५६

स्यमन्तकोपाख्यानं भगवतः कलङ्क-मार्जनं जाम्बवती-सत्यभामयोः पाणि-ग्रहणं च ।

॥ १०.५६.१ ॥

श्री-शुक उवाच—

सत्राजितः स्व-तनयां कृष्णाय कृत-किल्बिषः । > स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

षट्पञ्चाशत्तमे मिथ्याभियोगे मणिम् आहरत् ।

कन्यां जाम्बवतः प्राप कृष्णः सत्राजितस् ततः ॥

पुत्रादिकाम् असौख्यस्य निष्ठाम् उक्त्वातिचञ्चलाम् ।

अर्थस्यानर्थताम् आह स्यमन्त-हरणादिना ॥

सत्यभामा-जाम्बवत्योर् विवाह-प्रस्तावाय स्यमन्तकाख्यानम् आह—सत्राजित इति । सत्राजित इत्य् अ-कारान्तः क्वचिच् च त-कारान्तो\ऽप्य् अन्वयानुसारेण द्रष्टव्यः । कृतापराधस् तच्-छान्तये स्वयम् एव उद्यमं कृत्वा मणिना सह प्रादाद् इति ॥ १-२ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मिथ्याभियोगे मिथ्याभिशापे । निष्ठां सुस्थितिम् । स्यमन्तो मणि- विशेषः । प्रस्तावः स्तवने प्रोक्तं प्रकृते वस्तुनि इति निरुक्तिः । सत्रेण हिरण्यादि-दान-लक्षण-तपसा सूर्ये स्थितं मणिम् आजितवान् अतः सत्राजिद् इति नाम । अ-कारान्त-पक्षे तु मन्त्रे सदादाने न केनापि जित इत्य् अर्थः । यज्ञ-भेदे सदादाने शत्रम् आच्छादने वने इति यादवः । तच्-छान्तये\ऽपराध-निवृत्त्य्-अर्थं स्वयम् उद्यमं कृत्वा याचनादि-पर-प्रेरणाम् अन्तरेण । कृष्णाय सर्व-चित्ताकर्षकीय इति तस्याः पूर्व-रागो\ऽसूचि ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : टीकायां पुत्रादीति शम्बर-विषयकम् उन्नेयं श्री-प्रद्युम्ने तस्य पुत्रत्व-मननात् वस्तुतस् त्वम् आभाष्यं तन्-मातर इत्य् उक्तम् । कथं ताः परिणीता इत्य् अपेक्षायाम् आदौ प्रियतमायाः श्री-सत्यभामाया विवाहम् आह—सत्राजित इति । स्व-तनयाम् इति स्व-शब्देनान्यापेक्षा निरस्ता, स्वतः स्वयम् एव उद्यम्य कृष्णाय सर्व-चित्ताकर्षकायेति तस्यास् तु सुतराम् आकर्षणम् इति पूर्व-रागो\ऽपि सूचितः । श्री-जाम्बवत्या विवाहः पूर्वो\ऽप्य् एतत्-प्रसङ्ग नैव जातत्वेन प्रेम-गौणत्वेन च पूर्वं प्रस्तुतः ॥१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तन्-मातर इत्य् उक्तम्, कथं ताः परिणीताः ? इत्य् अपेक्षायाम् आदौ प्रियतमायाः श्री-सत्यभामाया विवाहम् आह—सत्राजित इति । स्व-शब्देन अन्यापेक्षा निरस्ता, अतः स्वयम् एवोद्यम्य । यद् वा, निज-धन-रूपां तनयां तद्-एकापत्यत्वात् । कृष्णाय सर्व-चित्ताकर्षका येति तस्या अपि तत्-पतित्वेच्छा सूचिता । आदौ ज्येष्ठायाः श्री-जाम्बवत्या विवाहे वक्तुं योग्ये\ऽप्य् अस्या विवाहोक्तिर् एतद् विवाह-कारणम् अपि प्रसङ्गाद् एव तद्-विवाह-सिद्धेः तच् चाग्रे व्यक्तं भावि । यद् वा, अस्यां श्री-भगवतः प्रेम-विशेषात् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

षट्पञ्चाशत्तमे लब्ध-कलङ्कोऽगान् मणीहया ।

लेभे जाम्बवतः कन्यां कृष्णः सत्राजितस् ततः ॥

सत्राजित इत्य् अ-कारान्तः, क्वचित् त-कारान्तश् च द्रष्टव्यः ॥१॥


॥ १०.५६.२ ॥

श्री-राजोवाच—

सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः । > स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य सत्राजितः । कुतः प्राप्त इति शेषः । हरेर् इति चतुर्थी विषये षष्ठी, नातीच्छया दानात् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य साक्षाद् भगवतो\ऽपि कस्माद् धेतोः । ननु कृत-किल्बिष इति हेतुर् उक्त एव । तत्राह—हरेर् इति । पूर्व-दोष-हरत्वेन तस्मिन् न को\ऽप्य् अपराधस् तिष्ठत्, तत् कस्मै दत्तेति भावः । तच् च सर्वं भवता ज्ञायत एवेत्य् अभिप्रायेण सम्बोधयति—ब्रह्मन्न् इति ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुतः सकाशाद् बभूव ? इत्य् आह—हरेर् इति । चतुर्थी विषये षष्ठी नातीच्छया दानात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेः हरये ॥२॥


॥ १०.५६.३॥

श्री-शुक उवाच—

आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा । > प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तस्य सत्राजितः सूर्यः स्वाम्य् अपि सखेवासीद् इत्य् अर्थः । स च तुष्टस् तस्मै स्यमन्तक-नाम मणिं प्रादात् । प्रीतः स्निग्धः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—परम-भक्त्या वशीकृतः सूर्यस् तेन सख्यं कृतवान् इत्य् आशयः । स च सूर्यः । तस्मै सत्राजिते । सखा उपासना-सातत्येन सदा हित-कारी । तत्रापि प्रीतः उपासना-विशेषेण तदा प्रीति-विशेषवान् सन् । प्रदान-प्रकारस् तु श्री-हरि-वंशे—

तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः । > अस्पष्ट-मूर्तिर् भगवांस् तेजो-मण्डलवान् विभुः ॥१६॥ > अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः । > यथैवं व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते ॥१७॥ > तेजो-मण्डलिनं देवं तथैव पुरतः स्थितम् । > को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ॥१८॥ > एतच् छ्रुत्वा तु भगवान् मणि-रत्नं स्यमन्तकम् । > स्व-कण्ठाद् अवमुच्यैनं एकान्ते न्यस्तवान् विभुः ॥१९॥ > ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा । > प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ॥२०॥ > तम् अपि प्रस्थितं भूयो विवस्वन्तं स सत्रजित् । > लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो । > तद् एतन् मणि-रत्नं मे भगवन् दातुम् अर्हसि ॥२१॥ > ततः स्यमन्तक-मणिं दत्तवान् भास्करस् तदा । > स तम् आबध्य नगरीं प्रविवेश महीपतिः ॥ [ह।वं। १.३८.१६-२२] > इति ।

लोकान् उद्भासयस्य् एतान् येन इति सत्राजितो\ऽज्ञानमयोक्तिर् एव । तस्य स्वासाधारण-तेजसैव प्रकाशकत्वं, न तु मणि-तेजसेति, अन्यथा तद्-दानोत्तरं जगदान्ध्य-प्रसङ्गः स्याद् इति भावः । किं च, मणि-दानम् अपि—हरिः सुदर्शन-चक्रं समुत्पाद्य स्व-चक्रतः इति मार्कण्डेयोक्त-न्यायेनैव, न हि स्वासाधारणं देवालङ्करणं मनुष्येण धर्तुं शक्यत इति ज्ञेयम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सखा हितकारी सख्यम् एव दर्शयति—प्रीत इति । स्वभावाद् एव तस्मिन् स्निग्धः पुनश् चोपस्थानादिना तुष्टः सन् प्रकर्षण स्वयं तत्-कण्ठार्पणादिनादात् । तद्-विशेषः श्री-हरि-वंशे— [वैष्णव-तोषण्यी द्रष्टव्या] ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सखा उपासनासातत्येन सदा हितकारी तत्रापि प्रीतः सन् उपासनाविशेषेण तदा प्रीतिविशेषवानित्य् अर्थः । प्रदानप्राकारः श्री-हरि-वंशे—।

तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः । > अस्पष्ट-मूर्तिर् भगवांस् तेजो-मण्डलवान् विभुः ॥१६॥ > अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः । > यथैवं व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते ॥१७॥ > तेजो-मण्डलिनं देवं तथैव पुरतः स्थितम् । > को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ॥१८॥ > एतच् छ्रुत्वा तु भगवान् मणि-रत्नं स्यमन्तकम् । > स्व-कण्ठाद् अवमुच्यैनं एकान्ते न्यस्तवान् विभुः ॥१९॥ > ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा । > प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ॥२०॥ > तम् आह प्रश्रितो भूयो विवस्वन्तं स सत्रजित् । > लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो । > तद् एतन् मणि-रत्नं मे भगवन् दातुम् अर्हसि ॥२१॥ > ततः स्यमन्तक-मणिं दत्तवान् भास्करस् तदा । > स तम् आबध्य नगरीं प्रविवेश महीपतिः ॥२२॥ [ह।वं। > १.३८.१६-२२] इति

अत्र लोकान् उद्भासयस्य् एतान् येन इति सत्राजितस्याज्ञानमयम् एव वचनम् इति च ज्ञेयम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तस्य सत्राजितः सूर्यः स्वाम्य् अपि प्रीतः सखा प्रिय-सख आसीद् इत्य् अर्थः ॥३॥


॥ १०.५६.४-५ ॥

स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः । > प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः ॥ > तं विलोक्य जना दूरा तेजसा मुष्ट-दृष्टयः । > दीव्यतेऽक्षैर् भगवते शशंसुः सूर्य-शङ्किताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नोपलक्षितः सत्राजितो\ऽसाव् इत्य् अविज्ञातः ॥४॥ दीव्यते क्रीडते । सूर्यो\ऽयम् इति शङ्किताः सन्तः कथयामासुर् इति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स सत्राजित् । तं मणिम् ॥४॥ तं मणि-ग्रीवं सत्राजितम् । मुष्ट-दृष्टयो हत-दृष्टयः । अक्ष-क्रीडा हि नर-विडम्बनम् एव लोक-चमत्कारायेति ध्येयम् ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नोपलक्षितो\ऽनुपलक्ष्यमाण इत्य् अर्थः ॥ अतीतत्वं श्री-शुक-पपरीक्षित्-संवादतः प्राक्तनत्वात् । किं वा, तन्-निर्द्वराभिप्रायेण । राजन् इति विस्मयात् ॥४॥ अक्षैः कृत्वा भगवत्त्वात् परम-नैश्चिन्त्येन महा-कौतुकित्वेन वा, सभा-मध्ये प्रिय-जनैः सह क्रीडते\ऽपि भगवते सर्वज्ञायापि शशंसुः । तत्र हेतुः—सूर्येति ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपरिचितः सन् प्रविष्टः । यद् वा, प्रविष्टो\ऽपि न परिचितः ॥४॥ अक्षैः क्रीडत इति नर-लीला-कौतुकित्वम् उत्कण्ठया स्मृतं नर-लीलत्वाद् एव प्राकृत-जानानां तथा चमत्कारो\ऽपि युज्यत इति भावः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नोपलक्षितः सत्राजितोऽसाव् इत्य् अविज्ञातः ॥४-५॥


॥ १०.५६.६ ॥

नारायण नमस् तेऽस् तु शङ्ख-चक्र-गदा-धर । > दामोदरारविन्दाक्ष गोविन्द यदु-नन्दन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्यं नमस्कारार्थमागतं कल्पियत्वोद्रिक्तभक्तीनां सम्बोधनानि नारायणेत्यादीनि ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवा अप्येतद्दर्शनार्थं भूमावायान्त्यतो\ऽयम् एव सर्वेश्वर इति हेतोरत्यन्तसञ्जातभक्तीनां द्वारकावासिनाम् इत्य् अर्थः । नारायण सर्वादिकारण । दामोदरेति भक्ताभीष्टदानार्थमकार्यम् अपि करोतीत्याशयवती संबुद्धिः । सामान्यतस्ता कन्वरूपैश्वर्यलीलाभिः स्तुवन्ति पदद्वयेन । नारायण हे सर्वजीवाश्रयत्वात्सर्वपरमस्वरूपैश्वर्य, तादृशत्वाद् एव लीलयापि दुष्टशिक्षयैव षङ्खादिधर । अथ विशेषतो गोकुलप्रकाशितप्रेमवश्यत्वलीलाभिः स्तुवन्ति—पदत्रयेण । दामोदर स्वजनवश्यतयोदरेङ्गीकृतदामबन्धन । हे अरविन्दाक्ष परमसुन्दरेत्य् अर्थः । हे गोविन्द गोचारणोपलक्षिततत्तन्महालीलाप्रकाशक । एवं तत्रतत्र प्रायो निगूढ एव त्वं संप्रति तु कृपाभरस् तव किं वर्ण्य इत्याशयेनाहुः—हे यदुनन्दनेति । यदूनानन्दयन्सभामध्ये साक्षाद्भासीति भावः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नारायण ! हे सर्वजीवाश्रय, तथापि दैत्य्-आदिदुष्टशास्तये शङ्खादिधर ! किं च, दामोदर ! भक्तवश्यतयोदरे\ऽङ्गीकृतदामबन्धनेति । एवं गुणमुद्दिश्य रूपमाहुः—अरविन्दाक्ष ! हे परमसुन्दरेत्य् अर्थः । एवं परमदुर्लभो\ऽपि त्वमधुना कृपाभरेण सुलभो\ऽसीत्यभिप्रायेणाहुः–गोविन्द ! हे पृथ्व्यामवतीर्णेत्य् अर्थः । तत्रापि हे यदुनन्दनेति यदुनानन्दयन् । सभामध्ये सदा साक्षाद्मासीति भावः । यद् वा, गोकुलेन्द्रेति परमदुर्लभतैवोक्ता, तत्र कस्याप्यन्यस्य स्थित्यशक्तेः । अधुना च सुलभो\ऽसीत्य् आहः—यदुनन्दनेति ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समान्यतस्तावत् स्वरूपैश्वर्यलीलाभिः स्तुवन्ति पदद्वयेन नारायण हे सर्वजीवाश्रत्वात्सर्वपरमस्वरूपैश्वर्य ! तादृशत्वाद् एव लीलयापि दुष्टशिक्षायै शङ्खादिधर ! अथ विशेषतो गोकुलप्रकाशितप्रेमवश्यत्वसौन्दर्यलीलाभिः स्तुवन्ति पदयेण दामोदर स्वजनवश्यतयोदरे\ऽङ्गीकृतदामबन्धन ! हे अरविन्दाक्ष ! परमसुन्दरेत्य् अर्थः हे गोविन्द ! गोचारणोपलक्षित ! तत्तन्महालीलाप्रकाशक ! एवं तत्र तत्र प्रायोनिगूढ एव त्वं सम्प्रति तु कृपाभरस्तवकिम्वर्ण्यं इत्याशयेनाहुः—हे यदुनन्दनेति । यदूनानन्दयन् सभामध्ये साक्षाद्भासीति भावः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्यूत-क्रीडाविष्टं भगवन्तं नाम-कीर्तनैर् अवधारयन्ति—नारायणेति ॥६॥


॥ १०.५६.७ ॥

एष आयाति सविता त्वां दिदृक्षुर् जगत्-पते । > मुष्णन् गभस्ति-चक्रेण नृणां चक्षूंषि तिग्म-गुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गभस्तिचक्रेण रश्मिजालेन मुष्णन्प्रतिघ्नन् तिग्मास्तीक्ष्णा गावो रश्मयो यस्य सः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दग्दष्टिदोधिती इत्य्-आदिना गोपदं रश्मिवाचकमप्य् उक्तम् । अतो हे जगत्पते त्वां दिदृक्षुरायाति । अल्पदर्शने\ऽस्य दूरतो\ऽपि स्वतः सिद्धत्वेन नाति सुखदत्वेन चा स्पृहणीयत्वात् । त्वद्दर्शनस्य तु त्वदुपासनयैव साध्यत्वेन सर्वोद्ध्वसुखदत्वेन च परमस्पृहणीयत्वाद् इति भावः । ननु नैष सूर्य इत्य् आशङ्क्य तल्-लक्षणमाहुः—मुष्णन्निति, यतस्तिग्मगुः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस्त्वां दिदृक्षुः । ननु स्वप्रयोजनं विहायागन्तुं नार्हति ? तत्राहुः—हे जगत्पते\ऽ इति । वस्तुतः प्रकाशनादिना जगत्वयैव रक्ष्यते, ततू किं तेनेति भावः । यद् वा, निजप्रभुदर्शनम् एव मुख्यप्रयोजनम् इति । किं वा, प्रभु-प्रसादाद् एव स्वार्थ-सिद्धेर् इति । ननु नैष सूर्य इत्य् आशङ्क्य तल्-लक्षणम् आह—मुष्णन्न् इति, यतस् तिग्म-गुः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो हे जगत्पते ! त्वां दिदृक्षुरायाति अन्यदर्शनस्य दूरतो\ऽपि स्वतः सिद्धत्वेन नातिसुखदत्वेन चास्पृहणीयत्वात् त्वद्दर्शनस्य तु त्वदुपासनयैव साध्यत्वेन सर्वोर्ध्वसुखदत्वेन च परमस्पृहणीयत्वाद् इति भावः । ननु, नैष सूर्य इत्याशय तल्-लक्षणमाहुः मुष्णन्न् इति यतस्तिग्मगुः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गभस्ति-चक्रेण किरण-जालेन ॥७॥


॥ १०.५६.८ ॥

नन्व् अन्विच्छन्ति ते मार्गं त्रि-लोक्यां विबुध-र्षभाः । > ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न चेदम् अघटमानम् इत्य् आहुः—नन्व् इति । अन्विच्छन्ति मृगयन्ते अजः सूर्यः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतन्न सङ्गच्छत इति चेदत्राहुःन चेति । अजाय लोमत्रयभावनाय इति

भविष्योत्तरोक्तेरजशब्दः सूर्ये\ऽपि प्रयुज्यते । त्रिलोक्यों ये विबुधर्षभा ब्रह्मादयस्ते सर्वे मार्गं प्राप्त्युपायम् एवान्विच्छन्ति, प्राप्तिस् तु दूरे । ननु निश्चये । एवं गूढम् अपि त्वामद्याधुना यदुषु साक्षाद्वर्तमानं ज्ञात्वा कुतो\ऽपि भाग्यान्निश्चित्य । ननु ब्रह्मादयश्चेदन्विच्छन्ति सूर्यः कस्तत्राहुः—अजः द्वादशात्मत्वेन विश्चैकात्मा, तदधिष्ठानत्वेन तदभेदेनोपास्यो वा, अयमनादित्वान्न जायत इत्यजो वेदो वा, त्रयीमय इत्य् अर्थः । अतो\ऽसौ तु विशेषत इति भावः । प्रभो\ऽस्मदीश्वर । अहो भाग्यं त्वदीयानामस्माकम् इति भावः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्रिलोक्यां ये विवधर्षभा देवश्रेष्ठाः श्रीब्रह्मादयस्ते सर्वे मार्ग प्राप्त्यपायम् एवान्विच्छन्ति । ननु निश्चये, यदा, त्रिलोकीमध्ये\ऽन्विच्छन्ति, तत्रत्य-सुखभोगानादरेण निरन्तरं वाञ्छन्तीत्य् अर्थः, इति महादौर्लभ्यम् एवोद्दिष्टम् । एवं गढम् अपि त्वामद्याधना यदुष साक्षाद्वर्त्तमानं ज्ञात्वा । आगमने योग्यताम् आह—स्वयम् एव नित्यमाविर्भवतीत्यजो नित्यत्वादिना सर्वदेवश्रेष्ठत्वाद् इति भावः । प्रभो हे अस्मदीश्वर ! अहो भाग्यं त्वदीयानामस्माकम् इति भावः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रिलोक्यां ये विबुधर्षभा ब्रह्मादयस्ते सर्वे मार्ग प्राप्त्युपायम् एवान्विच्छन्ति प्राप्तिस् तु दूरे । ननु निश्चये एवं गूढम् अपि त्वां अद्याधुना यदुषु सक्षाद्वर्तमानं ज्ञात्वा कुतो\ऽपि भाग्यान्निश्चित्य । ननु, ब्रह्मादयश्चेदन्विच्छन्ति सूर्यः कस्तत्राहुः अजः द्वादशात्मत्वेन विश्वैकात्मा तदधिष्ठानत्वेन तदभेदेनोपास्यो वायम् अनादित्वान्न जायत इत्यजो वेदो वा त्रयीमय इत्य् अर्थः अतो\ऽसौ तु विशेषज्ञ इति भावः । प्रभो ! अस्मदीश्वर ! अहो भाग्य त्वदीयानामस्माकम् इति भावः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुष्यं मां सूर्यो देवः किं दिदृक्षते ? इति मा वादीर् इत्य् आह—ननु निश्चितं अन्वेषयन्ति अजः सूर्यः ॥८-१०॥


॥ १०.५६.९ ॥

श्री-शुक उवाच—

निशम्य बाल-वचनं प्रहस्याम्बुज-लोचनः । > प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बालानाम् अज्ञानां वचनम् ज्वलन् विद्योतमानः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बालो\ऽज्ञे दुर्बले शिशौ इति कोशात् । प्रहस्य स्मित्वा । प्रेति प्रारम्भे । तत एवेषद्दृष्टिप्रसारणाभिप्रायेणोक्तम्—अम्बुजलोचन इति । अतः प्रकर्षेण स्मितावलोकनादिनाह—देव इति । देवो\ऽपि कश्चिन्न भवति किन्तु मनुष्य एव, तत्रापि सत्राजिद् इति । अत्र श्रीमत्कौस्तुभे विद्यमाने\ऽपि श्री-भगवत्-तत्तदिच्छानुसारेण प्रकाशाद् इति ज्ञेयम् । बालानाम् इति असूर्ये सूर्यबुद्धेः श्री-कृष्णे चैतावन्तं कालमीश्वरत्वानवगमात्, सूर्यागमन-मात्रसंभावनया कोलाहलाच् च ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रहस्य स्मित्वा, तत एवेषद्दृष्टिप्रसारणाभिप्रायेणोक्तम्-अम्बुजलोचन इति । अत एव प्रकर्षेण स्मितावलोकादिनाह—असौ युष्माभिर् उक्तो\ऽयं देव इति । देवो\ऽपि कश्चिन्न भवति, किन्तु मनुष्य एव, तत्रापि सत्राजिद् इत्य् अर्थः । ननु सत्राजिदीदृशः कथं वृत्तः ? तत्राह—मणिनेति, सूर्यदत्तेनेति शेषः । अन्यत् तैर् व्याख्यातम् । यद् वा, बालानां शिशूनां वचनम् इति पूर्वोक्ता जना बाला एव ज्ञेयाः, अन्येषां द्वारकावासिनां तेषाम् अज्ञवत्तादृशोक्त्यसम्भवात् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रहस्य स्मित्वा प्रेति प्रारम्भे तत एवेषद्दृष्टिप्रसारणाभिप्रायेणो\ऽक्तम् अम्बुजलोचन इति अत एव प्रकर्षेण स्मितावलोकनादिनाह–देव इति । देवो\ऽपि कश्चिन्न भवति किन्तु मनुष्य एव तत्रापि सत्राजिद् इत्य् अर्थः । अथ श्रीमति कौस्तुभे विद्यमाने\ऽपि चमत्काराय श्री-भगवद्वन्तस्य तदिच्छानुरूपप्रकाशाद् इति ज्ञेयम्, अन्यतैः, तत्र बालानामज्ञानाम् इति असूयें सूर्यबुद्धेः श्री-कृष्णे चैतावन्तं कालमीश्वरत्वानवगमात् सूर्यगमन-मात्रसम्भावनया कोलाहलां च ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रहस्य प्र इति प्रारम्भे स्मित्वेत्य् अर्थः ॥९॥


जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.१० ॥

सत्राजित् स्व-गृहं श्रीमत् कृत-कौतुक-मङ्गलम् । > प्रविश्य देव-सदने मणिं विप्रैर् न्यवेशयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतानि कौतुकेनोत्सवेन मङ्गलानि यस्मिस्तत् विप्रैः कृत्वा ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृहान्तर्गते देवागारे न्यवेशयत्प्रतिष्ठापयामास । श्रीमत् श्रीद्वारकान्तर्वर्तित्वेन स्वत एव संपद्युक्तम् । देवसदने निजेष्टदेवसूर्याचस्थाने । विप्रैः प्रयोज्यकतृभिः । न्यवेशयदुत्तमपीठे पूजार्थं स्थापयामास ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमत् स्वत एव सम्पत्ति-युक्तं द्वारकान्तर्-वर्तित्वात् देव-सदने निजेष्ट-देव-सूर्याच् चागृहे विप्रैः प्रयोज्यकतृभिः न्यवेशयत् उत्तम पीठे पूजार्थं स्थापयामास ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीमान् मणिनाधिकं शोभमान इत्य् अर्थः । श्रीमद् इति पाठान्तरे स्वत एव सर्व-सम्पत्ति-युक्तम् द्वारकान्तर्वर्त्तित्वाद्देव सदने निजेष्ट देव-सूर्याच्चागृहे न्यवेशयत्, उत्तमपीठादौ सम्यक् स्थापयामास ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्रम् इति कौस्तुभस्य श्री-भगवत्-तदिच्छानुरूपा मर्यादा प्रकाशादतिशयो योज्यम् ॥ १०-४५



जीव-गोस्वामी बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.११ ॥

दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो । > दुर्भिक्ष-मार्य्-अरिष्टानि सर्पाधि-व्याधयोऽशुभाः । > न सन्ति मायिनस् तत्र यत्रास्तेऽभ्यर्चितो मणिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भार-प्रमाणं च ।

चतुर्भिर् वीहिभिर् गुञ्जं गुञ्जान्पं च पणं पणान् । > अष्टौ धरणमष्टौ च कर्षन्तश् च तुरः पलम् ॥ > तुलां पलशतं प्राहुर्भारः स्याद्विशतिस्तुलाः । इति ।

मारीनामाकालमृत्युः अरिष्टमभद्रम् अशुभा दुःखहेतवः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स मणिः । अकालमृत्युः—योग-वासिष्ठोत्पत्ति-प्रकरणैकोनसप्ततितमाध्याये उक्तः । तथा हि—विषुचिकाभिधाना सा नाम्नाप्य् अन्यायबाधिका इति । अस्या मन्त्रो हि—ॐ ह्रीं ह्रां रीं रां विष्णु-शक्तये नमः, ॐ नमो भगवति विष्णुशक्ति एनाम् ॐ हरहर नयनय पचपच मथमथ उत्सादय दूरे कुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलं गतोसि स्वाहा इति मन्त्री मन्त्रं न्यस्य वामकरोदरे

मार्जयेदातुराकारं तेन हस् तेन संयतः । > हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् । > कर्कटीकर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् । > आतुरं चिन्तयेच्चन्द्रे रसायनहृदिस्थितम् ॥ > अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः । > साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ॥ > क्रमेणानेन सकलां प्रोच्छिनत्ति विषुचिकाम् । इति ।

कालं विना मृत्योर् असंभबादेतन्न संभवतोत्यत आह—सत्यपि वर्तितैले वायुना दीपनिर्वापणवदकालमृत्युरस्ति, दीपावशिष्टवर्तितैलयो रागामिदिनोपयोगवदकालमृत्युमृतस्यायुरवशिष्टमागामिजन्मान्तरे पुनस्तेनैव भुज्यते\ऽन्यथा अकालमृत्युहरणं सर्वव्याधिविनाशनम् इत्य्-आदिविष्णुचरणामृतपानमन्त्रादेरनाप्नोक्तिता स्याद् इति । तत्र स्थाने । दिन इत्य् अर्धकम् । हे प्रभो भगवद्भक्तिसम्पदां भवादृशां तु न तदादिसंपदादरो यदृच्छया तदुपपत्तौ पूर्ववद्भगवत्य् एव समर्पयत इति भावः । मारी नाम नगरग्रामादिषु प्रचुरलोकानां दिनं दिनं मृत्युकारो ग्रहविशेषः । मायिनः कपटिनः । अभितोचितः सन्नन्यथा तु नैव, अन्यथानिष्टं करोतीत्य् अर्थः ।

तच्चाग्रे व्यक्तं भावि ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे प्रभो ! इति श्री-भगवद्भक्तानां भवादृशाम् अपि तादृक् सामर्थ्य भात्येवेति भावः । मायिनो राक्षसादयो दुष्टजना वा, अभितो\ऽच्चितः सन्निति, अन्यथा तु नैव, अथवा अनिष्टं करोतीत्य् अर्थः । तच्चाग्रे व्यक्तं भावि ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिन इत्य् अर्धकं हे प्रभो ! इति भगवद्भक्तिसम्पदां भवादृशान्तु न तदादिसम्पदादरः यदृच्छया वा तदुपसत्तौ पूर्ववत् भगवत्व् एव समर्प्यत इति भावः मारीनाम नगर ग्रामादिषु प्रचुरलोकानां दिनं दिनम्मृत्युको ग्रहविशेषः । मायिनः सर्वे कपटिनः अभितोचितः सन्न् इति अन्यथा तु नैव अथचानिष्टङ्करोतीत्य् अर्थः तच्चाग्रे व्यक्तं भावि ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भारप्रमाणं यथा—

चतुर्भिर् व्रीहिभिर् गुञ्जां गुञ्जाः पञ्च-पणं पणान् । > अष्टौ धरणमष्टौ च कर्षं तांश्चतुरः पलम् । > तुलां पलशतं प्राहुर्भारः स्याद्विंशतिस्तुलाः ॥ इति ।

मारी अकालमृत्युः ॥११॥


॥ १०.५६.१२ ॥

स याचितो मणिं क्वापि यदु-राजाय शौरिणा । > नैवार्थ-कामुकः प्रादाद् याच्ञा-भङ्गम् अतर्कयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कापि कदाचित् । अनेन भगवत्यसमर्थ्य स्वयमग्रभोजिनः सर्वानिष्टनिर्वतकम् अप्य् अनिष्टहेतुर् एव भवतीति सूचितम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स सत्राजित् । मणि प्रति । यदुराजायोग्रसेनाय दातुम् । शौरिणा कृष्णेन । अतर्कयत् प्राकाशयत् । तर्क—प्रकाशपृच्छकारणभाषासु चौरादिकः । यदुराजायोग्रसेनार्थं राजैकयोग्यत्वात्, न त्वात्मार्थं तत्र निरपेक्षत्वात् । कुत्रापि याचित एव न तु भेदादिना जिघृक्षितः । शौरिणेति शूरयशोविस्तारकस्य तस्य तद्योग्यम् एवेति भावः । अर्थे धन एव न तु धर्मादौ कामुकः । अत एव श्री-भगवद्याञ्चाभङ्गेन दोषमविचारयन् । अयम्भावः–उत्तमद्रव्यत्वेन प्राक् स्वयम् एवोद्यम्य दातुं योग्यं, तत्रापि तेन साक्षाद्याचितम् अपि नादात्, अतो महानर्थः फलिष्यति, तञ्चापश्यन् । एवशब्देन वारंवारम् अपि याचनायामदानं द्योत्यते । प्रशब्देन यदा याच्यते तदा तेनाप्युपयुज्यताम् इति किञ्चित्स्वीकारमिषेण वञ्चना च ज्ञाप्यते ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदुराजाय उग्रसेनार्थं राजैकयोग्यत्वात्, किं च, शौरिणा मातामहत्वात् स्नेहाच्चेति भावः । श्लेषेण बलानेतुं शक्तेनापीत्यर्थ । अर्थ धन एव, न तु धर्मादौ कामुकः, अत एव श्री-भगवद्याञ्चाभङ्गेन दोषमविचारयन् । अयं भावः–उत्तमद्रव्यत्वेन प्राक् स्वयम् एवोद्यम्य दातुं योग्यम्, तत्रापि तेन साक्षाद् एव याचितम् अपि नादात्, अतो महाननर्थः फलिष्यति, तच्चापश्यन्न् इति एव-प्र-शब्दाभ्याम् अदानस्य दार्ढ्यं बोध्यते, तेन च श्री-भगवद्वञ्चनार्थं प्रसेनाय ददाव् इति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे सत्राजितो\ऽप्य् अच्युतो मां याचिष्यतीत्यवगम्य रत्नलोभात् स्वभ्रात्रे प्रसेनाय तद्रत्नमदात् [वि।पु ४।१३।१७ ] इति ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदुराजाय उग्रसेनार्थं राजै योग्यत्वात् । नत्वात्मार्थं तत्र निरपेक्षत्वात् त[कु]त्रापि याचित एव न तु भेदादिना जिघृक्षितः शौरिणेति शुरयशोविस्तारकस्य तस्य तद्योग्यम् एवेति भावः अर्थे धन एव न तु धर्मादौ कामुकः अत एव श्री-भगवद्याच्ञाभङ्गेन दोषमविचारयन् अयं भावः उत्तमद्रव्यत्वेन प्राक् स्वयम् एवोद्यम्य दातुं योग्यं तत्रापि तेन साक्षाद् एव याचितमपिनादात् अतो महाननर्थः फलिष्यति तं चापश्यन्न् इति एवशब्देन वारं वारमपियाचनायामदानं बोध्यते प्रशब्देन यदा याच्यते तदा तेनाप्युपयुज्यताम् इति किञ्चित्स्वीकारमिषेण वञ्चना च ज्ञाप्यते ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदुराज उग्रसेनस् तद्-अर्थं यात्राभङ्गम् अतर्कयन् भगवद्यात्राभङ्गेन दोषमविचारयन् भगवत्यसमर्प्य स्वयमग्रभोजिनः सर्वानिष्टनिवर्तकम् अपि वस् तु सर्वानिष्टहेतुर्भवति । किम्पुनः स्वयं प्रार्थयमानेऽपि तस्मिनसमर्प्येति सूचितम् ॥१२॥


॥ १०.५६.१३ ॥

तम् एकदा मणिं कण्ठे प्रतिमुच्य महा-प्रभम् । > प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव दर्शयितुम् आह । तमेकदेति । प्रतिमुच्य बद्धा । प्रसेनः सत्राजिद्भ्राता ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवानिष्टहेतुत्वम् । प्रतिमुच्य प्रतिपूर्वो मुचिर्वन्धने । स च श्री-भगवद्वञ्चनार्थम् एव प्रसेनाय ददाव् इति । तद्-उक्तं वैष्णबेसत्राजितो\ऽप्य् अच्युतो मां याचिष्यतीत्यवगम्य रत्नलोभात्स्वभ्रात्रे प्रसेनाय तद्रत्नमदाद् इति । अत एव प्रसेनः सर्वतो\ऽप्रतीत्या स्वरक्षणार्थं च तं स्वर्णसंपुटाद्याच्छन्नं कन्ठ एवं प्रतिमुच्य तत्प्रभावज्ञ एकाक्यपि वनादौ गच्छतीति भावः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव प्रसेनस्तं कण्ठे प्रतिमुच्य, एकदा मुगयां विशेषेण परमासक्त्या एकाकित्वादिनाचरत् ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सच श्री-भगवद्वचनार्थम् एव प्रसेनाय ददाव् इति ज्ञेयं तथा च श्री-विष्णु-पुराणे सत्राजितो\ऽप्य् अच्युतो मां याचिभ्यतीत्यवगम्य रत्नलोभात् स्वभ्रात्रे प्रसेनाय तद्रत्नमदाद् इति अत एव प्रसेनः सर्वतो\ऽप्रतीत्या स्वरिरक्षिषया च तं स्वर्णसम्पूटाद्यच्छन्नं कण्ठ एव प्रतिमुच्य एकदा मृगयायां विशेषेण परमाशक्तित एकाकिवादिनाप्यचरत् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिमुच्य बद्धा ॥१३॥


॥ १०.५६.१४ ॥

प्रसेनं स-हयं हत्वा मणिं आच्छिद्य केशरी । > गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आच्छिद्य आकृष्य गृहीत्वा ॥१४-१५ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जाम्बवता ऋक्षराजेन । हत्वेति हिंस्रस्वभावत्वात् । महामणिमाच्छिद्येति महाधनस्वभावत्वात्, मूषिकादौ दृश्यते ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महाप्रभावत्वेनैवाश्चर्येण हत्वा नितरां नखैः खण्डशी विदारणादिना हतः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हत्वेति हिंसस्वभावत्वात् मणिमाच्छिद्येति महाधनस्वभावत्वात् मूषकादौ हि तथा दृश्यते ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्छिद्य आकृष्य ॥१४-१५॥


॥ १०.५६.१५ ॥

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले । > अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽपि जाम्ववान् अपि क्रीडनकं क्रीडासाधनम् । सोपीत्य् अर्धकम् । कुमारस्य बिले गुहान्तर्वर्तमानस्य सुकुमाराख्यस्य स्वपुत्रस्य क्रीडनकं बालक्रीडासाधनं चक्रे । अपश्यन्न् इति सार्धकम् । प्रायो वितर्के । तेन प्रभुत्वे\ऽपि या प्रार्थना कृता तस्या भङ्गाद् एव पर्यतप्यतेति भावः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बिले गिरिगुहान्तर्वर्तमानस्य कुमारस्य स्वपुत्रस्य सुकुमाराख्यस्य क्रीडनके बाल्यक्रीडासाधनम् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सो\ऽपीत्य् अर्धकम् बिले गिरिगुहान्तर्वर्तमानस्य कुमारस्य स्वपुत्रस्य सुकुमाराख्यस्य क्रीडनकं बाल्यक्रीडासाधनम् पश्यन्न् इति सार्धकम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आच्छिद्य आकृष्य ॥१४-१५॥


॥ १०.५६.१६ ॥

प्रायः कृष्णेन निहतो मणि-ग्रीवो वनं गतः । > भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अजपन्नुपांशु अवोचन् ॥ १६-२२



वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् सत्राजिद्वचनम् । उपांशु नीचैः यथा कथनसमये\ऽन्यो न शृणुयाद् इत्य् अर्थः । जनास्तदनुवर्तिन एव नागरिका न तु सर्वे, प्रथमस्कन्धे तेषां परमभक्तिवर्णनात् नताः स्म ते नाथ पदारविंदम् इत्य्-आदिभिः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्रातरम्, भ्रातेत्यन्योन्यं स्नेहः सूचितः, अतो\ऽपश्यन्न् एव परितो\ऽतप्यत अशोचत्, प्राय इति प्रभुत्वान्मणिप्रार्थनाच् च नितरां शिरश्छेदादिना हतः, जनास्तदनुर्वर्त्तिनो नागरिकाः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रायो वितर्के तेन प्रभुत्वे\ऽपि या प्रार्थना कृता तस्या भङ्गाद् इति भावः । जनास्तदनुवर्तिन एव नागरिकाः न तु सर्वेअ प्रथमस्कन्धे तेषां परमभक्तिवर्णनात् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनास्तत्सवासनादुष्टा एव अजपन् उपांश्ववोचन् ॥१६-१९॥


॥ १०.५६.१७॥

भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि । > मार्ष्टुं प्रसेन-पदवीम् अन्वपद्यत नागरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लिप्तं लग्नम् । मार्ष्टुं शोधयितुं, द्रष्टुम् इति यावत् । भगवान् सर्वसद्यशोयुक्तः । लोकपरम्परया उद्धवमुखेन श्रुत्वा । नागरैस्तैर् एवानुव्रजत् ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वसद्यशोयुक्तः, उप श्रीमदुद्धवादिमुखेन समीपे श्रुत्वा नागरैर् अन्वपद्यत अन्वव्रजत् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सकलसद्यशोयुक्तः उपश्रुत्य लोकपरम्परया श्रीमदुद्धवादिमुखेन श्रुत्वा नागरैस्तैर् एवान्वव्रजत् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.१८॥

हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने । > तं चाद्रि-पृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण साक्षात्तल्-लक्षणादिनिर्धरेणेक्षित्वा तं केशरिणमद्रेः ऋक्षवतः पृष्ठे, उपरि जना ददृशुर् इति जनापवादतो विशुद्धिस्ततो\ऽभूद् इति भावः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषेण साक्षात्तल्-लक्षणनिर्धारणेनेक्षित्वा तं केसरिणं अद्रेऋक्षवतः पृष्ठे उपरि जनास्त एव ददृशुरित्यपवादतो विशुद्धिस्ततो\ऽभूद् इति भावः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.१९ ॥

ऋक्ष-राज-बिलं भीमम् अन्धेन तमसावृतम् । > एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं केसरिणम् । अद्रेऋक्षवतः । पृष्ट उपरि । जनास्त एव ददृशुरित्यपवादतो विशुद्धिस्ततो\ऽभूद् इति भावः ॥ बिलं वासस्थानं गुहाम् बिलं छिद्रे गुहायां च पुमानुच्चैःश्रवोहये इति मेदिनी । तथापि सत्राजितलेपणाद्यर्थरत्नमादातुमृक्षपदान्यनुगच्छंस्तं बिलं प्राप्त इति प्राह–ऋक्षेति । अन्धेनान्धीकारकेण तत ऋक्षसम्बन्धित्वाच् च भयानकमत एवं बहिर्बिलद्वारे प्रजा नागरजनानवस्थाप्य, यतो भगवान् परमदयादिगुणसागर इत्य् अर्थः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि रत्नार्थमृक्षपदान्यनुगच्छंस्तद्विलं प्राप्त इत्य् आह—ऋक्षेति । अन्धेन दृष्टिलोपकेन निविडेन व्याप्तम्, अतो भीमम्, अत एव बहिर्विलद्वारे प्रजा नागरजनानवस्थाप्य, यतो भगवान् परमदयालुर् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि विशेषतः सत्राजितहेपनाद्यर्थं रत्नमादातुमृक्षपदान्यनुगच्छंस्तं बिलं प्राप्त इत्य् आह—ऋक्षेति । अन्धेन अन्धीकारकेण तत ऋक्षसम्बन्धित्वाच् च भयानकम् अत एव बहिर्बिलद्वारे प्रजाः नागरजनानावस्थाप्य यतो भगवान् षरमदयादिगुणसागर इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.२०॥

तत्र दृष्ट्वा मणि-प्रेष्ठं बाल-क्रीडनकं कृतम् । > हर्तुं कृत-मतिस् तस्मिन्न् अवतस्थेऽर्भकान्तिके ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र बिले । बालस्य क्रीडनकं कृतम् । तद्-उक्तं हरि-वंशे—

सिंह प्रसेनमवधीत्सिम्हो जाम्बवता हतः ।

सुकुमारक मा रोदीस् तव ह्येष स्यमन्तकः ॥

इत्य् एवं वदन्ती धात्री बालं क्रीडयतीति । अयम् एव श्लोको धर्मशास्त्रतिथिनिर्णये भाद्रसितचतुर्थीचन्द्रदर्शनदोषशान्तये एकविंशत्यावृत्त्या पठनीयत्वेनोक्तः । तस्मिन्बिले । अर्भकान्तिके बालसमीपे । तत्र बिले । हन्तुं छलेन ग्रहीतुम् । अवतस्थे\ऽवसरप्रतीक्षां चक्रे ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र बिले दृष्ट्वा, हर्तुं बलादाच्छेत्तुम्, तस्मिन् विल एवावतस्थे । अन्वयभेदादपौनरुक्त्यम् । यद् वा, तस्मिन् विचित्रक्रीडनकादिनानिर्वचनीये\ऽर्भकान्तिके ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र बिलं तं मणिश्रेष्ठं बालक्रीडनकं यथा स्यात् तथा कृतं दृष्ट्वा हर्त्तुं छलेन गृहीतुं तस्मिन्नेवार्भकान्तिके स्थानविशेषे\ऽवतस्थे अन्वेषणाद्विरम्यावसरप्रतीक्षां चक्र इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बालस्य क्रीडनः यतस् तथा-भूतं ज्ञात्वा ॥२०॥


॥ १०.५६.२१ ॥

तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीत-वत् । > तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । अपूर्वमदृष्टपूर्वम् । यद् वा, —ओ\ऽकारः पूर्वो यस्य नाम्नस्तमच्युतमनन्तं वेत्य् अर्थः । धात्र्युपमाता माता वा धात्री जनन्यामलकी वसुमत्युपमातृषु इति मेदिनी । तद् धात्र्याक्रोशवचः । बलिनां वरो रामरावणयुद्धे\ऽपि युद्धे तृप्तत्वात् । नरं तत्राप्यपूर्वं वीर्यशोभादिभिर् अद्भुतम् । वतिप्रयोग आगङ्तुकतया शङ्कास्पदत्वे\ऽपि सौम्यदर्शनत्वेनातिभयानुत्थानात् । अभ्यद्रवद्वेगेनागतः । वस्तुतस् तु न भीता तद्दर्शनस्वाभावेनैवोनन्दोदयाद् इति विश्वनाथः ॥२१॥


**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**तमपूर्वं नरं नरमीश्वरम् इति यावत् ॥ २१-३५ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपूर्वमदृष्टपूर्वमद्भुतं वा, सर्वथा सर्वतो वैलक्षण्यात् । भीतवद् इति जाम्बवत्प्रभावेण वस्तुतो भयाभावात् । यद् वा, लौकिकोक्तिरीत्यानधिकार्थता, भीता सती, क्रुद्धः सन् अभिमुखे\ऽद्रवत्, वेगेनागतः, यतो बलिनां मध्ये वरः ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नरं तत्राप्यपूर्वं वीर्यसौन्दर्या [ शोभा ] दिभिर् अद्भुतं रतिप्रयोग आगन्तुकतया शङ्कास्पत्वे\ऽपि सौम्यदर्शनत्वे ज्ञातिभयानुत्थानात् आभिमुख्येनाद्रवत् वेगेनागतः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तमपूर्वं नरं दृष्ट्वा त्यादि । अपूर्वं नरं नराकारत्वे\ऽपि अनरम् इत्य् अर्थः ॥ २१-३५ ॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तमपूर्वं नरं दृष्ट्वा त्यादि । अपूर्वनर नराकारत्वे\ऽप्य् अनरम् इत्य् अर्थः ॥ २१-३५ ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भीतवच्चुक्रोशेति हरेर् जिहीर्षाम् एवालक्ष्येत्य् अर्थः । वस्तुतस् तु न भीता । तद्दर्शनस्वभावेनैवानन्दोदयात् ॥२१॥


॥ १०.५६.२२ ॥

स वै भगवता तेन युयुधे स्वामिनात्मनः । > पुरुषं प्राकृतं मत्वा कुपितो नानुभाव-वित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स जांबवान् । तेन श्री-कृष्णेन । स्वामिनेति पूर्वावताराभिप्रायेण । प्राकृतं मत्वा कुपित इति । केशिचाणूरकंसजरासन्धादिभिर् अल्पबलैर् भगवतो युद्धसुखं कापि नाभूदतः समवलेन स्वभृत्येन तेन सह युयुत्सोभङ्गवतो युद्धसुखसिद्ध्यर्थम् एव तद्भक्ताय जांबवते पूर्वं रावणसेनाभिर् अपि सम्यग्वीररससुखमप्राप्तवते तत्सुखपूर्तिदानार्थं लीलाशक्त्या योगमायाद्वारा भक्तम् अपि जांबवन्तं प्रति तन्माधुर्यावरणं ज्ञेयम् ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेन श्री-कृष्णेन, अनेनेति पाठे\ऽपि स एवार्थः । वै अपि, भगवता सर्वैश्वर्ययुक्तेनापि आत्मनः स्वामिनापि, स्वभावतो वैष्णवत्वाद्विशेषतश् च श्रीरघुनाथावतारे बहुसेवनात् प्राकृतं लौकिकं मत्वा, यतः कुपितः, यतो नानुभाववित् तत्प्रभावानभिज्ञाः । यद् वा, यतस्तत्प्रभावानुसन्धानरहितः । कुतः ? कुपितः क्रोधेन विचारलपात् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेनांशतः श्रीरामादिरूपेण पुरुषं नराकार ब्रह्मरूपं तं प्राकृतं मायिकं मत्वा यतो नानुभाववित् तत्प्रभावानुसन्धानरहितः कुतः कुपितः क्रोधेन विचारलोपात् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राकृतं मत्वा कुपित इति केशिचाणूरकंसजरासन्धादिभिर् अल्पबलैर् भगवतो युद्धसुखं क्वापि नाभूद् अतः समबलेन स्वभृत्येन तेन सह युयुत्सोर्भगवतो युद्धसुखसिद्ध्यर्थम् एव तद्भक्ताय जाम्बवतेऽपि पूर्वं रावणसेनाभिर् अपि सम्यग्वीररससुखमप्राप्तवते तत्सुखपूर्तिदानार्थं लीलाशक्त्या योगमायाद्वारा भक्तम् अपि जाम्बवतं प्रति तन्माधुर्यावरणं ज्ञेयम् ॥२२॥


॥ १०.५६.२३ ॥

द्वन्द्व-युद्धं सु-तुमुलम् उभयोर् विजिगीषतोः । > आयुधाश्म-द्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रव्यार्थे आमिषार्थ ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्रव्यं मांसपिशाचयोः इति कोशात् । द्वन्द्वेति युग्मकम् । तद्वन्द्वयुद्धमष्टाविंशाहमासीद् इत्य् अन्वयः । सुतुमुलमत्यन्तसङ्कुल, हननविरामरहितम् इत्य् अर्थः । यता विशेषतो जिगीषतोः । अत्र भगवतो लीलाकौतुकाज्जिगीषा, जांबवतश् च महाबलिष्ठत्वाभिमानाद् इति ज्ञेयम् । दोर्भिर् इति प्रत्य् एक् अभुजद्वयात् ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुतुमुलमत्यन्तसङ्कुलम्, यतो विशेषेण जिगीषतोः, तत्र श्री-भगवत्-ओ लीलाकौतुकात्, जिगीषा जाम्बवतश् च महाबलिष्ठाभिमानाद् इति ज्ञेयम् । दोर्भिर् इत्युभयोः प्रत्य् एक् अ भुजद्वयात्, आयुधादीनां पूर्व पूर्वस्य क्षयेणोत्तरोत्तरत्र प्रवृत्त्या तत्तत्क्रमेण निर्देशः, तत् द्वन्द्वयुद्धम्, मुष्टिभिर् इति बहुदिनयुद्धेनायुधादीनां क्षयात् जयासिद्ध्या तेष्वनादराद्वा । किं वा, युद्धावेशेनान्योन्यमतिसल्लग्नत्वात् । अहर्निशं तत्राप्यविश्रममविरतं तेन भोजनपानादि-राहित्य सूचितम् ॥ २३-२४ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्वन्द्वेति युग्मकम् तद्वन्द्वयुद्धमष्टाविंशाहमासीद् इत्य् अन्वयः सुतुमुलमत्यन्तसङ्कुलं हननविरामरहितम् इत्य् अर्थः । यतो विशेषेण जिगीषतोः तत्र श्री-भगवत्-ओ लीलाकौतुकाज्जिगीषा जाम्बवतश् च महावलिष्ठताभिमानाद् इति ज्ञेयं दोर्भिर् इति प्रत्य् एक् अभुजद्वयात् इतरेतरमुष्टिभिश्चेति च शब्द आहार्यः बहुदिनयुद्ध नायुधादीनां क्षयात् जयासिद्धया तेष्वनादराद्वा अहर्निशं तत्राप्यविश्रमम् अविरतम् ॥ २३-२४ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रव्यार्थे आमिषार्थे ॥२३॥


॥ १०.५६.२४ ॥

आसीत् तद् अष्टा-विंशाहम् इतरेतर-मुष्टिभिः । > वज्र-निष्पेष-परुषैर् अविश्रमम् अहर्-निशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अष्टाविंशाहम् अष्ट च विंशतिश्चाहानि दिनानि यस्मिस्तदष्टाविंशाहम् । विंशतिशब्दे । तिलोप आर्षः । वज्रस्य निष्पेषोनिर्घातस्तद्वत्परुषनिष्ठुरैः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् द्वन्द्वयुद्धम् । अविश्रमं निरन्तरम् । इतरेतरमुष्टिभिश्चेति च शब्द अध्याहार्यः । बहुदिनयुद्धेनायुधानां क्षयाज्जयासिद्ध्या तेष्वनादराद्वा ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अष्टविंशाहम् इत्य् आर्षं अष्टविंशतिदिनानि व्याप्य रात्रिष्व् अपि युद्धप्राप्त्यर्थम् आह—अहर्निशम् इति । तत्रापि क्षण-मात्रस्यापि विश्रामस्याभावार्थम् आह—अविश्रमम् इति निष्पेषो निर्यातः ॥२४॥


॥ १०.५६.२५ ॥

कृष्ण-मुष्टि-विनिष्पात- निष्पिष्टाङ्गोरु-बन्धनः । > क्षीण-सत्त्वः स्विन्न-गात्रस् तम् आहातीव विस्मितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णस्य मुष्टीनां विनिष्पातैर् आघातैर् निष्पिष्टानि श्लथान्यङ्गानामुरूणि बन्धनानि सन्धिस्थानानि यस्य सः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । मत्तो\ऽधिकबलः को\ऽयम् इति हेतोरतीव विस्मितः । विशब्दनिःशब्दाभ्याम् ऊरुशब्देन च मर्मप्रहारो\ऽद्योति । अतोवेति रघुनाथे\ऽपि प्रकटतादृशशक्त्यदृष्टेः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वि-शब्देन निः-शब्दाभ्याम् उरु-शब्देन च मम्र्मप्रहारो द्योतितः । अतः क्षीणं सत्त्वं बलं यस्य सः, किं च, स्विन्नानि गात्राणि यस्य सः, अत्यन्तश्रमाद्भक्त्या सात्त्विकभावोदयाद्वा । अतीवेति श्रीरघुनाथे\ऽपि प्रकट-तादृश-शक्त्यदृष्टेः ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशब्देन निःशब्दाभ्याम् उरुशब्देन च मर्मप्रहारो द्योतितः अतीवेति श्रीरघुनाथे\ऽपि प्रकटतादृशशक्त्याद्यदृष्टेः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निस्पिष्टानि अङ्गानाम् उरूणि बन्धनानि सन्धिस्थानानि यस्य सः । मदधिकोबलो मत्प्रभुं श्रीरामं विना नान्य इति प्राचीननिर्धारादयं किं स एवेत्य् अतिविस्मितः सन् विमृश्य निश्चित्य् आह ॥२५॥


॥ १०.५६.२६॥

जाने त्वां सर्व-भूतानां प्राण ओजः सहो बलम् । > विष्णुं पुराण-पुरुषं प्रभविष्णुम् अधीश्वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोके को वायं मत्तो बलीयानिति विस्मितः सन्विमृश्याह—जान इति । सर्वभूतानां यः प्राणस् तत्र यदोजः सहो बलं च इन्द्रियहृदयदेहबलानि तत्सर्वं त्वम् इत्य् अहं जाने कथं तथात्वमत आह, विष्णुम् इत्य् -आदि ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विमृश्य विचार्य । तत्र च प्राण प्राणकार्यत्वात्सहादीनाम् । तथात्वं प्राणादिरूपत्वम् । विष्णुत्वमाकाशादेर् अपि तत्राह—पुराणेति । तथात्वं शेषस्यास्तीत्यत्र आह–प्रभविष्णुम् इति । तथात्वं ब्रह्मणो\ऽस्तीत्यत आह—अधीश्वरम् इति । यो ब्रह्माणं विदधाति पूर्वम् इत्य्-आदिश्रुतेः । प्रभविष्णुमचिन्त्यशक्तिम् । अधीश्वरं सर्वनियन्तारम् । यद् वा, —महाबलिष्ठतामनुभूयादौ परमशक्तिकत्वेनैव स्तौति—जान इति । ज्ञानगोचरीकुर्वन्नस्मि । कथं तदाह—सर्वेति । प्राणादीनां तच्छक्त्य् एक् अविभवत्वादभेदोपचार इति व्यष्ट्यन्तर्यामिपुरुषत्वं दर्शितम्, विष्णु तत्तत्सर्वव्यापकम् इति समष्टी, पुराणपुरुषम् इति प्रकृतौ च, प्रभविष्णं ततो\ऽपि महाप्रभावम् इति परमव्योमाधिपत्यम्, अधीश्वरं सर्वोपरीशनशीलम् इति स्वयं भगवत्त्वम् इति ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महाबलिष्ठतामनुभूयादौ परमशक्तिमत्त्वेनैव स्तौति–जान इति, सदा जानन्नेवास्मीत्य् अर्थः । यद् वा, ज्ञातवान्, अतीते वर्तमाना, सदा ज्ञानानुवृत्तिविवक्षया । कथम् ? तदाह—सर्वेति । सर्वेषां भूतानां जीवानां प्राणः देहधारको\ऽन्तर्वायुः, जीवनं वा, ओजआदिकं च तेषां तच्छत्य् एक् आद्भवत्वादभेदोपचारः । विष्णुम् इति उक्त-न्यायेन निजशक्त्या सर्वव्यापनाभिप्रायेण, अतः पुराणपुरुषं श्रीब्रह्मादीनामप्यादौ वर्तमानम् इत्य् अर्थः, इति विष्णुत्वेन प्रसिद्धः श्रोवामनो व्यावर्त्तितः । अत एव प्रभविष्णु सदा नवनवमहाप्रभावयुक्तम् इत्य् अर्थः । अत एवाधीश्वरं श्रीब्रह्मादीनाम् अपि नियन्तारम्, विशेषणानामेषां यथोत्तरं महाशक्तिमत्वे श्रैष्ठ्यमूह्यम् ॥२६॥


ज् जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभविष्णुमचिन्त्यशक्तिम् अधीश्वरं सर्वनियन्तारम् अन्यतैः । यद् वा, महाबलिष्ठतामनुभूयादौ परमशक्तिकत्वेनैव स्तौति, जान इति । ज्ञानगोचरोकुर्वन्नस्मि कथं तदाह—सर्वेति । प्राणादीनां तच्छत्य् एक् अविभावत्वादभेदोपचारः इति व्यष्ट्यन्तर्यामिपुरुषत्वं दर्शितं विष्णुं तत्तत्सर्व [ शक्ति ] व्यापकम् इति समष्टौ पुराणपुरुषम् इति प्रकृतौ च प्रभविष्णु ततो\ऽपि महाप्रभावम् इति परमव्योमाधिपतित्वम् अधीश्वरं सर्वोपरीशनशीलम् इति स्वयं भगवत्वम् इति ॥२६॥


ईव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वभूतानामनन्तकोटिब्रह्माण्डवर्तिनां यः प्राण एकत्रैव पुञ्जीभूतो यदि स्यात् तद्विशेषश् च ओजः सहो बलम् पृथक् पृथग् इन्द्रियमनोदेहसामर्थ्यं च यद्येकीकृतं भवेत्, तद् अपि तद्विभूतित्वात्त्वाम् एवाहं जाने इत्यत एकस्य भूतस्य मम बलेन त्वद्बलं पतङ्गेन गरुड इव कथं वार्यताम् इति भावः । विष्णुं सर्वव्यापकं अहन्तु व्याप्य एकः पुराण पुरुषमहम् अर्वाचीनपुरुषः प्रभविष्णुम् अहं प्रभावहीनः अधीश्वरम् अहमीशितव्यः ॥२६॥


॥ १०.५६.२७॥

त्वं हि विश्व-सृजां स्रष्टा सृष्टानाम् अपि यच् च सत् । > कालः कलयताम् ईशः पर आत्मा तथात्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुराणत्वे हेतुः त्वं हीति स्रष्टा निमित्तम् यच् च सदुपादानम् अतः पुराणम् प्रभविष्णुत्वे हेतुः काल इति अधीश्वरस्त्वम् अप्य् अत एवेत्य् आह—ईशः पर इति । न च तटस्थ इत्य् आह आत्मनामात्मेति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवाह—त्वं हीति । अतो भिन्ननिमित्तोपादानरूपत्वात् । अत एव कालरूपत्वाद् एव । तच् च परेशत्वादि न तटस्थ । पृथग् नेत्य् आह—आत्मेति । आत्मनां चेतना नामात्मा स्वरूपभूतः एको देवः सर्वभूतेषु गूढः इत्य्-आदिश्रुतेः । विश्वसृजां ब्रह्मादीनाम् अपि स्रष्टाहं तु ब्रह्मसृष्टः, तैः सृष्टानां विश्वेषां यत्सत्कारणं तत्त्वम् एव न तु ते विश्वस्रष्टारो\ऽपि ब्रह्मादयो\ऽपि विश्वस्य कारणमतः पिष्टपेषणन्यायेनैव ते विश्वस्रष्टार इति भावः । अत एवोक्तं ब्रह्मणा—सृजां सृजामि सृष्टो\ऽहम्\ऽ इत्य्-आदि । कलयतां संहर्तॄणामन्तकादीनाम् अपि कालः संहर्ता । ईशस् तत्र समर्थः । अहं त्वन्तकसंहार्यस् तथात्मनां जीवानां पर आत्माहं त्वेको जीब एव ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अग्रे\ऽपि, हि एव, त्वम् एव यत इति वा, विश्वसृजां श्रीब्रह्मादीनां महदादीनां वा, सत् कारणम्, ब्रह्म कलयतां वशीकुव्र्वतां मध्ये कालः, अत एव पर ईशः परमेश्वरः, तथेति समुच्चये, यत आत्मनां जीवानां पर आत्मा अन्तर्यामीत्य् अर्थः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वं हीति तैर् व्याख्यातम् । यद् वा, सर्वेत्यत्र हेतुः सृष्टानाम् इति विष्णुम् इत्य् अत्र तच् च आत्मेति च पुराणेत्यत्र सर्वम् एव प्रभविष्णुम् इत्य् अत्र च अधीश्वरम् इत्य् अत्र काल इत्य्-आदि पर आत्मा मूलस्वरूपः अथ वा पूर्वपद्यस्य द्वितीयपक्षे तत्पञ्चविधत्वं क्रमेणोपपादयति, हि यस्मात् त्वं विश्वसृजां सूत्रादीनां जडत्वेन मृतप्रायाणां स्रष्टा उद्बोधक इत्य् अर्थः । तथा सृष्टानां ब्रह्मादीनां यच्चोपादानं समष्ट्यन्तर्यामी पद्मनाभः स त्वं तथा कलयताम् एकैकब्रह्माण्डप्रवर्तकानां सर्वेषाम् अपि तेषां यः कालः प्रवर्तकः स त्वं तथा तादृशप्रभविष्णुत्वात्पर ईशः तथा आत्मनां जीवेश्वररूपाणाम् आत्मा परमांशी स्वयं भगवान् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वसृजां ब्रह्मादीनाम् अपि स्रष्टा अहन्तु ब्रह्मसृष्टः तैः सृष्टानाम् अपि विश्वेषां यत् सत् कारणं तत् त्वम् एव न तु ते विश्वस्रष्टारो\ऽपि ब्रह्मादयो\ऽपि विश्वस्य कारणमतः पिष्टपेषन्यायेनैव ते विश्वस्रष्टार इति भावः । कलयतां संहर्तॄणामन्तकादीनाम् अपि कालः संहर्त ईशस् तत्र समर्थः अहं त्वन्तकसंहार्यः तथा आत्मनां जीवानां पर आत्मा अन्त्वेको जीव एव ॥२७॥


॥ १०.५६.२८ ॥

यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर् > वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गिलोऽब्धिः । > सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का > रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यत एवंभूतो\ऽतो ममेष्टदैवतं रघुनाथ एवं त्वम् इत्य् आह, यस्येति । ईषदुत्कलित उद्दीपितो यो रोषस् तेन ये कटाक्षमोक्षास्तैः क्षुभिता नक्रा ग्राहास्तिमिङ्गिला महामत्स्याश् च यस्मिन् सो\ऽव्धिर्वर्त्म मार्गमादिशद्दत्तवांस् तथा\ऽपि तस्मिन् येन त्वया स्वयश एव सेतुः कृतः उज्ज्वलिता च दग्धा यस्येषुभिः क्षतानि छिन्नानि रक्षसो दशग्रीवस्य शिरांसि भुवि पेतुः स एव त्वम् इति जाने ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् भूतः पूर्वोक्तविशिष्टो\ऽतो हेतोः कटाक्षमोक्षा नेत्रान्तपाताः । तिमिः शत-योजनो मत्स्यस्तं गिलतीति तथा । तथापि मार्गप्रदाने कृते\ऽपि । येन रामेण । तस्मिन्नब्धौ । स्वयशः तद्धेतुभूतस्तद्रूपो वा । उद्देश्यगतत्वाल्लिङ्गमविवक्षितमजहल्लिङ्गत्वात्समासे\ऽपि लिङ्गविपर्ययाभावः । रक्षसो रावणस्यान्येषां वा ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उज्ज्वलितेति श्रीहनुमत्कृतत्वे\ऽपि तस्यैव प्रभावात् । यद् वा, दाहिता किं वा, दग्धवद्विनाशितेत्य् अर्थः । यद्यपि श्रीरघुनाथस्य परम् अपि चरितम् अस्ति, तथापि श्री-भगवद्वीर्यातिशयानुभवेन विक्रमविशेषापेक्षयैतद् एवोक्तम् इति । अन्यत् तैर् व्याख्यातम् । यद् वा, रक्षसां रावणकुम्भकर्णादीनां शिरांसीति ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उज्ज्वलिता दग्धा इति श्रीहनुमत्कृतत्वे\ऽपि तस्यैव प्रभावात् । यद् वा, दाहिता अन्यत् तैः । यद् वा, अतो मद्विधदुर्विधदयालुः श्रीरघुनाथो\ऽपि त्वम् एवेत्य् आह—यस्येषद् इति । रक्षसां रावणादीनां शिरांसि ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईषदुत्कलित उद्दीपितो यो रोषस् तेन ये कटाक्षमोक्षस्तैः क्षुभिता नक्रास्तिमिङ्गिलाश् च यस्मिन् सो\ऽब्धिः वर्म अदिशत् ददौ तथापि तस्मिन् येन स्वयश एव सेतुः कृतः उत्कर्षेण ज्वलिता दग्धा येन इषुभिः क्षतानि स एव मत्प्रभुस्त्वम् इति जाने ॥२८॥


॥ १०.५६.२९-३० ॥

इति विज्ञात-विज्ञानम् ऋक्ष-राजानम् अच्युतः । > व्याजहार महा-राज भगवान् देवकी-सुतः ॥ > अभिमृश्यारविन्दाक्षः पाणिना शङ्करेण तम् । > कृपया परया भक्तं मेघ-गम्भीरया गिरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इति विज्ञातं विज्ञानं येन तं बिज्ञानशब्दः करणसाधनः कर्मसाधनो वा ऋक्षराजं प्रत्य् उक्तवान् ॥ २९-३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । करणे साधने\ऽर्थे साध्यत इति तथा, तत्र विज्ञायते\ऽनेनेति विज्ञानं शास्त्रश्रवणादि, विज्ञायते यत्तद्विज्ञानं ज्ञेयं वस् तु ब्रह्मस्वरूपमयं च कर्मसाधनः । अच्युत इति तादृशयुद्धादौ जाते\ऽपि तस्मिन्वात्सल्याव्यभिचाराभिप्रायेण । यतो देवकी सुतो भगवान् केवलस्वजनरक्षार्थम् एव देवक्यामवतीर्ण इति भावः । महाराजेति भवादृशां तदनुभूतम् एवेति भावः ॥२९॥

तमृक्षराजम् । शङ्करेण सुखकरेण । अरविन्दाक्ष इति—प्रसन्न स्निग्धदृष्ट्यावलोकयन्न् इति भावः । तत्र विज्ञानम् इत्य् अत्र करणपक्षे पूर्ववरप्रदानादि ज्ञेयं, कर्मपक्षे विज्ञातं विशेषादनुभूतं विज्ञानं स्ववैभवं भगवत्तत्त्वं वा येन ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युत इति तादृशयुद्धादिनापि तस्मिन् वात्सल्याच्युत्यभिप्रायेण, यतो भगवान् भक्तवात्सल्याद्यशेषगुणप्रकटनपर इत्य् अर्थः । यतो देवकीसुतः । हे महाराजेति भवादृशां महतां तदनुभूतम् एवेति भावः ॥२९॥

अतः परया कृपया अभिमृश्य सर्वाङ्गेषु स्पृष्ट्वा, यतो भक्तं शङ्करेणेति सद्य एव युद्धश्रमादिदुःखहरणपूर्वकसुखं कृतम् इत्य् अर्थः । अरविन्दाक्ष इति प्रसन्नस्निग्धदृष्ट्यावलोकयन्न् इति भावः । मेघेति स्वभावाद् एव किं वा, तत्प्रहर्षार्थं भगवत्वबोधनाथ । किं वा, स्नेहभरेण गिरो गाम्भीर्यविशेषात् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतीति युग्मकम् ऋक्षराजानम् इत्य् आर्षम् अच्युत इति तादृशयुद्धादौ जाते\ऽपि तस्मिन् वात्सल्याव्यभिचाराभिप्रायेण यतो देवकीसुतो भगवान् हे महाराजेति भवादृशान्तदनुभूतम् एवेति भावः अतः कृपया परयाभिमृश्य सर्वाङ्गेषु स्पृष्ट्वा यतो भक्तं शङ्करणेति सद्य एव युद्धश्रमादिदुःखहरणपूर्वकं सुखं कृतम् इत्य् अर्थः अरविन्दाक्ष इति प्रसन्नस्निग्धदृष्ट्यावलोकयन्न् इति भावः । मेघेति श्रीमुनीन्द्रस्य तद्वचनस्वरमाधुर्ययस्मरणोत्कण्ठा अन्यतैः तत्र विज्ञानम् इत्य् अस्य करणपक्षे पूर्वपूर्वतदनुगतिरुच्यते कर्मपक्षे विज्ञातं विशेषादनुभूतं विज्ञानं स्ववैभवं येन । यद् वा, [ स्वेन ] विज्ञातं स्वविषयविविधज्ञानं यस्य तम् इति ॥ २९-३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञातं स्वयम् एवानुभूतं विशिष्टज्ञानं भगवत्तत्वं येन तम् ऋक्षराजं शङ्करेण पाणिना स्पृष्ट्वेति । भक्तस्य तस्य अङ्गव्यथा उपशमिता ॥२९॥

वयं बहव एव बिलं प्राप्तास्तत्राहमिह प्रविष्ट इति शेषः प्रमृजन् प्रमार्ष्टुम् ॥३०॥


॥ १०.५६.३१ ॥

मणि-हेतोर् इह प्राप्ता वयम् ऋक्ष-पते बिलम् । > मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वयं बहवो बिलद्वारं प्राप्तास् तत्र मिथ्याभिशापममुना मणिना प्रमृजन प्रमार्ष्टुमहमन्तर्बिलमिह प्राप्त इत्य् अर्थः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बिलं बिलद्वारम् । तत्र तेषु । इत्य् अर्थ इति—ममैव मिथ्याभिशापो न सर्वेषां तेनाहमत्रागतो नान्ये इत्याशयः । भगवंस् तव मिथ्याभिशापः कथम् इति जांबवत्ताक्षेपं स्कन्दवाक्येनोत्तारयति—

मया भाद्रपदेअ शुक्लचतुर्थ्यां चन्द्रदर्शनम् ।

गोष्पदांबुनि वै राजन् कृतं दिवमपश्यता ॥ इति ।

नारदपि—

त्वया भाद्रपदे शुक्लचतुर्थ्यां चन्द्रदर्शनम् ।

कृतं येनेह भगवन्वृथा शापमवाप्तवान् ॥ इति ।

किं च, —

येन भाद्रद्वितीयायां दृष्टश्चन्द्रोअ हरे सिते ।

तस्य दोषो न भवति चतुर्थीदर्शनोद्भवः ॥ इति ।

ननु स एव तद्दिने कथं चन्द्रो दर्शनार्होनेति चेदाह—भाद्रसितचतुर्थ्यां पङ्कस्खलितं गणेशं दृष्ट्वा चन्द्रो जहास । तं च गणेशो यस्त्वामद्य द्रक्ष्यति स मिथ्याभिशप्तो भविष्यतीति शशाप । अतस्तद्दिने दर्शनानर्हतां चन्द्रो\ऽवापेति सति तद्दर्शने तद्दिन इष्टकाप्रक्षेपादिना कस्माच्चिद्गालीग्रहणादि कुर्यात्तेनापि तद्दोषान्तिर् इत्य् उक्तं पुराणान्तर इत्यलमतिप्रसङ्गेन ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदं पर्वते देशे वा, अमुना अनेन मणिना प्रकर्षेण मृजन्नित्येनं नीत्वैतत्स्वामिने दातुमिच्छामीति भावः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इह बिलद्वारदेशे प्रमृजन् सिंहहतप्रसेनादिदर्शनेन मृष्टम् अपि प्रकर्षेण मार्ष्टुम् इत्य् अर्थः । इदं च वाक्यं श्री-भगवत्-आ किञ्चिद्विचारितम् अपि पौनरुक्त्यभिया सङ्क्षेपेण प्रथितमत्रेति ज्ञेयम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मणिना सह ॥३१-३५॥


॥ १०.५६.३२ ॥

इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा । > अर्हणार्थं स-मणिना कृष्णायोपजहार ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सहमणिना समर्पयामास ॥ ३२-३४ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थं भगवतोक्तः । अर्हणार्थं गृहागतभगवदर्चननिमित्तम् । यत्तु पाद्मे सृष्टिखण्डे जांबवत्कतृप्रसेनवधादि, तथा श्री-कृष्णकतृकजांबवतश् चक्रेण वधादि, तत्सर्वं कल्पान्तरविषयं, न त्वेतत्कल्पीयकृष्णावतारविषयम् । यद् वा, -शं कल्याणं करोतीति शङ्कर सुदर्शनं चक्रम्

येये हताश्चक्रधरेण विष्णुना त्रैलोक्यनाथेन जनार्दनेन ।

तेते गता विष्णुपुरीम् इत्याद्यक्तेः ।

शङ्करमस्त्यस्मिन्न् इति शङ्करस् तेन पाणिना हस्तेनाभिमृश्य मर्दयित्वेत्य् अर्थः । तस्मै तुष्टेन भगवता वरं वरयेत्य् उक्तम्, तेन चोक्तम्—चक्रेण मे मृत्यु कारयेति । ततश् च रत्नग्रहणकन्योद्वाहानन्तरं तथैव कृतं भगवतेति, अन्यथाभिस्पृश्येत्येवं ब्रूयान्न त्वभिमृश्येति । स्वामिति—नरकन्यारूपत्वे\ऽपि तदीयत्वबोधनार्थम्, ऋक्षत्वे\ऽपि देवपुत्रतया नानारूपधृत्या तत्संभवात् । जांबवतीम् इति तस्य स्नेहाधिक्यतया तन्नाम्नैव ख्याताम् । माथुरहरि-वंशे चेदमाख्यानमस्तीति श्रूयते—पूर्वं श्रीरामावतार एव कन्येयं जातासीत्तस्मा एव जांबवान्दातुम् ऐच्छत् । स चोचे-एकपत्नीव्रतधरे\ऽस्मिन्नवतारे ममैतन्न घटत इति श्री-कृष्णावतारे घटिष्यते, किन्तु बहुदिनं तपस्यां कुरु, ततः स श्रीगोवर्धने चिरं तपस्तप्त्वा तमभीष्टं प्रापेति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वाम् इति नारीरूपत्वे\ऽपि तदीयत्वबोधनार्थ ऋक्षत्वे\ऽपि देवपुत्रतया तत्सम्भवात्, कन्यामपरिणायितां जाम्बवतीम् इति तस्य स्नेहभरविषयतया तन्नाम्नैव ख्याताम् । किं वा, तेनैव तथाकृत-तत्सञ्ज्ञकाम् इत्य् अर्थः । केचित्तु पुराणान्तरप्रसिद्धा गन्धर्वकन्येति वदन्ति, उपजहार दास्येन बलितया समर्पयामास ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वाम् इति नरकन्यारूपत्वे\ऽपि तदीयत्वबोधनार्थम् ऋक्षत्वे\ऽपि देवपुत्रतया नानारूपधृत्या तत्सम्भवात् कन्यामपरिणायितां जाम्बवतीम् इति तस्य स्नेह भरविषयतया तन्नाम्नैव ख्यातं माथुर हरि-वंशे चेदमाख्यानमस्तीति श्रूयते पूर्वं श्रीरामचन्द्रावतार एवं कन्येयं जातासीत् तस्मा एव जाम्बवान् दातुम् ऐच्छत् स चोक्तवान् एकपत्नी ब्रतधरे ममैतदवतारे न घटत इति श्री-कृष्णावतारे घटेत किन्तु बहुदिनं तपस्यां कुरु ततश् च तत्स्मृत्वा कालान्तरे चिरं श्रीगोवर्धने तपस्तप्त्वा तमभीष्टं प्रापेति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.३३ ॥

अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः । > प्रतीक्ष्य द्वादशाहानि दुःखिताः स्व-पुरं ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतीक्ष्य विलद्वारे स्थित्वा । शौरेरिति—वसुदेवादीनां मय्यत्र प्रविष्टे दुःखं स्यादतस् तत्र विलम्बो न घटत इति भावः । जनाः सत्राजिन्नागरिकाः । कृष्णे\ऽत्यन्तप्रेमा\ऽभावाब्विलप्रवेशमकृत्वैव पुरं ययुः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शौरेर् इति श्रीवसुदेवाद्यपेक्षया । तत्र चिरावस्थितिर्न सम्भवतीति भावः । अतो दुःखिता दुःखभरेण विचारापगमाद् इत्य् अर्थः, अतः स्वकीयाम् एव पुरम्, न तु तद्विलम् इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शौरेर् इति श्रीवसुदेवाद्यपेक्षया तत्र विलम्बो न सम्भवेत् इत्यभिप्रायेणेति भावः । जनास्ते सत्राजिन्नागराः अतो द्वारकावासिस्वाभाव्येन दुःखिता अपि सन्तो नात्यन्तरङ्गत्वात् स्वीयम् एव पुरं ययुः न तु तद्विलम् इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.३४ ॥

निशम्य देवकी देवी रुक्मिण्य् आनकदुन्दुभिः । > सुहृदो ज्ञातयोऽशोचन् बिलात् कृष्णम् अनिर्गतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अशोचन् शोकसन्तप्ता आसन् ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवी ईश्वरी महिषीत्य् अर्थःः सुहृदः सम्बन्धिनः सखायो वा, कृष्णं सर्वचित्ताकर्षकम् इति महाशोकः सूचितः ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवीत्युभयत्र सम्बन्धः परमपूज्येत्य् अर्थः । तच् च परम-प्रेमाधिक्यात् परमशक्तिरूपत्वाच् च आनकेत्यादौ प्रेम्ण ऊनोनतयानुक्रमः सुहृदः सम्बधिनः सखायो वा ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.३५ ॥

सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः । > उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णप्राप्तये चन्द्रभागां नाम दुर्गमभजन् ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते जनाः । शपन्तो निन्दन्तः । चन्द्रेण भज्यते सेव्यत इति तथा ताम् ।

नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् ।

व्याधिमृत्युभयं दुर्गा पूजिता शमयिष्यति ॥ इति हरिवंशोक्तः,

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः इति मार्कण्डेयाच् च । उपतस्थुर् इति भगवद्बल्लीलावेशाद् एव । उपलब्धये शीघ्रं प्राप्तये ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते देवक्यादयः श्री-कृष्णैक जीवना वा, सर्वे जनाः कृष्णस्याखण्डानन्दघनमूर्तेः, उप समीपे अचिराद् एव लब्धये, महामायाम् इति तत्र तस्याः सामर्थ्य सम्भावयति, भगवत एव शक्तिविशेषरूपत्वात् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपतस्थुरित च भगवद्वल्लौकिकलीलावेशाद् एव उपलब्धये अचिराद् एव प्राप्तये ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.३६ ॥

तेषां तु देव्य्-उपस्थानात् प्रत्यादिष्टाशिषा स च । > प्रादुर्बभूव सिद्धार्थः स-दारो हर्षयन् हरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स च कृष्णस्तेषां प्रादुर्बभूव आसव इति पाठे असव इंद्रियाणि तेषां प्रेष्ठ इत्य् अर्थः । कदा देव्या उपस्थानात् तया तान्प्रति आदिष्टा दत्ता या आशीः कृष्णं द्रक्ष्यथेति तया सहैव ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां देवीमुपतिष्ठतां मध्ये । आशिषासवः इति पाठे । इत्य् अर्थ इति—यथा प्रियेण धनेनापीन्द्रियाणि रक्षन्ति तद्दानेन च न ददति लक्षं ते दास्यामि निजमेकनेत्रं देहि इति श्रुत्वापि धनमगृहीत्वा तन्न ददति प्रेष्ठत्वात्, तद्वद्वारकावासिनां श्री-कृष्णो\ऽपीति भावः । कदा प्रादुर्बभूवेति चेदाह—देव्या इति । तया देव्या । तान् सेवम् आनान् । तयाशिषा । सहैव तत्क्षणम् एव । सिद्धार्थः मणिसहितः । देव्या प्रत्यक्षीभूय प्रत्यदिष्टा दत्ता या आशीः कृष्ण आगतप्रायः इति । तया आशिषा सहैव । असव इति हरेर् विशेषणम् । असवः प्राणतुल्यः पुंसि भूम्न्यसवः प्राणाः इत्य् अमरः । सिद्धो\ऽर्थो मण्यानयनजांबवदनुग्रहश्रीजांबवती परिग्रहसत्राजितक्षेपणादिरूपो लीलाप्रयोजनं यस्य स तथा ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रत्यादिष्टाशिषा सह प्रादुर्बभूव, यदैवाशीरभूत्, तदैव प्रादुरभूद् इति तुल्ययोगितायामाशिषः पूर्वभावित्वाभावान्न कारणत्वम् ॥३६॥

वैष्णव-तोषणी- तुशब्दो विशेषे देव्युपस्थानादन्येषां न प्रादुर्भवति देवान् देवयजो यान्ति इत्यादेः तेषां पुनः देव्युपस्थानात् हरिः प्रादुर्बभूवेत्य् अर्थः । तेषु तदाद्याराधनस्य लौकिकलीलामयश्री-कृष्णप्रेमरसैकविलासत्वात् देव्या अपि तत्सम्बन्धेन योग्यतालब्धेरिति भावः । सहेति यदाशीदत्ता तदैवेत्य् अर्थः सिद्धो\ऽर्थः मण्यानयनजाम्बवदनुग्रहश्रीजाम्बवतीपरिग्रहसत्राजितहेपणादिरूपं तादृशलीलाप्रयोजनं यस्य सः अत एव सदारः प्रादुर्बभूवेति आविर्भाववच्छीघ्रागमनात् तच् च गरुडारोहणेनेति सम्भाव्यम् अन्यत् तैः तत्र हरिर् इत्यस्यैव व्याख्या स च श्री-कृष्ण इति ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु इव, उपस्थानादिव, वस्तुतस्तेषु स्नेहभरणाशु स्वयम् एव प्रादुर्भावात् सिद्धो\ऽर्थः । मण्यानयन-श्रीजाम्बवदनुग्रह-जाम्बवतीपरिग्रहादिप्रयोजनं यस्य सः, अत एव सदारः । एवं श्रीजाम्बवतीपरिग्रहाद्यर्थम् एव सत्राजिद्द्वारा निजापवादः स्वयम् एवोत्थापित इति द्योतयति-प्रादुर्बभूवेति । वस्तुतः सदा द्वारकायां विद्यमानत्वात्, केवलं क्रीडाविशेषार्थम् एव कदाचिदाच्छन्नत्वात् । किं वा, आविर्भाववत् सहसा शीघ्रागमनात्, हरिर् इति तेषां शोकहरणस्य किं वा, सदारत्वादिना हर्षणेन मनोहरणस्याभिप्रायेण । अन्यत् तैर् व्याख्यातम् । तत्र हरिर् इत्य् अस्यैवं व्याख्या श्री-कृष्ण इति । यद् वा, तदनुसारेण हरिर् इत्य् अत्र पाठान्तरम् अनुसन्धेयम् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तेषाम् इत्य्-आदि, प्रत्यादिष्टाशिषा सह प्रादुर्बभूव यदैवाशीरभूत् तदैव प्रादुर्बभूवेत्य् अर्थः अतस्तदाशीरपेक्षानासीद् इत्य् अर्थः ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव्या प्रत्यादिष्टा प्रत्यक्षीभूय दत्ता या आशीः कृष्ण आयात-प्राय इति तया सहैव आशिषासव इति पाठे असव इति हरेर् विशेषणम् प्राणतुल्य इत्य् अर्थः ॥३६॥


॥ १०.५६.३७ ॥

उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् । > सह पत्न्या मणि-ग्रीवं सर्वे जात-महोत्सवाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोके जनाः कथञ्चिन् मृतं बन्धु पुनर् आगतम् उपलभन्ते तद्वद् उपलभ्य सर्वे जात-महोत्सवा आसन्न् इति ॥ ३७-३८ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र मृतम् इवेति लुप्तोपमा बोध्या । यद् वा, मृतेर् मृतिस्थानादागतं मृतं तद्धिताणो वैकल्पिकणित्त्वादृद्ध्यभाव इतो लोपे च रूपम् । हृषीकाणामीशं तमन्तरेणाचेतनत्वप्रायाभिप्रायेण । मणिग्रीवम् इति स्वभक्तेन जांबवता स्वकन्यादानसमये ग्रीवायां मणिधारणात् ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृषीकाणामीशम् इति सर्वेन्द्रियोत्सवप्रवर्त्तनाभिप्रायेण, जातमहोत्सबा बभूवुः, मणिग्रोवम् इत्य् अस्यान्ते निर्देशः, मिथ्यापवाद-मार्जनादिना श्री-कृष्ण-प्रीत्युत्पादनेन महोत्सवाधिक्यात् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृषीकाणामीशम् इति तमन्तरेणाचेतनत्वप्रायताभिप्रायेण मणिग्रीवम् इत्य् अस्यान्ते निर्देशस्तद्ग्रीवत्वस्य सुष्टुहर्षविषादादिकारित्वेन सर्वपर्यायकत्वात् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपलभ्येत्य्-आदि । हृषीके इन्द्रिये जातिवादेकवचनम् हृषीके मृते नष्टं शं कल्याणं पुनरागतम् इव तम् पत्न्या सह जाम्बवत्या सह ॥ ३७-४५ ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मणिग्रीवम् इति स्वभक्तेन जाम्बबता स्वकन्यासम्प्रदानसमये ग्रीवाय मणिधारणात् ॥ ३७-३८ ॥


॥ १०.५६.३८ ॥

सत्राजितं समाहूय सभायां राज-सन्निधौ । > प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राप्तिं महायुद्धद्वारा । तस्मै सत्राजिते । पूर्वमुग्रसेनार्थं प्रार्थिते\ऽपि तस्मिस्तस्य लिप्साराहित्यबोधनाय न्यवेदयदर्पयामास । यतो भगवान् सर्वेश्वर्यपूर्णतया तदादिषु नैरपेक्ष्याद् इति भावः ॥३८॥


**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**उपलभ्य हृषीकेशम् इति हृषीके इन्द्रिये जाताबेकवचनम्, नष्टं शं कल्याणं पुनरागतमिवेत्य् अर्थः ॥ ३८-४५ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् यत्नत आहूय सभामध्ये तत्र च राज्ञ उग्रसेनस्य राज्ञां वा सन्निधौ मिथ्यापवादमार्जनार्थं सर्वलोकप्रहर्षणार्थं च सर्वप्रजासु तवृत्तप्रख्यापनाय तथा स्वयं प्रागुग्रसेनार्थं प्रथिते\ऽपि तस्मिस्तस्य लिप्साराहित्यबोधनाय न्यवेदयत् अर्पयामास यतो भगवान् सर्वेश्वर्यपूर्णतया तदादिषु नैरपेक्ष्याद् इति भावः ॥३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यगाप्तजनप्रेषणादिना आहूय, सभामध्ये तत्र च राज्ञ उग्रसेनस्य राज्ञां वा सन्निधाव् इति मिथ्यापवादमार्जनार्थं सर्वलोकप्रहर्षणार्थं च सर्वप्रजासु तद्वृत्तप्रख्यापनाय । तथा स्वयं प्रागुग्रसेनार्थं प्रायते\ऽपि तस्मिस्तस्य लिप्साराहित्यबोधनार्थम् इति न्यवेदयदर्पयामास, यतो भगवान् सर्वैश्वर्यपूर्णतया तस्मिन् नैरपेक्ष्याद् इति भावः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.३९ ॥

स चाति-व्रीडितो रत्नं गृहीत्वावाङ्-मुखस् ततः । > अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाप्मनापराधेनानुतप्यमानः ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च सत्राजित् । अयाङमुखो\ऽधोमुखः । ततः कृष्णात् । रत्नं मणिम् । अपराधेन मिथ्याभिशापकथनरूपेण । अनुतप्यमानः पश्चात्तापं कुर्वन् ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वर्थे चकारः सर्वेष्वन्येषु प्रकृष्टेष्व् अपि तस्यानुतापेन भेदात् ततस्तस्याः सभातः स्वेन स्वीयेनैवेति श्री-भगवत्-अः स्नेहस्तस्मिन्नवमानादिकम् निरस्तम् ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वर्थे चकारः, सर्वेष्वन्येषु प्रहृष्टेष्व् अपि तस्यानुतापेन भेदात्, ततस्तस्याः सभायाः सकाशात् स्वेन स्वकीये नैवेति श्री-भगवत्-अस्तस्मिन्नवमानादिकं निरस्तम् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुतप्यमानो\ऽनुतपम् ॥३९॥


॥ १०.५६.४० ॥

सोऽनुध्यायंस् तद् एवाघं बलवद्-विग्रहाकुलः । > कथं मृजाम्य् आत्म-रजः प्रसीदेद् वाच्युतः कथम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अघं दोषम् आत्मनो रजोमलमपराधम् इति ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स सत्राजित् । तद् एव मिथ्योक्तिलक्षणम् । बलवता श्री-भगवत्-आ तदीयैर् बलवद्भिर् वा विग्रहो मिथ्यापवादोत्थापनेन विरोधस्तेनाकुलश्चिन्तातो\ऽभूत् ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनु निरन्तरं ध्यायन्, एव-शब्देन महाघतया तदन्यचिन्ताराहित्यं बोध्यते । बलवता श्री-भगवत्-आ । किं वा, बलवद्भिस्तदीयैर् विग्रहो मिथ्यापवादोत्थापनेन विरोधस्तेनाकुलः सन् । कथम् इत्य् -आदिकञ्चानुध्यायन्, अच्युत इति सदा प्रसादाच्च्युतिरहितः सन्न् इति भावः ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स इत्य् अर्धकम् । अनु निरन्तरं ध्यायन एवशब्देन महार्घतया नितरां तदन्यचिन्ताराहित्यं बध्यते बलवता श्री-भगवत्-आ किं वा बलवद्भिस्तदीयैर् विग्रहः मिथ्यापवादोत्थापनेन विरोधस्तेनाकुलश्चिन्ताव्याकुलो\ऽभूद् इति ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलवद्भिर् भगवदीयैः सह बिग्रहः विरोधस्तेनाकुलो\ऽभूत् । अनुध्यानम् आह—कथम् इति साद्ध दुयेन ॥ ४०-४४ ॥


॥ १०.५६.४१ ॥

किं कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा । > अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं कृत्वा कस्मिन् कृते इत्य् अर्थः । साधु भद्रम् । अदीर्घदर्शनमविचारकं माम् । क्षुद्रं कृपणं मूढं मण्दमतिम् ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—उभयोर् अव्ययत्वाद्यथेच्छमर्थ इति भावः । मह्यं मम । अविचारकं भविष्यज्ञानहीनम् । अनुध्यानम् आह—सार्धद्वयेन ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जनः सर्वलोकः शापयोग्यतामनुध्यायति—अदीर्घति । विशेषणानामेषां यथोत्तरं शापहेतुत्वे श्रेष्ठयम् । यद् वा, पूर्वपूर्वस्मिन्नुत्तरोत्तरस्य हेतुत्वमूह्यम् ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुध्यानम् एवाह—कथम् इत्य् -आदिसार्धद्वयेन । तत्र प्रथमं सार्धकम् अच्युतः स्वभावाद् अच्युतत्वेन तत्सञ्ज्ञः जनः सर्वलोकः शापयोग्यतामनुध्यायति—अदीर्घेति । माम् इति शेषः । तत्र तावदेतादृशं रत्नं मर्त्यैर् अस्माभिर् ग्राह्यम् एव नेत्य् आह—अदीर्घेति, लब्धं च श्री-भगवत्-य् एव समर्पयितुं योग्यम् इत्य् आह—क्षुद्रम् इति । हन्त तेन स्वयं प्राथिते\ऽपि तस्मिन् विमुखो\ऽभवं आपतिते चानर्थे तम् एवादूषयम् इत्य् आह—मूढम् इति । सर्वत्र हेतुः द्रविणलोलुपम् इति ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.४२ ॥

दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नम् एव च । > उपायोऽयं समीचीनस् तस्य शान्तिर् न चान्यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं ध्यायन्नुपायं निश्चिनोति—दास्य इति । स्त्रीरत्नं दुहितरं तावद्दास्यामि तदनन्तरं पारिबर्हत्वेन रत्नमपीति ॥ ४२-४३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । तावदादौ । तस्य अपराधस्य, कृष्णस्य, वा । ननु त्वद्दुहित्रा कथं तस्य प्रसादः स्याद्येन शान्तिर्भवेदित्यत आह—स्त्रीरत्नम् इति । रत्नं च स्यमन्तकम् । तस्याच्युतस्य । शान्तिश् च दुःखोपशमः । किं वा-मदपराधस्य शान्तिरुपशमः, अन्यथा मरणादिनापि प्रकारेण नैव शान्तिः ॥ ४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु त्वद्दुहित्रा कथं तस्य प्रसादः स्यात्, येन शान्तिर्भवेदित्यत आह—स्त्रीरत्नम् इति । रत्नं च स्यमन्तकम्, तस्याच्युतस्य शान्तिः सुखम् । किं वा, तस्य मदपराधस्य शान्तिरुपशमः, अन्यथा अन्येन मरणादिनापि प्रकारेण नैव शान्तिः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, त्वद्दुहित्रा कथं तस्य प्रसादः स्याद्येन शान्तिर्भवेदित्यत आह—स्त्रीरत्नम् इति । रत्नं च स्यमन्तकं तस्याच्युतस्य शान्तिश् च दुःखोपशमः किं वा तस्य मदपराधस्य शान्तिरुपशमः अन्यथान्येन मरणादिनापि प्रकारेण नैव शान्तिः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.४३ ॥

एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् । > मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इति । स्वसुतां सत्यभामाम् । एतावल्लीलापरिपाटीफलं मुख्यमेतद् एवेत्य् आह—एवं कथम् इत्य् -आदिप्रकारेण । वसितः कृतनिश् च यः । शुभां सर्वोत्तमाम् । श्रीवसुदेवादिषु प्रार्थनयोद्यमं कृत्वा उपजहार ददौ ॥ ४३ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्यवसितः कृतनिश्चयः, शुभां सर्वथोत्तमाम्, स्वयम् एवोद्यम्य श्रीवसुदेवादिषु बहुधा काकुप्रार्थनयोद्यमं कृत्वा ज्ञातित्वेन मणिसम्बन्धादिना वा तस्यां श्री-भगवत्-प्रार्थनाद्यभावात् स महापराधी ॥ ४३ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतावल्लीलापरिपाटीफलम् मख्यमेतद् एवेत्या—एवम् इ कथम् इत्य् -आदिप्रकारेण व्यवसितः कृतनिश्चयः शुभ सर्वथोत्तमं श्रीवसुदेवादिषु प्रार्थनयोद्यमं कृत्वा उपजहार स इत्य् अत्रोपजहार हेति पाठः कचित् ॥ ४३ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.४४ ॥

तां सत्यभामां भगवानुपयेमे यथाविधि । > बहुभिर् याचितां शीलरूपौदार्यगुणान्विताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहुभिः कृतवर्मादिभिः ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपये मे विवाहितवान् । सत्यभामाख्यां यथाविध्युपयेम इति जांबवतीम् अपि गृहमानीयोपयेमे, किन्तु तद्वत्पितृकुलाभावान्न तदीयोचित क्रियेति भावः । तस्या वैशिष्ट्यम् आह—बहुभिर् इति । तत्र हेतुः—शीलं सुस्वभावः, शीलरूपयोर् औदार्यं महत्त्वं, तेन तदनुगतैर् अन्यैर् विनयादिगुणैश्चान्विताम् । बहुभिर् इति वक्ष्यमाणस्य कृतवर्मादिभिर् वैरस्य कारणं ध्वनितम् ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सत्यभामाख्याम्, भगवानशेषैश्वर्ययुक्तः, अत एव तां यथाविध्युपयेमे, अनेन श्रीजाम्बवत्या विवाहः, त्वरया द्वारकागमनात् । यद् वा, तत्प्रीतये तद्विलान्तर् एव शीघ्रविवाहेन श्रीदेवक्याद्यभावाद् यथाविधि न सम्पन्न इति सूच्यते । तस्यां श्री-भगवद्द्योग्यतां प्रदर्शयन्माहात्म्यम् आह—बहुभिर् इति । तत्र हेतुः—शीलेति, औदार्यं वदान्यत्वम् । यद् वा, शीलरूपयोर् औदार्यं महत्त्वम्, तेन गुणैश्चान्यैर् अन्विताम्, बहुभिर् याचिताम् इति दक्ष्यमाणस्य कृतवर्मादिभिः सह वैरस्य कारणम् अपि ध्वनितम् ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्यभामाख्यां यथा विध्यपयेम इति जाम्बवतीम् अपि गृहमानीयोपयेमे किम् तु पितृकुलाभान्न तदीयोचितक्रियेति भावः । तस्य वैशिष्ट्यमप्याह—बहुभिर् इति । तत्र हेतुः शीलं सुस्वभावः शीलरूपयोर् औदार्य महत्त्वं तेन तदनुगतैर् गुणैश्चान्यैर् अन्वितां बहुभिर् याचिताम् इति बक्ष्यमाणस्य कृतवर्मादिभिः सह वैरस्य कारणम् अपि ध्वनितम् ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५६.४५ ॥

भगवान् आह न मणिं प्रतीच्छामो वयं नृप । > तवास्तां देवभक्तस्य वयं च फलभागिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मणिं न प्रतीच्छामो न स्वीकुर्मः देवः सूर्यस्तद्भक्तस्येति कटाक्षः फलभागिन इति तवापुत्रत्वात्त्वदीयं धनमस्माकम् एवेति गूढो\ऽभिप्रायः ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कटाक्ष इति—न हि देवभक्ता असत्यवादिनो\ऽतिलुब्धाश् च सन्तीति भावः । हरि-वंशे तु तस्य पुत्रा ये उक्तास्तदन्तसूचनायोक्तम्—वयं च फलभागिन इति, कल्पान्तरापेक्षा हरिवंशोक्तिः । वयमिति—बलदेवाद्यपेक्षयास्माकं को\ऽपि न गृह्णीयाद् इत्य् अर्थः । हे नृपेति—नेनैव निजजनान्पालयेति कटाक्षः । फलभागिन इति भवतो मणिना यत्फलं दृष्टमदृष्टं वा श्रेयो भवेत्तत्परमान्तरङ्गत्वादस्मास्वपि पर्यवस्येद् इति वाक्यार्थः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वयम् इति श्रीबलदेवाद्यपेक्षया, अस्माकं को\ऽपि न गृह्णीयाद् इत्य् अर्थः । यद् वा, मण्यनपेक्षायां निजगौरवात्, अग्रे च सर्वफलभागितायाम्, हे नृपति एतेनैव निजजनान् पालयेति कटाक्षः ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वयम् इति बलदेवाद्यपेक्षया अस्माकं को\ऽपि न गृह्णीयाद् इत्य् अर्थः । हे नृपेति एतेनैव निजजनान् पालयेति कटाक्षः फलभागिन इति भवतो मणिना यत्फलं दृष्टमदृष्टं वा श्रेयो भवेत् तत्परमान्तरङ्गत्वात् अस्मास्वपि पर्यवस्येद् इति वाच्यो\ऽर्थः व्यङ्ग्यस् तु तैर् उद्दिष्ट एव ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवः सूर्यस्तद्भक्तस्य । फलभागिन इति तवा पुत्रत्वात्वदीयं धनमस्माकम् एवेति न्यायो ध्वनितः ॥४५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षट्पञ्चाशत्तमोऽध्यायो दशमेऽजनि सङ्गतः ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे स्यमन्तकोपाख्याने

षट्-पञ्चाशत्तमोऽध्यायः

॥५६॥

(१०.५७)