५३

कृष्णस्य कुण्डिन-पुरे गमनं रुक्मिणी-हरणं च ।

॥ १०.५३.१ ॥

श्री-शुक उवाच—

वैदर्भ्याः स तु सन्देशं निशम्य यदु-नन्दनः ।

प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रिपञ्चाशत्तमे गत्वा विदर्भान् अद्भुतेहितः ।

रुक्मिणीम् अहरत् कृष्णो मिषतां द्विषतां बलात् ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्भुतेहित आश्चर्य-लीलः । मिषतां पश्यताम् । कृष्णः । वैदर्भ्या विदर्भ-राज-पुत्र्याः । तु-शब्दः क्रम-प्राप्त-श्री-कृष्ण-भाव-वर्णन-रूपे प्रकरण-भेदे । तथैवाभिव्यञ्जयति--प्रगृह्य इति । प्रकर्षेण पुलकादि-प्रेम-विकारेण गृहीत्वा, पाणिना चेदं पाणि-ग्रहणं सख्य-सम्पादनाय । तच् च हार्दम् अपि व्यञ्जयितुम् ईषद् व्रीडा-सहितेन प्रहर्षेण भाव-विशेषेण च प्रकृष्टं हसन्यदु-नन्दन इति रुक्मिणी-परिग्रहाद् यदु-कुलस्यानन्दनाभिप्रायेण ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्देन श्री-रुक्मिणीतो\ऽपि भावाधिक्यं बोधयति । तद् एवाभिव्यञ्जयति—प्रगृह्य इति । प्रकर्षेण स-कम्प-पुलकादि-प्रेम-विकाराकुलत्वादिना गृहीत्वा, प्रहर्षेण भाव-विशेषेणैव वा, प्रकृष्टं हसन् । यदुनन्दन इति श्री-रुक्मिणी-परिग्रहेच्छया यदु-कुलस्यानन्दनाभिप्रायेण ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु-शब्दः क्रम-प्राप्त-श्री-कृष्ण-भाव-वर्णन-रूपे प्रकरण-भेदे तथैवाभिव्यञ्जयति—प्रगृह्य इति । प्रकर्षेण पुलकादि-प्रेम-विकारेण गृहीत्वा पाणिना चेदं पाणि-ग्रहणं सख्य-सम्पादनाय तच् च हार्दम् अभिव्यञ्जयितुम् ईषद् व्रीडा-सहितेन प्रहर्षेण भाव-विशेषेण च प्रकृष्टं हसन्यदुनन्दन इति रुक्मिणी-परिग्रहात् यदु-कुलस्यानन्दन-वैशिष्ट्याभिप्रायेण ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रिपञ्चाशत्तमे कृष्णो गत्वा कुण्डिनम् आचितः ।

भीष्मकेणाहरद् भैष्मी देव्यर्चायै विनिर्गताम् ॥

रुक्मिणी कृष्णैक-चित्ता बहिर्-अन्तर्-व्याकुलेवास्ति स्म । कृष्णस् तु रुक्मिण्य्-एक-चित्तत्वाद् अन्तर्-व्यकुलो\ऽपि । प्रहसन् प्रहासेन स्व-हर्षम् आविष्कुर्वन् ॥ १॥


॥ १०.५३.२ ॥

श्री-भगवान् उवाच—

तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि ।

वेदाहं रुक्मिणा द्वेषान् ममोद्वाहो निवारितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निद्राया अलाभे कारणान्तरम्—वेद इति । तया अकथितम् अप्य् अहं जानामीति ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा रुक्मिणी मच्-चित्ता, तथाहम् अपि तस्यां चित्तं मनो यस्य, स तथा । प्रथमं कारणं तच्-चित्तत्वं, द्वितीयं मम इत्य्-आदि । सा यथा मच्-चित्ता, तथाहम् अपि । तल्-लक्षणम् आह—निद्रां च इति । निद्राम् अपि कुतो\ऽन्यद् उपभोगादि-सुखम् इत्य् अर्थः । अत्र विघटन-निदानस्यापि मम ज्ञातत्वान् मया स्वत एव तत्-समाधानं कार्यम् इत्य् आह--वेद इति सार्धेन ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निद्रांन लभे निशि इत्य् अस्यायम् अर्थः—निशि उपसन्नां निद्राम् उपभोग्यत्वेन न स्वीकरोमि, रुक्मिण्य्-उद्वाहो यावन् न भवति, तावन् नान्या स्वीकार्येति निद्रा-रूपा नायिकापि न स्वीक्रियते ॥ १-२४ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सा यथा मच्-चित्ता, तथा । तल्-लक्षणम् आह—निद्राम् इति । अपि निद्राम् अपि, कुतो\ऽन्यद् उपभोगादि-सुखम् इत्य् अर्थः । यथा अहम् अपि, तथा तादृशः । किं काक्वा । नैव, किन्तु अधिक इत्य् अर्थः । कुतः ? तदाह—निद्रां च इति । निद्राया अलाभे हेत्व्-अन्तरम् आह—वेदेति । नितरां वारितः शिशुपालेन सह विवाह-निर्णयनात् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सा यथा मच्-चित्ता, तथा । तल्-लक्षणम् आह—निद्रां च निद्राम् अपि कुतो\ऽन्यद् उपभोगादि-सुखम् इत्य् अर्थः । अत्र विघटन-निदानस्यापि मम ज्ञातत्वात् मया स्वत एव तत्-समाधानं कर्तव्यम् इत्य् आह—वेद इति सार्धेन ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथाहम् अपि इत्य्-आदि । निद्रां च लभे निशि इत्य् अस्यायं भावः । निश्य् उपगतां निद्रा-रूपां नायिकां न लभे, न स्वीकरोमि । रुक्मिण्य्-उद्वाहो यावन् न भवति, तावत् त्वम् अपि न मे भोग्या इति निद्राम् अपि निरस्यामीति भावः ॥२॥ (३-२४)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेद वेद्मि ॥२॥


॥ १०.५३.३ ॥

ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे ।

मत्-पराम् अनवद्याङ्गीम् एधसोऽग्नि-शिखाम् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आनयिष्यामिराजन्यापसदान् राजसु हीनान् । उन्मथ्य आनयने दृष्टान्तः--एधस इति ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां रुक्मिणीम् । स्याद् अपसदः प्रोषिते\ऽपि नीचे पीडाकरे तथा इति निरुक्तिः । एधसः काष्ठात् । ताम् आनयिष्य इति एतावन्तं कालं तस्या एवाभिप्रायं प्रतीक्ष इति भावः । तर्हि ममानागमने भवांस् ताम् उपेक्षेतैवन, तदीय-महा-गुणाकृष्टत्वान् ममेत्य् अभिप्रायेण तां विशिनष्टि—मत्-पराम् इति पद-द्वयेन । तत्-परत्वे सर्व-सद्-गुणवत्ता सिद्ध व यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] []{दिर्=“र्त्ल्”}इत्य्-आदेः । एवं श्रुत्वा गुणान् [भा।पु १०.५२.३७] इत्य्-आदिना तद्-उक्त-निज-गुण-रूपवत् तस्या अपि गुण-रूपे बोधिते । उच्चैर् मथित्वा इति निर्मथ्य, इति तद्-उक्तानुसारेण तद्-उक्त-प्रतिपालन-परता बोधिता । राजन्यापसदान् इति मुहुर् निर्जयादिना अपमानेनापि लज्जाद्य्-अभावाद् दुर्बुद्धितानपगमाच् च । मृधे इति-युद्ध-मध्ये साक्षाद् एव, न तु मायान्तर्धनादिना । इत्य् अर्थ इति निज-पराक्रमः सूचितः । एधस इति दृष्टान्तेन यज्ञियाग्नि-शिखावद् दारुणाच्छन्नत्वे\ऽपि परिश्रमेण अवश्योद्धार्यत्वं ध्वनितम् । यथा एधसि वर्तमानाग्नि-शिखा प्रकटीभूता एध एव ज्वालयति, तथैव रुक्मि-प्रभृति-दुष्ट-राजन्य-कुलेनावृता सैव तत् सर्वं ज्वालयिष्यति । "अहं तु निमित्त-मात्रं भविष्याणि" इति भावः । एवं तद्-अशेष-सन्देशोत्तरम् अप्य् ऊह्यम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-आनयनं तस्या गुण-रूपाभ्याम् एवाकर्षणाद् इत्य् अभिप्रायेण तां विशिनष्टि—मत्-पराम् इति पद-द्वयेन । तत्-परत्वेन सर्व-सद्-गुण-वर्ग-सत्ता [सिद्धैव]{।मर्क्} । एवं श्रुत्वा गुणान् [भा।पु १०.५२.३७] इत्य्-आदिना तद्-उक्त-निज-गुण-रूपवत् तस्या अपि गुण-रूपे बोधिते । उच्चैर् मथित्वा इति निर्मथ्य इति तद्-उक्तानुसारेण तद्-उक्त-प्रतिपालन-परता च बोधिता । राजन्यापसदान् इति मुहुर् निर्जयादिना अपमानेनापि लज्जाद्य्-अभावाद् दुर्बुद्ध्य्-अनपगमाच् च । मृधे इति युद्ध-मध्ये साक्षाद् एव, न तु मायान्तर्धानादिनेत्य् अर्थः । इति निज-पराक्रमः सूचितः । एधस इति दृष्टान्तेन दुष्ट-राज-कुलाच्छन्नत्वं परिश्रमेणाप्य् अवश्यानेयत्वादिकं च ध्वनितम् । एवं तद्-अशेष-सन्देश-प्रत्युत्तरम् अप्य् ऊह्यम्, तच् च स्पष्टम् एव ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् आनयिष्य इति एतावन्तं कालं तस्या एवाभिप्रायं प्रतीक्षे इति भावः । तहि ममानागमने भवांस् ताम् उपेक्षेनैव ? न तदीय-महा-गुणाकृष्टत्वान् ममेत्य् अभिप्रायेण तां विशिनष्टि—मत्-पराम् इति, पद-द्वयेन । मत्-परत्वे सर्व-सद्-गुणवत्ता सिद्धैव यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु ५.१८.१२] इत्य्-आदेः । एवं श्रुत्वा गुणान् [भा।पु १०.५२.३७] इत्य्-आदिना तद्-उक्त-निज-गुण-रूपवत्तस्या अपि गुण-रूपे बोधिते उच्चैर् मथित्वा इति निर्मथ्येति तद्-उक्तानुसारेण तद्-उक्त-प्रतिपालन-परता बोधिता । राजन्यापसदान् इति मुहुर् निर्जयादिनापमानेनापि लज्जाद्य्-अभावात् दुर्बुद्धितानपगमाच् च । मृधे इति युद्ध-मध्ये साक्षाद् एव, न तु मायान्तर्धानादिना इत्य् अर्थ इति निज-पराक्रमः सूचितः । एधस इति दृष्टान्तेन यज्ञीय्आग्नि-शिखावद् दारुणा छन्नत्वे\ऽपि परश्रमेण अवश्योद्धार्यत्वं ध्वनितम्, एवं तद्-अशेष-सन्देश-प्रत्युत्तरम् अप्य् ऊह्यम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एधसो\ऽग्नि-शिखाम् इव इति । एधसि वर्तमाना\ऽग्नि-शिखा-प्रकटी-भूता यथा एध एव ज्वालयति, तथैव रुक्मिणी-प्रभृति-दुष्ट-राजन्य-कुलेनावृता सैव तत् सर्वं ज्वालयिष्यति । अहं तु निमित्त-मात्रं भविष्यामीति भावः ॥३॥


॥ १०.५३.४ ॥

श्री-शुक उवाच

उद्वाह-र्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः ।

रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्वाह-र्क्षम् इति । परश्वो रात्रौ विवाह-नक्षत्रम् इति विज्ञाय तस्यां रात्र्यां प्रस्थाय प्रातर् विदर्भ-देशानगमात् । श्वो-भाविनि त्वम् अजितोद्वहने विदर्भान् गुप्तः समेत्य [भा।पु १०.५२.४१] इति रुक्मिणी-सन्देशात् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परश्व आगामि-दिनात् पर-दिने । यद्यपि पृतना-पतिभिः परीत [भा।पु १०.५२.४१] इति तया स्नेह-स्वभावेन सन्दिष्टं, तथापि प्रतिवीरेष्व् अवज्ञया गुप्तः समेत्य [भा।पु १०.५२.४१] इति तस्या युक्तम् उक्तं रक्षितुम् इच्छया तस्याः स्वस्य च लोकतो लज्जया च स पुनर् एकाक्य् एव प्रस्थित इति वक्तुम् आह--उद्वाहर्क्षम् इत्य्-आदि-त्रयस्य एकत्रैव वाक्यार्थस् तैर् दर्शितः । किं च, विशेषेण ज्ञात्वा बहिस् तस्माद् विप्राज् ज्योतिः-शास्त्राच् च, अन्तस् तु सर्वज्ञत्वान् निश्चित्य । मधुसूदनः मूर्ति-भेदैस् तत्-तद्-उपलक्षण-सर्व-दैत्य-कुल-हर्ता इत्य् उत्साह-साम्राज्यं दर्शितम्, भावि-जयश् च सूचितः । श्लेषेण भ्रमरो यथा पद्मिन्याः परिमले लब्धे धैर्यं कर्तुं नेष्टे, तद्वद् इति द्योतितम् । सम्यग् अस्त्रादि-पूर्णतया युज्यताम् ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण ज्ञात्वा ज्योतिः शास्त्रतस् ततो विप्राद् वा, सर्वज्ञत्वाद् वा निश्चित्य, यतो मधुसूदनः साक्षात् श्री-नारायणः । किं वा, [महादि]{।मर्क्}-दैत्यस्य मधोर् वधेन महा-वीर्यादिकं सूचितम् । अतो दुष्ट-राज-वर्ग-मध्ये एकाकीतया गन्तव्ये\ऽपि शङ्का कापि न कार्येति श्री-परीक्षितम् आश्वासयति--सम्यग् अस्त्रादि-पूर्णतया महा-वेग-गामित्वादिना च युज्यताम् । हे दारुक इति, गुप्तः समेत्य [भा।पु १०.५२.४१] इति श्री-रुक्मिणी-सन्देशात्, तद्-एक-मात्र-सारथ्येन गन्तुं निभृतं तेनैव रथ-योजनार्थम् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि पृतना-पतिभिः परीत [भा।पु १०.५२.४१] इति तया स्नेह-स्वभावेन सन्दिष्टं, तथापि प्रति-वीरेष्व् अवज्ञया गुप्तः समेत्य [तत्र] इति तस्या युक्तम् उक्तं रक्षितुम् इच्छया तस्याः स्वस्य च लोकतो लज्जया स पुनर् एकाक्य् एव प्रस्थित इति वक्तुम् आह—उद्वाहर्क्षम् इति । इत्य्-आदि-त्रयस्यैकत्रैव वाक्यार्थस् तैर् दर्शितः । किं च, विशेषेण ज्ञात्वा बहिस् तस्माद् विप्रात् ज्योतिः-शास्त्राच् च । अन्तस् तु सर्वज्ञत्वान् निश्चित्य मधुसूदनः मूर्ति-भेदैस् तद्-उपलक्षण-सर्व-दैत्य-कुल-हर्ता इत्य् उत्साह-साम्राज्यं दशतम् भावि-जयश् च सूचितः । श्लेषेण भ्रमरो यथा पद्मिन्याः परिमले लब्धे धैर्यं न कर्तुम् ईष्टे, तद्वद् इति द्योतितम् । सम्यक् अस्त्रादि-पूर्णतया युज्यताम् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्वाहर्क्षम् इति परश्वो रात्रौ विवाह-नक्षत्रम् इति विप्र-मुखाद् विज्ञाय ॥४॥


॥ १०.५३.५ ॥

स चाश्वैः शैव्य-सुग्रीव-मेघपुष्प-बलाहकैः ।

युक्तं रथम् उपानीय तस्थौ प्राञ्जलिर् अग्रतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शैव्य- इत्य्-आदीनि चत्वार्य् अश्व-नामानि ॥५-६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च दारुकः । स चेति चेन तात्कालिकत्वं बोध्यते । सैव्य- इत्य् अत्र शैव्येति पाठः सत्-संमतः । एषां वर्णो यथा पाद्मे—

शैव्यश् च शुक-पत्राभः सुग्रीवो हेम-पिङ्गलः ।

मेघपुष्पस् तु मेघाभः पाण्डुरो हि बलाहकः ॥ इति ।

युक्तं सन्तं सुग्रीव-पुष्पकं नाम रथम् उप समीपे आनीय भक्त्या शिरसि बद्धत्वात् प्रकृष्टो\ऽञ्जलिर् यस्य सः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अश्वानां नामानि शीघ्र-सुख-गतये तेषां तत्-तत्-सञ्ज्ञा-प्रसिद्ध्या नित्य-भगवदीयत्व-बोधनार्थम् । तत्र शैव्येति पाठः प्रायो गौड-पुस्तकेषु, अन्यत्र च सैन्येत्य् एव । एषां वर्णो यथा पाद्मे—

शैव्यस् तु शुक-पत्राभः सुग्रीवो हेम-पिङ्गलः ।

मेघपुष्पस् तु मेघाभः पाण्डरो हि बलाहकः ॥ इति ।

युक्तं सन्तं सुग्रीव-पुष्पकं नाम रथम्, उप समीपे, उपांशुत्वेन वा आनीय भक्त्या शिरसि बद्धत्वात् प्रकृष्टो\ऽञ्जलिर् यस्य सः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स च इति । -शब्देन तात्कालिकत्वं बोध्यते सेव्य इत्य् अत्र "शैव्य" इति पाठः सत्-सम्मतः । एषां वर्णो यथा पाद्मे—

शैव्यस् तु शुक-पत्राभः सुग्रीवो हेम-पिङ्गलः ।

मेघपुष्पस् तु मेघाभः पाण्डुरो हि बलाहकः ॥ इति ।

युक्तं सन्तं सुग्रीव-पुष्पकं नाम रथम् उप समीपे आनीय भक्त्या शिरसि बद्धत्वात् प्रकृष्टो\ऽञ्जलिर् यस्य सः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शैव्यादीनां वर्णो यथा पाद्मे—

शैव्यस् तु शुक-पत्राभः सुग्रीवो हेम-पिङ्गलः ।

मेघपुष्पस् तु मेघाभः पाण्डुरो हि बलाहकः ॥ इति ॥५॥


॥ १०.५३.६ ॥

आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्णगैः ।

आनर्ताद् एक-रात्रेण विदर्भान् अगमद् धयैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्यन्दनं रथम् । द्विजं रुक्मिणी-प्रहितम् आरोप्य तस्य सुख-गमनाय, तस्याः प्राण-रक्षणार्थं तद्-अन्तिके प्रेषणाय च । शौरिर् इति साक्षाद्-भगवत्त्वे\ऽपि मनुष्य-लीलत्वात् तथैव यानम् उचितम् इति भावः । एका चासौ रात्रिश् चेत्य् एक-रात्रः, तेन । सन्ध्यायां रुक्मिणी-सन्देशान् श्रुत्वा तदानीम् एव रथम् आरुह्य गच्छन् प्रातः कुण्डिनं प्रापेत्य् अर्थः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्विजं श्री-रुक्मिण्या प्रहितम् आरोप्य, तस्याः प्राण-रक्षार्थं शीघ्रं तद्-अन्तिके तस्य प्रेषणाय, शौरिर् इति निजाशेषैश्वर्य-विस्तारणार्थं शूर-वंशे\ऽवतीर्णत्वात् । तथा श्लेषेण शूर-वंश-भवत्वाच् च स्वत एव सर्व-शक्तिमत्त्वम् अभिप्रेतम् । तथापि हयैर् एव अगमत् । कुतः ? तूर्णगैः, तेषाम् अपि तादृश-शक्तिमत्त्वाद् इति भावः । यद् वा, शौरिर् इति साक्षाद्-भगवत्त्वे\ऽपि मनुष्य-लीला-परत्वम् उक्तम्, क्षत्रिय-वंशे\ऽवतीर्णत्वात् । अतो हयैर् एव ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्विजं रुक्मिण्या प्रहितम् आरोप्य इति तस्य सुख-गमनाय तस्याः प्राण-रक्षार्थं शीघ्रं तद्-अन्तिके प्रेषणाय च । शौरिर् इति साक्षाद्-भगवत्त्वे\ऽपि मनुष्य-लीलत्वात् तथैव यानम् उचितम् इति भावः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एका चासौ रात्रिश् चेत्य् एकरात्रः, तेन सन्ध्यायां रुक्मिणी-सन्देशान् श्रुत्वा तदानीम् एव रथम् आरुह्य गच्छन् प्रातः कुण्डिनं प्रापेत्य् अर्थः ॥६॥


॥ १०.५३.७ ॥

राजा स कुण्डिन-पतिः पुत्र-स्नेह-वशानुगः ।

शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्रस्य रुक्मिणः स्नेहेन तद्-वशम् अनुगच्छति इति तथा । अनेन शिशुपाले\ऽनभिरुचिं द्योतयति । कर्माणि पुरालङ्कार-पितृ-देवार्चनादीनि ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स भीष्मकः । अनेन पुत्र-स्नेहेत्य्-आदि-वचनेन । अनभिरुचिं रुच्य्-अभावम् । स परम-साधुत्वेन प्रसिद्धो\ऽपि स्वां स्वाधीनाम् अपि । अकारयत् स्व-भृत्य-पुरोहितादिभिः । तत्र वश इच्छा वशः कान्तौ इत्य् अमरः । तच् च मूलत एव स्पृष्टम् बन्धूनाम् इच्छताम् [भा।पु। १०.५२.२५] इत्य्-आदेः, वेदाहम् [भा।पु। १०.५३.२] इत्य्-आदेश् च । स्नेह-शब्दात् तेन मरण-वन-वासाद्य्-उद्यमः कृत इति गम्यते ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स परम-साधुत्वेन प्रसिद्धो\ऽपि, स्वां स्वाधीनाम् अपि शिशुपालाय दास्यन् । तत्र हेतुः--पुत्र- इति । कुण्डिनस्य साधु-वर्ग-व्याप्त-विदर्भ-देशीय-राज-पुरस्य पतिर् इति कर्म-नैपुण्यम् उक्तम् । तद् एव दर्शयति—कर्माणि इति । अकारयत् स्व-भृत्य-पुरोहितादिभिः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स परम-साधुत्वेन प्रसिद्धो\ऽपि स्वां स्वाधीनाम् अपि अकारयत्, स्व-भृत्य-पुरोहितादिभिः । पुत्र- इति तैर् व्यख्यातम् । तत्र वश इच्छा, वशः कान्तौ इत्य् अमरः । तच् च मूलत एव स्पष्टम् बन्धूनाम् इच्छताम् [भा।पु। १०.५२.२५] इत्य्-आदेः । वेदाहम् [भा।पु। १०.५३.२] इत्य्-आदेश् च स्नेह-शब्दात् तेन मरण-वन-वासाद्य्-उद्यमः कृत इति गम्यते ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रस्य स्नेहेन वशः, अत एव अनुगश् च । कर्माणि पुरालङ्करणादीनि ॥ ७-८ ॥


॥ १०.५३.८-९ ॥

पुरं संमृष्ट-संसिक्त-मार्ग-रथ्या-चतुष्पथम् ।

चित्र-ध्वज-पताकाभिस् तोरणैः समलङ्कृतम् ॥

स्रग्-गन्ध-माल्याभरणैर् विरजो-ऽम्बर-भूषितैः ।

जुष्टं स्त्री-पुरुषैः श्रीमद्-गृहैर् अगुरु-धूपितैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान्य् एवाह--पुरम् इत्य्-आदि-चतुर्भिः । संमृष्टाः संसिक्ताश् च मार्गादयो यस्मिन्, तत् । चित्रा ध्वजेषु पताकाः, ताभिः समलङ्कृतम् अकारयत् ॥८॥

स्रग्-गन्ध-माल्याभरणैर् इत्य् अत्र मत्व्-अर्थो द्रष्टव्यः । यद् वा, स्रग्-गन्ध-माल्यान्य् आबिभ्रति इति तथा तैः । तथा विरजो\ऽम्बरैर् भूषितैश्स्त्री-पुरुषैर् जुष्टम् । तथा श्रीमद्भिर् गृहैश् च जुष्टम् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तानि पुरालङ्कारादीनि । संमृष्टास् त्यक्तावसराः प्राक्, तद् अनु संसिक्ता गो-मयोदकादि-प्रोक्षिताः । पुरम् इति युग्मकम् । मार्गः साधारणं वर्म । रथ्या पण्य-वीथिका ॥८॥

मत्व्-अर्थो द्रष्टव्य इति—स्रग्-गन्ध-माल्याभरणवद्भिर् इत्य् अर्थो विधेय इत्य् अर्थः । ऋजु-मार्गेण सिध्यतः इति न्यायम् आश् इत्याहयद् वा इति । विरजो\ऽम्बर- इति-रजः-शब्दो दन्तो\ऽपि द्विरूप-कोशे-

रजश् च रजसा साद्ध मनश् च मनसा सह ।

सर्वे सान्ताः स्युर् अदन्ता राद्धां [तितम्]{।मर्क्} इदं बुधैः ॥ इति ।

स्त्री[-]{दिर्=“र्त्ल्”}पुरुष[इ]{दिर्=“र्त्ल्”}ः प्राचीनैर् विवाहोत्सवार्थम् []{दिर्=“र्त्ल्”}आगन्तुकैश् []{दिर्=“र्त्ल्”}च, श्रीमद्भिर् वितानादि[-]{दिर्=“र्त्ल्”}शोभावद्भिर् गृहैश्जुष्टम्, अकारयद् इति शेषः ॥ ९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सं-शब्दाभ्यां [रेष्वाद्य्-अपनरणेन]{।मर्क्} शोधनस्य, तथा गन्ध-जलादिना सेकस्य सम्यक्त्वं बोध्यते । मार्ग-रथ्ययोर् बृहत्त्व-क्षुद्रत्वादिना भेदः । तोरणैश् च सम्यग् अलङ्कृतम् इति समालङ्कृतम् एव, तदानीं तु सम्यक्तयेत्य् अर्थः ॥८॥

विरजो\ऽम्बर- इति—रज-शब्दस्याकारान्तत्वाद् अपि, श्रीमद्भिः वितान-चामरादर्श-बन्धनादिना महा-शोभावद्भिर् गृहैश् च जुष्टम् अकारयेत् । उभयत्र विशेषणे तात्पर्यम् । किं वा, विवाहोत्सवे निमन्त्र्य आनीतैः स्त्र्य्-आदिभिर् नुतन-निर्मितैश् च श्रीमद्-गृहैर् इति । यद् वा, गृहैः श्रीमत् शोभा-युक्तम् अकारयत् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरम् इति युग्मकम् । मार्गः साधारणं वर्त्म, रथ्या पण्य-वीथिका । विरजाम्बरेति रजशब्दो\ऽकारान्तो\ऽपीति स्त्री-पुरुषैः प्राचीनैः विवाहोत्सवार्थम् आगन्तुकैश् च तथा श्रीमद्भिर् वितानादि-शोभावद्भिर् गृहैश् च तादृशैर् जुष्टम् अकारयद् इति शेषः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्रग्-गन्ध-माल्यानि अबिभ्रति इति तैः ॥९॥


॥ १०.५३.१० ॥

पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधिवन् नृप ।

भोजयित्वा यथा-न्यायं वाचयामास मङ्गलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा-न्यायम् [अन्यांश्]{।मर्क्} च कन्यां प्रति मङ्गलं वाचयामास ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यान् अतिथ्य्-आदीन् । यथा-न्यायं यथोचितम् । विवाहे कन्यां प्रति यन् मङ्गलं वाचयितुं युज्यते, तद् इत्य् अर्थः । "कन्यां प्रति" इत्य् उत्तरेणान्वयः । अत्रानन्य-गत्या द्वितीया । बलात् प्रतीत्य्-अध्याह्रियते, तृतीया-बलात् सह-शब्दवत् ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवांश् च सम्यगभितो\ऽर्चयित्वा नान्दीमुखश्राद्धादिना विप्रांश् च समभ्यर्च्य भोजयित्वा च विधिवद्धिर्यथा स्यात्, अस्य यथान्यायं सर्वैर् एवान्वयः, यतो नृपो धनादिसर्व-सम्पत्तिमानित्य् अर्थः । यथान्यायम् इति तैव्यख्यातम् । यद् वा, विवाहे कन्यां पति यन्मङ्गलं वाचयितुं युज्यते, तद् इत्य् अर्थः । इति तस्य साङ्गत्वादिना सम्यक्त्वमुक्तम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पितृदेवान् इति युग्मकम् । विप्रांश् च समर्भ्यच्य भोजयित्वा च विधि वत् विधि-युक्तं यथा स्यात् यथान्यायं विवाहे कन्यां प्रतियन्मङ्गलं वाचयितुं युज्यते तद् इत्य् अर्थः । कन्यां प्रतीत्युत्तरेणान्वयः अत्रानन्यगत्या द्वितीयाबलात् प्रतीत्यध्याह्रियते तृतीयाबलात् सहशब्दवत् सुदतीं ताम्बूलरागापसारणेन सहजलावण्यप्रकाशाच्छोभमानरदाम् आहतं गुणिते\ऽपि स्यात्ताडित्ते च नवे\ऽपि च । स्यात्पुरातनवस्त्र च इति विश्वोक्तेः । आहतं सद्यो यन्त्रनिर्मुक्तपंशुक ज्ञेयम् अहतेत्यपि पाठे स एवार्थः तस्यैव माङ्गलिकत्वात् यथा चोक्तम्

अहतं यन्त्रनिर्मुक्तमुक्तं वासः स्वयं भुवा ।

शस्तं तन्माङ्गलिक्येषु तावन्-मात्रेण सर्वदा ॥ इति ।

यद् वा, सुस्नाताम् इत्य् -आदि पद्यस्य चक्रुरित्यनेनोत्तरेणैव वान्वयः काकाक्षिन्यायेन ॥ १०-११ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहतं सद्यो यन्त्रनिर्मतं यदंशुकयुग्मन्तेन

अहतं यन्त्रनिर्मुक्त मुक्तवासः स्वयम्भुवा ।

शस्तं तन्माङ्गलिक्येषु तावन्-मात्रेण सर्वदा ॥ इति स्मृतेः ।

आहतेति पाठे स एवार्थः आहतं गुणिते\ऽपि स्यात्ताडिते\ऽपि नवे\ऽपि च इति विश्वप्रकाशात् । भूषितां चक्रुः रक्षां चक्रुरित्यावृत्त्या उभयत्राप्यन्वितम् ॥१०॥


॥ १०.५३.११ ॥

सुस्नातां सुदतीं कन्यां कृत-कौतुक-मङ्गलाम् ।

आहतांशुक-युग्मेन भूषितां भूषणोत्तमैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतं कौतुकेन विवाहसूत्रेण मङ्गलं यस्यास्ताम् । अहतं नवीनम् । भूषणोत्तमैश् च भूषिताम् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुदतीं कृतदन्तधावनाम्

कौतुक विषयाभोगे हस्तसूत्रे कुतूहले ।

कामे ख्याते मङ्गले च इति यादवः ।

आबध्नाति करे सूत्रं मङ्गलार्थ द्वयोर् गुरुः इति ग्रन्थान्तराच् च । अहतं नवशुद्धयः इति । अंशुक केवले वस्त्रे सूक्ष्मवस्त्रोत्तरीययोः इति यादवः ।

पूर्व मर्दनचीरहारतिलकं नेत्राञ्जनं कुण्डलं

नासामौक्तिपुष्पमाल्यकरणं झङ्कारकृन्नुपुरम् ।

अङ्के चन्दनलेपनं कुचमणिक्षुद्रावलीघण्टिकास्तांबूलं

करकङ्कणं चतुरता श्रृङ्गारकाः षोडश ॥

इति कन्याया विवाहोत्सवे कार्याः । प्रसङ्गाद्वरस्याप्याह—-

क्षौरं मर्दनशीषवस्त्रतिलकं गात्रेषु चित्रार्चनं

कर्णे कुण्डलमुद्रिका च मुकुटं पादौ च चर्मावृतौ ।

हस्ते शस्त्रपटाम्बरं कटिछुरीविद्याविनीतं मुखं

तांबूलं सुरशीलवत्त्वगुणिताः पुंसस्त्वमी षोडश ॥

इति कौतुकरत्नाकरोक्तेः । कृतकौतुकशब्देनैतेप्य् उपलक्षणोया इति । सुदतीं तांबूलरागापसारणेन सहजप्रकाशाच्छोभमानारदाम् ।

आहतं गुणिते\ऽपि स्यात्ताडिते च मृषार्थके ।

स्यात्पुरातनवस्त्रे\ऽपि नववस्त्रे वितानके ॥

इति विश्वोक्तेराहतं सद्यो यन्त्रमुक्तमंशुकं ज्ञेयम् । अहतां इति पाठे\ऽपि स एवार्थः, तस्यैव माङ्गलिकत्वात् ।

अहतं यन्त्रनिर्मुक्तमुक्तं वासः स्वयंभुवा ।

शस्त्रं तन्माङ्गलिक्येषु तावन्-मात्रे न सर्वदा ॥

इति । यद् वा, -सुस्नाताम् इत्य् -आदिपद्यस्य चक्रुरित्यनेनोत्तरेणैवान्वयः काकाक्षिन्यायेन ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्टु उद्वर्तनाभ्यञ्जनादिना स्नाताम्, सुदतीं दन्तशोधनादिना शोभनरदां आहतं गुणिते\ऽपि स्यात्ताडिते च नवे\ऽपि च । स्यात् पुरातनवस्त्रे च इति विश्वोराहतं सद्यो यन्त्रनिर्मक्तमंशुक ज्ञेयम् । अहतेति पाठे\ऽपि स एवार्थः, तस्यैव माङ्गलिकत्वात्, तथा चोक्तम्—

अहतं य यन्त्र-निर्मुक्त वासः प्रोक्तं स्वयम्भुवा ।

शस्तं तन्माङ्गलिक्येषु तावन्-मात्रेण सर्वदा ॥ इति ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्धौ अथर्ववित्त्वेन प्रसिद्धः आथर्व-मन्त्राणां ग्रहशान्तौ प्राच्युर्यात् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथर्ववित् अथर्वण-मन्त्रवित् आथर्वण-मन्त्राणां ग्रह-शान्त्य्-आदि-प्राचुर्यात् ॥ ११.१२ ॥


॥ १०.५३.१२ ॥

चक्रुः साम-र्ग्-यजुर्-मन्त्रैर् वध्वा रक्षां द्विजोत्तमाः ।

पुरोहितोऽथर्व-विद् वै जुहाव ग्रह-शान्तये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वध्वास्तस्याः कन्यायाः । अथर्वविदथवर्णमन्त्रवित् ॥ १२-१३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रक्षां चक्रुर् इत्य् अन्वयः । वै प्रसिद्धौ, अथर्ववित्त्वेन प्रसिद्धः । अथर्वमन्त्राणां ग्रहशान्तौ प्राचुर्यात् ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्विजोत्तमाः विप्राः पुरोहितादन्ये, वै तु, पुरोहित इत्यथर्वणमन्त्रवित्वादिना पूर्वतो\ऽस्य विशेष उक्तः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्धौ अथर्ववित्वेन प्रसिद्धः आथर्वमन्त्राणां ग्रहशान्तौ प्राच्युर्यात् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.१३ ॥

हिरण्य-रूप्य-वासांसि तिलांश् च गुड-मिश्रितान् ।

प्रादाद् धेनूश् च विप्रेभ्यो राजा विधि-विदां वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रूप्यं रजतम् । चात्ताम्रपात्रस्थान्

पात्रे ताम्र मये स्थाप्य तिलान्हेमगुडान्वितान् ।

यो ददाति वेदविदे ग्रहातिस्तस्य नो भवेत् ॥

इति दान-ग्रन्थोक्तेः । प्रकर्षेणादरादिनादात् । राजव्यवहारतो नात्यादृतयोर् अपि गुडतिलयोर् दान विधिबलादेव, सुवर्णरत्नाद्युपकरणसहितं तिलपर्वतादिकं वा । तद्दानविधिदनग्रन्थेभ्योवसेयः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण श्रद्धया पादप्रक्षालनपूर्वकयोग्यदक्षिणासाहित्य्-आदिना अदात्, यतो विधिविदां मध्ये वरः श्रेष्ठः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेणादरादिना अदात् राजव्यवहारतो नात्यादृतयोर् अपि तिलगुडयोर् दानं विधिवित्त्वाद् एव सुवर्णरत्नाद्युपकरणसहिततिलपर्वतादिकं वा ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.१४ ॥

एवं चेदि-पती राजा दमघोषः सुताय वै ।

कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदयोचितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभ्युदये उचितम् ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं भीष्मकवत् । मन्त्रज्ञैर् विप्रैः । अभ्युदये कर्मणि उचितं नान्दीश्राद्धादि

विवाहादिषु सर्वेषु संस्कारेषु च वास्तुषु ।

मोक्षे चाभ्युदयस्तीर्थयाने संपदि मङ्गले ॥

इति शाश्वतः । सोपहासम् आह—एवम् इति । भीष्मकवदेवेन्र्थः । अस्येदं कर्म कुण्डिनपुरादनतिदूरे स्थित्वेति ज्ञेयम्, पूर्वदिनकृत्यत्वात् । तथापि तस्य स्वतो भगवत्समर्पणोत्सुकत्वात्सार्थक बभूव । तस्य तु तत्प्रातिकूल्यात्प्रतिकूलम् एवेति भावः । सुताय सुतमुद्वाहयितुम् ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् इति यथा भीष्मकस् तथैवेत्य् अर्थः । यतश् चेदिपतिः वै प्रसिद्धौ, इति द्वयोर् अपि साम्यं सूचितम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सोपहासम् आह—एवम् इति भीष्मकवदेवेत्य् अर्थः । अस्येदं कर्म कुण्डिन पुरादनतिदूरे स्थित्वेति ज्ञेयम् । पूर्वदिनकृत्यत्वात् तथापि तस्य स्वतोभगवत्समर्पणोत्सुकत्वात्सार्थकं बभूव अस्य तु तत्प्रातिकूल्यात् प्रतिकूलम् एवेति भावः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुताय सुतविवाहार्थम् ॥१४॥


॥ १०.५३.१५ ॥

मद-च्युद्भिर् गजानीकैः स्यन्दनैर् हेम-मालिभिः ।

पत्त्य्-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् चतुरङ्गसैन्यैः परीतः कुण्डिनं भीष्मकस्य पुरं ययौ । मदं च्यवन्ते इति मदच्युतस्तैः स्यन्दनैः रथैः हेमरचिता माला विद्यन्ते येषु तैः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो\ऽभ्युदयकर्मकरणोत्तरम् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य वरपितृत्वेने कञ्चिद्विशेषम् आह—मदेति । गजानामनीकैः समूहैः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य वरपितृत्वेनान्यतः सत्यप्यारम्भवैशिष्ट्ये तस्यापि वैयर्थ्यज्ञापनायाह-मदेति दमघोष इति पूर्वेणान्वयः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मदानां च्युत् क्षरणं येषु तैः ॥ १५-१७ ॥


॥ १०.५३.१६ ॥

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च ।

निवेशयाम् आस मुदा कल्पितान्य-निवेशने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कल्पितं निर्मितं यदन्यनिवेशनं तस्मिन् ॥ १६-१७ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दमघोषम् । समभ्येत्य संमुखं गत्वा । निवेशनं गृहं वस्त्रादिरचितम् । मुदा सह यथा मुदितो भवति तथेति लौकिकता दशिता ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विदर्भस्याधिपतिर्भीष्मको रुक्मी वा, सम्यग् वाद्यादिना दूरादग्रे\ऽभिमुखमेत्य अभितः पूजयित्वा च, पुनर् अपि वै-शब्दात् तत्तत्प्रसिद्धया तयोविवाहनिश्चयः सूचितः । अत एव तत्प्रकारो विस्तार्थ्यवणितश् च । तादृशे\ऽपि महारम्भे तयोः श्री-भगवत्-आग्रे वञ्चनात्, तस्य महाप्रागल्भ्यादि-माहात्म्याविशेषबोधनार्थम् इति ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विदर्भाधिपतिर्भीष्मकः मुदा सह यथा समुदितो भवति तथा तं निवेशयामासेति लौकिकता दर्शिता । यद् वा, रुक्मी तस्यैव प्राधान्यात् मुदो विवक्षिताः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.१७ ॥

तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः ।

आजग्मुश् चैद्य-पक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कुण्डिन-पुरे ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र कुण्डिने, पौण्डुकाद्या अन्ये च, आद्य-शब्दात् काशिराजादयः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रेत्यादियुग्मकम् । यत्ता उद्युक्ताः ॥ १७-१८ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.१८-१९ ॥

कृष्ण-राम-द्विषो यत्ताः कन्यां चैद्याय साधितुम् ।

यद्य् आगत्य हरेत् कृष्णो रामाद्यैर् यदुभिर् वृतः ॥

योत्स्यामः संहतास् तेन इति निश्चित-मानसाः ।

अजग्मुर् भू-भुजः सर्वे समग्र1-बल-वाहनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि श्री-कृष्णो हरेद् इति शङ्किताः । कन्यां साधयितुम् इत्य् अर्थः ॥१८-२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदि कदाचित् । इत्य् अर्थ इति—अन्तर्-भवित-णिज्-अर्थो\ऽत्र ज्ञेयः । साधयितुं दापयितुम् इति भावः । यत्ता उद्युक्ताः ॥१८॥ संहता मिलिताः । तेन कृष्णेन । समग्र[-]{दिर्=“र्त्ल्”} इति पाठे समग्रं सर्वाङ्ग-पूर्णम् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चैद्य-पक्षीयत्वे हेतुः—कृष्ण-रामौ द्विषन्ति इति तथा ते यत्ता उद्युक्ताः ॥१८॥

योत्स्याम इत्य् एतत् पद्यं तेषाम् असम्मतं लक्ष्यते, हरेद् इति शङ्किता इति पूर्व-वाक्येनैव सम्बध्य तैर् वाक्य-समापनात् । तथापि बहुल-पुस्तके दृश्यमानत्वाद् व्याख्यायते । संहता अन्योन्यं सर्वे सम्भूयेत्य् अर्थः । पार्थक्येन युद्धासक्तेः, मात्सर्यादिना सर्वेषां युगपन् मुमूर्षणाद् वा । तेन कृष्णेन सह, इत्य् एतन् निश्चितं येन तथा-भूत-मानसं येषां ते, अविवक्षितत्वाद् असन्धिः । समग्रे सर्वाङ्गैः पूर्णं बलं सैन्यं वाहनं च येषां ते । वाहनस्य बलान्तर्गतत्वे\ऽपि पृथग्[-]{दिर्=“र्त्ल्”}उक्तिः सर्वेषाम् एव योधानां स-वाहन-स्वाभिप्रायेण ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योत्स्याम इत्य्-आदि पद्यं तेषाम् असम्मतं हरेद् इति शङ्किता इति पूर्व-वाक्येनैव सम्बध्य वाक्य-समापनात् । तथापि समस्त-पुस्तकेषु दृश्यमानत्वाद् व्याख्यायते । तत्र यदीत्य्-आदि-[साद्ध]{।मर्क्} समन्वितं समग्रं सर्वाङ्गैः पूर्णं बलं सैन्य-वाहनं च येषां ते । वाहनस्य बलान्तर्गतत्वे\ऽपि पृथग्[-]{दिर्=“र्त्ल्”}उक्तिः सर्वेषाम् एव योधानां बाहुल्ये न स-वाहनत्वाभिप्रायेण । "समर्थ-बल-" इति क्वचित् पाठः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधितुं साधयितुम् ॥१८-१९॥


॥ १०.५३.२०-२२ ॥

श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम्2

कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥

बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः ।

त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥

भीष्म-कन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः ।

प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूर्योदयात् पूर्वम् एवौत्सुक्येन रुक्मिण्य् अचिञ्तयद् इत्य् आह—भीष्म-कन्या इति । प्रत्यापत्तिं प्रत्यागमनम् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् वयं संहताः कृष्णेन योत्स्याम [१०.५३.१९] इत्य् एतत् श्रुत्वा इति युग्मकम् । जन-परंपरया एतत्-पूर्वोक्तं श्रुत्वा । एतत् किं ? तत्राह—विपक्षीय- इति । तत्र पूर्व-तद्-देशाद् आगतया जन-परंपरया, उत्तरत्र तद् अनुमिमे\ऽनयातः पुर-गामिन्य इति ज्ञेयम् । ततः कलहे शङ्कितः सन् । कर्तरि क्तः, तारकादित्वाद् इतज् वा ॥२०॥

परिप्लुतो व्याप्तः मण्डूक-व्याप्तयोः प्रोक्तः परिप्लुत-ध्वनिर् नटे इति निरुक्तिः । शङ्का-हेतुम् आह—भ्रातृ-स्नेह- इत्य्-आदि । तदीय-तादृश-सम्बन्ध-माधुर्य-मय-प्रेम-सिन्धौ मग्नो\ऽन्यानुसन्धानासमर्थ इत्य् अर्थः । कथं-भूतः ? भगवान् सर्व-ज्ञान-क्रिया-शक्ति-युक्तो\ऽपि, अत एव गजादिभिश् चतुर्भिर् अङ्गैर् उपलक्षितं यस् तेन महता बलेन सैन्येन सार्धं त्वरितः प्रायः प्रहरार्धानन्तरं चलितो\ऽपि श्री-कृष्णेन सहैव विदर्भ-नगरे स-सैन्य-प्रवेशाद् अतिशीघ्रः सन् प्रागाद् इति । तेन स्नेहेन इतर-शक्तेर् आवरणे\ऽपि स्वानुकूल-शक्तेः प्रकाशनं दशतम् । ऐश्वर्य-ज्ञानतो\ऽपि बन्धु-भावस्याधिक्यं च, अत एव भ्रातृ-पद-प्रयोगः ॥२१॥

रुक्मिण्य्-उत्कण्ठाम् आह—सूर्योदयाद् इत्य्-आदिना । वरो वरणीय आरोहो जघन-प्रदेशो यस्याः सा तथा । आरोहो जघने दीर्घ उच्चारोहणयोर् अपि इति धरणिः ।

नव-सङ्गम-रसोल्लासं दर्शयितुं पुनः श्री-रुक्मिण्याः पूर्व-राग-विशेषोदयं वर्णयति—भीष्म- इति सार्ध-पञ्चभिः । तस्यापि भाग्यं सूचयित्वा तद्-उचितान्तः-संस्कारो\ऽप्य् अस्तीति दर्शयति । वरः श्रेष्ठ आरोहः कान्तत्वेन श्री-कृष्णस्य यो लाभस् तल्-लक्षणा सर्वोर्ध्व-भूमिका-प्राप्तिर् यस्याः सेत्य् एवं श्रीमन्-मुनेर् विवक्षितम् ।

यद् वा, वरः श्रेष्ठ आरोहो नितम्बो यस्या इति । वयः-प्रकाश-व्यञ्जनया भावस्यातिशयैर् योग्यतां व्यञ्जयति । अत एव हरेः निज-मनोहरता आत्मानम् अपि हरिष्यतो भगवत आगमनम् आकाङ्क्षन्ती नित्यम् एव वाञ्छन्ती, संप्रति च द्विजस्य प्रत्यापत्तिं तद्-वृत्ति-ज्ञापिकाम् अपश्यन्त्य् अचिन्तयच् चिन्तां प्राप ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्व-शक्ति-युक्तः, अतो महता बलेन सार्धम् एव प्रकर्षेण महा-[द्यम्]{।मर्क्}आदिना आगात् गतः । कुतः ? कलहो विपक्षीय-नृपैः सह श्री-कृष्णस्य युद्ध-शन् कित आशन् कितो येन सः, विशेषणस्य पर-निपात आर्यः । यद् वा, कलहाच्छङ्कितो भीतः । ननु सदा स्वयं निर्भयो\ऽसौ विशेषतश् च श्री-कृष्ण माहात्म्यवेत्ता कुतः शङ्कितः ? तत्राह—भ्रातुः स्नेहे परितः प्लुतो मग्नः, इति स्नेहस्यानन्त्येन समुद्रत्वं ध्वनितम् । अत एवेश्वज्ञानान्तर्धानेन केवलभ्रातृज्ञानाद्भ्रातृशब्दप्रयोगः । बलेन इत्य्-उक्ते\ऽपि गजादीनां पृथग्-उक्ति-बलस्य चतुरङ्ग-सम्पूर्णत्व-विवक्षया । त्वरित इति प्रातर् अग्रे गतेनापि प्रायः श्री-कृष्णेन सहैव गमनं बोधयति । अत एवाग्रे भीष्मकेण द्वयोर् एव युगपत् प्राप्ति-श्रवणातिथ्यादि-विधानं वक्ष्यते ॥२०-२१॥

श्री-कृष्णस्य श्री-रुक्मिणी-हरणम् अवश्य-कृत्यम् एवेति बोधयन् तस्या भाव-विशेषम् आह—भीष्म- इति सार्ध-पञ्चभिः । वरः श्रेष्ठ आरोहो नितम्बो यस्याः सा परम-सुन्दरी इत्य् अर्थः । अत एव हरेर् निज-मनोहरस्य आत्मानं हरिष्यतो वा, भगवत आगमनम् आकाङ्क्षन्ती प्रत्यापत्तिं च श्री-भगवद्-आगमन-ज्ञापिकाम् अपश्यन्ती साक्षाद् अलभमाना, तदा तस्मिन् प्रातः-काले\ऽचिन्तयत्भीष्मकस्य कन्या इति तस्यापि कन्या-हरणार्थं श्री-कृष्णागमनाकाङ्क्षां सूचयति ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रुत्वा इति युग्मकम् । जन-परम्परया एतत् पूर्वोक्तं श्रुत्वा । एतत् किं ? तम् आह—विपक्षीय- इत्य्-आदि तत्र पूर्वं तद्-देशाद् आगततया जन-परम्परया उत्तरं तु तद् अनुमिमानया अन्तः-पुर-गामिन्या इति ज्ञेयम् । अतः कलहे शङ्कितः सन् कर्तरि क्तः तारकादित्वाद् इतज् वा

शङ्काया निदानम् आह—भ्रातृ-स्नेह-परिप्लुतः तदीय-तादृश-सम्बन्ध-माधुर्य-मय-प्रेम-सिन्धौ मग्नो\ऽन्यानुसन्धानासमर्थ इत्य् अर्थः । कथम्-भूतो\ऽपि भगवान् ? सर्व-ज्ञान-क्रिया-शक्ति-युक्तो\ऽपि । अत एव गजादिभिश् चतुर्भिर् अङ्गैर् उपलक्षितं यत् तेन महता बलेन सैन्येन सार्धं परितः प्रायः प्रहरार्धानन्तरं चलितो\ऽपि श्री-कृष्णेन सहैव विदर्भ-नगरे स-सैन्य-प्रवेशाद् इति शीघ्रः सन् प्रागात् इति तेन स्नेहेन इतर-शक्तेर् आवरणे\ऽपि स्वानुकूल-शक्तेः प्रकाशनं दर्शितम् ऐश्वर्याज्ञानतो बन्धु-भावस्याधिक्यं च अत एव भ्रातृ-शब्द-प्रयोगः ॥२०-२१॥

नव-सङ्गम-रसोल्लासं दर्शयितुं पुनः श्री-रुक्मिण्याः पूर्व-राग-विशेषोदयं वर्णयति—भीष्म- इति सार्ध-पञ्चभिः । भीष्म-कन्या इति तस्यापि भाग्यं सूचयित्वा तद्-उचितान्तः-संस्कारो\ऽप्य् अस्तीति दर्शयति—वरः श्रेष्ठ आरोहः कान्तत्वेन श्री-कृष्णस्य यो लोभस् तल्-लक्षणा सर्वोर्ध्व-भूमिका-प्राप्तिर् यस्याः सेत्य् एव श्रीमन्-मुनेर् विवक्षितम् । यद् वा, वरः श्रेष्ठ आरोहः नितम्बो यस्या इति वयः-प्रकाश-व्यञ्जनया भावस्यातिशयैर् योग्यतां व्यञ्जयति । अत एव हरेर् निज-मनो हरतः आत्मानम् अपि हरिष्यतो भगवत आगमनम् आकाक्षन्ती नित्यम् एव वाञ्छन्ती सम्प्रति च द्विजस्य प्रत्यापत्तिं तद्-वृत्ति-ज्ञापिकाम् अपश्यन्ती अचिन्तयत् चिन्तां प्राप ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन-परम्परयैव श्रुत्वा भगवान् सर्वज्ञत्व-सर्व-शक्तित्वादि-युक्तो\ऽपि कलह-शङ्कितः अवश्यं-भाविनि कलहे प्राप्ताशङ्कः । तत्र हेतुः—भ्रातृ-स्नेहाब्धौ सर्वतो भावेन मग्नः अनिष्टाशङ्कीनि बन्धु-जन-हृदयानि भवन्ति इति न्यायेन प्रवलितस्य स्नेहस्य सर्वज्ञत्वाद्य्-आवरण-सामर्थ्यात् ॥२०-२२॥


॥ १०.५३.२३ ॥

अहो त्रि-यामान्तरित उद्वाहो मेऽल्प-राधसः ।

नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् ।

सोऽपि नावर्ततेऽद्यापि मत्-सन्देश-हरो द्विजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रियामा रात्रिस् तावन्-मात्रेण अन्तरितःअल्प-राधसो मन्द-भाग्यायाः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राधः स्यात् कार्य-संसिद्धौ भाग्ये\ऽदन्तो\ऽपि हिंसने इति निरुक्तिः । तावन्-मात्रेण रात्रि-मात्रेण अन्तरितो व्यवहितः । अत्र अनागमने । अहो खेदे । त्रि-यामा-शब्द-प्रयोगो\ऽल्प-कालत्व-विवक्षया । अल्प-राधस्त्वे हेतुः—नागच्छति इति । अधुनापि न प्राप्त इत्य् अर्थः । राधो राधा-भाग्य-सिद्धि-हिंसाराधन-कर्मसु इति निरुक्तेः । तत्राल्प-राधस्त्वं विना कारणान्तरं न पश्यामि । तस्य सर्व-शक्तिमत्त्वात् प्रपन्न-पालकत्वाच् च । विप्रस्य च प्रत्यागमनाभावे तद् एव कारणम् ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो खेदे । अल्प-राधस इति श्री-भगवद्-विलम्ब-मननात्, अधुनापि नागच्छति । अतीते वर्तमानः, तस्यागमनं चावश्यम् अपेक्ष्यम् इत्य् अभिप्रायेणाह–अरविन्दाक्ष इति सर्व-सन्ताप-हर इत्य् अर्थः । अत्रानागमने कारणं न वेद्मि नावगच्छामि । तस्य सर्व-शक्तिमत्त्वाद् भक्त-वात्सल्यादि-गुणवत्त्वाच् च अहो परम-स्वतन्त्रत्वाद् वा असौ नागच्छेत्, ततश् च विप्रस्याप्रत्यागमने किं कारणम् ? इति चिन्तयति–सो\ऽपि इति ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो खेदे । त्रियामा-शब्द-प्रयोगो\ऽल्प-कालत्व-विवक्षया । अल्प-राधस्त्वे हेतुः—नागच्छति अधुनापि न प्राप्त इत्य् अर्थः । तत्रापराधस् त्वं विना तु कारणान्तरं न पश्यामि । तस्य सर्व-शक्तिमत्त्वात् प्रपन्न-पालकत्वाच् च विप्रस्य च प्रत्यागमनाभावे तद्-एक-कारणम् इत्य् आह—सो\ऽपि इति । मय्य् अतिकृपालुर् अपि यदि द्विजस्याप्य् आगमनम् अभविष्यत्, तदा प्राण-त्यागात्यागयोर् एकतरं निरबोध्यम् इति भावः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्योदयात् पूर्वम् एवौत्सुक्य-भयाद् इति रुक्मिण्य् अचिन्तयद् इत्य् आह—त्रियामा अद्यतनी रात्रिस् तयैव अन्तरितः श्वस्तन्यां रात्रौ तु विवाह-लग्नम् एवेति भावः। अल्प-राधसो मन्द-भाग्यायाः ॥२३॥


॥ १०.५३.२४ ॥

अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् ।

मत्-पाणि-ग्रहणे नूनं नायाति हि कृतोद्यमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जुगुप्सितं धार्ष्ट्यादि । अपि इति शङ्कायाम् । नायाति हि कृतोद्यम इति । अयम् अर्थः—आदौ कृतोद्यमत्वात् तं न प्रस्थापितवान् । प्रस्थानावसरे च किञ्चिन् मयि जुगुप्सितं मत्वा प्रत्याचष्ट । अतः सो\ऽपि द्विजो नूनं नायाति इति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धार्ष्ट्यम् अविनयः । आदिना कौटल्यादि-ग्रहः । स्वाशयम् आह—अयम् अर्थ इति । तं विप्रम् । अतो भगवतो\ऽनागमनात् । सो\ऽपि विप्रो\ऽपि लज्जया नायाति इत्य् अर्थः । तद् एवाह—सो\ऽपीतिमय्य् अतिकृपालुर् अपि । यदि द्विजस्याप्य् आगमनम् अभविष्यत् तदा प्राण-त्यागात्यागयोर् एकतरं निरोद्धव्यम् इति भावः । जुगुप्सितं शरीर-बुद्धयादिगतं दृष्ट्वा प्रत्याचष्ट आगमनोद्यमं त्यक्तवान् । यतो\ऽनवद्यो निर्दोष आत्मा देहान्तःकरणादिर् यस्य सः । मम सदोषायास् तद्-भार्यानर्हत्वम् इति । अतो द्विजो\ऽप्य् अकृतार्थो मत्-प्राण-त्यागभयान् नायातीति भावः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : [महात्य]{।मर्क्} स्वयम् एव कारणम् उद्भावयति–अपीति । अनवद्यात्मा परम-सुन्दर-शरीरो निर्दोष-स्वभावो वा । नूनं निश्चये । हि अपि । कृतोद्यमे\ऽपि । अन्यत् तैर् व्याख्यातम् । यद् वा, अनवद्यात्मा काठिन्यादि-दोष-रहित-चित्तो\ऽपि । नूनं वितर्के । हि यतो नायाति, अतो\ऽसौ द्विजः कृत-मरणोद्यम इत्य् अर्थः । अमङ्गलत्वाद् व्यक्ततयानुक्तिः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महार्ति-स्वभावेन श्री-भगवतो द्विजस्य वा अनागमने कारणान्तरम् उद्भावयति—अपि इति । हि यतः । अनवद्यात्मा काठिन्यादि-दोष-रहित-चित्तो\ऽपि नायाति तस्मात् तद्-अनागमनं । नूनं वितर्के । मम किञ्चिज् जुगुप्सितम् एव दृष्ट्वा इत्य् अर्थः । [दयालुत्वाद् आपाततः कृतोद्यमो\ऽपि नायातीत्य् अर्थः] । यद् वा, कृतोद्यम इति हरि-वंशोक्तं तस्याः स्वयंवरोद्यमं श्रुत्वा श्री-कृष्णस्य मथुरातः परावृत्तं कुण्डिन-पुरागमनं भावयति—यत्रेन्द्र-कृते तस्य राजेन्द्राभिषेके जाते जरासन्ध-शिशुपालादयः सर्वे पलायिताः अतो विप्रो\ऽपि तत्-कृत्य-विलम्बाद् एतावत्-कालं नायाद् इति भावः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपि इति शङ्कायां नायाति हि कृतोद्यमः इति प्रथमम् अत्रागन्तुम् उद्यमः कृत एव, अत एव विप्रम् अपि स्व-सङ्ग एवानेतुं न प्रथमं प्रस्थापिवान् प्रस्थानावसरे तु मयि किञ्चित् जुगुप्सितं शरीर-बुद्ध्य्-आदि-गतं दृष्ट्वा प्रत्याचष्ट यतो\ऽनवद्यात्मा निर्दोष-देहान्तःकरणादिः मम स-दोषायास् तद्-भार्यात्वानर्हत्वम् इति भावः । अतः सो\ऽपि द्विजो नूनम् अकृतार्थो मत्-तनु-त्याग-भयान् नायातीति ॥२४॥


॥ १०.५३.२५ ॥

दुर्भगाया न मे धाता नानुकूलो महेश्वरः ।

देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् वा, ततो निर्गतो\ऽपि श्री-कृष्णो मद् एव वैमुख्यात् कचित् प्रतिबद्धो भवेद् इत्य् आह—दुर्भगाया इति ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षान्तरम् आह—यद् वा इति । कचित् स्थानान्तरे । प्रतिबद्धः किञ्चित्कार्यप्रतिबन्धरुद्धः । दुर्भगाया मन्दभाग्यायाः । धाता ब्रह्मा कृष्णो वा धाता हिरण्यगर्भ ना पालके धारके\ऽपि च इति धरणिः । महेश्वरो रुद्रः, कृष्णो वा । पुनः कथनं विषादवशात् । देवीति–देव्यस्त्वनन्तास्तासां केत्यनिर्णयादाह —गौरीति । गौरोरुणे सिते पीते इत्यनेकार्थात्तत्राप्यनिश्चय एवेति चेदाहरुद्राणीति । सामान्यविवक्षायां गङ्गाया अपि तत्पत्नीत्वेन संशयानिस्तार एवात आह-गिरिजेति । पुनर् अपि नद्या अपि गिरिजात्वेन तथात्वम् एवाह-सतीति । पुनर् अपि सती साध्वी पतिव्रता इति कोशात्संशयतावस्थ्यं ग्रन्थान्तरमानेनापनेयम् । तथा हि—सती सती योगविसृष्टदेहा तां जन्मने शैलवधू प्रपेदे इति । शैलवधूर्मेनका गिरिजा मेनकात्मजा इति, कोशात् । एतादृशविशेषणविशिष्टांबिकेत्य् अर्थः । विमुखा पराङ्मुखा जातेत्य् अर्थः । पुनस्तस्यानवद्यात्मत्वेन दोषदर्शनमप्राप्य निजाल्पराधस्त्वम् एव कारणं स्थापयति–दुर्भगाया इति । धाता मे नानुकूल इति—मत्प्रतिकूलत्वेन विधात्रैव कचिद्वर्त्मनि प्रतिबन्धितः । तत्प्रातिकूल्ये हेतुर्न दृश्यते इत्यत आह–महेश्वरो वेति । कदाचिन्मत्पूजामप्राप्य कुपितः स्याद् इत्य् अर्थः । महेश्वर्यत्वात्तस्य मयि बालिकायामज्ञायां कोपो न युज्यत इति अनेन ब्रह्मरुद्रावपि तद्-अर्थमनयोपास्यामानौ स्त इति गम्यते । अहो प्रत्यहमाराध्यमानास्मत्कुलदेव्यपि गौरी विमुखा, हन्तहन्त कमपराधं मे सा प्राप्ता यन्मयि वैमुख्यं गता, तस्याः सांसर्गिकोयं वा दोष इत्य् आह-रुद्राणीति । तत्पतिः सर्वजनाप्रोदयति, सा तु मां रोदयतु नाम । हन्त ममैतावैद्वेक्लव्यं प्राणजिहासापर्यन्तम् अपि दृष्ट्वा कथं न द्रवति, तत्र पैतृक दोषं संभावयन्त्य् आह-गिरिजा पाषाणपुत्री कथं द्रवेदतः सा मद्देहं त्याजयिष्यत्येवेति निश्चिनोमि । यतः सती पूर्वजन्मनि स्वम् अपि देहं या व्यक्तवती तस्या अन्यदेहत्याजनं नाश्चर्यम् इति भावः । गिरिशा इति पाठे पर्वते शयाना मत्प्रार्थनां निद्राकुलत्वाद्वा न शृणोतीत्य् अर्थः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : देवी वा विमुखीत्यादि । देवी वा विमुखी कासौ गौरी, तस्या वैमुख्यं सन्दिग्धम्, यतो रुद्राणी रुद्रभार्या तस्याशुतोषत्वात्तद्भार्याया अपि तथात्वम् । नन्व् असन्दिग्धम् एव वैमुख्यं तस्या यतो गिरिजा गिरेः काठिन्यात् तदुद्भवाया अपि काठिन्यमुचितं भवति ? तत्राह-सती पूर्वं सतीति विख्याता परमकोमलव सा, यतः पत्यवमानदष्टया स्वदेहमुत्सृष्टवती सा परस्या अपि पतिलाभाय सम्मुखी-भविष्यति प्रत्युत् गुरुर् अपि भवित्री ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दुर्भगाया दुष्टादृष्टायाः, अयं सर्वत्रैव हेतुः-धातेति महेश्वर इति च । तयोः सर्वविघ्नविनाशनशक्तिरभिप्रेता । देवी अस्मत्कुलेष्टदेवता गौरी, पूर्वं श्यामापि महातपसा गौरीत्वं प्राप्तेति श्रीशिवैकप्रीतिपरतोक्ता । किं वा, काठिन्यादिदोषराहित्येन विशुद्धापि रुद्राणी पतिप्राप्त्यर्थकन्यात्तिभराद्यभिज्ञापि । तच् च तज्जन्मद्वये\ऽपीत्याशयेनाह-गिरिजेत्य्-आदि । गिरिशा इति पाठे श्रीशिवसनामकत्वेन तद्भक्तवात्सल्यादिकमभिप्रेतम् अतः सती सर्वगुणैर् उत्तमापीति । एवं बहुशो रुरोदेति ज्ञेयम्, अश्रुकलाकुले इति वक्ष्यमाणत्वात् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनस्तस्यानवद्यात्मत्वेन दोषदर्शनम् अप्य् अमत्वा निजाल्पराधस्त्वम् एव कारणं स्थापयति - दुर्भगाया इत्य् अर्धेन । अनेन ब्रह्मरुद्रावपि तद्-अर्थमनयोपास्यमानौ स्त इति गम्यते धातृत्वान्महेश्वरत्वात् तदुपासनेन सुभगत्वम् अपि जायेतेत्याशक्य पक्षान्तरम् आह—देवी वेति । अस्मत्कुलदेव्यपि गौरी विमुखा तदुचितभजनाभावेनेति भावः । अतस्तस्याः परमापेक्ष्याया वैमुख्येनैब तावपि नानुकुलौ जाताव् इति गमितं तत्र तस्या धात्राप्यपेक्ष्यत्वे कारणम् आह—रुद्राणीति । महेश्वरापेक्ष्यत्वे गिरिजा सतीति सती पूर्वी दक्षजा भूत्वा पुर्नागिरिजाभवत् सेत्य् अर्थः । पूर्वं तन्निन्दाश्रवणेन प्राणव्ययात् पश्चात्तदप्राप्त्या प्राणव्ययव्यवसायात्तदुचितम् एवेति भावः गिरिशेति पाठे गिरौ शयनात्तादृशतप एव लक्ष्यते एवं बहुशो रुरोदेति ज्ञेयम् । अश्रुकलाकुले इति वक्ष्यमाणात् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : देवी वा विमखीत्यादि देवी वा विमुखी यतः प्रपितो विप्रो\ऽद्यापि नायात इति कासौ देवी ? तत्राह–गौरी तस्याः कथं वैमुख्यं यतो रुद्रानुतोषत्वात् सापि तथा अस्ति वैमुख्ये कारणं गिरिजत्वम् इत्य् आह-गिरिजा गिरेः कठिनत्वात् नेत्य् आह, सतीति । सा प्रसिद्धा कोमलैव पत्यवमानदृष्ट्या सद्यः प्राणत्यागकारित्वात् सा परस्या अपि पतिलाभाय सम्मुखी, निजनाम्नामावृत्तौ समाधानम् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि बहुतरं संशयानेवाह-दुर्भगाया इति । धातामे नानुकूल इति मत्प्रतिकूलेन विधात्रैव वा वर्मन्य् एव कचित् स प्रतिबन्धितः तत्प्रातिकूल्ये हेतुर्न दृश्यते इति महेश्वरो वा कदाचिन्मत्पूजामप्राप्य कुपितः महैश्वर्य्यत्तस्य मयि बालिकायां निकृष्टायामज्ञायां कोपो न युज्यत इत्यहाɱ प्रत्यहमाराध्यमानापि गौरी देवी वा विमुखा हन्त हन्त कमपराधं मे सा प्राप्ता यन्मयि वैमुख्यं गता तस्याः सांसर्गिको\ऽयं वा दोष इत्य् आह - रुद्राणीति । तत्पतिः सर्वजनान् रोदयेत् सा तु माम् इति रोदयतु नाम हन्त ममैतावद्वैक्लव्यं प्राण-जिहासा-पर्यन्तम् अपि दृष्ट्वा कथं न द्रवति ? तत्र पैत्रिकं दोषं सम्भावयन्त्य् आह—गिरिजा पाषाण-पुत्री कथं द्रवेत् अतः सा महं त्याजयिष्यत्येवेति निश्चिनोमि यतः सती पूर्वजन्मनि स्वयम् एव देहं तत्याजेति ॥२५॥


॥ १०.५३.२६ ॥

एवं चिन्तयती बाला गोविन्द-हृत-मानसा ।

न्यमीलयत कालज्ञा नेत्रे चाश्रु-कलाकुले ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालज्ञा नाधुनापि गोविन्दागमनकाल इति मन्वाना किञ्चिदाश्वस्तचित्ता सती चितास्तब्धे लोचने निमीलितवतीत्य् अर्थः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । बालास्वतन्त्रा । आस्वस्थचित्ता स्थिरमानसा । स्तब्धे निष्ठुरे । गोविम्न्द । गवामिन्द्रः श्रीमति गोकुले तादृशमाधुर्यतया वर्णितो यस् तेन हृतं मानसं यस्याः सा । अत एव बालाप्येतच्चितयन्ती अश्रूणां कला बिदवस्तै राकुले व्याप्ते विवशे वाक्षिणी न्यमीलयत ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कालज्ञा–स्वयंलक्ष्मीत्वादायास्यति न वेति जानामीति चेतसि पर्यालोचयन्ती नेत्रे न्यमीलयत्, यद्यायाति, तदा देहो रक्षणीय एव, न तु वा सती शिष्यैव भविष्यामि । अश्रुकलाकुले इत्यधुनापि नायात इति दुःखेन पूर्वमश्रुजातम, कालज्ञेत्यायास्यतीत्यवेत्य ज्ञात्वा तद् एवानन्दजम् एवाभूत् ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दो निजाशेषैश्वर्यविस्तारणार्थ पृथ्व्यामवतीर्णो भगवान्, अत एव तस्मिन् गतं मानसं यस्याः सा । हृतेति पाठे\ऽपि स एवार्थः । अत एव बालापि एवम् ईदृशं चिन्तयन्ती, एवम् इति शोकभरेण तादृशमन्यदप्यचिन्तयद् इति द्योतयति । अश्रूणां कला विन्दवो धारापाता वा, तैर् आकुल व्याप्ते विवशे वा, कुलाकुले इति पाठे\ऽपि स एवार्थः । अन्यत् तैर् व्यख्यातम् । यद् वा, परमात्त्य स्वयम् एव पतन्तीनामश्रुकलानां निरोधार्थ न्यमीलयत् । अन्यत् समानम् । यद् वा, कालज्ञापि परमार्त्या नेत्रे न्यमीलयत्, मूच्छितेवाभूद् इत्य् अर्थः । किं वा, नेत्रे निमीलयितुम् ऐच्छत् मुमुर्षुरभवद् इत्य् अर्थः । तथा चाग्रे षष्टितमाध्याये श्री-भगवान् एव वक्ष्यति

दूतस् त्वयार्थ-लभने सुविविक्त-मन्त्रः,

प्रस्थापितो मयि चिरायति शून्यम् एतत् ।

मत्वा जिहास इदम् अङ्गम् अनन्य-योग्यम् ॥ [भा।पु १०.६०.५७] इति ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोविन्दो गवाम् इन्द्रः श्रीमति गोकुले तादृशमाधुर्य्यतया वणतो यः तेन हृतं मानसं यस्याः सा अत एव बालाहि-एवम् ओदृशं चिन्तयन्ती एवम् इति शोकभरेण तादृशमन्यद् अपि चिन्तयद् इति द्योतयति–अश्रूणां कला विन्दवः तैर् आकुले व्याप्तं विवशे वा जलाकुलेति पाठे\ऽपि स एवार्थः । अन्यतैः तत्र नाधुनापीत्यादिकं देवयात्रायाम् एव कृतावसरत्वात् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काल-विलम्बासहिष्णुतया न्यमीलयत् निमील्यैव स्थिता ॥ १-३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवञ्चिन्तयन्तीत्यादि, कालज्ञा त्रिकालज्ञा श्रीत्वात् श्रीगोविन्द आयास्यति नवेति जानामीति नेत्रे निमील्य चेतसि चिन्तयामासेत्य् अर्थः । अश्रुकलाकुले इति अद्यापि नायात इति पूर्वदुःखेनैवाश्रुजातं कालज्ञेति तदागमनं जानन्त्यास्तद् एवानन्दजमभूद् इति अश्रुकलाभ्यां दुःखजानन्दजाभ्याम् आकुले नेत्रे न्यमीलयतेत्य् अर्थः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालज्ञेति भोश्चञ्चलचित्त ! सम्प्रति तनुत्यागो पायं मा कुरु यतो नाधुनापि तस्यागमनकालो व्यतीतस्तस्मात्तनुत्यागात् पूर्वमधुना ध्यानेनैव तन्मुखमेकवारमवलोकयानि नात्र त्वं मे प्रतिवधानेति नेत्रे न्यमीलयत मुद्रितवती ॥२६॥


॥ १०.५३.२७ ॥

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।

वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियभाषिणः प्रियसूचकाः ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वामाङ्गरफुरणं स्त्रीणामन्यथातो नृणां शुभम् इति शाकुनिकाः । सूत्रशाटिकान्यायेन वध्वाः सन्निहितविवाहायाः कन्यायास्तस्याः प्रतीक्षेत्याः प्रतीक्षमाणाया ऊर्वादीनां यथोत्तरमूर्खतापेक्षया प्रियभाषित्वे श्रेष्टयम् । अस्फुरन्न् इति बहुत्वमेकदैव सर्वस्फूरणाभिप्रायेण । प्रियभाषिण इहैकशेषत्वेन क्लीबत्वे प्राप्ते\ऽपि पुंस्त्वमार्षम् ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वाममुर्वादि च स्फुरत् । साक्षित्वमदात् ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वध्वाः सन्निहितविवाहायाः कन्यायास्तस्याः, प्रतीक्षन्त्या अपेक्षमाणायाः, ऊर्वादीनां यथोत्तरमूर्खतापेक्षया प्रियभायित्वे श्रेष्ठयम् । अस्फुरन्न् इति बहुत्वं सद्यो\ऽभीष्टसिद्धिसूचनार्थमेषाम् एकदैव स्फुरणात्, अत एव चकाराप्रयोगश् च । हे नृपेति प्रहर्षोदयात् । पक्षान्तरे–एवं प्रतीक्षन्त्या मरणमिच्छन्त्या इत्य् अर्थः । स्पष्टतयात्र पूर्ववदनुक्तिरमङ्गलवात्, महार्त्तिप्रदत्वाच् च । गोविन्दागमनं प्रति प्रियभाषिणः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वध्वाः सन्निहितविवाहाया कन्यायास्तस्याः प्रतीक्षन्त्याः प्रतीक्षमाणायाः उर्वादीनां यथोत्तरमूर्खतापेक्षया प्रियभाषित्वे श्रेष्ठयम् अस्फुरन्न् इति बहुत्वेनैकदेव सर्वेरन्वयः । सचैकदैव स्फुरणाभिप्रायेण प्रियभाषिण इत्य् एकशेषत्वेन क्लीबत्वे प्राप्ते\ऽपि पुंस्त्वमार्षम् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् इत्य् -आदि एवं गोविन्दागमन प्रतीक्षन्त्या प्रतीक्षमाणायाः वाम ऊरुर्वामभुजो वामनेत्रम् अस्फुरन् प्रियं श्री-कृष्णं तदागमनं वा भाषितं शीलं येषाम् ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उर्वादयो\ऽस्फुरन् प्रियभाषिणः शुभसूचकाः । एकशेषे सति पुंस्त्वमार्षम् ॥२७॥


॥ १०.५३.२८ ॥

अथ कृष्ण-विनिर्दिष्टः स एव द्विज-सत्तमः ।

अन्तः-पुर-चरीं देवीं राज-पुत्रीं ददर्श ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरोपवनं प्राप्तेन श्री-कृष्णेन विनिदिष्टः प्राप्तं मां कथयेत्यादिष्टः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथाङ्गस्फूर्युत्तरक्षणे । यो रुक्मिण्या प्रेषितः स एवेत्य् अर्थः । स एव योग्यत्वेन श्री-कृष्णेन निर्दिष्टो न त्वन्यः । सन्देशस्तु-मां प्राप्तं कथय तामचैवान्वेष्यामीति प्रकारको ज्ञेयः । प्रथमं स एव द्विजसत्तमस्तां रुक्मिणीं ददर्श, न तु तं सेत्य् अर्थः । तत्र हेतुः—अन्तः-पुरचरीं विप्रवर्त्मनिरीक्षणाय तस्मिन्नितस्ततो भ्रमन्तीम्, व्यग्रचित्ताम् इत्य् अर्थः । कीदृशीम्-देवीं वैवाहिकालङ्कारमङ्गलकर्मादिना द्योतमानाम् । ह हर्षे । विप्रकर्तृकदर्शनस्य यत्प्रथमत्वं तदुल्लेखोसौ रुक्मिकौटिल्येन संप्रति स्वस्य तद्दर्शनं भवेन्न वेति पथि तांस्तान्सूचयति तदुल्लाससूचकत्वात् ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथेत्य्-आदि । श्री-कृष्णो मयानीत इत्यानन्दबाहुल्येन तस्य बहुमानेन चान्यादृशो जातः, पश्चादवाधमन्तः पुरप्रवेशेन निलीयमानः । आदौ स एव तां ददर्श, पश्चात् सा तं ददर्श ॥ २८-४४ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्थ अनन्तरं सद्य एवेत्य् अर्थः । विशेषेण तामद्यैवानेष्यामीत्यादिप्रतिज्ञापूर्वक-मधुरवचनाश्वासनादिना निर्द्दिष्टः सन्, द्विजेषु सन् उत्तमः, सर्वशास्त्राभिज्ञः, सत्तरः श्री-भगवद्भक्तः, सत्तमस्तत्प्रियतमजनस्नेहविषयः, अन्तः-पुरं प्रविष्टो ददर्शेति ज्ञेयम् । अन्तः-पुरचरीं विप्रवर्त्मनिरीक्षणादिवैयग्रयणेतस्ततो भ्रमन्ती देवीं बैवाहिकालङ्कार-मङ्गलकर्मादिना द्योतमानाम्, यतो राजपुत्रीम् । ह हर्षे ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स एव योगत्वान्निर्दिष्टः श्री-कृष्णेन नत्वन्यः निर्देशस् तु मां प्राप्तं कथय तामद्य् एव नेष्यामीतिप्रकारको ज्ञेयः । प्रथमं स एव द्विजसत्तमस्तां रुक्मिणीं ददर्श न तु सा तम् इत्य् अर्थः । तत्र हेतुः । अन्तः पुरचरीं विप्रवर्त्मनिरीक्षणाय तस्मिन्नितस्ततो भ्रमन्तीं व्यग्रचित्ताम् इत्य् अर्थः । कीदृशीं ददर्श ? देवीं वैवाहिकालङ्कारमङ्गलकर्मादिना द्योतमानां ददर्श ह हर्षविप्रकर्तृकदर्शनस्य यत् प्रथमत्वं तदुल्लेखो\ऽसौ रुक्मिकौटिल्येन स्वस्य तद्दर्शनं सम्प्रति भवेन्नवेति पथि तान् तान् सूचयति तदुल्लाससूचकत्वात् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथेत्य्-आदि । राजपुत्रीं ददति ब्राह्मण एवाग्रे तां ददर्श तस्या निमीलितनयनत्वात् । कृतकृत्यतया परमानन्देनाविज्ञाप्यैवान्तःपुरप्रवेशेन सर्वरलक्षित इति ज्ञेयम् । तेन न केनापि विप्रो\ऽयमागत इति कथितपूर्वः सः ॥ २८-४४ ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णेन विनिदिष्टः पुरोपवने प्राप्तं मां शीघ्रं कथयेत्यादिष्टः देवीं ध्यानप्राप्तकृष्णदर्शनानन्देन द्योतमानां ध्यानावेशोद्रेकाद् एव कृष्णापार्श्वम् गन्तुम् अन्तः-पुराच्चरतीति तथा ताम् ॥२८॥


॥ १०.५३.२९ ॥

सा तं प्रहृष्ट-वदनम् अव्यग्रात्म-गतिं सती ।

आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचि-स्मिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्यग्रा आत्मनो देहस्य गतिर्यस्य तं लक्षणाभिज्ञा दूतस्य लक्षणं तत्तत्कार्यसूचकमभिजानातीति तथा ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा रुक्मिणी । तं स्वादिष्टं विप्रम् । ब्यग्रा विगलिता। सती सदाचारा । सुनन्दविप्रोहं त्वत्प्रियपाश्वदायातो मां पश्येत्युच्चैर् उक्तवन्तं प्राप्तध्यान भङ्गा सापि तं ददत्य् आह-सेति । न व्यग्रा आत्मनो मनसो गतिर्यस्मात्तम् । विप्रस्य वदनहर्षदर्शनेन तस्या मनसो वैयाग्यं शान्तमभूद् इत्य् अर्थः । यतो लक्षणं कार्यसिद्धिसूचकं दुतहर्ष स्ववामनेत्रादिस्फुरणं चाभिजानातीति सा । शुचि शुद्ध हर्षद्योतकं स्मितं यस्याः सा । पूर्वं तु दुःखे\ऽपि भावगोपनार्थं कपटस्मितैवासीद् इति भावः । सती सर्वगुणैर् उत्कृष्टा । सम्यक्सर्वतः क्षेमम् इत्य् आदरादिनापृच्छत् । यद् वा, -आत्मनां जीवानां गति प्राप्यं श्री-कृष्णमपृच्छत्-स कुत्रास्ते किं वावददित्य् एवं बहुशोवदत् । मैत्रेयादात्मनो गतिम् इत्य्-आदौ श्री-कृष्णस्येवात्मगतिपदवाच्यत्वश्रवणात् । गतिमाश्रयं वा गतिः प्राप्ये दशायाञ्चाधारे गमनवेदने इति कोशात् ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आलक्ष्य सम्यग् दृष्ट्वा, शुचिस्मिता हर्षोदयात्, यतो लक्षणाभिज्ञा, यतः सती सर्वगुणैर् उत्तमा, सम्यक् सर्वतः क्षेमं किम् इत्य् आदरादिनापृच्छत्, अन्यत् तैर् याख्यातम् । यद् वा, अव्यग्रा सती आत्मनो गति श्री-कृष्णम्, कुत्रास्ते किं वा, अवददित्य् एवं बहुशो\ऽपृच्छत् ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शुचिस्मिता हर्षोदयात् यतो लक्षणाभिज्ञा यतः सती सर्वगुणैर् उतमा सम्यक् सर्वतः क्षेमं किम् इत्य् आदरादिना अपृच्छन् अन्यतैः । यद् वा, अव्यग्रा सती आत्मनो गति श्री-कृष्णमपृच्छत् स कुत्रास्ते किं वावददित्य् एवंबहुशो\ऽपृच्छद् इत्य् अर्थः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुनन्दविप्रो\ऽहं त्वत् प्रियपाश्वदायातो मां पश्येत्युच्चैर् उक्तवन्तं प्राप्तध्यानभङ्गा सापि तं ददत्य् आह–सेति । न व्यग्रा आत्मनो मनसो गतिर्यस्मात्तं विप्रस्य वदनहर्षदर्शनेन तस्या मनसो वैयग्न्यं शान्तमभूद् इत्य् अर्थः । यतो लक्षणाभिज्ञा लक्षणं कार्यसिद्धिसूचक दूतहर्ष स्ववामनेत्रादिस्पन्दनम् अभिजानातीति सा शुचि शुद्ध हर्षद्योतक स्मितं यस्याः सा पूर्वं तु दुःखे\ऽपि भावगोपनार्थं कपटस्मितैवासीद् इति भावः ॥२९॥


॥ १०.५३.३०॥

तस्या आवेदयत् प्राप्तं शशंस यदु-नन्दनम् ।

उक्तं च सत्य-वचनम् आत्मोपनयनं प्रति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यै प्राप्तं यदुनन्दनमावेदितवान् । तं च शशंस । आत्मोपनयनं प्रति आत्मना स्वयं श्री-कृष्णस्यानयनं प्रति तेन द्विजेन सत्यवचनं प्रोक्तम् इति । आत्मनः प्राणेश्वरस्येति वा । यद् वा, आत्मनस्तस्या उपनयनं प्रति श्री-कृष्णेन यद् उक्तं सत्यवचनं तामानयिष्य इत्य्-आदि तच् च शशंसावर्णयद् इत्य् अर्थः ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यै रुक्मिण्यै । आवेदितवान् कथयामास । तत् श्री-कृष्णानयनम् । शशंसः कथितवान् । परात्मवाचकत्वम् एवात्मपदस्य मुख्यर्थ इत्याश्र् इत्य् आह-प्राणेश्वरस्येति । कृष्णागमनं श्रुत्वाप्युद्विग्नां वीक्ष्याह-यद् वा इति । इत्य् अर्थ इति–तद्धृगतं निखिलं संशयं नुनोदेति भावः । शशंस-यदुनन्दनं विप्रस्तुष्टाव, तस्य व्रह्मण्यत्वसौशील्यभक्तजनपालकत्वादिदर्शनाद् इत्य् अर्थः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदून् नन्दयतीति तथा तम् इति यदवो\ऽपि सर्वे समागतप्राया इति भावः । सत्यवचनम् इत्य् अनेन सशपथप्रतिज्ञा पूर्वकमुक्तम् इति द्योतयति । अन्यत् तैर् व्याख्यातम् । यद् वा, यदुनन्दनम् एव प्रति यत् स्वयमुक्त तथात्मनस्तस्य उप समीपे तस्यानयनं प्रति सत्यवचनं च शशंस ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदुन्नन्दयतीति तथा तम् इति अन्यतैः । तत्र तच् च शशंस तुष्टाव रुक्मिणीति शेषः । ब्राह्मण इति वा अत्र तेनेति स्वयम् इत्य् अर्थः । पक्षान्तरेत्ववर्णयब्राह्मण इति शेषः । यद् वा, आवेदयदित्यस्यैव विवरणं प्राप्तम् इत्य् -आदि उक्तञ्चत्यादि च ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राप्तं यदुनन्दनं तस्यै आवेदयत् आत्मनः स्वस्य उपनयनं समीपप्रापणं प्रति यत् सत्यवचनमुक्तं कृष्णेन तामानयिष्य उन्मथ्य इत्य्-आदि शशंस ॥३०॥


॥ १०.५३.३१ ॥

तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा ।

न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं श्री-कृष्णम् । अस्मिन् कार्ये सर्वस्वार्पणम् अप्य् अपर्याप्तम् इति तदुचितं प्रियमपश्यन्ती तदा केवलं ननाम पश्चाद्वहु ददावित्य् अर्थः । यद् वा, मां श्रियं ये नमन्ति ते तावत्सर्व-सम्पदामास्पदं भवन्ति किं पुनर्मयि प्रणतायाम् इति ततो\ऽधिकमन्यत्प्रियमपश्यन्ती ननामेति ॥ ३१-३३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपर्याप्तमप्रतिक्रियम् । तदुचितं ब्राह्मणयोग्यम् । इत्य् अर्थ इति-पितृगृहस्थकन्यायाः स्वातन्त्र्याभावेनाधना मम पार्श्व किञ्चित्तव योग्य देयं नास्ति, स्वतन्त्रा दास्यामीति क्षमापनार्थं ननामेति भावः । ननु तस्याः साक्षाल्लक्ष्म्यवतारत्वात्कथं स्वातन्त्र्याभाव इति चेदाह-यद् वा इति । ततो मत्प्रणमतेः । सा रुक्मिणी । किमस्मै पारितोषिकं ददामीति विमृशन्ती केवलं ननाम, प्रणामादन्यत्समुचितमपश्यन्ती, प्रणत्या तु स्वस्य ऋणित्वम् एव व्यञ्जयामास । ततश् च तदैव विप्रगृहं सार्वकालिकसर्व-सम्पत्तिपूर्ण बभूव, महालक्ष्म्या अपि ऋणित्वाद् इति ज्ञेयम् ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समाज्ञाय विविधलक्षणैर् दृढतया ज्ञात्वा सा श्री-कृष्णैकपरा साक्षाल्लक्ष्मीः, स्वजन्मयोग्य विदर्भदेशे जाता शास्त्रादिभिविदर्भराजकन्यायाः श्री-कृष्णपत्नीत्वप्रतिपादनात्, अन्यत् तैर् व्याख्यातम् । यद् वा, नमनादन्यत् प्रियमपश्यन्ती, तस्य पूर्वोक्तया स्वलाभसन्तुष्टयान्यत्र नैरपेक्ष्यात् । यद् वा, अन्यत् प्रसिद्धार्थवर्गादभिन्नमनिर्वचनीयं किञ्चितस्य प्रियं पश्यन्ती न ननाम, श्री-कृष्णप्रेमपरमार्थाभीप्सोस्तस्य नति-मात्रेण प्रीत्यसिद्धः, किन्तु श्री-कृष्णप्रेमैव ददावित्य् अर्थः, यतः सा श्री-भगवदद्भक्त्यादिप्रदानसमर्था श्री-हरिप्रियेति ख्याता । तत्रापि श्री-कृष्णवन्निजाशेषविभूतिप्रकटनार्थं विदर्भे\ऽवतीर्णेत्य् अर्थः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समाज्ञाय दृढतया ज्ञात्वा सा तथा व्यग्रा न पश्यन्तीति नञो लोपाभावः आर्षः अन्यतैः। तत्र पश्चाद्बहुददावित्य् अर्थः । द्वारकायामनन्तविभववती सत्यनन्तम् एव ददत्यासीद् इत्य् अर्थः । अत्र पूर्व यन्न ननाम तत्त्वानन्देनैव विस्मृतम् इति ज्ञेयम् । यद् वा, तदीयतादृगुपकारस्य प्रत्युपकारहेतुं प्रियं स्वाभिर् उचितं वस्त्वन्यदपश्यन्ती स्वपराजयं मत्वा ननामैव केवलम् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नमनादन्यत् प्रियमपश्यन्ती तस्य स्वयं भगवता पूर्ववर्णितया स्वलाभसन्तुष्ट्या नैरपेक्ष्यात् किन्तु स्वसाहाय्य-मात्राय सापेक्षत्वात् ननाम तेन तद्वशोभावम् एव स्वस्य द्योतयामासेत्य् अर्थः ॥ ३१-५०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किमस्मै पारितोषिकं ददामीति विमृशन्ती केवलं ननाम यतः प्रणामादत्यत् सर्वस्वार्पणम् अपि प्रियमस्मिन्नर्थे समुचितं न पश्यन्ती प्रणत्या तु स्वस्य ऋणित्वम् एव व्यञ्जयामास ततश् च तदैवविप्रस्य गृहं सार्वकालिकसर्व-सम्पत्तिपूर्ण बभूव महालक्ष्म्या अपि ऋणित्वाद् इति ज्ञेयम् ॥ ३१-३३ ॥


॥ १०.५३.३२ ॥

प्राप्तौ श्रुत्वा स्व-दुहितुर् उद्वाह-प्रेक्षणोत्सुकौ ।

अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभ्ययादग्रे जगाम, आनयनायेत्य् अर्थः । स्वदुहितुरिह स्वशब्दे न तस्य परमहर्षी द्योतयति । अयोग्यस्यापि स्वस्य कन्याविवाहप्र क्षणे तयोर् उत्सुकतयात्मनः परमधन्यत्वमननात्, एतां श्री-कृष्णो\ऽबश्यं हरिष्यतीत्येवन्निगूढभावाद् वासमर्हणैर् उत्तमोद्वाहीयद्रव्यैः सहाभ्ययात् । भीष्मक इति शेषः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राप्तौ स्वपुरान्तिकमागतौ । किमर्थम् ? तदाह-स्वेति । उद्वाहस्य प्रेक्षणे साक्षाद्दर्शने उत्सुकौ सन्तौ, शिशुपालेन सह विवाह निश्चयेन तन्मातुलेयत्वेन च तथैव लोकप्रतीतेः, अत एव श्री-कृष्णस्यैकाकितया निभृतं प्रागागमनम्, अन्यथा युद्धोद्यतेन यदुकुलेन सहागते सति हरणशङ्कासम्भवः, हरणाशङ्कायां च सत्यां कन्यारक्षार्थं सन्नद्धरहितरुक्म्यादिवीरवर्गमध्यतः । किं वा, बहिर्देव्यालयगमननिवारणे नान्तःपुरमध्यात्तद्वन्धुवधादिकं विना सुखेन हरणं न स्यात्, अत एव तस्याः सन्देशो\ऽपि गुप्तः समेत्य [भा।पु १०।५२।४१] इति । विवाहप्रेक्षणार्थागमनाप्रतीतौ तु स्नेहभराकुलतयातिवेगेनागतेन प्राय एकदैव श्रीरामेण महागमनेन द्वयोर् एकदैव श्रीभीष्मकेणाभिगमनादिना च श्री-कृष्णस्य तत्सन्देशानुसारेण गुप्ततया प्रागागमने वैयर्थ्यपत्तिर् इति स्वशब्देन तस्य परमहर्षं द्योतयति । अयोग्यस्यापि स्वस्य कन्याविवाहप्रेक्षणे तयोर् उत्सुकतया आत्मनः परमधन्यत्वमननात्, एतां श्री-कृष्णो हरिष्यत्येवेति निगूढभावाच् च । श्री-कृष्णे प्रागागते\ऽपि रामस्यादौ निर्देशः । सङ्गतयोस् तयोर् युगपदभिगमनादौ तस्याग्रजत्वापेक्षया समर्हणैर् उत्तमपूजाद्रव्यैः सहाभ्ययाद्भीष्मक इति शेषः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उद्वाहेति ताभ्यां तथैव ख्यापितत्वात् तत्तु तेनापि तदुद्वाहप्रेक्षणीय सर्वेषाम् आकारितत्वात् एवं गुप्तत्वं पृतनापरीतत्वं च सिद्धयेद् इति तादृशः श्री-रुक्मिणीसन्देशश्चानुगमितः स्वशब्देन तस्य परमहर्षं द्योतयति—अयोग्यस्यापि स्वस्य कन्याविवाहप्रेक्षणे तयोर् उत्सुकतयात्मनः परमधन्यत्वमननात् एतां श्री-कृष्णो\ऽवश्यं हरिष्यत्येवेतिनिगूढभावाद् वा, समर्हणैर् उत्तमपूजाद्रव्यैः सहाभ्ययात् भीष्मक इति शेषः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.३३ ॥

मधु-पर्कम् उपानीय वासांसि विरजांसि सः ।

उपायनान्य् अभीष्टानि विधि-वत् समपूजयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैवाह्यवरे करणीयम् आह—मधुपर्कम् इति । स भीष्मकः । वासोदानम् अपि वरायैव परिधास्यै यशोधास्य इत्य्-आदिमन्त्रैर् वेदे प्रतिपादितम् । विधिवद्विष्टरपाद्याध्यचमनीयदानादिविधिमनतिक्रम्येत्य् अर्थः। तान्यभिब्जयति-मध्व् इति ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तान्यभिव्यञ्जयंस्तत्प्रयोजनम् आह—मध्व् इति । उपसमीपे आनीय, दास्येनोपायनतया वा सम् अप्य् अ, उपायनानि चान्यानि गजाश्वगजरत्नादीनि अभीष्टानि तयोर् आत्मनो वा त्रियाणि, संशब्दाभ्याम् अन्तजमातृभावेन पूजाविशेषं बोधयति ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तान्येवाभिव्यञ्जयंस्तत्प्रयोजनम् आह—मध्व् इति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.३४-३५ ॥

तयोर् निवेशनं श्रीमद् उपाकल्प्य महा-मतिः ।

स-सैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा ॥

एवं राज्ञां समेतानां यथा-वीर्यं यथा-वयः ।

यथा-बलं यथा-वित्तं सर्वैः कामैः समर्हयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महामतिर् इत्य् अनेन श्री-कृष्णो वाढं कन्यामुद्वोढुम् एवागतः स्याद् इति वरोचितेन विधिना समपूजयद् इति सूचितम् यथा यथावत् ॥३४॥

समेतानां राज्ञां मध्ये वीर्याद्यनतिक्रम्य तं तं समर्हितवानित्य् अर्थः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः रामकृष्णयोः । निवेशनं निवेशस्थानम् । श्रीमत्त्वं तस्य गृहोचितभोगसाधनादिना ज्ञेयम् ॥३४॥

एवम् इत्थम् । इत्य् अर्थ इतिमहतो महन्मध्यस्थस्य मध्यममल्पस्याल्पं चार्चनादि चकारेत्य् अर्थः वीर्यं प्रभावः । बलं सैन्यम् । कामैर् उपभोगैः ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीमत्भोज्य-पेय-वस्त्रालङ्कारादिसर्व-सम्पत्तिमत्, स्फादिकस्तम्भादिनाशेषशोभायुक्तं वा, निवेशनं प्रासादपकल्प्य दासभावेनैव समर्थ्य, भक्त्या तयोः सर्वस्वामित्वमननात् तथैवातिथ्यसम्यक्त्वाद्वा, अनुगाः श्रीगद-सात्यक्युद्धवादयः, सैन्यमन्यच्चतुरङ्गबलम्, यथा य विद् इति परमभक्त्या नवनीतादिगोरसप्रधानोत्तमान्नपान-शय्यादि-समर्पणनेत्य् अर्थः ॥३४॥

एवम् अनेनोद्वाहप्रेक्षणौत्सुक्यप्रकारेण समेतानां मिलितानां समग्रबलसाहित्य्-आदिना सम्यक्त्वेनागतानां वा, वीर्यं प्रभावः, बलं सैन्यम्, कामैर् उपभोगैः, यस्याधिक वीर्यादि तस्याधिकैः कामैर् अधिकार्हणम्, यस्य च न्यूनं तस्य न्यूनैर् एव न्यूनार्हणम् इत्य् अर्थः । इति सर्वेषाम् एव मनःपूर्त्या सम्यगर्हयत् वीर्यादीनां यथापूर्वं समर्हणहेतुत्वे श्रेष्ठ्यम् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमद्गृहपरिष्कारेणोपभोगसाधनेन च निवेशनं प्रासादादि उपकल्प्य भक्त्या समर्प्यं ॥३४॥

वीर्य प्रभावः बलं सैन्यं कामैर् उपभोगैः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महामतिर् इत्य् अनेन कृष्णो वाढं कन्यामुढोढुम् एवागतः स्याद् इति स्वचेतःप्राप्ताश्वासो वरोचितेन विधिनैव समपूजयद् इति सूचितम् ॥ ३४-३५ ॥


॥ १०.५३.३६ ॥

कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः ।

आगत्य नेत्राञ्जलिभिः पपुस् तन्-मुख-पङ्कजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णे भाविकर्मसूचकं जनानुरागं दर्शयति । कृष्णमागतम् इति त्रिभिः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भाविकर्म विवाहः । तन्मुखपङ्कजं कृष्णमुखारविन्दम् । तन्मुखपङ्कजं पपुरिति-तस्मादुच्छलितसौन्दर्यमाध्वीकमास्वादितवन्त इत्य् अर्थः । पेयतदाधारयोर् अभेदनिर्देशश् च पेयप्राचुर्यविवक्षया । किं च, -नेत्रस्याञ्जलितारूपकं तत्राप्यतिशयमविच्छेदं च द्योतयति, तथैव पिबतां तृष्णायाश् च । तस्मादहो किन्नाम तदपूर्वं पङ्कजम् इति भावः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णं सर्वचित्ताकर्षक परमानन्दघनमूर्तिं वा भगवन्तम्, विदर्भपुरवासिनः स्त्रीपुरुषादयः सर्वे जनाः, आगत्य समेत्य श्री-कृष्णान्तिकमेत्य वा, पपुर् इति मुखपङ्कजस्य सौन्दर्यामृतमयत्व ध्वनितम् । अतः साक्षाद् एव पानं सम्भावितम् । यथा हि मधुपाः पङ्कजरसमासक्त्या पिबन्ति, तद्वत्, पीत्या चिरं चित्ताभिनिवेशेन ददृशुर् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तन्मुखपङ्कजं पपुर् इति तस्मादुच्छलितं सौन्दर्यमाध्वीकमास्वादितवन्त इत्य् अर्थः । पेयतदाधारयोर् अभेदनिर्देशश् च पेयप्राचुर्यविवक्षया । किं च, नेत्रस्याञ्जलितारूपकं तत्राप्यतिशयमविच्छेदं च द्योतयति—तथैव पिबतां तृष्णायाश् च तस्मादहो कि नाम तदपूर्वं पङ्कजम् इति भावः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुखपङ्कजं पपुस्तत्रत्यमपारं माधुर्यम् एव पपुर्लक्षणया पेयप्राचुर्यं तथा अनेककर्त्तृकपानादेकस्यैव पङ्कजस्यापरिमितमधुत्वादद्भुतत्वं च व्यञ्जितम् ॥३६॥


॥ १०.५३.३७ ॥

अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।

असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्यैव रुक्मिण्येवार्हत्य् एव असावेव भैष्म्या एव समुचित एवेति षडवधारणानि । तत्रैकस्मिन्व्यतिरेकप्रदर्शनम् उपलक्षणार्थम् नापरेति । न च वाक्यभेददोषः अनूद्यविधेयभेदेन विभिन्नानाम् एव वाक्यानां सह प्रयोगात् ग्रहं संमार्शीत्यादिवद् इति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवधारणान्यवधारणवाक्यानि । तत्र तेषु षट्स्वधारणेष्वेकस्मिन्वाक्ये व्यतिरेकस्यैवकाराभावस्य प्रदर्शनम् उपलक्षणार्थसर्वेषाम् इति । संभवत्य् एक् अवाक्यत्वे वाक्यभेदो हि नेष्यते इत्य् उक्तेर्वाक्यभेददोषः स्यादित्य् अत्राह-न चेति । तत्र हेतुम् आह—अनुवाचेति । तथा हि अस्यैवेत्यनुवादः, नापरस्येति विधिः [१] नापरेत्यनुवादः, रुक्मिण्येति विधिः [२] अनर्हा नेत्यनुवादः, अर्हतीति विधिः [३] नैवापर इत्यनुवादः, असाव् इति विधिः [४] नैवा परस्या इत्यनुवादः, भैष्म्या इति विधिः [५] नैवानुचित इत्यनुवादः, उचित इति विधिः [६] इत्थमुद्देश्यविधेयभेदान्न वाक्यभेदो\ऽत्र । ग्रहं संमाष्ट इत्य् अत्र यद्यपि मार्जनरूपविधेयभेदो नास्ति तथापि उद्दश्यानां ग्रहाणां द्वादश ग्रहा भवन्ति इत्य् उक्तेदान्ने वाक्यभेदः । अत्र विशेषम् आह—ग्रहं संमात्यत्र द्वितीयया ग्रहस्येप्सिततमत्वेनोद्देश्यत्वात्प्रयोजनवत्त्वाच् च प्राधान्यं गम्यते । संमार्गस् तु ग्रहं प्रति गुणीभूतः प्रतिप्रधानं गुण आवर्तनीयः इति न्यायात् । यावन्तो ग्रहास्तेषां सर्वेषां संमार्ग इति निश्चये सति कति ग्रहाः संमार्जनीया इति बुभुत्साया अभावात् । उद्देश्यगतमेकत्वं श्रूयमाणम् अप्य् अविवक्षितं यद्युच्यते, नेदमुद्देश्यगतं—किन्तु स्वयं विधेयं ग्रहं संमृज्यात्, यं संमृज्यात्तं चैकम् इति तथा सति वाक्यभेदः स्यात् । तथा बुभुत्साया अभावाद् विधिना योगाच्चोद्देश्यगता सङ्ख्या न विवक्षिता । उद्देश्यगतम् अपि किञ्चिद्विशेषणं विवक्षितम् । यस्य विशेषणस्य विवक्षां विनोद्देश्यप्रतीतिर्न पर्यवस्यति, अतो ग्रहत्व विवक्षितं तद्विवक्षां विनोद्देश्यग्रहस्वरूपस्य ज्ञातुम् अशक्यत्वात् । तेन ग्रहजातीयसाधनसोमयागापूर्वार्थत्वाच् च सर्वेषु संमार्ग इति स्थितं, निरूपितं चैतन्मीमांसापरिभाषायाम् । ततश् च तयोः सर्वोत्तमयोः परस्परयोग्यतासौष्ठवदर्शनेन सर्वेषाम् अपि चित्तमाक्रान्तम् । अत एवं वदन्ति स्मेति त्रिकेणाह-अस्यैवेति । तत्र तत्रेत्यानुसारेणैव योज्यम् । अस्यैव नापरस्य, रुक्मिण्य् एव नापरा, अर्हत्य् एव न तु नार्हति, असावेव नापरः, भैष्म्या एव नापरस्याः, सम्यगेवोचितो न त्वीषदप्यनुचितम् इति । वाक्यभेदः खल्वेकस्यैव वाक्यस्य भेदाय नानात्वकल्पनम् । तस्य च दोषत्वं कल्पनागौरवात्, अर्थ-मात्रस्यैव भेदेप्येकवाक्यस्य नानाप्रतिपाद्यत्वेन तात्पर्यनिर्णयासिद्धेः, शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः इति न्यायविरोधाच् च । सिद्धान्तम् आह–अनुद्येति । अयम् अर्थः-न तावदत्रैकमेकवाक्यं कुत्रापि किमनुद्य विधीयते कुत्रापि किमपीति विभिन्नानाम् एव वाक्यानां वाग्ग्मितया सह प्रयोगात् । तथा हि-अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा इति प्रथमवाक्यं, रुक्मिण्येवास्य भार्याभवितुम् अर्हतीत्यादिद्वितीयम् इत्य् आद्येवकारात् । वृत्तिभेदेन वाक्यभेदे दोषं परिहरति-ग्रहम् इति । दशापवित्रण ग्रहं समाष्टि इति तु पूर्ववाक्यम् । दशापवित्रं वासःखण्डः, ग्रहो यज्ञीयपात्रविशेषस् तेन संमृज्याद् इत्य् अर्थः । तत्र हि ग्रहम् इति द्वितीयया ग्रहस्योद्देशतया प्रयोजनवत्तया च प्राधान्यं गम्यते । ग्रहं प्रति गणः संमार्जनम् प्रतिप्रधानं च गुण आवर्तनीयः इति न्यायेन तत्रोपयुक्तं सर्वं ग्रहं प्रति संमार्जनक्रियावृत्तिः कार्या, तत्रैकत्वञ्चाविवक्षितं ग्रहशब्दो ह्यत्र जातिद्वारा द्रव्यलक्षक इति सर्वो\ऽपि गृह्यते । किं तुक्तादन्यत्र वैयर्थ्यम् इति तत्रत्येष्वेवावर्त्यत आवृत्तौ च वाक्यभेदः स्याद् एव । किन्तु तत्र दोषस्यानभ्युपगमो वाक्यद्वैविध्यस्यैव न्यायसिद्धत्वात् । एवम् अत्रोद्देश्यतया प्रयोजनवत्तया च यद्यद्विवक्ष्यते तत्तद् एव गुणभूतेन तन्निर्धारवाचकेनैवकारेण सम्बध्यते । यथा-प्रथमवाक्ये इदं मदीयत्वमुद्देश्य प्रयोजनवच् च तद् एवानूद्य भार्यात्वं विधीयते । द्वितीयवाक्ये रुक्मिणीत्वमुद्देश्यम् इत्य् -आदि । ततो ग्रहवाक्यवदत्रापि न वाक्यभेददोष इति । सर्वत्रैवैवशब्दान्वयेन व्यञ्जितायामन्योन्ययोग्यतायां हेतुः-अनवद्यात्मेति । इदं हि द्वयोर् एव विशेषणम् इति ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वत्रैव एव-शब्दान्वयेन तयोर् अन्योन्यम् अनन्य-योग्यतोक्ता । तत्र हेतुः—अनवद्यात्मेति । इदं द्वयोर् अपि विशेषणम्, भक्ति-विशेषतो निजाशेष-सुकृतार्पणेन तयोर् विवाहम् इच्छन्ति ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तयोः सर्वोत्तमयोः परस्परयोग्यतासौष्ठवदर्शनेन सर्वेषाम् अपि चित्तमाक्रान्तम् अत एवं वदन्ति स्मेति त्रिकेणाह—अस्यैवेति तैर् व्याख्यातं । तत्र तत्रेत्याद्यनुसारेणैवं योज्यम्, अस्यैव नापरस्य रुक्मिण्य् एव नापरा अर्हत्य् एव न तु नार्हति असावेव नापरः भैष्म्या एव नापरस्याः सम्यगेवोचितः नवीषदप्यनुचित इति वाक्यभेदः खल्वेकस्यैव वाक्यस्यार्थभेदाय नानात्वकल्पनं तस्य च दोषत्वं कल्पनागौरवात् अर्थ-मात्रस्यैव भेदे\ऽप्वेकवाक्यस्य नानाप्रतिपाद्यत्वेन तात्पर्यनिर्णयासिद्धेः शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः इति नयविरोधाच् च । सिद्धान्तम् आह—अनूद्येति । अयम् अर्थः न तावदत्रकम् एव वाक्यं कुत्रापि किम् अप्य् अनुद्य विधीयते कुत्रापि किमपीति विभिन्नानाम् एव वाक्यानां वाग्मितया सह प्रयोगात् । तथा हि अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरस्येति प्रथमं वाक्यं रुक्मिण्येवास्य भार्या भवितुम् अर्हतीत्यादि द्वितीयम् इत्य् -आदि, एवकारावृत्तिभेदेन वाक्यभेदे दोषं परिहरति—ग्रहम् इति । दशापवित्रण ग्रहं सम्माति तु पूर्णं [ पूर्व ] वाक्यं दशावित्रं वासःखण्डः ग्रहो यज्ञीयपात्रविशेषः येन तं सम्मृज्याद् इत्य् अर्थः । तत्र हि ग्रहम् इति द्वितीयया ग्रहस्यौद्देश्यतया प्रयोजनवत्तयां च प्राधान्यं गम्यते ग्रहं प्रति गुणः सम्मार्जनं प्रति प्रधानं च गुण आवर्तनीय इति न्यायेन तत्रोपयुक्तं सर्वं ग्रहं प्रति मार्जनक्रियावृत्तिः कर्तव्या, तत्र एकत्वं चाविवक्षितं ग्रहशब्दो ह्यत्र जातिद्वारा द्रब्यलक्षक इति सर्वो\ऽपि गृह्येत किन्तूपयुक्तादन्यत्र वैयर्थ्यम् इति तत्रत्येष्वेवावर्त्यते आवृतौ च वाक्यभेदः स्याद् एव किन्तु तत्र दोषस्यानभ्युपगमः वाक्य द्वै वैविध्यस्यैव न्यायसिद्धत्वात् एवम् अत्रोद्देश्वतया प्रयोजनवत्तया च यद्यत् प्रधानं विवक्ष्यते, तत्तद् एव गुण-भूतेन तन्-निर्धरण-वाचकेनैव-कारेण सम्बन्ध्यते, यथा प्रथम-वाक्ये इदम् ईयत्वम् उद्देश्यं प्रयोजन[वं]{।मर्क्} च तद् एवानुद्य भार्यात्वं विधीयते । द्वितीय-वाक्ये च रुक्मिणीत्वम् उद्देश्यम् इत्य्-आदि, ततो ग्रह-वाक्यवद् अत्रापि न वाक्य-भेद-दोष इति सर्वत्रैवैव-शब्दान्वयेन व्यजितायाम् अन्योन्यम् । अनन्य-योग्यतायां हेतुः—अनवद्यात्मेति । इदं हि द्वयोर् एव विशेषणम् इति ततश् च रागातिशयोदय-वाक्यम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्यैव नापरस्य भार्य् एव न तु भोग्या दासी रुक्मिण्य् एव नापरा भवितुम् अर्हत्य् एव न तु नार्हति । असाव् एव नान्यः भैष्म्या एवं नापरस्याः सम्यग् एवाचितः [नवीषद्]{।मर्क्} अप्य् अनुचित इति सप्तावधारणानि तत्रैकस्मिन् व्यतिरेक-प्रदर्शनम् उपलक्षणार्थं नापरेति अत्र वक्तृ-बाहुल्याद् वाक्य-बाहुल्यम् अतः सप्तानाम् एव वाक्यनाम् एकत्र योजनम् इदं ज्ञेयम् । अत्र चास्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरस्येत्य् एके वदन्ति स्म अस्य भार्या एव भवितुं रुक्मिण्य् अर्हतीत्य् अन्ये अस्य भार्या भवितुं रुक्मिण्य् एवार्हति नापरेत्य् अपरेः एवम् अन्यान्य् अपि चत्वारि वाक्यान्य् अत एव वाक्यत्वस्यासम्भवान् न वाक्य-भेद-दोषो ज्ञेयः । यद् उक्तं सम्भवत्य् एक् अवाक्यत्वे वाक्य-भेदो हि गौरवम् इति ॥३७॥


॥ १०.५३.३८ ॥

किञ्चित् सुचरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् ।

अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अयम् एवानुग्रह इति निर्दशन्ति—गृह्णात्व् इति ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पौरा ऊचुः—किञ्चिद् इति । सुचरितं तपो-दानादि-रूपम् । तेन सुचरितेन । अयम् एव पाणि-ग्रहण-रूप एव । ततश् च रागातिशयादेय-वाक्यम्—किञ्चिद् इति । इह पूर्वेषु च जन्मसु यत् किञ्चिद् इत्य् अर्थः । त्रि-लोक-कृद् इति परम-सामर्थ्यम् उक्तम्, जीवार्थ तत्-सृष्टेर् दयालुत्वं च । अच्युत इति सम-रूप-गुणवत्त्वम् । वैदर्भ्या इति सम्बन्धोल्लेखः । त्रिलोककृद्-अच्युतयोर् भेदेनोक्तिर् नर-लीला-माधुर्याक्रान्त-चित्तत्वेन । ततो वैलक्षण्य-स्मरणात् । वदन्ति स्म परस्परम् अविच्छेदेन कथयामासुर् इत्य् अर्थः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किञ्चिद् इति, सत् किञ्चिद् इति पूर्व-जन्मस्व् अपि कृतं सर्वम् एव प्राप्नुवन्ति, तेन तुष्टः सन् त्रि-लोक-कृत् श्री-नारायण इति तस्य परम-सामर्थ्यम् अभिप्रेतम् । अच्युत इति समग्र गुण-रूपवत्त्वम्, वैदर्भ्या इति च पूर्वोक्त-न्यायेन तादृशत्वम् एव, त्रि-लोक-कृद्-अच्युतयोर् भेदेनोक्तिः, लोकानां तत्त्व-ज्ञानात्, प्रेम-भरोदयेनाननुसन्धानाद् वा । यद् वा, त्रि-लोक-कृद् अच्युतो\ऽयम् अनुगृह्णातु । कथम् ? गृह्णातु स एवेति । ततश् च त्रि-लोक-कृद् इति दयालुत्वम् अभिप्रेतम् । जीवानां हितार्थम् एव त्रिलोकी-सृष्टेः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किञ्चिद् इति इह पूर्वेषु च जन्मसु यत् किञ्चिद् इत्य् अर्थः । त्रि-लोक-कृद् इति तस्य परम-सामर्थ्यं द्योतितं जीवार्थं तत्-सृष्टेर् दयालुत्वं च अच्युत इति समग्र-रूप-गुणवत्त्वं वैदर्भ्या इति स्व-सम्बन्धोल्लेखः त्रिलोक-कृद्-अच्युतयोर् भेदेनोक्तिः नर-लीला-माधुर्याक्रान्त-चित्तत्वेन ततो वैलक्षण्यस्य स्फुरणात् वदन्ति स्म परस्परम् अविच्छेदेन कथयामासुर् इत्य् अर्थः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् किञ्चित् सूचरितं सुकृतं चेद् अस्माकम् अस्ति तेन तुष्ट इति तत् तत् स्वस्य सुकृतम् अस्माभिर् अस्यै रुक्मिण्यै दत्तम् इति भावः ॥३८॥


॥ १०.५३.३९ ॥

एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः ।

कन्या चान्तः-पुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेम्णः कला लेशस् तेन बद्धा वदन्ति स्म सम्पूर्ण प्रेम तेषां हृद्येवावर्ततेत्य् अर्थः ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति–संपूर्णप्रेमाविर्भावे न जाने ते किं कुर्युर् इति भावः । ननु रुक्म्यादिभ्यो भयं कथम् अत्यजंस् तत्राह—प्रेम्णः कला कलना कलना-कालयोः कला इति नानार्थात् । कलना चात्र भावना कलिबली कवीनां कामधेनु इत्य् अभ्युपगमात् । यद् वा, -प्रेम-कलया रुक्मिणी-विषयक-प्रेम-वृद्धया । कला मूले प्रवृद्धौ स्याच् छिल्पादावंश-मात्रके इति मेदिनी । यद् वा, कला-लेशः प्रेमा चायम् अनुमोदनात्मकः । स पुनर् इह वरे सखी-भाव-योग्यः परम-महान् एव । तया बद्धा इति तस्याः शृङ्खलात्वं दृढत्वं च ध्वनितम् । एवं तल्-लेश-प्राप्त्यापि तेषाम् एषावस्था, किम् उत तासाम् इत्य् अर्थः । कन्या चेति च-कारात् सम-कालता-प्रतीतिः तादृश-प्रेमोत्कण्ठा-योग्यम् एवेदम् इति सूचयति । किं च, पुरौकसां तादृशोक्ति-श्रवणात् तस्या महा-प्रीतिस् तद्-उक्तेर् मङ्गलोपश्रुतित्वाद् अभीष्ट-सिद्धिं च द्योतयति । अत एव प्रकर्षेण चित्त-प्रसादादिनागात् ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु राज-पुत्र-वरात् रुक्मिणो जरासन्धादिभ्यश् च भयं कुतो\ऽत्यजन् ? तत्राह–प्रेम्णः कला वृद्धिस् तया बद्धा वशीकृताः, बद्ध-शब्देन प्रेम्णः शृङ्खलात्वं तेन च दाढ्यं ध्वनितम् । अतीतार्थ-परो\ऽपि स्म-शब्दो वादे\ऽविच्छेदं बोधयति । च अपि, कन्यापीति पुरौकसां तादृशोक्ति-श्रवणात् तस्या महा-प्रीति मङ्गल-वाक्यैर् अभीष्ट-सिद्धिं च द्योतयति, अत एव प्रकर्षेण चित्त-प्रसादादिनागात् ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, रुक्म्य्-आदिभ्यो भयं कथम् अत्यजम् ? तत्राह—प्रेम्णः कला कलना कलनाकालयोः कला इति नानार्थात् । कलना चात्र भावना कलिबली कवीनां कामधेनु इत्य् अभ्युपगमात् । यद् वा, कला-लेशः प्रेमा चायम् अनुमोदनात्मकः स पुनर् इह वरे [ रसे ] सखी-भाव-योग्यः परम-महान् एव च सः तया बद्धः इति तस्या शृङ्गलात्वे तेन दार्ढ्यं च ध्वनितम् । एवं तल्-लेश-सामान्य-प्राप्त्यापि तेषाम् एषावस्था किम् उत तासाम् इत्य् अर्थः । कन्या चेति च-कारात् । सम-कालता प्रतीतिस् तादृश-प्रेमोत्कण्ठा-योग्यम् एवेदम् इति सूचयति । किं च, पुरौकसां तादृशोक्ति-श्रवणात् तस्या महा-प्रीतिस् तद्-उक्तेर् मङ्गलोपश्रुतित्वाद् अभीष्टा सार्धं च द्योतयति, अत एव प्रकर्षेण चित्त-प्रसादादिना अगात् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव च एवं प्रेम-कलया रुक्मिणी-विषयक-प्रेम-प्रवृद्ध्या बद्धावशीभूता इत्य् अर्थः । कला-भूते प्रवृद्धौ स्याच् छिल्पादवंश-मात्रके इति मेदिनी, कलि-वली कामधेनू च इति कवयः ॥३९॥


॥ १०.५३.४०-४१ ॥

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पाद-पल्लवम् ।

सा चानुध्यायती सम्यङ् मुकुन्द-चरणाम्बुजम् ॥

यत-वाङ् मातृभिः सार्धं सखीभिः परिवारिता ।

गुप्ता राज-भटैः शूरैः सन्नद्धैर् उद्यतायुधैः ।

मृदङ्ग-शङ्ख-पणवास् तूर्य-भेर्यश् च जघ्निरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गमनं विशिनष्टि द्वयेन । पद्याम् इति ॥४०॥

अपि च । मृदङ्गेत्य्-आदि । जघ्निरे आहताः । वादिता इत्य् अर्थः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्या रुक्मिण्याः । सा सम्यक्पु मुकुन्दाङ्घ्रिम् एव दध्याव् इति भावः । तद् एव विस्तरेणाभिव्यञ्जयतिपद्भयाम् इति सार्धं चतुर्भिः । तत्राद्यद्वयं युग्मकं च । सापि तादृशमाहात्म्यापि । पद्याम् एव ययावत्र भवानीभक्तिर् एव हेतुर् इत्य् आहद्रष्टुम् इति ॥४०॥

यतवाग्धृतमौना । यात्रोत्सवम् आह—अपि चेति । इत्य् अर्थ इति-आहता वादिताः, वादनम् एव तेषां हननं, विना ताडनं वादनासंभवाद् इति भावः । भक्तावनुध्याने च लक्षणम्-यतवाग् इति । इयम् एव निर्यणे विशब्दस्यार्थव्यक्तिः । तस्यास्तादृशावरणे माहात्म्येन दुर्लभतामुत्कण्ठितां च विशेषतो व्यञ्जयन् वर्णयिष्यमाणमाकीस्मर्कश्री-कृष्णलाभं रसयितुं बीजं वपति-मातृभिर् इत्य्-आदिभिः । मातृभिर् मत्रा तुल्याभिः । राजभटैः श्री-कृष्णभिया रुक्मिनि-युक्तैः । अत एव शूरैः । किं च, –सन्नद्धैर् गृहीतकवचादिभिस् तथोद्यताबुधैः । विशेषणानामेतेषां यथोत्तरं गोपनप्रकारे श्रेष्ठयम् । मृदङ्गेत्य् अर्धकम् । मृदङ्गा मुरजाः, पणवा अन्तस्तन्त्रीकाः, तूर्याः, तुर इति प्रसिद्धाः । एते आनद्धभेदाः । भेर्यश् च सुषिरभेदा आनद्धभेदाश्चेति द्विविधाः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव विस्तरेणाभिव्यञ्जयति-पद्भ्याम् इति साद्ध चतुर्भिः । विशेषेण निर्ययौ अन्तः-पुरात्, विशब्दार्थम् एव दर्शयतिसा चेति । त्वर्थे चकारः, भवानीपादपल्लवदर्शनात् मुकुन्दानुध्यानस्य विशेष बोधयति-मुकुन्दस्य परमानन्दप्रदस्य भगवतश् चरणाम्बुजं सम्यग् यथा स्यात्, प्रेम्णा तत्सौन्दर्यादौ चित्ताभिनिवेशेनेत्य् अर्थः । यद् वा, सम्यग् गुण-रूपादिनोत्तमम्, अतो\ऽनु निरन्तरं ध्यायन्ती ॥४०॥

यतवाग् गृहीतमौना, मातृभिर् इति बहुत्वं भीष्मकस्य बहुलपत्नीकृत्वात् । किं वा, मातृष्वसृपितुः स्वस्रादीनां तन्मातृतुल्यानां सङ्ग्रहात्, राजभटै राज्ञो भीष्मकस्य भटैर् योधैः, राज-शब्देन राज्ञामयम् एव स्वभाव इति बोध्यते । यद् वा, श्री-कृष्णभीत्या राजपुत्रेण रुक्मिणा नियुक्तर् इति ज्ञेयम् । अत एव शुरैर् युद्धसमर्थेः, किं च, सन्नद्ध गृहीतकवचादियुद्धपरिकरैः । किं च, उद्यतायुधैः विशेषणानामेषां यथोत्तरं गोपनप्रकारे श्रेष्ठ्यम् । मृदङ्गा मुरजाः, पणवा अन्तस्तन्त्रिकाः, तुर्य्यः तुर इति प्रसिद्धाः, एते आनद्धभेदाः, भेर्यश् च शुषिरभेदा आनद्धभेदाचेति द्विविधाः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव विस्तरेणाभिव्यञ्जयति—पद्याम् इति, सार्धचतुर्भिः । तत्राद्यद्वयं युग्मकञ्चापि सापि तादृशमाहात्म्यापि पद्भयाम् एव विनिर्ययौ तत्र भवानीभक्तिर् एव हेतुर् इत्य् आह—द्रष्टुम् इति । पादपल्लवम् इत्य् अपि तद्भक्त्यनुसारेणैवोक्तम् । ननु साक्षाल्लक्ष्म्यास्तस्यां कथमेतादृशी भक्तियुज्यते तत्रा—मुकुन्द चरणम् एवाम्बुजं परमकौमल्यादिगुणतया स्फुरितं सम्यक् तन्माधुर्योपरक्तत्वेनैव अनु निरन्तरं ध्यायती ध्यावन्ती सोत्कण्ठ स्मरन्तीति नात्मनस्तस्य वा महिमांशो\ऽस्फुरद् इति भावः ॥४०॥

भक्तावनुध्याने च लक्षणं यतवागिति, इयम् एव च मिष्टणे विशब्दस्यार्थव्यक्ति । तस्यास्तादृशावरणमाहात्म्येन दुर्लभतामुत्कण्ठितां च विशेषतो व्यञ्जयन् वर्णयिष्यमाणमाकस्मिकश्री-कृष्णलाभं रसयितुं बीजं वपति–मातृभिर् इत्य्-आदिभिर् मातृभिर् इति । मात्रा तुल्याभिः राजभटैः श्री-कृष्णश्रिया रुक्मिनि-युक्तः अत एव शूरैः किं च, सन्नद्ध गृहीतकवचादिभिस् तथैव उद्यतायुधैः विशेषणानामेतेषां यथोत्तरं गोपनप्रकारे श्रेठ्यम् । मृतङ्गेत्य् अर्धकं मृदङ्गाः मुरजाः पणवा अन्तस्तन्त्रीकाः तुर्य्याः तूर इति प्रसिद्धाः एते आनद्धभेदाः भेर्यश् च सुषिरभेदा आनद्धभेदाचेति द्विविधाः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वपुराद्भवान्या आलयपर्यन्तं नरम्रानेन सुखपालनागत्य आलयाभ्यन्तरगतांश्चतुःपञ्चप्रकोष्टात् पद्भश्वम् एव ययौ राजभटैर् भवान्यालयाद्वहिः सर्वदिक्षुः स्थितैः । जघ्निरे आहता वादिता इत्य् अर्थः ॥ ४०-४१ ॥


॥ १०.५३.४२-४३ ॥

नानोपहार-बलिभिर् वारमुख्याः सहस्रशः ।

स्रग्-गन्ध-वस्त्राभरणैर् द्विज-पत्न्यः स्वलङ्कृताः ॥

गायन्त्यश् च स्तुवन्तश् च गायका वाद्य-वादकाः ।

परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वारमुख्या गणिकोत्तमाः ॥ ४२-४३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नानेति युग्मकम् । नाना-विधैर् उपहारैर् उपढौकनैर् बलिभिश् च नियतपूजाद्रव्यैः सह गायका गायन्तः, सूतादयश् च स्तुवन्त इति विवेकः । वाद्यानां वादकाः वाद्यानि वादयन्त इति शेषः ॥४२॥

स्तुवन्तो देवीम् ॥ ४३ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नानाविधैर् उपहारैः फलादिभिर् वलिभिश् च गन्धपुष्पादिनियतपूजाद्रव्यैः सह, जग्मुर् इति परेण सर्वेषाम् अन्वयः । स्रगादिभिः सुष्ठु अलङ्कृताः, स्रगादीनामलङ्करणे यथोत्तरं श्रेष्ठ्यम् ॥४२॥

गायका गायन्तः, सुतादयश् च स्तुवन्त इति विवेचनीयम्, वाद्यानां वादकाश् च वाद्यानि वादयन्त इत्य् अर्थः । यद् वा, गायकादयः सर्वे\ऽपि गायन्तः स्तुवन्तश् च, तत्र वाद्येत्य् अनेन वादकानां वाद्यम् अपि सूचितम् ॥ ४३ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नानेति युग्मकम् । नानाविधैर् उपहारैर् उपढौकनैः बलिभिश् च नियतपूजाद्रव्यैः सह गायकाः गायन्तः सुतादयश् च स्तुवन्तः इति विवेचनीयं वाद्यानां वादका वाद्यानि वादयन्त इति शेषः॥४२-४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.४४ ॥

आसाद्य देवी-सदनं धौत-पाद-कराम्बुजा ।

उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपस्पृश्या चम्य ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धौतपादकरांबुजा प्रक्षालितहस्तपादा । पूर्ववद्भवानीभक्त विवृणोति—आसाद्येति षड्भिः । देवसदनं देव्याः प्रासादम् । महदालयान्तर्गतमणिमण्डपम् इति विश्वनाथः । कुक्कुट्यादीनामण्डादिषु इति पुंवद्भावात्, भवादीनाम् अपि तत्र स्थितत्वेनैकशेषत्वाद्वा । शान्ता समाहितचित्ता ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवसदनं देव्याः प्रासादम्, देव्याः इति पाठः स्पष्टः । शान्ता समाहितचित्ता ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्ववद्भवातीभक्तिं विवृणोति–आसाद्येत्यादिषड्भिः । देवसदनं देव्याः प्रासादं कुकुट्यादीनामण्डादिषु पुम्वद्भावात् भवादीनाम् अपि तत्र स्थितत्त्वेनैकशेषत्वाद्वा शान्ता समाहितचित्ता ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवसदनं देव्या मन्दिरं बृहदालयान्तर्गतं मणिमण्डपं कुक्कुट्यादीनामण्डादिषु पुंवद्भाव इति पुंवत्वम् उपस्पृश्य आचम्य ॥४४॥


॥ १०.५३.४५ ॥

तां वै प्रवयसो बालां विधि-ज्ञा विप्र-योषितः ।

भवानीं वन्दयां चक्रुर् भव-पत्नीं भवान्विताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवयसो वृद्धाः भवान्विताम् इति भवस्योपसर्जनत्नं स्त्रीकर्मोचितमुक्तम् ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां रुक्मिणीम् । उपसर्जनत्वं गौणत्वम् । स्त्रीकर्मसु स्त्रीणाम् एव प्राधान्यम् इति द्योतनायेति भावः विधिज्ञाः स्त्रीशास्त्रकुशलाः । भवानी, भवपत्नीम्, भवस्य कामसहचरीम्, धर्मसहचरीम् इत्य् अर्थः । आद्य पुंयोगे, द्वितीये यज्ञसंयोगे ङीष्विधानात् । विप्रयोषितः पुरोहितस्त्रियः । विधिज्ञाश्शास्त्रविधिज्ञाः । पौराणिकप्रणवोज्झितैर् मूलमन्त्रैः श्रीभवान्यै पाद्यादीनि समर्पयामि नम इत्य्-आदि पूजाविधिज्ञा रुक्मिण्यन्तर्गताभिप्रायज्ञा वा । भवान्वितामिति-हे भवानि त्वं यथा भवपत्नी भवान्वितासि तथैव माम् अपि कृष्णपत्नी कृष्णान्वितां कुर्व् इति ताभिः कृष्णमालोक्य किञ्चित्सुचरितं यन्नः इति प्राक्प्रार्थितत्वाद् इति भावः ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भवानी-शब्दो\ऽत्र पार्वती-मात्रवाचकः, भवस्य पत्नीम् इति तस्या वन्दनेन तस्यापि वन्दने सिद्धे भक्त्या भवान्विताम् एव वन्दयाञ्चक्रुः । यद् वा, तस्याः प्रसिद्धं परमं पातिव्रत्यं सौभाग्यं च तादृश सिद्धये\ऽभिप्रेतम् इति दिक् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवानीं भवपत्नीम् इति भवस्य कामसहचरीं धर्मसहचरीमपीत्य् अर्थः । आद्ये पुंयोग-मात्रे द्वितीये यज्ञसंयोगे ङीपो विधानात् इति तस्या भवस्य महाभागवतस्य परमान्तरङ्गत्वं दर्शितम् अत एव भवान्विताम् एव सतीं भवान्विताम् एव वन्दयाञ्चकुर् इत्य् अर्थः । अनेन तु वक्ष्यमाणस्य मन्त्रस्य ताभिर् उपदेश्यत्वमायातीति तासाम् एव तद्वत्वं लभ्यते ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.५३.४६ ॥

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्व-सन्तान-युतां शिवाम् ।

भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नमस्य इति । रुक्मिण्या तदैव दृष्टो\ऽयं मन्त्रः । स्वसन्तानयुतां गणेशादिसहिताम् । आत्मारामो\ऽसौ कथं त्वत्पतिर्भवेद् इति चेदत आह । तदनुमोदताम् इति । भवती श्री-कृष्ण एव वा ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदैव पूजनावसर एव । दृष्टो ज्ञातः, न पूर्वं पठित इत्य् अर्थः । आदिना कार्तिकेयग्रहः । यद् वा, —सन्तानपदं विस्तारपरम्, तेन नदिभृङ्ग्यादिग्रहः । अत्राशङ्कतेआत्मारामेति । तत् मत्पतिभवनम् । भवती त्वम् । अनुमोदत्तामङ्गीकुरुताम् । तवानुमोदनेन त्वया सह तदभेदाच्छ्रीकृष्णो\ऽवश्यं मे पतिर्भविष्यतीति भावः । तद्-उक्तं कौर्मे—

न मे नारायणाद्भेदो विद्यते हि विचारतः ।

तन्मायाहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ इति ।

त्वदभिन्नत्वाद्वा कृष्ण एवानुमोदताम् इत्य् अर्थः । वन्दनमन्त्रस्तु-नमस्य इति । आम्बिके जगन्मातः । शिवामिति-शिवेन सह समाननामगुणत्वादिना भेदाभावात्तन्नाम्ना सो\ऽपि लभ्यत इति व्यक्तम् । ततस् तेन सहिताम् इत्य् अर्थः । एवं योग्यतां निर्दिश्य प्रार्थयते-भूयाद् इति । भगवान् परमोर्द्द्वपरमैश्वर्यमाधुर्यवान् । अत एव कृष्णः सर्वचित्ताकर्षकः । किमुत तन्निष्ठाया ममेत्य् अर्थः । स्वसन्तानयुतामिति-गणेशो\ऽत्र मम विघ्नं खण्डयत्व् इति भावः । तत्तत्र । भवतीत्यनुमोदतां स एव मत्पतिर्भवत्व् इति संमति-मात्रमत्र दत्ताम् । सिद्धप्रायत्वान्मनोरथस्येति भावः । यद् वा, -त्वदर्चनप्रभावेण कृष्ण एवेत्यौत्कण्ठ्यविह्वलायास्तत्स्वीकारस्यापि नातिप्रतीतेः । अद्भिर् जलैः । अद्विर् इति यमकम् । अबादीनामक्रमोक्तिः श्री-कृष्णाविष्टत्वेन तस्या मुनेर्व पूजाक्रमविस्मृतेः । स्रके । पौष्पी, माला रत्नमयी ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भवानीं वन्दयाञ्चकुरित्य्-आदि । प्रवयसः स्थविरा विप्रयोषितः अहंपूर्विकया क्याचिदुक्तं भवनी वन्द्यताम्, क्याचिदुक्तं भवपत्नी वन्द्यताम्, क्याचिदुक्तं भवान्विताम् इति । अथवा भवपत्नीं वन्दयाञ्चक्रुः । कीदृशीम् ? भवान्वितां समर्तृकाम, पुनः कीदृशीम् ? भवानीम् भव उद्मवो वृद्धिर् इति यावत्, तमानयतीति भवानी तथाभुता ईर्लक्ष्मीर्यस्यास्तां लक्ष्मीवृद्धिप्रदागृहे इति मार्कण्डेयः । अन्यथा भव पत्नीत्वेनैव भवानीति गम्यते ॥ ४६-५०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अम्बिके हे जगन्मातः ! शिवामिति–श्रीशिवेन सह सनामवादिना भेदाभावात्तेन सहिताम् इत्य् अर्थः । यद् वा, सर्वमङ्गलकारिणीं मङ्गलम् एवोद्दिशन्ती प्रार्थयति-भूयाद् इति । भगवान् परमस्वतन्त्रो\ऽपि, कृष्ण इति सर्वथा सर्वचित्ताकर्षक इत्य् अर्थः । अयं पतित्वे हेतुः । अन्यत् तैर् व्याख्यातम् । यद् वा, तत्पतित्वमनु पश्चात् मे मोदतां मयि प्रीयताम्। विवाहानन्तरं सदा सुभगा भवेयम् इत्य् अर्थः । तत् सम्भावयतिभगवान्, यतो भक्तवश्यताद्यशेषगुणप्रकटनपर इत्य् अर्थः ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वन्दनमन्त्रम् आह—नमस्य इति । अम्बिके, हे जगन्मातः ! शिवाम् इति श्रीशिवेन सह समाननामगुणत्वादिना भेदाभावात्तन्नाम्ना सो\ऽपि लभ्यत इति व्यक्तं ततस् तेन सहिताम् इत्य् अर्थः । एवं योग्यतां निर्द्दिश्य प्रार्थयते-भूयाद् इति । भगवान् सर्वोर्ध्वपरममाधुर्य्यश्वर्यवान् अत एव कृष्णः सर्वस्यैव चिताकर्षकः किमुत तदेकनिष्ठाया ममेत्य् अर्थः । अन्यतैः तत्र भवतीति भवती तु अनुमोदन-मात्रं कुरुतां सिद्धप्रायत्वान्मनोरथस्येति भावः । कृष्ण एवेति उत्कण्ठया तदङ्गीकारस्यापि नातिप्रतीतेः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भवानीम् इत्य् -आदि प्रवयसः स्थविरा विप्रयेषितो\ऽहं पूविकया क्याचिदुक्तं भवानी वन्द्यताम्, कयाचिदुक्तं पत्नी वन्द्यताम्, कयाचिदुक्तं भवान्विताम् इति नामद्वयम् । अन्यथा भवान्वितां भवानीम् इत्य् एव सिध्यति, भवपत्नीम् इति पुनरुक्तं स्यात् । यद् वा, भवपत्नींवन्दयाञ्चक्रुः कीदृशीम् भवान्वितां सभत्तृकाम् । पुनः कीदृशीम् भवानीम्, भवो वृद्धिस्तमानयतीति भवानी तथा-भूता सा ईर्लक्ष्मीश्चेति भवानीं ताम् लक्ष्मीवृद्धिप्रदागृहे इति मार्कण्डेयोक्तेः ॥ ४६-५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रवयसो वृद्धा विप्रयषितः पुरोहितस्त्रियः विधिज्ञाः शास्त्रविधिज्ञाः रुक्मिण्या मनोगतप्रकारज्ञाश् च भवपत्नींभवान्विताम् इति हे भवानि ! त्धं यथा भवपत्नीं भवान्विता च विराजसे तथैवेमाम् अपि कृष्णपत्नी कृष्णन्वितां कुर्व् इति ताभिर् अपि कृष्णमालोक्य किञ्चित्सुचरितं यन्न इति प्राक्प्रार्थितत्वाद् इति भावः । वन्दनमन्त्रम् अपि ता एव तां वाचयामासुः स यथा नमस्ये इति स्वसन्तानयुताम् इति त गणेशो ममात्रविघ्नं खण्डयत्व् इति भावः तत्तत्रभवती अनुमोदतां भवतु ते स एव पतिर् इति स्वसम्मति दत्तम् इत्य् अर्थः ॥ ४६॥


॥ १०.५३.४७ ॥

अद्भिर् गन्धाक्षतैर् धूपैर् वासः-स्रङ्-माल्य-भूषणैः ।

नानोपहार-बलिभिः प्रदीपावलिभिः पृथक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वाशःक्तग्गन्धादिभिर् अंबिकां समपूजयत् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्मिरित्य्-आदिक्रमेणोक्तिः श्री-कृष्णाविष्टचित्ततया पूजाक्रमविस्मृतेः, स्रजः पुष्पादिमालाः, माल्यान्यन्यान्यग्रथितपुष्पाणि, पृथग् इति—देव्या विप्रस्त्रीणां च पूजाद्रव्यादीनां पार्थक्यं बोधयति । अतः सम्यगपूजयत् । उपहारा नैवेद्यादयः, वलयो\ऽष्टदिक्षु बलिदानानि, प्रदीपावलिभिश्चान्ते महानीराजनम् । एवं पृथग् असङ्कीर्णतयार्पणेनेत्य् अर्थः । पतिमतीर् इति तासाम् एव तदनीमपेक्ष्यत्वात्, लवणेति दम्पत्योः सदा रससिद्धयर्थं विवाहकाले लवणादिभिर् मङ्गलद्रव्यैः पूजाया विधेयत्वात् ॥ ४७-४८ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्भिर् इति युग्मकम् । अबादीनामक्रमेणोक्तिः श्री-कृष्णाविष्टत्वेन तस्या मुनेर्वा पूजाक्रमविस्मृतेः स्रग्माल्ययोः साधारणासाधारणत्वेन भेदो ज्ञेयः । स्रज्यते स्रक माल्यते धार्यते माला मालैव माल्यम् इति निरुतेः पृथग् इति रुक्मिणी देव्या विप्रस्त्रीणां च पूजाद्रव्यादीनां पार्थक्यं बोधयति विप्रस्त्रीणां पृथक्त्वं च तदिष्टसिद्धयर्थं स्वयम् अपि पृथक् पूजनात् किञ्चित् सुचरितम् इत्य् -आदिवत् अतः सम्यगपूजयत् । प्रदीपावलिभिर् इत्यन्ते महानिराजनात् पतिमतीर् इति लवणेति च तथाविधैः ॥ ४७-४८ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्रक् पौष्पी माला रत्नमयी ॥४७॥


॥ १०.५३.४८ ॥

विप्र-स्त्रियः पतिमतीस् तथा तैः समपूजयत् ।

लवणापूप-ताम्बूल- कण्ठ-सूत्र-फलेक्षुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा विप्रस्त्रियो\ऽपि तैर् न्द्रव्यैर् लवणादिभिश् च समपूजयद् इति ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पतिमतीर्भर्तृमत्यः । लवणपदेन सलवणपाको ग्राह्यः, केवलस्य देवार्चनोपचारेष्वप्रसिद्धेः । अपूपो बहुच्छिद्रः कः । कण्ठसूत्रमुपवीतम्, हारः कन्दविशेषो वा । तद्-उक्तम्—

पुष्पहारे रत्नहारे ह्यपवीते\ऽथ भूषणे ।

स्त्रीणां कण्ठस्य शास्त्रज्ञे पाकभेदे\ऽथ कुङ्कुमे ॥

कण्ठसूत्रो नाटकज्ञे फले शार्करकन्दके ।

इति निरुक्तिः । केचित्तु-कण्ठसूत्र नागरगे स्त्रीणां सौभाग्यभूषणे इत्य् आहुः। लवणापूपाः कचोरिका इति केचित् । पृथग् इति रुक्मिणीदेव्या विप्रस्त्रीणां च पूजाद्रव्याणां पार्थक्यं बोधयति । विप्रस्त्रीणां पृथक्त्वं च तदिष्टसिद्धये स्वयम् अपि पृथक्पूजनात् किञ्चित्सुचरितत् इत्य्-आदिवम् । अतः सम्यगपूजयत् । प्रदीपावलिभिर् इत्यन्ते महानिराजनात् । पतिमतीरित्य् एवंलक्षणकर्मणि पतिपुत्रवतीनाम् एवाधिकार इति बोधयति ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लवणापूपः कचोरिका इति केचित् ॥४८॥


॥ १०.५३.४९ ॥

तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः ।

ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शेषां निर्माल्यम् ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यै रुक्मिण्यै । ता विप्रपत्न्यः । शेषां पुष्पमालाम् देवार्पितार्चकप्रत्ता शेषा स्यात्पुष्प मालिका इति संहितोक्तेः । विश्वकोशे तु-प्रसादान्निजनिर्माल्यदाने शेवानुकीर्तता इत्य् उक्तम् । ताभ्यो ब्राह्मणीभ्यो दैव्यै च । वधू रुक्मिणी ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण सादरत्वादिना ददुः, देव्यै च दुर्गायै, वधूर् इति श्री विष्णुन्यतिरिक्तद् एवतानिर्म्माल्यग्रहणे निषिद्धे\ऽपि कन्यात्वेना दोषाद् इति भावः ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देव्यै च दुर्गायै ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शेषां निर्मल्यम् ॥४९॥


॥ १०.५३.५० ॥

मुनि-व्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिका-गृहात् ।

प्रगृह्य पाणिना भृत्यां रत्न-मुद्रोपशोभिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुनिव्रतं मौनम् । भृत्यां सखीम् ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ शेषाग्रहणोत्तरम् । भृत्या दासी सखी भृत्या भृत्या भृतिरिहोदिता इति बह्वर्थवाग्विलासे । रत्नमुद्रा रत्नाङ्गुलीयकम् ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण स्नेहभरेण दृढतया गृहीत्वेति तया श्री-कृष्णप्रदर्शनार्थम् । यद् वा, भावि-श्री-कृष्णदर्शनवैवश्येन पतनशङ्कया, वस्तुतस् तु शोभाविशेषार्थम् एव, तथा च वक्ष्यति यात्राच्छलेन हरये\ऽर्पयतीं स्वशोभाम् [ भा।पु १०॥५३॥५४ ] इति रत्नमुद्रया रत्नाङ्गुलीयकेन विवाहे परिधार्येण उप सर्वोपरितनत्वेन शोभितुं शीलमस्येति, तथा तेनेति पाणेः परमशोभैवोक्ता ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रगृह्येति बहुसम्मर्देन मूलतस् तु श्री-कृष्णागमनसमये सम्भ्रम वैवश्येन रत्नमुद्रां रत्नाङ्गलीयकम् । उप अधिकं शोभयितुं शीलं यस्येति शोभाविशेषवर्णनात्तत्सर्वं यात्राछलेन हरये\ऽर्पयन्तीं स्वशोभाम् इत्यनुसारेण तदर्पणपरिकरत्वम् एव प्राप्तम् इति द्योतितं टीकायां भृत्यां सखीम् इति योग्यत्वाल्-लक्षणया ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनिव्रतं मौनम् ॥५०॥


॥ १०.५३.५१-५२ ॥

तां देव-मायाम् इव धीर-मोहिनीं

सुमध्यमां कुण्डल-मण्डिताननाम् ।

अश्यामां नितम्बार्पित-रत्न-मेखलां

व्यञ्जत्-स्तनीं कुन्तल-शङ्कितेक्षणाम् ॥

शुचि-स्मितां बिम्ब-फलाधर-द्युति-

शोणायमान-द्विज-कुन्द-कुड्मलाम् ।

पदा चलन्तीं कल-हंस-गामिनीं

शिञ्जत्-कला-नूपुर-धाम-शोभिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तां विलोक्य वीरा मुमुहुर् इति तृतीयेनान्वयः । श्यामामजातरजस्काम् । कुन्तलेभ्यः शङ्किते इव चपले ईक्षणे यस्यास्ताम् ॥ ५१ ॥

द्विजा एव कुन्दानां कुड्मलानि बिम्बफलवद्यो\ऽधरस्तस्य द्युतिभिः शोणायमानानि तानि यस्यास्ताम् । कला शोभा तद्युक्तं नूपुरं शिञ्जच् च तत्कलानूपुरं च तस्य धाम दीप्तिस् तेन शोभितुं शीलमस्य तेन पदा चलन्तीम् ॥ ५२-५३ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां रुक्मिणीम् । अथावसरं प्राप्य विरोधिपरिभवाय तस्याः प्रभावो\ऽप्य् आविर्बभूवेत्य् आह-ताम् इति ॥ ५१ ॥

शिञ्जत् शब्दं कुर्वत् भूषणानां तु शिञ्जितम् इत्य् अमरः । बिम्बफलाधरस्य द्युतिभिः शोभायमाना द्विजा दन्ता एव कुन्दकुड्मलानि यस्याताम् । शिजं च तत्कलानूपुरमतिशिल्पनिर्मतनूपुरं तस्य धामभिः शोभिना पदा चलन्तीम् ॥ ५२ ॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्यामां पद्मिनीम् ।

पद्म-गन्धि-मुखं यस्याः सततं नव यौवनम् ।

रक्ताशोकं पदाघाताद् अकाले\ऽपि प्रफुल्लति ।

मुख-माध्वीक-गण्डूषैर् अकाले वकुलो\ऽपि च ।

कुसुमानि समाधत्ते सा श्यामा परिकीर्त्यते ॥ ५२ ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवस्य श्रीविष्णोर्मायाम् इव । कुतः ? मोहिनी परमसुन्दरी मोहिनीतुल्यां वा, हे वीर ! धीर इति च पाठस्तद्धेतुत्वेन । तस्याः सोन्दर्य वर्णयन् तां विशिनष्टि-सुमध्यमाम् इत्य् -आदि दशविशेषणैः । तत्र सुमध्यमाम् इत्य् उपलक्षण सर्वाङ्ग सौष्ठवस्य, तच् च विस्तारितं श्री-हरि-वंशे—

श्यामावदाता स ह्यासीत् पृथुचार्वायतेक्षणा ।

ताम्रौष्ठनयनापाङ्गी पीनोरूजघनस्तनी ॥

बृहती चारुसर्वाङ्गी तन्वी शशिनिभानना ।

ताम्रतुङ्गनखी सुभ्रूर्नीलकुञ्चितमूर्धजा ॥ ।

अत्यर्थं रूपतः कान्ता पीनश्रोणिपयोधरा ।

तीक्ष्ण-शुक्लैः समैर् दन्तैः प्रभासद्भिर् अलङ्कृता ॥

अनन्या प्रमदा लोके रूपेण यशसा श्रिया ।

रूपिणी रुक्मिणी देवी पाण्डुरक्षौमवासिनी ॥ [ वि।प ५९३८-४१] । इति ।

कुण्डलेति नितम्बेति चाशेष-भूषणानाम्, श्यामाम् इति वयः सन्धिः सूचितः । अत एव व्यनत्स्तनीम् । एवम् अङ्गसौष्ठववयोभूषणानि सङ्क्षेपेणोद्दिश्य माधुरीं वर्णयति—कुन्तलेत्यादिना शोभितेत्यन्तेन । तत्र कुन्तले—लोललोचनतयावलोकमाधुरी, शुचिस्मितामितिहासमाधुरी व्सक्तैव । तदनन्तरं च दन्तानां वर्णनं शुचिस्मितत्वेनैव तेषाम् ईषत्प्रकाशानात् । गतिमाधुरीम् आह—पदेति नूपुरसिञ्चितसादृश्यार्थं कलशब्दप्रयोगः । विलोक्य साक्षाद्दष्ट्वा ये समागतास्ते सर्व एव, वैरिनिर्जयादिना यशस्विनो\ऽपि श्री-रुक्मिण्यां निराशत्वाद्दुःखेन मुमुहुः । कुतः ? तेन कृष्णेन कृतो यो रुक्मिण्यां हृच्छयः कामस्तेनाद्दिता वित्रस्ता इत्य् अर्थः । ते महाशौय्र्यादि-युक्ता अपि, सर्वे गजाद्यारूढा अपि, विशेषेण मूढा सन्तो भूमौ पेतुः । कथम् ? उज्मितास्त्राः सन्तः । कुतः ? तस्य कृष्णस्य रुक्मिणीविषयकेनोदारेण सभावत्वादिना श्रेष्ठेन हासेन ब्रीडायुक्तावलोकनेन च हृतं नाशितं चेतो येषां ते, अनेन कृष्णकतृकहरणनिश्चयेन क्षोभात् प्रलयः सूचितः ॥ ५१-५३ ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथावसरं प्राप्य विरोधिपराभवाय तस्याः प्रभावो\ऽप्य् आविर्बभूवेत्य् आह-तां देवम् आयाम् इति, सार्धैर् स्त्रिभिः । तत्र ताम् इति साद्ध द्वयकम् यात्राछलेन हरये\ऽर्पयती स्वशोभाम् इति वक्ष्यमाणानुसारेणान्येभ्यस् तु स्वशोभामनर्पयन्तीं तां देवम् आयाम् इव मल्लानामशनिः इत्य्-आदिदिशा देवस्य भक्तेषु स्वरूपवैचित्र्याद्दीव्यतः श्री-कृष्णस्य मल्लादिषु त्वशनित्वादिप्रत्यायिकां मायाम् इव वीरमोहनीं वीराणां प्रतिपक्षाणां पाटान्तरे धैर्यभाजाम् अपि तेषां स्वस्मिन् रूपान्तरकल्पनया तान् मोहयन्तीम् वीक्ष्य ते वीरा मुमुहुः वीरमोहनीरूपम् एव वर्णयति—सुमध्यमाम् इत्य् -आदिना । मोहनीरूपत्वेनैव तेषां मोहो जनिष्यत इति स्पष्टयति यशस्विनो वीरत्व धीरत्वादिना ख्याता अपि तया कृतेन मोहनीरूपेण यो हृच्छयस्तेनार्दिता इत्यस्य वैयर्थ्यं स्यात् इत्ययम् एवार्थो विवक्षितः ॥ ५१-५३ ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथास्याः कृष्णदर्शनं वर्णयति—ताम् इत्य् -आदि द्वाभ्याम् । श्यामां पद्मिनीम्, तथा च

पद्मगन्धिमुखं यस्याः सततं नव यौवनम् ।

रक्ताशोकं पदाघातादकाले\ऽपि प्रफुल्लति ।

मुखमाध्वीकगण्डूषैर् अकाले वकुलो\ऽपि च ।

कुसुमानि समाधत्ते सा श्यामा परिकीर्तिता ॥

व्यञ्जत् स्तनीं नवोद्यत् कुचाम् कुन्तलेन चूर्णकुन्तलेन, शङ्किते इक्षणे यस्याः ॥५१-५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तां चिदानन्दमयीं भगवच्-छक्ति श्री-रुक्मिणीं भगवद्द्विषो\ऽसुरा मायाम् एव प्रतियन्ति स्मेत्य् आह—-ताम् इति सार्धैः पादोनत्रिभिः । तां श्री-रुक्मिणीं देवम् आयाम् इव विलोक्य वीरा मुमुहुर् इति तृतीयेनान्वयः । इवेत्येवार्थे मल्लानामशनिरित्य् अत्रायमशनिर् एव न तु सुकुमारो बाल इति मल्लाः कृष्णं यथा अमंसतं अशनित्वं च न तस्य स्वरूपमतो मल्लाद्याः स्वस्वदृग्भिस्तस्य स्वरूपम् एव जगृहुः कृष्णनिष्ठं स्वरूपं स्यात्यैः सुगमं जनैर् इत्य् उक्तेः तथैव देवानामपीयं माया परममोहिनी कापि सुन्दरी नत्वियं मानुषीति तां मत्वेत्य् अर्थः देवम् आयाम् एव विशिनष्टि, वीरेत्यादिभिः श्यामाम् ।

शीतकाले भवेदुष्णा उष्णकाले तु शीतला ।

स्तनौ सुकठिनौ यस्याः सा श्यामा परिकीर्त्तिता ॥

इत्य् उक्तलक्षणां व्यञ्जयन्तौ व्यक्तीभवन्तावेव स्तनौ यस्यास्तां कुन्तलेभ्यः शङ्किते इव चपले इव ईक्षण यस्यास्ताम् ॥५१॥

बिम्बफलाधरस्य द्युतिभिः शोणायमाना द्विजा दन्ता एव कुन्दकुड्मलानि यस्यास्तां शिञ्जच् च तत्कलानुपुरमतिशिल्पनिर्मतनुपुरं च तस्य धामभिर् दीप्तिभिः शोभिना पदा चलन्तम् ॥ ५२ ॥


॥ १०.५३.५३ ॥

अविलोक्य वीरा मुमुहुः समागता

यशस्विनस् तत्-कृत-हृच्-छयार्दिताः ।

यां वीक्ष्य ते नृपतयस् तद्-उदार-हास-

व्रीडावलोक-हृत-चेतस उज्झितास्त्राः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्कृतो मायाप्रतीतिजनितो यो हृच्छयः कामस्तेनादिताः, यथा गन्धर्वदत्तारिनस्थालीमुर्वशीम् एव विलोक्य पुरूरवाः कामार्दितोभूद्यथैव तस्य काम उर्वशीज्ञानजन्य एव न तु स्थालीप्रतीतिजन्यस् तथैव वीराणां हृच्छयो मायाप्रतोतिजन्य एव न तु रुक्मिणीप्रतीतिजन्य एवेत्ययम् एवार्थः सत्सम्मतः, अन्यथा वीरत्वयशस्वित्वव्याघातः स्याद् इति । यथासुरमोहनार्थं श्री-भगवत्-आ मोहिनीरूपं दर्शितं तथात्रापि मोहिनीरूपम् एव श्री-रुक्मिण्या दर्शितम् इति ज्ञेयम् ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विलोक्य वीरा मुमुहुर् इत्य्-आदि । जगज्जनन्यां कृतहृच्छयत्वरूपपापेनादिर्ता मोहं बुद्धिनाशं प्रापूर् इत्य् अर्थः ॥५३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विलोक्येत्य्-आदि । जगज्जनन्यां तस्यां कृतहृच्छयत्वेन मोहं प्राप्ताः, तेनैव पापेन नष्टप्राया इत्य् अर्थः ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् कृतो मायाप्रतीति जनितो योहृच्छयः कामस्तेनार्दिताः यथागन्धर्वदत्ताग्निस्थालीमुर्वशीम् एव विलोक्य पुरूरवाः कामार्दितो\ऽभूत् यथैव तस्य काम उर्वशीज्ञानजन्य एव न तु स्थालीप्रतीतिजन्यस् तथैव वीराणां हृच्छयो मायाप्रतीतिजन्य एव न तु रुक्मिणीप्रतीतिजन्य एवेत्यतो\ऽन्योक्त विरुद्धो\ऽर्थः पराहतः ॥५३॥


॥ १०.५३.५४-५५ ॥

पेतुः क्षितौ गज-रथाश्व-गता विमूढा

यात्रा-च्छलेन हरयेऽर्पयतीं स्व-शोभाम् ।

सैवं शनैश् चलयती चल-पद्म-कोशौ

प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ॥

उत्सार्य वाम-करजैर् अलकान् अपाङ्गैः

प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं च ।

तां राज-कन्यां रथम् आरुरुक्षतीं

जहार कृष्णो द्विषतां समीक्षताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं मुमुहुः पेतुश्चेत्य् आह । याम् इति । यात्रामिषेण हरये स्वलावण्यं समर्पयन्तीं यां वीक्ष्य क्षितौ पेतुः सा तान्प्राप्तान ह्रिया ऐक्षत तदैवाच्युतं च ददर्शेत्युत्तरेणान्वयः ॥५४॥

चलत्पद्मकोशतुल्यौ चरणौ चालयन्तीम् ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : या रुक्मिणीम् । यां मोहिनीरूपतया भातां वीक्ष्य नृपतयः क्षितौ पेतुः । स्वरूपतया सर्वतो विलक्षणां स्वीयां हरये\ऽर्प्यन्ती, न त्वसुरेभ्य इवान्येभ्यो भाताम् इत्य् अर्थः ॥५४॥

सेति सार्धद्वयोर् अन्वयः । वामकरणैः सव्यस्तनखैः । तदा नृपेक्षणसमये । सेति भिन्नवाक्यत्वान्न पौनरुक्त्यम् । सा कृष्णं दिदृक्षमाणै प्राप्तांस्तत्रागतान् ह्रिया ऐक्षत । एते\ऽन्ये पुरुषा इति तद्दर्शनेन लज्जाजनिष्टेति भावः । तन्-मध्य एवाच्युतं स्वोक्तच्युतिवर्जितम् तामानयिष्ये इत्याद्युक्तेः । किं कुर्वती-चरणावेवाब्जकोशौ तौ तस्य प्रत्यासत्तिकामनया शनैश्वालयन्ती चलत्पद्मकोशौ इति पाठः स्वामिसम्मतः । अत्र रूपकबलेनैव रूप्यं लभ्यत इति चरणावध्याहृतौ । अतिशयोक्तिनामालङ्कारस्य प्रथमभेदोयम् । यथोक्तम्—

सिद्धत्वे\ऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।

भेदेप्यभेदः सम्बन्धे\ऽसम्बन्धस्तद्विपर्ययौ ।

पौर्वापर्य्या त्ययः कार्यहेत्वोः सा पञ्चधा मता ॥ इति ।

विषयनिगरणेनाभेदप्रतिपत्त्रिविषयिनोध्यवसाय इति । अच्युतं च इति प्रायः स्वामिसम्मतः पाठः । अच्युतं सा इति पाठः सर्वत्र दृश्यते । अत्र पूर्वत्र सा तादृशी यत्तदोरन्वयबलात्, उत्तरत्र सा रुक्मिणी प्रकरणबलात् । अच्युतमिति-निजचित्ताच्च्युतिराहित्याभिप्रायेण । अतस्तत्परिचायनापेक्षा नास्तीति भावः ॥५५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सैवम् इत्य् -आदि । चरणाब्जकोषो अस्फुटकमलाकारो चरणौ सुदृश्यत्वात् श्यामलक्षणाच् च वा ॥५४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यात्रा देव्यालय गमनम्, तस्याश्छलेनेति वस्तुतो यात्राया अन्तः-पुराद्वहिः श्री-भगवत्-आ हरणार्थकत्वात् स्वकीयामसाधारण शोभाम्, हरये एव, न तु तेभ्यो\ऽर्प्यन्तीं दर्शयन्तीम् इत्य् अर्थः । एवम् अनेन स्वशोभार्पणप्रकारेण चरणावेव सुकोमलत्वादिनाब्जकोशौ शनैश्चालयन्ती, पाठान्तरे च पद्मकोशाव् इति पाठे रूपकवलेन रूप्यौ चरणौ बुध्येत एव । अर्थः स एव, शनैश्चालने एवम् इत्य् एको हेतुः । अब्जकोषरूपकत्वेन मृदुत्वमन्यो हेतुः, किं च, भगवतः सर्वैश्वर्ययुक्तस्य श्री-कृष्णस्य प्राप्तिमागमनम् । किं वा, अशेषगुण-रूपवतस्यात्मना प्राप्तिं चक्षुरादिभिः साक्षाल्लब्धिं प्रकर्षेण परमौत्सुक्यादिना समीक्षमाणा अपेक्षमाणा, हेतुनामेषां यथोत्तरं श्रैष्ठ्यम् ॥५४॥

अलकानुत्सार्येति-सम्यक् श्री-भगवद्दर्शनार्थम्, तेन वैदग्ध्यपि सूचिता । प्राप्तान् शिशुपालसाहाय्यार्थमागतान् सर्वान् नृपानैक्षत, कृष्णदिदृक्षया सर्वतो ह्रिया अपाङ्गक्षेपेण तानपश्यद् इत्य् अर्थः । सर्वतश् चालनेनैवापाङ्गस्य बहुत्वम्, जवा ह्रिया प्राप्तान् लज्जया अपमानजन्यया गृहीतान् नृपान्, यदा, अपाङ्गैः सह वर्तमानान् तदुपरि पतितानलकानुत्सार्य्य, भगवतः प्राप्तिं कुतः कथमायातीत्येवम् आगमनं प्रकर्षेण नैकट्यादिना सम्यगितस्ततो दृष्टिप्रसारणेनेक्षमाणा सती नृपानितस्ततो\ऽग्रे पतितानैक्षत । अच्युतं च नृपवर्गवञ्चनार्थं दूरे स्थितं पश्चाद्दर्श । ततश् च क्रियाया अपाङ्गैर् इत्यस्याप्यत्रैव चान्वयः—-भावविशे तथैव दृश्यत्वात् । अच्युतम् इति निजधैर्य्याद्यच्युतेः, तथा तच्चित्तात् कदाचित् कथञ्चिद् अपि रूपगुणादिच्युतिराहित्याभिप्रायेण । इत्य् अनेन तत्परिचायनापेक्षा निरस्ता । रथारुरुक्षणे हेतुः—राजकन्याम् इति पदभ्यां गृहगमनायोग्यत्वात् । किं वा, सुकोमलपदत्वेन पुनः पादव्रजनाशक्तेर् इति भावः । जहारेति—स्वयं रथादवतीर्य पाणिना तत्पाणिं गृहीत्वा अङ्के कृत्वा वेति ज्ञेयम् । सम्यगीक्षमाणानाम् इति मोहापगमं सूचयति, अनादरे षष्ठी । एवं परमं प्रागल्भ्यं विक्रमवत्त्वं क्षिप्रकारित्वादिकं च दर्शितम् । तच् च सम्भवेदेवेत्यभिप्रायेणाह—कृष्ण इति, यतः साक्षाभगवानित्य् अर्थः । यद् वा, परमकर्षकः साक्षाद् एव हरणे महादक्ष इत्य् अर्थः ॥५५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : याम् इति युग्मकम् । मोहिनीरूपतयामातां वीक्ष्य नृपतयस् तु क्षितौ पेतुः स्वरूपतया सर्वतो विलक्षणां स्वीयां शोभां तु हरयेर्पयन्तीं तत्वसुरेभ्य इवान्यतो माताम् इत्य् अर्थः ॥५४॥

एवम् अनेन स्वशोभार्पणप्रकारेण वामकरजैर् वामकराङगुलिभिर् अलकानुत्सार्यं भगवतस्तस्य प्राप्तिं ह्रियापाङ्गैर् मुहुर् अपाङ्गविक्षेपैर् एव न तु साक्षान्नेत्राभ्यां प्रसमीक्षमाणा निकटे पतितान् नृपान् ऐक्षत । तदनन्तरं तु अच्युतं ददर्श किं कुर्वती चरणावेवाब्जकोशौ तौ तस्य प्रत्यासत्तिकामनया शनैश्चलियन्ती चलत्पद्मकोशाव् इति पाठन्तु श्रीस्वामिसम्मतः अत्र रूपकवलेनैव रूप्यं लभ्यत इति चरणावध्याहृतौ अतिशयोक्तिनाम्नो\ऽलङ्कारस् तु प्रथमस् तु भेदो\ऽयं यथोक्तम्—

सिद्धत्वे\ऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।

भेदेप्यभेदः सम्बन्धे\ऽसम्बन्धस्तद्विपर्ययौ ।

पौर्वापर्य्या त्ययः कार्यहेत्वोः सा पञ्चधा मता ॥

विषयनिग्रणेनाभेदप्रतिपत्तिर्विषयिणोध्यवसाय इति अच्युतं चेति प्रायः स्वामिसम्मतोयं पाठः अच्युतं सेति पाठस् तु सर्वत्र दृश्यते अत्र पूर्वत्र सा तादृशी यत्तदोरन्वयबलात् उत्तरत्र सा रुक्मिणी प्रकरणबलात् अच्युतम् इति निजप्रतिज्ञातोच्युतेस् तथा तच्चिता च्युतिरोहित्याभिप्रायेण इत्य् अनेन तत्परिचायनापेक्षा निरस्ता ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यां वीक्ष्य इति स्वरूपैण वर्णयति-हरय इति ॥५४॥

सैवं भगवतः प्राप्तिं प्रसमीक्षमाणा समीक्षितुमारभमाणा तत्स्फूर्त्तिमयभावेन स्खलितान् सावरणातलकान् वामकरजैर् उत्सार्य प्राप्तान् व्यवहितान् नृपानवैक्षन् ततश् च भीता सती तत्राच्युतं च ददृशे तच् च दर्शनं ह्रियायुक्तम् इत्य् अर्थः ॥५५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं मुमुहुः पेतुश्चत्य् आह-याम् इति । अत्रापि श्लोके देवम् आयाम् इति पदमनुवर्तनीयं यां श्री-रुक्मिणी देवम् आयाम् इव वीक्ष्य ते नृपतयो मूढाः सन्तः पेतुः यां रुक्मिणी कीदृशी हरये स्वशोभामर्पयन्ती न त्वन्येभ्यः ॥५४॥

सा रुक्मिणी श्री-कृष्णं दिदृक्षमाणैव प्राप्तान तत्रागतान् ह्रिया ऐक्षत ह्रियेत्येते\ऽन्ये पुरुषा इति तद्दर्शनेन लज्जाजनिष्टेति भावः तन्-मध्य एवाच्युतं ददृशे ददर्श यः खलु हृदयात् च्युतो न भवतीति भावः ॥ ५५-५६ ॥


॥ १०.५३.५६ ॥

रथं समारोप्य सुपर्ण-लक्षणं ।

राजन्य-चक्रं परिभूय माधवः ॥

ततो ययौ राम-पुरोगमः शनैः ।

शृगाल-मध्याद् इव भाग-हृद् धरिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपर्णलक्षणं गरुडध्वजम् । हरिः सिंहः ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां रुक्मिणीम् । ततो राजसमूहात् । हरिः सिंहे कपौ हरे इति कोशात् । रथमारुरुक्षतीं कालविलम्बाय तथा तदारोहणार्थमितस्ततश् चेष्टा-मात्रं हसारोहन्तीम् इत्य् अर्थः । पूर्वं तदनारोहणं देवयात्रागौरवेणेति ज्ञेयम् । समीक्षताम् इत्य् अनादरे षष्ठी । एवं परम-प्रागल्भ्यं विक्रमवत्वं क्षिप्रकारित्वं च दर्शितम् । सुपर्णम् इति-रथान्तराशङ्कानिरासः, शोभातिशयश्चोक्तः । शनैर् ययाव् इति निर्भयत्वात् ॥५६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वामकरजैर् अलकानुत्सार्य ह्रिया प्राप्ता नृपानपाङगैर् उत्सार्य अदृष्ट्वेत्यादियावदच्युतमैक्षत, श्री-कृष्णं ददर्श, पश्चात् सा ददृशे, अर्थादच्युतेनेत्य् अर्थः । क्रियताम् इति कर्ता कुर्व् इति कर्म आक्षिप्यत इत्यभियुक्ताः । अन्योन्य-दर्शनं जातम् इत्य् अर्थः ॥५६-५७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यगारोप्य शीघ्रं सुखं नीडान्तर्निवेश्येत्य् अर्थः । सुपर्णलक्षणम् इति तदीयत्वप्रसिद्धया परमर्दन-शीघ्रगमनादिमाहात्म्यं सूचितम् । माधव इति लक्ष्मीरूपायाः श्री-रुक्मिण्याः प्राप्त्यभिप्रायेण यद् वा, निजाशेपैश्वर्यप्रकटनार्थं यदुवंशे जातः, अतः परिभूय ततस्तत्स्थानात् रामः पुरोगमो\ऽग्रगो येषां यादबानां तैः सह शनैर् एव निर्ययौ, निर्भयत्वात् । तत्रानुरूपो दृष्टान्तः-शृगालेति । शृगालाबृतं स्वस्य भागं भग्यं मांसं हरति बलादाच्छिद्य नयतीति तथा सः ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रथमारुरुक्षन्तीं कालविलम्वाय तथा तदारोहणार्थमितस्तश् चेष्टा-मात्रं कुर्वन्तीं न तु सहसारोहन्तीम् इत्य् अर्थः । पूर्वं तु तदनारोहणं देवयात्रागौरबेणेति ज्ञेयं समीक्षतां सम्यगीक्षमाणानाम् इति मोहापगमं सूचयति अनादरे षष्ठी । एवं परमं प्रागलूभ्यं विक्रमवत्त्वं क्षिप्रकारकत्वादिकं च दर्शितं सुपर्णलक्षणम् इति तदीयत्वप्रसिद्ध्या भयेन सर्वेषाम् आपाततः स्तब्धता दर्शिता रथस्य शोभाविशेषश् च शनैर् एव ययौ निर्भयत्वात् ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आरुरुक्षतीमिवेत्य् अर्थः ॥५६-५७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सैवं शनैरित्य्-आदि । चरणाब्जकोशौ अस्फुटकमलाकारौ चरणौ सुदृश्यत्वात् । वामकरजैर् अलकानुत्सार्य हृया प्राप्तान नृपानपाङगैर् उत्सार्य अविलोक्येति यावत् । अच्युत मैक्षत श्री-कृष्णं ददर्श । पश्चात् सा ददृशे अर्थात्तेन, क्रिययैव कर्ताश्लिष्यते । आदौ सा तं ददर्श, पश्चात् स ताम् इत्य् अन्योन्यम् एवं दर्शनं जातम् इति भावः ॥५६-५७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असहतेषाम् आक्रोशम् आह–अहो इति यतो\ऽस्माकं यशो गोपैर् हृतम् ॥५७॥


॥ १०.५३.५७ ॥

तं मानिनः स्वाभिभवं यशः-क्षयं

परे जरासन्ध-मुखा न सेहिरे ।

अहो धिग् अस्मान् यश आत्त-धन्वनां

गोपैर् हृतं केशरिणां मृगैर् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असहमानां तेषाम् आक्रोशम् आह—अहो धिग् अस्मान् । यतो\ऽस्माकं यशो गोपैर् हृतम् इति ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रुक्मिणीहरणरूपम् । तेषां जरासन्धादीनाम् । आक्रोशं स्वपरनिन्दनरूपम् । केसराः सन्ति येषां ते

केसरं हिङ्गुनि क्लीनं किञ्जल्के न स्त्रियां पुमान् ।

सिंहच्छटायां पुन्नागे बकुले नागकेसरे ॥ इति मेदिनी ।

यशसः क्षयो यस्मात्तम् । परे शत्रवः, तत्रापि मानिनः । परैः इति पाठः कचित् । जरासन्धवशाः इति च । आत्तं यद्धनुस्तत्प्रशस्तत्वेन विद्यते येषाम् आरो\ऽपि तधनुष्पाणीनां राज्ञाम् अपि । गोपैर् इति बहुत्वं श्री-कृष्णानुर्वातत्वेन यदुनाम् अपि गोपत्वध्वननात् । अस्मद्यशः इति पाठश्चिन्त्यः ॥५७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वेषाम् अभिभवं तिरस्कारं साक्षाद् एव हरणात्, स्वओ शब्दस्य अग्रे\ऽप्य् अन्वयः स्वयशसः क्षयो यस्मात्तं किञ्चित् कर्तुम् अशक्त्या शौर्यादिप्रसिद्धिहानेः । यद् वा, स्व-यशसः क्षयं च, शिशुपालाय कन्यासाधनोद्यमादिवैयर्थ्यात् । परे यादवेतरे सर्वै क्षत्रिया न सेहिरे सोढुं नाशकन्, यतो मानिनो वीराद्यभिमानवन्तः । यद् वा, परे शत्रवः, तत्रापि मानिनः, अहो खेदे, आत्तधन्वनां धनुष्पाणीनां राज्ञाम् अपि यशो\ऽस्माकं गोपैर् गोरक्षार्थयष्टि-मात्रग्रहणपरैर् वन्यैः करदैर् हृतम् । तच्चात्ययुक्तम् एवेति दृष्टान्तमाहुः-केशरिणाम् इति भाग इति शेषः । यद् वा, भागहरणान्महाबलपराक्रमादियश एव हृतम् । गोपैर् इति बहुत्वं श्री-कृष्णानुवत्तित्वेन यदुनाम् अपि गोपत्वमननात् । अस्मद्यश इति पाठान्तरं चिन्त्यम्, समासान्तर्गतस्यास्मच्छब्दस्यातधन्वनाम् इत्य् अनेन सम्बन्धसिद्धेः, अस्माकम् इति च यतैर् व्याख्यातं तत् प्रकरणबलादेवेति दिक् ॥५७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यशसः क्षयो यस्मात्तम् अर्थात्स्वस्य । यद् वा, यशसः क्षयं च परे शत्रवः तत्रापि मानिनः परैर् ति पाठः क्वचित् मुखा इत्य् अत्र वशा इति च आत्तं यद्धनुस्तत्प्रशस्तत्वेन विद्यते येषां तेषाम् आत्तधन्विनाम् आरो\ऽपि तधनुष्णाणीनां राज्ञाम् अपि गोपैर् इति च बहुत्वं श्री-कृष्णानुवत्तित्वेन यदूनाम् अपि गपत्वध्वननात् अस्मद्यश इति पाठश्चिन्त्यः ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असहतेषाम् आक्रोशम् आह–अहो इति यतो\ऽस्माकं यशो गोपैर् हृतम् ॥५७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रिपञ्चाशत्तमोऽध्यायो दशमेऽजनि सङ्गतः ॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे रुक्मिणी-हरणं नाम

त्रिपञ्चाशत्तमोऽध्यायः ॥

॥५३॥

(१०.५४)


  1. समर्थ- ↩︎

  2. बलोद्यमम् ↩︎