५७

सत्राजितं हत्वा शतधन्वना स्यमन्तक-हरणं तस्य च वधः, अक्रूरस्य च पलायनं पुनर् द्वारकायाम् आगमनं च ।

॥ १०.५७.१-२ ॥

श्री-बादरायणिर् उवाच—

विज्ञातार्थोऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् ।

कुन्तीं च कुल्यकरणे सहरामो ययौ कुरून् ॥

भीष्मं कृपं सविदुरं गान्धारीं द्रोणम् एव च ।

तुल्यदुःखौ च सङ्गम्य हा कष्टम् इति होचतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्तपञ्चाशत्तमे तु पुनः शतधनोर्वधे ।

प्राप्तं स्म दुर्यशो मार्ष्टि कृष्णो\ऽक्रूराहृतान्मणेः ॥

अक्रूरमुरीकृत्य मणेः पात्रमथा च्युतः ।

उपमन्त्र्य तमेकान्ते सरामो\ऽगाद्रजाह्वयम् ॥

सत्राजितः श्री-कृष्णाज्ञाभङ्गफलं व्यक्तीकर्तुम् आह—विज्ञातार्थो\ऽपीति । पाण्डवा बिलद्वारेण जतुगृहान्निर्गता इत्य् एवं विज्ञातो\ऽर्थ येन सः कुन्तीं च दग्धामाकर्ण्य कुल्यकरणे कुलोचितसंव्यवहारार्थम् ॥१॥

अन्येषां तद्दाहदुःखाभावाद् भीष्मादीन्सङ्गम्येत्य् उक्तम् ॥ २-३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्रुरादाहृत आनीतोक्रूराहृतस्तस्मात् [ १ ] उररीकृत्याङ्गीकृत्य । अथ मणिसमर्पणोत्तरम् । तमक्रूरम् । उपमन्त्र्य कथयित्वा—मणिस् त्वया ग्रहीतव्यः शतधन्वन इति तेन संविदं कृत्येत्य् अर्थः [२] । कुल्यं शवदाहोत्तरं तदुःखजिहासया तगृहगमनं, तस्य करणे तन्निमित्तम् इत्य् अर्थः । कुल्यं स्यात्कीकसे मांसे मृतगेहगतौ तथा इति कोशात् । अध्यायार्थे स्वामिभिर् उक्तमक्रूरमुररीकृत्येति । तस्यायमर्थः—उररोकृत्य मनसाङ्गीकृत्य । अथैकान्ते । सराम उपामन्त्र्य हस्तिनापुरवृत्तान्तमन्त्रेण निश्चित्येति । अन्यथार्थत्वे तद्दुर्यशोमार्जनतात्पर्यस्यास्य प्रकरणस्य प्रत्युत तदाधिक्यप्रतिपादनप्रतिपत्तेः । गा इन्द्रियाणि ईशत्वेन । विन्दतीति गोविन्द शब्दो विज्ञापने हेतुः । कूल्यकरण इति तादृशक्रीडार्थम् इति सिद्धान्तः ॥१॥

अन्येषां दुर्योधनादीनाम् । तेषां । पाण्डवानां दाहे दुःखाभावात् । संबन्धित्वात्तुल्यदुःखौ रामकृष्णौ । सविदुरं भीष्मं सव्यसनत्वादेकत्र स्थितेः । भीष्मस्य सर्वात्मीयत्वेन प्रथमोक्तिः । भीष्मादिभिः सह तुल्यं दुःखं दुःखानुकरणं ययोस् तौ, यथा विदुरस्य ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विज्ञातार्थत्वे हेतुः—गोविन्दो गा इन्द्रियाणि ईशत्वेन विन्दतीति तथा स इति सर्वान्तर्यामित्वाद् इत्य् अर्थः । एवं स्वजनरमणाभिप्रायेणोक्तम्—राम इति । कुल्यकरणार्थं याने\ऽप्य् अयम् एव हेतुद्रष्टव्यः । गवामिन्द्रो गोविन्द इति गो-पालनादिना भक्तवात्सल्यात् । एवं पाण्डवानां हितार्थम् अपि यानं ज्ञेयम् ॥१॥

दाहदाढ्यर्थख्यापनेन महाहिंस्रेषु दुर्योधनादिषु तेषां जीवनवार्तानुसन्धानयत्नशैथिल्यसिद्धेः, एव अपि, उक्तसमुच्चये चकाराद् धृतराष्ट्रादिकं च सविदुरम् इति भीष्म-कृपयोः सान्त्वनाद्यर्थं ताभ्यां तस्य साहित्यात्, भक्तत्वेन समागमे गौणत्वाद्वा, भीष्मादिभिः सह तुल्यं दुःखं ययस्तौ, अतस्तान् समागम्य, ह स्पष्टम्, उच्चर् इत्य् अर्थः । भीष्मादीनां यथापूर्वं वयआदिना श्रेष्ठतया तत्तत्क्रमेण समागमः, तत्र द्रोणाद् अपि गान्धार्याः श्रैष्ठ्यम्, तस्य कृपात् पश्चादागत्य नवीनतयागन्तुकत्वेन न्यूनत्वात् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अध्यायार्थस्तैर् एव व्याख्यातः तत्राक्रूरमुररीकृत्येत्यस्यायम् एवार्थः तमक्रूरमुररीकृत्य मनस्यङ्गीकृत्य अथानन्तरं स राम एकान्ते उपमन्त्र्य हस्तिनापुरवृत्तं मन्त्रेण निश्चित्येति अन्यथार्थत्वे तद्दुर्यशोमार्जनतात्पर्यस्यास्य प्रकरणस्य प्रत्युत तदाधिक्यप्रतिपादनप्रतिपत्तेः गा इन्द्रियाणि ईशत्वेन विन्दतीति गोविन्दशब्दो विज्ञाने हेतुः कुल्यकरण इति तादृशक्रीडार्थम् इति सिद्धान्तः एवं स्वजनरमणाभिप्रायेणैवोतं राम इति ॥१॥

सविदुरं भीष्मं सवासनत्वादेकत्र स्थितेः कृष्णाय वा तद्दिने दैवात्सङ्गतेः भीष्मादिक्रमो\ऽयं श्रीभीष्मस्य सर्वादरणीयत्वेन प्रथमं मिलितत्वात् अन्येषां तद्वर्त्मक्रमप्राप्तत्वादुन्नेयः भीष्मादिभिः सह तुल्य दुःखं तदनुकरणं ययोस् तौ यथा विदूरस्य अतस्तान् समागम्य हस्पष्टम् उच्चर् इत्य् अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यो\ऽस्मभ्यम् इति परमभागवतस्याप्यक्रूरस्येदृश्युक्तिनूनं गोकुलजनकोपात् कृतवर्मणश् च भोजत्वेन कंससङ्गदोषात् ॥१-६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्तपञ्चाशत्तमे तु वदः सत्राजितो हतः ।

शतधन्वा तु कृष्णेनाक्रूरात् प्राप्तो मणिस् ततः ॥

साधारकं पालकोऽपि हन्यात् कृष्णावमाननात् ।

इति विज्ञापयामास मणिः सत्राजितो वधात् ॥

पाण्डवा बिलद्वारेण जतुगृहान् निर्गता इति विज्ञातोऽर्थो येन सः । कुन्तीं च दग्धाम् आकर्ण्य कुल्यकरणे कुलोचितव्यवहारार्थम् ॥१-२॥


॥ १०.५७.३ ॥

लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः ।

अक्रूर-कृतवर्माणौ मणिः कस्मान् न गृह्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् कृष्णगमनलक्षणम् । अन्तरमवकाशम् ॥ एतदन्तरमिति—संप्रति रामकृष्णौ द्वारकायां नस्त इत्यधनैव सत्राजितं हत्वा मणिग्रहीतुं शक्यः, तत्रावाभ्यां त्वम् एव शूरो\ऽतस्त्वयैव हन्यताम, तस्य दुःशीलत्वात्कस्मान्मणिर्न गृह्यत इति ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तरमवकाशम्, शतधन्वानम् इति तस्य दुःशीलत्वात् । किं वा, सत्राजिता प्रतिश्रुतपुत्र्यदानेन तस्य द्वयोत्पत्तेः । न गृह्यते त्वया ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तरमवकाशं शतधन्वानम् इति तस्यातिदुःशीलत्वात् न गृह्यते त्वया ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतदन्तरम् इति सम्प्रति रामकृष्णौ द्वारकायां नस् त इत्यधुनैव सत्राजितं हत्वा मणिर्गृहीतुं शक्यः तत्रावाभ्यां सकाशात् त्वम् एव शूर इति त्वयैवायं हन्यताम् ॥३॥


॥ १०.५७.४ ॥

योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः ।

कृष्णायादान् न सत्राजित् कस्माद्भ्रातरम् अन्वियात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु जीवन्सत्राजित्कथं मणिं दास्यति तत्रोचतुः यो\ऽस्मभ्यम् इति । भ्रातरं प्रसेनं मृतं कस्मान्नान्वियान्नानुगच्छेत् म्रियताम् इत्य् अर्थः ॥ ४-५ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतादृशं रत्नं जीवता दातुम् अशक्यम् इत्य् आशङ्कते—नन्व् इति । तत्राक्षेपे । इत्य् अर्थ इति—तं मारयित्वा मणिर्ग्रहीतव्य इत्य् अर्थः । प्रतिश्रुत्य दातुम् अङ्गीकृत्य । यतः कन्यारत्नं कन्याश्रेष्ठत्वेनास्य तदभिलाषास्पदत्वाद् इति भावः । विशेषेण गर्हयित्वा दोषारोपेण तिरस्कृत्य । कृष्णायेति मूलनामग्रहणमवज्ञयः । कन्या रत्नम् इति तदप्राप्त्या महाधिश् च सुच्यते । कस्माद्भ्रातरम् इत्य् -आदिशापव्याजवचनस्यायं भावः—अपुत्रस्यास्य भ्राता मृतो\ऽतो\ऽसहायस्यास्य हनने, हते चास्मिन् कस्माद् अपि भयं नास्त्य् एव । दायदाभावेन च मणिस्तदीय एव तस्माद्धन्यताम् इति । श्री-भगवद्भक्तवरस्याक्रूरस्येदृशोक्तिर्नूनं श्रीगोकुलजनकोपात्, कृतवर्मणश् च भोजत्वेन तत्सङ्गाभिदोषात् । अन्ये तु मन्यन्ते—श्री-भगवन्मिथ्यापवादोत्थापके सत्राजिति महाक्रोधेनैव भागवतवराभ्याम् अक्रूरकृतवर्मभ्यां शतधन्वप्रवर्तनार्थं तादृशमुक्तम् इति ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्मभ्यम् इति शतधन्वापेक्षया बहुत्वम्, सम्यग् वाङ्निबन्धादिना प्रतिश्रुत्य दातुम् अङ्गीकृत्य, यतः कन्यारत्नं कन्याश्रेष्ठत्वेनास्मद्योग्यत्वाद् इति भावः । तथापि नो\ऽस्मान् विशेषेण गर्हयित्वा अदानावमानतः । किं वा, श्री-कृष्ण विराजति सति किमन्यैर् इत्य् एवं वाक्यैः कृष्णाय श्यामकान्तये इति भावः । बहुत्वेन प्रत्य् एक् अ सम्प्रतिश्रवेण शाठ्यम् अपि, तथा कन्यारत्नम् इति तदप्राप्त्या महाधिश्व सुच्यते । कस्मात् भ्रतरं नान्वियादित्यस्यायं भावः—अपुत्रस्यास्य भ्राता च मृतो\ऽस्त्येव, अतो\ऽसहायस्यस्य हुनने हते चास्मिन् कस्माद् अपि भयं नास्त्येव, दायादाभावेन च मणिस्त्वदीय एवाभूद् इति श्री-भगवद्भक्तवरस्याप्यक्रूरस्येदृश्युक्तिः, गोकुलजनानाश्वासनेन सहसा त्वरया ततः श्री-कृष्ण-नयनेन तस्मिन् श्री-भगवदेकजीवनानां श्रीगोपीनामीषदवज्ञास्पर्शात्, कृतवर्मणश् च भोजत्वेन तत्सङ्गादिदोषात् । यद् वा, भगवतः पितृव्ये भक्तवरे गोकुलाधिकरणतद्द्र्शनैकार्थसेवितदुष्टकंसे कृतसिद्ध-तत्तन्मनोरथकुले तथा यद्गो\ऽपि कानां कुचेकुकमाञ्चितम् [ भा।पु १०।३८१८ ] इति । यद् वा, विहारे व्रजयोषितां श्रमं, स्पर्शएन सौगन्धिकगन्ध्यपानुदत् [ भा।पु १०३८।१७] इत्य्-आदिभावनया सुव्यक्त-श्रीगोपीविषयक-भक्तिविशेषे कंसवधादिना स्वभक्त-यदुकुलहितार्थं स्वेच्छया श्री भगवतो गमने गौणनिमित्त-मात्रत्वेन भगवतीनां तासामवज्ञा न किल सम्भवेत् । अतो ज्ञेयम् इदं श्री-भगवन्मिथ्यापवादोत्थापके सत्राजिति महाक्रोधेन भागवतवराभ्याम् अक्रूरकृतवर्माभ्यां तद्वधे कन्यावाप्त्याद्यर्थसत्राजित्प्रियङ्कर-तदपवादानुमोदक-दुर्बुद्धिशतधन्वप्रवर्तनार्थं शतधन्वनो\ऽपि वधार्थम् इति दिक् । मव्यभीप्सा वक्ररस्य नास्तील्यग्ने व्यक्त भाव्य् एव ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बहुभिर् याचिताम् इति पूर्वमुक्तमधुना तु यो\ऽस्मभ्यं सम्प्रतिश्रुत्येत्युच्यते तस्मात् पूर्वमेभिर् याचितापि नादायि सम्प्रति तु शरणार्थिना दीयमानापि सा नामीभिर् यद्यपि स्वीकृता तथापीर्ष्यया प्राहतुर्यो\ऽस्मभ्यम् इति । अस्मभ्यम् इति शतधन्वापक्षया बहुत्वं सम्यक् वारं वारं प्रतिश्रुत्य दातुम् अङ्गीकृत्य यतः कन्यारत्नं कन्याश्रेष्ठत्वेनास्मदभिलाषास्पदत्वाद् इति भावः । तथापि नो\ऽस्मान् विशेषेण गर्हयित्वा दोषारोपेण तिरस्कृत्य कृष्णायेति मूलनामग्रहणमवज्ञया बहुत्वेन प्रत्य् एक् अ सम्प्रतिश्रवणे शाठ्य सूचितम् । तथा कन्यारत्नम् इति तदप्राप्त्या महाधिश् च सूच्यते कस्माद्भ्रातरं नान्वियाद् इति शापव्याजवेचनस्यायं भावः अपुत्रस्यास्य भ्राता मृतो\ऽस्त्य् एव अतो\ऽसहायस्यास्य हनने हते चास्मिन् कस्माद् अपि दायादाभावेन च मणिस्त्वदीय एव भवेत् तस्माद्धन्यताम् इति श्री-भगवद्भक्तवरस्यास्याकूरस्येदृश्युक्तिर्नूनं श्रीगोकुलजन कोपात् कृतवर्मणश् च भोजत्वेन तत्सङ्गादिदोषात् अन्ये तु मन्यन्ते श्री-भगवन्मिथ्यापवादोत्थापके सत्राजिति महाक्रोधेनैव भागवतवराभ्याम् अप्यक्रूरकृतवर्मभ्यां शतधन्वप्रवर्तनार्थं तादृशमुक्तम् इत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र सत्राजितोऽपराधम् आहतुः—योऽस्मभ्यम् इति । बहुभिर् याचिताम् इति पूर्वोक्तैर् एभिः पूर्वं सा प्रत्य् एक् अं प्रार्थिता तेनापि दातुं प्रतिश्रुता आसीद् इति गम्यते । भ्रातरं प्रसेनं मृतं कस्मान्नान्वियाद् अपि तु अनुगच्छेद् एव मिर्यताम् इत्य् अर्थः । अत्र भगवन्मिथ्यापवादोत्थापके सत्राजिति महाक्रोधेनैव भक्तप्रवराभ्याम् अक्रूरकृतवर्मभ्यां तद्वधे शतधन्वप्रवर्तनार्थम् एव तादृशम् उक्तम् इति प्रां च ॥४॥


॥ १०.५७.५-७ ॥

एवं भिन्नमतिस् ताभ्यां सत्राजितम् असत्तमः ।

शयानम् अवधील् लोभात् स पापः क्षीणजीवितः ॥

स्त्रीणां विक्रोशमानानां क्रन्दतीनाम् अनाथवत् ।

हत्वा पशून् सौनिकवन् मणिम् आदाय जग्मिवान् ॥

सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता ।

व्यलपत् तात तातेति हा हतास्मीति मुह्यती ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) :**जरिमवान् जगाम ॥ ६-११ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । ताभ्याम् अक्रूरकृतवर्मभ्याम् । स शतधन्वा । भिन्ना सन्मार्गतः पृथक्कृता मतिर्यस्य सः यतो\ऽसत्तमः यदुवंशजो\ऽपि कंसवदसुरस्वभावः । पापः सत्सङ्गान्निजस्वभावावरणे\ऽपि प्रबल पापवासनावशीभूतः । अतः क्षीणजीवितो\ऽपि । यद् वा, —क्षीणजीवितत्वाद् एव प्रायः सत्पुरुषो विनाशसमये बुद्धया परित्यज्यते इत्यभियुक्तोस्तस्य तद्वधे प्रवृत्तिर् इति ज्ञेयम् ॥५॥

सौनिकवन्मारकवत्, राक्षसवद् इत्य् अर्थः । सूना हिंसास्थानं विद्यते\ऽस्येति सौनिकः ॥ ६-७ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भिन्ना सन्मार्गतः पृथक्कृता मतिर्यस्य सः, यतो\ऽसत्तमो महादुष्टः, कुतः ? पापः क्रूरचित्तः पापरतो वा, यतः क्षीणजीवितो यदुकुलजातो\ऽपि सन्निहित-मृत्युत्वात्तादृशो\ऽभूद् इति भावः । यद् वा, भिन्नमतित्वादसत्तमः पापश् च सन् । यद् वा, स्वभावत एवासत्तमः, यतः पापः, पुनश् च ताभ्यां भिन्नमतिः । किं च, क्षीणजीवितो\ऽतः शयानम् अपि मणिलोभादवधीत् ॥५॥

असत्तमत्वादिकम् एव दर्शयति—स्त्रीणाम् इति, अनादरे षष्ठी । किं वा, सप्तम्यर्थे, विक्रं शन्तीष्व् अपि अनाथवद् इति वस्तुतो भगवत्सनाथत्वात्, पशुन् व्याध इवेति पापत्वे दृष्टान्तः ॥६॥

वीक्ष्येति तदानीं तस्यास्तद्गृहे\ऽवस्थानात् । किं वा, मृतस्य तस्य स्त्रीभिस्तत्साक्षान्नयनात्, शुचा शोकेनापिता व्याप्ती मुह्यन्ती स्नेहेन पितृदोषादिकमविचारयन्तीत्य् अर्थः । यद् वा, अन्तरान्तरा मूच्र्छां भजन्ती ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भिन्ना सन्मार्गतः पृथक् कृता मतिर्यस्य स यतो\ऽसत्तमः, यदुवंशजो\ऽपि कंसादिवदसुरस्वभावः तत्र च पापः तत्सङ्गानिजस्वभावावरणे\ऽपि प्रबलपापवासनावशीभूतः अतः क्षीणजीवितो\ऽपि जातः अतः शयानम् अपि मणिलोभादवधीत् ॥५॥

तद् एव दर्शयति स्रोणाम् इति अनादरे षष्ठी ॥६॥

वीक्ष्येति तच्छ्रुत्वा तत्र गमनात् शुचा शोकेन अपिता व्याप्ती दिशाशब्दवच्छुचाशब्दो वा तस्यामपिता केनचिदिव दैवेन वा क्षिप्तेत्य् अर्थः मुह्यन्ती स्नेहेन पितृदोषादिकमविचारयन्तीत्य् अर्थः यद् वा, अन्तरान्तरमूच्र्छ भजन्ती हेतुस्त्वत्र तत्तल्लीलारसवैचित्रीरचयित्री लीलाशक्तिर् एव गम्या ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वीक्ष्येति श्रीसत्यभामायाः शोको\ऽयं लीलाशक्त्यैव स्वरसम्पादनोत्थापित इति ज्ञेयम् । एवम् अग्रे श्रीरामादीनां कोपादिकम् अपि ॥ ७-४२ ॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भिन्नमतिः प्रतारितबुद्धिः । असत्तम इति शतधन्वा मूलत एव कुबुद्धिः सत्राजिति बद्धवैरश् च ॥५-७॥


॥ १०.५७.८ ॥

तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् ।

कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर्वधम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :

द्रोणी काष्ठांबुवाहिन्यां गवादिन्यां च नोवृति ।

कुपोपकण्ठपानार्थक्लृप्तयन्त्रे\ऽपि च स्मृता ॥ इति धरणिः ।

प्रास्य निक्षिप्य । तैलद्रोण्याम् इति । दाहानन्तरमवश्यकृत्यस्य तच्छाद्धादिकर्मणस्तदानीमशक्यत्वात् । किं वा-भगवता तस्य जिजीवविषया । यद् वा, —भगवतः शोकक्रोधजननाय तत्प्रदर्शनार्थम् । प्रास्य प्रक्षिप्य ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तैलद्रोण्यां प्रास्येति दाहानन्तरमवश्यकृत्यस्य तच्छ्राद्धादिकर्मणस्तदानीमशक्यत्वात् । किं वा, श्री-भगवत्-आ तस्य जिजीवयिषया । किं वा, श्री-भगवत्-अः शोक-क्रोधजननाय तत्प्रदर्शनार्थं कृष्णाय साक्षाद्भगवते, अतो विदितो\ऽर्थः सर्वप्रयोजनं येन तस्मै, तदिच्छयैव तत्तदुद्भूतेः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तैलद्रोण्यां प्रास्येति दाहानन्तरमवश्यकृत्यस्य तच्छाद्धादिकर्मणस्तदानीमशक्यत्वात् किं वा श्री-भगवत्-आ तस्य जिजीविषया किं वा श्री-भगवत्-अः शोकक्रोधजननाय तत्प्रदर्शनार्थ विदितोर्थः प्रसेनाद्यस्थानविनियुक्तमणित्वेनावश्यं भाविफलं येन तस्मै ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तैलद्रोण्यां प्रास्येति । यस्या भर्ता परमेश्वरः सा तद्द्वारा स्वतातं कथं नाजीवयिष्यद् इति लोकोक्त्यैव जगाम, न तु कृष्णप्रातिकूल्ये सत्राजिति तस्या वस्तुतः स्नेहः । कृष्णम् अपि तापयुक्तीकर्तुं तप्तेति यदाहं तप्ता तदा त्वम् अपि तापम् एवाभिनयेति ज्ञापयन्तीति भावः ॥८॥


॥ १०.५७.९ ॥

तद् आकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम् ।

अहो नः परमं कष्टम् इत्यस्राक्षौ विलेपतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्छ्वशुरमरणम् । ईश्वरौ लोकातीतावपि नृलोकतां बन्धुवियोगे रोदनादिमनुष्यधर्ममनुसृत्य तल्लीलत्वात्, अन्यथा त्वतीवानौचित्यम् एव । विलापम् आह—अहो खेदे । न इति वसुदेवाद्यपेक्षया । परमम् इति बन्धुवरस्य शयानस्य धनाद्यर्थं चौरेण वधात्, लोके लज्जाद्युद्भवाच्चेत्येतत्प्रकारेण । हे राजन्निति—तस्येदृशी नलीलामाधुरी त्वया बुध्यत एव ज्ञानेन राजमानत्वाद् इति भावः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश्वरौ लोकातीतावपि नृलोकतां बन्धुवियोगे रोदनादिमनुष्यधर्ममनुसृत्य । यद् वा, साक्षादीश्वरत्वात् सर्वत्र समौ शोकादिरहितावपि कारुण्यादिनिजाशेषगुणविस्तरणाथ मनुष्यलोके\ऽवतीर्य, अत एव वात्सल्याद्विलेपतुः । कष्टम्, अहो खेदे, नः इति श्रीवसुदेवाद्यपेक्षया, परमम् इति बन्धुवरस्य शयानस्य धनाद्यर्थं वैरिणा वधात् तेन लोके लज्जाद्युद्भवां च, इत्य् एतत् प्रकारेण, हे राजन्न् इति सुहृदुःखकातरयोस् तयोस् तादृशं सम्भवेदेवेति विस्मयो न कार्य्य इति । यद् वा, तत् सर्वं श्रीसत्यभामाप्रीत्यर्थम् इति त्वया बुध्यत एवेति भावः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईश्वरौ लोकातीतावपि नृलोकतां बन्धुवियोगे रोदनादिमनुष्यधर्ममनुसृत्य तल्लीलत्वात् अन्यथा त्वनौचित्यमतीवेति विलापम् आह—अहो खेदे न इति वसुदेवाद्यपेक्षया परमम् इति बन्धुवरस्य शयानस्य धनार्थं चौरेण वधात् तेन लोके लज्जाद्युद्भवाच् च इत्य् एतत् प्रकारेण हे राजनिति तस्येशी नलीलामाधुरी त्वया बुध्यत एवेति भावः ॥ ९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्या वचनं श्रुत्वा अश्रुपातं विना विलापं चाभिनिन्यतुर्लोकसमाधानार्थम् इत्य् अर्थः ॥९॥


॥ १०.५७.१०-११ ॥

आगत्य भगवांस् तस्मात् सभार्यः साग्रजः पुरम् ।

शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः ॥

सोऽपि कृतोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया ।

साहाय्ये कृतवार्माणम् अयाचत स चाब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्माद्धस्तिनापुरतः । ततः शतधन्वनः आरेभे-शतधन्वनः कृतवर्मादिसाहाय्यम् वाससो व्यचिनोन्मणिम् इति वक्ष्यमाणाद्भगवान् अपि प्रियजनप्रेमवशनरलीलावेशेन गूढपुरुषादिद्वारा ज्ञात्वा साहाय्यार्थं बन्धुवर्ग समाहरणोद्यम कृतवान् । तच् च शतधन्वानं विद्राव्य तमेकाकिनं हन्तुम् इत्य् ऊह्यम् इत्य् अग्रे व्यक्तीभविष्यति ॥१०॥

सो\ऽपि शतधन्वापि । साहाय्ये सहायनिमित्तम् । स च कृतवर्मा । प्राणस्य जीवनस्य् एव न तु यशोधर्मादेः, परितोक्षतदेहत्वादिना सर्वतोभावेनेप्सया गतप्रायस्य प्राप्तुमिच्छया । प्राक्कृतवर्मणो याचनं सेनाध्यक्षत्वात्, अक्रूरस्य परमभक्तत्वेन साहाय्ये संशयाच् च ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्माद् गजाह्वयात् पुरमागम्य भगवान् दुष्टदण्डार्थं साक्षादवतीर्णः परमेश्वरः, आरेभे शतधन्वनः कृतबर्मदिसाहाय्येन आत्मनो\ऽपि साहाय्यार्थं स्वबन्धुवर्ग-समाहरणादिनोद्यम कृतवान्, वस्तुतस् तु क्रूरपक्षपातेन मणिवात्तच्छादनार्थं दूरे रहसि शतधन्वनो वधाय निजोद्यमख्यापनेन तदपसारणार्थम् । अत एवाप्युक्तम्—भगवान् भक्तवत्सल्याद्यशेषगुणयुक्त इति । कृष्णस्य युद्धार्थं स्वजनाद्याकर्षकस्योद्यमम् इति साग्रजत्वे\ऽपि दुष्टदण्डार्थं तस्यैवोद्यमे प्राधान्यात् तथा तस्माद् एव तस्य भयाच् च ॥१०॥

प्राणस्य जीवनस्यैव, न तु यशोधर्मादेः, परितो\ऽक्षतदेहत्वादिना सर्वतोभावेन, ईप्सया गतप्रायस्य प्राप्तुमिच्छया, तत्प्रवर्तने\ऽक्र रस्य मुख्यतायाम् अपि प्राक कृतवर्म प्रति याचनं सेनाध्यक्षुत्वेन तस्य सामर्थ्यविशेष मननात । किं वा, अक्रूरस्य परमभक्तत्वेन साहाय्ये संशयात ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आरेभे शतधन्वनः कृतवर्मादिसाहाय्यं वाससोर्व्यचिनोन्मणिम् इति वक्ष्यमाणाद्भगवान् अपि प्रियजनप्रेमवशनरलीलावेशेन गूढपुरुषादिद्वारा ज्ञात्वा स्वसाहाय्यार्थं सबन्धुवर्गसमाहरणादिनोद्यमं कृतवान् तच् च शतधन्वानं विद्राव्य तमेकाकिनं हन्तुम् इत्य् ऊह्यम् अग्रे\ऽपि व्यक्तीभावि ॥१०॥

प्राणस्य जीवनस्यैव न तु यशोधर्मादेः परितः अक्षतत्वादिना सर्वतोभावेनेप्यसा गतप्रायस्य प्राप्तुमिच्छया प्राक्कृतवर्मणो याचनं सेनाध्यक्षत्वात् अक्रूरस्य परमभक्तत्वेन साहाय्ये संशयाच् च ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च सा आगत्य जीवयितुम् अशक्तावेव सास्रं विलेपतुर् इति सबन्धूनवदद् इति ज्ञेयम् ॥१०-११॥


॥ १०.५७.१२ ॥

नाहम् ईश्वरयोः कुर्यां हेलनं रामकृष्णयोः ।

को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयो रामकृष्णयोः । अहम् इत्य् अन्यः करोतु नाम, अहं न कुर्याम् इति भावः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहमिति—अन्यः करोतु नाम, अहन्तु न कुर्याम् इत्य् अर्थः । कुतः ? ईश्वरयोः सर्वशक्तिमतः, अत एव युद्धादिना रमत इति रामः, वैरिणां सद्योजीवनाद्याकर्षणाच् च कृष्णस्तयोर् इति भावः । को\ऽन्यः कल्पेत योग्यो भवेत् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहम् इति अन्यः करोतु नाम अहं तु न कुर्य्याम् इति भावः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाहम् इत्ययं भावः । मया सत्राजिद्वध एव भवान् प्रवर्तितो न तु भगवत्प्रातिकूल्ये । तं तु त्वं यदि शरणं न यियाससि तर्हि त्वम् इव किमहम् अपि तत्प्रातिकुलो बभूषामीति ॥१२॥


॥ १०.५७.१३ ॥

कंसः सहानुगोऽपीतो यद्द्वेषात् त्याजितः श्रिया ।

जरासन्धः सप्तदशसंयुगाद् विरथो गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपीतो मृतः सप्तदशसङ्ख्याकान् संयुगान् ॥ १३-१४ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पानाभावे च मरणे\ऽपीतः पीतेतरे गते इति निरुक्तिः । तद्द्वेषाद्धेतोः श्रिया संपत्त्या हेतुकर्त्र्य त्याजितः स्वयम् एव स इत्य् अर्थः । तस्यास् तत्र तथैव स्थितिस्तस्यैव त्वपगतिर् इति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यस्मिन् ययोर् वा द्वेषाद्धेतोः, श्रिया धर्मादिसम्पत्या त्याजितस्त्यक्तः सन् । यद् वा, कृष्णेन श्रिया त्याजितो हापितः, पादस्यास्य परेणाप्यनुषङ्गः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्द्वेषाद्धेतोः श्रिया सम्पत्य् आहेतुकर्त्र्य जितः स्वयम् एव स इत्य् अर्थः तस्यास् तत्र तथैव स्थितस्यैव त्वपगतिर् इति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपीतो मृतः अप्ययशत्दस्यामरणार्थकत्वात् । श्रिया त्याजितस्त्यक्तः । यद् वा, हत इह यत् द्वेषात् स्वविषयकाद्धेतोः कंसः श्रिया त्याजितः सप्तदशानां संयुगानां समहारस्तस्मात् ॥१३॥


॥ १०.५७.१४ ॥

प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहम् अयाचत ।

सो\ऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्याख्यातो निराकृतः । स शतधन्वा, कृतवर्मणेति शेषः । पाणिग्रहं पृष्ठदेशे रक्षितारम् । सो\ऽक्रूरः । पार्ष्णिः सैन्यस्य पृष्ठे स्यात्पश्चात्पदजिगीषयोः इति विश्वः । पाणिग्राहम् सहायम् ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पाणिग्राहं साहाय्यम् इत्य् अर्थः, ईश्वरयो जगदीशयोः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पाणिग्राहं साहाय्यम् इत्य् अर्थः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कृतवर्मणा प्रत्याख्यातः ॥१४॥


॥ १०.५७.१५-१७ ॥

य इदं लीलया विश्वं सृजत्य् अवति हन्ति च ।

चेष्टां विश्वसृजो यस्य न विदुर् मोहिताजया ॥

यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना ।

दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः ॥

नमस् तस्मै भगवते कृष्णायाद्भुतकर्मणे ।

अनन्तायादिभूताय कूटस्थायात्मने नमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तौ रामकृष्णावेकम् एव तत्त्वम् इत्य् अभिप्रेत्य् आह—य इदम् इति । अजया मायया मोहिताजयेति सन्धिरार्षः ॥ १५-१७ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यः कृष्णः । यस्य कृष्णस्य । तत्रेश्वरो नाम एक एव स्याद् इति रामस्यापि कृष्णान्तर्भावविवक्षयैकत्वेनाह—य इति त्रिभिः । इदं विचित्रानताश्चर्यमयम् । लीलयानायासेनेत्य् अर्थः । तच् च किमर्थम् इति के\ऽपि ज्ञातुं नेशाञ्चक्रिर इत्य् आह—चेष्टाम् इति । तत्र चेष्टामीहाम्, तत्तदभिप्रायम् इत्य् अर्थः । यस्येत्यस्याजयेत्यनेनाप्यन्वयः । अत एताम् अपि चेष्टां को जानीयाद् इति भावः ॥१५॥

इहापि तादृशः प्रत्ययो दृश्यताम् इत्य् आह—य इति । लीलया सप्तायनत्वाद् एव । बालः आविष्कृतबाल्यानुरूपाकारादिस् तथापि दधार तत्रापि शैलं शिलामयम् इति मृदाद्यभावेन महागुरुत्वं शिलानां खण्डशः पृथक् कृत्वा धारणाशक्यत्वादिक चाभिप्रेतम् । तथाप्युपाट्य मूलतो भूतलादुद्धृत्य तत्राप्येकेन वामेनैव पाणिना तत्रापि लीलयानायासेन । तत्र दृष्टान्तमनुरूपम् आह—उच्छिलीन्ध्रमिवार्भक इति ॥१६॥

अत एवाद्भूत कर्मणे तस्मै नमः । अद्भुतत्वे हेतुः—कृष्णाय नराकृतिपरब्रह्मणे । अतो भगवते सर्वैश्वर्यपूर्णाय । अत एवानन्तायान्तरहिताय सदा वर्तमानायानादय इत्य् अर्थः । किं च, —मध्ये सृष्ट्यादावपि विकाररहितत्वाकूटस्थय । यत आत्मने सर्वातयमिणे । एवं भक्त्युद्र के ण साष्टाङ्ग प्रणमन्पुरप्याह—नम इति ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु ईश्वर एक एव स्याद् इति द्वित्वेनेश्वरत्वहानिरित्याशङ्कां परिहरन्नैश्वर्यम् एव दर्शयति—य इति । द्वयोर् अप्यैवयवक्त्या ईश्वरत्वं साधितम् एव, इदं विचित्रानन्ताश्चर्यमयम्, लीलया अनायासेन तच् च किमर्थम् इति के\ऽपि ज्ञात नेशाञ्चक्रिरे इत्य् आह—चेष्टाम् इति । चरितम् अपि एतावदीदृशं चेति विश्वसृजः श्रीब्रह्मादयो\ऽपि न विदुः, किं पुनस्तत्प्रयोजनम् इत्य् अर्थः । यद् वा, इच्छां तत्तदभिप्रायम् इत्य् अर्थः । यस्येत्यस्याजयेत्यनेनाप्यन्वयः । न जायते नोत्पद्यते, किन्तु सदैव दत्तते इत्यजातयेति मोहर यापि सदातनत्वमभिप्रेतम् । किमर्थं त्वया सत्राजित्घातितः, किमर्थं वा मणिं मयि स्थापयितुमिच्छसीत्यादिकां तल्लीलां को\ऽपि ज्ञातं न शक्नुयाद् इति भावः ॥१५॥

अहो सृष्ट्यादिचेष्टां न विदुर् इति किं वक्तव्यम्, तस्य सम्प्रति सर्वसाक्षात् स्वयं श्रीगोवर्धनधारणप्रकारादिकम् अपि केनापि ज्ञातुं न शक्यत इति । यद् वा, ननु ईश्वरत्वे तथास्ताम्, अधुना तु यादवत्वाङ्गीकारात्तेन सह यादवानामस्माकं विरोधो घटेतैव ? न, अत्रैवाशेषैश्वर्यप्रकटनाद् इत्य् आह—य इति । सप्तहायनत्वादेवार्भक इति बाल्यानुरूपाकारादि सूचितम्, तथापि दधार, तत्रापि शैलं शिलामयम् इति मृदाद्यभावेन महागुरुत्वं शिलानां खण्डशः पृथक्त्वाद्धारणशक्यत्वादिकच्चाभिप्रेतम् । तत्राप्युपाट्य मूलतो भूतलादुद्धृत्य, तत्राप्येकेन वामेनैव पाणिना, तत्रापि लीलया अत्रानुरूपो दृष्टान्तः—बाल इति ॥१६॥

अत एवाद्भुतकर्मणे तस्मै नमः, अद्भुतकर्मत्वे हेतुः–कृष्णाय नराकृति—परब्रह्मणे, अतो भगवते सर्वैश्वर्थ्यपूर्णाय, अत एवानन्ताय अन्तरहिताय । किं च, सर्वेषाम् आदौ भूताय सदा वर्तमानाय अनादय इत्य् अर्थः । किं च, कूटस्थाय मध्ये सृष्टयादावपि विकाररहिताय, यत आत्मने सर्वान्तर्यामिणे । एवं भक्त्युद्रेकेण साष्टाङ्गं प्रणमन् पुनरप्याह—नम इति ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रेश्वरो नामैक एव स्याद् इति रामस्यापि श्री-कृष्णान्तभवविवक्षयैकत्वेनाह । य इति त्रिभिः । इदं विचित्रानन्ताश्चर्यमयं लीलया अनायासेनेत्य् अर्थः । तच् च किमर्थम् इति के\ऽपि ज्ञातं नेशाञ्चक्रिरे इत्य् आह । चेष्टाम् इति । तत्र चेष्टामीहामिच्छां तत्तदभिप्रायम् इति यावत् यस्येत्यस्याजयेत्यनेनाप्यन्वयः अत एताम् अपि चेष्टां को जानीयाद् इति भावः ॥१५॥

इहापि तादृशः प्रभावो दृश्यताम् इत्य् आह—य इति । जन्मदिलीलया सप्तहायनत्वाद् एव बालः आविष्कृतवाल्यानुरूपाकारादिः तथापि दधार तत्रापि शैलं शिलामयं इति मृदाद्यभावेन महागुरुत्वं शिलानां खण्डशः पृथक्कृत्वा धरणाशक्यत्वादिकं चाभिप्रेतं तथाप्युपाट्य मूलतो भूतलादुद्धृत्य तत्राप्येकेन वामेनैव पाणिना तत्रापि लीलया अत्रानुरूपो दृष्टान्तः उच्छिलीन्ध्रमिवार्भक इति ॥१६॥

अत एवाद्भुतकर्मणे तस्मै नमः अद्भुतकर्मत्वे हेतुः कृष्णाय नराकृतिपरब्रह्मणे अतो भगवते सर्वैश्वर्यपूर्णाय अत एवानन्ताय अन्तरहिताय किं च, सर्वेषाम् आदौ भूताय सदा वर्तमानाय अनादय इत्य् अर्थः । किं च, कूटस्थाय मध्ये सृष्ट्यादावपि विकाररहिताय यत आत्मने सर्वान्तर्यामिणे एवम् भक्त्युदैकेण साष्टाङ्ग प्रणमन् पुनरप्याह—नेम इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रामकृष्णयोर् एकम् एव तत्त्वम् इत्यभिप्रेत्य् आह—य इति । मोहिता अजया इति सन्धिरार्षः ॥१५-१७॥


॥ १०.५७.१८ ॥

प्रत्याख्यातः स तेनापि शतधन्वा महामणिम् ।

तस्मिन् न्यस्याश्वम् आरुह्य शत-योजनगं ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तर्यामि-कृष्ण-नियुक्तस् तस्मिन्नक्ररे मणिं न्यस्य ययाव् अपलायत ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शतधन्वा । तेनाक्ररेण । महामणिम् इति तेनाधार्यत्वं, सतमेनैव धार्यत्वं च सूचयति । अतो\ऽक्रूरं सत्तमं मत्वा तस्मिन्न् एव न्यस्य न्यासरूपेण स्थापयित्वेति स्वात्मनो\ऽपि स्वधने ममत्वाधिक्यं दर्शितम् । विष्णु-पुराणे तु वडवामाह्य इत्य् उक्तम्, अत्राश्वम् इति सामान्य निर्देशो ज्ञेयः । शत-योजन-गामित्वं तस्य स्वभावत एव, विपत्तौ तु बहु-शत-योजन-सामर्थ्यम् अपि ज्ञेयम् । अतो द्वारकातो मिथिलोपवनपर्यन्तमतिकष्टेन गत्वा तत्रैव मृत इति वक्ष्यते ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सो\ऽक्रूरादिप्रेरणया मणिलोभेन वा पापे प्रवृत्तो\ऽपि यः, महामणिमिति—तेनाधार्यत्वं सत्तमेनैव धार्यत्वं सूचयति अतो\ऽक्रूरस्य भगवति भक्त्यतिरेकं श्रुत्वा तं सत्तमं मत्वा तस्मिन्न् एव न्यस्य न्यासरूपे धत्वा । अक्रूरेण तत्स्वीकारस् तु श्री-भगवदाज्ञयैवेति श्रोस्वामिपादैव्यख्यातम् एव । सा च साधुवरेण भक्त्या तस्मिन् धृते सफल स्यादन्यथा तु विपरीतम् एवेति लोकहितार्थ ज्ञेया ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महामणिम् इति तेनाधार्यत्वं सत्तमेनैव धायर्यत्वं सूचयति अतो\ऽक्रूरं सत्तमं मत्वा तस्मिन्न् एव न्यस्य न्यासरूपेण धृत्वा श्री-विष्णु-पुराणे वडवामारुह्येत्य् उक्तल्वादत्राश्वम् इति सामान्यनिर्देशो ज्ञेयः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यस्य न्यासरूपेण स्थापयित्वेति स्वात्मनोऽपि स्वधने ममत्वाधिक्यं दर्शितम् । शत-योजनगामित्वं तस्य स्वभाव एव विपत्प्राप्तत्वे तु बहुशत-योजनगमनसामर्थ्यम् अपि ज्ञेयम् । अतो द्वारकातो मिथिलोपवनपर्यन्तम् अतिकष्टेन गत्वा तत्रैवास्यो मृत इति वक्ष्यते ॥१८॥


॥ १०.५७.१९ ॥

गरुडध्वजम् आरुह्य रथं रामजनार्दनौ ।

अन्वयातां महावेगैर् अश्वै राजन् गुरुद्रुहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरुः श्वशुरस्तद्धन्तारम् ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अष्टादशसु गुरुषु श्वशुरस्य गणितत्वाच्छ्वशुरो\ऽपि गुरुरेवेति बृहन्नारदीये । गरुडध्वज मिति—साक्षागरुड एवोडीन इति लोकोत्प्रेक्षितम् इत्य् अर्थः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गरुडध्वजमिति—रथस्य गरुडवद्वेगः सूचितः । राम इति–दुष्टवधोद्यमेन सुहृदां रमणात् । जनाद्दन इति–दुष्टजनस्याद्द ने प्रवृत्तः । किं वा, तद्-अर्थं निजजनैः प्रार्थनाद् इति भावः । गुरूद्रुहमिति—तद्वधार्थं तथानुयानं युक्तम् एवेत्य् अर्थः । तच्छवणेन प्रहर्षाद्राजमानं श्रीपरीक्षितं दृष्ट्वा तथैव सम्बोधयति–राजनिति ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गरुडध्वजम् इति साक्षागरुड एवायमुड्डीन इति लोकोत्प्रेक्षितम् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरुद्रुहं श्वशुरहन्तारम् ॥१९-२०॥


॥ १०.५७.२० ॥

मिथिलायाम् उपवने विसृज्य पतितं हयम् ।

पद्भ्यामधावत् सन्त्रस्तः कृष्णो\ऽप्य् अन्वद्रवद् रुषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शत-योजन-मात्रगामित्वात्ततः परं गन्तुम् अशक्तस् तत्र पतितः तं हयं विसृज्य ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मिथिलाया नगर्याः । अन्वद्रवत् रथं हित्वा पश्चादधावत्, वीराणां तथैव न्यायात् । ननु पलायमानानुद्रवणमन्याय्यं तत्राहरूषा, गुरुद्रुहि न्याय्यत्वाद् इत्य् अर्थः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हयपतनात् सम्यक् त्रस्तः सन्नधावत्, अपि-शब्दात् पद्भ्याम् एवान्वद्रवत्, पश्चादधावद् इति ज्ञेयम् । पदातेः पदतिनैवानुद्रवणस्य वीरवरेषु योग्यत्वात् । ननु सन्त्रस्तरय जवेन पलायमानस्योपेक्षैवोचिता, नवनुद्रवणम्, तत्राहरूषा बन्धुवधादिना रोषोदयाद् इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्वद्रवत् रथमुत्सृज्य पश्चादधावत् वीराणां तथैव न्यायात् ननु पलायमानानुद्रवणम् अप्य् अन्याय्यं तत्राह—रुषा गुरुद्रु हि तादृशरोषस्य न्याय्यत्वादिल्यर्थः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५७.२१-२२ ॥

पदातेर् भगवांस् तस्य पदातिस् तिग्मनेमिना ।

चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन् मणिम् ॥

अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम् ।

वृथा हतः शतधनुर्मणिस् तत्र न विद्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यचिनोन्म गया मास । अक्ररे मणिरस्तीति सर्वज्ञतया विदित्वा\ऽपि रामवञ्चनाय तथा कृतवान् इति भावः ॥२१-२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पद्भ्यामातिर्गमनं यस्य स पदातिः । तस्य शतधन्वनः । तिग्मनेमिना चण्डधारेण । इति भाव इति–जाननेवायमेतन्मारणार्थम् एवात्रागत इति रामो मदुपरि क्रुद्धो मा भवेदतो\ऽजानन्निववर्षस्त्रयोर् मणेर् अन्वेषणं चकारेति तात्पर्यम् । अतो धावतो\ऽपि भगवान् इति पाठे सर्वज्ञो\ऽपि अक्ररे मणिरस्तीति सर्वज्ञतया ज्ञात्वापि दूरात्पश्यतो रामस्यैव मोहनाय व्यचिनोत् । तन्महनं च–स्वस्माद्वियुक्तस्य तस्य स्वप्रिये बहुलाश्वे नृपे कृपाभर प्रापणार्थम् इति ज्ञेयम् ॥२१॥

तत्र शतधन्वनि । अग्रजस्यान्तिकमागत्य वृथा हत इति गूढपुरुषाणामन्यथात्वं व्यञ्जितम् ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो धावतो\ऽपि पाठान्तरे सर्वज्ञो\ऽपि व्यचिनोत्, उत्कृत्य दूरादेवोच्चैछित्त्वा, रुषैव किं वा, अक्रूरपक्षपातेनाग्रवञ्चनाय शतधन्वमुखतो मणिवृत्तान्तश्रवणादिबोधनार्थम् ॥२१॥

अग्रजस्यान्तिकमागत्य आहेत्यस्य कर्मपदप्रयोगः साक्षादग्रज-वञ्चनायोग्यतया स्वयम् एव भाषणात्, अत एवाग्रजशब्दः तत्र तस्मिन् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो धावतो\ऽपि भगवान् इति पाठे सर्वज्ञो\ऽपि व्यचिनोत् दूरतः पश्यतः श्रीरामस्य वञ्चनाय इति भावः । प्रियजनप्रेममयनरलीलाकौतुकेच्छावेशमयरुषा श्रीरामाग्रतो नानीय मणिवृत्तान्तमपृष्ट्वैव चोत्कर्त्तनं ज्ञेयं शतधन्वनि स्वरोषातिशयव्यञ्जनार्थम् अत्रायमभिसन्धिः अक्रूरे स्वभक्ते\ऽपि दुःसङ्गदुरनुसन्धानदर्शनात् किञ्चित्कालपरित्यागातङ्कनादिलक्षणशासनेच्छा भगवत आसीत् सङ्कोचतः सा च न साक्षादात्मकतृका अत एवात्मनो भक्तमनोरथपरिपूरणस्वभावत्वाच् च तस्यैव च मणियोग्यत्वात्तस्मै मणिदित्साप्यवर्तत अत एव चेममभिप्रायम् रहसि मणि लब्ध्वा स्वयम् एवासौ पलायत पश्चाद्विचारयितव्यम् आपाततः श्रुते तवृत्तान्ते मदग्रजेनान्येन च तस्मिन् दुःखं प्राप्स्यते ततः सर्वं विशृङ्खलं भविष्यतीति ॥२१॥

अग्रजस्यान्तिकमागत्य वृथा हत इति गूढरुपा दीन मन्यथात्वं व्यञ्जितम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्रूरे मणिरस्तीति सर्वज्ञतया ज्ञात्वापि दूरात् पश्यतो रामस्यैव मोहनार्थं व्यचिनोत् । तन्मोहनं च स्वस्माद् वियुक्तस्य तस्य स्वप्रिये बहुलाश्वे नृपे कृपाभरप्रापणार्थम् इति ज्ञेयम् ॥२१-२२॥


॥ १०.५७.२३ ॥

तत आह बलो नूनं स मणिः शतधन्वना ।

कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वेषान्विच्छ ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उदासीनो बलस्तदाचरणेन किञ्चित्कुपित इत्य् आह तत इति । ततः शतधनुषो वधानन्तरम् । तं मणिम्, पुरुषं वा । अन्विच्छ मार्गय । नूनम् इत्य् -आदि प्रणयकोपवाक्यम् । कस्मिश्चिदिति—योग्यत्वादक्रर एव तकित इति ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस्तत्पश्चाद् इति अक्रूरपक्षपातेन श्री-भगवत्-आ स्वस्य वञ्चनया महाधिना क्षणविलम्बात्, बल इति स्नेहबलाधिक्यादन्तः कुपितः सन्न् इति भावः । नूनं वित, पुरुषे तवैव भक्तवर इत्य् अर्थः । इत्य्-आदिकं सर्वं प्रणयकोपाद् एव ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नुनम् इत्य् -आदिकं प्रणयकोपवाक्यं कस्मिंश्चिद् इति योग्यत्वादक्रूर एव तर्कितः अन्वेष अन्विच्छ ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्वेष अन्वेषय ॥२३॥


॥ १०.५७.२४-२५ ॥

अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम ।

इत्य् उक्त्वा मिथिलां राजन् विवेश यदु-नन्दनः ॥

तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीत-मानसः ।

अर्हयामास विधिवद् अर्हणीयं समर्हणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वज्ञस्यैवं विचेष्टितं मद्-वञ्चनायेति मत्वा गूढ-मन्युर् आह—अहम् इति ॥२४-२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधुना त्वया सार्धं न गच्छामीत्य् आह—सर्वज्ञस्य इति । यस्य मणेः सम्बन्धेन तादृशं कलङ्क लब्धा बिलप्रवेशाद्यनेन कृतं तस्मै मणये तादृशम् अपि व्यवहारवन्तमक्रूरमयं । ज्ञात्वापि तत्पक्षपातं न त्यक्ष्यति तत्सम्बन्धेन च पुनर्लोकापत्रादं च प्राप्स्यत्य साव् इति मया दुःखसन्दग्धेन सन्निधानं न शक्यत इत्यभिप्रेत्य प्रणयकोपं व्यनक्ति—अहम् इति । यदुनन्दन इति—यादवानन्दनार्थं द्वारकां गन्तुम् अर्होपीत्य् अर्थः । विदेहमिति—अहं त्वदीयद् वा, रकाम् अपि न यास्यामि, त्वं स्वप्रियायै मणि स्वच्छन्देनैव देहीति भावः । हे राजन्न् इति श्री-भगवल्लीलाश्रवणेन राजमानत्वात् ॥२४॥

तं बलम् । अर्हणीयं पूजनीयम् । सहसेत्याकस्मिकैकाकितया गमनात् । अर्हण्यं वै इति पाठे\ऽपि स एवार्थः । समर्हणैर् उत्तमपूजाद्रव्यैः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मम प्रियतमम् इति त्वत्प्रियतमं त्वं गत्वा पश्येति भावः । किं वा, , प्रियास्त्वद्भक्ता यादवास्तेभ्यो\ऽप्य् अधिकप्रियं वैदेहानां प्रायो ज्ञानपरत्वात् त्वत्कृतोपेक्षयाधुना भक्तान् विहाय ज्ञानिनाम् एव सङ्गं करिष्य इति, यदुनन्दन इति यादवानन्दनार्थं द्वारकायामागन्तुम् अर्हो\ऽपीति, हे राजनिति च भक्तिमतां भगवति प्रणयकोपपरिपाटी त्वया बुध्यत एवेति भावः । यद् वा, अन्तःप्रणयकोपभरातेजसा राजमान ॥२४॥

सहसेत्यकस्मादेवागमनादर्हण्यमर्हणयोग्यम्, वै प्रसिद्धौ, अर्हणीयम् इति पाठे\ऽपि स एवार्थः । समर्हणौरुत्त्मपूजाद्रव्यैः ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्य मणेः सम्बन्धेन तादृशं कलङ्क लब्ध्वा विलप्रवेशाद्यनेन कृतं तस्मै मणये तादृशम् अपि व्यवहरन्तमक्रूरं मद्वज्ज्ञात्वापि नूनं तत्पक्षपातं न त्यक्ष्यति तत्सम्बन्धेन पुनर्लोकापवादं च प्राप्स्यत्य साव् इति मया दुःखदग्धेन सन्निधातुन्न शक्यत इत्यभिप्रेत्य प्रणय कोपं व्यनक्ति । अहम् इति । यदुनन्दने इति यादवानन्दनार्थं द्वारकायाङ्गन्तुम् अहपीत्य् अर्थः ॥२४॥

सहसेत्यकस्मात् एकाकितयैवागमनात् अर्हण्यम् अर्हणयोग्यं वै प्रसिद्धौ अर्हणीयम् इति पाठे स एवार्थः समर्हणेः उत्तमपूजाद्रव्यैः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वज्ञस्यैवं चेष्टितं मद्वञ्चनायैवेति मत्वा तन्मोहितत्वाद् एव तं प्रति गूढमन्युर् आह—अहम् इति । त्वदीय द्वारकाम् अप्यहं न यास्यामि त्वं स्वप्रियायै मणिं स्वच्छन्देनैव देहीति भावः ॥२४-२५॥


॥ १०.५७.२६ ॥

उवास तस्यां कतिचिन् मिथिलायां समा विभुः ।

मानितः प्रीति-युक्तेन जनकेन महात्मना ।

ततोऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कतिचित् समाः संवत्सरान् प्रासङ्गिम् आह—तत इति ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रासङ्गिक प्रसङ्गायातम् । ततो बलदेवात् । काले श्री-कृष्णतो रुष्टेकान्तागतत्वान्निजावसरे । धार्तराष्ट्र इति-दुर्मन्त्रदक्षस्य पितुः प्रेरणाद् इत्य् अर्थः । मानित इत्यस्य विभुरित्यनेनैवान्वयः । योग्यत्वात्तद् एवाह—महान् श्री-कृष्णे तत्प्रियगण्ं, चैव गतत्वात्सर्वोत्कृष्ट आत्मा मनो यस्य तेन ॥२६॥

उवास तस्यां कतिचिन् मिथिलायां समा विभुः ।

मानितः प्रीतियुक्तेन जनकेन महात्मना ।

ततोऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्यां प्रायो भक्तिरहितायाम् अपि विशेषेणाग्रजतया भवतीति विभुः श्री-कृष्णाग्रजो\ऽपि यद् वा, तस्यां तादृशार्हणप्रापिकायां विभुस्तत्रस्येश्वरः सन्न् इत्य् अर्थः । ततस्तस्मादन्तः कोपेन तस्य मिथिलावासाद्धेतोरतत्पश्चाद्वा शीघ्रं तत्तत्त्वं ज्ञातुम् अशक्तेः काले द्वयोर् भ्रात्रोर्दावसरं प्राप्येत्य् अर्थः । यद् वा, शिक्षायोग्यावसरे धार्तराष्ट्र इति दुर्मन्त्रदक्षस्य पितुः प्रेरणात्, सुयोधन इति च सुखेन योद्धुम् इति भावः । महात्मना ज्ञानपरतया सर्वत्र समदृष्टिना, अत एव प्रीति-युक्तेन सता मानित आदृतः सन् अग्ने वक्ष्यमाणाच्छ्रीभगवद्गन्तव्यान्मैथिलादयं कश्चिदन्यः । किं वा, श्रीबलदेवप्रसादबलात् कालेनार यैव भक्तिवृद्धयायम् एव स इति ज्ञेयम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उवासेति सार्धकम् । तस्यां स्वभक्तपालितायां विभुरीश्वरः सन् काले तस्य श्री-कृष्णतो रुष्ट्वैकान्ता गतत्वान्निजावसरे धार्तराष्ट्र इति दुर्मन्त्रदक्षस्य पितुः प्रेरणाद् इत्य् अर्थः । मानित इत्यस्य विभुरित्यनेनैवान्वयः । योग्यत्वात् । तद् एवाह—महात्मना महान् श्री-कृष्णे तत्प्रियगण एव च गतत्वात्सर्वोत्कृष्ट आत्मा यस्य तेनेति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मानित इत्यस्य विभुर् इत्यनेनैवान्वयः ॥२६॥


॥ १०.५७.२७ ॥

केशवो द्वारकाम् एत्य निधनं शतधन्वनः ।

अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद्विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यभामाम् अप्य् अवञ्चयद् इति सूचयन्न् आह—केशव इति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मण्य्-अप्राप्ति-कथनेन तस्या अपि वञ्चनम् एव । प्रियायाः प्रियकृद् इति—आयुर्-अभावाद् एव त्वत्-पिता जीवयितुम् अशक्यः किन्तु त्वपितृहन्ता मया स्वहस् तेन हत इति प्रियां प्रत्युक्तेः । केशव इति-तथा शीघ्रगतो वीर्यसूचनं, ब्रह्मेशवशकारित्वाद्धेलया हततादृशकेशित्वाद्वा । प्राह प्रकर्षेण दूरधावनाद्यभिव्यञ्जनेनाह । यतो विभुर् अपि प्रेमवशत्वात्प्रियायाः प्रिय कृद् इति तोषिणी ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केशवः साक्षात् परमेश्वरः, तत्र च विभुर्निजाशेषैश्वर्य्यविस्तारणेन सर्वव्यापकः, अत एव प्रियायाः श्री-रुक्मिणीजाम्बवतीभ्याम् अपि वल्लभायाः श्रीसत्यभामायाः प्रियं कुर्वन्, तां प्रति शतधन्वनो वधं प्रकर्षण दूरधावनाद्यभिव्यञ्जनेनाह । यद् वा, प्रियकृद् अपि मणेर् अप्राप्तिम् अपि प्राह, यतो विशेषेण प्रियाभ्यो\ऽप्य् आधिक्येन भक्तेषु भवतीति तथा सः, भक्तवात्सल्येनाक्रूर पक्षपाताद् इति भावः । यद् वा, मायया जगद्व्यापकः, प्रियाया अपि वञ्चनात्, इयं श्रीवादरायणर्भावविशेषेणासुयोक्तिर् इति ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केशव इति तथा शीघ्रगतौ वीर्यसूचनं ब्रह्मेशवशीकारित्वात् हेलया हततादृशकेशित्वाद्वा प्रकर्षेण दूरधावनाद्यभिव्यञ्जनेना—यतो विभुर् अपि प्रेमवशत्वात् प्रियायां प्रियकृत् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रियायाः प्रियकृद् इति आयुर् अभावाद् एवत्वत्पिता जीवयितुम् अशक्यः, किन्तु त्वत्पितृहन्ता मया स्वहस् तेन हत इति प्रियां प्रत्युक्तेः ॥२७॥


॥ १०.५७.२८ ॥

ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै ।

साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बन्धोः सत्राजितः । सपरायिकाः पारलौकि क्यः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो द्वारकाप्राप्त्युत्तरम् । कारयामास श्रीसत्यभामयेति । वै प्रसिद्धी । यायास्तास्ताः । तस्य चौरेण । शस्त्रहतेर् अनुरूपास्तत्प्रायश्चित्तप्रूविका इत्य् अर्थः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस्तदनन्तरम् एव कारयामास श्रीसत्यभामया पुरोहितेन वा, वै प्रसिद्धौ, या यास्ताः सर्वा एव, तत्र च तस्य चौरेण शस्त्रहतेर् अनुरूपा इत्य् अर्थः । यतो भगवान् परमदयालुः । यद् वा, सद्धर्मप्रवर्तनाद्यर्थमवतीर्णः, अतो लोकशिक्षार्थम् इति भावः । यद् वा, भगवान् अपि कुतः ? बन्धोर्बन्धुवात्सल्याद् इति भावः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस्तदनन्तरम् एव कारयामास श्रीसत्यभामयेति वै प्रसिद्धौ यायास्ताः सर्वा एव तत्र च हुतस्येति चौरेण शस्त्रहतेर् अनुरूपा इत्य् अर्थः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बन्धोः सत्राजितः ॥२८॥


॥ १०.५७.२९ ॥

अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् ।

व्यूषतुर् भय-वित्रस्तौ द्वारकायाः प्रयोजकौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यूषतुर्द्वारकायाः सकाशात् कापि पलायितौ प्रयोजक मणिहरणे शतधन्वनः प्रवर्तकौ तत्राक्रूरः कृष्णानुमतेनैव गतः कृतवर्मा तु भक्तपक्षपातप्राकट्यभयादिवोपेक्षित इति गम्यते कथमन्यथा सर्वज्ञेश्वरवञ्चनं तयोः संभवतीति ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तयोर् मध्ये । गम्यते ज्ञायते । तयोर् अक्रूरकृतवर्मणोः । शतधनुर्वधश्रवणेनातिभीताव् इति विशब्दार्थः ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वधं श्रुत्वा इति यादवत्वेन श्री-भगवांस्तं न हन्याद् इति पूर्वं हृदि कृतवन्तौ स्तः, अधुना च श्रुत्वा मरणभयेन विशेषतस्रस्तौ सत्राजिद्वधे शतधन्वनः प्रेरणात् प्राग् एव त्रस्तौ, इदानीं तद्वधश्रवणेनाधिक भीताव् इति वि-शब्दार्थः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं यादवत्वेन ज्ञेयं न हन्याद् इति किञ्चिद्विश्वासयुक्तौ इदानीं तद्वधश्रवणेनाधिकभीताव् इति विशब्दार्थः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यूषतुर्द्वारकायाः सकाशात् क्वापि पलायितौ । यतः प्रयोजकौ सत्राजिद्वधे शतधन्वनः प्रवर्तकौ ॥२९॥


॥ १०.५७.३०-३१ ॥

अक्रूरे प्रोषितेऽरिष्टान्य् आसन् वै द्वारकौकसाम् ।

शारीरा मानसास् तापा मुहुर् दैविक-भौतिकाः ॥

इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् ।

मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं वाराणस्यां दानपति-समाख्यया मणि-हस्ते\ऽक्रूरे रुक्म-वेदिकैर् महाध्वरैर् यजमाने निवसति पुनः श्री-कृष्णेनैव प्रस्थापितो\ऽक्रूर इति कर्णे कर्णे जपति जने सत्यभामा-रामादीनाम् अप्य् अविश्वासे जन-सङ्ग्रहायाक्रूरं समाहूय साक्षेपं श्री-कृष्णः प्राह—इदं च भगवन्-मतं सङ्गोप्य केचन ऋषयो\ऽन्यत्-कारणम् अक्रूरानयने वर्णयन्ति तद् यथा-श्रुतं दूषयितुम् अनुवदति अक्रूरे प्रोषित इति ॥३०॥

दूषयति—इतीति । अङ्ग हे राजन् । श्री-कृष्णमाहात्म्यं विस्मत्येति तद् एवाह—मुनिवासनिवास इति । मुनीनां वासो यस्मिन्स श्री-कृष्णस्तस्य निवासे सत्यक्रूरापगम-मात्रेणारिष्टदर्शनं किं घटेत ? तदिच्छां विना न घटेतेत्य् अर्थः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवम् इत्थम् । वाराणस्यां काश्याम् । रुक्मवेदिकैमरचितवेदिकायुवतैः । महाध्वरैर् महायज्ञः । निवसति सति । तत् कारणम् । अरिष्टान्यरिटसूचकानि । तद् एवं व्रजदेव्यपराधफलम् इदम् अक्रूरस्य, यद्बहुवर्षपर्यन्तं कृष्णविच्छेददुःखानुभवस्तद्विपक्षजनसङ्घट्टे काशीपुरे वामश्च, उवास तस्यां कतिचिन्मिथिलायां समा विभुः इत्य् उक्तेयवन्त्य् एव वर्षाणि मिथिलायां बलदेवो\ऽवसत्तावन्त्येवाक्रूरो\ऽपि वाराणस्याम्, तस्यां च तस्य रुक्मवेदिकनानायज्ञान् ब्राह्मणेभ्यो बहुदानख्याति च श्रुत्वा कृष्णेनैव प्रस्थापितो\ऽक्रूर इति कर्णकर्णे जपति जने सति सत्यभामारामादीनाम् अप्य् अविश्वासे सति पुनरप्युद्भूतं स्वस्मिन् कलङ्कं मार्ष्टुं द्वारकास्थलोकद्वारेवाक्रूरानयन कारणानि भगवतैव सृष्टानि-नानारिष्टनीति । तत्त्वं तदबुद्ध्वा द्वारकाया अरिष्टदर्शनं कालवशादेवोद्भूतम् इति वदतां मुनीनां मतमनुद्य दूषयति-अक्रूर इति द्वाभ्याम् ॥३०॥

तद् एव दूषणम् एव । इत्य् अर्थ इति-न हि सूर्ये तपति तमोनिरासाय दीपः प्रज्वाल्यत इति न्यायेन भगवदिच्छैव प्रबला, यतः सत्यपि तस्मिन् कारणान्तरकल्पनेति भावः । एके वैशंपायनादयः । प्राक्स्वयमुक्तम् अपि विस्मयाननुसन्धायेत्य् अर्थः । मुनेर् एकस्यापि निवासे सति तत्प्रभावाद् ग्रामे\ऽरिष्टदशनं न भवेत्, मुनीनां सर्वेषाम् अपि वासो यत्र तस्य श्री-कृष्णस्य निवासे सति किमदर्शनमेकम् अपि घटेत, नैवेत्य् अर्थः ॥३१॥


**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**अक्रूरे प्रोषिते यदवशिष्टमभूत्, तत् केचिदेवं वदन्तीत्य् उक्तम् वस्तुतस् तु न तत्, तत्राह—मुनिवास-निवास । इत्य्-आदि ॥ ३१-३५ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अरिष्टा भूकम्पादयः, पुंस्त्वमार्षम्, अरिष्टानीति पाठः सिद्ध एव, वै च तापाश्च । यद् वा, अरिष्टा अशुभानि, तान्येवाह—शारीरा मानसी इत्याद्याध्यात्मिका उक्ताः । एवं त्रिविधाः, वै अपि, द्वारकौकसाम् अपि ॥३०॥

एके श्रीवैशम्पायनादयः, प्राक् स्वयमुक्तम् अपि विस्मृत्य पश्चादनुसन्धाय, मुनीति मुनेः कस्यचिदेकस्य वासेनापि न घटेत, तत्रापि मुनीनां सर्वेषां वासस्थानस्य भगवतो नितरां वास इत्य् अर्थः । अरिष्टस्यैकस्य दर्शनम् अपि, किं पुनविविधानां बहूनां तेषां प्राप्तिर् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अक्रूर इति युग्मकम् । अरिष्टा भूकम्पादयः पुंस्त्वमार्षम् अरिष्टनीति पाठः सिद्ध एव तापाश्चासन् तत्र शारीरा मानसा इति द्विभेदा आध्यात्मिकाः दैविक भौतिकाचेति त्रिविधाः ॥३०॥

एके वैशम्पायनादयः प्राक् स्वयमुक्तम् अपि विस्मृत्य पश्चादननुसन्धाय मुनीति मुनेः कस्यचिदेकस्यापि वासे न घटेत तत्रापि मुनीनां सर्वे वासस्याश्रयस्य भगवतो नितरां नित्यतया वासे इत्य् अर्थः । अरिष्टस्यैकस्य दर्शनम् अपि किं पूनर्बहुना विविधानं प्राप्तिर् इत्य् अर्थः । अन्यतैः तत्र तदिच्छाम् इत्य् अनेन किन्त्वक्रूरानयनव्याजाय स्वयम् एवोत्थापितान्यरि ष्टानीति ज्ञापितम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अक्रूरे प्रोषित इत्य्-आदि । अक्रूरे प्रोषिते यच्छारीरादयस्तापा आसन्न् इति केचिदनभियुक्ता उपदिशन्ति, तत् प्रागुदाहृतं पूर्वोक्तं कृष्णमहिमानं विस्मृत्य, अत एव तेऽनभियुक्ताः । ततोपपत्तिम् आह—मुनिवासनिवास इत्य्-आदि । मुनीनां वास आश्रयो यः श्री-कृष्णस्य वासे किमरिष्टदर्शनं घटते, नैवेत्य् अर्थः । मुनयः परमभागवता यत्र तिष्ठन्ति तत्रैतन् न घटते । तेषां निवासस्य निवासे पुनः कथम् इति भावः ॥३०-३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं व्रजदेव्यपराधफलम् इदम् अक्रूरस्य यद्बहुवर्षपर्यन्तं कृष्णविच्छेददुःखानुभवः तद्विपक्षजनसङ्घट्टे काशीपुरे वासश्च—उवास तस्यां कतिचिन्मिथिलायां समा विभुः इत्य् उक्तेर् यावन्त्य् एव वर्षाणि मिथिलायां बलदेवोऽवसत्तावस्त्येवाक्रूरोऽपि वाराणस्यां तस्यां च तस्य रुक्मवेदिकनानायज्ञान् ब्राह्मणेभ्यो बहुदानख्यातिं च श्रुत्वा कृष्णेनैव प्रस्थापितोऽक्रूर इति कर्णे कर्णे जपति जने सत्यभामा रामादीनाम् अप्य् अविश्वासे सति पुनरप्युद्भूतं स्वस्मिन् कलङ्कं मार्ष्टुं द्वारकास्थलोकद्वारैवाक्रूरानयनकारणानि भगवतैव सृष्टानि नानारिष्टानीति तत्त्वं तद्बुद्धा द्वारकायामरिष्टदर्शनं कालवशाद् एवोद्भुतम् इति वदतां मुनीनां मतमनूद्य दर्शयति—अक्रूर इति द्वाभ्याम् । एके वैशम्पायनादयः । प्राक् स्वयमुक्तम् अपि विस्मृत्याननुसन्धायेत्य् अर्थः । मुनेर् एकस्यापि निवासे सति तत्प्रभावाद् ग्रामेऽरिष्टदर्शनं न भवेत् । मुनीनां सर्वेषाम् अपि वासो यत्र तस्य श्री-कृष्णस्यनिवासे सति किम् अरिष्टदर्शनमेकम् अपि घटेत ? नैव घटेतेत्य् अर्थः ॥३०-३१॥


॥ १०.५७.३२-३४ ॥

देवेऽवर्षति काशीशः श्वफल्कायागताय वै ।

स्व-सुतां गान्दिनीं प्रादात् ततोऽवर्षत् स्म काशिषु ॥

तत्-सुतस् तत्-प्रभावोऽसाव् अक्रूरो यत्र यत्र ह ।

देवोऽभिवर्षते तत्र नोपतापा न मारिकाः ॥

इति वृद्ध-वचः श्रुत्वा नैतावद् इह कारणम् ।

इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनस्तन्मतम् एवानुवर्णयति—देव इति । काशिषु देशेषु देवेमघवत्यवर्षति सति ॥ ३२-३३ ॥

इत्य् एवम् भूतमक्रूरमहिमप्रतिपादनपरं वृद्धानां वाक्यं श्रुत्वा सत्यम् एवं तथाप्येतावद् एव वारणं न भवति किन्तु मणेर् अप्यपगम इति मत्वेत्येतद्वन्तं परमतम् ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्मतं मुन्यन्तरमतम् । श्वफल्कायाक्रूरपित्रे । ततो गान्दिनीदानेन श्वफल्कपूजया । काशिषु काशिदेशेषु । देव इत्य्-आदित्रिकम्, तृतीयपद्यगेनेति शब्देनान्वयात् । तत्कन्यार्थम् एव काश्यामागताय । तां नित्यगोदानेन चिरकालजन्मना प्रसिद्धम् । अतः स्त्रीयामसाधारण सुताम् । प्रक्रर्षेण बहुलोपस्कारादिनादात् । अतो मातामहसंबन्धेनैवाक्रूरस् तत्र गत इति ज्ञेयम् ॥३२॥

तत्सुतः श्वफल्कसुतः । तस्य श्वफल्कस्य् एव प्रभावो यस्य स तत्प्रभावः । उपतापः क्लेशः ॥३३॥

इति मत्वा तैः सह विशेषतो विचार्येत्य् अर्थः । यद् वा, व्याजाय स्वयम् उत्थापितारिष्टत्वाद् वृद्धोपदेश-ग्रहणम् इदं न परमतम् इत्य् अङ्गोपदिशत्य् एके इत्य् अत्रैव तत्-समाप्तिः स्पष्टा । ततश् च नैतावद् इति—किन्तु तद् व्याजाय ममैवेच्छा कारणम् इति स्व-मनसि विचार्येत्य् अर्थः । सम्यक् परमादरेणानाय्य स्वयम् उदासीनो भवन् सर्व-यादव-समाह्वान-द्वारैवागमय्येति णिज्-अर्थः ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-कन्यार्थम् एव काश्याम् आगताय तां नित्य-गोदानेन चिर-काल-जन्मना प्रसिद्धाम्, अत एव स्वकीयाम् असाधारण-सुतां प्रकर्षण-बहुलोपस्कर-दानादि-नादात्, अतो मातामह-सम्बन्धाद् एवाक्रूरस् तत्र गत इति ज्ञेयम् ॥३२॥

तस्यैव प्रभावो यस्य सः, असौ सर्वलोकहिताचरणत्वादिना प्रसिद्धः, ह एव, यत्र यत्रैवास्ते, तत्र तत्र देशे अभितो वर्षति, इन्द्र इति शेषः । देव इति पाठः स्पष्टः ॥३३॥

दूतैर् इति बहुत्वं पुनः पुनः किं वा, विश्वासार्थमेकदैव बहूनां प्रेषणात्, परमाप्तत्वेन गौरवाद्वा, सम्यक् परमादरेण सभायामानाय्य, समाहूयेति पाठे\ऽपि स एवार्थः । जनैः स्वभक्तैर् अर्द्यते द्रष्टुं सदा याच्यत इति तद्दर्शने\ऽक्रूरस्यापि चिरमुत्कण्ठता जातास्तीति । किं वा, स्वजनानां प्रार्थनाद् इति भावः । अक्रूरम् इति अन्तःकापट्याभावात्, तच्चाग्रे व्यक्तं भावि, अतः प्रकर्षणाह ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देव इत्य्-आदित्रिकम् । तृतीय-श्लोकादि-स्थेनेति शब्देनान्वयात् तत्-कन्यार्थम् एव काश्याम् आगताय तां नित्य-गो-दानेन चिर-काल-जन्मना प्रसिद्धम् अत एव स्व-सुतां स्वीयाम् असाधारणीं सुतां प्रकर्षेण बहुलोपस्कर-दानादि-नादात् अतो मातामह-सम्बन्धाद् एवाक्रूरस् तत्र गत इति ज्ञेयम् । इति मत्वा तैः समं विशेषतो विचार्येत्य् अर्थः ।

यद् वा, व्याजाय स्वयम् उत्थापितारिष्टत्वाद् वृद्धोपदेश-ग्रहणम् इदं न परमतम् इत्य् अङ्गोपदिशन्त्य् एक इत्य् अत्रैव तत्-समाप्तिः स्पष्टा ततश् च नैतावद् इति किं तु तद् व्याजाय ममेच्छैव कारणम् इति स्व-मनसि विभाव्येत्य् अर्थः । सम्यक् परमादरेण आनाय्य स्वयम् उदासीनो भवन् सर्व-यादव-समाह्वान-द्वारैवागमय्येति णिच्-प्रत्ययार्थः ॥ ३२-३४


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवे इन्द्रे अवर्षति सति काशीषु तत्सुतोऽक्रूर इत्य् अतो मातामह-सम्बन्धाद् एवाक्रूरः काशीं जगामेति ज्ञेयम् । इति अक्रूरागमने प्रवर्तकं वृद्धानां वचनं श्रुत्वा इह एतावद् एव न कारणं, किन्तु ममेच्छयैवेत्यन्तर्मत्वा काशीतः अक्रूरं समानाय्य ॥३२-३४॥


॥ १०.५७.३५ ॥

पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः ।

विज्ञाताखिल-चित्त-ज्ञः स्मयमान उवाच ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञातम् अखिलं येन स चासावत एव चित्तज्ञश् च । अयं भावः— महा-भागवतस्यास्य मया दत्ते\ऽपि मणाव् अपेक्षा नास्त्य् एव यस्माद् आहूतो मणिना सहैवागत इति ज्ञात्वेति ॥ ३५-३६ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव विज्ञाताखिलत्वाद् एव । अत्राकूतम् आह—अयं भाव इत्य्-आदिना । पूर्वोक्तम् एव विशिनष्टि—पूजयित्वेति । अभिभाष्य कुशल-प्रश्नादिना संभाष्य । प्रियाः भक्ति-भक्तादि-माहात्म्य-पराः, तस्य श्री-वसुदेवाद्य्-आनुकूल्यार्थकं सनिक टस-शङ्क स्थिति तद्-वधान्तः प्रयत्न-तद्-आज्ञा-व्याज-व्रज-गमन-स्व-दर्शनानन्य-तद्-वधार्थ-स्व-नयनादि-रूपा, तथापि सांप्रतं दैव-विघटनानुशोचन-रूपाश् च । ह हर्षे । स्मयमान इति मणि-ज्ञान-बोधनार्थ-निगूढ-भावात् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवोक्त-पोष-न्यायेन प्रपञ्चयति—पूजयित्वेति । अभिभाष्य कुशल-प्रश्नादिना सम्भाष्य, प्रिया भक्ति-भक्तादि-माहात्म्य-परा इत्य् अर्थः । ह हर्षे, तत् सर्व-प्रीत्या मणि-प्रदानार्थम् आश्वासनाय । किं वा, भक्त-वर-समागम-प्रहर्षात्, समयमान इति स्वस्य मणि-ज्ञान-बोधनार्थ निगूढ-भावात्, वस्तुतस् तु स्वयम् एव कृते\ऽपि तत्-तद्-अर्थ स्वस्य तादृशोक्त्या स्वयम् एवोद्यतो हासस्य संवरणेनापीषद्-उदयात् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वोक्तम् एव विशिनष्टि—पूजयित्वेति । अभिभाष्य कुशल-प्रश्नादिना सम्भाष्य प्रिया भक्ति-भक्तादि-माहात्म्य-परा एतस्य श्री-वसुदेवाद्य्-आनुकूल्यार्थ-कंस-निकटं स-शङ्क-स्थिति-तद्-वधार्थान्तः-प्रयत्न-तद्-आज्ञा-व्याज-व्रज-गमन-स्व-दर्शनानन्द-तद्-वधार्थ-स्वानयनादि-रूपास् तथापि साम्प्रतं दैव-विघटनानुशोचन-रूपाश् च ह हर्षे स्मयमान इति स्वस्य मणि-ज्ञान-बोधनार्थ-निगूढ-भावात् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञाताविज्ञः विज्ञत्वादेवाखिलचित्तज्ञः, न तु केवलमन्तर्यामित्वादेवेति भावः । अन्तर्यामी हि अखिलचित्तानां ज्ञाता कृष्णस्त्वखिलान्तर्यामिनाम् अपि ज्ञाता भवति । तस्याक्रूरचित्तज्ञानं किं चित्रम् इति भावः । अतः स्मयमान इति न त्वं सत्राजिति कृतवैरः, नापि मणेश्चौरः । नापि धन-लुब्धस् त्वं तु मत्परमभक्त एवेति त्वन्मनः किमहं न जानामि तद्-अन्तर्यामिणम् अप्य् अहं जानामि कथं मत्-तत्त्वं बिभेषीति भावः ॥३५॥


॥ १०.५७.३६ ॥

ननु दान-पते न्यस्तस् त्वय्य् आस्ते शतधन्वना ।

स्यमन्तको मणिः श्रीमान् विदितः पूर्वम् एव नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु निश्चये । नो\ऽस्माकम् । अत्रार्थे त्वां किं पृच्छामि, जानाम्येवेत्य् आह—नन्व् इति । श्रीमान् सर्वसंपत्ति-युक्तस्तत्प्रदत्वात् । यतो महादीप्तिमानतस् त्वया यत्नतश् चिरं निह्वोतुं न शक्य इति भावः । न चाधुनैव संभाव्यत एव, प्राग् एव ज्ञातत्बाद् इत्य् आह—विदित इति । शतधन्व-वधात् पूर्वत एव त्वय्य् अस्तीति नो\ऽस्माकं सर्वेषाम् एव ज्ञातः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विदितः पूर्वम् एव नः इति न केनापि कथितम् इति न मम ज्ञाने सामर्थ्याभवान् एव जानाति, पूर्व-शब्द-श्रुत्या पूर्व-दर्शितं निज-वैभवं स्मारयति ॥ ३६-३७


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु स्नेह-सम्बोधने निश्चये वा, हे दान-पते इत्य् आदरात् । यद् वा, महामहादानपङ्क्त्या मणिस्त्वय्य् एवेति भावः । तच्चाग्रे व्यक्तीकरिष्यते, को नाम न्यस्त इत्य् अपेक्षायाम् आदौ लज्जादिनानभिव्यज्यापि पश्चादाह—स्यमन्तकेति । मण्यन्तरं व्यावत्तितम् । पाठान्तरे—ननु स्यमन्तको नाम किं कश्चिज्जनः, नेत्य् आह—मणिर् इति । श्रीमान् सर्व-सम्पत्ति-युक्त इति, तत्त्वतस्तस्माद् एव तत्सिद्धया तदेकहेतुत्वेनाभेदोपचारः । यद् वा, महादीप्तिमान्, अतस् त्वया यत्नतश् चिरं निह्नोतुं न शक्य इति भावः । न चाधुनानुभानेन कल्प्यते प्राग् एव ज्ञातवाद् इत्य् आह—विद् इति इति । शतधन्ववधात् प्रागपि त्वय्य् अस्तीति नो\ऽस्माकं सर्वेषाम् एव ज्ञातः, विदितम् इति पाठो वा, एतच्चास्माभिज्ञयित एवेत्य् अर्थः । इत्य्-आदि—सर्वोक्तिः स्वस्याअरविषयकपक्षपाताच्छादनचातुर्यात् ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमान् सर्व-सम्पत्ति-युक्तः तत्-प्रदत्वात् । यद् वा, महा-दीप्तिमान् अतस् त्वया यत्नतश् चिरं निह्नोतुं न शक्यत इति भावः न चाधुनैव सम्भाव्यत एवं प्राग् एव ज्ञातत्वाद् इत्य् आह—विदित इति । शतधन्ववधा [ नन्तरम् ] प्रागपि त्वय्य् अस्तीति नो\ऽस्माकं सर्वेषाम् एव ज्ञातः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स्यमन्तक इत्य्-आदि । विदितः पूर्वम् एव, न इति नोऽस्माभिः सर्वज्ञशिरोमणिभिर् एव, न तु केनापि कथित इति भावः ॥३६-३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रार्थे त्वां किं पृच्छामि जानाम्य् एवेत्य् आह—न त्व् इति ॥३६॥


॥ १०.५७.३७ ॥

सत्राजितोऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः ।

दायं निनीयापः पिण्डान् विमुच्य र्णं च शेषितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किमत आह—सत्राजित इति । अपः पिण्डांश् च निनीय दत्त्वा ऋणं च विमुच्यापाकृत्य शेषितमवशिष्टं दायं दुहितुः सत्यभामायाः सुता गृह्णीयुर् इति शास्त्रम् । तथा च स्मरति—

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।

तत्सुता गोत्रज बन्धुशिष्यसब्रह्मचारिणः ॥ इति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो विदितात् । दायं भागम् । शास्त्रं याज्ञवल्क्यः । तथा च स्मरन्ति—सामश्रवादयः । पत्नी त्वव्यभिचारिणी । तदभावे दुहितरः, ता अप्यनूढा एव । तदभावे पितरौ यदि माता भवेत्तदा माता, तदभावे पिता । तयोर् अभावे भ्रातरः, ते\ऽपि सोदरा एव, एव, तदभावे भिन्नोदरा अपि । तदभावे भ्रातृपुत्राः । तदभावे गोत्रजाः, पितामही, सपिण्डाः, समानोदकाश् च । पितामह्या अभावे सपिण्डाः सप्तपुरुषावधयः । तदभावे समानोदकाश् च चतुर्दशपुरुषावधयः । ततः परे गोत्रजा इति विवेकः । गोत्रजाभावे बन्धवः, ते च त्रिधा—आत्मबन्धवः पितृबन्धवो मातृबन्धवश् च । तथा हि—

आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।

आत्ममातुलपुत्राश् च विज्ञेया आत्मबन्धवः ।

पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः ।

पितुर्मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ।

मातुः पितृष्वसुः पुत्रा मातुमतिष्वसुः सुतः ।

मातुमार्तुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥ इति ।

तत्र चान्तरङ्गत्वात्प्रथममात्मबन्धवो धनभाजस्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति क्रमो ज्ञेयः । बन्धूनामभावे आचार्य इति, तदभावे शिष्याः । आचार्यः श्लोकानुक्तो\ऽपि पूत्राभावे यः प्रत्यासन्नससपिण्डस्तदभावे आचार्य आचार्याभोंवतेवासी इत्यापस्तंबस्मरणात् । शिष्याभावे सब्रह्मचारी घनभाक, येन सहैकस्मादाचार्यादुपनयनाध्ययनतद्-अर्थज्ञानप्राप्तः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चिच्छ्रोत्रियो गृह्णीयात् श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् इति गौतमस्मरणात् । तदभावे ब्राह्मण-मात्रं सर्वेषाम् अभावे तु ब्राह्मणा रिक्थभागिनः इति मनुक्तेः । ब्राह्मणद्रव्यं राजा न कदापि गृह्णीयात् । अहार्यं ब्राह्मणद्रव्यं राज्ञः नित्यम् इति स्थितिः इति मनुक्तेः ।

ब्राह्मणार्थस्य तन्नाशे दायादश्चेति कश्चन ।

ब्राह्मणायैव दातव्यमेनस्वी स्यानृपोन्यथा ॥ इति नारदोतेश् च ।

क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेन्न ब्राह्मणः । इतरेषां तु वर्णानां सर्वाभावे हरेनृपः इत्य् एतत् सर्वं द्वादशविधपुत्राभावे ज्ञेयम् । शूद्रापुत्रं विनेत्यलमति प्रसङ्गेन । अक्रूरस्य सर्वेषाम् अन्येषां च सम्प्रति विप्रतिपत्ति रसनार्थम् आह—सत्रेति । अनपत्यत्वाद् इति कन्यान्तरम् अपि निरस्तम् । सत्राजितः पत्नीनां तु सहमरणं ज्ञेयम् ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनपत्यत्वाद् इति कन्यान्तरम् अपि निरस्तम् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अक्रूरस्य सर्वेषाम् अन्येषां च सम्प्रति विप्रतिपत्तिनिरसनार्थम् आह—सत्रेति । अनपत्यत्वाद् इति कन्यान्तरम् अपि निरस्तं [ यद्यपि स्मृतिवाक्येषु पुत्रपत्न्यभावे तद्भागिन्यो दुहितर एव न तु तत्पुत्रास् तथापि तत्र श्रीसत्यभामाया निरपेक्षतया पुत्रामाम् एव तथा नियोजनं सम्भाव्य तत्सुता गृह्णीयुर् इत्य् उक्तम् ] सत्राजितः पत्नीनां तु सह मरणं ज्ञेयम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्राजितोऽनपत्यत्वाद् अपुत्रत्वात् स्त्रीणां च सहमरणात् दुहितुः सत्यभामाया मणिनिरपेक्षत्वात्तत्सुता एव दायं रूपं मणिं गृह्णीयुः । अपः पिण्डांश् च निनीय मातामहाय दत्त्वा शेषितम् अवशिष्टं ऋणं च विमोच्य संशोध्य । तथा च स्मरन्ति—

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।

तत् सुता गोत्रजा बन्धुः शिष्याः स-ब्रह्मचारिणः ॥३७॥


॥ १०.५७.३८ ॥

तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सुव्रते मणिः ।

किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्रजो\ऽपि न प्रत्येति न विश्वसितीति ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि सास्त्रो\ऽस्मानेवायाति तथापीति । अन्पत्यैस्त्वदितरैः । दुर्धरः त्वत्तुल्यवदान्यत्वाभाद्धर्तुम् अशक्यः । तद्-उक्तम्—अदातुर्नविरं लक्ष्मीस्तिष्ठोतीति विदुर्बुधाः इत्य् उक्तेः । यद्येवं तर्हि किमर्थं तमिच्छसीति चेदाह—किन्त्व् इति । तथापीत्य् अर्धकम् । हि एव । सुब्रते ब्रह्मचर्यादिनिष्ठत्वादधिकारिण्यपि त्वय्य् आस्तां-मात्रम्, तेन सर्वेषाम् अस्माकमरिष्टनाशादिना हिताय भविष्यतीति मणौ सर्वेषां साधारण्यं विज्ञाप्य, श्रीसङ्कर्षणादितर्किताः स्वेन तस्मै दानेच्छाप्याच्छादिता । किन्व् इति सार्धकम् । किन्तु दर्शयस्व-मात्रं, यत—माईति । तद् एवं सहसा मणिप्रकाशनार्थम् एव तमुद्वेजितवान्, न तु सङ्कर्षणस्यापि तथा भाव इति मनसि विर्तार्कितवान्,

तत आह बलो नूनं स मणिः शतधन्वना ।

कस्मिंश्चित् पुरुषे न्यस्तः इत्य् उक्तत्वात् ।

कस्मिंश्चिद् इत्य् अक्रूर एवेति गूढो\ऽभिप्रायः । तन्-नाम-ग्रहण यथा शतधन्व-कर्तृक-सत्राजिद्-वधो\ऽवगतस् तथा तत्-कृतं शतधन्वनि दुर्मन्त्र-दानम् अयं यो\ऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नरम् इति वचनं चावगतम् इति तस्मै रोषातात्, तथापि तत्-पक्ष-पातम् उचतं स्वानुजं प्रति प्रणय-रोषाच् च । तत्र मणिं प्रति मणिर् मयि नास्तीति न प्रत्येति सम्यग् इति । यद्यपि दानयज्ञादिना त्वय्य् आशङ्कते तथापि स्वदरे शतधन्वनो मारणाद्विनयाच् च मय्यपीत्यर्थो वचसि ज्ञेयः । सम्यक् न प्रत्येति मदिच्छां ज्ञात्वैव त्वं मणिमादाय पलायितवान् इति मन्यते । इत्य् अर्थस् तु मनसि ज्ञेयः । तत्र पूर्वास्तु—परार्थस्य नातिदुष्टताव्यञ्जनाय च निर्दिष्टः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किन्तु ममाग्रजः सम्यङ् न प्रत्येति तस्यांशभूतस्याप्यसर्वज्ञत्वम् इति ॥३८-४२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव, त्वय्य् एवास्ताम्, यतः सुव्रते ब्रह्मचर्यादि-निष्ठे निज-नियम-पालन-परे वा, अत एव लोक-हितार्थं तस्मिन्न् एव तन्-मणि-धारणे श्री-भगवद्-इच्छा प्राग् एव जातास्तीति व्याख्यातम् एव, मणिं प्रति मणिर् मयि नास्तीति न प्रत्येति, सम्यग् इति मद्भक्ते त्वयि मणेत्या मय्य् एव तन्-मननात्, श्री-बलदेवस्य तादृश-भावाभावे\ऽपि तादृग् उक्तिः केवलम् अक्रूरेण मणि-प्रदर्शनार्थम्, अतः श्री-बलदेवस् तदानीं मिथिलातस् तत्रागतो\ऽस्तीति ज्ञेयम् । तथा च श्री-हरि-वंशे—

प्रसाद्य तु ततो रामो वृष्ण्य्-अन्धक-महारथैः ।

आनीतो द्वारकाम् एव कृष्णेन च महात्मना ॥ [ह।वं। १.४०.२९] इति ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापीत्य् अर्धकं हि एव सुव्रते ब्रह्मचर्यादि-निष्ठत्वाद् अधिकारिण्य् अपि त्वय्य् आस्तां मात्रं तेन सर्वेषाम् अस्माकम् अरिष्ट-नाशादिना हिताय भविष्यतीति मणौ सर्व-साधारणत्वं विज्ञाप्य श्री-सङ्कर्षणादि-तर्किता स्वेन तस्मै दानेच्छाप्य् आच्छादिता । किन्त्व् इति सार्धकम्, किं तु दर्शयस्व मात्रं यतो माम् इति तद् एवं सहसा मणि-प्रकाशनार्थम् एव तम् उद्योजितवान् न तु सङ्कर्षणस्यापि तथा भाव इति मनसि वितार्कितवान् तत आह बलो नूनं स मणिः शतधन्वना, कस्मिंश्चित् पुरुषे न्यस्तः इत्य् उक्तत्वात् कस्मिंश्चिद् इत्य् अक्रूर एव गूढो\ऽभिप्रायः तन्-नामाग्रहणं तु यथा शतधन्व-कर्तृकः सत्राजिद्-वधो\ऽवगतस् तथा तत्-कर्तृकं शतधन्वनि दुर्मन्त्र-दानम् अयं यो\ऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नम् इति वचनं चावगतम् इति तस्मै रोषात् तथापि तत्-पक्ष-पातम् अमुञ्चन्तं स्वानुजं प्रति प्रणय-रोषाच् च तत्र मणि प्रति मणिर् मयि नास्तीति न प्रत्येति सम्यग् इति । यद्यपि दान-यज्ञादिना त्वय्य् आशङ्कते तथापि स्व-दूरे शतधन्वन मारणाद् विचयनाच् च मय्य् अपीत्य् अर्थो वचसि ज्ञेयः । सम्यङ् न प्रत्येतीति मद्-इच्छां ज्ञात्वैव त्वं [१] मणिम् आदायापगतवान् इति मन्यत इत्य् अर्थस् तु मनसि ज्ञेयः । तत्र पूर्वार्थस् तु परार्थस्य नातिदुष्टता व्यञ्जनाय च निर्दिष्टः महा-भागेति महा-भागो मद्-भक्ति-भाग्यं प्राप्यांशो वा यस्य तत्-सम्बोधनम् इति तव मणाव् अपेक्षा नास्तीति भावः । अतो [२] बन्धूनां बलदेवादीनाम् अस्माकं शाति मण्य्-अर्थम् अन्योन्य-कलहोपरतिम् आवह सम्यक् प्रापय अद्य अधुनापि श्री-बलदेवश् च मिथिलातः पूर्वं समानतः तथा च श्री-हरि-वंशे—

प्रत्याय्य तु ततो रामो वृष्ण्य्-अन्धक-महारथैः ।

आनीतो द्वारकाम् एव कृष्णेन च महात्मना ॥ इति ॥ ३८-३९ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किन्तु माम् अग्रज इति सङ्कर्षणः स्वयम् ईश्वरोऽपि न प्रत्येति इति भगवत एव सर्वज्ञ-शिरोमणित्वं द्योत्यम् ॥३८-४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति त्वयि मणिर् अस्तीत्य् अत्रत्याः सर्वे एव जानन्ति तत्र लिङ्गं अव्युच्छिन्ना सम्भूता मखा वर्तन्त इति ॥३८॥


॥ १०.५७.३९ ॥

दर्शयस्व महा-भाग बन्धूनां शान्तिम् आवह ।

अव्युच्छिन्ना मखास् तेऽद्य वर्तन्ते रुक्म-वेदयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नास्तीति न वक्तव्यम् यतो\ऽव्युच्छिन्नाः सन्तता मखा वर्तन्त इति ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शान्तिं प्रशमम् । महा-भाग इति—[महान् भागो मद्-भक्ति-प्राप्यांशो वा यस्य तत्-संबोधनम् इति तव मरणापेक्षा नास्तीति भावः । यतो बहूनां बलदेवादीनाम् अस्माकं शान्तिं मण्य्-अर्थम् अन्योन्य-कलहोपरतिम् आवह सम्यक् प्रापय । अद्याधुनापि श्री-बलदेवश् चायं मिथिलातः पूर्वम् आनीतः ।] तथा च श्री-हरि-वंशे—

प्रत्याय्य तु ततः रामो वृष्ण्य्-अन्धक-महारथैः ।

अनीतो द्वारकाम् एव कृष्णेन च महात्मना ॥ इति ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महान् भागो तद्-भक्ति-भाग्यं प्राप्यांशो वा यस्य तत्-सम्बोधनम् इति तव मणाव् अपेक्षा नास्तीति भावः । अतो दर्शयस्व दर्शन-मात्रं कारय, न तु दानम्, यतस् त्वय्य् एव स्थास्यतीति भावः । स हि किम्-अर्थम् ? तद् आह—बन्धूनाम् इति । शान्तिं मण्य्-अर्थम् अन्योन्य-कलहोपरतिं सुखं वा, आवह सम्यक् प्रापय, अद्य अधुनापि ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५७.४०-४१ ॥

एवं सामभिर् आलब्धः श्वफल्क-तनयो मणिम् ।

आदाय वाससाच्छन्नो ददौ सूर्य-सम-प्रभम् ॥

स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः ।

विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आलब्ध उक्तो हृदि स्पृष्ट इति वा ॥४०॥ रजो मिथ्याभिशापं संमृज्य अन्यैर् दुर्धर इत्य्-आदि-मिषेण प्रीत्या भूयस् तस्मै प्रत्यर्पितवान् इति ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आलभेर् उक्त्य्-अर्थाप्रसिद्धिं मत्वाह—हृदीति । श्वफल्क-तनय इति-महानुभाव-मुनि-पुत्रत्वेन तत्र स-लज्जत्वं तस्य सूचितम् । सूर्य-सम-प्रभम् अत एवं वाससाच्छन्नम् एव ददौ ॥४०॥ [तोषणी]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वफल्कतनय इति मुनिपुत्रत्वेनापि मण्यनपेक्षत्वं तथा भगबदभिप्रायाभिज्ञत्वं च तस्य सूचितम् । अतो वाससा परिहितवस्त्राञ्चलेनान्येन वा केनचिदाच्छन्नमादाय वस्त्रमपनीय हस्ताभ्यां गृहीत्वा ददौ, श्री-कृष्णहस्ते\ऽर्पयामास । सूर्यसमप्रभम् इति आच्छादनापगमेन सूर्यवद्देदीप्यमानम् इति भावः ॥४०॥

ज्ञातिभ्यो यादवान् प्रति, मणिना हेतुना यद्रजः । यद् वा, साक्षादीश्वर\ऽपि इत्य् एतत् साधुभिः कार्यम् इति लोकशिक्षार्थम् इति भावः । ततः प्रभृति तन्-मणिम् अक्रूरो व्यक्तं कण्ठे निधाय बभ्रामेति ज्ञेयम् । तथा च श्री-हरि-वंशे—

स कृष्ण-हस्तात् संप्राप्तं मणि-रत्नं स्यमन्तकम् ।

आबध्य गान्दिनी-पुत्रो विचचारांशुमान् इव ॥ [ह।वं। १.३९.४० ] इति ।

एवं श्री-भगवत इव तद्-भक्त-वराणाम् अपि लोकहितार्थं प्रवृत्त्या धनानर्थतां दर्शयितं सत्राजिदादयः सर्वे ते तथा चेष्टन्तेति ज्ञेयम् । अन्यथा भक्तवराणां यादवानां तेषां तत्तदसम्भवः । अतः सत्राजिद्वधादिकम् अपि मायिकम् एवेति तत्त्वम् । सिद्धान्तो\ऽयं श्री-भागवतामृतोत्तर-खण्डे विवृतो\ऽम्त्य् एव ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्वफल्क-तनय इति महानुभाव-मुनिपुत्रत्वेन स-लज्जत्वं तस्य सूचितम् सूर्य-सम-प्रभम्, अत एव वाससा छन्नम् एव ददौ ॥४०॥

ज्ञातिभ्यो यादवान् प्रति मणिना हेतुना यद्रजः रजो विमार्जनं चात्र सो\ऽयमक्रूरः स्वेच्छयैव मणिमपहनुतवान्नतु ममेच्छया तथा\ऽप्य् अधुना यदस्मै तत्समर्पणं तत् खल्वस्यैव योग्यत्वाद् इति व्यञ्जनया ज्ञेयम् । यतो विभुर्भक्तगणपरिपालनसमर्थः यदुकुलहितार्थं तथाकरोद् इति भावः । यद् वा, साक्षादीश्वरो\ऽपि इत्य् एतत् साधुभिः कार्यम् इति लोकशिक्षार्थम् इति भावः । ततः-प्रभृति तन्-मणिम् अक्रूरो व्यक्तं कण्ठे निधाय बभ्रामेति श्री-हरि-वंशे—

स कृष्ण-हस्तात् संप्राप्तं मणि-रत्नं स्यमन्तकम् ।

आबध्य गान्दिनी-पुत्रो विचचारांशुमान् इव ॥ [ह।वं। १.३९.४०] इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आलब्ध उपालब्धः स्व-पाणिना स्पृष्टः ॥४०-४१॥


॥ १०.५७.४२ ॥

यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर्

वीर्याढ्यं वृजिन-हरं सुमङ्गलं च ।

आख्यानं पठति शृणोत्य् अनुस्मरेद् वा

दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुष्कीर्ति तन्मूलं दुरितं चेति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुष्कीर्तिं मिथ्याभिशापादिरूपाम् । तन्मूलं दुष्कीर्तिं कारणम् । अपह्य त्यक्त्वा । शान्तिं क्लेशानां संसारस्य वा । श्री-भगवत्-अस्तद् एवं सर्वं लीलाकौतुकम् एव न तु पारवश्यमयम् यतः यस्त्वेतद् इति । भगवतः पूर्णेश्वर्यप्राकट्यस्य श्री-कृष्णस्य । अत एवेश्वरस्य सर्वं कर्तुं समर्थस्य । अत एव विष्णोः, निजशक्त्या सर्वव्यापकस्य । अत एव वीर्येणाद्भुतचरितेन आढ्यमाख्यानं कथाम् । वृजिनहरं संसारदुःखनाशनम् । सुमङ्गलं भगवद्भक्तिवर्धनादिना महामङ्गलकरम् । अनुश्रवणानन्तरं तद्द्वयाभावे स्मरेद्वा । अपोह्य हित्वा । शान्तिं चित्तप्रसादं सुखं वा प्राप्नोति ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इयं च मिथ्यापवादमार्जनार्थका श्री-भगवत्-ओ लीला कथम् अपि केनापि सेविता सर्व्वाशुभं हरति, मङ्गलं च करोतीत्य् आह—य इति । तु-शब्दो भिन्नोपक्रमे, वाक्यालङ्कारे वा, भगवतः सर्वैश्वर्ययुक्तस्य श्री-कृष्णस्य, अत एव ईश्वरस्य सर्वं कर्तुं समर्थस्य, अत एव विष्णोर्निजशक्त्या सर्वव्यापकस्य, अत एव वीर्येणाद्भुतचरितेनाढ्यमाख्यानं कथा, वृजिनहरं संसारदुःखनाशकं सुमङ्गलं श्री-भगवद्भक्ति-वर्धनादिना महामङ्गलकरं च । यद् वा, सुखकरं सुखरूपञ्चेत्य् अर्थः । अनुश्रवणानन्तरं गौणत्वेनापि वा स्मरेत् । पठनादीनां यथोत्तरमयत्नसाध्यतापेक्षया वा-शब्दः, अपोह्य हित्वा, शान्ति चित्तप्रसाद सुखं वा प्राप्नोति ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं श्री-भगवत्-अः सर्वम् इदं लीलाकौतुकम् एव न तु पारवश्यमयं यतः यस्त्वेतद् इति भगवतः पूर्णेश्वर्य प्राकट्यस्य श्री-कृष्णस्य अत एवेस्वरस्य सर्वं कर्तुं समर्थस्य अत एव विष्णोर्निजशक्त्या सर्वव्यापकस्य अत एव वीर्येणाद्भुअतचरितेनाढ्यमाख्यानं कथां

वृजिनहरं संसारदुःखनाशकं सुमङ्गलं श्री-भगवद्भक्तिवर्धनादिना महामङ्गलकरं च अनुश्रवणानन्तरं तद्वयाभावे स्मरेद्वा अपोह्य हित्वा शान्तिं चित्तप्रसादं सुखं वा श्री-कृष्णनिष्ठबुद्धिं वा प्राप्नोति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुष्कीर्तिं तन्मूलं दुहितरं च ॥४२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तपञ्चाशत्तमोऽयं दशमेऽजनि सङ्गतः ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे स्यमन्तकोपाख्याने

सप्तपञ्चाशत्तमोऽध्यायः

॥ १०.५७ ॥

(५८)