५४

यदुभिः सह सङ्ग्रामे चैद्य-पक्षीय-राज्ञां पराजयः, रुक्मिणः पराभवः, बलभद्र-कृत-सान्त्वनं रुक्मिणी-श्रीकृष्ण-विवाहश् च ।

॥ १०.५४.१ ॥

श्री-शुक उवाच—

इति सर्वे सुसंरब्धा वाहान् आरुह्य दंशिताः ।

स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुष्पञ्चाशत्तमे तु जित्वा राज्ञोऽरिपक्षगान्

रुक्मिणं च विरुप्याथ भैष्म्याः पाणिं पुरेऽग्रहीत्

इतीति “अहो धिग् अस्मान्” इत्य् एवं वदन्तः । सुसंरब्धाः क्रोधाविष्टाः । दंशिताः कृत-सन्नाहाः । परिक्रान्ताः परिवृताः । अन्वीयुर् अन्वधावन् ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अरिपक्षगान् शिशुपालपक्षीयान् । विरूप्य मुण्डयित्वा (*) । सर्वे जरासन्धादयः । वाहान् गजादीन् । धृतकार्मका इति पूर्वं विमूढत्वेनोज्झितास्त्रतया गजादिभ्यो भूमौ पतनात् ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वाहान् गजादीनारुह्येति, धृतकार्मुका इति च, पुरा विमूढत्वेनोज्झितास्त्रतया गजादिभ्यो भूमौ पतनात् ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वाहान् गजादीनारुह्यति धृतकार्मुका इति च पुरा विमृद्धत्वेनोज्झितास्त्रतया गजादिभ्यो भूमौ पतनात् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

चतुष्पञ्चाशत्तमेऽविजयो रुक्मिविरूपता ।

भैष्म्याः प्रबोध उद्वाहो द्वारकायाम् इतीर्यते ॥

विस्फूर्ज्य टङ्कारयित्वा ॥१.२॥


॥ १०.५४.२ ॥

तान् आपतत आलोक्य यादवानीक-यूथपाः ।

तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्फूर्ज्य टङ्कारयित्वा ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् राज्ञः । यादवानीकानां यूथानि पान्ति ये तथा ते बलदेवादयस्तत्सम्मुखा राजाभिमुखाः । त इति श्रीरामेण सहतद्-अर्थम् एव य आगता इत्य् अर्थः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते पूर्वम् एव तद्-अर्थम् एव श्रोबलदेवेन सहागता ये । किं वा, महाबलपराक्रमादिना प्रसिद्धाः, बिंवा, श्री-कृष्णकप्रिया यादवालामनौकानि सैन्यानि, तेषां यूथपाः श्रीबलदेवादयः, स्वकीयान्यसाधारणानि धषि । हे राजन्न् इति प्रहर्षात् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति । पूर्वमेतद्-अर्थम् एव श्रीरामेण सहागताः प्रसिद्धाश् च य इत्य् अर्थः स्वान्यसाधारणानि धनूंषि ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५४.३ ॥

अश्व-पृष्ठे गज-स्कन्धे रथोपस्थेऽस्त्र-कोविदाः । > मुमुचुः शर-वर्षाणि मेघा अद्रिष्व् अपो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परेषां शराणां बाहुल्ये यादवानामचलत्वे दृष्टान्तः । मेघा इति ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रथोपस्थे रथमध्ये उपस्थः शेफसि क्रोडे तथा मदनमन्दिरे इति मेदिनी । क्रोडे मध्ये । रथोपस्थे तदुपरिस्थितनीडे । कोविदा युद्धा\ऽभिज्ञा जरासन्धाद्याः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रथस्योपस्थे उपरि च, अश्वपृष्ठादौ शरवर्षाणां मोचनं तेषाम् अत्यन्तवाहुल्येन । तत्र तत्रावस्थितयोधैः सह तत्तद्व्यापनात्, अश्वादीनां यथोत्तरं वृहतया तेषु शरवर्षणाधिक्येन तत्तत्क्रमेण निर्द्देशः, मुमुचुनृपाः यतो\ऽत्रेषु कोविदा इति मेघसादृश्यमुपपादितम् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रथोपस्थे तदुपरि स्थितनीडे कोविदा युद्धाभिज्ञा जरासन्ध-मुखाः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परेषां शराणां बाहुल्ये यादवानामचलत्वे दृष्टान्तः, मेघा इति ॥३॥


॥ १०.५४.४ ॥

पत्युर् बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा । > सव्रीडम् ऐक्षत् तद्-वक्त्रं भयविह्वललोचना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऐक्षदैक्षत ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्वक्त्रं श्री-कृष्णमुखम् । सुमध्यमेतिलज्जयावनतमध्यत्वेन तत्र भङ्गुरत्वव्यक्तेः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पत्युरित्गात्मनो वलस्य च रक्षणाभिप्रायेण, वीक्ष्य साक्षाद्दष्ट्वा मयेन विह्वले अश्रुमोचनादिना आकुले चञ्चले वा लोचने यस्यास् तथा-भूता सती, यतः सुमध्यमा परमोत्तमा, तादृशीनां सदा भीरुत्वात्, तत्रापि शरासारैश्छन्नं वीक्ष्य स व्रीर्ड यथा स्याद् इति सुमध्यमात्वाद् एव नववीक्षणाद्वा ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुमध्यमेति । लज्जया नम्रत्वेन भङ्गुरमध्यात्वव्यक्तेः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐक्षमैक्षत ॥४॥


॥ १०.५४.५ ॥

प्रहस्य भगवान् आह मा स्म भैर् वामलोचने । > विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मा स्म भैः मा भयं कुरु । हे वामलोचने वाराक्षि । तावकैस्त्वदीयैः कृत्वा ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद्दृश्यमानम् । प्रहस्येति स्वस्य निर्भयत्वं सूचयंस्तामाश्वासयति—हे वामलोचन इति । स्त्रीस्वभावं भीरुत्वं मा स्वीकुरु, त्वं वामे शोकाश्रुराहित्यान्मनोहरे एव लोचने भविष्यतो यस्यास्तादृश्य् एव भविष्यसि, न त्वस्मत्पराजयेन विक्लवनेत्रा भविष्यसीति भावः । तावकैर् अस्माभिः । स्वेषां तदीयत्वनिर्देशस्तस्यां परम-प्रणयव्यञ्जकः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तावकैः शात्रवं वलम् इति तावकैर् इति ममतोद्भावनम् ॥ ५-३२ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रहस्य उच्चैर् हसित्वेति तस्या भयनिरासार्थम्, तथा चोक्तं तृतीयस्कन्धे श्रीकपिलदेवेन हासं हरेर् अवनताखिललोकतीव्र, शोकाश्रुसागरविशोषणमत्युदारम् [ ३।२८।३२ ] इति, यतो भगवान् साक्षात् परमेश्वरः । हे वामलोचने इति भयविह्वलत्वेन नेत्रयोस् तदानीं सौन्दर्याधिक्यात्, तावकैस्त्वत्सम्बन्धिभिर् यादिवसैन्यैर् हेतुभिर् विनङ्क्ष्यति स्वयम् एव मरिष्यति, बहुत्वेन तस्याः समाश्वासनार्थं स्वसैन्यस्य बाहुल्यम्, बलम् इत्य् एवत्वेन च शत्रुसैन्यस्याल्पत्वमुक्तम् ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रहस्येति । निर्भये\ऽपि तस्याभयदर्शनात् तन्निरसनेच्छातश् च हे वामलोचने ! इति सम्बोधनं तदानीम् आत्मनि प्रथमार्पित-तत्-सौन्दर्य-विशेषानुभवेन सुखाभिव्यक्तेः तावकैर् हेतुभिर् विनक्ष्यति स्वयम् एव मरिष्यति तावकत्वनिर्देशस्तस्यां परम-प्रणयव्यञ्जकः बहुत्वं स्वसैन्यस्य बाहुल्यव्यञ्जकं शत्रुबलस्यैकत्वं च स्वल्पप्रायत्वव्यञ्जकं तच् च सर्व तस्या एवाश्वासनार्थम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रहस्येत्य्-आदि । तावकैर् इति स्वजनान् प्रति तदीयत्वम् उद्भाव्य तस्यां सर्व-समर्पणम् इव व्यञ्जयति ॥५-३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मास्म भैः माभैषीः । तावकैर् अस्माभिः स्वेषां तदीयत्वनिर्देशस्तस्यां परम-प्रणयव्यञ्जकः ॥५॥


॥ १०.५४.६ ॥

तेषां तद्-विक्रमं वीरा गद-सङ्कर्षणादयः । > अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स चासौ विक्रमश् च तम् ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां राज्ञाम् । तद्विक्रममिति—कर्मधारयेण नीलोत्पलमितिवद्विक्रमस्य स्वाभाविकत्वमसूचि । गदस्याग्रोक्तिभक्तिविशेषेणाग्रे भवनात् । हयानामतिचञ्चलत्वाप्रथमम्, ततो गजानां स्थूलशरीरत्वात्, सर्वान्ते पराजयपूर्णतेच्छया सर्वतोमुखानां थानाम् इति क्रमनिर्देशाभिप्रायः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्विक्रममुक्तं पराक्रममामृष्यमाणा असहमानाः, यता वीराः, अदि-शब्दात् सात्यक्यक्रूर-कृतवर्मदयः, गदस्यादावुक्तिर्भक्तिविशेषेणाग्रे भवनात्, सङ्कणति सर्वेषाम् एव तेषाम् एकत्राकर्षणात्, हयादीनां यथोत्तरं श्रैष्ठ्येन कनिष्ठानाम् एवाग्रे गमनात्तत्तत्क्रमेण हननम् ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्विक्रमम् इति । समासेन विक्रमस्य तादृशत्वं स्वाभाविक दर्शयति नीलोत्पलम् इति अमृष्यमाणा असहमाना, गदस्यादावुक्तिविर्शेषेणाग्रे भवनात् । हयानामतिचञ्चलत्वात् प्रथमं हननं ततो गजानां स्थूलस्थूलत्वात् सर्वान्ते पराजयपूर्णतेच्छया सर्वतो मुख्यानां रथानाम् इति निर्देशक्रमाभिप्रायः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्तदा सचासौ विक्रमश् च तम् इति वा ॥६.७॥


॥ १०.५४.७ ॥

पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि । > स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उष्णीषाणि शिरोवतं सवस्त्राणि तत्सहितानि शिरांसि ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उष्णीषं तु शिरोवेष्टे इति मेदिनी । शिरोवतंसवस्त्राणि शिरःशोभाकरवस्त्राणि । पेतुर् इति युग्मकम् ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पेतुर् इति युग्मकम् । रथ्यादीनां च यथा पूर्व युद्धश्रैष्ठ्यात्तत्तत्क्रमेण शिरः पतनं कुण्डलादीनां यथा सम्भवं समुच्चयः पार्थक्यं च इति तेषाम् आधिक्यसूचनेन वीरेषु महत्त्वं सूचितं कोटिश इत्यस्य परत्रापि सर्वैर् अन्यः । करभा इति । तैर् व्यख्यातं तत्र मणिबन्धादाकनिष्ठं करस्य करभो बहि रित्यनुसारेण लक्षणयैव प्रकोष्ठावचनं प्रकोष्ठस्तदुपरिभागः पक्षे क्रमनिम्नत्वात् करभा इव करभा इति ॥ ७-८ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५४.८ ॥

हस्ताः सासि-गदेष्व्-आसाः करभा ऊरवोऽङ्घ्रयः । > अश्वाश्वतर-नागोष्ट्र- खर-मर्त्य-शिरांसि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : करभाः प्रकोष्ठा ऊरुविशेषणं वा ॥८.९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऊरुविशेषणे तु करभतुल्या इति ज्ञेयम् । हस्ता इत्य् उक्तर् एव करग्रहणाद्विकल्पः । अश्वतरो गर्दभादश्वायां जातः । मणिबन्धादाकनिष्ठं करस्य करभो । बहिः इत्यमरानुसारेण करैकदेशो लक्ष्यते ॥ ८.९ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रथ्यादीनां च यथापूर्वं युद्धे श्रेष्ठ्यात् तत्त्क्रमेण, शिरःपतनं तत्र केपाञ्चित् सकुण्डलादीनि केषाञ्चिच् च सोष्णीयाणीति ज्ञेयम् । यद् वा, उष्णीषोपरि किरीटधारणेन सर्वेषाम् एव तानि तानीति, एवम् अग्रे\ऽपि, हस्ता इत्यादावपि, इति पीराणामलङ्कारादियुद्धसामग्र्यामहोत्साहादिकं सूचितम् । कोटिश इत्यस्य परत्रापि सर्वैर् अन्वयः । एवं खण्डशः पतनेन यादववीराणां युद्धनैपुण्यादिकं सूचितम् । तत्रास्यादि-युक्तहस्तान यथापूर्वं युद्धे नैकठ्याधिक्येन तथा हस्तादीनां चोर्ध्वतया युद्धे तत्तत्क्रमेण पातः, अश्वादयस्त्रयो वाहनरूपाः, उष्ट्रादयो युद्धसाधनायुधवाहकाः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वरभाः केषाञ्चित् केवलकरभाः कनिष्ठोपलक्षितकरैर् एकदेशाः ॥८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : करभाः मणिबन्धादाकनिष्ठं करस्य करभो बहिर् इत्य् अमरः ॥८.१०॥


॥ १०.५४.९-१०॥

हन्यमान-बलानीका वृष्णिभिर् जयाकाङ्षिभिः । > राजानो विमुखा जग्मुर् जरासन्ध-पुरः-सराः ॥ > शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् । > नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्राप्तदारम् एव तं हृतदारमिवातुरम् ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नष्टत्विषं गतकान्तिम् । नष्टत्विषम् इत्य् -आदिना कायमनोवाचं क्रमेण शक्त्यपक्रम ऊह्यः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जयं काशयितुं प्रकटयितुं शीलमेषाम् इति तथा ते । यद् वा, जयः श्री-कृष्णस्तत्प्रकाशनशीलैस्तद्भक्तवरैर् इत्य् अर्थः ॥९॥

अथ वृष्णिजयानन्तरं समेत्य सर्वे\ऽन्योन्यमेकीभूय । यद् वा, शिशुपालेन सह सङ्गत्य तमब्रुवन्, यत आतुरं परमार्तम् । कम् इव ? हृतदारम् इव, यथा हृतदारः कश्चिदातुरो भवति, तथा-भूतम् इत्य् अर्थः । अत एव नष्टा त्विट कान्तिर्यस्य तम् । एवं कायमनौवाचां क्रमेण शक्त्यपगम उक्तः । तत्र शुष्यद् इत्य् अनेन वाचः सिद्ध एव, नष्टत्विषम् इत्य् -आदौ कैमुतिकन्यायावतारणेन यथोत्तरमातुरत्वहेतुकतायामाधिक्यं ज्ञेयम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जयकाशिभिः जितकाशिभिः जितकाशी जिताहव इति क्षीरस्वाम् इवचनात् जयकाङ्क्षिभिर् अति पाठः स्पष्टः ॥९॥

नष्टत्विषम् इत्य् -आदिना त्विण्नाशादिना कायमनोवाचां क्रमेण शक्त्यपक्रम ऊह्यः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५४.११ ॥

भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज । > न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्ठा स्थैर्यम् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दौर्मनस्यं वैमनस्यम् । निष्ठा नियतत्वम् निष्ठोत्कर्षे व्यवस्थायां नियते नाशयाच्ञयोः इति हलायुधः । श्रीमुनीन्द्रस्तेषां वाक्येनैव तानुपहसति-भोभोः इत्य्-आदिना । वीप्सा त्वत्यार्तस्याभिमुख्यार्था । हे पुरुषशार्दूलति-तत्पुंसो हि दौर्मनस्यं नोचितम् इति भावः । देहिषु नानादेहं प्राप्तवत्सु जीवेषु । हे राजन्निति-राज्ञां पारंपर्यागतम् एवेदं वृत्तं काशीराजप्रभृतिकन्यासु भीष्मादिभिस् तथाकरणाद् इति न शोक उचित इति भावः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीप्सा महार्तस्य तस्य बलाद्वक्ष्यमाणश्रवणाभिमुख्यार्थम्, दौर्मनस्यं मनोदुःखं त्यज । हे पुरुषशार्दूलेति सत्पुंसां दौर्मनस्यायोग्यत्वाद् इति भावः । कुतः ? तत्कारणस्यानित्यत्वाद् इत्य् आहू-नेति । देहिषु नानादेहं प्राप्नुवत्सु जीवेषु कदाचिदनिष्टस्य कदानिच्चेष्टस्य प्राप्तिर्भवतीत्य् अर्थः । तत्रेष्टप्राप्ते पश्चादुक्तिस्तदाश्वासनार्थम्, तच् च त्वया बुध्यत एवेति सान्त्वनार्थमाहुः-हे राजन्न् इति ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमुनीन्द्रस्तेषां वाक्येनैव तमुपहसति । भोभो इत्य्-आदिना । वीप्सा महार्तस्य तस्य बलादाभिमुख्यार्थं हे पुरुषशार्दूलेति सत्पुंसो दौर्मनस्यं हि न योग्यम् इति भावः । देहिषु नानादेहं प्राप्तवत्सु जीवेषु तच् च त्वया बुध्यत एवेत्य् आहुः हे राजन्न् इति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्ठा स्थैर्यम् ॥११॥


॥ १०.५४.१२ ॥

यथा दारु-मयी योषित् नृत्यते कुहकेच्छया । > एवम् ईश्वर-तन्त्रोऽयम् ईहते सुख-दुःखयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुहको नर्तयिता तस्येच्छया । दुःखेऽपीहमानत्वेन पारवश्यं व्यक्तं दर्शितम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दृष्टान्तेन बोधयन्त आहुः–यथेति । ईमानत्वेन वर्तमानत्वेन । व्यक्तं प्रसिद्धम् । तच् च कुतस्तत्राहयथेति । अयं सर्वो\ऽपि जनः । ईहते प्रवर्तते । ईश्वरः अपाणिपादो जवनो ग्रहीता इत्य् उक्तलक्षणः, सहस्रशीर्षः इत्य् उक्तलक्षणो वेति राज्ञां भावः, एवम् ईश्वर-मात्रज्ञाने पूर्णतदाविर्भावपरब्रह्मश्री-कृष्णवैमुख्यात्सर्वं तद्विधानं भस्मनि हुतम् इति तु श्रीमुनीन्द्रस्य ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् च कुतः ? जगदीशस्येच्छात इति वक्तुं जगतस्तदधीनत्वं सदृष्टान्तमाहुः-यथेति । योषिद् इति स्त्रीणाम् एव नृत्ये प्राधान्यात्, नृत्यते नृत्यति, अयं सर्वो\ऽपि जन ईहते प्रवर्तते, सुखदित्सायां तस्य सत्यां सुखेहा, दुःख दित्सायां च दुःखेहा, ततश् च सुखेहया प्रियस्य प्राप्तिः, दुःखेहया चाप्रियस्येत्य् अर्थः । दुःखस्य पश्चादुक्तिरत्यस्वातन्त्र्यबोधनार्थम्, अतः पूर्वोक्तक्रमो नापेक्षितः, ईश्वरेच्छायां च कारणानुसन्धानमीश्वरत्वाद् एव निरस्तम्, अन्यथा स्वातन्त्र्यहान्यानीश्वरताप्रसक्तिः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च कुतस्तत्राहुः । यथेति । योषिद् इति तत्प्रतिमाया एव रुचिकरत्वेन विषयिप्रवृत्तेस् तथा हि तद्व्यवहारः नृत्यते नृत्यति अयं सर्वो\ऽपि जनः ईहते प्रवर्तते दुःखस्य पश्चादुक्तिः सुखे स्वत एव प्रवर्त्तन्त इति चेन्न दुःखे\ऽपि तद्दर्शनाद् इति बोधयति । ईश्वरः अपाणिपादो जवनो ग्रहीते त्याद्युक्तलक्षणः सहस्रशीर्षा पुरुष इत्य्-आदिलक्षणो वेति राज्ञां भावः । एवम् ईश्वर-मात्रज्ञाने\ऽपि पूर्णातदाविर्भावनराकृति परब्रह्म श्री-कृष्णवैमुख्यात् सर्वं तद्विधानां भस्मनि हुतम् इति तु मुनीन्द्रस्य ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुहको नर्तयिता तस्येच्छया एवम् अयं जीवलोकः । कदाचित् सुखे कदाचिद् दुःखेऽपि ईहते चेष्टते प्रवर्तत इति यावत् । ईश्वराधीन इतीश्वरं मानितवताम् अपि तेषां कृष्णवैमुख्यादेवासुरत्वम् ॥१२॥


॥ १०.५४.१३ ॥

शौरेः सप्तदशाहं वै संयुगानि पराजितः । > त्रयो-विंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र चाहम् एव दृष्टान्त इत्य् आह जरासन्धः—शौरेर् इति । कृष्णात्सकाशात् । एकं संयुगम् । परं केवलमन्तिमं वा जिग्ये जितवानहम् ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र च पारवश्ये च । संयुगानि संयुगेषु सप्तदशसु । सैन्यैर् अक्षौहिणीभिः एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः [भा।पु। १०.५०.४२] इत्य् उक्तेः । कमेकम् इत्य् आकाङ्क्षाशमनायाह—अन्तिमं वेति । एवं सहेत्योक्ते\ऽपि तस्य दौर्मनस्यात्यागं दृष्ट्वा स्वयं जरासन्ध एवं स्वानुभवदर्शनेन सान्त्वयति—शौरेर् इति । कर्तरिषष्ठी छान्दसी । शौरिणाहं त्रयोविंशाक्षौहिणीभिःसहितो\ऽपि पराजितः । शूरनन्दनत्वेनेश्वरतामपह्नुवानो निन्दयते । प्रौढित्वं चाह निजमानरक्षणार्थम्—एकम् इति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सर्वैः संहत्योते\ऽपि तस्य दौर्मनस्यात्यागं दृष्ट्वा सर्वश्रेष्ठः पितृतुल्यत्वेन तस्य परमादरणीयः स्वयं जरासन्ध एव स्वानुभवप्रदर्शनेन सान्त्वयति-शौरेर् इति । त्रयोविंशत्यक्षौहिणीसङ्ख्यैः सैन्यैः सहाहं शौरितः पराजितो\ऽभवम्, वै प्रसिद्धौ । यद् वा, आर्षी कर्तरि षष्ठी, शौरिणेत्य् अर्थः । शुरनप्तृत्वेनेश्वरत्वं निहनुते ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सर्वैः संहस्योक्ते\ऽपि तस्य दौर्मनस्यत्यागमदृष्ट्वा स्वयं जरासन्ध एव स्वानुभवप्रदर्शनेन सान्त्वयति । शौरेर् इति । त्रयोर् विंशत्यक्षौहिणीसङ्ख्यैः सैन्यैः सहाहं शौरितः पराजितो\ऽभवं वै प्रसिद्धौ यद् वा, आर्षी कर्तरि षष्ठी शौरिणेत्य् अर्थः । शूरनप्तृत्वेनेश्चरत्वं निन्दयते प्रौढत्वं च तत्रापि निजमानरक्षाय कत्थते जिग्य इति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शौरेः सकाशात् संयुगानि व्याप्य संयुगेषु वा पराजितः पराभूतः । त्रयोविंशत्यक्षौहिणीसङ्ख्यैः एकं परम् एकस्मिन्न् अन्तिम एव संयुगे जिग्ये जितवानस्मि ॥१३॥


॥ १०.५४.१४ ॥

तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् । > कालेन दैव-युक्तेन जानन् विद्रावितं जगत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दैवमदृष्टं तद्युक्तेन ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि पराजितस् तथापीत्य् अर्थः । तथापि पराजये न शोचामि, जये न हृष्यामि । विद्रावितं सङ्क्षोभितम् । ननु कालस्य सर्वत्र साम्यन ततो न प्रियाप्रियप्राप्तिसम्भवः ? तत्राह—दैवेति । स्वकर्मणां वैचित्र्याद् इत्य् अर्थः । पूर्वमीश्वरेच्छैव कारणमुक्तमधुना तु दैवयुक्तः काल इति । अस्यायं भावः—जीवस्य दैवमनन्तमस्त्यनादित्वात् । तत्रेश्वरचेष्टात्मककालविशेषो दैवविशेषमुपादत्त इति ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापीति पराजयेनापि न शोचामि, जयेनापि न प्रहष्यामीत्य् अर्थः । कर्हिचिदित्यस्योभयत्राप्यन्वयः, कर्हिचिद् अपि तत्र हेतुम् आह—कालेनेति । विद्रावितं सङ्क्षोभितं जानन् सन् । ननु कालस्य सर्वत्र साम्येन तस्मात् प्रियाप्रियप्राप्तिः कुतः स्याद् इत्य् अपेक्षायाम् आह—दैवेति, स्वकर्मणां वैचित्र्याद् इत्य् अर्थः । तत्र देवस्येदं देवम् इति कर्मणामीश्वरेच्छारूपतातूचनेन पूर्ववतत्कारणानुसन्धानम् अपि निरस्तम् । यद् वा, दैवः सर्वदेवोपास्य ईश्वरस् तेन युक्तनेति कालस्यापि तदधीनत्वमुक्तम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैवाह-तथापीति । पराजयेनापि न शोचामि जयेनापि न प्रहृष्यामीत्य् अर्थः । कर्हिचिदित्यस्योभयत्राप्यन्वयः विद्रावितं सङक्षोभितम् ननु कालस्य सर्वत्र साम्येन तस्मात् प्रियाप्रियप्राप्तिः कुतः स्यात् तत्राह—दैवेति । स्वकर्मणां वैचित्र्याद् इत्य् अर्थः पूर्वमीश्वरेच्छैव कारणमुक्तम् अधुना तु दैवसंयुक्तः काल इत्यस्यायम्भावः जीवस्य देवम् अनादिसिद्धत्वादनन्तम् एव वर्त्तते तत्रेश्वरचेष्टात्मककालविशेषो दैवविशेषमुपादत्त इति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वम् ईश्वरएछैव कारणम् इत्य् उक्त्वा, पश्चात् कालेन दैव-युक्तेनेति कारणान्तर-निर्देशः । इदम् अभिप्रैति—जीवस्य दैवम् अनादित्वाद् अनन्तम् एव वर्तते । तत्र चेश्वर-चेष्टात्मकः काल-विशेषो दैव-विशेषम् उपादत्त इति ॥१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवम् अदृष्टं तद्-युक्तेन विद्रावितं सङ्क्षोभितम् ॥१४॥


॥ १०.५४.१५ ॥

अधुनापि वयं सर्वे वीर-यूथप-यूथपाः । > पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : फल्गुतन्त्रैः स्वल्पसैन्यैः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्त्रं परिच्छदे इति कोशात् फल्गुतन्त्रैः स्वल्पसेनापरिच्छदैः । फल्ग्वसारे\ऽभिधेयवत् इति मेदिनी ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वयमिति—सर्वेषाम् एव नृपाणां सङ्ग्रहात् । यद् वा, समाश्वासनार्थं पुनः सर्वे सम्भूयाहुर् इति ज्ञेयम् । मित्रैर् इत्यग्रे वक्ष्यमाणत्वात् । वीराणां यूथपास्तेषां यूथपा अपि इति महावीरवरत्वमुक्तम् । तत्रापि कृष्णेन श्रीनन्दगोपपुत्रेण पालितैर् इति स्वेभ्यो न्यूनत्वम् एव बोधयन्ति ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकृतलज्जादुःखापलापे तत्सर्वं योजयति—अधुनापीति । सम्प्रत्यपि पश्येत्य् अर्थः । वयम् इति सर्वापेक्षया पुनः सर्वेषाम् एवैतानि वचनानीति वा कृष्णेति मूलनामग्रहणमवज्ञासूचनार्थम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फल्गु-तन्त्रैः तुच्छ-परिच्छेदैः ॥१५॥


॥ १०.५४.१६ ॥

रिपवो जिग्युर् अधुना काल आत्मानुसारिणि । > तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रदक्षिणोऽनुकूलः स्यात् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रदक्षिणो\ऽनुकूले परिक्रामे\ऽतिदक्षिणे ज्ञेयः इति निरुक्तिः । आत्मनो\ऽनुसारिणि अनुकूले सति ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च तथापि निराशैर् भाव्यम् । कालक्रमेण जयस्यापि सम्भवादित्याश्वासयन्ति—रिपव इति । आत्मनामनुसारिणि अनुकूले सति विशेषेण तेषां जयादप्युत्कृष्टतया जेष्यामः । हि इति पाठे निश्चितम् । वयं च इति पाठे च अपि वयम् अपि ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनस् तत् सर्वम् आश्वासने योजयति—रिपव इति । आतमनो\ऽनुसारिणि अनुकूले सति तज्-जपाद् अपि विशेषेण जेष्यामः । वयं चेति पाथे वयम् अपि ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रदक्षिणः अनुकूलः यदा स्यात् ॥१६॥


॥ १०.५४.१७-१८ ॥

श्री-शुक उवाच—

एवं प्रबोधितो मित्रैश् चैद्योऽगात् सानुगः पुरम् । > हत-शेषाः पुनस् तेऽपि ययुः स्वं स्वं पुरं नृपाः ॥ > रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः । > पृष्ठतोऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरोत्या । हतेभ्यः शेषाः, बहवो हता इति द्योतनायैव ॥१७॥

असहन्नसहमानः । आर्षत्वाच्छता\ऽत्र । पूर्वोक्ते युद्धारम्भे रुक्मिणो वृत्तम् आह—पृष्ठतः पश्चाद् इति । श्रीबलदेवादिषु युद्धभारं विन्यस्य श्री-कृष्णस्य द्वारकां प्रति प्रस्थानात् । तद्-उक्तं हरि-वंशे-

आदाय रुक्मिणीं कृष्णो जगामाशु पुरं प्रति । > रामे भारं समासज्य युयुधाने च वीर्यवान् । > अक्रूरे विपृथौ चापि गदे च कृतवर्मणि ! ॥ > चक्रदेवे सुदेवे च सारणे च महाबले । > निवृत्तशत्रो विक्रान्ते भङ्गकारे विदूरथे । > उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः । > राजाधिदेवे मदुरे प्रासने चित्रके तथा । > अरिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ । > वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ॥ [ह।वं। > २.५९.४७-५१] इति ।

सर्वान्वर्त्मनि स्थितांस्तान्वञ्चयित्वेति ज्ञेयम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण सन्यायाश्वासनादिना बोधितः सन् मित्रैर् हितकारिभिर् इति तेषां वाक्यस्यावश्यपाल्यतोक्ता । अनुगा दमघोषादयस्तत्सहिताः, पुरं स्वम्, हतेभ्यः शेषा अवशिष्टाः, अनेन बहवो हता इति द्योत्यते ॥१७॥

तु-शब्दः पूर्वतो विशेषे, तम् एव दर्शयति-स्वसुः राक्षसोद्वाहमसहमानः, यतः कृष्णं साक्षाद्भगवन्तं द्वेष्टीति तथा सः । एवम् अग्रे\ऽपि, इति तस्य परमाबुधत्वदुष्टत्वादिकं सूचितम् । पृष्ठतः पश्चाद् इति श्रीबलदेवादिषु युद्धभावं विन्यस्य द्वारकां प्रति श्री-कृष्णस्य प्रस्थानात् । तथा च श्री-हरि-वंशे—

आदाय रुक्मिणीं कृष्णो जगामाशु पुरं प्रति । > रामे भारं समासज्य युयुधाने च वीर्यवान् । > अक्रूरे विपृथौ चापि गदे च कृतवर्मणि ! ॥ > चक्रदेवे सुदेवे च सारणे च महाबले । > निवृत्तशत्रो विक्रान्ते भङ्गकारे विदूरथे । > उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः । > राजाधिदेवे मदुरे प्रासने चित्रके तथा । > अरिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ । > वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ॥ इति ।[ह।वं। > २.५९.४७.५१ ]

अक्षौहिण्यैकया वृतः परिवृतः यद् वा, अक्षौहिणीभिर् बह्वीभिर् आवृतः, स्वयम् अपि बली युद्धसमर्थः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हतेभ्यः शेषा इति बहवो हता इति द्योत्यते ॥१७॥

पूर्वोक्तयुद्धारम्भे रुक्मिणो वृत्तिम् आह—रुक्मी त्व् इति । पृष्ठतः पश्चात् पृष्ठरक्षान् विन्यस्य द्वारकां प्रति श्री-कृष्णस्य प्रस्थानात् तथा च हरि-वंशे—

आदाय रुक्मिणीं कृष्णो जगामाशु पुरं प्रति । > रामे भारं समासज्य युयुधाने च वीर्यवान् । > अक्रूरे विपृथौ चापि गदे च कृतवर्मणि ! ॥ > चक्रदेवे सुदेवे च सारणे च महाबले । > निवृत्तशत्रो विक्रान्ते भङ्गकारे विदूरथे । > उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः । > राजाधिदेवे मदुरे प्रासने चित्रके तथा । > अरिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ । > वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ॥ [ह।वं। > २.५९.४७-५१] इति ।

स्ववर्त्मनि स्थितांस्तान् वञ्चयित्वेति ज्ञेयम् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हतेभ्यः शेषा इति बहवो हता इति द्योत्यते ॥१७॥

आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति । > रामे भारं समासज्य युयुधाने च वीर्यवान् ॥ > अक्रूरे विपृथौ चापि गदे च कृतवर्मणि । > चक्रदेवे सुनक्षत्रे सारणे च महाबले ॥ > निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे । > उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः ॥ > राजाधिदेवे मृदुरे प्रसेने चित्रके तथा । > अतिदान्ते बृहद्दुर्गे श्वफल्के चित्रके पृथौ ॥ > वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ॥ [ह।वं। > २.५९.४७-५१] इति ।

स्ववर्तमनि स्थितांस्तान् व्यञ्जयित्वेति ज्ञेयम् ॥१८॥


॥ १०.५४.१९ ॥

रुक्म्य् अमर्षी सुसंरब्धः शृण्वतां सर्व-भूभुजाम् । > प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दंशितो बद्धकवचः । अमर्षी असहनः । सुसंरब्धो\ऽतिक्रोधी । महाबाहुर् इति बाहूत्थापनाभिप्रायेण ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमर्षी असहनशीलः, अत एव सुसंरब्ध इति विचारराहित्यं सूचितम् । अत एव शृण्वतां शृण्वत्सु, इति तेषां स्वस्वपुरगमनात् प्राग् इति ज्ञेयम् । तस्य प्रतिज्ञायोग्यतां बोधयन् महाशूरत्वम् आह । किं वा, बाहुमुत्थाप्य धनुरादिस्पर्शेन शपथपूर्बकं प्रतिजज्ञ इति सूचयति-महेत्यादिना । सङ्गरे युद्धमध्ये, न तु मायादिनेत्यात्ममौर्य्य ख्यापयति ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अमर्षी असहनः, अत एव सुसंरब्धः अतिशयेन क्रुद्धः, अत एव शृण्वतां शृण्वत्सु सर्वभूभुजां सर्वभूभृत्सु तस्य प्रतिज्ञायोग्यत्वं बोधयन् महाशूरत्वं लक्षयति–महाबाहुर् इति । अनेन तदानीं बाहूत्थापनम् अपि ज्ञेयम्, अतः पूर्वम् एव दंशित इत्य्-आदि ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमर्षी असहिष्णुः सुसम्बद्ध अतिक्रोधी ॥१९॥


॥ १०.५४.२०-२१ ॥

अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् । > कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः ॥ > इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः । > चोदयाश्वान् यतः कृष्णस् तस्य मे संयुगं भवेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अप्रत्यूह्य अन्यस्मै अदत्त्वानानाय्य वा । सङ्गरे न तु मायादिना । अप्रत्यूह्यानिवर्त्य । न प्रवेक्ष्यामीति पौरजनेषु निजमुखदर्शनायोग्यत्वात्, इयं च दैवी गीर्भावित्वात् ॥२०॥

यतो यत्र । तस्य तेन । यतो यत्र द्वारकायां परमदुर्गेऽपि कुतस् तस्य मे मया सह संयुगं भवेत् । कामप्रवेदने लिङ् । ममेच्छेत्य् अर्थः । हेतौ वा, तद्भवनहेतोर् इत्य् अर्थः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णं श्यामम् इत्य् असूयया । किं वा, बलाद् धरणाभिप्रायेण, एवम् अग्रेऽपि । अप्रत्यूह्य अनानीय । इदं च भावित्वात् सत्यम् एव तन्मुखान् निःसृतम् । कुण्डिनं पुरं न प्रवेक्ष्यामीति प्रतिज्ञाहान्यात्यन्तलज्जया पौरजनेषु निजमुखदर्शनायोग्यत्वात् ॥२०॥

प्राह प्रवाहेनाह । सत्वरः सन् चोदय प्रेरय, कुत्र ? यतो यत्र तत्रैव परमदुर्गद्वारकादावपीत्य् अर्थः । कथम् ? तस्य मे मया सह मम च वा संयुगं भवेद् यथा तथैव । न त्वनुव्रजनादिप्रकारेणेत्य् अर्थः । यद् वा, किमर्थम् ? तदाह—तेस्येति । भवेत्भवत्वित्येतद्-अर्थम् इत्य् अर्थः ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्गरे, न तु मायादिना अप्रत्यूह्य अनिवर्त्य कुण्डिनं न प्रवेक्ष्यामीति पौरजनेषु निजमुखदर्शनाय अयोग्यत्वात् इयं च दैवीगीः भावित्वात् ॥२०॥

चोदयेति । नोदयेत्य् अर्थः । कुत्र यतो यत्र तत्रैव परमदुर्गद्वारकायामपीत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहत्वेति भारतीपक्षे अज्ञात्वा अप्रत्यूह्य अनिवर्त्य अनिर्मोच्येति वा ॥२०-२१॥


॥ १०.५४.२२-२३ ॥

अद्याहं निशितैर् बाणैर् गोपालस्य सुदुर्मतेः । > नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता ॥ > विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् । > रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपालस्य वेदपालकस्येति वास्तवोऽर्थः । तथा सुदुर्मतेर् इति शोभनाऽनुग्रहवती दुष्टेष्व् अपि मतिर्यस्य तस्येति ॥२२.२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रसभं हठात् । तच् च किमर्थम् ? तत्राह—अद्येति । नेष्ये गमयिष्यामि, हरिष्यामीत्य् अर्थः । तत्त्वार्थश्चायम्—गोपालस्य तद्रूपलीलात्वेनैव प्रकाशितापूर्वसर्वैश्वर्यमाधुर्यस्यानाद्यनन्तकालसिद्धवेदसिद्धसर्वमन्त्रश्रेष्ठयोर् अष्टादशदशाक्षरयोर् अधिदेवस्य स्वयं भगवत इत्य् अर्थः । तर्हि कथं बहूनामन्यत्र प्रवृत्तिस्तत्राह—सु सुष्ठु दुरतिकृच्छ्रेण मतिर्ज्ञानं यस्य तस्य निशितैर् बाणैर् निजम् एव वीर्यमदं नेष्ये गमयिष्यामिक्षपयिष्यामीत्य् अर्थः । तर्हि कथं तत्र तस्य सामर्थ्यं दर्शयति—येनेति । प्रसभं सर्वान् अपि राज्ञः पराभूयेत्य् अर्थः । म इति वीर्यमदम् इत्य् अनेनाप्य् अन्वितं वा ॥२२॥

विकत्थमान आत्मानं श्लाघमानः । विरूपं कत्थमान आत्मानं श्लाघमानः । अतः कुमतिः । अतोऽप्रमाणवित् माहात्म्यानभिज्ञः । अत एव श्रीबलदेवं वर्त्मान्तरेण वञ्चयित्वा एकेन रथेन सह वर्तमान एकाकिना भगवता स्वयम् एवैकाकितया योद्धुं महामदेन दूरतः सर्वसैन्यपरित्यागात् । तथा च हरि-वंशे—

अवस्थाप्य च तत् सैन्यं रुक्मी मदबलान्वितः । > चिकीर्षुर् द्वरथं युद्धम् अभ्ययान् मधुसूदनम् ॥ [ह।वं। > २.६०.७] इति ।

गोविन्दं पृथ्व्यामवतीर्णं साक्षाद्भगवन्तम् अपीत्य् अर्थः । एवम् अग्रे कृष्णम् इत्य् -आदिकं ज्ञेयम् । तद् एवं मुहुर् उक्तिस्तस्यात्यन्ताबुधत्वादिबोधनार्थम् ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् च किमर्थम् ? तदाह—अद्येति । नेष्ये गमयिष्यामि हरिष्यामीत्य् अर्थः । तत्रार्थश्चायम्—गोपालस्य तत्तन्महामन्त्राधिदेवत्वेन प्रसिद्धस्य भगवतः, कर्मणि षष्ठी, तं प्रति बाणैः सह वीर्यमदं निजं नेष्ये प्रापयिष्यामि, भक्त्यार्पयिष्यामीत्य् अर्थः । यतो बलादप्याहो सम्बन्धेन मामनुजग्राहेत्य् आह—येनेति ॥२२॥

विरूपं कत्थमान आत्मानं श्लाघमानः । यतः कुमतिः । अतोऽप्रमाणवित् माहात्म्यानभिज्ञ इत्य् अर्थः । अत एवैकेन रथेन सह वर्तमान । एकाकिना श्री-भगवत्-आ सह स्वयम् अप्येकाकितया योद्धुं महामदेन दूरतः सर्वसैन्यपरित्यागात् । तथा च तत्रैव हरि-वंशे—

अवस्थाप्य च तत् सैन्यं रुक्मी मदबलान्वितः । > चिकीर्षुर्द्वरथं युद्धमभ्ययान्मधुसूदनम् ॥ [ह।वं। २.६०.७] > इति ।

गोविन्दं पृथ्व्याम् अवतीर्णं साक्षाद् भगवन्तम् अपीत्य् अर्थः । एवम् अग्रे कृष्णम् इत्य्-आदिकम् अपि ज्ञेयम् । तथैव मुहुर् उक्तिस् तस्यात्यन्ताबुधत्वादिबोधनार्थम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च किमर्थं तदाह–अद्येति । नेष्ये गमयिष्यामि हरिष्यामीत्य् अर्थः । ननु श्री-कृष्णनिन्दामयं वाक्यं श्रीमद्भगवद्भक्तवृन्दवन्द्यश्रीचरणकमलरजःकणेन तत्र भवता वादरायणिना कथमनूदितम् इति चेत्तत्राहुष्टीकाकृतो गोपालस्येत्य्-आदि तस्येतीत्यन्तं तत्र तस्यैकदेशे\ऽपि यथाकथञ्चिद् अपि तत्स्तुतिरूपार्थसत्त्वे\ऽनुचितो\ऽत्रानुवाद इत्याशयः तत्त्वार्थश् चायं गोपालस्य तद्रूपलीलत्वेनैव प्रकाशितापूर्वसर्वैश्वर्यमाधुर्य्यस्य अनाद्यनन्तकालसिद्धवेदसिद्धसर्वमन्त्रश्रेष्ठयोर् अष्टादशदशाक्षरयोर् अधिदेवस्य स्वयं भगवत इत्य् अर्थः । तर्हि कथं बहूनामन्यत्र प्रवृत्तिस्तत्राह—सुष्ठदुः अतिकृच्छेण मतिर्ज्ञानं यस्य तस्य निशितैर् बाणैर् निजम् एव वीर्यमदं नेष्ये गमयिष्यामि क्षपयिष्यामीत्य् अर्थः तत्र तस्य सामर्थ्य दर्शयति । येनेति प्रसभं सर्वान् अपि राज्ञः पराभूयेत्य् अर्थः । मे इति वीर्यमदम् इत्य् अनेनाप्यन्वितं वा ॥२२॥

विरूपं कत्थमान आत्मानं श्लाघमानः । यतः कुमतिः । अतोऽप्रमाणवित् माहात्म्यानभिज्ञ इत्य् अर्थः । अत एव श्रीबलदेवं वर्त्मान्तरेण वञ्चयित्वा एकेन रथेन सह वर्तमान । एकाकिना श्री-भगवत्-आ सह स्वयम् अप्य् एकाकितया योद्धुं महामदेन दूरतः सर्वसैन्यपरित्यागात् । तथा च श्री-हरि-वंशे—

अवस्थाप्य च तत् सैन्यं रुक्मी मदबलान्वितः । > चिकीर्षुर्द्वरथं युद्धमभ्ययान्मधुसूदनम् ॥ [ह।वं। २.६०.७] > इति ।

गोविन्दं पृथ्व्यामवतीर्णं साक्षाद्भगवन्तमपीत्य् अर्थः । एवम् अग्रे कृष्णम् इत्य्-आदिकम् अपि ज्ञेयम् । तथैव मुहुर् उक्तिस्तस्यात्यन्ताबुधत्वादिबोधनार्थम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गोपालस्येति तत्त्वार्थे तद्रूपत्वं व्यञ्जितमहैशर्यम् इति तदादरो व्यञ्जितः ॥२२-२३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गोपालस्य वेदपालस्येति वास्तवोऽर्थः । तथा सुदुर्मतेर् इति शोभनानुग्रहवती दुष्टेष्व् अपि मतिर्यस्य तस्येति ॥२२-२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नेष्ये गमिष्यामि हरिष्यामीत्य् अर्थः । भारतीपक्षे—शोभना कृपावती दुष्टेष्व् अपि मतिर् यस्य तस्य निशितैर् बाणैर् वीर्यम् इदं स्वपराक्रमं गर्वमदं नेष्य यापयिष्यामि दूरीकरिष्यामीत्य् अर्थः ॥२२-२३॥


॥ १०.५४.२४ ॥

धनुर् विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः । > आह चात्र क्षणं तिष्ठ यदूनां कुल-पांसन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदूनां कुलपांसन कुलदूषण वस्तुतस् तु यदूनां कुलस्य पते । हे अंसन स्वयं च रिपुहननचतुर । अंस समाघाते इत्य् अस्माद्धातोः कर्तरि ल्युट् प्रत्ययो नन्द्यादिविहितः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र सङ्ग्रामे, मत्सम्मुखे वा । अवज्ञया तं भृशमुत्साहयितुमिच्छया च तदाह्वानमनादृत्य प्रयान्तम् एव पृष्ठतो जघ्ने । यद् वा, तदाह्वानादभिमुखतया स्थितं जघ्ने । तथापि क्षणं तिष्ठेति वीरदर्पस्वभावाद् एवाह । अरे हे शत्रो । यद् वा, —अव्ययम् इदं संबोधने वास्तवार्थे\ऽरे क्षणं शीघ्रदर्शनं यथा स्यात् तथा तिष्ठ लघुक्षिप्रमरं द्रुतम् इत्य् अमरः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवज्ञया तदाह्वानमनादृत्य प्रयान्तम् एव पृष्ठतो जम्ने, तथाप्यवज्ञया पुनर् अपि प्रयाणादाह । यद् वा, तदाह्वानादभिमुखतया स्थितं जघ्ने, तथापि क्षणं तिष्ठेति वीरदर्पस्वभावाद् एब, अरे हे शत्रो । यद् वा, अव्ययमनादरसम्बोधने ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवज्ञया तं भृशमुत्साहयितुमिच्छया च तदाह्वानमनादृत्य प्रयान्तम् एव शरैः पृष्ठतो जघ्ने तथापि तथैव प्रयान्तं पुनराह यद् वा, तदाह्वानादभिमुखतया स्थितं जघ्ने तथापि क्षणं तिष्ठेति वीर दर्पस्वभावाद् एवाह अरे हे शत्रो ! यद् वा, अव्ययम् इदम् अनादरसम्बोधने वास्तवो\ऽर्थः अरे क्षणं शीघ्रदर्शनं यथा स्यात् तथा तिष्ठेति लघु क्षिप्रमरं द्रुतम् इति पर्यायात् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुलस्य पांशुकरणात् कुलपांसन । पक्षे—हे यदुकुलपालक । हे अंसन रिपुघातिन् ! अंस समाघाते । अरे क्षणं भारतीपक्षे अरं शीघ्रमीक्षणं यत्र तद्यथा स्यात् तथा तिष्ठ ॥२४॥


॥ १०.५४.२५ ॥

यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः । > हरिष्येऽद्य मदं मन्द मायिनः कूट-योधिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ध्वाङ्क्षः काकः स यथा हविर्मुष्णाति तद्वत् । वस्तुतस् तु अध्वाङ्क्षवदितिच्छेदः । सहस्राक्षवद् इत्य् अर्थः । हे मन्द ! स्थिरेत्य् अर्थः ॥२५-३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ध्वाङ्क्षः काके बके\ऽर्थिनि इति कोशान्न ध्वाङ्क्षो\ऽर्थी याचको\ऽध्वाक्षः । इन्द्रस्यापि वाचकत्वे इन्द्रनामानन्व् अर्थता स्याद् इति भावे इत्यभिप्रेत्यैव स्वामिचरणैः सहस्राक्षवद् इत्य् उक्तम् । यद् वा, —अध्वेव विस्तृतान्यर्थाद्वहून्यक्षीणि यस्य स तथा । पृषोदरादित्वान्नुमार्षो वा । अर्थपदमुभयत्र व्याख्यापरम् । कूटयोधिनः छलप्रहर्तः । क इव, किं मुषित्वा, तत्राह—ध्वाङ्क्ष इव, हविर्मुषित्वेति । तत्र ध्वाङ्क्षवद् इति हविर्होन्तव्य मात्रे च सर्पिष्यपि नपुंसकम् इति मेदिनी । तत्त्वार्थस्तैर् व्यख्यातः । तत्र ध्वङ्क्षस्तावदेकाक्षः, नञा तद्विपरीतो\ऽनेकाक्षः । अनेकाक्षत्वं परमकाष्ठापन्नं सहस्राक्ष एवेति तत्र पर्यवसायितम् । एवम् अमुषित्वा लक्ष्म्यास्त्वद्भागत्वान्न्यायेनैव लब्ध्वा कुत्र यासि न कुत्रापि गन्तुम् अर्हसि । भयाभावाद् इत्य् अर्थः । मायिनो माहामायाशक्तेः पलायनं चेदमस्माभिर् युद्धयोग्यम् एवेत्य् आह—कूटयोधिनः । कूटानबलानस्मान्साधु योधयतीति । अन्यथा वयमाभिमुख्येन न योत्स्यामह इति भावः । तादृशस्य तव मदं हर्षं हरिष्ये, मद्विधखलनिर्जयलीलया त्वां प्रति प्रापयिष्यामीत्य् अर्थः । भारं ग्राम हरतीतिवद्विकर्मकत्वे\ऽपि तवेति षष्ठी संबन्धविवक्षया । यद् वा, —हविः यज्ञसिद्ध स्वभागम् इव मे स्वसारमुषित्वेति, ध्वाङ्क्षवत्क्षुद्रोहम् इति च योज्यम् ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मत्स्वसृमोषणं परमायोग्यम् इति दृष्टान्तेनाह—ध्वाङ्क्षवद् इति । तत्त्वार्थस्तैर् व्याख्यात एव । मायित्वाद् एव कूटं शाड्यं तेन वोद्धुं शीलमस्येति तथा तस्य, तत्त्वार्थो\ऽयम्—मदं निजयर्वं हरिष्ये त्वय्य् अर्पयिष्यामि । कुतः ? मन्देषु दृष्टेष्व् अपि मायिनो दयावतः, अत एव कूटयोधित निश्चलयोधिनः ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क इव किं मुषित्वा तत्राह—ध्वाङक्ष इव हविर्मुषित्वेति । तत्र ध्वाङक्षवद् इति तत्त्वार्थस्तैर् व्याख्यातः तत्र ध्वाङ्क्षस्तावदेकाक्षः नञा तद्विपरीतो\ऽनेकाक्षः अनेकाक्षत्वं पराकाष्ठापन्नं सहस्राक्ष एवेति तत्र पर्यवसायितम् एवम् अमुषित्वा लक्ष्म्यास्त्वद्भागत्वात् न्यायेनैव लब्धा कुत्र यासि न कुत्रापि गन्तुम् अर्हसि भयाभावाद् इत्य् अर्थः किं च, मायिनो महामायाशक्तेः पलायनं चेदस्माभिर् युद्धयोग्यम् एवेत्य् आह-कूटयोधिनः कूटान् खलान् अस्मान् साधु योधयतीति अन्यथा वयमाभिमुख्येन न योत्स्याम इति भावः । तादृशस्य च तव मदं हर्षं हरिष्ये मद्विधखलनिर्जयलीलया त्वां प्रति प्रापयिष्यामीत्य् अर्थः । भारं ग्रामं हरतीतिवद्विकर्मकत्वे\ऽपि तवेति सम्बन्धविवक्षया षष्ठी यद् वा, हविर्यज्ञसिद्धं स्वभागम् इव मे स्वसारममुषित्वेति ध्वाङ्क्षवत् क्षुद्रो\ऽहम् इति च योज्यम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ध्वाङ्क्षः काकः । स यथा हविर् मुष्णाति तद्वत् । पक्षे मे स्वसारं महालक्ष्मीत्वात् त्वदीयाम् अपि त्वं मुषित्वा अमूषित्वा वा कुत्र यासि ? अहं स्वसारं स्वभगिनीं हरिष्ये । त्वत्तो मोचयित्वा स्वगृहं प्रतिनेष्यामि । काक इव हविः यज्ञियकाष्ठादिकां ध्वाङ्क्षवत् काक इव । हविर् होतव्य-मात्रे च सर्पिष्यपि नपुंसकम् इति मेदिनी । तस्मात् मन्दश् चासौ मायी चेति तस्य मम कपटयोधिनः मदं गर्वं द्य खण्डय ॥२५॥


॥ १०.५४.२६ ॥

यावन् न मे हतो बाणैः शयीथा मुं च दारिकाम् । > स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दारिकां कन्याम् । पूर्वम् एव मुञ्चेत्य् अर्थः । यावदित्य् अर्धकम् । अत्र च मे मम बाणैर् हतः प्राप्तः सन् यावन्न शयीथास्तेषां तुच्छतां दर्शयित्वा हृतायां रुक्मिण्यां सुस्थो न भवेस्तावद्दारिकां मं च तत्सान्त्वनां त्यज, तत्सान्त्वनां मुक्त्वा युद्धम् एव कुवत्य् अर्थः ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो मम वाणैर् अहतो यावन्न शयीथाः, तावत् दास्यतीति दारिकां कर्तरी मयि मुं च, मद्वाणाक्षततया शयनार्थमगत्वा मयि प्रहारं कुर्वित्य् अर्थः । यद् वा, तव वाणैर् हतो मे मदं यावद्धरिष्ये\ऽपनेष्ये तावन्न शयीथा निश्चिन्त न वर्तथाः, दारिकां च न मुं च, युद्धनैश्चिन्त्यस्य तत्साधनत्यागस्य चा योग्यत्वात् । मे इत्यस्यैव विशेषणं मन्देत्यादिपदद्वयम् । मन्दश्चासौ मायी चेति तथा तस्य मदेन हेतुना आत्मनो निन्दनम् इदम् । स्मयम् स्मयमानः, पक्षद्वये\ऽपि तस्य तादृशोक्तेरसङ्गतत्वात्, षड्भिर् इति मस्तकादिमुख्यषडङ्गवेधनार्थम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावदित्य् अर्धकम् । अत्र च मे मम वाणैर् हतः प्राप्तः सन् यावन्न शयीथाः तेषां तुच्छतां दर्शयित्वा हृतायां सान्त्वितायां रुक्मिण्यां स्वस्थो न भवेः तावद्वारिकां मुं च तत्सान्त्वनां त्यज तत्सान्त्वनां मुक्त्वा युद्धम् एव कुरुष्वेत्यर्थं । स्मयन् स्मयमानः पक्षद्वये\ऽपि तस्य तादृशोक्तरसङ्गतत्वात् मस्तकहस्तद्वयपादद्वयमध्यभागाख्य मुख्यषडङ्गवधनार्थं षड्भिः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यावन्मे बाणैर् हतः सन् सङ्ग्रामे न शयीथास्तावद्दारिकां मुं च । पक्षे यावदित्य् एवार्थे मे बाणैस्त्वमहत एव । अतो दारिकां न मुं च । यावत्तावच् च साकल्येऽवधौ मानेऽवधारणे,इत्य् अमरः यावत् कार्त्स्न्येऽवधारण इति मेदिनी । ननु दारिकया मम किं प्रयोजनम् ? तत्राह—शयीथाः । अनया सह पुष्पशय्यायाम् इति शेषो लज्जया नोक्तः ॥२६-३१॥


॥ १०.५४.२७-३१ ॥

अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः । > स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः ॥ > तैस् ताडितः शरौघैस् तु चिच्छेद धनुर् अच्युतः । > पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः ॥ > परिघं पट्टिशं शूलं चर्मासी शक्ति-तोमरौ । > यद् यद् आयुधम् आदत्त तत् सर्वं सोऽच्छिनद् धरिः ॥ > ततो रथाद् अवप्लुत्य खड्ग-पाणिर् जिघांसया । > कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् ॥ > तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः । > छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च रुक्मी । अष्टभिर् इति प्रत्येकं द्वाभ्याम् अग्रिमपादद्वयवेधनार्थं, तत्साहचर्यात्सूतम् अपि द्वाभ्यां हस्तद्वयवेधनार्थम् । त्रिभिर् इति—लक्षणपताकादण्डानां पृथक्छेदनार्थम् । एतच् च रुक्मिण्यपेक्षया तद्वेधन-मात्रं ज्ञेयम् ॥२७॥

तैः पञ्चबाणैः । तत् तद् अपि । अत एव ताडितो\ऽपि शराणामोघैः समूहैर् एव धनुर् एव चिच्छेद । पुनरित्य् अर्धकम् । अन्यत्ततो\ऽपि दृढतरम् । अव्ययम् इत्यपि पाठः ॥२८॥

शक्तितोमरैः सह परिघादीनि चिच्छेदेत्य् अर्थः । तदनु परिघादीन्याच्छिनत् । आत्तानीति शेषः । पट्टिशास्योः शुलशक्त्योश्चेषदाकारभेदः । तोमरः शूल्यभेदः । आदद्यात् आदातुं समर्थ आसीद् इत्य् अर्थः । हरिदुष्टसंहारी ॥२९॥

ततः शस्त्रच्छेदानन्तरम् । अभ्यद्रवदाभिमुख्येनाधावत् ॥३०॥

तस्य रुक्मिणः । तिग्मं तीक्ष्णम् ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अष्टभिविति—प्रत्य् एक् अ द्वाभ्यां वेधनात्, त्रिभिर् इति—लक्षणपताका दण्डानां पृथक्त्वेन छेदनार्थं प्रत्य् एक् अमेकैकेन वेधनात् एतं च श्री-रुक्मिण्यपेक्षया तत्तद्वेधन-मात्रं ज्ञेयम् ॥२७॥

अत एव ताडितो\ऽपि शरणामोधैः समूहैः, तु एव, धनुर् एव चिच्छेद, अच्युत इति स्वस्थानादविचतनस्य, किं वा स्वप्रियतत्सम्बन्धिजनेषु स्नेहा च्युतेरभिप्रायेण । एवम् अग्रे\ऽपि ॥२८॥

शक्तितमरम् इति द्वन्द्वैक्यात्, पाठान्तरं स्पष्टम्, पट्टिशास्योः शूल-शक्त्योश्चेषदाकारादिभेदः, तोमरः शरविशेषः, एषां यथोत्तरं लघुत्वं ज्ञेयम्, क्रमेण बलहान्योत्तरोत्तरग्रहणात् । यद्यद् इति बहुलमन्यदप्यादत्तेति द्योतयति, स प्रियजनपरवशो विभुरस्मत्प्रभुः । यद् वा, विभुस्तं सद्यो हन्तुं समर्थो\ऽप्य् आयुधम् एवान्छिनत् ॥२९॥

ततस्तस्मादायुधच्छेदनाद्ध तोः । क्रुद्धः सन् अवप्लुत्य प्लुतगत्यावतीर्य, अभ्यद्रवदभिमुखे धावित्वागात्, तच्चात्मनाशार्थम् एवेति सूचयंस्तादृशाभिद्रवणे दृष्टान्तम् आह—पतङ्ग इति ॥३०॥

तिग्मनसिम् । यद् वा, तेजसा तीक्ष्णम् अपि रुक्मिणम् ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अष्टभिर् इति प्रत्य् एक् अ द्वाभ्याम् अग्रिमपादद्वयवेधनार्थं तत्साहचर्यात् सूतम् अपि द्वाभ्यां हस्तद्वयवेधनार्थं त्रिभिर् इति लक्षणदण्डपताकानां पृथक् छेदनार्थम् । एतच् च श्री-रुक्मिण्यपेक्षया तत्तद्वेधन-मात्रं ज्ञेयम् ॥२७॥

अत एव ताडितो\ऽपि शराणामोधैः समुहैः तु एव धनुर् एव चिच्छेद पुनरित्य् अर्धकम् अन्यत्ततो\ऽपि दृढतरम् । अच्युत इति अव्यय इति वा पाठः ॥२८॥

तदनन्तरं परिघादीनि चाच्छिनत् आत्तानीति शेषः तत्र शक्तितोमरानिति बाहुल्यापेक्षया शक्तितोमराव् इति पाठः कचित् पट्टिशास्योः शुलशक्त्योश् च पदाकारादिभेदः तभरः शल्यभेदः अन्यच् च बहुलं यद्यदादद्यात् आदातुं समर्थ असीद् इत्य् अर्थः । हरिर् दुष्टसंहारी तत्सर्वमच्छिनद् इत्य् एव पाठः छन्दोभङ्गो\ऽत्राषः बहुसम्प्रदायसिद्धश् चायं सम्प्रदायान्तरेषु पाठान्तराणि तु मिथो विप्रतिषिद्धानि ॥२९॥

अभ्यद्रवत् आभिमुख्येनाधावत् ॥३०॥

तिग्ममसिं यद् वा, तेजसा तीक्ष्णम् अपि रुक्मिणम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५४.३२ ॥

दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला । > पतित्वा पादयोर् भर्तुर् उवाच करुणं सती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : करुणं दीनं यथा स्यात् तथा । भ्रातुः केनापि दैवेन भ्रातृत्वं प्राप्तस्य वधोद्यमं दृष्ट्वा भयं लोकापवादात्कारुण्याद्वा तेन विह्वला । ननु तादृशदुष्टकर्मणो वधो युक्त एव, तत्राह–सती पण्डिता । अयमतिक्षुद्रः श्री-भगवत्-इ न किञ्चिदनिष्टं विधातुं शक्नोति, केवलमज्ञानेनैव चातकविद्दीनो\ऽयं विचेष्टते, ततो ममानन्यशरणाया देहसम्बन्धधारिण्यस्मिन्नस्य दयैव युक्तेति विचारसमर्थेत्य् अर्थः । श्री-कृष्णस्य त्वयमभिप्रायः-मयि किम् अपि कर्तुं न, समर्थो\ऽसाव् इति सत्यम् एव, किन्त्वस्यां तादृशविपत्पादकेच्छां कथमस्य सोढुं शक्नुयाम् इत्य् अस्याः प्रार्थनया रक्षितप्राणस्यापि तादृशदुश्चेष्टामर्दनी परमा मनोरमा मानावहानिस् तु सदानुवर्तनी येति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भयं लोकापवाभ्रातृवधोद्योगादेव, वा, तेन विह्वला सती । भक्तूर् इति पादपतनयोग्यतोक्ता । करणं यथा स्यात्, इदं च कृपाजननार्थं भयवैकल्याद् एव वा । ननु तादृश दुष्टकर्मणो वधो युक्त एव, तत्राह—सती सहजदयार्द्रहृदयत्वादिसगुणवतीत्य् अर्थः । अत एव भ्रातृशब्दप्रयोगेण तस्मिस्तस्याः स्नेहो\ऽपि सूचित- ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रातुः केनापि देवेन साक्षाभ्रातृतां प्राप्तस्व वधोद्यमं दृष्ट्वा भयं लोकापवादात् कारुण्याद् एव वा तेन विह्वला । ननु तादृशदुष्टकर्मणो वधो युक्त एव तत्राह—सती पण्डिता सर्वज्ञेत्य् अर्थः । अयमति क्षुद्रः श्री-भगवत्-इ न किञ्चिदनिटं विधातुं शक्नोति केवलमज्ञानेनैव वातकीव दीनो\ऽयं विचेष्टते ततो ममानन्यशरणाया देहसम्बन्धधारिण्यस्मिन्नस्य दयैव युक्तेति विचारसमर्थेत्य् अर्थः । श्री-कृष्णस्य त्वयमभिप्रायः मयि किम् अपि न कर्तुं शक्नोत्यसाव् इति सत्यम् एव किन्त्वस्यां तादृशविपत्सम्पादकेच्छां कथमस्य सोढुं शक्नुयाम् इत्य् अस्याः प्रार्थनया रक्षितप्राणस्यापि तादृशदुष्टेच्छामर्दनी परमा मनोग्लानिस् तु सदानुवर्तनीयेति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दृष्ट्वेत्य्-आदि । एतदनन्तरं द्रष्टव्यम् एवम् एव सतीति । पण्डिता सर्वज्ञेत्य् अर्थः ॥३२-४३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगिन्याः पुरत एव भ्रातृवधोऽभूद् इति श्रुत्वा लोको मां किं वदिष्यतीति भयविह्वला, न तु स्नेहविह्वलेत्यत आसां पुरसुभ्रुवां लोकधर्मापेक्षासहित एव समञ्जसः प्रेमा, न तु गोष्ठसुभ्रुवाम् इव लोकधर्मापेक्षारहितः समर्थः प्रेमा अति प्रबल इति ज्ञेयः । अनन्यममता विष्णौ ममता प्रेमसङ्गतेइति प्रेमसामान्यलक्षणस्याव्याप्तिरपासु नाशङ्क्या, रुक्मिप्रभृतिष्वासामन्तःस्नेहाभावाद् इत्युपरिष्ठाद् अपि यथास्थानं व्याखेयम् ॥३२॥


॥ १०.५४.३३ ॥

श्री-रुक्मिण्य् उवाच—

योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते । > हन्तुं नार्हसि कल्याण1 भ्रातरं मे महा-भुज ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संबुद्धि-षट्के । भगवत ऐश्वर्यं द्योतयन्ती निज-भ्रातृ-वधानौचित्यम् एवाह । योगेश्वर, त्वम् अतर्क्य-महा-महैश्वर्यः, असाव् ईशितव्येष्व् अपि निकृष्टः । हे अप्रमेयात्मन् ! त्वम् अप्रमेय-स्वरूपो\ऽसि, अयं परिच्छिन्नेष्व् अप्य् एक-कीट-तुल्यः । देवदेव ! त्वं देवानाम् अपि देवः, अयं त्वद्-वैमुख्यान्य-नरेष्व् अप्य् अधमः । जगत्-पते ! त्वं सर्व-जगत्-पालको\ऽतो दुष्टो\ऽप्य् अयं जगद्-वर्तत्वाद् रक्षितव्य एवेति भावः । तस्मात् हे कल्याण ! मङ्गल-स्वरूप ! हे महा-भुज ! प्रबल-मर्दक-भुज इमम् अमङ्गलं भुज-बल-रहितं हन्तुं नार्हस्य् एव । मे भ्रातरम् इति अनन्य-गतिकाया मे भ्रातृ-धर्म-रहितत्वे\ऽपि तद्वल् लोक-दृष्ट्या प्रतीयमानम् इति भावः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगेश्वर ! हे अतर्क्य-ऐश्वय ! अप्रमेयात्मन् ! हे अपरिच्छिन्न-मूर्ते ! अत एव हे देवदेव ! श्री-ब्रह्मादीनाम् अप्य् आराध्य ! एवम् ऐश्वर्येण स्वरूपेण पूज्यतमत्वेन च परमेश्वरत्वम् उक्तम् । किं च, भुङ्क्ते जगत् संहरतीति भुजः, महांश् चासौ भुजश् चेति महा-प्रलय-कर्तेत्य् अर्थः । अतस् तुच्छातितुच्छम् एनं हन्तुं नार्हस्य् एव । किं च, जगत्-पालकत्वाद् अपि नैवार्हसीत्य् आह—हे जगत्पते इति ।

नन्व् अत एव दुष्टो\ऽयं वध्यः ? तत्राह—हे धर्मज्ञ इति । बन्धु-वधो न कार्य इति सतां धर्मं त्वं जानास्य् एवेत्य् अर्थः । बन्धुत्वम् एव दर्शयति—मे भ्रातरम् इति। "कल्याण" इति पाठे जगन्-मङ्गलत्वान् नार्हस्य् एवेत्य् अर्थः । अथवा आद्य-सम्बोधनाभ्याम् ऐश्वर्येण स्वरूपेण च दुर्ज्ञेयत्वम् उक्तम्, अत एव देवादिभिर् अपि ज्ञातुम् अशक्यैः केवलं त्वं तप-आदि ना आराध्यस इत्य् आह—हे देवदेव इति । अतस् त्वां ज्ञातुम् असमर्थेनानेन कृतम् अपराधं सर्वं क्षन्तुम् अर्हसीति भावः । किं च, महा-बलत्वाद् अतितुच्छ-बलम् एनं हन्तुं नार्हस्य् एवेत्य् आह—महा-भुज इति । अन्यत् समानम् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैवाह—योगेश्वर ! हे अतर्क्यैश्वर्य ! अप्रमेयात्मन् हे अपरिच्छिन्नमूर्ते ! अत एव हे देवदेव ! ब्रह्मादीनाम् अप्य् आराध्य ! किं च, जगत्पते सर्वेषाम् अपि पालक ! अतः सर्वेषाम् अपि त्वत्तस् तुच्छ-ज्ञान-बल-माहात्म्यत्वात् त्वया पालनीयत्वाच् च हन्तुं हनन-मात्राय नार्हस्य् एव [।]{दिर्=“र्त्ल्”} अत्रापि हे कल्याण ! इति सर्व-मङ्गलत्वात् सुतरां नार्हसि । तत्रापि मे मम त्वद्-अनन्य-नाथाया भ्रातरं सुतराम् एवेत्य् अर्थः । लीला-व्यवहारतश् च परम-वीरस् त्वं नैतद्-विधं क्षुद्रं हन्तुम् अर्हसीत्य् आह—महाभुज इति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : योगेश्वरेत्य्-आदि । हन्तुं नार्हसि मे भ्रातरम् । मद्-भ्रातृत्वम् एवास्यावधे कारणम् नान्यत् किम् अपीति भावः । लक्ष्मी-भ्रातरं कौस्तुभं वक्षसि बिभर्षि, कथम् अयं हन्तव्य इति गूढोऽभिप्रायः, यतस् त्वं योगेश्वरः, तेन तवैतत्-कृत-द्वेषेण योगेश्वरस्यापि क्षोभो भवतीत्य् आशङ्क्याह—हे अप्रमेयात्मन् ! अप्रमेय-विग्रह ! यादवत्वात् प्रमेय एवाहम् इत्य् आह—देवदेव ! तथा-भूतश् चेद् अहम्, तत् कथं नर-लोक-वर्तीत्य् आह—जगत्-पते ! जगन्नाथ ! जगत्-पतित्वाज् जगत एव हितार्थम् अवतीर्णोऽसीत्य् अर्थः ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगेति । त्वम् अतर्क्य-महा-महैश्वर्यः असाव् ईशितव्येष्व् अपि मध्ये निकृष्टः त्वम् अप्रमेय-स्वरूपः । अयं परिच्छिन्नेष्व् अपि मध्ये एक-कीट-तुल्यः । त्वं देवानाम् अपि देवः, अयं मनुष्येष्व् अप्य् अधमः त्वद्-वैमुख्यात् । त्वं सर्व-जगत्-पालकः, अयं जगद्-वर्तित्वाद् दुष्टो\ऽप्य् अद्य पालनीय एवेति भावः । तस्मात् हे कल्याण ! अकल्याणं हे महाभुज ! भुज-बल-रहितम् इमं हन्तुम् अर्हसि ॥३३॥


॥ १०.५४.३४ ॥

श्री-शुक उवाच—

तया परित्रास-विकम्पिताङ्गया > शुचावशुष्यन्-मुख-रुद्ध-कण्ठया । > कातर्य-विस्रंसित-हेम-मालया > गृहीत-पादः करुणो न्यवर्तत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परित्रासेन विकम्पितान्य् अङ्गानि यस्यास् तया । शुचा शोकेन अवशुष्यन् मुखं यस्याः, रुद्धः कण्ठो यस्याः सा च सा च । तथा कातर्येण वैक्लव्येन विस्रंसिता हेम-मयी माला यस्यास् तया । गृहीतौ पादौ यस्य सः ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तया रुक्मिण्या । करुणो दयालुः । न्यवर्तत वधाद् इति शेषः । करुणः स्व-प्रतिकूले\ऽतिदुष्टे स्व-तनु-त्याग-निमित्तीभूते\ऽपि भ्रातरि "दयाया भगिनी मूर्तिः" इति लोक-धर्मोक्ति-भयाद् एव दयावत्यां रुक्मिण्यां स-दयः स्वभावत एव करुणो विशेषतस् तया तथा-भूतया गृहीत-चरणत्वाच् च ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परि- इत्य्-आदि-विशेषण-त्रयेण महा-भय-शोक-वैकल्यैः परमं दैन्यम् उक्तम्, तत्र च यथोत्तरम् एषां श्रैष्ठ्यम्, करुणस् तस्यां कृपावान् इत्य् अर्थः । यद् वा, स्वभावतः करुणो विशेषतश् च तथा-भूतया तरा गृहीत-पादः, अत एव न्यवर्तत तद्-वधात् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : करुणस् तस्यां कृपावान् इत्य् अर्थः । यद् वा, स्वभावतः । करुणः विशेषतश् च तया तथा-भूतया गृहीत-पादः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : करुणः स्व-प्रतिकूलेऽतिदुष्टे स्व-तनु-त्याग-निमित्तीभूतेऽपि भ्रातरि दयाया भगिनी-मूर्तिर् इति लोक-धर्मोक्ति-भयाद् एव दयावत्यां रुक्मिण्यां सदयः ॥३४॥


॥ १०.५४.३५ ॥

चैलेन बद्ध्वा तम् असाधु-कारिणं > स-श्मश्रु-केशं प्रवपन् व्यरूपयत् । > अतावन् ममर्दुः पर-सैन्यम् अद्भुतं > यदु-प्रवीरा नलिनीं यथा गजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सश्मश्रुकेशं सहितानि स्थाने स्थानेऽवशिष्टानि श्मश्रूणि केशाश् च यथा भवन्ति तथा । तेनैवासिना प्रवपन्मुण्डयन्व्यरूपयद्विरूपमकरोत् ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रुक्मिणम् । विरूपं सौन्दर्यहीनम्, विलक्षणमुण्डनाद् इत्य् अर्थः । यावत्कृष्णस्तं मुमुण्ड तावद् इत्य् अर्थः । नलिनीः सरसीः । नलिन्यब्जे सारसे च इति । पुनर् अपि रुक्मिणीप्रातिकूल्यं मा कार्षीद् इति तद्दुर्मदनिवर्तकेन पराभवस्मारकेण दुर्लक्षणेन केनचिदङ्कयित्यैव तमुपेक्षाञ्चक्रे इत्य् आह—चैलेनेति । तदीयेनैव शिरोवेष्टनवस्त्रेण ग्रीवायां बद्ध्वा वामहस् तेन तच्चेलाग्नद्वयं विधृत्य दक्षिणहस्तधृतेनासिनोष्णीषं दूरीकृत्य सश्मश्रुकेशं । यथा स्यात् स्थानेस्थाने केशाच्छाः श्मश्रुगुच्छाश् च यथा तिष्ठेयुस् तथा प्रकर्षण समूलकर्तनेने रुधिरमुद्गमय्य वपन्मुण्डयन् व्यरूपयत् विरूपं कृतवान् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चैलेन खण्डशो विदारितेन तदीयवस्त्रेण, पाठान्तरं तेषां सम्मतम्, असिनेति व्याख्याने पर्याप्ते\ऽपि तेनेति व्याख्यानात् प्रसह्य वपन्, यतो\ऽसाधुकारिणं दुष्टकर्माचरणशीलम्, यावद्रुक्मिणो युद्धादिकं तावत्, इति तेषां परसैन्यमर्दनस्य श्री-कृष्णेन रुक्मि-निर्ज्जयादेश्चैकदैव समाप्त्या तेषां तेन सङ्गति—समावेशः सिद्दः । परस्य रुक्मिणः सैन्यं तेन पुरा दूरतो\ऽवस्थापितमुद्धतममर्यादमनन्तम् इत्य् अर्थः । यद् वा, गर्वितं महासासादि-युक्तम् अपि यदुपु प्रवीरा वीरोत्तमाः श्रीबलदेवादयो ममर्दुश्चूर्णयामासुः । तच्चानायासेनैवेति दृष्टान्तेन सूचयति—नलिनीम् इति ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चैलेन तदीयेनैव शिरोवेष्टनवस्त्रेण प्रवपन् तेनैवासिनेति शेषः तच्चास्युचितक्षेपलाघवेनैव ज्ञेयम् । सश्मश्रुकेशम् इति । श्मश्रुकेशाभ्यां सह वर्तमानं यथा स्याद् इत्य् एव विग्रहपूर्वको\ऽर्थः बहुव्रीहिणैव क्रियाविशेषणत्वसिद्धेः टीकायां तु निर्गलितार्थ एवं दर्शितः अत्र स इत्यध्याहार्यम् । यद् वा, स श्री-कृष्णः श्मश्रुकेशम् इति द्वन्द्वैक्यं व्यरूपयद् इति तादृशविरूपतापि सम्भवतीति तथा च व्याख्येयं तावद् इति ! रुक्मिपराजयं यावद् इत्य् अर्थः । उद्धतं महासाहसादि-युक्तम् अपि ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्। योगेश्वरेत्य्-आदि । हन्तुम् नार्हसि मे भ्रातरम्, \॥।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि रुक्मी प्रातिकूल्यं माकार्षीद् इति तद्दुर्मदनिवर्तकेन पराभवस्मारकेण दुर्लक्षणेन केनचिद् अङ्कयित्वैव तमुपेक्षां चक्रे इत्य् आह—चैलेन ग्रीवायां बद्धा वामहस् तेन तच्चैलाग्रद्वयं विधृत्य दक्षिणहस्तधृतेनासिना उष्णीषं दुरीकृत्य सश्मश्रुकेशं यथा स्यात् स्थाने स्थाने केशगुच्छाः श्मश्रूगुच्छाश् च यथा तिष्ठेयुस् तथा प्रकर्षेण समूलकर्तनेन रुधिरमुद्गमय्य वपन्मण्डयन् व्यरूपयत् विरूपम् अकरोत् ॥३५॥


॥ १०.५४.३६ ॥

कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् । > तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः । > विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा-भूतं हत-प्रायम् इत्य् उत्तर-वाक्ये\ऽप्य् अनुषङ्गः ॥३६-३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कृष्णान्तिके । तथा-भूतं मुण्डितम् । उत्तर-वाक्ये विमुच्य बद्धम् इत्य् अत्रेत्य् अर्थः । विमुच्य स्वयम् एव स्व-हस् तेन कृष्ण-वाम-हस्ताच् चेल-खण्डम् अपसार्येत्य् अर्थः । तथा-भूतं प्राप्त-वैरूप्यादिकम् । अत एव हत-प्रायम्। ननु तादृश-महापराधिनो\ऽधिको न युक्तः ? तत्राह—भगवान् सर्वज्ञः । रुक्मिणीवत् तज् जानाति तथा रुक्मिण्या दुःखं श्री-कृष्णस्य भावि-लीलां चेत्य् अर्थः । अत एव करुणः श्री-कृष्णस्य प्रथम-वैवाहिक-सम्बन्धाच् चेति भावः । कृष्णम् इत्य् उपलक्षणं रुक्मिणी चेति ज्ञेयम् । लज्जा-हेतो रुक्मिण्यां च कृष्णम् एवाब्रवीद् इति तस्यैव प्राधान्यात् ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा-भूतं प्रवपनादिना प्राप्तवैरूप्यादिकम्, सङ्कर्षण इति स्नेहभरादिना श्री-कृष्णेन सहापृथग् भावाभिप्रायेण किं च, विसेषेणाग्रजतया भवतीति विभुः अतो विशेषेण सस्नेह वाक्यादिनामुक्त्वा । ननु तादृशमहापराधिनो विमोको न खलु युज्यते, तत्राह—करुण इति, भगवान् सर्वज्ञ इति, श्री-कृष्णं प्रतीदृशे परुषवाक्ये गदिते सत्य् एव रुक्मिणं प्रति स्नेहाभित्यक्त्या बध्वाः शोकशान्तिः स्यादित्य्-आदिकं जानन्न् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णान्तिकम् इत्य् अर्धकम् । ददृशुर् यदु-प्रवीरा इत्य् एव ज्ञेयम् एवम् अत्रापि तथा-भूतं हतप्रायम् इति रुक्मिविशेषणत्वेन योज्यम् तथा-भूतं प्राप्तवैरूप्यादिकम् अत एव हतप्रायं ननु तादृशमहापराधिनो विमोको नहि युज्यते तत्राह । भगवान् सर्वज्ञः रुक्मिणीवत् तत्तज्जानाति तथा रुक्मिण्याः दुःखं श्री-कृष्णस्य भाविलीलां चेत्य् अर्थः । अत एव करुणः श्री-कृष्णस्य प्रथमवैवाहिकसम्बन्धाच्चेति भावः । कृष्णम् इत्य् उपलक्षणं रुक्मिणीं चेति ज्ञेयं लज्जा-हेतो रुक्मिणीं च कृष्णम् एव दृष्ट्वाब्रवीद् इति तस्यैव प्राधान्यात् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विमुच्य स्वयम् एव स्वहस् तेन कृष्णवामहस्ताच् चैलखण्डमपसार्येत्य् अर्थः ॥३६॥


॥ १०.५४.३७ ॥

असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् । > वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्य रुक्मिणः । इदं वपनम् । जुगुप्सितं वपनस्य नापितकर्मत्वान्नेदं क्षत्रो चित्तम् इति भावः । किमर्थमाक्रोशसि मां नायं मारितवान् इति चेदाह—वैरूप्यम् इति । कृष्णेति केवलेन मूलनाम्ना संबोधनमग्रजोचितशुद्धवात्सल्योदयेन । तथैवास्माकं कुलतिलकीभूतभवत्कानां परम-प्रतिष्ठावतां वृष्णीनां संबन्धे जुगुप्सितं निन्दितं कर्तुम् अयोग्यम् इत्य् अर्थः । किं तद् इत्य् अपेक्षायां लज्जादिना प्रागप्रकाशितम् अपि नीचैर् इवाह—वपनम् इति । न चैतदल्पं दण्डनम् इत्य् आह—वैरूप्यम् इति, विरूपतापादनम् । एवं तु श्री-कृष्णोपालम्भेन रुक्मिण्या एवं सान्त्वनमुद्देश्यं मन्सम्बन्धेनैवैष सम्प्रत्युपालम्भविषयो भवतीति तस्या लज्जोत्पत्तेः । तथा रुक्मिणं प्रत्यपि भर्त्सनमायाति साक्षात्तस्य तिरस्कारानुवादात् । तच् च तस्य शिक्षार्थम् एव सम्पद्यत इति कारुण्य एव पर्यवस्यति । एवम् अग्रे\ऽपि ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण ! हे सर्वसुखप्रद, अस्माकं जुगुप्सितं निन्दितं कर्तुम् अयोग्यम् इत्य् अर्थः । अस्मद् इति बहुत्वेन श्रीवसुदेवादीन् सङ्गृह्णाति । किं च, अन्ये कुर्वन्तु नाम, वयन्तु नार्हाम इति भावः । यद् वा, अस्माकं जुगुप्सितं निन्दा यस्मात्तत्, किं तद् इत्य् अपेक्षायां लज्जादिना प्रागप्रकाश्य पश्चादाह—वपनम् इति । न चैतदल्पं दण्डनं किन्तु वध एवेत्य् आह—वैरूप्यम् इति विरूपतापादनम् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णेति केवलेन मूलनाम्ना सम्बोधनमग्रजोचितशुद्धवात्सल्योदयेन तथैवाह अस्माकं कुलतिलकीभूतभावत्कानां परम-प्रतिष्ठावतां वृष्णीनां सम्बन्धे जुगुप्सितं निन्दितं कर्त्तुम् अयोग्यम् इत्य् अर्थः । किन्तद् इत्य् अपेक्षायां लज्जादिना प्रागप्रकाशितम् अपि नीचैर् इवाह—वपनम् इति । नचैतदल्पं दण्डनम् इत्य् आह । वैरूप्यम् इति । विरूपतापादनम् एवं तु श्री-कृष्णोपालम्भने रुक्मिण्या एव सान्त्वनमुद्देश्यं मत्सम्बन्धेनैवैष सम्प्रत्युपालम्भविषयो भवतीति तस्या लज्जोत्पत्तेः तथा रुक्मिणं प्रत्यपि भत्र्सनमायाति साक्षात्तस्य तिरस्कारानुवादात् तच् च तस्य शिक्षार्थम् एव सम्पद्यत इति कारुण्य एव पर्यवस्यति एवम् अग्रे\ऽपि ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरं वधः अप्यस्य साधुरभविष्यदिदं खड्गेन मुण्डनं त्वतिबिभत्सितमभूद् इति शोचन्त्या रुक्मिण्याः सान्त्वनार्थं बहिः कृष्णं किञ्चिदुपालभमानोऽन्तस्तु—भो भ्रातः ! समुचितकृत्यचतुरेण त्वया साध्वेव कृतम् इति प्रसीदन्नेवाह—असाध्व् इति । सुहृदः श्यालकस्य पक्षे सुहृदोऽपि तस्य सुहृच्छब्दवाच्यत्वेन विपरीतलक्षणा व्यङ्ग्या ॥३७॥


॥ १०.५४.३८ ॥

मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्यचिन्तया । > सुख-दुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रुक्मिणीं सान्त्वयति, मैवास्मानिति ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्यः स्वेतरः । अत्र हेतुः—यत इति । एतादृशे ते प्रत्युक्ते\ऽपि तस्याः शोकात्यागात्ताम् एव साक्षात्सान्त्वयन्न् आह—मैवेति । अस्माञ्च्रीकृष्णादीन्मासूयेथा दोषारोपेण मा पश्य । एवेति साक्षात्तत्कारणे सत्यप्यसूयां निवारयति । चेति पक्षान्तरे । नञ् तन्निषेधे, अन्यो नास्ति किन्तु स्वयम् एवेत्य् अर्थः । पुमान् जीवः । स्वकृतभुगिति—अस्मिन्नतिदुष्टे स्वस्य स्वभर्तुश् च प्रतिकूले को\ऽयं ते वृथा स्नेह इति तां प्रत्युपालम्भो ध्वनितः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतादृशे तं प्रत्युक्ते\ऽपि तस्याः शोकात्यागात्ताम् एव साक्षात् सान्त्वयन्न् आह—मैवेति । अस्मानिति श्री-कृष्णादिसङ्ग्रहात्, भ्रातुर्वैरूप्येण या चिन्ता शोकस्तया हेतुना मा सूयेथा दोषारोपणं न कुरु । एवेति साक्षात्कारणे सत्यप्यसूयां निवारयति । तत्र च मा शब्देन तस्य च सर्वादौ निर्देशनात्यन्तदार्ढ्यमापादयति च । हि यतो\ऽन्यो नास्ति, न भवति, किन्तु स्वयम् एवेत्य् अर्थः । यतश् च स्वस्य कृतम् एव भुङ्क्त इति तथा सः । पुमानिति पुंस एव प्राधान्यात् । यद् वा, जीवः सर्वो\ऽपीत्य् अर्थः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतादृशे तम्प्रत्युत्ते\ऽपि तस्याः शोकात्यगात्तम् एव साक्षात्सान्त्वयन्न् आह—मैवेति । अस्मान् श्री-कृष्णादीन् मासूयेथाः दोषारोपेण मापश्य एवेति साक्षात्तत्कारणे सत्यपि असूयां निवारयति चेति पक्षान्तरे नञ् तन्निषेधे अन्यो नास्ति किन्तु स्वयम् एवेत्य् अर्थः । पुमान् जीवः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याः शोकापनोदनार्थं विवेकमुत्पादयति—मैवेति । स्वकृतभुग् इति अस्मिन्न् अतिदुष्टे स्वस्य भर्तुश् च प्रतिकूले कोऽयं ते वृथा स्नेह इति तां प्रत्युपालम्भश् च ध्वनितः ॥३८॥


॥ १०.५४.३९ ॥

बन्धुर् वधोऽर्हदोषोऽपि न बन्धोर् वधम् अर्हति । > त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनः कृष्णमाक्षिपति बन्धुर् इति ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वधार्हो दोषो यस्य स तथापि । द्वितीयवन्धुशब्दो हेत्वर्थः । यतो वम्धुरतो बधं नार्हतीत्य् अर्थः । तर्हि किं कर्तव्यं, तत्राह—त्याज्य इति । त्यागो देशनिर्यातनादिरूपः बन्धूनां मरणं त्यागो\ऽनादरो\ऽपि तथाविधः इति ग्रन्थान्तरोक्तेः । देव्याः प्रीणनार्थं श्री-कृष्ण नीतिं शिक्षयन्निवाह—वन्धुः श्यालः । बन्धोर्भगिनीपतेः सकाशात् । त्याज्य इत्यत्यवज्ञेयत्वं दर्शयित्वा किञ्चित्कर्तुम् असामर्थ्यम् एव दर्शितम् । नन्व् अवध्यस्य वधे यावांस्तावान्वध्यस्य रक्षणे दोषः स्मर्यते, तत्राह—स्वेनैव दोषेण हतः सल्लोकबहिष्कृततासाम्येन एवं यो हतः स किं पुनर्हन्यते नैवेत्य् अर्थः । सो\ऽयम् अपि रुक्मिण्या अन्यत्र दानेन तद्बहिष्कृतो जात इति भावः । वैकृत्यकरणम् इदं हननम् एव, मरणाद् अपि दुःखदत्वाद् इति भावः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि देव्याः शोकं दृष्ट्वा । तन्निरासार्थ पूनः श्री-कृष्णमाक्षिपति—बन्धुर् इति । बन्धाः सकाशात् , किन्तु त्याज्येः स बन्धुभिः । ननु जीवन् पुनर् अपि महादोषान्तरं

कुयादित्य् अतो वध्य एव, तत्राह—स्वेनेति । एव-शब्देन सर्वथा दोषस्यान्यहेतुकत्वादिकं निरस्तम् । जीवन्मृतो\ऽसौ न किञ्चित् कर्तुं कदापि शक्नयाद् इति भावः । यद् वा, हतप्रायः—अद्य श्वो वा स्वयम् एव मरिष्यतीत्य् अर्थः । तस्मादस्मदवध्यो\ऽयं वैरूप्यापादनेन यद्धतस्तदसाध्वेव कृतम् इति भावः ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि देव्याः शोक दृष्ट्वा तन्निरासार्थं श्री-कृष्णमाक्षिपति । बन्धुर् इति । बन्धोः सकाशात् किन्तु स त्याज्यः इति तस्यात्यवज्ञेयत्वं दर्शयित्वा किञ्चित्कर्तुम् असामथ्र्यम् अपि दर्शितं नववध्यस्य वधे यावांस्तावान् वध्यस्य रक्षणे दोषः स्मर्यते तत्राह । स्वेनैव दोषेण हतः । सल्लोकवहिष्कृततासाम्येन एवं यो हतः स किं पुनर्हन्यते नैवेत्य् अर्थः । सो\ऽयम् अपि रुक्मिण्या अन्यत्र दानेन तद्वहिष्कृतो जात इति भावः । वैकृत्यकरणं त्विदं हननम् एव मरणाद् अपि दुःखदत्वाद् इति भावः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव्याः प्रीणनार्थं कृष्णं नीतिं शिक्षयन्निवाह—बन्धुः श्यालः बन्धोर्भगिनीपतेः सकाशात् ॥३९॥


॥ १०.५४.४० ॥

क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । > भ्रातापि भ्रातरं हन्याद् येन घोरतरस् ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर्देवीं प्रत्य् आह—क्षत्रियाणाम् इति । येन धर्मेण भ्रातापि भ्रातरं हन्यात् । ततस् तस्माद् धोरतरोऽतिदारुणो धर्मश् च । अतः कोऽस्माकमपराध इति भावः ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवीं रुक्मिणीम् । ईदृशं कर्म किम् इति क्रियत इत्यत आह—क्षत्रियाणाम् इति । अयं कस्तत्राह—भ्रातेति । तस्माद्भ्रात्रादिहननरूपत्वात् । इति भाव इति श्रयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् इति स्मृतेः स्वधर्माचरणं न दोषायेति तात्पर्यम् । नीतिमिमां त्वदनुजो न वेत्तीति मनसा वदन्ती प्रत्य् आह—क्षत्रियाणाम् इति । भ्रातरम् अपि हन्याद् इति शास्त्रविधिः, तत्र श्यालः खलु को वराक इति भावः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि शोकानपगमात् पुनर्देवीं स्वधर्मप्रदर्शनेन प्रबोधयति—क्षत्रियाणाम् इति । प्रजापतिना श्रीब्रह्मणा ईश्वरेण वा विशेषेण अन्यस्मादाधिक्येन निर्मित इति तस्य परमपाल्यतोक्ता ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि शोकानपगमात् पुनर्देवीं स्वधर्मप्रदर्शनेन प्रबोधयति । क्षत्रियाणाम् इति । अयं क्षत्रियाणां धर्मः सददृष्टजनककर्तव्यविशेषः येन धर्मेण न्याययुद्धलक्षणेन भ्रातापि भ्रातरं हन्यात् धर्मत्वे हेतुः प्रजापतिना विनिर्मतः वेददृष्ट्या निर्दष्ट इत्य् अर्थः । ततस्तस्माद्भ्रातृहननाद्धेतोर्घोरतरो धर्मश्चेति एवम् एवाह–टीकायां घोरतरो धर्मश्चेति ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीतिम् इमां त्वदनुजो न वेत्तीति मनसा वदन्तीं देवीं प्रत्य् आह—क्षत्रियाणाम् इति । भ्रातरम् अपि हन्याद् इति शास्त्रविधिस् तत्र श्यालः खलु को वराक इति भावः ॥४०॥


॥ १०.५४.४१ ॥

राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः । > मानिनोऽन्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनः श्री-कृष्णं प्रत्य् आह—राज्यस्येति । तथाप्यस्माकमेतदनुचितम् इति भावः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि राज्याद्यर्थमग्नस्यैष्वन्यतमस्यार्थम् अपि क्षिपन्ति निघ्नन्ति, तिरस्कुर्वन्ति वा परांस् तथापीति । एतत् सम्बन्धिवधादि । इति भाव इति—वधस्योचितत्वेऽपि वपनस्यानुचितत्वादित्याशयः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवीसान्त्वनार्थम् एव पुनर् अपि श्री-कृष्णं प्रत्यतिपरुषम् आह—राज्यस्येति । मानस्य पूजायाः, तेजसः कान्तेर्बलस्य वा, अन्यस्य अन्नपानादेः, राज्यादीनामुत्तरोत्तरस्य न्यूनत्वम् । ततश् च किं वक्तव्यम् । राज्यस्य हेतोर् इति भूमेर्हेतोरपीत्येवं कैमुतिकन्यायमवतार्य व्याख्येयम् । मानिनोऽभिमानवन्तः । तत्रापि श्रीमदान्धाः, अतः क्षिपन्ति बन्धुनाक्षिपन्ति । हि यस्मात् । श्रीमदान्धा एव क्षिपन्ति, मद्विधानान्तु तादृशत्वाभावाद् एतदयुक्तम् इति भावः । एवाम् श्री-कृष्णं प्रत्युक्तानां यथोत्तरं पारुष्याधिकम् । किं च, वध्वाः शोकानपगमेन महाव्यग्रः सन् क्रमेण द्वावेव प्रति पुनः पुनराहेति ज्ञेयम् ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवीसान्त्वनार्थम् एव पुनर् अपि श्री-कृष्णं प्रत्यपि परुषम् आह—राज्यस्येति । मानस्य पूजायाः तेजसः कान्तेर्बलस्य वा अन्यस्य अन्नपानादेः मानिनः अभिमानवन्तः, तत्रापि श्रीमदेनान्धाः, अतः क्षिपन्ति तत्तद्व्याघातकान् इति शेषः । हि यस्माच्छ्रीमदान्धा एव क्षिपन्ति, तस्माद् अस्मद्विधानां तादृशत्वाभावाद् एतदयुक्तम् इत्य् अर्थः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु क्षत्रियो बन्धुः हन्तुं वरं, किन्तु तं बिभत्सितवैरूप्यवन्तं कर्तुं नार्हतीति देव्याः स्वगतोक्तिमालक्ष्य तां प्रसादयितुं कृष्णम् आह—राज्यस्येति । राज्यादेर्हेतोर्मानिनोऽहङ्कारवन्त एवान्यानाक्षिपन्ति, अस्माकं त्वेतदनुचितम् इति भावः ॥४१॥


॥ १०.५४.४२ ॥

तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् । > यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर्देवीं प्रत्य् आह—तवेयम् इति । सर्वभूतेषु दुर्हृदामहितानां भ्रातॄणामज्ञवद्यद्भद्रं मन्यसे इच्छसि इयं तव विषमा असमीचीना बुद्धिः । कुतः । यतस् तद् एव सुहृदामभद्रम् इति । यद् वा, सर्वभूतेषु दुर्हृदाम् अपि स्वसुहृदां भद्रम् एव दण्डरूपं मुण्डनमभद्रं यन्मन्यसे तवेयं विषमा बुद्धिर् इति । अथवा सर्वभूतेषु मध्ये दुर्हृदां शिशुपालादीनामभद्रं सुहृदां भद्रं च यन्मन्यसे तवेयं विषमा बुद्धिः समा न भवति । अज्ञवदज्ञानाम् इव ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रातॄणां रुक्मिप्रभृतीनाम् । हेतुमाशङ्कते—कुत इति । सुहृदामस्माकम् । तज्जयेऽस्माकमभद्रम् एवेति भावः । तर्हि तवापि बुद्धिर्विषमैवेति रुक्मिण्योकेपोत्थानादाह—यद् वा इति । परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः इति न्यायेन । न्याय्यो हि दण्डः कृतकिल्बिषे नरे इत्य् उक्तेश् च । भद्रस्याभद्रमननम् अपि विषमम् एवेति भावः । स्नेहानुबन्धो बन्धूनां मुनेर् अपि सुदुस्त्यजः इत्य् उक्त्याश्रयणमप्य्ज्ञानां धर्म इत्य् आह—अथ वेति ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृशे देव्याः सान्त्वनार्थमवाच्येऽपि श्री-कृष्णं प्रत्युक्ते तस्याः शोकात्यागात्तं त्यक्त्वा ताम् एव तत्त्वोपदेशेन प्रबोधयन्नादौ सक्रोधम् आह—तवेति । तैर् व्याख्यातम् एव । यद् वा, भद्रं साधु यथा स्यात् तथा । यत् सुहृदां भद्रं क्षेममिच्छसि । अन्यत् समानम् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं धर्मद्वारा देव्यां बोधितायाम् अपि तथा ईदृशे श्री-कृष्णं प्रत्यवक्तव्येऽपि देव्याः सान्त्वनार्थमुक्तेः तस्याः शोकात्यागात्तत्त्यक्त्वा ताम् एव विवक्षितरहस्यार्थान्तरगर्भेण ज्ञानोपदेशेन प्रबोधयन्नादौ सक्रोधम् आह—तवेति । सर्वभूतेषु मध्ये दुर्हृत्त्वेन प्रतीतानां केषाञ्चिद्यदभद्रम् इच्छसि, तथा सुहृत्त्वेन प्रतीतानां केषाञ्चिद्यद्भद्रमिच्छसि, तत्पारिशेष्यादन्येषु तु यदौदासीन्यं कुरुष इत्य् अर्थः । सेयं तवाज्ञानाम् इव विषमा बुद्धिर् इति अर्थान्तरे सुहृदाम् इत्य् अपि दुर्हृदाम् इत्य् अनेन विशेषयितव्यं, सर्वभूतेषु मध्ये दुर्हृदां शत्रुत्वेन समतानां शिशुपालादीनां तत्साहाय्येन तु तादृशाम् एव स्वसुहृदां रुक्म्यादीनाम् इति यदि तेष्वभद्रं मन्तव्यं तदैतद्विधेष्व् अपि तद् एव मन्तव्यम् इति भावः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नीतिरयं युद्धादन्यत्रैव । युद्धे तु वैरी पराजित्य तिरस्क्रियत एवेतीयम् अपि नीतिर् इति कृष्णस्य स्वगतोक्तिमालक्ष्य देवीं प्रत्य् आह—तवेयम् इति । सुहृदां स्वबन्धूनां रुक्मिप्रभृतीनां भद्रम् एव कृष्णकृतं मुण्डनं यत् सद अभद्रं मन्यसे इयं तव विषमा बुद्धिः । अज्ञवत् अज्ञानाम् इव तव विज्ञाया अपीत्य् अर्थः । कीदृशानाम् ? सर्वभूतेषु दुर्हृदां दुसर्व्स्थितमनसाम् ॥४२॥


॥ १०.५४.४३ ॥

आत्म-मोहो नृणाम् एव कल्पते देव-मायया । > सुहृद् दुर्हृद् उदासीन इति देहात्म-मानिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुत इत्यत आह—आत्ममोह इति ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र हेतुम् आशङ्कते—कुत इति । सुहृद् निरपेक्षत्वेनोपकर्ता, दुर्हृद् स्वसुखविघाती, तदुभयहीन उदासीन इति ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कश्चित् सुहृद् । कश्चन दुर्हृत् शत्रुः, को\ऽप्य् उदासीन इत्य् एव आत्मनो मनसः स्वस्य वा मोहः, देवस्येश्वरस्य माययैव कल्पते प्रभवति । कुतः ? देहम् एवात्मानं मन्तुं शीलमेषाम् इति । देवम् आययेति महामिथ्यात्वम् । तथापि दुर्लङ्घ्यत्वादिकं च मोहस्य सूचयति । यद् वा, एष साक्षाद्दृश्यमानो देवम् आययात्ममोह एव सुहृदादिरित्य् एतत् कपते रचयति । अन्यत् समानम् । स्वपक्षे दुर्हृदुदासीनयोर् उक्तिः प्रसङ्गात् दृष्टान्ततया वा ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कश्चित् सुहृदिव कश्चिद्दुर्हृदिवेत्य्-आदि एक एव वा कदाचित् सुहृदिवेत्य्-आदि । अर्थान्तरे श्री-कृष्णप्रेमास्वादमजानताम् एवान्यत्र सौहृद्यादिस्फूर्तिः स्याद् इत्य् आह—आत्मेति द्वाभ्याम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जानाम्येवेदं यदयं भ्राता मे दुष्ट एव, तदप्यत्र बन्धुभावो नापयाति । किं करोमीति चेत्, सत्यमप्राकृत्या भवत्या एवायम् अविवेकोऽनुचित इत्युच्यते, सांसारिकलोकानां त्वयं स्वाभाविक एव धर्म इत्य् आह—आत्मेति । देहात्ममानिनां देह एवात्मेति मन्यमानानाम् एव देहात्ममानिनाम् एव नृणाम्, न तु ज्ञानिनाम् ॥४३॥


॥ १०.५४.४४ ॥

एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् । > नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परमार्थम् आह—एक एवेति । परः शुद्धः ज्योतिश् चन्द्रादिर्यथोदकेषु । नभो यथा घटादिष्व् इति ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : याथार्थ्यम् आह—एक एवेति । मूढैर् अनात्मज्ञैः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु जगतो वैचित्री साक्षाद् एव दृश्यते, तया च सुहृदादिर्घटत एव, कथमुच्यते आत्ममोह एव कल्पत इति ? सत्यम्, तत्त्वतो जीवानां परमेश्वरांशतया सच्चिदानन्दस्वरूपत्वेनाभिन्नत्वाद् इत्य् आह—एक इति । सर्वेषाम् एव जरायुजादिभेदेन चतुर्विधानाम् अपि देहिनां विचित्रानन्तदेहं लभमानानाम् । हि यतः । परो देहाद्भिन्नः । अतः देहस्यैव वैचित्री, न त्वात्मन इति भावः । ननु तर्हि शान्तत्वादिना विविधोऽसौ कुतः प्रतीयते ? अधिष्ठानस्योपाधेर्देहस्यैव वैचित्र्याद् इति सदृष्टान्तम् आह—नानेति । इवेति तत्त्वत ऐक्यात्, मूढस् तत्त्वानभिज्ञैर् देहात्ममानिभिर् वा, ज्योतिष उदकाद्युपाधीनां प्रायोपलसाध्यत्वेन स्वयम् एव सदा वर्तमानदेहस्यासादृश्यादृष्टान्तान्तरम्, यथा नभ इति ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु जगतो वैचित्री साक्षाद् एव दृश्यते, तया च सुहृदादिर्घटत एव कथमुच्यते आत्ममोह इति उच्यते चिन्-मात्रत्वेनैकरूपाणां जीवानां वस्तुतस् तु तद्भेदो न सम्भवतीत्य् आह—एक इति । एकः परमात्मांशत्वेन मिथस् तुल्यस्वरूप इत्य् अर्थः । भानुस्थानीयस्याचिन्त्यशक्तिमयपरमात्मनस् तटस्थांशत्वेन रश्मिपरमाणुस्थानीयत्वात् तस्य तत्र चाचिन्त्यशक्तिमयत्वादेवोभयत्रापि न कस्यापि पूर्वपक्षस्यावकाश इति ज्ञेयम् । हि यतः । परो देहाद्भिन्नः । अतो देहस्यैव वैचित्री न तु आत्मन इति भावः । तर्हि शान्तत्वादिना विविधोऽसौ कुतः प्रतीयते अधिष्ठानस्यैव वैचित्र्याद् इति सदृष्टान्तम् आह—नानेति । प्रथमदृष्टान्ते बिम्बप्रतिबिम्बयोर् भेदप्रतीतेरुत्तरो दृष्टान्तः अर्थान्तरे । हि यस्मात् । आततत्वाच् च मातृत्वादात्मा हि परमो हरिः इत्य् उक्तेर्यः खलु सर्वेषाम् पि देहिनां देहाभिमानिनामेक आत्मा हरिः स एव अस्तुतस्तेषां परः ष्रेष्ठः परम-प्रेमप्रेमयोग्य इत्य् अर्थः । वस् तु नाना पृथक् पृथग् आत्मा देहाभिमानिवर्गस्तन्-मध्ये मूढैर् एव पर इव स गृह्यते । केषुचित् कैश्चिन् मोहविवर्ते प्रेमाभासमयैर् एव यथास्वं तत्तद्योग्यतया प्रतीयते मात्रं, तत्र दृष्टान्ता यथा रवेरेवालाभे दीपो मर्त्यैः परतया गृह्यते, यथा विस्तृतेर्नभस एवालाभे उदुम्बरमशकैस् तदन्तर्गतनभस् तत्तया गृह्यते इति ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देहिनां जीवानाम् । एको मिथस् तुल्यस्वरूपः, चिद्रूपत्वात् ॥४४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहात्ममानिनां मतं द्वाभ्यां खण्डयन् प्रथमं देहः परमात्मा न भवतीत्य् आह—एक इति । पर आत्मा देहिनां देहवतां जीवानां हि निश्चितम् एक एव प्रेरको भवति । एकस्यैवाधिष्ठानबाहुल्ये सति नानात्वे दृष्टान्तौ ज्योतिरग्निदारुषु नभ आकाशं घटेषु । यद् उक्तं प्रथमे—

यथा ह्य् अवहितो वह्निर् दारुष्व् एकः स्व-योनिषु । > नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ [भा।पु। १.२.३२] > इति ॥४४॥


॥ १०.५४.४५ ॥

देह आद्य्-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः । > आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतस्तर्हि न चन्द्रादिवदात्मानमेकं शुद्धं प्रतीमस्तत्राह—देह इति । द्रव्यमधिभूतम् । प्राणा इन्द्रियाण्यध्यात्मम्, गुणशब्देनाधिदैवं, तत्त्रितयात्मकः । देहोपाधिना शुद्धो न प्रतीयत इत्य् अर्थः ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर्हेत्वाक्षेपः—कुत इति । गुणकार्यत्वाद्देवानाम् सत्त्वेन सुरतां याति इत्य् उक्तेः । तत्त्रितयात्मको\ऽधिभूताध्यात्माधिदैवात्मकः । इत्य् अर्थ इति-न हि मालिन्यानपनयने मुकुर नैर्मल्यं प्रतीयत इति भावः । आत्मनि अधिष्ठाने रज्जुसर्पवदज्ञानकल्पितः स्वाध्यासेनात्मानं शुद्धम् अपि संसारयति संसारे क्षिपतीत्य् अर्थः । देहो जीवात्मापि न भवतीत्य् आह—यः सुहृद्बुद्ध्या पाल्यः, दुर्हृद्बुद्ध्या वध्यः स एष देह आद्यन्तवान् । द्रव्यमधिभूतम्, प्राणा इन्द्रियाण्यध्यात्मम्, गुणशब्देनाधिदैवम्, तत्त्रियात्मकः आत्मनि जीवे\ऽविद्ययैव कल्पितः राग-द्वेषादिविषयीभूतः सन् देहिनं संसारवन्तं करोति ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु देहस्याचेतनत्वाच्छान्तादिस्वभावः कथम्, कथं वा परमेश्वरांशानां जीवानां विचित्रदेहप्राप्त्या संसारः ? तत्राह—देह इति । एष विविधविकारवत्वादिना दृश्यमानः । किं वा, पाञ्चभौतिकः, इति पार्षदादि-सच्चिदानन्ददेहो व्यावर्त्तितः । चेतनेन्द्रियादिमयत्वादस्य शान्तत्वादिकम् अपि घटेतेति भावः । नन्व् इन्द्रियादीनाम् एव कथं चेतनत्वम् ? तत्राह—आत्मनीति, अधिष्ठानस्य चेतनस्यात्मनः सम्बन्धाद् इत्य् अर्थः । अत एव आद्यन्तवान् जन्ममृत्यू लभमानः, देहाभिमानिनं जीवं संसारयति जन्मादिलक्षणसंसारं प्रापयति । अविद्ययेति तस्यापि मिथ्यात्वं सूचितम् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देह इति । तैर् व्याख्यातं यद् वा, प्राणेन क्रिया लक्ष्यन्ते गुणा रूपरसादयः अर्थान्तरे चावस्थावेशे हेतुम् आह । देह इति । एष इति रुक्मिदेहं दर्शयति एतद्विध इत्य् अर्थः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : असतामात्मनीत्यर्थात् तत्स्पर्शासमर्थेनेत्य् अर्थः ॥४५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहो जीवात्मापि न भवतीत्य् आह—देह इति । यः सुहृद्बुद्ध्या पाल्यः, दुर्हृद्बुद्ध्या वध्यः स एष देह आद्यान्तवान् द्रव्यमधिभूतं प्राणा इन्द्रियाण्यध्यात्मं गुण-शब्देनाधिदैवं तत्-त्रितयात्मकः आत्मनि जीवे अविद्ययैव कल्पितः राग-द्वेषादिविषयीभूतः सन् देहिनं संसारवन्तं करोति ॥४५॥


॥ १०.५४.४६ ॥

नात्मनोऽन्येन संयोगो वियोगश् चासतः सति । > तद्-धेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु देहसम्बन्धेनापि संसारे सति शुधत्वं गतम् एव तत्राह—नात्मन इति । हे सति ! अन्येनाधिभूतादिनात्मनः संयोगवियोगौ न स्तः । कुतः । असतः असत्त्वादन्यस्येत्य् अर्थः । कुतोऽसत्त्वं तत्राह—तद् धेतुत्वाद् इति । तस्यान्यस्य भूतेन्द्रियादेः प्रसिद्धेः प्रकाशस्य तद्धेतुत्वादात्महेतुत्वात् । ननु देवैर् अधिष्ठितेभ्य इन्द्रियेभ्यो भूतानां प्रतीतिः प्रसिद्धा । भूतप्रतीत्या च तत् प्रसिद्धिर् नात्मन इत्यत आह—दृग्रूपाभ्यां यथा रवेः । यथा प्रकाष्यप्रकाशकत्वेन वर्तमानयोर् अपि चक्षूरूपयोः रवेः सकाशात् प्रसिद्धिर् द्वयोर् अपि तैजसत्वात्तदभेदश् च तथा भूतेन्द्रियादीनां परस्परं सिद्धानाम् अपि चैतन्याधीन एव प्रकाशस् तत् कार्यत्वाच् च तद्-व्यतिरेकेणासत्त्वं चेत्य् अर्थः । तथा च द्वादशे वक्ष्यति,

दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथक् भवेत् । > एवं धीः स्वानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् ॥ इति ।

यद् वा, रवेः प्रसिद्धाभ्याम् एव दृग्-रूपाभ्यां परस्परं प्रसिद्धिर् यथा भवति तद्वद् इति ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनराक्षिपति—नन्व् इति । हेतुमाशङ्कते—इत्य् अर्थ इति । अन्यस्येत्यध्याहार्यम् इति भावः । असत्त्वे हेतुमाक्षिपति—कुत इति । तत्राक्षेपे । पुनराक्षिपति—नन्व् इति । तत्प्रसिद्धिर् इन्द्रियप्रसिद्धिः । तदभेदश्चक्षुरूपयोर् अभेदः । तत्कार्यत्वाच्चैतन्यकार्यत्वात् । तद्व्यतिरेकेण चैतन्यं विना तेषाम् असत्त्वम् । इत्य् अर्थ इति—विवर्तस्याधिष्ठानमन्तरेण सत्त्वानुपलब्धेः प्रसिद्धत्वात् । एतदग्रे स्फुटीभविष्यतीत्य् आह—तथा चेति । आत्मन एव पुनर्मुख्य प्रकाशकत्वं न त्विन्द्रियादेर् इत्य् आह—परस्परं सिद्धिर् अविप्रकाशितम् एव चक्षुरूपं प्रकाशयति, रविप्रकाशितम् एव रूपं चक्षुः प्रकाशयतीत्य् अर्थः । तद्वदात्मप्रकाशिता एव देवादयो विश्वं प्रकाशयन्ति तस्य तेजसेद्धः सूर्यस्तपति, न तत्र सूर्यो भाति, न चन्द्रो न तारकाः, नेमा विद्युतो भान्ति कुतो\ऽयमग्निः, तम् एव भान्तमनुभाति, सर्वं तस्य भासा सर्वम् इदं विभाति इति श्रुतेः,

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । > यथार्कोग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥ इति स्मृतेश् च ।

संयोगो नास्ति संयोगापेक्षत्वाद्वियोगो\ऽपि नास्ति । संयोगाभावे हेतुः—असत इति । आत्मनीत्यर्थात् त्रिकालमप्यात्मनि तस्य स्पर्शाभावाद् इत्य् अर्थः । तत्र हेतुः—तस्यान्यस्य प्रसिद्धेः शक्तेः । तद्धेतुत्वाच्चिद्रूपात्मकहेतुत्वात् । एवं सति तं कथं स्पृशेद् इत्य् अर्थः । रवेः राजमानदेवविशेषस्य सूर्यस्य दिवानक्तम् अप्य् अच्यवमानस्य दृग्रूपाभ्यां तल्लव्धप्रकाशाप्रकाशशक्तिभ्यां यथा स्पृश्यत्वाभावात्संयोगवियोगौ न स्तस्तद्वत् । हे सति विचक्षणे । अर्थान्तरे, तदप्यस् तु नाम भवतु श्री-कृष्णनित्यलक्ष्मीरूपायां रुक्मिण्यादिना संबन्ध एव नास्तीत्य् आह—नेति । आत्मनस् तव । नन्व् एतद्विधस्तन्माहात्म्यप्रसिद्धः कथमसौ न स्यात्तत्राह—सा परमलक्ष्मीरूपा त्वम् एव हेतुर्यत्र तद्रूपत्वात्तस्याः प्रसिद्धिर् इति । अवतरिष्यन्त्यास् तव दृष्टिप्रभावोदयाद् एव सैषामेषा प्रसिद्धिर् इत्य् अर्थः । तर्हि मम संबन्धे सति कथं संयोगवियोग न स्तस्तत्राह—दृग्रूपाभ्याम् इति प्राङ्च ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवादौ सहेतुकं सदृष्टान्तञ्चाभिव्यञ्जयति—नेति । अन्येन देहेन इन्द्रियादिनापि वा, वियोगो\ऽपि नास्ति—वियोगस्य संयोगापेक्षया संयोगस्य चासत्त्वेन स्वत एव तस्याप्यसत्त्वसिद्धेः। आत्मन्यविद्यया क्लुप्तः इत्यनेनैव देहस्यासत्त्वमुक्तम् एव । हे सतीति यथा साध्व्या असाध्व्या सह सम्बन्धो नास्तीति भावः । तत्र दृष्टान्तः–यथा रवे ग्रूपाभ्यां सह संयोग-वियोगौ न स्तः । कुतः ? तयोर् दृग्रूपयोः प्रकृष्टसिद्धे रविहेतुकत्वादेव, एतच्चात्महेतुकदेहप्रसिद्धेः सादृश्यार्थमुक्तम् । एवं तत्कार्यत्वेन तयोस् तद्व्यतिरेकेणासत्त्वमभिप्रेतम् । अतो\ऽसत्त्वादेवेत्य् अर्थः । आद्यन्तवान् इति सूचितम् ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : संयोगो नास्ति संयोगापेक्षित्वाद्वियोगो\ऽपि नास्ति संयोगाभावे हेतुः असत इति आत्मनीत्यर्थात् । त्रिकालमप्यात्मनि तस्य स्पर्शाभावाद् इत्य् अर्थः । तव हेतुः तस्यान्यस्य प्रसिद्धः शक्तेस्तद्धेतुत्वात् चिद्रूपात्मैकहेतुत्वात् एवं सति तं कथं स्पृशेद् इत्य् अर्थः । तत्र दृष्टान्तः रवेराजानजदेवविशेषस्य सूर्यस्य दिवानक्तम् अप्य् अच्यवमानस्य दृग्रूपाभ्यां तल्लब्धप्रकाशनप्रकाशशक्तिभ्यां यथा स्पृश्यत्वाभावात् संयोगवियोगौ न स्तः तद्वत् हे सति ! विचक्षणे अर्थान्तरे च तदप्यस् तु नाम तव तु श्री-कृष्णनित्यलक्ष्मीरूपाया रुक्म्यादिना सम्बन्ध एवं नास्तीत्य् आह। नेति । आत्मनस् तव नन्व् एतद्विधस्तत्त न्माहात्म्यप्रसिद्धः कथमसन् स्यात् तत्राह—सा परमलक्ष्मीरूपा त्वम् एव हेतुर्यत्र तद्रूपत्वात्तस्याः प्रसिद्धेर् इति अवतरिष्यन्त्यास् तव दृष्टिप्रभावोदयाद् एव सैषामेषा प्रसिद्धिर् इत्य् अर्थः । तर्हि मम सम्वन्धे सति कथं संयोगवियोगौ न स्तस्तत्राह । दृग्रूपाभ्याम् इति प्राग्वत् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं सति कथं स्पृशेद् इत्य् अर्थः । तत्र दृष्टान्तः । रवेः आजानजदेवविशेषस्य दिवानक्तमप्याच्यवमानस्य दृग्रूपाभ्यां लब्धतत्प्रकाशनप्रकाशशक्तिभ्यां यथा स्पृश्यत्वाभावात् संयोगवियोगौ न स्तः तद्वत् हे सति ! विचक्षणे हे सुचिस्मिते हे प्रसन्नहदये इत्य् अर्थः । तव साक्षाल्लक्ष्मीत्वान्नेषद् अपि तत्तत् स्पर्शः किन्तु लीलयैव त्वमित्थं व्यवहरसि मयापि तथोपदिश्यसे इति भावः ॥४६-६०॥

तत्र हेतुः—तस्यान्यस्य प्रसिद्धेः । शक्तेस् तद्-धेतुत्वाच् चिद्-रूपात्मक-हेतुत्वात् । एवं सति कथं स्पृशेद् इत्य् अर्थः । तत्र दृष्टान्तः—रवेर् अजानज-देव-विशेषस्य सूर्यस्य दिवानक्तम् अप्य् अच्यवमानस्य दृग्-रूपाभ्यां संयोग-वियोगौ न स्तस् तद्वत् । हे सति विचक्षणे ॥४६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु जीवात्मनो देहलिप्तत्वाद् एव देह एव आत्मेति प्रतीतिर्भवति । वस्तुतस् तु देहेन लेपस्तस्य जीवात्मनो नैवास्ति । परमात्मनस्क्त जीवात्मनोऽपि लेपो नास्तीत्य् आह—नेति । प्रथमं जीवात्मपक्षौ व्याख्यायते—हे सति ! आत्मनो जीवस्य अन्येन जडेन देहेन असता आद्यन्तवत्त्वाद् असर्वकालस्थायिना संयोगो लेपो नास्ति । संयोगाभावाद् एव वियोगोऽपि नास्ति । कुतः तत्प्रसिद्धेः देहप्रकाशस्य तद्धेतुत्वात् जीवात्महेतुकत्वात् अतः ध्यात्मादिमयदेहस्य । जीवात्मप्रकाश्यत्वात्तेन स्ह जीवात्मनो न लेपो नहि प्रकाशकः प्रकाश्येन क्वापि लिप्यते अथ परमात्मपक्षः आत्मनः परमात्मानः—अन्येन जीवेन असता अचिरस्थायिना देहेन च न संयोगो न वियोगश् च, कुतः तत्प्रसिद्धेः ? तयोर् जीवदेहयोः प्रकाशस्य तद्धेतुत्वात् परमात्महेतुकत्वाद् अतः परमात्मनः स्वप्रकाशाभ्यां जीवदेहाभ्यां नैव लेपः नहि प्रकाशकः प्रकाश्यस्यलिप्तः क्वापि भवति उभयपक्ष एव दृष्टान्तः रवेर् आकाशस्थसूर्यस्य स्वेन प्रकाशिताभ्यां दृग्रूपाभ्यां दृशा चक्षुषा तत्प्रकाश्येन रूपेण च न लेपः । अत्र रविस्थानीयः परमात्मा, दृक्स्थानीयो जीवः । रूपस्थानीयो देहः ॥४६॥


॥ १०.५४.४७ ॥

जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् । > कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देहसम्बन्धाभावाद् एव नात्मनो जन्मादयोऽपीति वक्तुं जन्मादीनां देहधर्मत्वम् आह—जन्मादयस्त्व् इति । कथं तर्हि जातोऽहं बालोऽहं वृद्धोऽहम् इत्य् आत्मनि जन्मादिप्रतीतिः । देहजन्मादिनैवेति सदृष्टान्तम् आह—कलानाम् इवेति । इन्दोः कलानाम् एव जन्मादयो नैवेन्दोर्यथा तद्वत् । यथा च कलानाशाद् एव कुहूरमावास्या इन्दुक्षय उच्यते तद्वदस्यात्मनो देहनाशाद् एव मृतिव्यवहार इत्य् अर्थः ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाह-देहसंबन्धेत्यादिना । नन्व् एतत्कुलजाताया मम कथमेतौस्तो न स्तस्तत्राह—जन्मादय इति । यद्यात्मनो जीवस्यापि सन्ति तदा सच्चिदानन्दरूपविग्रहाया भगवत्स्वरूप-शक्तेस् तव तु किमुतेति भावः । इत्य् अर्थ इति—

मा स्वस्य कर्मबीजेन जायते सोप्ययं पुमान् । > म्रियते चामरो भ्रान्त्या यथाग्निर्दारुसंयुतः ॥ इत्य् उक्तर् इति > भावः ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देहस्यैव जन्मादिकं सदृष्टान्तमभिव्यञ्जयति—जन्मेति, विक्रिया विकाराः—जायते, अस्ति। वर्धते, परिणमते, क्षीयते, नश्यतीति षट्, क्वचित् कदाचिद् अपि सिद्धानां लीलया जन्मादावपीत्य् अर्थः । ननु जन्मादौ बाल्याद्यवस्थायामिन्द्रियादिप्रवर्त्तनेन पितृत्वादिनाभिन्नत्वाद्देहस्यैव जन्मादयः सन्तु नाम, मरणे तु चैतन्याभावेनात्मैव मृत इति प्रतीयतेतराम्, तत्राह—मृतिरिति, हि अपि, मृतिरपि, यथा अमावास्यायामिन्दोर्बिम्वादर्शनादिन्दुक्षयः प्रतीयते, अन्यदा च प्रायो बिम्वदर्शनात् कलानाम् एव जन्मादयः प्रतीयन्ते, तथा मरणे देहाचेतनत्वेनापि देहस्यैव मृतिर्न त्वात्मन इत्य् अर्थः । अन्यत्त्तैर् व्याख्यातम् । यद् वा, ननु अमावस्यामिन्दोरसद्भावेन मरणं लक्ष्यत एवेत्यसदृशो दृष्टान्तः, तत्राह–अस्येन्दोः कुहूः कलानां क्षय एवं मृतिरिव, इवेति तत्त्वतो मृत्यभावात् ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदेशे कलानां क्रमवृद्धिह्रासधर्मकसूर्यच्छाया रूपत्वं इन्द्रोस् तु स्वतो जलमण्डलरूपत्वं व्याख्यास्यते अर्थान्तरे । नन्व् एतत्कुले जाताया मम कथमेतैस्तौ न स्तः तत्राह । जन्मादय इति । यद्यात्मनो जीवस्यापि न सन्ति तदा सच्चिदानन्दविग्रहाया भगवत्स्वरूप-शक्तेस् तव तु किमुतेति भावः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्मादिभिर् अपि संयोगाभावं वक्तुं तेषां देहधर्मत्वम् आह—जन्मादय इति । कथं तर्हि जातोऽहं बालोऽहं वृद्धोऽहम् इत्य् आत्मनि जन्मादिप्रतीतिः देहजन्मादिनैवेति सदृष्टान्तम् आह—इन्दोः कलानाम् एव जन्मादयो नैवेन्दोरसङ्ख्यकलात्मकस्य यथा तद्वत् यथा चास्येन्दोः कुहूहेतु कलाक्षय एव मृतिरुच्यते सा नसर्व्स्थितेन्दुकला कुहूइत्य् अमरः । तद्वद् अस्यात्मनो देहनाशाद् एव मृतिव्यवहारः ॥४७॥


॥ १०.५४.४८ ॥

यथा शयान आत्मानं विषयान् फलम् एव च । > अनुभुङ्क्ते\ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् आत्मनो देहादिसम्बन्धाभावे कथं भोक्तृभोग्यभोगप्रतीतीत्याशङ्क्य स्वप्नदृष्टान्तेन समर्थयति । यथा शयान इति । आत्मानं भोक्तारं विषयान् भोग्यान्फलं भोगमसत्यप्यर्थेऽनुभुङ्क्ते तथा अबुधः सम्सारं प्राप्नोति ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जन्मादीनामात्मधर्मत्वाभावे पुनराशङ्कते—नन्व् इति अबुधो\ऽनात्मज्ञः । एवम् आत्मनो वस्तुतो देहलेपाभावे\ऽप्य् अतर्क्यशक्त्याविद्ययैत्र देहसंबन्धमननात्संसार इति सदृष्टान्तम् आह—यथेति । असत्यर्थे कस्मिश्चिद् अपि वस्तुन्यवर्तमाने\ऽपि शयानः । आत्मानं च तुरगसेनादि-युक्तम् । विषयान् जेतव्यदेशान् । फलं तज्जयात्स्रक्चन्दनवनितादिभोगसुखं, कदाचित्तदजयात्संबन्धनताडनतिरस्कारादि चानुभुते\ऽनुभवति । जागरणसादृश्येन राजादिरूपेण पश्यतीत्य् अर्थः । तथैवाविवेकी असत्यपि देहसंबन्धे देहसंबन्धोत्थं सुखदुःखात्मक संसारम् । तथा चोक्तम्

अर्थे ह्यविद्यमाने\ऽपि संसृतिर्न निवर्तते । > ध्यायतो विषयानस्य स्वप्ने जागरणं यथा ॥ इति ।

अर्थान्तरे, ननु एवं चेत्तत्त्वं तर्ह्य् अयं कथं श्रुत्वापि स्वभावाविष्ट एवं लक्ष्यते, तत्राह—यथेति । अबुधो रुक्मी ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अविद्ययेति सूचितमात्मना देहाभिमानेन संसारस्यापि मिथ्यात्वं च सदृष्टान्तमभिव्यञ्जयति—यथेति । शयानः स्वप्नं पश्यन् सर्वो\ऽपि जनः विषयांश्च, एव अपि, फलं सुखदुःखादिकम् अपि, अनु जागरणसादृश्येन भुङ्क्ते अनुभवति, तत्रात्मानमनुभुङ्क्त इति राजादिरूपेण पश्यतीत्य् अर्थः । नन्व् एवञ्चेत्तर्हि तद् अपि सर्वं सत्यमस् तु ? न, तेषाम् असत्त्वाद् इत्य् आह—अर्थे तत्तद्रव्ये सत्यपीति । अबुध आत्मतत्त्वानभिज्ञो जनो भवं संसारं प्राप्नोति अनुभवति । एवम् अज्ञानाद् एव जन्ममरणादिकं सर्वम्, न तु तत्त्वत इति तात्पर्य्यम् ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनु जागरणसादृश्येन भुङ्क्ते अनुभवति तत्रात्मानमनुभङ्क्ते इति राजादिरूपेण पश्यतीत्य् अर्थः । अर्थान्तरे न चेत्तत्त्वं तर्ह्य् अयं कथं श्रुत्वापि स्वभावाविष्ट एव लक्ष्यते तत्राह । यथेति । अबुधो\ऽयं रुक्मी ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् सङ्गोह्ययं पुरुषः इति श्रुतेरात्मनो वस्तुतो देहलेपाभावे\ऽप्य् अतर्क्यशक्त्या अविद्ययैव देहसम्बन्धमननात् संसार इति सदृष्टान्तम् आह—यथेति । असत्यर्थे कस्मिंश्चिद् अपि वस्तुनि वर्तमानेऽपि शयानः आत्मानं चतुरङ्गसेनायुक्तं विषयान् जेतव्यदेशान् फलं तज्जयान् स्रक्चन्दनवनितादिभोगसुखं कदाचिदजयात् स्वबन्धनताडनतिरस्कारादिकं च अनुभुङ्क्ते अनुभवति तथैवाबुधोविवेकी भवम् असत्यपि देहसम्बन्धोत्थं सुखदुःखात्मकं संसारम् । यथा चोक्तं—

अर्थे ह्यविद्यमाने\ऽपि संसृतिर्न निवर्तते । > ध्यायतो विषयान् अस्य स्वप्ने\ऽनर्थागमो यथा ॥ [भा।पु। ३.२७.४] > इति ॥४८॥


॥ १०.५४.४९ ॥

तस्माद् अज्ञान-जं शोकम् आत्म-शोष-विमोहनम् । > तत्त्व-ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं शोषयति विमोहयति चेति तथा तम् । निर्हृत्यापाकृत्य ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्था तत्त्वज्ञा शुचिस्मित इति प्रोत्साहनार्था संबुद्धिः । अर्थद्वयमुपसंहरति—तस्मादात्मनः शोकः नीरसतापादनम् । हे शुचिस्मिते हे प्रसन्नहृदये इत्य् अर्थः । तव साक्षाल्लक्ष्मीत्वान्नेषदप्यज्ञानस्पर्शः किन्तु लौकिकलीलयैव त्वमित्थं व्यवहरसि मयापि तथोपदिश्यस इति भावः ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनः शोषो नीरसतापादनम्, न चेदं केवलम्, किन्तु विशेषतो मोहनं च, बुद्ध्यादि—सर्वविनाशकम् इत्य् अर्थः । तत्त्वज्ञानेन उक्तेन किं वा, स्वतस्त्वयि विराजमानेनैव, शुचि शुद्धं स्मितं यस्यास्तत्सम्बोधनम् । शुचिस्मितत्वात् त्वं सदा प्रसन्नहृदयैवेति तत्त्वतस् तव शोको नास्तीति बुध्यत एव, तथापि मया यदोद्धत्यं कृतं तत् क्षन्तव्यम् इति भावः । यद् वा, सदा निर्मलचित्तत्वाच्छुचिस्मिते ! श्री-कृष्णे स्वस्था अभिनिविष्टचित्ता भव, साक्षात् तथानुक्तिर्धार्ष्ट्यपरिहारार्थम् ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्थद्वयमुपसंहरति । तस्मादात्मनः शोषः नीरसतापादनं हे शुचिस्मिते ! हे प्रसन्नहृदये इत्य् अर्थः । तवे साक्षाल्लक्ष्मीत्वान्नेषदप्यज्ञानस्पर्शः किन्तु लौकिकलीलयैव त्वमित्थं व्यवहरसि मयापि तथोपदिश्यस इति भावः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हे शुचि-स्मिते ! हे प्रसन्न-हृदये इत्य् अर्थः । तव साक्षाल् लक्ष्मीत्वान् नेषद् अपि तत्-तत्-स्पर्शः । किन्तु लौकिक-लीलयैव त्वम् इत्थं व्यवहरसि, मयापि तथोपदिश्यस इति भावः ॥४९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्मादेवं तस्मात् स्वस्था स्वभावस्था भव हे शुचिस्मिते ! मुखस्य स्वाभाविकीं प्रफुल्लतां प्रकाशय, न त्वं प्राकृती सांसारिकी वधूर् इति भावः ॥४९॥


॥ १०.५४.५० ॥

श्री-शुक उवाच—

एवं भगवता तन्वी रामेण प्रतिबोधिता । > वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समादधे समाहितमकरोत् ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बुद्धया निश्चयात्मिकया । तथैव साप्यनुकृतवतीत्य् आह—एवम् इति । प्रतिबोधितेत्यत्र सा तावत्स्वयम् एव चिच्-छक्तिरूपत्वान्नित्यं बुधैव प्रत्युत तदंशसम्बन्धाद् एव श्रीसङ्कर्षणादीनाम् अपि बोधादिकं ततस् तेन तस्याः प्रतिबोधनं प्रतिदानरूपम् एवेति प्रतिशब्दस्यार्थः ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तन्वीति शोकेन कार्श्यत् किं वा, कृशमध्यत्वादिना परमसौन्दर्यात्, अयं प्रयिबोधने हेतुः, अन्यथा शोकेन सौन्दर्यक्षयात् । प्रति प्रत्यक्षं बोधिता शिक्षिता, यतो भगवता सर्वज्ञेन श्री-कृष्णाभिप्रायादिकं जानतेत्य् अर्थः । रामेणेति प्रतिबोधनेन तस्याः सुखजननाभिप्रायेण । समादधे प्रेम्णा श्री-कृष्ण नितरामपितवतीत्य् अर्थः ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव साप्य् अनुकृतवतीत्य् आह—एवम् इति । प्रतिबोधितेत्य् अत्र सा तावत् स्वयम् एव महा-चिच्-छक्ति-रूपत्वान् नित्यम्बुधैव प्रत्युत तद्-अंश-सम्बन्धाद् एव श्री-सङ्कर्षणादीनाम् अपि बोधादिकं ततस् तेन तस्या बोधनं प्रतिदान-रूपम् एवेति प्रतिशब्दार्थः ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोका मां किं वदिष्यतीति वैमनस्यं चिन्तां समादधे समाहितमकरोत् ॥५०॥


॥ १०.५४.५१ ॥

प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः । > स्मरन् विरूप-करणं वितथात्म-मनोरथः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रुक्मिणस्त्व् एवं श्रुतवतो नाज्ञानं निवृत्तम् इति दर्शयन्न् आह—प्राणावशेष इति ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चित्तशुद्धि विनोपदिष्टम् अपि तत्त्वं न प्रकाशत इत्य् आह—रुक्मिणस्त्व् इति । हते बलप्रभे वीर्यतेजसी यस्य स तथा । वितथो व्यर्थ आत्मनो मन रथः अहत्वा समरे कृष्णमप्रत्यूह्य यवीयसीम् इत्य् एवंरूपो\ऽभिलाषो यस्य स तथा । प्राणेति युग्मकम् । पूर्वं द्विड्भिर् हतबलप्रभः, ततो वितथात्ममनोरथः, ततो वैरूप्यपर्यन्तकरणात्प्राण-मात्रावशिष्टीकृतः, तत उत्सृष्टः, पश्चाद्विरूपकरणं स्मरन्न् इति क्रमो ज्ञेयः । व्युत्क्रमोक्तिस्तद्वर्णनेनादर सुचयित्वा तस्याप्यनादृतत्वं बोधयति । बलं सैन्यं वीर्यं च एकशेषत्वात् ॥ ५१ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राण एवावशेषो\ऽवशिष्टो यस्य सः, यतो हतं बलं सैन्यं सामर्थ्य वा प्रभावस्तेजो यस्य सः, वितथो मिथ्याभूत आत्मनो मनोरथः श्री-कृष्णजिगीषादिर्यस्य सः, विशेषणानामेषां यथोत्तरं पुरनिर्मणहेतुत्वे श्रैष्ठयम् । महत् श्रीभीष्मकपुरतो वृहत्तरम्, भोजेभ्यो यादवेभ्यः कटः शपथो यत्र, यदूनां जयाय शपथकरणात्—कटः किलिञ्जे शपथे गजगण्डे करावपि इति कोषः । वस्तुतस् तु भोजन यादवानामकूरादीनां भक्तवराणां कटः, अतितुच्छत्वात् तृणासनप्रायम् इत्य् अर्थः ॥ ५१ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राणेति सार्धकम् । पूर्वं द्विड्भिर् हतबलप्रभः ततो वितथात्ममनोरथः ततो वैरूप्यपर्यन्तकरणात् प्राण-मात्रावशिष्टीकृतः तत उत्सृष्टः पश्चाद्विरूपकरणं स्मरन्न् इति क्रमो ज्ञेयः व्युत्क्रमोक्तिभिस्तद्वर्जने\ऽनादरं सूचयित्वा तस्याप्यनावृतत्वं बोधयति बलं सैन्यं वीर्यं च एकशेषत्वात् उपभुङ्क्ते इति भोजो युवराजः यद् वा, भोजो विदर्भराजवंश्यः तत्रेश्वरेण क्रथकेशिकानां भोजेन दूतो रघवे विसृष्ट इति रघुवंशकाव्यात् तस्य कटः शपथो यत्र तत् कटः कलिङ्गे शपथे गजगण्डे कटाव पीति नानार्थत्वात् सरस्वतीमते तु भोजस्य तस्य कटः श्मशानम् इव कटधूमस्य सौरभ्य म् इति तद्वाचित्वात् ॥ ५१ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्विड्भिर् इत्य् अनेन कृष्णपार्श्वात् ततः पद्भ्यां चलन् यदुसैन्यैर् अपि तिरस्कारभर्त्सनताडनादिभिः स विडम्बित इति बुध्यते ॥५१॥


॥ १०.५४.५२-५३ ॥

चक्रे भोजकटं नाम निवासाय महत् पुरम् । > अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् । > कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा ॥ > भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमिपान् । > पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहत्वा अज्ञात्वादुर्मतिम् इति च सत्योऽर्थः । अप्रत्यूह्यानावर्त्य । अप्रतिबुद्ध्येति तु सत्यम् । यवीयसीं स्वसारम् । यत्र विरूपितस् तत्रैवावसत् । तत्र च भोज-कटं नाम पुरम् अभवत् ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिज्ञानिष्पत्तेस्तत्रान्यदेवपुरं रचयामास । लज्जितः पितृनगरं न जगामेत्य् अर्थः । उपभुक्त इति भोजो युवराजः । यद् वा, -भोजो विदर्भराजबश्यः तत्रेश्वरेण क्रथकैशिकानां भोजेन दूतो रघवे विसृष्टः इति रघुकाव्यात् । तस्य कटः शपथो यत्र तत् कटः कलिञ्जे शपथे गजतुण्डे कटावपि इति कोशात् । सरस्वतीमते तु-भोजस्य तस्य कटः श्मशानम् इव कटधूमस्य सौरभ्यम् इव तद्वाचित्वात् । द्विद्भिर् इति बहुवचनेन कृष्णपार्श्वत्ततः पद्यां चलन्यदुसैन्यैर् अपि तिरस्कारभर्सनताडनादिभिर् विडंबित इति बोध्यते ॥ ५२ ॥

पुरं द्वारकाम् । जयतेर्द्विकर्मकत्वात्कर्मद्वयम् । तान्पराभवंस्तामाच्छिद्येत्य् अर्थः ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहत्वा दुर्मतिं दुरवगाह्यमतिम् ॥ ५२-५९ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यवीयसीं कनिष्ठभगिनीम् इति तस्यां स्नेहविशेष सूचयति । स च श्रीप्रद्युम्न-रुक्मवती-विवाहादिनाग्रे व्यक्तो भावी । तादृशदुरवस्थाप्राप्तस्यापि तादृशोक्तौ हेतुः—रुषेति, क्रोधेन पूर्वापर सर्वविचारानुदयाद् इत्य् अर्थः ॥ ५२ ॥

भगवान् इति दुष्टनृपवर्गनिर्जयादिना निजैश्चर्यप्रकटनाभिप्रायेण, भीष्मकस्य सुताम् इति स्नेहादिना पश्चाद्विवाहसामग्रीसहितस्य तस्यागमनं सूचयति । अतो\ऽग्रे विदर्भाणाम् अपि द्वारकामध्ये मोदो वक्ष्यते । अत एव विधिर्विवाहे यः प्रकारस्तदनुसारेण । ननु कथमुपयेमे, तद्विस्तार्य कथ्यताम् इत्य् अपेक्षायाम् आह—हे कुरूद्वहेति, महाक्षत्रिय कुलोद्भवत्वात्तत् त्वं जानास्येवेति भावः ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरा कृतं शपथम् एव दर्शयति । अहत्वेति । अप्रत्यूह्येति दीर्घमध्यत्वमार्षम् ॥५२॥

जयतेर्द्विकर्मकत्वात्कर्मद्वयं तान् पराभवन् तामाच्छिद्यत्य् अर्थः तत्रानीयोपयेम इत्य् अनेन भीष्मकसुतामित्वस्य मुख्यस्यैवान्वयः ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अहत्वा दुर्मतिम् इत्य् -आदि । दुर्मतिं दुरवगाह्यमतिम्, अदुर्मतिं वा ॥ ५२-५९ ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुःखं भुङ्क्ते इति भोजो रुक्मी तस्य कस्थितः शपथो यत्र तत् । कटे कलिङ्गे शपथे गजदण्डे कटावपि इति नानार्थात् तत्र स्वविरूपीकरणप्रदेशे ॥५२-५३॥


॥ १०.५४.५४ ॥

तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे । > अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा विवाहावसरे । कृष्णे अन्यः शत्रुर् इति भावरहितानां निरतिशयभक्ति-युक्तानां वा ॥५४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महान् वैकुण्ठादप्यधिक उत्सवो गीतवाद्याद्यानन्दकर्मविशेषः, नृणां सर्वेषाम् एव मनुष्याणाम्, यदुपुर्याम् इति तत्र यदुनां प्राधान्यात् गृहे गृहे इति प्रत्य् एक् अ सर्वेष्व् अपि गृहेष्व् इत्य् अर्थः । यतः कृष्ण साक्षाद्भगवति सर्वचित्ताकर्षके वा, न विद्यते\ऽन्यत् फलापेक्षादिकं यस्मिस्तादृशो भावो भक्तिर्येषां तेषाम् । कुतः ? यदुपतौ यदुकुलपालनद्वारा निजाशेषैश्वर्यप्रकटनाद् इत्य् अर्थः । यद् वा, यदुपुर्या महोत्सवे\ऽयं हेतुः । यद् वा, यादवेन्द्रत्वेन ज्ञानान्न चेश्वरत्वादिनेत्य् अर्थः । यद् वा, न विद्यते श्री-कृष्णादन्यस्मिन् भावः प्रेमा येषाम्, एकान्तिनाम् इत्य् अर्थः । हे नृपेति प्रहर्षोदयात् । यद् वा, निजप्रभु—नवविवाहे तेषां तादृगुत्सवो युक्त एव, तच् च त्वया नृपत्वेन बुध्यत एवेति भावः ॥५४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गृहे गृह इति अत्र हेतुः न विद्यते श्री-कृष्णादन्यस्मिन् भावः प्रेमा येषाम् ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्या एकान्तभावस्तद्वताम् ॥५४॥


॥ १०.५४.५५ ॥

नरा नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः । > पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वरयोर् वर-वध्वोः पारिबर्हं देयमुपस्करम् ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरयोर् इति—पुमान् स्त्रिया इत्य् एकशेषः ॥५५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्र—शब्दाभ्याम् अन्यकालतस् तत्र तत्रोत्कर्षं बोधयति । पाठान्तरे वरयोर् इति तथा चित्रं तैल-हरिद्रादिना मनोहरं वासो ययोर् इति विवाहलक्षणमुक्तम् । अत उप समीप एव । किं वा, उपायनत्वेनाजहृरर्पयामासुः । यद् वा, वरयोः सर्वथा सर्वश्रेष्ठयोर् इति तद्योग्यत्वेन पारिवर्हस्यापि श्रैष्ठय सूचितम् । किं च, चित्रमद्भुतं वासो ययोर् इति तत्रापि बहुलचित्रवासांसीति भावः ॥५५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वरयोर् वरवध्वोर् इति स्वस्रोरितिवत् चित्रं नानावणं वासो ययोर् इति बिवाहे शोभाविशेष उक्तः ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरयोर् वरवध्वोः ॥५५॥


॥ १०.५४.५६ ॥

सा वृष्णि-पुर्य् उत्तम्भितेन्द्र-केतुभिर् > विचित्र-माल्याम्बर-रत्न-तोरणैः । > बभौ प्रति-द्वार्य् उपकॢप्त-मङ्गलैर् > आपूर्ण-कुम्भागुरु-धूप-दीपकैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तभितैर् इन्द्रकेतुभि ध्वजविशेषैः । उपक्लृप्तानि मङ्गलानि लाजाङ्कुरपुष्पप्रकरादीनि तैः ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा द्वारका । उत्तभितैर् उत्क्षिप्तैः ।

पञ्चवर्णा वैजयन्ती इन्द्रध्वज इतीरितः । > पीतो नीलः सितो रक्तो हरितः पञ्चवर्णकाः ॥

इत्य् उक्तलक्षणैर् इन्द्रध्वजैः । यद् वा, —

चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम् । > शक्रध्वजम् इति प्राहुः पौरलोकसुखावहम् ॥

इत्य् उक्तलक्षणो ध्वज उत्तभितो येषु तैः—

एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर । > पर्जन्यः कालवर्षी स्यात्तस्य राज्ये न संशयः ॥

इति भविष्योत्तरोक्तेः ॥५६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सा सर्व-सम्पत्तिमयी तन्महोत्सवमण्डिता वा, अनिर्वचनीयमाहात्म्या वा विचित्रैः स्थाने स्थाने विन्यस्तैर् माल्यादिभिः । यद् वा, विचित्राणि माल्यादीनां तोरणानि, तैर् वभौ अशोभत ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सेति युग्मकम् मालादीनां तोरणानि तैः, उप आधिक्येन शोभिता ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्तम्भितैर् अत्युच्चैः स्तम्भैर् इवोन्नमितैर् इन्द्रकेतुभिर् इन्द्रपुर-स्पर्शिपताका-युक्तैः ॥५६॥


॥ १०.५४.५७ ॥

सिक्त-मार्गा मद-च्युद्भिर् आहूत-प्रेष्ठ-भूभुजाम् । > गजैर् द्वाःसु परामृष्ट- रम्भा-पूगोपशोभिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आहूताः प्रेष्ठाः भूभुजस्तेषां गजैः परामृष्टा उच्छ्रिता रम्भाश् च पूगाश् च तैर् उपशोभिता यद् वा, तैर् एव गजैः परामृष्टाः संस्पृष्टाः रम्भाश् च पूगाश् च तैर् उपशोभिता ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परामृष्टो विचारे च स्पर्शनोच्छ्रितयोर् अपि इति निरुक्तिः । सिक्तमार्गेति पृथग् विशेषणम् । हस्तिकर्तृकसर्वतः सेकासंभवं मत्वाह—यद् वा इति ॥५७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परामृष्टास्तत्तत्फलभक्षणाद्यर्थं संस्पृष्टा धृता वा, स्थाने स्थाने रो\ऽपि ता रम्भादयस्तैर् उप चतुर्दिक्षु किं वा, स्वतः शोभमानाम् अपि तैर् आधिक्येन शोभिताम् इत्य् अर्थः । अनेन गजानामप्युत्तमाहारसिद्धिः, रम्भादीनाम् अपि तैर् अमर्द्यत्वादिना वृहत्वदृढत्वादिकं मङ्गलसूचकत्वं च बोधितम् । अन्यत् तैर् याख्यातम् । तत्र प्रथमपक्षे मदच्युद्भिर् गजैः सिक्तमार्गः—स्थाने स्थाने गजानां मदक्षरणात् । पक्षान्तरे च गन्धजलादिभिः सिक्तमार्गा इति । यद् वा, गजैर् इत्यस्योभयतो\ऽप्य् अनुषङ्गः ॥५७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सिक्तेति । तैर् व्यख्यातं तत्र प्रथमपक्षे मदच्युद्भिर् गजैः सिक्तमार्गा स्थाने स्थाने गजानां मदक्षरणात् उच्छ्रिता उर्ध्वतया स्थापिता रो\ऽपि ता लोकर् इत्य् अर्थः । तैर् एवेति यैर् एव सिक्तमार्गास्तैर् एव संस्पृष्टा इत्यनेनामुपघातद्योतनाद्गजानां मत्तत्वे\ऽपि सुवशत्वं तले विलसद्भिस्तैर् अम्भादीनामत्युच्छ्रितत्वं शोभमानत्वं च व्यजितम् ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मदच्युद्भिर् आहूतप्रेष्ठभूभुजां गजैर् द्वाःसु परामृष्टरम्भापूगोपशोभिता ॥५७॥


॥ १०.५४.५८ ॥

कुरु-सृञ्जय-कैकेय- विदर्भ-यदु-कुन्तयः । > मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्भ्रमादौत्सुक्यात्परिधावतां बन्धूनां मध्ये मिथः समेत्य मुदं प्रापुः ॥५८.६०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिधावतामितस्तत आनन्दोद्रेकात्परिभ्रमताम् । प्रेष्ठभूभुज एवाह—कुरवो भीष्मधृतराष्ट्रपाण्डवादयः, सञ्जया द्रुपदाद्याः, कैकेयाः सन्तर्दनादयः, विदर्भा इति कन्यास्नेहात्, क्षत्रियेषु तादृशहरणस्य प्रशस्यत्वेन पूर्वम् एव च श्री-कृष्णस्य स्वाभिर् उचितत्वेन योग्यवरलाभात्प्रायः श्रीबलदेवादिभिर् मुनिजनादिद्वारा बोधयित्वा तेषाम् आनीतत्वेनासङ्कोचाच् च श्रीभीष्मकादीनामप्यागमनं बोध्यते । ते च भीष्मकक्रथकैशिकादयः, यदव उग्रसेनादयस्तदभेदान्नन्दादयो\ऽपि । तथोतं पाद्मोत्तरखण्डे—

नन्दगोपथ गोपालैर् गोपवृद्धैः सम् आगतः । > स्वलङ्कृताभिर् षिद्भिर् यशदापि समागता ॥ इति ।

तत्र ते रुक्मिणीहरणतः प्राग् एव भगवता सम्प्रार्थ्य नीता इति बोध्यम् ॥ ५८ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेष्ठभूततयैव प्रायो निर्दिशन् तेषाम् अन्योन्यसङ्गत्या प्रहर्षोदयमाहुः—कुर्ब्वति । कुरवः श्रीभीष्म-धृतराष्ट्र-पाण्डवादयः, सञ्जया द्रुपदाद्याः, कैकेयाः सन्तर्दनादयः, विदर्भाः श्रीभीष्मकक्रथकैशिकादयः, यदव उग्रसेनादयः, तदभेदाच्छ्रीनन्दादयश्च, तथा च पाद्मोत्तरखण्डे–

नन्दगोपो\ऽथ गोपालैर् गोपवृद्धैः सम् आगतः । > स्वलङ्कृताभिर् योषिद्भिर् यशोदापि समागतेति ॥ इति ।

कुन्तयः कुन्तिभोजाद्याः, परितः स्वस्वप्रयोजनार्थमित स्ततो धावतां श्रीवसुदेव-बलदेवादीनाम् । एवं विवाहविधेः परिपूर्णतोद्दिष्टा ॥ ५८



जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेष्ठभूभुज एव प्रायो निर्दिशंस् तेषाम् अन्यो\ऽन्यसङ्गत्या प्रहर्षोदयम् आह—कुर्व् इति । कुरवः श्रीभीष्मधृतराष्ट्रपाण्डवादयः सृञ्जयाः द्रुपदाद्याः कैकेयाः सन्तर्दनादयः विदर्भ इति कन्यास्नेहात् । क्षत्रियेषु तादृशहरणस्य प्रशस्यत्वेन पूर्वम् एव च श्री-कृष्णस्य स्वाभिर् उचितत्वेन योग्यवरलाभात् प्रायः श्रीबलदेवादिभिर् मनिजनादिद्वारा बोधयित्वा तेषाम् आनीतत्वेनासङ्कोचाच् च श्रीभीष्मकादीनामप्यागमनं बोध्यते ते च भीष्मकक्रथकैशिकादयः यदव उग्रसेनादयः तदभेदाच्छ्रीनन्दादयो\ऽपीत्य् एक् ए तथा पाद्मोत्तर-खण्डे ।

नन्दगोपो\ऽथ गोपालैर् गोपवृद्धैः सम् आगतः । > स्वलङ्कृताभिर् योषिद्भिर् यशोदापि समागतेति ॥

अत्राभिप्रायविशेषेण पूर्वम् एव श्रीव्रजेश्वरस्य सम्मतिप्रार्थना कंसवधानन्तरं ज्ञातीन् वो द्रष्टुमेष्यात्मो विधाय सुहृदां सुखम् इत्य् अत्रैव सूचिता कुन्तयः कुन्तिभोजाद्याः परितः तद्विवाहयोग्यस्वस्वप्रयोजनार्थमितस्ततो धावताम् ॥ ५८ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिधावतां बन्धूनां मध्ये मिथः समेत्य ॥५८॥


॥ १०.५४.५९ ॥

रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः । > राजानो राज-कन्याश् च बभूवुर् भृश-विस्मिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस्ततस्तत्रतत्र । राज्ञां विस्मयस् तु बहुष्वेककतृककन्याहरणात् । राजकेन्यानां त्वहो मातापित्रनुमतिं विना कथं मेलनसङ्केतः कृत इत्य् अर्थः ॥ ५९ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् ततः स्थाने स्थाने सर्वत्रैवेत्य् अर्थः । किं वा, स्वस्वदेश इति तृशमत्य् अर्थः विस्मिताः, तेन प्रकारेण हरणात्, अतो\ऽस्माभिः कन्याः स्वयम् एव श्री-कृष्णाय दातव्या इति राज्ञां स एव अतिवरणीय इति तत्कन्यानां चेच्छा अभूद् इति ज्ञेयम् ॥ ५९ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् ततः स्व-स्व-देशे भृशम् अत्यर्थं विस्मिताः तेन प्रकारेण हरणात् तत्र सताम् आकाङ्क्षाजनिष्ट असतां तु भयम् इति विशेषो ज्ञेयः ॥ ५९ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५४.६० ॥

द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् । > रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रमया लक्ष्मीरूपया । श्रियः सर्वाश्रयभूतायाः परमलक्ष्म्याः पतिम् ॥ ६०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विवाहानन्तरं च द्वयोः सुखसङ्गतिदर्शनाद्द्वारकावासिनः परमानन्दिता बभूवुर् इत्य् आह— द्वारकायाम् इति । पुरौकसाम् इति तेषां तत्र सदा निवासेन नित्यनिकटावस्थित्या सन्दर्शनप्राप्त्या । किं वा, भक्तिविशेषेण मोदविशेषाभिप्रायेण कृष्णं साक्षाद्भगवन्तम्, अतः श्रियः लक्ष्म्याः पतिम् इति तस्मै श्रीरवश्यमपेक्ष्यत इति भावः । सा चाधुना मिलितवेत्य् आह—रमयेति । अतो महान् सर्वोत्कृष्टो मोदो\ऽभूत्, श्री-कृष्णस्य योग्यपत्नीसंयोगसुखसद्धेः, हे राजन्न् इति तद्वार्ताश्रवणोदितप्रहर्षेण राजमानस्य तस्य तथैव सम्बोधनात् । यद् वा, राजमानो महामोदः ॥ ६०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विवाहानन्तरं च द्वयोः सुखसङ्गतिदर्शनात् द्वारकावासिनः सर्वे परमानन्दतुन्दिलाः बभूबुर् इत्य् आह । द्वारकायाम् इति । कृष्ण स्वयं भगवन्तम् अतः श्रियः सर्वाश्रयभूतायाः परमलक्ष्म्याः पतिम् इति तस्मै तादृशी श्रीरवश्यमपेक्षत इति भावः । सा चाधुना मिलितैवेत्य् आह । रमयेति । तस्यापि रमणहेतुत्वेन तन्नाम्न्या अतो महान् मोदः सर्वोत्कृष्टान्दो\ऽभूत् ॥ ६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुष्पञ्चाशत्तमोऽध्यायो दशमेऽजनि सङ्गतः ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां

संहितायां वैयासिक्यां दशम-स्कन्धे रुक्मिण्य्-उद्वाहे

चतुष्पञ्चाशत्तमोऽध्यायः ॥

॥५४॥

(५५)


  1. धर्मज्ञ ↩︎