्दादयस् तेभ्यः राजन्त इति राजानः, तेभ्यो भक्तानां यद् भयं, तद् एव भक्ताधीनस्य तवापि भयम् इव इत्य् अतस् तद्-भयाद् इव अन्तः-समुद्रे समुद्रवद् अगाधे स्व-भक्त-हृदय एव शेते । अतः शरणं गतान् इति । शरण-शब्दस्य गृहम् इत्य् अर्थः कृतः ।\


तत्र ममास्तित्वे किं प्रमाणम् ? इति चेत्, तत्राह—नापैषि नाथ हृदयाम्बु-रुहां स्व-पुंसाम् [भा।पु। ३.९.५] इति, प्रणय-रशनया धृताङ्घ्रि-पद्मः [भा।पु। ११.२.५५] इति ब्रह्मादि-वाक्याद् उपलम्भनं मात्राणां रूप-रस-गन्धादीनां यस्य सः । भक्तैर् ध्यानोपलभ्यमान-सौन्दर्यादिर् इत्य् अर्थः । आत्मा परमात्मा भवान् एवेत्य् अर्थः ।

यद् उक्तं—बलवद्भिः कृतद्-वेषान् [१२] इति तत्राह—नित्यम् इति । कदिन्द्रिय-गणैः स्वभक्तस्य विषय-ग्राहिभिर् इन्द्रियैः सह कृत-युद्धः गणैर् इति वृत्त्य्-अभिप्रायेण बहुत्वं भक्तस्य संसार-दुःख-त्राणार्थम् इति भावः ।

अयम् अर्थः—साधक-भक्तानां प्रथमतो ध्यान-गम्यं यत् किञ्चिन् माधुर्यम् एव त्वं भवसि, न तु प्रत्यक्षी-भवसि यत्, तन् मन्ये विषयेभ्यो भयाद् इव तद्-अन्तःकरणे प्रविश्य स्वपिष्य् एव । यतो भक्ति-वृद्ध्या कदिन्द्रियेषु विजितेषु सत्सु विषय-निवृत्तौ सत्यां स्वापाद् उत्थित इव साक्षाद् एव प्रत्यक्षीभूय स्वीयानेक-माधुर्याणि स्वभक्तान् ग्राहयसीति ।

यद् उक्तं—त्यक्त-नृपासनाम् [१२] इति तद् अपि युक्तम् एवेत्य् आह—त्वत्-सेवकैर् अपि नृप-पदं नृपासनम् अविवेक-बहुलत्वाद् अन्धं तम इव विधूतं त्यक्तं, किं पुनर् वक्तव्यं ? त्वया त्यक्तम् इति । अत्र सेवकैर् इति पद-दृष्ट्या पूर्वत्रोभयत्रापि भक्त-सम्बन्धो व्याख्यातः ॥३५॥


॥ १०.६०.३६ ॥

त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां

वर्त्मास्फुटं नृ-पशुभिर् ननु दुर्विभाव्यम् ।

यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य

भूमंस् तवेहितम् अथो अनु ये भवन्तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्पष्ट-वर्त्मनां पुंसाम् अलोक-पथम् ईयुषाम् [१०.६०.१३] इति यद् उक्तं, तद् अपि तथैवेत्य् आह—त्वत्-पाद- इति । नृ-पशुभिर् नराकारैः पशुभिः । किं पुनर् वक्तव्यं ? तव वर्त्मास्फुटम् इति । किं च, यस्माद् ये भवन्तम् अनुवर्तन्ते तेषाम् अपि ईहितम् अलौकिकम् इवअथो अतः किम् उ वक्तव्यं तव ईश्वरस्य ईहितम् अलौकिकम् इत्य् अर्थः । आस्थिताः पदवीं सुभ्रूः प्रायः सीदन्ति योषितः [१०.६०.१३] इत्य् अस्य परिहारं वक्ष्यति—यद् वाञ्छया [१०.६०.३८] इति पञ्चम-श्लोके ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैव सत्यम् एव अलौकिकेहत्वम् आह—किं च इति । इत्य् अर्थ इति—विधि-निषेध-विषयता-ज्ञस्यैव न ज्ञानिनः, नतरां सर्वज्ञस्य तव इति भावः । पञ्चम-श्लोके—अतः परत्र पञ्चम इत्य् अर्थः । ननु प्रेम-सम्बोधने निश्चये वा। मुनयो ज्ञानिनः, तेषाम् अपि त्वद्-भक्त-सङ्गादि-प्रभावेण त्वत्-पादयोर् मकरन्दो यत् किञ्चिन् माधुर्यं, तज्-जुषां वर्त्म निजाभिरुचित-चेष्टितम् । अस्फुटं स्वाच्छादन-लोक-सङ्ग्रहाद्य्-अर्थ-चेष्टितान्तरावृतम् अतो दुर्विभाव्यम्, बोद्धुम् अशक्यम् इति भावः । इहास्पष्ट-वर्त्मनाम् इति स्व-मते योजितम् । अलौकिकम् इव यतः लोकातीतं लौकिकत्वे\ऽप्य् अलौकिकत्व-दर्शनात् । तत्र हेतुः—हे भूमन् ! अपरिच्छिन्न-माहात्म्य ! इति ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुनयो ज्ञानिनः, तेषाम् अपि त्वद्-भक्त-सङ्गादि-प्रभावेण त्वत्-पादयोर् मकरन्दो भक्ति-रसस् तज्-जुषां सताम्, किन्तरां सहज-भक्तिमताम्, किन्तमां भवेत्य् अर्थः । ननु प्रेम-सम्बोधने निश्चये वा । अस्फुटम् असङ्गतम्, मधु-पानेन मत्तानाम् इवाननुसन्धानेन निजाचार-च्युते, अतो दुर्विभाव्यं बोद्धुम् अशक्यम् । नृ-पशुभिर् इति सद्-बुद्धिभिस् तु बोद्धुं शक्यम् इति भावः । तेषां कर्मस्व् अनधिकारात्, तच् च तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदौ बहुशो वक्तव्यम् एवम् एव । किं च, तेषाम् अभिप्रायादि-तर्कनाच् च । कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः [गी। ४.१७] इत्य्-आदौ विकर्मणो\ऽपि कस्यचिद् अनुमत-विहितत्वाद् इति दिक् ।

अलोक-पथम् ईयुषाम् [भा।पु। १०.६०.१३] इत्य् अत्रोत्तरं—यस्माद् इति । अलौकिकं लोकातीतम्, इव इति प्रायः सदाचार-पालनेन लोकानुसरणात् । यद् वा, लोकोक्ति-रीत्यानधिकार्थः । तत्र हेतुः—भूमन् ! हे अपरिच्छिन्न-माहात्म्य ! इति लौकिकत्वे परिच्छिन्नतापत्त्या लोकातीतस्य एव ईहितस्य योग्यत्वाद् इति भावः अन्यत् तैर् व्याख्यातम् । यद् वा, अस्फुटत्वे हेतुः—यस्माद् इति । इव एव, अलौकिकम् एव, अथो अतस् तेषाम् अपि ईहितम् अलौकिकम् एव । अन्यत् समानम् ।

एवम् अप्य् अलोक-पथम् ईयुषाम् [भा।पु। १०.६०.१३] इत्य् अस्योत्तरं सिद्धम् एव । यद् वा, पूर्वम् अप्य् अस्पष्ट-वर्त्मनाम् इत्य् अत्रैव हेतुः—अलोक- इति । ननु, निश्चये, एतद् अपि निश्चितम् एवेत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु प्रेम-सम्बोधने निश्चये वा मुनयो ज्ञानिनः, तेषाम् अपि त्वद्-भक्त-सङ्गादि-प्रभावेन त्वत्-पादयोर् मकरन्दो यत् किञ्चिन् माधुर्यं तज्-जुषां वर्त्म निजाभिरुचित-चेष्टितम् अस्फुटं स्वाच्छादन-लोक-सङ्ग्रहाद्य्-अर्थ-चेष्टितान्तरेण आवृतम् अतो दुर्विभाव्यं बोद्धुम् अशक्यम् इति भावः । नृ-पशुभिर् इति सद्-बुद्धिभिस् तु बोद्धुं शक्यम् इति भावः इत्य् अस्पष्ट-वर्मनाम् इति स्व-मते योजितम् । अलोक- इति योजयति—यस्माद् इति । अलौकिकं लोकातीतम् इवेति लौकिकत्वे\ऽप्य् अलौकिकत्व-दर्शनात् । तत्र हेतुः—भूमन् ! हे अपरिच्छिन्न-माहात्म्य ! इति ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, अस्पष्ट-वर्त्मनाम् [भा।पु। १०.६०.१३] इति यद् उक्तम्, तद् अपि सत्यम् एव । तव वर्त्मनोऽस्पष्टत्वं प्रसिद्धम् इति किं चित्रं ? त्वद्-अनुसृतानाम् अपि यत्, तथैवेत्य् आह—त्वत्-पाद-पद्म- इत्य्-आदि । त्वत्-पाद-पद्मे यो मकरन्दश् चिद्-रसः, तज्-जुषां मुनीनां वर्त्म अस्फुटम्, तन् नृ-पशुभिर् नराकारैः पशुभिर् दुर्विभाव्यम्

ननु भोः कुतः ? इत्य् आह—यस्माद् ईश्वरस्य तवेहितम् अलौकिकम् एव । इव एवार्थे । हे भूमन् ! भवन्तम् अनु अनुगता ये एकान्त-भक्ताः, तेषां च ईहितम् अलौकिकम् एव । तत्त्वाद् वर्त्मास्फुटम् एवेति सत्य-वाग् एवासीति वाक्यार्थः ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्पष्ट-वर्त्मनां [भा।पु। १०.६०.१३] इति यद् उक्तम्, तद् अपि तथेत्य् आह—त्वद् ति । नन्व् इति निश्चये । अलोक-पथम् ईयुषाम् [भा।पु। १०.६०.१३] इति यद् उक्तं, तद् अपि सत्यम् एवेत्य् आह—यस्माद् अलौकिकं लोकातीतम् एव तवेहितम् अथो अत एव भवन्तम् अनुवर्तन्ते ये, तेषाम् अपीहितम् अलौकिकम् एव ॥३६॥


॥ १०.६०.३७ ॥

निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद्

यस्मै बलिं बलिभुजोऽपि हरन्त्य् अजाद्याः ।

न त्वा विदन्त्य् असुतृपोऽन्तकम् आढ्यतान्धाः

प्रेष्ठो भवान् बलि-भुजाम् अपि तेऽपि तुभ्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः ।

तस्मात् प्रायेण न ह्य् आढ्या मां भजन्ति सुमध्यमे ॥ [भा।पु। > १०.६०.१४]

इत्य् एतच् छ्लोकोक्तं दोष-त्रयं परिहरति—निष्किञ्चन इति । दरिद्रता-लक्षणं निष्किञ्चनत्वं तु तव न घटत इत्य् आह—यस्मा इति । अन्यतो बलिभुजः पूज्या अपि ब्रह्मादयो यस्मै भवते बलिं हरन्ति, तस्य सर्वेश्वरस्य भवतो दरिद्रता न घटत इत्य् अर्थः । निष्किञ्चन-जन-प्रियाः इत्य् अत्र तत्पुरुषेण बहुव्रीहिणा वा निन्दा स्याद् इति स्वयम् अप्य् उभयथा स्तौति—प्रेष्ठो भवान् इति । बलिभुजां ब्रह्मादीनां लोकेश्वराणां त्वं प्रेष्ठः, तेऽपि तुभ्यं तवेति । तस्मात् प्रायेण न ह्य् आढ्या मां भजन्ति [भा।पु। १०.६०.१४] इति तस्योत्तरं—न त्वा विदन्ति इति । आढ्यतयाऽन्धास् त्वा त्वाम् अन्तकं न विदन्ति । अतस् ते असुतृपः असून् एव तर्पयन्ति न त्वां भजन्तीत्य् अर्थः ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यतो\ऽन्येभ्यः । इत्य् अर्थ इति—न हि मत्-कटाक्षापेक्षि-ब्रह्मादि-सेव्य-पाद-मत्-सेव्यस्य नैःस्व-लक्षण-दोर्-गत्यं सङ्गच्छत इति भावः । तत्-पुरुषेण निष्किञ्चन-जनानां प्रिया इत्य् एवं-रूपेण । बहुव्रीहिणा निष्किञ्चन-जनाः प्रिया येषां ते तथेत्य् एवं-रूपेण वा । स्वयम् अपि रुक्मिण्य् अपि । उभयथा समास-द्वयाभिप्रायेण । प्रेष्ठो\ऽतिप्रियः । इत्य् अर्थ इति—न हि प्राण-तर्पण-पराणां त्वद्-दृष्टिर् भवतीति भावः ।

[तोषणी-] निष्किञ्चनाः [भा।पु। १०.६०.१४] इत्य् अस्य योग्यम् अर्थं योजयति । निर् इति निषेधे । ननु निश्चये । यतो यद् व्यतिरिक्तम् अन्यत् किञ्चिन् नास्ति, अत एव निष्किञ्चनः, नान्यत इत्य् अर्थ । ननु, दरिद्र एव निष्किञ्चनः प्रसिद्धः—सत्यम्, तादृशत्वं तु तव न घटत इत्य् आह—यस्मा इति ।

तस्मात् प्रायेण [भा।पु। १०.६०.१४] इत्य् उक्तं सत्यम् एवेत्य् आह—न त्वाम् इति । अन्तम् इति वीर्याणि तस्याखिल-देह-भाजाम् [भा।पु। १०.१.७], वीर्याणि तस्याखिल इति, प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया [भा।पु। १०.५१.४९] इत्य्-आदि-प्रामाण्येन, न यतो\ऽस्ति किञ्चित् इति न्यायेन च तेषाम् अन्तवद् रूपं त्वां तद्-रूपतया न विदन्ति, स्व-शासन-कर्तृत्वेनापि नानुसन्दधते ।

यद् वा, अन्ते मरणे\ऽपि कं स्मरणादिना सुखं यस्मात्, तम् अपि न विदन्ति । ते के ? ये आढ्यतयान्धा ज्ञान-हीनाः, न तु बहिर्-आढ्य-मात्राश् च । अत एव भवतापि प्रायेण इत्य् उक्तम्। यतो यत्र वा असु-तृपो निजेन्द्रिय-मात्र-भरण-तत्पराः, न त्व् अन्य इति । निष्किञ्चन-जन इत्य् अस्य योग्यम् अर्थं योजयति—बलि-भुजाम् इति । तेषाम् अपि भवान् एव प्रेष्ठः, न तु बलयो बलि-दातारो वा । तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०] इत्य्-आदिभ्यः । अत एव आढ्या अपि तेन तत्तया अन्धाः, प्रत्युत निष्किञ्चना एव, विषय-भोगे\ऽपि तत्र रागाभावात्


ननु, सम्पद्-अभाव-मात्रेण अन्ये तद्-अङ्ग-ब्रह्मचर्यतयापि सम्भवात्, अत एव त्वां त एव भजन्ति, नान्ये । एवं तवापि त एव प्रेष्ठा इति तन्-निष्किञ्चनत्वं परम् अविशिष्टम् एवेति । अत्र समास-भेदकस्य स्वर-विशेषस्यानुसन्धानं वैकल्याद् एव ज्ञेयम् । एक-वाक्यता चैवं निश्चितं—भवान् निष्किञ्चनो यदि, तर्हि कथं मद्-उक्तम् अङ्गीचकर्थैव ? सत्यम्, तत्र न दरिद्रत्व-लक्षणेनार्थेन, किन्त्व् अनेनैवेत्य् आह— इति । अत एव यस्मा इत्य्-आदि । ये तु त्वां न विन्दन्ति ते खल्व् आढ्यतान्धा असुतृपश् च । ये तु त्वां विन्दन्ति ते खल्व् अतिप्रेष्ठा इत्य् एतद्-योजनापेक्षयैव तद्-उक्ताक्रमेणोत्तरम् । आस्थिताः [भा।पु। १०.६०.१३] इत्य्-आदेस् तूत्तरं संरम्भ-योग्यत्वात् तत्-प्रसङ्गे देयम् ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यतो यद्-व्यतिरिक्तम् । ननु, दरिद्र एव निष्किञ्चनः प्रसिद्धः ? तत्राह—यस्मा इति । अन्तकम् इति पुत्रादि-मृत्यु-दृष्टान्तेनावश्यं भावि-मरणानुसन्धानाद् अन्तकतयापि वेदितुं योग्यम् इति भावः । यद् वा, अन्ते मरणे\ऽपि कं स्मरणादिना सुखं यस्मात् तम् अपि न विदन्ति, यतो\ऽसुतृपः, यत आढ्यतया अन्धा ज्ञानहीनाः, उक्त-न्यायेन सर्वलोक श्रेष्ठत्वान्निरहङ्कारत्वाद्वा श्री-ब्रह्मादय एवाकिञ्चनास् तेषां प्रेयान् इत्य् आह—प्रेष्ठ इति । अपि-द्वयम् उभयत्रापि प्राधान्यं गमयति । यद् वा, बलिभुजाम् अपि किं पुनर् वक्तव्यम्, त्वद्-अर्थं त्यक्ताशेष-परिग्रहाणां निष्किञ्चनानाम् इति । एवं श्री-ब्रह्मादीनाम् आढ्यत्वे\ऽप्य् आन्ध्याभावेन असुतृप्त्वाभावाज् ज्ञानेन त्वद्-भजन-योग्यम् एवेत्य् अभिप्रायेण प्रस्ताव-प्रसङ्गत्या तथा सर्व-सारतरस्य प्रेष्ठत्वस्य स्तुति-रीत्यान्ते निर्देश्यतया पूर्वोक्त-क्रमातिक्रमेणोत्तरं आस्थिताः [१३] इत्य्-आदेस् त्व् अग्रे संरम्भेणैव देयत्वेन तद्-उक्तानुकूलोत्तरं प्रसङ्गे\ऽस्मिन् न दत्तम् इति ज्ञेय । तच् च तैर् अप्य् अग्रे व्याख्येयम् । अत्रैवम् एक-वाक्यता । बलि-भुजां पूज्यम् अप्य् अहो आढ्यतान्धाः, विदन्ति, तच् च युक्तम् एवेत्य् आह—प्रेष्ठ इति, आढ्यतान्धानां तद्-अप्रियत्वाद् इति भावः ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निष्किञ्चनाः [भा।पु। १०.६०.१४] इत्य् अस्य योग्यम् अर्थं योजयति । निर् इति निषेधे । ननु निश्चये । यतो यद् व्यतिरिक्तम् अन्यत् किञ्चिन् नास्ति, अत एव निष्किञ्चनः, नान्यत इत्य् अर्थ । ननु, दरिद्र एव निष्किञ्चनः प्रसिद्धः—सत्यम्, तादृशत्वं तु तव न घटत इत्य् आह—यस्मा इति ।

तस्मात् प्रायेण [भा।पु। १०.६०.१४] इत्य् उक्तं सत्यम् एवेत्य् आह—न त्वाम् इति । अन्तकम् इति वीर्याणि तस्याखिल-देह-भाजाम् [भा।पु। १०.१.७], वीर्याणि तस्याखिल इति, प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया [भा।पु। १०.५१.४९] इत्य्-आदि-प्रामाण्येन, न यतो\ऽस्ति किञ्चित् इति न्यायेन च तेषाम् अन्तक-रूपं त्वां तद्-रूपतया न विदन्ति, स्व-शासन-कर्तृत्वेनापि नानुसन्दधते ।

यद् वा, अन्ते मरणे\ऽपि कं स्मरणादिना सुखं यस्मात्, तम् अपि न विदन्ति । ते के ? ये आढ्यतयान्धा ज्ञान-हीनाः, न तु बहिर्-आढ्य-मात्राश् च । अत एव भवतापि प्रायेण इत्य् उक्तम्। यतो यत्र वा असु-तृपो निजेन्द्रिय-मात्र-भरण-तत्पराः, न त्व् अन्य इति । निष्किञ्चन-जन इत्य् अस्य योग्यम् अर्थं योजयति—बलि-भुजाम् इति । तेषाम् अपि भवान् एव प्रेष्ठः, न तु बलयो बलि-दातारो वा । तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०] इत्य्-आदिभ्यः । अत एव आढ्या अपि तेन तत्तया अन्धाः, प्रत्युत निष्किञ्चना एव, विषय-भोगे\ऽपि तत्र रागाभावात्


ननु, सम्पद्-अभाव-मात्रेण अन्ये तुरङ्ग-ब्रह्मचर्यतयापि सम्भवात्, अत एव त्वां त एव भजन्ति, नान्ये । एवं तवापि त एव प्रेष्ठा इति तन्-निष्किञ्चनत्वं परम-विशिष्टम् एवेति । अत्र समास-भेदकस्य स्वर-विशेषस्यानुसन्धानं वैकल्पाद् एव ज्ञेयम् । एक-वाक्यता चैवं निश्चितं—भवान् निष्किञ्चनो यदि, तर्हि कथं मद्-उक्तम् अङ्गीचकर्थैव ? सत्यम्, तत्र न दरिद्रत्व-लक्षणेनार्थेन, किन्त्व् अनेनैवेत्य् आह— इति । अत एव यस्मा इत्य्-आदि । ये तु त्वां न विन्दन्ति ते खल्व् आढ्यतान्धा असुतृपश् च । ये तु त्वां विन्दन्ति इत्य् आह—प्रेष्ठ ते खल्व् अतिप्रेष्ठा इत्य् एतद्-योजनापेक्षयैव तद्-उक्तातिक्रमेणोत्तरम् । आस्थिताः [भा।पु। १०.६०.१३] इत्य्-आदेस् तूत्तरं संरम्भ-योग्यत्वात् तत्-प्रसङ्गे देयम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निष्किञ्चन इति । निर् इति निषेधे । नु निश्चितं भवान् निष्किञ्चनः तर्हि कथं मदुक्तमङ्गीचकर्थैव सत्यम् । तत् तु न दरिद्रत्वऌएनेन, किन्त्वनेनैवेत्य् आह— इति । अत एव यस्मा इत्य्-आदि । ये तु त्वां न विदन्ति, ते खल्व् आढ्यतान्धा असुतृपश् च । ये तु त्वां विदन्ति, ते खल्व् अतिश्रेष्ठा इत्य् आह—प्रेष्ठ इति । एतद्-योजनापेक्षयैव तद्-उक्तातिक्रमेणोत्तरम् । आस्थिता इत्य्-आदेस् तूत्तरं संरम्भ-योग्यत्वात् तत्-प्रसङ्गे देयम् ॥३७-४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, निष्किञ्चना वयं शश्वन् निष्किञ्चन-जनप्रियाः [भा।पु। १०.६०.१४] इति यद् उक्तम्, तद् अपि सत्यम् एवेत्य् आह—निष्किञ्चन इत्य्-आदि । ननु भो भगवन् ! भवान् निष्किञ्चन एव । कुतः ? इत्य् आह—न यतोऽस्ति किञ्चित्, न विद्यते किञ्चन यस्माद् इति पञ्चम्य् अन्य-पदार्थेन, सत्यम् एव तद् इत्य् अर्थः ।

ननु ब्रह्मादयो मद्-भिन्नाः पृथग्-ईशा वर्तन्ते, तत् कथम् अयम् अर्थः समर्थ्यताम् इत्य् आशङ्क्याह—यस्मै बलिम् इत्य्-आदि । बलि-भुजो ब्रह्मादयो यस्मै तुभ्यं बलिं हरन्ति, अतोऽसुतृपो विषयिणः त्वां न विदन्ति । कीदृशं त्वां ? अन्तकं कालाख्य-शक्त्या सर्व-संहारकम् । ते कीदृशाः ? आत्मतयैश्वर्येणान्धाः । न केवलं तेषाम् एवान्तकः, अपि तु बलिभुजां ब्रह्मादीनाम् अपि, न केवलम् असुतृप एव आढ्यतान्धास् तेऽपि बलिभुजोऽपीत्य् अर्थः । अतस् त्वं प्रेष्ठः प्रियतमः, सर्वेषां प्रेष्ठः । अत एव निष्किञ्चनोऽसीति यत् तत् सत्यम् एवेति वाक्यार्थः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्किञ्चना वयं शश्वत् [भा।पु। १०.६०.१४] इति यद् उक्तं तत्राह—निष्किञ्चन इति । निर् इति निषेधे । नास्त्य् अधिकं किम् अपि वस्तु यस्मात्, स निष्किञ्चनत्वम् । यद् वा, सर्व-विभक्तिकस् तसिः । न विद्यते किञ्चन ऐश्वर्य-माधुर्ये यशो-बल-ज्ञान-वैराग्यादिकं, किं तु सर्वांशित्वात् सम्पूर्णम् एव यस्य सः । दरिद्रत्वान् न विद्यते किञ्चनापि यस्य स इत्य् अर्थस् तु त्वयि न घटत इत्य् आह—यस्मै इति । तस्मात् प्रायेण न ह्य् आढ्या मां भजन्तीति यद् उक्तं तत्राह— इति । आढ्यतया अन्धाः, अत एव असुतृपः स्व-प्राण-तर्पका बहिर्-मुखास् त्वम् अस्तकं दण्ड-कर्तारं नैव विदन्ति, कुतो भजिष्यन्ति ? इत्य् अर्थः । निष्किञ्चन-जन-प्रिया इति यद् उक्तं, तत्र तत्-पुरुष-समासम् आश्रित्य कैमुत्येनाह—प्रेष्ठ इति । भवान् बलिभुजाम् अपि सकामानाम् अपि ब्रह्मादीनां प्रेष्ठः, किम् उत निष्किञ्चनानां निष्काम-भक्तानां प्रेष्ठ इति बहुव्रीहिम् आश्रित्य आह—तेऽपि सकाम-भक्ता अपि तुभ्यं तव प्रियाः, किम् उत निष्काम-भक्ताः, निष्किञ्चन-जनाः—

न येषां भजनाद् अन्यच् चिकीर्षितम् अभीप्सितम् । > जिज्ञासितं च किञ्चित् ते ज्ञेया निष्किञ्चना बुधैः ॥

इति पौराणिकोक्तेर् भक्त-वाचित्वे निष्किञ्चन-शब्दो व्याख्यातः ॥३७॥


॥ १०.६०.३८ ॥

त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा

यद्-वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ।

तेषां विभो समुचितो भवतः समाजः

पुंसः स्त्रियाश् च रतयोः सुख-दुःखिनोर् न ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बलि-भुजाम् अपि भवान् प्रेष्ठ [३७] इत्य् अत्र हेतुं वदन्ती, ययोर् एव समं वित्तं [भा।पु। १०.६०.१५] इत्य् अनेनोक्तम् अनौचित्यं परिहरति—त्वं वा इति । फलात्मा एरम् आनन्द-रूपः, एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ।आ।उ। ४.३.३३] इति श्रुतेः । समाजः सेव्य-सेवक-लक्षण-सम्बन्धो, न तु पुंसः स्त्रियाश् च मिथो रतयोः । अत एव तत्-कृत-सुख-दुःखिनोः, तद्-आकुलयोर् इत्य् अर्थः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समस्त-पुरुषार्था धर्मार्थ-काम-मोक्षाः स्वरूपम् अस्येति तथा । स्वरूपे मयट् । परमानन्द-रूपत्वम् आह श्रुतिः—एतस्य परमात्म-रूपस्य मात्राम् अंशम् उपजीवन्त्य् आश्रयन्तीत्य् अर्थः । अत एव मिथो रतत्वाद् एव । तत्-कृते मिथो-रति-कृते सुख-दुःखे ययोर् विद्यते, तौ तथा तयोः । इत्य् अर्थ इति—परस्पर-रति-कृत-सुख-दुःख-क्लिष्टयोस् तव रतिः कदापि न सम्भवतीति भावः ।

[लघु-तोषणी] वै प्रसिद्धौ । समस्ताः पुरुषार्था धर्मादयश् चत्वारस् त्वद्-भक्ति-भेदाश् च तन्-मयस् तत्-प्राचुर्यवान्—

एतं सम्पाद्धाम इत्य् आचक्षते, एतं सर्वाणि रामाणि अभिसंयन्ति, एष उ एव भामनीः, स एष हि सर्वाणि रामाणि नयताम्, एष उ एव भामनीः, एष सर्वेषु वदेषु भाति [अज्ञातम्] इत्य्-आदि, अयम् आत्मापहत-पाप्मा [छा।उ। ८.१५.१] इत्य्-आदि-श्रुतेः । अत एव बृहत् साम्नि, बृहत् पार्थिवं बृहद् अन्तरिक्षं बृहद् दिवं बृहद् वामं बृहद्भ्यो वामं, वामेभ्यो वामम् [] इति ब्रह्मणः सर्वात्मत्वं सर्वेभ्यो\ऽपि मनोरमत्वम् उपदिश्यते, यतः फलात्मा को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति, रसो वै सः रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति, एतस्मै वा इत्य्-आदि श्रुतेः ।

अतो यद् इत्य्-आदि । कृत्स्नं दैहिक-देह-वित्ताद्य्-अभिमानं लोक-द्वयापेक्षं मोक्षादिकम् अपि सर्वं विसजन्ति, अतस् त एवाकिञ्चनाः, भवान् एव तत्-प्रेष्ठ इति युक्तम् एवेति भावः । एवं पूर्वार्थ-प्रतिपादन-पूर्वकम् ययोर् आत्म-समम् [भा।पु। १०.६०.१५] इत्य्-आदाव् उत्तरम् आह—तेषाम् इति । विभो ! हे सर्वेश्वर ! एवम् अपि तैः सहैव सम्यग् उचितः, भवतो वित्ताद्य्-अपेक्षा-राहित्येन तैर् एव साम्यात्, सं-शब्देनान्य-भक्तैर् अप्य् औचित्याभासः सूचितः । रतयोर् इति भाग्याभाव उक्तः । अत एव सुख-दुःखिनोर् इति, दुःख-प्रतीकार-मात्र-रूपं सुखं दुःखं च तयोर् उचितम् इति भावः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै प्रसिद्धौ । समस्ताः पुरुषार्था धर्मादयश् चत्वारस् त्वद्-भक्त्य्-आदयश् च तन्-मयः, यतः फलात्मा कस्यचिद् आनन्द-हेतुत्वेन, कस्यचिच् च साक्षाद्-आनन्द-स्वरूपत्वेनेत्य् एवं सर्वेषाम् एव तेषाम् आनन्दे पर्यवसानात् । यद् वा, फल-रूपाणां तेषाम् आत्मा च प्रवर्तकः । एवं साध्यत्वं साधनत्वं चोक्तम्, अत एव कृत्स्नं साधनादिकम् अन्यत् सर्वं सुमतयो विवेकिनो विसृजन्ति

यद् वा, पुरुषार्थश् चतुर्वर्गः, तस्य फलं भक्तिः प्रेमा वा, तस्य आत्मा च, तस्य तव वाञ्छया वाञ्छा-मात्रेणापि, किं पुनः प्राप्त्या ? इत्य् अर्थः । कृत्स्नं दैहिकं देहं वित्ताभिमानं लोक-द्वयापेक्षां मोक्षादिकम् अपि सर्वं विसृजन्ति उपेक्षन्ते, अतितुच्छत्वात्, प्रायो दुःख-प्रदत्वाच् च । अतस् त एवाकिञ्चनाः, तत्-प्रेष्ठ एव भवान् इति युक्तम् एवेति भावः ।

ययोर् एवेत्य् आदाव् उत्तरम् आह—तेषाम् इति । विभो ! हे सर्व-व्यापक ! हे जगदीशेति वा, तथापि तैः सहैव सम्यग् उचितः, भवतो\ऽपि वित्ताद्य्-अपेक्षा-राहित्येन तैर् एव साम्यात् ।

यद् वा, विभो ! हे परिपूर्ण ! अतो वित्तादिभिर् भवतः सम्बन्धासिद्धेर् इति भावः । अत्यागिनाम् अपि विविध-कामेन भजतां तत्-तत्-फल-प्रदानादिना कथञ्चित् सम्बन्धो युज्यत इति सं—शब्दार्थः । रतयोर् इति त्यागाभाव उक्तः । अत एव सुख-दुःखिनोर् इति दुःख-प्रतीकार-मात्र-रूपं सुखं दुःखं च तयोर् उचितम् एवेति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, वित्तादिभिर् ग्राम्य-सुखे\ऽपि दुःखिनोर् एव, तथापि रतयोः, अतस् ताभ्यां सर्वथा नोचित एवेत्यर्थ ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्धौ । समस्ताः पुरुषार्था धर्मादयश् चत्वारस् तद्-भक्ति-भेदाश् च तन्-मयः तत्-प्राचुर्यवान्, सर्व-गन्धः सर्व-रसः [छा।उ। ३.१४.४] इत्य्-आदि, एतं सम्पाद्धाम इत्य् आचक्षते एतं सर्वाणि रामाणि अभिसंयन्ति, एष उ एव भामनीः, स एष हि सर्वाणि रामाणि नयताम्, एष उ एव भामनीः, एष सर्वेषु वदेषु भाति [अज्ञातम्] इत्य्-आदि, अयम् आत्मा अपहत-पाप्मा [छा।उ। ८.१५.१] इत्य्-आदि-श्रुतेः । अत एव बृहत् साम्नि, बृहत् पार्थिवं बृहद् अन्तरिक्षं बृहद् दिवं बृहद् वामं बृहद्भ्यो वामं, वामेभ्यो वामम् [] इति ब्रह्मणः सर्वात्मत्वं सर्वेभ्यो\ऽपि मनोरमत्वम् उपदिश्यते, यतः फलात्मा को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति, रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति, एतस्मै वा [] इत्य्-आदि श्रुतेः । अतो यद् इत्य्-आदि कृत्स्नं दैहिक देहं वित्ताभिमानं लोक-द्वयापेक्षा मोक्षादिकम् अपि सर्वं विसृजन्ति, अतस् त एवाकिञ्चनाः भवान् एव तत्-प्रेष्ठ इति युक्तम् एवेति भावः ।

एवं पूर्वार्थ-प्रतिपादन-पूर्वकं ययोर् एवेत्य् आदाव् उत्तरम् आह—तेषाम् इति । विभो ! हे सर्वेश्वर ! एवम् अपि तैः सहैव सम्यग् उचितः भवतो वित्ताद्य्-अपेक्षा-राहित्येन तैर् एव साम्यात् सं-शब्देनान्य-भक्तैर् अप्य् औचित्याभासः सूचितः । रतयोर् इति त्यागाभाव उक्तः ।\ अत एव सुख-दुःखिनोर् इति दुःख-प्रतीकार-मात्र-रूपं सुखं दुःखं च तयोर् उचितम् इति भावः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ययोर् एव समं वित्तं ययोर् एव समं बलं [भा।पु। १०.६०.१५] इत्य्-आदि यद् उक्तं, तद् अपि सत्यम् एवेत्य् आह—त्वं वै समस्त- इत्य्-आदि । त्वं समस्त-पुरुषार्थ-मयः फलात्मा फल-स्वरूपः, सर्व-पुरुषार्थं सर्व-लोकार्थं सर्व-लोक-निमित्तम् इत्य् अर्थः । अयः-शुभावहो विधिः, सर्व-लोक-शुभादृष्टम्, यस् त्वां भजते, स एव तव योग्य इत्य् अर्थः । तेनाहं त्वत्-कामत्वेन त्वद्-योग्यैव । अतो मम त्वया सह समत्वम् अस्त्य् एवेति फलात्मतां दर्शयति—यद् वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । फलार्थं हि सर्व एव यतन्ते । हे विभो ! तेषां समाजो गोष्ठी भवतः समुचित एव । तेनाहम् अपि भवद्-अर्थं सर्वम् असृजम्, मया सह गोष्ठी तव समुचितैवेति पुंसः स्त्रियाश् अन्योन्यं रतयोर् गोष्ठी न समुचिता । त्वया सह यदि पुंसो वा स्त्रियो वा गोष्ठी भवति, तदा समुचितैव । सान्द्रानन्द-स्वरूपेण भवता सह सङ्गतः पुरुषः स्त्री वा त्वत्-समत्वम् एव लभते, न त्व् अन्योन्यं तयोः । कुतः ? इत्य् आह—सुख-दुःखिनोः, कदाचित् सुखिनोः कदाचिद् दुःखिनोः । नित्य-सुखे त्वयि सङ्गतस् तु पुरुषः स्त्री वा नित्य-सुखित्वम् एव लभते । अथवा, सुखेऽपि काम-सुखेऽपि दुःखिनोः—दुःखं काम-सुखापेक्षा [भ।पु।११.१९.४१] इत्य् उक्तेः ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययोर् एव समं वित्तं [भा।पु। १०.६०.१५] इत्य्-आदि यद् उक्तं, तत् तु त्वत्तोऽन्यत्रैव न तु त्वयि सम्भवेद् इत्य् आह—त्वम् इति । फलात्मा फल-स्वरूपः । समाजः सेव्य-सेवक-लक्षण-सम्बन्धः । स तु नारायण-लक्ष्म्योर् अपि त्वद्-अस्मद्-आद्योर् अपि । तु प्राकृतस्य पुंसः स्त्रियाश् च मिथो रतयोः ॥३८॥


॥ १०.६०.३९ ॥

त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव

आत्मात्मदश् च जगताम् इति मे वृतोऽसि ।

हित्वा भवद्-भ्रुव उदीरित-काल-वेग-

ध्वस्ताशिषोऽब्ज-भव-नाक-पतीन् कुतोऽन्ये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भिक्षुभिः श्लाघिता मुधा [भा।पु। १०.६०.१६] इत्य् अस्य परिहारः—त्वम् इति । भिक्षु-पद-व्याख्यानं न्यस्त-दण्डैर् मुनिभिर् इति । मुधा इत्य् अस्य परिहारः—आत्मा इति । यद्-अर्थं सर्वं प्रियं भवति, तस्य जगताम् आत्मनस् तव वरणं न वृथेत्य् अर्थः । किं च आत्मद इति । वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया [भा।पु। १०.६०.१६] इति स्वस्मिन्न् उक्तं दोष-द्वयं परिहरति—इति इति । इति ज्ञात्वैव मे मया वृतोऽसि इत्य् अज्ञान-परिहारः । हित्वा इत्य् अदीर्घ-समीक्षा-परिहारः । भगवतो भ्रुवः सकाशाद् उदीरितो यः कालः, तस्य वेगः, तेन ध्वस्ता आशिषो येषां, तान् ब्रह्मादीन् अपि विहाय । कुतोऽन्ये वराका इत्य् अर्थः ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति आत्मनस् तु कामाय सर्व प्रियं भवति [बृ।आ।उ। २.४.५] इति श्रुतेर् अतिप्रीतेर् मोक्ष-हेतुत्वाद् वैयर्थ्यं नेति भावः । अन्यद् आह—किं च इति । वराकाः शोचनीयाः । इत्य् अर्थ इति—न हि सर्वेश्वर-प्रीतिमता प्राकृताः सेव्यन्त इत्य् आशयः । वराकः शङ्करे पुंसि शोचनीये\ऽभिधेयवत् इति मेदिनी ।

तत्रैव समुद्र-मथन-वृत्तं स्मरन्त्य् आह—त्वम् इति । न्यस्त-दण्ड- इति गर्वादि-राहित्यं सूच्यते, तेनाम्बुभिक्षुता-वैशिष्टयम् । मुनिभिर् इत्य् आत्मारामत्वं, तेन तत्रापि वैशिष्ट्यम् । तैर् गदितो\ऽनुभावो माहात्म्यं यस्य स इति यथार्थ-गुणत्वं दर्शितम् । आत्मा सर्व-मूल-स्वरूपम् । भव-भ्रुव इति कालस्यापि प्रवर्तकत्वेन कालापरिच्छिन्नत्वं तथा तदीय-निज-लोकादेर् अपि नित्यत्वादिकं तथ ब्रह्माद्य्-आशिषां तद्-भ्रूक्षेप-काल-मात्र-स्थायित्वादिकं चोक्तम् । नाक-पतय इन्द्राद्याः । अब्ज-भवम् अपि हित्वा किं पुनर् नाकपतीन् इत्य् एवं व्याख्येयम् इति । ब्रह्मादीनाम् अवज्ञास्पदत्वं दर्शितवती । श्री शिवस्यानुक्तिस् तु—तत्रावधानाविषयत्वं दर्शयित्वा तादृशत्व-भाव एव तद्-अकरणे हेतुं व्यनक्ति । यद्यपि स्वाभाविक एव तस्यास् तस्मिन्न् अनुरागो न तु विचारापेक्षस् तथापि स्वाभाविकत्वे सति विचारो\ऽप्य् अनुषञ्जतीति तद्-अंशम् आलम्ब्य सिद्धान्तितं, तस्यैव योग्यत्वात् ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न्यस्त-दण्डैर् मोक्षापेक्षकैः सन्न्यासिभिर् अपि, किं पुनर् मोक्षोपेक्षकैः श्री-नारदादिभिर् मुनिभिर् गदितो व्यक्तं वर्णितो\ऽनुभावो माहात्म्यं यस्य सः । अनुभावम् एवाह—आत्मा सर्वान्तर्यामी ईश्वर आत्मदश् इति । असि इति—वरणस्य स्थैर्यं बोधयति—भवद्-भ्रुव इति कालस्यापि प्रवर्तकत्वेन कालानधीनतया कालापरिच्छिन्नत्वं तथा वैकुण्ठ-लोकादेर् अपि नित्यत्वादिकं तथा श्री-ब्रह्माद्य्-आशिषां तद्-भ्रू-क्षेप-काल-मात्र-स्थायित्वादिकं चोक्तम् । नाक-पतय इन्द्राद्या अब्जभवम् अपि हित्वा, किं पुनर् नाक-पतीन् ? इत्य् एवं व्याख्येयम् । श्री-शिवस्यानुक्तिस् तस्य नाकपत्य्-अन्तर्-गतत्वाद् एवेति ज्ञेयम् ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव समुद्र-मथन-वृत्तं स्मरन्त्य् आह—त्वम् इति । न्यस्त-दण्ड इ ति गर्वादि-राहित्यं सूच्यते । तेन भिक्षुता-वैशिष्ट्यं । मुनिभिर् इत्य् आत्मारामत्वं, तेन तत्रापि वैशिष्ट्यं । तैर् गदितः अनुभावो माहात्म्यं यस्य सः इति यथार्थ-गुणत्वं दर्शितम् । आत्मा सर्व-भूत-स्वरूपं भवद्-भ्रुव इति कालस्य अपि प्रवर्तकत्वेन कालापरिच्छिन्नत्वं, तथा तदीय-निज-लोकादेर् अपि नित्यत्वादिकं तथा ब्रह्माद्य्-आशिषां तद्-भ्रू-क्षेप-काल-मात्र-स्थायित्वादिकं चोक्तं । नाक-पतयः इन्द्राद्याः अब्ज-भवम् अपि हित्वा किं पुनर् नाकपतीन् इत्य् एवं व्याख्येयम् इति ब्रह्मादीनाम् अवज्ञास्पदत्वं दर्शितवती । अत्र शिवस्यानुक्तिस् तु तत्रावधानाविषयत्वं दर्शयित्वा तादृशत्व-भाव एव तद्-अकरणे हेतुं व्यक्ति यद्यपि स्वाभाविक एव तस्यास् तस्मिन्न् अनुरागः न तु विचारापेक्षः, तथापि स्वाभाविकत्वे सति विचारो\ऽप्य् अनुषज्जतीति तद्-अंशम् आलम्ब्य सिद्धान्तितं तस्यैव सिद्धान्ते योग्यत्वात् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वैदर्भ्य् एतद् अविज्ञाय [भा।पु। १०.६०.१६] इति यद् उक्तम्, तद् अपि सत्यम् एव । एतद् भवद्-उक्तं विपरीतं राजभ्यो बिभ्यतः [भा।पु। १०.६०.१२] इत्य्-आदिकम् अविज्ञाय वस्तुत्वाभावात् सर्वम् इदम् अविज्ञायैवेत्य् आह—त्वं न्यस्त-दण्ड-मुनिभिर् इत्य्-आदि । न्यस्त-दण्डैर् आत्मारामैर् मुनिभिर् गदितानुभावः, आत्मा श्री-विग्रहः, आत्मदः सर्वेषां प्राणद आत्म-शोधको वा, दैप् शोधने इति कृत्वा मे मया वृतोऽसि । अत एतद् अविज्ञायैवेति तवोक्तिः सत्या । किं कृत्वा वृतोऽसि ? इत्य् आह—हित्वा इत्य्-आदि । भव-नाकपतयोऽपि भवद्-भ्रू-भङ्ग-काल-ध्वस्ताधिकाराः, किम् उत अन्ये ? नाकपति-शब्दोऽत्र ब्रह्मादि-परः ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भिक्षुभिः श्लाघिता मुधा [भा।पु। १०.६०.१६] इति यद् उक्तं तत्र भिक्षु-शब्दार्थं व्याचक्षाणा भिक्षु-श्लाघैव सर्वोत्कर्ष इत्य् आह—त्वम् इति । न्यस्त-दण्ड इति त एव भिक्षव उच्यन्ते इति भावः । गदितानुभावः श्लाघित-प्रभावः । आत्मा परमात्मेति यद्-अर्थं सर्वं प्रियं जातं तेषाम् आत्मनाम् अप्य् आत्मनस् तव श्लाघा न मुधा इत्य् अतो मुधा इति त्वद्-उक्तिर् एव मुधेति भावः । जगताम् आत्मद इति जगद्-वर्ति-जनेभ्योऽपि भजद्भ्यस् त्वम् आत्मानम् अपि ददासीति ज्ञात्वैव मे मया त्वं वृतोऽसि । तद् अपि यद् उक्तं त्वया वैदर्भ्य् एतद् अविज्ञाय [भा।पु। १०.६०.१६] इति तन् ममेदं विचक्षणं ज्ञानम् अज्ञात्वैवेति भावः । भवतो भ्रुवः सकाशाद् उदीरितो यः कालः, तस्य वेगेन ध्वस्ता आशिषो येषां तान् ब्रह्मादीन् अपि विहाय त्वं वृतोऽसिकुतोऽन्ये वराकाः ? तद् अपि यद् उक्तं त्वया अदीर्घ-समीक्षया इति तन् मम दीर्घ-समीक्षाम् अप्य् अविज्ञयैवोक्तम् इति भावः ॥३९॥


॥ १०.६०.४० ॥

जाड्यं वचस् तव गदाग्रज यस् तु भूपान्

विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् ।

सिंहो यथा स्व-बलिम् ईश पशून् स्व-भागं

तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वाज्ञानं परिहृत्य पुरुषान्तर-गुण-वर्णन-प्रदीप्त-कोप-संरम्भेण तस्मिन्न् एवाज्ञानम् आपादयति—जाड्यम् इति । सिंहो यथा पशून् विद्राव्य स्व-बलिं हरति तथा शार्ङ्ग-धनुर्-निनादेन एव जरासन्धादीन् विद्राव्य मां स्वभागं श्रियं यस् त्वं हृतवान् असि तस्य तव राजभ्यो भयाद् उदधिं प्रपन्न इति यद् वचो भाषणं तज् जाड्यं मान्द्यं न घटत इत्य् अर्थः ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संरम्भः संवेगः । तस्मिन्न् एव श्री-कृष्ण एव । इत्य् अर्थ इति—अनुचित-सम्भाषणम् एव मौढ्यापादकम् इति भावः । पौर्वापर्यम् अनालोच्य कथनं त्व् अधियां भवेत् [] इत्य्-उक्तेः । तद् एवम् अकस्मान् मानाख्य-स्थायि-भावोदय-रति-स्वज्ञान-समीक्षयोर् अज्ञानं तस्मिन्न् एव व्यञ्जनया वृत्त्योक्त्वापि पुनः पुरुषान्तर-गुण-वर्णन-प्रदीप्त-कोपेनाभिधयापि तस्मिन्न् अज्ञानं संरम्भ-भृकुटि-कुटिल-कटाक्षं स्पष्टयन्त्य् आह—जाड्यम् इति । जाड्यमयम् इत्य् अर्थः । यस् त्वं भूपान् विद्राव्य स्व-भागं मां श्रियं जहर्थ, तेभ्यो भयाद् उदधिं प्रपन्नः शरणं प्राप्तस् त्वम् इति यत् तव वचो भाषणं तत् तव जाड्यम् अज्ञान-ज्ञापकम् इत्य् अर्थः । ननु, च पूर्वम् अकोपतया त्वया सत्यं भयाद् इव [१०.६०.३५] इत्य्-आदि-वचः सत्यम् एव समाहितम् इति चेत्—सत्यम्, तन् ममापि जाड्यम् इति ज्ञेयम् ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो विरोधे, प्रत्यक्ष-विरुद्धत्वाद् इत्य् अर्थः । हरणे हेतुः—स्व-भागम् इति, अन्यथापकीर्ति-प्रसक्तिर् इति भावः । अस्यान्ते निर्देशो लज्जया प्राग् अवाच्यत्वात् । हे गदाग्रज इति त्वत्-कनिष्ठेन पदेनैकेनापि विद्राव्याः, किं पुनस् त्वयेति भावः । यत ईश! हे अशेष-शक्ति-युक्त ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जाड्यं वच इति भाव-कर्मणोः ष्यञ् विधानात् भाव-पक्षे यत्नतः सामानाधिकरण्य-निर्देश्यो वचसो जाड्य-प्राचुर्यापेक्षया । कर्म-पक्षे तु स्पष्टम् एव तु-शब्दो विरोधे हरणे हेतुः—स्वभागम् इति । हे गदाग्रज ! इति स्व-कनिष्ठेन गदेनैकेनापि विद्राव्यास् ते भूप-हतकाः किम् उत स्वयेति भावः यत ईश हे अशेष-शक्ति-युक्त ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् [भा।पु। १०.६०.१२] इति भगवद्-उक्तं पुनः स्मृत्वा सत्यत्वेन स्व-वैदग्ध्या प्रथमं प्रतिपादितम् अपि पुनर् अत्यन्तासम्भाव्यत्वेन प्रत्यक्ष-बाधितं मत्वा स-क्रोधोपहासम् आह—जाड्यं वच इत्य्-आदि । हे गदाग्रज ! तव वचो-जाड्यं वचसो जाड्यम् इत्य् अर्थः । अथवा, हे गदाग्रज ! तव जाड्यम् इदम् । किं तत् ? तेभ्यो भयाद् उदधिं शरणं प्रपन्न इति वचः । क्रुद्धोक्तौ न्यून-पदत्वं गुणः । कुतो जाड्यम् इदं वचो न सत्यं ? नैवेत्य् आह—यस् त्व् इत्य्-आदि । यस् त्वं भूपान् विद्राव्य शार्ङ्ग-निनदेनैव, न तु युद्ध-कौशलेन मां जहर्थ । क इव ? इत्य् आह—सिंहो यथा इत्य्-आदि । तस्मात् तवैतज् जाड्यम् एव पूर्व-पूर्वं धैर्य-भावेनैव सर्वं भगवद्-वचनम् अन्यथयित्वा सत्यत्वेन प्रतिपाद्य सम्प्रत्य् अमर्ष-भावेन तद् एवान्यथयतीति ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवम् अकस्मान् मानाख्य-स्थायि-भावोदयवती स्व-ज्ञान-समीक्षयोर् अज्ञानं तस्मिन्न् एव व्यञ्जनया वृत्त्या उक्त्वापि पुनः पुरुषान्तर-गुण-वर्णन-प्रदीप्त-कोपेनाभिधयापि तस्मिन्न् अज्ञानं स-संरम्भ-भ्रुकुटि-कुटिल-कटाक्ष-स्पष्टयन्त्य् एवाह—जाड्यम् इति । जाड्य-मयम् इत्य् अर्थः । यस् तु त्वं भूपान् विद्राव्य स्व-भागं मां श्रियं जहर्थ तेभ्यो भयाद् उदधिं शरणं प्रपन्नस् त्वम् इति यत् तव वचो भाषणं तत् तव जाड्यम् अज्ञान-ज्ञापकम् इत्य् अर्थः । ननु च पूर्वम् अकोपनया त्वया सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः शेते समुद्र [भा।पु। १०.६०.३४] इत्य् अनेन तद्-वचः सत्यम् एव समाहितम् इति चेत्, सत्यम् । तन् माम् अपि जाड्यम् इति ज्ञेयम् ॥४०॥


॥ १०.६०.४१ ॥

यद्-वाञ्छया नृप-शिखामणयोऽङ्ग-वैन्य-

जायन्त-नाहुष-गयादय ऐक्यपत्यम् ।

राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष

सीदन्ति तेऽनुपदवीं तद् इहास्थिताः किम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् चान्यत् अस्पष्ट-वर्त्मनाम् इत्य्-आदिना अर्थात् त्वां भजन्तः सीदन्तीत्य् अवसादनं श्रमावहत्वम् उक्तं तद् अपि मन्दम् एवेत्य् आह—यद् वाञ्छया इति । यस्य तव भजन-वाञ्छया नृपोत्तमाःअङ्गो वेनस्य पिता, वैन्यः पृथुः, जायन्तो भरतः, नाहुषो ययातिः, गयश्आदिर् येषां ते । य एते तव पदवीं मार्गम् आश्रितास् ते किं सीदन्ति ? न सीदन्त्य् एव, अपि तु त्वत्-पदं प्राप्ता इत्य् अर्थः । एवं कोपावेशेनावसादनस्य परिहाराद् अस्पष्ट-वर्त्मनाम् इत्य् एतद्-आनन्तर्यं विहायात्रोत्कर्षः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—न हि सुखिनो दुःख-मार्गे प्रवृत्तिर् अपि तु पूर्व-सिद्ध-सुखादिक-सिद्ध्य्-अर्था तु भवत्य् एवेति तात्पर्यम् । एवम् इत्थम् । कोपावेशेनानन्तर्यं प्रथमं वक्तव्यम् अस्पष्ट-वर्म-पदार्थ-वर्णनं विहाय । अत्रोत्कर्ष उत्कर्षो वणितः । कोपावेशेनैवैतत् परिहर्तुं योग्यम् इति सम्प्रत्य् एवावसादनं परिहरति—यद् वाञ्छयेति । यस्य वाञ्छया, तस्य ते तवेति योज्यम् । नु प्रश्ने । इह जगति यत्र कुत्रापीत्य् अर्थः । प्रायः सीदन्तीह योषिताम् उपलक्षणत्वात् ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्य वाञ्छया तस्य ते तवेत्य् अन्वयः । नृप-शिखामणय इति साम्राज्यं सूचितम्, तद् एवाह—ऐकपत्यम् एक-स्वामिकम् अपीत्य् अर्थः । यहा, त एव नृप-शिखामणयः, न तु जरासन्धादय इति भावः । आदि-शब्दात् प्रियव्रतादयः, नु प्रश्ने । किं वा, अनुपदवीं त्वन्-मार्गानुमारि-मार्गम् अपि इह वने\ऽपि किं सीदन्ति ? हे अम्बुजाक्ष ! इति सौन्दर्य-मात्र-दर्शनापेक्षयैवास्थिता इति भावः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कोपावेशेनैवेतत् परिहर्तुं योग्यम् इति सम्प्रत्य् एवावसादनं परिहरति—यद्-वाञ्छया इति । तस्य वाञ्छया राज्यं देवेन्द्रादीनाम् अपि स्पृहणीयं विसृज्य नृप-शिखामणयस् ते वनं विविशुः । तस्मात् नन्दनन्दन-रूपत्वेन तैर् निश्चितस्य ते तव इत्य् अन्वयः । नु प्रश्ने । इह जगति यत्र कुत्रापीत्य् अर्थः । प्रायः सीदन्ति इत्य् अत्रापि योषिताम् उपलक्षणत्वाद् अत्र नृपा अपि सङ्गृहीताः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आटा इत्य्-आदेस् तूत्तरं संरम्भ-योग्यत्वात् तत्-प्रसङ्गे देयम् ॥४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्पष्ट-वर्त्मना [भा।पु। १०.६०.१३] इत्य्-आदिनार्थतः प्राप्तं मद्-भक्ताः सीदन्तीति यद् भगवद्-वाक्य-तात्पर्यं तद् अन्यथाकारेण सत्यत्वेन स्थापयन्त्य् आह—यद्-वाञ्छया इत्य्-आदि । ऐकपत्यं राज्यं विसृज्य वनं विविशुः । अतस् तद्-भक्ता सीदन्त्य् एव, विरोधि-लक्षणया तद् एव सत्यत्वेन प्रतिपादितम् । वस्तुतस् तत् तेषां परमानन्द-लाभ एव । तत् सर्वं विसृज्य तस्थूषां त्वद्-भजनम् एव परमानन्द इत्य् आह—ते तव पदवीं वर्त्म आस्थिताः । तथा कृत्वा त्वत्-पदवीं त्वत्-प्रेमानन्द-साम्राज्यं प्राप्ताः । इह किं चित्रम् इति वाक्य-शेषः ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् त्वयोक्तम् अस्मत्-पदवीम् आस्थिताः प्रायः सीदन्ति योषित इति तद् अपि जाड्यम् इत्य् आह—यद्-वाञ्छया इति । जायन्तो भरतः । ते तव पदवीम् आश्रितास् ते राजानः किं सीदन्ति ? किं ते निर्बुद्धयः । यतो वयं राज-कन्याः निर्बुद्धयः सीदाम इति त्वयोच्यते ॥४१॥


॥ १०.६०.४२ ॥

कान्यं श्रयेत तव पाद-सरोज-गन्धम्

आघ्राय सन्-मुखरितं जनतापवर्गम् ।

लक्ष्म्य्-आलयं त्व् अविगणय्य गुणालयस्य

मर्त्या सदोरु-भयम् अर्थ-विविक्त-दृष्टिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् चोक्तं अथात्मनोऽनुरूपम् [भा।पु। १०.६०.१७] तत्राह—का अन्यम् इति श्लोक-द्वयेन । गुणानाम् आलयस्य तव पाद-सरोज-गन्धं, जनताया अपवर्गं मोक्ष-रूपं, लक्ष्म्या आलयं तत्-सेव्यं, सद्भिर् मुखरितं वर्णितम् आघ्राय तम् अविगणय्य मर्त्या मरण-धर्मिका सदा उरु-भयं यस्य तम् अन्यं का स्त्री श्रयेत सेवेत ? अर्थे विविक्ता दृष्टिः यस्याः, सा । गुणालयस्य इत्य् अनेन गुणैर् हीना इति यद् उक्तं तद् अपास्तम् ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जनताया जन-समूहस्य । आघ्राय आसेव्य । अविगणय्य अगणयित्वा । अर्थे परमार्थे । विविक्ता विवेकवती । यत् त्वयोक्तम् अथात्मनः इत्य्-आदि तद् अपि तथैवेत्य् आह—का इति । या त्वदीयं यशो न श्रुतवती, सा अन्यं श्रयतु नामेति भावः । सद्भिर् भ्रमरैर् इव मुखरितं स्तुतम् जनताया जन-मात्रस्यापि श्रवणादिभिर् अपवर्ग-साधकम् । अवगणय्य अवज्ञाय । मर्त्या मानुषीति । राक्षस-प्रेतादि-कन्या त्व् अन्यम् आश्रयताम् इति भावः । कीदृशम् अन्यम् ? सदोरु-भयम् अर्थ-विविक्त-दृष्टिर् इत्य् अविचारान्धा त्व् अन्यं श्रयतु इति भावः । गुणालयम् इत्य् अनेन गुणैर् नेत्य् अपि पराहतम् ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मम तु कथा दूराद् आस्ताम्, अहं त्वदीयत्वाद् अनन्यैव माकाराद् वा विना अन्यं श्रयेत इत्य् आह—कान्यम् इत्य्-आदि । मत्यित्य् अन्वयः । लक्ष्म्या मम आलयं सम्यक् लय-स्थानं, लय आश्लेषस्य पराकाष्ठा ॥४२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु अपि, अस्य यथापेक्षं सर्वैर् अन्वयः । पाद-सरोजस्य एकस्यापि गन्धम् ईषत् सम्बन्धम् अपि आघ्राय श्रवणादिना कथञ्चिद् दूरतो लब्ध्वापि, किं पुनः साक्षात् त्वां लब्ध्वा ? इत्य् अर्थः । गुणालयस्य इति गन्धस्य अपि सर्व-गुण-निधित्वं सूचितम् । तद् एव दर्शयति—जनता- इत्य्-आदि-पद-द्वयेन । अत एव सद्भिः श्री-नारदादिभिर् मुखरितम्अविगणय्य अनादृत्य । कान्यं श्रयेत, अपि तु सर्वा त्वाम् एवाश्रयितुम् अर्हतीत्य् अर्थः । यतो मा श्री-मार्कण्डेयादीनाम् इव त्वत्तो मरणस्यापि निवृत्तेर् इति भावः । किं च, सर्वार्थ-सिद्धिर् अपि स्याद् इत्य् आह—अर्थ- इति । अन्यस् त्व् आत्मानम् अपि रक्षितुं स्व-श्रेयश् च साधयितुं न शक्नुयाद् इत्य् आह—सदोरु-भयम् इति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, सन्तो मौन-शीला अपि मुखरिता येन तं जनानां स्व-भक्तानाम्, तापस्य आध्यात्मिकादि-ताप-लक्षणस्य तद्-विच्छेदजस्य वा अपवर्गो वर्जनं यस्मात्, तं लक्ष्म्याः सर्व-सम्पत्तेर् आलयम् । एवं विशेषण-त्रयस्यास्य यथोत्तरं श्रैष्ठ्यम् । अन्यत् समानम् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्या पुनर् अन्यं श्रयेत नाम तव पाद-सरोज-गन्धं त्व् आघ्राय अप्य् अविगणय्य कान्यं श्रयेत ? तद्-अघ्राणे\ऽन्याश्रयणम् एवाविगणनम् इति भावः । पाद- इत्य्-आदिका भक्त्य्-उक्तिः गुण-ग्रामं श्रुत्वेत्य् अर्थः । कीदृशं ? सद्भिर् आत्मारामैर् अपि मुखरितं स-शब्दीकृतं शब्देन संयोजितं पूर्व-सव्याख्या वर्णितम् इत्य् अर्थः । जनानां तापस्य वर्गो वर्जनं यस्मात्, तं सर्व-सम्पत्तेर् आश्रयं च इति मुक्त-मुमुक्षु-विषयि-सेव्यत्वम् उक्तम् । अत एव गुणालयस्य सर्व-गुण-निधेः । अन्यस्य दोषम् आह—मर्त्यः च सः आ समन्तात् सदा सर्वदा च उरु-भयं यस्य, स च सः तम् उपलक्षणं चैतत् सन्-मुखरित-विपरीतत्वादिकस्य । नन्व् अन्यम् आश्रयमाणा बहवो दृश्यन्ते? तत्राह—अर्थ- इति । ता मूर्खा एवेति भावः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मर्त्यश् च सः, समन्तात् सदा सर्वदा च उरु-भयं यस्य स च सः ॥४२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भो भगवन् ! मम तु कथा दूरादास्ताम्, का मर्त्या कन्या त्वां विना अन्यं पतित्वेन श्रयेत ? इत्य् आह—कान्यम् इत्य्-आदि । का मर्त्या इत्य् अनुषङ्गः । तव पाद-सरोज-गन्धम् । कीदृशं ? लक्ष्म्य्-आलयम् । लक्ष्म्या आ सम्यक् लय आश्रयो वा यत्र ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् चोक्तम् अथात्मनो रूपं वै भजस्व [भा।पु। १०.६०.१७] इति तत्राह—कान्यम् इति द्वाभ्याम् । आघ्राय इति या त्वदीयं यशो न श्रुतवती सा अन्यं श्रयतु नामेति भावः । सद्भिर् भ्रमरैर् इव मुखरितं स्तुतं जनताया जन-मात्रस्यापि श्रवणादिभिर् अपवर्ग-साधकम् । अविगणय्य अविज्ञाय मर्त्या मानुषीति राक्षस-प्रेतादि-कन्या त्व् अन्यम् आश्रयताम् इति भावः । अन्यं कीदृशं ? सदोरुभयम् अर्थ-विविक्त-दृष्टिः इत्य् अविचारान्धा तु श्रयत्व् इति भावः । गुणालयस्य इत्य् अनेन गुणैर् हीनाः [भा।पु। १०.६०.१६] इति यद् उक्तं तद् अपि पराहतम् ॥४२॥


॥ १०.६०.४३ ॥

तं त्वानुरूपम् अभजं जगताम् अधीशम्

आत्मानम् अत्र च परत्र च काम-पूरम् ।

स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर्4 भ्रमन्त्या

यो वै भजन्तम् उपयात्य् अनृतापवर्गः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वाम् एवाहम् अभजम् इत्य् आह—तं त्वा इति । किं च, प्रार्थयते—स्याद् इति । अरणं शरणम् । सृतिभिः देव-तिर्यग्-आदिभिर् जन्मभिः । पाठान्तरे त्व् अर्थवाद-बहुल-कर्म-श्रवणैर् इत्य् अर्थः । कथम्भूतस्य तव ? यस् त्वम् अनृतस्य संसारस्य अपवर्गो नाशो यस्मात्, स भजन्तम् उपयाति आत्मसात् करोति, तस्य तवाङ्घ्रिः इति । भीतस्य हि शरणम् एवानुरूपं भजन-योग्यं, अतस् त्वाम् अहम् अभजम् इत्य् अर्थः ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो गुणालयत्वात् सत्यत्वाच् च । सृतिर् जन्म-मार्गयोः इति निरुक्तिः । पाठान्तरे "श्रुतिभिः" इति पाठे । इत्य् अर्थ इति अपाम सोमम् अमृता अभूम [ऋ।वे। ८.४८.३] इत्य्-आदि-वाक्याकर्णनैर् इति भावः । अतो\ऽनुरूपत्वात् । इत्य् अर्थ इति अथात्मनो\ऽनुरूप [भा।पु। १०.६०.१७] इति दत्तोत्तरं जातम् इति भावः ।

[तोषणी] तम् उक्त-माहात्म्यम् । अत एव अनुरूपं भजन-योग्यम् अभजम् । जन्मान्तरेष्व् अपि तवैव भजनं करिष्यामीति वदती, प्रेम-भर-दैन्येनात्मनो लीला-मानुषीत्वं मत्वा, तद्-भजनं दुर्लभं मन्यमाना प्रार्थयते—स्याद् इति । [सृतिभिः] विविध-जन्मभिर् इतस् ततो भ्रमन्त्या इति । "श्रुतिभिः" इति पाठे काश्चिच् छ्रुतयस् त्वां सर्वत्रानासक्तं वदन्ति, काश्चित् तु भक्तासक्तं, काश्चित् तु कदाचिद् दुःखे\ऽप्य् उदासीन-प्रायम् इत्य् एवं विविधाः, ताभिः शङ्कां प्राप्तवत्याः । यो\ऽङ्घ्रिस् "त्वम्" इति टीका विचार्या—उपयाति इति प्रथम-पुरुषेणान्वयाय त्वं-पदस्य विशेषणत्वं, इत्य् अस्य विशेष्यत्वम् अङ्गीकृत्य समाधेया वा । अन्यत् तैः । तत्र चेति भीतस्य इत्य्-आदि-वाक्यार्थ-योजना । इत्य् अनेन प्रकारेणेत्य् अर्थः । अत्र अनुरूप-पदस्य व्याख्या-पूर्वम् अव्याख्यानाद् एवेति ।

यद् वा, सृतिभिर् गतिभिस् तव तादृश-नाना-चेष्टाभिः । पाठान्तरे, "श्रुतिभिः" लक्ष्मी-प्रियत्वादि कथन-पराभिः, तत्राप्य् अनासक्त्य्-आदि-विख्यापिकाभिः । यद् वा, तवान्यावतारे सीतादीनां परित्यागादि-श्रवणैर् अत्र च श्री-गोपीनां तथाद्यैवेदृश-वचन-श्रवणैश् च अनृतं तादृश-विविध-भ्रमः, तस्य अपवर्गो यस्मात् ।

गीर्देवी-व्यञ्जितार्थशायम्—तव सृतिभिर् नानावतार-रीतिभिर् भ्रमन्त्याः, देवत्वे देव-देहा सा मानुषत्वे च मानुषी [वि।पु। १.९.१४३] इत्य्-आदि-विष्णु-पुराणोक्तेः । भवद्वल् लीलाकार-प्रकटनेन त्वया सह विहरन्त्याः । पाठान्तरे यथा यथा तत्-तद्-अवतारे मत्-प्रतिपादिका श्रुतयः, तथा विहरन्त्याः इत्य् अर्थः । कीदृशो\ऽङ्घ्रिः ? अनृतस्यापवर्गो यत्र, स सच्-चिद्-आनन्द-रूप इत्य् अर्थः । अन्यत् समम् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अमर्त्याया मम त्वम् एवानुरूपं, तेन त्वाम् एव अभजम् इत्य् आह—तं त्वानुरूपम् इत्य्-आदि ॥४३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तम् उक्त-माहात्म्यम्, अत एव अनुरूपं भजन-योग्यम् अभजम् । अनुरूपत्वम् एव पुनर् विशेषतो दर्शयन्ती तं विशिनष्टि—जगताम् इत्य्-आदिना । अधीशं ईश्वरेश्वरम्, न च केवलं बहिर् एवाधीशत्वम्, अन्तर् अपीत्य् आह—आत्मानम् अन्तर्यामिणम्, सत्-कर्मसु प्रवर्तनादिना परमं गुरुं सुहृदं चेत्य् अर्थः । किं च, अत्र इति -कार-द्वयं द्वयोर् अपि प्राधान्यार्थम्, एवम् एषां त्रयाणां विशेषणानां यथोत्तरम् अनुरूपत्वे श्रैष्ठ्यम् ।

न केवलम् अस्मिन्न् एव जन्मन्य् अभजम्, जन्मान्तरेष्व् अपि तवैव भजनं करिष्यामीति वदन्ती प्रेम-भर-दैन्येन तद् दुर्लभं मन्यमाना प्रार्थयते—स्याद् इति । विविध-जन्मभिर् इतस् ततो भ्रमन्त्या अपि । पाठान्तरे श्रुत्य्-उक्त-कर्माचरणेन विचित्र-जन्मानि प्राप्नुवत्या अपीत्य् अर्थः । काम-पूरणम् एव दर्शयति— इति । वै प्रसिद्धौ । अनृतापवर्ग इति संसार-दुःख-ध्वंसन-पूर्वकम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

तत्र अनुरूपम् इति तस्य पूर्वम् अव्याख्यानाद् अत्रार्थ-गत्या व्याख्यार्थं गृहीतम् । किं वा, लेखक-भ्रमाद् इति । अथवा यो\ऽग्घ्रिः, अनृतो\ऽप्रियो\ऽनादृतो वा भवत्य् अपवर्गो मोक्षो यस्मात् सः । अन्यत् समानम् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् उक्त-माहात्म्यम् । अत एव अनुरूपं भजनस्य योग्यम् अभजं । जन्मान्तरेष्व् अपि तवैव भजनं करिष्यामीति वदन्ती प्रेम-भर-दैन्येन आत्मनो लीला-मानुषीत्वम् एव कर्म-मानुषीत्वं मत्वा तद्-भजनं च दुर्लभं मन्यमाना प्रार्थयते—स्याद् इति । विविध-जन्मभिर् इतस् ततो भ्रमन्त्या अपि । "श्रुतिभिः" इति पाठे काश्चित् श्रुतयस् त्वां सर्वत्रानासक्तं वदन्ति, काश्चित् तु भक्तासक्तं, काश्चित् कदाचिद् दुःखे\ऽप्य् उदासीन-प्रायम् इत्य् एवं-विधाः ताभिः शङ्कां प्राप्नुवत्याः यो\ऽङ्घ्रिः यस् त्वम् इति टीका विचार्या उपयाति इति प्रथम-पुरुषेणान्वयाय त्वं-पदस्य विशेषणत्वं, इत्य् अस्य विशेष्यत्वम् अङ्गीकृत्य समाधेया वा । अन्यत् तैः ।

तत्र च इति भीतस्य इत्य्-आदि-वाक्यार्थ-योजना इति अनेन प्रकारेणेत्य् अर्थः । अत्रानुरूप-पद-व्याख्या पूर्वस्य व्याख्यानाद् एवेति । यद् वा, सृतिभिर् गतिभिः तव तादृश-नाना-चेष्टाभिः, पाठान्तरे "श्रुतिभिः" लक्ष्मी-प्रियत्वादि-कथन-पराभिः तत्राप्य् अनासक्त्य्-आदि-विख्यापिकाभिश् च

यद् वा, तवान्यावतारे सीतादीनां परित्यागादि-श्रवणैः अत्र च श्री-गोपीनां तथाद्यैवेदृश-वचन-श्रवणैश् च अनृतं तादृश-विविध-भ्रमः तस्यापवर्गो यस्मात् गीर्देवी व्यञ्जितार्थश् चायं तव सृतिभिर् नानावतार-रीतिभिर् भ्रमन्त्याः, देवत्वे देव-देहा मा मानुषत्वे च मानुषी [वि।पु। १.९.१४३] इत्य्-आदि-विष्णु-पुराणोक्तेः, भवद्वल्-लीलाकार-प्रकटनेन त्वया सह विहरन्त्याः । पाठान्तरे यथा यथा तत्-तद्-अवतारे मत्-प्रतिपादिकाः श्रुतयः, तथा विहरन्त्या इत्य् अर्थः । कीदृशो\ऽङ्घ्रिः ? अनृतस्यापवर्गो यत्र सः, सच्-चिद्-आनन्द-रूप इत्य् अर्थः । अन्यत् समानम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सृतिभिर् गतिभिस् तव तादृश-नाना-चेष्टाभिः । पाठान्तरे—"श्रुतिभिः" तवान्यावतारे सीतादी-परित्यागादि । अनृतं तादृश-विविध-भ्रमः, तस्य अपवर्गो यस्मात् ॥४३॥,


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अमर्त्याया मम त्वम् एवानुरूप इत्य् आह—तं त्वानुरूपम् अभजम् इत्य्-आदि । यो भवान् भजन्तम् उपयाति भजति । अनृतो मिथ्या-कृतोऽपवर्गो मोक्षोऽपि यस्मात्, अर्थाद् भक्तैर् भजतो जनस्यापवर्गम् अपि मिथ्यात्वेन हापयित्वा स्व-परिजनत्वं सम्पाद्य भजतो जनान् **उप-**भजसि । अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ [भा।पु। १०.१४.२६]5 इति मोक्षस्य मिथ्यात्वम् एव । यद् वा, अनृतात् त्वद्-इतराद् अपवर्जयसि त्याजयसीति अनृताद् अपवर्गो यस्माद् इति विग्रहः । अतो मम त्वम् एवानुरूपोऽसि, तवाप्य् अहं नृ-सृतिभिर् अवतारैस् त्वया सह भ्रमन्त्याः ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं तु श्रुत-चर-त्वद्-गुण-मानुष्य-कन्या विचारवतीत्य् अतस् त्वाम् एवाभजम् इत्य् आह—तम् इति । यत अनुरूपम् आत्मानं परमात्मनस् तव भजनम् उचितम् एवेत्य् अर्थः । स्वस्य लीला-मानुषीत्वम् एवाकस्माद् अतिदैन्योदये कर्म-मानुषीत्वं मत्वा तद्-भजनं प्रार्थयते—स्याद् इति । सृतिभिर् विविध-जन्मभिर् भ्रमन्त्या अपि मे । "श्रुतिभिः" इति पाठे तवान्यत्रावतारे सीतादीनां त्यागस्य श्रवणैः, अत्र च गोपीनां तथाद्यैवैतादृश-वचन-श्रवणैश् च भ्रमन्त्या विविध-शङ्कामयं भ्रमं प्राप्नुवत्या अपि यस् तवाङ्घ्रिं भजन्तम् उपयाति कृपया तत्-समीपं स्वयम् एवायाति । अनृतस्य विविध-भ्रमस्य अपवर्गो नाशो यस्मात्, स तेन तवाङ्घ्रि-पद्मम् एवास्मद्-आदीनां सुखदं सम-रसं च शरणं भूयान्, न तु मुख-पद्मं, यत् खलु विषय-रसम् एव कदाचिन् मारकं विषम् अप्य् उद्गिरति, कदाचित् सञ्जीवकम् अमृतम् अपीति द्योतितम् ॥४३॥


॥ १०.६०.४४ ॥

तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः

स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः ।

यत्-कर्ण-मूलम् अरि-कर्षण नोपयायाद्

युष्मत्-कथा मृड-विरिञ्च-सभासु गीता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ये चोक्ता राज्ञां बहवो गुणाः, राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः [भा।पु। १०.६०.१०] इत्य्-आदिना तत्र सेर्ष्ये सशापं साङ्गुलि-भङ्गं चाह द्वाभ्याम्—तस्याः स्युर् इति । खरा इव केवलं भारवाहाः, गावो बलिवर्दा इव नित्यं व्यापार-क्लिष्टाः, श्वान इवावमताः, विडाला इव कृपणा हिंस्राश् च, भृत्या इव किङ्करा नृपास् तस्या दुर्भगायाः पतयः स्युःयस्याः कर्ण-पथं त्वत्-कथा प्राप्नुयाद् इति ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र राज-गुणेषु । सेर्ष्यम् अक्षान्ति-सहितम् । स-शापं परानिष्टोक्ति-सहितम् । साङ्गुलि-भङ्गं मुखे\ऽङ्गुलि-प्रदान-पूर्वकम् । अवमताः अवज्ञास्पदाः । कृपणा मन्दाः । कृपणः कुत्सिते मन्दे क्रिमाव् अपि इति मेदिनी । दुर्भगाया मन्द-भाग्यायाः । मृडः शिवः । तस्याः स्युर् इति शापः, भवतोपदिष्टा इतीर्ष्या, खर-गो-श्व- इति मुखाङ्गुलि-योग्यम् इति विवेकः ।

[तोषणी-] हे अच्युत ! इति काल-देशाव्यभिचारि-गुणो भवान् एव, अन्यत्र गुणाभास-मात्रत्वे\ऽपि व्यभिचारान् नान्य इति भावः । महा-दोषम् अप्य् आह—स्त्रीणाम् इति। अन्यत् तैः । तत्र किङ्करा इति—किं करोमीत्य् आज्ञा-प्रतीक्षका इत्य् अर्थः । क्षीरस्वामिना तथा तन्-निरुक्तः ।

यद् वा, खर-पदेन ताड्यमानोऽपि ताम् अनुगन्तृत्वात्, गौर् भारवाहकत्वात्, अश्वः कदाचित् तद्-वोढृत्वात्, श्वा वा पिण्ड-वाञ्छया तद्-आज्ञा-कारित्वात्, विडालस् तद्-उच्छिष्ट-भोक्तृत्वात्, भृत्याः पूर्ववद् इति । यस्याः कर्णस्य मूलम् अवधान-विषयम् उप समीपे न यायात्, ईषद् अपि न गच्छेद् इत्य् अर्थः । युष्मद्- इति गौरवेण बहुत्वात् । न च स्त्रीणाम् अल्प-बुद्धित्वात् तासां मनोहरा, अपि तु परम-विदुषाम् अपीत्य् आह—मृड- इति । अरिकर्षण ! हे शत्रुसूदन ! भगवद्-द्वेषेण ते मृत-प्राया इति भावः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतो\ऽहं प्राक्-सिद्धा प्रेयसी, तेन त्वाम् एवाभजम्, किं तु स्त्री-मात्रस्यापि मध्ये या त्वत्-कथा न श्रुतवती, तस्या एव भवतोपदिष्टः पतिः स्याद् इत्य् आक्षेपेणाह अन्वय-व्यतिरेकाभ्याम् । तत्रान्वयं दर्शयति—तस्याः स्युः इत्य्-आदि ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे अच्युत इति—असाधारण-माहात्म्यामृत-परिपूर्णो भवान् एव, अन्ये तु सर्व-गुण-रहिता दुष्टा इति भावः । तद् एव दर्शयति—स्त्रीणाम् इति । स्त्र्य्-अधीनेष्व् इत्य् अर्थः, इति कापुरुषत्वं सूचितम् । यस्याः कर्णस्य मूलं प्रान्तम् अपि उप समीपे न यायात्युष्मद्- इति गौरवेण भक्त-वर्गापेक्षया वा ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे अच्युत ! इति काल-देशाव्यभिचारि-गुणो भवान् एव, अन्यत्र गुणाभास-मात्रत्वे\ऽपि व्यभिचारान् नान्य इति भावः । महा-दोषम् अप्य् आह—स्त्रीणाम् इति। अन्यत् तैः । तत्र किङ्करा इति—किं करोमीत्य् आज्ञा-प्रतीक्षका इत्य् अर्थः । क्षीरस्वामिना तथा तन्-निरुक्तेः ।

यद् वा, खर-पदेन ताड्यमानोऽपि ताम् अनुगन्तृत्वात्, गौर् भारवाहकत्वात्, अश्वः कदाचित् तद्-वोढृत्वात्, श्वा वा पिण्ड-वाञ्छया तद्-आज्ञा-कारित्वात्, विडालस् तद्-उच्छिष्ट-भोक्तृत्वात्, भृत्याः पूर्ववद् इति । यस्याः कर्णस्य मूलम् अवधान-विषयम् उप समीपे न यायात्, ईषद् अपि न गच्छेद् इत्य् अर्थः । युष्मद्- इति गौरवेण बहुत्वात् । न च स्त्रीणाम् अल्प-बुद्धित्वात् तासां मनोहरा, अपि तु परम-विदुषाम् अपीत्य् आह—मृड- इति । अरिकर्षण ! हे शत्रुसूदन ! भगवद्-द्वेषेण ते मृत-प्राया इति भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न त्व् एवाम् अतोऽहं प्राक्-सिद्धा नित्य-प्रेयसी, तेन त्वाम् अभजम् । किं तु स्त्री-मात्रस्यापि मध्ये या त्वत्-कथा न श्रुतवती, तस्या एव भवतोपदिष्टाः पतयः स्युर् इत्य् अन्वय-व्यतिरेकाभ्यां श्लोक-द्वयेनाह—तस्याः स्युर् इत्य्-आदि । ये स्त्रीणां गृहेषु खरादिवद् अधीना भवन्ति ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये चोक्ता राज्ञां बहवो गुणाः राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः [भा।पु। १०.६०.१०] इत्य्-आदिना । तत्र सेर्ष्यं सशापं साङ्गुलि-स्फोटं चाह—तस्या इति द्वाभ्याम् । खरा गर्दभा इव तत्-पाद-ताडिताः, गावो बलीवर्दा इव भारवहनादि-व्यापार-क्लिष्टाः । श्वान इव तद्-गृह-पालनार्थं तद्-अन्येषु वैर-कारिणः । विडाला इव तद्-उच्छिष्ट-भोजिनः । भृत्या इव तद्-दास्य-कारिणो नृपाः तस्याः अधमायाः पतयः स्युःयस्याः कर्ण-पथं त्वत्-कथा न प्राप्नुयात् । हे अरि-कर्षण ! ममारीन् शिशुपालादीन् अन्तक-नगरीं प्रति कर्षसि त्वम् इत्य् अर्थः ॥४४॥


॥ १०.६०.४५ ॥

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्

मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।

जीवच्-छवं भजति कान्तम् अतिविमूढा

या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा हि, ते पदाब्ज-मकरन्दम् अजिघ्रती सती या स्त्री विमूढा, सा कान्तोऽयम् इति मतिर् यस्याः सा कान्त-मतिर् जीवच्-छवं भजतित्वग्-आदिभिर् बहिः पिनद्धं छन्नम्, अन्तर् मांसादि-मयम् इति ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कफादि मल-विशेषः । जीवच्छवं श्वसन्-मृतकम् । एतेन श्री-कृष्ण-वपुस् तु आनन्द-श्मश्रुर् आनन्द-केशः [] इत्य्-आदि श्रुतेमलमयं न, केवलचिद्घन एव, अङ्ग-रचनादि तु भक्तानुग्रहार्थम् एवेति ध्वनितम्


[विश्वनाथः:] स वै पतिः स्याद् अकुतोभयः स्वयम् [५.१८.२०] इत्य्-आदि-प्रमाणतो वस्तुतः स्त्रीणां सार्वकालिकीनाम् अपि त्वम् एव पतिः । तद् अपि या त्वद्-अन्यं पतिं भजति, सा प्रेतम् एव रमयन्ती भजतीत्य् आह—त्वग् इति । जीवच्छवत्वम् एव दर्शयति विशेषण-द्वयेन । त्वग्-आदिभिः पिनद्धम्, अन्यथा दौर्गन्ध्याकृष्ट-मक्षिका-कीट-कोटिभिश् च व्याप्तं स्याद् इति भावः । ते सच्-चिद्-आनन्द-घन-विग्रहत्वेन प्रसिद्धस्य तवात्र त्वग्-आदिषु केषाञ्चित् तत्-सङ्गि-मात्राणां निषेधः । वेदादाव् अप्रसिद्धत्वात् स्वयम् अननुभवाच् च । केषाञ्चित् तु लोक-प्रसिद्ध-जड-मलिनादि-स्वरूपाणाम् एव, न तु तत्र वेद-प्रसिद्धानां सच्-चिद्-आनन्द-स्वरूपाणाम् अपि, वेद-प्रसिद्धत्वाद् एव तथा स्वयम् अनुभवात्, बीभत्स-मात्रस्यैव त्यागस्य विवक्षितत्वाच् चेति ज्ञापितम् । मूढा एव अन्तर् मांसादि-मयं जीवन्तम् एव शवं कान्त-मत्या भजति, ते पादाम्बुज-मकरन्दं पौराणिक-जन-भक्तैः सर्वतः प्रसारितम् अपि या न भजतीति हेतोः सा मूढा, नाहं मूढेति भावः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : व्यतिरेकं दर्शयति—त्वक्-श्मश्रु-रोम- इत्य्-आदि । त्वद्-विग्रहस्यानन्दमयत्वात् नैवं-विधत्वम् । तेन त्वद्-विग्रहे त्वग्-आदिवत् प्रतीयमानं, न तु त्वग्-आदि । अतस् त्वत्-पदाम्बुजम् अजिघ्रती स्त्री एवम्भूतं जीवच्छवं भजति ॥४५-४६॥


त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्

मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।

जीवच्-छवं भजति कान्त-मति-विमूढा

या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च वक्तव्यम् अप्रकटत्वेन नोपयायाद् इति सर्वत्र सर्वैर् एव कीर्त्यमानत्वाद् इत्य् आह—त्वग्- इति । जीवच्छवत्वम् एव दर्शयति विशेषण-द्वयेन, रोमाणि पक्ष्मादीनि, त्वग्-आदिभिः पिनद्धम्, अन्यथा दौर्गन्ध्याद्य्-आकृष्ट-मक्षिकादि-कीट-कोटिभिर् व्याप्तेर् इति भावः । त्वग्-आदिनां यथा-पूर्वं मांसादि-पिधाने श्रैष्ठ्यं । तथा मांसादीनां घृणाभरास्पदत्वम् आधिक्यं वा ज्ञेयम् । विशेषेण मूढा विवेकहीना, ते सच्-चिद्-आनन्द-घनमूर्तेस्तव । एवं राजभिः सहासमान् इति पक्षे\ऽपि तेषामत्यस्तापकर्षस्य श्री-भगवत्परमोत्कर्षस्य चोक्त्यासमत्वम् एव दृढीकृत्योत्तरितम् इति । अन्यत् तैर् व्याख्यातम् । यद् वा, कान्तमतिः सुन्दरबुद्धिर् अपि त्वत्पदाब्जरसगन्ध-राहित्येन विमूढा सतीत्य् अर्थः ॥४५ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो अत्यन्तघृणास्पदत्वेन च ते कथञ्चिद् अपि त्वदीयानां मनसोऽपि सम्बन्धयोग्या न स्युर् इत्य् आह—वगिति । जीवच्छवत्वम् एव दर्शयति—त्वगित्य्-आदिना । विशेषणद्वयेन यस्य शरीरमात्रस्य दृष्टया कान्तमतिः स्त्रीप्रवर्तते तस्य शवेन को भेद इति भावः । त्वगादिभिः पिनद्धम् अन्यथा दौर्गन्ध्याधाकृष्टमक्षिकादिकीटकोटिभिश् च व्याप्त स्यात्, यथाहुः—

यदि नामास्य कायस्य यद् अन्तस् तद् बहिर् भवेत् । > दण्डम् उद्यम्य लोको\ऽयं शुनः काकाश् च वारयेत् ॥ इति भावः ।

ते सच्-चिद्-आनन्द-विग्रहत्वेन प्रसिद्धस्य तव अत्र त्वगादिषु केषाञ्चित्तत्सञ्ज्ञिमात्राणां निषेधः वेदादावप्रसिद्धत्वात् स्वयमनुभवाच् च केषाञ्चित्तु लोकप्रसिद्धजडमलिनादिस्वरूपाणाम् एव नतु तत्र वेदप्रसिद्धानां सच्-चिद्-आनन्द-रूपाणाम् अपि वेदप्रसिद्धत्वाद् एव तथा स्वयमनुभवात् बीभत्सपरित्यागमात्रस्यैव विवक्षित्वाच्चेति ज्ञापितम् । अत्र या लीलया धृततनोरनुरूप-रूपा इत्य् उक्तत्वादस्यास्त्वयम् अभिप्रायः भवत्सदृशदेहा मादृशी तावत् स्वत एव तादृशे जुगुप्सिते यातु स्वयम् अपि त्वगित्याद्युक्तलक्षणदेहा सापि कथञ्चित्तादृशत्वदनुभवं विनैव तत्र रमते त्वदनुभवे सति नतु स्वदेहेऽपि किं च, त्वद्भजनयोग्यत्वाय मलिनवस्त्रादिवत्तत्त्यागम् अपि वाञ्छति योग्यत्वस्य तु क्रमतारतम्यं ज्ञेय त्रिवक्राया इव पूर्वदेह एव सद्यस्त्वयोग्यत्वाविर्भावात् अन्तर्गृहगताः काश्चिद् इत्याद्युक्तानाम् इव पूर्वदेहत्यागपूर्वकत्वद्योग्यदेहाविर्भावात् पिङ्गलाया इव स्वदेहे जुगुप्साया उदयात् किम्बहुना कान्यं श्रयेतेति मदनुभवोक्त्या तथा दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनर् उपासते पुरुषसारहरावसथान् इति श्रुत्युक्त्या च वयं सर्वा अपि त्वनिष्ठा एव प्राकृते त्वत्सारूप्यं प्राप्ते च नासज्जामः किमुत त्वद्विरोधिषु चैद्यादिष्विति ॥४५॥


जीव-गोस्वामी (भगवत्-सन्दर्भ ३७): तस्माद् विलक्षण-पाणि-पादादित्वेनैवापाणि-पादादित्वम् । यथाह—त्वग् इति


अथ श्री-भगवति केशादीनां श्रूयमाणानाम् आनन्दस्वरूपत्वम्, अन्येषां त्वभाव एवेति वैलक्षण्यं स्पष्टम् एव । अत एव हि हिरण्यकशिपुं प्रति तन्मारकजननिषेधलक्षणब्रह्मवरदानम् अपि सङ्गच्छते, व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैर् [भा।पु। ७.३.३७] इति । न चैतत् करणस्य निषेधपरं, किं तु कर्तुरेव, कर्तृप्रकरणात् । अप्राणिभिः प्राणिभिर्वेत्युक्तेस्तस्यैव प्राप्तत्वात् । हन्तुर्जीवद्देहसाम्येऽपि सप्राणभागान् निष्क्रान्तस्य कर्तनीयनखाग्रभागस्य त्यक्तप्राणत्वाच् च ।

तस्माद् अस्माकम् अप्राणो ह्य् अमनाः शुभ्र [मु।उ। २.१.२] इति, अस्य महतो भूतस्य निःश्वसितमेतद् [बृ।आ।उ। २.४.१०] इति च श्रुतिर्नासङ्गतेति । अत एवोक्तं वाराहे—

न यस्य प्राकृता मूर्तिर् मेदो-मज्जास्थि-सम्भवा । > न योगित्वाद् ईश्वरत्वात् सत्य-रूपोऽच्युतो विभुः ॥ इति ॥

तच् चाप्राकृत-मूर्तित्वं तस्य महायोगित्वादिच्छाकृतम् इति न, किन्त्वीश्वरत्वान्नित्यम् एवेत्य् अर्थः । तथा च प्रयोगः—ईश्वरः सविग्रहः ज्ञानेच्छाप्रयत्नवत् कर्तृत्वात् कुलालादिवत् । स च विग्रहो नित्यः, ईश्वरकरणत्वात् तज्ज्ञानादिवद् इति । अत एव विलक्षणत्वम् अपि । जीवच्छवम् इति चैतन्ययोगेन जीवन्तं, स्वतस् तु शवम् । ततः श्री-भगवद्विग्रहस्तु चिदेकरसत्वात् सदा जीवन्नेवेति वैलक्षण्यं युक्तं, नित्यानन्दचिद्रूपत्वात् भजनीयत्वं च युक्तम् इति भावः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वक्-श्मश्र्व् इति ॥४५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : व्यतिरेकम् आह—त्वक्-श्मश्रु-रोम- इत्य्-आदि । त्वद्-विग्रहस्य सान्द्रानन्दमयत्वात् । अतस् त्वत्-पदाब्जम् अजिघ्रती जीवच्छवं जीवन्मृतं भजति । या तु जिघ्रती, सा तु जीवच्छवान् त्वद्-इतरान् पतीन् न कामयते । यद् एतद् उक्तं भवता, तत् सर्वम् अनन्वितम् एव ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स वै पतिः स्याद् अकुतोभयः स्वयम् [५.१८.२०] इत्य्-आदि-प्रमाणतो वस्तुतस् तु स्त्रीणां सार्वकालिकीनाम् अपि त्वम् एव पतिः । तद् अपि या त्वद्-अन्यं पतिं भजति, सा प्रेतम् एव रमयन्ती भजतीत्य् आह—त्वग् इति । जीवच्छवत्वम् एव दर्शयति विशेषण-द्वयेन—त्वग्-आदिभिर् बहिः पिनद्धम्, अन्यथा दौर्गन्ध्याकृष्ट-मक्षिका-कीट-कोटिभिश् च व्याप्तं स्याद् इति भावः । अन्तर् मांसादिमयं जीवं

ते सच्-चिद्-आनन्द-घन-विग्रहत्वेन प्रसिद्धस्य तव पदाब्जस्य आत्र त्वग्-आदिषु केषाञ्चित् तत्-सङ्गि-मात्राणां निषेधः । वेदादाव् अप्रसिद्धत्वात् स्वयम् अननुभवाच् च । केषाञ्चित् तु लोक-प्रसिद्ध-जड-मलिनादि-स्वरूपाणाम् एव, न तु तत्र वेद-प्रसिद्धानां सच्-चिद्-आनन्द-स्वरूपाणाम् अपि, वेद-प्रसिद्धत्वाद् एव तथा स्वयम् अनुभवात्, बीभत्स-मात्रस्यैव त्यागस्य विवक्षितत्वाच् चेति ज्ञापितम् । मूढा एव अन्तर् मांसादि-मयं जीवन्तम् एव शवं कान्त-मत्या भजति, ते पादाम्बुज-मकरन्दं पौराणिक-जन-भक्तैः सर्वतः प्रसारितम् अपि या न भजतीति हेतोः सा मूढा, नाहं मूढेति भावः ॥४५॥

अन्तर्मांसादिमयं जीवं तम् एव शवं कान्तोऽयम् इति मतिर् यस्याः सैव मूढा भजति । मौढ्यम् एवाह—ते सच्-चिद्-आनन्द-विग्रहत्वेन प्रसिद्धस्य तव पदाब्जस्य मकरन्दं माधुर्यं पौराणिक-जन-प्रभञ्जनैः सर्वत्रैव प्रसारितम् अप्य् अजिघ्रती ॥४५॥


॥ १०.६०.४६ ॥

अस्त्व् अम्बुजाक्ष मम ते चरणानुराग

आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः ।

यर्ह्य् अस्य वृद्धय उपात्त-रजोऽतिमात्रो

माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् उक्तं उदासीना वयम् [भा।पु। १०.६०.२०] इत्य्-आदिना तत्राह—अस्त्व् इति । यद्यपि त्वं निरपेक्षः, तथापि मम ते चरणानुरागोऽस्तुमयि च मय्य् अपि नातिरिक्ता अतिशयवती दृष्टिर् यस्य, तस्य ते । आत्मन् आत्मन्य् एव रतस्य । तर्हि तव तेन को लाभः ? त्वच्-चरणानुराग एव महान् लाभः । किं च, यर्ह्य् अस्य विश्वस्य वृद्धये उपात्ता रजसोऽतिमात्र्आ औत्कट्यं येन, स तथाभूतः सन् माम् ईक्षसे एवार्थे । हर्षे । तद् एव नः परमानुकम्पा अत्यनुग्रह इति ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वापेक्षाम् अप्य् आह—किं च इति । यद् वा, अस्य जगतो\ऽभिवृद्धये सृष्टये उपात्तं रजो\ऽतिमात्रं रजो येन, स तथा । यद् वा, उपात्ता प्रलये मूल-रजसि अतीताः सङ्गता मात्रा अंशा येन स तथा । यद् वा, स्थित्यै उपात्ता रजसो\ऽतिरिक्ता मात्रा सत्त्व-लक्षणा येन, तदा माम् ईक्षते । यद् वा, वर्धनं छेदेन वृद्धिः संहारः, तस्यै उपात्ता रजो\ऽतिक्रान्ता मात्रा तमो-लक्षणा येन, स तथा । अत्रेक्षणं नाम तत्-तत्-कार्यम् अनुस्मृत्य रज-आदि-मद्-अधीन-तत्-तद्-गुणाभिवर्धनम् अभिप्रेतम् ।

अथ

त्रिगुणा ह्य् एष प्रकृतिर् अगुणो वा विष्णुः स > यदात्म-रजा रजो\ऽस्या उद्वर्धयती स्यात् ॥ इत्य्-आदि श्रुतेः ।

नैतत् स्व-प्रयोजनम् उद्दिश्येति—किं त्व् अस्मान् उद्दिश्य परमानुकम्पेति भावः । हे अम्बुजाक्ष ! इति सौरूप्योद्देशः । तत्रातिलोभे हेतुः—माम् । प्रकृति-रूपाम् इति । दैन्येनाभेदोक्तिः, प्रकृतेस् तच्-छाया-रूपकत्वेन निकृष्टांशत्वात्, न त्व् आत्म-रत्या । तद् अपि न घटेत इत्य् आशङ्क्याह—उपात्त- इति । उपादानम् अत्र सान्निध्य-मात्रेणोपकरणम्**, ईक्षणं** च स्वैरितयैवेति ज्ञेयम् ।

यद् वा, मत्-सम्बन्धाभासेन तत्रापि मद्-रूपताम् आरोप्य तव दृष्टिर् इति स्थिते मयि तु परमा एव अनुकम्पा इति मद्-विध-त्वद्-एक-शरण-जन-सम्बन्धाद् अन्यत्रैव तवौदासीन्यम् इति भावः । तद् एवम् एव टीका-प्रतिज्ञातं च षोडशानाम् अपि दोषाणाम् असत्त्वं घटेत । यद् वा, मयि रतस्य, यतः अनतिरिक्त-दृष्टेः स्वरूप-शक्तित्वान् मय्य् अभिन्न-दृष्टेः । रजो रागस् तत्राप्य् अन्यानुरागस्य विवृद्धये स्वयम् उपात्त-रागातिमात्रः सन् यन् माम् ईक्षसे कदाचिद् आलोकयसि तत् परमानुकम्पा तद्रूपम् एव । अन्यत् समम् । अतः नाम-रूपे भगवती [भा।पु। ६.१९.१३]6 इति षष्ठ-स्कन्धोक्तेस् तव देहस्यात्मैक-रूपत्वान् मम च तद्-अभिन्नत्वात् तन् मत्-सम्बन्धाद् अन्यत्रैव उदासीना [भा।पु। १०.६०.२०] इत्य्-आदि-वाक्य-प्रवृत्तिर् इति भावः ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अम्बुजाक्ष! हे परम-सुन्दर ! इत्य् अर्थः । अतस् त्वच्-चरणयोर् अनुरागो\ऽस्तु, आत्म-रतत्वाद् एव मयि पत्न्याम् अप्य् अनतिरिक्ता अन्य-लोक-साधारणी दृष्टिर् मतिर् यस्य, तस्य । अस्य सकल-भक्त-गणस्य, मां लक्ष्मी मां प्रकृति-रूपां, प्रकृतेर् अपि तद्-अंशत्वात् । यद् वा, विभूति-प्रधानाद्य्-अर्थम् ईक्षसे\ऽपेक्षसे ।

ननु, आत्मरत्या तद् अपि न घटेत ? इत्य् आशङ्क्याह—उप- इति । यद् वा, सन्तत्य्-उत्पादनेन अस्य यदु-वंशस्य वृद्धये\ऽत्यर्थम् इत्य् अर्थः । तस्य गुणातीतत्वे\ऽपि रज इत्य् उक्तिर् अप्राकृत सच्-चिद्-आनन्द-गुणान्तर्-गत-रजो\ऽभिप्रायेण । तच् च श्री-भागवतामृते बहुशो विवृतम् एव । नः इति स्व-सखी-दास्य्-आद्य्-अपेक्षया । परमा इति तस्याः सुदुर्लभत्वात् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अम्बुजाक्ष इति त्वच्-चरणानुरागेण त्वत्-सौन्दर्य-दर्शनम् एव महालाभ इति भावः । किं च, अस्यानुरागस्य वृद्धये उपात्तैर् गोप-क्रीडया स्वीकृतै रजोभिर् गोपाद् धूलिभिर् अतिक्रान्ता मात्रा बर्हापीडम् गुञ्जावतंस-वनमाला-वस्त्रादि-परिच्छदो यस्य सः, ब्रजजनानन्दक-सायन्तन-गोप-वेशः सन्न् इत्य् अर्थः । तथा च विश्वः—

मात्रं चावतो धृतौ कर्त्स्न्य्णे मात्रा कर्ण-विभूषणे । > अक्षरावयवे वृत्त माने\ऽल्पे च परिच्छदे ॥इति ।

यद् वा, उपात्तै रजोभिर् अतिमात्रो भरितः । अन्यत् समानम् ॥४६॥

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे अम्बुजाक्ष ! इति सौरूप्योद्देशः । तत्रातिलोभे हेतुः—मां प्रकृति-रूपाम् इति दैन्येनाभेदोक्तिः प्रकृतेस् तच्-छाया-रूपत्वेन तन्-निकृष्टांशत्वात् । नन्व् आत्म-रत्या तद् अपि न घटत इत्य् आशङ्क्याह—उपात्त- इति । उपादानम् अत्र सान्निध्य-मात्रेणोपकरणम् ईक्षणं च स्वरितयैवेति ज्ञेयं । यद् वा, मत्-सम्बन्धाभासेन तत्रापि मद्-रूपताम् आरोप्य तव दृष्टिर् इति स्थिते मयि तु परमा एव अनुकम्पा इति मद्-विधत्वाद् एक-शरण-जन-सम्बन्धाद् अन्यत्रैव तवौदासीन्यम् इति भावः । तद् एवम् एव टीका-प्रतिज्ञातं च षोडशानाम् अपि दोषाणाम् असत्त्वं घटते । किं तु प्रथमं प्रकृति-वीक्षणं ततस् तस्याः क्षोभः, ततो गुणानां पार्थक्ये सति सृष्ट्य्-अर्थं रजसः पृथग् वीक्षणम् इति क्रमो लभ्यते । यद् वा, मयिरतस्य यतः अनतिरिक्त-दृष्टेः स्वरूप-शक्तित्वात् मय्य् अभिन्न-दृष्टेः रजो रागः तत्राप्य् अस्यानुरागस्य विवृद्धये स्वयम् उपात्त-रागातिमात्रश् च सन् यन् माम् ईक्षसे कदाचिद् आलोकयसि, तत् परमानुकम्पा तद्-रूपम् एव । अन्यत् समानम् । अतस् तव देहस्य आत्मैक-रूपत्वान् मम च तद्-अभिन्नत्वात् तन् मत्-सम्बन्धाद् अन्यत्रैव उदासीना इत्य्-आदि-वाक्य-प्रवृत्तिर् इति भावः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्तु इति ॥४६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मम पुनर् एतद् एवास्त्व् इत्य् आह—अस्त्व् एवम् इत्य्-आदि । हे अम्बुजाक्ष ! ते तव चरणाम्बुजानुरागो मेऽस्तु । कीदृशस्य तव ? आत्मन् रतस्य, आत्मनि भक्ते रतस्य मयि विरतस्य इत्य् अन्वयः । कुतः ? अनतिरिक्त-दृष्टेस् तुल्य-दृष्टेः । अहं भार्येति मय्य् अधिका दृष्टिर् मास्तु । तुल्या तद् भवितुम् अर्हतीति भावः । यर्हि यदा अस्य चरणानुरागस्य वृद्धय उपात्तरजोऽतिमात्रो गृहीत-रागातिशयः सन् माम् ईक्षसे, तद् एव नोऽस्मान् प्रति परमा अनुकम्पा इत्य् अर्थः ॥४६॥


अस्त्व् अम्बुजाक्ष मम ते चरणानुराग

आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः ।

यर्ह्य् अस्य वृद्धय उपात्त-रजोऽतिमात्रो

माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तम् उदासीना वयम् [भा।पु। १०.६०.२०] इति तत्र तद्-उदासीनतानुसन्धान-मात्रेणैव मान-स्थायि-भावोपशान्तौ सत्याम् अतिदैन्य-समुद्रे निमज्जन्त्य् एवाह—अस्तु इति । यद्यपि त्वं निरपेक्षः, तद् अपि मम ते चरणानुरागोऽस्तु । मयि तवौदासीन्यम् उचितम् एवेत्य् आह**—आत्मन्** रतस्य आत्मारामस्य, अत एव यथा ते जगत्य् अस्मिन्न् उदासीना दृष्टिः, तथैव मयि च अनतिरिक्ता अतोऽनधिका दृष्टिर् यस्य, तस्य । किं च, यर्हि अस्य विश्वस्य वृद्धये उपात्ता रजसोऽतिमात्रा औत्कट्यं येन, स तथाभूतः सन् माम् ईक्षसे एवार्थे । हर्षे । तद् एव नः परमा अनुकम्पा । तद् एवाहं परमं स्व-सौभाग्यम् अभिमन्ये इति भावः ।

अयम् अर्थः—तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [भा।पु। १०.५३.२] त्वद्-वचनान् मयि तवासक्तिः । उदासीना वयम् [भा।पु। १०.६०.२०] इति वचनाद् औदासीन्यं च दृश्यते । तस्मान् मयि भवान् आसज्जते चेद् अहं ते परमान्तरङ्गा स्वरूप-शक्तिर् एव । अत एवात्मारामोऽपि मय्य् आत्म-भूतायां रमत एव मय्य् उदास्ते चेद् अहं ते बहिरङ्गा शक्तिर् गुण-प्रकृतिर् एव इत्य् अतो मयि तवोभयत्वम् इव त्वय्य् अपि ममोभयत्वम् इति ॥४६॥


॥ १०.६०.४७-४८ ॥

नैवालीकम् अहं मन्ये वचस् ते मधुसूदन ।
अम्बाया इव**7 हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥

व्यूढायाश् चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं सर्वं तद् उक्तं प्रतिव्याख्याय प्रसन्न-चित्ता मन्त्रम् उपदिशन्त्य् आह द्वाभ्याम्—नैव इति । अथात्मनोऽनुरूपम् [भा।पु। १०.६०.१७] इत्य्-आदि ते वचोऽलीकं मिथ्येति नैव मन्ये । यतो लोके कन्याया एव क्वचिद् रतिर् भवति । यथा काशिराज-कन्यानाम् अम्बाम्बालिकाम्बिकानां तिसृणां मध्ये अम्बायाः कन्याया एव शाल्वे रतिर् जाता, तद्वत् ॥४७॥

व्यूढायाः परिणीताया अपि इति । उभयस्माद् इह-पर-लोक-द्वयाच् च्युतो भ्रष्ट इति ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्त्रं रहस्यम् । तद्वद् अम्बावत् । त्वय्य् एव मम रतिः पर्यवस्यतीति भावः । भारते चेयं कथा—काशिराज-पुत्री-त्रयम् अम्बादिकं भीष्मेण स्वयंवरे जितम् । जित्वा च ताः स्व-भ्रात्रे विचित्रवीर्याय प्रायच्छत् । तदा तास्व् अम्बोवाच—"हे भीष्म ! नाहं त्वां त्वद्-भ्रातरं चान्यं वा विना शाल्वं वृणे" इत्य् उक्तो भीष्मस् तां शाल्वाय प्रस्थापयामास इत्य् अलं विस्तृत्या ।

अथवा—यद् एतत् सर्वम् उक्तं भवता तत् तु स्त्री-साधारणत्वम् एवाभिप्रेत्य, न तु तद्-विशेषत्वम् । तच् च युक्तम् इत्य् उपसंहरति—नैव इति युग्मकेन । वचः स्त्री-जाति-स्वभाव-सूचकम् ईदृशं वचनम्, अलीकम् अविषयं नैव मन्ये, हि यस्मात्, कन्याया अपि क्वचिद् एकत्रैव पुरुषे रतिः स्यात्प्रायो बाहुल्येनेति तासु साध्वी जातिर् इत्य् अर्थः । टीकायां च कन्याया एव कस्याश्चिद् एव कन्याया इत्य् अर्थः । तत्र दृष्टान्तः—अम्बाया इव इति ॥४७॥

पुमांसं दृष्ट्वा चलति निजधर्माद् या, सा पुंश्चली,

या नारी रूप-जात्य्-आद्य् अचिन्तयित्वोत्सुका भवेत् । > पुरुषोऽयम् इति ज्ञात्वा रत्यै सा पुंश्चली स्मृता ॥ इत्य्-उक्तेः ।

असतीं पुंश्चलीं न बिभृयात् विवाहिताम् अपि पृथक्-शय्यां कुर्याद् इत्य् अर्थः । एवम् अकुर्वन् पतितो भवतीत्य् आह—ताम् इति ।

पुंश्चल्यां गमनाद् विप्रस् तप्तसूर्मिं व्रजेत् पुनः । > जीवन्न् एव भवेच् छूद्रो मृतो भुग्क्ते\ऽत्र यातनाः ॥ इति स्मृतेः ।

विप्र इत्य् उपलक्षणम् । मृतः पुनर् अत्र तप्तसूर्मौ । पुनः पुंश्चल्यास् तु व्यूढाया अपि इत्य्-आदि । मादृशी तु सर्वोत्तमैव सर्वज्ञेन भगवता स्वीकाराद् इत्य् आह—बुध इति । न बिभृयात् बिभर्तीति न सम्भाव्यत इत्य् अर्थः । अत उभय-च्युत एव तां बिभ्रद् भवतीत्य् अर्थः । एतेन अथात्मनो\ऽनुरूपम् [भा।पु। १०.६०.१७] इत्य्-आद्य्-उत्तरितम् ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहरति—नैवालीकम् इत्य्-आदि । किं बहुना ? स्वालौकिकत्व-प्रकटनेन त्वया यद् यद् उक्तं, तद् एव सत्यम्, नैवालीकम् अहं मन्ये । अन्ये मन्यन्ते चेत्, मन्यन्तां नाम, किं तु नाहं लक्ष्मीः, न त्वम् अपि भगवान् । अस्त्व् एवम्, अपि तु लोके\ऽपि दृश्यताम्—कन्यायाः क्वचिद् एव रतिः । तत्र अम्बा एव प्रमाणम् । इदम् अपि न ज्ञायते इत्य् आक्षेपः ॥४७॥

पुंश्चल्यास् तु व्यूढाया अपि मनो नवं नवम् अभ्येतितां बिभ्रत् बुधो\ऽपि उभय-च्युतो भवति, न तु त्वम्, कदाचित् तन्-मध्ये त्वां चेद् अभ्येति, तदा साप्य् एकान्त-भक्ता भवति, पिङ्गलावत् । तस्मात् त्वया यद् उक्तं तत् सर्वं प्रलाप एवम् आक्षेपः ॥४८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे मधुसूदन ! इति मधुम् आदि-दैत्यं प्रति वर-दानादि-पालनेन सत्य-वाक्यम् । श्लेषेण मधुसूदनो भ्रमरः, तद्वत् सारग्राहित्वं सूचयति । अतो\ऽलीकं नैव मन्ये, किं तु कन्याया एव मन एक-निष्ठम्, न त्व् अन्यस्या इत्य् आह—अम्बाया इव इति । हि यतः, क्वचित् कस्मिंश्चिद् एकस्मिन् पुरुषे । प्राय इति कस्याश्चित् कन्याया अपि पुरुषान्तरे तैः, न त्व् अन्यस्या इत्य् अभिव्यञ्जयति ॥४७॥

व्यूढाया इति । अपि, व्यूढाया अपि पुंश्चल्या दुष्टायाः सत्याः, अपि गर्हायाम्, अभितो याति । यद् वा, अभि अभयं यथा स्यात्, तथा यातिनवं नवम् इति पूर्व-पूर्व-त्यागेन अपरापर-कामान् न बिभृयाद् गृहे न रक्षेत्, किं तु परित्यजेद् एवेत्य् अर्थः—बुधश् चेत् । यद् वा, ननु, मनो-वृत्तं कथं ज्ञातं स्यात् ? तत्राह--बुध इति ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथवा यद् एतत् सर्वम् उक्तं भगवता, तत् तु स्त्री-साधारणत्वम् एवाभिप्रेत्य, न तु तद्-विशेषत्वं । तच् च युक्तम् इत्य् उपसंहरति—नैव इति युग्मकेन । वचः स्त्री-जाति-स्वभाव-सूचकम् ईदृशं वचनम् अलीकम् अविषयं नैव मन्ये हि यस्मात् कन्याया अपि क्वचिद् एकत्रैव पुरुषे रतिः स्यात् । प्रायो बाहुल्येनेति तासु साध्वी-जातेर् इत्य् अर्थः । टीकायां च कन्याया एव इति कस्याश्चिद् एव कन्याया इत्य् अर्थः । तत्र दृष्टान्तः--अम्बाया इव इति । अतः पंश्चल्यास् तु व्यूढाया अपि इत्य्-आदि मादृशी तु सर्वोत्तमैव सर्वज्ञेन भवता स्वीकाराद् इत्य् आह—बुध इति । न बिभृयात् बिभर्तीति न सम्भाव्यत इत्य् अर्थः । अत उभय-च्युत एव तां बिभ्रद् भवतीत्य् अर्थः । एतेन अथात्मनो\ऽनुरूपम् [भा।पु। १०.६०.१७] इत्य् अप्य् उत्तरितम् ॥४७-४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नैव इति ॥४७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—नैव इत्य्-आदि । किं बहुना, स्वालौकिक-प्रकटनेन त्वया यद् उक्तम्, तद् एव सत्यम्, नैवालीकम् अहं मन्ये । अन्ये मन्यन्ते चेत्, मन्यन्तां नाम । लौकिकेऽपि दृश्यते कन्यायाः क्वचिद् एव रतिः । तत्रास्यैव प्रमाणम् इदम् अपि त्वया न ज्ञातम् इत्य् आक्षेपः ॥४७॥

पुंश्चल्यास् तु व्यूढाया अपि मनो व्यभिचरतीति दर्शयन्त्य् आह—व्यूढाया इत्य्-आदि । तां बिभ्रद् बुधोऽपि उभय-च्युतो भवति । त्वां विना पुरुषान्तरं भजन्ति याः, ता एवं पुंश्चल्य इत्य् आक्षेपः ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथवा मम स्त्री-जातित्वान् माम् एव लक्ष्यीकृत्य अन्यासां स्त्रीणां स्वभावं व्याख्याय पुरुषान् परान् भवान् अशिक्षयद् इत्य् आह—नैव इति । अथात्मनो\ऽनुरूपम् [भा।पु। १०.६०.१७] इत्य्-आदि ते वचः अलीकं न मन्ये, यतो लोके कन्याया अपि क्वचिद् रतिर् भवति, यथा काशीराज-कन्यानाम् अम्बाम्बालिकाम्बिकानां तिसॄणां मध्ये अम्बायाः कन्याया अपि शाल्वे रतिर् जाता ॥४७॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्वद् एव व्यूढाया अपिउभयस्मात् लोक-द्वयात् । बुधो विज्ञ एव, त्वं तु सर्वज्ञ एव मां पूर्वम् एवात्यक्ष एव यदि मां तादृशीम् अज्ञास्य इति भावः ॥४८॥


॥ १०.६०.४९ ॥

श्री-भगवान् उवाच—

साध्व्य् एतच् छ्रोतु-कामैस् त्वं राज-पुत्रि प्रलम्भिता ।
मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रलम्भिता उपहसिता । अन्वात्थ अन्वाख्यातवती ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् पूर्वोक्तं वचः । अन्वाख्यातवती अनुवादं कृतवती । तद् अनुवाद-रूप-कथनम् । यद्यपि हे साध्वि ! इति गुणेन, हे राजपुत्रि ! इत्य् ऐश्वर्य-जातिभ्यां स्तूयते, तथापि साध्वी इति साध्व् एवोत्तरं विचार्य दातव्यं त्वयेति मयोक्तम् इति भावः । तच् च युक्तम् एवेत्य् आह—राजपुत्रि ! इति । श्रोतु-कामैर् अस्माभिर् इति बहुत्वेन परिहसितुं तत्-सख्योऽपि काश्चित् क्रोडीकृता अत्र, न तु अस्मदो द्वयोश् च इति बहु-वचनं प्राप्नोति, स-विशेषणानां प्रतिषेधः इति तन्-निषेधात्, तथाप्य् अस्मच्-छब्दो\ऽध्याहृत एव । यद् वा, श्रोतु-कामैर् मत्-कर्णेन्द्रिय-वृत्ति-समूहैर् एव तद्-द्वारा प्रलम्भिता अनु अनन्तरम् एव आत्थ मद्-उक्तिम् एव प्रकारान्तरेण व्याख्यातवतीत्य् अर्थः ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे साध्वि ! इति त्वया साध्व् एवोत्तरं दातव्यम् इति भावः । तच् च युक्तम् एवेत्य् आह—हे राजपुत्रि ! इति । अत एव श्रोतु-कामैर् अस्माभिः, बहुत्वं शुश्रूषाया गौरवेण आत्मनो बहु-मानात् । हि निश्चये, अत्र संशयो नास्तीत्य् अर्थः ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि हे साध्वि ! इति गुणेन, हे राजपुत्रि ! इत्य् ऐश्वर्य-जातिभ्यां स्तूयते, तथापि साध्वी इति साध्व् एवोत्तरं दातव्यं त्वयेति विचार्य मया तथोक्तम् इति भावः । तच् च युक्तम् एवेत्य् आह—राजपुत्रि ! इति । अत एव श्रोतु-कामैर् अस्माभिः प्रलम्भिता परिहसिता । बहुत्वं तत्र स्थिताः सखीर् अप्य् आत्मना सम्मेल्य सहायीकरोति मां प्रत्यापयति च । अन्वात्थ मद्-उक्तिम् एवानुकूल-प्रकार-विशेषेण व्याख्यातवतीत्य् अर्थः । हि निश्चये, अत्र संशयो नास्तीत्य् अर्थः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रोतु-कामैर् अस्माभिर् इति बहु-वचनेन परिहसितुं तत्-सख्योऽपि काश्चित् क्रोडीकृताः । अत्र न तु अस्मदो द्वयोश् च [पाण् १.२.५९] इति बहु-वचनं प्राप्नोति स-विशेषणानां प्रतिषेध इति तन्-निषेधात् । तत्राप्य् अस्मच्-छब्दोऽत्राध्याहृत एव । यद् वा, श्रोतु-कामैर् मत्-कर्णेन्द्रिय-वृत्ति-समूहैर् एव मद्-द्वारा प्रलम्भिता उपहसिता अनु अनन्तरम् आत्थ, मद्-उक्तिम् एव प्रकारान्तरेण व्याख्यासि व्याख्यातवतीत्य् अर्थः ॥४९॥


॥ १०.६०.५० ॥

यान् यान् कामयसे कामान् मय्य् अकामाय कामिनि8

सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मयि एकान्त-भक्तायास् ते कामाः सन्त्य् एव । अकामाय काम-निवृत्तये मोक्ष-पर्यवसायिन इत्य् अर्थः ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—काम-निवृत्तिर् एव मोक्षः । तथा हि—

प्रजहाति यदा कामन् मानवो मनसि स्थितान् । > तर्ह्य् एव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ [भा।पु। ७.१०.९] > इति प्रह्लादः ।

अत्र परम-सन्तुष्टेनापि मया कस् तुभ्यं वरो देयः ? इत्य् आह—यान् इति । काम्यन्त इति कामा गुणाः सम्पदश् च अकामाय कामाद् अन्यस्मै प्रेम-मात्र-विलासाय, अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदि तथार्थ-प्रतीतेः । हे कामिनि ! इति स्वभाव-सम्बोधने । मद्-विषयक-कामवत्यास् तव ते मदीयम् एवायोग्याः कामाः कन्याश् च सर्वोत्कृष्टा एवेति भावः । यद् वा, कामिनि त्वद्-विषयक-काम-युक्ते मय्य् एवम् अन्योन्य-तत्परत्वेन परम-प्रियतोक्ता । "भामिनि" इति पाठे हे कोपति, यतः कृत्रिम-वाक्येनापि मत्-परिचर्या-प्रातिकूल्ये सति त्वं महा-कोपम् अकार्षीर् इति भावः । हि एव, सन्त्य् एव, स्वभावतो वर्तन्त एव । तत्रापि नित्यम् एव अकामाय इत्य्-आदौ हेतुः—एकान्त-भक्तायाः निष्काम-भक्तायाः । यद् वा, अ-कार-वाच्ये मयि वासुदेवे कान्तो\ऽयम् अतो\ऽस्यायोग्योक्तिर् अपि सोढव्येत्य् एवं भक्तायाः स्नेहवत्या इत्य् अर्थः । अतो हे कल्याणि ! नित्य-मङ्गले ! एकान्त-भक्ताया इत्य्-उक्त्या कामान् इत्य् अस्य अकामाय इत्य् अस्य चान्यार्थकता परास्ता ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि प्रसाद-विशेषं विधेहीत्य् अपेक्षायाम् आह—यान् इति, वीप्सयालौकिका अपि सर्वं गृहीताः । अकामाय प्रेम-विलासाय । हे कामिनि इति—मद्-विषयक-कामवत्यास् तव ते कामाः सर्वोत्कृष्टार्थ-प्राप्ति-रूपाः सन्त्य् एवेति भावः । यद् वा, कामिनि त्वद्-विषयक-काम-युक्ते मयि । एवम् अन्योन्यं सकामत्वेन परम-प्रियतोक्ता । अतो न विद्यते कामः फलाभिसन्धिर् यस्मिन् प्रेम्णि, तस्मै तद्-वृद्धये यान् यान् कामयसे, हि एवं, सन्त्य् एव, स्वभावतो वर्तन्त एव । कुतः ? एकान्त-भक्तायाः । तद् अपि कुतः ? हे कल्याणि! स्वधर्माचरणात् नित्य-प्रियत्वाद् वेति भावः । अतः परम-सन्तुष्टेनापि मया किं ते वरो देयः ? इति भावः ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र परम-सन्तुष्टेनापि मया कस् तुभ्यं वरो देयः ? इत्य् आह—यान् इति । काम्यन्त इति कामाः गुणाः सम्पदश् च अकामाय कामाद् अन्यस्मै प्रेम-मात्र-विलासाय अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदौ तथार्थ-प्रतीतेः । हे कामिनि ! इति स्वभाव-सम्बोधनेन मद्-विषयक-कामवत्यास् तव ते मदीय-सेवा-योग्याः कामाः कन्याश् च सर्वोत्कृष्टा एवेति भावः । यद् वा, कामिनि त्वद्-विषयक-काम-युक्ते मयि । एवम् अन्योन्य-तत्परत्वेन परम-प्रियतोक्ता । "भामिनि" इति पाठान्तरे क्रोध-क्षमापणार्थं तद्-अनुवादः । हि एव, सन्त्य् एव स्वभावतो वर्तन्त एव । तत्रापि नित्यम् एव अकामाय इत्य्-आदौ हेतुः एकान्त-भक्तायाः निष्काम-भक्ति-युक्तायाः । अतो हे कल्याणि ! नित्य-मङ्गले ॥५०॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ४८) : तद् एवं तादृशानाम् अपि यदि कदाचिद् अन्यत् प्रार्थनं दृश्यते, तदा तत्-प्रीति-सेवोपयोगितयैव न तु स्वार्थत्वेन, तद् इति मन्तव्यम् । यथा—

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । > पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥ [भा।पु। > १०.७०.४१] इति ।

परमेष्ठि-शब्देनात्र श्री-द्वारका-पतिर् उच्यते । यथा पृथुकोपाख्याने—

तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः । [भा।पु। > १०.८१.१०] इति ।

ततः पारमेष्ठ्य-शब्देन द्वारकैश्वर्यम् उच्यते । ततश् च पारमेष्ठ्य-काम इति तत्-समानैश्वर्यं कामयमानः इत्य् अर्थः । तत्-कामना च द्वारकावद् इन्द्रप्रस्थेऽपि श्री-कृष्ण-निवासन-योग्य-सम्पत्ति-सिद्ध्य्-अर्थैव ज्ञेया नान्यार्था । तान् उद्दिश्यैव—-

किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः । > अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भा।पु। १.१२.६] > इत्य्-आद्य्-उक्तेः ।

श्री-भगवत्-प्रसादत इहैव च तथैव तत्-प्राप्तिर् अपि तस्य दृश्यते—

सभायां मय-कॢप्तायां क्वापि धर्म-सुतोऽधिराट् । > वृतोऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥ > आसीनः काञ्चने साक्षाद् आसने मघवान् इव । > पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः ॥ [भा। > १०.७५.३४-३५] इत्य् अत्र ।

अत्र स्व-चक्षुषा इति विशेषणम् अपि तेषाम् अनन्य-कामत्वायोपजीव्यम् । यथा चक्षुष्मता जनेनान्ध-जनागोचर-सम्पत्ति-विशेषश् चक्षुर्-अर्थम् एव काम्यते, कदाचित् तन्-मुद्रणादौ तु स सर्वोऽपि वृथैव । तथा कृष्ण-नाथैर् अपीति भावः । तथोक्तं श्रीमत्-पाण्डवान् उद्दिश्य श्री-परीक्षितं प्रति मुनिभिः, न वा इत्य्-आदौ, येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इति । अत एव तद् भवान् अनुमोदताम् इति नारद-वाक्यानुसारेण परमैकान्तिषु श्री-भगवान् अपि तद् अनुमोदते । अन्यत्र च तथैव स्वयम् आह—यान् यान् कामयसे कामान् इत्य्-आदि ।

न विद्यते कामो यत्र इति विग्रहेण शुद्ध-प्रीतिमय-भक्ति-लक्षणोऽर्थः खल्व् अत्र अकाम इत्य् उच्यते । अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदौ भक्ति-मात्र-काम इव । तथोक्तं भक्ति-लक्षणं वदता श्री-प्रह्लादेन, भृत्य-लक्षण-जिज्ञासुः [भा।पु। ७.१०.३] इत्य्-आदौ । तस्माद् अकामाय प्रीति-सेवा-सम्पत्त्य्-अर्थं यान् यान् अर्थान् कामयसे, हे देवि ! ते तव नित्य-लक्ष्मी-देवी-रूप-प्रेयसीत्वात् नित्यं सन्त्य् एवेति व्याख्येयम् । तत्र एकान्त-भक्ताया इति स्वार्थ-कामना-निषेधः । कामिनी इति मद्-एक-कामिनीत्य् अर्थः । कल्याणि इति तादृश-सेवा-सम्पत्तेर् अविघ्नत्वं दर्शयतीति ज्ञेयम् ॥।५०।


जीव-गोस्वामी (क्रम-सन्दर्भः) : नैव अकामाय कामाद् अन्यस्मै प्रेयसा विलासाय ॥५०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यान् यान् इत्य्-आदि । अय-कामिनि ! अयः शुभावहो विधिः । तं कामयितुं शीलं यस्याः, सम्बोधने । अकामा त्वं मयि मद्-विषये यान् कामान् कामयसे इच्छसि, ते ते कामास् तव सन्ति । प्रार्थनीयं तव नास्तीत्य् अभिप्रायः । यत एकान्त-भक्तायाः, एकान्त-भक्तत्वेऽहं तव वश एव । मयि प्रार्थनान्तरं क्व ? इति तात्पर्यम् ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-सन्तुष्टेनापि मया तुभ्यं को वरो देयः ? इत्य् आह—यान् यान् कामान् मत्-परिचर्या-लक्षणान् कामयसे । किम्-अर्थं मयि ? अकामाय काम-भिन्नाय प्रेम्णे प्रेमार्थम् इत्य् अर्थः । मयि कीदृशे ? कामिनि कामयमाने । "भामिनि" इति पाठे हे कोपवति ! यतः कृत्रिम-वाक्येन मत्-परिचर्या-प्रातिकूल्ये सति महा-कोपम् अकार्षीर् इति भावः । अत्र एकान्त-भक्ताया इत्य् अनेन कामान् इत्य् अस्य कामायेत्य् अस्य च अन्यार्थकता पराहता ॥५०॥


॥ १०.६०.५१ ॥

उपलब्धं पति-प्रेम पातिव्रत्यं च तेऽनघे ।
यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुवादेन वरान् दत्त्वा ताम् अभिनन्दति—उपलब्धम् इति । यद् यस्मान् मयि वर्तमाना धीर् नापकर्षिता नान्य-विषया जाता ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुवादेन पुनर् -उक्त-प्रायेण । यद् वा, अनुवादेन प्रीत इति शेषः । तां रुक्मिणीम् । नान्य-विषया जाता मत्तो\ऽन्यत्र न नीता । पातिव्रत्यं चाभीष्टाप्तौ निमित्तम् ।

[वैष्णव-तोषणीम् अनु] यद्यप्य् अस्माद् वाक्यैः प्रेम-भङ्ग-प्रतिपादक-वचनैर् नर्म-लक्षणैर् मया चाल्यमानायाः क्षोभ्यमाणाया अपि तव धीः प्रकृष्ट-प्रेम-मयी नापकर्षिता यत् किञ्चिद् अपकर्षं न्यूनत्वं न प्राप्ता, किम् उत भङ्ग, किं तु बहु-मूलेव स्थिता । अतः प्रेम्णो लक्षणं साक्षाद् अनुभूतम् इति भावः । तद् उक्तम्—

सर्वथा ध्वंस-रहितं सत्य् अपि ध्वंस-कारणे । > यद् भाव-बन्धनं यूनोः स प्रेमा परिकीर्तितः ॥ [उ।नी। १४.६३] > इति ।

न तिष्ठत्य् अघम् अपराधो दासीनाम् अपि यस्याम् इत्य् अतः प्रेयसो ममायम् अपराधः सुतराम् एव क्षन्तव्य इति भावः ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपलब्धं पति-प्रेमेत्य्-आदि । मया भ्रामक-चक्र-चूडामणिना चाल्यमानाया अपि तव न धीर् अपकर्षिता । तन्-मायया स्थिरीभूतासि, अतो लक्ष्मीर् एवासि, सा ह्य् एव मन्-मायया न लिप्यते, अतः पति-प्रेम उपलब्धम् ॥५१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् ते त्वयैव पत्यौ पत्युर् वा यत् प्रेम तत् उप दाक्षिण्येन स्व-समीपे वा, शीघ्रम् अनायासेन लब्धम् एव । अथवा तथाप्य् अस्त्व् इति श्री-मुखेनानुमोदस्व, तत्राह—उप- इति । स्वयम् एवोपलब्धं किं पिष्ट-पेषणवन् ममानुमोदेनेति भावः । यद् यस्माद् वाक्यैर् नर्म-लक्षणैर् एव, न तु तात्त्विकैः । चाल्यमानायाः क्षोभ्यमाणाया अपि नापकर्षिता अपकर्षं न प्राप्ता, किन्तूत्कर्षम् एव गतेत्य् अर्थः । न तिष्ठत्या भक्तानाम् अपराधो यस्यां तथा तत्-सम्बोधनम्, अतो मद्-अपराधः क्षन्तव्य इति भावः ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपलब्धम् इति । यद् यस्मात् वाक्यैर् नर्म-लक्षणैश् चाल्यमानायाः क्षोभ्यमाणाया अपि धीः प्रेम-लक्षणा स्नेह-भङ्ग-ज्ञान-हेतुभिर् अपि तैर् नापकर्षिता अपकर्षं न्यूनतां न प्रापिता, किं तु बद्ध-मूलतयैव स्थितेत्य् अर्थः । इदं हि प्रेमाख्य-भाव-परिणाम-विशेष-लक्षणं—

सर्वथा ध्वंस-रहितं सत्य् अपि ध्वंस-कारणे । > यद् भाव-बन्धनं यूनोः स प्रेमा परिकीर्तितः ॥ [उ।नी। १४.६३] > इति ।

न तिष्ठति अघं भक्तानाम् अप्य् अपराधो यस्यां तथा तत्-सम्बोधनम्, अतो मद्-अपराधः सुतराम् एव क्षन्तव्य इति भावः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उपलब्धम् इति ॥५१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तर्हि कथम् एवं रुक्षम् अवादीः ? इत्य् आशङ्क्याह—उपलब्धम् इत्य्-आदि । मया परम-भ्रामकेणापि तव धीर् भ्रामयितुं न पारिता। अतो माम् अजैषीर् इति । अतस् ते पति-प्रेमोपलब्धम् ॥५१॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ८५) : प्रेमाणम् आह—उपलब्धम् इति । यद् यस्माद् धीर् मदीय-ज्ञानं मयि नापकर्शिता, ममौदासीन्य-वाक्येनायं मय्य् उदासीन इत्य् आशङ्क्य ततः किञ्चिद् अपि न्यूनत्वं त्वया न प्रापिता, किन्तु यथा सदा वर्तते, तथैवावर्तत इत्य् अर्थः ॥५१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यस्माद् वाक्यैः प्रेम-भङ्ग-प्रतिपादक-वचनैर् मया चाल्यमानाया अपि तव धीर् मयि प्रकृष्ट-प्रेममयी बुद्धिर् नापकर्षिता यत् किञ्चिद् अपकर्षम् अपि न प्राप्ता, किम् उत भङ्गं, यतः प्रेम्नो लक्षणं साक्षाद् अनुभूतम् इति भावः । यद् उक्तं—

सर्वथा ध्वंस-रहितं सत्य् अपि ध्वंस-कारणे । > यद् भाव-बन्धनं यूनोः स प्रेमा परिकीर्तितः ॥ [उ।नी। १४.६३] > इति ।

हे अनघे, न तिष्ठत्य् अघम् अपराधो दासीनाम् अपि यस्याम् इत्य् अतः प्रेयसो ममायम् अपराधः क्षन्तव्य इति भावः ॥५१॥


॥ १०.६०.५२ ॥

ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया ।
कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एकान्त-भक्तिम् अभिनन्द्य ताम् एव दृढीकर्तुं सकामान् भक्तान् निन्दति—ये माम् इति । दाम्पत्ये दम्पत्य्-उपभोग्य-सुखार्थम् ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं तस्याः स्वस्मिन् पति-भाव-मयीम् एकान्त-मुक्तिं स्तुत्वा तत्-पोषणाय प्राकृतीनां पति-भावार्थं स्व-भजनम् अपि निन्दन्न् उभयेषां दाम्पत्यार्थम् अपि निन्दति—ये माम् इति । तपसा स्व-धर्मेण । व्रतादीनां कृच्छ्रादीनां चर्यया पुनः पुनर् आचरणासक्त्या । भजने हेतुः—कामेषु विषय-भोगेष्व् आत्मा चित्तं येषां ते । अपवर्गः पञ्चम-स्कन्धानुसारेण [भा।पु। ५.१९.१९-२०] भक्ति-लक्षणः, तस्य ईशं दातारम् अपि । हि एव, मोहिता एव । एवम् एवोक्तं केतुमाल-वर्षे भगवत्-प्रादुर्भाव-विशेषेणैवेति भावः । यथा पञ्चमे—

स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो

ह्य् आराध्य लोके पतिम् आशासते\ऽन्यम् ।

तासां न ते वै परिपान्त्य् अपत्यं

प्रियं धनायूंषि यतो\ऽस्व-तन्त्राः ॥

स वै पतिः स्याद् अकुतो-भयः स्वयं

समन्ततः पाति भयातुरं जनम् ।

स एक एवेतरथा मिथो भयं

नैवात्मलाभाद् अधि मन्यते परम् ॥

या तस्य ते पाद-सरोरुहार्हणं

निकामयेत् साखिल-काम-लम्पटा ।

तद् एव रासीप्सितम् ईप्सितो\ऽर्चितो

यद्-भग्न-याच्ञा भगवन् प्रतप्यते ॥ [भा।पु। ५.१८.१९-२१] ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पति-प्रेम तु दाम्पत्य एवेति । दाम्पत्यं प्रशंसन्न् आह—ये मां भजन्ति इत्य्-आदि । दाम्पत्ये सति तद् अन्यथा कृत्वा तपसा व्रत-चर्यया अपवर्गे अपवर्ग-निमित्तं येभजन्ति, ते मम मायया मोहिताः । किम्-भूतं माम् ? शं कल्याण-गुणं सुख-स्वरूपं वा । कामात्मान इदं मे भूयाद् इति सङ्कल्प-भाजः तेन मोक्षार्थिनो\ऽपि कामात्मानः ॥५१-५२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तपसा स्वधर्मेण, व्रतादीनां कृच्छ्रादीनां चर्यया पुनः पुनर् आचरणासक्त्या, भजने हेतुः—कामेषु विषय-भोगेषु आत्मा चित्तं येषां ते । अपवर्गः संसार-दुःख-ध्वंसः । किं वा, पञ्चम-स्कन्धोक्तानुसारेण भक्ति-लक्षणः, तस्य ईशं दातारम् अपि । हि एव, मोहिता एव । अन्यत् तैर् व्याख्यातम् । यद् वा, पत्नीतया तु पति-प्रेमादि-सम्पत्त्या मया सह रति-विशेष एव सर्वार्थ-श्रेष्ठतर इत्य् आशयेनाह— इति । दाम्पत्ये मया सह मैथुन्य-सुखार्थम्, यतो मद्-विषयक-प्रेम-विलास-रूपे कामे आत्मा येषां ते । हि अपि । मम दुरतिक्रम-मायस्यापि मायया एव मोहिताः, मा ऊहिता न तर्किता अपि ते माया-सम्बन्ध-रहिता इत्य् अर्थः ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तस्याः स्वस्मिन् पति-भाव-मयीम् एकान्त-भक्तिं स्तुत्वा तत्-पोषाय प्राकृतेषु प्रकृतीनां पति-भावार्थ-स्वभजनम् अपि निन्दन् उभयेषां दाम्पत्यार्थम् अपि निन्दति—ये माम् इति । तपसा स्व-धर्मेण व्रतानां कृच्छ्रादीनां च चर्यया पुनः पुनर् आचरणासक्त्या । भजने हेतुः—कामेषु विषय-भोगेषु आत्मा चित्तं येषां ते अपवर्गः पञ्चम-स्कन्धानुसारेण प्रेम-भक्ति-लक्षणः, तस्य ईशं दातारम् अपि हि एव मोहिता एव । एवम् एवोक्तं केतुमाल-वर्षे भगवत्-प्रादुर्भाव-विशेषेणैवेति भावः । यथा पञ्चमे—

स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो

ह्य् आराध्य लोके पतिम् आशासते\ऽन्यम् ।

तासां न ते वै परिपान्त्य् अपत्यं

प्रियं धनायूंषि यतो\ऽस्व-तन्त्राः ॥

स वै पतिः स्याद् अकुतोभयः स्वयं

समन्ततः पाति भयातुरं जनम् ।

स एक एवेतरथा मिथो भयं

नैवात्मलाभाद् अधि मन्यते परम् ॥

या तस्य ते पाद-सरोरुहार्हणं

निकामयेत् साखिल-काम-लम्पटा ।

तद् एव रासीप्सितम् ईप्सितो\ऽर्चितो

यद्-भग्न-याच्ञा भगवन् प्रतप्यते ॥ [भा।पु। ५.१८.१९-२१] इति ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ये माम् इति ॥५२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रेम दाम्पत्ये एव भवति । तत्र भवत्य् एव प्रमाणम् । अतः प्रेमाकाङ्क्षिणो दाम्पत्येनैव मां सेवितुम् अर्हन्तीति व्यतिरेकेण तद् एव स्तुवन्न् आह—ये माम् इत्य्-आदि । दाम्पत्ये सति ये मां तपसा व्रत-चर्यया भजन्ति, ते मम मायया मोहिताः । कीदृशं मां ? अपवर्गेशम्, अपगतो वर्गो वर्जनं यस्मात्, तथा-भूतम् ईशं ये मां भजन्ति, तान् कदापि नाहं त्यजामीत्य् अर्थः । यद् वा, दाम्पत्ये सति तप-आदिना येऽपवर्गेऽपवर्ग-निमित्तं मां भजन्तीत्य् अर्थः । कीदृशं मां ? शं सुख-स्वरूपम् । ते कीदृशाः ? कामात्मनः । ममेदं भूयाद् इति यः कामः सङ्कल्पः, तत्रात्मा यत्नो यासाम् । त्वं त्व् अकामा पूर्वोक्तेः ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-काम-भक्तान् निन्दति—ये इति । दाम्पत्ये दाम्पत्याय "मत्-पतिर् मत्-सुखदो भवतु, मद्-भार्या वा मत्-सुखदा भवतु" इति प्राकृत-दाम्पत्य्-उपभोग-सुखार्थम् इत्य् अर्थः । अपवर्गेशं पञ्चम-स्कन्ध-गद्यानुसृत्या प्रेम-दातारम् । यद् वा, अपकृष्टा भवन्ति वर्गाश् चत्वारोऽपि यतः, तथा-भूतम् ईशं माम् ॥५२॥


॥ १०.६०.५३ ॥

मां प्राप्य मानिन्य्9 अपवर्ग-सम्पदं

वाञ्छन्ति ये सम्पद एव तत्-पतिम् ।

ते मन्द-भागा निरयेऽपि ये नृणां

मात्रात्मकत्वान् निरयः सुसङ्गमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : माया-मोहितत्वम् एवोपपादयति—मां प्राप्य इति । अपवर्गेण सह सम्पदो यस्मिन्, तं माम्प्राप्य प्रसाद्य ये केवलं सम्पद एव विषयान् वाञ्छन्ति, न तु माम् । तत्-पतिं तासां सम्पदाम् अपि योऽहम् एव पतिः, तम् । तथा ये विषया निरयेऽप्य् अतिनिकृष्ट-योनाव् अपि स्युः, तान् । किं च, तेषां पुंसां मात्रात्मकत्वाद् विषयात्मकत्वान् निरयः सुसङ्गमः शोभन-सङ्गम् एव स्यात्, अतो मन्द-भाग्या एव ते इत्य् अर्थः ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिनिकृष्ट-जनौ प्रोक्तो निरयो नरके दुर्भग-सुभगयोश् च इति निरुक्तिः । विषयिणां नरक एव, न तु सुखम् इत्य् आह—किं च इति । तेषां मद्-विमुखानां मात्रासु शब्दादि-विषयेष्व् आत्मा बुद्धिर् येषां, ते मात्रात्मकाः । तेषां भावस् तत्त्वं, तस्मात् । अतो विषयाविष्ट-मनस्त्वाद् इत्य् अर्थः । सुसङ्गमः सुलभः । इत्य् अर्थ इति—मन्द-भाग्या एव विषयैषिणो नरकेषु गच्छन्ति, मद्-विमुखत्वाद् इति । मत्-पराणां तु मोक्षः कर-कलित एव, यान्ति मद्-याजिनोऽपि माम् [गीता ९.२५] इति स्मृतेः ।

[तोषणी :] टीकायाम् अपवर्गेण सह सम्पदो यस्मिन्न् इत्य् अर्थ-कथनम् एव, न तु विग्रहः, उपपद-विभक्त्या समासाभावात्। अपवर्ग-युक्ताः सम्पदो यस्मिन्न् इति विग्रहः । समासश् च मध्यम-पद-लोपी । अपवर्गो\ऽत्र मोक्षो भक्ति-योगश् च । सम्पद्यन्त इति सम्पदो विषयाः, अतः सम्पद एव विषयान् इति काकाक्षि-न्यायेन सम्पद एव विषयान् एव । न तु माम् इति न सङ्गच्छते समान-विभक्त्य्-अन्तर-व्यावर्तकत्वाद् एव-कारस्य । तेषां विषय-वाञ्छकानाम् । निरयो निकृष्ट-योनिर् अपि सुशोभनो\ऽभिरुचितश् चासौ सङ्गमनीयश् चेत्य् अर्थः । तत्र हेतुर् निरयस्यापि विषयात्मकत्वाद् इति ।

यद् वा, हे भामिनि ! परिहासेऽपि मद्-विच्छेद-शङ्कयात्म-कोटितोऽपि परम-प्रेमास्पदे मय्य् अपि रतिः अपवर्ग-रूपा प्रेम-भक्ति-लक्षणा सम्पद् यस्मात् तम् अपि तथा । तत्-पतिं पूर्वोक्त-दाम्पत्यादि-सम्पदः पतिम् अपि मां प्राप्य वशीकृत्य सम्पदे दाम्पत्यादि-सम्पद्-अर्थम् एव मां वाञ्छन्ति पुनः पुनः सेवितुम् ईहन्ते, न तु मद्-अर्थं ते मन्द-भाग्या अप्रशस्त-भक्ति-संस्कारवन्तः । यतो ये तत्-सम्पद्-वाञ्छकास् ते निरये नरके\ऽपि सन्ति तत्-सादृश्यं कथं मद्-भक्ति-योगिनां युज्यत इति भावः । ननु, सम्पद्-इच्छका महा-विपत्ति-रूपं निरयं कथं गच्छन्ति ? तत्राह—नृणां मात्रात्मकत्वात् पापेनापि तद्-उपार्जकत्वान् निरयः सुसङ्गमः, प्रयत्नं विनापि लभ्य इत्य् अर्थः । अन्यत् समम् ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थं स्पष्टयति—मां प्राप्य इति । हे मानिनि ! तत् तस्मात् मां पतिं पतित्वेन प्राप्य अपवर्ग-सम्पदं ये वाञ्छन्ति, ते सम्पद एव दरिद्रा एव । दरिद्रा हि क्षुद्रम् अर्थं प्रार्थयन्ते, अपि तु ये विषया निरये\ऽपि स्युः, तान् ये वाञ्छन्ति ते\ऽत्यन्तं मन्द-भाग्या एव । वाञ्छन्ति इति पूर्वेणैव सम्बन्धः । यच्-छब्देन तच्-छब्द आक्षिप्यते, एवं तच्-छब्देनापि यच्-छब्दः—यत्-तदोनित्यसापेक्षत्वात् । तेषां मन्द-भाग्यत्वे नरकः परिणाम इत्य् आह—निरयः सुसङ्गमः, तेषां निरयः सुलभः स्यात् । तत्र हेतुः—मात्रात्मकत्वाद् विषयात्मकत्वात् ॥५४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपवर्ग-रूपा सम्पत् यस्मात्, तम् अपि । तत्-पतिम् इति मद्-वाञ्छया सम्पदो\ऽपि स्वयम् एवाधीना भवन्तीति भावः । तथापि ता एव वाञ्छन्ति, न तु माम् इति स्वामि-पादैर् आर्थिको नञ् व्याख्यातम् । सर्व-दोष-हरं सर्व-सद्-गुणाधायकं तासु कथञ्चिन् न मत्-सम्बन्धम् इत्य् अर्थः । हे मानिनि ! इति मत्-प्रीति-वाञ्छयैव मानस्याप्य् आचरणात् त्वादृशी भूरि-भाग्यैवेति भावः । अन्यत् तैर् व्याख्यातम् । पक्षान्तरे—ये तु केवलं प्राकृत-विषय-भोगम् एव वाञ्छन्ति, ते दुर्भगा एवेत्य् आह—माम् इति । अर्थः स एव ।

अथवा प्रसङ्गाद् विषय-कामुकान् इव मोक्षेच्छून् निन्दति—माम् इति । मोक्ष-सम्पदं ये वाञ्छन्ति, अ-कार-प्रश्लेषण—यतो न विद्यते सम्पत् प्रेम-सम्पद् येषु, ते । तस्याः प्रेम-सम्पदः पतिं दातारम् अपि । निरये\ऽपि ये स्युः, तास् तु ये वाञ्छन्ति, तेषां निरयः सुसङ्गमः । अन्यत् समानम् ।

यद् वा, मयि प्रेम-सम्पत्त्यैव मया सह दाम्पत्यं सिध्येद् इत्य् आशयेन तस्याः परम-साध्यत्वम् आह—मोक्ष-सम्पदम् अपि सम्पदे प्रेम-सम्पत्त्य्-अर्थम् एव वाञ्छन्ति । अ-कार-प्रश्लेषेण—अमन्द-भाग्या भूरि-भागाः ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : टीकायाम् अपवर्गेण सह सम्पदो यस्मिन्न् इत्य् अर्थ-कथनम् एव, न तु विग्रहः । उपपद-विभक्त्या समासाभावात् अपवर्ग-युक्ताः सम्पदो यस्मिन्न् इति विग्रहः । समासश् च मध्य-पद-लोपी । अपवर्गो\ऽत्र मोक्षो भक्ति-योगश् च । सम्पद्यन्त इति सम्पदो विषयाः, अतः सम्पद एव विषयान् इति काकाक्षि-न्यायेन सम्पद एव विषयान् एवेति योज्यम् । अन्यथा न तु माम् इति न सङ्गच्छते समान-विभक्त्य्-अन्तर-व्यावर्तकत्वाद् एव-कारस्य तेषां विषय-वाञ्छकानां नृणां निरयो निकृष्ट-योनिर् अपि सुशोभनो\ऽभिरुचितश् चासौ सङ्गमनीयश् चेत्य् अर्थः । तत्र हेतुः निरयस्यापि विषयात्मकत्वाद् इति । यद् वा, हे मानिनि ! परिहासेऽपि मद्-विच्छेद-शङ्कया आत्म-कोटितोऽपि परम-प्रेमास्पदे मय्य् अपीर्ष्यावति अपवर्ग-रूपा प्रेम-भक्ति-लक्षणा सम्पद् यस्मात् तम् अपि तथा । तत्-पतिं पूर्वोक्त-दाम्पत्यादि-सम्पदः पतिम् अपि मां प्राप्य वशीकृत्य सम्पदो दाम्पत्यादि-सम्पद्-अर्थम् एव वाञ्छन्ति पुनः पुनः सेवितुम् ईहन्ते, न तु मद्-अर्थं, ते मन्द-भाग्या अप्रशस्त-भक्ति-संस्कारवन्तः । यतो ये तत्-सम्पद्-वाञ्छकाः, ते निरयेऽपि सन्ति तत्-सादृश्यः कथं मद्-भक्ति-योगिनां युज्यत इति भावः ।

ननु, सम्पदि-च्छाका महा-विपत्ति-रूपं निरयं कथं गच्छन्ति ? तत्राह—नृणां मात्रात्मकत्वात् पापेनापि तद्-उपार्जकत्वात् निरयः सुसङ्गमः प्रयत्ने विनापि लभ्य इत्य् अर्थः । अन्यत् समानम् ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्द-भाग्यत्वम् एव दर्शयति—ये\ऽन्ये सम्पद्-वाञ्छका निरये\ऽपि वर्तन्ते । ये\ऽन्यत्र वर्तन्ते, तेषां नृणां मात्रात्मकत्वाद् अत्यन्त-विषयावेशात्यागेन विषयार्जनान् निरयो\ऽपि सुसङ्गमः अनिच्छयापि प्राप्य इत्य् अर्थः ॥५३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् एवार्थं स्पष्टयति—मां प्राप्य इत्य्-आदि । तत् तस्मात् मां पतिं प्राप्य पतित्वेन लब्ध्वा अपवर्ग-सम्पदं ये वाञ्छन्ति, तेऽसम्पदो दरिद्रा एव । दरिद्राः खलु क्षुद्रम् एव प्रार्थयन्ते, तेऽत्यन्त-मन्दभाग्या एव । वाञ्छन्ति इति पूर्वेणैवानुषङ्गः । यच्-छब्देन तच्-छब्द आक्षिप्यते, एवं तच्-छब्देनापि यच्-छब्दः, यत्-तदोर् नित्य-सम्बन्धात् । तेषां मन्द-भाग्यत्वेन कः परिणामः ? इत्य् आह—निरय इत्य्-आदि । तेषां निरयः सुसङ्गमः । तत्र हेतुः—मात्रात्मकत्वात्, मात्रा विषयाः ॥५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एवार्थं प्रपञ्चयति—माम् इति । अपकृष्टा वर्ग-सम्पन्-मोक्षानन्दोऽपि यतस् तं मां प्राप्य सम्पदः प्राकृतिर् एव वाञ्छन्ति, यतस् तासाम् अपि पतिं दातारं ते सम्पद्-वाञ्छका मन्द-भाग्याः । यतो नारकीष्व् अपि योनिषु स्त्रीसङ्गादि-विषय-सुखान्य् अनायासेनैव लभ्यते इत्य् आह—ये जीवा निरयेऽपि शुकरादि-जाताव् अपि वर्तन्ते, तेषां नृणां जीवानां मात्रातमकत्वात् विषयात्मकत्वात् स निरय एव सुसङ्गमः स्त्री-सङ्गादि-सुख-साधकत्वात् शोभन-सङ्गम-हेतुर् इत्य् अर्थः ॥५३॥


॥ १०.६०.५४ ॥

दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया

कृतानुवृत्तिर् भव-मोचनी खलैः ।

सुदुष्करासौ सुतरां दुराशिषो

ह्य् असुम्भराया निकृतिं जुषः स्त्रियाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् हे गृहेश्वरि ! त्वया मयि भव-मोचनी निष्काम्आनुवृत्तिः कृता । एतद् दिष्ट्या भद्रम् । कथम्-भूता ? खलैः सुदुष्करा, दुराशिषो दुरभिप्रायायाः, अत एव असुम्भरायाः प्राण-तर्पण-पराया निकृतिं जुषो वञ्चन-परायाः स्त्रियाः सुतराम् असाव् अनुवृत्तिर् दुष्करा इति ॥५४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्माद् विषयिणां निरय-दुःखं, तस्माद् धेतोः । असकृत् पुनः पुनः । दुष्टः केवल-विषय-निष्ठो\ऽभिप्रायो यस्याः, तस्याः । अत एव दुरभिप्रायत्वाद् एव । असुम्भरायाः स्व-प्राण-पोषण-परायाःवञ्चनं चात्र निज-पातिव्रत्य-प्रदर्शन-पूर्वकं जार-सेवनं, तत्-परायणायाः । या भव-मोचनी संसार-बन्ध-मोचनी, सा त्वया कृता, तव भयाभावात् त्वयि सा ऋणवत्य् एवाभूद् अन्यैर् एव त्वद्-अनुगन्तृ-लोकैः कृता भव-मोचनी भवेद् इति भावः । ननु, तर्हि खला अपि मुक्ताः स्युः ? तत्राह—खलैर् इति ॥५४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असकृत् सदा इत्य् अर्थः । भवो भक्ति-प्रतिघातक-संसार-तापस् तस्मान् मोचयतीति तथा सा । अयं स्वरूप-मात्र-निर्देशः । यद् वा, भवस्य प्रपञ्चस्यापि सर्वस्य मोचनी श्रवणादिना सर्व-दुःखतो मोक्ष-करी, खलैः पर-दोष-सूचकैः पुरुषः । हि निश्चितम् । दुराशिष इत्य्-आदि-विशेषण-त्रयस्य यथोत्तरं सुदुष्करता-हेतुत्वे श्रैष्ठ्यम् । एवं तस्याः खलत्वादि-दोष-निरसनेन परम-साध्वीत्वं तेन अनुवृत्तेर् दायम् अपि सूचितम् । हे गृहेश्वरि ! इति स्व-दृष्टान्तेन मम सर्वेष्व् अपि गृहेष्व् अनुवृत्ति-प्रवर्तनात्वम् एव सर्व-गृह-स्वामिनी इति । यद् वा, गृहस्येश्वरी त्वम् एव, अहं तु त्वद्-अधीन एवेति भावः ॥५४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असकृत् सदा इत्य् अर्थः । सेयं च त्वत्-कृत-मद्-अनुवृत्तिर् भवस्य प्रपञ्चस्यापि सर्वस्य मोचनी श्रवणादिना सर्वेषाम् अपि सर्व-दुःखतो मोक्ष-करी । तर्ह्य् एतद्-ऊऋध्वं प्रपञ्चं न स्थास्यत्य् एव किं ? तत्राह—खलैः श्री-गुर्व्-आदि-वञ्चकैः सुदुष्करा करोत्य् अर्थस्य सर्व-धात्व्-अर्थ-व्यापकत्वाद् दुर्बोधादि-रूपां च दुराशिषः मन्-निष्ठत्वाभावाद् दुष्टा आशीः कामो यस्याः । तत्र हेतुः—यतः कुतश् चेद् इन्द्रिय-तर्पण-मात्र-परायाः, यतो निकृतिं जुषः पूर्ववत् खलाया इत्य् अर्थः । गृहेश्वरि ! इति त्वयैव दृष्टान्त-रूपया मम सर्वेष्व् अपि गृहेषु अनुवृत्तिः प्रवर्तितेति त्वम् एव सर्व-गृह-स्वामिनीति । यद् वा, गृहस्येश्वरी त्वम् एव, अहं तु त्वद्-अधीन एवेति भावः ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् एतत्-समान-वासनत्वात् ते\ऽपि मन्द-भाग्या इत्य् आह—असकृत्, सदा इत्य् अर्थः । कृता प्रचारिता भवस्य सर्वस्यैव प्रपञ्चस्य श्रवणादिना सर्व-दुःखतो मोक्ष-करी, तर्हि ऊर्ध्वं प्रपञ्चो न स्थास्यत्य् एव । तत्राह—खलैर् गार्वादिभिर् मुखैः दुष्करा । करोत्य्-अर्थस्य सर्व-धात्व्-अर्थ-व्यापकत्वाद् दुर्बोधादि-रूपा च ॥५४-५९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या भव-मोचनी संसार-बन्ध-मोचनी सा त्वया कृता इति तव भयाभावात् त्वयि सा ऋणवत्य् एवाभूद् अन्यैर् एव कृता भव-मोचनी भवेद् इति भावः । ननु तर्हि खला अपि मुक्ताः स्युः ? तत्राह—खलैर् इति । दुराशिषः दुरभिप्रायाया असुम्भरायाः स्व-प्राण-तर्पिण्याः निकृतिं जुषः वञ्चन-पराया अतिखलायाः स्त्रियास् तु सुतराम् एव सुदुष्करा ॥५४॥


॥ १०.६०.५५ ॥

न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु

पश्यामि मानिनि यया स्व-विवाह-काले ।

प्राप्तान् नृपान् न विगणय्य रहो-वहो10 मे

प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सन्ति निष्कामाः प्रेम्णैव मय्य् अनुवर्तमाना बह्व्यः, किं तु त्वया सदृशीं क्वापि न पश्यामि इति तस्या भक्तिं बहु-मानेनाभिनन्दति—न त्वादृशीम् इति त्रिभिः । उपश्रुताः सत्यः कथा यस्य मे ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रुक्मिण्या भक्तिं गुरूकरोति—किं च इति । कापि कास्व् अपि कुत्रापि वा यया त्वया अवगणय्य त्यक्त्वा रहो-हरो रहस्य-प्रापकः दूत इत्य् अर्थः। मे मम पार्श्वे इति शेषः । [वैष्णव-तोषिणी] ॥५५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वादृशीं त्वत्-सदृशीम्, गृहेषु सार्वत्रिकेषु स्वीयेष्व् अपि वा, स्व-विवाहस्य काले अत्यासन्न-समये रहो रहस्यं वहति प्रापयति इति तथा सः । ["रहो-हरः" इति] पाठान्तरे\ऽपि स एवार्थः । इति पितृ-भ्रात्र्-आदि-सर्व-स्वजनेष्व् अनादरः सूचितः । उपश्रुतम् तत्-कथस्य इति स्व-गृहान्त-मद्-वार्ता-श्रवण-मात्रेणैव, न तु माहात्म्यानुभवेनेत्य् अर्थः । हे मानिनि ! मानः पूजा चित्त-समुन्नतिर् वा, तद्वद् इति तद्-योग्या त्वम् एव, न त्व् अन्येति भावः ॥५५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गृहेषु सार्वत्रिकेषु स्वीयेष्व् अपि वा स्व-विवाहस्य काले\ऽत्यासन्न-समये रहो रहस्यं हरति प्रापयतीति सः । “रहो-वहः” इति पाठे\ऽपि स एवार्थ इति । तादृश-भावेष्व् अपि पित-मात्रादि-सर्व-जनेष्व् अप्य् अनादरः सूचितः । रहो\ऽतिगुह्ये सुरते इति विश्वः । उपश्रुत-सत्-कथस्येति—गृहान्तर्-मद्-वार्ता-श्रवण-मात्रेणैव, न तु मन्-माहात्म्यानुभवेनेत्य् अर्थः । किम् उताधुना जात-परमासक्तित्वे सतीति भावः । मानिनि ! इति—मानः पूजा चित्त-समुन्नतिर् वा, हे तद्वति ! तद्-योग्या त्वम् एव, न त्व् अन्येति भावः ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दाम्पत्यं प्रणम्य तद् एव द्रढयति—न त्वादृशीम् इत्य्-आदि बहुभिः । उक्त-व्याख्यानं विनैव तेषां वाक्यानाम् असङ्गतेर् भगवतो वचनासौष्ठव-दोष-प्रसङ्गः स्यात् ॥५५-५७॥


जीव-गोस्वामी (उज्ज्वल-नीलमणौ ३.६): रहो-वहः रहः सन्देश-प्रकाशकः । मे इत्य् अत्र सप्तम्य्-अर्थे षष्ठी ॥६॥


विष्णुदासः (उज्ज्वल-नीलमणौ ३.६): न त्वादृशीम् इति कृष्णोक्तिः । रहो-वहः रहः-सन्देश-हरः । उपश्रुत-सत्-कथस्येति मत्-कथा-श्रवण-मात्राद् एव मयि यत् तादृशी दृढा रतिर् जाता । अत एव त्वादृशीं गृहेषु अष्टोत्तर-शताधिक-षोडश-सहस्र-सङ्ख्येषु प्रणयिनीं प्रेमवतीम् ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परं तु प्रेमवतीनां मद्-भार्याणाम् अपि मध्ये गृहिणो मम त्वम् एव गृहिणी-श्रेष्ठा इत्य् आह—नेति । मानिनीति मान आदरः, हे तद्वति ! रहो-वहः रहस्य-वस्तु प्रापकः रहोऽतिगुह्ये सुरते इति विश्वः । उपश्रुताः सत्यः कथा यस्य तस्य । मम स्थाने ॥५५॥


विश्वनाथ-चक्रवर्ती (उज्ज्वल-नीलमणौ ३.६) : रहो-वहः रहः-सन्देश-प्रापकः । मे इति सप्तम्य्-अर्थे षष्ठी ॥६॥


॥ १०.६०.५६ ॥

भ्रातुर् विरूप-करणं युधि निर्जितस्य

प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् ।

दुःखं समुत्थम् असहोऽस्मद्-वियोग-भीत्या

नैवाब्रवीः किम् अपि तेन वयं जितास् ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रोद्वाह-पर्वण्य् अनिरुद्ध-विवाहे । अक्ष-गोष्ठ्यां द्यूत-सभायाम् । तस्य भ्रातुर् वधम् । तस्मिन् काले कालान्तरे वा तद्-अनुस्मरणतः पुनः पुनः समुत्थं दुःखम् अस्माभिर् अयोगो वियोगः, तद्-भीत्या असहः सोढवत्य् असि । अनेनैवानिरुद्ध-विवाहानन्तर्यम् अस्य ज्ञातव्यम् ॥५६॥


+++

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेनातिदुःसहसहनादिना जिता वशीकृताः । अनेन तद्वधम् इति वचनेन । अस्य श्वेल्या चरितस्य । किं च—भ्रातुर् इति बन्धुवात्सल्येन तत्तदसाता, यधि निजितस्येति त्वदभ्रातृत्वाद्युद्धे\ऽपि तस्य निर्जयायोग्यता, तथा प्रोताहेत्यादिना तदानीं तद्वधायोग्यता सूचिता । यतो\ऽसहिष्ठा अतो नाब्रवीश् च । भीतिः शङ्का, ईश्वरो\ऽयं कदाचिन्मय्यनवधानं कुर्यादित्याशङ्कयेत्य् अर्थः । अस्मद् इति बहुत्वं निजबन्धुजनापेक्षया । आत्मना सह वियोगेन तैर् अपि तत्सिद्धेः । किं वा—पराजिताः अस्माकं तादृश-शक्त्य्-अभावात् । वयम् इति न केवलम् अहं मदीयाश् च ॥५६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रातु र् इति बन्धुवात्सल्येन तत्-तदसह्यता, यूधि निर्जितस्येति स्वभ्रातृत्वायुद्धे\ऽपि तस्य निर्जयायोग्यता, प्रोद्वाहपर्वणीत्य् आदिना तदानी तद्वधायोग्यता च सूचिता, भीतिः शङ्का, कदाचिद स्माभिः सह वियोगः स्याद् इत्याशङ्क येत्य् अर्थः । यद् वा, अयोगो दुःखाकुलत्वेनासंयोगस्तस्माद्धीत्या, अस्माभिर् इति बहुत्वं श्री-बलदेवादीनाम् अपेक्षया, आत्मना सह वियोगेन तैर् अपि तत्सिद्धः । यहा, तस्यास्तद्-भीत्यात्मनो बहुमानात्, किं वक्तव्यम्, हृदि तत्-तद् असहिष्ठा इति किम् अपि नाब्रवीश् च निज-मनोदुःखादिकम् । किं वा, तद्-विरूपकरणादिकम् अपि किञ्चिन्नाभिव्यञ्जितवतीत्य् अर्थः । ते त्वया जिता वशीकृता, किं-वा पराजिताः, अस्माकं तादृश-शक्त्य् अभावात् । वयम् इति न केवलम् अहम्, मदीयाः सर्वे\ऽपीत्य् अर्थः ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च भ्रातर् इति बन्धवात्सल्येन तत्-तद् असह्यता यधि निजितस्येति त्वद्-भ्रातृ-त्वाद्य् उद्धे\ऽपि तस्य निर्जयायोग्यता तथा प्रोद्वाह-पर्वणी त्यादिना तदानीं तद्-वधायोग्यता सूचिता यतो\ऽसहो\ऽसहिष्टा अतो नाब्रवीश् च भीतिः शङ्का ईश्वरोयं कदाचित् मय्यनवधानं कुर्याद् इत्य् आशङ्कयेत्य् अर्थः । अस्मद् इति बहुत्वं निजबन्धुजनापेक्षया आत्मना सह वियोगेन तैर् अपि तत्-सिद्धेः ते त्वया जिताः वशीकृताः किं वा पराजिता अस्माकं तादृश-शक्त्य् अभावात् वयम् इति न केवलम् अहं मदीयाश् च ॥५६॥


**जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) :**न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रोद्वाह-पर्वण्य् अनिरुद्ध-विवाहे अक्ष-गोष्ठ्यां द्यूत-सभायां तस्य भ्रातुर् वधं समुत्थं तत्र तत्रास्मद्-अयोग-भीत्या अस्मासु न युज्यते नोचिती भवतीत्य् अस्मद्-अयोगस् तद्-भीत्या किम् अपि दुःखं नैवाब्रवीः कीदृशं ? असहो दुर्बलं केवलं लोकापक्षैक-हेतुकत्वाद् इति भावः । पुनः कीदृशं ? समुत्थं समुद् यथा स्यात् तथा तिष्ठतीति तद् दुःखं मत्-प्रतिकूल-रुक्मि-हिंसनादतः सुख-सहितम् एवेत्य् अर्थः । अनेनैवानिरुद्ध-विवाहानन्तर्यम् अस्य ज्ञातव्यम् ॥५६॥


॥ १०.६०.५७ ॥

दूतस् त्वयात्म-लभने सुविविक्त-मन्त्रः

प्रस्थापितो मयि चिरायति शून्यम् एतत् ।

मत्वा जिहास इदम् अङ्गम् अनन्य-योग्यं

तिष्ठेति तत् त्वयि वयं प्रतिनन्दयामः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च दूत इति । आत्मलभने मत्प्राप्त्यर्थम् । पयि चिरायति श्वोभाविनि विवाहे आगन्तव्यम् इति कृते समये कथञ्चिदप्राप्तवति सत्येतद्विश्वं शून्यं मत्वेदमनन्ययोग्यमङ्गं जिहासे त्यक्तुमिच्छामि त्यक्ष्यामीत्य् एवं दूतः प्रस्थापितः । तथा ह्य् उक्तं त्वया, यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् [भा।पु। १०। ५२.४३] इति । यद् वा, अजिहास इति च्छेदः । त्यक्तुम् ऐच्छ इत्य् अर्थः । तत् तव कर्म त्वय्य् एव तिष्ठेत्, न तत् प्रतिकर्तुं शक्यम् इत्य् अर्थः । किं तु केवलं त्वां प्रतिनन्दयामो हर्षयाम इति ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—अपि चेति । सुविविक्त-मन्त्रः सुष्ठु प्रकाशित-रहोवचनः । जिहास इति तङार्षः । आर्षत्वाश्रयणस्यागतिक-गतिकत्वादाह—यद्वेति । इत्य् अर्थ इति—सन्नंताज्जहातेर् लङो मध्यम-पुरुषैकवचनम् इति ध्येयम् । तत् मां विनान्यत्याग-रूपम् । इत्य् अर्थ इति—अपरिचिते\ऽतीवानरागो\ऽप्रतिकार्यो भवतीति भावः । पूनः पूर्वानुरागवैशिष्ट्यं स्मृत्वाह—दूत इति । अस्यायम् एवार्थः—प्रस्थापितो मत्पार्श्व प्रेषितः । कीदृशः सुष्ट विविक्तो निर्णिक्तो मन्त्रो गुप्ता युक्तिर्यत्र सः । ततश् च मयि चिरायति तदातिथ्यत्व-सन्देशश्रवणावेशवमदैयादिभिः किञ्चिद्विलम्बे सति एतत् पितृभ्रात्रादि-बन्धुयुक्तम् अपि विश्वं शून्यं मत्वा कुत्राप्यालं बनं न लब्ध्वेदं सर्वोत्कृष्टम् अप्यंगं शरीरमजिहासस्त्यक्तमैच्छः दुर्भगाया न मेधाता इत्य्-आदिचिन्तया भवत्या\ऽशाबन्धच्छेदावगमात् यर्ह्याम्बुजाक्ष न लभेय भवत्प्रसादम् इत्य्-आदिपूर्वोक्तस्वारस्याच् च । अजिहास इत्य् अत्र हेतुः अनन्ययोग्यमन्यस्मै समर्पणायोग्यम् इत्य् अर्थः । प्रतिनन्दयामः हर्षयन्तीं त्वां हर्षयामः ॥५७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूनः पूर्वानुरागवैशिष्ट्यं स्मृत्वा\ऽह—दूत इति । अस्यायम् एवार्थः आत्मलभने मत्प्राप्त्य् अर्थं त्वया दूतः प्रस्थापितः स च सूविविक्तमन्त्रः सुष्ठु निर्निक्ता गुप्त-युक्तियन्त्र सः ततश् च मयि चिरायति तदातिथ्यत्वत्सन्देशश्रवणावेशवमन्दादिभिः किञ्चिद्-विलम्बमाने सति एतत् पितृमात्रादि-बन्धुयुक्तम् अपि विश्वं शून्यं मत्वा कुत्राप्य् अवलम्बनं न लब्ध्वेदं सर्वोत्कृष्टम् अप्यङ्गम् अजिहासः त्यक्तुम् ऐच्छः । दुर्भगाया न मे धाता इत्य्-आदि चिन्तया भवत्या आशाबन्धच्छेदावगमात् याम्बुजाक्ष न लभेय भवत्-प्रसादम् इत्य्-आदि पूर्वोक्तस्वारस्याच् च अजिहास इत्य् अत्र हेतुरननन्ययोग्यम् । अन्यस्मै समर्पणायोग्यम् इत्य् अर्थः । प्रतिनन्दयामः केवलमनुमोदामहे ॥५७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुविविक्तो महा-रहस्यः परमविचित्रो वा मन्त्रो गुप्त-वाक्यं यस्मिन् सः, इत्य् अस्य ज्ञाततया परमनिभूतत्वेन प्रेमविशेषः । सूचितः । एतत् पितृमात्रादि-बन्धुवर्ग-युक्तम् अपि विश्वं जिहास । इत्य् अत्र हेतुः—अनन्य-योग्यम् इति । अन्यस्मै समर्पणायोग्यत्वाद् इत्य् अर्थः । प्रतिनन्दयामस्त्वया क्रियमाणस्य महानन्दस्य प्रतिच्छाया-रूपेण कश्चिन्नन्दयामः, नन्दयितुं यताम इति ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनो मम लभने लभनाय प्रापणार्थं ततश् च मयि चिरायति विलम्बमाने सति एतद्विश्वं शून्यं मत्वा इदमङ्गम् अनन्ययोग्यम् अजिहासः त्वं त्यक्तुमैच्छः । तत्तव कर्म त्वय्येव तिष्ठेत् । न तत् प्रतिकर्तुं शक्यम् इत्य् अर्थः । किं तु वयं प्रतिनन्दयामः हर्षयन्तीं त्वां प्रति हर्षयामः ॥५७॥


॥ १०.६०.५८ ॥

श्री-शुक उवाच—

एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः11

स्व-रतो रमया रेमे नर-लोकं विडम्बयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सौरत-संलापैः सुरत-नर्म-गोष्ठीभिः ॥५८-५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रुक्मिण्या गुणान् वक्तुम् अशक्यान् मत्वाह शुकः—एवम् इति । स्वरत आत्मारामोऽपि । रमया साक्षाल्-लक्षम्या । विडम्बयन्न् अनुकुर्वन् ।

[तोषणी]

रुक्मिणी-माधवौ वन्दे ययोः कलह-सन्निभा ।

वाग्-वैदग्धी मिथः-स्तोत्र-तात्पर्याश्चर्यता मता ।

एवम् इति अन्येऽपि तादृशा बहवो विलासाः सूचिताः । स्वरतो रमया स्वरूप-शक्तित्वेन स्व-रमण-योग्यया रुक्मिण्या सह रेमे । तस्मिन् रमणे\ऽपि विशेषः—नर- इति । क्रीडा-लोभेनैश्वर्यांशं गुणीकृत्य तादृश-लीलया नर-लोकम् अनुकुर्वन्न् अपि परम-माधुर्येण तम् अपि हीनोपमानं कुर्वन्न् इत्य् अर्थः । यतो भगवान् अपि देवकी-सुतस् तथाविर्भावनैव प्रारब्ध-लील इत्य् अर्थः ॥५८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवम् इत्य्-आदि । सुरतं प्रेम, तद्-अर्हः संलापाः सौरत-संलापाः, तैर् नर-लोकं विडम्बयन् नरादि-लोकं तिरस्कुर्वन्न् अलौकिको भूत्वेत्य् अर्थः । अथवा नर-लोकम् अनुकुर्वन् सुरतो\ऽपि मनुष्य-लीलाम् अनुकुर्वन् ॥५९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

तौ विदग्ध-वरौ वन्दे ययोः प्रेमोक्तयो मिथः ।

स्व-संवेद्याः परैर् बोध्या न स्युर् भक्तिं विना ययोः ॥

इत्य् अन्ये\ऽपि तादृशा बहवः सूचिताः । स्वरतो\ऽपि रमया श्री-रुक्मिण्या सह रेमे, यतो भगवान् साक्षाद् ईश्वरो देवक्याः सुतः क्रीडार्थं तस्यां जात इत्य् अर्थः । अत एव नर-लोकं विडम्बयन् मनुष्य-क्रीडाम् अनुकुवन् । किं वा, उभयोर् ऐक्यात् स्थिरीकुर्वन्न् इत्य् अर्थः ।

यद् वा, निज-सुख-विलासोद्रेकेण तादृश-सुखादि-रहितं नर-लोकं तुच्छीकुर्वन् । यद् वा, नर-लोकं विडम्बयन्न् इति लोक-दृष्ट्या रतेर् लौकिकत्वम्, भगवान् इति स्वैश्वर्यम् इत्य् एवम् एकत्रैव लौकिकत्वैश्वर्ययोर् योगेन पूर्ववद् अतिमाधुरी सूचिता । तत्रैव हेतुः—देवकी-सुत इति ॥५८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

रुक्मिणी-माधवौ वन्दे ययोः कलह-सन्निभा ।

वाग्-वैदग्धी मिथः-स्तोत्र-तात्पर्याश् च यन्ता मता ॥

एवम् इत्य् अन्ये\ऽपि तादृशा बहवो विलासाः सूचिताः । स्वरतो रमया स्वरूप-शक्तित्वेन स्व-रमण-योग्यया रुक्मिण्या सह रेमे । तस्मिन् रमणे\ऽपि विशेषः—नर- इति । क्रीडा-लोभेनैश्वर्यांशं गुणीकृत्य तादृश-लीलया नर-लोकम् अनुकुर्वन्न् अपि परम-माधुर्येण तम् अपि हीनोपमानं कुर्वन्न् इत्य् अर्थः । यतो भगवान् अपि देवकी-सुतस् तथाविर्भावनैव प्रारब्ध-लील इत्य् अर्थः ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् इत्य्-आदि । सुरतं प्रेम, तद्-अर्हः संलापः, तेन नर-लोकम् अनुकुर्वन् रमया रुक्मिणी-रूपया लक्ष्म्या रेमे । कीदृशः ? स्वरतः स्वे निजैश्वर्ये रतः ॥५८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौरत-संलापैः सुरत-संलापैः सुरत-सम्बन्धि-नर्म-संवादैः । स्व-रत आत्मारामः । अत एव रमया आत्म-भूतया तया रेमेविडम्बयन् स्वयं नर-लीलोऽपि स्व-सुख-दर्शनया तिरस्कुर्वन् तं हीनोपमानं कुर्वन्न् इत्य् अर्थः ॥५८-५९॥


॥ १०.६०.५९ ॥

अथान्यासाम्12 अपि विभुर् गृहेषु गृहवान् इव ।

आस्थितो गृह-मेधीयान् धर्मान् लोक-गुरुर् हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदम् अन्यत्रातिदिशति—तथेति । यथा रुक्मिण्या रेमे, तथा इत्य् अर्थः । अथातो हेतोर् विभुर् अपि स्वयम् एवैकः सर्वाणि गृहाणि व्याप्नुवन् इत्य् अर्थः । एतच् चान्ते व्यक्तं भावि। गृहवान् इवेति—यथान्यो गृही तथेत्य् अर्थः । गृह-मेधीयान् गृहस्थ-सम्बन्धिनस् तादृश-प्रिया-प्रेम-मयान् वैदिकांश् च धर्मान् आस्थित आचरद् इत्य् अर्थः । यतो लोक-गुरुः, तस्माद् एव ते धर्माः प्रवर्तत इत्य् अर्थः । यतो हरिस् तेन शीलेन सर्वेषां मनोहर इत्य् अर्थः । यद् वा, आश्रितः सन् रेमे इति पूर्व-क्रिययैवान्वयः । अतो गृह-धर्मानुष्ठाने\ऽपि क्रीडार्थम् एवेति ॥५९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ माङ्गल्ये । यद् वा, सर्व-प्रेष्ठतमया श्री-रुक्मिण्या सह रतेर् अनन्तरम् । विभुर् इति स्वयम् एवैकः सर्वाणि गृहाणि व्याप्नुवन्न् इत्य् अर्थः । एतच् चाने श्री-नारद-दृष्टैश्वर्याध्याये व्यक्तं भावि । गृहवान् इवेति—यथान्यो गृही तथैवेत्य् अर्थः । गृह-मेधीयान् गृहस्थ-सम्बन्धिनो धर्मान् आस्थित आचरद् इत्य् अर्थः । किम्-अर्थम् ? लोक-गुरुर् लोक-शिक्षार्थम् इत्य् अर्थः । यतो हरिः सर्व-लोक-दुःख-हर्तेति । यद् वा, अन्य-गृहस्थाशक्यानन्ताद्भुत-धर्माचरणेन सर्वेषां मनो हरन्न् इति भावः । इति तेषाम् असाधारण्यम् उक्तम् । यद् वा, आस्थितः सन् रेम इति पूर्व-क्रिययैवान्वयः । इति गृह-धर्मानुष्ठानम् अपि क्रीडार्थम् एवेत्य् अर्थः । एवं पितृत्वेन गृहवान् इवेत्य् अनेन च पूर्ववद् अतिमाधुरी ज्ञेया ॥

श्रीधर-स्वामि-चरणैर् निपीतम् अमृतं मुदा ।

तेषां प्रसादम् उच्छिष्टं किञ्चित् सञ्चिनुमो वयम् ॥५९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अतो हेतोर् विभुर् अपि स्वयम् एवैकः सर्वाणि गृहाणि व्याप्नुवन्न् इत्य् अर्थः । एतच् चाने व्यक्तीभावि । गृहवान् इव इति यथान्यो गृही तथैवेत्य् अर्थः । गृह-मेधीयान् गृहस्थ-सम्बन्धिनस् तादृश-प्रिया-प्रेम-मयान् वैदिकांश् च धर्मान् आस्थितः आचरद् इत्य् अर्थः । यतो लोक-गुरुस् तस्माद् एव ते धर्माः प्रवर्तन्त इत्य् अर्थः । यद् वा, यतो हरिः, तेन शीलेन सर्वेषां मनोहर इत्य् अर्थः । आश्रितः सन् रेमे इति पूर्व-क्रियैवान्वयः इति पूर्व-धर्मानुष्ठानम् अपि क्रीडार्थम् एवेति ॥५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् इत्य्-आदि । सुरतं प्रेम, तद्-अर्हः संलापः, तेन नर-लोकम् अनुकुर्वन् रमया रुक्मिणी-रूपया लक्ष्म्या रेमे । कीदृशः ? स्व-रतः स्वे निजैश्वर्ये रतः ॥५९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ???

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमेऽस्मिन् षष्ठितमः सङ्गतः सङ्गतः सताम् ॥


इति श्रीमद्-भागवते महापुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे कृष्ण-रुक्मिणी-

संवादो नाम षष्टितमोऽध्यायः ।

॥६०॥

(१०.६१)


  1. स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः ।

    इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ ↩︎

  2. अम्नोऽपि (सिच्) ↩︎

  3. स-भयं सम्भ्रमं वत्स मद्-गौरव-कृतं त्यज । नैष प्रियो मे भक्तेषु स्वाधीन-प्रणयी भव ॥

    अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् । निःशङ्क-प्रणयाद् भक्तो यन् मां पश्यसि भाषते ॥

    सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेह-रज्जुभिः । अजितोऽपि जितोऽहम् तैर् अवश्योऽपि वशीकृतः ॥ ↩︎

  4. श्रुतिभिर् ↩︎

  5. अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ

    द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात्

    अजस्र-चित्य् आत्मनि केवले परे

    विचार्यमाणे तरणाव् इवाहनी ↩︎

  6. गुण-व्यक्तिर् इयं देवी व्यञ्जको गुण-भुग् भवान्

    त्वं हि सर्व-शरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः

    नाम-रूपे भगवती प्रत्ययस् त्वम् अपाश्रयः ↩︎

  7. एव इति श्रीधरः ↩︎

  8. भामिनि ↩︎

  9. भामिन्य् ↩︎

  10. रहो हरो, रहो अहो ↩︎

  11. देवकी-सुतः इति तोषणी-सम्मत-पाठः । ↩︎

  12. तथान्यासाम् इति केचित् पठन्ति। ↩︎