प्रद्युम्नस्य जन्म शम्बरासुर-वधश् च ।
॥ १०.५५.१ ॥
श्री-शुक उवाच—
कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना ।
देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥
श्रीधरः:
पञ्च-पञ्चाशत्तमे तु प्रद्युम्नो\ऽजनि कृष्णतः ।
शम्बरेण हतः सो\ऽथ हत्वा तं कान्तयागमत् ॥
प्रद्युम्न-हानि-लाभाद्यैः शम्बराहरणादिना ।
कुटुम्बिनाम् अपत्यादि-सुख-दुःखम् असूसुचत् ॥
जाम्बवत्य्-आदि-विवाहेभ्यः प्राग् एव प्रद्युम्न-जन्म। ततो विवाहः, ततः शम्बरागारात् प्रद्युम्न-प्रत्यागमनम् । अतः पुत्र-कथन-प्रस्तावे\ऽपि प्रथमं प्रद्युम्नस्य जात-मात्रस्य शम्बरेण हरणं निरूप्यते । प्रत्यागमनं तूत्तर-कालीनम् अपि कथा-पर्यवसानायात्रोक्तम् इति वासुदेवाधिष्ठित-चित्त-प्रभवत्वाद् वासुदेवांशः सृष्टि-हेतुत्वाच् च देहोपपत्तये देह-प्राप्तये ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनः प्राप्स्यति इति पुराणान्तरे स्पष्टम् । कामस् त्व् इत्य्-आदाव् एवं विवेचनीयम्—श्रुति-पञ्चरात्रादौ खलु वासुदेव-सङ्कर्षणानिरुद्धाः, ते चेश्वराविर्भावा नित्याः । प्राकृत-कामस् त्व् इन्द्र-भृत्यत्वेनैवैकादशादौ प्रसिद्धः [११.४.७फ़्फ़्] । वासुदेवादयो\ऽपि द्विविधाः—देव-लीलाः, मनुष्य-लीलाश् च । तत्र पूर्वे—नारायण-व्यूह-स्तवादौ बहु-विधाः, अपरे च श्री-कृष्णाद्य्-आख्याः । तत्र पुराणादाव् उपासनायां तेभ्यो भेदेनोक्तास् ते च नित्याः । यथा श्री-गोपाल-तापन्यां श्री-मथुरा-प्रसङ्गे—
यात्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। २.३६] इति ।
तस्मात् प्राकृत-कामस्य भगवद्-व्यूहत्वासंभवाद् अयम् अर्थः ।
तु-शब्दो भिन्नोपक्रमे । वासुदेवस्य श्री-कृष्णादि-लक्षण्आंशः रौक्मिणेयादि-लक्षणः प्रद्युम्न-रूपो यत्रेति तस्मिन्न् असाव् अंशेन कलयाविष्ट इत्य् अर्थः । प्रद्युम्न-विभूति-रूप इत्य् अर्थः । स कामो रुद्र-मन्युना पूर्वं दग्धो\ऽतो देहोपपत्तये तम् एव प्रद्युम्नम् एव प्रत्यपद्यत । देहस्योपपत्तिर् नाम रुद्रेणानङ्गता-विधानेन स्वतः प्राप्त्य्-असंभवात् । सामीप्येनान्य-प्रसङ्गतो\ऽपि तत्-प्राप्तिस् तद्-अर्थं तम् उपास्य तत्-सायुज्यं प्राप्तवान् इत्य् अर्थः । भूयः-शब्देन स कामाख्यो जीवस् तस्माद् एवाविर्भूत इति गमितम् । अर्थान्तरं तु न सङ्गच्छते वासुदेवांशो दग्ध इति श्री-भागवत-मत-विरोधात् । सङ्कल्प-विकल्पकात्मकान् मनस एव काम-प्रभवात्, न तु धारण-मात्रात्मकाच् चित्तात् । तथा स च कामो मनो-विकार-रूप एव, स तु तद्-देवता-रूप इति विचारणा सिद्धेः कष्टतापत्तेश् च ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो भिन्नोपक्रमे । श्री-भगवत्-पुत्रेत्य्-आदिना रस-भेदात् । यद् वा, विशेषे\ऽनङ्गस्याप्य् अङ्गोत्पादनेन श्री-भगवतो माहात्म्य-विशेषात्, वासुदेवस्य चतुर्व्यूहादि-भूतस्यावेशावतारत्वाद् वासुदेवांशः कामः । प्रद्युम्नांश इति वक्तव्ये वासुदेवांश इति तयोर् अभेदाभिप्रायेण । रुद्रस्य मन्युना काम एव प्राग् दग्धः, तम् अंशिनं तृतीय-व्यूहं प्रद्युम्नम् एव भूयः पुनः प्रत्यपद्यत, तस्मिन् लयं प्राप्त इत्य् अर्थः । किम्-अर्थम् ? स्व-देहोपपत्तये । स एव प्रद्युम्न एव कामस्य लय-स्थान-भूतो वैदर्भ्यां जात [१०.५५.२] इत्य् अग्रे वक्ष्यते । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्री-वसुदेव-नन्दनस्यांशो रूप-गुणादिना परम-महा-मादकस्य तस्य तच्-छक्ति-महार्णवैक-बिन्दु-मात्रावेशेन कामस्य जगन्-मादकता-सिद्धेः । अतो वस्तुतः श्री-भगवान् एवायं महा-मदनः । अत एव ध्यायेन् मदन-गोपालम् इत्य्-आदिना त्रैलोक्य-सम्मोहन-तन्त्रादौ श्री-भगवान् अयं मदन-गोपाल उच्यते । अन्यत् समानम् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कामस् त्व् इत्य्-आदाव् एवं विवेचनीयं—श्रुति-पञ्चरात्रादौ खलु वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धाः प्रसिद्धाः । ते चेश्वराविर्भावा नित्याः । प्राकृत-कामस् त्व् इन्द्र-भृत्यत्वेनैकादशादौ प्रसिद्धः [११.४.७] । वासुदेवादयस् तु द्विविधाः—देव-लीला-मनुष्य-लीलाश् च । तत्र पूर्वे नारायण-व्यूह-स्तवादि-बहु-विधाः, अपरे च श्री-कृष्णाद्य्-आख्याः । तत्र पुराणादाव् उपासनायां तेभ्यो भेदेनोक्ताः । ते च नित्याः, यथा श्री-गोपाल-तापन्यां श्री-मथुरा-प्रसङ्ग—
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुर् इति ॥ [गो।ता।उ। २.३६] इति ।
तस्मात् प्राकृत-कामस्य भगवद्-व्यूहत्वासम्भवाद् अयम् अर्थः । तु-शब्दो भिन्नोपक्रमे । वासुदेवस्य श्री-कृष्णादि-लक्षणस्य अंशः रौक्मिणेयादि-लक्षणः प्रद्युम्न-रूपो यत्रेति तस्मिन्न् असाव् अंशेन कलयाविष्ट इत्य् अर्थः । प्रद्युम्न-विभूति-रूपः स कामो रुद्र-मन्युना पूर्वं दग्धः, अतो देहोपपत्तये तं श्री-वासुदेवांशं श्री-प्रद्युम्नम् एव प्रत्यपद्यत । देहस्य उपपत्तिर् नाम रुद्रेणानङ्गता-विधानेन स्वतः प्राप्त्य्-असम्भवात् सामीप्येनान्य-प्रसङ्गतो\ऽपि तत्-प्राप्तिः तद्-अर्थं तम् उपास्य तत्-सायुज्यं प्राप्तवान् इत्य् अर्थः । भूयः-शब्देन स कामाख्यो जीवस् तस्माद् आविर्भूत इति गमितम् । अर्थान्तरं तु न सङ्गच्छते वासुदेवांशो दग्ध इति श्री-भागवत-मत-विरोधात् । सङ्कल्प-विकल्पात्मकान् मनस एव कामस्य प्रभवो, न तु धारण-मात्रात्मकात् चित्तात् । तथा च कामो मनो-विकार-रूप एव स तु तद्-देवता-रूप इति विचारणासिद्धेः कष्टतापत्तेश् च ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कामस् त्व् इति द्वयम् ॥ १-२६ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चपञ्चाशत्तमे तु प्रद्युम्नो रुक्मिणी-सुतः ।
शम्बरेण हृतस् तं स हत्वागात् स प्रियः पितॄन् ॥
जाम्बवत्य्-आदि-विवाहेभ्यः प्राग् एव प्रद्युम्न-जन्म, ततो विवाहः, ततः शम्बरागारात् प्रद्युम्न-प्रत्यागमनम् इति क्रमो ज्ञेयः । अत्र तु प्रद्युम्नस्य जन्मनि कथिते तच्-चरितम् अपि सर्वं कथनीयम् इति कथितम् । अत्र स्वयं भगवतो नित्य-लीला-परिकराणां प्रपञ्चे प्राकट्यं खलु भगवद्-इच्छया स्वस्मिन् प्रविष्टानां स्व-स्व-विभूतीनाम् एव प्रथाम् आश्रित्य दृश्यते, न तु साक्षात् स्व-स्व-प्रथया । बहिर्-मुखानां नाना-वादानाम् उत्थानाभावार्थं भक्ति-योग-सिद्धान्तस्य रहस्यत्व-रक्षणार्थं च परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [भा।पु। ११.२१.३५] इति भगवद्-उक्तेः । यथा द्रोण एव नन्दो\ऽभूत्, धरैव यशोदा, वसुदेव उद्धवः, इन्द्र एवार्जुनः, यम एव विदुरः, गुह एवं शाम्ब इत्य् एवं । किं बहुना, स्वयं भगवतो\ऽपि स्व-प्रविष्ट-स्वांश-प्रथयैव जन्म यथा वैकुण्ठ-नाथ एवागत्य वसुदेव-गृहे जातः । क्वचिद् वामन एव, क्वचिद् ऋषि-नरायण एवं क्षीरोद-नाथ एवेत्य् एवं तस्य तृतीयो व्यूहो यः प्रद्युम्नः, तस्यापि स्व-प्रविष्ट-प्राकृत-कन्दर्पाख्य-स्व-विभूति-प्रथयैवाविर्भावम् आह—कामस् त्व् इति ।
वासुदेवांशः प्रजनश् चास्मि कन्दर्प [गीता १०.२८] इति गीतोक्तेर् वासुदेव-विभूतिर् इत्य् अर्थः । देहस्य उपपत्तिः स्वाश्रय-श्री-प्रद्युम्न-देह-प्रविष्टत्वेनैव या प्राप्तिः, तस्यै तम् एव विचित्र-लीला-निधेस् तस्यैवेच्छया तं प्रत्यपद्यत, न तु स्व-शक्त्यैव तं प्राप इत्य् अर्थः ॥१॥
॥ १०.५५.२ ॥
स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः ।
प्रद्युम्न इति विख्यातः सर्वतो\ऽनवमः पितुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनवमो\ऽन्यूनः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स एव यो रुद्रेण दग्धः । न्यूने नीचे\ऽवमो मतः इति निरुक्तिः । स एव काम एव । प्रद्युम्न इति विख्यातो लोके प्रथाम् एव प्राप्तः, वस्तुतस् तु सच्चिदानन्द-विग्रहः प्रद्युम्नः प्रद्युम्न एव तृतीयो व्यूहः, न तु कामो नाम केवलं जीव-विशेष एव । तद् उक्त श्री-गोपाल-तापिन्याम् यत्रासौ [गो।ता।उ। २.३६] इति । प्रथमे नारदोपास्य-मन्त्रो\ऽपि । यथा—
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।1
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ [भा।पु। १.५.३७] इति ।
अत्रापि श्लोके पितुः श्री-कृष्णात् सर्वतः सर्व-प्रकारेणैव अन्यूनः, न हीन्द्र-भृत्यः प्राकृतः काम एवं व्याख्यातुम् उचितः । तस्मात् तस्मिन् प्रद्युम्ने तद्-इच्छया संप्रविश्य स्थिते भगवति जगद् इवेत्य् एव श्री-नन्दादिष्व् अपि श्री-द्रोणादीनां स्थितिर् व्याख्येया ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स एव साक्षात्, न त्व् अंशेनेत्य् अर्थः । यतः कृष्णस्य साक्षाद् भगवतो वीर्यात् सम्यग् उद्भवो यस्य सः, औरसः पुत्र इत्य् अर्थः । यद् वा, वीर्यं शक्ति-विशेषः । अयं श्री-रुद्र-मन्यु-दग्धस्यापि तथा वासुदेवे लीनस्यापि पुनः प्रादुर्भावे हेतुः । एवं तस्यापि पूर्वतो\ऽत्र माहात्म्य-भरः सूचितः । अत एव सर्वतः सर्वथा अनवमः । तत्त्वतस् तु चतुर्-व्यूहैकतमो\ऽयं भगवान् श्री-प्रद्युम्नः । काम-देवे\ऽस्यैव शक्त्य्-आवेशो लीला-विशेषार्थम् । श्री-भगवतस् तस्य पृथक् प्रादुर्भवतस् तद्वन् निजांशेन काम-देवेन सह सम्पूर्णतयावतरणात् तेन च तस्य दग्धस्यापि देहोत्पत्त्या स एव जात इत्य् उक्तम् । अतः श्री-प्रद्युम्नस्यैव तस्य मुख्यतया तन्-नाम्नैव विशेषतः प्रसिद्धत्वाद् उक्तम्, विशेषेण ख्यात इति सिद्धान्तश् चायं श्री-भागवतामृतोत्तर-खण्डे विवृतो\ऽस्त्य् एव ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं यः कृष्ण-वीर्य-समुद्भवः प्रतिकल्पं श्री-कृष्णांशाविर्भवी प्रद्युम्न इति विख्यातश् चतुर्-व्यूहे प्रसिद्धः, स एव वैदर्भ्यां जातः प्रादुर्भूतः । प्राकृत-कामस्य तु तत्र सायुज्यम् एवेति भावः । तत्र हेतुः—सर्वत इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कृष्ण-वीर्य-समुद्भव इत्य्-आदि । कृष्णस्य वीर्यम् इव वीर्यं यस्य मध्य-पद-लोपी समासः । समुद्भवः सम्यक् प्रादुर्भावो यस्य स तथा, पुनः कर्मधारयः । अत एव पितुर् अनवमः, अन्यथा चिद्-आनन्द-विग्रहस्य वीर्यम् अनुचितम् इति ॥ २-२६ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स एव । काम एव प्रद्युम्न इति विख्यातः लोके प्रथाम् एव प्राप्तः । वस्तुतस् तु सच्-चिद्-आनन्द-विग्रहः प्रद्युम्न एव तृतीयो व्यूहः, न तु कामो नाम केवल-जीव-विशेष एव । यद् उक्तं श्री-गोपाल-तापनी-श्रुतौ—
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुर् ॥ [गो।ता।उ। २.३६] इति ।
प्रथमे नारदोपास्य-मन्त्रो\ऽपि । यथा—
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ [भा।पु। १.५.३७] इति ।
अत्रापि श्लोके पितुः कृष्णात् सर्वतः सर्व-प्रकारेणैव अनवमः अन्यूनः । नहीन्द्र-भृत्यः प्राकृतः काम एवं व्याख्यातुम् उचितः । तस्मात् तस्मिन् प्रद्युम्ने तद्-इच्छया स प्रविश्य स्थितो भगवति जगद् इवेत्य् एवं श्री-नन्दादिष्व् अपि श्री-द्रोणादीनां स्थितिर् व्याख्येया ॥२॥
॥ १०.५५.३ ॥
तं शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम् ।
स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स प्रसिद्धः काम-शत्रुः शम्बरस् तम् आत्मनः शत्रुं विदित्वा हृत्वा [उदन्वति] समुद्रे प्रास्य प्रक्षिप्य गृहम् अगाद् इति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं प्रद्युम्नम् । तोकम् सद्यो-जात-शिशौ, तोको\ऽपत्ये तुच्छे तथा ध्वनौ इति धरणिः । उदन्वति समुद्रे । अत्र श्री-कृष्णस्य लीला-कौतुकं वर्णयति—तम् इत्य्-आदिना यावद्-अध्याय-समाप्ति । काम-रूपी इति मायया धात्र्यादिरूपेणेत्य् अर्थः । अनिर्दशमिति—षष्ठेह्रीत्य् अर्थः । तद्-उक्तं वैष्णवे—
षष्ठे\ऽह्नि जात-मात्रं तु प्रद्युम्नं सूतिका-गृहात् ।
म मैष हन्तेति मुने हृतवान् काल-शम्बरः ॥ [वि।पु। ५.२७.३]
इति विदित्वा दुष्ट-शम्बर-वधेच्छोर् नारद-च्छत्रुं हनिष्यन्तम् । अत्रायम् अभिसन्धिर् हरि-वंशे—
विदितं तच् च कृष्णस्य देव-मायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्ध-दुर्मदः ॥ [ह।वं। २.१०४.४] इति ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्ण-वीर्य-समुद्भवः, कृष्ण-वीर्यम् इव वीर्यं यस्य मध्य-पद-लोपी समासः । कृष्ण-वीर्यः समुद्भवः प्रादुर्भाव यस्य, अत एव पितुर् अनवमः, अन्यथा चिद्-आनन्द-विग्रहस्य वीर्यम् अनुचितम् इति ॥ ३-२६ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तन्-माहात्म्यम् एव दर्शयति—तम् इत्य् -आदिना यावत्-समाप्ति । शं स्मरण-मङ्गलं स्वयम् एव वृणोतीति शम्बरः, अत एव तं प्रद्युम्नं हृत्वा, काम-रूपी इति मायया धात्र्य्-आदि-रूपेणेत्य् अर्थः, हरण-सामर्थ्यम् उक्तम्, अनिर्दशम् अनिर्गत-दश-दिनम्, अत एव लोकम् अतिबालकम्, तथा च श्री-विष्णु-पुराणे—
षष्ठे\ऽह्नि जात-मात्रं तु प्रद्युम्नं सूतिकागृहात् ।
म मैष हन्तेति मुने हृतवान् कालशम्बरः ॥ [वि।पु ५.२७.२] इति ।
विदित्वा इति दुष्ट-शम्बर-वधेच्छोः श्री-नारदात् कस्माच्चिद् आदेशिनो वा, प्रास्य दूरतो\ऽतिगभीरे यत्नतो बलात् क्षिप्त्वा, इत्य्-आदिकं सर्वं श्री-प्रद्युम्न-माहात्म्यार्थं श्री-भगवद्-इच्छयैवेति ज्ञेयम् । अन्यथा कथम् अपि तद् असम्भवः, अत एवोक्तं श्री-हरिवंश—
विदितं तच् च कृष्णस्य देव-मायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्ध-दुर्मदः ॥ [ह।वं। २.१०४.४] इति ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र श्री-कृष्ण-लीला-कौतुकं वर्णयति—तम् इत्य्-आदिना यावत्-समाप्ति । काम-रूपी इति मायया धात्र्य्-आदि-रूपेणेत्य् अर्थः । अनिर्दशम् इति षष्ठे\ऽह्नीत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
षष्ठे\ऽह्नि जात-मात्रं तु प्रद्युम्नं सूतिकागृहात् ।
म मैष हन्तेति मुने हृतवान् कालशम्बरः ॥ [वि।पु ५.२७.२] इति ।
विदित्वा इति दुष्ट-शम्बर-वधेच्छोः श्री-नारदात् कस्माच्चिद् आदेशिनो वा शत्रुं हनिष्यन्तम् । अत्रायम् अभिसन्धिः श्री-हरि-वंशे—
विदितं तच् च कृष्णस्य देव-मायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्ध-दुर्मदः ॥ [ह।वं। २.१०४.४] इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिर्दशम् इति विष्णु-पुराण-दृष्ट्या षष्ठे\ऽह्नि [वि।पु ५.२७.२] इत्य् अर्थः । विदित्वा इति तद्-वधेच्छोः श्री-नारदात् ॥३॥
॥ १०.५५.४ ॥
तं निर्जगार बलवान् मीनः सो\ऽप्य् अपरैः सह ।
वृतो जालेन महता गृहीतो मत्स्य-जीविभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्जगार गिलितवान् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं प्रद्युम्नम् । स येन निर्गरितः । जालेन सिचा वृतः संस्यूतः । मत्स्य-जीविभिर् दाशैः । विचित्र-लीला-चिकीर्षोर् भगवत इच्छयैव गिलितवान्, न तु प्रद्युम्नान् मीनो बलवान् इति ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलवान् इति श्री-भगवद्-इच्छयैव, शक्त्य्-अतिशयोदयाद् इत्य् अर्थः । एवम् अग्रे । महता इति च । स च मीनः, न च मीन-गर्भे\ऽपि स्थित इत्य् अभिप्रायेण अपि-शब्दः, उक्त-समुच्चये वा । किं वा, तादृश-बलवान् अपि अपरैर् मीनैः सहेति तस्य शम्बरोपायनार्थत्वम् उक्तम्, अन्यथैकलत्वे मीनाहारैर् धीवरैस् तैः स एव भक्षितः स्यात् । अत एवोक्तं मत्स्य-जीविभिर् इति ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बलवान् इति । श्री-भगवद्-इच्छयैव तदानीं प्रकाशिताल्प-शक्ति श्री-प्रद्युम्नम् अतिक्रम्यापि शक्त्य्-अतिशयोदयाद् इत्य् अर्थः । एवम् अग्रे। महता इति च स मीनः । अपि-शब्देन तादृशैर् बलवान् अपि ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्जगार गिलितवान् इति । विचित्र-लीला-चिकीर्षोर् भगवत एवेच्छया, न तु प्रद्युम्नाद् अपि मीनो बलवान् इति ॥४॥
॥ १०.५५.५ ॥
तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् ।
सूदा महानसं नीत्वावद्यन् सुधितिनाद्भुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वधितिना शस्त्रिकया अवद्यन् अवाद्यन् खण्डितवन्तः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं मत्स्यम् । कैवर्ता धीवराः कैवर्ते दाश-धीवरौ इति कोशात् । उपायन-भूतं ददुः । सूदा आन्धसिकाः सूदस् तु कथितः सूप-कारे च व्यञ्जनान्तरे इति मेदिनी ।
बहु-शर्करके ग्रामे गेहे पाक-स्थले पुमान् ।
महानस इति प्रोक्ते इति निरुक्तिः ।
कुठारे छरिकायां च स्वधितिः परिकीर्तिता इति कोशान्तरात् । द्रुतं शीघ्रम् । अव-पूर्वात् दो अवखण्डने अता लङ्, अड्-अभावस् त्व् आर्षः । तम् इत्य् अर्थकम् । उपजह्रुर् इत्य् उक्ते\ऽप्य् उपायनम् इति पौनरुक्त्यं तद्-वैशिष्ट्यापेक्षया । अद्भुतत्वं बृहत्वादि । तस्यैवोपायनत्वे हेतुर् अयम् एव । तत्र तन्-निज-विद्या-प्रकाशनेन तन्-नाम्नैव ख्यातायै रत्यै अर्पयामासुः, तस्याः सूदाधिपत्वात् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्रुतम् इति सद्यः शम्बर-भोग-सुखार्थम् । पाठान्तरे बृहत्त्व-बलवत्त्वादिनान्य-मीनतो विलक्षणम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इत्य् अर्धकम् । उपाजह्रुर् इत्य् उक्ते\ऽपि उपायनम् इति पौनरुक्त्यं तद्-वैशिष्ट्यापेक्षया । अद्भूतत्वं बृहत्त्वादिना तस्यैवोपायनत्वे च हेतुर् अयम् एव मायावत्यै तत्र तन्-निज-विद्या-प्रकाशनेन तन्-नाम्नैव ख्यातायै रत्यै अर्पयामासुः, तस्याः सूदाधिपत्यात् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवद्यन् अवाद्यन् खण्डितवन्तः ॥५॥
॥ १०.५५.६ ॥
दृष्ट्वा तद्-उदरे बालं मायावत्यै न्यवेदयन् ।
नारदो\ऽकथयत् सर्वं तस्याः शङ्कित-चेतसः ॥
बालस्य तत्त्वम् उत्पत्तिं मत्स्योदर-निवेशनम् ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्वं "कामो\ऽयं तव भर्ता ते" । उत्पत्तिं श्री-कृष्णाद् रुक्मिण्याम् उत्पन्न इति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मायावत्यै महादेव-प्रसादावाप्तानेक-माया-ज्ञानवत्यै रत्य्-अपर-पर्यायायै । तस्या रत्याः । तत्त्वं याथार्थ्यम् । शङ्कित-चेतसः "बालो\ऽयम् अतिसुन्दरो मत्-पति-तुल्य-रूपः कथं मत्स्य-गर्भे जातः ? अन्य एवोत्पन्नश् चेत् कथम् अत्र न मृतः ? अतो देव-वरो\ऽयं कश्चिन् मद्-भर्तैव वा स्यात्" इत्य्-आद्य् आशङ्का-युक्तं चेतो यस्याः, तस्याः । सर्वम् इत्य् एव विवृणोति—बालस्य इति, मत्स्योदर-निवेशनं च प्रवेश-कारणम् ।
अत्र तस्या भर्तुः कामस्य तृतीय-व्यूहेनाभेदोक्तिः, किरणस्य सूर्येणेव । सा च मायावत्याः शोकापनोदय मेलनाय च । सापि निज पत्य्-अभेदेन श्री-प्रद्युम्नम् उपासितवत्य् अस्ति गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य्-आदि-रीत्या । न च तस्या व्रत-भङ्गः, अयं च स्पर्श-मणि-न्यायेन ताम् आत्म-योग्यां चकार स्वीचकार च । श्रीमद्-अनिरुद्ध-मातैव तु तस्य साक्षाच्-छक्तिर् इति ज्ञेयम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मायावत्यै मायया शम्बर-मोहनाद् विविधाद्भुत-मायावित्वाद् वा तन्-नाम्नैव ख्यातायै रत्यै न्यवेदयन् अर्पयामासुः तस्याः सूदाधिपत्यात् । शङ्कितम्—"बालो\ऽयम् अतिसुन्दरो मत्-पति-तुल्यरूपः कथं मत्स्य-गर्भे जातः ? अन्यत्र वोत्पन्नश् चेत् कथम् अत्र न मृतः ? अतो देव-वरो\ऽयं कश्चिन् मद्-भर्तैव वा स्यात्" इत्य्-आद्य्-आशङ्का-युक्तं चेतो यस्यास् तस्याः । सर्वम् इत्य् एव विवृणोति—बालस्य इति । मत्स्योदरे निवेशनं च प्रवेश-कारणम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शङ्कित-चेतसः—"बालो\ऽयम् अतिसुन्दरः मत्-पति-तुल्य-रूपः कथं मत्स्य-गर्भे जातः ? अन्यत्र वोत्पन्नश् चेत्, कथम् अत्र न मृतः ? अतो देव-वरो\ऽयं कश्चिन् मद्-भर्तैव वा स्यात्" इत्य् आशङ्का-युक्तं चेतो यस्याः, तस्याः । सर्वम् इत्य् एव विवृणोति—बालस्य इति । मत्स्योदरे निवेशनं प्रवेश-कारणम् । अन्यत् तैः ।
अत्र तस्या भर्तुः कामस्य तृतीय-व्यूहेनाभेदोक्तिः, किरणस्य सूर्येणेव । सा च मायावत्याः शोकापनुत्तये मेलनाय च, अतः सापि निज-पत्य्-अभेदेन श्री-प्रद्युम्नम् उपासितवत्य् अस्ति, गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य्-आदि-रीत्या न च तस्या व्रत-भङ्गः । अयं च स्पर्शमणि-न्यायेन ताम् आत्म-योग्यां चकार स्वीचकार च श्रीमद्-अनिरुद्ध-मातैव तु तस्य साक्षाच्-छक्तिर् इति ज्ञेयम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वं "कामो\ऽयं तव भर्ता" इति ॥६॥
॥ १०.५५.७-८ ॥
सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी ।
पत्युर् निर्दग्ध-देहस्य देहोत्पत्तिं प्रतीक्षती ॥
निरूपिता शम्बरेण सा सूदौदन-साधने ।
काम-देवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यशस्विनी पतिव्रता भर्तृ-देह-प्राप्तिं प्रतीक्षमाणा ॥७॥ तं शिशुं काम-देवं बुद्ध्वा विज्ञाय ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा च इति युग्मकम् । अत्रेयम् आख्यायिका मात्स्ये—शिवेन भस्मीकृते कामे रतिस् तद्-देहोत्पादनाय चिरं तम् उपासितवती । शंबरो\ऽपि तम् उपासीन आसीत् । तत्र दृष्टायां तस्यां शम्बरेण मुहुः शिवात् सैव वव्रे । ततश् चोपासना-वशेन तेन रतिर् ऊचे—"याह्य् अस्य सदनं, तत्रैव तवेष्ट-सिद्धिर् भविष्यति, मद्-दत्त-महा-विद्या-प्रभावेण तव व्रत-भङ्गो\ऽपि न भविष्यति" इति । तथा विष्णु-पुराणे रुक्मिणीं प्रति नारदः—
इयं मायावती भार्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ।
मन्मथे तु गते नाशं तद्-उद्भव-परायणा ।
शंबरं मोहयामास माया-रूपेण मोहिनी ।
व्यवायाद्य्-उपभोगेषु रूपं माया-मयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ [वि।पु ५.२७.२६-२८] इति ।
इत्थं हरि-वंशे\ऽपि ॥७॥
सूपौदनस्य साधने संस्कारे । आधिपत्ये वा संस्कारे ह्य् आधिपत्ये\ऽपि साधनं परिकीर्तितम्, रूपो व्यञ्जन-सूदयोः इति मेदिनी । तदा नारद-कथनावसराद् आरभ्य । सूपौदन-साधने तद्-आधिपत्ये । तद्-उक्तं वैष्णवे—कारयामास सूदा-नामाधिपत्यम् अनिन्दिता [वि।पु ५.२७.६] इति । स्नेहं प्रेम-विलासम् । स्नेहाचरण-प्रकारश् च हरि-वंशे धात्र्यास् तं सा समर्पयत् [ह।वं। २.१०४.१३] इति । शीघ्रम् एव व्यवर्धयत् [ह।वं। २.१०४.१३] इति । एवं तस्या एव मायया शंबरो\ऽपि तं बालं न परिचितवान् इति ज्ञेयम् । "तदा सदा" इति वा पाठः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्व्-अर्थे च-शब्दः । शम्बरतो भेदात्, वै प्रसिद्धौ । यशस्विनी इति शम्बर-पत्नीत्वादिकं निरस्तम् । निःशेषेण भस्मसात्तया दग्ध-देहस्य अपि देहस्योत्पत्तिम्, आत्मनो दाहाभावात्, काम-देवत्वेन सदा सर्वेषां हृद्य् अनङ्ग-रूपेण वर्तमानत्वाच् च । प्रतीक्षमाणा शम्बर-गृहे\ऽवसद् इति शेषः । तच् च श्री-नारदस्य श्री-रुद्रस्य वा प्रसादात्, देवतात्वेन स्व-ज्ञान-प्रभावाद् एव वेति ज्ञेयम् । यशस्विनीत्वाद् एव केवल-सूपस्य ओदनस्य च भक्त-साधने पाचन एव निरूपिता नियुक्ता, तयोः सदा परमोत्तमतयापेक्ष्यत्वात् । किं वा, उपलक्षणम् एतत्, सर्व-पाकाधिकार एव निरूपिता । तथा च श्री-विष्णु-पुराणे—कारयामास सूदानाम् आधिपत्यम् अनिन्दिता [वि।पु। ५.२७.६] इति श्री-पराशरादि-मते च शम्बरस्य भार्यत्वेन स्थितापि तत्-सङ्ग-रहितैवासीत् । तथा च श्री-विष्णु-पुराणे श्री-रुक्मिणी-देवीं प्रति श्री-नारदोक्तौ—
इयं मायावती भार्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ।
मन्मथे तु गते नाशं तद्-उद्भव-परायणा ।
शंबरं मोहयामास माया-रूपेण मोहिनी ।
व्यवायाद्य्-उपभोगेषु रूपं माया-मयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ [वि।पु। ५.२७.२६-२८] इति ।
ईदृशं श्री-हरि-वंशे\ऽपि । स्नेहं प्रेम-विलासम्, स्नेहाचरण-प्रकारश् चोक्तः श्री-हरि-वंशे—
॥।धात्र्यास् तं सा समर्पयत् ।
रसायन-प्रयोगैश् च शीघ्रम् एव व्यवर्धयत् ॥ [ह।वं। २.१०४.१३] इति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सा च इति युग्मकम् । अत्रेयम् आख्यायिका मात्स्ये—श्री-शिवेन भस्मीकृते कामे, रतिस् तद्-देहोत्पादनाय चिरं तम् उपासितवती । शम्बरश् च वरान्तराय तम् उपासीन आसीत् । तत्र दुष्टायां तस्यां तेन श्री-शिवान् मुहुः सैव वव्रे । ततश् चोपासना-वशेन तेन रतिर् ऊचे—"याह्य् अस्य सङ्गे तत्रैव तव सिद्धिर् भविष्यति" इति। यशस्विनी इति पुनस् तथा निज-पति-प्राप्ति-शम्बर-वञ्चनादिना । तथा च विष्णु-पुराणे श्री-रुक्मिणी-देवीं प्रति श्री-नारदोक्तौ—
इयं मायावती भार्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ।
मन्मथे तु गते नाशं तद्-उद्भव-परायणा ।
शंबरं मोहयामास माया-रूपेण मोहिनी ।
व्यवायाद्य्-उपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ [वि।पु ५.२७.२६-२८]
ईदृशं हरि-वंशे\ऽपि ॥७॥
सूपौदन-साधने तदाधिपत्ये । तथा च श्री-विष्णु-पुराणे कारयामास सूदानामाधिपत्यमनिन्दिते\ऽति । स्नेहं प्रेम-विलासं स्नेहाचरण-प्रकारश् चोक्तः श्री-हरि-वंशे—धात्र्यास् तं सा समर्पयद् इति रसायनोपयोगैश् च शीघ्रम् एव व्यवर्धयत् इति एवं तस्या एव मायया शम्बरो\ऽपि तं बालं न परिचितवान् इति ज्ञेयं । तदा सदेति वा पाठः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहोपपत्तिम् इति । मात्स्ये कथा—
भस्मी-भूते देहे सति रतिस् तद्-देह-प्राप्त्य्-अर्थं शिवम् आराधयामास । शम्बरश् चागतौ वरान्तराय शिवस् तुष्टः प्रथमं "वरं वृणु["]{दिर्=“र्त्ल्”} इति शम्बरं प्रत्य् आह स्म । स च रतिं दृष्ट्वा कामार्तस् ताम् एव वव्रे । ततः शिवो रुदतीं रतिं साश्वासम् आह—"याह्य् अस्य सङ्गे तत्रैव ते वाञ्छित-सिद्धिर् भाविनी" इति । ततो रतिर् माययैव शम्बरं मोहयित्वा स्पर्श-रहितैव तद्-गृहे मायावत्य्-अभिधाना तस्थौ ॥ ७-९ ॥
॥ १०.५५.९ ॥
नातिदीर्घेण कालेन स कार्ष्णी रूढ-यौवनः ।
जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विभ्रमं सम्मोहम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स प्रद्युम्नः । कृष्णस्यापत्यं कार्ष्णिः । रूढं प्रादुर्भूतं यौवनं यस्य, स तथा । विभ्रमं मनो\ऽधिकारम्, देवाद्य्-अन्यतमो\ऽयम् इति विशिष्ट-भ्रमं वा । नातिदीर्घेण इति—पौगण्ड एवेत्य् अर्थः । रूढम् उद्भिन्नं यौवनं यस्य सः, यतः कार्ष्णिः श्री-कृष्णस्यैव पुत्रः । तस्यापि तथैव तारुण्याद् इति भावः । च अपि वीक्ष्यमाणानाम् अपि किम् पुनः संभाषणादि कुर्वतीनाम् इत्य् अर्थः । विभ्रमं भाव-विशेषम् । किं वा—विशिष्टं भ्रमम् उन्मादम् इत्य् अर्थः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नातिदीर्घण बाल्य एवेत्य् अर्थः । रूढमुद्भिन्नं यौवनं यस्य सः, यतः कार्ष्णिः श्री-कृष्णस्य पुत्रः, तस्यापि बाल्य एव तारुण्यात्, च अपि, वीक्षमाणानाम् अपि, किं पुनः सम्भाषणादि कुर्वतीनाम् इत्य् अर्थः । विभ्रमं भावविशेषम् । किं वा, विशिष्टभ्रममुन्मादम् इत्य् अर्थः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नातिदीर्घेणेति । पौगण्ड एवेत्य् अर्थः । रूढमुद्भिन्नं यौवनं यस्य सः यतः कार्ष्णिः श्री-कृष्णस्य पुत्रः तस्यापि तथैव तारुण्याद् इति भावः । च अपि वीक्षमाणानाम् अपि किं पुनः सम्भाषणादिकुर्वती नाम् इत्य् अर्थः । विभ्रमं भावविशेषं किं वा विशिष्टभ्रममुन्मादम् इत्य् अर्थः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१० ॥
सा तं पतिं पद्म-दलायतेक्षणं
प्रलम्ब-बाहुं नर-लोक-सुन्दरम् ।
स-व्रीड-हासोत्तभित-भ्रुवेक्षती
प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे राजन् । सौरतैर् भावैर् उपतस्थे\ऽभजत् ॥ १०-११ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा मायावती । तं प्रद्युम्नम् । सौरतैः सुरतोद्दीपकैर् आत्म-सर्वस्वैः सेवयामास । कानि तत्-सर्वस्वानि ? इत्य् अत आह—स-व्रीड- इति । पूर्वतो विशिष्टताभिप्रायेण तं पद-त्रयेण वर्णयति । तत्र पद्म- इति सर्व-सौन्दर्योपलक्षणम् । प्रलम्ब- इति महाबलिष्ठत्व-सूचकम् । इत्य् उभयथा नर-लोके भू-लोके, जीव-लोके वा सुन्दरम्, अत एव प्रीत्या उपतस्थे । कैः ? स-व्रीड-हासेन उत्तभिता नर्तिता या भ्रूः, तयोपलक्षितैः सौरतैर् भावैः । अत्रेदं तत्त्वम्—"अद्य वा श्वो वा सर्वं तत्त्वम् अस्मै ज्ञापयित्वैव सौरतान् भावान् प्रकाशयिष्यामि" इति विचारवत्या एव तस्या दैवाद् रहसि विज्ञापनात् पूर्वम् एव काम-वैवश्यात् ते भावाः स्वयम् एवोद्भूता इति ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पतिं पति-भावेन ईक्षमाणा, पूर्वतो विशिष्टताभिप्रायेण तं विशिनष्टि पद-त्रयेण । तत्र पद्म- इति सर्व-सौन्दर्योपलक्षणार्थम्, प्रलम्ब- इति च महा-बलिष्ठत्वं सूचितम् । इत्य् उभयथा नर-लोके मर्त्ये जीव-लोके वा सुन्दरम्, अत एव प्रीत्या हर्षेण प्रेम्णा वा उपतस्थे । कैः ? स-व्रीडेन हासेन उत्तम्भिता नर्तिता या भ्रूः, तया सह सौरतैः, यतो रतिः कामदेव-पत्नी परम-विदग्धा साक्षाद् रति-रूपा । अन्यत् तैर् व्याख्यितम् । यद् वा, रतौ काम-क्रीडायां रङ्गो रागो येभ्यः, तैः सौरतैः सुरतानुगुण-व्यापारैः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वतो विशिष्टताभिप्रायेण तं वर्णयति पद-त्रयेण । तत्र पद्म- इति सर्व-सौन्दर्योपलक्षणं, प्रलम्ब- इति महा-बलिष्ठत्व-सूचकम् इत्य् उभयथा नर-लोके भूर्-लोके जीव-लोके वा सुन्दरम् । अत एव प्रीत्या उपतस्थे । कैः ? स-व्रीडेन हासेन उत्तम्भिता नर्तिता या भ्रूः, तयोपलक्षितैः सौरतैः । अत्र स-व्रीडेत्य् अनेन हासस्य मन्दत्वम् अप्य् उक्तम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्तम्भिता नर्तिता या भ्रूः, तया उपलक्षितैः सौरतैर् भावैः । अत्रेदं तत्त्वं—"अद्य वा श्वो वा सर्वं तत्त्वम् अस्मै ज्ञापयित्वैव सौरतान् प्रभावान् प्रकाशयिष्यामि" इति विचारितवत्या एव तस्या दैवाद् रहसि विज्ञापनात् पूर्वम् एव काम-वैवश्यात् ते भावाः स्वयम् एवोद्भूता इति ॥१०॥
॥ १०.५५.११ ॥
ताम् आह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा ।
मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां मायावतीम् । यतो मातृ-भावम् अतिक्रम्य कामिनीव पत्नीव त्वं वर्तसे\ऽतस् ते मतिर् अन्यथा । मा नेत्य् अर्थः श्रेयान्। उत्तानार्थ्-अस्वीकारे तु भगवान् इति पदम् अनर्थकं स्यात्, त्रिकालज्ञेष्व् एव भगवत्-प्रयोग-दर्शनाद् इति भावः । भगवान् सर्वज्ञानादि-सम्पन्नो\ऽपि तद्-विपरीतवद् आह ऊचे । यतः कार्ष्णिः कृष्ण-पुत्रत्वात् तद्-अभिरुचित-नर-लीला इत्य् अर्थः । मातर् इति मातृत्व-बुद्धेः । तथा च हरि-वंशे—
धात्र्याः सकाशात् स च तां शृण्वन् रूक्मिणी-नन्दनः ।
मायावतीम् अविज्ञानान् मेने ताम् एव मातरम् ॥ [ह।वं। २.१०४.१४] इति ।
एवं धात्र्या एव तादृशं मतं, न तु तस्या इत्य् एकान्त एव धात्र्या जात-बुद्धये तस्मै तत् कथितम् । ततो बाल्याभासं विना पूर्वं तु मातर् इति सम्बोधनं तेन नाचरितं, ततः संप्रति क्रोधाद् एवाचरितम् इति ज्ञेयम् । वास्तवार्थस् तु—अतो भावात् ते\ऽन्यथा मतिर् मा भवत्व् इति शेषः । यतस् त्वं मातृ-भावम् अतिक्रम्यैव वर्तसे यथा यथावद् एव कामिनी मत्-कान्तैवेति ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् परमाभिज्ञ इति, तस्या भाव-विशेषं लक्षयन्न् इत्य् अर्थः । कार्ष्णिर् इति तादृश-भाववत्याम् अपि तस्यां कामो न जातं, पितृवत् सद्-धर्म-परत्वाद् इति भावः । यद् वा, भगवान् तस्यास् तादृग्-भावे\ऽपि धैर्य-युक्तः, यतः कार्ष्णिः । मातर् इति स्नेह-पालनादिना तस्याम् एव तस्य मातृत्व-बुद्धेः । तथा च श्री-हरि-वंशे—
धात्र्याः सकाशात् स च तां शृण्वन् रुक्मिणी-नन्दनः ।
मायावतीम् अविज्ञानान् मेने स्वाम् एव मातरम् ॥ [ह।वं। २.१०४.१४] इति ।
अन्यथा अन्य-प्रकाश दृश्यते, लज्जयादौ ताम् अनभिव्यज्य पश्चाद् विवृणोति—मात्र् इति । कामिनी पत्नी, कामेन भजमाना स्त्री वा ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्व-ज्ञानादि-सम्पन्नो\ऽपि तद्-विपरीतवद् आह ऊचे इत्य् अर्थः । यतः कार्ष्णिः कृष्ण-पुत्रत्वात् तद्वद् एवाभिरुचित-नर-लील इत्य् अर्थः । मातर् इति मातृत्व-बुद्धेः । तथा च हरि-वंशे—
धात्र्याः सकाशात् स च तां शृण्वन् रुक्मिणि-नन्दनः ।
मायावतीम् अविज्ञानान् मेने स्वाम् एव मातरम् ॥ [ह।वं। २.१०४.१४] इति ।
एवं धात्र्या एव तादृशं मतं, न तु तस्या इत्य् एकान्त एव धात्र्या जात-बुद्धये तस्मै तत्-कथितं ततो बाल्याभ्यासं विना पूर्वं तु मातर् इति सम्बोधनं तेन नाचरितं । ततः सम्प्रति क्रोधाद् एवाचरितम् इति ज्ञेयम् । अन्यथा अन्य-प्रकारेण वर्तसे लज्जयादौ तां मतिम् अनभिव्यज्य पश्चाद् विवृणोति—मात्र् इति । वास्तवार्थस् तु अतो भावात् ते तवान्यथा मतिर् मा भवत्व् इति शेषः । यतः कामिनी मत्-कान्तैव त्वं मातृ-भावम् अतिक्रम्य यद् वर्तसे, तद् यथावद् एवेति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् इति सार्वज्ञ्यादि-गुण-युक्तो\ऽपि लीला-निधेः कृष्णस्यैवेच्छया सार्वज्ञ्याद्य्-आवरणात् तथोवाच इत्य् अर्थः । वास्तवार्थस् तु अतो भावात् ते**\ऽन्यथा मतिर् मा** भवत्व् इति शेषः, यतस् त्वं मातृ-भावम् अतिक्रम्यैव वर्तसे । यथा यथावत् । कामिनी मत्-कान्तैवेति ॥११॥
॥ १०.५५.१२ ॥
रतिर् उवाच—
भवान् नारायण-सुतः शम्बरेण हृतो गृहात् ।
अहं ते\ऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अधिकृता पत्नी इत्य् अत्र हेतुः रतिर् अहं भवान् काम इति ॥ १२-१३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवाह—भवान् इति । अधिकृता पूर्व-देहे स्वीकृता वधूत्तमा इत्य् अर्थः । तत् स्फुटयति—रतिर् अहम् इति । [तोषणी]॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नारायण- इति श्री-कृष्णस्य साक्षाद् भगवत्त्वं बोधयति । गृहात् सूतिकागारात् । अधिकृता कामाधिकार-प्राप्ता, इत्य् आत्मनस् तन्-नित्य-पत्नीत्वं द्योतितम्, अत एव सम्बोधयति—प्रभो ! हे स्वामिन् ! इति ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नारायण- इति तस्य सर्वाश्रयत्वं व्यनक्ति । गृहात् सूतिकागारात् । अधिकृता त्वद्-अधिकार-तुल्या इत्य् आत्मनस् तन्-नित्य-पत्नीत्वं द्योतितम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं पत्नी तं कामदेवम् एव मत्वोक्तिस् तेन प्रद्युम्नेनापि स्पर्शमणि-न्यायेनैव स्व-स्पर्शेन सा स्व-कान्ता कृता । वस्तुतस् तु अनिरुद्ध-मातेव तस्य स्व-शक्तिर् इति श्री-वैष्णव-तोषणी [१०.५५.६] ॥१२-१८॥
॥ १०.५५.१३ ॥
एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरो\ऽसुरः ।
मत्स्यो\ऽग्रसीत् तद्-उदराद् इतः प्राप्तो भवान् प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष यद्-गृहे\ऽहम् अधुना तिष्ठामीत्य् एष पदार्थः । तद्-उदरान् मत्स्योदरात् । कथं हृतः? इत्य् अपेक्षायां तं प्रकारं कथयन्ती कोपं जनयति—एष इति ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं हृतः ? इत्य् अपेक्षायां तत्-प्रकारं कथयन्ती कोपं जनयति—एष इति । ननु कुतो\ऽक्षिपत् ? तत्राह—असुरः स्वभावतो देव-शत्रुत्वाद् इत्य् अर्थः । तत्र च शम्बरो महामायित्वेन दैत्येषु श्रेष्ठः। किं वा, काम-शत्रुतया प्रसिद्ध इत्य् अर्थः । इह महानसे अन्तः-पुरे वा, प्रभो इति पुनर् अपि सम्बोधनं स्वामित्व-दार्ढ्यार्थम् । किं वा, प्रार्थ्य-शम्बर-वध-सामर्थ्यम् उद्भावयति ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं हृतः ? इत्य् अपेक्षायां तत्-प्रकारं कथयन्ती कोपं जनयति—एष इति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१४ ॥
तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः ।
माया-शत-विदं तं च मायाभिर् मोहनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्जयत्वे हेतुः—माया-शत-विदम् इति । कथं तर्हि ह्न्तब्यस्तत्राह—मायाभिर् इति ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं शंबरम् । इमं साक्षाद् अत्रैव वर्तमानम् । दुर्धर्षं कृच्छ्रेणैव व्यग्रयितुं शक्यम्, अतः सुतरां दुर्जयम् । हननं च योग्यम् एव शत्रुत्वाद् इत्य् आह—आत्मनः स्वस्य शत्रुं क्लेष्टारम् । आदिना शोषणादय आग्नेयादयो वा ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इमं साक्षाद् अत्रैव वर्तमानं दुर्धर्षम् अभिभवितुम् अशक्यम्, यतो दुर्जयम्, हननं च योग्यम् एवेत्य् आह—आत्मनः शत्रुम् इति । आदि-शब्दात् शोषणादय आग्नेयादयो वा ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इमं साक्षाद् अत्रैव वर्तमानं दुर्धर्षं कृच्छ्रेणैव व्यग्रयितुं शक्यम् । अतः सुतरां दुर्जयं हननं च योग्यम् एवेत्य् आह । आत्मनः शत्रुम् इति । आदि-शब्दाच् छोषणादयः आग्नेयादयो वा ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१५ ॥
परिशोचति ते माता कुररीव गत-प्रजा2 ।
पुत्र-स्नेहाकुला दीना विवत्सा गौर् इवातुरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न चात्र विलम्बः कार्य इत्य् आह—परिशोचति रोदितीत्य् अर्थः ॥ १५-१८ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्क्रोश-कुररौ समौ इत्य् अमरः । इत्य् अर्थ इति—पर्य्-उपसर्ग-वशाच् छोचते रोदनार्थत्वं परस्मैपदित्वं चेति भावः । पुत्र-स्नेहोत्थो मातुः प्रसिद्धो यश् चित्त-द्रव-विशेषः, तेनाकुला—"किं कर्तव्यं कथं मे पुत्र-दर्शनं स्यात् ?" इत्य् एवं मूढा, अत एव आतुरा व्याधितैव शोक-रोग-ग्रस्ता तत एव दीना परिक्षीणा । तत एव परितः सर्वत्रैव शोचति स-रोदनं विलपतीत्य् अर्थः । तत्र हताशत्वांशे दृष्टान्तः—गत-प्रजा कुररी इव इति । कुररी पक्षि-विशेष-भार्या । धृताशत्वांशे गौरिवेति । पूर्वा हि स्व-बालक-नाशे पूर्ववत् तद्-आहारं नाहरति किन्तु रोदित्य् एव, उत्तरा तु मृतम् अपि स्तनं पाययितुम् उद्यच्छतीति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गता नष्टा त्रपा लोक-लज्जा यस्याः सा, पाठान्तरे\ऽपगत-पुत्रा । ननु तादृशे भर्तरि विराजमाने तादृश-शोचनम् अयुक्तम्, तत्राह—पुत्र- इति । अत एव दीना त्यक्त-भोग-सुखा, आतुरा च विचारादि-रहिता । तत्र दृष्टान्तः—नष्ट**-वत्सा गौर् इव** इति । कुररी इव इति च परिशोचने । अन्यत् तैर् व्याख्यातम्। यद् वा, परितः सदा सर्वत्र महत्या करुण-स्वरेण शोचति विलपति, न केवलं परिशोचति परम-दुरवस्थां च प्राप्तेत्य् आह—पुत्र- इति । आतुरा रोदन-परवशाभूद् इत्य् एवं वाक्य-द्वये दृष्टान्त-द्वयम् इत्य् अत्यन्तम् उत्तेजितः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुत्र-स्नेहाख्यो मातुः प्रसिद्धो यश् चित्त-द्रव-विशेषः, तेन आकुला—किं कर्तव्यम् इति मूढा तत एवातुरा व्याधितेव । तत एव दीना अतिदुःखिता, तत एव परितः सर्वत्रैव शोचति स-रोदनं विलपतीत्य् अर्थः । तत्र हताशत्वांशे दृष्टान्तः—गत-प्रजा कुररीव इति । धृताशत्वांशे गौर् इव इति । पूर्वा हि स्व-बालक-नाशे पूर्ववत् तद्-आहारं नाहरति, किन्तु रोदित्य् एव । []{दिर्=“र्त्ल्”}उत्तरा तु मृतं गतम् अपि स्तनं पाययितुम् उद्यच्छतीति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१६ ॥
प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।
मायावती महामायां सर्व-माया-विनाशिनीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-विधया । महा-मायाम् अतिप्रबलां विद्याम्, तद्-अर्थम् एव तत्-पार्श्वे रुद्रेण न्यस्ता, न तु ततो विद्या-स्वीकारेण तत्र गुरुत्वं संभावनीयं निज-न्यासादाने\ऽपि तत्-स्वीकारे\ऽतिप्रसङ्गात् । प्रकर्षेण सोत्साहोत्तेजनादिना भाषित्वा । तस्यास् तद्-दित्सायां हेतुः—महात्मने, अल्प-वयस्त्वे\ऽपि प्रकाशित-बल-बुद्धित्वेन तद्-योग्यायेत्य् अर्थः । यद् वा, गंभीराय प्रकाशित-निज-प्रभावाय । विनाशिनीम् इति णिन्य्-अन्तः पाठः, क्वचिल् ल्युड्-अन्तो\ऽपि ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम्** ईदृशं प्रकर्षेण स्वभावोत्तेजनादिना भाषित्वा, महात्मने महा-बुद्धय इति तद्-अविद्या-योग्यतोक्ता । मायावतीति शम्बरतो\ऽप्य् अधिक-मायावित्वाभिप्रायेण, अत एव महा-मायाख्याम् । अत एव सर्वासां शम्बरादि-ज्ञातानां मायानां विनाशन-शीलाम् इति । पाठान्तरे\ऽपि स एवार्थः । यद् वा, महात्मने\ऽपरिच्छिन्न-शक्तये, माया मोहस् तद्वती, सर्व-विद्यावते\ऽपि केवलं प्रेम-मोहेन ददाव् इत्य् अर्थः । अन्यत् समानम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण उत्साहोत्तेजनादिना भाषित्वा तस्यास् तद्-दित्सायां हेतुः । महात्मने अल्प-वयस्त्वे\ऽपि प्रकाशित-बल-बुद्धित्वेन तद्-योग्यायेत्य् अर्थः । यद् वा, गम्भीराय अप्रकाशित निज-प्रभावायेत्य् अर्थः । विनाशिनीम् इति णिज्-अन्तः पाठः, क्वचिल् ल्युङ्-अन्तो\ऽपि ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१७ ॥
स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् ।
अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च ज्ञात-विद्यः प्रद्युम्नः । तं शंबरम् । आक्षेपैर् भर्त्सना-वाक्यैः । आक्षेपो भर्त्सनाकृष्टि-काव्यालङ्कृतिषु स्मृतः इति मेदिनी । क्षिपंस् तिरस्कुर्वन् । सम्यग् उच्चत्वादिना आह्वयत् । आक्षेपैर् निन्दा-वाक्यैः । सम्यक् तन्-मरण-पर्यन्ततया जनयन् जनयितुम् ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च अपि, सो\ऽपि, अभिमुखम् एत्य सम्यग् उच्च-तीक्ष्ण-स्वरादिना आह्वयत् । अविषह्यैः परमासह्यैर् इत्य् अर्थः, क्षिपन् दुर्वाक्यैर् गालिं ददत् । किम्-अर्थम् ? कलिं कलहम् । सम्यङ् मरण-पर्यवसानतया जनयन् जनयितुम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् उच्चत्वादिना आह्वयत् आक्षेपैर् निन्दा-वाक्यैः क्षिपन् तिरस्कुर्वन् । सम्यक् तन्-मरण-पर्यन्ततया जनयन् जनयितुम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१८ ॥
सो\ऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः ।
निश्चक्राम गदा-पाणिर् अमर्षात् ताम्र-लोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शंबरः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पदेन हतः प्रहृत उरग इव, अमर्षात् क्रोधात् ताम्रे संरक्ते लोचने यस्य सः । यद् वा, पदा हतो\ऽहिर् यथा क्रोधाद् उन्नमित-फणो रक्ताक्षो बिलान् निष्क्रामति, तथा गृहान् निश्चक्रामेत्य् अर्थः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सो\ऽधि इति स्पष्टं । सो\ऽभीति पाठः क्वचित् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.१९ ॥
गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने ।
प्रक्षिप्य व्यनदन् नादं वज्र-निष्पेष-निष्ठुरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वज्रस्य निष्पेष-निर्घाते यथा निष्ठुरस् तीव्रो नादो भवति, तथा-भूतं नादं व्यनदत् सामान्य-विशेषतया व्याप्य व्यापकत्व-भावेन पाकं पचतीतिवत् अतिनिष्ठुरं नादम् अकरोद् इत्य् अर्थः ॥१९-२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्फूर्जथुर् वज्र-निष्पेषः इति हलायुधः। इत्य् अर्थ इति—सामान्यं पाको बहु-व्यापकत्वात्, विशेष ओदनम् अल्प-व्यापकत्वात् । तत्र यथौदनस्य व्याप्यत्वं पाकस्य व्यापकत्वम्, एवम् अत्राप्य् अतिनिष्ठुरस्य व्याप्यत्वं, नादस्य व्यापकत्वम् इति भावः । वज्र-निष्पेषस्य नादम् इव निष्ठुरं वज्र-निष्पेष-निष्ठुरम् । मध्यम-पद-लोपी समासः । व्यापकत्वं क्रियाया व्याप्यत्वं तु कर्मणः । अकरोद् इति—सर्वेषां धातूनाम् अन्तर्-भूत-कृञ्-अर्थत्वात् "उक्तार्थानाम् अप्रयोगः" इति न्यायेन कृञ्-अर्थ-मात्र-पर्यवसानाच् च ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आविध्य भ्रामयित्वा । प्रकर्षेण बलादिना क्षिप्त्वा, महान् आत्मा धृतिर् यस्य तस्मा इति निर्भयत्वादिकं सूचितम् । विशेषण आनदत् । वि-शब्दार्थम् एव व्यञ्जयति—वज्र- इति । अन्यत् तैर् व्याख्यातम् । यद् वा, वज्रस्य निष्पेषाद् अपि निष्ठुरम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आविध्य भ्रामयित्वा । महान् आत्मा धृतिर् यस्य, तस्मै । विशेषेण नदनम् एव व्यञ्जयति—वज्र- इति अन्यत् तैः । तत्र वज्र-निष्पेष-निष्ठुरम् इत मध्य-पद-लोपी समासः । वज्र-निष्पेषस्य नादम् इव निष्ठुरम् इति तथा व्यापकत्वं क्रियाया व्याप्यत्वं तु कर्मणः तथा अकरोद् इति सर्वेषां धातूनाम् अन्तर्-भूत-कृञ्-अर्थत्वात् उक्तार्थानाम् अप्रयोग इति न्यायेन कृञ्-अर्थ-मात्र-पर्यवसानाच् चेति ज्ञेयं निष्पेष-शब्देन कथञ्चिन् निर्घोषो वा वाच्यते ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्पेषो निर्घातः । वचनम् अवोचद् इतिवन् नादम् अनदद् इति सिद्धम् ॥१९-२०॥
॥ १०.५५.२० ॥
ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।
अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदां नृप3 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां गदाम् । अपास्य निवर्त्य । अपास्य प्रत्यक् क्षिप्त्वा । नृप इति यथा त्वं नृ-पालनार्थं दुष्टान् गदा-पातैर् हंसि, तथायम् अपि । तस्माद् दुष्ट-दैत्यान् लोक-रक्षार्थम् एव वस्तुतस् तस्मै गदां प्राहिणोद् इति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्व-शक्तिमान् । अपास्य पश्चात् क्षिप्त्वा ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपास्य प्रत्यक् क्षिप्त्वा । अत्र नदन्न् इत्य् अत्र नृप- इति क्वचित् पाठः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.२१ ॥
स च मायां समाश्रित्य दैतेयीं मय-दर्शिताम् ।
मुमुचे\ऽश्म-मयं4 वर्षं कार्ष्णौ वैहायसो\ऽसुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैहायस आकाशे स्थितः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च शंबरः । दैतेयीं दैत्य-कुल-देवताम् इव वर्तमानाम् । मायां परोक्षत्वादिम् आश्रित्य वैहायसः सन्न् एव प्रद्युम्न-गदाम् अवञ्चयद् इति सूचितम् । अश्म-मयं शिला-प्रचुरम् । तद् उक्तं हरि-वंशे—भस्मीभूते वृक्ष-वर्गे शिला-सङ्घान् अवर्षयत् [ह।वं। २.१०६.१४] इति ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्व्-अर्थे च-शब्दः । श्री-प्रद्युम्न-प्रहित-गदा-वञ्चनं सूचयति—मयेन दर्शितां प्रकटिताम् इति माहात्म्यं तस्याः सूचितम्, सम्यक् परोक्षत्वादिना आश्रित्य, अत एव वैहायसः सन् अश्म-मयं वर्षं वृष्टिवद् असङ्ख्यं शिला-जातं मुमुचे\ऽक्षिपत् । तथा च श्री-हरि-वंशे—भस्मीभूते वृक्ष-वर्षे शिला-सङ्घान् अवर्षयत् [ह।वं। २.१०६.१४] इति । अतः पाठान्तरम् असङ्गतम् इव, शिला-वर्षस्यैव मायिकत्वात् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्व्-अर्थे च-शब्दः मयेन दर्शितां प्रवर्त्तितां सम्यक् परोक्षत्वादिना आश्रित्य, अत एव वैहायसः सन् एवं श्री-प्रद्युम्न-गदा-वञ्चनं सूचितम् । अश्ममयं शिला-प्रचुरम् । तथा च श्री-हरि-वंशे— भस्मीभूते वृक्ष-वर्षे शिला-सङ्घान् अवर्षयत् [ह।वं। २.१०६.१४] इति । अतो\ऽस्त्र-मयम् इति पाठो\ऽसम्मतः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैहायसः आकाश-चारी ॥२१॥
॥ १०.५५.२२-२३ ॥
बाध्यमानो\ऽस्त्र5-वर्षेण रौक्मिणेयो महारथः ।
सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम् ॥
ततो गौह्यक-गान्धर्व-पैशाचोरग-राक्षसीः ।
प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्त्वात्मिकां सत्त्व-गुण-मयीं प्रायुङ्क्त इत्य् उत्तरस्यानुषङ्गः ॥२२॥ ता मायाः व्यधमयत् स नाशयत् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्त्व-गुण-मयीं बल-ज्ञान-निधिं विष्णु-देवताकाम् । महा-विद्यां विज्ञानास्त्र-सज्ज्ञाम् । उत्तरस्याग्रिम-श्लोकस्थ-क्रिया-पदस्य । अनुषङ्ग आनयनम् । बाध्य्अ- इति युग्मकम् । महारथो वीर-वर्ग-श्रेष्ठः ॥२२॥
ततो रौक्मिणेय-कर्तृकास्त्र-सन्धानोत्तरम् । स कार्ष्णिः । गौह्यकेअ- इत्य्-आदौ प्रथमं सामान्यतो निर्दिष्टानां स्त्री-प्रत्ययं विनैव द्वन्द्वः, पश्चान् माया-विशेषणत्वेन स्त्रीत्वे विवक्षिते समस्तात् स्त्री-प्रत्ययो ज्ञेयः । शतश इति गौह्यकादीनाम् एवावृत्तिर् व्यक्ता । यद् वा, अन्या अपि शतशो मायाः । ताश् च हरि-वंशे—
ततो मायां परां चक्रे देव-शत्रुः प्रतापवान् ।
सिंहान् व्याघ्रान् वराहांश् च तरक्षून् ऋक्ष-वानरान् ॥
वारणान् वारिद-प्रख्याह्वयान् उष्ट्रान् विशां पते । [ह।वं। २.१०६.१५-१६]
इत्य्-आदिना गौह्यकादीनां यथोत्तरं हिंस्रत्वेन श्रैष्ठ्यम् । स्म प्रसिद्धौ । ताः सर्वाः, यतः कार्ष्णिः मायि-मायिनि इत्य् उक्तेर् मायावि-व्यामोहक-श्री-कृष्णात्मजे का प्राकृत-माया-गणनेति भावः । अस्याग्रे\ऽप्य् अनुवृत्तिर् ज्ञेया ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
बाध्यमानो\ऽस्त्र-वर्षेण रौक्मिणेयो महारथः ।
सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम् ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महारथो वीर-वर्ग-श्रेष्ठः, यतो रुक्मिणी-गर्भ-जातः, आत्माश्म-वर्ष-बाधा परिहृता, सर्वसाम् एव मायानाम् उपमर्दिनीम् इति तयाश्म-वर्ष-माया निरस्तेति बोधयति—शतश इति । गौह्यकादीनां प्रत्येक बहुधा बहुशः प्रयोगं च । यद् वा, अन्या अपि मायाः शतश इत्य् अर्थः, ताश् चोक्ताः श्री-हरि-वंशे—
ततो मायां परां चक्रे देव-शत्रुः प्रतापवान् ।
सिंहान् व्याघ्रान् वराहांश् च तर नृक्ष-वानरान् ॥
वारणान् वारिद-प्रख्या हयान् उष्ट्रान् विशास्यते । [ह।वं। २.१०६.१५-१६]
इत्य्-आदिना गौह्यकादीनां यथोत्तरं हिंस्रत्वे श्रैष्ठ्यम् । स्म प्रसिद्धौ, ताः सर्वाः, यतः कार्ष्णिः, अस्याग्रे\ऽपि पद्य-त्रये\ऽनुवृत्तिः ॥ २२-२३ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाध्य- इति युग्मकम् । महारथः वीर-वर्ग-श्रेष्ठः ॥२२॥
गौह्यक- इत्य् आदौ प्रथमं सामान्यतो निर्दिष्टानां स्त्री-प्रत्ययं विनैव द्वन्दः पश्चान् माया-विशेषणत्वेन स्त्रीत्वे विवक्षित समस्तात् स्त्री-प्रत्ययो ज्ञेयः शतशः इति गौह्यकादीनाम् एवावृत्तिर् व्यक्ता । यद् वा, अन्या अपि मायाः शतश इत्य् अर्थः । ताश् चोक्ताः श्री-हरि-वंशे—
ततो मायां परां चक्रे देव-शत्रुः प्रतापवान् ।
सिंहान् व्याघ्रान् वराहांश् च तरक्षून् ऋक्ष-वानरान् ॥
वारणान् वारिद-प्रख्यान् हयान् उष्ट्रान् विशाम्पते । [ह।वं। २.१०६.१५] इत्य्-आदिना ॥
गौह्यकादीनां यथोत्तरं हिंसकत्वेन श्रैष्ठ्यस्य प्रसिद्धौ ताः सर्वाः यतः कार्ष्णिः अस्याग्रे\ऽप्य् अनुवृत्तिः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वात्मिकां विद्यां प्रायुङ्क्त इत्य् उत्तरस्यानुषङ्गः ॥ २२-२७ ॥
॥ १०.५५.२४ ॥
निशातम् असिम् उद्यम्य स-किरीटं स-कुण्डलम् ।
शम्बरस्य शिरः कायात् ताम्र-श्मश्र्व्-ओजसाहरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम्राणि श्मश्रूणि यस्मिंस् तत् । ओजसा बलेन ॥२४-२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्मश्रूणि मुख-रोमाणि । आहरत् दूरीचकार ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कायाद् अहरत्, दूरत उच्चैः पातयामास इत्य् अर्थः । ताम्र-श्मश्र्व् इति महा-दैत्यत्वेन घोरत्वादिकं सूचितम् । किरीटादि-सहितम् इति हरणे महा-वेगादिकं च, अन्यथा तस्य तत्रैवादूरे पात-सम्भवात् । यद् वा, शम्बरस्य महा-वीरत्वं युद्धोत्साह-भरेणैव तत्-तत्-परिधानात् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कायाद् अहरत् दूरीचकार ताम्र-श्मश्र्व् इति घोरत्वादिकं सूचितम् । किरीटादि-सहितम् इति हरणे लाघवं कौतूकं च ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.२५ ॥
आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः ।
भार्ययाम्बर-चारिण्या पुरं नीतो विहायसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिविजैः देवैः । भार्यया रत्या निज-माया-बलेन पुरं द्वारकां नीतः प्रापितः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिविजैः कर्तृभिः, पुष्प-समूहैः कृत्वा आ सम्यक् कीर्यमाणो व्याप्यमानः, भार्यया मायावत्या, अम्बर-चारिण्या इति देव-स्वभाव उक्तः, अतो विहायसा आकाश-मार्गेण पुरं द्वारकां नीतः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिविजैर् देवैः कर्तृभिः पुष्प-समूहैः करणैः आकीर्यमाणः व्याप्यमानः भार्यया मायावत्या अम्बर-चारिण्या इति देव-स्वभाव उक्तः । अतो विहायसा आकाश-मार्गेण पुरं द्वारकां नीतः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.२६ ॥
अन्तः-पुर-वरं राजन् ललना-शत-सङ्कुलम् ।
विवेश पत्न्या गगनाद् विद्युतेव बलाहकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्युता सह बलाहको मेघ इव ॥२६-२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तः-पुरेषु वरं श्रेष्ठम् । अन्तः-पुरेषु वरं श्री-पट्ट-महिषी-प्रधान-रुक्मिणी-गृहम् । हे राजन् इति यथा भवादृश-राज-गृहम् अतीव-सुन्दर-स्त्री-शत-सङ्कुलं भवति, तद्वत् तद् अपीति भावः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तः-पुरेषु वरं श्रेष्ठं भगवदीयत्वात् सर्व-महिषी-वर-श्री-रुक्मिणी-सम्बन्धात् तत्रापि विशिष्टं पत्न्या रत्या सह ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तः-पुरेषु वरं श्रेष्ठं श्री-भगवदीयत्वात् । किं वा, सर्व-महिषी-श्रेष्ठ-श्री-रुक्मिणी-सम्बन्धात्, अत एव ललनानां परम-सुन्दराङ्गनानां श्री-कृष्ण-महिषीणाम् अन्यासां वा श्री-रुक्मिणी-सख्यादीनां शतैः सङ्कुलं व्याप्तम्, पत्न्या रत्या सह । हे राजन्न् ! इति प्रहर्षोदयात् । किं वा, राजमानः सन् श्याम-गौर-वर्णयोस् तयोर् आकाशतः सहसा प्रवेशे दृष्टान्तः—विद्युतेव इति ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.२७ ॥
तं दृष्ट्वा जलद-श्यामं पीत-कौशेय-वाससम् ।
प्रलम्ब-बाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं प्रद्युम्नम् । तम् इति युग्मकम् । श्री-कृष्ण-मननाय तत्-सादृश्यं जलद- इत्य्-आदि-सप्त-पदैर् आह । ताम्रे रक्त-वर्णे अक्षिणी यस्य तम् । अब्ज-दलवत् प्रान्त-रक्त-नेत्रम् पद्म-दलायतेक्षणम् [१०.५५.१०] इति प्राग्-उक्तेः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तं दृष्ट्वा जलद-श्यामम् इत्य्-आदि । कृष्णाकारं कृष्ण-सदृशम्, यतो जलद-श्यामम्, अत एव तं "कृष्ण एष" इति मत्वा ह्रीता लज्जिताः सत्यः स्त्रियः श्री-रुक्मिणी-परिचारिकास् तु तत्रैव निलिल्युः । एतेन श्री-कृष्णस्य सदा-किशोरत्वं व्यज्यते ॥ २७-२८
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्ण-मननाय तत्-सादृश्यम् आह—जलद- इत्य्-आदि-सप्त-पदैः । तत्र जलद-शब्देन सजल-नव-मेघो\ऽभिप्रेतः, तेन सुश्यामतोक्ता, ताम्राक्षं प्रान्त-रक्ताब्ज-पत्र-तुल्याक्षम् इति ज्ञेयम्, पद्म-दलायतेक्षणम् इति प्राग्-उक्तेः, रुचिराननम् इत्य् अनेन श्री-नासाद्य्-अवयवानां सौन्दर्यं, तथा सुकोमल-गण्डत्वादिना पूर्वोक्त-रूढ-यौवनानुसारेण नव-यौवनोद्भेदश् च सूचित एव ।
तथा च श्री-विष्णु-पुराणे श्री-रुक्मिणी-देव्य्-उक्तौ—धन्यायाः खलु पुत्रो\ऽयं वर्तते नव-यौवने [वि।पु। ५.२७.२१] इति । ईदृशं श्री-हरि-वंशे\ऽपि सुष्ठु कुण्डलादिभ्यो\ऽपि विशेषेणालङ्कृतं मुखाम्भोजे यस्य तम्, अम्भोजालि-रूपकाभ्यां भृङ्ग-व्याप्ताब्जवच् छोभा ध्वनिता । विशेषणानाम् एषां यथोत्तरं श्री-कृष्ण-मननेन श्रैष्ठ्यम् । श्री-कृष्ण-मननाय तादृशान्य-सौन्दर्यादौ वर्णयितुम् अपेक्ष्ये\ऽप्य् एतावद् एव वर्णनं श्री-कृष्णेन तस्यासाधारणत्वात् ।
किं वा, एतावतैव तन्-मनन-पूर्तेः । यद् वा**, जलद** इति वर्णादेः शोभा व्यञ्जितैव, पीत इति सर्वस्यालङ्कारस्य, प्रलम्ब- इत्य्-अवयव-वर्ग-सौष्ठवस्य, ताम्र- इति सौन्दर्यस्य, सुस्मितम् इति माधुर्यस्य, रुचिर- इति साङ्ग-श्री-मुख-सहज-सौन्दर्य-विशेषस्य वयसश् चोपलक्षणम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं दृष्ट्वा इति युग्मकम् । श्री-कृष्ण-मननाय तत्-सादृश्यम् आह—जलद- इत्य्-आदि सप्तभिः पदैः । ताम्रे रक्त-वर्णे अक्षिणी यस्य तम् अब्ज-दलवत् प्रान्त-रक्त-नेत्रम् इत्य् अर्थः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम्रे रक्त-वर्णे अक्षिणी यस्य तम् अब्जवत् प्रान्त-रक्त-वर्णाक्षम् इत्य् अर्थः ॥ २७-३९ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तं दृष्ट्वा इत्य्-आदि कृष्णाकारत्वात्, अतः श्री-कृष्णो द्वारकायाम् अन्तः-पुरे द्विभुज एवेति । कृष्ण-भानत्वे हेतुः—जलद-श्यामम् इत्य्-आदि-विशेषणानि ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.२८ ॥
स्वलङ्कृत-मुखाम्भोजं नील-वक्रालकालिभिः ।
कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नीलाश् च वक्राश् च ये\ऽलकास् त एव आलयः, तैः ह्रीता लज्जिताः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तत्र इतस् ततः । निलिल्युर् अन्तर्हिता बभूवुः । निलिल्युर् निलीना बभूवुः, गृह-कोणादिषु गुप्ता बभूवुर् इति यावत् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तं दृष्ट्वा जलद-श्यामम् इत्य्-आदि । कृष्णाकारं कृष्ण-सदृशम्, यतो जलद-श्यामम्, अत एव तं "कृष्ण एष" इति मत्वा ह्रिता लज्जिताः सत्यः स्त्रियः श्री-रुक्मिणी-परिचारिकास् तु तत्रैव निलिल्युः । एतेन श्री-कृष्णस्य सदा-किशोरत्वं व्यज्यते ॥ २७-२८
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पद्म-दलायतेक्षणम् इति प्रायुक्तः । ह विस्मये ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वलङ्कृत- इति अलक-कुण्डलादि-द्वारा श्री-मुख-शोभा-विशेषापेक्षयेति, स्त्रियः श्री-महिष्य्-आद्यास् तत्र तत्र स्थाने स्थाने नितरां लिल्युः । कुतः ? ह्रीता लज्जिताः । ह विस्मये स्फुटम् इति वा ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ह्रिताः लज्जितः ॥२८॥
॥ १०.५५.२९ ॥
अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः ।
उपजग्मुः प्रमुदिताः स-स्त्री-रत्नं सुविस्मिताः6 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णो न भवतीत्य् अवधार्य स्त्रीषु रत्नं श्रेष्ठा रतिः, तत्-सहितम् ॥ २९-३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैलक्षण्येन कृष्ण-लक्षण-विपरीत-लक्षणेन । ईषद् वैलक्षण्यं वर्णादि-शोभातः किञ्चिन् न्यूनत्वम्, वयसश् च तादृश-भाव-निरीक्षणादि-राहित्यैर् विनयि-दृष्टत्वादिकं च, तेन अवधार्य उप समीप आजग्मुः । प्रकर्षेण मुदिताः श्री-कृष्ण-स्वरूप-स्वाभाव्यात् । सुविस्मिताश् चान्यत्र तद्-असंभवात् । स्त्री इति सामान्य-निर्देशस् तत्-पत्नीत्व-ज्ञान-रहितानां तासाम् अभिप्रायेण । रत्नत्व-निर्देशस् तत्-स्पर्शेन तादृशीत्व-प्राप्तेः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईषद् वैलक्षण्यं वर्णादि-शोभातः किञ्चिन् न्यूनत्वं वयश् च तथा तादृश-भाव-निरीक्षणादि-राहित्यै विनयि-दृष्टित्वादिकं च तेन अवधार्य उप समीपे जग्मुः प्रकर्षेण मुदिताः श्री-कृष्ण-सारूप्य-स्वाभाव्यात् शुचि-स्मिताश् च अन्यत्र तद्-असम्भवात् स्त्रीति सामान्य-निर्देशस् तत्-पत्नीत्व-ज्ञानोदय-रहितानां तासाम् अभिप्रायेण रत्न त्व् अनिर्देशः तत्-स्पर्शेन तादृशीत्व-प्राप्तेः ॥२९॥
अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः ।
उपजग्मुः प्रमुदिताः स-स्त्री-रत्नं सुविस्मिताः ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईषद् वैलक्षण्यं श्री-भगवतो वर्णादि-शोभायाः सकाशात् किञ्चिन् न्यूनत्वम्, पुत्रत्वे\ऽपि प्रतिबिम्ब-रूपत्वात् । यद् वा, तद्वत् । सभाव-निरीक्षणादि-राहित्यं विशेषतस् तासु विनयादि-दृष्ट्या नम्र-मुखत्वादिकं च तेन अवधार्य, शनैर् इति प्रायो द्वयोः सम-रूपतया धैर्यादिना शीघ्र-तदीय-भावानभिव्यक्त्या वा । किं वा, तासाम् एव सहज-वात्सल्य-लज्जादिना सुबुद्ध्य्-अस्फूर्त्या सद्यो निश्चयाशक्तेः, उप समीपे जग्मुः, प्रकर्षेण मुदिताः—वात्सल्य-भाव-विशेषोदयात् श्री-कृष्ण-सारूप्य-दर्शनाद् वा । सुविस्मिताश् च, अकस्मात् तत्रागमनात्, स्व-प्रभु-सारूप्याच् च । स्त्री-रत्नम् इति तदानीं तासु तस्यास् तत्-पत्नीत्व-ज्ञानाभिप्रायेण ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतः "कृष्ण एष" इति मत्वान्तःपुर-स्थिताः स्त्रियो दासी-प्रभृतयस् तत्र तत्र निलिल्युर् []{दिर्=“र्त्ल्”}ल्[इ]{दिर्=“र्त्ल्”}ना बभूवुः । कुतः ? इत्य् आह—ह्रीता लज्जिताः । एतेन श्री-कृष्णस्य नित्य-किशोरत्वम् ॥ २९-३९ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णो न भवतीत्य् अवधार्य तम् इति पूर्वस्यानुषङ्गः ॥२९-३०॥
॥ १०.५५.३० ॥
अथ तत्रासितापाङ्गी वैदर्भी वल्गु-भाषिणी ।
अस्मरत् स्व-सुतं नष्टं स्नेह-स्नुत-पयोधरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ स्त्री-समागमोत्तरम् । तत्र स्त्रीषु । असितापाङ्गी नील-रुचि-नेत्रान्ता ।
अथ समागमोत्तरम् एव । तत्र तासु पश्यन्तीषु मध्ये । असितापाङ्गी इति विलोकन-सौन्दर्यस्य, वल्गु-भाषिणी इति भाषण-सौन्दर्यस्याभिप्रायेण । अस्मरत् सारूप्य-दर्शनेनानुसन्दधे । स्व-शब्देन स्नेहाधिक्यम् उक्तम् । तद् एवाह—स्नेह- इति । चिरातीतत्वे\ऽपि स्नुत-पयोधरा अभूत् ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ समीप-गमनानन्तरम् एव, तत्र तासु मध्ये, तस्मिन् वा स्थाने, असितापाङ्गी इति स्नेहेन इत्य्-आदीक्षणस्य, वल्गु-भाषिणी इति च सुन्दर-भाषणस्याभिप्रायेण, तच् च को न्व् अयम् इत्य्-आदिना व्यक्तं भावि । स्व-शब्देनात्यन्त-स्नेह-विषयतोक्ता, अत एव चिर-कालातीते\ऽपि स्नेहेन स्नुत-पयोधरा सती स्मरणेनैव स्नुत-पयोधरत्वे जाते\ऽपि तथा-भूता अस्मरद् इति स्मरण-क्षरणयोर् एक-कालता स्नेह-भर-विवक्षयाभिप्रेता । यद् वा, दर्शन-मात्रेणैव स्नेह-स्नुत-पयोधरा सती । यद् वा, ततश् च स्नेह-स्नुत-पयोधराभूद् इति पृथग् वाक्यम् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ समागमाद् अनन्तरम् एव तत्र तासु पश्यन्तीषु मध्ये । असितापाङ्गी इति विलोकन-सौन्दर्यस्य वल्गु-भाषिणी इति भाषण-सौन्दर्यस्य अभिप्रायेण अस्मरत् सारूप्य-दर्शनेन अनुसन्दधे । स्व-शब्देन अत्यन्त-स्नेह-विषयतोक्ता । अत एव चिर-काले\ऽतीते\ऽपि स्नेह-स्नुत-पयोधरा सती ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३१ ॥
को न्व् अयं नर-वैदूर्यः कस्य वा कमलेक्षणः ।
धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुतं स्मरन्त्य् आह—को\ऽन्व् अयम् इति नर-वैदूर्यः पुरुष-श्रेष्ठः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनेन नर-श्रेष्ठेन, नराकार-वैदूर्य-मणिवद् दीप्यमानेन वा ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नर-वैदूर्यः नरेषु स इव श्रेष्ठः कस्य पुत्रो वा ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतच् चाशेष-महापुरुष-लक्षणस्य उपलक्षणम्, कस्य पुत्रो वा जठरे धृत इति पितुः सकाशान् मातुः स्नेहाधिक्येन विशेषं सूचयति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नर-वैदूर्यः पुरुष-श्रेष्ठः कस्य पुत्रः ॥३१॥
॥ १०.५५.३२ ॥
मम चाप्य् आत्मजो नष्टो नीतो यः सूतिका-गृहात् ।
एतत् तुल्य-वयो-रूपो यदि जीवति कुत्रचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतेन तुल्यं वयो रूपं च यस्य स भवेद् इति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकारान्तरेण शङ्कते—मम इति । नष्टो\ऽदर्शनं गतः । अपि संभावनायाम् । तुल्य-वयो-रूपो भवेद् इत्य् अर्थः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तुल्यतया स्व-पुत्रस्य स्मरणेन स्नेहाकृष्ट-चित्तोद्भावयति—मम इति । नष्टो\ऽदर्शनं गतः, यतो नीतः, केनचित् नेतुर् अज्ञानात् तद्-अनिर्देशः । अपि सम्भावनायाम्, स यदि कुत्रापि जीवेत्, तदैव तुल्य-वयो-रूपो भवेद् इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नष्टः अदर्शनं गतः । अपि सम्भावनायां यदि कुत्रापि जीवेत्, तद् एतत् तुल्य-वयो भवेद् इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीतो बाल-ग्रहेण ॥३२-३९॥
॥ १०.५५.३३ ॥
कथं त्व् अनेन7 सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः ।
आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य स्व-पुत्रत्वं संभावयन्तीत्य् आह—कथं त्व् इति ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य समागत-नर-श्रेष्ठस्य । भावयन्ती चिन्तयन्ती । सारूप्यं सादृश्यम् । स्वरो\ऽत्र शब्दः । आकृत्या अनुरूप-पुष्टि-शोभिताखिल-देहाकार-विशेषेण, अवयवैस् तद्-अनुरूपैर् एव चरणाद्य्-अङ्गैः, गत्या आकाशाद् उत्तीर्य कियत् पद-न्यासात्, स्वरैर् गम्भीर-शब्दैः, हासावलोकने प्रसिद्ध एव। समीपागतान् मात्रादीन् प्रति प्रश्नादिभिः स्वरादयो\ऽप्य् अवगता इत्य् ऊह्यम् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु विस्मये । पाठान्तरे—"नु" वितर्के, सम्यक् प्राप्तम्, सम्यक्त्वम् एव दर्शयति—आकृत्या इति । प्रांशुतानुरूप-पुष्टि-शोभिताकारेण अवयवैस् तद्-अनुरूपैर् एव श्री-चरणाद्य्-अङ्गैः, गत्येति शनैर् ईषद् अग्रे\ऽभिसरणात् । किं वा, अत्राकाशाद् आगमने लीलया भूमौ कियत् पाद-न्यासात्, स्वरेति च पत्नी प्रति मात्रादि-तत्त्व-प्रश्नाद् इत्य् ऊह्यम् । शार्ङ्गधन्वन इति तस्यापि शार्ङ्ग-पाणित्वम् अभिप्रैति । यद् वा, महा-वीरत्वं तेन च तस्यापि महा-बलिष्ठत्वादिकम् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु विस्मये । सम्यक् प्राप्तिम् एव दर्शयति—आकृत्या इति । प्रांशुतानुरूप-पुष्टि-शोभिताखिल-देहाकार-विशेषेण अवयवैस् तद्-अनुरूपैर् एव श्री-चरणाद्य्-अङ्गैः गत्या इति आकाशाद् उत्तीर्य कियत् पद-न्यासात् । स्वर- इति समीप-गतान् प्रति मात्रादि-तत्त्व-प्रश्नाद् इत्य् ऊह्यम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३४ ॥
स एव वा भवेन् नूनं यो मे गर्भे धृतो\ऽर्भकः ।
अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव अधिकं संभावयति—स एव इति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव स्व-पुत्रत्वम् । नूनं निश्चयः । निश्चय-द्योतक-शकुनम् आह—वाम इति । अधिका इति—स्वस्य जगन्-मातृत्वेन सर्वेष्व् अप्य् अर्भकेषु सामान्यतः प्रीतिं द्योतयति ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वा वितर्के । नूनं निश्चयेनेत्य् अर्थः । प्रीतिर् वात्सल्यम् । अधिका इति जगन्-मातृत्वेन सर्वेष्व् अप्य् अर्भकेषु सामान्यतः प्रीतिं द्योतयति । किं च, वाम इति । एतत् सर्वं हृद्य् एवाभाषतेति ज्ञेयम्, अन्यथा तच्-छ्रवणात् तेनाभिगम्य स्व-परिचयं दत्त्वा मातृ-पाद-वन्दनादिकं कृतं स्यात् । यद् वा, व्यक्तम् उक्ते\ऽपि सहसागन्तुकत्वेन शङ्कादिना सद्यः किम् अपि वक्तुं कर्तुं च न शक्तम् इति बोद्धव्यम् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधिका इति । स्वस्य जगन्-मातृत्वेन सर्वेष्व् अप्य् अर्भकेषु सामान्यतः प्रीतिं द्योतयति ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३५ ॥
एवं मीमांसमानायां वैदर्भ्यां देवकी-सुतः ।
देवक्यानकदुन्दुभ्याम् उत्तमःश्लोक आगमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवक्य्-आनकदुन्दुभ्यां देवक्य्-आनकदुन्दुभिभ्याम् इत्य् अर्थः ॥ ३५-३६ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । मीमांसमानायां विचारयन्त्याम् । श्री-देवक्य्-आदिभ्यां सह आगमनं प्रायस् तदानीं तद्-गृह-गमनात् । उद्गतं तमो\ऽज्ञानं यस्मात् तादृशः श्लोको यशो यस्य । श्री-रुक्मिण्य्-आदीनां तद्-विषयकाज्ञान-निरासार्थम् इति भावः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं मीमांसमानायां विचारयन्त्यां देवकी-सुतत्वाद् एव देवक्य्-आनकदुन्दुभिभ्यां सह तयोः प्रहर्षार्थम्, यत उत्तमः श्लोको बन्धु-वात्सल्यादि-यशो यस्य सः । यद् वा, उद्गतं तमो\ऽज्ञानं यस्मात् तादृशः श्लोको यस्य, श्री-रुक्मिण्य्-आदीनाम् अज्ञान-निरासार्थम् इति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-देवक्य्-आदिभ्यां सह आगमनं प्रायस् तदानीं तद्-गृह-गमनात् उद्गतं तमः अज्ञानं यस्मात् तादृशः श्लोको यस्य श्री-रुक्मिण्य्-आदीनाम् अज्ञान-निरासार्थम् इति भावः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३६ ॥
विज्ञातार्थो\ऽपि भगवांस् तूष्णीम् आस जनार्दनः ।
नारदो\ऽकथयत् सर्वं शम्बराहरणादिकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विज्ञातार्थः ज्ञात-सर्व-तत्त्वः । माता-पितृ-समक्षं स्वयं लज्जया नाकथयद् इति भावः । आदिना कथान्तर-ग्रहः ।
तथा हि—रुद्रेण कामे दग्धे तत्-प्राप्त्य्-अर्थं रतिस् तपसा रुद्रम् आराधयामास । शंबरो\ऽपि कामं दग्धम् आकर्ण्य रति-लिप्सया रुद्रम् आराधयामास । युगपत् तयोस् तपः समाप्तौ रुद्रो वरं दातुम् उभयत्र जगाम । रत्या तु "मत्-पतिर् मा प्राप्नोतु" इति प्रार्थितो महा-देवस् तस्यै "कृष्ण-पुत्रो भूत्वा त्वत्-पतिस् त्वां प्राप्स्यति" इत्य् उवाच । शंबरस् तु "रतिर् मा प्राप्नोतु" []{दिर्=“र्त्ल्”} इति प्रार्थितवान्, तस्मै "तथास्तु" इत्य् उक्त्वा गन्तुकामं रुद्रं रतिर् उवाच—"भगवन् ! कथं वैपरीत्यं कृतम् ? एवं मास्तु" इत्य् उक्तः पुनस् तस्यै नाना-विद्या मोहवतीर् उपदिदेश—"त्वम् आभिर् मयाभिर् एनं मोहयिष्यसि, न त्व् अनेन तव संयोगो भविष्यति, त्वत्-पतिर् एव त्वां प्राप्स्यतीति न तु मद्-उक्तिर् व्यर्था" इति पुराणान्तराद् अवसेयम् । एतां च विद्यां प्राप्ताय निज-पतये उपदेक्ष्यत्य् अनयैव विद्यया स एनं मारयिष्यतीति
इतः परं सार्ध-श्लोक-त्रयं नारद उवाच—एष ते तनयः [भा।पु। ५.२७.२६] इत्य् आरभ्य, स्नुषेयं तव शोभन [भा।पु। ५.२७.३०] इत्य्-अन्तं प्रक्षिप्तम् अप्य् अस्ति क्वचित् पुस्तकेषु ।8
विज्ञातार्थत्वे\ऽपि तूष्णीम् आसने हेतुः—जनान् अर्दयति याचयति लीला-वैचित्र्येण सर्वेषां सुख-प्रदः । लज्जया मातृ-पितृ-सन्निधौ स्वयं न किञ्चिद् ऊचे नर-लीलत्वाद् इति भावः । अन्यथा चिरं शोचन्त्याः श्री-रुक्मिणी-देव्यास् तस्मिन्न् असूयापि संभवेत् । अकस्मान् नारदागमनं श्री-कृष्णेच्छयैव ज्ञेयम् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेणापरोक्षत्वादिना ज्ञातो\ऽर्थस् तत् तत्त्वं येन सः, वर्तमाने\ऽप्य् अतीतत्वं तत्-पूर्व-कालस्य तन्-निर्धरस्य वापेक्षया, यतो भगवान् । किं च, जनान् दुष्ट-दैत्यादीन् अर्दयति हिनस्तीति तथा सः शम्बर-वधार्थं तेनैव तथा कृतत्वाद् इति भावः । तथापि तूष्णीम् आस, स्वस्य तत्-तत्त्वाज्ञान-बोधनार्थम्, अन्यथा चिरं शोचन्त्याः श्री-रुक्मिणी-देव्यास् तस्मिन्न् असूया-सम्भवात्, प्राग्-अनुक्तागमनो\ऽपि नारदः सर्वज्ञत्वेन श्री-कृष्ण-प्रियत्वेन च काले स्वयम् एवाकाश-मार्गेणागत इति ज्ञेयम् । किं वा—
गोविन्द-भुज-गुप्तायां द्वारकायां कुरूद्वह ।
अवात्सीन् नारदो\ऽभीक्ष्णं कृष्णोपासन-लालसः ॥ [भा।पु। ११.२.१]
इत्य्-उक्त्या सदैव तस्य श्री-कृष्ण-साहित्य-प्रसिद्धया पृथग् आगमनं नोक्तम् । शम्बरेणाहरणं नयनम् । यद् वा, आ सम्यक् समुद्रान्तः-प्रक्षेपणादिना हरणम्, आदि-शब्दात् तद्-वधं मायावती-तत्त्व-वृत्तादिकं च ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विज्ञातार्थत्वे\ऽपि तूष्णीम् आसने हेतुः—जनान् अर्दयति याचयतीति लीला-वैचित्र्येण सर्वेषां सुख-प्रद इत्य् अर्थः । अन्यथा चिरं शोचन्त्याः श्री-रुक्मिणी-देव्यास् तस्मिन्न् असूयापि सम्भवेत् अकस्मान् नारदास्यागमनं श्री-कृष्णेच्छयैव ज्ञेयम् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३७ ॥
तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तः-पुर-योषितः ।
अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन् नारदोक्तम् । बहून् अब्दान् इति कालाध्वनोर् अत्यन्त-संयोगे इति द्वितीया । अभ्यनन्दन् प्रीणयामासुः । महद् आश्चर्यं महाश्चर्यम् । अभ्यनन्दन् वक्ष्यमाण-रीत्या सच् चक्रुः, प्रद्युम्नम् इति शेषः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य साक्षात्-परमेश्वरस्य अन्तःपूरे या योषितस् ताः सर्वा इति सखी-दास्यादीनाम् आनन्त्यम् उक्तम्, अभ्यनन्दन् प्रद्युम्नं साधु साध्व् इत्य्-आदिना प्रशशंसुः । यद् वा, प्राप्येति शेषः । अभितो\ऽनन्दन् अहृष्यन् ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महद् आश्चर्यं महाश्चर्यम् इत्य् अर्थः । अभ्यनन्दन् वक्ष्यमाण-रीत्या सच् चक्रुः प्रद्युम्नम् इति शेषः । तं च मृतम् इव नष्टम् अदर्शनं प्राप्तं सन्तं पुनर् आगतं मत्वेत्य् अर्थः । कृष्णेति तत्-सम्बन्धित्वेन तासां महिमानं दर्शयित्वा तद्-अभिनन्दनं चमत्कारितम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३८ ॥
देवकी वसुदेवश् च कृष्ण-रामौ तथा स्त्रियः ।
दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ दम्पती रति-प्रद्युम्नौ । देवक्याः प्राग्-उक्तिः पितामहीत्वेन स्नेह-विशेषात् । रामस्य पश्चाद्-उक्तिः पश्चाद् एवागमनात् । स्त्रियः श्री-महिष्यः । श्री-रुक्मिण्याः सर्वान्ते निर्देशश् चिर-परिष्वङ्गार्थां पश्चात् स्थितत्वात् । किं वा, स्नेह-विवशत्वे न किञ्चिद् विलम्बात् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवक्याः प्राग् उक्तिः पितामहीत्वेन वसुदेवतो\ऽपि स्नेहे विशेषात्, रामस्य पश्चाद्-उक्तिः पश्चाद् एव तेभ्यस् तद्-आगमनात् स्त्रियः श्री-महिष्यः, रुक्मिण्याः सर्वान्ते निर्देशश् चिर-परिष्वङ्गार्थं पश्चात् स्थितत्वात् । किं वा, स्नेह-विवशत्वेन आशक्त्या किञ्चिद् विलम्बात्, किं वा स्नेह-भर-स्वभावाद् एवेति ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवक्याः प्राग्-उक्तिः पितामहित्वेन स्नेह-विशेषात् । रामस्य पश्चाद्-उक्तिः पश्चाद् एवागमनात् । स्त्रियः श्री-महिष्यः । श्री-रुक्मिण्याः सर्वान्ते निर्देशश् चिर-परिष्वङ्गार्थं पश्चात् स्थितत्वात् । किं वा, स्नेह-विवशत्वेनाशक्त्या किञ्चिद् विलम्बनात् । किं वा, तौ प्रति पुरतः सर्वेषां प्रसादनेच्छयेति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.३९ ॥
नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः ।
अहो मृत इवायातो बालो दिष्ट्येति हा ब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति ह इत्थम् । अहो आनन्दे । हा इति पुरातन-कथा-परामर्शकम् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वारका-वासिनश् च सर्व एव लोकाः परम-हृष्टा बभूवुर् इत्य् आह—नष्टम् इति । अहो आश्चर्ये, ह हर्षे, दिष्ट्या अहो भाग्यम् अस्माकम् इत्य् अर्थः । बाल इति नव-तरुणे\ऽपि तस्मिन् तेषां स्नेह-भरेण शिशुता-दृष्टेः । यद् वा, बाल्ये नष्टत्वाभिप्रायेण ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्वारका-वासिनश् च सर्वे एव परम-हृष्टा बभूवुर् इत्य् आह—नष्टम् इति इति । ह इत्य् अव्ययं पुरातन-कथा-परामर्षकम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५५.४० ॥
यं वै मुहुः पितृ-सरूप-निजेश-भावास्
तन्-मातरो यद् अभजन् रह-रूढ-भावाः ।
चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे
कामे स्मरे\ऽक्ष-विषये किम् उतान्य-नार्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिसौन्दर्येण प्रद्युम्नं वर्णयति—यम् इति । पिता श्री-कृष्णस् तत्-सदृशे प्रद्युम्ने निज आत्मीय ईशे भर्तरि भावो भावना यासां तास् तन्-मातरः कृष्ण-पत्न्यो\ऽपि रहसि निरूढ-भावाः सत्यो यम् अभजन्न् इति यत्, तन् न खलु चित्रं । कथं सति ? स्मरे स्मयमाणत्वेनैव क्षोभके कामे\ऽक्षि-विषये सति । किं च, रमास्पदं श्री-कृष्णस् तस्य बिम्बं श्री-मूर्तिः, तस्य बिम्बे प्रतिबिम्बे पुत्रे तदा किं नु वक्तव्यम् अन्य-नार्यो भेजुर् इति ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-सरूपे तत्-समान-रूपे । भर्ता श्री-कृष्ण इति । तन्-मातरः प्रद्युम्न-मातरः, बहुत्वं स-मात्र्-अपेक्ष्यम् । रहसि एकान्ते। निरूढो जातो भावः सात्त्विक-संज्ञः स्तम्भः स्वेदोत्थ-रोमाञ्च इत्य्-आद्य्-उक्त-लक्षणा याः, तास् तथा । अन्यच् चित्राभाव-कारणम् आह—किं च इति ।
बिम्बो\ऽस्त्री मण्डल-सम-प्रतिमा-मुख-लक्ष्मसु ।
प्रतिरूपे प्रतिकृतौ तथा स्याद् विबिका-फले ॥ इति यादवः ।
मम त्व् इत्थं प्रतिभाति—तन्-मातरो रुक्मिण्य्-आद्या यं वीक्ष्य यच्-चित्रम् आश्चर्यम् अभजंस् तन् मुहुर् न किं त्व् एक-वारं तद्-दर्शन-क्षण एव । क्व सति ? स्मरे स्मर्यमाण-शरीरे\ऽक्ष-विषये सति । अहो स्मरण-शरीरो\ऽयं कामः कथम् अस्मद्-दृग्-विषयो जातः ? इत्य् आश्चर्यं प्रापुर् इत्य् अर्थः । किम्-भूताः ? रहस्- त्यक्तो9 रूढो भावः "कृष्णो\ऽयम्" इत्य् एवं-रूपो\ऽभिप्रायो याभिः, ता रह-रूढ-भावाः
यद् वा, यं वीक्ष्य रूढ-भावा जात-प्रीतयः सत्यो रह ऐकान्त्यम् अभजन् निलीना बभूवुः । रह इह स-लोप आर्षः । यथा-श्रुतार्थस् तु विगीत इव प्रतिभातीति । प्रद्युम्न-सौन्दर्यं वर्णयति—यं मुहुर् विलोक्य पितृ-सरूपात् पितुः श्री-कृष्णस्य समान-सौन्दर्याद् धेतोर् निजेशस्य श्री-कृष्णस्य भावो भावना ।
कथं त्व् अनेन सम्प्राप्तं सारुप्यं शर्ङ्गधन्वना ।
आवृत्यावयवैः [भा।पु। १०.५५.३३] इत्य्-आदि चिन्तनं यासां ताः ।
तन्-मातरः श्री-रुक्मिण्य् एव, गौरवेण बहुत्वम् । तद् अन्तः-पुरे । कृष्ण-पत्नीनाम् अन्यासाम् आगमनायोग्यत्वात् । रहे रहसि तत्-परिचयात् पूर्वम् एव रूढ उद्भूतो भावो वात्सल्यमयी प्रीतिर् यसां ताः, अमुष्मिन् प्रीतिर् अधिका इत्य् उक्तेः । स एव वा भवेन् नूनं॥। वामः स्फुरति मे भुजः [भा।पु। १०.५५.३४] इति निश्चयान्ते सति सन्देहे यत् अभजन् गात्रावलोकन-मस्तकाघ्राण-पाणि-तल-करणक-गात्र-मार्जनादिनानुवृत्तिम् अकुर्वंस् तर्ह्य् असां मातृणां तस्मिन् प्रद्युम्ने न चित्रम् । कीदृशे ? रमास्पदं सर्व-शोभा-निकेतनं यद् बिम्बं श्री-कृष्ण-गात्रं, तस्य बिम्बे प्रतिबिम्ब-रूपे, तथा-भूतस्यान्यस्य त्रिभुवने\ऽप्य् अभावाद् एव तस्य कृष्ण-पुत्रत्व-निश्चयात्, तथा-भूत-स्वानुभवां चेति भावः ।
किं च, तन्-मातृणाम् एव तस्मिंस् तादृशो भावो न त्व् अन्यासाम् इत्य् आह—कामे स्मरे स्मरत्य् अस्माद् इति स्मरस् तस्मिन् । कान्त-स्मरण-हेतुर् यस्य परोक्षत्वे\ऽपि कामोद्भावकत्वं तस्मिन्न् अक्षि-विषये तु सति, उत तथार्थे\ऽन्य-नार्यस् तथा किं भवितुं शक्नुवन्ति ? अपि नैव, यतः क्षोभम् एव प्राप्नुवन्तीत्य् अर्थः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यं वै मुहुर् इत्य्-आदि । यं प्रद्युम्नं वीक्ष्य इत्य् अध्याहार्यम् । तन्-मातरः कृष्णो\ऽयम् इति मत्वा यद् रहः रह-स्थलम् अभजन्, तन् न चित्रम् निर्लिल्युस् तत्र तत्र ह [भा।पु। १०.५५.२८] इत्य्-आदि यद् उक्तम्, तस्यायं प्रपञ्चः । रूढ-भावा जात-व्रीडादि-व्यभिचारि-भावाः । कुतः ? इत्य् आह—पितृ-सरूप-निजेश-भावाः, पितुः श्री-कृष्णस्य समानं रूपं सारूप्यं तन्-निजेशः श्री-कृष्ण एष इति भावो यासाम् । रह इति विसर्ग-लोपश् छन्दसः । तन् न चित्रम् । कुतः ? तत्राह—रमास्पद-बिम्बे रमाया आश्रय-भूतं बिम्बं प्रतिबिम्बो लक्ष्म यत्र, तस्य श्री-कृष्णस्य बिम्ब इव छायेव यस् तस्मिन् । अन्य-नार्यो रहसि यद् विलयन्ति तत् किम् इति ।
यद् वा, यं प्रद्युम्नं निरीक्ष्य तन्-मातरः सत्यभामाद्या यद्-व्रीडादि अभजन्, तन् न चित्रम् इति रह-रूढ-भावाः—रहो विरहः, रह त्यागे इत्य् अस्मात् सिद्धेः, तेन रूढ-भावा यासां कृष्णादर्शनेन तं प्रद्युम्नं दृष्ट्वा अनिभालनेन "कृष्ण एवागतो\ऽयम्" इति कृत्वा या यथा-स्थितात्मा एव सङ्कोचेन व्रीडादि अभजन् । यद् इति व्रीडया सङ्कोचेन चानिर्वाच्यं यत् किम् अपि ।
यद् वा, यं प्रद्युम्नं पितृ-सरूप-निजेश-भावा निजैश्वर्याणि यद् अभजन्, तन्मातरः तन्मा तल्-लङ्घ्येः, तॄ प्लवन-तरणयोः इति सौरूपम्, तत्राप्रतीतिं मा गा इति परीक्षितं प्रति शुकोक्तिः । हे पितृ-सरूपः ! अभिमन्यु-सदृश इति परीक्षित्-सम्बोधनं वा । निजेश-भावा उच्चाटनादि-पञ्चेषु न तदृशान्य् ऐश्वर्याणि । कीदृशाः ? रहस् त्यागो रहे अनङ्गत्व-त्यागे रूढा या भाः कान्तयः, ता अवन्ति इति तथा तस्मिन् कामे तन् न चित्रम् ।
तत्र निदर्शनाम् आह—स्मरे अक्षि-विषये अन्य-नार्या अन्य-पुरुषः किम् उत आश्चर्य आदरणीयो भवति, नैवेत्य् अर्थः । स्मरे स्मर्यमाणे अनङ्गत्वेन प्रतीयमाने अक्षि-विषये साक्षाद्-भूते सतीति वा ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यम् इत्य् अस्य तं प्रद्युम्नम् इति पूर्वेण । किं वा, तम् अन्य-नार्यो भजेयुर् इति किम् उत इत्य् अन्वयः । वै प्रसिद्धौ । मुहुर् इति संशयादिना पुनः पुनश् चित्ते निवर्त्तिते\ऽपि । निज-भतृ-सारूप्य-दर्शने । पुनः पुनस् तत्-प्रवृत्तेः, रहेत्य्-अदन्तत्वम् आर्षम् । अभजन् कामयामासुः, प्राग्-अनुक्तम् अपीदं ह्रीता इति पूर्वोक्त-लज्जया काम-सूचनात् । किं वा, प्रमुदिततयोपगमनाद् ऊह्यम्। किं वा, अत्रोक्ति-प्रामाण्येन तन् मन्तव्यम् इति दिक् । खलु निश्चये । अक्ष-विषये चक्षुर्-इन्द्रिय-गोचरे सति, अक्ष-शब्देन दर्शने\ऽभिनिवेशः सूचितः । "अक्षि" इति पाठो वा । एवम् अपि तासां पातिव्रत्या-हानिम्, पितरि रमेत च बोधयत्य् एव, इति तासां परम-माहात्म्यम् उक्तम्, तथा श्री-भगवतश् च तत्-सारूप्येण अपि तासाम् अपि भावोत्पादनात् । तथा श्री-प्रद्युम्नस्यापि, तच् च स्पष्टम् एव, तत्र च मुख्ये । हेतुः—रमा इत्य् एव, अत एव तैर् अपि । किं च इत्य्-आदिना तत्-पश्चाद् व्याख्यातम् । अन्यत् तैर् व्यञ्जितम् एव ।
यद् वा, अ-कार-प्रश्लेषेण काम-रहिते\ऽपि स्मरे । अथवा श्री-प्रद्युम्न-माहात्म्य-द्वारा श्री-महिषीणाम् एव धैर्यादि-माहात्म्यम् अन्ते\ऽनुवर्णयति—यम् इति । अ-कार-प्रश्लेषेण न तिष्ठति स्मरः स्मरण-भद्राभद्रानुसन्धानं यस्मात् तादृशे कामे, तत्रापि रमास्पद-बिम्ब-बिम्बे श्री-कृष्ण-सदृश-रूपे अक्ष-विषये दष्टे सति पितृ-सरूप-निजेश-भावा अपि । यद् वा, तादृश-कामे\ऽक्ष-विषये सत्य् अपि, तथा तत एव पितृ-स्वरूप-निजेश-भावा अपि रहसि रुढ-भावाः सत्यो नाभजन्न् इति यत्, तत् किं खलु चित्रम् ? अपि तु नैव, यतस् तन्-मातरः, उत अपि, अन्य-नार्यो\ऽपि यन् न भेजुः, तद् अपि किं चित्रम् ? अपि तु नैव, मातृणां सखीत्वादिना मातृ-तुल्यत्वाद् इत्य् अर्थः । अन्यत् समानम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यम् इति तैर् व्याख्यातं । तत्र रहो भजनं नाम भ्रान्त्या तन्-निकट-गमन-मात्रं विवक्षितं श्री-सङ्कर्षणस्य पुनः श्री-वृन्दावन-गतस्य विहारे गोपीनाम् अन्यासाम् एव स्वीकरिष्यमाणत्वात् श्री-प्रद्युम्नस्य भ्रमाद्य्-अभावान् मातृ-भ्रान्त्या मायावत्या अपि परित्यागाच् च । ततश् चायम् एवार्थः—यं प्रद्युम्नं विरहेण श्री-कृष्ण-विरहेण रूढो विवृद्धो भावस् तत्-प्रेमा यासां तथा-भूताः सत्यस् तन्-मातरः तस्य सपत्नी-मातरो मुहुर् अभजन् द्रष्टुम् आगच्छन्, मातृ-शब्देन तावन्-मात्र-पर्यवसानात् । तद् एवं यद् अभजन् तन् न चित्रं । कथं पितुः श्री-कृष्णस्य सारूप्येण निजेशस्य श्री-कृष्णस्यैव भावः स्फूर्तिर् यासां, तास् तथा तत्-साक्षात्कार-सादृश्य-लालसयेत्य् अर्थः । अत्र कान्तादि-शब्दम् अदत्त्वा ईश-शब्द-प्रदानं, तेन हेतुना स्फुरत्य् अपि श्री-कृष्णे ईश-भाव एवास्फुरत्, न तु कान्त-भावः, तद्-उद्दीपनतायाम् अयोग्यत्वात् पुत्रस्येति द्योतयति । तद् एवम् अन्या नार्यो यद् अभजन्, तत् किम् उत ? सुष्ठ्व् एव कान्त-भावेनैवेत्य् अर्थः । बलवत् सुष्ठु किम् उत इत्य् अमरः । अत्र हेतवो रमा इत्य्-आदीनि पदानीति ।
अथवा, कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युः तत्र तत्र ह [भा।पु। १०.५५.२८] इत्य् एव योजयति यम् इति । नवमस्य चतुर्थे यविष्ठं व्यभजन् दायं [भा।पु। ९.४.१] इतिवद् द्वितीयया प्रति इत्य् अध्याहार्यं प्राप्येति वा पितृ-सरूप-निजेश-भावाः सत्यस् तन्-मातरो रहो\ऽभजन् ह्रिया निलिल्युर् इत्य् अर्थः । रह इत्य् आर्षं पदं । रह-रूढ-भावा इत्य् अपि क्वचित् ईश-शब्दः पूर्ववत् ।
ननु, कथं कान्त-भावो न जातः ? तत्राह—रूढ-भावाः अव्यभिचारि श्री-कृष्ण-रतयः । तद् एवं यद् रहो\ऽभजन् तन् न चित्रं । यद्य् एवं तद् अप्य् एकांशेन सवलित-मतयो जाताः, तदा रामेत्य्-आदि-लक्षणे अक्ष-विषये सति उत अपि अन्यनार्यः तद्-भाव-रहित-स्त्रियो\ऽपि किं किं रहो\ऽभजन्, किन्तु तम् एवाभजन् भाव-हावादिभिर् असेवन्तेति । अक्षेति अक्षीति वा पाठः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यं वे इत्य्-आदि ॥४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यं वै इत्य्-आदि । यं प्रद्युम्नं वीक्ष्येत्य् अध्याहार्यम् । दास्यो\ऽपि यं दृष्ट्वा कृष्णं मत्वा तत्र तत्र निलिल्युः, तं दृष्ट्वा तन्-मातरस् तद्-विमातरो यद् रहो निर्जन-स्थलम् अभजन्, आत्मानं गोपयामासुः । रूढ-भावाः "कृष्णो\ऽयम् आगतः" इति जात-व्रीडादि-भवाः । कुतः ? इत्य् आह—पितृ-सरूप-निजेश-भावाः पितुः श्री-कृष्णस्य समानं रूपं, तेन या निजेश इति भा भानं, ताम् अवन्तीति तथा । अव रक्षण-पालने, कर्मण्य् अण् कृष्णो\ऽयम् आगत इति वा । यत्र यथा-स्थिता असन्, तास् तथा-स्थिता एव । ततः सकाशाद् व्रीडया रहसि लीना इत्य् अर्थः । तन्न चित्रं । कुतः ? इत्य् आह—रमास्पद-बिम्ब- इत्य्-आदि । रमास्पदं रमा-चिह्नं बिम्बं यस्य स तथा, लक्ष्मीरक्षा इत्य् अर्थः । तस्य श्री-कृष्णस्य बिम्बे प्रतिबिम्बे किम् उतान्य-नार्यः पूर्वोक्ताः स्त्रियो दासी-प्रभृतयो यं दृष्टा तद्-विमातरो\ऽपि कृष्ण-बुद्ध्या सङ्कोचेनाभ्यन्तरं गत्वा लीना अभूवन्, तं दष्ट्वा दास्यादयो यत् तत्र तत्र निलिल्युः तत् किम् उत इति पूर्व-श्लोकार्थ-समावेशः । रह इति विसर्ग-लोपश् छान्दसः । यद् वा, पितृ-सरूप-निजेश-भावाः पितृ-सदृशाः श्री-कृष्ण-सदृशा निजा आत्मीया ये ईश-भावा ऐश्वर्याणि यं भजन्, तन् मा चित्रम् । तन्-मातरः जन्मा उल्लङ्घ्य तत्राप्रतीतिं मा गा इति परीक्षित प्रति श्री-शुकदेवोक्तिः । तृ प्लवन-तरणयोः इति छिपि रूपम्, मा-योगे\ऽड्-आगमाभावः । कीदृशाः ? रह-रूढ-भावाः रहस्-त्यागः रह-त्यागे इति पचाद्य् अच् । रहेण अनङ्गत्व-त्यागेन रूढाः पुनः प्ररूढा या भा शोभा ताम् अवन्तीति तथा ।
यद् वा, हे पितृ-सरूप ! अभिमन्यु-सदृश ! हे परीक्षित् ! निजेश-भावा उच्चाटनादि-पञ्चेषुत्वादीन्य् ऐश्वर्यादीनि । तत्र निदर्शनम् आह—स्मरे\ऽक्षि-विषये अक्षि गोचरे\ऽन्यना अन्य-पुरुषः किम् उत नार्य आदरणीयः नैवदरणीय इत्य् अर्थः । कामे कमनीये, अथवा, काम इति विशेष्यं पदम्, स्मर इति विशेषणम्, स्मृति-विषये सतीत्य् अर्थः ॥४०॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २२२) : यं प्रद्युम्नं तन्-मातरो मुहुर् अभजन् द्रष्टुम् आगताः, पुनर् लज्जया रह एकान्त-देशं च अभजन् निलिल्युर् इत्य् अर्थः । तद् एवं यद् अभजन्, तत् खलु रमास्पद-बिम्बस्य लक्ष्मी-विलास-भूमि-मुर्तेर् बिम्बे प्रतिमूर्तौ तस्मिन् न चित्रम्, बालकस्य पितृ-सादृश्ये मातॄणां वात्सल्योद्दीप्ति-सम्भवात् । तत्र यच् च रहः अभजन्, तद् अपि न चित्रम् इत्य् आह—पितृ-स्वरूप-निजेश-भावाः । तद्-अनन्तरं पितुः श्री-कृष्णस्य स-रूपेण सारूप्यातिशयेन निजेशस्य आत्मीय-प्रभु-मात्र-बुद्ध्यावगतस्य, न तु रमण-बुद्ध्यावगतस्य श्री-कृष्णस्य भावः स्फूर्तिर् यासु ताः । ततो लज्जा-हेतुकं रहो-भजन-लक्षणं पलायनम् अप्य् उचितम् एवेति भावः। तथोक्तम् एतत् प्राग् एव—तं दृष्ट्वा जलद-श्यामम् [भा।पु। १०.५५.२७] इत्य्-आदौ कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [भा।पु। १०.५५.२८] इति । तत्र प्रभुत्व-मात्र-स्फूर्तौ हेतुः—रूढ-भावाः, रूढः श्री-कृष्णे बद्ध-मूलः भावः कान्त-भावो यासां ताः । कदाचिद् अन्यत्र चेतने तत्-सादृश्यातिशयेनेश्वर-भावः स्फुरतु नाम, रमण-भावस् तु न सर्वथेत्य् अर्थः । श्री-रुक्मिण्यास् तत्-सदृश-वत्सलाया अन्यस्याश् चेश्वर-भावोऽपि नोदयते, किन्तु सर्वथा पुत्र-भाव एव तत्-सारूप्येणोद्दीप्तः स्यात् । यथोक्तं श्री-रुक्मिणी-देव्यैव—कथं त्व् अनेन सम्प्राप्तम् [भा।पु। १०.५५.३३] इत्य्-आद्य्-अनन्तरं—
स एव वा भवेन् नूनं यो मे गर्भे धृतोऽर्भकः ।
अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ [भा।पु। १०.५५.३४]
तद् एवं तासाम् अपि यत्र रमास्पद-बिम्ब-बिम्बत्वेन तादृशी भ्रान्तिः, तत्र परम-मोहने रमास्पद-बिम्बस्यैवाप्राकृत-काम-रूपांशे जगद्-गत-निजांशेन स्मरे स्मरण-पथं गत्वापि क्षोभके सम्प्रति तु स्वयम् एव अक्ष-विषयतां प्राप्ते सति अन्य-नार्यः किम् उत सुष्ठ्व् एव मोहं प्राप्तम् उचिता इत्य् अर्थः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रद्युम्नस्य सौन्दर्यं वर्णयति—यं मुहुर् विलोक्य पितृ-सरूपात् पितुः श्री-कृष्णस्य समान-सौन्दर्याद् धेतोर् निजेशस्य श्री-कृष्णस्य भावो भावना
कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः ।
आकृत्यावयवैः [भा।पु। १०.५५.३३]
इत्य्-आदि चिन्तनं यासां, ताः तन्-मातरः श्री-रुक्मिण्य् एव गौरवेण बहुत्वं तद्-अन्तः-पुरे कृष्ण-पत्नीनाम् अन्यासाम् आगमनायोगात् रहो रहसि तत्-परिचयात् पूर्वम् एव रूढ उद्भूतो भावो वात्सल्यमयी प्रीतिर् यां ताः यद् उक्त अमुष्मिन् प्रीतिर् अधिका इति तदा च स एव वा भवेन्नान वामः स्फुरति मे भुजः इति निश्चयान्ते सन्देहे सति यत् अभजन् गात्रावलोकनम् अस्तकाघ्राण-पाणि-तल-करणक-गात्र-मार्जनाद् इत्य् अनुवृत्तिम् अकुर्वन् तत् तासां मातृणां तस्मिन् प्रद्युम्ने न चित्रं कीदृशे रमास्पदं सर्व-शोभा-निकेतनं यद् बिम्बं श्री-कृष्ण-गात्रं, तस्य बिम्बे प्रतिबिम्ब रूपे, तथा भूतस्यान्यस्य त्रिभुवने\ऽप्य् अभावाद् एव तस्य कृष्ण-पुत्रत्व-निश्चयात् तथा-भूत-स्वानुभवाच् चेति भावः । किं च, तन्-मातृणाम् एव तस्मिंस् तादृशो भावो न त्व् अन्यासाम् इत्य् आह—कामे स्मरे स्मरत्य् अस्माद् इति स्मरस् तस्मिन् कान्त-स्मरण-हेतोर् यस्य परोक्षत्वे\ऽपि कामोद्भावत्वं तस्मिन्न् अक्षि-विषये तु सति उतेति तथेत्य् अर्थे अन्य-नार्यः, किं तथा भवितुं शक्नुवन्ति अपि तु नैव यतः क्षोभम् एव प्राप्नुवन्तीत्य् अर्थः ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे प्रद्युन्मोत्पत्ति-
नाम पञ्चपञ्चाशत्तमोऽध्यायः ।
॥ १०.५५ ॥
(१०.५६)
-
ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि इति प्रथम-स्कन्धे पाठः । "नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे" इति पाठः १०.८४.२२[-]{दिर्=“र्त्ल्”}श्लोके प्राप्यते । ↩︎
-
गत-त्रपा ↩︎
-
नदन् ↩︎
-
मुमुचे\ऽस्त्र-मयं ↩︎
-
\ऽश्म- ↩︎
-
शुचि-स्मिताः ↩︎
-
न्व् अनेन ↩︎
-
एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः । हृतो येनाभवत् बालो भवत्याः सूतिका-गृहात् ॥
इयं मायावती भार्या तनयस्यास्य ते सती । शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ॥
मन्मथे तु गते नाशं तद्-उद्भव-परायणा । शम्बरं मोहयामास माया-रूपेण रुक्मिणि ॥
विहाराद्य्- उपभोगेषु रूपं माया-मयं शुभम् । दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥
कामोऽवतीर्णः पुत्रस् ते तस्येयं दयिता रतिः । विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ ↩︎
-
रहसि इत्य् उक्ते ↩︎