रामकृष्णयोर् द्वारकागमनं बलरामविवाहः, श्रीकृष्णाय रुक्मिण्याः
सन्देशश् च ।
॥ १०.५२.१ ॥
श्री-शुक उवाच—
इत्थं सोऽनुग्रहीतोऽङ्ग कृष्णेनेक्ष्वाकु-नन्दनः । > तं परिक्रम्य सन्नम्य निश्चक्राम गुहा-मुखात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्विपञ्चाशत्तमे धावन् भयाद् इव गतः पुरीम् ।
अन्वमोदत सन्देशं रुक्मिण्या द्विज-वर्णितम् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इवेन अत्रापि भयाभाव एवोक्तः । पुरी द्वारवतीम् । अन्वमोदत स्वीचकार । इत्थं सार्वभौम [भा।पु। १०.५१.५८] इत्य्-आद्य्-उक्त्या । स मुचुकुन्दः । इक्ष्वाकुं नन्दयतीति तथा । तं कृष्णम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णेन साक्षाद्-भगवता अनुगृहीतः, अतः **इक्ष्वाकु-**कुल-नन्दनः, सम्यक् साष्टाङ्गं बहुशो नत्वा ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णेन साक्षात् स्वयं भगवता अनुगृहीतः । अतः इक्ष्वाकु-कुल-नन्दनः सम्यक् साष्टाङ्गं बहुशो नत्वा । एवम् अस्य पूर्वम् एव निष्क्रामणं श्री-भगवद्-आज्ञया महादरेण शैघ्र्यात् श्री-भगवता च स्व-सङ्गेनानिष्क्रामणं तस्य तद्-योग्यतानवाप्तेः प्रथमम् एव निष्क्रामणं च स्वोपदिष्टस्य शीघ्रानुष्ठान-बोधायेति ज्ञेयम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।(१-१५)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्विपञ्चाशत्तमे वैरि-दुर्लक्ष्यत्वं हरेर् गिरेः ।
प्रवर्षणस्य दाहश् च भैष्मी-सन्देश-वाक् श्रुतिः ॥
॥ १०.५२.२-४ ॥
संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्-वनस्पतीन् । > मत्वा कलि-युगं प्राप्तं जगाम दिशम् उत्तराम् ॥ > तपः-श्रद्धा-युतो धीरो निःसङ्गो मुक्त-संशयः । > समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् ॥ > बदर्य्-आश्रमम् आसाद्य नर-नारायणालयम् । > सर्व-द्वन्द्व-सहः शान्तस् तपसाराधयद् धरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षुल्लकान् अल्प-प्रमाणान् ॥२॥ तपसि श्रद्धा-युतः ॥३॥ तत्र च बदर्य्-आश्रमम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षुल्लक-त्रिषु नीचे\ऽल्पे इति मेदिनी । गुणतः प्रमाणतश् चाल्प-प्रमाणान् इत्य् अर्थः । उत्तराम् इति नर-नारायणाश्रमाभिप्रायेण, तत्र हि कलिर् न प्रभवतीति । यद्यपि
यावत् स पाद-पद्माभ्यां स्पृशन्न् आस्ते रमापतिः ।
तावत् कलिस् तु पृथिवीं पराक्रान्तुं न चाशकत् ॥ [भा।पु। १२.२.३०]
इति द्वादशोक्तानुसारेण श्री-कृष्ण-प्राकट्ये, तत्रापि तत्-प्रभावो नासीत्, तथापि चिरं तत्-प्राकट्यं न स्याद् इत्य् अभिप्रायेण तथा कृतम् इति ज्ञेयम् ॥२॥
मुक्त-संशयः कृष्ण-बोधितत्वात् सर्व-संशय-हीनः । धीरो विवेक-निपुणः । अतो मुक्त-संशयः शास्त्रादिभिः कृत-परम-निश्चयः । अतो निःसङ्गः अन्योपासना-फला\ऽकाङ्क्षा-रहितः । यद् वा, मुक्त-संशयत्वाद् एव तपसि भगवद्-एकाग्र-चित्तत्वे श्रद्धा-युक्तः । अत एव निःसङ्गः । अतः कृष्णे मनः समाधि-निष्ठं कृत्वा प्रकर्षेण सर्वोत्कृष्ट-प्रकारेण अविशत् ॥३॥
तत्र च गन्धमादने\ऽपि । बदरीभिर् घोटाभिर् उपलक्षित आश्रमो बदर्य्-आश्रमः, तम् । नर-नारायणयोर् आलय आश्रयो यस्मिंस् तम् ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्षुल्लकान् अतिह्रस्वान् वीरुदो वनस्पतींश् च । उत्तराम् इति महा-शीतादिना विविक्तत्वेन महात्मभिः प्रायः सेवितत्वात् ॥२॥
धीरो विवेकी, दुःखे\ऽपि धैर्यवान् वा, निःसङ्गो बाह्यान्तर-सम्बन्ध-रहितः सुख-निःस्पृहा वा, सुक्त-संशयः श्री-कृष्ण-पादाब्ज-भक्तौ कृत-विश्वासौ दृढ-निश्चयो वा, विशेषणानाम् एषाम् उत्तरोत्तरस्मिन् हेतुत्वम् ऊह्यम् । अतः कृष्णे परमानन्द-घन-मनोहर-मूर्तौ मनः समाधाय स्थिरीकृत्य । किं वा, सम्यक् तद्-एक-निष्ठत्वेनाधाय निधाय, अत एव प्रकर्षेण सर्वोत्कृष्ट-प्रकारेण अविशत् ॥३॥
तत्र च नर-नारायणालयम् आसाद्य इत्य् अर्थः । यद् वा, नर-नारायणयोर् आलय आश्रमो यस्मिंस् तम् । अयं तपसे तत्र गमने मुख्यो हेतुः, तपः-प्रवर्तकयोः साक्षात् श्री-कृष्णावतारयोस् तयोस् तत्र साक्षाद्-वृत्तेः, सर्वाणि द्वन्द्वानि शीतोष्णादीनि सहत इति तथा सः, अत एव शान्तो\ऽनुद्विग्न-चित्तः सन्, हरिम् इति तस्य तपो-दुःखादि-हरणान् मनो-हरणाद् वा ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीरुधो वनस्पतींश् च उत्तराम् इति श्री-नर-नारायणाश्रम-गमनस्याभिप्रायेण । तत्र हि कलिर् न प्रभवतीति यद्यपि—
यावत् स पाद-पद्माभ्यां स्पृशन्न् आस्ते रमापतिः । > तावत् कलिर् वै पृथिवीं पराक्रान्तुं न चाशकत् ॥ [भा।पु। > १२.२.३०]
इति द्वादशोक्तानुसारेण श्री-कृष्ण-प्राकट्ये तत्रापि तत्-प्रभावो नासीत्, तथापि चिरं तत्-प्राकट्यं न स्याद् इत्य् अभिप्रायेण तथा कृतम् इति ज्ञेयम् ॥२॥
धीरः विवेक-निपुणः, अतो मुक्त-संशयः शास्त्रादिभिः कृत-परम-निश्चयः, अतो निःसङ्गः अन्योपासना-फलाकाङ्क्षा-रहितः । यद् वा, मुक्त-संशयत्वाद् एव तपसि भगवद्-एकाग्र-चित्तत्वे श्रद्धा-युक्तः, अत एवात्र निःसङ्गः, अतः कृष्णे मनः समाधि-निष्ठं कृत्वेत्य् अर्थः । अथवा, तपसि भगवत्य् एव चित्तैकाग्रे श्रद्धा-युतः सादरः, अतः कृष्णे स्वयं भगवति तस्मिन्न् एव मनः सम्यक् तद्-एक-निष्ठत्वेन आधाय, अत एव प्रकर्षेण सर्वोत्कृष्ट-प्रकारेण अविशत् ॥३॥
बदर्य्-आश्रमे\ऽपि नर-नारायणालयम् आसाद्य इत्य् अर्थः । यद् वा, नर-नारायणयोर् आलयः आश्रमो यस्मिन् तम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राप्तं आसन्नत्वात् प्राप्त-प्रायम् इत्य् अर्थः ॥२-४ ॥
॥ १०.५२.५-६ ॥
भगवान् पुनर् आव्रज्य पुरीं यवन-वेष्टिताम् । > हत्वा म्लेच्छ-बलं निन्ये तदीयं द्वारकां धनम् ॥ > नीयमाने धने गोभिर् नृभिश् चाच्युत-चोदितैः । > आजगाम जरासन्धस् त्रयो-विंशत्य्-अनीक-पः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निन्ये नयन् मार्गे चलति स्म ॥५-६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृतम् अनुसरति—भगवान् इति । तदीयं यवनाहृतम् । निन्ये नेतुम् उपचक्रमे ॥५॥ गोभिस् तद्-युक्ता नृभिः । चाद् उष्ट्रादिभिश् च ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्व-शक्तिमान् श्री-कृष्णः, यवने हते इत्य् अनाथत्वादिना तदीय-म्लेच्छ-सेना-हननस्य सुकरतया शीघ्रत्वम् अभिप्रेतम् । निन्ये नेतुम् आदिशत् ॥५॥ नृभिर् भार-वाहिभिः, च-काराद् उष्ट्रादिभिश् च, तदीयैर् एव । तत्र हेतुः—अच्युतेन आज्ञा-च्युति-रहितेन भगवता चोदितैः, तद्-आज्ञाया अवश्य-पाल्यत्वाद् इत्य् अर्थः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मथुरां यवने हते इति पुरीं यवन-वेष्टिताम् इति पाठ-द्वयम् ॥५॥ च-काराद् उष्ट्रादिभिश् च तदीयैर् एव प्रतिवारं त्रयोविंशति-सङ्ख्यानाम् अक्षौहिणीनां, न तु न्यूनाधिकानां सङ्ग्रहः, तस्य राजभ्यस् तावत् तावत् सैन्यादान-निर्णयात् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निन्ये नेतुम् उपचक्रमे ॥५-६॥
॥ १०.५२.७ ॥
विलोक्य वेग-रभसं रिपु-सैन्यस्य माधवौ । > मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेग-रभसं वेगोद्रेकम् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वेगाधिक्यं वेग-रभसम् । यद् वा, नामैक-देश-न्यायेन वे-शब्देन वेदो ग्राह्यस् तं वयं गायन्तीति वेगा ब्राह्मणास् तेषां रभसं युद्ध-संरंभं रिपु-सैन्यस्य जरासन्ध-सैन्यस्य मध्ये विलोक्य इत्य् अन्वयः । यद् वा, रपन्त्य् अनिष्टं शापादि दुष्टेषु, शुश्रूषुषु वरांश् चेति रिपवो विप्राः । रपेर् अस्येत् । रप-परिभाषणे । तेषां सैन्यस्येति सप्तदश-कृत्वः पराभूतेन जरासन्धेन कथञ्चिन् मम जयो मद्-अग्रतो युद्धं त्यक्त्वा राम-कृष्ण-पलायनं वा यथा भवेत्, तथा यूयं कुरुतेति पृष्टा ब्राह्मणास् तम् ऊचुः—जयस् तु तव नो भावी, परन्तु वयं तव सैनिका भूत्वा गच्छामः, स श्री-कृष्णो\ऽस्मान् अप्रहार्यान् मत्वा पलायिष्यते, एवं तयोः पलायनं भावि न केवलं त्वत्तस् तद् अपीति स्पष्टं संहितायाम् । यच् चोक्तम्—
आततायिनम् आयान्तम् अपि वेदान्त-पारगम् ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् । इति ।
तदत्र न सङ्गच्छते, तेषां भगवत्-पलायनेच्छावत्त्वेन जिघांसाभावात् । माधवौ क्रीडा-विशेषार्थं मधु-कुले जातौ राम-कृस्णौ । मथुरायां पुरा रक्षितेन रामेण सङ्गतेः । आपन्नौ स्वीकृतवन्तौ । तथोक्तं वैष्णवे—
मनुष्य-धर्म-शीलस्य लीला सा जगतः पतेः । \
अस्त्राण्य् अनेक-रूपाणि यद् अरातिषु मुञ्चति ।
मनसैव जगत्-सृष्टि-संहारं च करोति यः ।
तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः ।
तथापि ये मनुष्याणां धर्मास्तदनुवर्तनम् ।
कुर्वन्बलवता सन्धिं हीनैर्युद्धं करोत्यसौ ।
साम चोपप्रदानं च तथा भेदं प्रदर्शयन् ।
करोति दण्डपातं च क्वचिद् एव पलायनम् ।
मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्तते ।
लीला जगत्पतेस्तस्य छन्दतः संप्रवर्तते । [वि।पु। ५.२२.१४-१८] इति ।
हे राजन्निति—राजनीतिवित्त्वं सर्वं जानास्येवेति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मनुष्य-चेष्टां आपन्नौ, न तु मनुष्यत्वम् । यद् वा, मनुष्यवद् या चेष्टा, तया या मा श्रीस् ताम् आपन्नौ, समासोऽत्र विकल्पितः ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : माधवौ क्रीडाविशेषार्थं मधुकुले जातौ श्रीरामकृष्णौ, श्रीमथुरायामागतस्य सतो भगवतः, पुरो तस्यां सन्मन्त्र्य रक्षितेन श्री-रामेण सह सङ्गतेः, द्रुतं तत्क्षणम् एव दुद्रुवतुः, वेगेन धावित्वा पलायेताम् । कुतः? मनुष्य-चेष्टाम् आपन्नौ स्वीकृतवन्तौ, मनुष्य-क्रीडा-परत्वाद् इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
मनुष्यधर्मशीलस्य लीला सा जगतः पतेः । > अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ > मनसैव जगत्सृष्टिं संहारं च करोति यः । > तस्यारिपक्षक्षपणे कियानुद्यम विस्तरः ॥ > तथापि यो मनुष्याणां धर्मस्तमनुवर्तते । > कुर्वन् बलवता सन्धिं हीनैर्युद्धं करोत्यसौ ॥ > साम चोपप्रदानं च तथा भेदं प्रदर्शयन् । > करोति दण्डपातं च क्वचिद् एव पलायनम् ॥ > मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्ततेः । > लीला जगत्पतेस्तस्यच्छन्दतः संप्रवर्तते ॥ [वि।पु। > ५.२२.१४-१८] इति ॥
हे राजन्न् इति कदाचिज् जीयते, कदाचित् पलायते चेत्येवं नीति व्यवहारो भवता ज्ञायत एवेति भावः । किं वा, महा-कौतुकात् सम्बोधयति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : माधवौ क्रीडाविशेषार्थं मधुकुले जातौ श्रीरामकृष्णौ मथुरायां पुरा रक्षितेन श्रीरामेण सङ्गतेः आपन्नौ स्वीकृतवन्तौ तथा च श्री-विष्णु-पुराणे—
मनुष्यधर्मशीलस्य लीला सा जगतः पतेः । > अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ > मनसैव जगत्सृष्टिं संहारं च करोति यः । > तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः ॥ > तथापि ये मनुष्याणां धर्मास्तदनुवर्तनम् । > कुर्वन् बलवता सन्धिं हीनैर्युद्धङ्करोत्यसौ ॥ > सामं चोपप्रदानं च तथा भेदं प्रदर्शयन् । > करोति दण्ड-पातं च क्वचिद् एव पलायनम् ॥ > मनुष्य-देहिनां चेष्टाम् इत्य् एवम् अनुवर्तते । > लीला जगत्-पतेस् तस्य छन्दतः सम्प्रवर्तते ॥ [वि।पु। > ५.२२.१४-१८] इति ।
हे राजन्न् इति महा-कौतुकात् सम्बोधयति ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ १०.५२.८ ॥
विहाय वित्तं प्रचुरम् अभीतौ भीरु-भीतवत् । > पद्भ्यां पद्म-पलाशाभ्यां चेलतुर् बहु-योजनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भीरु-भीतवद् भीरोर् अपि भीतवत्, अतिभीतवद् इत्य् अर्थः । चेलतुः पलायेताम् । बहु-योजनं देशम् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—वतिर् भीभीतत्वाभावम् आह । विहाय विशेषेण पुनर्-लिप्सा-राहित्येन हित्वा । कुतः ? प्रचुरं वित्तस्य प्राचुर्याच् छत्रोर् लोभनेन विलम्बनायेत्य् अर्थः । पद्म-पलाशाभ्याम् इति भये सत्य् अतिकोमलाङ्गो\ऽपि पाद-त्राणादि-रहितो\ऽपि पलायत इति द्योतनाय, तस्य तु भय-राहित्यं वतिनैवोक्ताम् इति ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण पुनर्-लिप्सा-राहित्येन हित्वा । कुतः? प्रचुरं वित्तस्य प्राचुर्यात् शत्रोर् लोभनेन विलम्बायेत्य् अर्थः । यद् वा, प्रचुरम् अपि अभीताव् अपि भीरु-भीतवद् इति महा-भीतो यथा पलायते, तथैवेत्य् अर्थः । अत एव पद्म-पलाश-रूपाभ्याम् अपीयं शोकोक्तिः । बहु-योजनम् इति श्री-मथुरातो\ऽतिदूरे अर्बदाचलत्वेन प्रवर्षणाद्रेः प्रसिद्धेः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषेण पुनर्-लिप्सा-राहित्येनेव हित्वा । कुतः? प्रचुरं वित्तस्य प्राचुर्यात् शत्रोर् लोभनेन विलम्बनायेत्य् अर्थः । यद् वा, प्रचुरम् अपि अभीताव् अपि भीरु-भीतवद् इति महा-भीतो यथा पलायते, तथैवेत्य् अर्थः । अत एव पद्म-पलाशाभ्याम् अपीति दुःखोक्तिः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुष-चेष्टाम् आपन्नाव् [७] इति तस्य स्वभाव एवोक्तः । न तु पालायनेऽयम् एव सिद्धान्तः । मनुष्य-चेष्टाम् आपन्नत्वेऽपि बहुशः सर्वज्ञत्व-सर्व-शक्तित्व-दर्शनात् । तत्र प्रिय-जनस्य कस्याप्य् अभावान् नापि प्रेम-मौग्ध्यं च व्याख्यातुं शक्यम् । नापि भयस्यानुकरणम् एवैतद् इति व्याख्येयम् । खिद्यति धीर् विदाम् अपि [भा।पु। ३.३.१६] इत्य् उद्धवोक्तेः । तस्मात् दुर्गाश्रयोऽथारि-भयात् पलायनम् [भा।पु। ३ ४.१६] इत्य् उद्धव एव तम् एव दृष्ट्वास्य सिद्धान्तं ज्ञास्यतीति ज्ञेयम् । अभीताव् इति भयाभावः प्राप्तः । भीरु-भय-शीलाव् अन्यौ जनौ भीतौ यथा स्यातां, तथा भीताव् इति भयं च प्राप्तम् इति विरोध एवोक्तः ॥८॥
॥ १०.५२.९-११ ॥
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली । > अन्वधावद् रथानीकैर्1 ईशयोर् अप्रमाणवित् ॥ > प्रद्रुत्य दूरं संश्रान्तौ2 तुङ्गम् आरुहतां गिरिम् । > प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति ॥ > गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप । > ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्रमाणवित् प्रमाणम् इयत्ता, तन् न वेत्तीति तथा ॥९॥ तुङ्गम् एकादश-योजनोन्नतम् । प्रकर्षेण वर्षत्य् अस्मिन्न् इति प्रवर्षण इत्य् आख्या यस्य तम् । तद् आह—भगवान् इति । भगवान् इन्द्रः ॥१०॥ तत्र विचिन्वन्न् अपि तयोः पदं निलय-स्थानम् अनधिगम्य ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इयत्ता अन्तः । अत्र प्रमाणं विभुत्वम्, बलादिभिर् अपरिच्छेद्यत्वम् इति यावत् । अन्वधावद् इत्य्-आदिना तस्य तद्-धन-ग्रहणं निरस्तम् अतस् तद्-धनं श्री-द्वारकायाम् एवायातम् इति ज्ञेयम् । तद् उक्तं हरि-वंशे—
निवेदयामास ततो नराधिपे > तद् उग्रसेने प्रतिपूर्ण-मानसः । > जनार्दनो द्वारवतीं च तां पुरीम् > अशोभयत् तेन धनेन भूरिणा ॥ [ह।वं। २.५७.७०] इति ॥९॥
गिरिं गोमन्तम् ताव् आरुरुहतुर् वीरौ गोमन्तम् उदिते रवौ इति हरिवंशोक्तेः । प्रवर्षणाख्यम् इति गिरेर् अग्नि-दाह-शङ्का निरस्ता ॥१०॥
निलीनौ गुप्तौ । पदं पाद-चिह्नम् । ततो\ऽग्रे\ऽनधिगम्य । एधोभिः काष्ठैः, काष्ठं दार्व् इन्धनं त्व् एधः इत्य् अमरः ॥ निलीनौ तृण-गुल्मादिषु तिरोहितौ । तयोः पाद-चिह्नम् अन्यत्रा\ऽप्राप्येति हेतुः । ददाह दग्धुम् आरेभे । नृप इति बहु-जनाधीशत्वेन सामर्थ्यं तत्र दर्शितम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलं त्रयोविंशत्य्-अक्षौहिणी-सङ्ख्यं सैन्यं शक्तिर् वा तद्वान्, अतः प्रहसन् उच्चैर् हसन् । किं वा, अहो अद्भुतं वीरत्वं क्षत्रियत्वं चेत्य्-आदि-प्रकारेण उपहसन्, स्वैर-नीकैश् [रथानीकैर्] चात्म-सैन्यैः । यद् वा, स्वानाम् अनीकैः समूहैः, अन्येषाम् अनुधावनाशक्तेः । ईशयोः सर्व-शक्ति-युक्तयोस् तयोः प्रमाणम् इयत्ता तत्त्वम् इत्य् अर्थः । अनु पश्चाद् अधावद् इत्य्-आदिना तस्य तद्-धन-ग्रहणं निरस्तम्, अतस् तद्-धनं श्री-द्वारकायाम् आयातम् एवेति ज्ञेयम् । तथा च श्री-हरि-वंशे—
निवेदयामास ततो नराधिपे > तद् उग्रसेने प्रतिपूर्ण-मानसः । > जनार्दनो द्वारवतीं च तां पुरीम् > अशोभयत् तेन धनेन भूरिणा ॥ [ह।वं। २.५७.७०] इति ॥९॥
प्रकर्षेण सुकोमलतर-पाद-गत्यैव, द्रुत्वा वेगतो धावनेन गत्वा, अतः सुष्ठु श्रान्तौ सन्तौ, सु-शब्देन श्रान्तत्वस्यापि लीला-विशेष-कृतत्वाच् छोभनत्वम् एव सूच्यते। गिर्य्-आरोहणे हेतुः—तुङ्गम् इति । किं च, प्रवर्षणाख्यम् इत्य्-आदि । एवं तद्-गिरेर् अग्नि-दाह-शङ्कापि निरस्ता ॥१०॥
गिरौ तस्मिन्न् एव नितरां परमादृश्यत्वेन लीनौ, आ सम्यक् ज्ञात्वा, तस्मात् तयोर् निष्क्रम-चिह्नादर्शनात्, मृगयादि-हर्ष-कोलाहलादिना तत्र प्रवेश-लक्षणाच् च । नाधिगम्य इति तैर् व्याख्यातम् । यद् वा, आज्ञाय इत्य् अत्र हेतुः—तयोः पदं कुत्राप्य् अप्राप्येति, समन्ताद् अष्ट-दिक्षु उत्सृजन् दूरतः क्षिपन् ददाह दग्धुम् आरेभे । नृप इति बहुतरात्म-मनुष्यैर् आज्ञाप्य तत्राग्निं प्रक्षिप्तवान् इति भावः ॥११॥
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली । > अन्वधावद् रथानीकैर्3 ईशयोर् अप्रमाणवित् ॥ > प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् । > प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति ॥ > गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप । > ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र प्रमाणं विभुत्वं बलादिभिर् अपरिच्छेद्यत्वम् इति यावत् । अनु पश्चाद् अधावद् इत्य्-आदिना तस्य तद्-धन-ग्रहणं निरस्तम् । अतस् तद् धनं श्री-द्वारकायाम् आयातम् एव ज्ञेयं । तथा च श्री-हरि-वंशे—
निवेदयामास ततो नराधिपे > तद् उग्रसेने प्रतिपूर्ण-मानसः । > जनार्दनो द्वारवतीं च तां पुरीम् > अशोभयत् तेन धनेन भूरिणा ॥ [ह।वं। २.५७.७०] इति ॥९॥
प्रवर्षणाख्यम् इति तद्-गिरेर् अग्नि-दाह-शङ्कापि निरस्ता ॥१०॥
नाधिगम्य इति तैर् व्याख्यातम् । यद् वा, आज्ञाय इत्य् अत्र हेतुः—तयोः पदं पाद-चिह्नम् अन्यत्राप्राप्येति ददाह दग्धुम् आरेभे । नृप इति तत्र शक्त्य्-अतिशयः सूचितः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ १०.५२.१२-१४ ॥
तत उत्पत्य4 तरसा दह्यमान-तटाद् उभौ । > दशैक-योजनोत्तुङ्गान् निपेततुर् अधो भुवि ॥ > अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ । > स्व-पुरं पुनर् आयातौ समुद्र-परिखां नृप ॥ > सोऽपि दग्धाव् इति मृषा मन्वानो बल-केशवौ । > बलम् आकृष्य सुमहन् मगधान् मागधो ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो गिरेः दश चैकं च योजनानि तावद् उत्तुङ्गान् मागध-संरोध-देशम् अतिक्रम्य परतोऽधो निपेततुः ॥१२-१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उभौ राम-कृष्णौ ॥ दह्यमानः तटः प्रान्त-भागो यस्य तस्मात् । अधो गिरेस् तत्रापि भुवि, न तु कण्टक-जलादौ । अनेन निःशब्दत्वेन च सुदूरे तयोः सुख-पतनं पक्षिवद् अभिप्रेतम् ॥१२॥
रिपुणा जरासन्धेन । स्व-पुरं द्वारकाम् । समुद्रः परिखा खात-नदी यस्यास् ताम्। खेयं तु परिखाधारस् त्व् अंभसां यत्र धारणम् इत्य् अमरः ॥ अलक्ष्यमाणाव् इति धूमावृत-सर्व-दिक्त्वात् । रिपुणा इति रिपुत्वात् सावधानेनापीत्य् अर्थः । सानुगेन महा-सैन्येनापि सह । यदूत्तमाव् इति यादवान् नन्दयन्ताव् इति भावः । नृप इति नृपाणां क्रूर-स्वभावाद् इति भावः ॥१३॥
सो\ऽपि जरासन्धो\ऽपि । बल-केशवाव् इति सामर्थ्यम् उक्तम् । सुमहद् इति तदा सर्वस्यापि भगवद्-उपेक्षितत्वात् । उपेक्षा च रुक्मिणी-हरण-पराक्रम-कौतुक-पोषणार्थं तत्-साक्षाद्-अरि-वर्ग-निर्जयेन तस्याः प्रहर्षार्थं च ज्ञेयम् । ननु कथं महा-पावनान् माथुरान् एव स्वराज्यत्वेन गृहीत्वा नोवास ? तत्राह—मागधः नीच-देश्यानां तत्रैवाभिरुचेर् इति भावः । तद् एवं पलायने\ऽपि जयो दर्शितः, अनेक-महा-रथादिभिर् अनुगन्तुम् अशक्यत्वात् सर्वानतिक्रम्योत्प्लुतत्वाच् च ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तरसा वेगेन, उत्प्लुत्य उच्चैः कुर्दित्वा, दह्यमानं तटं प्रान्त-भाग-मात्रं यस्य तस्मात्, अधो गिरेः, तत्रापि भू-प्रदेशे । अनेन निःशब्देन च सुदूरे तयोः सुख-पतनम् अभिप्रेतम् । तच् च तैर् व्यञ्जितम् एव ॥१२॥
रिपुणा इति वैरेण सदा तयोर् अन्वेषण-परत्वम् अभिप्रेतम् । तथाप्य् अलक्ष्यमाणौ केनचिद् अपि लक्षणेन अज्ञायमानौ, सानुगेन स्वयं निजानुगैर् अपीत्य् अर्थः । वस्तुतस् तु रिपुन्[वेन्]{।मर्क्}आलक्ष्यत्वं युक्तम् एवेति भावः । यदुत्तमाव् इति यादवानां सुखाद्य्-अर्थम् इति भावः । स्व-पुरीं स्वयं निर्मितां पुरीं द्वारकां समुद्र-परिखाम् इति जरासन्धाद्य्-अगम्यत्वम् उक्तम् । हे नृप इति प्रहर्षोदयात् ॥१३॥
बल-केशवाव् इति बलाधिक्याबलं विदुः [भा।पु। १०.८.१२] इत्य् अनेन । तथा कं च ईशं च वयते स्व-महिम्ना छन्दयतीति केशव इति । तस्य साक्षात्-परमेश्वरत्वेनादाह्यत्वम् अभिप्रेतम् । अत एव मृषेति सुमहद् इति तदानीं सर्वस्यापि श्री-भगवद्-उपेक्षितत्वात् । उपेक्षा च श्री-रूक्मिण्या विवाह-कौतुके तत्-साक्षादार-वर्ग-निर्जयेन तस्याः प्रहर्षणार्थम् इति दिक् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दह्यमानं तटं प्रान्त-भाग-मात्रं यस्य तस्मात् अधो गिरेः, तत्रापि भू-प्रदेशे, न तु कण्टक-जलादौ अनेन निःशब्देन च सुदूरे तयोः सुख-पतनम् अभिप्रेतम् ॥१२॥
अलक्ष्यमाणाव् इति धूमावृत-सर्व-दिक्त्वात् । रिपुणा इति । रिपुत्वात् सावधानेनापीत्य् अर्थः । तत्रापि सानुगेन महा-सैन्येनापि सह यदूत्तमाव् इति यादवान् नन्दयन्ताव् इति भावः ॥१३॥
बल-केशवाव् इति सामर्थ्य-सूचकं सुमहद् इति तदा सर्वस्यापि श्री-भगवद्-उपेक्षितत्वात् उपेक्षा च रुक्मिणी-हरण-पराक्रम-कौतुक-पोषणार्थं तत्-साक्षाद्-अरि-वर्ग-निर्जयेन तस्याः प्रहासार्थं चेति ज्ञेयम् । ननु, कथं महा-पावनान् माथुरान् एवं स्व-राज्यत्वेन गृहीत्वा नोवास ? तत्राह—मागधः नीच-देश्यानां तत्रैवाभिरुचेर् इति भावः । तद् एवं पलायने\ऽपि जयो दर्शितः अनेक-सहस्त्रैर् महारथादिभिर् अनुगन्तुम् अशक्यत्वात् सर्वांस् तान् अतिक्रम्योत्प्लुतत्वाच् च ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो गिरेः । दश च एकं च यानि तावत् तुङ्गात् । अधो मागध-सैन्य-संरोध-देशम् अतिक्रम्य परतो निपेततुः ॥१२-१४
॥ १०.५२.१५ ॥
आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् । > ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णस्य विवाहान् निरूपयितुं बलदेव-विवाहं नवम-स्कन्धोक्तम् अनुस्मारयति—आनर्त इति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कथान्तरम् आह । यद्यपि सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद् दार-सङ्ग्रहम् इति [गार्ग्योक्तेः]{।मर्क्} परिवेत्त्रादि-शङ्का रौहिणेयत्वाद् बलस्य दैविकेयत्वाच् च कृष्णस्य सोदर्यत्वाभावान् नास्ति तथापि योगमायाकृष्ट-देवकी-गर्भत एव बलस्य रोहिणी-गर्भावेशात् सोदर्यत्वम् अप्य् आयातीत्य् अतस् तद्-वारणाय पूर्वोक्तं स्मारयति—आनर्त- इति । पुरा नवम-स्कन्धे । श्रीमान् ब्रह्म-लोक-गमनेन सप्तविंशति-चतुर्यगेष्व् अतीतेष्व् अपि सर्व-संपत्तिमान् इति योगादि-बलं सूचयति । अतः प्रकर्षेणादात् । रैवतो रेवत-सुतः ककुद्मी ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीमान् श्री-ब्रह्म-लोक-गमनादि-सर्व-सम्पत्ति-युक्तः । यद् वा, तत्र गमनेन सप्तविंशति-चतुर्युगेष्व् अतीतेष्व् अपि जराद्य्-अभावेन सर्व-शोभावान्, रैवतो रेवत-सुतः ककुद्मी, तथा च नवम-स्कन्धे—ककुद्मी रेवतीं कन्यां स्वाम् आदाय विभुं गतः [भा।पु। ९.३.२९] इत्य्-आदि । प्रकर्षेण परम-भक्त्य्-आदिना अदात् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीमान् ब्रह्म-लोक-गमनेन सप्तविंशति-चतुर्युगेष्व् अतीतेष्व् अपि सर्व-सम्पत्तिमान् इति योगादि-बलं सूचयति, अतः प्रकर्षेण अदात् रैवतो रेवत-सुतः ककुद्मी ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-कृष्णस्य विवाहान् वक्तुं प्रथमं बलदेव-विवाहं नवम-स्कन्धोक्तम् अनुस्मारयति—आनर्त- इति । रैवतः रेवत-सुतः ककुद्मी ॥१५ ॥
॥ १०.५२.१६-१७ ॥
भगवान् अपि गोविन्द उपयेमे कुरूद्वह । > वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे ॥ > प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्षगान् । > पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मात्रां कलाम् । गरुडो यथा देवान् प्रमथ्य सुधाम् अहरत्, तथेति ॥१६-१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपिना यथा बल उपयेमे, तथा भगवान् इत्य् उपमा द्योत्यते । मात्रांशे वित्त-मानयोः इति कोशात् ।
भगवान् इति युग्मकम् । भगवान् स्वयं भगवान् । तथा तथा नित्य-विहारी श्री-कृष्णः । तदानीं च गोविन्दः गां पृथ्वीं विन्दतीति क्रीडा-विशेषार्थं तस्याम् अवतीर्ण इत्य् अर्थः । अतः श्रियो मात्रां माति प्रविशत्य् अस्यां सर्वम् इति परिपूर्णां मूर्तिं भगवद्वद् एवावतरितुम् अर्हत्वात् । तथा च श्री-विष्णु-पुराणे—
एवं यथा जगत्-स्वामी देव-देवो जनार्दनः । > अवतारं करोत्य् एषा तथा श्रीस् तु सहायिनी ॥ [वि।पु। १.९.१४०] इति > ।
अत एव वक्ष्यते—सदृशीम् [१०.५२.२४] इति । उपयेमे विवाह-लीलया निकटं नियाय । अपिः पूर्वोक्त-समुच्चये । यद् वा, गोविन्दो गोकुलेन्द्रो गोकुल-वर्ति-गोपी-विरहेणान्तः-खिन्न इत्य् अर्थः । यथैवोद्धवं प्रति निज-करुणा-बाष्पम् उद्गिरति—गच्छोद्धव व्रजम् [भा।पु। १०.४६.३] इत्य्-आदिभिः, यथैवोद्गरिष्यति सर्व-प्रकट-लीलान्ते\ऽपि—तास् ताः क्षपाः प्रेष्ठतमेन नीताः [भा।पु। ११.१२.११] इत्य्-आदिभिः, तादृशः सन्न् उपयेमे ।
कुतः ? श्रियो मात्राम् अंशं मूर्ति-भेदम् इति यावत् । ततश् च श्रियः कान्ताः कान्तः [ब्र।सं। ५.६७] इत्य्-आद्य्-अनुसारेण गोपीनाम् अपि श्रीत्वात् । नायं श्रियो\ऽङ्ग उ नितान्तरतेः प्रसादः [भा।पु। १०.४७.६०] इत्य्-आद्य्-अनुसारेण प्रसिद्ध-श्रीतो\ऽप्य् उत्कृष्टतमत्वेनैव कुरुषु पाण्डु-शब्दवच् छ्रीषु गोपीति नामान्तर-प्राप्तत्वात् तदैक-तत्त्वाद् इत्य् अर्थः । तास्व् अपि मुख्यायाः श्री-राधाया एव मात्रम् इति वा । ज्ञातीन् वो द्रष्टुम् एष्यायो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति भगवद्-उक्त्य्-अनुसारेण यादवादि-निज-गण-विशेष-सुखार्थम् अपि तादृशीम् एव स्वीचकारेति भावः ।
एवम् एवोक्तं पाद्म-कार्तिक-माहात्म्ये—कैशोरे गोप-कन्यास् ता यौवने राज-कन्यकाः इति । स्कान्दादौ च—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति । तथा शक्ति-वैचित्र्य-बोधनार्थम् आह—भगवान् इति । यद् वा, यो गोविन्दः मां केशवो गदया प्रातर् अव्याद् गोविन्द आसङ्गवम् आत्त-वेणुः [भा।पु। ६.८.२०]5 इति नारायण-वर्माद्य्-अनुसारेण तथा नित्य-विहारी सो\ऽपि वैदर्भीम् उपयेमे, तत् कथं ? तत्राह—भगवान्, अचिन्त्य-शक्त्या तत्र चात्र च प्रकाशवान् । यथैव सान्त्विता उद्धव-द्वारा व्रज-देव्य इति भावः । स्वयंवर [ह।वं। २.४७.८] इति हरिवंशोक्तं तद् वृत्तं स्मारयति । ततश् च स्वयंवरे निवृत्ते भगवद्-उक्त्या शिशुपालाय दातुं निश्चितायास् तस्या महार्ति-वैयग्र्येण सन्देशादिना हरणादिकं वृत्तम् इति । यद् वा, स्वयम् एव वैदर्भ्या पुरोहित-पुत्र-प्रेषणेन वरः पतित्वेन श्री-कृष्ण-वरणं, तस्मिन् ॥१६॥
तरसा बलेन तरो बले च रोगे च इति मेदिनी । तरसा सद्यः । प्रमथ्य निर्जित्य । जरासन्धस्य मुख्यत्वे\ऽपि शाल्व्-आदित्वं शाल्वस्यैव प्रथमं युद्ध-प्रवृत्त्येति ज्ञेयम् । तच् च हरि-वंशे व्यक्तम् । पक्षगान् सहायान् । तार्क्ष्योर् कश्यप-सौपर्णी इति कोशात् ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्रियो मात्रां पूरणीम् ॥१६॥
भगवान् अपि गोविन्द उपयेमे कुरूद्वह । > वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे ॥ > प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्षगान् ।
पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् साक्षाच् छ्री-नारायणः । पुनश् च गोविन्दो गां पृथिवीं विन्दतीति क्रीडा-विशेषार्थं मनुष्य-रूपेण तस्याम् अवतीर्ण इत्य् अर्थः । अयं तद्वद्-अवतीर्णायास् तस्या विवाहे हेतुः । अपि पूर्वोक्त-समुच्चये । यद् वा, गोविन्दो गोकुलेन्द्रो\ऽपि गोकुल-वर्ति-श्री-गोपीजन-विरहेण खिन्नो\ऽपीत्य् अर्थः । तथाप्य् उपयेमे । कुतः ? भगवान् भक्त-जन-विषयक-कारुण्याद्य्-अशेष-गुण-युक्तः । तेन, यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं, जह्याम् असून् [भा।पु। १०.५२.४३] इति वैदर्भ्या दुःख-श्रवणेन तत्र कारुण्यात् तद्-भक्ति-यन्त्रितत्वाद् इति भावः । तच् च भवत्-पितामहेषु कुरु-कुल-श्रेष्ठेषु पाण्डवेषु तस्य दौत्य-सारथ्य-वीरासनादिकं सुप्रसिद्धम् । तच् च कुरु-कुलोद्भवेन भवता ज्ञायत एवेति सम्बोधयति—कुरूद्वह इति । तस्या भक्ति-हेतुं दर्शयति—वैदर्भीम् इत्य्-आदिना ।
तत्र विदर्भ-देश-राजाम् इति पाण्डित्यादि-सद्-गुण-युक्तत्वम् । भीष्मकः सत्-क्षत्रियः । स देशस्य राजा, महा-साधुः, तस्य सुतेति सत्-कुल-जन्माद्य्-उक्तम् । किं च, श्रियो लक्ष्म्या मात्रां मूर्तिम् इत्य् अर्थः । यद् वा, अ-कार-प्रश्लेषेण न मीयते कथञ्चिद् अपि परिमातुं न शक्यत इत्य् अमात्रा, ताम् । सौन्दर्यादिना लक्ष्मीतो\ऽप्य् अपरिमेयाम् इत्य् अर्थः। श्री-भगवतो\ऽत्र निजाशेषैश्वर्य-प्रकटनेन, तथापि तद्-अनुसारेण निजाशेष-रूप-गुणादि-प्रकटनात्, स्वयंवरे सतीति तल्-लक्षणे\ऽत्रानुक्ते\ऽपि श्री-हरिवंशोक्तं तद्-वृत्तं स्मारयति । तच् च तत्रैव सुव्यक्तम् इत्य् अत्र न विस्तारितम् । ततश् च श्री-भगवद्-उक्त्या स्वयं-वरे निवृत्ते शिशुपालाय दातुं निश्चितायास् तस्या महार्ति-वैयाग्र्येण सन्देशादिना हरणादिकं वृत्तम् इति सर्वं सुसङ्गतम् एवेति दिक् । व्याख्या स्वयम् एव वैदर्भ्याः पुरोहित-पुत्रादि-प्रेषणेन वरः पतित्वेन श्री-कृष्ण-वरणं तस्मिन् । इति भक्ति-लक्षणं चोक्तम् । वस्तुतस् तु श्री-बादरायणैः प्रणय-कोपतः शोकाभिव्यञ्जिका हृद्-वृत्तिर् इयम् । तथा हि गोविन्द इति गोकुल-लोकापेक्षया । तथा आयास्ये [भा।पु। १०.४१.१७] इति, मयानुमोदितः सो\ऽसौ सत्यो भवितुम् अर्हति [भा।पु। १०.२२.२५] इत्य्-आदि स्वोक्तापेक्षया चान्य-परिग्रहायो\ऽयतोक्तैव, तथाप्य् उपयेमे । कुतः ? भगवान् परम-स्वतन्त्रः, अकृतो\ऽपि को नाम तस्य नियन्तास्त्व् इति भावः । तरसा सद्यः प्रमथ्य बल-हननादिना निर्जित्य, साल्वादीन् इति जरासन्धस्य मुख्यत्वे\ऽपि साल्वादित्वम्, सर्वै राजभिः श्री-कृष्ण-प्रपत्तौ सम्मतायां अपि साल्वस्यैव वाक्याद् युद्ध-प्रवृत्त्या, तत्र तस्यैव मुख्यत्वात् । तच् च श्री-हरि-वंशे व्यक्तम् एव । बाहुल्य-भयाद् अत्र न विस्तार्यते ।
चैद्यस्य शिशुपालस्य पक्षकान् सहायान्—स्वार्थे कः । पाठान्तरे\ऽपि स एवार्थः । सर्व-लोकानां अन्येषां पश्यताम् इत्य् अनादरे षष्ठी । यद् वा, सप्तम्य्-अर्थे सर्व-लोकेषु पश्यत्सु सात्स्व् इत्य् अर्थः । एवं राज-कुल-मध्यतः साक्षाद् वरणेन परम-शौर्य-प्रागल्भ्यादिकम् उक्तम् । यद् वा, राज्ञां प्रमथनं च सर्व-लोक-साक्षाद् एवेति तेषां अतिलज्जादिकं बोधयति—पश्यताम् इति । तार्क्षं कश्यपः ॥१६-१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगेति युग्मकम् । भगवान् स्वयं भगवान् तथा तथा नित्य-विहारी श्री-कृष्णः तदानीं च गोविन्दः गां पृथिवीं विन्दतीति क्रीडा-विशेषार्थं तस्याम् अवतीर्ण इत्य् अर्थः । अतः श्रियो मात्रां माति प्रविशत्य् अस्यां सर्वम् इति परिपूर्णां मूर्तिं भगवद्वद् एवावतरीतुम् अर्हत्त्वात् । तथा च श्री-विष्णु-पुराणे—
एवं यथा जगत्-स्वामी देवदेवो जनार्दनः । > अवतारं करोत्य् एषा तथा श्रीस् तत्-सहायिनी ॥ इति ।
अत एव वक्ष्यते सदृशीम् इति उपयेमे विवाह-लीलया निकटे निनाय । अपिः पूर्वोक्त-समुच्चये । यद् वा, गोविन्दो गोकुलेन्द्रः, गोकुल-चक्रवर्ति-गोपी-जन-विरहेणान्तः-खिन्न इत्य् अर्थः । यथैव श्रीमद्-उद्धव प्रति निज-करुणा-बाष्पम् उद्गिरति स्म, गच्छोद्धव व्रजम् [भा।पु। १०.४६.३] इत्य्-आदिभिः । यथैवोद्गरिष्यति सर्व-प्रकट-लीलान्ते\ऽपि, तास् ताः क्षपाः प्रेष्ठतमेन नीता [भा।पु। ११.१२.११] इत्य्-आदिभिः तादृशः सन्न् अप्य् उपयेमे । कुतः ? श्रियो मात्रां अंशं मूर्ति-भेदम् इति यावत् । ततश् च श्रियः कान्ताः कान्तः [ब्र।सं। ५.६७] इत्य्-आद्य्-अनुसारेण गोपीनां अपि श्रीत्वात्, नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इत्य्-आद्य्-अनुसारेण प्रसिद्ध-श्रीतो\ऽप्य् उत्कृष्टतमत्वेन कुरुषु पाण्डव-शब्दवच् छ्रीषु गोपीति नामान्तर-प्राप्तत्वात्, तद्-एक-तत्त्वाद् इत्य् अर्थः । तास्व् अपि मुख्याया श्री-राधाया एव मात्राम् इति वा, ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति श्री-भगवद्-उक्त्य्-अनुसारेण यादवादि-निज-गण-विशेष-सुखार्थम् अपि तादृशीम् एव स्वीचकारेति भावः
एवम् एवोक्तं पाद्म-कार्त्तिक-माहात्म्ये, कैशोरे गोप-कन्यास् ता यौवने राज-कन्यकाः इति । स्कान्दादौ च, रुक्मिणी द्वारवत्यां तु राधा वृण्दावने वने इति । तथा शक्ति-वैचित्री-बोधनार्थं आह—भगवान् इति । यद् वा, यो गोविन्दः मां केशवो गदया प्रातर् अव्याद् गोविन्दः आसङ्गवम् आत्तवेणुः [भा।पु। ६.८.२०] इति नारायण-वर्माद्य्-अनुसारेण तथा नित्य-विहारी सो\ऽपि वैदर्भीम् उपयेमे । तत् कथम् ? तत्राह—भगवान् अचिन्त्य-शक्त्या तत्र चात्र च युगपत् प्रकाशवान् यथौइव सान्त्विता उद्धव-द्वारा व्रज-देव इति भावः । स्वयं वर इति श्री-हरिवंशोक्तं तद् वृत्तं स्मारयति—ततश् च श्री-भगवद्-उक्त्या स्वयंवरे निवृत्ते शिशुपालाय दातुं निश्चिताया तस्या महार्ति-वैयग्र्येण सन्देशादिना हरणादिकं वृत्तम् इति । यद् वा, स्वयम् एव वैदर्भ्या पुरोहित-पुत्र-प्रेषणेन वरः पतित्वेन श्री-कृष्ण-वरणं तस्मिन् ॥१६॥
तरसा सद्यः प्रमथ्य निर्जित्य जरासन्धस्य मुख्यत्वे\ऽपि शाल्वादित्वं सर्वै राजभिः श्री-कृष्णप्रपत्तौ सन्मतायाम् अपि शाल्वस्यैव वाचा युद्धप्रवृत्त्या तत्र तस्यैव मुख्यत्वात् तच् च श्री-हरि-वंशे व्यक्तं चैद्यस्य पक्षगान् सहायान् सर्वलोकानामन्येषां पश्यताम् इत्य् अनादरे षष्ठी इति राज्ञामतिलज्जादिकं बाधयति तार्क्ष्यः कश्यपः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मात्राम् इति । माति प्रविशत्य् अस्यां सर्वं इति भगवद्वद् एवावतरीतुम् अर्हत्वेन परिपूर्णां मूर्तिं । यद् वा, गोविन्दो गोकुलेन्द्रो गोकुल-वर्ति-गोपी-विरहेणान्तः-खिन्न इत्य् अर्थः । तादृशः सन्न् उपयेमे । कुतः ? श्रियो मात्राम् अंशं मूर्ति-भेदम् इति यावत् । ततश् च—श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.६७] इत्य्-आद्य्-अनुसारेण गोपीनां अपि श्रीत्वात् तद्-एक-तयाआम् इत्य् अर्थः । तास्व् अपि मुख्यायाः श्री-राधाया एव मात्राम् इति वा । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखं [भा।पु। १०.४५.२३] इति भगवद्-उक्तेर् यादवादि-निज-गण-सुखार्थम् अपि तादृशीम् एव स्वीचकारेति भावः । एवम् एवोक्तं पाद्मे कार्त्तिक-माहात्म्ये—कैशोरे गोप-कन्यास् ता यौवने राज-कन्यकाः इति । स्कान्दादौ च—रुक्मिणी द्वारवत्यां तु राधा वृण्दावने वने इति ।
यद् वा, यो गोविन्दो गोकुलेन्द्रत्वेन नित्य-विहारी, सो\ऽपि वैदर्भीम् उपयेमे । तत् कथं? तत्राह—भगवान् अचिन्त्य-शक्त्या तत्र चात्र च युगपत् प्रकाशवान् । यथैव सान्त्वितो श्रीमद्-उद्धव-द्वारा व्रज-देव्य इति भावः । द्विज-प्रेषणेन वरणं वरस् तस्मिन् ॥१६-१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वैदर्भीं भीष्मक-सुताम् इत्य्-आदि । श्रियो मात्रां श्रियो लक्ष्म्याः पूरणीम् ॥१६॥
जीव-गोस्वामी (कृष्ण-सन्दर्भ १८५): अत्र माति अन्तर्भवत्य् अस्याम् इति मात्रा-पदं बाहुल्याद् अधिकरण एवौणादिकं ज्ञेयम् । कार्त्स्न्ये अवधारणे मात्रम् इतिवत् । ततश् च वैकुण्ठ-प्रसिद्धाया लक्ष्म्या अन्तर्-भावास्पदत्वाद् एषैव लक्ष्मीः सर्वतः परिपूर्णेत्य् अर्थः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मात्रां मूल-भूतं सूक्ष्म-रूपं तस्य मात्रा गुणः शब्द इतिवत् कृष्णस्य स्वयं भगवत्त्वे तस्या अपि स्वयं-लक्ष्मीत्वौचित्यात् ॥१६-१७॥
॥ १०.५२.१८-१९ ॥
श्री-राजोवाच—
भगवान् भीष्मक-सुतां रुक्मिणीं रुचिराननाम् । > राक्षसेन विधानेन उपयेमे इति श्रुतम् ॥ > भगवन् श्रोतुम् इच्छामि कृष्णस्यामित-तेजसः । > यथा मागध-शाल्वादीन् जित्वा कन्याम् उपाहरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राक्षसो युद्ध-हरणात् इति स्मृतेः । राज्ञः प्रमथ्येति च त्वद्-उक्त्या राक्षसेन विधानेन उपयेमे परिणीतवान् इति श्रुतम् । पूर्वम् एव वा । सामान्यत एव श्रुतम् । विशेषं तु श्रोतुम् इच्छामि ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वम् एव तृतीय-स्कन्धे [३.१.२८] । वा अथवा । राक्षसेन इति वीर-प्रशस्यत्वेन योग्यतैव विवक्षिता । रुचिराननां श्री-कृष्णस्यापि मनोहर-मुखीम् इति महा-सौन्दर्यम् उक्तम् ॥१८॥ सामान्यत आपाततः । विशेषं विस्तारम् । प्रकारान्तरेण प्राप्तुं शक्याया अपि हरण-लीला कौतुकार्थैवेति तत्त्वम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सामान्यतो\ऽतिसङ्क्षेपेण श्रुत्वा भक्त्या विशेषेण विस्तरशः श्रोतुम् इच्छन् पृच्छति—भगवान् इति सर्व-शक्तिमान्, अत एव राक्षसेन विधानेन प्रकारेण, वीराणां तादृश-विवाहस्यैव प्रशस्यत्वात् । रुचिराननाम् इति सर्व-सौन्दर्यम् उपलक्षयति ॥१८॥
यथा अहरत् तथा तत्-प्रकारं श्रोतुम् इच्छामः, बहुत्वं विनयेन, सर्वेषां सङ्गिनां सङ्ग्रहात् । श्रवणेच्छायां हेतुः कृष्णस्य, तच् च त्वया ज्ञायत एवेत्य् आह—भगवन् ! सर्वज्ञ ! इति निजेष्ट-देवस्य परमानन्द-धनस्य वा । किं च, अमित-तेजसो\ऽनन्त-प्रभावस्य, अतस् तेन नूनं तत्र मधुर-मधुर-पराक्रमो दर्शित इति भावः । यद् वा, अमित-तेजसो\ऽपि कृष्णस्य परम-कौतुक-शीलस्येति सद्मः संहर्तुं शक्ताव् अपि कौतुकेन मधुर-लीलाभिप्रेता ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राक्षसेन इति वीरैः प्रशस्यत्वाद् योग्येनैवेति विवक्षितं रुचिराननाम् अर्थात् श्री-कृष्णवद् एवेति । यद् वा, श्री-कृष्णस्यापि मनोहर-मुखीम् इति महा-सौन्दर्यम् उपलक्षयति । ततः श्री-कृष्णेन विवाह-सौष्ठवं च सन्मतम् ॥१८॥
यथोपाहरत्, तथा तत्-प्रकारं श्रोतुम् इच्छामः, अत एव निर्गलितार्थस् तैर् व्याख्यातो विशेषतस् त्व् इति । अमित-तेजसो\ऽपि इति सद्यः संहर्तुं शक्ताव् अपि कौतुकेन मधुर-लीलाभिप्रेता ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राक्षसेन राक्षसो युद्ध-हरणा इति स्मृतेः ॥१८-१९ ॥
॥ १०.५२.२०-२२ ॥
ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः । > को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनः ॥
श्री-बादरायणिर् उवाच—
राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् । > तस्य पञ्चाभवन् पुत्राः कन्यैका रुचिरानना6 ॥ > रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः । > रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रवणौत्सुक्यम् आविष्करोति—ब्रह्मन्न् इति । पुण्या महा-फलाः, माध्वीः श्रुति-सुखाः, लोकस्य मलापहाश् च, शृण्वानः शृण्वन्न् इत्य् अर्थः । श्रुत-ज्ञः श्रुत-सार-वित् । नित्य-नूतनाः प्रतिक्षनम् आश्चर्यवत् प्रतीयमानाः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माध्वीर् मधुराः माध्वी मधुर-मद्ययोः इति निरुक्तिः । शृण्वानः आर्षत्वाच् छानच् । कथा-रूपे सुख-साध्या अपि पुण्याः सर्व-धर्म-मूल-रूपाः । को धर्मार्थी तावच् छृण्वंस् तृप्येत ? तथा माध्वीः परम-मधुर-रस-रूपाः को\ऽर्थार्थी शृण्वंस् तृप्येत ? तथा लोक-मात्रस्य मलस्य पापाद्य्-अविद्या-तद्-दोषस्य हन्त्रीः को मोक्षार्थी शृण्वंस् तृप्येत ? तथा नित्य-नूतनाः सताम् अयं सार-भृताम् [भा।पु। १०.१३.२] इत्य्-आदि-न्यायेन प्रतिपदं प्रोन्मीलत्-प्रेमानन्ददाः को वा भक्त्य्-अर्थी शृण्वंस् तृप्येत ? शृण्वान् श्रवण-मात्रं लभमानः श्रुतज्ञः यदि तत्-तत्-तात्पर्य-वेत्तेत्य् अर्थः । अवधिर-मात्रो वा ॥२०॥
तस्य भीष्मकस्य । "कन्यका तु वरानना" इति पाठे\ऽपि तद् एव तात्पर्यम् ॥२१॥
तन्-नामतो निर्दिशति—रुक्मी इति । अग्रजो ज्येष्ठः । एषां रुक्म्य्-आदीनाम् । अनन्तर इति सर्वत्रान्वेति क्रम-जातत्व-विवक्षया । सती रूपादि-गुणैर् उत्तमा ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य सर्व-चित्ताकर्षकस्य कथा इति तत्-कथानाम् अपि तादृशत्वम् अभिप्रेतम् । तद् एव दर्शयति विशेषणैश् चतुर्भिः । तत्र पुण्याः पुण्य-जनिका मनोरमा वा, तथा च विश्वः—पुण्यं मनोज्ञे\ऽभिहितम् इति । लोकानां सर्व-जीवानां चतुर्दश-भुवनानां वा, मलं स-वासन-पापम्, अप दूरतो घ्नन्तीति तथा ताः, अतः कस् तृप्येत् ? अपि तु न को\ऽपीत्य् अर्थः । नु वितर्के । मुहुः श्रवणेनापि न कदाचित् तृप्तिः स्यात् ? इत्य् आह—नित्य- इति । तथापि श्रोतुः पशुवद् विवेकाभावेन सम्भवेद् इत्य् आशङ्क्याह—श्रुतज्ञः शास्त्रार्थ-तत्त्ववित् आकर्णितार्थ-रस-वेत्ता वा । तथा चोक्तं प्रथम-स्कन्धे—यच् छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे [भा।पु। १.१.१९] इति तत्र च मच्-चित्त-वृत्तिस् त्वया ज्ञायत एवेति सम्बोधयति—ब्रह्मन्न् इति ॥२०॥
गुणैर् महान्, वरानना इति पाठे\ऽपि परम-सौन्दर्य एव तात्पर्यम् ॥२१॥
अग्रज इति तस्य सर्व-मान्यतोक्ता । अनन्तर इति तत्-तन्-मध्ये अन्वयेन श्री-रुक्मिण्याः सर्व-कनिष्ठत्वं बोधयति । स्वसा सहोदर-भगिनीं, सती रूप-गुणैर् उत्तमा ॥२२॥
ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः । > को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनः ॥
श्री-बादरायणिर् उवाच—
राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् । > तस्य पञ्चाभवन् पुत्राः कन्यैका रुचिरानना7 ॥ > रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः । > रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथा-रूपत्वेन सुख-साध्या अपि पुण्याः सर्व-धर्म-मूल-रूपाः को धर्मार्थी तावच् छृण्वंस् तृप्येत् यथा माध्वीः परम-मधुर-रसार्थ-रूपाः को\ऽर्थार्थी कामार्थी वा शृण्वंस् तृप्येत् ? तथा लोक-मात्राणां मलस्य पापाद्य्-अविद्यान्त-दोषस्य अपहन्त्रीः को मोक्षार्थी शृण्वंस् तृप्येत् ? तथा नित्य-नूतनाः सताम् अयं सार-भूतां निसर्गः इत्य्-आदि-न्यायेन प्रतिपदं प्रोन्मीलत्-प्रेमानन्दः को वा भक्त्य्-अर्थी शृण्वंस् तृप्येत् ? शृण्वन्न् इति श्रवण-मात्रेण लभमान इत्य् अर्थः । श्रुतज्ञ इति यदि तत्-तत्-तात्पर्यं वेदेत्य् अर्थः । अवधिर-मात्र इति वा ॥२०॥
गुणैर् महान् कन्यैका रुचिरानना इति "कन्यका तु वरानना" इति पाठे पूर्ववद् एव तात्पर्यम् ॥२१॥
अनन्तर इति रुक्मरथादौ सर्वत्रान्वयः । क्रम-जातत्व-विवक्षया सा च रुक्मिण्याः सर्व-कनिष्ठात्वेन पित्रोः प्रेम-पात्रत्व-विवक्षया च सती रूप-गुणैर् उत्तमा ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माध्वीर् मधुराः । शृण्वानः शृन्वन्न् इत्य् अर्थः ॥२०-२२ ॥
॥ १०.५२.२३-२४ ॥
सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः । > गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ > तां बुद्धि-लक्षणौदार्य- रूप-शील-गुणाश्रयाम् । > कृष्णश् च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा रुक्मिणी । रूपं स्वरूपम्, वीर्यं प्रभावः, गुणा भक्त-वात्सल्यादयः, श्रियो\ऽलौकिक-सम्पदः । तं श्री-कृष्णम् । गृहागतैर् नारदादिभिः । श्रीः सम्पत् । वीर्यस्य गुणान्तर्गतत्वे\ऽपि पृथग् उक्तिः क्षत्रियत्वेन परमानन्द-प्रदत्वात् । रूपादीनां पूर्व-पूर्वाधिक्यम् ऊह्यम् । उप समीप एव श्रुत्वा । कथम् ? पितुर् गृहम् आगतैः सर्वैर् एव गीयमानाः कविभिर् गीततया निबद्धत्वात् प्रीत्या मधुर-स्वरेणोच्चैः कीर्त्यमानत्वात् । सदृशं योग्यम्, आत्मनस् तादृशत्वात् ॥२३॥
तां रुक्मिणीम् । लक्षणानि सौभाग्य-चिह्नानि । तद्-उक्तम् अनङ्ग-रङ्गे—
नीलाम्भोरुह-पत्र-कान्तिर् अथ वा स्वर्ण-प्रभा भास्वरा > भृङ्गी-नील-शिरोरुहा शशिमुखी सारङ्ग-शावेक्षणा । > स्याद् यस्यास् तिलज-प्रसून-सदृशी नासा सुदन्तावली > सुश्रोत्रा पिक-भाषिणी च जलज-ग्रीवाथ बिम्बाधरा । > चक्राद्यङ्कित-शोण-पाणि-चरणा क्षामोदरी स्वल्प-भुग् > रंभा-स्तम्भ-मनोरमोरु-युगला श्रोण्या बृहत्यान्विता । > नाभ्या चातिगभीरया गजगतिः शान्ताल्प-निद्रालसा > शीलाव्या सुकुमारिका नरवरैः कन्या विवाह्या शुभा । इति ।
बुद्धिः परमार्थ-विचारः, लक्षणं स्वीय-भगवल्-लक्ष्मवल्-लक्ष्म, औदार्यं वदान्यत्वं कुलीनत्वादि-महत्त्वं वा, शीलं सुस्वभावः, गुणाः सौकुमार्य-सौरभ्यादयो लज्जादयश् च, तैर् आश्रियत इत्य् आश्रयः, आश्रयणं यस्याम् इति वा । च अपि । कृष्णः सर्व-चित्ताकर्षक-गुणो भगवान् अपि । बुद्ध्यादेर् गणान्तर्गतत्वे\ऽपि पृथग् उक्तिस् तत्-तद्-विशेषाभिप्रायेण । अत एव सदृशीम् । अत्र च चरण-चिह्नादि-लक्षणानां सादृश्यं दक्षिण-वाम-विपर्ययेणेति गम्यते, स्त्री-पुरुषाणां सामुद्रिकादौ तथा प्रशस्तत्वात् । बुद्ध्य्-आदीनां पूर्वोत्तरानुक्रमा-भावः सादृश्ये सर्वेषाम् एव प्राधान्यापेक्षया सम्यग्-युद्ध-हरणादिना उद्वोढुं मनो दधे निश्चिकाय, सदाचिन्तयद् वा । अथ वा—सदृशीं तादृश-बुद्ध्य्-आदिभिर् लक्षणै राधाद्यैकात्मत्वाद् इति भावः । अत एव मनो दधे एतावन्तं कालं मनो\ऽपिदध इति भावः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णश् च सदृशीं भार्याम् इत्य् अत्र च-कारेण पूर्वोक्तं सर्वम् एवाक्षिप्यते । तच् च गृहागतैर् गीयमानत्वादि ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुकुन्दस्य परमानन्द-प्रदस्य भगवत इति तद्-रूपादीनाम् अपि तादृशत्वम् अभिप्रेतम् । रूपं सौन्दर्यम्, वीर्यं पराक्रमः, गुणा विविध-वैदग्ध्यादयः, श्रीः सम्पत्, वीर्यस्य गुणान्तर्गतत्वे\ऽपि पृथग् उक्तिः क्षत्रियत्वेन, तस्य विशेषापेक्षया परमानन्द-प्रदत्वे रूपादीनाम् उत्तरोत्तरस्मात् पूर्व-पूर्वस्याधिक्यम् ऊह्यम् । ता उप समीप एव श्रुत्वा । कुतः? गृहं तस्या पितुर् वा, आगतैः सर्वैर् एव जनैर् गीयमानाः, कविभिर् गीततया निबद्धत्वात् । यद् वा, प्रीत्या मधुर-स्वरेणोच्चैर् वर्ण्यमानाः । सदृशं स्व-तुल्यम्, आत्मनस् तादृशत्वात् ॥२३॥
लक्षणं सामुद्राद्य्-उक्त-सत्-स्त्री-लक्षणम्, औदार्यं वदान्यत्वम्, कुलीनत्वादि-महत्त्वं वा, शीलं सुस्वभावः, गुणाः सौकुमार्य-सौरभ्यादयो लज्जादयश् च, तैर् आश्रियते इत्य् आश्रयाम्, च अपि, कृष्णः सर्व-चित्ताकर्षक-रूप-गुणो भगवान् अपि बुद्ध्य्-आदेर् गुणान्तर्गतत्वे\ऽपि पृथग् उक्तिः पूर्ववत् तत्-तद्-विशेषाभिप्रायेण, अत एव सदृशीं बुद्ध्य्-आदीनां पूर्व-पूर्वस्माद् उत्तरोत्तरस्य सादृश्ये\ऽपेक्षाधिक्येन तत्-तत्-क्रमेण निर्देशः । सम्यग् युद्ध-हरणादिना उद्वोढुं मनो दधे निश्चिकाय, सदाचिन्तयद् इति वा ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीः सम्पत् वीर्यस्य गुणान्तर्गतत्वे\ऽपि पृथग् उक्तिः क्षत्रियात्वेन तस्य विशेषापेक्षया परमानन्द-प्रदत्वे रूपादीनां पूर्व-पूर्वाधिक्यम् ऊह्यां । ता उप समीप एव श्रुत्वा । कथं ? पितुर् गृहम् आगतैः सर्वैर् एव गीयमानाः कविभिर् गीततया निबद्धत्वात् प्रीत्या मधुर-स्वरेणोच्चैर् वर्ण्यमानत्वाच् च सदृशं योग्यम् आत्मनस् तादृशत्वात् ॥२३॥
लक्षणं स्वीय-भगवल्-लक्ष्मवल् लक्ष्मी-लक्ष्म औदार्यं वदान्यत्वं कुलीनत्वादि महत्त्वं वा शीलं सुस्वभावः गुणाः सौकुमार्य-सौरभ्यादयो लज्जादयश् च तैर् आश्रीयत इत्य् आश्रयं । स्त्रीत्वम् आर्षं । तेषाम् आश्रय आश्रयणं यस्याम् इति (वा) च अपि । कृष्णः सर्व-चित्ताकर्षक-गुणो भगवान् अपि बुद्ध्यादेर् गुणान्तर्-गतत्वे\ऽपि पृथग् उक्तिः पूर्ववत् तत्-तद्-विशेषाभिप्रायेण । अत एव सदृशीम् अत्र चरण-चिह्नादि-लक्षणानां सादृश्यं दक्षिण-वाम-विपर्ययेणेति गम्यते स्त्री-पुरुषयोः सामुद्रकादौ तथा प्रशस्तत्वात् बुद्ध्य्-आदीनां पूर्वोत्तरानुक्रमाभावः । सादृश्ये सर्वेषाम् एवाप्राधान्यापेक्षया सम्यक् युद्ध-हरणादिनापि उद्वोढुं मनो दधे निश्चिकाय सदाचिन्तयद् वा । अथवा सदृशीं तादृश-बुद्ध्य्-आदिभिर् लक्षणै राधाद्यैकात्मकत्वाद् इति भावः । अत एव मनो दधे । एतावन्तं कालं मनो\ऽपि न दध इति भावः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सदृशीं स्वरूप-शक्तित्वाद् अत एव मनो दधे । यद् वा, सदृशीं तादृश-बुद्ध्य्-आदिभिर् लक्षणै राधाद्य्-एकात्म-कृतत्वाद् इति भावः ॥२४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कृष्णश् च इत्य्-आदि । सदृशीं भार्याम् इति—यथा श्री-कृष्णः स्वयं भगवान्, तथा सापि स्वयं भगवतीत्य् अर्थः ॥२४॥ (२४-३५)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५२.२५ ॥
बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप । > ततो निवार्य कृष्ण-द्विड् रुक्मी चैद्यम् अमन्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चैद्यम् अमन्यत तस्या वरम् इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बन्धूनां पित्रादीनाम् । ततः कृष्णात् । कृष्ण-द्विट् जन्मान्तरीय-संस्कार-वशेन कृष्ण-विरोधी । इत्य् अर्थ इति—किम् अमन्यत ? इति साकाङ्क्षत्वाद् वरम् इति शेषः कार्य इत्य् आशयः ।
बन्धूनां पित्रादीनाम् अनादरे षष्ठी। एवं मुनीन्द्रेण भीष्मकस्य साधुत्वम् एव दर्शितम् । ततस् तस्मात् कृष्णात्, भगिनी-दानं बन्धून् वा निवार्य । हे नृप ! इति नृपत्वाभिमानेन तम् अनृपं मत्वेति भावः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् अविवाहे हेतुम् आह—बन्धूनाम् इति पित्रादीनां सर्वेषाम्, अनादरे षष्ठी, एवम् अत्र श्री-बादरायणिना श्री-भीष्मकस्य साधुत्वम् एव बोधितम्, तथाग्रे तत्-पुत्र-स्नेह-वशानुगः [भा।पु। १०.५३.७] इत्य् अत्र महामतिः [भा।पु। १०.५३.३४] इत्य्-आदौ च तैर् अपि व्याख्यातम् । ततस् तस्मात् कृष्णाद् भगिनीं तान् बन्धून् वा निवार्य । हे नृप ! इति परमाश्चर्यात् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अञ्जसा विवाहे हेतुम् आह—बन्धूनाम् इति पित्रादीनां सर्वेषाम्, अनादरे षष्ठी । एवं मुनीन्द्रेण भीष्मकस्य साधुत्वम् एव दर्शितं । तथाग्रे पुत्र-स्नेह-वशानुग [भा।पु। १०.५३.७] इत्य् अत्र महामतिर् [भा।पु। १०.५३.३४] इत्य् अत्र च तैर् अपि व्याख्यास्यते । ततस् तस्मात् कृष्णात् भगिनी-दानं तान् बन्धून् वा निवार्य । हे नृप ! इति परमाश्चर्यत्वात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगिनीं कृष्णाय दातुम् इच्छतो बन्धून् पित्रादीन् अनादृत्य स्व-बलाद् एव ततः कृष्णात् तान् निवार्य रुक्मी तां दातुं वरं चैद्यम् अमन्यत इत्य् अन्वयः ॥२५ ॥
॥ १०.५२.२६ ॥
तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् । > विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवेत्य ज्ञात्वा । असितापाङ्गी सुनील-कटाक्षा । कृष्णाय कृष्णम् आनेतुं प्रेषयामास ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् रुक्मि-हार्दम् । आप्तं विश्वस्तम् आप्तः प्राप्ते सत्यवाचि विश्वस्ते चान्य-लिङ्गकः इति निरुक्तिः । कृष्णाय इति चतुर्थी क्रियार्थोपपदस्य च कर्मणि स्तानिनः [पा। २.३.१४] इति सूत्रात् ॥
[तोषणी] असितापाङ्गी इति कातर्येण तन्-मालिन्यातिशय-स्मरणात् । यद् वा, असिते श्री-कृष्णे तद्-वर्त्मनि अपाङ्गं यस्याः सा । अत एव विचिन्त्य लज्जादि-परित्यागेन स्वयम् एव कर्तव्यं, तत्-सहायं च निश्चित्य । यद् वा, "झटित्य् एव भ्रात्र्-आदिभिर् मम दुर्विवाहे निश्चयः कृतः । तत्राद्य-पर्यन्तं तेन तु योगिनापि सर्वं ज्ञात्वापि यद् अनुसन्धानं न कृतं, तत् कुत्राप्य् अन्यत्र तस्य परमासक्तिर् भवेत् । श्रूयते च गोकुले तस्य परम-प्रेयस्यः, अतो निज-जनन्य्-आदिषु तद्-एक-वरणं विना निज-मरणादिकं श्रावितम् अप्य् अकिञ्चित्करम्, किन्तु तस्मिन्न् एव तच्-छ्रावितं कथञ्चित् सिद्धि-करम्, यतस् तेन गुणि-शेखरेण प्रपन्न-जन-मात्र-दुःखासहिष्णुतया स्व-दुःखम् अपि संव्रियते" इति च श्रयते, यथा सैरन्ध्री-प्रसङ्गे । तस्मान् "मया लज्जादिकं परित्यज्य दूतः सन्देशश् च विधेय एव, यदि च तथापि तेन नाङ्गीक्रियेय, तदा प्रथमम् एव प्राणान् जह्याम्["]{दिर्=“र्त्ल्”} इति विचार्य ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् अवेत्य भृशम् अत्यर्थं दुर्माना दुःखित-चित्ता सती । असितापाङ्गी इति परम-वैदग्धी सूचिता, अत एव कञ्चिद् द्विजं पुरोहित-कनिष्ठ-पुत्रम् आप्तं विचिन्त्य विचार्य । यद् वा, "स्वाक्षरैर् ईदृशः पत्रं लिखित्वा इमं प्रस्थापयानि" इति कृत्यं निश्चित्य ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असितापाङ्गी इति कातर्येण तन्-मालिन्यातिशय-स्मरणात् । यद् वा, असिते श्री-कृष्णे तद्-वर्त्मनि अपाङ्गं यस्याः सा । अत एव विचिन्त्य लज्जादि-परित्यागेन स्वयम् एव कर्तव्यं तत्-सहायं च निश्चित्य । यद् वा, "हन्त झटित्य् एव भ्रात्र्-आदिभिर् मम दुर्विवाहे निश्चयः कृतः । तत्राद्य-पर्यन्तं तेन तु योग्येनापि सर्वं ज्ञात्वापि यद् अनुसन्धानं न कृतं, तत् कुत्रापि अन्यत्र तस्य परमासक्तिर् भवेत् । श्रूयन्ते च गोकुले परम-प्रेयस्यः, अतो निज-जनन्य्-आदिषु तद्-एक-वरणं विना निज-मरणादिकं श्रावितम् अप्य् अकिञ्चित्-करं किन्तु तस्मिन्न् एव तत् श्रावितं कथञ्चित् सिद्धि-करं यतस् तेन गुणि-शेखरेण प्रपन्न-जन-मात्र-दुःखासहिष्णुतया स्व-दुःखम् अपि संव्रियत इति च श्रूयते, यथा सैरिन्ध्री-प्रसङ्गे । तस्मान् मया लज्जादि-परित्यागेन योग्यो\ऽसौ दूतः सन्देशश् च विधेय एव । यदि च तथापि तेन नाङ्गीक्रियेय, तदा प्रथमम् एव प्राणान् जह्याम्" इति विचार्य ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णाय कृष्णम् आनेतुम् ॥२६ ॥
॥ १०.५२.२७ ॥
द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः । > अपश्यद् आद्यं पुरुषम् आसीनं काञ्चनासने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतीहारैर् द्वार-पालैः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स रुक्मिणी-प्रेषित-विप्रः ॥ स दूतः । अभि आभिमुख्येनैव, न तु भ्रान्ति-वक्र-गत्या, एत्य प्राप्येति दैवानुकूल्यं दर्शितम्। प्रतीहारैर् इति बहुत्वम् एकैकशः । क्रमेण प्रवेशनेन द्वाराणां बाहुल्येन तेषाम् अपि बाहुल्यात् । प्रकर्षेण स्तुत्य्-आदिना मार्ग-दर्शनेनान्तः प्रवेशितः सन् । आद्यं सर्वाशिनम् । पूरुषं श्री-कृष्णम् इत्य् अर्थः । काञ्चनासन इति श्यामसुन्दरस्याधिक-शोभा सूचिता ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स द्विजः, सम्यङ् निर्विघ्नतया अभितः सर्वतो यादव-वर्ग-गृह-प्राप्ति-क्रमेण एत्य प्राप्य, प्रतिहारैर् इति बहुत्वम् एकैकशः क्रमेण प्रवेशने\ऽपि द्वाराणां बाहुल्यात् तेषाम् अपि बाहुल्यात् । प्रकर्षेण स्तुत्य्-आदिना मार्ग-दर्शनेनान्तः प्रवेशितः सन् । आद्यं श्रेष्ठं पुरुषं श्री-विष्णुम्। किं वा, पुरुषोत्तमं निःशेष-महा-पुरुष-लक्षणैर् युक्तं श्री-कृष्णम् इत्य् अर्थः । काञ्चनासन इति श्यामसुन्दरस्याधिक-शोभा सूचिता ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स द्विजः अभि आभिमुख्येनैव, न तु भ्रान्तिर् वक्र-गत्या एत्य प्राप्येति । दैवानुकूल्यं दर्शितं—प्रतिहारैर् इति । बहुत्वम् एकैकशः क्रमेण प्रवेशने\ऽपि द्वाराणां बाहुल्येन तेषाम् अपि बाहुल्यात् प्रकर्षेण स्तुत्य्-आदिना मार्ग-दर्शनेनान्तर्-वेशितः सन् आद्यं सर्वांशिनं पुरुषं श्री-कृष्णम् इत्य् अर्थः । काञ्चनासन इति श्यामसुन्दरस्याधिक-शोभा सूचिता ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ १०.५२.२८ ॥
दृष्ट्वा ब्रह्मण्य-देवस् तम् अवरुह्य निजासनात् । > उपवेश्यार्हयाञ्चक्रे यथात्मानं दिवौकसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं श्री-कृष्णम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं विप्रम् । अवरुह्य उत्तीर्य । देवा यथा श्री-कृष्णं पूजयन्ति, तथा तं कृष्ण इत्य् अर्थः ॥ दृष्ट्वा दूराद् एवावलोक्य । अर्हणे हेतुः—ब्रह्मण्य-देवः सर्वाराध्यो\ऽपि ब्राह्मण-भक्तः, सौशील्यात् तादृश इत्य् अर्थः । यथा इति दृष्टान्तेन परम-भक्तिं बोधयति ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दृष्ट्वा दूराद् आलोक्यैव, अवरुह्य आसनाद् अवतीर्य, अर्हयाञ्चक्रे पाद-प्रक्षालन-मधुपर्काद्य्-अर्पणादिना अपूजयत्, यतो ब्रह्मण्य-देवः । यथा इति दृष्टान्तेनार्हणे परम-भक्तिं बोधयते ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दृष्ट्वा दूराद् एवालोक्य अर्हणे हेतुः ब्रह्मण्य-देवः सर्वाराध्यो\ऽपि ब्रह्मण्यो ब्राह्मण-भक्तः सौशील्यात् तादृश इत्य् अर्थः । यथा इति दृष्टान्तेन परम-भक्तिं बोधयति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं स्वं यथा देवो अर्हयन्ति ॥२८॥
॥ १०.५२.२९-३० ॥
तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः । > पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत ॥ > कच्चिद् द्विज-वर-श्रेष्ठ धर्मस् ते वृद्ध-सम्मतः । > वर्तते नातिकृच्छ्रेण सन्तुष्ट-मनसः सदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिमृशन् शनैः संमर्दयन् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं विप्रम् । अव्यग्र एक-चित्तः व्यग्रो\ऽनेक-मनो-वृत्तौ [सक्ते\ऽग्र]{।मर्क्}-रहिते\ऽन्यवत् इति धरणिः ॥ अव्यग्रः स्वस्थ-चित्तः सन्न् अपृच्छत् । यतः सतां सद्-धर्माणां गतिः प्रथमाश्रयः ॥२९॥
नातिकृच्छ्रेण सुखेन ॥ द्विज-वरेषु तच्-छ्रेष्ठेष्व् अपि श्रेष्ठः । तादृशत्वे कारणान्य् एवं पादोन-चतुर्भिर् दर्शयंस् तेषां मूलम् आदौ सदय-प्रश्न-पूर्वकं स्थापयति—धर्म इति यज्ञादिः । वृद्धानां प्राचीन-द्वादश-स्वयं [भ्व्-आदि]{।मर्क्}-भक्तानाम् आधुनिकानां स्व-गुरु-प्रभृतीनां संमत इति धर्मस्य तावच् छुद्धता वर्तत एव, किन्तु कृच्छ्रेण नातिकृच्छ्रेण अनतिदुःसंपादत्वेन वर्तत इत्य् एव पृच्छ्यत इत्य् अर्थः । दुःखंअसेद् विना धर्मासिद्ध्या सुखेनेत्य् अनुक्तिः, अतिदुःखस्य चानभीष्टत्वाद् अति-शब्दः, स च वृत्त्य्-आदेः सन्तता\ऽप्राप्यत्वादिकं बोधयति । ननु उद्यमे कृते कथं तत् स्यात् ? तत्राह—सदा प्राप्त्य्-अभावे\ऽपि सन्तुष्ट-मनस इति ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपगम्य समीपे गत्वा, अव्यग्र आतिथ्य-सिद्ध्या अन्य-कृत्य-त्यागेन वा, स्वस्थ-चित्तः सन् सम्यग् विनय-पूर्वक-मधुर-वचनादिनाच्छत्, यतः सतां साधूनां गतिर् आश्रयः ॥२९॥
हे द्विज-वरेषु विप्रेषु श्रेष्ठ ! श्रैष्ठ्य-कारणम् एव चतुर्भिर् दर्शयन् तस्यापि मूलम् आदौ पृच्छति—धर्म इति । वृद्धानां सन्मत इति, धर्मस्यावश्य-कृत्यता श्री-भगवत्-समर्पणादि-गुणाश् चोक्ताः । नातिकृच्छ्रेण अनतिकष्टेन वर्तते सिध्यति, दुःखं विना धर्मासिद्ध्या सुखेन इत्य् अनुक्तिर् दुःखस्य चानभीष्टत्वाद् अति-शब्दः । तच् च सन्तुष्ट्यैव स्याद् इत्य् आशयेनाह—सदा दुःख-काले\ऽपि सन्तुष्ट-मनस इति ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अव्यग्रः आतिथ्यसिद्ध्या\ऽन्य-परित्यागेन वा स्वस्थ-चित्तः सन् अपृच्छत्, यतः सतां सद्-धर्माणां गतिः प्रथमाश्रयः ॥२९॥
द्विज-वरेषु तच्-छ्रेष्ठेष्व् अपि श्रेष्ठः तादृशत्वे कारणान्य् एव पादोन-चतुर्भिर् दर्शयन् । तेषां मूलम् आदौ सदय-प्रश्न-पूर्वकं स्थापयति—धर्म इति यज्ञादिः। वृद्धानां प्राचीन-द्वादश-भागवतानाम् आधुनिक-स्वगुरु-प्रभृतीनां च सम्मत इति धर्मस्य तावत् शुद्धता वर्तत एव किन्तु कच्चित् नातिकृच्छ्रेण अनतिदुःसम्पादत्वेन वर्तत इत्य् एव पृच्छ्यत इत्य् अर्थः । दुःखं विना धर्मासिद्ध्या सुखेन इत्य् अनुक्तिः अतिदुःखस्य चानभीष्टत्वाद् अतिशब्दः । स च वृत्त्य्-आदेः सन्तताप्राप्यत्वादिकं बोधयति । ननु उद्यमे कृते कथं तत् स्यात् ? तत्राह—सदाप्राप्त्य्-अभावे\ऽपि सन्तुष्ट-मनस इति ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिमृशन् संवाहयन् अव्यग्रः तद्-विवाहार्थम् अन्तर्-वैयाग्र्ये सत्य् अपीति भावः ॥२९-३०॥
॥ १०.५२.३१ ॥
सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् । > अहीयमानः स्वाद् धर्मात् स ह्य् अस्याखिल-काम-धुक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स धर्मोऽस्य ब्राह्मणस्य अखिल-काम-दोग्धा भवति । यद् वा, स ब्राह्मणोऽस्य विश्वस्य अखिल-काम-धुग् इति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न हि धर्मो ब्राह्मणस्यैव कामधुग् भवति, अपि तु स्वानुष्ठातृ-मात्रस्येत्य् अरुच्याह—यद् वा इति । यदृच्छा-लाभ-सन्तुष्ट-विप्रार्चा\ऽखिल-काम-धुक् इत्य्-आदि पुराणात् । तत्-स्तुत्य्-अर्थं सन्तोषम् एव स्तौति—सन्तुष्ट इति । यर्हि तर्ह्य् एव अहीयमाने\ऽभ्रश्यत् । हि एव । स एव न त्व् अन्यः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यर्हि तर्ह्य् एव अहीयमानो\ऽभ्रश्यन्न् इति सन्तुष्टेर् एवावश्यकतोक्ता । "यदि" इति पाठे\ऽपि स एवार्थः । हि एव—स एव, न त्व् अन्यः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-स्तुत्य्-अर्थं सन्तोषम् एव स्तौति—सन्तुष्ट इति । यर्हि तर्ह्य् एव अहीयमान अभ्रश्यन् । "यदि" इति पाठे\ऽपि स एवार्थः । हि एव, स एव न त्व् अन्यः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वीय-धर्मात् अहीयमानश् च्युति-रहितः । स धर्म एव ॥३१॥
॥ १०.५२.३२ ॥
असन्तुष्टोऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः । > अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकान् आप्नोति लोकाल् लोकान्तरं पर्यटति नैकत्र निर्वृतस् तिष्ठतीत्य् अर्थः । "नाप्नोति" इति पाठे सुरेश्वरोऽपि भूत्वा लोकान् नाप्नोत्य् उत्तम-लोकान् प्राप्तो\ऽप्य् अप्राप्त इव क्लिश्यतीत्य् अर्थः । शेते सुखम् आस्ते इत्य् अर्थः । तद् एवाह—सर्वेष्व् अङ्गेषु वाक्-पाण्य्-आदिषु विज्वरस् ताप-रहितः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्वृतः सुखी । इत्य् अर्थ इति—लोकान् मनुष्याल् लोकान्तरं मनुष्यान्तरम्, "इतः किञ्चित् प्राप्स्यामि, इतः किञ्चिद्" इतीच्छयेति भावः । लोको जने\ऽपि भुवने इति मेदिनी । सुरेश्वर इन्द्रः । इत्य् अर्थ इति—
इच्छति शती सहस्रं, सहस्रापो लक्षम् ईहते कर्तुम् । > लक्षाधिपश् च राज्यं, राज्येशश् चक्रवर्तित्वम् ॥ > चक्रधरो\ऽपि सुरत्वं, सुरत्व-लाभे तु सुर-पतित्वं हि । > सुरपतिर् ऊर्ध्व-गतित्वं, तथापि न निवर्तते तृष्णा ॥ इति > गरुडोक्तेर् इति भावः ।
इत्य् अर्थ इति—दुःखितस्य निद्रानुपलब्धेर् इति भावः । तद् एव सुखम् ॥ अन्वय व्यतिरेकाभ्यां तद् एव दर्शयति—असन्तुष्ट इति । असकृद् इति पुनः पुनर् अभीष्ट-सिद्धाव् अपि सन्तोषानुदयात् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असकृद् इत्य् अनेन कादाचित्कं सन्तुष्ट्यापि क्षेमं स्याद् इति बोध्यते । किं वा, अस्य परेणान्वयः । अकिञ्चनो दरिद्रः, यतः सन्तुष्ट्यैव सर्वैर् अङ्गैर् ज्वरस्य कम्पादिभिर् इव मनो-वैकल्यादि-लक्षण-सर्वांशैर् विज्वरः—चिन्ता ज्वरो मनुष्याणाम् इत्य्-आदि-न्यायेन चिन्ता-रहितः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्वय-व्यतिरेकाभ्यां तद् एव दर्शयति--असन्तुष्ट इति । असकृद् इति पुनः पुनर् अभीष्ट-सिद्धाव् अपि सन्तोषानुदयात् । ज्वरश् चिन्ता-सन्तापः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वाङ्ग-विज्वर इव निर्वृतस् तिष्ठतीत्य् अर्थः ॥३२॥ (३२-४३)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकान् आप्नोति लोकाल् लोकान्तरं पर्यटति, न तु निवृणोतीत्य् अर्थः । सुरेश्वर इन्द्रोऽपि भूत्वा । "नाप्नोति" इति पाठे तृष्णा-ज्वरार्ति-वशात् लोकान् प्राप्तोऽपि न प्राप्नोतीत्य् अर्थः ॥३२॥
॥ १०.५२.३३ ॥
विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् । > निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-लाभः स्वत एव प्राप्तो लाभ आत्म-लाभो वा, तेन सन्तुष्टान् पूर्णान् साधून् स्व-धर्म-निष्ठान् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वत इति तस्यार्थाश्रयण-गौरवाद् अर्थान्तरम् आह—आत्म- इति । तेन आत्म-लाभेन पूर्णांस् तृप्तान् ॥
एवं सन्तुष्टि-मात्रेण स्वयं सुखी स्यात् तद्-अनुगतैश् चान्यैर् गुणैः सर्वान् सुखयन् परम-पूज्यः स्याद् इत्य् आह—विप्रान् इति । बहुत्वं प्रत्येक-नमस्कार-विवक्षया । शान्तान् राग-द्वेषादि-रहितांस् तत्त्व-निष्ठान् वा । एषाम् उत्तरोत्तरस्मिन् कैमुत्यं श्रैष्ठ्यं चोह्यम् । शिरसा न तु वाङ्-मात्रेण, तच् च असकृत् । यद् वा, स्वस्य मम लाभेन सन्तुष्टान् । तथा चैकादशे—मया सन्तुष्ट-मनसः [भा।पु। ११.१४.१३] इत्य्-आदि । यतः साधुन् मद्-भक्तान्, साधवो हृदयं मह्यम् [भा।पु। ९.४.६८] इत्य्-आदि नवमे । इत्य् एवं विशेषणानां व्यतिक्रमेण हेतुत्वादिकं ज्ञेयम् । अयं भावः—"भवान् ईदृश एव, काप्य् अपेक्षा नास्त्य् एव, तथाप्य् आगमनेन यन् माम् अनुजग्राह, तेनाहं वशीकृतस् त्वद्-आज्ञां यत्नतः संपादयिष्यामि" इति ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सन्तुष्टि-मात्रेण स्वयं सुखी स्यात्, गुणैश् चान्यैः सर्वान् सुखयन् परम-पूज्यः स्याद् इत्य् आह—विप्रान् इति । बहुत्वं तादृशानां सर्वेषाम् अपि नमस्यत्वात् शान्तान् राग-द्वेषादि-रहितान् तत्त्व-निष्ठान् वा, शिरसा, न च वाङ्-मात्रेण, तच् च असकृत् कथञ्चिद् अपराधे\ऽपि तद्-अग्रहणात् । विशेषणानाम् एषां पूर्व-पूर्वस्योत्तरोत्तरस्मिन् हेतुत्वं यथोत्तरं श्रैष्ठ्यं चोह्यम् । अन्यत् तैर् व्याख्यातम् । यद् वा, स्वस्य मम लाभेन सन्तुष्टान् । तथा चैकादश-स्कन्धे\ऽयम् एव वक्ष्यति—मया सन्तुष्ट-मनसः [भा।पु। ११.१४.१३] इत्य्-आदि। यतः साधून् मद्-भक्तान् इत्य् एवं विशेषणानां व्यतिक्रमेण हेतुत्वादिकं ज्ञेयम् ।
अयं भावः—"भवान् ईदृश एव, द्विज-वर-श्रेष्ठत्वात्, अतः कुत्रापि भवतः काप्य् अपेक्षा नास्त्य् एव । तथाप्य् अत्रागमनेन यन् माम् अनुजग्राह, तेन भक्त्याहं वशीकृतस् तवाज्ञां यत्नतो\ऽवश्यम् आशु सम्पादयिष्यामीति । अतः किं वक्तव्यम् ? ईदृशा विप्रा मे प्रियाः" इति ॥३३॥
विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् । > निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सन्तुष्टि-मात्रेण स्वयं सुखी स्यात् तद्-अनुगतैर् गुणैश् चान्यैः सर्वान् सुखयन् परम-पूज्यः स्याद् इत्य् आह—विप्रान् इति । बहुत्वं प्रत्येक-नमस्कार-विवक्षया शान्तान् राग-द्वेषादि-रहितान् तत्त्व-निष्ठान् वा एषाम् उत्तरोत्तरस्मिन् कैमुत्यं श्रैष्ठ्यं वोह्यं, शिरसा न तु वाङ्-मात्रेण, तच् च असकृत् । अन्यत् तैः ।
यद् वा, स्वस्य मम लाभेन सन्तुष्टान् । तथा चैकादशे मया सन्तुष्ट-मनसः [भा।पु। ११.१४.१३] इत्य्-आदि । यतः साधून् सद्-भक्तान् साधवो हृदयं मह्यम् इत्य्-आदि नवमे इत्य् एवं विशेषणानां व्यतिक्रमेण हेतुत्वादिकं ज्ञेयम् । अयं भावः—"भवान् ईदृश एवेति काप्य् अपेक्षा नास्त्य् एव, तथाप्य् आगमनेन यन् माम् अनुजग्राह, तेनाहं वशीकृतस् तवाज्ञां यत्नतः सम्पादयिष्यामि" इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वेनैव सिलोञ्छनादितो यो लाभः, तेनैव तुष्टान्, न तु परतो लोभार्थिनः ॥३३॥
॥ १०.५२.३४ ॥
कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः । > सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य राज्ञो विषये देशे ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नीवृज् जनपदो देशो विषयस् तूपवर्तनम् इत्य् अमरः । स राजा ॥ एवम् अतिकृच्छ्र-साध्यत्वे\ऽपि सन्तोषात् तस्य धर्म-सिद्धिं मत्वापि तद्-विधेष्व् अतिकृच्छ्रस्यानभीष्टतया तद्-उपगम-हेतुं राजानुग्रहं पृच्छति—कच्चिद् इति । कुशलम् उपद्रवो न स्यात्, साहाय्यं च भवेद् इत्य् अर्थः । ब्रह्मन्न् इति वेदवित्त्वेन राज्ञां सर्वथा पूज्यस् त्वम् इति भावः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-परिपालको राजापि प्रिय इति । किं वा, राजभिः पाल्यमानानाम् एव विप्राणां धर्मः सिध्येद् इत्य् आशयेन पृच्छति—कच्चिद् इति । राजतो राज्ञः सकाशात् कुशलं कश्चिद् उपद्रवो न स्यात्, साहाय्यं च भवेद् इत्य् अर्थः । वः इति ज्ञात्य्-आद्य्-अपेक्षया । हे ब्रह्मन्न् इति साक्षाद्-वेद-रूपाणां युष्माकं कुशलेनैव वेदानाम् अपि कुशलम् इति भावः । हि एव, स एव, निश्चितम् इति वा ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अतिकृच्छ्र-साध्यत्वे\ऽपि सन्तोषात् तस्य धर्म-सिद्धिम् एव मत्वापि तद्-विधेष्व् अतिकृच्छ्रस्य स्वानभीष्टतया तद्-उपागम-हेतुं राजानुग्रहं पृच्छति--कच्चिद् इति । कुशलं कश्चिद् उपद्रवो न स्यात्, साहाय्यं च भवेद् इत्य् अर्थः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विषये देशे ॥३४ ॥
॥ १०.५२.३५ ॥
यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्-इच्छया । > सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतः स्थानात् । यद्-इच्छया यत्-कार्येच्छया दुर्गं समुद्रम् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्गं दुःखेन गम्यम्, दुर्गं दुःखाब्धि-राज्याङ्ग-कठिनेषु गिरौ तथा इति निरुक्तिः ॥ अगुह्यं चेत् सर्वं ब्रुहि इति विनयात् । किं करवाम, तद् आज्ञापयेति शेषः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नः इति करवाम इति च बहुत्वं विनयेन श्री-बलरामाद्य्-अपेक्षया । अगुह्यं चेद् इति परम-विनयाद् एव, किं करवाम तद् अप्य् आज्ञापयेत्य् अर्थः । यद् वा, किं करवाम, करिष्यामः किम् ? इति प्रीति-भरेण मनोरथः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अगुह्यं चेत् सर्वं ब्रूहि इति विनयात् किं करवाम, तद् आज्ञापयेति शेषः । यद् वा, करवाम किम् इति प्रीति-भरेण मनोरथः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.५२.३६ ॥
एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना । > लीला-गृहीत-देहेन तस्मै सर्वम् अवर्णयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संप्रश्नः प्रष्टव्योऽर्थो\ऽयं, सः । परमेष्ठिना परेश्वरेण । बन्धूनाम् अनभिप्रेतं रुक्मिणश् चेष्टितम् इत्य्-आदि सर्वम् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मै परमेष्ठिने ।
परमेष्ठी ब्रह्म-विष्णु-शिव-स्वामि-धवेषु च ।
द्विजोत्तमे स्वयम्भूश् च तथैव परिकीर्तितः ॥ इति कोशसारे ॥
परमेष्ठिना इति सर्वज्ञत्वम् उक्तम् । तथापि प्रश्ने हेतुः—लीला- इति । क्रीडार्थं प्रकटित-मनुष्य-देहेन तादृश्या एव मनुष्य-क्रीडाया योग्यत्वाद् इत्य् अर्थः। यद् वा, लीलाभिर् गृहीतः सेवितो देहो यस्य, स्वेच्छया लीलावेशाद् इति भावः । सर्वम् आगमन-कारणं धर्म-निष्पत्त्य्-आदिकं चावर्णयत् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : लीला-गृहीत-देहेन इति लीलया लीला-नाम्न्या देव्या गृहीतः परिष्वक्तो देहो यस्य, तस्मै सर्वम् अवर्णयत् । इति कृष्णाज्ञया ब्राह्मणः स्वयम् एव पत्रिकां पपाठेत्य् अर्थः । अस्यायं भावः—श्री-कृष्णोऽपि तां प्रत्युत्सुक-चेताश् चिरत एव पत्री-वाचने आनन्दाश्रु कदाचिद् भवति, कदाक्षर-सन्दर्शनं भवति, कदाचिद् भवति न वा, ब्राह्मणस् तारल्यं ज्ञास्यति, अतस् तस्मै वाचयेत्य् उक्तवान् ॥३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमेष्ठिना इति सर्वज्ञत्वम् उक्तम् । तथापि प्रश्ने हेतुः—लीला- इति । क्रीडार्थं प्रकटित-मनुष्य-देहेन, तादृश्या एव मनुष्य-क्रीडाया योग्यत्वाद् इत्य् अर्थः । यद् वा, लीलाभिर् गृहीतः सेवितो देहो यस्य, अनेन तस्य क्रीडा-विशेषार्थे श्री-रुक्मिण्य्-अपेक्षा सूचिता । अत एव सं-शब्दो च । एवम् अत्र श्री-ब्राह्मण उवाचेति भक्तव्ये श्री-रुक्मिण्य् उवाचेत्य्-उक्त्या ब्राह्मण एवासौ श्री-रुक्मिण्य्-उक्तं सन्देशं पत्र-पाठेन न्यवेदयद् इति स्वत एव सिध्यतीति तैष् टीकायां लिखितम् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमेष्ठिना इति सर्वज्ञत्वम् उक्तं, तथापि प्रश्ने हेतुः--लीला- इति क्रीडार्थं प्रकटित-मनुष्य-देहेन तादृश्या एव मनुष्य-क्रीडाया योग्यत्वाद् इत्य् अर्थः । यद् वा, लीलाभिर् गृहीतः सेवितो देहो यस्य स्वेच्छया लीलावेशाद् इत्य् अर्थः । अत एव तादृश-लीलाया उपादेयत्वात् सं-शब्दौ च सर्वं स्व-धर्म-निष्पत्त्य्-आदिकम् आगमन-कारणं च अवर्णयत् । साक्षाद् एव तत्र श्री-रुक्मिण्य् उवाच इदम् इत्य् अप्य् आह इत्य् अर्थः । पत्रिका-द्वारेति तु स्वाम्य्-अभिप्रायः स च तस्य ब्राह्मणस्य इत्य् एते गुह्य-सन्देशाः इति वक्ष्यमाणानुसारेण केवल-सन्देश-हरत्वात् रस-शास्त्रोक्तेष्व् अमितार्थ-निसृष्टार्थ-पत्र-हारकाख्येषु स्वेच्छया मिथुनैकतर-दत्त-भावतया तत्-सन्देश-मात्र-वाहितया लब्ध-तत्-तद्-आख्या-क्रमेषु दूत-भेदेष्व् अन्तिम-लक्षण-प्राप्ते व्याख्यानुसारेण तस्य पत्र-हरण एव मुख्यत्वाच् च ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : लीला-गृहीत-देहेन इति । लीला-नाम्न्या देव्या गृहीत आलिङ्गितो देहो यस्य, तस्मै सर्वम् अवर्णयत् । इति कृष्णाज्ञया ब्राह्मणः स्वयम् एव पत्रिकां पपाठेत्य् अर्थः । अयं भावः—कृष्णोऽपि तां प्रत्युत्सुक-चेताश् चिरत एव, तेन पत्री-वाचने आनन्दाश्रुणाक्षर-दर्शनं न स्याद् इति तस्मै वाचयेत्य् उक्तवान् श्री-भगवान् ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्पृष्टः सम्प्रश्नो यस्य स मयि कोऽपि प्रश्नश् चेद् अस्ति पृच्छताम् इत्य् उक्त इत्य् अर्थः । लीलयैव देव्या गृहीतः स्वीयत्वेनाङ्गीकृतो देहो यस्य तेन ॥३६॥
॥ १०.५२.३७ ॥
श्री-रुक्मिण्य् उवाच—
श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते > निर्विश्य कर्ण-विवरैर् हरतोऽङ्ग-तापम् । > रूपं दृशां दृशिमताम् अखिलार्थ-लाभं > त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
रुक्मिण्या स्वयम् एकान्ते लिखित्वा दत्त-पत्रिकाम् ।
मुद्राम् उन्मुच्य कृष्णाय प्रेम-चिह्नाम् अदर्शयत् ॥
ब्राह्मणः श्री-कृष्णानुज्ञया वाचयति—श्रुत्वा इति । अयम् अर्थः—हे अच्युत ! हे भुवन-सुन्दर ! इत्य् औत्सुक्यं द्योतयति, "क्व तव महिमा, क्व चाहं रूप-कुल-शीलादि-युक्तापि ? तथाप्य् अपगता त्रपा यस्मात्, तन् मे चित्तं त्वय्य् आविशत्य् आसज्जते । तत् कुतः ? तत्राह—शृण्वतां कर्ण-विवरैर् अन्तः प्रविश्य अङ्ग-तापम्, अङ्ग इति पृथक् सम्बोधनं वा, हरतस् तव गुणान् श्रुत्वा, तथा दृशिमतां चक्षुष्मतां दृशाम् अखिलार्थ-लाभात्मकं रूपं च श्रुत्वा इति ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुद्रां लाक्षादिना योगम् । उन्मुच्य अपाकृत्य । स्वाशयं प्रकाशयति—अयम् अर्थ इति । यस्माच् चेतसः । तत् चित्तावेशनम् । केवलम् अङ्ग-ताप-हरम् एव, किन्त्व् अन्तस्-ताप-हरम् अपि हरि-गुणानुश्रवणम् इत्य् अस्वारस्याद् आह—अङ्ग इति ॥ रुक्मिण्य् उवाच इत्य् अप्य् आह पत्र-द्वारा इति स्वामि-चरणाः, परन्तु तस्य इत्य् एते गुह्य-सन्देशाः इत्य् उक्तेः केवलं सन्देश-हरत्वम् एव प्रतीयते ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सोऽपि वाचयञ्चकारेत्य् आह—श्रुत्वा इति। हे अङ्ग ! अङ्ग-तापम् इति वा । अपत्रपं चेतस् त्वयि आविशति, तद्-अनुमत्य्-अनपेक्षया विशतीत्य् अपत्रपत्वम् । शृण्वतां कर्ण-विवरैर् निर्विश्य तापं हरतस् ते तव गुणान् श्रुत्वा । हरत इति गुण-विशेषणं वा । आविशति इत्य् अस्यायं भावः—ते गुणाः सर्वेषां तापं हरन्ति, मम तु वर्धयन्त्य् एव । अतस् तव तत्त्वं वेत्तुं त्वयि विशति इति । अतोऽपत्रपं निर्लज्जम् । स्वयं प्रवेशे तथैव योग्यम् । अथवा, त्वत्-प्रवेशे वा शीतलं भवतीति प्रवेशो भवतु, अतो मां प्रति स्वयं-दूतीत्वस्यावज्ञां मा कार्षीः ॥३७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे भुवन-सुन्दर इति आकृत्या प्रकृत्या च सौन्दर्यम् उक्तम् । तत्रादौ प्रकृति-सुन्दरत्वम् आह—गुणान् इति भक्त-वश्यतादीन् । शृण्वताम् इति वर्तमान-निर्देशेन श्रवणे प्रवृत्ति-मात्रेणैव सद्यस् ताप-हरणम् । कर्ण-विवरैर् इति च कर्ण-च्छिद्राणाम् आकाशत्वात् स्वत एव निरन्तर-सम्पूर्ण-सुख-प्रवेशः, तेन च श्रोत्र-सुख-कृत्त्वं मनो-व्यापकत्वं च, तापं संसार-महा-ज्वालां निजाभीष्टासिद्धि-शोकं वा हरतः । वर्तमान-निर्देशेन तेषां तापहरण-शीलत्वं । तथा पश्चात् कदाचित् कथञ्चिज् जातस्यापि तापस्य हरणं बोध्यते । अङ्ग इति प्रेम-सम्बोधने ।
आकृति-सुन्दरत्वम् आह—रूपम् इति । दृशिमताम् इति त्वद्-रूप-दर्शनेनैव चक्षुष्मत्त्वम्, अन्यथा त्व् आन्ध्यम् एवेति भावः । अखिलस्यार्थस्य विविधाश्चर्य-रूप-दर्शनस्य लाभात्मकम् इति दृशां सर्व-रूप-दर्शनस्य तद्-एक-विषयतया अत्यन्तिकत्वेन अभेदोपचारतस् तादात्म्यम् उक्तम् । यद् वा, अखिलार्थानां लाभो यस्मात् तत् । सर्वाश्चर्यमय-तद्-रूप-दर्शनेनैव सर्वाश्चर्य-दर्शन-सिद्धेः । सम्प्लुतोदके क्षुद्राणां जलाशयानां सर्वेषाम् अप्य् अर्थ-सिद्धिवत् । तच् च गीतायाम्—यावान् अर्थ उदपाने सर्वतः संप्लुतोदके [गीता २.४६] इत्य् अत्र श्री-स्वामि-पादादिभिर् विवृतम् एव । रूपस्य पश्चाद् उक्तिः स्तुति-रीत्य्-अपेक्षया, चित्तावेशे तस्य प्राधान्याभिप्रायेण । अत एव च-काराप्रयोगः, प्राधान्यं च व्यक्तम् एव, रूपस्य साक्षाद्-दृष्ट्या स्वत एव सामीप्य-सुसिद्धेः । गुणैर् दूरतो\ऽपि नातिविरुध्येत् । किं च, श्रीमद्-अधराद्य्-अङ्गानां प्रत्येकं तत्-तद्-रस-भोगार्थं गुणतो\ऽपि केषाञ्चित् प्रियतम-जनानाम् अपेक्षा-विशेषाद् इति ।
ननु गुण-रूपोपाधिना चित्तावेशः प्रेम-लक्षण-हान्या न किल सम्यक्, कदाचित् तत्-तद्-उपाध्य्-अभावे चित्तावेश-हानि-दोष-प्रसक्तेः ? तत्राह—हे अच्युत ! इति । कथञ्चित् कदाचिद् अपि गुण-रूपाभ्यां च्युति-रहितः । अत एव श्री-व्रज-देवीभिर् अप्य् उक्तम्—वीक्ष्यालकावृत-मुखम् [भा।पु। १०.२९.३९] इत्य्-आदि । अन्यत् तैर् व्याख्यातम् ।
यद् वा, प्रेमोद्रेकेण परम-दैन्याद् आह—सर्वथा त्वद्-योग्या न भवाम्य् एव, तथाप्य् अपत्रपं सुदुर्लभ-वस्तु-लाभे लज्जा-हीनं सन् मे चित्तं त्वय्य् आविशति । अन्यत् समानम् ।
किं च, गूढो\ऽयम् अर्थः—श्री-रघुनाथावतारे श्री-सीता-रूपाहं त्वया त्यक्तैव । तत् स्मरन्त्या अपि लज्जा-रहितं सत् । तत्र हेतुः—गुणान् रूपं च श्रुत्वा इति, अधुना ततो\ऽप्य् अधिक-तत्-तत्-प्रकटनाद् इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
नौमि श्री-रुक्मिणी-वाणीं स्व-वाणी-वृद्धि-सिद्धये ।
सर्वाकर्षक-नामापि चकृषे स-द्रुतं यया ॥
श्रुत्वा इति तैर् व्याख्यातम् । तत्राच्युतेत्य् अस्य भुवन-सुन्दरेत्य् अस्य च भावः क्वेत्य् आदिः एवं तु पद-द्वयम् इदं यद्यपि दैन्य-प्रतिपादकं, तथापि दैन्यस्याप्य् औत्सुक्य-गर्भत्वाद् औत्सुक्यम् इत्य् उक्तम् । अङ्ग-तापम् इति । मनः प्रवेशे\ऽप्य् अङ्गोद्भवम् अपि तापं हरन्ति, किम् उत मन-उद्भवम् इति भावः । लाभात्मकम् इति । लाभ-लभ्ययोर् अभेदाभिप्रायेण स च लाभस्यावश्यकता-विवक्षयेति ।
यद् वा, परम-कुलीन-कन्यादित्वात् प्रथमतः स्वयं तादृश-सन्देशे प्राप्तां लज्जां सर्वेषाम् एव तद्-गुण-रूप-समाकृष्टता-सामान्येनावृण्वती दुर्वारं भावं व्यञ्जयति—श्रुत्वा इति । हे भुवन-सुन्दर! भुवनेषु परम-वैकुण्ठ-पर्यन्तेषु प्राकृत-लोकेषु प्रकृत्या चाकृत्या च शोभमान सर्वाकर्षक-माधुर्येत्य् अर्थः । तत्रापि हे अच्युत नित्यम् एव तादृश तव प्रकृति-शोभा-भूतानां गुणानाम् आकृति-शोभा-भूतानां रूपाणां च स्वरूपाभिन्नत्वाद् इति भावः । एतद्-विबोधयिषयैव श्रुत्वा गुणान् इति रूपम् इति च गुण-रूपे एवोक्ते, न तु स्वरूपम् अपि तद्वत् पृथग् इति । तद् एवं भुवनसुन्दरादित्वमुत्पत्तित एव तस्याः स्फुरतीत्युन्नेयं लक्ष्मीत्वेन प्राचीन-संस्कार-सम्भवात् श्रवणादि-विशिष्टत्वेनानुक्तत्वात् श्रुत्वा गुणान् इत्य्-आदिना श्रवण-विशिष्टत्वेन तूक्त्य्-अन्तरात् तेन पौनरुक्त्यात् आविशतीत्य् आ-शब्द-स्वारस्याच् च । ततः प्राचीन-संस्कारतो\ऽश्रुते\ऽपि त्वयि मम चित्तं विशत्य् एव श्रुते तु विशेषत इत्य् आह—ते तव गुणान् सर्व-सुखदत्वादीन् तेष्व् एकम् एकम् अपीत्य् अर्थः । रूपं कान्त्य्-अवयव-सौष्ठवं च श्रुत्वा श्रवण-पथ-प्राप्ति-मात्रेण विशेषतो\ऽनुभूय मम चित्तं त्रपा-रहितं सत् त्वयि आ सम्यक् अनुसन्धानान्तर-राहित्येन विशति मग्नं भवति कुलीन-कन्यायास् तावद् असङ्गतं पुरुषं मनसापि प्रवेष्टुं त्रपा जायते । तत्र तु सा त्यक्तैव सम्प्रति साक्षाद् अपि प्रार्थनं क्रियते । अहो सो\ऽयं सर्वाकर्षण-स्वभाव एवेति मम को वा दोष इति भावः ।
ननु स्वमनः संयम्यतां तत्राप्याह—अच्युतेति । त्वम् अपि तस्मात् च्युतो न भवसि कथम् अपि त्यक्तुम् अशक्यत्वाद् इति भावः । तद् एवं त्वय्य् एव निवेदयितुं युक्तम् इति च सर्वाकर्षकता-व्यञ्जक-सर्व-सुखदत्व-पुरस्कृतान् गुणान् एव विशिंषती तद्-एक-रतेः स्वस्याकर्षणादौ कैमुत्यम् आपादयति—शृण्वताम् इति । श्रवणेन्द्रिय-युक्त-मात्राणां तत्रापि श्रोतुं प्रवृत्त-मात्राणाम् इत्य् अर्थः—कर्ण-विवरैर् निर्विश्य तेषां विवरात्मकत्वात् गुणानां च शब्द-वाहनत्वात् पुरुष-प्रयत्नाभावे\ऽपि तद्-द्वारा स्वत एव निःशेषेण प्रविश्य अन्तरम् अवगाह्य ताप-मात्रं हरतः तच्छीलान् इत्य् अर्थः । तान् श्रुत्वा वर्तमानाया मम चित्तं त्वय्य् आविशति । अहो यो\ऽसाव् एक एव तादृशानाम् अनन्तानां गुणानाम् आश्रयः, स एव साक्षाद् एवाश्रयितुं योग्य इत्य् औत्सुक्येन सदा चिन्तयति । तथा मादृशे त्व् अनन्य-रताव् अत्यन्तायुक्तत्वात् कथञ्चिज् जातम् अपि तापं शीघ्रम् एव ते हरिष्यन्तीत्य् आशां च वर्धयतीति स-विशेषो\ऽर्थः । एवं गुणान् इति प्रकृत्या शोभमानता व्यञ्जिता आकृत्या रूपम् इति पूर्ववत्तद् अपि विशिनष्टि-दृशाम् इति । दृग्-इन्द्रिय-मात्र-युक्तानां यादृशस् तादृशस् तासाम् अखिलार्थस्य लाभः सर्व-माधुर्यस्यानुभवो यस्मिन् यद् अन्तर्भूत इत्य् अर्थः ।
अतस् तद्-विना-भूतानाम् आन्ध्य-निर्विशेषतैवेति भावः । तच् च श्रुत्वा तिष्ठन्त्या मम चित्तं त्वय्य् आविशति सदैव साक्षात् अनुभवितुं वाञ्छतीति स-विशेषो\ऽर्थः । रूपस्य पश्चाद् उक्तिः तद् अहो चक्षुर्-मात्र-गम्यम् अपि साक्षाद् इवानुभवामीति क्रमेण निज-भावोत्कर्ष-ज्ञापनाय तथा रूपस्य चक्षुषाप्य् अनुभवः स्याद् इत्य् आधिक्य-ज्ञापनाय च । अत एव गुणानां ताप-हरणत्वम् एवोक्तं, रूपस्य तु अखिलार्थ-लाभत्वम् इति श्रुत्वा गुणान् इत्य् एतावद् उक्त्वा वाक्यम् असमाप्यैव भुवन-सुन्दरेति सम्बोधनम् अत्यन्त-वैवश्येन । एवम् अच्युत इति च अत्र पत्युर् नाम-ग्रहणम् एतादृश-नाम्नो महिम-नामत्वान् न दोषायेति ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सोऽपि स्वयम् एव वाचयामासेत्य् आह—श्रुत्वा इत्य्-आदि । हे अङ्ग ! अङ्ग-तापम् इत्य् एकम् एव पदं वा । अपत्रपं चेतस् त्वयि विशति, तद्-अनुमत्य्-अनपेक्षया विशतीत्य् अपत्रपत्वम् । किं कृत्वा ? शृण्वतां कर्ण-विवरैर् निर्विश्य तापं हरतस् ते तव गुणान् श्रुत्वा । हरत इति गुण-विशेषणं वा । आविशति इत्य् अयं भावः—ते गुणाः सर्वेषां तापं हरन्ति, मम तु वर्धयन्त्य् एव । अतस् तव तत्त्वं वेत्तुं त्वयि विशतीति । तेनैव अपत्रपं च, स्वयं प्रवेशेऽपत्रपत्वं प्रसिद्धम् एव । यद् वा, त्वत्-प्रवेशे सति तापो यास्यतीति कृत्वा विशति। अतो मां प्रति स्वयं-दूतीत्य् अवज्ञां मा कार्षीः । चेतस एवम् एव स्वातन्त्र्यम् इदम्, न तु ममेत्य् अर्थः । न केवलं गुणान् श्रुत्वा रूपं चेत्य् आह—रूपम् इत्य्-आदि सुगमम् ॥३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
रुक्मिण्या स्वयम् एकान्ते लिखित्वा दत्त-पत्रिकां ।
मुद्राम् उन्मुच्य कृष्णाय प्रेम-चिह्नम् अदर्शयत् ॥
ब्राह्मणः श्री-कृष्णाज्ञया वाचयतीति श्री-स्वामि-चरणाः । नन्व् अदृष्टाश्रुत-चरीं नृप-कन्यां त्वां मह्यं वराय पत्रिकां स्व-विवाहार्थं लिखन्तीं निर्लज्जां कथम् अङ्गीकरोमीति चेत् सत्यम् अहम् अपि स्व-दुर्वशस्य स्व-चित्तस्य स्वभावम् एवावेदयामि । तत् श्रुत्वा अपेक्षस्व उपेक्षस्व वा । अनुगृहाण निगृहाण वा । तत्र खलु दुर्लभस्य तव लाभालाभाभ्यां सदा सुखं जीविष्यन्त्या अद्य श्वो वा मरिष्यन्त्या मम न भय-लज्जे इत्य् आह—श्रुत्वा इति सप्तभिः ।
हे अच्युत ! तव गुणान् रूपं च श्रुत्वा मम चित्तम् अपत्रपं विगत-लज्जं सत् त्वयि आविशति इति मच्-चित्तस्य निस्त्रपीकरणे तव गुण-रूपे हेतू, मम च कर्णाव् इत्य् आवयोर् उभयोर् एव दोष इति न त्वयाहम् उपालम्भनीया, नापि मया त्वम् उपालम्भनीय इति भावः । हे अच्युत ! इति मच्-चित्तं निस्त्रपीभूयापि त्वय्य् आविशति । तस्मात् त्वं च्युतो न भवसि, न जाने किम् अपरं चिकीर्षतीति भावः ।
नन्व् अस्यापि पुरुषस्य गुण-रूपे प्रकृष्टे भवत एवेति स किं न दूष्यते ? तत्र मैवं वाच्यम् इति वदन्ती प्रथमं गुणान् विशिनष्टि—शृण्वतां श्रवणवतां कन्या-जनानां कर्ण-विवरैर् निविश्याङ्ग-तापं अङ्गयोः स्थूल-सूक्ष्मयोर् उभयोर् एव तापं समस्तम् एव हरतो नाशयत इत्य् एवं-भूता गुणाः कस्यान्यस्य पुंसो वर्तन्ते, तं वदेति भावः ।
रूपं विशिनष्टि—दृशिमतां चक्षुष्मतां जनानां दृशां दृग्-इन्द्रियाणाम् अखिला अन्यूनाः श्रेष्ठा ये अर्था विषयाः नीलमणि-नीलोत्पलादीनां कनक-कुङ्कुमादीनां पद्मराग-बन्धुकादीनां चन्द्रकान्त-चन्द्रादीनां च ये वर्णा नील-पीत-रक्त-शुक्लाः, तेभ्यः सकाशाद् अपि महा-माधुर्य-सम्बन्धी लाभो यत्र, तत् रूपं त्वदीय-गात्र-रसनाधर-नखादि-सौन्दर्यं । तस्माद् एवं-भूतं रूपं कस्यान्यस्य वर्तते ? इति भावः । अत एवानुरूपं सम्बोधयति—हे भुवन-सुन्दर ! भुवनेषु ऊर्ध्वाधो मध्य-वर्तिषु प्राकृताप्राकृतेषु लोकेषु सुन्दरः, प्राकृत्या चाकृत्या च शोभमानः ॥३७॥
॥ १०.५२.३८ ॥
का त्वा मुकुन्द महती कुल-शील-रूप- > विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् । > धीरा पतिं कुलवती न वृणीत कन्या > काले नृ-सिंह नर-लोक-मनो-\ऽभिरामम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो कुल-कन्यानाम् इदम् अतिधार्ष्ट्यम् इति मा शङ्कीर् इत्य् आह—का त्वा इति । हे मुकुन्द ! हे नृसिंह ! नर-श्रेष्ठ ! का नाम कन्या कुलवती तथा महती पुरु-गुणोदारा तथा धीरा धृतिमती त्वा त्वां पतिं न वृणीत ? मय्य् एव केयं दोष-शङ्का? इति भावः । कथं-भूतम् ? कुल-शीलादिभिर् आत्मना एव तुल्यं निरुपमम् इत्य् अर्थः । द्रविणं द्रव्य-संपत्, धाम प्रभावः, तथा नर-लोकस्य मनसाम् अभिरामोऽभिरमणं यस्मात् तम् । किं च, काले विवाहावसरे ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयम् आशङ्क्य समाधत्ते—अहो इत्य्-आदिना । इदं स्वयम् एव वरान्वेषणादिकम् । अतिधार्ष्ट्यम् अत्यकार्यम् । कुलवती सुकुलोत्पन्ना । पुरु-गुणैर् बहु-गुणैः नीलाम्भोरुह-पत्र-कान्तिर् इत्य्-आद्य्-उक्तैर् उदारा अधिका । धीरा धीरो धैर्यान्विते स्वैरे धीरः स्यात् त्रिषु पण्डिते इति मेदिन्य्-उक्तेर् धीमती धृतिमती च । इति भाव इति—संसृति मुक्ति-दातारं निखिल-गुणैर् नर-श्रेष्ठं निज-जनोक्ति-पालनायातिक्लिष्ट-कारिणं वा का त्रिलोक्य्-अन्तर्-गता स्त्री या न वृणुत इति तात्पर्यम् । इत्य् अर्थ इति—ईश्वरान्तरासम्भवाद् इति भावः । अन्यद् आह—तथा इति । अभिरामो बह्व्-आनन्दः । अत्यानन्दे स्त्री-वृते चाभिरामस् त्व् अतिसुन्दरे इति निरुक्तिः । समये सुभग-प्राप्तिर् दुर्लभेत्य् आह—किं च इति ॥
नन्व् अस्तु मल्-लक्षणः पुरुष एव त्रि-जगत्य् अस्मिन् निरुपमः किं कन्या अपि श्रोत्र-नेत्रवती जगत्य् अस्मिंस् त्वम् एवैकासि यत एवम् अन्या निर्लज्जा ? नेति तत्राह—का इति । हे मुकुन्द मुखे कुन्दवद् धासो यस्येति माम् एव हसितुं प्राप्तावसरेत्य् अर्थः । का महती गुण-रूपवती धीरा बुद्धिमती कुलवती त्वां पतिं न वृणीत ? तेन कुरूपा दुःशीला दुर्बुद्धिर् अनभिजातैव, अशृण्वती वा त्वां न वृणीत इति भावः । कीदृशम् ? कुलादिभिर् आत्मनैव तुल्यम् । काले स्व-समय इत्य् अन्या अपि बह्व्य एव कन्याः स्व-समय एव त्वां वरिष्यन्ति, न त्व् अधुनैव मत्-समय इति भावः । हे नृसिंह ! नरश्रेष्ठ ! हे सिंहवद् दुर्वश ! इति न मे त्वद्-वशीकारे कापीच्छास्तीति भावः । तद् अपि नरलोक-मात्रस्यैव मनो\ऽभिरमयसीति मन्-मनसः को\ऽपराध इति भावः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथवा स्वयं-दूती-भावो\ऽपि नानुचित इत्य् आह—का त्वा इत्य्-आदि । हे मुकुन्द ! का महती महा-कुल-प्रसूता धीरा धैर्य-शालिनी सती त्वां न वृणीत? अपि तु सर्वैव धीरापि स्वयं-दूत्यं करोति, योग्या भवतु न भवतु वा । भवद्-विधा योग्यैव किम् ? नहि नहीत्य् आह—कुल-शीलादिभिर् आत्मना स्वेनैव तुल्यं त्वां प्रति का योग्या कुलादिभिर् आत्मनः सदृशम् इति चेत्, तथा न कापि ? यदि कापि भवति, तदा लक्ष्मीर् एव सा । सैव स्वयम् एव वरीतुं योग्येति गूढो गर्वाभिव्यञ्जकोऽर्थः । तत्रापि काले एतावत्त्वं कालं नैव स्वयं-दूत्यं अकरवम् । अधुना कालः सम्प्राप्तः । मद्-भ्राता चैद्याय दातुम् इच्छति, तस्यानुरोधेन पिता च माता च भवद्-अन्तिकं कम् अपि न प्रहिणोति । अतो मयैव लिखितं इति धार्ष्ट्यं न चिन्त्यम् । एवं चेद् भवद्-भ्रातृ-पक्षीयाः सर्वे राजानः तं कथं अमीभिः सह वैराय समर्थो भविष्यामि ? तत्राह—हे नृसिंह ! नृसिंह-नाम्नैव सर्वे दैत्या नङ्क्ष्यन्तीति भावः । नृसिंहत्वेन चेद् उग्र-रूपोऽस्मि, तदा कथं मां मृगयसे ? तत्राह—नर-लोक-मनोऽभिरामं नरादयो ये लोकाः, तेषां मनोहरम् ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शीलं दयालुत्वं-वदान्यत्वादि । विद्याः—अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः । धर्म-शास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥ इति श्री-विष्णु-पुराणोक्ताः । चतुःषष्टि-कलाश् च तद्वित्तम् इत्य् अर्थः । वयो नित्य-नव-यौवनोद्भेदः, महत्त्वाद् इति विशेषणानाम् उत्तरोत्तरस्य पूर्व-पूर्वस्मिन् हेतुत्वम् । तथा आत्म-तुल्यत्वाद् एव नृसिंह इति, अत एव नरलोकेति यथोत्तरम् एषां हेतुमत्त्वम् ऊह्यम् । तत्र सर्वत्र हेतुः—मुकुन्द इति । तत्र च महतीत्वेनैवात्म-तुल्यस्य पतित्वेन वरणं धीरात्वेनैव, नृसिंहस्य कुलवतीत्वेन च नरलोक-मनो\ऽभिरामस्येति यथाक्रमम् ऊह्यम् । यद् वा, तेषां व्याख्यानुसारेण कुलवतीत्वेन कुलादिभिर् आत्म-तुल्यस्य वरणम् इत्य् एवम् उत्क्रमेण ।
किं वा, त्रयाणाम् अपि तस्या विशेषण-त्रय एव सङ्घशो हेतुत्वम् । नृसिंहत्वेन तत्रापि क्षत्रियत्वेन कुलादीनां यथोत्तरम् अवश्यापेक्ष्यतया तत्-क्रमेण निर्देशः । अत एव श्री-भगवतो\ऽसंख्येषु गुणेषु तत्र च प्रथम-स्कन्धोक्त-श्री-धरणी-विलाप-विख्यात-सत्यादीनाम् एकोनचत्वारिंशत्तमे सत्य् अपि कुलादीनां सप्तानाम् एवात्रोक्तिः । अलंकारोक्तानां नायकस्य त्रयोदश-गुणानाम् अभिप्रायेण, तथा च शृङ्गार-तिलके—
त्यागी कुलीनः कुशलो रतेषु > कल्यः कलावित् तरुणो धनाढ्यः । > भव्यः क्षमी स्थिर-रुचिः सुभगो\ऽभिमानी, > स्त्रीणाम् अतः सुभग-वाग् इह नायकः स्यात् ॥ [१.२३] इति ।
भव्यः सुवेशः, सुभगः सुन्दर इत्य् अर्थः । स्थिर-रुचिः स्थिर-प्रेमा । अत्र च शीलेनैव त्यागित्वं क्षमित्वं स्थिर-रुचित्वं च । विद्यया रति-कुशलत्वं कलावित्त्वं च, रूपेण भव्यत्वं सुभगत्वं च धाम्ना कल्यत्वम् अभिमानित्वं च सङ्गृहीतम् । अन्यत् स्पष्टम् एव ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एतच्-छ्रवणेनान्या हसिष्यन्तीत्य् आशङ्क्य ताः प्रति सेर्ष्यं, तं प्रति स-दैन्यम् आह—का त्वा इति । हे मुकुन्द! सर्वेषां सर्व-दुःख-मुक्ति-पूर्वक-परम-सुखद ! हे नृसिंह! सर्वोर्ध्वानन्त-गुण-रूपत्वात् प्राकृत-सर्व-पुरुष-श्रेष्ठ ! हे स्वभावेनैव तत्-तद्-रूप ! इत्य् अर्थः । तादृशत्वं दुर्ज्ञेयम् इति चेत् प्रकट-लीलया च कुलादिभिर् आत्म-तुल्यम् असमोर्ध्वं । तथा नर-लोक-मनो\ऽभिरामं सर्व-जीव-मनः-सुखदं च का स्त्री स्त्री-जातिः पुरुष-मात्रे लुब्ध-स्वभावा पतित्वेन न वृणीत ? तत्र कन्या कुलवती महती इत्य् उत्तरोत्तरत्वाभावे सति क्रमान् नितरां न वृणीतां नाम स्वायोग्यत्व-मननात् तत्-तद्-भावे\ऽपि धीरा का न वृणीत ? अपि तु दैव-दग्ध-बुद्धिर् एव न वृणीत इत्य् अर्थः
तत्र विवाहावसरे\ऽपीति धीरात्वाभावस्यातिशायिता लज्जायाश् चात्ययोग्यता व्यञ्जिता सर्वनाशापत्तेः । अथवा महती धीरा कुलवती वा का कन्या न वृणीत ? तत्-तद्-अभिमानेन या या न वृणीत, सा सा महत्य्[-]{दिर्=“र्त्ल्”}आदिर् एव न भवतीत्य् अर्थः । विवाहावसरे\ऽपीति तादृश-गौण-काल्यम् आलम्ब्यापीत्य् अर्थः । तत्र कुलं सद्-वंशावतीर्णत्वं, शीलं दयालुत्व-वदान्यत्वादि, वयो नित्य-नव-यौवन-शोभोद्भेदः कुलस्य सर्वाधिक्यम् अत्र सर्वाधिकस्य तव तत्रोदयाद् अवगतम् एव, अहो अलं श्लाघ्यतमं यदोः कुलम् [भा।पु। १.१०.२६] []{दिर्=“र्त्ल्”}इतिवद् इति भावः । सप्तानां कुलादि-मात्राणाम् उक्तिः प्रेयसी-भाव-योग्यत्वात् । एवम् अन्ये\ऽप्य् एषाम् अन्तर्भावेण ज्ञेयाः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (लोचन-रोचनी १४.४९): का त्वा मुकुन्द इति । अस्तु तावन् ममानन्य-गतेर् वार्ता, परापि का इति त्वद्-गुणानां सर्वासाम् अप्य् आकर्षणे सामर्थ्य् इति स्व-धार्ष्ट्य-दोषः परित्याजितः ॥३८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, महा-कुल-कुमारी भूत्वा कथम् इदं स्वयं दूती-भावेन धार्ष्ट्यम् आचरसीत्य् आशङ्क्याह—का त्वा इत्य्-आदि । हे मुकुन्द! का वा कुलवती कन्या त्वां पतिं न वृणीते ? अपि तु सर्वैव, तेन येऽयं न दोषः ।
ननु, क्षुद्रैव तथा करोति ? नैव, महती च ? ननु चञ्चलैव सा ? नाप्य् एवं, धीरा। कीदृशं त्वाम् ? कुल-शीलादिभिर् आत्म-तुल्यं स्व-सदृशं स्वोपमम् । अथवा, कन्या-सम्बन्धिभिर् एव कुलादिभिः स्व-सदृशं कन्या-सदृशम् । काले कालं प्राप्य यथा-समयम् । अधुना मे तथैव समयो जातः । यत्र स्वयं-दौत्यम् एव शोभत इति भावः । हे नृसिंह ! पुरुष-सिंह ! नर-लोक-मनोऽभिरामं नर-लोकानां मनोऽभिर् आमं यस्मात् ॥३८॥
विष्णुदासः : का त्वा मुकुन्द इति । श्री-रुक्मिणी-देव्याः ब्राह्मण-द्वारा श्री-कृष्ण-सन्देशः । हे मुकुन्द ! त्वां का कन्या, तत्रापि कुलवती, तत्रापि महती सौशील्यादि-गुण-गणोदारा, तत्रापि धीरा बुद्धिमती काले निज-पाणि-ग्रहण-समये न वृणीत ? अपि तु सर्वा एव वृण्वते इत्य् अर्थः । एवं सर्वासाम् अपि वरणीयार्हत्वम् अस्य निर्णीय स्वस्य स्वयम् उपेत्य वरणार्थोद्यमे चापलादि-दोषः परिहृतः । किम्भूतम् ? कुल-शीलादिभिर् आत्मन एव तुल्यं निरुपमम् । पुनः किम्भूतम् ? नर-लोकस्य जीव-मात्रस्य मनसाम् अभिरामं, अभिरमणं यस्मात् त्वम् । पूर्वं तस्य पूतनाघादीनाम् अपि मुक्तिदत्त्व-गुण-स्मरणान् मुकुन्द इति सम्बोध्य, सम्प्रति तस्य गोवर्धनोद्धरणादिना निज-भक्त-प्रीणनादि-पौरुषं स्मृत्वा सम्बोधयति—नृसिंह ! हे पुरुष-श्रेष्ठ ! ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अस्तु मल्-लक्षणः पुरुष एव त्रिजगत्य् अस्मिन् निरुपमः । किं कन्यापि श्रोत्र-नेत्रवती जगत्य् अस्मिंस् त्वम् एवैका वर्तसे, यत एवम् अन्या न निर्लज्जावतीति ? तत्राह—का त्वा इति । हे मुकुन्द ! मुखे कुन्दवद् धासो यस्येति माम् एव हसितुं प्राप्तावसरेत्य् अर्थः । का महती रूप-गुणवती धीरा बुद्धिमती कुलवती त्वां पतिं न वृणीत । तेन कुरूपा दुःशीला कुबुद्धिर् अनभिजातैव अशृण्वती वा त्वां न वृणीते इति भावः । कीदृशं ? कुलादिभिर् आत्मनैव तुल्यं निरुपमम् इत्य् अर्थः । काले स्व-समये इति अन्या अपि मत्-तुल्याः बह्व्य एव कन्या स्व-समये एव त्वां करिष्यन्ति, न त्व् अधुनैव मत्-समय इति भावः । हे नृसिंह ! नर-श्रेष्ठ ! हे सिंहवद् दुर्वशेति न मे त्वद्-वशीकारे कापीच्छास्तीति भावः । तद् अपि नर-लोक-मात्रस्येव त्वं मनोऽभिरमयसि इति मन्-मनसः कोऽपराधः ? इति भावः ॥३८॥
विश्वनाथ-चक्रवर्ती- [उ।नी। १४.४९] श्री-रुक्मिणी श्री-कृष्णं प्रति सन्देश-पत्रीं लिखति—अस्तु तावद् ममानन्य-गतेर् वार्ता, परा च का त्वा इत्य् आदि । किन्तु महती धीरा यदि स्याद् इत्य् अर्थः । काले स्व-परिणय-समये आत्मना स्वेनैव तुल्यं निरुपमम् इत्य् अर्थः । हे नृसिंह ! का न वृणीत इत्य् अतस् त्वद्-गुणानां सर्वोत्कर्षकत्वान् ममेदं धार्ष्ट्यं न चिन्तनीयम् इति रतिर् आत्मनो व्यानञ्ज ॥३८॥
॥ १०.५२.३९ ॥
तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् > आत्मार्पितश् च भवतोऽत्र विभो विधेहि । > मा वीर-भागम् अभिमर्शतु चैद्य आराद् > गोमायुवन् मृग-पतेर् बलिम् अम्बुजाक्ष ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे विभो, तस्मान् मे मया भवान् खलु पतिर् वृतः, आत्मा च भवतोऽर्पितः, अतस् त्वम् अत्रागत्य मां भवतो जायां विधेहि । विपक्षे बाधकं द्योतयन्त्य् आह—मा वीर-भागम् इति । वीरस्य तव भागं माम् आराच् छीघ्रम् एत्य आगत्य चैद्यो माभिमर्शतु, मा स्पृशतु । मृग-पतेर् बलिं गोमायुवत् गोमायुः सृगाल इवेति ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाभिमत-ज्ञापने सामर्थ्यं द्योतयन्त्य् आह—हे विभो ! अन्तर्यामिन् ! इत्य् अर्थः । यतो\ऽखिल-गुणैर् वरीतुम् अर्हो\ऽसि । तस्माद् धेतोः । भवतो\ऽत्र इति व्यवहितानन्तरयोर् अपि छन्दसि सम्बन्धाभ्युपगतत्वेन इहात्र भवत इति वैपरीत्येन योज्यम् । अत्र भवतः सर्व-पूज्यस्येत्य् अर्थः । अत्र भवत इत्य् अपि विपरिणमय्य तुभ्यम् इत्य् अर्थः । अपितो दत्त इति ।
अयोग्यं दातुम् उद्युक्ते पित्रादौ कन्यका स्वयं । > योग्यं पतिं प्रवृण्वीत न च सा दोष-भागिनी ॥ इति वारतान्तविः ।
यतस् तुभ्यम् अर्पितो\ऽति हेतोः । अत्र भवतः पूज्यस्यात्मनः । इत्थम् अकरणे\ऽयोग्यताम् आह—विपक्ष इति । वीरस्य प्रसिद्ध-शौर्यस्य । भागम् अर्धाङ्गम् अर्धो वा एषः यत्-पत्नी [तैत्तिरीय-संहिता, ६.१.८.५] इति श्रुतेः । मृग्यन्ते व्याधैर् इति मृगाः शश-शृगालादयस् तान् मृगान् पातयति भक्षणार्थं मारयतीति मृगपतिः सिंहः । गां विकृतां वाचं मिनोति क्षिपतीति गोमायुः भूरिमाय-गोमायु-मृगधूर्तकाः इत्य् अमरः । एवम् अन्य-गतेर् अपि स्त्रियाश् चेन् मम त्व् अनन्य-गतेर् महान् एवोभव-लोक-नाश आपतितः, कदाचिद् ईश्वरो\ऽसौ नाप्य् अवधानं कुर्याद् इति । किं वा—लज्जयेति व्याकुला सत्य् उत्तरोत्तरं क्रिया-त्रयेण स्पष्टम् एवाह—तद् इति । हे अङ्ग, हे विभो इति मुहुः सम्बोधनं दैन्येन । आत्मा देह-स्वाम्य् एव किम् उत देह इत्य् अर्थः । भवत इति सम्प्रदानता-प्राप्ताव् अपि शेषे षष्ठी । नित्यत्व-दयित्वाभिमानेनात्यन्त-दानासम्भवात् । अत्र सति भवतो जायां मां विधेहि, यथेच्छसि तथा कुर्व् इति । न च किञ्चिद् अशक्यम् इत्य् आह—हे विभो सर्व-सामर्थ्य-युक्त ! इति । वीरेति—अन्यथा तव वीर्य-हानि-प्रसक्तिर् इति भावः । अत्र टीकायाम् एत्य आगत्य इत्य् उत्तर-श्लोक-गतस्य टीका प्रथम-लेखक-भ्रमाल् लिखितेति लक्ष्यते मूलाभावात् । अत आरात् समीपे वर्तमानश् चैद्य इत्य् आगमन-शैघ्र्याय । अन्यथा ते लज्जापि स्याद् इति दृष्टान्तेनाह—गोमायुवद् इति । हे अम्बुजाक्ष ! इति सतत-तत्-सौन्दर्य-स्फुरण-स्वाभाव्यात् स्व-दृष्ट्या मम तापं शमयेति विवक्षतश् च ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : योग्यास् तावत् पतित्वेन मां वृणन्तु नाम, कथं ? अयोग्या भवद्-विधाः ? तत्राह—तन् मे भवान् इत्य्-आदि । हे अम्बुजाक्ष श्री-कृष्ण ! मे मया भवान् खलु पतिर् वृतो व्रियस इति न, भूत एव भवतो भवते आत्मा चार्पित एव, अद्यार्प्यत इति न । कुत इदं निगद्यते ? तत्राह—अहं जाया तव पत्नी, मा लक्ष्मीः । हे विभो ! अत्र तद् विधेहि, तद् इति लक्ष्म्या जायाया यद् उचितं ।
ननु लक्ष्मीश् चेद् भवती, तदा कथं इदं वैयग्र्यम् ? तत्राह—मा वीर इत्य्-आदि । एष मद्-भ्राता तथा न जानाति, न त्व् अन्यथैव चिकीर्षति । तन् मा भूद् इति वैयग्र्यम् । यद्यपि तन् नैव सम्भावि, तथापि श्रुति-कटुत्वाद् असह्यम् इति भावः । एवं लक्ष्मीत्वेन स्व-गर्वम् उक्त्वा पश्चाद् विचारितम् ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : खलु निश्चितम्, अनन्य-गतित्वात्, पुनर् अप्य् अङ्ग इति वैयग्र्यात्, न चान्य-देह-सम्बन्ध-मात्रेण, किन्तु परमार्थतश् चेत्य् आह—आत्मा इति देही । भवत इति चतुर्थ्यां षष्ठी नित्य-तदीयत्वाभिप्रायेण । यद् वा, भवत एवात्मायपितश् च मयार्थात् तुभ्यम् एव । न च तव किञ्चिद् अशक्यम् इत्य् आह—विभो ! हे सर्व-सामर्थ्य-युक्त ! इति । वीर इति—अन्यथा तव वीर्य-हानि-प्रसक्तिर् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, हे वीर ! भवत इत्य् अनुवर्तत एव । यद् वा, तस्यात्रैव सम्बन्धः । भवतो भागम् । आराद् इति तैर् व्याख्यातम् । तत्र एत्य इत्य् अधिकं लेखक-भ्रमाद् इति । यद् वा, समीपे वर्तमानश् चैद्य इति जाया-विधाने शैघ्र्यम् अभिप्रेतम् । अन्यथा तेन लज्जापि स्याद् इति दृष्टान्तेनाह—गोमायुवद् इति । अस्य च भागस्य भवान् एव योग्यः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अन्य-गतेर् अपि स्त्रियाश् चेन् मम त्व् अनन्य-गतेर् महान् एवोभय-लोक-नाश आपतितः कदाचिद् ईश्वरो\ऽसौ नाप्य् अवधानं कुर्याद् इति । []{दिर्=“र्त्ल्”}किं वा, लज्जयेति व्याकुला सत्य् उत्तरोत्तरं क्रिया-त्रयेण स्पष्टम् एवाह—तद् इति । अङ्ग हे विभो! इति मुहुः सम्बोधनं दैत्यन आत्मा देह-स्वाम्य् एव । किम् उत देह इत्य् अर्थः । भवत इति सम्प्रदानता-प्राप्ताव् अपि शेषे षष्ठी नित्य-तदीयत्वाभिप्रायेणात्यन्त-दानासम्भवात् । अत्र सति भवतो जायां मां विधेहि यथेच्छसि तथा कुर्व् इति । []{दिर्=“र्त्ल्”}न च किञ्चिद् अशक्यम् इत्य् आह—हे विभो ! सर्व-सामर्थ्य-युक्तेति । वीर इति । अन्यथा तव वीर्य-हानि-प्रसक्तिर् इति भावः । टीकायाम् आराद् इति यस्मान् निकटं आगच्छन्न् आस्ते तस्माच् छीघ्रम् आगत्य इत्य् अर्थः । इत्य् आगमने शैघ्र्याय अन्यथा ते लज्जापि स्याद् इति दृष्टान्तेनाह—गोमायुवद् इति । हे अम्बुजाक्ष इति सन्तत-तत्-सौन्दर्य-स्फुरण-स्वाभाव्यात् स्व-दृष्ट्या मम तापं शमयेति विवक्षातश् च ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु योग्यास् तावन् मां स्वयं-दौत्येन वृण्वन्तु नाम, कथम् अयोग्या भवती तथा करोति ? इत्य् आशङ्क्याह—तन् मे वृत इत्य्-आदि। हे अम्बुजाक्ष श्री-कृष्ण मे मया त्वं पतिर् वृत एव । अद्य व्रियसे इति न, भवतो भवते आत्मा चार्पित एव, अद्यार्पित इति न ।
ननु कुत इदं निगद्यते ? इत्य् आशङ्क्याह—जाया तव पत्नी मा लक्ष्मीर् अहम् इति भावः । अहम् इत्य् अध्याहार्यम् । हे विभो ! अत्र वचसि तद् विधेहि, तद् उचितं यद् भवति तद् इत्य् अर्थः । किं तद् उचितम् ? इत्य् अपेक्षायाम् आह—मा वीर-भाग इत्य्-आदि । वीरस्य तव भाग-रूपां मां चैद्य आरान् निकटे माभिमर्शतु, मा स्पृशतु । मृगपतेर् बलिं गोमायुवद् इति । यद्यप्य् असम्भाव्यम् इदम्, तथापि श्रुति-कटुत्वेनासह्यम् इति कृत्वा मम वैयग्र्यम् । तेन स्वयम् एव दूतः प्रेषित इत्य् अर्थः ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् एवं तत् तस्मात् मया भवान् पतिर् वृतः प्रथमम् एव, न त्व् अधुना व्रियसे, आत्मा जीवो देहश् च अर्पितः । पत्री-प्रेषणं तु भवन्-मनो-निर्धार-ज्ञापनार्थम् एव भवतोऽङ्गीकारे सति इमं पालयामि । अनङ्गीकारे तु ज्वालयामि, न तु कस्मैचिद् अपि ददामि, यदि स्वयं ब्रह्माप्य् आगत्य स्वयं वदेद् इति भावः । किन्त्व् आत्म-निवेदनम् इदं मे बलि-राजवन् न निर्भावम् एव न, किन्तु स्वभावम् एवेत्य् आह—हे विभो, भवतो जायां विधेहि । यथा कश्चित् कस्मैचित् किम् अपि भोज्यं दत्त्वा इदं त्वया स्वयं भोक्तव्यम् एवेति ब्रूते इत्य् अतो निर्भावात् स्वभावम् आत्म-निवेदनं प्रेम-स्पर्शित्वाच् छ्रेष्ठम् इति ज्ञेयम् । किं च, स्वस्याङ्गीकारम् अनङ्गीकारं वा ब्राह्मणं शीघ्रं प्रेष्याहं ज्ञापनीयेत्य् आह—मा इति । वीरस्य तव भागम् इमं चैद्यो माभिमर्शतु । मयि त्वद्-आशया देहम् इमम् अदहन्त्याम् अकस्मात् चैद्य आगत्य यदि स्पृशेत्, तत्-क्षण एव त्वद्-आशायां निवृत्तायां त्वद्-विरहाग्निर् एवाति प्रज्वलित एनं भस्मीभूतं कुर्याद् एव । किन्तु तवाप्रतिष्ठा भाविनीति मे भयम् इति भावः । अप्रतिष्ठाम् एवाह—मृगपतेर् बलिं गोमायुः शृगाल इव इति । अम्बुजाक्ष इति तदानीं त्वन्-नयन-कमलं ध्यायन्त्या मम तु देहे दह्यमानेऽपि न तापो भावीति भावः ॥३९॥
॥ १०.५२.४० ॥
पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र- > गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः । > आराधितो यदि गदाग्रज एत्य पाणिं > गृह्णातु मे न दमघोष-सुतादयोऽन्ये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेक-जन्म-कृतैः सुकृतैर् इदम् एव भूयाद् इति प्रार्थयते—पूर्त- इति । पूर्तं कूपादि । इष्टम् अग्नि-होत्रादि । दत्तं हिरण्यादि-दानम् । नियमस् तीर्थाटनादिः । व्रतं कृच्छ्रादि ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाभिमतम् आह—अनेक- इत्य्-आदिना । आदिना सत्-सङ्ग-ग्रहः । अग्रे जयतीत्य् अग्रज्[आ]{।मर्क्}, गदा अग्रजा यस्य स तथेत्य् अनेन सायुधागमनम् उक्तम् । आदिना जरासन्धादि-ग्रहः ॥ अये महा-दुर्लभ-पुरुष त्वं नैक-जन्म-सुकृत-लभ्यः, तस्मात् सामान्यतस् त्वत्-प्राप्ति-कामनया निष्कामया वा पूर्व-पूर्व-जन्मसु यदि मया बहूनि सुकृतानि कृतानि, तदा तेषाम् एव फल-विशेष एव भूयाद् इति प्रार्थयते—पूर्त इति । पूर्तेष्ट-दत्तैर् भगवत्-सम्प्रदानकैः नियमैस् तीर्थ-स्नानादिभिः, व्रतैर् एकादश्य्-आदिभिः, देव-विप्र-गुर्व्-अर्चनैर् भगवद्-अर्चनाङ्गै[र्]{।मर्क्} यदा मया भगवान् अलम् अतिशयेन आराधितः, तदा मानुष्या मे मानुष एव भगवान् गदाग्रज आगत्य पाणिं गृह्णातु, न त्व् अन्ये नारायणादयो\ऽपि देवा मानुषा वेत्य् अर्थः । दमघोषस्य [तत्रादित्वनोल्लेखस्]{।मर्क्} तु तद्-विवाहस्य प्रस्तुतत्वाद् एव ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : असौ स्वजन-गर्वासहिष्णुस् तत् कथमिदं लिखितम् ? इत्य् आशङ्क्य तद्-दोषं परिहाराय पुनर् लिखितं वाचयति—पूर्ते इत्य्-आदि । पूर्वत्रौत्सुक्यं, ततो गर्वः, ततो दैन्यं । एते पूर्व-रागस्य व्यभिचारि-भावाः ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदि-शब्दाद् द्वादश-यमादयः, पूर्ताद्य्-अर्पणेनेत्य् अर्थः । यद् वा, पूर्तादिभिर् अर्पितैः, आदि-शब्दात् साक्षात् तच्-छ्रवणादिभिश् च, पूर्तादीनां यथोत्तरम् आराधने श्रैष्ठ्यम् । भगवान् श्री-नारायणः, अलम् अत्यर्थं यद्य् आराधितः, तर्हि । ननु परम-दुर्घटम् इदं कथं सिध्यतु? तत्राह—-परेशः, कर्तुम् अकर्तुम् अन्यथाकर्तुं च समर्थ इत्य् अर्थः । गदाग्रज इति पतित्वेन साक्षान् नाम-ग्रहणायोग्यत्वात्, अग्रजत्वेन गौरव-सिद्ध्या लोके तथैव व्यवहाराच् च, इति बहिर्-दृष्ट्या । किं वा, प्रेम-विशेषेण परमेश्वरतानपेक्षया भगवद्-गदाग्रजयोर् भेदोक्तिः । यद् वा, भवान् इत्य् अनुवर्तत एव, गदाग्रजो भवान् । किं वा, गदाग्रजतया यद्य् आराधितः, तर्हि पाणिं गृह्णातु भवान्, तत्र च लक्ष्मी-रूपाया मम पाणि-ग्रहणं तव योग्यम् एवेति सूचयति । परा लक्ष्मीस् तद् ईश इति विशेषतश् चाधुनावश्यम् एवार्हसि इत्य् अभिप्रायेणाह—भगवान् सर्वैश्वर्य-प्रकटन-पर इति । त्वत्तो\ऽन्ये ये केचिन् मनुष्या देवास् त्वद्-अंशा वा, तत्र दमघोष-सुतस्य आदित्वं तद्-विवाहस्य प्रस्तुतत्वात् । तत्र च दमं निज-दान्तत्वं घोषयतीति दमघोष इति कापट्यादिकं सूचितम् । तच् च गोमन्ते जरासन्ध-निर्जयानन्तरं रथानयनादिना श्री-हरि-वंशे सुव्यक्तम् एव । तत्-सुतत्वेनास्यापि तादृशत्वम् अभिप्रेतम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, निजाशेष-सत्कर्म-वर्ग-फलं त्वद्-भार्यात्वम् एवेच्छामि, न च त्वय्य् अन्यत् किम् अपीत्य् आह—पूर्त- इति । इष्टं होमादि । नियमस् तीर्थ-स्नानादि-निष्ठा । अन्यत् समानम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एतन् महत्-पुण्येनैव लभ्यत इत्य् आशङ्क्य अनादि-जन्म-परम्परा-पुण्यानि च तद्-अर्थम् एव सङ्कल्पयन्ती सन्देश-मध्ये तद् अपि वैयग्र्येण निक्षिपति—पूर्त- इति । पूर्तादिभिर् अपि तैः । आदि-शब्दात् साक्षाच् छ्रवणादिभिश् च पूर्तादीनां यथोत्तरम् आराधने श्रैष्ठ्यं । भगवान् श्री-नारायणः, अलम् अत्यर्थं यद्य् आराधितः, तर्हि । ननु परम-दुर्घटम् इदं कथं सिध्यतु ? तत्राह—परेशः कार्तुम् अकर्तुम् अन्यथा कर्तुं च समर्थः । त्वत्तो\ऽन्ये ये केचिन् मनुष्या देवास् त्वद्-अंशा वा, न तु दमघोष-सुतस्य । आदित्वं तद्-विवाहस्य प्रस्तुतत्वात् यदीति निश्चये एव ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं लक्ष्मीत्वेन आत्मानं प्रतिपाद्य पुनर् विचारितम्—अहो असौ स्वजन-गर्वासहनः । तद् इदं न समीचीनं लिखितम् इति तद्-दोष-परिहारार्थं पुनः स-विनयं यल् लिखितं, तद् वाचयति—पूर्तेष्ट-दत्त- इत्य्-आदि । पूर्तं खातादि । इष्टं यज्ञः । दत्तं दानम् । तद्-आदिभिर् यद्य् अलम् इत्य् अर्थः। परेशो भगवान् आराधितः, तदा गदाग्रजः श्री-कृष्ण एत्य मे मम पाणिं गृह्णातु । यद् वा, पूर्तेष्टादिभिर् अलं पर्याप्तम् एतेषां नेदं फलम् । यदि परेशो भगवान् गदाग्रजः श्री-कृष्ण आराधितः श्री-रूपया मया आराधितः । तदा एत्य पाणिं गृह्णातु । अन्यथा पूर्तादीनां किम् ईदृशं सामर्थ्यम् यद् एवं-विधं फलं जनयिष्यति ? नैवेत्य् अर्थः । अतो न दमघोष-सुतादयोऽन्ये । ते तुच्छाः । किं मृगपतेर् बलिं गोमायुवत् हरन्तीति पूर्वोक्ति-स्वरसः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अये महा-दुर्लभ-पुरुष ! त्वं नैक-जन्म-सुकृत-लभ्यः, तस्मात् सामान्यतस् त्वत्-प्राप्ति-कामया निष्कामया वा यदि मया पूर्व-पूर्व-जन्मसु बहूनि सुकृतानि कृतानि, तदा तेषाम् एष एव फल-विशेषो भूयाद् इति प्रार्थयते—पूर्त- इति । पूर्तैर् दत्तैर् भगवत्-सम्प्रदानकैर् नियमैस् तीर्थ-स्नानादिभिर् व्रतैर् एकादश्यादिभिर् देव-विप्र-गुर्व्-अर्चनाङ्गैर् यदि मया भगवान् अलम् अतिशयेन आराधितः, तदा मानुष्या मे मानुष एव भगवान् गदाग्रज आगत्य पाणिं गृह्णातु, न त्व् अन्ये नारायणादयोऽपि देवा मानुषा वेत्य् अर्थः । दमघोष-सुतस्य तत्रादित्वेनोल्लेखस् तु तद्-विवाहस्य प्रस्तुतत्वाद् एव ॥४०॥
॥ १०.५२.४१ ॥
श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् > गुप्तः समेत्य पृतना-पतिभिः परीतः । > निर्मथ्य चैद्य-मगधेन्द्र-बलं प्रसह्य > मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु चैद्याय बन्धुभिर् अर्पितायां त्वयि किम् अधुना करणीयम् इत्य् अपेक्षायाम् आह—श्वो भाविनि इति । हे अजित, श्वो भाविनि उद्वहने विवाहे प्रथमं गुप्तोऽलक्षित एव आगत्य पश्चात् पृतना-पतिभिः परिवृतः संश् चैद्यादि-बलं निर्मथ्य प्रसह्य बलाद् वीर्यं प्रभाव-दर्शनम् एव शुल्कं वैवाहिकं देयं यस्यास् तां माम् । अनेन राक्षस-विधिनोद्वह इत्य् उपदेश-रहस्यम् ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विवाहार्थम् आगत-बहु-राजसु पाणि-ग्रहा\ऽसंभव-सन्देहापनोदार्थम् आह—चैद्याय इत्य्-आदिना । श्वो-भाविनि इति—श्वः प्रभाते विवाहो भविष्यतीति विचार्य ततो\ऽग्र एवागत्येत्य् अर्थः । विवाहार्थं देयं वैवाहिक-देयम् । अनेन मद्-उक्तेन ।
निजातिवैयग्र्येण स्वयम् एवोपायम् अप्य् उपदिशति द्वाभ्याम्—श्व इति । गुप्तः ख्यापितैर् नाम-देश-भाषान्तरैः केनाप्य् अनुपलक्षितः । सम्यग् एत्य अन्तः प्रविश्येत्य् अर्थः । पृतनानां पतिभिर् इति सैन्यस्य तत्-पतीनां [ध]{।मर्क्} बाहुल्यम् अभिप्रेतं, तच् च स्नेह-स्वाभाव्येन । तत्र तु, हे अजित ! इति एतादृश-प्रेरण-साहसे हेतुर् उक्तः । तत्र मगधेश-बलस्यापि निर्मथनं चैद्य-सहायत्वात् । निर्मथ्य इति बलस्य समुद्रत्वं ध्वन्यते । तेन च यथा पूर्वं समुद्धृतवन् असि तथा\ऽद्यापि चैद्यादि-बलार्णवम् उन्मथ्य माम् उद्धरेति । वीर्य-शुल्काम् इति राक्षस-विवाहस्यैव योग्यता, प्रार्थनादि-निरपेक्षता चोक्ता ॥ कार्य-सिद्धिस् त्व् अजितत्वाद् एव भविष्यतीति ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् एत्य अन्तः प्रविश्येत्य् अर्थः । पृतना-पतिभिः श्री-बलदेव-गदादिभिर् इति सैन्यस्य तत्-पतीनां च बाहुल्यम् अभिप्रेतम् । हे अजित ! तवाजितत्वे\ऽपि अनिष्टाशङ्कीनि बन्धु-हृदयानि भवन्ति इत्य्-आदि न्यायेन भयोत्पत्तेर् इत्य् अर्थः । निःशेषेण मथित्वा विलोड्य क्षोभयित्वेत्य् अर्थः । किं वा, निर्मथ्य सर्वथा संहृत्येत्य् अर्थः । तत्र मगधेश-बलस्य अपि निर्मथनं चैद्य-सहायत्वात् । निर्मथ्येत्य् अनेन बलस्यानन्ततया समुद्र-रूपत्वं ध्वन्यते, किं च, पूर्वं यथा समुद्रं निर्मथ्य माम् उद्धृतवान् असि, तथा अधुनापि चैद्यादि-बलार्णवान्तःस्थाम् उद्धरेति । वीर्य-शुल्काम् इति राक्षस-विधानस्य एव योग्यता-प्रार्थनादि-निरपेक्षता चोक्ता । यद् वा, नन्व् एवं महा-युद्ध-सङ्कटे कथं मां प्रवर्तयसि? सदा सर्वत्रैव तव विजय-प्रसिद्धेर् इत्य् आह—हे अजित
इति ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निजातिवैयग्र्येण स्वयम् एवोपायम् अप्य् उपदिशति द्वाभ्याम्—श्व इति । गुप्तः ख्यापितैर् नाम-देश-भाषान्तरैः केनाप्य् अनुपलक्षितः सम्यक् एत्य अन्तः प्रविश्येत्य् अर्थः । पृतनानां पतिभिर् इति सैन्यस्य तत्-पतीनां च बाहुल्यम् अभिप्रेतं । तच् च स्नेह-स्वाभाव्येन । तत्र तु हे अजित इति एतादृश-प्रेरणा-साहसे हेतुर् उक्तः । तत्र मगधेश-बलस्यापि निर्मथनं चैद्य-सहायत्वात् । निर्मथ्य इति बलस्य समुद्रत्वं ध्वन्यते । तेन च पूर्वं यथा समुद्रं निर्मथ्य माम् उद्धृतवान् असि, तथाधुनापि चैद्यादि-बलार्णवं निर्मथ्य समुद्धर इति । वीर्य-शुल्काम् इति । राक्षस-विवाहस्यैव योग्यता प्रार्थनादि-निरपेक्षता चोक्ता कार्य-सिद्धिस् त्व् अजितत्वाद् एव भविष्यतीति ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् एवम् एवानुग्रहीष्यामि मान्यथा शङ्किष्ठा इति चेच् छीघ्रम् एवागन्तव्यम् । नैकाकिना च बल-युक्तेनैवेति । पुनः सोत्कण्ठम् आह—श्वो-भाविनि इत्य्-आदि । पृतना-पतिभिः परीत एव, तत्रापि गुप्त एवालक्षित एव । लक्षिते सति राजानः सावधाना भविष्यन्ति । तत्रापि श्वो-भाविनि उद्वहने उद्वाह-दिनस्य पूर्वेऽहनि । अन्यथात्रागत्य बहु-कालावस्थानम् अप्य् अनुचितम्, अकस्माद् एवागत्य मां हरेत्य् अर्थः । वीर्यम् एव शुल्कं यस्यास् ताम् । एतेनात्र युक्त्य्-अन्तरम् अपि नास्तीत्य् आह—राक्षसेन विधिना, हठाहरण-रूपो हि रक्षो-विधिः ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं कृतैः पूर्व-सुकृतैस् त्वम् अङ्गीकार्यैव मया किन्तु चैद्याय बन्दुभिर् दास्यमानायां त्वयि किम् अधुना करणीयम् ? इत्य् अपेक्षायां स्वयम् एवोपायम् उपदिशति—श्व इति । हे अजित, त्वं कैर् अपि जेतुम् अशक्य इत्य् अर्थः । अतो निर्भयत्वात् श्वो भाविनि उद्वहने विवाहे प्रथमं स्व-सैन्य-रहित एव गुप्तोऽलक्षित एव आगत्य कुण्डिन-पुरीं प्रविश्य पश्चाद् एव स्व-शोभा-ख्यापनार्थं पृतना-पतिभिः परीतो भव । अन्यथैतत्-पुर-प्रवेशो झटिति दुष्करः । अत्रत्यैर् वीरैर् दूराद् एव त्वया सह योद्धुं प्रयास्यते अवश्यम् इति भावः । पुर-प्रवेशे तु सति मया विवाह-शोभा प्रेक्षणार्थम् एवागतम् इति वदता त्वया सह यदि वीरा योद्धुं कारणाभावाद् एव न प्रक्रंस्यन्ते, तदा त्वया सुखेनैवाहं हरणीया । यदि चानिष्टा-शङ्किनो योत्स्यन्त एव, तदा स्व-शौर्यम् आविष्कार्यम् एवेत्य् आह—निर्मथ्य इति । समुद्रं निर्मथ्य यथा लक्ष्मी गृहीता, तथैवेति भावः । प्रसह्य हठाद् एव वीर्यं प्रभाव-दर्शनम् एव शुल्कं वैवाहिक-देयं यस्याः, तां माम् ॥४१॥
॥ १०.५२.४२ ॥
अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् > त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् । > पूर्वे-द्युर् अस्ति महती कुल-देव-यात्रा > यस्यां बहिर् नव-वधूर् गिरिजाम् उपेयात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भवतु शिशुपालादि-बल-प्रमथनम् । अन्तः-पुर-मध्य-गतायास् तव हरणे त्वद्-बन्धु-वधोऽपि प्रसज्जेतेत्य् अत आह—अन्तः-पुर- इति । पुराद् बहिर् वर्तमानां गिरिजाम् अम्बिकाम् । अम्बिका-गृहाद् एव मम हरणं सुकरम् इति भावः ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशग्क्य समाधत्ते—नन्व् इति । पूर्वेद्युर् विवाहात् पूर्वस्मिन् दिने । कुल-देवानां कुल-पूज्यानां पितृणां देवानां च यात्रा । नव-वधूर् उपस्थित-विवाहा कन्या । वधूः स्त्री सारिवौषधौ । स्नुषा-शटी-नवोढासू भार्या पृक्काङ्गतास च इति मेदिनी । अतो\ऽप्य् अतिव्यग्रा श्वो-भाविनी इत्य् अत्र कारणं विवृण्वती पुनर् विशेषतो\ऽप्य् उपदिशति--अन्तःपुरस्यापि मध्य-प्रकोष्ठान्तश्-चरीम् ।
पूर्वेद्युर् विवाह-दिनात् पूर्वस्मिन् दिने । कुलदेव-यात्रा इति तस्या आवश्यकत्वम् उक्तम् । ननु पूर्वेद्युर् अपि कस्मिन् क्षणे भवेद् इति कथं ज्ञेयं ? तत्राह—महती महावाद्याद्य्-उत्सवेन सा सुव्यक्तैवेत्य् अर्थः । उपेयात् पूजार्थम् अन्तिके गच्छतीति विधिर् अस्तीत्य् अर्थः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु त्वद्-आहरणे त्वद्-भ्रातरो विरोधं करिष्यन्ति । मया तेऽवश्यं घातितव्याः । तदा तव दुःखं भविष्यतीत्य्-आदि नाशङ्कनीयम् ? तत्राह—अन्तः-पुरान्तर-चरी इत्य्-आदि । यद्य् एवम् अनुगृह्णासि, तदा नैकाकिनागन्तव्यम्, न च विलम्बो\ऽपि कार्य इत्य् आह—श्वो भाविनी इत्य्-आदि । पृतना-पतिभिः परीत एव सन् गुप्तः सन् प्रचारे सति एते\ऽपि बहु सैन्यं करिष्यति । निर्मथ्य चैद्य-मगधेश-बलं, न तु मत्-पितृ-भ्रातृ-बलम् इति । एतद् धि पश्चाद् भवदीयम् एव भविष्यतीति स्व-पक्षे मम-कारं व्यनक्ति ॥४२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तः-पुरं पुरस्य मध्यम्, तस्याप्य् अन्तरं मध्यम्, तत्रचरीम् इति पितृ-भ्रात्र्-आदि-बन्धु-वर्ग-परिवेष्टिताया हरणे\ऽवश्यं तैः सह युद्धे तेषां वधस् त्वत् साक्षाद् एव स्याद् इति कथं तान् नितरां शिरश्-छेदादिना हत्वा इत्य् अर्थ इति, अत्र प्रकर्षेण निःसंशयत्वादिना वदामि । पूर्वेद्युर् विवाह-पूर्व-दिने कुलदेवयात्रेति तस्या आवश्यकत्वमुक्तम् ।
ननु पूर्वेद्युर् अपि कस्मिन् क्षणे भवेद् इति कथं ज्ञेयम्? तत्राह—महतीति महावाद्याद्युत्सवेन सा सुव्यक्तैवेत्य् अर्थः । उपेयात् पूजार्थमन्तिके गच्छेत् ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो\ऽप्य् अतिव्यग्रा श्वो भाविनीत्यत्र कारणं विवृण्वती पुनर्विशेषतो\ऽप्य् उपदिशति । अन्तः-पुरस्यापि मध्यप्रकोष्ठं यत्तच्चरीमितीति अत्रेत्य् अर्थः । पूर्वेद्युः विवाहपूर्वदिवसे कलदेवयात्रेति तस्या आवश्यकत्वमुक्तम् । ननु पूर्वेद्युर् अपि कस्मिंश् च क्षणे भवेद् इति कथं ज्ञेयं तत्राह—महतीति । महावाद्याद्युत्सवेन सा सूव्यक्तैवेत्य् अर्थः । उपेयात् पूजार्थमन्तिके आगच्छतीति विधिरस्तीत्य् अर्थः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, चैद्य-मगधेश-बलं निर्मथ्येति यद् उक्तम्, तत्र भवद्-भ्रातापि तेषां सपक्षः । सो\ऽप्य् उत्तास्यते, तदा सोऽपि मे वध्यः स्यात् । भ्रातृ-हनने तवापि दुःखं भविष्यतीत्य् आशङ्क्याह—अन्तः-पुरान्तरचरीम् इत्य्-आदि । बन्धून् त्वद्-भ्रात्रादीन् निहत्य त्वाम् कथम् उद्वहे ? इति चाशङ्कसे, तदोपायं वदामीत्य् अर्थः । पूर्वेद्युर् विवाह-दिनस्य पूर्वेऽहनि देव-यात्रास्तीति नः कुलाचारः, यस्यां नव-वधूः, नव-वधूत्वेन भाविनी कन्येत्य् अर्थः । गिरिजां पुर-बहिः-स्थितां दुर्गां पूजयितुम् उपैति, तेन तं समयम् आसाद्यैव बन्धु-हननं विनैव मां हरेत्य् उपदेशः ॥४२ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु चैवं भवतु शिशुपालादि-बल-प्रमथनम् अन्तः-पुर-स्थायास् तव हरणे त्वद्-बन्धु-वधोऽपि प्रसज्जेतेत्य् अत आह—अन्तः-पुरेति । कथम् इतीत्य् अनन्तरं ब्रूषे चेद् इति शेषः । पुराद् बहिर् वर्तमानां गिरिजाम् अम्बिकां अम्बिका-गृहाद् एव मम हरणं सुकरम् इति भावः ॥४२॥
॥ १०.५२.४३ ॥
यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो > वाञ्छन्त्य् उमा-पतिर् इवात्म-तमो-\ऽपहत्यै । > यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं > जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किम् अनेनानर्थ-कारिणा निर्बन्धेन चैद्योऽपि तावत् प्रख्यात-गुण-कर्मा योग्य एव वर इति तत्राह—यस्य इति । हे अम्बुजाक्ष, यस्य भवतोऽङ्घ्रि-पङ्कज-रजोभिः स्नपनम् आत्मनस् तमसोऽपहत्यै उमापतिर् इव महान्तो वाञ्छन्ति तस्य भवतः प्रसादं यर्ह्य् अहं न लभेय न प्राप्नुयां, तर्हि व्रतैर् उपवासादिभिः कृशान् असून् प्राणान् जह्यां त्यजेथम् । ततः किम् ? इत्य् अत आह—शत-जन्मभिर् इति । एवम् एव वारं वारं जह्यां यावच् छत-जन्मभिर् अपि तव प्रसादः स्याद् इति ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्क्य समाधत्ते—नन्व् इत्य्-आदिना । निर्बन्धेन हठेन निर्बन्धो हठ-मुक्तयोः इति धरणिः । तत्र आक्षेपे । महान्तो ब्रह्मन्द्रादयः । अहो अयं महादेवो\ऽपि भगवत्पदरजो यस्मिंस् तत्र प्रवाहे गङ्गारूपे स्नपनं सदा करोति, वयं देवाः कथं न तत्कर्म इतीच्छन्ति । तस्योमापत्याद्याराध्यस्य आत्मनस्तमसो\ऽज्ञानस्यापहत्यै नाशाय महान्त एव न तूमा पतिरपि, तस्य तु ज्ञानं महेश्वरादिच्छेत् इति स्मृतेरन्येषां ज्ञानदातृत्वेन परमज्ञानित्वम् । तत्पक्षे तु किंभूत उमापतिः—आत्मतमः साक्षाच्छ्रीकृष्णरूपः—प्रकर्षणात्मा श्री-कृष्णरूप आत्मतमः आत्मा सर्वेश्वरः साक्षी इति कृष्णसहस्रनामस्वात्मशब्दस्य पठितत्वात् । तर्हि स किमर्थं सेवते तत्राह—अपगता हतिर्नाशो यस्याः सा\ऽपहतिर्मर्यादा तस्यै । सा च द्विधा-लौकिकी वैदिकी च । उभयविधैवा\ऽत्याज्या श्रुतिस्मृतिपुराणोक्तं लङ्घयेन्न कदाचन । लङ्घनात्प्रत्यवायी स्यात्ततोन्ते नरकं व्रजेत् । इत्य् उक्तेः । किं च, —यद्यपि स्यात्स्वयं ब्रह्मा त्रैलोक्या\ऽकर्षण-क्षमः । तथापि लौकिकाचारं मनसापि न लङ्घयेत् । इति स्मृतिसारोक्तेः । सा चेत्थं बोध्या-यद्य् अहं श्री-हरिं न सेविष्ये, तर्हि मद्-भक्ता अपि तं न सेविष्यन्ते, तेन ते\ऽधो-गामिनः स्युः, हरि-भक्ति-परित्यागाद् अन्ते नरकम् आप्नुयात् इत्य् उक्तेः । यद् वा, तमः प्रवर्तकम् अपि माम् अल्प-ज्ञास् तामसं वदन्ति तन्-निरासायाहम् अपि हरिभक्तिं सेवे, तेन सर्वे मां शुद्धसत्त्वम् एव ज्ञास्यन्ति । न हि तामसः कदापि हरिं सेवते, हरो न तामस इति ज्ञापनायेत्य् अर्थः । ततः प्राणत्यागेन । यावत्तव प्रसादः स्यात्तावदेवम् एव कुर्यां, यदा कदाचित्तवैव भार्या स्यां, नान्यस्य देवस्यापि । किमु शिशुपालस्येति भावः । स्नपन-शब्देन रजसां गङ्गा-प्रभवत्वादिना सर्व-तीर्थ-ममत्वं ध्वन्यते । यदा रजसः स्नपनं क्षालनोदकम् इत्य् अर्थः । महान्तः श्री-ब्रह्माद्याः । आत्मनस् तमस् तमो गुणाधिष्ठातृत्वं तस्यापहत्यै । उमायाः पतिरितियथात्मारामेणापि श्रीशिवेन तद्भक्तिवशतया यत्नेनोद्वोढा सा तथा त्वयाप्यहमुद्वोढव्येति भावः । अतः परममहत्त्वेन त्वम् एव योग्यः पतिर्न त्वन्यः कश्चिद् इति भावः । तथा परमसौंदर्येणापीत्य् आह—हे अम्बुजाक्षेति । तस्येति यच्छब्दापेक्षत्वात् । भवद् इति छांदस एव षष्ठ्या लुक् । यदि भवतः प्रसादं पत्नीत्वेनाङ्गीकारलक्षणं न लभेय तदा जह्याम् इति हेतुहेतुमतोर्लिङ् । तत्र जह्याम् इति काम-प्रवेदने, प्रौढ्या संभावने च स्यात् । त्याग-प्रकारम् आह—व्रत-कृशान् । शतेति-एवं कृपार्थ दुःखमरणं बोध्यते । यद् वा, -स्वत एव त्वदर्थं व्रतैः कृशान्, अधुना त्वत्प्रसादा\ऽलब्ध्या निर्गच्छतो\ऽनायासेनैव जह्याम् इत्य् अर्थः । इति मरणस्य सुकरत्वमुक्तम् । ततश् चैवं शतजन्मभिर् अपि स्यात् । व्रतकृशेति पाठे स एवार्थः । शतशब्दो\ऽयमनिर्णयसंख्यात्वे । अन्यत् तैः । किन्तु स्वस्या नरकन्यालीलामाविश्योक्तिरियम् । यथा-ननु त्वं मे न पत्नी योग्यासीति कथमुद्वहेयम् इति चेत्सत्यम् एव, यतः श्रीब्रह्मादीनाम् अपि सुदुर्लभ्यो\ऽसि, क्वाहं क्षत्रियकन्या, तथापि बहुजन्मसु प्राणपरित्यागेनापि त्वदर्थं यतिष्य इत्य् आह-यस्येति । वाञ्छत्य् एव न त्वद्यापि लभते । अतः स्याद् इति संभावनायाम् एव लिङ् । शतजन्मभिर् असूञ्जाह्याम्, शतजन्मभिर् वा प्रसादः स्यादित्येतद्-अर्थः । कुतः—तत्राह—हे अम्बुजाक्षेति । परममाधुर्येण मनोव्याकुलताविधानादेवेति भावः । यद् वा, -नन्व् अहमन्तर्गो\ऽपि काविरहदूनो न करिष्याम्य् एव विवाहं तस्मादन्यम् एव गुण-रूपाभ्यां महान्तं कञ्चिड्वृण्वित्याशंक्योपायान्तरमपश्यन्ती दुरन्तां मरणपर्यन्तां निजकृच्छ्रपरंपरामुद्दिश्य करुणया\ऽधर्मभयेन च तं प्रत्यावर्तयति-यस्येति ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु मद्-विपक्षो भवद्-भ्राता तं प्रति तव स्नेहातिरेको दृष्टः । तत् कथं ? एकान्त-भक्तासि वदसि चेत् नैव तत् भ्राता तु न दुस्त्यजः, दुस्त्यजास् तु प्राणाः । ते\ऽपि त्वद्-उपेक्षिताश् चेत् तदा त्यक्ष्यन्ते, किं पुनर् भ्रातेत्य् आह—यस्याङ्घ्रि-पङ्कजेत्य्-आदि इत्य् औत्कण्ठ्ये विश्रान्तिः ॥४३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्नपन-शब्देन रजसां गङ्गाप्रभवत्वादिना सर्वतीर्थमयत्वं ध्वन्यते । यद् वा, रजसः स्नपनं क्षालनोदकम् इत्य् अर्थः । महान्तः श्रीब्रह्मादयः, आत्मनस्तमो\ऽज्ञानं तस्यापहत्यै मूलतो विनाशाय, उमापतिरिवेति दृष्टान्तः—तस्य गङ्गाधरत्वेन रजःस्नपनवाञ्छायाः सुप्रसिद्धत्वात्, तस्य च तमस्तमोगुणस्तदधिष्ठातृत्वात्, तस्यापहत्यै तमसो निन्द्यत्वेन तदधिष्ठातृत्व-परित्यागार्थम् इत्य् अर्थः । यद् वा, लोकशिक्षार्थं ब्रह्महत्यादिपापापहत्यै । उमायाः पतिर् इति यथा योगेश्वरत्वादिना पत्न्यनपेक्षकत्वे\ऽपि श्रीशिवेन सती जन्मान्तरे\ऽप्य् उमानाम्नी यत्नेनोद्वोढा, तथा त्वम् अपि मामुद्वोढुमर्हसीति भावः । किं च, निजकुलदेवताया उमाया अपि परमपूज्यत्वं सूचितम् । एवं परमेश्वरत्वेन त्वम् एव पतिर्योग्यः, त त्वन्यः कश्चिद् इति भावः । तथा परमसौन्दर्येणापीत्य् आह—हे अम्बुजाक्षेति । अतो यदि भवतः प्रसादं पत्नीत्वेन स्वीकारलक्षणं न लभेय, सम्भावनायां सप्तमी, जह्याम् इति च भविष्यति । त्यागप्रकारम् आह—व्रतकृशान् शतेति । अनेन कृपार्थं दुःखमरणं बोध्यते । यद् वा, स्वत एव त्वदर्थव्रतैः कृशात्, अधुना च त्वत्प्रसादालब्ध्या स्वयम् एव निर्गच्छतो\ऽनायासेनैव जह्याम् इत्य् अर्थः । इति मरणस्य सुकरत्वमुक्तम् । व्रतकृत इति पाठे स एवार्थः । शत-शब्दो\ऽसंख्यत्वे । अन्यत् तैर् व्याख्यातम् । यद् वा, ननु त्वं मे न पत्नीत्वयोग्यासि, कथमुद्वहेयम् इति चेत्, सत्यम् एव यतः श्रीब्रह्मादीनाम् अपि सुदुर्लभो\ऽसि, क्वाहं क्षत्रियकन्या, तथापि बहुजन्मसु प्राणपरित्यागेनापि तद्-अर्थं यतिष्य इत्य् आह—यस्येति । वाञ्छन्त्येव, न त्वद्यापि लभन्ते, इति परमदुर्लभत्वमुक्तम् । अतो यदि न लभेय, स्यादित्यपि सम्भावनायाम् । शतजन्मभिर् असून् जह्याम्, शतजन्मभिर् वा प्रसादः स्यादित्येतद्-अर्थम् इत्य् अर्थः । कुतस्तदाह—हे अम्बुजाक्षेति, परमसुन्दरात्वाद् इत्य् अर्थः । अन्यत् समानम् ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्नपनशब्देन रजसां गङ्गाप्रभत्वादिना सर्वतीर्थमयत्वं ध्वन्यते । यद् वा, रजसः स्नपनं क्षालनोदकम् इत्य् अर्थः । महान्तः श्रीब्रह्मादयः आत्मनस्तमः, अज्ञानं तस्य हत्यै मूलतो विनाशाय उमापतिरिवेति दृष्टान्तः तस्य गङ्गाधरत्वेन रजःस्नपनवाञ्छायाः सुप्रसिद्धत्वात् तस्य च तमस्तमोगुणाधिष्ठातृत्वं तस्यापहत्यै उमायाः पतिर् इति यथात्मारामेणापि श्रीशिवेन तद्भक्तिवशतया जन्मान्तरे\ऽप्य् उमा यत्नेनोद्वोढा तथा त्वयाप्यहमुद्वोढव्येति भावः । एवं परममहत्त्वेन त्वम् एव पतिर्योग्यो नत्वन्यः कश्चिद् इति भावः । तथा परमसौन्दर्येणापीत्य् आह—हे अम्बुजाक्षेति । तस्येति यच्छब्दाक्षेपात् भवद् इति छान्दस एव षष्ठ्या लुक् यदि भवतः प्रसादं पत्नीत्वेन स्वीकारलक्षणं न लभेय तदा जह्याम् इति हेतुहेतुमतोर्लिङ् तत्र जह्याम् इति कामप्रवेदने प्रौढ्या सम्भावने च स्यात् त्यागप्रकारम् आह—व्रतकृशान् शतेति एवं कृपार्थं दुःखमरणं बोध्यते । यद् वा, स्वत एव त्वदर्थे व्रतैः कृशान् अधुना त्वत्प्रसादालब्ध्या स्वयम् एव निर्गच्छतो\ऽनायासेनैव जह्याम् इत्य् अर्थः । इति मरणस्य सूकरत्वमुक्तं ततश् चैवं शतजन्मभिर् अपि स्याद् इति व्रतकृशेति पाठे स एवार्थः शतशब्दो\ऽयमनिर्णेयसङ्ख्यत्वे अन्यत् तैः किन्तु स्वस्या नरकन्यालीलामाविश्योक्तिरियम् । यद् वा, ननु त्वम् एव न पत्नीयोग्यासीति कथमुद्वहेयम् इति चेत् सत्यम् एव यतः श्रीब्रह्मादीनाम् अपि दुर्लभो\ऽसि क्वाहं क्षत्रियकन्या तथापि बहुलजन्मसु प्राणपरित्यागेनापि त्वदर्थं यतिष्य इत्य् आह—यस्येति । वाञ्छन्त्य् एव न त्वद्यापि लभन्ते अतः सम्भावनायाम् एव लिङ् शतजन्मभिर् वा प्रसादः स्यादित्येतद्-अर्थम् इत्य् अर्थः । कुतस्तदाह—हे अम्बुजाक्षेति । परममाधुर्येण मनोव्याकुलताविधानादेवेति भावः । अथवा । नन्व् अहमन्तर्गो\ऽपि काविरहदूनो न करिष्याम्य् एव विवाहं तस्मादन्यम् एव गुण-रूपाभ्यां महान्तं कञ्चिद्वृणु इत्य् आशङ्क्य उपायान्तरमपश्यन्ती दुरन्तां मरणपर्यन्तां निजकृच्छ्रपरम्परामुद्दिश्य करुणया धर्मभयेन च तं प्रत्यावर्त्तयति—यस्येति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु ज्ञातं तव भ्रातरं प्रति महती दया, स तु मे महान् विपक्षः । कथम् एवं स्वजनादि-सापेक्षस्य जनस्य मल्-लाभो भवेद् इत्य् आशङ्क्याह—यस्याङ्घ्रीत्य् आदि । यस्य तवाङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो वाञ्छन्ति, उमापतिर् इव श्री-महेश इव । हे अम्बुजाक्ष ! तस्य भवतः प्रसादं यदि न लभेयम्, तदा व्रत-कृशान् असून् जह्यां त्यजेयम् । अतः प्राणेभ्योऽधिको न हि स्वजनः । स चेद् भवद्-विपक्षः, तदा सोऽपि हेय एव ।
ननु प्राण-त्यागे किं भविष्यति ? तत्राह—शत-जन्मभिः । जन्मनां शतेनापि स्त्री स्याम्, तव परिगृहीता भविष्यामीत्य् अर्थः । इति श्रुत्वा (३७) इत्य्-आदिनाभिलाषः, का त्वा मुकुन्द (३८) इत्य्-आदिना मतिः, तन् मे भवान् (३९) इत्य्-आदिना गर्वः, पूर्तः (४०) इत्य्-आदिना वितर्कः, श्वो भाविनि (४१) इत्य्-आदिना विवेकः, अन्तः-पुरान्तर-चरीम् (४२) इत्य्-आदिना पुनर् मतिः, यस्याङ्घ्रि (४३) इत्य्-आदिना औत्सुक्ये विश्रान्तिः ॥४४ ॥ (अत्र बृहत्-क्रम-सन्दर्भे द्विपञ्चाशोऽध्याय-व्याख्या समाप्ता।)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि चैवं ब्रूषे, भो राज-पुत्रि, मत्-प्रापक-प्राचीन-सुकृतानि न ते सन्ति, कथं मत्-प्रसादं लप्स्यसे इति तर्हि भाविनि जन्मनि त्वत्-प्राप्त्य्-अर्थम् एतज् जन्मनि ब्रह्मचारिणी सती तपः करिष्ये । यदि चैक-जन्म-तपसा न पर्याप्तिस् तर्हि कोटि-जन्म-पर्यन्तम् अपि तपः करिष्ये । मम त्वत्-प्राप्त्य्-आग्रहस् तु मया दुर्वार एव । यदि च वक्ष्यसे मत्-प्राप्ति-प्रतिबन्धकानि बहूनि ते दुरितानि सन्तीति तर्हि तपसैव लभ्याभिस् तच्-चरण-धूलिभिस् तान्य् अपि ध्वंसयिष्याम्य् एवेत्य् आह—यस्य भवतोऽङ्ह्रि-पङ्कज-रजोभिः स्नपनं आत्मनस् तमसोऽपहत्यै उमा-पतिर् इव महान्तो वाञ्छन्तीत्य् अहम् अपि तपो-लब्धैस् तैर् एव स्नात्वा स्व-दुष्कृतानि नाशयिष्यामीति भावः । भवद् इति षष्ठ्या लुग् आर्षः । तस्य भवतो यर्हि यदि प्रसादं न लभेय, तदा व्रतिर् उपवासादिभिः कृशान् प्राणान् जह्यां त्यजेयम् । ततः किम् ? इत्य् अत आह—शत-जन्मभिर् इति । एवम् एवं वारं वारं जह्यां यावच् छत-जन्मभिर् अपि तव प्रसादः स्याद् इति । हे अम्बुजाक्ष इति । तव सुन्दर-नयनावलोक-लिप्सैव ममैतादृश-कृच्छ्र-करणे हेतुर् इति भावः ॥४३॥
॥ १०.५२.४४ ॥
ब्राह्मण उवाच—
इत्य् एते गुह्य-सन्देशा यदु-देव मयाहृताः । > विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र यत् कर्तुं करणीयं तद् विमृश्य क्रियतां तच् चानन्तरम् एव क्रियताम् इति ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुह्यत्वेन संदेशानां गौरवं, बहुवचनेन नानाप्रकारत्वाद्युक्तिमत्त्वं च, स्वस्य च परमविश्वसनीयत्वं निःशेषवक्तृत्वं च व्यंजितम् । तथा त्वयापि गोपनीया एवेति । अन्यथा तस्या बंधुषु लज्जाद्युत्पत्तेः । मया आहृता आनीता इति, मम तु कृत्यमेतद् एवेति भावः । विमृश्येति विनयभरेण, स च सम्यक्प्रवर्तनार्थम् । वयं ब्राह्मणा ऋजव एव, सर्वोपरि बुद्धिस्तवैवेतिः भावः । तत्र गुह्यत्वे सति यदुभिर् मन्त्रणं विना न स्वयं कर्तुमुत्सह इति न वाच्यं, यतः हे यदुवर तव बुद्धिबलाधीना एव तेपीति भावः । तस्माद्युत्कर्तव्यं तत्त्वनन्तरम् एव क्रियतां, प्राप्तावसरत्वान्मन्त्रणादिविलंब न सहत इति भावः ॥४४॥
इति श्रीमद्-भागवतभावार्थदीपिकाप्रकाशे दशम-स्कन्धे उत्तरार्धे द्विपञ्चाशत्तमो\ऽध्यायः ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं पत्रिकाद्वारा गुह्यत्वेन सन्देशानां गौरवं स्वस्य च परमविश्वसनीयत्वमुक्तम् । तथा त्वयापि गोपनीया एवेति, अन्य वा बन्धुषु तस्या लज्जाद्युत्पत्तेर् इति । आहृता आनीता समर्पिता वा, न चात्मशक्त्य् आहृता, किन्नु त्वत्प्रभावाद् एवेत्याशयेन सम्बोधयति—यदुदेव! हे निजाशेषैश्वर्यप्रकटनार्थं यदुकुलातीर्ण! यादवेन्द्रेति विमृश्येति विनयभरेण, स च सम्यक् सद्यः प्रवर्तनार्थः । यद् वा, कथं कदा तत्राशु गन्तासि तद्विचार्येत्य् अर्थः । अनन्तरं शीघ्रम् एव । ननु तद्विवाहकालो\ऽयमतिसन्निहितः, दूरदेशे च तस्मिन् शीघ्रं कथं गमनं सम्भवेत्? यदुभिर् वा कथं गन्तुं शक्यताम् इत्य् आशंकापि यदुदेवेत्यनेनैव निरस्ता तव साक्षाद् भगवत्त्वात्त्वद्भक्तानां च यदूनां सर्वशक्तिमत्त्वात्, न च त्वत्कृत्ये तैर् असन्मतिः काचित् कार्या, नापि तैः सहात्र मन्त्रणापेक्षापि, यदुदेवत्वाद् एव । एतद्-अर्थम् एव विदर्भान्मे\ऽत्रागमनं तस्या मनोरथे\ऽस्मिन् सुसिद्धे सत्य् एव त्वत्पृष्टं धर्मादिकं सर्वं मे सम्पद्येतेति भावः । एवं श्री-भगवत्-पृष्टानामप्युत्तरं ज्ञेयम् । किं वा, सन्देशैकापेक्षया तत्तदुत्तराप्रदानम् एव श्रेय इति नोत्तरितम् ॥४४॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्री श्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णव-तोषण्यां
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुह्यत्वेन सन्देशानां गौरवं बहुवचनेन नानाप्रकारत्वाद्युक्तिमत्त्वं स्वस्य च परमविश्वसनीयत्वं निःशेषवक्तृत्वं च व्यक्तं तथा त्वयापि गोपनीया एवेति । अन्यथा बन्धुषु तस्या लज्जाद्युत्पत्तेः मया आहृता आनीता इति मम तु कृत्यमेतावदेवेति भावः । विमृश्येति । विनयभरेण स च सम्यक् प्रवर्तनार्थः वयं ब्राह्मणा ऋजवः सर्वोपरि बुद्धिस् तु तवैवेति भावः । तत्र गुह्यत्वे सति यदुभिर् मन्त्रणं विना न स्वयं कर्तुमुत्सहे इति न वाच्यं यतः हे यदुदेव! तव बुद्धिबलाधीना एव ते\ऽपीति भावः । तस्माद्यत्कर्तव्यं तत्त्वनन्तरम् एव क्रियतां प्राप्तावसरत्वान्मन्त्रणादिविलम्बं न सहत इति भावः ॥४४॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृत-वैष्ण-वतोषिण्यां द्विपञ्चाशत्तमो\ऽध्यायः ॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुह्य-सन्देशा इति भगवन् । मम शपथो न क्वाप्य् एते प्रकाश्यास् तर्हि तस्या लज्जा भविष्यतीति भावः । यदु-देव इत्य् अत्रार्थे यदुभिर् अपि सह मन्त्रणा न कार्या । यतस् तेषाम् अपि त्वम् एव देव इति स्वयम् एव स्व-बुद्ध्या विमृश्य यत् कर्तुं कर्तव्यं तत् क्रियताम् । अनन्तरम् इति कार्यम् इदं विलम्बं न सहत इति भावः ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्विपञ्चाशत्तमोऽध्यायो दशमेऽजनि सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे रुक्मिण्य्-उद्वाहे द्विपञ्चाशत्तमोऽध्यायः ॥
॥५२॥
(५३)