मुर-वधः, भौमासुर-वधः, भूमि-कृता भगवत्-स्तुतिः, भौमाहृत-षोडश-सहस्र-राज-कन्यानां परिणयनं पारिजात-हरणं च ।
॥ १०.५९.१ ॥
श्री-राजोवाच—
यथा हतो भगवता भौमो येन च ताः स्त्रियः ।
निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ऊनषष्टितमे भौमं हत्वा तेनाहृता हरिः ।
कन्याः सहस्रशः प्राप पारिजातं दिवोऽहरत् ॥
परिणीय ततस् ताभिस् तन्-मनोरथ-पूरणैः ।
आत्मारामो\ऽप्य् असौ रेमे तद्-गृहेषु गृहस्थवत् ॥
येन ताः स्त्रियो निरुद्धाः स भौमः । च-काराद् येन कारणेन हतस् तद् आचक्ष्वेति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऊनषष्टितमे एकोनषष्टितमे । तेन भौमेन । पारिजातं देव-वृक्षम् । ततः परिणयनोत्तरम् । असौ कृष्णः । इह वनिता-गृहासक्त्य-भावो ध्वनितः ॥*॥
यदाहम् उद्धृता नाथ त्वया शूकर-मूर्तिना ।
त्वत्-स्पर्श-सम्भवः पुत्रस् तदायं मय्य् अजायत ।
सोऽयं त्वयैव दत्तोऽयं त्वयैव विनिपातितः ॥ [वि।पु। ५.२९.२३-२४] इति विष्णु-पुराणोक्तेः ॥
स विष्णोर् अपि पुत्र एव । दैत्यत्वं तु तस्य निषिद्धाचार-मूर्ति-सूकरोद्धृतत्वाद् धरेर् इच्छयैव । कुकर्म-कर्तृत्वात् तस्य हननं युक्तम् एव । सुकर्म-कर्तुः प्रह्लादस्य अरि-पुत्रत्वेऽपि रक्षणं च दण्ड-दातुर् उचितम् एवेति द्योतनायास्याध्यायस्यारम्भे इति ध्येयम् । येन भौमेन । शार्ङ्गधन्वन इति शार्ङ्ग-सम्बन्धित्वाद् एतच्-छ्रवणेऽतीव मे प्रीतिर् इति सूचितम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता दुष्ट-संहाराद्य्-अर्थम् अवतीर्णेन परमेश्वरेण निरुद्धा निज-गृहान्तरावृत्य रक्षिताः, विक्रमम् अद्भुत-चरितं पराक्रमं वा, तच् च योग्यम् इत्य् अभिप्रायेणाह—शार्ङ्ग- इति । एतद् इति नपुंसकत्वम् आर्षम् । यद् वा, सामान्य-विशेष-न्यायेन योज्यम् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : येन भौमेन कर्त्रा च-काराद् येन कारणेन ताः षोडश-सहस्र-सङ्ख्याः स्त्रियो निरुद्धाः स च भौमो यथा येन प्रकारेण हतः । एतत् सर्वं शार्ङ्गधन्वनो विशेषेण कार्य-कारण-रूपत्वाद् विक्रम-रूपम् आचक्ष्व शार्ङ्गधन्वन इति । तत्र शार्ङ्ग-सम्बन्धि-श्रवणे सम्प्रति मम स्पृहा इत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
शक्र-प्रोक्तो हरिर् भौमम् अहन् प्राप तद्-आहृताः ।
स्त्रीः-सहस्राण्य् ऊनषष्ठितमे द्यु-तरुम् आहरत् ॥
येन ताः स्त्रियो निरुद्धाः, स भौमो यथा भगवता हतः एतद् आचक्ष्व इत्य् अन्वयः । एतद् इति विशिनष्टि—विक्रमम् इति ॥१॥
॥ १०.५९.२ ॥
श्री-शुक उवाच—
इन्द्रेण हृत-छत्रेण हृत-कुण्डल-बन्धुना ।
हृतामराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम् ।
स-भार्यो गरुडारूढः प्राग्ज्योतिष-पुरं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रेण भौम-विचेष्टितं ज्ञापितः सन् प्राग्ज्योतिष-पुरं भौम-नगरं ययाव् इत्य् अन्वयः । किं-भूतेन ? हृतं छत्रं यस्य तेन । लोकपाल-प्रधानत्वाद् इन्द्रस्य वरुण-च्छत्र-हरणेऽपि तस्यैव मान-भङ्ग इति तथोक्तम् । हृते कुण्डले यस्याः सा अदितिर् बन्धुर् माता यस्य तेन । हृतम् अमराद्रौ स्थानं मणिपर्वत-लक्षणं यस्य तेन । सत्यभामाया गृहे भगवन्तम् इन्द्र आगत्य विज्ञापितवांस् तदा तस्याः कौतुकाय तया भार्यया सह ययाव् इति । यद् वा, "त्वद्-अनुज्ञयैव त्वत्-पुत्रं हनिष्यामि" इतीतिहासोक्तं भूम्यै वरं दत्तं सत्यं कर्तुं सत्यभामाया भूम्यंशत्वात् तया सह ययौ । यद् वा, नारदानीत-पारिजातैक-कुसुमे रुक्मिण्यै दत्ते सति कुपितां सत्यभामां सान्त्वयता "तुभ्यं पारिजातम् एव दास्यामि" इति श्री-कृष्णेन प्रतिश्रुतम् इति हरि-वंशे प्रसिद्धं तद्-अर्थं तां नीतवान् इति ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्वयः सार्ध-द्वयेन सम्बन्धः । अमराद्रौ मेरौ । तस्यैवेन्द्रस्यैव । तस्याः सत्यभामायाः । कौतुकायाद्भुतं दर्शयितुम् । तत् तु सत्यभामया स्त्रिया सह गमनं युद्धे सर्वथानुचितम् इत्य् अतः कारणान्तरम् आह—यद् वा इति । इतिहासोक्तम् इतिहासग्रन्थोक्तम् । तथा हि—पृथिव्या निजभरावतारार्थम् अर्थितो भगवान् पृथ्वीं, तव भारावतारणे तव पुत्रम् अपि हनिष्यामीत्य् आह । तच्छ्रुत्वा सा प्राह—मदाज्ञां विना मा मारयेति । त्वदाज्ञयैव तं हनिष्यामीति हरिः प्रत्य् उक्तवान् इति । यद्यप्य् एवम् अस्ति तथापि स्त्रीणां युद्धभूमौ नयनम् अन्याय्यम् एवातः कारणान्तरम् आह—यद् वा इति । तद्-अर्थं पारित्जातानयनार्थं, साविश्वस्ता सहैव यायादित्येतदेअर्थम् इत्य् अर्थः । इन्द्रेण स्वयं द्वारकाम् आगतेन इति ज्ञेयम् । तद् उक्तं वैष्णवे—
द्वारवत्यां ततः शौरिं शक्रः सुरगअनेश्वरः ।
आजगामाथ मैत्रेय मत्तैर् आवतपृष्ठगः ॥ [वि।पु। ५.३८.१] इति ।
भौमचेष्टितम् अपि तत्रैव—
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्व-भूतानामपघातमरिन्दम ॥
देवसिद्धसुरादीनां नृपाणां च जनार्दन ।
हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे ॥
छत्रं यत् सलिलस्रावि तज् जहार प्रचेतसः ।
मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम् ॥
अमृतस्राविणी दिव्ये मातुर् मेऽमृतकुण्डले ।
जहार सोऽसुरोऽदित्या वाञ्छत्य् ऐरावतं गजम् ॥ [वि।पु। ५.३८.८-११] इति ।
इति ज्ञापितो भक्त्याष्टाङ्गप्रणामपूर्वकम् इति ज्ञेयम् । ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थसाधनं [भा।पु। १०.५९.४२] इत्य् अग्रे वक्ष्यमाणत्वात् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इन्द्रेण स्वयं द्वारकामागतेनेति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ [वि।पु। ५.३८.१] इति ।
हृतममराद्रेर्देवाक्रीडस्य मन्दरस्य स्थानं शृङ्ग-लक्षणं मणिपर्वताख्यं येन तेन भौमचेष्टितं वारुणच्छत्रहरणादि । तथा च तत्रैव—
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्व-भूतानामपघातमरिन्दम ॥
देवसिद्धसुरादीनां नृपाणां च जनार्दन ।
हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे ॥
छत्रं यत् सलिलस्रावि तज् जहार प्रचेतसः ।
मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम् ॥
अमृतस्राविणी दिव्ये मातुर् मेऽमृतकुण्डले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं द्विपम् ॥ [वि।पु। ५.३८.८-११]
इति ज्ञापितो भक्त्याष्टाङ्गप्रणामपूर्वकम् इति ज्ञेयम् । ययाच आनम्य किरीटकोटिभिः, पादौ स्पृशन्न् अच्युतम् अर्थसाधनं [भा।पु। १०.५९.४२] इत्यग्रे वक्ष्यमाणत्वात् ।
गरुडं स्मृति-मात्रेणागतं सन्तम् । किंवा, प्रायस्तत्रैव वर्तमानमारूढः । सभार्य इति तैर् व्याख्यातम् । यद् वा, सभार्यो ज्ञापितः श्री-कृष्णस्य प्रियतमायाः सत्यभामायाः साहाय्येनैव मदर्थोऽयं किल सेत्स्यतीत्यादौ तां विज्ञाप्य तया सह गत्वा पश्चाद् अयं ज्ञापित इत्य् अर्थः । अत इन्द्रार्थसाधिकायास् तस्याः साक्षाद् एव नरकवधादीन्द्रार्थसिद्ध्या सन्तोषार्थम् ।
किंवाग्रे पारित्जातानयने तस्य युद्धादिदुर्बुद्धिं कौतुकेन तान् दर्शयितुं तयैव सह ययाव् इति ज्ञेयम् । अथेन्द्रोऽपि स्वपुरं ययाव् इति ज्ञेयम्—
आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् ।
ततो जगाम कृष्णश् च पश्यतां द्वारकौकसाम् ॥ [भा।पु। ५.३८.१५] इति ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्रेणेति सार्धद्वयकम् । इन्द्रेण स्वयं द्वारकामागतेनेति ज्ञेयम् । तथा च, श्री-विष्णु-पुराणे—
द्वारवत्यां ततः शौरिं शक्रस् त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ [वि।पु। ५.३८.१] इति ।
हृतम् अमराद्रेर् देवाक्रीडस्य मन्दरस्य स्थानं शृङ्ग-लक्षणं मणिपर्वताख्यं येन तेन भौमचेष्टितं वारुणच्छत्रहरणादि । तत्र च तत्रैव—
भौमोऽयं नरको नाम प्राग्ज्योतिष-पुरेश्वरः ।
करोति सर्व-भूतानाम् अपघातम् अरिन्दम ॥
देव-सिद्ध-सुरादीनां नृपाणां च जनार्दन ।
हत्वा तु सोऽसुरः कन्या रुरोध निज-मन्दिरे ॥
छत्रं यत् सलिल-स्रावि तज् जहार प्रचेतसः ।
मन्दरस्य तथा शृङ्गं हृतवान् मणि-पर्वतम् ॥
अमृत-स्राविणी दिव्ये मातुर् मेऽमृत-कुण्डले ।
जहार सोऽसुरोऽदित्या वाञ्छत्य् ऐरावतं गजम् ॥ [वि।पु। ५.३८.८-११]
इति ज्ञापितो भक्त्याष्टाङ्गप्रणामपूर्वकम् इति ज्ञेयम् । ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थ-साधनं [भा।पु। १०.५९.४२] इत्य् अग्रे वक्ष्यमाणात् ।
तत्रैव सभार्यम् इति सार्धकम् । गरुडस्मृति-मात्रेणागतं सन्तम् । किंवा, प्रायस् तत्रैव वर्तमानम् आरूढः । सभार्यगमनं साक्षात् तद्धरणकौतुकदर्शनादिपूर्वकं तस्या एव पारिजातदानार्थम् अवहेलासूचनार्थं च । तत्र पूर्वं मया सार्धं युद्धसङ्कटे गता पारिजातं स्वयमुद्यम्य मद्द्वारा नीतवतीति श्री-रुक्मिण्यादिषु व्यञ्जनात्, उत्तरं मम विनोद एवायं, न तु युद्धोद्यम इति नरकादिषु व्यञ्जनात्
अथेन्द्रोऽपि स्व-पुरं ययाव् इति ज्ञेयम्—
आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् ।
ततो जगाम कृष्णश् च पश्यतां द्वारकौकसाम् ॥ [भा।पु। ५.३८.१५] इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृत-छत्रेणेति वरुणस्य छत्र-हरणेऽपि देवेन्द्रत्वात् तस्यैव छत्रं हृतम् अभूद् इति । तथोक्तं हृते कुण्डले यस्य स बन्धुर् माता यस्य तेन हृतम् अमराद्रि-स्थानं मन्दर-शृङ्गं मणि-पर्वताख्यं यस्य तेन इन्द्रेण भौमस्य चेष्टितं छत्र-हरणादिकं ज्ञापितं सन् ययौ । भार्यया सत्यभामया सहित इति त्वद्-अनुज्ञयैव तत्-पुत्रं हनिष्यामीति भूम्यै यद् उक्तं, तत् सत्यं कर्तुं स्व-विभूत्यै भूम्या सह सत्यभामया ऐक्याद् एवात्र सत्यभामैव भूमिः । सा च महा-युद्ध-सङ्कटे तद् एव जहीमम् इत्य् अनुज्ञास्यते नान्यदेति । नारदानीत-पारिजात-पुष्पस्य रुक्मिण्यै प्रदानात् कुपितां सत्यभामां सान्त्वयंस् तुभ्यं तद्-वृक्षम् एव दास्यामीति प्रतिश्रुत्य शक्रात् तद्-आहरण-सामर्थ्यतां दर्शयितुं तां सङ्गे नीतवान् इति वा ॥२॥
॥ १०.५९.३-४ ॥
गिरि-दुर्गैः शस्त्र-दुर्गैर् जलाग्न्य्-अनिल-दुर्गमम् ।
मुर-पाशायुतैर् घोरैर् दृढैः सर्वत आवृतम् ॥
गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः ।
चक्रेणाग्निं जलं वायुं मुर-पाशांस् तथासिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गरुडेन याने कारणम्, गिरि-दुर्गैर् इत्य्-आदि । तैर् उपलक्षितम् । जलाग्न्य्-अनिलैश् च सर्वतो वर्तमानैर् दुर्गमम् ॥ ३-४ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैर् गिरि-दुर्गादिभिः । मुरपाशानाम् अयुतैर् अनेकैः । षट्-सहस्रैर् इत्य् अर्थः । षट्सहस्रैर् अथो पाशैर् मुरस्याच्छादितं पुरम् इति पुराणान्तरात् ।
शताद्या द्विपरार्धान्ता सङ्ख्या स्वार्थ-परा क्वचित् ।
प्रायोऽनेकार्थिका ज्ञेया इतिहास-पुराणयोः ॥ इत्य् उक्तं नीलकण्ठेन ।
यद् वा, मुरपाशैर् अयुतैर् असंयुतैः, पृथक्कृतैर् इत्य् अर्थः । तत्रैव सभार्य इति साधकम् । गरुडं स्मृति-मात्रेणागतं सन्तं । किं वा, प्रायस्तत्रैव वर्तमानमारूढः । सभार्यगमनं साक्षात्तद्धरणकौतुकदर्शनादिपूर्वकं तस्या एव पारिजातदानार्थमवहेलासूचनार्थं च । तत्र पूर्वं मया सार्धं युद्धसङ्कटे गता पारिजातं स्वयमुद्यम्य मद्द्वारा नीतवतोति श्री-रुक्मिण्यादिषु व्यञ्जनात्, उत्तरं मम विनोद एवायं न तु युद्धोद्यम इति नरकादिषु व्यञ्जनात् । अथेन्द्रो\ऽपि स्व-पुरं ययाव् इति ज्ञेयम्
आरुह्यैरावतं नागं शक्रो\ऽपि त्रिदशालयम् ।
ततो जगाम मैत्रेय पश्यतां द्वारकौकसाम् ॥ इति वैष्णवोक्तेः ।
अनिल-दुर्गः कुलाल-चक्रवद् भ्रमण-महा-बलिष्ठ-दुष्ट-वायुः । गिरि-दुर्गादीनां गणन-मात्रम् इदम्, क्रमस् तु भेदक्रमादग्रे ज्ञेयः । शस्त्रदुर्गाणि स्पर्शन-मात्रेण शस्त्रादिच्छेदकनाना घटितदुर्गाणि । घोरैः क्षुरान्तत्वात् ।
प्राग्जोतिष-पुरस्यासीत् समन्ताच् छत-योजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर् द्विज-सत्तमः ॥ [वि।पु। ५.३८.१४] इति ।
इति वैष्णवोक्ते ।
इह मुरु-शब्द उ-कारान्तो\ऽपि । दृढेर् अच्छेद्यैः ॥३॥
अग्र्यादि-त्रयम् । गदया क्षिप्तया । एवं चक्रेणेत्यादिकम् अपि ज्ञेयम् । अतो दूरत एवेति च ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जलादित्रयस्य यथोत्तरं कारणतायाः सूक्ष्मत्वदुर्गमत्वाधिकताया वापेक्षया तत्तत्क्रमेण निर्देशः, घोरैर् दूरतोऽपि छेदकैर् इत्य् अर्थः, क्षुरान्तरत्वात् । तथा च तत्रैव—
प्राग्ज्योतिषपुरस्यापि समन्ताच् छतयोजनम् ।
आचितं मौरवैः पाशैः क्षुरान्तैर् भूर्द्विजोत्तम ॥ [वि।पु। ५.३८.१४] इति ।
एवं तस्य मते मुरुशब्द उ-कारान्तः । दृढैर् अच्छेद्यैः इति गिरिदुर्गादीनां यथोत्तरं श्रैष्ठ्यम् ॥३॥
गदया क्षिप्तया । एवं चक्रेणेत्यादिकम् अपि ज्ञेयम् । अतो दूरत एवेत्य् अर्थः । निःशेषेण विभेदं सञ्जहार । पूर्वोक्तक्रमातिक्रमेणादावग्नेरुक्तिः । तेजस्तप्ते चक्रे स्वत एवाग्नेः प्रवेशेन प्राक् तस्य सुखनिर्भेदनात्, तथेति समुच्चये । किंवा, तादृशान् अपि ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनिलदुर्गः कुलालचक्रवद् भ्रमन् महाबलिष्ठदुष्टवायुः गिरिदुर्गादीनां गणन-मात्रम् इदं क्रमस् तु भेदक्रमादग्रे ज्ञेयः । शस्त्रदुर्गाणि स्पर्श-मात्रेण गात्रा [शस्त्रा]दिच्छेदकनानाशस्त्रघटितदुर्गाणि घोरैः क्षुरान्तत्वात् । तथा च तत्रैव—
प्राग्ज्योतिष-पुरस्यापि समन्ताच् छत-योजनम् ।
आचितं मौरवैः पाशैः क्षुरान्तैर् भूर् द्विजोत्तम ॥ [वि।पु। ५.३८.१४] इति ।
एवं तस्य मते मुरुशब्द उ-कारान्तः तीर्थे सौकरवे मम इत्य्-आदिवाराहवचनात् दृढैर् अच्छेद्यैः ॥३॥
गदया क्षिप्तया एवं चक्रेणेत्यादिकम् अपि ज्ञेयम् । अतो दूरत एवेति च निःशेषेण विभेदं सञ्जहार ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जलाग्न्य्-अनिलैश् च सर्वतो वर्तमानैर् दुर्गमम् ॥३-४॥
॥ १०.५९.५-६ ॥
शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम् ।
प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥
पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्ताशनि-भीषणम् ।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युगान्ताशनेर् ध्वनिवद् भीषणम् । परिखाया जलात् ॥६-७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यन्त्राणि द्वारकपाटनिरोधार्थं लोहादिनिर्मितानि, हृदयानि च । यन्त्राणि प्राकारन्यस्तानि, येषाम् अग्रे परसैन्यागमदेशे पादघात-मात्रेण चलन्तः प्राकारस्थानां शस्त्रक्षेपंसंयोगाः स्युस्तन्निर्भेदनमुपरि स्थित्वा तादृससंयोगान्यथाकरणं, महाशब्दस्य कम्पनादिस्वभावत्वात् । मनस्विनां धीराणां हृदयान्यपि यन्त्रतुल्यान्य् एव । गुर्व्येति प्राकारस्थापितगुरुत्वम्, तथापि तन्निर्भेदे\ऽनायासं सूचयति, यतो गदाधरः तद्विद्याप्रावीण्येन गदाधर इति नाम प्राप्ता इत्य् अर्थः ॥५॥
परिखास्थ-तोयात् । जल-दुर्ग-निर्भेदनस्य पूर्व-कथाम् आह—पाञ्चजन्येति । पूर्वम् एव पाञ्चजन्यशब्दं श्रुत्वेति ज्ञेयम् । युगान्ताशनिभीषणम् इत्य् असुरेष्वेव ज्ञेयम्, मल्लानामशनिः इत्य्-आदिवत् । शयानः सदा मदाविष्टत्वानिश्चिन्तत्वाच् च तथास्वभावः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यन्त्राणि औषधादिप्रयोगेण लोहगुलकादिक्षेपकाणि दुर्गन्यस्तानि, मनस्विनाम् अपि गुर्व्येति प्राकारस्यापि गुरुत्वम्, तथापि तन्निर्भेदेनायासं च सूचयति, यतो गदाधरः पाणिना गदाधारण-मात्रेणैवेति भावः ॥५॥
शयानो जले, यतो दैत्यः, जात्यैव मद्य-पानादि-रतत्वात् । किं वा, शक्रादि-निर्जयेन नैश्चिन्त्याद् इति भावः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यन्त्राणि प्राकार-न्यस्तानि येषाम् अग्रे परसैन्यागमदेशे पादघात-मात्रेण चलन्तः प्राकारान्तानां शस्त्रक्षेपकसंयोगविशेषाः स्युः तन्निर्भेदनम् उपरि स्थित्वा तादृशसंयोगान्यथाकरणं महाशब्दस्य कम्पनादिस्वभावत्वात् मनस्विनां वीराणां तदीयानाम् एव हृदयान्यपि गुर्व्येति प्राकारस्यापि गुरुत्वं तथापि तन्निर्भेदे\ऽनायासं च सूचयति यतो गदाधरः तद्विद्याप्रावीण्येन तन्नामताम् एव प्राप्त इत्य् अर्थः ॥५॥
टीकायां परिखाया जलाद् इति जलदुर्गनाशात् यद् वा, जलदुर्गनिर्भेदनस्य पूर्वकथाम् आह—पाञ्चेति । एवं पूर्वपूर्वम् एव पाञ्चजन्यध्वनिः विशेषतस् तु यन्त्रनिर्भेदन इति ज्ञेयं युगान्ताशनिभीषणम् इत्य् असुरेष्वेव ज्ञेयं न तु भक्तेषु मल्लानामशनिः इत्य्-आदिवत् शयानः सदा मदाविष्टत्वानिश्चिन्तत्वाच् च तथास्वभावः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनस्विनां शूराणां यन्त्रतुल्यानि हृदयाणि निर्बिभेद ॥५-६॥
॥ १०.५९.७ ॥
त्रिशूलम् उद्यम्य सुदुर्निरीक्षणो
युगान्त-सूर्यानल-रोचिर्-उल्बणः ।
ग्रसंस् त्रिलोकीम् इव पञ्चभिर् मुखैर्
अभ्यद्रवत् तार्क्ष्य-सुतं यथोरगः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उल्बणो भयङ्करः । युद्धादि-कौतुकं गायन्न् इव दीर्घ-च्छन्दसाह—त्रिशूलम् इति । सुदुर्निरीक्षणत्वे हेतुः—युगान्तेति । उल्वणो भीषणः । तद् एवाह—ग्रसन्न् इति । अभ्यद्रवत् हरिम्, तच् च स्ववधायैवेति दृष्टान्तेन द्योतयति—तार्येति ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : युद्धादि—कौतुकेन गायन्न् इव दीर्घच्छन्दसाह—त्रिशूलम् इत्य् -आदि । दुनिवीक्षणत्वे हेतुः—युगान्तेति । दुर्निरीक्षण इति पाठे\ऽपि स एवार्थः । अत उल्बणो भीषणः, उल्वणत्वम् एवाहप्रसन्न् इति । मुखैर् व्यात्तैः, अभ्यद्रवद्धरिं तच् च स्ववधायैवेति दृष्टान्तेन द्योतयति—तार्केति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युद्धादिकौतुकेन गायन्न् इव दीर्घच्छन्दसाहत्रिशलेत्य्-आदि । दुर्निरीक्षणत्वे हेतुः युगान्तेति स्वयञ्चोल्बणो भीषणः उल्बणत्वम् एवाह—ग्रसन्न् इति । मुखैर् व्यात्तैः अभ्यद्रवद्धरिं तच् च स्ववधायैवेति दृष्टान्तेन द्योतयति—तार्क्ष्येति । यद् वा, स्थूलदर्शनत्वात्तार्क्ष्यसुतम् एवाभ्यद्रवत् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युगान्ताशनेर् ध्वनिवद् भीषणम् इति शत्रूणाम् एव मल्लानाम् अशनिः इतिवत् परिख्याया जलात् ॥७॥
॥ १०.५९.८ ॥
आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः ।
स रोदसी सर्व-दिशोऽम्बरं महान्
आपूरयन्न् अण्ड-कटाहम् आवृणोत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आविध्य आतोल्य स महान् नाद इत्य् अन्वयः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गरुत्मते तं हन्तुम् । निरस्य निक्षिप्य । आपूरयन् नादेनेति शेषः । निरस्य क्षिप्त्वा । रोदसी दिवं भुवं च । अन्तरं छिद्रम्, पातालम् इत्य् अर्थः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निरस्य निःशेषेण क्षिप्त्वा, रोदसी रोदस्यौ दिवं भुवञ्ज, अन्तरं च छिद्रं पातालम् इत्य् अर्थः । शब्दस्याकाशजत्वेन प्राक् खं तदूर्ध्वगामित्वादतिवृहत्वाच् च स्वर्गाख्यमूर्ध्व लोकपञ्चकम्, ततो बहिर्निःसरणाशक्त्या निवृत्त्य मर्त्यलोकं ततो\ऽतिविस्तारप्राप्त्या सर्वा दिशः, ततो\ऽतिपूर्त्या विवरद्वारेणाधोलोकम् एवं क्रमेण आ सम्यक् पूरयन्न् इत्य् अर्थः ॥ ८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निरस्य निश्शेषेण क्षिप्त्वा रोदसी रोदस्यौ दिवं भुवं च अन्तरं च छिद्रं पातालम् इत्य् अर्थः ॥ ८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आविध्य भ्रामयित्वा स महान् नाद इत्य् अर्थः ॥८॥
॥ १०.५९.९ ॥
तदापतद् वै त्रिशिखं गरुत्मते
हरिः शराभ्याम् अभिनत् त्रिधोजसा ।
मुखेषु तं चापि शरैर् अताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मै श्री-कृष्णाय गदां व्यमुञ्चत व्यक्षिपत् ॥९-१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् शूलम् । अभिनत् अकृन्तत् । तं मुरम् । सो\ऽपि मुरो\ऽपि । आपतद् एव न त्वापतितम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, गरुत्मते गरुत्मति, आपतद् एव, न त्वापतितम् इत्य् अर्थः । ओजसा वेगेन, हरिर् इति तत्संहाराभिप्रायेण, अपि एव, मुखेष्वेव, तद्द्यादानेन क्रोधाद् इति सर्वेष्व् अपि तेषु युगपद् एव ताडनं तेन क्षिप्रकारित्वादिकं च सूचितम् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव गरुत्मते गरुत्मति आपतद् एव नत्वापतितम् इत्य् अर्थः । ओजसा वेगेन अपीति सामर्थ्यद्योतकं मुखेष्व् इति ताद्व्यादानेन क्रोधात् इति सर्वेष्व् अपि तेषु युगपद् एव ताडनं सूचितम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गरुत्मते गरुत्मति आपतद् एव न त्व् आपतितं । तस्मै श्री-कृष्णाय । सोऽपि मुरोऽपि ॥९॥
॥ १०.५९.१०॥
ताम् आपतन्तीं गदया गदां मृधे
गदाग्रजो निबिभिदे सहस्रधा ।
उद्यम्य बाहून् अभिधावतोऽजितः
शिरांसि चक्रेण जहार लीलया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिधावतः शिरांसि इत्य् अन्वयः । गदाग्रज इति गदस्यातिशरत्वेन तस्यातिशरतमत्वम् उक्तम् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मृधे वर्तमान इति युद्धकौतुकित्वम्, यतो गदाग्रजो युद्धादिविनोदार्थम् एव श्रीवसुदेवाद्गदस्याग्रे प्रादुर्भूत इति भावः । यद् वा, युद्धमध्ये साक्षादेव, न तु मायादिना परोक्षम् इत्य् अर्थः । यतो गदाग्रजत्वेनावतीर्णः साक्षाद्भगवान्, अमितो\ऽभिमुखे वा धावतस्तस्य, अजित इति महापराक्रमादिकं सूचितम् । अत एव लीलया जहार, छित्त्वा दूरे पातयामास । पञ्चापीति पाठे गदयैवेति ज्ञेयम् । किन्तु अग्ने दृष्टान्ते इन्द्रतेजसेत्युक्त्या तेजः साम्याच्चक्रेणेति पाठो युक्तः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृधे युद्धमध्ये साक्षाद् एव न तु मायादिना परोक्षम् इत्य् अर्थः । गदया गदाग्रज इत्यनुप्रासालङ्कारः उल्लासेन गदाग्रज इति तदुपलक्षितभ्रातृकुलयशोदातृतास्मरणसौख्येन च पञ्चापीति पाठे गदयवेति ज्ञेयं किन्तु अग्रे दृष्टान्ते इन्द्रतेजसेत्युक्त्वा तेजःसाम्याच्चक्रेणेति पाठो युक्तः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्यम्य उच्चीकृत्य अभिधावतो मुरस्य ॥१०॥
॥ १०.५९.११ ॥
व्यसुः पपाताम्भसि कृत्त-शीर्षो
निकृत्त-शृङ्गोऽद्रिर् इवेन्द्र-तेजसा ।
तस्यात्मजाः सप्त पितुर् वधातुराः
प्रतिक्रियामर्ष-जुषः समुद्यताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्र-तेजसा वज्रेण । प्रतिक्रियया हेतु-भूतया अमर्ष-जुषः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य मुरस्य । अमर्षं क्रोधं जुषन्त इत्य् अमर्ष-जुषः । प्रतिक्रियया हेतुभूतया अमर्ष-जुषः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितरां निर्मलत्वादिना दूरतः कृत्तं शृङ्गं यस्य सः, वधेनातुराः शोक-विह्वलाः, अतः प्रतिक्रियार्थम् अमर्ष-जुषो\ऽतिक्रुद्धाः सन्तः सम्यग् उद्यता युद्धार्थम् उद्योगं चक्रुः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वधेनातुराः शोक-विह्वलाः अतः प्रतिक्रियार्थम् अमर्ष-जुषः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रतेजसा वज्रेण । प्रतिक्रियया हेतु-भूतया अमर्ष-युक्ताः ॥११॥
॥ १०.५९.१२ ॥
ताम्रोऽन्तरिक्षः श्रवणो विभावसुर्
वसुर् नभस्वान् अरुणश् च सप्तमः ।
पीठं पुरुस्कृत्य चमू-पतिं मृधे
भौम-प्रयुक्ता निरगन् धृतायुधाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पीठं पीठ-नामानम् । निरगन् निरगमन् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान्-नामतो निर्दिशति—ताम्र इति ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तम् एवोक्तपोषण्यायेनाह—ताम्रैति । सप्त इति भ्रात्रन्तरं निरस्तम् । पुरस्करणे हेतुः—चपति नरकस्य सेनान्यम् इति । किं च, भौमेन प्रयुक्ताः पीठेन सह यातेति नि-युक्ताः, अतो धृतायुधाः, अन्यथा शोकातुरतया विचारापगमेनानन्यापेक्षया निर्गमसम्भवात् । यद् वा, स्वत एव प्रतिक्रियामर्षजुयः, पुनश् च भौमेन प्रयुक्ताः, अतः पीठं सम्मान्य धृतायुधाः सन्तो मृधे निमित्ते युद्धस्थाने वा निरगन् पुरान्निर्गताः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् एवोक्तपोषन्यायेनाह—ताम्र इति । सप्तम इति भ्रात्रन्तरं निरस्तं तेषां नामग्रहणं नाम्नैव गुणज्ञापनार्थं स्वत एव प्रतिक्रियामर्षजुषः पुनश् च भौमेन प्रयुक्ताः एवं तदैव भौमेन तत्रोद्यतम् इति तत्तक्रियायां श्री-भगवत्-ओ लाघवम् अपि दर्शितम् ॥ १२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरगन् निरगमन् ॥१२-१४॥
॥ १०.५९.१३ ॥
प्रायुञ्जतासाद्य शरान् असीन् गदाः
शक्त्य्-ऋष्टि-शूलान्य् अजिते रुषोल्बणाः ।
तच्-छस्त्र-कूटं भगवान् स्व-मार्गणैर्
अमोघ-वीर्यस् तिलशश् चकर्त ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अजिते कृष्णाय । तेषां शस्त्राणां कूटं समूहम् कूटो\ऽस्त्री निश्चले राशौ इति मेदिनी । प्रायुञ्जतेत्य् अर्धकम् । शरादीनां गुरुत्वे घातकत्वे चोत्तरोत्तरं श्रेष्ठयम् । ऋष्टिः खड्गभेदः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आसाद्याजितम्, शरादीनां यथोत्तरं गुरूत्वे घातकत्वे च श्रैष्ठ्यम्, तत्र ऋष्टिः खड्ग-भेदः, अजिते कदाचित् केनापि जेतुम् अशक्ते\ऽपि भगवति प्रायुञ्जत चिक्षुपुः, यतो रुषा उल्वणा दारुणाः, शास्त्राणां कूटं समूहं स्वकीयैर् असाधारणैर् मार्गणैः, अत एव प्रत्य् एक् अं तिलशश् च कर्त्त । यतो\ऽमोघं वीर्य पराक्रमो यस्य सः, यतो भगवान् सर्वैश्वर्य-पूर्णः, ह हर्षे ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रायुञ्जतेत्य् अर्धकम् । आसाद्याजितं शरादीनां यथोत्तरं गुरुत्वे घातकत्वे च श्रष्ठय तत्र ऋष्टिः खड्गभेदः शस्त्राणां कूटं समूहम् स्वैरसाधारणैः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५९.१४ ॥
तान् पीठ-मुख्यान् अनयद् यम-क्षयं
निकृत्त-शीर्षोरु-भुजाङ्घ्रि-वर्मणः ।
स्वानीकपान् अच्युत-चक्र-सायकैस्
तथा निरस्तान् नरको धरा-सुतः ।
निरीक्ष्य दुर्मर्षण आस्रवन् मदैर्
गजैः पयोधि-प्रभवैर् निराक्रमात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्तानि शीर्षादीनि येषां तान् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तांस् ताम्रादीन् । आस्रवन्मदो येभ्यस्तैः । यमक्षयं यमशब्दोपलक्षिताष्टगांयोगस्थानम्, मोक्षम् इति वास्तवोर्थः । यं चाक्षयमास्तम् इत्य् अर्थः । तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते इति चतुर्थोक्तेः । अच्युतेति चक्राद्य वैयर्थ्याभिप्रायेण । निरस्तांल्लीलयैव हतान्निरीक्ष्य उत्तुङ्गदुर्गाद्यारोहणेन दृष्ट्वा । नरक इति जात-मात्रेण मनुष्यमस्तकस्य मुखे ग्रहणात् तत्सञ्ज्ञां प्राप्त इति, जन्मत एव दुष्टस्वभावः सूचितः । तद्-आख्यायिका च कालिका-पुराणे ज्ञेया । धरा-सुत इति शक्तित्वं दर्शितम् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यम-क्षयं मृत्युम् इत्य् अर्थः यम-गृह-गमनोत्तरं मोक्षस् तु ज्ञेयः । अच्युतेति चक्राद्य्-अवैय्याभिप्रायेण तथा तेन शीर्षादिकर्तनप्रकारेण निरस्तान् लीलया दरत एव हतान् वीक्ष्य उत्तुङ्गदुर्गाद्यारोहणेन नरक इति जात-मात्रेण मनुष्यमस्तकस्य मुखे ग्रहणात् तत्सञ्ज्ञाप्राप्त्या जन्मत एव दुष्टभावः सूचितः तदाख्यायिका च कालिकापुराणे ज्ञेया धरायाः सुतः इति महाशक्तित्वं दर्शितम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यम-क्षयं मृत्युम् इत्य् अर्थः । मोक्षस् तु ज्ञेयः ॥१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यम-क्षयं यमनियम् आद्य्-अष्टाङ्ग-योग-स्थानं मोक्षम् इति वास्तवोऽर्थः ॥१४॥
॥ १०.५९.१५ ॥
दृष्ट्वा स-भार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् स-तडिद्-घनं यथा ।
कृष्णं स तस्मै व्यसृजच् छतघ्नीं
योधाश् च सर्वे युगपच् च विव्यधुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शतघ्नीं शक्ति-विशेषम् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स भौमः । तस्मै कृष्णाय । पयोधि-प्रभवैर् ऐरावत-कुलोद्भवैः सह, ऐरावत-कुलेभांश् च इति वक्ष्यमाणत्वात्, पुरान् निराक्रमत् । स-भार्यम् इति तद्-दर्शनेनातिक्रुद्ध इति भावः । अहो माम् अपि कातरम् अयं मनुते, यतः स-स्त्रीक आगतः स्वं निर्भयं ज्ञापयितुम् इति क्रोधे हेतुः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यमक्षयं मृत्यद् वा, राभाव-लक्षणमपुनरावृत्तिमोक्षम् इत्य् अर्थः अच्युतेति चक्राद्यवैयाभिप्रायेण, तथा तेन शीर्षादिकर्तनप्रकारेण निरस्तान् लीलया दूरत एव हतान् निरीक्ष्य, चारचक्षुषा उत्तुङ्गदुर्गाद्यारोहणेन वा । नरक इति जात-मात्रेण तेन मनुष्यमस्तकस्य मुखे ग्रहणात्तत्सञ्ज्ञाप्राप्त्या जन्मत एव दुःस्वभावः सूचितः । तदाख्यायिका च श्रीकालिकापुराणे व्यक्तैव । धरायाः सर्वंसहायाः सुतो\ऽपि दुर्मर्षणः सन् । यद् वा, धरायाः श्री-भगवत्-प्रियायाः सुत इति महाप्रभावो\ऽभिप्रेतः, अत एव दुर्मर्षणः, आ समन्तात् सदा स्रवन् मदो येषां तैः सह, यतः पयोधिप्रभवैः भीराब्धिमथनोद्भुतैरावतकुलोद्भवत्वात्, तथा चाग्रे वक्ष्यति ऐरावतकुलेभांश् च [ भा।पु १०५९।३७ ] इति निराक्रमत् पुरान्निष्क्रान्तः । कृष्णं श्यामसुन्दरं सभाय दृष्ट्वेति महाक्रुद्धः सन्न् इति । यद् वा, तादृशं तं दृष्ट्वापि, अहो महादारुणत्वम् इति भावः । योधा गजारूढाः किं वा, अन्ये\ऽपि तत्सङ्गागताः । ततश् च गजैः सहेत्युक्तिस्तेषां तत्र प्राधान्यात्, च एव, युगपदेव, वित्यधुर्वेधुमस्त्रादीनि असृजन्नित्य् अर्थ ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पयोधि-प्रभवैर् गजैः सह तत्-प्रभवैरावत-कूल-जत्वात् तथा चाग्रे ऐरावत-कूलेभांश् चेतिः निरक्रमत् निरक्रामत् पुरान् निष्क्रान्तः स-भार्यं दृष्ट्वेति तेन महा-क्रुद्धः सन्न् इति भावः । च अपि युगपद् अपि विव्यधुः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आस्रवन्तो मदा येषां तैर् गजैः सह निराक्रमं शतघ्नीं शक्ति-विशेषम् ॥१५॥
॥ १०.५९.१६ ॥
तद् भौम-सैन्यं भगवान् गदाग्रजो
विचित्र-वाजैर् निशितैः शिलीमुखैः ।
निकृत्त-बाहूरुशिरोध्र-विग्रहं
चकार तर्ह्य् एव हाश्व-कुञ्जरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विचित्रा वाजाः पत्राणि येषां तैर् बाणैर् निकृत्ता बाहव ऊरवः शिरोध्राः कन्धरा विग्रहा देहाश् च यस्मिंस् तत् । तर्ह्य् एव तं यदा विव्यधुस्तस्मिन्न् एव क्षणे ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिलीमुखैर् बाणैः । तद् उपस्थितम् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विचित्र-वाजैर् इति वेगवत्त्वादिकम् अभिप्रेतम् । स्वरूप-मात्रनिर्देशो\ऽयम् । एवं निशितैर् इत्य्-आद्य् अपि न च केवलम् अश्वाधारूढा दैत्या एव हतास् तेषां वाहनानि च तथैवेत्य् आह—हतेति ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विचित्र-वाजैर् इति । वेगवत्त्वादिकम् अभिप्रेतं न च केवलम् अश्वाद्य्-आरूढा हताः [ तेषां ] वाहनानि चेत्य् आह—हतेति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विचित्राः वाजाः पत्राणि येषां तैः ॥१६॥
॥ १०.५९.१७-१९ ॥
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रिभिः ॥
उह्यमानः सौपर्णेन पक्षाभ्यां निघ्नता गजान् ।
गरुत्मता हन्यमानास् तुण्ड-पक्ष-नखेर् गजाः ॥
पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत ।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्याश्चर्ये कुरूद्वहेति सम्बोधनम् । तथा हि, तैर् यानि प्रयुक्तानि शस्त्रास्त्राणि तत्प्राप्तेः पूर्वम् एव तत्सर्वं सैन्यं हत्वा पश्चात्तानि शस्त्राण्यस्त्राणि च चिच्छेद । तत्राप्य् एकैकं शस्त्रम् अस्त्रं च त्रिभिः शरैर् इत्याश्चर्यम् । किं च, गरुत्मतेति ॥१७-१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : करूद्वहेति—त्वय्य् अप्य् अस्त्र-शस्त्र-निपुणे नैतत् कदाचिन् न दृष्टं श्रुतं वेति भावः । तैर् योधैः । तत्-प्राप्तेः शस्त्र-प्राप्तेः । तत्-सैन्यं भौम-सैन्यम् । तानि सैन्य-प्रयुक्तानि । तत्रापि छेदे\ऽपि ॥१७॥
न केवलं भगवान् एवाद्भुतम् अपि तु तद्-वाहनम् अपीत्य् आह—किं च, इति । तुण्डं चञ्च्वग्रम तञ्डो\ऽस्त्री पक्षिचञ्च्वग्रे लबने ताडने\ऽपि च इति निरुक्तिः । सुपर्णेनोह्यमान इति तत्रैव लीलयातिशीघ्रगत्येतस्ततो नीयमान इत्य् अर्थः । भगवन्तं वहतापि पक्षाभ्यां गजहननात्तत्प्रभावोत्कर्षोप्युक्तः । गजा एते योधैर् अनधिष्टिताः, राजवाहकाः पथविस्थता इति । कुरूद्वहेत्याश्चर्येण संबोधनम्, कुरुषु मध्ये भीष्मार्जुनादिभिर् अप्येतत्प्रयोगलाघवं कृष्णेन ज्ञापितैर् अपि न ज्ञातुं शक्यत इति भावः ॥१८॥
युधीति तस्य निर्भयतोक्ता ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शस्राणि खड्गादीनि, अस्त्राणि शरादीनि, हरिर् इति—तादृशक्षिप्रकारित्वेन सर्वेषां मनोहरणात् ॥१७॥
सुपर्णेनोह्यमान इति तत्रैवेतस्ततो लीलयातिशीघ्रगत्यादेमहाप्रभावता सूचिता । यद् वा, श्रीगरुडस्यापि प्रभाव उक्तः, श्री-भगवन्तं वहतापि पक्षाभ्यां गजानां हननात्, एते च योधैरनधिरूढा राजवाहकाः- पृथक् स्थिता महागजा ज्ञेयाः । तत्र केचिनिहता एव केचिच् च भग्ना इत्य् आह—गरुत्मतेति । अग्रे स्थिताः केचित्तुण्डेन चञ्च्वा, पार्श्वद्वयस्थाश् च पक्षाभ्यां पश्चात्स्थिताश् च रणनखैर् इति ज्ञेयम् । एवं तस्यापि क्षिप्रकारित्वं महाविक्रमादिकं च दर्शितम् ॥१८॥
युधि स्थितः सन्न् इति तस्यापि निर्भयत्वादिक सचितम, सर्व-सैन्ये विनष्टे\ऽपि निजगजेषु भग्नेष्व् अपि तत्रावस्थानात् । विद्रावितं भङ्ग प्रापितम्, यतोर्\ऽदितम् । यद् वा, किञ्चिद्विद्रावितं किञ्चिद्दितं च हतं दृष्टा । सैन्यम् इति सैन्यस्य गजप्रधानत्वात् । किं वा, गजरक्षिणामश्ववारादीनां सङ्ग्रहात् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यानीति सार्धकम् । शस्त्राणि खड्गादीनि अस्त्राणि शरादीनि सुपर्णेनोह्यमान इति तत्रैवेतस्ततो लीलयातिशीघ्रगत्या महाशोभा सूचिता श्रीगरुडस्यापि प्रभाव उक्तः श्री-भगवन्तं वहतो\ऽपि पक्षाभ्यां गजानां हननात् एतेच योधैर् अनधिरूढा राजवाहकाः पृथक्स्थिता ज्ञेया ॥१७॥
तत्र केचिनिहता एव केचिच् च भग्ना इत्य् आह—गरुत्मतेति ॥१८॥
युधीति । युधि स्थितः सन्न् इत्य् अर्थः । इति तस्यातिनिर्भयत्वादिकं सूचितं विद्रावितं भङ्ग प्रापितं यतो\ऽदितं यद् वा, किञ्चिद्विद्रावितं किञ्चिदर्द्दितं च हतं दृष्ट्वा सैन्यम् इति सैन्यस्य गजप्राधान्यात् किं वा, गजरक्षिणाम् अश्ववारादीनां सङ्ग्रहात् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सैन्यस्य बाह्वादिच्छेदमुक्त्वा तत्प्रयुक्तास्त्रशस्त्राणां छेदम् आह—यामीति । शस्त्राणि खड्गादीनि अस्त्राणि शरादीनि । एकैकशः इति कर्मणः करणस्य च विशेषणम् । योधैर् यानि प्रयुक्तानि तेषां लक्षप्राप्तेः पूर्वम् एव तत्तत्प्रयोक्तॄन् प्रथमं छित्वा ततस्तत्प्रयुक्तानि तानि चिच्छेद तत्राप्य् एकैकं शस्त्रमस्त्रं च त्रिभिस्त्रिभिः शरैश्चिच्छेद । तैर् अपि त्रिभिः प्रत्य् एक् अम् एव प्रयुक्तैर् न तु युगपत् प्रयुक्तैर् इत्याश्चर्येण सम्बोधनं कुरुद्वहेति । कुरुषु मध्ये भीष्मार्जुनादिभिर् अपि नैतत् प्रयोगलाघवं कृष्णेन ज्ञापितैर् अपि ज्ञातुं शक्यत इति भावः ॥१७-१९॥
॥ १०.५९.२० ॥
तं भौमः प्राहरच्-छक्त्या वज्रः प्रतिहतो यतः ।
नाकम्पत तया विद्धो मालाहत इव द्विपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो यया शक्त्या वज्रः प्रतिहत आस । गरुडस् तु नाकम्पत ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं गरुडम् । तया शक्त्या ॥ यतो यया ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विद्धो\ऽपि नाकम्पत नाव्यथत । किं वा, स्वस्थानाद्धाच् च नाचलद् इत्य् अर्थः—तया किञ्चिद् अपि कर्त्तमशक्तत्वात् । तत्रैव दृष्टान्तःमालेति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विद्धो\ऽपि नाकम्पत नाव्यथत अनुभावेन भावो व्यज्यते किम्बा स्व-स्थानाद् धैर्याच् च नाचलद् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यया शक्त्या वज्रः प्रतिहत आसीत् ॥२०॥
॥ १०.५९.२१ ॥
शूलं भौमोऽच्युतं हन्तुम् आददे वितथोद्यमः ।
तद्-विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः ।
अपाहरद् गजस्थस्य चक्रेण क्षुर-नेमिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गरुडे वितथोद्यमः सन् शूलं त्रिशूलम् आददे धृतवान् ॥२१-२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वितथोद्यमो व्यर्थ-प्रयत्नः । तद्-विसर्गाच् छल-त्यागात् । ततो\ऽमोघ-शुल-हस्तं भौमम् आलक्ष्य शीघ्रम् इमं जहीति सत्यभामयोक्तः कृष्णस् तं जघानेत्य् आह—तद् इति ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युत सुस्थिरतयाभिमुखे सन्तं भगवन्तम् इत्य् अर्थः । यद् वा, अच्युतमब्यर्थं शूलम्, तस्य शुलस्य विसर्गात् प्राग् एव अप अनायासेन क्षिप्रम् एवाहरत्, यतः क्षरवत्तीक्ष्णधारा नेमयो यस्य तेन ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य शूलस्य विसर्गात् प्राग् एव अपाहरत् तस्याजानत इवाहरत् यतः क्षुरवत् तीक्ष्ण-धारा नेमयो यस्य तेन ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चामोघ-शूल-हस्तं भौमम् आलक्ष्य शीघ्रम् इमं जहीति सत्यभामयोक्तः कृष्णस् तं जघानेत्य् आह—तद् इति ॥२१॥
॥ १०.५९.२२ ॥
स-कुण्डलं चारु-किरीट-भूषणं
बभौ पृथिव्यां पतितं समुज्ज्वलम् ।
हा हेति साध्व् इत्य् ऋषयः सुरेश्वरा
माल्यैर् मुकुन्दं विकिरन्त ईडिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हाहेति दैत्याः, साध्व् इति मुनयः । हाहेति हा विषादशुगर्तिपु, इह निदायां च इति क्षीरस्वामी । हा पापिष्ठ नरक, हा विश्वोद्वेजक त्वं यन्मृतस्तत्साधुसाध्व् इति ऊचुः । विकिरन्त आच्छादयन्तः, लघुर् इति शेषः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पतितम् अपि वभौ शिरः, यतः सम्यगुज्ज्वलम् । तत्र हेतुः—सकुण्डलम् इत्य् -आदि । हाहेति भूमिसुतशिरः पातात्, साध्व् इति च दृष्टमरणात् । यद् वा, हाहेति तदनुगाः, ऋषयश् च साध्वित्युचुर् इति शेषः । सुरेश्वरा इन्द्रादयो माल्यविशेषेण श्रीसत्यभामा—गरुडसाहित्य्-आदिना, किरन्तो व्याप्नुवन्तः, मुकुन्दम् इति नरकवधेन परमानन्दप्रदानात्, अत एव ईडिरे जयजयेत्यादिस्तुत्या तुष्टुवुः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिरो बभौ लोकदृष्टी रञ्जयामास यतः पतितं दुष्टसम्बन्धित्वाद् इति भावः । अतस्तदीयशोभारच नम् अपि तदानीम् एव तदुपोद्वलकं जातम् इति सविनोदम् आह—समुज्ज्वलम् इति । समुज्वलद् इति कचित् तत्र हेतुः सकुण्डलम् इत्य् -आदि हाहेति निन्दायां महापापिष्ठो\ऽयमासौद् इत्य् अर्थः । हाविषादशगातिष्वित्य् अत्र निन्दायां चेति हि क्षीरस्वामी । साध्व् इति हर्षात् भद्रं जातम् इदम् इत्य् अर्थः । ऊचुर् इति शेषः । सुरेश्वरः इन्द्रादयस्तं माल्यविकिरन्त आच्छादयन्तः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हा हेति । हा विषादशुगार्तिषु इत्य् अत्र निन्दायाञ्चेति क्षीरस्वामी । हा पापिष्ठ नरक ! हा विश्वोद्वेजक ! त्वं यन्मृतस्तत्साधु साध्वित्यूचुः । विकिरन्त आच्छादयन्तः ॥२२॥
॥ १०.५९.२३ ॥
ततश् च भूः कृष्णम् उपेत्य कुण्डले
प्रतप्त-जाम्बूनद-रत्न-भास्वरे ।
स-वैजयन्त्या वनमालयार्पयत्
प्राचेतसं छत्रम् अथो महा-मणिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतप्ते जाम्बूनदे यानि रत्नानि तैर् भास्वरे । मेर्व्-अंश-भूतं मन्दर-शिखरं महा-मणिं चार्पयद् इति ॥२३-२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भौममतेरनन्तरम् । वनमालया सह कुण्डले आर्पयद् इत्य् अन्वयः । किंभूतया—वैजयन्ती वसुविधमौक्तिकमाला, तत्सहितया । वनमाला तु हरेर् अर्चनायैव न तु भौमेन कस्यचिदानीतेति बोध्यम् । महान्तो मणयो यत्र तं सुमेरोरंशभूत मन्दराख्यगिरिशिखरम् । हृतामराद्रिस्थानेन इत्य् उक्तः । वैजयन्ती पञ्चवर्णा, वनमाला चरण-लम्बिनी पत्र-पुष्प-मयीति भेदः । यद् वा, —अष्टधामौक्तिकनिर्मिता वैजयन्ती, पञ्चरत्नमयी वा । अनयोर् लक्षणं तृतीयस्कन्धे टीकायामस्माभिलिखितम् एव ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूर्मातृत्वेन नरकस्य गृहे मूर्तिमती सदा वर्तमाना । किं वा, तदानीम् एवाविर्भता, कृष्णं साक्षाद्भगवन्तं स्वपतिम् इत्य् अर्थः । अत उपेत्य समीपे गत्वा, वैजयन्ती पञ्चवर्णा, वनमाला चापा। दलम्बिनी पत्रपुष्पमयीति भेदः । वैजयन्ती—सहितया वनमालया सह । अथो समुच्चये, विलम्बे वा, त्वरयादौ मालासहितकुण्डलार्पणतः पश्चात् छत्राद्यर्पणात् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वैजयन्ती पञ्चवर्णा वनमाला चरण-लम्बिनी पत्र-पुष्पमयीति भेदः । वैजयन्तीसहितया वनमालया सह ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-मणिं मणि-पर्वतम् ॥२३-२४॥
॥ १०.५९.२४ ॥
अस्तौषीद् अथ विश्वेशं देवी देव-वरार्चितम् ।
प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ भगवदर्चनकुण्डलादिप्रत्यपणोत्तरम् । भक्त्या प्रवणया तद्गतया । निम्ने\ऽथ तत्परे वक्र प्रवणो वननिर्गतः इति निरुक्तिः । अथ तत्तदर्पणोत्तरम् । भक्त्या प्रवणायत्ता धीस्तया प्रणतावनतमस्तका सती । देववरैर् ब्रह्मादिभिर् अचितम् । हे राजन्निति—श्री-कृष्णयशःश्रवणेन राजमान एव राजा भवतीति भावः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ तत्-तद्-अर्पणानन्तरं भक्त्या प्रवणा आयत्ता वशीकृता या तया बुद्ध्या, प्रणता स्तुत्य्-अर्थं प्राक् कृतप्रणामा, पश्चात् प्राञ्जलिः सती । यद् वा, प्रणता चावनत-मस्तका सती तुष्टाव, यतो विश्वेशम्, अतो देव-वरैः श्री-ब्रह्मादिभिर् अर्चितं तत्-तत्-प्रकारेणास्तौषीद् इति भावः । यतो देवी श्री-भगवत्-प्रिया भक्त्या द्योतमाना वा, इति तस्याः श्री-भगवन्-माहात्म्याभिज्ञता सूचिता । अतस् तत्-स्तुति-श्रवणार्थम् अवधापयति—हे राजन्न् इति ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत्तदर्पणानन्तरं भक्त्या प्रवणा आयत्ता वशीकृता या तया बुद्ध्या प्रणता स्तुत्यर्थं प्राक् कृतप्रणामा पश्चात् प्राञ्जलिः सती यद् वा, प्रणता च अवनतमस्तका सती तुष्टाव यतः विश्वेशम् अतो देव-वरैर् ब्रह्मादिभिर् अचितं तत्-तत्-प्रकारेणैवास्तौद् इति भावः ॥ २४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५९.२५ ॥
भूमिर् उवाच—
नमस् ते देव-देवेश शङ्ख-चक्र-गदा-धर ।
भक्तेच्छोपात्त-रूपाय परमात्मन् नमोऽस्तु ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ऐश्वर्यं ज्ञात्वा भूमिः स्तौति । नमस्त इति । परमात्मन् देवाद्यन्तर्यामिन् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवाद्यन्तर्यामिन्न् इति स्वस्यापि तदधीनत्वम् आह । ननु त्वम् अपि देव्यसि कथं मत्स्तवने प्रवृत्ता, तत्राह—हे देवदेवेश, त्वं तु देवानामिन्द्रादीनाम् अपि ये देवा द्योतका ब्रह्मादयस् तेषाम् अपि ईशस्तुत्यर्हो मम तु ततृष्टायास् तत्र का वार्तेति भावः । अतस् तेषाम् अवनार्थम् एव शङ्खादिशस्त्रधरो\ऽसीति भावः । यत्र । तत्र हेतुत्वेन संबोधयति—हे परमात्मन्न् इति । त्वां विना ते न किञ्चित्कर्तुं समर्था इति भावः । अतस्ते नमो\ऽस् तु । यद् वा, —परमात्मन्नित्यस्यायं भावः भगवंस्त्वद्वेषिमातुर् अपि ममान्तःकरणं जानास्येवेति तात्पर्यम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्तैर् इच्छया स्वेच्छया उपात्तं मनसि गृहीतं रूपं यस्य ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्तिप्रवणधीत्वेन पुनः पुनर्नमन्ती, तत्रापि प्राग् एव वन्दमाना स्तौति—नमस्त इति । देवानां देवाः श्रीब्रह्मादयस् तेषाम् ईश ! परिपालक ! अत एव दुश्टवधार्थं शङ्खादिधर ! किं च, भक्तानां तेषाम् एवेच्छया उपात्तानि प्रकटितानि श्रीमत्स्यादिरूपाणि येन तस्मै, किं च, तेषां सर्व-सद्बुद्ध्यादि—प्रवर्तकश् च त्वम् एवेत्याशयेनाह—परमात्मन्न् इति । शङ्खादीनां तत्तत्क्रमेणोक्तिः प्रायो वामाधः कराद्दक्षिणाधः करान्तं क्रमेण तत्तद्वारणात् । तत्र च भार्यात्वेन वामस्थितया तया प्राग वामत एव वर्णनाद् इति दिक् । एवं श्री-नारदादिवच् चतुर्भुजत्वेन तथासौ दृश्यत इति ज्ञेयम् । यद् वा, ननु देवदेवशः श्रीनारायण एव, सत्यम्, शङ्खादिधारणात् स एव त्वम् इत्य् आह—शङ्केति । ननु, मम नारायणत्वे कथं कदाचिद्विभुजत्वम् ? तत्राह—भक्तच्छयोपात्तं रूपं मनुष्यमूतिद्विभुजत्वादिना सौन्दर्यं वा येन तस्मै, तथापि निजशक्त्या सर्व व्याप्नुवन्नन्तर् अपि भासीति । किं वा, अत एव सर्वेषां प्रियतमो\ऽसी। त्य् आह—परमात्मन्न् इति ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवानां देवा ब्रह्मादयस् तेषाम् ईश परिपालक ! अत एव दुष्ट-वधार्थं शङ्कादि-धर ! किं च, भक्तानां तेषाम् एवेच्छया उपात्तानि प्रकटीकृतानि श्रीमत्स्यादिरूपाणि येन तस्मै किं च, तेषां सद्-बुद्धय्-आदि-प्रवर्तकश् च त्वम् एवेत्य् आशयेनाह—परमात्मन्न् इति ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भक्तेच्छोपात्त-रूपायेत्य्-आदि । भक्तैर् स्वेच्छयोपात्तं मनसि गृहीतं रूपं यस्य ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमात्मन्न् इति । त्वद्-विद्वेषो जनन्या अपि ममान्तःकरणं त्वं जानास्येवेति भावः ॥२५॥
॥ १०.५९.२६ ॥
नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।
नमः पङ्कज-नेत्राय नमस् ते पङ्कजाङ्घ्रये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : येन मन्त्रेण कुन्त्याः प्रसन्नः पूर्वमासीत्, तेन मन्त्रेण नमस्यति—नम इति । पङ्कजं नाभौ यस्य, तस्मै जगत्कारणायेत्य् अर्थः । अत एव सत्कीर्तिमयी पङ्कजमाला विद्यते गस्य तस्मै । एवंभूतं ध्यायतां पङ्कजवत्सुप्रसन्ने तापोपशमने नेत्रे यस्य तस्मै । पङ्कजवत्सुसेव्यौ पङ्कजाङ्कितौ वाङ्घ्री यस्य तस्मै नम इति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-न तु योगवृत्त्या नाभिस्थापितकमलः कश्चिदपरो ग्राह्य इति भावः । अत एव जगत्कारणत्वाद् एव । एवम् भूतं जगत्कारणमुत्तमकीर्तिम् । न हि पङ्कजं प्रायः सेव्यत इत्यरुच्याह—पङ्कजाङ्किताव् इति । मन्नेत्रादिसर्वेन्द्रियकृतार्थीकर्तम् एवात्रागतो\ऽसीति प्रेम्णा माधुर्यं वर्णयति—नम इति । पङ्कजयोनितया नाभेः सरोवरसाम्येन गांभीर्यमभिप्रेतम् । यद् वा, —श्री-कृष्णनाभेः पद्माकारत्वात् । भक्त्युद्रेकेण चरणयोर् अन्ते निर्देशः । चरणयोर् एकस्यैव पङ्कजाङ्कितत्वे\ऽपि सजातीयत्वेनैक्यविवक्षया स्वामिचरणैः पङ्कजाङ्किताव् इति व्याख्यातम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्तैर् इच्छया स्वेच्छया उपात्तं मनसि गृहीतं रूपं यस्य ॥ २६-४५ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवदेवेशत्वमुपपादयन्ती स्तौति—नम इति । एतदादिपद्यद्वयं तैर् व्याख्यातम् । पक्षान्तरे च सौन्दर्यम् एव वर्णयति—पङ्कजेति । पङ्कजयोनितया नाभेः सरोवरसाम्येन गभीरताभिप्रेताः यद् वा, पङ्कजवन्नाभिर् यस्य, कृष्णनाभेः पद्माकारत्वात् पङ्कजनाभत्वादीनां यथोत्तरं सौन्दर्यहेतुत्वे श्रेष्ठ्यम्, अत एव भक्त्युद्रेकेण श्रीचरणयोः सौन्दयविशेषापेक्षयान्ते निर्देशः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवदेवेशत्वमुपपादयन्ती स्तौति—नम इति । एतदादिपद्यद्वयं तैर् व्याख्यातं तत्र पङ्कजाङ्कितावज्रा इत्य् एकस्यैव तदङ्कितत्वे\ऽपि सजातीयत्वे\ऽपि नैक्यविवक्षयेति मन्तव्यं यद् वा, अथ सौन्दर्य वर्णयति—पङ्कजेति । पङ्कजयोनितया नाभेः सरोवरसाम्येन [ भी ] गम्भीरताभिप्रेता यद् वा, पङ्कजवन्नाभिर् यस्य श्री-कृष्णनाभेः पद्माकारत्वात् पङ्कजनाभत्वादीनां त्रयाणां यथोत्तरं सौन्दर्यहेतुत्वे श्रेष्ठयम् अन्ते तु भक्तयद्रेकेण श्रीचरणयोः सौन्दर्यनिर्देशः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्तच्छोपात्तरूपायेत्य्-आदि । भक्तैः स्वेच्छयोपात्तं मनसि गृहीतं रूपं यस्य ॥ २६-४५ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्नयनादिसर्वेन्द्रियकृतार्थीकरणायागतोऽसीति माधुर्यं वर्णयति—नम इति ॥२६॥
॥ १०.५९.२७-२८ ॥
नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।
पुरुषायादि-बीजाय पूर्ण-बोधाय ते नमः ॥
अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्त-शक्तये ।
परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, भगवते निरतिशयैश्वर्याय वासुदेवाय सर्व-भूताश्रयायात एव विष्णवे व्यापिने । न हि सर्व-भूताश्रयत्वं परिच्छिन्नस्य सम्भवतीति कुतः सर्वाश्रयत्वं तत्राह—पुरुषाय सर्वस्मात्कार्यात् पूर्वम् एव सते, पूर्वम् एवाहमिहासम् इति तत्पुरुषस्य पुरुषत्वं इति श्रुतेः । एतद् अपि कुतः । आदिबीजाय । आदेर्जगत्कारणस्यापि कारणाय । एवम् अपि न मृदादिवज्जाड्यम् इत्य् आह—पूर्णबोधायेति ॥२७॥
नन्व् एवम् अपि स्वस्य कारणात् पूर्वं सत्त्वं न स्यादत आह—अजायेति । स्वयम् अजाय । अस्य च जगतो जनयित्रे । उभयत्रापि क्रमेण हेतुद्वयम्, ब्रह्मणे बृहते, अनन्तशक्तय इति च । बृहत्त्वाद् अजत्वम्, अनन्तशक्तित्वात् तज्जनयितृत्वम् इत्य् अर्थः । ननु पित्रादयः पुत्रादीनां जनकास्तेषां च तत्पूर्वे तेषां च भूतानि तेषां च स्वकर्मद्वारेण जीवाः किम् अत्राहं तत्राह—परावरात्मन्न् इत्य्-आदि । पित्राद्यात्मकत्वात् त्वम् एव जनक इत्य् अर्थः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुर्नहरेर् ऐश्वर्यं द्योतयत्य् आह—किं च इति । अत एव सर्व-भूताश्रयत्वाद् एव । तद् एवाह—न हीति । सर्वाश्रयत्वे हेतुमाशङ्कते—कुत इति । एतत् सर्व-कार्यपूर्वकालीनत्वम् । जगत्कारणस्य ब्रह्मादेः । एवम् अपि बीजरूपत्वे\ऽपि । पूर्णबोधाय ज्ञानैकरूपाय । तवैश्वर्यामसिन्धावप्यहं खेलयन्त्यस्मीत्य् आह—नम इति । भगवते निरतिशयैश्वर्याय । भगवत्त्वे\ऽपि वासुदेवाय वासुदेवो भगवताम् इत्य् उक्तेर्वसुदेवनन्दनाय, स्वयं भगवत इत्य् अर्थः । वसुदेवपुत्रत्वे\ऽपि विष्णवे सर्व-व्यापकाय । सर्व-व्यापकत्वे\ऽपि पुरुषाय पुरुषवत्परिच्छिन्नायेत्य् अर्थः । पुरुषवत्परिच्छिन्नत्वे\ऽप्य् आदिबीजाय सर्वादेः । श्रोनारायणस्याप्य् आविर्भावप्रयोजकब्रह्ममोहनलीलायां तथा दर्शनात् । तादृशादिबीजत्वे\ऽपि पूर्णश्चासौ बोधश्चेति, पूर्ण ज्ञानस्वरूपं यद्ब्रह्म तस्मै । अप्राकृतानन्तविशेषत्वे\ऽपि त्वम् एव निविशेष ब्रह्मेत्य् अर्थः । तोषिणीकारास्तु—पुरुषाणां निजजनानामायः प्रेमादिलाभस्तस्यादिबीजाय कारणाय तद्दात्र इत्य् अर्थमाहुः ॥२७॥
पुनराशङ्कते—नन्व् इति । एवम् अपि पूर्णबोधरूपत्वे\ऽपि । अजाय कारणजितायेत्य् अर्थः । अस्य विश्वस्य । उभयत्रापि—अजत्वे जनयितृत्वे च । इत्य् अर्थ इति—ब्रह्मण एवाजत्वं तद्भिन्नस्य तज्जत्वादनन्तशक्तेर् एव जनकत्वं, तद्भिन्नस्य जन्यत्वाद् इति भावः । अत्राशङ्कतेनन्व् इति । अत्र जनने । अहं किं, क इत्य् अर्थः । इत्य् अर्थ इति—पित्रादीनाम् अपि जन्यत्वश्रुतेः परमकारणस्य तवैव मुख्यं जनकत्वम् इत्य् आशयः । त्वमजो\ऽपि अथ चास्य विश्वस्य जनयिता, जनयितापि त्वम् एव ब्रह्म निर्विशेषरूपं, निर्विशेषस्वरूपम् अपि त्वम् एवानन्त, अनन्त-शक्तित्वे\ऽपि तव तिस्र एव शक्तयस् तट-स्थ-बहिरङ्गान्तरङ्ग-लक्षणाः, ताश् च त्वम् एव इत्य् आह—परावरेषाम् उत्कट-निकृष्टानाम् आत्मा जीवस् त्वम् एव त्वम् एव भूतात्मा पञ्च-भूतात्मको देहस् त्वम् एव परमात्मान्तर्यामी ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृशं तु सौन्दर्यादिकं युक्तम् एवेत्य् आह—नम इति । भगवते निजाशेष-भगवत्ता-प्रकटन-पराय, यतो वसुदेव-नन्दनाय, अत एव विष्णवे स्व-महिम्ना जगद्-व्यापकाय, तच् चान्तर् बहिश् चेत्य् आह—पुरुषाय, अन्तर्यामितया सर्वेषां हृदि सदा वर्तमानाय । किं च, आदि-बीजाय मधुर-मधुर-विचित्र-बाल्यादि-क्रीडाया निदानाय—अन्यत्र तादृश-बाल्य-क्रीडाद्य्-अविस्तारणात् । यद् वा, किं [च]{।मर्क्}, पुरुषाणां निज-जनानाम् आया प्रेमादिलाभस्तस्यादिबीजाय, न च तद्-अर्थं तेषां विज्ञापनापेक्षास्तीत्य् आह—पूर्णेति । यद् वा, किं च, पूर्णा आत्मारामास् तेषाम् अपि बोधो मुक्ति तुच्छताया भक्त्युत्कृष्टतायाश् च ज्ञानम् । किं वा, बोधयति भगवत्त्वादि कम् इति बोधो भक्तियोगो यस्मात्तस्मै, तेषाम् अपि स्वस्मिन् भक्तौ प्रवर्तकायेत्य् अर्थः । तथा च श्रीकुन्तीस्तुतो
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येमहि स्त्रियः ॥ [भा।पु १.८.२० ] इति ॥२७॥
अजायेति सदातनतया तस्मै कारणराहित्यमुक्तम्, परेषां कारणानां महदादीनाम्, अवरेषां च कार्याणां ब्रह्माण्डादीनाम् । किं वा, परे उत्कृष्टाः श्रीब्रह्मादयः, अवरे अपकृष्टाः स्थावरादयस् तेषाम् आत्मन्न् इति जीवानां भगवदंशतयाभेदाभिप्रायेण न केवलमात्मा, तेषाम् अन्तर्यामी च त्वम् एवेत्य् आह—हे परमात्मन्निति, अन्यत् तैर् व्याख्यातम् । पक्षान्तरे श्रीवसुदेवपुत्रतया परिच्छिन्नवद्दृश्यमानरूपत्वे\ऽपि बहिरन्तर्व्यापकत्वं घटत एवाद्नुतानन्तशक्तित्वाद् इत्य् आह—अजायेति । निर्विकारायाजन्मविकाराय, जन्मविकाराभावेन तदनन्तरान्यविकाराणाम् अप्य् अभावात् । तथाप्य् अस्य विश्वस्य जनयित्र ।
ननु, निर्विकारस्य जनयितृत्वं किल विरुद्ध स्यात् ? परमेश्वरत्वात् सर्व घटेतैवेत्य् आह—ब्रह्मणे ब्रह्मघनमूर्तये, अत एवानन्तशक्तये, अन्यत् समानम् । तत्रैव पक्षान्तरे निजजनलाभनिदानत्वादिकम् एव दर्शयति—अजायेति । ब्रह्मणे श्रीब्रह्मार्थमस्य विश्वस्य वोधस्य वा जनयित्रे, श्रीब्रह्मणस्तत् पुरुषतां दर्शयंस्तम् एव विशिष्टि—अजायेति, आत् विष्णोर्जायत इत्यजस्तस्मै, जननं च वह्वाश्चर्यमयत्वादिनेत्याशयेनाह—अनन्तेति । अनेन महावात्सल्यं च दर्शितम् । यद् वा, ननु श्रीब्रह्मैव विश्वं सृजति ? सत्यम्, त्वदद्भतशक्त्यै वेत्याशयेनाह—अनन्तेति ।
ननु, स्वीयानां तथास् तु नाम, आत्मारामाणां भक्तो प्रवर्त्तनं कुतः ? निजकारुण्यप्रभावाद् एवेत्य् आह—परेति, परे पित्रादयः, अवरे मात्रादयस् तेषाम् आत्मन् ! स्नेहेन पुत्रादिपालने प्रवर्तक ! पित्रादिभ्यो\ऽप्य् अधिकाधिकं सहजं त्वत्कारुण्यम् इत्य् आह—परमात्मन्न् इति । त्वत्कारुण्यार्णवांशविभाग-मात्रलाभे नैवान्येषां सर्वेषां कारुण्योदयाद् इति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईदृशं तु सौन्दर्यादिकं युक्तम् एवेत्य् आह—नम इति । भगवते निजाशेष-गुण-प्रकटन-पराय यतः वसुदेव-नन्दनाय अत एव विष्णवे स्व-महिम्ना च जगद्-व्यापकाय । किं च, पुरुषाणां निज-जनानाम् आयः प्रेमादि-लाभस् तस्यादि-बीजाय न च तद्-अर्थं तेषां विज्ञापनापेक्षास्तीत्य् आह—पूर्णेति ॥२७॥
श्रीवसुदेवसुतस्य तवैवैतदैश्वर्यम् इत्य् आह—अजायेत्य्-आदि ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तवैश्वर्यामृतसिद्धावप्यहं खेलयन्त्येवास्मीत्य् आह—नम इति । ह्बगवते निरतिशयैश्वर्याय भगवत्त्वेऽपि वासुदेवाय वासुदेवे भगवत्म् ईत्युक्तेर्वसुदेवनन्दनाय स्वयं भगवते इत्य् अर्थः । वसुदेवपुत्रत्वेऽपि विष्णवे सर्व-व्यापकाय सर्व-व्यापकत्वेऽपि पुरुषाय पुरुषवत् परिच्छिन्नायेत्य् अर्थः । पुरुषवत् परिच्छिन्नत्वेऽपि आदिबीजाय सर्वादेः श्रीनारायणस्याप्य् आविर्भावप्रयोजकाय ब्रह्ममोहनलीलायां तथा दर्शनात् । तादृशादिबीजत्वेऽपि पूर्णश्चासौ बोधश्चेति पूर्णं ज्ञानस्वरूपं यद्ब्रह्म तस्मै । अप्राकृतानन्तविशेषवत्त्वेऽपि त्वम् एव निर्विशेषं ब्रह्मेत्य् अर्थः ॥२७॥
अजायेति त्वमजो\ऽप्य् अथ चास्य विश्वस्य जनयिता जनयितापि त्वम् एव ब्रह्मनिर्विशेषस्वरूपं निर्विशेषरूपम् अपि त्वम् एवानन्तशक्तिः सविशेषस्वरूपश् च अनन्तशक्तित्वेऽपि तवतिस्र एव शक्तयस्तटस्थबहिरङ्गन्तरङ्ग-लक्षणास्ताश् च त्वम् एव इत्य् आह—परावरेषाम् उत्कृष्टनिकृष्टानामात्मा जीवस्तम् एव त्वम् एव भूतात्मा पञ्चभूतात्मको देहः त्वम् एव परमात्मा अन्तर्यामी ॥२८॥
॥ १०.५९.२९ ॥
त्वं वै सिसृक्षुर् अज उत्कटं प्रभो
तमो निरोधाय बिभर्ष्य् असंवृतः ।
स्थानाय सत्त्वं जगतो जगत्-पते
कालः प्रधानं पुरुषो भवान् परः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गुणा विश्वोत्पत्त्यादिहेतवस् ते च प्रधानस्य् एव तस्य च पुरुषः क्षोभकस् तत्र च कालो निमित्तम् इति प्रसिद्धं किमत्राहं तत्राह—त्वं वा इति । तमसो धारणे\ऽप्य् असंवृत एव । स्थानाय पालनाय । जगतः सृष्ट्याद्यर्थमुत्कटं रजआदि त्वम् एव बिभर्षि सृजसीत्य् अर्थः । कालप्रधानपुरुषाश् च त्वद्व्यतिरिक्ता न सन्ति त्वं तु परः सर्व-व्यतिरिक्तः । अतस् त्वम् एव जनयितेत्य् अर्थः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर्भग्यन्तरेणाशङ्कते—नन्व् इति । ते च गुणाः । तस्य प्रधानस्य । तत्र च क्षोभे । पूर्ववदाह—किमत्राहम् इति । निरोधाय नाशाय । उत्कटमधिकम् । इत्य् अर्थ इति—रजोधारणेन सगं करोषीति भावः । अतः सर्व-व्यतिरिक्तत्वात । इत्यथ इति—काल दीनां सामग्री-मात्रत्वात्त्वम् एव मुख्य कारणम् इति भावः । समयभेदेनास्य सृष्टयादिकं मायाशक्त्या त्वम् एव करोषीत्य् आह—त्वम् इति । उत्कटम् उद्रिक्तम् । असंवृतो न तु जीववत्तैः संवृतः । अतस्त्वच्-छक्तिकार्यत्वाद् इदं जगत्त्वदात्मकम् । ये च नित्याः कालमायाजीवास्ते\ऽपि त्वच्-छक्तित्वात्त्वदात्मका एवेत्य् आह—काल इति । किन्तु स्वरूप-शक्त्या उश्चक्तेभ्य एतेभ्यः परो\ऽन्यः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु एक एवात्मान्तर्यामी चेति विरुद्धं स्यात्, न, कार्य-कारणात्मकं जगत्त्वदभिन्नं त्वं च तस्माद्भिन्न एवेति भेदाभेदन्यायेनाह—त्वम् इति, वै एव, त्वम् एव, उत्कटम् इति साम्येन सृष्ट्याद्यसिद्धेः । प्रभो इति विचित्रजगत्सृष्टिसामर्थ्याज्जिगत्पत इति स्वभावत एव पालकत्वात्, विशेषतश् च तदानीं पालने प्रवृत्तः । अत एवास्यान्ते निर्देशः, पक्षान्तरद्वये च विरोधपरिहारतः समानम् एव । अन्यत् तैर् व्याख्यातम् । यद् वा, असंवृतः सृष्ट्यादिकर्मभिर् अव्याप्तः, किंवास्य परेणान्वयः, पालनार्थं स्वयम् एव श्रीविष्णवादिरूपेण प्रकटः सन्न् इत्य् अर्थः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव त्वम् एव उत्कटम् इति साम्येन सृष्ट्याद्यासिद्धेः प्रभो इति विचित्रजगत्सृष्टिसामर्थ्यात् जगत्पत इति स्वभावत एव पालकत्वात् अन्यत्तः यद् वा, असम्वृतः सृष्ट्यादिकर्मभिर् अव्याप्तः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समय-भेदेनास्य विश्वस्य मायाशक्त्या सृष्ट्यादिकं करोषीत्य् आह—त्वम् इति । उत्कटमुद्रिक्तं रजस्तमःसत्त्वं च बिभर्षि । असंवृतः, न तु जीववत् तैः संवृतः । अतस् तच्-छक्ति-कार्यत्वाद् इदं जगत् त्वद्-आत्मकम् । ये च नित्याः काल-माया-जीवास् तेऽपि त्वच्-छक्तित्वात् त्वद्-आत्मिका एवेत्य् आह—काल इत्य्-आदि । किन्तु त्वं स्वरूप-शक्त्या उक्तेभ्यः एतेभ्यः परोऽन्यः ॥२९॥
॥ १०.५९.३० ॥
अहं पयो ज्योतिरथानिलो नभो
मात्राणि देवा मन इन्द्रियाणि ।
कर्ता महानित्यखिलं चराचरं
त्वय्य् अद्वितीये भगवन्नयं भ्रमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कार्य-कारणप्रपञ्चस्य तदव्यतिरेकं तस्य च सर्व-व्यतिरेकमुपपादयति । अहम् इति । अहं भूमिः । मात्राणीति देवा मन इन्द्रियाणीति च त्रिविधाहङ्कारकार्याणि । कर्ताऽहङ्कारः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदव्यतिरेकं तदभिन्नत्वम् । तस्य भगवतः सर्व-व्यतिरेकं सर्वातिरिक्तत्वम् । मां स्वविषयज्ञानस्य सत्त्वेन त्रायन्त इति मात्रा इन्द्रियाणि । अथ पुनरर्थे । अयं पृथिव्यादिरूपः प्रपञ्चः शुक्तिरजतवद्भ्रम एव न तात्त्विक इति भावः । यद् वा, —अयं जगद्भ्रमः चक्रमणवद्विश्वस्य परिवर्तनं त्वयि नियतम् इत्य् अर्थः । भ्रमशब्दस्यारोपपरत्वे\ऽर्थक्रियानुपपत्तर् इति तीर्थः ।
ननु, तत्तद्पश्चेत्कथं परत्वं तत्राह—अहम् इति । तेषां त्वच्-छक्तिरूप-मात्रत्वेन तदनन्यत्वान्न विद्यते द्वितीयं यस्य तथा-भूते\ऽपि त्वयि पूर्वोक्त कार्यं चराचरं भ्रमो भ्रमेणैव प्रतीतम् इत्य् अर्थः । अन्तरङ्गशक्त्यालिङ्गिता । ते बहिरङ्गशक्तिकान स्पर्शः । आकाशादीनां वाय्वादिभिस्तद्धर्मैर् इव चेति भावः । तद्-उक्तम् मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि इति ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ समुच्चये, चकाराद्बुद्धिचित्ते, त्वय्य् अद्वितोये त्वयि भिन्नतयास्तीत्ययं भ्रमः । तथा सति तस्यापि सत्यत्वनित्यत्वप्रसङ्गात् । ननु तथास् तु नाम, को\ऽत्र दोषः ? तत्राह—अद्वितीय इति । तथा सति एकम् एवाद्वितीयम् [ छा ६।२।१] इत्य्-आदि—श्रत्यक्त्या द्वितीयत्वबाधापत्तर् इति भावः । चराचरस्य त्वदभिन्नत्वे\ऽपि ततस् त्वं भिन्न एवेत्या भगवन्निति, हे परमेश्वर ! अत इदं सत्रं त्वदीयत्वेन त्वदव्यतिरिक्तम्, त्वं च भगवत्वेनास्मद्व्यतिरिक्त एवेति । यद् वा, अद्वितोये\ऽपि त्वय्य् अस्तीत्याधाराधेयभावेन भेदो\ऽयं भ्रमः किम् ? काका, अपि तु नैव । त्वदंशतया सच्चिदानन्दस्वरूपाणाम् अपि जीवानां चिद्रूपत्वेन भेदराहित्ये\ऽपि समुद्रस्य तरङ्गाणाम् इव पार्थक्यात्, अतस्तरङ्गेभ्यः समुद्रस्य् एव ततस् तव भिन्नता सिद्धैवेत्य् आह—भगवनिति । तरङ्गाणां समुद्रत्वस्य् एव जीवानां भगवत्त्वस्याभावात् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तत्तद्रूपश्चेत्कथं परत्वम्, तत्राह—अहम् इति । तत्त्वानन्तर्यक्रमेणोक्तत्वादथशब्दः चकाराबुद्धिचित्ते तेषां त्वच्-छक्तित्वात् कार्यरूप-मात्रत्वेन त्वदनन्यत्वान्न विद्यते द्वितीयं यस्य तथा-भूते\ऽपि त्वयि इति पूर्वोक्तं कार्यं चराचरं भ्रमो भ्रमेणैव प्रतीतम् इत्य् अर्थः । अन्तरङ्गशक्त्यालिङ्गितस्य ते बहिरङ्गशक्तिकार्यन स्पर्शः आकाशादीनां वाय्वादिभिः तद्धर्मैर् इवचेति भावः । यथोक्तं प्रथमे श्रीमदर्जुनेन मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि इति तस्मात्सर्वम् एव तुच्छं तव कोपविषयो न भवति किन्तु कृपाविषय एवेति भावः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु, तत्तद्रूपश्चेति कथं परत्वं ? तत्राह—अहम् इति । तेषां त्वच्-छक्तिकार्यरूप-मात्रत्वेन तदनन्यत्वान्न विद्यते द्वितीयं यस्य तथा-भूतेऽपि त्वयीति पूर्वोक्तकार्यं चराचरं भ्रमो भ्रमेणैव प्रतीतिम् इत्य् अर्थः । अन्तरङ्गशक्त्यालिङ्गितस्य ते बहिरङ्गशक्तिकार्यैर् न स्पर्शः । आकाशादीनां वाय्वादिभिस् तद्धर्मैर् इव चेति भावः । तथोक्तं—मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि [भा।पु। १.७.२३] इति ॥३०-४२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, ममाप्य् अयं देहो भूतात्मक एव चक्षुरादीन्द्रियाण्यपि वैकारिकाण्येवेत्यतो मां मायाशवलं ब्रह्मेत्याचक्षते कथमहमेतेभ्यः पर इत्यत आह—अहं भूमिः मात्राणि विषयाः । कर्ता अहङ्कारः महांश्चित्तम् इत्य् एतत् सर्वं चरं मनश् चक्षुरादि । अचरं भूमिप्राणादि । त्वयि भ्रमः ये त्वय्य् अपि भूतेन्द्रियादिकं ब्रुवते ते भ्रान्ता एवेत्य् अर्थः । यतोऽद्वितीये न विद्यते द्वितीयं यस्मिन् त्वदीयं देहेन्द्रियादिकं सर्वं त्वदात्मकं चिद् एव न तु त्वत्तः अद्वितीयं मायादिकम् इत्य् अर्थः ॥३०॥
॥ १०.५९.३१ ॥
तस्यात्मजोऽयं तव पाद-पङ्कजं
भीतः प्रपन्नार्ति-हरोपसादितः ।
तत् पालयैनं कुरु हस्त-पङ्कजं
शिरस्य् अमुष्याखिल-कल्मषापहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स्तुत्वा प्रार्थयते, तस्येति । हे प्रपन्नार्ति-हर ! तस्य नरकस्य अयं भगदत्तो नाम भीतोऽत एव मया तव पादपङ्कजम् उपसादितः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मज औरसः । मां कूतो न नमतीति चेदाहभीतस्त्रस्तः । अत एव त्रस्तत्वाद् एव । अहं किं करोमीत्यत आह—यत उपसादितस्तत्ततो हेतोः । एनं भगदत्तम् । ननु प्रस्तुतं किं तदुच्यताम्, तत्राह—तस्येति । महादुष्टत्वेन नामाग्रहणम् ।
ननु, दुष्टस्यात्मजत्वादयम् अपि वध्य एव तत्राह—उपसादित इति, शरणं प्रापितः । किं च, —अस्यापितृकत्वादिदुःखश् च हरणीयम् इत्य् आह—प्रपन्नेति । तस्मादकुतश्चिद्भयमप्येनं विधेहोत्याशयेनाह—कुर्वीति ।
ननु, तथा सति पितृवष्टतां करिष्यति तत्राह—अखिलेति । त्वच्छ्रीहस्तस्पर्शप्रभावेण नायमपराधं कर्तेति भावः । पङ्कजरूपकेण स्वयम् एव तापापगमादिकं ध्वनितम् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्येति महा-दुष्टत्वेन तन्-नाम्नो\ऽग्राह्यत्वात् । ननु, दुष्टस्यात्मजत्वाद् अयम् अपि वध्य एव, तत्राह—उपसादित इति, शरणागतत्वात् । किञ्चास्य पितृ-शोकादि-दुःखं च हर्तव्यम् इत्य् आह—प्रपन्नेति । तत् तस्माद् अकुतश्चिद् भयम् अप्य् एनं विधेहीत्य् आशयेनाह—कुर्व् इति ।
ननु, तथा सति पितृवदुष्टतां करिष्यति, तत्राह—अखिलेति । त्वच्-छ्री-हस्त-स्पर्श-प्रभावेणायम् अपराधं न कर्तेति भावः । पङ्कजरूपकेण श्रीहस्तस्य सुशीतलतादिसचनतः स्वयम् एवाशेषतापापगमादिकम् अपि ध्वनितम् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, प्रस्तुतं किं तद् एवोच्यतां तत्राह—तस्येति । महादुष्टत्वेन नामाग्रहणं ननु दुष्टस्यात्मजत्वादयम् अपि वध्य एव, तत्राह उपसादित एति । शरणं प्रापितः किञ्चास्य पितृकत्वादिदुःखं च हरणीयम् इत्य् आह—प्रपन्नेति । तस्मादकुतश्विद्भयमप्येनं विधेहीत्याशयेनाह, कुर्व् इति । ननु, तथा सति पितवदुष्टतां करिष्यति तत्राह अखिलेति । त्वच्छ्रीहस्तस्पर्शप्रभावेनायमपराधं न कर्तेति भावः पङ्कजरूपकेण स्वयम् एव तापापगमादिकं ध्वनितम् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं स्तुत्वा प्रार्थयते—तस्येति । अयं भगदत्तो नाम भीतः । अत एव मया तव पादपङ्कजमुपसादित इति ॥३१-३२॥
॥ १०.५९.३२ ॥
श्री-शुक उवाच—
इति भूम्य्-अर्थितो वाग्भिर् भगवान् भक्ति-नम्रया ।
दत्त्वाभयं भौम-गृहं प्राविशत् सकल-र्द्धिमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभयं दत्त्वा ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीथम् । वाग्भिर् एवार्चितस्ताभिर् एव नानोपचार-गणनाद् भावितः । ऋद्धिश् चोक्ता हरि-वंशे—
न वै राज्ञा कुबेरेण न शक्रेण यमेन च ।
रत्नसन्निचयस्तादृग्दृष्टपूर्वो न च श्रुतः ॥ इति ।
किं च, —तत्रैव धनरक्षिणां दैत्यानाम् उक्तौ—
देवगन्धर्व रत्नानि पन्नगानां च यद्वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने ॥ इति ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वाग्भिर् अच्चितः सम्मानितः, वाचामुत्कृष्टत्वेन भगवत्तोषहेतुत्वात् । तत्रैव गुणविशेषं च दर्शयति—भक्तोति । भगवान् परमदयालुः, अत एवाभयं तस्मै दत्त्वा प्रकर्षेण श्रीसत्यभामेर्ष्यापरिहारार्थं श्रीगरुडादवतीर्यकाकित्वादिना, किं वा तया सत्यभामया, तेन गरुडेन, भूम्या, भगदत्तेन, कोशरक्षकादिभिश् च साहित्य्-आदिनाविशत् । भूमिपुत्रगृहत्वाद् एव सकाद्धमत्, ऋद्धिश् च वणिता श्री-हरि-वंशे
न वै राज्ञा कुबेरेण न शक्रेण यमेन च ।
रत्नसन्निचयस्तादग दृष्टपूर्वा न च श्रुतः ॥ [ह।वं। २.६४.१८] इति ।
किं च, तत्रैव धनरक्षिणां दैत्यानामुक्तौ—
देव-गन्धर्व-रत्नानि पन्नगानां च यद् वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने ॥ [ह।वं। २.६४.१७] इति ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वाग्भिर् एवाचितः प्रसादित इति किञ्चित्करोत्यण्वपियत्स्वदत्तम् इत्य् उक्त स्वभावत्वेन ताभिर् एव नानोपचारमननाद्भावितः ऋद्धिश् च वणिता श्री-हरि-वंशे—
न वै राज्ञा कुबेरेण न शक्रेण यमेन च ।
रत्नसन्निचयस्तादृग्दृष्टपूर्वा न च श्रुतः ॥ [ह।वं। २.६४.१८] इति ।
किं च, तत्रैव धनरक्षिणां दैत्यानामुक्तौ—
देव-गन्धर्व-रत्नानि पन्नगानां च यद् वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने ॥ [ह।वं। २.६४.१७] इति ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५९.३३ ॥
तत्र राजन्य-कन्यानां षट्सहस्राधिकायुतम् ।
भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शताधिकम् इत्य् अपि ज्ञातव्यम् । यथाह श्री-पराशरः,
कन्या-पुरे स कन्यानां षोडशातुल-विक्रमः ।
शताधिकानि ददृशे सहस्राणि महामते ॥ [वि।पु। ५.२९.३१] इति ।
राजभ्य इत्य् उपलक्षणं सिद्धादिभ्यश् चेति । तथा च तेनैवोक्तम्,
देव-सिद्धासुरादीनां नृपाणां च जनार्दन ।
हृत्वा हि सोऽसुरः कन्या रुरोध निज-मन्दिरे ॥ [वि।पु। ५.२९.९] इति ॥३३-३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र भौमगृहे । पराशर-मतम् आश्रित्य समासः । षट्सहस्राणि च अधिकानि च अयुतश् चैतेषां समाहारस् तथा । अधिक-पदम् अत्र शतार्थकम् । तेनैव पराशरेण । सो\ऽसुरो नरकासुरः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरिर् इति तासां मनोहरणात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विक्रम्य पराक्रम्य राजभ्यो भौमेनाहृतानाम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : षट्सहस्रेणाधिकमयुतं शताधिकम् अपि विष्णु-पुराणदृष्ट्या ज्ञेयम् । राजभ्य इत्य् उपलक्षणम् । सिद्धादिभिश् च सकाशादाहृतानाम् ॥३३-३५॥
॥ १०.५९.३४-३५ ॥
तं प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः ।
मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥
भूयात् पतिर् अयं मह्यं धाता तद्-अनुमोदताम् ।
इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् । अभितः सर्वतोभावेनेष्टं वाञ्छितं दैवेन प्राचीनतद्भक्तिरूपेण प्रापितम् । तद्-उक्तं हरि-वंशे—
निवसन्त्यो यथा देव्यो\ऽसुखिन्यः कामवर्जिताः ।
वरिवर्महाबाहुरेकवेणी धरास्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश् च नियतेन्द्रियाः ।
व्रतोपवासतत्त्वज्ञाः काङ्क्षन्त्यः कृष्णदर्शनम् ॥ इति ॥३४॥
अयं कृष्णः । धाता ईशः । तदस्मत्पतित्वम् । मह्यं ममेति पृथक्पृथग् निगूढसङ्कल्पादेकवचनम् ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य साक्षाद् दृष्ट्वा हरिणा वीक्षणेनैव वा विशेषेण मोहिताः । किं वा, स्वार्थे इण, विमूढाः सत्यः, यतः स्त्रियः, अभितः सर्वतो-भावेनेष्टं चिराद् वाञ्छितं तं च सुदुर्लभम् अपि देवेन निज-शुभ-दृष्टेन तत्-कारुण्येन वा प्रापितं पति पतित्वेन वविरे । तथा च तत्रैव हरि-वंशे—
निवसन्त्यो यथा देव्यो\ऽसुखिन्यः काम-वर्जिताः ।
वरिवर्महा-बाहुर् एक-वेणी धरा-स्त्रियः ।
सर्वाः काषाय-वासिन्यः सर्वाश् च नियतेन्द्रियाः ।
व्रतोपवास-तत्त्वज्ञाः काङ्क्षन्त्यः कृष्ण-दर्शनम् ॥ [ह।वं। २.६४.११,१४-१६] इति ॥३४॥
कथं वव्रिरे ? तत्राह—भूयाद् इति । मह्यं मम पतिः, ममेत्य् एकत्वं भावोद्रेकेणासापत्न्याय प्रत्येकं सर्वाभिर् अन्तः-प्रार्थनात्, अत एवोक्तम्—पृथग् इति, धातेति जगत्पोषणादिना शक्तिविशेषो\ऽभिप्रेतः, अतो\ऽनुमोदताम्, कृष्णे तासां चित्ताकर्षके भगवति ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वोक्ष्य साक्षाद्दृष्व्टा विमोहिताः हरिणा अभितः सर्वतो भावनेष्टं चिराद् वाञ्छितं तं च सुदुर्लभम् अपि देवेन प्राचीनतद्भक्तिरूपेण उपसादितं प्रापितं पतिं पतित्वेनैव वबिरे तथा च तत्रैव—
निवसन्त्यो यथा देव्यः सुखिन्यः काम-वर्जिताः ।
परिवव्रुर् महाबाहुम् एक-वेणी-धराः स्त्रियः ॥
सर्वाः काषाय-वासिन्यः सर्वाश् च नियतेन्द्रियाः ।
व्रतोपवास-तत्त्वज्ञाः काङ्क्षन्त्यः कृष्ण-दर्शनम् ॥ [ह।वं। २.६४.११,१४-१६] इति ॥३४॥
कथं परिवव्रिरे ? तदाह—भूयाद् इति । मह्यं मम पतिः पृथक् पृथक् निगूढ-सङ्कल्पाद् एक-वचनम् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५९.३६-३८ ॥
ताः प्राहिणोद् द्वारवतीं सुमृष्ट-विरजो\ऽम्बराः ।
नरयानैर् महा-कोशान् रथाश्व-द्रविणं महत् ॥
ऐरावत-कुलेभांश् च चतुर्दन्तांस् तरस्विनः ।
पाण्डुरांश् च चतुःषष्टिं प्रेरयामास केशवः ॥
गत्वा सुरेन्द्र-भवनं दत्त्वादित्यै च कुण्डले ।
पूजितस् त्रिदशेन्द्रेण महेन्द्राण्या च स-प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राहिणोत् प्रस्थापयाम् आस । सुमृष्टाः कमनीयाश् च ता विरजोम्बराश् च ताः । नरयानैः शिबिकाभिः । अपि च महाकोशानिति । सप्रियः सत्यभामासहितः ॥३६-३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता भौमगृहस्थाः । सुमृष्टाः स्नपनादिना निर्मलीकृताश् च ता विरजोम्बराः शुद्धवस्त्राः, तथा-भूताः कृत्वा प्राहिणोद् इत्य् अर्थः । द्रविणं रत्नादिकं गवादिकं मदनसारिकादिकं च । महत्त्वं बहुमूल्यादिना बाहुल्येन च, श्रेष्ठम् । तद्-उक्तं हरि-वंशे तद्धनाध्यक्षैः—
इमानि मणिरत्नानि विविधानि बहूनि च ।
गोषु चापि भवेद्यावत्कामस्तावज्जनार्दन ॥
तावतीःप्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ।
कामव्याहारिणश् चैव पक्षिणः प्रियदर्शनाः ॥
चन्दनागुरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत्त्रिषु लोकेषु धर्मेणाधिगतं तव ॥ इति ॥३६॥
पाण्डुराञ्छ्वेतवर्णान् । चतुःषष्टिं चतुःषष्ठिसङ्ख्याकान् । चतुःषष्टिं चेति चकारात्तरस्विनो\ऽन्यास्तावदूनषट्सहस्राणि चेति ज्ञेयम् । तद्-उक्तं वैष्णवे—
चतुर्दण्ष्ट्रान् गजांश्चोग्रान् षट्सहस्रान्स दृष्टवान् ।
कांबोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥
कन्यास्ताश् च तथा नागांस्तानश्वान्द्वारकापुरीम् ।
प्रापयामास गोविन्दः सद्यो नरकिंङ्कः ॥ इति ।
यच् च हरि-वंशे रक्षिणामुक्तौ—
भीमरूपाश् च मातङ्गाः प्रबलाविद्धताङ्कुशाः ।
हेमसूत्रमहाकक्षाश्चापतोरणमालिनः ॥
रुचिराभिः पताकाभिः सरला रुचिराङ्कुराः ।
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ॥ इति ।
तच्च, चतुर्दण्ष्ट्रेतरसङ्ग्रहादुक्तेभ्य आधिक्यं ज्ञेयम् । द्वितीयचकारात्तान् अपि प्रेषयामासेति ज्ञेयम् । एवं वारुणं छत्रं मणिपर्वतं च तत्र न प्रेषयामास किन्तु गरुडोपरि निधाय दिवं गत इति । तथा च तत्रैव—
तादृशं वारुणं छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिगरुडे पतगेश्वरे ॥ इति ।
श्री-हरि-वंशे च—
ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षंवर्षंर्तमारुरोह बिहङ्गमम् ॥ इति ।
किञ्चाग्रे—
तस्य पर्वत राजस्य शृङ्गं यत्परमाचितम् ।
विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम् ॥
सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रशस्तशिलातलम् ॥
न्यङ्कुभिश् च वराहैश् च रुरुभिश् च निषेवितम् ।
सप्रपातमहासानुं विचित्रशिखरद्रुमम् ॥
अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवंजीवकसङ्घैश् च बर्हिभिश् च निषेवितम् ॥
तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भास्वरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ॥
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाह लीलया पक्षी गरुडः पततां वरः ॥ इति ॥३७॥
सुरेन्द्रभवनगमनादिप्रकारविशेषश् च श्री-विष्णु-पुराणे—
गरुडो वारुणं छत्रं तथैव मणि-पर्वतम् ।
स-भार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥१॥
ततः शङ्खम् उपाध्माय स्वर्ग-द्वारं गतो हरिः ।
उपतस्थुस् ततो देवाः सार्घ्य-हस्ता जनार्दनम् ॥२॥
स देवैर् अर्चितः कृष्णो देव-मातुर् निवेशनम् ।
सिताभ्र-शिखराकारं प्रविश्य ददृशेऽदितिम् ॥३॥
स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे ।
ददौ नरक-नाशं च शशंसास्यै जनार्दनः ॥ [वि।पु। ५.३०.१-४] इति ।
किं च, —
आदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत् पूजयामास बहुमान-पुरःसरम् ॥ [वि।पु। ५.३०.२८] इति ।
श्री-हरि-वंशे च—
अर्चितो देवराजेन रत्नैश् च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥ इत्य्-आदि ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नरयानैः प्राहिणोत् । कथम्भूताः ? सतीः सुष्ठु मष्टाः स्नपनादिना निर्मलीकृताश् च ता विरजाम्बराश् च तथा-भूताः कृत्वेत्य् अर्थः । द्रविणं रत्नादिकं गवादिकं शुकादिकं च, महद्बाहुल्येन बहुमुल्यत्वादिना च श्रेष्ठम्, तथा च तत्रैव धनरक्षिणामुक्तौ हरि-वंशे—
इमानि मणिरत्नानि विविधानि बहूनि च ।
गोषु चापि भवेद्यावत्कामस्तावज्जनार्दन ॥
ताबतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ।
कामव्याहारिणश् चैव पक्षिणः प्रियदर्शनाः ॥
चन्दनागरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत्त्रिषु लोकेषु धर्मेणाधिगतं तव ॥ [ह।वं। २.६४.११,१४-१६] इति ॥३६॥
चतुःषष्टिञ्चेति चकारात् तरस्विभ्यो\ऽन्यान् तावदुनषट्सहस्राणि चेति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
चतुर्दण्ष्ट्रान् गजांश्चोग्रान् षट्सहस्रान्स दृष्टवान् ।
कांबोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥
कन्यास्ताश् च तथा नागांस्तानश्वान्द्वारकापुरीम् ।
प्रापयामास गोविन्दः सद्यो नरकिंङ्कः ॥ [ह।व ५।२९।३२-३३] इति ।
यच् च हरि-वंशे रक्षिणामुक्तौ—
भीमरूपाश् च मातङ्गाः प्रबलाविद्धताङ्कुशाः ।
हेमसूत्रमहाकक्षाश्चापतोरणमालिनः ॥
रुचिराभिः पताकाभिः सरला रुचिराङ्कुराः ।
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ॥ [ह।वं। २.६४।११,१२,१३ ] इति ।
तच् च चतुर्दण्ष्ट्रेत रसङ्ग्रहानुक्तेभ्य आधिक्यं ज्ञेयम् । चकाराद् एव तान् अपि प्रेषयामासेति च । द्वारवत्यां प्रेषणे हेतुः—माधवो मधुकुलोद्भव इति यादवानामानन्दार्थम् इति भावः ॥३७॥
एवं वारुणच्छत्रं मणिपर्वतं च तत्र न प्रेषयामास, किन्तु गरुडोपरि निधाय दिवं गत इति ज्ञेयम् । तथा च तत्रैव विष्णु-पुराणे—
ददृशे वारुणं छत्रं तत्रैव मणिपर्वतम् ।
आरोपयामास हरिर् गरुडे पतगेश्वरे ॥ [वि।पु ५।२९।३४ ] । इति ।
श्री-हरि-वंशे\ऽपि—
ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ॥
किञ्चाग्रे—
तस्य पर्वतराजस्य शृङ्गं यत् परमार्च्चितम् ।
विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम् ॥
सपक्षिगणमातङ्गं समगव्यालपादपम् ।
शाखामृगग्णाकीर्णं सुप्रस्तरशिलातलम् ॥
न्यङ्कुभिश् च वराहैश् च रुरुभिश् च निषेवितम् ।
सप्रपात-महासानं विचित्रशिखरद्रुमम् ॥
अत्यद्भुतमचिन्त्यं च मृगवृन्द-विलोडितम् ।
जीवं जीवकसङ्घैश् च बहिभिश् च निषेवितम् ॥
तदप्यतिबलो विष्णुदोर्भ्यामुत्पाट्य भास्वरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ॥
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाह लीलया पक्षी गरुडः पतताम्बरः ॥ इति ।
चकाराद्वारुणच्छत्रं मणिपर्वतं च भौमकिङ्करैर् वोढमशक्यं श्रीगरुडोपर्य् एव निधाय स्वसङ्गत्या द्वारकायामानयद् इति श्री-हरिवंशोक्त्यनुसारेण ज्ञेयम् । तथा च तत्र पारिजातहरणानन्तर-द्वारकाप्रवेशे—
प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ।
तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ॥ इति ॥
किं च, —
ततो\ऽन्तःपुरमध्ये तं सशृङ्गं मणिपर्वतम् ।
न्यवेशयदमेयात्मा वृष्णिभिः सहितो\ऽच्युतः ॥ इति ।
सुरेन्द्रभवनगमनादिप्रकारविशेषश् च श्री-विष्णु-पुराणे—
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभायं च हृषीकेशं लीलयैव वहन्ययौ ॥
ततः शङ्खमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।
उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥
स देवैर् अर्चितः कृष्णो देवम् आतुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशे दितिम् ॥
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।
ददौ नरकनाशं च शशसास्यै जनार्दनः ॥ [वि।पु ५।३०।१-४ ] । इति ।
किं च, —
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम् ॥ [ वि।पु ५।३०।२८] इति ।
श्री-हरि-वंशे च—
अर्चितो देवराजेन रत्नैश् च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥ इत्य्-आदि ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नरयानैः प्राहिणोत्, कथम्भूताः सतीः ? सुष्ठु मृष्टाः स्नपनादिना निर्मलीकृताच ताः विरजो\ऽम्बराश् च तथा-भूताः कृत्वेत्य् अर्थः । द्रविणं रत्नादिकं गवादिकं मदनशारिकादिकं च महत्त्वं बाहुल्येन बहुमूल्यत्वादिना च श्रैष्ठ्यं तथा च तत्रैव धनरक्षिणामुक्तौ—
इमानि मणिरत्नानि विविधानि बहूनि च ।
गोषु चापि भवेद्यावत्कामस्तावज्जनार्दन ॥
ताबतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ।
कामव्याहारिणश् चैव पक्षिणः प्रियदर्शनाः ॥
चन्दनागरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत्त्रिषु लोकेषु धर्मेणाधिगतं तव ॥ [ह।वं। २.६४।११, १४, १५, १६ ] । इति ॥३६॥
चतुष्षष्टिञ्चेति चकारात् तरस्विन्योन्यान् तावदूनषट्सहस्राणि चेति ज्ञेयम्, तथा च श्री-विष्णु-पुराणे—
चतुर्दण्ष्ट्रान् गजांश्चोग्रान् षट्सहस्रान्स दृष्टवान् ।
कांबोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥
कन्यास्ताश् च तथा नागांस्तानश्वान्द्वारकापुरीम् ।
प्रापयामास गोविन्दः सद्यो नरकिंङ्कः ॥ इति ।
यच् च हरि-वंशे रक्षिणामुक्तौ—
भीमरूपाश् च मातङ्गाः प्रबलाविद्धताङ्कुशाः ।
हेमसूत्रमहाकक्षाश्चापतोरणमालिनः ॥
रुचिराभिः पताकाभिः सरला रुचिराङ्कुराः ।
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ॥ इति ।
तच्च, चतुर्दण्ष्ट्रेतरसङ्ग्रहादुक्तेभ्य आधिक्यं ज्ञेयम् । द्वितीयचकारात्तान् अपि प्रेषयामासेति ज्ञेयम् । एवं वारुणं छत्रं मणिपर्वतं च तत्र न प्रेषयामास किन्तु गरुडोपरि निधाय दिवं गत इति । तथा च तत्रैव—
तादृशं वारुणं छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिगरुडे पतगेश्वरे ॥ इति ।
श्री-हरि-वंशे च—
ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षंवर्षंर्तमारुरोह बिहङ्गमम् ॥ इति ।
किञ्चाग्रे—
तस्य पर्वत राजस्य शृङ्गं यत्परमाचितम् ।
विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम् ॥
सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रशस्तशिलातलम् ॥
न्यङ्कुभिश् च वराहैश् च रुरुभिश् च निषेवितम् ।
सप्रपातमहासानुं विचित्रशिखरद्रुमम् ॥
अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवंजीवकसङ्घैश् च बर्हिभिश् च निषेवितम् ॥
तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भास्वरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ॥
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाह लीलया पक्षी गरुडः पततां वरः ॥ इति ॥३७॥
सुरेन्द्रभवनगमनादिप्रकारविशेषश् च श्री-विष्णु-पुराणे—
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभायं च हृषीकेशं लीलयैव वहन्ययौ ॥
ततः शङ्खमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।
उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥
स देवैर् अर्चितः कृष्णो देवम् आतुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशे दितिम् ॥
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।
ददौ नरकनाशं च शशसास्यै जनार्दनः ॥ इति ।
किं च, —
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम् ॥ इति ।
श्री-हरि-वंशे च—
अर्चितो देवराजेन रत्नैश् च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥ इत्य्-आदि ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नवायमानैः शिबिकादिभिः । महाकोशादीन् अपि ॥३६-३८॥
॥ १०.५९.३९ ॥
चोदितो भार्ययोत्पाट्य पारिजातं गरुत्मति ।
आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-प्रियः सत्यभामा-सहितः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पारिजात-लक्षणम्—
प्रवालमूलः सौवर्ण इन्द्रनीलच्छदान्वितः ।
वैदूर्यवेदिको मुक्ताफलो माणिक्यपुष्पधृक् ॥
गोमेदपक्कप्रवरो वज्रकिञ्जल्करञ्जितः ।
मरकतस्थूलशाखो हि पारिजातः प्रकीर्तितः ॥ इति तीर्थः ॥
भार्यया चोदित इत्य् अत्र विशेषः श्री-विष्णु-पुराणे—
ददर्श च सुगन्धाढ्यं मञ्जरीपुष्पधारिणम् ।
शच्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥
मथ्यमाने\ऽमृते जातं जातरूपसमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥
तं दृष्ट्रा प्राह गोविदं सत्यभामा द्विजोत्तमः ।
कस्मान्न द्वारकामेष नीयते देवपादपः ॥
यदि ते तद्वचः सत्यं सत्यात्यर्थ प्रियेति मे ।
मद्गेहनिष्कूटार्थाय तदयं नीयतां तरुः ॥
न मे जांबवती तादृगभोष्टा न च रुक्मिणी ।
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत्प्रियम् ॥
सत्यं तद्यदि गोविद नोपचारकृतं वचः ।
तदस् तु कल्पवृक्षो\ऽयं मम निष्कूटभूषणम् ॥
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयम् इति कामये ॥ इति ।
निःशेषेण जित्वा पुरं द्वारकामुप दाक्षिण्येन निन्ये ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भार्याया चोदित इत्य् अत्र विशेषः श्री-विष्णु-पुराणे—
ददर्श च सुगन्धाढ्यं मञ्जरीपुष्पधारिणम् ।
शच्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥
मथ्यमाने\ऽमृते जातं जातरूपसमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥
तं दृष्ट्रा प्राह गोविदं सत्यभामा द्विजोत्तमः ।
कस्मान्न द्वारकामेष नीयते देवपादपः ॥
यदि ते तद्वचः सत्यं सत्यात्यर्थ प्रियेति मे ।
मद्गेहनिष्कूटार्थाय तदयं नीयतां तरुः ॥
न मे जांबवती तादृगभोष्टा न च रुक्मिणी ।
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत्प्रियम् ॥
सत्यं तद्यदि गोविद नोपचारकृतं वचः ।
तदस् तु कल्पवृक्षो\ऽयं मम निष्कूटभूषणम् ॥
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयम् इति कामये ॥ [वि।पु ५।३०।३०-३६] इति ।
निःशेषेण जित्वा पुरं द्वारकामुप दाक्षिण्येनानयत्, तद्युद्धं च पितामहेन श्रीपराशरेण बहुशो वणितत्वादत्र न विस्तारितम् ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भार्यया चोदित इत्य् अत्र विशेषः श्री-विष्णु-पुराणे—
ददर्श च सुगन्धाढ्यं मञ्जरीपुष्पधारिणम् ।
शच्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥
मथ्यमाने\ऽमृते जातं जातरूपसमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥
तं दृष्ट्रा प्राह गोविदं सत्यभामा द्विजोत्तमः ।
कस्मान्न द्वारकामेष नीयते देवपादपः ॥
यदि ते तद्वचः सत्यं सत्यात्यर्थ प्रियेति मे ।
मद्गेहनिष्कूटार्थाय तदयं नीयतां तरुः ॥
न मे जांबवती तादृगभोष्टा न च रुक्मिणी ।
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत्प्रियम् ॥
सत्यं तद्यदि गोविद नोपचारकृतं वचः ।
तदस् तु कल्पवृक्षो\ऽयं मम निष्कूटभूषणम् ॥
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयम् इति कामये ॥ इति ।
निश्शेषेण जित्वा पुरं द्वारकामुपदाक्षिणोनानयत् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भार्यया सत्यभामया प्रेरितः सन् ॥३९॥
॥ १०.५९.४० ॥
स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।
अन्वगुर्भ्रमराः स्वर्गात् तद्गन्धासवलम्पटाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहोद्यानं निष्कुटं तदुपशोभयति यः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निष्कुटन्तु गृहोद्याने इति मेदिनी । तस्य पारिजातस्य गन्ध एवासवो मादकद्रव्यं तत्र लम्पटा लोलुपाः लम्पटो लोलुपे मत्ते इति निरुक्तिः । पारिजातस्य माहात्म्यम् आह—यद्गन्धेति । तन्माहात्म्यमन्यच् च विस्तार्योक्तं तेनैव—
यम् अभ्येत्य जनः सर्वो जाति स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ॥
ततस्ते यादवाः सर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्ती मखदर्शनम् ॥ इति ।
हरि-वंशे च—
नानाविधानि तर्याणि गेयानि मधराणि च ।
शश्रवस्तस्य वक्षस्य नातिदरगता नराः ॥
यो यं सङ्कल्पयामास गन्धं हृद्यं नरस् तथा ।
स तदैव समाजघ्रौ पारिजातसमद्भवम् ॥ इति ।
किञ्चाग्रे—
मनीषितेन स तरुरल्पो भवति भारत ।
सुमहान्वासुदेवस्य तदद्भतमभून्महत् ॥
कदाचिद्द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यश् च भवत्यङ्गुष्ठसन्निभः ॥ इति ।
अत्र वारुणं छत्रमिन्द्राय दत्तं, मणिपर्वतश् च द्वारकामानीत इति ज्ञेयम् । तथा च श्री-हरि-वंशे—
प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ।
तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ॥ इति ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पारिजातस्य माहात्म्यम् आह—यस्य गन्धासवयोर् लम्पटाः सन्तो भ्रमरा इतस्ततो भ्रमणशीला अतिचञ्चला अपि स्वर्गात्तमन्वगमन्न् इति तन्माहात्म्यम्, अन्यच् च विस्तार्योक्तं तेनैव—
यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पाणां गन्धेनोर्वी-त्रियोजनम् ॥
ततस्ते यादवाः सर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मुखदर्शनम् ॥ [वि।पु ५।३१।११-१२] इति,
श्री-हरि-वंशे च—
नानाविधानि तर्याणि गेयानि मधराणि च ।
शश्रवस्तस्य वक्षस्य नातिदरगता नराः ॥
यो यं सङ्कल्पयामास गन्धं हृद्यं नरस् तथा ।
स तदैव समाजघ्रौ पारिजातसमद्भवम् ॥ [ह।वं। २.७५।५८-५९] इति ।
किञ्चाग्रे—
मनीषितेन स तरुरल्पो भवति भारत ।
सुमहान्वासुदेवस्य तदद्भतमभून्महत् ॥
कदाचिद्द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यश् च भवत्यङ्गुष्ठसन्निभः ॥ [ह।वं। २.७५।६५-६६] इति ।
यच् च श्रीद्वारकानिर्माणप्रसङ्गे प्रागुक्तम् सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः [भा।पु १०५०।५४] इति तत्समाधानं तैः कृतम् एव, यहा, पारिजातस्यास्य महेन्द्रेण प्रस्थापनात् स्वयम् एव श्री-भगवत्-आ बलादानयनाच्च, तथा श्री-हरि-वंशे\ऽपि बारद्वयं तद्-उक्तेश् च स्वल्पबहुलप्रभावत्वादिना । किं वा, सर्व-सामान्यता श्रीसत्यभामैकस्वाम्यादिना भेदः कल्प्यः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पारिजातस्य माहात्म्यम् आह—यद्गन्धेति । तन्माहात्म्यमन्यच् च विस्तार्योक्तं तेनैव—
यमभ्येत्य जनः सर्वो जाति स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ॥
ततस्ते यादवाः सर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्ती मखदर्शनम् ॥ इति ।
हरि-वंशे च—
नानाविधानि तर्याणि गेयानि मधराणि च ।
शश्रवस्तस्य वक्षस्य नातिदरगता नराः ॥
यो यं सङ्कल्पयामास गन्धं हृद्यं नरस् तथा ।
स तदैव समाजघ्रौ पारिजातसमद्भवम् ॥ इति ।
किञ्चाग्रे—
मनीषितेन स तरुरल्पो भवति भारत ।
सुमहान्वासुदेवस्य तदद्भतमभून्महत् ॥
कदाचिद्द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यश् च भवत्यङ्गुष्ठसन्निभः ॥ इति ।
अत्र वारुणं छत्रमिन्द्राय दत्तं, मणिपर्वतश् च द्वारकामानीत इति ज्ञेयम् । तथा च श्री-हरि-वंशे—
प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ।
तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ॥ इति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थापितः पारिजातवृक्षः । गृहान्तस्थितमुद्यानमुपशोभयतीति सः ॥४०॥
॥ १०.५९.४१ ॥
ययाच आनम्य किरीट-कोटिभिः
पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् ।
सिद्धार्थ एतेन विगृह्यते महान्
अहो सुराणां च तमो धिग् आढ्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सेन्द्रान् विबुधान् निर्जित्य इतीन्द्र-कृष्णयोः सङ्ग्राम उक्तस् तत्र ननु कथं प्रसाधित-स्व-मनोरथेन श्री-कृष्णेन महेन्द्रस्य सङ्ग्रामः ? इत्य् आह—ययाच इति । अच्युतम् अर्थ-साधनम् इति च कर्म-द्वयं याचति-धातोः । विगृह्यते विग्रहं करोति महान् अपि । तमः क्रोधः । आढ्यतां धनिकतां धिग् इति ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थ-साधनायेति चतुर्थ्याः अकथितं च इति कर्मत्वम् । एतेन कृष्णेन सह । विगृह्यत इति कर्म-कर्तरि प्रयोग इत्यभिप्रेत्यैव स्वामि-चरणैर् विग्रहं करोतीति व्याख्यातम् । यद् वा, एतेनेन्द्रेण महान् अपि श्री-कृष्णो विगृह्यते विग्रह-विषयी-क्रियत इत्य् अर्थः । आढ्य इभ्यो धनी श्रीमान् इति कोशात् । धिग् योगे द्वितीया । सेन्द्रान् विबुधान् निर्जित्य इत्य् उक्तम्, तत्र स्वार्थ-साधकेनापि स्वेष्ट-देवेनापि श्री-कृष्णेन सहेन्द्रस्य युद्ध श्रुत्वा अतिविस्मितं राजानं प्रतीन्द्र-दौरात्म्यम् आह—यथा च इति ।
अर्थ-साधनं स्वार्थ-साधकं कृष्णं ययाचे—नरकं हत्वा कुन्डलादीन्य् आनीय देहीति प्रार्थ्यते स्म । सिद्धार्थः प्राप्त-कुण्डलादिकः सन् न तेन कृष्णेन सह । विगृह्यते इत्य् आर्षम् । विगृह्णाति विग्रहं करोति, तत्रापि महान् सुरेशः सन् अहो आश्चर्यं सुराणाम् अपि तमः क्रोधः, सात्त्विकानां तेषाम् इदम् अत्यसंभवम् इति भावः । तत्रापि सुरेशस्य तस्य, तस्माद् आढ्यतां धनिकत्वं धिक्, आढ्यता हि कं कम् असम्भवम् अप्य् अनर्थं नोत्पादयतीति भावः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ययाचे पूर्वम् इन्द्रः, किं कृत्वा ? किरीटस्य कोटिभिर् अग्र-भागैः पादौ स्पृशन्, आ सम्यक् साष्टाङ्गं बहशो नत्वा, इति महा-भक्तिर् उक्ता । अच्युतम् इति स्वार्थ-साधनात् कदाचित् कथञ्चिद् अपि च्युति-राहित्यात् । एतेनाच्युतेन देवेन्द्रत्वादिना भगवद्-भक्त-स्वादिना वा महान् अपि । अहो आश्चर्ये खेदे वा, च अपि, सुराणां शुद्ध-सात्त्विकानाम् अपि । ननु, ऐश्वर्यम् अदात् सम्भवेद् एवेत्य् आशङ्क्य, तं निन्दति—धिग् इति ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ययाचे पूर्वम् इन्द्रः महान् अपि सुराणां सात्त्विकानाम् अपि ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सेन्द्रान् विबुधान् निर्जित्य इत्य् उक्तम् । तत्र स्वार्थ-साधकेनापि स्वेष्ट-देवेनापि कृष्णेन सहेन्द्रस्य युद्धं श्रुत्वा अतिविस्मितं राजानं प्रतीन्द्र-दौरात्म्यम् आह—ययाचे इति । अर्थ-साधनं स्वार्थ-साधकं कृष्णं ययाचे, नरकं हत्वा कुण्डलादीन्य् आनीय देहीति प्रार्थयते स्म सिद्धार्थः प्राप्त-कुण्डादिकः सन् एतेन कृष्णेन सह विगृह्यते इत्य् आर्षं विगृह्णाति । विग्रहं करोति तत्रापि । महान् सुरेशः सन्न् अपि । अहो आश्चर्यं सुराणाम् अपि तमः क्रोधः सात्त्विकानां तेषाम् इदम् अत्यसम्भवम् इति भावः । तत्रापि सुरेशस्य तस्य तमः तस्माद् आढ्यतां धनिकत्वं धिक् । आढ्यता हि कं कम् असम्भवम् अप्य् अनर्थं नोत्पादयतीति भावः ॥४१॥
॥ १०.५९.४२ ॥
अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।
यथोपयेमे भगवान् तावद्-रूप-धरोऽव्ययः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा यथावत् । अनेन देवक्य्-आदि-बन्धु-जन-समागमोऽपि प्रतिगृहं यौगपद्येन सूचितः । अव्ययः सर्वत्रापि सम्पूर्ण एव ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथो नरक-वधोत्तर-स्त्र्य्-आनयनानन्तरम् । अनेन यथावद् इति कथनेन । सङ्कल्प-मात्रेणानन्त-ब्रह्माण्ड-स्रष्टुर् निज-सम्बन्ध्य्-अनेक-किरणं नाद्भुतम् इति भावः । अव्ययत्वात् तस्य सर्व-सर्जन-सामर्थ्यम् अस्तीति । अव्यय-पदे अ-करो ब्रह्म-विष्णु-रुद्र-वाचकः । ॐ विष्णुः शङ्करो ब्रह्मा इति सौभरि-कोशात् । उ-कारेण लोक-पालाः, ई-कारेण लक्ष्म्य्-आद्या उक्ताः सौभरिणैव । तेषाम् अय उत्पत्ति-स्थान-लयाधिकरण-रूपः । अ-कारात् परोकार-स्थाने वादेशे ई-कार-स्थाने यादेशे च कृतेऽव्य इति भवति । तथा च अश् च उश् च ई च अव्यस् तासाम् अयोऽव्ययः ।
सावित्री पार्वती लक्ष्मीः सर्वा देवाङ्गनाश् च याः ।
ई-वाचका लोक-पाला उ-कारेणोदिता इह ॥
उत्पत्त्य्-आदि-त्रये प्राप्तौ शुभावह-विधाव्ययः ॥ इति व्याडिः ।
एतेन श्री-कृष्ण एव सर्वेषाम् उत्पत्त्य्-आदि-कर्तेति ध्वनितम् । श्रीमद्-भागवतस्य, पुराणं ब्रह्म-संहितम् इत्य् उक्तेर् वेद-रूपत्वाद् वेदस्य च मन्त्र-रूपत्वान् मन्त्रेषु वर्णानाम् अपि वाचकत्वम् अस्ति, यथा—वियद् भृगु-स्थम् अनुयुग् इत्य् आदौ वियत्, हः भृगुः, सः मनुः, ओः तेन विसर्गाढ्यं च सत्, हौः भवति । यथा दामोदरश् चन्द्र-युतः इति, विधिर् वासव-शान्तीन्दु-युक्तम् इत्य्-आदि । अत्र दामोदरः ऐ-बिन्दु-युतः ऐं भवति । तथा—विधिः कः वासवः, लः शान्तिः ई । बिन्दु-योगे क्लीम् इति भवति । तथा वेदेऽपि—शं वै प्रजापतिः कं वै प्रजापतिः इत्य्-आदि-श्रुति-दर्शनात्, अक्षराणाम् अकारोऽस्मीति [गीता १०।] स्मृतेश् च । वर्णानां वाचकत्वम् अस्त्य् एव, स्फुटितं चैतद् भाषे पतञ्जलिना। भागवत-पदानां बीज-रूपता पञ्चाध्यायी-व्याख्याने, जगौ कलं वाम-दृशां मनोहरम् [१०.२९.३] इत्य् अत्रापि स्फुटिता ।
अथो द्वारकाम् आगत्य । एकस्मिन् मुहूर्ते इति—तस्यैव वैवाहिक-लग्नस्य तदानीं सर्वतो-भद्रत्वेन मौहूर्तिक-लोकैर् उक्तत्वात् । यावत्यः स्त्रियस् तावद्-रूप-धरः । रूपाण्य् अत्रैकस्यैव वपुषः प्रकाश-भेदास् तानि धरतीति सः । न तु तावद् वपुर्-धर इति काय-व्यूहो व्याख्येयः ।
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [१०.६९.२] इत्य् अग्रिमोक्तः ।
यथा यथावद् इत्य् अनेन देवक्य्-आदि-बन्धु-समागमो\ऽपि प्रतिगृहं यौगपद्येन सूचित इति स्वामि-चरणाः । तेषाम् अपि प्रकाश-भेदो\ऽचिन्त्य-शक्त्यैव कारितो ज्ञेयः ।
अव्ययः सर्वत्रापि पूर्ण एव, न त्व् अंशेन वर्तमानः
प्रकाशो वस्तु-भेदेषु गण्यते स हि नो पृथक् ॥ [ल।भा। १.१.२०]
इति भागवतामृतोक्तेः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथो माङ्गल्ये कार्त्स्न्ये वा, एकस्मिन्न् एव मुहूर्त इति युगपद् इत्य् अर्थः । यतः स्त्रियः, अन्यथा स्त्री-स्वभावेन सापन्त्योत्पत्त्या तासाम् ईर्ष्यादि सम्भवेद् इति भावः । यावत्यः स्त्रियस् तावद्-रूप-धरः शताधिक-षोडश-सहस्र-रूप-धरः । एवं तस्य सर्वेषाम् एव रूपाणां सत्यत्वं नित्यत्वं च सूचितम् एव । यद् वा, तावद्-रूप-धर इवैक एवोपयेमे, यतो भगवान् सर्वाश्चर्य-परिपूर्णः, अत एव अन्वयः । एवं तस्य सर्वेषाम् अपि रूपाणां सत्यत्व-नित्यत्वादिकम् अपि सूचितम् एव ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकस्मिन्न् एव मुहूर्त इति युगपद् इत्य् अर्थः । तस्यैव मुहूर्तस्य गो-धूल्य्-आदि-रूपत्वेन सर्वत्-भद्रत्वात् यावत्यः स्त्रियः तावद्-रूप-धरः रूपम् अत्र एकस्यैव विग्रहस्य प्रकाश-भेद एव, न तु विग्रह-भेदः—
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२]
इति वक्ष्यमाणात् अचिन्त्य-शक्तित्वात्, अत एवाव्ययः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रूपम् अत्र प्रकाशः ॥४२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथो द्वारकाम् आगत्य एकस्मिन् मुहूर्ते इति तस्यैव वैवाहिक-लग्नस्य तदानीं सर्वतो-भद्रत्वेन मौहूर्तिक-लोकैर् उक्तत्वात् । यावत्यः स्त्रियस् तावद्-रूप-धरः । रूपाण्यत्र एकस्यैव वपुषः प्रकाश-भेदा एव तानि धरतीति सः, न तु तावद्-वपुर्-धर इति काय-व्यूहो व्याख्येयः ।
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [१०.६९.२] इत्य् अग्रिमोक्तेः ।
यथा यथावद् इत्य् अनेन देवक्य्-आदि-बन्धु-जन-समागमोऽपि प्रतिगृहं यौगपद्येन सूचित इति श्री-स्वामि-चरणाः । तेषाम् []{दिर्=“र्त्ल्”}अपि प्रकाश-भेदोऽचिन्त्य-शक्त्यैव कारितो ज्ञेयः ।
अव्ययः सर्वत्रापि पूर्ण एव न त्व् अंशेन वर्तमानः ।
प्रकाशस् तु भेदेषु गण्यते स हि नो पृथक् ॥ [ल।भा। १.१.२०]
इति भागवतामृतोक्तेः ॥४२॥
॥ १०.५९.४३ ॥
गृहेषु तासाम् अनपाय्य् अतर्क्य-कृन्
निरस्त-साम्यातिशयेष्व् अवस्थितः ।
रेमे रमाभिर् निज-काम-सम्प्लुतो
यथेतरो गार्हक-मेधिकांश् चरन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो भाग्यं नारीणाम् इत्य् आह त्रिभिः—गृहेष्व् इति । अतर्क्याणि कर्माणि करोति तथा सः । निरस्तं साम्यम् अतिशयश् च यैर् अन्येषां तेषु गृहेष्व् अनपाय्य् अवस्थितः। रमाभिर् लक्ष्म्या अंश-भूताभिः । निज-काम-संप्लुतः स्वानन्द-परिपूर्णः । गार्हक-मेधिकान् गृहस्थ-धर्मान् ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां न विद्यते\ऽपायो वियोगो यस्य स तथा । [तोषणी] तद् एव दर्शयन्न् आह—गृहेष्व् इति । तासां गृहेषु अनपायी सन् अव समन्तात् काय-मनो-वचोभिः स्थितश् च सन्, रमाभी रमायाः स्वरूप-शक्तेर् एव नाना-वृत्ति-रूपाभी रेमे । भगवान् इति पूर्वेणान्वयः । अतो नात्मारामता-पूर्णकामतयोर् हानिर् इति भावः ।
ननु, तास्व् अप्य् आत्म-भाव एव चेत् कस् तर्हि रस-विशेषः ? तत्राह—निजो न तु प्राकृतो यः कामः स्वजन-विशेषेषु प्रेम-विशेषः, तेन संप्लुत इति । शक्तित्वेन भेदाभेद-वृत्तिमतीष्व् अपि तासु लोलार्थं पृथग्-आविर्भावाद् भेद-वृत्ति-प्रधानासु स्वरूप-शक्ति-भेद-ह्लादिनी-वृत्ति-विशेष-प्रेम-मयीषु तासु तादृश-प्रेम-रस-चमत्कार-वैशिष्ट्यं तस्यापि जायत इति भावः ।
ननु, भवत्व् एवं प्रपञ्चावतीर्णत्वाद् गृहादि-सामग्री, न तु तद्-अनुरूपा ? तत्राह—निरस्त- इति । परम-वैकुण्ठतो\ऽपि श्रेष्ठेष्व् इत्य् अर्थः । अत एव तत्र रमयैकयैव, अत्र तु रमाभिर् बह्वीभिर् इत्य् उक्तम् ।
ननु, कथं युगपत् सर्वत्रानपायित्वादिकं ? तत्राह—अतर्क्य-कृत्, अचिन्त्य-शक्ति-मय इत्य् अर्थः । अनपायित्वं चात्र योग्यावसरं व्याप्येति ज्ञेयम्, गृह-मेधिकांश् चरन्न् इत्य् उक्तत्वात्, प्रथम-स्कन्धे चात्र च विप्रलम्भ-श्रवणात् । निज-काम-सम्प्लुतत्वम् एव दृष्टान्तेन दृढीकरोति—यथा इति । तासां स्वरूप-शक्ति-वृत्ति-रूपत्वं दर्शितं स्कान्दे प्रभास-खण्डे—
पुरा कृष्णो महा-तेजा यदा प्रभासम् आगतः ।
सहितो यादवैः सर्वैः षट्पञ्चाशत्-प्रकोटिभिः ।
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
लक्षम् एकं तथा षष्टिर् एते कृष्ण-सुताः प्रिये । इत्य् उपक्रम्य,
ततो गोप्यो महा-देवि विद्यायाः षोडश स्मृताः ।
तासां नामानि ते वक्ष्ये तानि ह्य् एक-मनाः शृणु ॥
लंबिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ।
भीषणी नन्दिनो शोका सु-पूर्व-विमलाक्षया ।
सुभदा शोभना पुण्या हंससीता कला क्रमात् ॥
हंस एव मतः कृष्णः परमात्मा जनार्दनः ।
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ।
चन्द्र-रूपी मतः कृष्णः कला-रूपाश् च ताः स्मृताः ।
संपूर्ण-मण्डला तासां मालिनी षोडशी कला ॥
प्रतिपत्-तिथिम् आरभ्य सञ्चरत्य् आसु चन्द्रमाः ।
षोडशैव कलायास् तु गोपी-रूपा वरानने ॥
एककैकशस् ताः संभिन्नाः सहस्रेण पृथक् पृथक् ।
एवं ते कथितं देवि रहस्यं ज्ञान-सम्भवम् ॥
य एवं वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ इति ।
अत्र गोप्यो राज्ञ्य इत्य् अर्थः । गोपो भूपे\ऽपि इति नानार्थात् । सर्वं गोपायन्तीति शक्तयो वा, श्री-दशाक्षरे व्याख्या-विशेषवत् । लंबिनी अवतार-शक्तिः । सु-पूर्व-विमला सुविमला हंससीता इत्य् अत्र प्राप्तस्य हंस-शब्दस्य वाच्यम् आह—हंस एवेति । स च चन्द्र-रूपी चन्द्र-दृष्टान्तेनोद्देश्य इत्य् अर्थः । कला-रूपा इति ताश् च शक्तयश् चन्द्रस्यामृतादि-कला-दृष्टान्तेनोद्देश्या इत्य् अर्थः । अनुक्ताम् अन्तिमां महा-शक्तिम् आह—संपूर्ण- इति ।
दृष्टान्तोपपादनाय चन्द्रस्य तादृशत्वम् आह—प्रतिपद् इति । तास्व् एतत्-तुल्यासु कलासु यथा चन्द्रमाः प्रतिपत्-तिथिम् आरभ्य सञ्चरति, तथा सो\ऽपि लीलावसर-विशेषं प्राप्य तत्-तच्-छक्तिं प्रकाशयतीत्य् अर्थः । विवक्षितम् आह—षोडशैव इति । षोडशानाम् एव विद्या-रूपत्वाद् एतद्-उपदेशस्य ज्ञान-सम्भव-रहस्यत्वात्, तज्-ज्ञानस्य वैष्णवतानुमापक-लिङ्गत्वाच् च । क्रूरा-भीषणी-शोकानाम् अपि भगवत्-स्वरूप-भूतानाम् एव सतीनां मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इतिवत् श्री-कृष्णस्य कठिनत्व-प्रत्यायकत्वान् मृत्युर् भोजपतेः [तत्र] इतिवत् दुर्जन-वित्रासकत्वात्, असतां शास्ता [तत्र] इतिवत् तदीय-शोक-हेतुत्वाद् एव च तत्-तन्-निरुक्तिर् उपपद्यते, यथा प्रकाशैक-रूपाया एव सूर्य-कान्तेर् उलूकेषु तम-आदि-व्यञ्जकतेति । अतश् चन्द्र-रूपो स्मृतः कृष्णः, कला-रूपास् तु ताः स्मृता इति स्फुटम् एव स्वरूप-भूतत्वं दर्शितम् । अतो\ऽन्यथाख्यानं
किञ्चित् तत्र जीवान्तराप्रकाशापेक्ष्य किञ्चिन् मायिकम् इति ज्ञेयम् ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तदैव दर्शयन्न् आह—गृहेष्व् इति । तासां सर्वासां सर्वेष्व् अपि गृहेषु अनपायी सदा सुस्थिरः सन्, अतर्क्य-कृद् इति अन्य-गृहे\ऽपि रमते, अन्यस्याम् अपि प्रीयत इत्य्-आदि, तच्-चेष्टितस्य ताभिर् अतर्कणात् । निज-काम-संप्लुतो\ऽपि । किं वा, तादृशः सन् रेमे । कुतः ? निरस्त- इति । इति वैकुण्ठतो\ऽप्य् आधिक्यम् उक्तम् । किं च, रमाभिर् इति तत्रैकैव लक्ष्मीः, अत्र तु बह्व्य इत्य् अर्थः । यद् वा, रमयन्ति लक्ष्मीतो\ऽप्य् अधिकं श्री-कृष्णं प्रीणयन्तीति तथा ताभिः । एवं परमैश्वर्ये\ऽपि लौकिकत्वेन रति-माधुरी पूर्ववद् दृष्टान्तेन बोधयति—यथा इति । चरन् आचरन् इतरो विषय-सुख-लम्पटो\ऽविवेकी । अन्यत् तैर् व्याख्यातम् ।
यद् वा, निजानां स्वीयानां कामा अभिलाषाः, संप्लुत इत्य् अनेन तेषाम् आनन्त्यादिना महार्णवत्वं ध्वनितम्, तेषु संप्लुतो\ऽत्यर्थं निमग्नः, तत्-परिपूरणासक्त इत्य् अर्थः । यद् वा, निज-लौकिकत्वे\ऽप्य् अलौकिकत्वाद् अलौकिकत्वे\ऽपि लौकिकत्वाद् असाधारणो यः प्रेम-लक्षण-काम-रस-समुद्रः, तस्मिन् संप्लुतः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव दर्शयन्न् आह—गृहेष्व् इति । तासां गृहेष्व् अनपायी सन् अव समन्तात् काय-मनो-वचोभिः स्थितश् च सन् रमाभिः रमायाः स्वरूप-शक्तेर् एव नाना-वृत्ति-रूपाभी रेमे भगवान् इति पूर्वेणान्वयः । अतो नात्मारामता-पूर्णकामतयोर् हानिर् इति भावः ।
ननु, तास्व् अप्य् आत्म-भावः एव चेत् कस् तर्हि रस-विशेषः ? तत्राह, निजो न तु प्राकृतो यः कामः स्वजन-विशेषेषु प्रेम-विशेषः, तेन सम्प्लुत इति शक्तित्वेन भेदाभेद-वृत्तिमतीष्व् अपि तासु लीलार्थं पृथग् आविर्भावात् भेद-वृत्ति-प्रधानासु स्वरूप-शक्ति-भेदाह्लादिनी-वृत्ति-विशेष-प्रेम-मयीषु तादृश-प्रेम-रस-चमत्कार-वैशिष्ट्यं तस्यापि जायत इति भावः ।
ननु, भवत्व् एवं प्रपञ्चावतीर्णत्वात् गृहादि-सामग्री, न तु तद्-अनुरूपा ? तत्राह—अतुल्य- इति । परम-वैकुण्ठतो\ऽपि श्रेष्ठेष्व् इत्य् अर्थः । अत एव तत्र रमयैकयैव, अत्र तु रमाभिर् बह्वीभिर् इत्य् उक्तम् । ननु, कथं युगपत् सर्वत्रानपायित्वादिकम् ? तत्राह—अतर्क्य-कृत् अचिन्त्य-शक्ति-मय इत्य् अर्थः । अनपायित्वं चात्र योग्यावसरं व्याप्येति ज्ञेयं गार्हमेधिकांश् चरन्न् इत्य् उक्तत्वात् प्रथम-स्कन्धे चात्र च विप्रलम्भ-श्रवणात् । निज-काम-सम्प्लुतत्वम् एव दृष्टान्तेन दृढीकरोति—यथा इति । तासां स्वरूप-शक्ति-वृत्ति-रूपत्वं च दर्शितम् यथा स्कान्दे प्रभास-खण्डे—
पुरा कृष्णो महातेजा यदा प्रभासम् आगतः ।
सहितो यादवैः सर्वैः षट्पञ्चाशत्-प्रकोटिभिः ।
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
लक्षम् एकं तथा षष्टिर् एते कृष्ण-सुताः प्रिये । इत्य् उपक्रम्य,
ततो गोप्यो महादेवि विद्यायाः षोडश स्मृताः ।
तासां नामानि ते वक्ष्ये तानि ह्य् एक-मनाः शृणुः ॥
लंबिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ।
भीषणी नन्दिनो शोका सु-पूर्व-विमलाक्षया ।
सुभदा शोभना पुण्या हंस-सीता कला क्रमात् ॥
हंस एव मतः कृष्णः परमात्मा जनार्दनः ।
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ।
चन्द्र-रूपी मतः कृष्णः कला-रूपाश् च ताः स्मृताः ।
संपूर्ण-मण्डला तासां मालिनी षोडशी कला ॥
प्रतिपत्-तिथिम् आरभ्य सञ्चरत्य् आसु चन्द्रमाः ।
षोडशैव कलायास् तु गोपी-रूपा वरानने ॥
एककैकशस् ताः संभिन्नाः सहस्रेण पृथक् पृथक् ।
एवं ते कथितं देवि रहस्यं ज्ञान-सम्भवम् ॥
य एवं वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ इति ।
अत्र गोप्यो राज्ञ्य इत्य् अर्थः । गोपो भूपे\ऽपि इति नानार्थात् । सर्वं गोपायन्तीति शक्तयो वा, श्री-दशाक्षरे व्याख्या-विशेषवत् । लंबिनी अवतार-शक्तिः । सु-पूर्व-विमला सुविमला हंससीता इत्य् अत्र प्राप्तस्य हंस-शब्दस्य वाच्यम् आह—हंस एवेति । स च चन्द्र-रूपी चन्द्र-दृष्टान्तेनोद्देश्य इत्य् अर्थः । कला-रूपा इति ताश् च शक्तयश् चन्द्रस्यामृतादि-कला-दृष्टान्तेनोद्देश्या इत्य् अर्थः । अनुक्ताम् अन्तिमां महा-शक्तिम् आह—संपूर्ण- इति ।
दृष्टान्तोपपादनाय चन्द्रस्य तादृशत्वम् आह—प्रतिपद् इति । तास्व् एतत्-तुल्यासु कलासु यथा चन्द्रमाः प्रतिपत्-तिथिम् आरभ्य सञ्चरति, तथा सो\ऽपि लीलावसर-विशेषं प्राप्य तत्-तच्-छक्तिं प्रकाशयतीत्य् अर्थः । विवक्षितम् आह—षोडशैव इति । षोडशानाम् एव विद्या-रूपत्वाद् एतद्-उपदेशस्य ज्ञान-सम्भव-रहस्यत्वात्, तज्-ज्ञानस्य वैष्णवतानुमापक-लिङ्गत्वाच् च । क्रूरा-भीषणी-शोकानाम् अपि भगवत्-स्वरूप-भूतानाम् एव सतीनां मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इतिवत् श्री-कृष्णस्य कठिनत्व-प्रत्यायकत्वान् मृत्युर् भोजपतेः [तत्र] इतिवत् दुर्जन-वित्रासकत्वात्, असतां शास्ता [तत्र] इतिवत् तदीय-शोक-हेतुत्वाद् एव च तत्-तन्-निरुक्तिर् उपपद्यते, यथा प्रकाशैक-रूपाया एव सूर्य-कान्तेर् उलूकेषु तम-आदि-व्यञ्जकतेति । अतश् चन्द्र-रूपो स्मृतः कृष्णः, कला-रूपास् तु ताः स्मृता इति स्फुटम् एव स्वरूप-भूतत्वं दर्शितम् । अतो\ऽन्यथाख्यानं किञ्चिन् मायिकम् इति ज्ञेयम् ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गृहेष्व् इति । अनपायित्वम् अत्र योग्यावसरं व्याप्येति ज्ञेयम् । गार्हमेधिकांश् चरन्न् इत्य् उक्तत्वात् । निजाः स्व-प्रिय-विशेषास् तेषां कामेन प्रेम-मयाभिलाष-विशेषेण सम्प्लुतो व्याप्तो वशीकृत इत्य् अर्थः ॥४३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां गृहेष्व् अनपायी प्रकाश-भेदैः सर्वेष्व् एव स्थित इत्य् अर्थः । अतर्क्य-कृद् इति तथा अतर्क्यं कर्म करोति यथा सर्वत्रापि सञ्चारित दासी सखीका अपि ताः प्रत्येकम् अहम् एव संयोगिनी, अन्यास् तु विरहिण्य एवेति जानन्तीति भावः । निरस्तं साम्यम् अतिशयश् च येभ्य इति तादृशा गृहा अपि वैकुण्ठेऽपि न सन्ति, किम् उत तादृश रमणादि-सुखानीत्य् अर्थः । निजेन स्वरूप-भूतेनैव कन्दर्पेणैव संप्लुतो निमग्नः । रमाभी रेमे इति वैकुण्ठे खल्व् एकयैव रमया स्वांशो नारायण एव रमते इति वैकुण्ठाद् अपि द्वारकाया ऐश्वर्येणाधिक्यं ज्ञापितम् । तासां रमात्वेन स्वरूप-शक्तित्वं स्कान्दे प्रभास-खण्डेऽपि, यथा—
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
हंस एवम् अतः कृष्णः परमात्मा जनार्दनः ॥
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ।
चन्द्ररूपी मतः कृष्णः कलारूपास् तु ताः स्मृताः ॥
सम्पूर्ण-मण्डला तासां मालिनी षोडशी-कला ।
षोडशैव कला यास् तु गोपी-रूपा वराणने ॥
एकैकशस् ताः सम्भिन्नाः सहस्रेण पृथक् पृथक् ॥ इति ।
पाद्मे कार्त्तिक-माहात्म्ये च—
कैशोरे गोप-कन्यास् ता यौवने राज-कन्यका ।
इति अतः पूर्णतमस्य श्री-वृन्दावन-नाथस्य यथा द्वारका-नाथः पूर्णः प्रकाशः, तथैव पूर्णतमानां तदीय-ह्लादिनी-शक्तीनां गोपीनां पूर्ण-प्रकाश-रूपा पट्ट-महिष्य इति ॥४३॥
॥ १०.५९.४४ ॥
इत्थं रमापतिम् अवाप्य पतिं स्त्रियस् ता
ब्रह्मादयो\ऽपि न विदुः पदवीं यदीयाम् ।
भेजुर् मुदाविरतम् एधितयानुराग-
हासावलोक-नव-सङ्गम-जल्प-लज्जाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुराग-हास-सहितम् अवलोकं च तत्-पूर्वकं नव-सङ्गमं च तद्-गतं जल्पं च तस्मिन् लज्जां च भेजुः ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम् उक्त-रीत्या । ताः भौमादि-वधेनानीताः । यदीयां कृष्ण-संबन्धिनीम् । अविरतं निरन्तरम् एधितया वर्धमानया ॥
[तोषणी-] रमायाः पूर्ण-लक्ष्मी-रूपायाः श्री-रुक्मिण्याः पतिम् इति परम-दौर्लभ्यं वैदग्ध्यादिकं च सूचितम् । ता रमांश-भूताः । पतिम् अवाप्य स्वातन्त्र्येण लब्ध्वा । ब्रह्मादयो\ऽपि किं पुनर् अन्ये, पदवीम् अपि किं पुनस् तम्, न विदुर् अपि किं पुनर् लभेरन्न् इत्य् अर्थः । अतस् तस्य लाभो रमात्वेनैव सम्भवतीति साध्व् एवोक्तं रमाभिः [भा।पु। १०.५९.४३] इति भावः । चिरम् अनवरत-रताव् अपि नव-सङ्गम- इत्य्-उक्त-रीत्यौत्सुक्येन तासां नित्य-नूतनवत्-प्रतीतेः । अत एव अनवरतम् एधितया मुदा इति हासादीनां तत्-क्रमेणैवोदयात् तथैवोक्तिः । मुदा तद् एव भेजुः । कथम् ? अनुरागेण हासादयो यासां, ताः तत्-तत्-प्रकारेणेत्य् अर्थः ॥४४॥
हेमाद्रिः (कैवल्य-दीपिका-टीका) : इत्थम् इति । पदवीं मार्गम् । एधितया भजनेन अनुरागेण हासावलोको नव-सङ्गमाच् च जल्प-लज्जा यासां, तास् तथा । सङ्गमः सन्निधानम् ॥४४॥ [मु।फ। ११.१७]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रमा-पतिं श्री-रुक्मिण्याः पतिम् इति परमं दौर्लभ्यं वैदग्ध्यादिकं च सूचितम् । ता अनिर्वचनीय-पुण्यवत्यः पतिम् अवाप्य स्वातन्त्र्येण लब्ध्वा । स्त्रिय इति तद्-योग्यतोक्ता । पदवीम् अपि, किं पुनस् तम् । न विदुर् अपि, किं पुनर् लभेरन् इत्य् अर्थः । चिरम् अनवरतम् अपि नव-सङ्गम- इत्य् उक्तिर् अत्यौत्सुक्येन तासां नित्य-नूतनवत् प्रतीतेः । हासादीनां तत्-तत्-क्रमेणोदयात् तथैवोक्तिः । अविरतम् एधितया इति ब्रह्मानन्दाद् अप्य् आधिक्यम् उक्तम् । तस्य सदा वृद्ध्य्-अभावाद् अस्याश् च परम-काष्ठां प्राप्ताया अपि नित्य-नूतनत्वादिना माधुर्य-विशेषेण सदा वृद्धः । अन्यत् समानम् ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रमायाः पूर्ण-लक्ष्मी-रूपायाः श्री-रुक्मिण्याः पतिम् इति परमं दौर्लभ्यं वैदग्ध्यादिकं च सूचितं । ता रमांश-भूताः पतिम् अवाप्य स्वातन्त्र्येण लब्ध्वा । ब्रह्मादयो\ऽपि किं पुनर् अन्ये ? पदवीम् अपि किं पुनस् तं [?]{दिर्=“र्त्ल्”} न विदुर् अपि किं पुनर् न लभेरन् ? इत्य् अर्थः । अतस् तस्य तथा लाभो रमात्वेनैव सम्भवतीति साध्व् एवोक्तं रमाभिः [भा।पु। १०.५९.४३] इति भावः । चिरम् अनवरत-रताव् अपि नव-सङ्गम- इत्य्-उक्तिर् अत्यौत्सुक्येन तासां नित्य-नूतनवत् प्रतीतेः । अत एव अनवरतम् एधितया मुदा इति हासादीनां तत्-तत्-क्रमेणैवोदयात् तथैवोक्तिः । अन्यत् तैः । यद् वा, मुदा तम् एव भेजुः कथम् ? अनुरागेण हासादयो यासां, तास् तत्-तत्-प्रकारेणेत्य् अर्थः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मादयोऽपीत्य् उक्त्या तथा-लाभो रमात्वेनैवात एव साध्व् एवोक्तं--रेमे रमाभिः [भा।पु। १०.५९.४३] इति भावः ॥४४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रमायाः पूर्ण-लक्ष्मी-रूपायाः पतिं श्री-कृष्णम् अवाप्य ब्रह्मादयोऽपि, किं पुनर् अन्ये पदवीम् अपि, किं पुनस् तं न विदुर् अपि, किं पुनर् लभेरन्न् इत्य् अर्थः। अविरतम् एव एधितया प्रवृद्धया मुदा अनुराग-सहितं हासावलोकं तत्-पूर्वकं नव-सङ्गमं च तत्र तद्-उचितः जल्पं च तं प्रतिजल्पे प्राप्ते सति लज्जां च भेजुः प्रापुः ॥४४॥
॥ १०.५९.४५ ॥
प्रत्युद्गमासन-वरार्हण-पाद-शौच-
ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।
केश-प्रसार-शयन-स्नपनोपहार्यैर्
दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्रमणं पाद-संवाहनम् । केश-प्रसारः केश-प्रसाधनम् । दासीनां शतानि विद्यन्ते यासां तथा-भूता अपि स्वयं विभोर् दास्यं विदधुः ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्युद्गम आगतस्य सम्मुख-गमनम् । वरेण कुङ्कुमेन अर्हणम् अर्चनम् वरो जामातरि श्रेष्ठे देवाद्य्-आप्ते च कुङ्कुमे इति धरणिः । कुङ्कुम इत्य् उपलक्षणम् । वीजनं व्यजन-चालनम् । गन्धश् चन्दनम् एव । अत एव प्रत्युद्गम- इति, प्रत्युद्गमः श्रुत्वैवोत्थायाभिमुख्येन गमनम्, आदरस् तद्-अनन्तरम् अन्या च सम्मानन-क्रिया, तत्रापि भयं कदाचिद् अस्याभीष्ट-भङ्गः स्यात्, निज-धर्मादिकाच् चेति शङ्कित्वं पाठो\ऽयं चित्सुख-सम्मतः। पाठान्तरं तु प्रायिकम् । आसनादीनाम् अपि तत्-तत्-संस्थापन-क्रियासु तात्पर्यम् ।
श्री-गोपी-सदृशोत्कण्ठि-बादरायणये नमः ।
तादृग्-व्याख्या-कृते\ऽप्य् अस्तु श्रीधर-स्वामिने नमः ॥४५॥
हेमाद्रिः (कैवल्य-दीपिका-टीका) : भजनम् एवाह—प्रत्युद्गम- इति । प्रत्युद्गमः प्रत्युत्थानम् । आसनं स्वासने उपवेशनम् । अर्हणम् उपायनम् । पादयोः शौचं प्रक्षालणम् । विश्रम्यतेऽनेनेति विश्रामणम् अङ्ग-संवाहनम् । प्रसारः प्रसाधनम् स्वयं पचनम् परिवेषणं च । दासीनां शतानि सन्ति यासाम् । स्म-शब्दो वाक्य-पूरणार्थः ॥४५॥ [मु।फ। ११.१८]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि ताः स-गर्वास् तृप्ताश् च नाभवन्, किन्तु प्रेम-भरेण दासीवत् विविध-सेवां चरन्ति इत्य् आह—प्रत्युद्गम- इति । प्रत्युद्गमः—दूराद् दर्शन-मात्रेणैव आसनाद् उत्थाय अग्रे\ऽभिगमनम् । आदरः—"अहो भाग्यम् अस्माकं जय जय!" इत्य्-आदि मिष्ट-वाक्यैः, आतपत्र-धारणादिना च सम्माननं गृह-कर्मादि-परित्यागेन तद्-एकासक्तिर् वा, भयं स-शङ्कत्वं सम्भ्रमो वा, पतित्वेन साध्वी-भावेन वा नव-सङ्गमानुसन्धानादिना वा । किं वा, अप्रागल्भ्यम् आसन-ताम्बूल-गन्धादीनाम् अपणेनेति ज्ञेयम् । पादयोः शौचं प्रक्षालनम्, शयनं शय्या-विस्तारणम्, उपहार्याणि उपहार-योग्यानि विचित्र-मिष्टेष्ट-भोज्य-पेयादीनि, विभोर् निज-प्राणेश्वरस्येति प्रेम-भरेणैव तत्-तद्-विधानं तेनानन्द-विशेषं च सूचयति—स्मेति, एतच् च सुप्रसिद्धम् एवेति तासाम् अवलत्वादिनात्र संशयो न कार्य इति भावः । इति प्रसङ्गाद् भाव-विशेषोदयेन श्री-बादरायणिना स्त्रीणां तत्रापि श्री-भगवद्-भर्तृकाणां सौभाग्यं श्लोक-त्रयेण वर्णितम्, तच् चान्ते—
याः सम्पर्यचरन् प्रेम्णा पाद-सम्वाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [१०.९०.२७]
इत्य्-आदिना व्यक्तं भावि ।
श्री-गोपी-भाव-सम्पन्न-बादरायणये नमः ।
तादृग् व्याख्या-कृते\ऽप्य् अस् तु श्रीधर-स्वामिने नमः ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव प्रत्युद्गम- इति । प्रत्युद्गमः श्रुत्वा एव उत्थाय अभिमुख्येन आगमनम् । आदरस् तद्-अनन्तरम् अन्या च सम्मानन-क्रिया । तत्रापि भयं कदाचिद् अस्याभीष्ट-भङ्गः स्यान् निज-धार्ष्ट्यादि, कं चेति शङ्कत्वं पाठो\ऽयं चित्सुख-सम्मतः । पाठान्तरं तु प्रायिकम् । आसनादीनाम् अपि तत्-तत्-सङ्ख्यापन-क्रियासु तात्पर्यम् ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्रमणं संवाहनं केशानां प्रसारः प्रसाधनं दसीनां शतानि विद्यन्ते यासां तथा-भूता अपि स्वयं विभोर् दास्यं विदधुर् इति ॥४५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
ऊनषष्ठितमोऽध्यायो दशमेऽजनि सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे पारिजात-हरण-
नरक-वधौ नाम एकोनषष्ठितमोऽध्यायः ।
॥५९॥