कालिन्दी-मित्रविन्दा-सत्या-भद्रा-लक्ष्मणादीनां पाणि-ग्रहणम् ।
॥ १०.५८.१ ॥
श्री-शुक उवाच——
एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः ।
इन्द्रप्रस्थं गतः श्रीमान् युयुधानादिभिर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टपञ्चाशत्तमे तु कृष्णः पञ्च-करे\ऽग्रहीत् ।
कालिन्दीं मित्रविन्दां च सत्यां भद्रां च लक्ष्मणाम् ॥
कालिन्दीं निज-लाभाय तपः परम् उपेयुषीम् ।
परिणेष्यन् प्रियावासम् इन्द्रप्रस्थम् अथागमत् ॥
प्रतीतान् नष्टान् अपि द्रुपद-गृहे पुनः सर्वैर् दृष्टान् । युयुधानः सात्यकिः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रासङ्गिकं समाप्य प्राग्वक्तुमारब्धान् श्री-भगवत्-ओ विवाहान् एव पुनर्वक्ष्यन्नादौ श्रीकालिन्दीविवाहं वक्तुमारभते—एकदेति । तद् एवाभिव्यञ्जयति–प्रतीतानिति । यदा प्रतीतास्तदेत्य् अर्थः । पुरुषोत्तम इति—भक्तवात्सल्याद्यशेष-सत्पुरुषगुणवत्त्वं सूचयति, अतो द्रष्टुं गतः । इन्द्रप्रस्थम् इति प्राक् हस्तिनापुरे सहैवावस्थानाद् दुष्टदुय्र्योधनादिभिर् हिंस्यमानानां तेषां द्रुपदगृहे श्रीद्रौपदीविवाहानन्तरं श्रीभीष्माज्ञया धृतराष्ट्रेणानाय्य राज्यार्धप्रदानेनेन्द्रप्रस्थ एव निवासात्, इत्य् आद्यशेषवृत्तमादिपर्वणि विस्तरशो व्यक्तम् इत्य् अत्र न विवृतम् । श्रीमान् महासमृद्धया शोभमानः सन् चिरमाप्तदुःखानां तेषां सर्व-समृद्धिं प्रदातुम् इति भावः । सात्यकेर् मुख्यत्वं पाशुवप्रियत्वात्, श्रीबलदेवेनासाहित्यं च ज्ञेयम् । तस्य दुर्योधनगुरुत्वादिना पाण्डवेषु स्नेहविशेषाभावात्, श्रीकालिन्दीपरिग्रहादौ तत्सङ्गानुपयोगाद्वा । अन्यत् तैर् व्याख्यातम् । यद् वा, इन्द्रप्रस्थं प्रति इतान प्राप्तान्, ततस्ततो निवृत्त्यागतान् वा ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं प्रासङ्गिक समाप्य प्राग् वक्तुम् आरब्धान् श्री-भगवतो विवाहान् एव पुनर् वक्ष्यन्न् आदौ श्री-कालिन्दी-विवाहं वक्तुम् आरभते एकदेति । प्रतीतान् सर्वत्र पुनर् आगतत्वेन विख्यातान् सतः श्रीमान् महा-समृद्धया शोभमानः यतो युयुधानादिभिर् महा-सैन्यैः वृतः सन् पुरुषोत्तम इति तद्-उचित-भक्त-वात्सल्यादिकं सूचितम् । सात्यकेर् मुख्यत्वं पाण्डव-प्रियत्वात् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्टपञ्चाशत्तमे तु पाण्डून प्रेक्ष्यापपञ्चसः ।
कालिन्दी मित्रविन्दाश्रीसत्याभद्राः सलक्ष्मणाः ॥
प्रतीतान्नष्टान् अपि दुपद्रुपदगेहे पुनः सर्वैर् दृष्टान् युयुधानः सात्यकिः ॥१॥
॥ १०.५८.२ ॥
दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् ।
उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणा इन्द्रियाणि मुख्यं पञ्चवृत्तिं प्राणम् इव ॥ २-३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पञ्च-भार्या इति शेषः । ता नामतो निर्दिशति—कालिन्दीम् इत्य् -आदिना [१] निजस्य श्री-कृष्णस्य लाभाय । प्रियाणामर्जुनादीनामावासो यस्मिंस्तम् [२] । प्रतीतः सादरे ज्ञाते हृष्टप्रख्यातयोस् त्रिषु इति मेदिनी । शौर्यादिगुणेन प्रख्यातान् । कोविदान् । वा-भगवद्भक्त्याभरणेन भूषितान् प्रतीतो भूषिते ख्याते ज्ञाते प्रत्यथिते बुधे इति यादवः । एवं प्रासङ्गिक समाप्य प्राग्वक्तुमारब्धाञ्छीभगवतो विवाहान् एव पुनर्वक्ष्यन्नादौ कालिन्दीविवाहं वक्तुमारभते-एकदेति । पुरुषोत्तम इति भक्तवात्सल्यवत्वात् । तं कृष्णम् । अखिलेश्वरम् अपि स्वगृह आगतं शैघ्र्यात्, न तु पूर्वश्रुतागमनम् । मुकुन्दम् इति दर्शन-मात्रेण सर्वदुःखमोचनपूर्वकपरमानन्दप्रदानात् । अतो दृष्ट्व युगपदासनादुत्तस्थुः । यतः पितृष्वसृष्व् अपि परमस्निग्धायाः पृथायाः पुत्राः वीरा इति शीघ्रोत्थाने वैशिष्टयं दर्शितम् । इन्द्रियाणि तद्गोलकानि । प्राणं महौषधादिप्रभावेणागतं, पुनर्देहे सञ्चरितम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिलेश्वरम् अपि स्वगृहे आगतं मुकुन्दम् इति दर्शन-मात्रेणैव परमानन्दप्रदानात्, अतो दृष्ट्वैव युगपदासनादुत्तस्थुः किं वा, चिराप्राप्त्या मृता इवाधुनाजीवन्न् इत्य् अर्थः, यतः पाथः पैतृष्वसेयाः, तत्रापि वीरा भक्तौ महासमर्थाः, अप्राप्यावाप्त्या । युगपदुत्थाने दृष्टान्तः—प्राणा इति, उपघातादिना लीनतया गतप्रायं पुनरागतं प्राणं प्राप्य यथोत्तिष्ठन्ति चेष्टन्ते, तद्वद् इत्य् अर्थः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अखिलेश्वरम् अपि स्वगृहे आगतं शीघ्रमागमनान्न तु पूर्वं श्रुत्वा गमनं मुकुन्दम् इति दर्शन-मात्रेणैव सर्वदुःखमोचनपूर्वकपरमानन्दप्रदानात् अतो दृष्टैव यगपदासनादुत्तस्थुः यतः पार्थाः पितृस्वसृष्व् अपि परम स्निग्धायाः पृथायाः पुत्राः वीरा इति शीघ्रोत्थाने वैशिष्टयं दर्शितम् प्राणा इन्द्रियाणि तद्गोलकानीत्य् अर्थः । प्राणम् महौषध्यादिप्रभावेणागतम् पुनर्देहे सच्चरितम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राणा इन्द्रियाणि मुख्यं पञ्चवृत्तिं प्राणम् इव ॥ २-३ ॥
॥ १०.५८.३॥
परिष्वज्याच्युतं वीरा अङ्ग-सङ्ग-हतैनसः ।
सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य । अच्युतम् इति चिरपरिष्वङ्गे परमानन्ददाने च च्युतिरहितम् । एनस्तदप्राप्तिजं दुःखम् । वक्रम् एव वीक्ष्य मुदं प्राप्तास्तत्रापि सानुरागस्मितम् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिष्वज्यालिग्य, यतो वीरा भक्तिशराः, अच्युतम् इति तेषाम् इव परिष्वङ्गे । किं वा, परमानन्दप्रदाने । यद् वा, परिष्वङ्गे\ऽभिनिवेशेन तेषां वक्षःस्थलाच्च्युति राहित्याभिप्रायेण, एनः सांसारिकं तदप्राप्तिजं वा दुःखम्, अनुरागेण यत् स्मितं तत्सहितम् इति तेन स्वविषयक-कृपातिरेकमननात् सहजसौन्दर्यविशेषाद्वा मुदं प्रापुः । एवं सर्वदुःखहानिर्महासुखावाप्तिश्चोक्ता ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीरा इति पूर्ववत् अच्युतम् इति चिरपरिष्वङ्गे परमानन्दप्रदाने च च्युतिराहित्याभिप्रायेण एनस्तदप्राप्तिजं दुःखं वक्त्रम् एव वीक्ष्य मुदं प्राप्ताः तत्रापि सानुरागस्मितम् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४ ॥
युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् ।
फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्येष्ठयोः प्रणामं कृत्वा समेनालिङ्गितः कनिष्ठाभ्याम् अभिवन्दितो बभूव ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्येष्ठयोर् यधिष्ठिरभीमयोः । समेनार्जनेन । कनिष्ठाभ्यां नकुलसहदेवाभ्याम् । तद् एवम् उभयेप्यानन्दास्वस्वव्यवहारं विस्मृत्य पुनः सावधानतया तमकुर्वन्न् इत्य् आह—युधीति । पादयोर् अभिवन्दनं शिरसा पादस्पर्शनपूर्वकं प्रणामम् । श्री-कृष्णार्जुनयो रोहिणीफाल्गुनजिन्मत्वेन ज्येष्ठकनिष्ठयोर् अपि सख्यम् एव समव्यवहारे हेतुर् इति ध्येयम् ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रेमसम्भ्रमेणालिगन-मात्रं कृतवतस्तानाशीर्वदापिव्यवहारे\ऽशक्तान् किं वा, विनयादिना तत्राप्रवर्त्तमानान् विलोक्य स्वयम् एव लोकशिक्षार्थं सदाचारमपालयद् इत्य् आह—युधिष्ठिरस्यति । पादयोर् अभिवन्दनं शिरसा पादस्पर्शनपूर्वक प्रणामम् इत्य् अर्थः । अथ ज्येष्ठयोः पादाभिवन्दनात् पश्चाद् एव फाल्गुनं परिरभ्य, न तु तस्मिन् स्नेहविशेषेणादावित्य् अर्थः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् उभये\ऽप्य् आनन्दात् स्वस्वव्यवहारं विस्मृत्य पुनः सावधानतया तमकुर्वन्न् इत्य् आह—युधीति । फाल्गुनम्परिरभ्य स्थितः सन् यमाभ्याम् अभिवन्दितो बभूवेत्य् अर्थः । अभिवादित इति पाठे स एवार्थः पादयोर् अभिवन्दनं शिरसा पादस्पर्शनपूर्वकं प्रणामम् इत्य् अर्थः । श्री-कृष्णार्जुनयोर् ओहिणीफाल्गुनी-जन्मत्वेन ज्येष्ठकनिष्ठयोर् अपि, सख्यम् एव समत्वव्यवहारे हेतुर् इति ज्ञेयम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एनस्तदप्राप्तजं दुःखम् ॥ ३-६
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिवादितः कृष्णस्तस्थौ ॥४॥
॥ १०.५८.५ ॥
परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता ।
नवोठा व्रीडिता किञ्चिच् छनैर् एत्याभ्यवन्दत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्णा द्रौपदी । बहुभार्या सत्यपि निन्दारहिता पार्थैर् नवमचिरमूढा परिणीता ॥ ५-६ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णा द्रौपदी । नवोढा सद्यो विवाहिता । परमे राजासनतो\ऽपि श्रेष्ठे । कृष्णा कृष्णम् इति सनामतयापि मैत्री दर्शिता ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमे राजासनतो\ऽपि श्रेष्ठ आसीनं सन्तम्, एवं ते\ऽपि स्वस्वासने उपविविशुर् इति ज्ञेयम् । कृष्णा कृष्णम् इति सनामतया सख्यं सूचितम् । तथा भक्त्या तया श्री-कृष्णस्य तेन च प्रेम्णा तस्याचित्ताकर्षणं च नवोढात्वाद् एव साध्वीस्वभावाद् वा किञ्चिद्ब्रीडिता, किञ्चिद् इति कामभावाभावेन ब्रीडाविशेषाभावात्, तद्दर्शनस्वभावेन वा धैर्यहान्या सम्यग् ब्रीडारक्षणाशक्तेः । यद् वा, अस्य परेणान्वयः । वीडितत्वाद् एव शनैर् अभ्येत्य अग्रे गत्वा किञ्चित् पादस्पर्शनादिना अभितः सपञ्चाङ्गमवन्दत ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमे राजासनतो\ऽपि श्रेष्टे [ श्री-कृष्णस्यैवोपवेशाय निर्माप्य स्थापिते ] आसीनं सन्तम् एवं ते\ऽपि श्री-भगवदाज्ञया स्वस्वासने उपविविशुर् इति ज्ञेयम् कृष्णा कृष्णम् इति सनामतयापि मैत्री दर्शिता किञ्चिदभिमुखमागत्य तत्रापि शनैः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णा द्रौपदी ॥५॥
॥ १०.५८.६ ॥
तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः ।
निषसादासनेऽन्ये च पूजिताः पर्युपासत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा कृष्णस् तथैवेत्य् अर्थः । पर्युपासत स्वस्वासन उपविष्टा बभूवुः । परितश् चतुर्दिक्षु, उप समीपे आसिता उपविष्टाः । पूजितैर् नमस्कृतैः ॥६॥
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**कृष्णा द्रौपदी नाम्ना मित्रत्वं सूचितम् । ब्रीडिता किञ्चिदौत्सुक्यस्य गरीयस्त्वमुक्तं भवति, औत्सुक्ये व्रीडा वाधिता भवति ॥ ६-२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथैवेति यथा श्री-कृष्णः पूजितस्तेनैव प्रकारेणेति पवनक्तम् अपि तत्पूजनमेतस्माद् एव ज्ञेयम् । यद् वा, यथा परिष्वक्तस् तथैव परिष्वज्येत्य् अर्थः । पूजित आतिथ्यविधिना अभिनन्दितश् च, स्वागतादिना अनुमोदितागमनादिक इत्य् अर्थः । यद् वा, स्तुत्यादिना
अभित आनन्दितो हषितश् च पर्युपासितश् च । वीजनादिना सेविता निषेदुः । यद् वा, परितश् चतुर्दिक्षु उप समीपे आसिता उपवेशिताः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथा श्री-कृष्णः पूजितस् तथैव पूजित आतिथ्यविधिना अभिनन्दितः अनुमोदितागमनादिकः अभिवन्दितः इति क्वचित्पाठः परितश् चतुर्द्दिक्षु उप समीपे असतोपविष्टाः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूजितैर् नमस्कृतैः अन्ये च कृष्णसङ्गिनो निषेदुः ॥६॥
॥ १०.५८.७ ॥
पृथां समागत्य कृताभिवादनस्
तयाति-हार्दार्द्र-दृशाभिर् अम्भितः ।
आपृष्टवांस् तां कुशलं सह-स्नुषां
पितृ-ष्वसारं परिपृष्ट-बान्धवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिहार्देन स्नेहेनार्द्रे सजले दृशौ यस्यास्तया परिष्वक्तः । तया परिपृष्टा बान्धवा यस्य सः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राग् वक्तुं योग्यम् अपि श्रीकुन्त्याः समागमादिकं स्नेहभरवैक्लव्येन आगन्तुम् अशक्तायास्तस्याः श्री-भगवत्-ऐव पश्चात् सभागमनादिनान्त्यत्वात् । किं वा, सूचीकटाहन्यायेन विस्तारापेक्ष या आदावनुक्त्वा पश्चादाह—पृथाम् इति । कृतमभिवादनं अमुको\ऽहं नमस्करोमि इत्य् एवम् विधिना प्रणामो येन सः, आ सम्यक् पृष्टवान्, यतः पितृष्वसारम्, अत एव परितः पृष्टा बान्धवास्तेषां कुशलं यस्य । यद् वा, परिपृष्टा निजबान्धवा भ्रात्रादयो यं सः । सहस्नुषां द्रौपद्या सहिताम् इति नवोढात्वेन लज्जादिना प्रागपृष्टायास्तस्याः पश्चाच्छ्रीकुन्त्या साहित्ये सत्य् एव प्रष्ट योग्यत्वात् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पतीनामेकस्मिन्नप्यन्तः-पुरे लब्धावान्तरविभागे श्रीद्रौपदी निवसतीति तस्मिन्नेवाकस्माद्गतस्य श्री-भगवत्-अस्तेषां मिलनानन्तरम् एव तया मिलनं वणितम् । अथ तत्संल्लग्नान्तःपुरान्तरे गमनपूर्वक तत्र स्थितया श्रीकुन्त्या मिलनम् आह—पृथां समागत्येति । कृतम् अभिवादनं अमुको\ऽहं नमस्करोमीत्येवंविधिना प्रणामो येन सः आ सम्यक् पृष्टवान् यतः पितृस्वसारम् अत एव परिपुष्टा निजबान्धवा भ्रात्रादयो यं सः सहस्नुषां द्रौपद्या सहिताम् इति नवोढात्वेन तामपृष्ठा तस्या एवं प्रष्टुं योग्यत्वात् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सहस्नुषाम् इत्य् अतो मिलनम् अपि तयोर् एकदैव ज्ञेयम् विस्तरापेक्षया तु श्रीकुन्त्या मिलनं पश्चाद्वर्णितम् इति ॥ ७-२२ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रैवात्यौत्सुक्येन द्रष्टुमायान्तीमालक्ष्य स्वासनादुत्थाय द्रुतं तस्याः समीपमागत्य अभिवादनं चकार अति हार्देन अतिप्रेम्णा आर्द्रे दृशौ यस्यास्तया प्रेमा ना प्रियता हार्दम् इत्य् अमरः । अभिर् अम्भितः कोटिप्राणैस्त्वन्मुखच्छविं निर्मञ्छयामीत्युक्त्वा समस्तकाघ्राणमालिड्गतः परिपृष्टा बान्धवा यस्य सः ॥७॥
॥ १०.५८.८ ॥
तम् आह प्रेम-वैक्लव्य- रुद्ध-कण्ठाश्रु-लोचना ।
स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्म-दर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेम्णा वैक्लव्यं तेन रुद्धः कण्ठो यस्याः क्लेशापाये आत्मनि दर्शनं यस्य तम् । भजतां क्लेशापायाय आत्मानं दर्शयतीति वा ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तया पृथया । तां पृथाम् । पतीनामेकस्मिन्नप्यन्तः-पुरे लब्धान्तरविभागे श्रीद्रौपदी निवसतीति तस्मिन्नेवाकस्मादागतस्य श्री-कृष्णस्य तेषां मेलनानन्तरम् एव तया मेलनं वणितम् । अथ तत्सल्लग्नतःपुरान्तरे गमनपूर्वकं तत्र स्थितया श्रीकुन्त्या मेलनम् आह—पृथाम् इति । कृतमभिवादनममुको\ऽहं नमस्करोमीत्येवंविधिना प्रणामो येन सः । सम्यक्पृष्ट वान् परिपृष्ठा बांधवा भ्रात्रादयो येन सः । यद् वा, —परिपृष्ठा बान्धवा यस्माच्छीकुन्त्या स तथा । सहस्नुषाम् इति नवाढत्वेन तामपृष्ट्वा तस्या एव प्रष्टुं योग्यत्वात् । तं कृष्णम् । तान्बुद्धिस्थान् जतुगृहादावनुभूतान् । पूर्वव्याख्याने हरेर् भक्तोपेक्षाप्रतीतेर् अथान्तरम् आह—भजताम् इति । प्रेमवैक्लब्ये हेतुः—स्मरन्तीति । तान् प्रसिद्धान् दुर्योधनकृतविषदानादीन् । बहून् क्लेशान्स्मरन्ती तमाहेत्यन्वयः । वस्तुतस् तु तेषां यद्दुःखं जातं तद्दैन्यहर्षादिव्यभिचारिभावैः स्थायिभावं वर्धयितुं लीलाशक्त्यैव कृतम् इति ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेमवैक्लव्ये हेतुः—स्मरन्तीति । ताननिर्वचनीयान् श्रीभीमविषभक्षणादीन् तद्बन्धुनां तादृशक्लेशस्मरणेनातिदेन्यादयात् । किं च, क्लेशापाये सत्यधुना राज्यादिप्राप्तौ सत्यम् एव, न तु क्लेशमध्ये आत्मानं दर्शितवन्तम् इत्य् अर्थः । यद् वा, क्लेशापायात्मनो दर्शनादधुना अन्ये क्लेशाः पुनर्न भविष्यन्तीति प्रहर्षोदयात् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेमवैक्लव्ये हेतुः स्मरन्तीति तान् प्रसिद्धान् दुर्योधनकृतविषदानादीन बहून् क्लेशान् स्मरन्ती तमाहेत्यन्वयः । क्लेशेति तैर् व्याख्यातम् तत्र प्रथमपक्षे आत्मनि चित्ते\ऽपीत्य् अर्थः । उभयत्रापि पक्षे मुनेस्तेषां तत्तद्दुःखजातं स्मृत्वा श्री-भगवन्तं प्रति प्रणयोपालम्भ इव वस्तुतस् तु यत्तेषां दुःखं जातम् उद्देश्यहर्षादिव्यभिचारिभावैः स्थायि भावं वर्धयितुं विचित्रगत्या लीलाशक्त्यैव कृतम् इति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्लेशानाम् अपायो नाश आत्मदर्शनेनाङगदर्शनेनैव यस्य तम् ॥८॥
॥ १०.५८.९ ॥
तदैव कुशलं नोऽभूत् स-नाथास् ते कृता वयम् ।
ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञातीन् बन्धून नो\ऽस्मान् यदा भ्राताक्रूरः प्रेषितः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्तानुपेक्षां हरेर् आह—तदैवेति । यदाकूरः प्रेषितस् तदैवेत्य् अन्वयः । त्वयैवास्माकं कुशलं पूर्वं जातम् इत्य् आह—तदैवेति । तत् त्वया नो\ऽस्मान् ज्ञातीन् स्मरता पाल्यत्वेन लब्धान् यादवान् इव भावयता मे मम भ्राता प्रेषितः । तच् च तव युक्तम् एवेत्य् आह—हे कृष्णेति । भक्तवात्सल्यादशेषगुणप्रकटनपरत्वेन प्रसिद्ध इत्य् अर्थः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते ते क्लेशाश् च त्वदनुग्रहेणैवातिक्रान्ता इत्याशयेनाह—तदैवेति । ते त्वया, ज्ञातीनिति त्वद्बान्धवत्वायोग्यान् अपि बान्धवत्वेन स्मरतेत्य् अर्थः । भ्रातेति–परमस्निग्ध इति भावः । तच् च तव युक्तम् एवेत्य् आह—हे कृष्णेति, भक्तवात्सल्याद्यशेषगुणप्रकटनात् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वयैवास्माकं कुशलम् इति पूर्वम् एव ज्ञातम् इत्य् आह—तदैवेति ते त्वया नः अस्मान् ज्ञातीन् स्मरता पाल्यत्वेन लब्धान् । यादवानिव भावयता मे मम भ्राता भ्रातृत्वेन परमस्निग्धः प्रेषितः तच् च तव युक्तम् एवेत्य् आह—हेकृष्णेति । भक्तवात्सल्याद्यशेषगुणप्रकटनपरत्वेन प्रसिद्ध इत्य् अर्थः ॥९॥
तान् दुर्योधनकृतविषदानादीन् बहून् क्लेशान् स्मरन्ती तत्र तत्र च क्लेशानामपायो यस्मात्तद्रूपमात्मनि मनसि दर्शनं यस्य तादृशं तं स्मरन्ती प्रेमवैक्लव्येत्यादिरूपा सती तमाहेत्यन्वयः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्राता अक्रूरः ॥९॥
॥ १०.५८.१०॥
न तेऽस्ति स्व-पर-भ्रान्तिर् विश्वस्य सुहृद्-आत्मनः ।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञातीनिति वचनात्प्राप्त मोहं वारयन्ती स्तौति । न ते\ऽस्तोति । तत्र हेतुः विश्वस्येति सुहृच् च आत्मा च तस्य हंसि नाशयसि ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मोहमज्ञानम्, यद्यपि ते नास्ति तथापीन्ति योज्यम् । तत्र स्वपरभ्रान्त्यभावे । तद् एवाभिव्यञ्जयन्तीश्वरत्वेन सर्वत्र समस्यापि तस्य भक्तेष्वेवानुग्रहविशेषं दर्शयति—नेति । विश्वस्य यः सुहृत् स्वभावत एव ज्ञानक्रियाशक्तिदानेन हितकारो यत आत्मा परमात्मा तस्य यद्यपि स्वपरभ्रान्तिः—अयं बन्धुरयं शत्रुर् इति भ्रमो नास्ति, स्मरतां कारुण्यादिगुणमयत्वेन भावयतां हृदि स्थितः प्रकटिततत्तद्गुणत्वातेषाम् एव प्रकटतया हृदि स्थितः ज्ञातः सन् शश्वन्मुहुः क्लेशान्हंसि, अन्धेष्व् अपि तत्तदृष्ट्यादिप्रवर्तनया सूर्यस्य स्वभावत उपकारित्वेऽपि चक्षुष्मत्तमःखण्डनवत् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन्तीश्वरत्वेन सर्वत्र समस्यापि भक्तेष्वेवानुग्रहम् आह—नेति । आत्मा अन्तर्यामी ईश्वर इति यावत् । स्मरतां सकृत् स्मरणे प्रवर्त्तमानानाम् अपि सदा हृदि स्थितो\ऽतिसन्निहितः सन्, अत एव शश्वत् पुनः पुनर्हंसि । शश्वद् इति संसारक्लेशानां सदैवागमात् । अन्यत् तैर् व्याख्यातम् । यद् वा, विश्वस्य सुहृदात्मनो\ऽपि स्वो भक्तः, परो\ऽभक्त इति भ्रान्तिभ्रमणं मुहुर् मनोगतिस् तव नास्ति किम् ?—काक्वा, अपि तु अस्त्येवेत्य् अर्थः । यतो\ऽन्तर्यामितया सर्वेषां हृदि स्थितो\ऽपि, अपि एव, स्मरतामे, न त्वभक्तानाम् । किं वा, स्मरताम् अपि स्मरण-मात्रलक्षणम् अपि किं पुनर्नवविधां भक्तिं कुर्वताम् इत्य् अर्थः । तथा तेनानिर्वचनीयप्रकारेण समूलोत्पाटनादिना, हंसीति भक्तिहीनानान्तु न हंस्येवेति सिद्धम् एव ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन्तीश्वरत्वेन सर्वत्र समस्यापि तस्य भक्तष्वेवानुग्रहविशेषं दर्शयति—नेति । विश्वस्य यः सुहृत् स्वभावत एव ज्ञानक्रियाशक्तिदानेन हितकारी यत आत्मा परमात्मा तस्य यद्यपि स्वपरभ्रान्तिर्न सम्भवति तथापि स्मरतां कारुण्यादिगुणगणमयत्वेन भावयतां हृदिस्थितः प्रकटिततत्तद्गुणत्वात्तेषाम् एव प्रकटतया हृदि स्थितत्वेन मतः सन् शश्व्न्मुहुः क्लेशान हंसि अन्धेष्व् अपि तत्तदृष्टत्वादिप्रवर्तनया सूर्यस्य स्वभावत उपकारकत्वे\ऽपि चक्षुष्मत्सु तमःखडनवत् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमेश्वरस्य का वाहं वराकीत्यैश्वर्यमनुसन्धायाह—नेति, विश्वस्य सुहृच् च आत्मा तस्य तव अयं बन्धुरयं शत्रुर् इति स्वपरभ्रमो नास्ति यद्यपि तथापि स्मरतां स्वभक्तानाम् ॥ १०-११ ॥
॥ १०.५८.११ ॥
युधिष्ठिर उवाच—
किं न आचरितं श्रेयो न वेदाहम् अधीश्वर ।
योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कुमेधसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमेधसां विषयासक्तचित्तानां दृष्टो\ऽसि ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नो\ऽस्माभिः । युष्मदस्मदोः षष्ठीचतुर्थी द्वितीयास्थयोः इति विपरीतनिर्देशादन्यासु विभक्तिष्व् अपि वान्नावादयः स्युर् इति तृतीयाबहुवचनस्य नसादेशः । एवं मात्रोक्त भक्तवात्सल्यं श्रुत्वा विनयादिना स्वस्य भक्तत्वममन्यमानो दैन्यमवलंब्य दीनवात्सल्यं वर्णयति—किम् इति, कतरत् । नो\ऽस्माभिः पूर्वजन्मस्वाचरितं श्रेयस्तत् यद्यस्मान्नो\ऽस्माकम् अपि दृष्टस्त्वं, दृशेर्बुद्ध्यर्थत्वाद्वर्तमाने क्तः । अस्माभिर् दश्यत इत्य् अर्थः । कीदृशानाम्—कुमेधसां, भक्ति-मात्रहीनानाम् इत्य् अर्थः । कीदृशो\ऽपि दृष्टः— भक्तियोगेश्वराणाम् अपि चिरेण दृश्यो\ऽपि । अतः केवलदीनवात्सल्येनैव दृष्ट इति भावः । तद् एवाह—हे अधीश्वर परमस्वतन्त्र । यद् वा, —अधियां मादृग्दीनानाम् अपि परिपालक ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं मात्रोक्तं भक्तवत्सल्यं श्रुत्वा विनयादिना निजभक्तत्वममन्यमानो दैन्यमवलम्व्य दीनवात्सल्यं वर्णयन्न् आह—किम् इति । कतरत् नो\ऽस्माभिः पूर्वजन्मस्वाचरितमहं धर्मपुत्रः सर्वज्येष्ठो\ऽपि न वेद । यद् वा, अन्यो जानातु नाम, अहन्तु न वेद्मीति ज्ञानाभिमानिनः प्रत्युपहासः । कुतः ? अधीश्वर हे परमस्वतन्त्र ! अतो योगः समाधिस्तस्मिन्, ईश्वराणां समर्थानाम् अपि दुर्दर्श हृद्यप्यदृश्यः । यद् वा, हे अधियां दीनानाम् अप्य् अस्माकमीश्वर ! परिपालक ! किं वा, हे अधिकनिजैश्वर्यप्रकटक ! भक्तियोगेश्वराणाम् अपि दुःखेनैव दृश्यः, अचिराप्राप्त्या महादैन्योत्पत्यैव दृश्यत्वात्, तथापि कुमेधसां भक्तिहीनानाम् अपि नो\ऽस्माकं सर्वेषाम्, कर्तरि षष्ठी, अस्माभिर् यद्येन दुष्टस्तच्छ्रेयो न वेद्मि, भक्तियोगाधिकश्रेयो\ऽभावात्। अतः केवलं त्वद्दीनवात्सल्येनैव दृष्ट इति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं मात्रोक्तं भक्तवात्सल्यं श्रुत्वा विनयादिना निजम्भक्तत्वममन्यमानो दैन्यमवलम्व्य दीनवात्सल्यं वर्णयनाह—किम् इति । कतरत् नो\ऽस्माभिः पूर्वजन्मस्वाचरितं श्रेयस्तत् यद्यस्मान्नो\ऽस्माकम् अपि दृष्टस् त्वं दृशेर्बुद्ध्यर्थत्वाद्वर्तमाने क्तः अस्माभिर् देश्य स इत्य् अर्थः । कीदृशानां कुमेधसां भक्ति-मात्रहीनानाम् इत्य् अर्थः । कीदृशो\ऽपि दृष्टः भक्तियोगेश्वराणाम् अपि चिरेणैव दृश्यो\ऽपि अतः केवलं त्वद्दीनवात्सल्येनैव दृष्ट इति भावः । तद् एवाह—हे अधीश्वर ! परमस्वतन्त्र ! यद् वा, अधियां दीनानाम् अप्य् अस्माकं परिपालक ! ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.१२ ॥
इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम् ।
जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुखम् अवसद् इति शेषः । सुखम् अभ्यर्थित इति वा क्रिया-समाप्तिः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति संलापे । वार्षिकान् वर्ष-काल-संबन्धिनः । स कृष्णः ।
अक्के चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नम् आचरेत् ॥
इति न्यायेन क्रियाशेषीकरणयत्नं विनैवेहेष्टसिद्धेस्तन्न कार्यम् इत्य् आह—सुखम् इति । राज्ञा स प्रभुः सुखं प्रतिवार्षिकान्मासानभ्यर्थितः प्राथितः । किं भूतं सुखम्—नयनयोर् आनन्दो येन तत् तथा, यावद्वर्षाकालं दर्शनं प्रति प्रार्थित इति भावः । टीकाद्वितीयपक्षे सुखमम्यथित इह अर्थेर्याच्यर्थत्वेन द्विकर्मकत्वं राजा धनं याचित इतिवत् । ततश् च वार्षिकान्मासाव्थाप्य तद्वासने सुखप्राप्तये निवेदित इत्य् अर्थः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एवम् अभ्यथितः, वै अपि, वार्षिकान् अपि इन्द्रप्रस्थवासिनां सर्वेषाम् एव जनानां नयनयोर् आनन्दं साक्षात्तत्सौन्दर्यावलोकनात्, यतः प्रभुः—विश्वस्यानन्दने समर्थः । यद् वा, अभ्यर्थने हेतुः—निजेश्वर इति ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विभुर् अपि प्रभुर् इति क्वचित्पाठः टीकाया द्वितीय पक्षे सुखमभ्यर्थित इति याच्यार्थत्वादर्थेर्द्विकर्मकत्वं राजा धनं याचित इतिवत् ततश् च वार्षिकान् मासान् ब्याप्य तद्वासेन सुखप्राप्तये निवेदित इत्य् अर्थः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुखम् अवसद् इति शेषः ॥१२॥
॥ १०.५८.१३-१४ ॥
एकदा रथम् आरुह्य विजयो वानर-ध्वजम् ।
गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ ॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् ।
बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीरहा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कालिन्दी-दर्शन-प्रसङ्गम् आह—एकदा इति । अक्षयाः सायका ययोस् तौ तूणौ इषुधी ॥ १३-१५ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकदा कदाचित् । विजयो\ऽर्जुनः, विजयः स्याज् जये पार्थे स्त्रियां तिथ्य्-अन्तरे स्मृतः इति मेदिनी । तूणी नील्यां निषङ्गे ना इति च । एकदा इति युग्मकम् । एकदा खाण्डव-दाहानन्तरम् । तदानीम् एवार्जुनस्य गाण्डीवादि-लाभात् । तथाप्य् अत्रोक्तिः सुख-विहार-प्रसङ्गात् । वानरः श्री-हनुमान् ॥१३॥ विपिनं गम्भीरम् अशब्दं वा, अशब्दे विपिनं प्रोक्तं वन-गम्भीरयोर् अपि इति धरणिः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदा इति युग्मकम् । एकदा खण्डव-दाहाद्य्-अनन्तरं तदानीम् एवार्जुनस्य गाण्डीवादि-लाभात् । तथाप्य् अत्रोक्तिं सुख-विहार-प्रसङ्गात् ॥१३-१४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २६६) : अथ स्थायी मैत्र्य्-आख्यः । स चैश्वर्य-ज्ञान-सङ्कुचितः श्रीदाम-विप्रादीनाम् । सङ्कोचितैश्वर्य-ज्ञानः श्रीमद्-अर्जुनादीनाम् । शुद्धः श्री-गोप-बालानाम् । अत एव कदाचिद् अपि न विकरोति । तथैव श्री-राम-व्रजागमने समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः [भा।पु। १०.६५.५] इत्य्-आदिक-व्यवहारः ।
तत्र सौहृद्-आख्यो भेदः तं मातुलेयं परिरभ्य निर्वृतः [भा।पु। १०.७१.२७] इत्य्-आदौ ज्ञेयः । सख्यं, यथा—एकदा इति । कृष्णेन साकं विहर्तुम् इत्य् अन्वयः ।[।१३-१४।]{दिर्=“र्त्ल्”}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकदा इति । खाण्डव-दाहाद्य्-अनन्तरम् तदानीम् एवार्जुनस्य गाण्डीवादि-लाभात् ॥१३-१५॥
॥ १०.५८.१५ ॥
तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् ।
शरभान् गवयान् खड्गान् हरिणान् शश-शल्लकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र वने । विशेषतो घ्राणनशीलान् व्याघ्रानिति सूकरविशेषणं तन्मांसस्याभक्ष्यत्वात् । यद् वा, —हिंसकत्वात् तान् अविध्यन् न तूपयोगार्थम् । महिषान्, वन्यान् एव । रुरून् कृष्णमृगान् रुरुः कृष्णमृगे दैत्ये इति धरणिः । शरभानष्टापदान । खड्गान, गण्डकान । शल्लकान्, शल्यान शरभोष्टा पदमृगे करभे वानरान्तरे इति मेदिन्यादौ । खङ्गो गण्डक शृङ्गासिबुद्धभेदेषु गण्डके इति मेदिनी । रुरचो मृगविशेषाः । शरभा अष्टापदाः । गवया गोसदृशाः । खङ्गा गण्डकाः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकदेति खाण्डवदाहानन्तरं ज्ञेयम्, तदानीम् एवार्जुनस्य गाण्डीवादिलाभात् । तथाप्यत्रोक्तिः सुखविहारप्रसङ्गाद् इति दिक् । विशेषेण जयतीति विजय इत्यन्वर्थसञ्ज्ञत्वम् एव दर्शयन् रथादीनाम् अपि जैत्रत्वं बोधयति—वानरध्वजम् इत्य् -आदिविशेषणैः । वानरः श्रीहनुमान्, गां पृथ्वीं डीवयति नादयति शब्दयतीति गाण्डीवम्, सन्नद्धो बद्धकवचादिः, महद्विस्तीर्णं निविडम् वेत्य् अर्थः । कृष्णेन सख्यादिना निजचित्ताकर्षकेण भगवता साकम, अत एव प्रकर्षणाविशत् । एवम् एकम् एव रथमारूह्य द्वयोर् अपि प्रवेशो ज्ञेयः । अत एव तस्य भयाभवं सामर्थ्यश् च सूचयन्न् आह—परेति । किं वा, परवीरहुननशक्तिं दर्शयन्न् इति भावः । एवं विजय त्वम् एव साधितम् । रुरवः क्रूरमृगविशेषाः, शरभा अधापदाः, गवया गोसदृशाः, खड्गा गण्डकाः, अन्ये प्रसिद्धाः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रुरवः मृगविशेषाः शरभाः अष्टापदाः गवयः गोसदृशाः खङ्गा गण्डकाः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.१६-१७ ॥
तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते ।
तृट्-परीतः परिश्रान्तो बीभत्सुर् यमुनाम् अगात् ॥
तत्रोपस्पृश्य विशदं पीत्वा वारि महा-रथौ ।
कृष्णौ ददृशतुः कन्यां चरन्तीं चारु-दर्शनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञ युधिष्ठिराय मेध्यान् कर्मार्हान्, बीभत्सुरर्जौनः ॥ १६-१७ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् व्याघ्रादीन् । पर्वणि श्राद्धोचिते यज्ञोचिते काले । बीभत्सुर्नार्जुने क्रूरघृणात्मविवृतौ त्रिषु इति मेदिनी । तेषु मेध्याः कर्मार्हास्तान् राज्ञे राजानं याजयितुं निन्युः । राज्ञ इति—राज्ञि तस्य धर्मत्वाद् इति भावः । ये त्वमेध्या व्यालाद्यास्तेषां दुश्चेष्टानां मारणेनान्येषां कृतार्थता स्यादित्यभिप्रायेण ॥१६॥
तत्र यमुनायाम् । कन्यां दीप्तामुत्पन्नरजसं पतिमिच्छन्तीम् । अनवाप्तपतिः कन्या जातवीर्या वरार्थिनी इत्युत्पलः । महान्, रथो ययोस् तौ, तच् च रथारोहणे दूराद्ददृशुर् इति भावः । चरन्तीमिति—रथादिशब्दं श्रुत्वा स्वगोपनायेतस्ततो भ्रमन्तीम् । यद् वा, —तपश्चरन्तीम्, तप इति शेषः । तच् च श्री-कृष्णमनःप्रणिधानरूपं ज्ञेयम्, उभयथापि कन्याकतृकदर्शनं तद्द्वयेन जातम् इति परस्परदर्शन नोक्तम् । कृष्णाव् इति सनामत्वे नाप्यन्योन्यं सख्येन चित्ताकर्षणात् । दृश्यत इति दर्शनं रूप, धारु तद्यस्यास्तां परम सुन्दरीम् इत्य् अर्थः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किङ्करास्तस्य राज्ञो वा सेवकाः, मेध्यानिति व्याघ्रादि व्यवच्छेदार्थम्, न च स्वयं भक्षयितुं किन्तु पार्वणश्राद्धार्थम् इत्य् आह—पर्वणीति । राज्ञ इति राजधर्मत्वाद् इति भावः । तृषा परीतो व्याप्तः, यतः परितः श्रान्तः, बीभत्सुर् इति दुष्टकर्मनिन्दनाभिप्रायेण, अतः श्रीकालिन्द्यां तस्य कामो निरस्तः ॥१६॥
महान् रथो ययोस् तौ उच्चरथारोहणेन दूराद्ददृशतुर् इति भावः । चरन्तीं तप इति शेषः । किं वा, पुष्पाद्यर्थं तदा गमनापेक्षयैव वा, यमुनातीरे भ्रमन्तीम् । कृष्णाव् इति सनामत्वेनाप्यन्योन्यं सख्येन चित्ताकर्षणात्, दृश्यत इति दर्शनं रूपं चारु तद्यस्यास्तां परमसुन्दरीम् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मेध्यानिति तेषु ये मेध्यास्तान् राज्ञे राजानं याजयितुं निन्युः राज्ञ इति राज्ञि तस्य धर्मत्वाद् इति भावः । ये त्वमेध्या व्यालास्तेषां दुचेष्टानां मारणेनान्येषां दुर्मरणातिक्रमः स्वकृतेन तु तेन तेषाम् अपि कृतार्थता स्यादित्यभिप्रायेण ॥१६॥
महान् रथो ययोस् तौ उच्चरथारोहणेन दूराद्ददृशतुर् इति भावः चरन्तीम् इति रथादिशब्दं श्रुत्वा स्वगोपनाय तत इतो भ्रमन्तों यद् वा, चरतीं तप इति शेषः । तच् च श्री-कृष्णे मनःप्रणिधानरूपं ज्ञेयम् उभयथापि कन्याकतृके दर्शनं तद्वयेन जातम् इति परस्परन्दर्शनं नोतं कृणाव् इति सनामत्वेनाप्यन्योन्यसख्येन चित्ताकर्षणात् दृश्यते इति दर्शनं रूपं चारु तद्यस्यास्तां परमसुन्दरीम् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मेध्यांस्तेषु कर्मार्हान् राज्ञे राजानं याजयितुं निन्युः, बीभत्सुरर्जुनः ॥ १६-१७ ॥
॥ १०.५८.१८-१९ ॥
ताम् आसाद्य वरारोहां सु-द्विजां रुचिराननाम् ।
पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥
का त्वं कस्यासि सु-श्रोणि कुतो वा किं चिकीर्षसि ।
मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सख्या श्री-कृष्णेन ॥ १८-२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां कालिन्दीम् । तद् एवाभिव्यञ्जयन्विशिनष्टि—वरेत्यादिना । अनुक्तमन्यद् अपि सौन्दर्यमुद्दिशति—प्रमदासूत्तमाम् इति । सख्या प्रेषितः सन्नेव, न तु स्वयं तत्कामेनेत्य् अर्थः । तत्र सखिशब्दप्रयोगेण श्री-कृष्णस्याप्यसङ्कोच दर्शितः । एवं रथादवरुह्य गत इति च ज्ञेयम् । तस्य प्रेषणं च स्वपत्नीत्वकामनया, अन्यथा स्वयम् एवागमिष्यद् इति भावः ॥१८॥
कस्य पुत्र्यसि । का देवी मनुष्यादीनां मध्ये कतमा, किम्नाम्नी चेत्य् अर्थः । कस्य वा पुत्र्यसि । अत्र कुतः स्थानादागतासीति कुत्र तिष्ठसीत्य् अर्थः । यद् वा, —कस्मद्धेतोः किं कर्तुमिच्छसीत्य् अर्थः । कन्याभपरिणीतामत एवं पतिमिच्छन्तीं मन्ये । सुश्रोणीत्यत्र हे परमसुन्दरीत्य् एव विवक्षितम् । भगिनीशब्दे स्वसृत्व-मात्रस्यैव रूढ्या तत्र तावन्-मात्रस्य प्रतीतेः । वरारोहाशब्दस्याप्येवम् एव गतिः कार्या ॥ शोभने हे परमगुणवति, इत्यतः स्वानुरूपपरमसौन्दर्यादि-युक्तम् एव पतिमिच्छसीति भावः । कथय तत्सर्वं मया पृष्टं प्रत्युत्तरय । कन्या म् इत्य् अत्र सर्वम् इति पाठः कचित् । यद् वा, —हे शोभने इति शोभनप्रकारेण कथयितुम् अर्हसीति भावः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन् विशिनष्टि—वरेत्यादिना । तत्र च वरारोहत्वादेवोक्तिस्तद्विशेषापेक्षया, अनुक्तमन्यद् अपि सौन्दर्यादिकमुद्दिशति—प्रमदासुत्तमाम् इति । स्ख्या प्रेषितः सन्नेव, न तु स्वयं तत्कामेनेत्य् अर्थः । यतः फाल्गुनः फल्गु तुच्छकर्म न यस्मिन्न् इत्य् अर्थः । एवं रथादवरुह्य गत इति च ज्ञेयम् ॥१८॥
का देवी, मनुष्यादीनां मध्ये कतमा, किं—नाम्न्ती चेत्य् अर्थः । कुतः कस्मात् स्थानादत्रागतासीति किं वा, कुत्र तिष्ठसीत्य् अर्थः । यद् वा, कस्माद्धेतोः, किं कर्तुमिच्छसीति वा, कन्यामपरिणीतामत एव पतिमिच्छन्तीं मन्ये । सुश्रोणि ! हे परमसुन्दरीति, शोभने ! हे सर्वसद्गुणवतीत्यतः स्वानुरूपं परमसौन्दर्यादि—युक्तं पतिमिच्छसीति भावः । कथय तत् सर्वं मया पृष्ट प्रत्युत्तरयः यद् वा, हे शोभन इति शोभनप्रकारेण कथयितुम् अर्हसीति भावः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन् विशिनष्टि—वरेत्यादिना । अनुक्तमन्यद् अपि सौन्दर्यमुद्दिशति प्रमदासूत्तमाम् इति सख्या प्रेषितः सन्न् एव न तु स्वयं तत्कामेनेत्य् अर्थः । तत्र सखिशब्दप्रयोगेण श्री-कृष्णस्याप्यसङ्कोचो दर्शितः एवं रथादवरुह्य गत इति तस्य प्रेषणं च स्वपत्नीत्वकामनया अन्यथा स्वयम् एवागमिष्यद् इति भावः ॥१८॥
का देवी मानुष्यादीनां मध्ये कतमा किं नाम्नी चेत्य् अर्थः कस्य वा पुत्र्यः कुतः कस्मात्स्थानात् अत्रागतासीति कुत्र तिष्ठसीद् इत्य् अर्थः । यद् वा, कस्माद्धेतोः किं कर्तुमिच्छसीत्य् अर्थः कन्यामपरिणीताम् अत एवं पतिमिच्छन्तीं मन्ये सुश्रोणीत्यत्रपरमसुन्दरीत्य् एव विवक्षितं भगिनीशब्दे स्वसृत्व-मात्रस्य् एव रूप्या तत्र तावन्-मात्रस्य प्रतोतेः वरारोहाशब्दस्याप्येषैव गतिः कर्तव्या शोभने, हे परमगुणवतीत्यतः स्वानुरूपपरमसौन्दर्यादि-युक्तं पतिमिच्छतीति भावः । कथय तत्सर्वं मया पृष्टं प्रत्युत्तरय कन्याम् इत्य् अत्र सर्वम् इति पाठः कचित् । यद् वा, हे शोभने ! इति शोभनप्रकारेण कथयितुम् अर्हसीति भावः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सख्या कृष्णेन प्रेषित इति कालिन्द्या स्वस्मिन्न् एव निष्ठामर्जुनमावेदयितुम् ॥ १८-१९ ॥
॥ १०.५८.२०॥
श्री-कालिन्द्य् उवाच—
अहं देवस्य सवितुर् दुहिता पतिम् इच्छती ।
विष्णुं वरेण्यं वर-दं तपः परमम् आस्थितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरेण्यं प्रार्थनीयम् । तत्र मदभीष्टादन्यो\ऽयं पुरुष इत्य् आशङ्क्य सहसैव स्वाभिलषितं व्यनत्ति—अहम् इति । देवर येत्यादरे । तथापि देव्यस्मीति भावः । विष्णु निजैश्वर्येण सर्वव्यापकम्, अतो वरेण्यं सर्वश्रेष्ठम्, अतो बरदं सर्वाभीष्टदम्, अतस्तम् एव पतिमिच्छती ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवस्येति देव्यस्मीति भावः । विष्णुम् इति च निजैश्वर्येण सर्वव्यापकम् इति, अतो वरेण्यं सर्वश्रेष्ठम्, अता वरदं सर्वाभीष्टदम्, अतस्तम् एव पतिमिच्छन्ती ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र मदभीष्टादन्यो\ऽयं पुरुष इत्याशङ्कय सहसैव स्वाभिलषितं व्यनक्ति—अहम् इति । देवस्येत्यादरे तथापि देव्यस्मीति भावः । विष्णु निजैश्वर्यण सर्वव्यापकम् अतो वरेण्यं सर्वश्रेष्ठम् अतो वरदं सर्वाभीष्टदम् अतस्तम् एव पतिमिच्छती ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरेण्यम् इति यो ह्यतिसुन्दरो । विष्णुस्तम् एव पतिं वरदं मदभीष्टसम्पादकम् ॥२०॥
॥ १०.५८.२१ ॥
नान्यं पतिं वृणे वीर तम् ऋते श्री-निकेतनम् ।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथ-संश्रयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयं मां कामयेदित्याशङ्कायाम् आह । नान्यम् इति ॥ २१-२२ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनाथसंश्रयो दीनदयालुः । श्रीनिकेतनं प्रेमभरेण सदा लक्ष्मीं बिभ्रतमपीत्य् अर्थः । यद् वा, —श्रिय आश्रयम्, सापि यमाश्रितवती तं वा का न वृणीतेति । यद् वा, —श्रियः सर्वस्याः संपदो निकेतनम् इति ब्रह्मरुद्रादयो\ऽपि ब्याबतिताः । बीर हे धर्मशूरेति । अन्यकामां त्वं नैवेच्छसीति भावः । नन्व् असौ दुर्लभः । सत्यम्, दीनवात्सल्यात्स्वीकरोत्वित्य् आह—तुष्यताम् इति । स विष्णुर्यतो भगवान् कारुण्याद्यशेषगणयुक्तः । अत एव मुकुन्दः सर्वदुःख विमोचकः । किं च, —अनाथजनस्य नाथ्यान्तरःन्यस्य संश्रयः शरणम् । यद् वा, —भगवान् परमेश्वरो\ऽपि तुष्यतु यतोनाथसंश्रयः । ननु तस्मिन्न् एव कूत ईदृशाग्रहस्तत्राह—मुकण्दः, अनन्यकामित्वात्तस्माद् एव ममापि मोचनं भविष्यतीति भावः । यद् वा, —भगवानशेषैश्वर्यप्रकटनपरः श्री-कृष्ण इत्य् अर्थः । य एवानाथसंश्रयो मुकण्दो\ऽसुराणाम् अपि गतिप्रदत्वात्, श्रीवैकुण्ठनाथादयो\ऽपि ब्यावतताः । अनेन कचिदेत्तद्विरुद्धोयमयम् इति संवादश् च परिहृतः । एवं वदन्ति राजर्षे इत्य्-आदिवत् । किं च, —यमनेयं खेल दिविधया मूर्त्य वर्तते—भगवस्प्रेयसीत्वेन साक्षाद्रूपया, सागरपत्नीत्वेनाभासरूपया च । यथैव श्रीद्वारकायां वर्तमानापि श्रीबलदेवेनाकृष्यमाणापि तं तुष्टावेति वक्ष्यते । तत आभासांशेनापि यदि स्यात् तथा वतीर्णतया लोकान्तरविभीषिकार्थम् एव तत्प्रपञ्चितम् इति ज्ञेयम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीनिकेतनं प्रेमभरेण सदा वक्षसि लक्ष्मीं विभ्रतमपीत्य् अर्थः । यद् वा, वरणे हेतुः—श्रियः सर्वस्याः सम्पदः शोभाया वा निकेतनम् इति श्रीब्रह्मरुद्रादयो व्यावर्तिताः । वीर ! हे धर्मशूरेति अन्यकामां त्वं नैवेच्छसीति भावः । नन्व् असौ सुदुर्लभः, सत्यम्, दीनवात्सल्यात् स्वीकरोत्वित्य् आह—तुष्यताम् इति । स विष्णुस्तुष्यतु, यतो भगवान् कारुण्याद्यशेषगुणयुक्तः, अत एव मुकुन्दः परमानन्ददाता, किं च, अनाथजनस्य संश्रयः शरणम् । यद् वा, भगवान् परमेश्वरो\ऽपि तुष्यतु, यतो\ऽनाथसंश्रयः, ननु तस्मिन्न् एव कुत ईदृशाग्रहः ? तत्राह—मुकुन्द इति । यद् वा, सो\ऽवतारी मुकुन्दस्तुष्यतु, इत्यवतारा व्यावर्त्तिताः । कथम्भूतः ? भगवानशेषैश्वर्यप्रकटनपरः श्री-कृष्ण इत्य् अर्थः, इति श्रीवैकुण्ठनाथो\ऽपि व्यावर्त्तितः । अत एवानाथसंश्रयः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीनिकेतनं प्रेमभरेण सदा वक्षसि लक्ष्मीं विभ्रतमपीत्य् अर्थः यद् वा, श्रिय आश्रयं सापि यमाश्रितवती तं वा का न वृणीतेति यद् वा, श्रियःसर्वस्याः सम्पदो निकेतनम् इति ब्रह्मरुद्रादयो व्यवर्त्तिताः वीर ! हे धर्मशरेति अन्यकामा त्वं नैवेच्छसीति भावः नन्व् असौ दुर्लभः सत्यं दीनवात्सल्यात् स्वीकरोत्वित्य् आह तुष्यताम् इति, स विष्णुर्यतो भगवान् कारुण्याद्यशेषगुणयुक्तः अत एव मुकुन्दः सर्वदुःखविमोचकः किं च, अनाथजनस्य नाथान्तरशुन्यस्य जनस्य संश्रयः शरणं यद् वा, भगवान् परमेश्वरो\ऽपि तुष्यतु यतो\ऽनाथसंश्रयः । ननु, तस्मिन्न् एव कुत ईदृशाग्रहस्तत्राह—मुकुन्दः अनन्य कामत्वात्तस्माद् एव ममाधिमोचनं भविष्यतीति भावः । यद् वा, भगवान् अशेषैश्वर्यप्रकटनपरः श्री-कृष्ण इत्य् अर्थः । य एवानाथसंश्रयो मुकुन्दः असुराणाम् अपि गति प्रदत्वात् [इति] श्रीवैकुण्ठनाथादयो\ऽपि व्यावर्त्तिताः अनेन क्वचिदेतद्विरुद्धो यमयमीसम्वादश् च परिहृतः एवं वदन्ति राजर्षे इत्य्-आदिवत् किं च, श्रीयमुनेयं खलु द्विविधया मूर्या वर्तते भगवत्प्रेयसीत्वेन साक्षादूपतया सागरपत्नीत्वेनाभासरूपतया च यथैव श्रीद्वारकायां वर्तमानापि श्रीबलदेवेनाकृष्यमाणा तं तुष्टावेत वक्ष्यते तत आभासांशेनापि यदि स्यात्तदा धर्मरक्षार्थमवतीर्णतया लोकान्तरविभीषिकार्थम् एव तत्प्रपं च तम् इति ज्ञेयम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माच्छङ्कमाना स्वनिष्ठां व्यतिरेकेणापि ज्ञापयन्त्य् आह—नान्यम् इति अनाथसंश्रय इति स एव नाथः स्वभक्तजनरक्षक इति विश्वासादेवाहमबलापि निर्जने वसन्त्यपि पुरुषान्तरान्न बिभेमोति भावः ॥२१॥
॥ १०.५८.२२ ॥
कालिन्दीति समाख्याता वसामि यमुना-जले ।
निर्मिते भवने पित्रा यावद् अच्युत-दर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कलिं द्यति खण्डयतीति कालिन्दो विष्णुः । यशः कलिमलापहम् इत्य् उक्तः । तस्येयं प्रिया कालिन्दी । कालिदम् अनकारकः इति सम्मोहनोक्तः कालिशब्दो\ऽपि कालिथपरः, तं दयते पालयति गरुडाद् इति वा । कालिन्दाद्गिरेरुद्भूता वा कालिन्दी नदी, तस्यां वासाद्वा तन्नाम्नी । पित्रा सूर्येण । वने गृहवदाधारे । एवं जात्यादिकं तत्पृष्टं कथयित्वा नाम् आह—कालिन्दीति । यमुनाहं सममेक पर्यायं यथा स्यात् तथा ख्याता सती जले निजप्रभावमये वसामि । ननु जले वासस् तव मत्स्यानाम् इव सर्वत्र चरेत्याः स्यात्तत्राह—निर्मित इति । जल एव कयापि विद्यया पित्रा श्रीरविदेवेन निर्मिते भवन इति । तस्य केनाप्यतर्क्यत्वं स्वेच्छया सर्वत्र सञ्चारित्वं च व्यञ्जितम् । स्नेहन भवनस्योत्तमत्वं च सूचितम् । तथापि तस्मिन्मम मोहो नास्तीत्य् आह—यावद् इति । अच्युतस्य न मे भक्तः प्रणश्यति [ गी। ९।३१ ] इति स्वप्रतिज्ञातच्युतिः हितस्य भगवतो दर्शनं तत्कतृकाङ्गीकारं यावत्तावन्तम् एव काले व्याप्येत्य् अर्थः । अत एव दर्शने सति तपःफलसिद्धया नानेन मम प्रयोजनम् इति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं जात्यादिकं तत्पृष्टं कथयित्वा नाम् आह—कालिन्दीति । अनेन गिरिवरकलिन्दस्यापि वाक्पुत्रीत्वम्, तथा सम्यगाख्यातेति कृष्णादि-नामान्तरस्य गौणत्वं च सूचितम् । ननु सा हि श्रीयमुनाप्रवाहाधिष्ठातृदेवता, सत्यम् । सैवाहम् इत्य् आशयेनाह—वसामीति । ननु जलान्तर्वासः कथं घटेत ? तत्राह—निर्मित इति । कुत इत्यस्योत्तरम् इदम् अपि ज्ञेयम् । पित्रेति देववरत्वेन जले\ऽपि तन्निर्माणसामर्थ्यम्, तथा स्नेहेन भवनस्योत्तमत्वं च सूचितम्, तथापि तस्मिन् मम मोहो नास्तीत्य् आह—यावद् इति । अच्युतस्य न मे भक्त प्रणश्यति [ गी। ९।३१ ] इत्य्-आदि स्वप्रतिज्ञातश् च्युतिरहितस्य भगवतः, अत एव दर्शने सति तपःफलसिद्धया नान्येन मे प्रयोजनम् इति भावः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं जात्यादिकं तत् पृष्टं कथयित्वा नाम् आह—कालिन्दीति । यमुनाहं सममेकपर्यायं यथा स्यात् तथा ख्याता सती जले निजप्रभावमये वसामि । ननु, जले वासस् तव मत्स्या इव सर्वत्र सञ्चरन्त्याः स्यात्तत्राः निर्मित इति । जले एव कयापि विद्यया पित्रा श्रीरविदेवेन निर्मिते भवने इति तस्य केनाप्यतर्क्यत्वं स्वेच्छया सर्वत्र सञ्चारित्वं च व्यञ्जितं स्नेहेन भवनस्योत्तमत्वं च सूचितं तथापि तस्मिन्मम मोहो नास्तीत्य् आह—यावद् इति । अच्युतस्य न मे भक्तः प्रणस्यतीति [ गी। ९।३१ ] स्वप्रतिज्ञातश् च्युतिरहितस्य भगवतो दर्शनं तत्कतृकाङ्गीकारं यावत्तावत्तम् एव कालं व्याप्य इत्य् अर्थः । अत एव दर्शने सति तपः फलसिद्धयानानेन मे प्रयोजनम् इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाख्यातेति सूर्यस्य कन्यां मां को न जानातीति स्वप्रभावं च ज्ञापयति—पित्रा निमिते भवने इति । पितुः सूर्यस्याप्यहमतिवात्सल्यधात्रीति मत्प्रतिकूल्ये को नाम प्रभवेद् इति भावः ॥२२॥
॥ १०.५८.२३ ॥
तथावदद् गुडाकेशो वासुदेवाय सोऽपि ताम् ।
रथम् आरोप्य तद्-विद्वान् धर्म-राजम् उपागमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आदावेव तद्विद्वान् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा कालिन्दी ऊचे तथा गुडाकेशो जितनिद्रो वक्रकेशो वार्जुनः । सो\ऽपि वासुदेवो\ऽपि । तत् कालिन्दीवृत्तम् । रथमारोप्येति—अयि सुन्दरि वरेण्ये विष्णुरहम् एवेत्यतः स्वपित्रपदिष्टमदीयध्यानस्य स्वीयशुद्धहृदयोत्थभावस्य च प्रामाण्याद् एव त्वं मां परिचिन्वित्य् उक्त्वा तस्या रथारुरुक्षामुत्पाद्यैवेति भावः । तां गृहीत्वा रथमारुह्येत्यनुक्तेः । तद्विद्वनिति पूर्वम् एव तद्-अर्थं गत इति भावः । धर्मराजमिति—धर्मज्ञतया तेनापि सर्वमबुध्यतैवेति भावः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथा तयोक्तं तथैवावदत् । कुतः ? गुडाका निद्रालक्षणा माया, तदीशो जितमाय इत्य् अर्थः, निष्कपटत्वाद् इति । किं च, वसुदेवनन्दनाय मातुलेयत्वेन स्नेहविशेषाच्चेति भावः । तद्विद्वानित्ययं भावः—मदेकनिष्टैया सख्ये\ऽर्जुनायापि दातुं तथा बहुलवनितापरिग्रहेण लोके कामुकतादोषस्पर्शे\ऽप्य् अपेक्षितं न योग्यैवेत्य्-आदि सर्वमादावज्र्जुनं प्रेष्य सर्वान् जनान् प्रतिबोधयेयम् इति तत्प्रेषणे प्राग् एव विचारणादिति, धर्मराजम् इति धर्मज्ञतया तेनापि तत् सर्वं बुध्येतैवेति भावः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदिदानिति पर्वम् एव तद्-अर्थ गत इति भावः । धर्मराजम् इति धर्मज्ञतया तेनापि सर्वमबुद्धयतैवेति भावः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यावदच्युतदर्शनम् इति तत्कत्तृकाङ्गीकारपर्यन्तम् इत्य् अर्थः ॥ २३-२४ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रथमारोप्येति । अयि सुन्दरि ! वरेण्यो विष्णुरहम् एवेत्यतः स्वपित्रुपदिष्टमदीयध्यानस्य स्वीयशुद्धहृदयोत्थभावस्य च प्रमाण्याद् एव त्वं मां परिचिन्वित्युवत्या तस्या रथारुरुक्षामुत्पाद्यैवेति भावः । तां गृहीत्वा रथमारुह्येत्यनुक्तेः तद्विद्वानियादावेव तद्-अर्थं गत इति भावः ॥२३॥
॥ १०.५८.२४ ॥
यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्भुतम् ।
कारयाम् आस नगरं विचित्रं विश्वकर्मणा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसङ्गातसत्कालीनं चरित्रान्तरम् आह—यदैवेति । पार्थैर् यदैव सन्दिष्टो विज्ञापितः श्री-कृष्णस्तदैव तेषां विश्वकर्मणा देवशिल्पिना नगर कारयामास ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नगरमिन्द्रप्रस्थावान्तरम् एव । धर्मराजादीनां सर्वेषां प्रकारान्तरेण हितमाचरद् इति पूर्वकथाम् आह—यदेति चतुर्भिः । तत्रायं क्रमः—पूर्वं नगररचनं, ततः खाण्डवदाहः, ततः सभाहरणं, ततः कालिन्दीलाभः । एवशब्देन पार्थवाग्वश्यत्वं तस्य बोधयति । परमाद्भुतत्वे हेतुः—विचित्रम्, चतुर्दशभुवनवतिविविधशोभाढ्यम् इत्य् अर्थः ॥२४॥
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**यदैवेति । लब्धकल्यः कदाचिदत्रैव कतिचिद्दितानि तिष्ठतीति तद्वासयोग्यं न भवत्येतत् पुरम् तदिदं विज्ञापयामः—द्वारकातुल्यामत्रापि पुरं विश्वकर्मा सम्पादयन्व् इति तेनादिष्टो यदैव तदैव कारयामासेत्य् अर्थः ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धर्मराजादीनां च तेषां सर्वेषां प्रकारान्तरेण हितमाचरद् इत्य् आह—यदेति चतुर्भिः । एव-शब्देन पार्थवागवश्यत्वं तस्य बोधयति, कृष्णः साक्षाद्भगवान्, अतो विश्वकर्मणा कृत्वा कारयामास । परमाद्भूतमत्यनिर्वचनीयं सर्वलोकातीतं वा, यतो विचित्रं चतुर्दर्शभुवनवर्त्ति-विविधशोभाढ्यम् इत्य् अर्थः । इतीन्द्रादिपुरीतो\ऽपि वैशिष्ट्यं द्योतितम् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धर्मराजादीनां च तेषां सर्वेषां प्रकारान्तरेण हितमाचरद् इति पूर्वकथाम् आह—यदेति चतुर्भिः । अत्रायं क्रमः पूर्व नगररचनं ततः खाण्डवदाहः ततः सभाहरणं ततः कालिन्दीलाभ इति, एवशब्देन पार्थवाग्वश्यत्वं तस्य बोधयति परमाद्भूतत्वे हेतुः विचित्रं चतुर्दशभुवनवर्तिविविधशोभाड्यम् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदैवत्यत्रायं क्रमः पूर्वं नगररचनाः ततः खाण्डवदाहः ततः सभाहरणं ततः कालिन्दीलाभ इति सन्दिष्टः पार्थैर् यद् एव विज्ञापितस्तदैवेत्य् अर्थः ॥२४॥
॥ १०.५८.२५-२६ ॥
भगवांस् तत्र निवसन् स्वानां प्रियचिकीर्षया ।
अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः ॥
सोऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप ।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, भगवान्निरतिशयैश्वर्यगुणवानप्यर्जुनस्य धनुरादिलाभाय सारथिरास खाण्डवं नामेद्रस्य वनम् ॥२५॥
अक्षयावक्षयसायकौ ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं नगर म् एव कारयामास, किन्तु बहुचित्रशस्त्रसभाद्यपि दापयामासेत्य् आह—किं च इति । तत्र नगरे ॥२५॥
यस्मै खाण्डवं दत्तं स इत्य् अर्थः । धनुर्गाण्डवम् । चर्माच्छुरिका । स उपभुक्तखाण्डवः । हे नृपेति पितामहस्य तत्तल्लाभेन प्रहर्षात् । यद् वा, हे नृपेति तव नृपत्वम् अपि तत्प्रभावाद् एवेति भावः । अग्निर् एव कृष्णाय चक्रमप्यादादित्यन्यत्र प्रसिद्धेरत्र नोक्तम् ॥२६॥
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**ते तु निष्पन्ने पुरे तदैव आसन् इत्य् आह—भगवांस् तत्र निवसन्नित्य्-आदि ॥२५-४४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र नगरे, नितरां चिरं सुखं वसन् ॥२५॥
स उपभुक्तखाण्डवः, रथं च श्वेतं श्वेतवर्णश्रीहनुमद्ध्वजबहुलमुक्तामालादिभूषितत्वात्, हे नृपेति पितामहस्य तत्तल्लाभेन प्रहर्षात् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नितरां चिरं सुखं वसन् टीकायामर्जुनस्येत्यादिकमग्नये खाण्डवं दातुम् इत्य् अस्योपलक्षणत्वगमकम् ॥२५॥
सो\ऽग्निर् इत्य् अनेन श्री-कृष्णाय चक्रमादित्यन्यत्र च प्रसिद्धम् अप्य् अत्र नोक्तं स उपभुक्तखाण्डवः । नृपेति पितामहस्य तत्तल्लाभेन तस्य प्रहर्षात् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् इति । अत्र तु क्रमो\ऽयं पूर्वं खाण्डवदाहस्तः कालिन्दीलाभः ततो नगरनिर्माणं ततः सभोपहार इति खाण्डवदाहानन्तरम् एवाग्नेः सकाशात् तद्रथादिप्राप्तेः ॥ २५-३२ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्जुनस्य धनुरादिलाभाय सारथिरास अभूत् खण्डवं नामेन्द्रस्य वनम् ॥ २५-२६ ॥
॥ १०.५८.२७ ॥
मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् ।
यस्मिन् दुर्योधनस्यासीज् जल-स्थल-दृशि-भ्रमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : खाण्डवदाहकाद्वह्ने, सख्ये अर्जुनाय यस्मिन्न् इति सामान्यतो निर्देशः यस्याम् इत्य् अर्थः । जलस्थलयोर् दृशेर्दृष्टेभ्रमः । यद् वा, जले स्थलवत् दृक् दृष्टिर्यस्मिंस्तज्जलस्थलदृक् तस्मिन् भ्रम असीद् इति ॥ २७-२८ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सामान्यतः यत्रेत्य् अर्थः । प्रथमसमासे\ऽधिकरणं भ्रमस्य न ज्ञायते\ऽत आह—यद् वा इति । जलस्थलदृक् सभैकदेशस् तत्र भ्रम इत्य् अर्थः । मोचितो भगवता ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मोचितो भगवता, अतो\ऽर्जुनस्तस्यापि सखा तस्मै, किं च, भगवतः सख्ये । यद् वा, पाण्डवैः सह सख्ये निमित्ते उपाहरत् उपस्कृत्यार्पयामास, इति सुधर्मातो\ऽपि विशेषः सूचितः । तम् एवाह—यस्मिन्न् इति ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मोचिती भगवता ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सख्ये खाण्डवदाहकवह्नेर्मित्रायार्जनाय यस्मिन् यस्याम् ॥ २७-२९ ॥
॥ १०.५८.२८ ॥
स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः ।
आययौ द्वारकां भूयः सात्यकि-प्रमुखैर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कृष्णः । तेन युधिष्ठिरेण । एवं पूर्ववृत्तमुक्त्वा कालिन्द्यानयनोत्तरं वृत्तम् आह—स इति । तेन धर्मराजेन सम्यगनुज्ञातः बारंबारं जिगमिषन्न् अपि महास्तिदग्धस्य तस्यानुज्ञामनत्यन्तां बुद्ध्वा पूर्वं न चचाल । अधुना श्रीकालिन्दीविवाहापेक्षया तां प्राप्तः सन्न् इति स शब्दार्थः । सुहृद्भिर् अर्जुनादिभिः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेन धर्मराजेन सम्यगनुज्ञातो बारम्बार जिगमिषन्न् अपि महास्निग्धस्य तस्य मनोदुःखेनैवानुज्ञां बुद्धानागत्याधुना सुखेन तां प्राप्तः सन्न् इति सं-शब्दार्थः । सुहृद्भिर् अर्जुनादिभिः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पूर्ववृत्तमुक्त्वा पुनरावृत्य श्रीकालिन्द्यायनानन्तरं वृत्तम् आह—स इति । तेन धर्मराजेन सम्यगनुज्ञातः बारम्बारं जिगमिषन्न् अपि महास्निग्धस्य तस्यानुद्यामनत्यन्तां बुद्ध्वा पूर्वं न चचाल अधुना श्रीकालिन्दीविवाहापेक्षया तां प्राप्तः सन्न् इति संशब्दार्थः सुहृद्भिर् अर्जुनादिभिः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.२९ ॥
अथोपयेमे कालिन्दीं सु-पुण्य-र्त्व्-ऋक्ष ऊर्जिते ।
वितन्वन् परमानन्दं स्वानां परम-मङ्गलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपुण्य ऋतुः ऋक्षं च यस्मिन् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ द्वारकाप्राप्तेरनन्तरम् । ऊर्जिते\ऽतिबलवति, काले इत्य् अर्थः । सुपुण्ये विवाहादिप्रशस्ते, ऋतौ वसन्तादौ, ऋक्षे । च रोहिण्यादौ च द्वन्द्वैक्यम् । तत्राप्यूर्जिते ऋतौ, रविशुद्ध्यादि-युक्ते, ऋक्षे तु संपदाद्येकतरे, शुभचन्द्रे शुभग्रहयुक्ते दृष्टे च विहित
इत्य् अर्थः । स्वत एव परममङ्गलो\ऽपि इति लोकशिक्षार्थम् एव तत्तदपेक्षेति भावः । यद् वा, —परममङ्गलम् । तत्प्रभावेण स्वयम् एव सर्वमङ्गलोपसत्तेर् इत्य् अर्थः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ आगमनानन्तरम् एव, माङ्गल्ये वा, तद् एवाभिव्यञ्जयति—सुपुण्येति । ऊर्जिते सुपुण्येष्व् अपि विवाहानुकूल । यद् वा, सुपण्यस्य ऋतोरृइक्षे ऊर्जिते बलवति, स्वत एव परममङ्गलो\ऽपि, इति लोकशिक्षार्थमुत्तरायणे माघाद्यपेक्षणम् । यद् वा, आग्रहायणे एव वार्षिक—चातुर्मास्याल्ययेन मार्गे मासि द्वारकागमनात्तदानीम् एव तत्तत्सम्पत्तेः, यतः परममङ्गलः तत्प्रभावेण स्वयम् एव सर्वमङ्गलोपसतेर् इत्य् अर्थः । स्वानां श्रीश्रीवसुदेवादीनां परममानन्दं विशेषेण तन्वन् विस्तारयन् सदानन्दं विस्तारयत्येव, अधुन तु श्रीकालिन्दी विवाहेन परमं विशेषेण तं विस्तारयन्न् इत्य् अर्थः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुपण्ये विवाहायातिप्रशस्ते ऋतौ ऋक्षे च द्वन्द्वैक्यं तत्रापि ऊर्जिते ऋतौ रविशुद्ध्यादि-युक्त ऋक्षे तु सम्पदाद्येकतरे शुभचन्द्रे शुभग्रहयुक्तदृष्टे च विहित इत्य् अर्थः । स्वत एव परममङ्गलो\ऽपि इति लोकशिक्षार्थम् एव तत्तदपेक्षेति भावः । यद् वा, परममङ्गलः तत्प्रभावेन स्वयम् एव सर्वमङ्गलोपसत्तेर् इत्य् अर्थः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.३०॥
विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधन-वशानुगौ ।
स्वयं-वरे स्व-भगिनीं कृष्णे सक्तां न्यषेधताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्चमं मित्रविदाविवाहम् आह—विन्दाव् इति द्वाभ्याम् । आवन्त्याववन्त्याराजानौ ॥ ३०-३१ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्योधनस्य वशानुगौ प्रियानुगौ । त्रिष्वायत्ते वशो\ऽभीष्टे इति निरुक्तिः । स्वयंवरे\ऽपि कृष्णे सक्तां न्यषेधताम् ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वयम्वरे\ऽपि कृष्णे सक्तामासक्तां न्यषेधतां श्री-कृष्णेन सह विवाहाद्वारयामासतुः । यद् वा, स्वयम्बर इत्यस्य हृतवान् इति परेणान्वयः । यद् वा, स्वयं तया वरणे न्यषेधताम्, तां प्रति तन्निषिविधतुर् इत्य् अर्थः । कुतः ? दुर्योधनस्य वशानुगौ इच्छानुसारिणौ, अत एव पितृष्वसुर् अपि तनयां हृतवान्, यतः कृष्णः प्रियजनप्रेम्णाकृष्यमाणचित्त इत्य् अर्थः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वयंवरे\ऽपि कृष्णे सक्ताम् आसक्तां न्यषेधताम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चमं मित्रविन्दाविवाहम् आह—विन्देति द्वाभ्याम् । आवात्यौ अवन्तीभूपालौ ॥ ३०-३१ ॥
॥ १०.५८.३१ ॥
राजाधिदेव्यास् तनयां मित्रविन्दां पितृ-ष्वसुः ।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितृष्वसुः वसुदेवभगिन्या राजाधिदेवीतिनामवत्याः । पितृष्वसुरिति—यदुवंशे स्वसम्बन्धिविवाहस्याचारप्राप्तत्वान्न दोष इति भावः । यद् वा, —हरिवंशोक्तरीत्या यदुवंशो द्विधा—सौरश्चान्द्रश्च, तदग्रे वर्णयिष्यामः । किं च, -कृष्ण ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्यहम् इति रीत्या कृष्यमाणचित्तत्वाद् अपि तन्नामेत्य् अर्थः । शिबिदेशोद्भवत्वादस्या एव शैब्येति नाम । अत एवाग्रे कुरुक्षेत्रे यात्रायां श्रीद्रौपदीप्रश्ने शैब्य इति सम्बोधनं, व्याख्यातश्व तैः-शैब्या मित्रविन्देति ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पितृष्वसुर् इति यदुवंशे स्वसम्बन्धिविवाहस्याचारप्राप्तत्वात् न दोष इति भावः । किं च, कृष्णः ये यथा मां प्रपद्यन्ते इति रीत्या कृष्यमाणचित्तत्वाद् अपि तन्नामेत्य् अर्थः । शिबिदेशोद्भवत्वादस्या एव शैव्येति नाम अत एवाग्रे कुरुक्षेत्रयात्रायां श्रीद्रौपदीप्रश्ने शैव्येति सम्बोधनं व्याख्यातं च तैः शैन्ये मित्रविन्दे इति ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.३२ ॥
नग्नजिन् नाम कौशल्य आसीद् राजाति-धार्मिकः ।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : षष्ठम् आह । नग्नजिद् इति । कौशल्यो\ऽयोध्यापतिस्तस्य सत्या नाम कन्या\ऽभवदासीत् देवी कान्तिमती नाग्नजितीति पितृनाम्ना प्रसिद्ध त्य् अर्थः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विवाहान्तरम् आह—नग्नजिद् इति ।
वेदो हि सर्वलोकानां वस्त्रवद्रक्षकः स्मृतः ।
तद्धीनः प्रोच्यते नग्नस्तज्जेता नग्नजिन्मतः ॥
इत्यन्वर्थनामा । तत्र हेतुः—अतिधार्मिक इति । इत्य् अर्थ इति-न तु तस्या इदं नामेति भावः । अतिधार्मिको भगवद्धर्मपर इत्य् अर्थः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजनिति स्वभक्तानुग्रहेण प्रहर्षोन्दयात्, किं वा राजमानः सन्, अतो राज्ञां सर्वेषां प्रकर्षेण पश्यताम् एव, सप्तम्यां षष्ठी, पश्यत्सु सत्स्वेव, अनादरे षष्ठी वा, शिविदेशोद्भववादस्या एव शैव्येत्यपि नाम, अत एवाग्ने कुरूक्षेत्रयात्रायां श्रीद्रौपदी प्रश्ने शैव्ये इति सम्बोधनम् । व्याख्यातं च तैः—शैव्ये मित्रविन्दे इति । अतिधार्मिकः श्री-भगवद्धर्मपर इत्य् अर्थः । अत एव नग्नान् जैनान् अपि जयति स्ववशे करोतीति नग्नजिदित्यन्वर्थनामत्वम् । हे नृपेति राजकन्यायाः सौन्दर्यसौशल्यादिकं भवता ज्ञायत एवेति मया किं तद्वण्र्यम् इति भावः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतिधार्मिकः श्री-भगवद्धर्मपर इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : षष्ठम् आह—नग्नजिद् इति । कौशल्यः अयोध्याधिपतिः सत्येति सञ्ज्ञा ॥३२॥
॥ १०.५८.३३ ॥
न तां शेकुर् नृपा वोठुम् अजित्वा सप्त-गो-वृषान् ।
तीक्ष्ण-शृङ्गान् सु-दुर्धर्षान् वीर्य-गन्धासहान् खलान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वीरस्य गन्धम् अपि न सहन्त इति तथा तान् खलान् दुर्वृत्तान् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां सत्याम् । वीरान् शूरान् गन्धयन्ति हिंसन्तीति वीरगन्धाः शूरोत्तमास्तैर् अपि न सह्यन्त इति । तथा वीरं राहु गन्धयत्यल्पीकरोतीति वीरगन्धो विष्णुस्तदसहान् असुरावतारत्वात्तेषाम् इति । तन्त्रान्तरे विष्णुनैव सर्वाङ्गत्यागपूर्वं शिरोरूपत्वेन शेषणाद्राहुरल्पीकृत इत्य् उक्तमधस्तात् ।
वीरो राहौ हरौ शक्रे भटे पुत्रे रसान्तरे ।
भ्रातरि शङ्करगणे वीरा पतिसुतान्विता ॥ इति यादवः ।
गन्ध-हिंसालेशयोः धातुः घ्राणग्राह्यगुणे गन्धो लेशे ग्राहे च मारणे इति च । स च तां श्री भगवते दातुमिच्छन्न् अपि दुष्टजरासन्धादिभ्या बिभ्यदुपायमकरोदित्यभिप्रेत्य् आह—नेति । गोवृषानिति गोबलीवर्दवदधिकार्थम् । यद् वा, —वृषश्रेष्ठान् । यद् वा, —गोषु धेनुषु स्थितानदान्तान् वृषाञ्जित्वा बन्धनदिना वशान् कृत्वा । खलान् हिम्स्रानसुरस्वभावत्वात् । तच् च द्वितीयस्कन्धे ये च प्रलम्ब [ भा।पु २ ] इत्य् आदौ सप्तक्ष्णाम् अपि गणनान्मुक्ति कथनाच् च । मुक्तिश् च भगवत्स्पर्शप्रभावेण देहान्ते ज्ञेया ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स च तां श्री-भगवत्-ए दातुमिच्छन्न् अपि दुष्टजरासन्धादिभ्यो विभ्यदुपायमकरोद् इति सूचयन्न् आह—नेति । गोवृषान् गोष श्रेष्ठान् । यद् वा, गोषु स्थितान् अवृद्धानभिनवान् वृषान्, अजित्व बन्धनादिना वशे अकृत्वा, खलान् हिंस्रान् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स च तां श्री-भगवत्-ए दातुमिच्छन्न् अपि भ्रातृव्यबृहद्वलाज्जरासन्धादिभ्यश् च बिभ्यदुपायमकरोदित्यभिप्रेत्य् आह—नेति । गोवृषानिति गोबलीवर्दवदनधिकार्थं । यद् वा, वृषश्रेष्ठान् यद् वा, गोषु धेनुषु स्थितान् अदान्तान् वृषान् अजित्वा बन्धनादिना वशान् । कृत्वा खलान् हिंस्रान् असुरस्वभावत्वात् तच् च द्वितीयस्कन्धे ये च प्रलम्बेत्यादौ सप्तोक्षस्यापि गणनात् मुक्तिकथनां च मुक्तिश् च भगवत्स्पर्श प्रभावेण देहान्ते ज्ञया ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : खलान् हिंस्रान् असुरस्वभावत्वात् तच् च द्वितीयस्कन्धे ये च प्रलम्बखरदुर्दरेत्य्-आदि सप्तोक्षाया गावो गणनात् मुक्तिकथनाच् च । मुक्तिश् च श्री-भगवत्-स्पर्शस्वभावेन देहान्ते ज्ञेया ॥ ३३-४३ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वोढुं विव्योढुम् ॥ ३३-३४ ॥
॥ १०.५८.३४ ॥
तां श्रुत्वा वृष-जिल्-लभ्यां भगवान् सात्वतां पतिः ।
जगाम कौशल्य-पुरं सैन्येन महता वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वृषान् जयति यस् तेन लभ्याम् ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लभ्यां लध्धं योग्याम् । भगवान्सर्वशक्तियुतः । सात्वतां भक्तानां पतिः, पलनशीलः । अतस्तत्रैव महता सैन्येनावृतः । सैन्येनेति राजान्तरभयदानार्थम् एव ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वशक्ति-युक्तः, किं च, सात्वतां भक्तानां पतिः पालकः, अतस्तत्रैव विवाहेच्छया महता सैन्येनावृतः सन् जगाम ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्वशक्ति-युक्तः किं च, सात्वतां भक्तानां पतिः पालनशीलः [ सर्वराजकुलागमन विचारेण ] अतस्तत्रैव महता सैन्येनावृतः सन् जगाम ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.३५ ॥
स कोशल-पतिः प्रीतः प्रत्युत्थानासनादिभिः ।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिनन्दितस्तं प्रतिनन्दितवान् । श्री-कृष्णेन वा स प्रतिनन्दितः ॥ ३५-३९ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिनन्दितो जातश्लाघः । तं कृष्णम् । गुरुणाधिकतरेणार्हणेन पूजनसामग्र्यापूजयत्प्रतिनन्दितवान । वद्धत्वातं श्री-कृष्णाप्यादृतवानित्य् आह—श्री-कृष्णेनेति । गुरुणा सर्वश्रेष्ठेन । अर्हणेन सर्वपूज्येनापि स नग्नजित् प्रतिनन्दितो वाचापूजीत्य् अर्थः । गुरुस् तु गीष्पतौ श्रेष्ठे गुरुः पितरि दुर्भरे इत्युज्ज्वलः । स च तस्मा एवं कन्यां दातुं कृततादशव्याजः । अत एव प्रीतः प्रथमस् तावल् लौकिक-रीत्यासनादिभिः पूजयन् पुनर् अर्चन-रीत्या तु अर्हणेनोद्वाहोचित-तत्-तद्-द्रव्येणाप्य् अपूजयद् इति ध्येयम् ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सो\ऽतिधामिकत्वादिना प्रसिद्धः । किं वा, तस्मै कन्यां दित्सुः, आदि-शब्दादध्र्यपाद्यादीनि, गुरुणा श्रेष्ठेन अहणेन अन्येनापि भूषणादिपूजाद्रव्येण, अर्घ्यादि-शब्दान्तर्गतत्वसम्भवे\ऽपि पृथग् उक्तिर्गुरुत्वस्य किं वा, उपचारतः पृथक्त्वस्यापेक्षया ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स तस्मा एव कन्यां दातुं कृततादृशव्याजः अत एव प्रीतः प्रथमतास्तावल्लौकिकरीत्या आसनादिभिः पूजयन् पुनरचनशास्त्ररीत्या तु अहणेन तत्तत्पूजाद्रव्येणापि पूजयन्न् इति य ज्यम् आदिग्रहणात् पादप्रक्षालनव्यजनादिकं गृह्यते ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णं पूजयन् प्रतिनन्दितः कृष्णेनादृतो\ऽभूत् ॥३५॥
॥ १०.५८.३६ ॥
वरं विलोक्याभिमतं समागतं
नरेन्द्र-कन्या चकमे रमा-पतिम् ।
अभूयाद् अयं मे पतिर् आशिषोऽनलः
करोतु सत्या यदि मे धृतो व्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिमतमभीप्सितम् । वरं वरणयोग्यं जामातरम् वरो ना रूपजामात्रोर्ददेवादेरीप्सितावृतौ इति यादवः । चकमे इयेष । आशिषः अभिलाषान् आशीराश्यहिदंष्ट्रायां शुभवावयाभलाषयोः इति यादवः । यदि मे मया व्रतः ब्रतसमहो\ऽधृत । धरतेः कर्मणि लुङ । चिणभावस्त्वार्षः । व्रतानां समूह इत्यस्मिन्नर्थे\ऽच्प्रत्ययः । यद् वा, —मे आशिषः धृतं व्रतं मद्विवाहनियमो येन स कृष्णः सत्याः करोत्वित्य् अर्थः । एवं सदसि वृत्तमुक्तं, ततश् चात्मीयैः सहाभ्यन्तरकक्षामानीते भगवति वृत्तम् आहवरम् इति । विलोक्य चन्द्रशालागवाक्षत इति ज्ञेयम् । अभिमतमात्मनश् चिराद् अभीष्टम्, सर्वेषां च संमतम् इत्य् अर्थः । यतः रमायाः पुर्णलक्ष्मरूपाया रुक्मिण्या अपि पतिं, तया पतित्वेन नित्यमाश्रितम् इति सर्वोत्तम गुणम् इत्य् अर्थः । अतः सापत्नदुःखम् अपि न वितर्कितम् इति भावः । सम्यग् वरौचित्येनान्तःपूरपर्यन्तमागतं विलोक्य साक्षादॄष्ट्वा चकमे, भावविशेषेण क्षभ्यन्ती सङ्कल्पयामासेर्थः । नरेन्द्रस्य कन्येति कौशल्येन क्षोभासत्वं दर्शितम् । सङ्कल्पम् एवाह—भूयाद् इति । अनलचिरमिष्टदेवतात्वेनाभ्यर्चितो\ऽग्निर्मे आशिषो वाञ्छितानि सत्याः सफलाः करोतु । अत्रोत्कण्ठास्वाभाव्येन सम्यक्त्वे\ऽपि सन्दिहान् एव सास्रगद्गदम् आह—यदीति । यदि तत्पूजादिनियमो यत्नेन रक्षित इति । आशिषो\ऽमलाः इति पाठे\ऽयं पतिर् एव परमेश्वरत्वेन सत्याः करोत्व् इत्य् अन्वयः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभिमतमात्मनश् चिराद् अभीष्टम्, यतो रमापति लक्ष्मीनाथम् । यद् वा, श्री-रुक्मिणीस्वामिनम् अपि अभिमतं रूपगुणादिना आत्मनः सर्वेषां वा अभितः सम्मतम्, तत्र च सम्यक् स्वयम् एव बन्धुभिः सहागतं विलोक्य साक्षाद्दृष्ट्वा चकमे कामयते स्म, यतो नरेन्द्रस्य कन्या सर्वरूपग्णाद्यलङ्कृतेत्य् अर्थः । कथं चकमे ? तदाह—भूयाद् इति । अनलश्चिरभिष्टदेवतात्वेनार्च्चितो\ऽग्निर्मे आशिषो वाञ्छाः सत्याः सफलाः करोतु, बहुत्वं गौरवात्, तद्-अर्थं निजसत्कम्र्माण्यर्पयति—यदीति । मे मया व्रत एको\ऽप्य् उपवासादिधृतो नियमेन साधितः । यद् वा, तत्पूजादिनियमो यत्नेन रक्षितः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सदसि वृत्तम् उक्तं, ततश् चात्मीयैः सहाभ्यन्तरकक्षामानीते भगवति वृत्तम् आह—वरभिति । विलोक्य चन्द्रशालागवाक्षत इति ज्ञेयम् । अभिमतम् आत्मनश् चिराद् अभीष्टं सर्वेषां च सम्मतम् इत्य् अर्थः । यतः रमायाः पूर्णलक्ष्मीरूपाया रुक्मिण्या अपि पतिं तया पतित्वेन नित्यम् आश्रितम् इति सर्वोत्तम गुणम् इत्य् अर्थः । अतः सापत्न्यदुःखम् अपि न वितर्तितम् इति भावः । सम्यक् वरौचित्येनान्तःपुरपर्यन्तमागतं विलोक्य साक्षाद्दृष्ट्वा चकमे भावविशेषेण क्षुभ्यन्तो सङ्कल्पयामासेत्य् अर्थः । नरेन्द्रस्य कन्येति कौमल्येन क्षोभासहत्वं दर्शितम्, सङ्कल्पम् एवाह—भूयाद् इति । अनलः चिरमिष्टदेवतात्वेनाचितो\ऽग्निः मे आशिषः सत्याः सफलाः करोतु तत्रोत्कण्ठास्वाभाव्येन तदर्चनसम्यक्त्वे\ऽपि सन्दिहानेव सास्रगद्गदम् आह यदीति यदि तत्पूजादिनियमो यत्नेन रक्षित इति आशिषो\ऽमला इति पाठे अयं पतिर् एव सत्याः करोत्व् इत्य् अन्वयः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विलोक्य चन्द्रशालागवाक्षतः ॥३६॥
॥ १०.५८.३७ ॥
यत्पादपङ्कजरजः शिरसा बिभर्ति ।
श्रीर् अब्जजः सगिरिशः सह लोकपालैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वकृतसेतुपरीप्सया स्वकल्पितवर्णाश्रमधर्मलक्षणसेतुपालनेच्छया । मम केन स्वीयेन कर्मणा तुष्यत्बित्य् अर्थः । पुनस्तस्य माहात्म्यविशेषेण तद् एवोपपादयति—यद् इति । श्रयादीनां यथापूर्वं श्रेष्ठ्यम्, तथा निर्देशश् च कनिष्ठकनिष्ठक्रमेण निजातितुच्छता बोधयितुम् । तत्राब्जजागिरिशस्य कनिष्ठत्वं, पुत्रत्वेन शिष्यत्वव्यवहारात् । अब्जजस्य साक्षाद् एव श्री-कृष्णाष्टादशाक्षरोपासकत्वाच् च । योदधत् अदधाद् इति सर्वावतारित्वं सूचितम् । परीप्सयेशः इति क्वचिस्पाठः । परीप्सया परिपालनेच्छयेत्य् अर्थः । यः स्वयमधुना वर्तते स इति विश्वनाथः । कृष्णस् तु भगवान्स्वयम् [ भा।पु ३ ] इत्य् आदौ प्रसिद्धो भगवान् केन हेतुना साधनेन वा ममाधमस्य भूयात्, तन्ने संभावयामीत्य् अर्थः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तथापि भक्त्या तुष्यामीति चेत्तत्राह—यद् इति । यस्य पादपङ्कजयोर् एकस्य रज एकम् एव, अन्जज इति साक्षान्नाभिपद्मजतया पुत्रत्वं सूचितम् । गिरिशेन सहित इति तस्य श्रीब्रह्मतः प्रादुर्भावेन तदृष्टयैव तद्धारणेन गौणत्वात् । एवं लोकपालैर् इन्द्रादिभिर् इत्यपि ज्ञेयम् । श्र्यादीनां यथापूर्वं श्रैष्ठयम् । अत एवं ज्ञेयम्—अतिसामीप्येन प्राक् श्रीः, ततः पुत्रतया तत्स्नेहेदात्मजः, ततस्तत्स्नेहेन गिरिशः, ततो लोकपालनेन तत्कृपयेन्द्रादयो बिभ्रतीति । यद् वा, सो\ऽनिर्वचनीयप्रभावः सखित्वेन प्रसिद्धो गिरिशश्च, तस्य वेन्द्रादिभिः साहित्यं सुदुर्लभस्य भगवतः प्राप्त्यर्थम्, प्रायस्तैस्तस्यैव पूजनात् । तच्व श्री-हरि-वंशे पारिजातहरणप्रसङ्गे व्यक्तम् एव । श्र्यादयो यस्य तथा भक्तिं कुर्वन्ति, तद्भक्तौ को\ऽहम् इति भावः । किं च, अवतारेषु तेषां तद्धारणम् अपि दुर्लभम् इत्य् आशयेनाह—लोलेति । विचित्रक्रीडामयमतः स्वकृतस्य सेतोस्तत्तन्मर्यादाया, परीप्सया प्रतिपालनार्थं यथाकाल यो\ऽदधत् अदधाद् इति तत्तद्-अर्थ विचित्रक्रीडाभिनिविष्टे त्वयि तदानीं तेषां प्रवेशाभावाद् इति भावः । यद् वा, कृपया कृतेष्ववतारेषु मध्ये कस्यचित् कथञ्चिद्भक्त्या तोषो वा घटताम्, अवतारिणन्तु तव न सम्भवेदेवेत्य् आह—लीलेति । अर्थः स एव । इत्यस्माकं स्वधर्ममर्यादातिक्रमेण भक्त्याधिकारो\ऽपि नास्तीति भावः । तत्रापि भगवानधुना निजाशेषैश्वर्यप्रकटनपरः, अतः केन हेतुना साधनेन वा ममाधमस्य तुष्येत्, सम्भावनायां सप्तमी, अपि तु न तुष्येदेवेत्य् अर्थः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्चितं पुनर् इति अर्चितं तु सन्तम् इत्य् अर्थः । नग्नजिद् इति शेषः । नारायण हे सर्वजीवाश्रय ! अतो जगत्पते सर्वद्रव्यस्वामिन् ! विशेषतः स्वानन्दपूर्णस्य तवेत्याद्यप्रयोगस् तथाग्रे प्रत्यक्षत्वे\ऽपि परोक्षवादः परमगौरवात् अतो\ऽहं किं तव करवाणि तत्राप्य् अल्पकः अल्पतोप्यल्पः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.३८ ॥
अर्चितं पुनर् इत्य् आह नारायण जगत्-पते ।
आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अल्पकः अतितुच्छः । अर्चितं पुनरिति—अर्चितं तु सन्तम् इत्य् अर्थः । नग्नजिद् इति शेषः । नारायण हे सर्वजीवाश्रय । अतो जगत्पते सर्वद्रव्यस्वामिन् । विशेषतः स्वानन्दपूर्णस्य तवेत्याद्यप्रयोगस् तथाग्रे प्रत्यक्षत्वे\ऽपि परोक्षवादः परमगौरवात् । अहं तब किं करबाणि, तत्राप्य् अल्पक, अल्पतो\ऽप्य् अल्पः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विज्ञापनार्थ भक्तिरेण वा पूनर् अर्चितं सन्तम्, नारायणः हे सर्व-जीवाश्रय ! अतो जगतः पते पालक । तच् च कराद्यपेक्षया मादृशां प्रजापालनम् इव न स्यात्, अनन्यापेक्षकत्वाद् इत्य् आह आत्मेति, स्वाभाविकसुखेनैव । यद् वा, नारायण ! हे परमेश्वर ! अतो जगत्पते ! सर्व-द्रव्यस्वामिन् । विशेषतः स्वानन्दपूर्णस्य तवेत्याद्यप्रयोगः, अग्रे च प्रत्यक्षत्वे\ऽपि परोक्षवद्वादः परमगौरवात्, अतो\ऽहं तव किं करवाणि, तत्राप्य् अल्पकः, अल्पार्थ कः, किञ्चिद् अपि कर्तुम् असमर्थो\ऽतिदीन इत्य् अर्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनस्तस्य माहात्म्यविशेषेण तद् एवोपपादयति—यद् इति श्रयादीनां यथा पूर्वं श्रेष्ठ्य तथा निर्देशाश् च कनिष्ठकनिष्ठक्रमेण निजातितुच्छतां बोधयितुं तत्राध्जजागिरिशस्य कनिष्ठत्वं पुत्रत्वेन शिष्यत्वव्यवहारात अब्जजस्य साक्षाद् एव श्री-कृष्णाष्टादशाक्षरोपासकत्वाच् च यो\ऽदधत् अदधात् इति सर्वावतारित्वं सूचितं परीप्सयेश इति कचित्पाठः परीप्सया परिपालनेच्छयेत्य् अर्थः । स कृष्णस् तु भगवान् स्वयम् इत्य्-आदौ प्रसिद्धो भगवान् केन हेतुना साधनेन वा ममाधमस्य सुष्येत् तन्न सम्भावयामीत्य् अर्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.३९ ॥
श्री-शुक उवाच—
तम् आह भगवान् हृष्टः कृतासन-परिग्रहः ।
मेघ-गम्भीरया वाचा स-स्मितं कुरु-नन्दन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नग्नजितम् । तमाहेत्य् अर्धेन तस्य भाग्यस्य सूचनम् । तत्रापि मेघेत्य् अर्धेन तन्माधुर्यकृपाभ्यां हृतमनस्त्वस्य । कृतः आसनस्य चिरम् अपतस्यापि परिग्रहः स्वीकारो येन स इति निजाभिलषितस्य परस्वीकारेण मुदा सम्यग्-उपवेशात् । सस्मितम् इति स्वभावाद् एव, तत्रापि विशेषतः स्वाभिलषितलाभाद् एव किञ्चिल् लज्जातश् च । अत एव कौतुकात्संबोधयति—हे कुरुनन्दनेति । श्री-कृष्ण-यशः-श्रवणेन स्व-वंश-मूल-कुरुर् अपि त्वया नन्दितो\ऽस्ति ।
नन्दन्ति स्व-कुलोद्भूतं दृष्ट्वा विष्णु-परायणम् ।
स्वर्-गताः पितरो\ऽनेन वयं धन्यीकृता इति ॥
इति विष्णु-धर्मोसरोक्त-न्यायेनेति भावः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् भक्तवात्सल्याद्यशेषगणयुक्तः, यतः कृष्णः । किं वा, अत एव भक्तानां चित्ताकर्षकः, अतो वात्सल्येन तस्य चित्तमाकर्तुमाहेति भावः । कृत आसनस्य चिरमपितस्यापि परिग्रहः स्वीकारो येन सः, तत्स्तुत्यपेक्षया क्षणं स्थित्वा पश्चादेवोपवेशात्, सम्मितम् इति स्वभावाद् एव । किं वा, तस्मिन् प्रसादात् । किं वा, तस्य समयं भावं च ज्ञात्वापि कन्याप्रार्थनया स्वयम् एवान्तः कौतुकोदयाम् इति दिक् । अत एव कौतुकात् सम्बोधयति—कुरुनन्दनेति ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तमाहेत्य् अर्धेन तदीयस्य महाभाग्यस्य सूचनं तत्रापि मेघेत्य् अर्धेन तन्माधुर्यकृपाभ्यां हृतमनस्त्वस्य कृत आसनस्य चिरमपितस्यापि परिग्रहः स्वीकारो येन स इति निजाभिलषितस्य परमभक्त्या स्वीकारदर्शनेन मुदा सम्यगुपवेशात् सस्मितम् इति स्वभावाद् एव तत्रापि विशेषतः स्वाभिलषितलाभात् किञ्चल्लजातश् च अत एव कौतुकात् सम्बोधयति कुरुनन्दनेति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४० ॥
श्री-भगवान् उवाच—
नरेन्द्र याच्ञा कविभिर् विगर्हिता
राजन्य-बन्धोर् निज-धर्म-वर्तिनः ।
तथापि याचे तव सौहृदेच्छया
कन्यां त्वदीयां न हि शुल्क-दा वयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे नरेन्द्र । राजन्यबन्धोः क्षत्रियस्य । शुल्कदा द्रव्यादिप्रदाः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि गहता तथापीत्यन्वयः । शुल्कं घट्टादिदेये स्याद्वरादर्थग्रहे\ऽस्त्रियाम् इति मेदिनी । तादृशो\ऽप्य् अहं स्वजनप्रेमानन्दमयनरलीलाम् एवानुसरन्नस्मि, तत्रापि त्वद्विधप्रेम्णा क्वचित्तदुचितमर्यादामुल्लऋघयन्नस्मीति सिद्धान्तव्यञ्जिकया क्षत्रियोचितप्रार्थनाचातुर्याह—नरेन्द्रेति, श्वशुरोचितामन्त्रं संबन्धस्य दृढीभावाय । वस्तुतस् तु याचकेनादावेव प्रभुः स्तोतव्यः, पश्चान्निजार्थप्रकाशनं कार्यम् इति बोधनायैवेति । यद् वा, —त्वं नरेषु इन्द्र इवाभिलषितवर्षणाद् इति भावः । यद् वा, —त्वं न केवलं नृपः किन्तु नरेन्द्रो\ऽसीति । षोडशयोजनमितभूशास्ता नृपः, ततः शत-गुणाधिको नरेन्द्र इति विवृतं ब्रह्मवैवर्ते । अर्थाच्छतशो नृपा अपि त्वदाज्ञां धारयन्ति नराणान्तु का कथात्रेति भावः । व्यासाचैः क्षत्रियाधमस्य यात्रा विशेषेण गहता निन्दिता । तत्र निजधर्ममाश्रितस्य क्षत्रियस्य तु सर्वथैव सा निन्द्या, मम तु सर्व-क्षत्रियश्रेष्ठस्य का तत्र कथेति भावः । वाल्मीकिव्यासवासिष्ठमुख्या हि कवयो मताः इत्य् उक्तव्यसादयः कवयो मुख्यधर्मप्रणेतारस्तदनुगता अन्येपीति ज्ञेयम् । हरणस्यैव क्षत्रियधर्मत्वात् । सौहृदेच्छया त्वया सह सुसम्बन्धार्थम् । यद् वा, —तव यत्सौहृदं मयि प्रेम तेन या मदिच्छा तया । क्षत्रियधर्मम् एव कथयन्बलीवर्दबन्धनरूपं तच्छुल्क विचार्य निगृढनम् आह—न हीति । वयं क्षत्रियाः । शुल्कदा द्रव्यदायिन इत्य् अर्थः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कन्याप्रदानेनाधुनाहं तुष्येयम् इत्य् आशयेनाह—नरेन्द्रेति । कविभिः श्रीव्यासादिभिः, राजन्यवन्धोः क्षत्रियाधमस्यापि गर्हिता तत्र च निजधर्मानुवर्त्तिनो विशेषेण गर्हितेत्य् अर्थः, स्वयम्वरादौ तेषां कन्याहरणादेर् एव श्लाध्यत्वात्, तच् च त्वया महाराजेन ज्ञायत एवेत्य् आह—हे नरेन्द्रेति । तव सौहृदेच्छया त्वया सह सुसम्बन्धार्थम् । यद् वा, तव यत् सौहृदं मयि प्रेम तेन या मदिच्छा तया, तथापि हि निश्चितं वयं शुल्कदा न भवामः, कुलपूजार्थं शुल्कं न दास्याम इत्य् अर्थः, महाकुलीनेषु यदुषु जातत्वात्, अन्यथा न्यूनत्वप्रसक्तिर् इति भावः । अत एव यदुवर्गापेक्षया किं वा, तेषु जन्मना आत्मनो बहुमानाबहुत्वम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृशोप्यहं स्वजनप्रेमानन्दमयनरलीलाम् एवानुसरन्नस्मि तत्रापि त्वद्विधप्रेम्णा क्वचित्त्दुचितमर्यादामप्युल्लङ्घयन्नस्मीति सिद्धान्तव्यञ्जिकया क्षत्रियोचितप्रार्थनाचातुर्याह—नरेन्द्रेति । एतच् च श्वशुरोचितसम्बोधनं सम्बन्धस्य दृढीभावाय कविभिः श्रीव्यासादिभिः राजन्यबन्धोः क्षत्रियाधमस्यापि विशेषेण गर्हिता तत्र च निजधर्मानुवर्त्तिन इत्य् अर्थः । बलेन हरणस्यैव तत्र श्लाघ्यत्वात् तव सौहृदेच्छया त्वया सह सुख सम्बन्धार्थं यद् वा, तव यत्सौहृदं मयि प्रेम तेन या मदिच्छा तया क्षत्रियधर्मम् एव कथयन् बलीवर्दबन्धनरूपं तच्छुक विचार्य निगूढनर्मम् आह न हीति वयं क्षत्रियाः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजन्यबन्धोरतिनिकृष्टक्षत्रियस्यापि अहं रान्यजश्रेष्ठो\ऽपि याचे किन्तु वयं न शुल्कदा न द्रव्यादिदायिनः ॥४०-४१॥
॥ १०.५८.४१ ॥
श्री-राजोवाच—
कोऽन्यस्तेऽभ्यधिको नाथ कन्या-वर इहेप्सितः ।
गुणैक-धाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणानामेकम् एव धाम स्थानं तथा-भूतस्य यस्य तवाङ्गे ॥ ४१-४२ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकम् एव मुख्यम् एव । श्रीः सर्व-गुणाश्रयरूपापि । गुणैकधाम्न इति यद्गुणवशीकृतत्वादेवेत्य् अर्थः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाथ्यते सर्वैः प्राप्तुमिष्यत इति नाथस्तत्सम्बोधनम् । अतः प्राप्तुमिष्ट आत्मनो\ऽभितो\ऽधिकरते त्वत्तो\ऽन्यः को\ऽरित, अपि तु न को\ऽप्य् अस्तीत्य् अर्थः । तत्र हेतुत्वेन नाथत्वम् एवाभिव्यञ्जयप्ताह—गुणेति । अन पायिनी सदा सुस्थिरा सती अङ्गे श्रीविग्रहे। वक्षसि वा वसति, यतो गुणानां सत्यशौचादीनामेकमद्वितीयमसाधारणं वा धाम तस्य ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीः सर्व-गुणाश्रयरूपापि गुणैकधाम्न इति यद्गुणवशीकृतत्वादेवेत्य् अर्थः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४२ ॥
किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ ।
पुंसां वीर्य-परीक्षार्थं कन्या-वर-परीप्सया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समयः सङ्केतः
समयः शपथा चारसिद्धान्तेषु तथा धियि ।
क्रियाकारे च निर्देशे सङ्केते कालभाषयोः ॥ इति मेदिनी ।
कन्याया वरपरीप्सया वरेच्छया । वयम् अपि न शुल्कग्राहिण इत्य् आह—किन्त्व् इति । अस्माभिर् इति बहुत्वेन निजज्ञातिबान्धवसङ्ग्रहः । समयो नियमः । तं द्रढयति—कन्याया वरस्य धवतायोग्यस्य तव परीप्सया, पंसां वीर्यस्य बलस्य च परीक्षार्थम् । पाठान्तरे कन्याया यो वरस्तस्य या परीक्षा तया हेतुना । स चास्माकं समयः पालयितव्य एवेति सम्बोधयति—हे सात्वतानां भत्तानाम्, ऋषभ परिपालक ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्माभिर् इति बहुत्वेन निजज्ञाति—बान्धवादि-सङ्ग्रहात्, तथा पूर्वम् एवेति च समयं द्रढ्यति । कन्याया वरस्य परीप्सया पुंसां वीर्यस्य बलस्य परीक्षा तद्-अर्थम्, हे सात्वतानां भक्तानाम् ऋषभ परिपालकेति भक्तानां मादृशां समयस् त्वया परिपाल्य एवेति । यद् वा, हे यादव-श्रेष्ठेति यदु-कुलावतीर्णस्य साक्षाद् भगवतस् तव प्राप्त्य्-अर्थम् एवेति भावः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्माभिर् इति बहुत्वेन निजज्ञातिबान्धवादिसङ्ग्रहात् तथा पूर्वम् एवेति च समयं दृढयति कन्याया वरस्य धव [ वर ] तायोग्यस्य तव परीप्सया पुंसां वीर्यस्य बलस्य च परीक्षा तद्-अर्थं पाठान्तरे कन्याया यो वरस्तस्य या परीक्षा तया हेतुना पुंसां या वीर्यपरीक्षा तद्-अर्थम् इत्य् अर्थः । स चस्माकं समयो भवता पालयितव्य एवेति सम्बोधयति सात्वतां भक्तानाम् ऋषभ ! परिपालकेति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयम् अपि न शुल्क-ग्राहिण इत्य् आह—किन्त्व् इति । समयो नियमः कन्याया वरप्राप्तीच्छया या पंसां वीर्यपरीक्षा तद्-अर्थम् अन्यथा मत्कन्यायां सर्व एव नृपाः प्रार्थकास्ते मया कथं प्रत्याख्येया इति भावः । कन्याया वरः श्रुतरूपगुणस्त्वम् एव वरणीयस्तस्य तव प्राप्त्यर्थम् इत्य् अर्थस् तु वास्तवः ॥ ४२-४३ ॥
॥ १०.५८.४३ ॥
सप्तैते गो-वृषा वीर दुर्दान्ता दुरवग्रहाः ।
एतैर् भग्नाः सु-बहवो भिन्न-गात्रा नृपात्मजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्दाता अशिक्षिताः । दुरवग्रहा अपरायत्ताः । कुतस्तदाह—एतैर् इति । भग्ना भङ्ग प्रापिताः ॥ ४३
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपरायत्ता अपराधीनाः अधीनो निघ्न आयत्तः इत्य् अमरः । रानायत्तत्वे हेतुमाशक्य समाधत्ते—कुत इति । तत् परानधीनत्वम् । एतैर् वृषः । इत्थं स्वदोष स्ववर्गदोषं च परिजहार । समयम् एवाह—सप्तेति । तत इति तदङ्गीकारमुपलभ्य वृषवासं तेन गत्वाङ्गुल्या निर्दिशति—एतैर् भिन्नगात्रा अतो भग्नाः, एतद्व्याजेन भवद्विरोधिनां तेषां शान्तिरेवास्माभिर् घटतेति भावः । हे वीरेति—तव वीर्येण तु निग्राह्या भविष्यन्तीति भावः ॥ ४३ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एत इति साक्षात्तत्रैव वर्तमानानङ्गुल्या निर्दिशति—एतैर् हेतुभिर् भग्नाः । यद् वा, एतैः कतृभिर् भग्न प्रापिताः, यतो भिन्नगात्राः । नृपाणामात्मजा इति तारुण्यादिना बलिष्ठतादिकं सूचयति—हे वीरेति । तव वीर्येण निग्रह्या भविष्यन्तीति भावः । त्वयैवैकाकिना, हे यदुनन्दनेति यदुकुलहषार्थम् अपि त्वयैतत् कार्यम् इति भावः । हे श्रियः पते ! इति लक्ष्मीनाथत्वान्मतः सम्मत एव, एषां निग्रहेण चाभितो मत इत्य् अर्थः । यद् वा, श्री-रुक्मिणीभर्तापि भवानेवाभिमतो\ऽभीष्टो वर इति ॥ ४३-४४ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं स्वदोष स्वबर्गदोषं च परिजहार, अथ समयम् एव सूचयति—सप्तेति । एत इति तदङ्गीकारमुपलभ्य तेन सह वृषवासं गत्वाङ्गुल्या निर्दिशति एतैर् भिन्नगावाः अतो भग्नाः एतद्व्याजेन भवद्विरोधिनां तेषां शान्तिर् एव चास्माभिर् घटितेति भावः । हे वीरेति तव वीर्येण तु निग्राह्या भविष्यन्तीति भावः । अन्यतैः । तत्र एतानित्य्-आदिकमध्याहृत्य श्लोकद्वयं योजितम् ॥ ४३ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४४ ॥
यद् इमे निगृहीताः स्युस् त्वयैव यदु-नन्दन ।
वरो भवान् अभिमतो दुहितुर् मे श्रियः-पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्यदीमे गोवृषा निगृहीता दमिता नाथिता इति यावत् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिमत उचितः । यदीति निश्चये । धत्से पदं त्वमविता यदि विघ्नमून इतिवत् । यद् वा, —यद् यस्मात् त्वयैव निगृहीता एव स्युः बलवत्त्वेनान्यैर् अशक्यत्वात् वृषत्वेनातिपीडयितुम् अयुक्तत्वाच् च तस्मादनेन प्रबन्धेन भवान् एव वरो\ऽभिमतः, पूर्व म् एवावधारित, तस्मादस्माकं प्रतिज्ञा या मनोरथस्य च पूरणार्थ भवतैतत्कायम् एवेति भावः । हे यदुनन्दनेति—यदुकुलनन्दनार्थम् अपि त्वयैतत्कार्यं चेति भावः । यद् वा, —यदुकुलनन्दनस्त्वमस्मत्कुलम् अपि नन्दयिष्यसि, कुलनन्दकस्वभावत्वाद् इति भावः । हे श्रियः पते इति—श्रीर्यथा सर्वान्देवासुरादींस्त्यक्त्वा त्वम् एव वृतवती तथा मम कन्येयम् अपि त्र्यंशत्वेन त्वाम् एव वरिष्यतीति भावः । देवासुरनिग्रहं कृत्वा श्रियं प्राप्तवतस्तवैतन्निग्रहो न ह्यशक्यतस्त्वम् एव वरो निर्णीतः । वृषास्त्विमे त्वद्विद्वेषिवधार्थम् एव स्थापिता इति संबुद्धयभिप्रायः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यदीति निश्चये धत्से पदं त्वमविता यदि विघ्नमूर्ध्नि इतिवत् यद् वा, यद्यस्मात् त्वयैव निगृहीता एव स्युः बलवत्त्वेनान्यैर् अशक्यत्वात् वृषत्वेनातिपीडयितुम् अयुक्तत्वाच्चन तस्मादनेन प्रबन्धेन भवान् एव वरो\ऽभिमतः पूर्वम् एवावधारितः तस्मादस्माकं प्रतिज्ञाया मनोरथस्य च पूरणार्थं भवतैतत्कायम् एवेति भावः । हे यदुनन्दनेति यदुकुलहषार्थम् अपि त्वयैतकार्यम् इति च ॥४४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् यदीति प्रकटो\ऽर्थः यत् यस्माद् इति वास्तवः श्रियः पते इति सम्बोधनेन वृषनिग्रहो न त्वदशक्य इति त्वम् एव वरो निर्णीतः वृषास्त्विमे त्वद्विद्वेषवधार्थम् एव स्थापिता इति भावः ॥४४॥
॥ १०.५८.४५ ॥
एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः ।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतान्यो निगृह्णाति तस्य कन्येति समयः कृतस्तम् । सप्तधा कृत्वेति बह्वीनां योषितां सम्पूर्ण एवाहं संभोगयोग्यः स्याम् इति सत्यां प्रत्यसापत्न्यप्रदर्शनार्थमात्मनः सप्तधा करणम् ॥ ४५-४९ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिकरं दृढगात्रिकाबन्धम् । एतान्वृषान् निगृह्णाति स्वायत्तीकरोति तं समयम् । सप्तधेति स्वामिचरौर्व्याख्यातम् एव ॥ आकर्ण्याकर्णनानन्तरम् एव स्मित्वेति ज्ञेयम् । परिकर वस्त्रादिपरिच्छदं दृढं बद्ध्वा, यतः प्रभुः सर्वत्र समर्थः । यद् वा, — गोपलीलाभ्यासाद् एव तत्र समर्थः । आत्मानं श्रीविग्रहं कृत्वा प्रकाश्य । एवशब्दोत्रेवार्थे । सप्तधा कृत्व् एव क्षिप्रकारित्वाद् इति भावः ॥४५॥
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**आत्मानं सप्तधा प्रकृत्वा एक एवेत्यर्घः ॥ ४५-५८ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिकरं वस्त्रादिपरिच्छदं दृढं बद्धवा, यतो लीलया विकर्षणे दृष्टान्तः—दारुमयान्, तत्रापि दामभिर् बद्धान्, बालो यथेति ॥ ४५-४६
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आकर्ण्य आकर्णनानन्तरम् एवेत्य् अर्थः । स्मित्वेति ज्ञेयं परिकर वस्त्रादिपरिच्छदं दृढं बद्ध्वा यतः प्रभुः सर्वत्र समर्थः यद् वा, गोपलीलाभ्यासादिव तत्र समर्थ इत्य् अर्थः । आत्मानं श्रीविग्रहं कृत्वा प्रकाशयित्वा अन्यत् तैः यद् वा, एव-शब्द इवार्थे सप्तधा कृत्व् एव क्षिप्रकारित्वाद् इति भावः ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्मितः अकस्मात्तादृशस्वभाग्यफलोदयात् ॥४७-४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आत्मानं सप्तधा कृत्वेति । सप्तधा अकृत्वेति भावः । एकश्चेत् सप्तवृषान् बध्नोति तदातिचित्रम् । सप्तधा कृत्वेति ऐश्वर्यप्रकटनम् एव । तच् च नाग्नजित्या बहुसपत्नीकत्वे भगवतो बहुतनुत्वमाश्वाश्वासजनकम् इति न रसजनकम् ॥ ४५-५८ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सप्तधाकृत्वेति । सप्तधा कृत्वेत्येवम् एव बह्वीर् अपि विलासिनीरहं सम्भुञ्जे इति मम बहुवल्लभत्वे\ऽपि न ते कापि क्षतिर् इति सत्यां ज्ञापयामासेति श्रीस्वामिचरणाः ॥ ४५-५०॥
॥ १०.५८.४६ ॥
बद्ध्वा तान् दामभिः शौरिर् भग्नदर्पान् हतौजसः ।
व्यकर्षल् लीलया बद्धान् बालो दारुमयान् यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् वृषान् ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दारुमयान् तत्रापि दामभिर् बद्धान् ॥४६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४७ ॥
ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः ।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वृषबन्धनोत्तरम् । तां सत्यम् । विस्मितः अकस्मात्तादृशस्वभाग्यफलोदयात् । प्रत्यगृह्णात् उद्वहति । स्म । अन्यत्स्पष्टम् ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विस्मितः साक्षात्तन्महाभुतानुभवात् । यद् वा, प्रीतवाद्विशिष्टं स्मितं यस्य सः, सदृशीं रूपगुणादिभिः स्वतुल्यां तां विधिवत् प्रत्यगृह्णात्, यथाविध्युपये मे, यतः प्रभुः प्रियजन मनोरथपरिपूरणसमर्थः यतो भगवान् सर्वैश्वर्यप्रकटनपरः, स्व-शब्देन तास तस्यां स्नेहभरः सुच्यते ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विस्मितः अकस्मात्तादृशस्वभायफलोदयात् प्रत्यगृह्णात् उद्वहति स्म, उद्वाहसम्पदं दर्शयति, प्रभुः सर्व-सामर्थ्य युक्तः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४८ ॥
राजपत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् ।
लेभिर् ए परमानन्दं जातश् च परमोत्सवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चाद्राजापि ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस्तस्तस्याः प्रियमभीष्टं पतिं लब्ध्वा परमानन्दं प्राप्ताः, अत एव परम उत्सवय जातः ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दुहितुः प्रियमभीष्टं पतिं लब्ध्वा परमानन्द प्राप्ताः अत एव उत्सवश् च परमो जातः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.४९ ॥
शङ्ख-भेर्यानका नेदुर् गीत-वाद्य-द्विजाशिषः ।
नरा नार्यः प्रमुदिताः सुवासः-स्रग्-अलङ्कृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गीतादयः—अभूवन्न् इति शेषः ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तम् एवाह—शङ्केति । नेदुः स्वयम् एव शङ्खादीनां यथापूर्वं महोत्सवापेक्षया मङ्गलत्वे श्रेष्ठयम्, वाद्यगीतानुसारि-तालादिप्रकर्षेण मुदिता इति नृत्यम् अपि ज्ञेयम् । सुशोभनैर् वसोभिः स्रग्भिश्चालङ्कृताः, अन्येषां भूषणानामपेक्ष्यत्वे\ऽपि वासःस्रजाम् एवोक्तिः, महोत्सवे तत्तद्विशेषापेक्षया । यद् वा, सुशोभनानि वासांसि स्रजश् च येषां ते च ते कुण्डलाद्यलङ्कृताश् च ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् एवाह—शङ्खेति । शङ्खादीनां यथापूर्वं महोत्सवापेक्षया मङ्गलत्वे श्रेष्ठ्य वाद्यं गीतानुसारि तालादिप्रमुदिता इति नृत्यम् अपि ज्ञेयं सुशोभनानि वासांसि स्रजश् च येषां ते च कुण्डलाद्यलङ्कृताश् च बभूवुः ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.५० ॥
दश-धेनु-सहस्राणि पारिबर्हम् अदाद् विभुः ।
युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवाससम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्कग्रीवाश् च ताः सुवाससश् च तासां युवतीनां च दासीनाम् ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युवतिपदमत्र दासीपरम् ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धेनवो नवप्रसूता गावः, अतः सवत्सास्ता ज्ञेयाः । विभुस्तत्तद्दाने समर्थः । धेनुदानस्यादावुक्तिः सर्व-दानतः श्रैष्ठ्यात्, कृष्णस्याधिकतोषहेतुत्वाद्वा । नागादिभ्यो युवतीनां प्रगुक्तिर्दास्यादिना तासां तेभ्यः श्रैष्ट्यात्, तथा नागादिभ्यो यथोत्तरमधिकेभ्यस्तासां नागतृतीयांशत्वेनाल्पत्वाच् च । अन्याभरणानामपेक्ष्यत्वे\ऽपि केवलं निष्कस्योक्तिः स्त्रीभूषणेषु तस्य प्राधान्यात्, अतो\ऽन्यान्यपि ज्ञेयान्य् एव । नागादित्य्-आदिर्जातावेकत्वम्, नरान् दास दासपदात्यादीन् । आवृत्तौ कृत्वेत्य् अर्थः, यतः स्नेहेन प्रकर्षेण बहिरप्यश्रुधारापातादिना क्लिन्नमाद्रं हृदयं यस्य सः ॥ ५०-५२ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दशेति युग्मकम् । धेनवः नवप्रसूता गावः अतः सवत्सा ज्ञेयाः विभुस्तत्तद्दाने समर्थः धेनुदानस्यादावुक्तिः सर्व-दानश्रेष्ठ्यात् श्री-कृष्णस्याधिकतोषहेतुत्वाद्वा नागादिभ्यो युवतीनां प्रागुक्तिर्दास्यादिना तासां तेभ्यः शैष्ठ्यात् ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.५१ ॥
नवनागसहस्राणि नागाच् छतगुणान् रथान् ।
रथा च्छतगुणान् अश्वान् अश्वाच्छतगुणान् नरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नागान् नागेभ्यः शत-गुणान् नव—लक्षाणि । रथाद्रथेभ्यः शत-गुणान्नकोटौः । अश्वादश्वेभ्यः शत-गुणान्नवपद्मानि ॥ ५१-५२ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नागादित्य्-आदित्रिक एकत्वं सामान्याभिप्रायम् ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा नागादिभ्यो यथोत्तरम् अधिकेभ्यस् तासां नाग-तृतीयांशेनाल्पत्वात् । निष्काणाम् एवोक्तिः प्राधान्यात् नागादित्यादेर् जाताव् एकत्वं नरान् दास-पदात्यादीन् ॥ ५१ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नागात् नागेभ्यः शत-गुणान् नव-लक्षाणि, रथात् रथेभ्यः शत-गुणान् नवकोटीः, अश्वात् अश्वेभ्यः शत-गुणान् नव पद्मानि ॥ ५१-५२ ॥
॥ १०.५८.५२ ॥
दम्पती रथम् आरोप्य महत्या सेनया वृतौ ।
स्नेहप्रक्लिन्नहृदयो यापयाम् आस कोशलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रथमारोप्य रथे स्थापयित्वा ॥ ५२ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आवृतौ कृत्वेत्य् अर्थः । यतः स्नेहेन प्रकर्षण बहिरप्यश्रुधारापातनादिना क्लिन्नमार्द्रं हृदयं यस्य सः ॥ ५२ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.५३ ॥
श्रुत्वैतद् रुरुधुर्भूपा नयन्तं पथि कन्यकाम् ।
भग्नवीर्याः सुदुर्मर्षा यदुभिर् गोवृषैः पुरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदुभिर् गोवृषैश् च भग्नवीर्या अपि सुदुर्मर्षा असहनशीला रुरुधुः ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद्वृषबन्धनपुरःसरं सत्योद्वहनम् । कन्यकां नयन्तं प्राप्नुवन्तम् । यदेभिगवृषः इति पाठे तु यत् ये एभिर् नग्नजिद्गृहस्थैः । सुदुर्मर्षा असहन्तः । रुरुधुरिति—विधिवद्विवाहे विलंबवादेशान्तरान्नृपा आगता इति ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रुत्वा स्वस्वदेशे, इति विधिवद्विवाहे युक्तनक्षत्राद्यपेक्षया श्री-भगवत्-अस्तत्रेषद्विलम्बो\ऽभूद् इति ज्ञेयम् । पथि रुरुधुः, यतः सुदुर्मर्षा अत्यन्तासहिष्णवः, वीर्यं दर्पः, कालयामास लीलयैव व्यद्रावयत्, यतो गाण्डीवी महासुप्रसिद्धधनुष्मान् । किमर्थम् ? बन्धोः श्री-कृष्णस्य प्रियकृत् सन् प्रियं कर्त्तम् इत्य् अर्थः । तदानीं तत्रार्जनस्यागमनं पथि रोधनार्थदुष्टभूपवर्गोद्यमश्रबणाद् इति ज्ञेयम् ५३-५४ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रुत्वा स्वस्वदेशात् इति विधिवद्विवाहे युक्तनक्षत्राद्यपक्षेया श्री-भगवत्-अस्तत्रेषद्विलम्बो\ऽभूद् इत्य् उक्तं पथि रुरुधुः यतः सुदुर्मर्षाः अत्यन्तासहिष्णवः वीर्यं दर्पः तदापि यदुभिर् भग्नवीर्या बभूवुः । ते के ? तत्राह—ये पुरा गौवृषैर् भग्नवीर्यः बभूवुर् इति ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा यदुभिर् भग्नवीर्याः बभूवुः पुरा तु गोवृषैर् अपि ॥५३॥
॥ १०.५८.५४ ॥
तान् अस्यतः शरव्रातान् बन्धुप्रियकृदर्जुनः ।
गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्यतः क्षिपतः प्रयुजानानिति यावत् ॥५४-५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् रुन्धाननृपान् । गाण्डीवीत्यनेनार्जुनसाहित्यं दर्शितं कौशलपुरगमने । तत्रार्जनस्यागमनं विवाहदर्शनार्थं निगूढसमाह्वानेनैव ज्ञेयम् । स्पष्टम् ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि तानस्यत इत्य्-आदि कालयामास लीलयैव व्यद्रावयत् तत्रार्जुनस्य वरयात्रागमनं विवाहदर्शनार्थं निगूढसमाह्वानेन स्वयम् एव स्नेहेन वा मध्ये मध्ये द्वारकागमनात् ॥५४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालयामास व्यद्रावयत् ॥ ५४-५५ ॥
॥ १०.५८.५५ ॥
पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया ।
रेमे यदूनामृषभो भगवान् देवकीसुतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपागृह्य सर्वमविकलमानीय ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उप सामीप्येन आ सम्यक् गृहीत्वा तेषां विद्रावणे तु स्वयं न प्रवृत्त इति ॥५५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उप दाक्षिण्येन आ सम्यग् गृहीत्वा, इति पारिवर्हस्यापि भूपेभ्यो निर्विघ्नता सूचिता । यदुनामृषभस्तैः सेव्यमानः, देवक्याः सुत इति च तया लाल्यमानः सन्न् इति भावः । यतो भगवान् विचित्रक्रीडार्थमवतीर्णः साक्षात्परमेश्वरः । यद् वा, सर्वैश्वर्यपूर्णः सन् रेमे ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.५६ ॥
श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृष्वसुः ।
कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सप्तमं विवाहम् आह—श्रुतकीर्तेर् इति । श्रुतकीर्तिर्नाम या पितृष्वसा तस्याः सुतां भद्रां नाम कैकेयीं तद्देशजाम् ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितृष्वसा वसुदेवभगिनी । तद्देशजां केकय देशोभूताम् ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण इति तत्तच्चित्ताकर्षणाभिप्रायेण, अत एव दत्ताम् ॥५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रुत्वा इति स्पष्टम् ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सप्तमं विवाहम् आहश्रुतकीर्तेर् इति ॥५६-५७॥
॥ १०.५८.५७ ॥
सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् युताम् ।
स्वयंवरे जहारैकः स सुपर्णः सुधाम् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अष्टम विवाहम् आह । सुतां चेति । एक एव स श्री-कृष्णो लक्ष्मणां जहार ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मद्रो विपाशैर् आवत्यन्तर्गतो देशविशेषस्तदधिपतेबृहत्सेनस्य । लक्षणैः कन्योचितचिह्न र्युताम् । लक्षणानि रुक्मिण्युद्वाह उक्तानि ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मद्राधिपतेर्बृहत्सेनाख्यस्य लक्षणैः शुभोदयचिह्नैः स्वयम्वर इति मद्राधिपतिना स्वसुताया मतज्ञानेन श्री-कृष्णस्य प्राप्त्यर्थं दुर्भेद्यतममत्स्ययन्त्ररचनादिकं कृतं पश्चात्तस्मिन् श्री-कृष्णेनैव विज्ञापिते दुष्टा राजानेस्तदिदम् ऊचुः राजन् भवत एव मतम् इदं न तु कन्याया इति ततश् च राज्ञा कन्या या दार्ष्ट्यं जानता स्वयम्वरो\ऽपि कारित इति कुरुक्षेत्रयात्राकथानुसारे ज्ञेयम् ॥५७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५८.५८ ॥
अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः ।
भौमं हत्वा तन्निरोधाद् आहृताश् चारुदर्शनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य निरोधोन्तःपुरं तस्मात् ॥ ५८ ॥
भैष्मी जांबवती भामा सत्या भद्रा च लक्ष्मणा ।
कालिन्दी मित्रविन्दा चेत्यष्टौ पट्टमहास्त्रियः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निरोधाद् अदृश्यस्थानादन्तः पुरस्थकारागारात् निरोधो नाशरोधयोः इति मेदिनी भौमं भूम्याः सुतं श्रीवराहातस्यां जातम् । तद्-उक्तं भूम्यैव विष्णुं प्रति विष्णु-पुराणे—
यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वस्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥
इति महाप्रभावो\ऽसूचि तस्य ॥ ५८ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् विधाः श्री-लक्ष्मणासदृशसल्-लक्षणैर् यताः, तद् एवोद्दिशति—चावति । यद् वा, यथा श्री-रुक्मिण्याद्याः श्री-लक्ष्मणान्ता राजकन्यास्तादृश्यो देवादिकन्याश्चेत्य् अर्थः । तच् च निरन्तराध्यावान्ते तेषां व्याख्यातो व्यक्तं भावि । भौमं श्रीवराहतो भूम्यां जातम् । तथा च श्री-विष्णु-पुराणे [ ५।३१।२३ ] श्री-भगवन्तं प्रति तस्या एवोक्तौ—
यदाहमुद्धृतः नाथ त्वया शूकरमूर्तिना ।
त्वत्स्पर्शसम्भवः पुत्रस्तदायं मय्यजायते ॥ इति ।
इति महाप्रभावः सूचितः । स एवाग्रे व्यक्तो भावी ॥ ५८ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भौमं श्रीवराहतो भूम्यां जातं तथा च श्री-विष्णु-पुराणे श्री-भगवन्तं प्रति तस्या एवोक्तौ—
यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वस्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥
इति महाप्रभावः सूचितः ॥ ५८ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहस्रशः सहस्राणि षोडश-सहस्राणीत्य् अर्थः ॥ ५८ ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे अष्ट-महिष्य्-उद्वाहो नामाष्टापञ्चाशत्तमोऽध्यायः ।
॥ १०.५८ ॥
(१०.५९)