५१

कालयवन-विनाशः, मुचुकुन्द-कृता भगवतः स्तुतिश् च ।

॥ १०.५१.१ ॥

श्री-शुक उवाच—

तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् । > दर्शनीयतमं श्यामं पीत-कौशेय-वाससम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

एक-पञ्चा-शत्तमेऽहन् मुचुकुन्द-दृशा हरिः ।

यवनं मुचुकुन्देन स्तुतः सन्न् अन्वकम्पत ॥

यवनेन्द्र-सुतात् काल- यवनाद् यदु-भीषणात् ।

हरि-हर-गिरः स्वैरं पालनायापलावत ॥


यदा गार्ग्यः श्यालेन पण्ढ इत्य् उक्तस् तदा यादवैर् उपहसिते क्रूद्धोऽसौ श्री-महेशं प्रसाद्य यदु-भीषणं पुत्रं वरं लब्धवान्, ततश् च यवनेन्द्रेणापुत्रेण स्व-क्षेत्रे पुत्रोत्पादनाय प्रार्थितो गार्ग्यः कालयवनम् अजीजनद् इति पुराण-प्रसिद्धम् । पुर-द्वारान् निष्क्रान्तम् । उज्जिहानम् उद्गच्छन्तम् ॥१.२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुचकुन्दो राजा, तद्-दृशा दृष्ट्या । यदून् भीषयते भय-युक्तान् करोतीति तथा तस्मात् । हरगिरः शिव-वाचः । पुराणे विष्णु-पुराणे प्रसिद्धम् । तथा हि—

गार्ग्यं गोष्ठ्यां द्विजं श्यालः षढ इत्य् उक्तवान्यदा । > यदूनां सन्निधौ सर्वे जहसुर्यादवास् तदा ॥ > सुतम् इच्छंस् तपस्तेपे यदु-चक्रभयावहम् । > आराधयन् महादेवं सोऽयश्चूर्णम् अभक्सायत् ॥ > ददौ वरं तु सन्तुष्टो वर्षे हि द्वादशे शिवः । > संयोजयामास च तं यवनेशो ह्य् अट्मजः ॥ > तद् योषित्-सङ्गमाच् चास्य पुत्रोऽभूद् अलिसन्निभः । > तं कालयवनं नाम राजानं प्राहुर् उत्तमाः ॥ इति ।

गार्ग्यः शैशिरायणः । श्यालोऽपि यादव-पुरोहितः, स च हस् तेन गार्ग्य-लिङ्गं चालयन्यदोत्थान; म् न ददर्श तदा गार्ग्यः साढः इति प्रोवाचेत्य् अर्थः । तं कृष्णं उज्जिहीत इत्य् उज्जिहानस् तम् ओ-हाङ्-गतौ शनच् । तम् इति षट्कम् । विनिष्क्रान्तम् इत्य्-आदि-वि-शब्देन सम्यङ्निष्क्रम एव तस्य निश्चयोऽभूद् इति ध्वनितम् । उज्जिहानम् इत्य्-आदिना श्री-कृष्ण-माधुर्य-वर्णनं स्वप्रेमतस् तत्-स्वभाव-वर्णनापेक्षयैव न तु यवनस्यानुभवापेक्षया, तत्र सति वैरासम्भवात् नाहं प्रकाशः सर्वस्य योगमाया-समावृत इति श्री-गीतोक्तेश् च । यथा तिक्तादिरुचि-स्वाभावाः खण्डादि-माधुर्यं नानुमोदन्ते इति तद्-ग्रहणाभास एव तेषां, तद् वत्-तद् एवम् अहो पश्यन्तो\ऽपि न पश्यन्तीति भावः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण एकाकितया पद्भ्याम् एव लीला-गत्या निष्क्रान्तं सन्तम्, उज्जिहानाम् उडुपम् इवेति—मनोनयनाल्हादक-तेजो-मण्डल-व्याप्तत्वम्, अतो दूरतोऽपि सम्यग् दृश्यद्त्वञ्चोक्तम्, दर्शनीयतमं परम-महा-सुन्दरं तम् एव दर्शयति—श्यामम् इत्य्-आदि-विशेषणैः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इति षट्कम् । विनिष्क्रान्तम् इति विशब्देन सम्यक् निष्क्रम एव तस्य निश्चयोऽभूद् इति ज्ञापितम् उज्जिहानम् इत्य्-आदिना श्री-कृष्ण-माधुर्य-वर्णनं स्व-प्रेमतस् तत्-स्वभाव-वर्णनापेक्षययैव न-तु यवनस्यानुभावापेक्षया तत्र सति वैरासम्भवट् नाहं प्रकाशः सर्वस्य योगमाया-समावृतः इति श्री-गीताभ्यश् च यथातिक्तादिरुचि स्वभावाः खण्डादि-माधुर्यं नानुमोदन्त इति तद्-ग्रहणाभास एव तेषां तद्वत् तद् एवम् अहो पश्यन्तोऽपि न पश्यन्तीति भावः । पृथु-दीर्घ-चतुर्बाहुम् इति श्री-नारदोवदेशानुसारेणोदयात् तेन तथोपदेशश् च विलक्षण-लिङ्गेन शीघ्रं निश्चिनोत्य् असौ इति नवकञ्जे इव अरुणे ईक्षणे यस्य तं अव्यक्त-रागस् त्व् अरुणः इत्य् अमरः । श्रीमत्-कान्ति-युक्तं प्रशंसायां मतुप् सुकपोलम् इत्य् अवयव-सौष्ठवस्योपलक्षणं शुचिस्मितम् इति विलासस्य स्फुरद् इत्य्-आदिवेषस्य षट्केऽपि वासुदेव इति सार्धम् अवान्तरम् अन्वितम् इति एतैर् लक्षणैर् वासुदेव एवायं भवितुम् अर्हति नत्व् अन्य इति सम्बन्धः लक्षणान्येवाह—पुमान् इत्य्-आदिना । तस्मान् निरायुध इति इतीति वासुदेव इत्य्-आदिपरामर्शकं प्रकर्षेण लीला-विशेषेण च आ ईषद्-द्रुत-गत्या द्रवन्तं जिघृक्षुर् इति तस्य-गर्वितत्वं दुरापम् इत्य् उपहासास्पदत्वं च व्यञ्जितम् ॥१.६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उज्जिहान इत्य्-आदिना श्री-कृष्ण-माधुर्य-वर्णनं स्वप्रेमतस् तत्-स्वभाव-वर्णनापेक्षैव येन तु यवनस्यानुभावापेक्षया तत्र वैरासम्भवट् अतस्तिक्तादि-स्वभावानां खण्डडि-चर्वणदेवेदं ज्ञेयम् ॥१.७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एक-पञ्चाशत्तमे श्री-मुचुकुन्दो दृशादहत् ।

यवनं तुष्टुवे कृष्णं स तुष्टोऽस्मै वरं ददौ ॥

उज्जिहानम् उद्गच्छतं प्रकटितम् अपि अन्यैर् यथा-योगम् आस्वाद्यमानम् अपि भगवन्-माधुर्यम् असुरा वैर-भावाद् एवानुभवितुं चक्षुर्भ्यां पश्यन्तोऽपि न शक्नुवन्तीति ज्ञापयितुं दर्शनीयेत्य्-आदिना सौन्दर्यं वर्णितं प्राद्रवन्तं पलायमानम् ॥१.६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२ ॥

श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभामुक्त-कन्धरम् । > पृथु-दीर्घ-चतुर्-बाहुं नव-कञ्जारुणेक्षणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आमुक्तः प्रतिम् उक्तश् च पिनद्धश्चापिनद्धवत् इत्य् अमः । कौस्तुभेनामुक्ता पिनद्धा कन्धरा यस्य तम् । पृथु-दीर्घ-चतुर्बाहुम् इति श्री-नारदेशानुसारेणोदयात्, तेन तथोपदेशश् च विलक्षण-लिङ्गेन श्रीघ्रम् असौ निश्चिनोत्व् इति । नवकञ्ज इवारुणे ईक्षणे नेत्रे यस्य तम् अव्यक्त-रागस्त्व् अरुणः इत्य् अमः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३ ॥

नित्य-प्रमुदितं श्रीमत्- सु-कपोलं शुचि-स्मितम् । > मुखारविन्दं बिभ्राणं स्फुरन्-मकर-कुण्डलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नित्य-प्रमुदितम् इत्य्-आदि-मुखारविन्द-विशेषणम् ॥३.४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सच्चिदानन्द-स्वरूपत्वान् नित्य-प्रमुदितम् इति । श्री-मत्कान्ति-युक्तम् । प्रशंसायां मतुप् । सुकपोलम् इत्य् अवयव-सौष्ठवोपलक्षणम् ।शुचिस्मितम् इति विलासस्य स्फुरद् इत्य्-आदिवेषस्य ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३ ॥

वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्स-लाञ्छनः । > चतुर्-भुजोऽरविन्दाक्षो वन-माल्य् अति-सुन्दरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अयं प्रत्यक्सा-दृश्यः । द्वयोर् अन्वयः । षट्केऽपि वासुदेव इति सार्धमवान्तरम् अन्वितम् । इत्य् एतैर् लक्षणैर् वासुदेव एवायम् इति भवितुम् अर्हति नान्य इति सम्बन्धः । इति शब्दो वासुदेव-परामर्शकः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पृथु-धीर्घ-चतुर्बाहुम् इति श्री-नारदेन तादृश-रूपस्यैव सदा दृश्यमानतया यवनं प्रति तथैवोक्त्या तस्मिन् तादृश-परिस्फूर्तेः । दृश्यमानतया पवनं प्रति तथैवोक्त्या तस्मिन् तादृश-परिस्फूर्तेः । नव-कञ्जवरुणे ईक्षणो यस्य तम् इति केवलम् आरुण्ये उक्तेऽपि नव-शब्दादि-बलेन विशालत्व-प्रसन्नत्वादिकं ज्ञेयम् एव, तयोस् तत्-तन्-नित्यत्वात् । नित्यं प्रकर्षेण मुदितम् इति सदा सुप्रसन्नतोक्ता, अत एव श्रीमत् सर्व-शोभायुक्तम्, श्रीमत्त्वे हेत्वन्तरम् अप्य् आह—सुकपोलम् इत्य्-आदि-विशेषणैस् त्रिभिः । विभ्राणं दधतम् अपि तत्-तद्-विशेषण-विशिष्ठत्वे तात्पर्यम् । किं वा, प्रकटयन्तम् इत्य् अर्थः । हि एव, वासुदेवः श्री-वसुदेव-नन्दन एव श्रीवत्सलाञ्छनत्वादीन्य् असाधारण-लक्षणानि । वनमालीति—पूर्वोक्त-पद्मगालाया एवापाद-तललम्बितत्वादति सुन्दर इति पूर्वोक्तम् अनुक्तं च परम-सौन्दर्यं सङ्गृह्नाति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५ ॥

लक्षणैर् नारद-प्रोक्तैर् नान्यो भवितुम् अर्हति । > निरायुधश् चलन् पद्भ्यां योत्स्येऽनेन निरायुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नारदोक्तैर् एतैर् लक्षणैर् अयं पुमान् वासुदेव एव नान्यो भवितुम् अर्हति । अयं च निरायुधः, अतोऽनेन पद्द्याम् एव चलन् निरायुधोऽहं यत्स्यामीति निश्चित्य तं पराड् मुखं प्राद्रवन्तम् अन्वधावद् इत्य् अवयः ॥५.६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लक्षणैश् चिह्नैः चिह्नं लक्ष्म च लक्साणम् इत्य् अमरः । यतोऽयं निरायुधोऽतो हेतोः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एतैर् लक्षणैर् इत्य् अन्वयः । यद् वा, नान्यो भवितुर् अर्हतीति तथा निरायुधम् इत्य्-आदिकं च, निश्चित्येति प्रकर्षेण लीला-विशेषेण आ ईषद्-द्रुत-गत्या चलन्तम्, जिघृक्षुर् इति निज-महा-गर्वादिना स्वग्राह्यत्वमननात्, योगिनाम् अपि दुरापम्, पदभ्याम् अन्वधावद् इति परमम् अज्ञत्वम् एवोक्तम् ॥५.६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.६ ॥

इति निश्चित्य यवनः प्राद्रवद् तं पराङ्-मुखम् । > अन्वधावज् जिघृक्षस् तं दुरापम् अपि योगिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । पराङ्मुखं पृष्ठं दर्शयन्तम् । तं श्री-कृष्णम् । जिघृक्षुर्ग्रहीतुम् इच्छुः ॥ प्रकर्षेण लीला-विशेषेण आ ईषत् द्रुत-गत्या चलन्तं जिघृक्षुर् इति तस्य गर्वितत्वम् । दुरापम् इत्य् उपहासास्पदत्वं व्यञ्जितम् ॥६॥


चैतन्य-मञ्जुषा, वैष्णव-तोषणी, बृहद्-वैष्णव-तोषणी, जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.७ ॥

हस्त-प्राप्तम् इवात्मानं हरिणा स पदे पदे । > नीतो दर्शयता दूरं यवनेशोऽद्रि-कन्दरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानं हस्त-प्राप्तम् इव दर्शयता दूरं नीत इत्य् अन्वयः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कालयवनः । तत्रापि भगवतश् चातुर्यं दर्शयति—हस्तेत्य् आदि ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हस्त-प्राप्तम् इव दर्शयतेति तदाश्द्द्वासाय, अन्यथा निराशतया, निवृत्ति-सम्भवात् । यवनानाम् ईशोऽपि ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवतस् तु तत्रापि चातुर्यं दर्शयति—हस्तेति । पदे पदे दर्शयता ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं हस्त-प्राप्तम् इव दर्शयतां दूरं नीत इत्य् अन्वयः ॥७.८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.८ ॥

पलायनं यदु-कुले जातस्य तव नोचितम् । > इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अशुभम् अत्र भगवद्-ग्रहणायोग्यतापादक-मात्रम् एव प्राह्यं न सर्वम्, अथानेक-जन्म-सञ्चित-सुकृत-पुजेनाप्राप्यं श्री-कृष्ण-दर्शनं तस्य न भवेत्

बहु-जन्म-विपाकेन सम्यग्-योग-समाधिन । > द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥

इति कर्दमोक्तेः, यत्-पाद-पंशुर् बहु-जन्म-कृच्छ्रधृतात्मभियोगिभिर् अप्य् अगम्यः इत्य् उक्तेश् च । इतीत्थम् । क्षिपन्न् इदम् । प्राप पस्पर्श । तथाप्य् अप्राप्यं स्थिरी-कर्तुं पुरुषम् आह—पलायनम् इति । यदुकुल इति यादवानां सुप्रसिद्ध-महा-वीर्यवत्त्वाद् इति भावः । हतशुभ इति—अस्यापातप्रतीत्य् अर्थता चेत् तर्हि तद् अप्राप्तौ हताशुभ इत्य् अस्य हेतुत्वं वक्तुं महदेवानुचितम् । यवनस्यास्य यदि भाग्यम् अप्रतिहतम् अभविष्यत् तर्हि सोऽयं तच् छन्नुर्हस्त-गतश् चाभविष्यद् इति शोचन् प्रतिपत्त्याविरुद्धम् अतिकृत्त्वप्रतिपत्तेः । न च यवनस्य मुक्ति-क्रियातिपत्त्या शोचनम् इदम् इति वक्तव्यम्, तन्मुक्तेर् अनन्तरं भावित्वात् । तच् च ये च प्रलम्ब-खर-दर्दुरकेश्य् अरिष्ट-मल्लेभर्कसयवनाः इत्य् आदौ द्वितीयर्स्कधाभिनात् । न च प्रसिद्धाशुभ-हानि-मात्रेण तत्-प्राप्ति-योग्यता वक्तव्या, यत्-पादपां बर्हुकृच्छ्र-धृतात्मभिर् योगिभिर् अप्य् अगम्यः इत्य् अत्रासम्मतत्वात्, भक्त्य् आहम् एकया ग्राह्यः इति लक्षण-साधनन्तर-स्वप्रतिपन्नत्वाच् च । तस्मात् अपरे हत-पाष्मानो व्यजनैः इत्य् अत्र हत-पाप्मतया समस् तेन तटस्थेन प्रतिपक्षेण भावेन रहितायां परम-भक्ताव् एव तात्पर्यावसानम् । तत्राप्य् अहत-शुभतायास् तद्विरुद्ध-भाव एव पर्यवसितिर् इतीत्थम् एव साक्षात् प्राप्त्य् अभावे हेतुता गम्यते, यथा व्रजेश्वरी पश्चाद् धावन्ती तं पराद्रवन्तम् अपि प्राप्तवत्य् एव तथा सो\ऽप्य् अयं कथं प्रात्तुयाद् इत्य् अभिप्रायात् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् अप्राप्य विऽलोक्य स्थिरीकर्तुं परुषम् आह—पलयनम् इति, यदुकुल इति यादवानां सुप्रसिद्ध-महावीरत्वाद् इति भावः । क्षिपन् भर्त्सयन्, न प्रकर्षेण स्पर्शनादिना आप, यतोऽहताशुभस् तत्-स्पर्शादि-वाधक-दोषाक्षयाद् इत्य् अर्थः । दर्शनादिना तस्य मुक्तिर् जातैव, तथा च द्वितीय-स्कन्धे श्री-ब्रह्मणोक्तम् च ये-च प्रलम्ब-खर-दर्दुर-केश्य् अरिष्ट-मल्लेभ-कंस-यवनाः कुज-पौण्द्रकाद्याः [भा।पु २.७.३४] इत्य्-आदि ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अप्राप्यं विलोक्य स्थिरीकर्तुं परुषम् आह—पलयन्म् इति । यदुकुल इति । यादवानां सुप्रसिद्ध-महावीरत्वाद् इति भावः क्षिपन्नुपलभमानः अनुगतम् अनुगच्छन्न् अपि न प्रकर्षेण स्पर्शेनापि तत्र हेतुः । अहताशुभ इति, अस्यापातप्रतीतार्थया चेत् तर्हि तद् अप्राप्तौ हेतुत्वं वक्तुं महदेवानुचित्तं यवनस्यास्य यदि भाग्यम् अप्रतिहतम् अभविष्यच् च तर्हि सोऽयं तच्-छत्रुर्-हस्त-गतश् चाभविष्यद् इति शोचन् प्रतिपत्त्या विरुद्धम् अतिकृत्व-प्रतिपत्तेः । न च यवनस्य मुक्ति-क्रिया प्रपत्या शोचनम् इदम् इति वक्तव्यं तन्-मुक्तेर् अनन्तर-भावित्वात् तच् च ये-च प्रलम्ब-खर-दर्दुर-केश्य् अरिष्ट-मल्लेभ-कंस-यवनाः [भा।पु २.७.३४] इत्य् आदेद्वितीय-स्कन्धेऽभिधानात् न-च प्रसिद्धाशुभहानि-मात्रेण तत्-प्राप्ति-योग्यता वक्तव्या यत्-पाद-पांसुर्-बहु-जन्म-कृच्छ्रतोधृतात्मभिर् योगिभिर् अप्य् अलभ्यम् इत्यात्रासम्मतत्वात् भक्त्य् आहम् एकया ग्राह्यः इति विलक्षण-साधनान्तरस्य प्रतिपन्नत्वाच् च तस्माद् अपरे हत-पाप्मानो व्यजनैः समवीजयन् इत्य् अत्र हतपाप्मा तया यथा समस् तेन तटस्थेन प्रतिपक्षेण भावेन रहितायां परम-भक्ताव् एव पर्यवसानं तथात्राप्य् अहताशुभातायास् तद् विरुद्ध-भाव एव पर्यवसितिरितीत्थम् एव साक्षात् तत्-प्राप्त्य् अभावे हेतुता गम्यते यथा श्री-व्रजेश्वरी पश्चाद्-धावन्ती तं पराद्रवन्तम् अपि प्राप्तवत्य् एव तथासो\ऽप्य् अयं कथं प्राप्नुऽयाद् इत्य्-अभिप्रायात् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुगतः अनुऽगच्छन्न् अपि नप्रकर्षेण स्पर्शेनापि यस्माद् अहताशुभः तत्-स्पर्श-बाधकापराधाक्षयाद् इत्य् अर्थः ॥८.९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.९ ॥

एवं क्षिप्तोऽपि भगवान् प्राविशद् गिरि-कन्दरम् । > सोऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहताशुभोऽक्षीण-कर्मा ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् पलायनं यदुकुले इत्य् उक्त-रीत्या । सोऽपि यवनोऽपि । तत्राद्रिकन्दरे । भगवान् सर्वज्ञः गिरि-गुह्यन्तःशायि-मुचुकुन्दस्य प्रभावं भक्तिं च जानन्न् इत्य् अर्थः । प्राविशद् इति प्रविश्य मुचुकुन्दस्य शिरःप्रदेशेऽतिष्ठद् इति ज्ञेयम् । तथा च हरि-वंशे—

शिर-स्थाने तु राजर्षेर् मुचुकुन्दस्य केशवः । > सन्दर्शन-पथं मुक्त्वा तस्थौ बुद्धिमतां वरः ॥ इति ।

कालयवनस्य तत्रावकाशाय प्रथमतः स्वगोपनाय चेति भावः । अन्यम् एव ददृशे न तु तत्रैव स्थितं भगवन्तम् ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वज्ञो गिरि-गुहान्तःशायि—श्री-मुचुकुन्दस्य प्रभावं भक्तिं च जानन्न् इत्य् अर्थः । प्राविशद् इति प्रविश्य श्री-मुचुकुन्दस्य शिरः प्रदेशेऽतिष्ठद् इति ज्ञेयम् । तथा च हरि-वंशे—

शिर-स्थाने तु राजर्षेर् मुचुकुन्दस्य केशवः । > सन्दर्शन-पथं मुक्त्वा तस्थौ बुद्धिमतां वरः ॥ [ह।वं। > २.५७.५०] इति ।

अन्यम् एव ददृशे, न तु तत्रैव स्थितम् अपि श्री-भगवन्तम् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्वज्ञः गिरि-गुहान्तशायि-मुचुकुन्दस्य प्रभावं भक्तिं च जानन्न् इत्य् अर्थः । प्राविशद् इति प्रविश्य मुचुकुन्दस्य शिरः प्रदेशेऽतिष्टद् इति ज्ञेयम्, तथा च श्री-हरि-वंशे ।

शिर-स्थाने तु राजर्षेर् मुचुकुन्दस्य केशवः । > सन्दर्शन-पथं मुक्त्वा तस्थौ बुद्धिमतां वरः ॥ [ह।वं। > २.५७.५०] इति ।

कालयवनस्य तत्रावकाशाय प्रथमतः स्वगोपनाय चेति भावः अन्यम् एव ददृशे न-तु तत्रैव स्थितं भगवन्तम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोऽपि कालयवनोऽपि अन्यं नरं ददर्श ॥९.११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१०॥

नन्व् असौ दूरम् आनीय शेते माम् इह साधुवत् । > इति मत्वाच्युतं मूढस् तं पदा समताडयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं शयानम् अच्युतं मत्वाताडयद् इति ॥१०.११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असौ कृष्ण । इह कन्दरे । ननु वितर्के । अच्युतम् इति ततोऽन्यत्र भगवत्-प्रयाणस्य तेनामननाभिप्रायेण । नन्व् अनुगम्यमानः सद्यः कथं सुप्याद् इति विचार-योग्यो\ऽप्य् असौ दृष्ट-चतुर्भ्युजत्वादिततोऽन्यत्र भगवत्-प्रयाणस्य तेनामननाभिप्रायेण । नन्व् अनुगम्यमानः सद्यः कथं सुप्याद् इति विचारयोग्यो\ऽप्य् असौ दृष्ट-चतुर्भुजत्वादि-रूपाद् अत्यन्त-विलक्षणं नरं दृष्ट्वाप्य् अच्युतं कथम् अमन्यत तत्राह—मुढः गुहातमसो व्याप्त्या क्रोधादिना च हत-तत्-तद्-विचार इत्य् अर्थः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, वितर्के, असौ श्री-वासुदेवः, साधुर् निर्षस् तद्वत्, तस्यैव निश्चिन्ततया निद्रासुख-सम्मवात् । अच्युतम् इति ततोऽन्यत्र श्री-भगवत्-प्रयाणस्यं तेनामननाभिप्रायेण । ननु, धावित्वा स्वयम् अनुगम्यमानोऽसौ सद्यः कथं तथा सुप्याद् इत्य् अविचार्य कथं च पूर्वं साक्षाद्-दृष्टस्य श्री-चतुर्भुजत्वादि-रूपस्यात्यन्त-विलक्साणं नरं दृष्ट्वाप्य् अच्युततमम् अन्यत तत्राह—मूढो गुहातमसा व्याप्तः । किं वा, क्रोधादिना हत-त-तद्-विचार इत्य् अर्थः । अतः सम्यग् दृङ्मताज्ञयत् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, अनुगम्यमानः सद्यः कथं तथा सुप्याद् इति विचारयोग्यो\ऽप्य् असौ दृष्ट-चतुर्भुजत्वादि-रूपाद् अत्यन्त-विलक्षण-रूपं नरं दृष्ट्वाप्य् अच्युतं कथम् अमन्यत ? तत्राह—मूढः गुहातमसा व्याप्ता क्रोधादिना च हत-तत्-तद् विचार इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मूढः हत-विचारः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.११ ॥

स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने । > दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शयानो मुचुकुन्दः । उन्मील्योद्घाट्य । तं यवनम् । चिरम् इति वैवस्वत-मन्वन्तराद् आद्यचतुर्युगे त्रेतायां जातस्य तस्य सम्राजो देवसाहाय्यात् । शनैर् इति बलान् निद्राभङ्गेन घूर्णा-व्याप्तत्वात् ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चिरम् इति—बहुतराणि चतुर्युगानि ज्ञेयानि, चतुर्विंशतितम-युगेऽवतीर्णस्य श्री-रघुनाथस्य पूर्व-पूर्वत्वात्, तथा एतद् वैवश्वत—मन्वन्तरा-चतुर्युगे त्रेतायां जातस्य तस्य साम्राज्ये देव-साहाय्यात्, शनैर् इति बलान् निद्रा-भङ्गेन घूर्णाव्याप्तत्वात् ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चिरम् इति वैवस्वतम् अन्वन्तराछचसुर्युगे त्रेतायां जातस्य तस्य साम्राज्ये देवसाहाय्यात् शनेर् इति बलान् निद्राशङ्गेन घूर्णाव्याप्तत्वात् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१२ ॥

स तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत । > देह-जेनाग्निना दग्धो भस्म-साद् अभवत् क्षणात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य क्रुद्धस्य दृष्टि-पातेन सन्दीप्तो यः स्व-देह-जोऽग्निस् तेन॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स यवनः । तस्य मुचुकुन्दस्य । स्व-देहजो यवन-देहजः । यावद् अद्राक्षीत् तावद् एव दर्शन-समकालता दाहस्योक्ता, क्साणाद् इति च भस्मसाद्भवने शीघ्रता । भारतेति महावंशजातत्वेन महावंश्यानां तादृश-प्रभावे न किम् अप्य् अद्भुतं मन्तव्यम्, यथा भरत-वंशज-शन्तन्वादिभिः स्वपुत्र-भीष्मादिभ्यम् । अत एव स नात्र प्रस्तुयते । स्वपनं यो गुहा-मध्ये इत्य् एतद् अग्रे पद्यं तु विगीतमसङ्लग्नश् च । श्री-पराशर-वैशम्पायनमते तु वराद् एव तत् । तथा च विष्णु-पुराणे—

प्रोक्तश् च देवैः सम्मसुप्तं यस्त्वाम् उत्थापयिष्यति । > देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ [वि।पु ५.२३.२२] इति > ।

हरि-वंशे च देवेषु तत्-प्रार्थने—

स्वपन्तं बोधयेद्यो मां तं दहेयम् अहं सुराः । > चक्षुषा क्रोध-दीप्तेन एवम् आह पुनः पुनः ॥ > एवम् अस्त्व् इति तं शक्र उवाच त्रिदशैः सह ॥ [ह।वं। > २.५७.४५-४६] इति ।

अनेन निद्राप्रार्थम् इदं यावद्भगवद् दर्शनं भविष्यति तावन् मम निद्रैव समीचीना न तु जागरणम् इत्य् अभिप्रायेण । जागरण-हेतुदाहप्रार्थना च पूर्ववद् अमुष्य भक्तोऽपि मां न जागरयेद् इत्य् अभिप्रायेण ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तावद् इति वाक्यालङ्कारे । किं वा, यादवद्राक्षीप्तावद् एवेति । दाहस्य दर्शनसमकालतोक्ताः, क्षणाद् इति च भस्मसाद्भवने शीघ्रता । एवं तस्य प्रभावभरो दर्शितः । च-कारात् महद् अपराध-विशेषेण चेत्य् अर्थः । हे अनघेति निष्पापाणां महात्मनां भवादृशाम् ईदृशः प्रभावः स्याद् एवेति भावः । भारतेति पाठे महावंशजातेन भवता महावंश्वानां तादृश-प्रभावे किम् अप्य् आश्चर्यं न मन्तव्यम् । अतः क्रद्धस्येति तस्य महा-पुरुषस्य क्रोध-दृष्ट्य् अग्निननैव दग्धः, न देवादिवरेणेति श्री-वादरायणेर् मतम् । अत एव स्वपन्तं यो गुहा-मध्ये [भा।पु १०.५१.२१] इत्य् एतद् अग्रे पद्यं विगीतं ज्ञेयम्, श्री-पराशर-वैश्वम्यायनयोर् मते तु देव-वराद् एव, तथा च श्री-विष्णु-पुराणे

प्रोक्तश् च देवैः सम्मसुप्तं यस्त्वाम् उत्थापयिष्यति । > देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ [वि।पु ५.२३.२२] इति > ।

श्री-हरि-वंशे च देवेषु तत्-प्रार्थने

प्रसुप्तं बोधयेद्यो मां तं दहेयम् अहं सुराः । > चक्षुषा क्रोध-दीप्तेन एवम् आह पुनः पुनः ॥ > एवम् अस्त्व् इति तं शक्र उवाच त्रिदशैः सह । [ह।वं। २.५७.४५-४६] > इति ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावद् अद्रक्षीत् तावदेवेति दास्यस्य किम् अप्याश्वर्यं न मन्तवम् इति अतस् तस्येति तस्य महा-पुरुषस्य क्रोध-दृष्ट्यग्निनैव दग्धः देवादि-वरस्तूपलक्षणम् इति श्री-वादरायणेर्मतम् अत एव स नात्र प्रस्तूयते स्वपन्तं यो गुहा-मध्ये इत्य् एतद् अग्रे पद्यं तु विगीतमसल्लग्नं च श्री-पराशर-वैस्पायनमते तु वराद् एव तत् तथा च श्री-विष्णु-पुराणे—

प्रोक्तश् च देवैः सम्मसुप्तं यस्त्वाम् उत्थापयिष्यति । > देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ [वि।पु ५.२३.२२] इति > ।

हरि-वंशे च देवेषु तत्-प्रार्थने—

स्वपन्तं बोधयेद्यो मां तं दहेयम् अहं सुराः । > चक्षुषा क्रोध-दीप्तेन एवम् आह पुनः पुनः ॥ > एवम् अस्त्व् इति तं शक्र उवाच त्रिदशैः सह । [ह।वं। २.५७.४५-४६] > इति ।

एवम् अस्त्व् इति तं शक्र उवाच त्रिदशैः सह । इति अनेन स्व-निद्रा-प्रार्थनम् इदं भगवद् दर्शनं यावदद्भविष्यति तावन् मम निद्रैव समीचीना न तु जागरणम् इत्य् अभिप्रायेण जागरण-हेतुम् आह प्रार्थना च पूर्ववद् असुर-सेनानाशनार्थम् असौ भक्तोऽपि मां न जागरयेद् इत्य् अभिप्रायेण ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य क्रुद्धस्य दृष्टिपातेन सन्दीप्तो यः स्वदेहजोऽग्निस् तेनेति तथैव तद्वर-प्रार्थनात्-तद्-वरदानाच् च तथा हरि-वंशे

प्रसुप्तं बोधयेद्यो मां तं दहेयम् अहं सुराः । > चक्षुषा क्रोध-दीप्तेन एवम् आह पुनः पुनः ॥ [ह।वं। २.५७.४५] > इति ।

अत्र निद्रा-प्रार्थनम् इदं वृद्ध-गर्गोक्त-कृष्ण-दर्शनं यावद्-भविष्यति तावन् निद्रैव मम सुखाय न तु जागरः तद्-दर्शन-समुत्कण्ठस्य मम बहुतर-चतुर्युगावच्छिन्नकालो जागरेण यापयितुम् अशक्यः निद्रया तु तत्त्वान् अपि कालः क्षण-प्राय एव भविष्यतीत्य् अभिप्रायेण क्रोध-करणकदाह-प्रार्थनं तु शक्रं भीषयितुम् एवान्यथा स्व-वैरिघातनार्थं पुनर् अपि तं शक्रो जागरयेद् इत्य् अभिप्रायेण, ततश् च विष्णु-पुराणे यथा—

प्रोक्तश् च देवैः सम्मसुप्तं यस्त्वाम् उत्थापयिष्यति । > देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ [वि।पु ५.२३.२२] इति > ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१३ ॥

श्री-राजोवाच—

को नाम स पुमान् ब्रह्मन् कस्य किं-वीर्य एव च । > कस्माद् गुहां गतः शिष्ये किं-तेजो यवनार्दनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यवनम् अर्दयति हिनस्तीति तथा स कस्य वंश्यः किं वीर्यः कीदृक् प्रभाववान् किं-तेजः कस्य वीर्यं पुत्र इत्य् अर्थः । शिश्ये अशयिष्ट ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽद्रिकन्दरशायी । नामेति प्रसिद्धम् । वंश्यो वंशोद्भवः । किं वीर्यं यस्य स तथा । कस्य तेजः किं-तेजः ? इत्य् अर्थ इति—तेजः-शब्दोदित-वीर्य-पदेन पुत्रो लक्ष्यते, सूत्र-शाटिका-न्यायेनेति भावः । तेजो वीर्येऽनले सूर्ये चन्द्रशंपोडुषु ग्रहे । प्रतापदीप्ति-पुत्रेषु इति नाम-मालोक्तेः पुत्र-वाचको वा तेजः-शब्द इति । को नाम ? किन् नामेत्य् अर्थः । यद् वा, नाम प्राकाश्ये कः केन ज्ञात्यादिना प्रसिद्धः किं नाम ? किन्तातिर् इत्य् अर्थः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : को मान ? किं नामेत्य् अर्थः, यद् वा कः किञ्जातिः ? किं-नामा ? इत्य् अस्यैवार्थ-द्वयञ्चेत्य् अर्थः, नाम प्राकाश्ये, केन जात्यादिना प्रसिद्धः ? इत्य् अर्थः । एव समुच्चये, कस्माद् वा ? अन्यत् तैर् व्याख्यातम् । यद् वा, कस्य पुत्रः ? किन्तेजः ? मूर्तं तेज एव किम् ? ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : को नाम ? किं नामेत्य् अर्थः । यद् वा, नाम प्रकाश्ये कः केन जात्यादिना प्रसिद्धः ? किञ्जातिः ? किं नाम ? चेत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कस्य वंश्यः ? किम् वीर्यः ? किं प्रभावः ? किं तेजः ? कस्य पुत्रः ? इत्य् अर्थः ॥१३.१५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१४ ॥

श्री-शुक उवाच—

स इक्ष्वाकु-कुले जातो मान्धातृ-तनयो महान् । > मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्य-सङ्गरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यः सङ्गरो युद्धं प्रतिज्ञा वा यस्य सः ॥१४.१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽद्रिकन्दरशायी ।

सङ्गरो युधि चापत्तौ प्रतिज्ञायां विषे ध्वनौ । > शमीफले क्रियाकारे तथा मित्रकलत्रयोः ॥

इति निरुक्तिः । महान् महा-भागवतः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : युवनाश्वपुत्रो मान्धाता इक्ष्वाकोरूनविंशकः, तस्य तनयो महान् भगवद् भक्त्यादि-गुणैर्ल् ओकेषु श्रेष्ठ इत्य् अर्थः । पुरुकुत्समन्वन्तरीयं मुचुकुन्दश् च योगिनम् [भा।पु ९.६.३८] इति नवम-स्कन्धे मान्धातृ-पुत्रोत्पत्ति-प्रसङ्गे तस्य भक्ति-योगवत्त्वम् उक्तम् एव ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महान् महा-भागवतः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१५ ॥

स याचितः सुर-गणैर् इन्द्राद्यैर् आत्म-रक्षणे । > असुरेभ्यः परित्रस्तैस् तद्-रक्षां सोऽकरोच् चिरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स मुचुकुन्दः । तद् अद्राक्षां सुरगण-रक्षाम् । आत्म-रक्षणे निमित्ते । चिरं कतिचिच् चतुर्युगानि ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्म-रक्षणे निमित्ते याचितः, आद्य-शब्देन वरुणादयः, तेषां रक्षाम्, चिरं कानिचिच् चतुर्युगानि ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्म-रक्षणे निमित्ते याचितः चिरं कतिचिच् चतुर्युगाणि ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१६ ॥

लब्ध्वा गुहं ते स्वः-पालं मुचुकुन्दम् अथाब्रुवन् । > राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुहं कार्तिकेयम् । स्वः-पालं स्वर्ग-पालकं सेनान्यम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते सुरगणाः । अथ सेनानीप्राप्त्य् उत्तरम् । कृच्छ्रात् कृष्ट-साध्यात् । अथ कार्त्स्न्येन । कृच्छ्राद् दुःखैकरूपात् ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ गुहकर्तृक-रक्षणाद् अनन्तरम् । किं वा, , गुहलब्धे, हे राजन्न् इति भवान् इति च परमादरात्, कृच्छ्राद् दुःख-रूपात् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ कार्त्स्न्ये कृच्छ्रात् दुःखैकरूपात् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुहं कार्तिकेयम् ॥१६.१७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१७ ॥

नर-लोकं परित्यज्य राज्यं निहत-कण्टकम् । > अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उज्झितास् त्यक्ता गता इत्य् अर्थः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-त्यक्त-गत-वस्तुनोर् वियुक्तत्वेन समानार्थकत्वत् त्यक्त-गत-पदे पर्याये ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कामा विषयोपभोगाः । हि वीरेति—सर्व-सामर्थ्य-युक्तस्य तवैतद्-युक्तम् एवेति भावः । अत एव स्नेह-विशेषेण त इत्य् उक्तिः एवम् अग्रे\ऽप्य् ऊह्यम् । ते त्वयेति वा ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कामाः विषयाः राज्यं चेति पाठे राज्यानीति क्वचित् पाठः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१८ ॥

सुता महिष्यो भवतो ज्ञातयोऽमात्य-मन्त्रिनः । > प्रजाश् च तुल्य-कालीना नाधुना सन्ति कालिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सुता इति तुल्य-कालीयास् त्वत्-समान-कालीनाः कालिता विचालिताः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । अमात्याः । समीपवर्तिनः । कालेनेति शेषः । विचालिता लोकान्तरं नीताः । यद् वा, कालो मृत्युर् जातो येषां ते तारकादित्वाद् इतच् । अमात्याः पार्षदा मन्त्रिणश् च ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमात्य-मन्त्रिण इत्य् अत्र करोद्ग्रहण-मन्त्र-प्रदानादिना भेदः कल्प्यः, अधुना न सन्तीत्य् अत्र हेतुः—कालिता देहान्तरं प्रापिता इत्य् अर्थः । यद् वा, संहृताः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अमात्याः पार्षदाः मन्त्रिणस् तद् विशेषाश् च तुल्यकालिना इति क्वचित् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालिताश् चलिताः ॥१८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.१९ ॥

कालो बलीयान् बलिनां भगवान् ईश्वरोऽव्ययः । > प्रजाः कालयते क्रीडन् पशु-पालो यथा पशून् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्-प्रजाः कोऽन्यः कालयेद् इति चेद् अत आहुः, काल इति । कालयते इतस् ततश् चालयति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलगर्वितः प्राह—मत्-प्रजा इति । कः कालः-भगवान् इति । सम् अपि युद्धेन जेष्यामीति चेद् आह—ईश्वर इति । अहम् अपि तादृश इति चेद् आह—अव्यय इति । स्वरूपतोऽवयवतो गुणतश् च नाश-रहित इत्य् अर्थः । भगवान् इति श्री-नाराहण-शक्तित्वेन तद् अभेदात् । अत एवेश्वरो नियन्ता । न व्येतीत्य् अव्ययः अनाद्यन्त-प्रवाहः । कालयतेऽन्यत्र नयति । ननु, किम् अर्थं तत्राह—क्रीडन्, तस्य तादृश्य् एव क्रीडेत्य् अर्थः । इति तस्य बलीयस् त्वातिशयो दर्शितः । पशुपाल इति तेषु स्वाच्छन्द्ये दृष्टान्तः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलिनां सर्वेषां मध्ये वलीयस्त्वे हेतुर् भगवान् श्री-नारायण इत्य् अंशांशिनोर् अभेदाभिप्रायेण, अत-एवेश्वरः सर्व-शक्तिमान्, न व्येतीत्य् अव्ययश् च अनन्तत्वात् । कालयते अन्यत्र नयति । ननु, तत् किम् अर्थम् ? तत्राह—क्रीडन् क्रीडितुम् इति । तादृश्य् एव तस्य क्रीडेत्य् अर्थः । यद् वा, न च तस्य तत्र कोऽपि श्रमोऽस्तीति वलीयस् त्वम् एव दर्शयति—क्रीडन् लीलयैवेत्य् अर्थः । क्रीडया पशुपालो यथा पशून् समाहरति, तद्वत्, पशुपाल इति तेषु तस्य स्वामित्वेन स्वाच्छन्द्य-मात्रम् अभिप्रेतम् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् इति श्री-नारायण-शक्तित्वेन तद् अभेदात् अत एवेश्वरः नियन्ता । न व्येतीत्य् अव्ययः अनाद्यनन्त-प्रवाहः कालयते अन्यत्र नयति । ननु, किम् अर्थम् ? तत्राह—क्रीडन् तादृश्य् एव तस्य क्रीडेद्त्य् अर्थः । इति तस्य बलीयस् त्वातिशयो दर्शितः । पशुपाल इति तेषु तस्य स्वाच्छन्द्यो दृष्टान्तः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काल इति भगवान् नारायण-शक्तित्वेन तद् अभेदात् कैवल्यम् । संसार-निवृत्ति-पूर्वक-परपद-प्राप्तिः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केन कालिता इत्य् अत आहुः—काल इति ॥१९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२० ॥

वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः । > एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य कैवल्यस्य ॥२०.२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कैवल्यं मोक्षम् । ऋते विना । मुक्तिः कैवल्य-निर्वाण इत्य् अमरः । एको विष्णुरेवेति विशेष्य-सम्बद्धन्य-योगव्यवच्छेदार्थ-क्वैवकारेण पार्थ एव धनुर्धर इतिवत्-पार्थाद् अन्यत्र धन्र्धरत्वस्य् एव विष्णोर् अन्यत्र कैवल्य-प्रदत्वस्य योगो व्यवच्छिद्यत इति । आरोग्यं भास्करादिच्छेन् मोक्षम् इच्छेज्जनार्दनात् इति भव-पाशाच् च मोक्षकः । विष्णुर् एव परं ब्रह्म इति च स्मृतेः कृष्णं विना नैव सृतिं तरन्ति इति श्रीधरोक्तेश् च । यानि च—या मुक्ति-हेतुर् अविचिन्त्य-महा-व्रता त्वम् अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिः इत्य् आदीन्यन्य देवता-भजनस्य मोक्ष-बोधक-वाक्यानि तान्य् अपि विष्णु-भक्तिं द्वारीकृत्यैवेति ज्ञेयं हरिवंशीय-घण्टाकर्णाख्यानतः, अन्यथा स कथं शिवेन विष्णु-पार्श्वे प्रेषितः, प्रसिद्धं चैतद्-धरि-वंशे । नन्व् अत्रैवकारस्यैकशब्देन सम्बन्धो न तु विष्णु-शब्देनेति चेद् अत्राह पाठक्रमाद् अर्थक्रमो बलीयान् इति अग्निहोत्रं जुहोति, यवागूः पचति इतिवत् आत्मा वा अरे द्रष्टव्य श्रोतव्यः इत्य्-आदिवद्वेत्य् अलं प्रपञ्चेन । भद्रं ते इति सामान्यतस् तावत् तव मङ्गलं भूयात् । विशेषस् तु वरं वृणीष्व् एत्य् अर्थः । कैवल्यं संसार-निवृत्ति-पूर्वकं परम-पद-प्राप्तिम् । विष्णुर् एवैक ईश्वरः प्रदान-समर्थः । तत्र हेतुः—भगवान् सर्व-शक्ति-सम्पन्नः । असङ्ख्येभस् तदादि-दाने\ऽप्य् अव्ययो न त्व् अस्मदादिवद् अल्प-शक्ति-युक्तः । तप-आदिव्ययेन सव्ययो वा ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भद्रं तेऽस्त्व् इति परम-सन्तोषात् । यद् वा, सदा मङ्गलम् एव, तव तथाप्य् अद्य अधुना नोऽस्मान् वरमभीष्टं वृणीष्व । यद् वा, भद्रम् उत्तमं ते वरं त्वत्-सम्मतं वरं वृष्णीष्व, कैवल्यं मोक्षं श्री-कृष्ण-पादाब्जैकान्तित्वं वा विना, भगवान् सर्वैश्वर्य-युक्तो विष्णुर् एवैक ईश्वरः प्रदान-समर्थः स्वामी वा कैवल्यस्य तद् अधीनत्वात्, यत आत्मदानेनापि न व्येतीत्य् अव्ययः, विष्णुर् इति बहिर् अन्तर्-व्यापकतया बाह्यान्तर-भावाद् इ-सम्पादन-शक्त्या कैवल्य-प्रदान-सामर्थ्याभिप्रायेण ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धद्रं तं सामान्यतस् तावन्-मङ्गलं तव भूयात् विशेषतस् तु वरं वृष्णीष्व् एत्य् अर्थः । कैवल्यं संसार-निवृत्ति-पूर्वकं परम-पद-प्राप्तिं विष्णुर् एवैक ईश्वरः प्रदान-समर्थः, तत्र हेतुः भगवान् सर्व-शक्ति-युक्तः असङ्ख्येभ्यस् तद्-आदि-दाने\ऽप्य् अव्ययः, न त्व् अस्मद्-आदिवद् अल्प-शक्तिः तप-आदि-व्ययेन स-व्ययो वा ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य कैवल्यस्य दातेत्य् अर्थः ॥२०.२२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२१ ॥

एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः । > अशयिष्ट गुहा-विष्टो निद्रया देव-दत्तया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । स मुचुकुन्दः । [तदा देव-वर-दान-काले] शुमाम् अन्ते हरि-दर्शनाच् छुभी-करीम् । यथा ते तव ईप्सितम् एवं तथास्त्व् इत्य् अर्थः । इह पाठानां बहुत्वाद् अयं पाठः श्रेयान् । तथा हि

अयाचत तदा निद्राम् अनयोपद्रवां शुभाम् । > अस्त्व् एवं राज-राजस् ते कुरु निद्रां यथेप्सितम् ॥ इति ।

महायशा इत्य् अस्यायं भावः—विष्णुर् एवैकः कैवल्य-दाता चेत् तर्हि तैर् अन्यैर् वा किम्, प्रत्याहुतान्य् अदर्शनम् अप्य् अयोग्यम् अतस् तद्-दर्शनं यावत् तत्-प्रियतम-मथुरान्तिके विविक्ते सुप्तम् एवाह्यम् इति निद्राया एव वरणान् सर्वतो महा-यशो विततानेति । निद्रया तद् अनुमोदनाद् वरत्वेन दत्तया । तच्-छयन-गुहा तु मथुरा-मण्डलस्य दक्षिण-सीमायां धवल-पुर-मध्ये लोक-प्रसिद्धा । या तु मथुरा-परिक्रम-प्रसङ्गे श्री-वाराह-देवेन पुर्य्-अन्तर् एवोक्ता सा तद् अनुकारिदेवालय एव ज्ञेया । यशोदालयवद् गिरि-गह्वरे इति वक्ष्यमाणात् ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभितो वन्दित्वा, तेषां शुद्ध-भावोक्त्या भगवद्-भक्त्या च साष्टाङ्गं मुहुर् बहुधा प्रणम्येत्य् अर्थः । महा-यशाः इत्य् अयं भावः—श्री-विष्णुर् एवैकः कैवल्य-दाता चेत् तर्ह्य् एतैर् अन्यैर् वा किं प्रयोजनम्, अन्य-दर्शनम् अप्य् अयोग्यम्, अतस् तद् दर्शनं यावत्, तावत् प्रियतम-श्री-मथुरान्तिके विविक्ते स्वप्तुम् एवार्हामीति निद्राम् एव देवेभ्योऽवृणीतेति सर्वतो महा-यशो विततानेति । एवं देवैस् तद् अनुमोदनाद् वरत्वेन दत्तयेति । वै प्रसिद्धौ, एतत् सर्वं सुविख्यातम् एवेत्य् अर्थः । तच्छयन-गुहा च श्री-मथुरा-मण्डलस्य दक्षिण-सीमायां धवल-पुरीय-गिरि-मध्ये लोक-प्रसिद्धा, या च श्री-मथुरा-प्रदक्षिण-प्रसङ्गे पुर्यन्तर् एव श्री-वराहेण भगवतोक्ता, सापि कल्पान्तर-व्यवस्थया घटेतैवेति दिक् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-तशा इत्य् अस्यायं भावः श्री-विष्णुर् एवैकः कैवल्यदाता चेत् तर्ह्य् एतैर् अन्यैर् वा प्रत्युतान्य् अदर्शनम् अप्य् अयोग्यम् अतस् तद्-दर्शनं यावत् तत्-प्रियतम-श्री-मथुरान्तिके विविक्ते स्वप्तुम् एवार्हामीति निद्राया एव वरणात् सर्वतो महा-यशो विततानेति एवं देवैर् अपि तद्-अनुमोदना-द्वयरत्वेन दत्तया तच्-छयन-गुहा तु श्री-मथुरा-मण्डलस्य दक्षिण-सीमायां धवल-पुर-गिरि-मध्ये लोक-प्रसिद्धा या तु मथुरा-परिक्रम-प्रसङ्गे श्री-वराह-देवेन पुर्यान्तर् एवोक्ता सा तद् अनुकारि-देवालय एव ज्ञेयः श्री-यशोदालयवत् गिरि-गह्वर इति वक्ष्यमाणात् ॥२१.२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२२ ॥

स्वापं यातं यस् तु मध्ये बोधयेत् त्वाम् अचेतनः । > स त्वया दृष्ट-मात्रस् तु भस्मीभवतु तत्-क्षणात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुहायां प्रविष्टः शेते स्म ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बोधयिता ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२३॥

यवने भस्म-सान् नीते भगवान् सात्वतर्षभः । > आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुहायां प्रविष्टः शेते स्म ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भस्मसान्नीते भूते । भस्मतां ल्नीते इति पाठः प्राक्तनो मे प्रतिभाति लेखक प्रमादात्तास्थाने सेति जातम् धीमते तद्-भक्त्य् एक् अनिष्ठत्वात्-प्रशस्त-बुद्धये ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सात्वतर्षभो यदु-कुलश्रेष्ठो यो भगवान् परमेश्वर इति परम-भक्त-वात्सल्यादिकम् अभिप्रेतम् । किं च, धीमते निज-भक्त्य् एक् अनिष्ठायेत्य् अर्थः । अत आत्मनं दर्शयामास, प्रकटोऽभूद् इत्य् अर्थः । पुरा यथा श्री-नारदोक्त-रूपेण यवनोऽसौ तं ददर्श, तथा वृद्ध-गर्गाद्य् उक्तानुसारेणं तादृश-रूपं श्री-मुचुकुन्दायाप्य् अदर्शयद् इत्य् अभिप्रायेण ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धी-मते तद्-भक्त्य्[-]{दिर्=“र्त्ल्”}एक-निष्ठत्वात् प्रशस्त-बुद्धये ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वपन्तम् इति पद्यं न सर्व-सम्मतम् ॥२३.२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२४ ॥

तम् आलोक्य घन-श्यामं पीत-कौशेय-वाससम् । > श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभेन विराजितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् । तत्-सौन्दर्य-विशेषाकृष्ट-चित्तः पुनर् मुचुकुन्द भाग्यं प्रशंसा-गर्भं वर्णयति—तम् इति चतुष्केण । भ्राजता तद् वक्षोलब्धकान्ति-विशेषेण कौस्तुभेन विराजितम्, विशब्दो भूषर्णातरापेक्षया ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-सौन्दर्य-विशेषाकृष्ट-चेतस्त्वेन च पुनर् अपि विशेषतो वर्णयति—तम् त्रिभिः । विराजितम् इति सदा स्वतो राजत एव, विशेषणतया शोभितम् इत्य् अर्थः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-सौन्दर्य-विशेषाकृष्ट-चित्तः पुनर् मुचुकुन्द-भाग्य-प्रश्ंसासागर्भं वर्णयति—तम् इति चतुष्केण । भ्राजता भ्राजमाणेन तद् वक्षोलब्धकान्ति-विशेषेण कौस्तुभेन विराजितं वि-शब्दो भूषणान्तरापेक्षया पूर्वोक्ता पद्म-मालैवापाद्रलम्बित्वेन वनमालेति पूर्वं निर्दिष्टा सम्प्रत्य् अस्मिन् गर्गोपदेशानुसारेण वैजयन्ती तया स्फुरद् इति ज्ञेयम् इयन्तु पञ्च-वर्ण-पुष्पा इति सर्व-तद्-भूषणानां भगवद्-वदनन्तरूपत्वं व्यञ्जितम् अपीच्यं सुन्दरं वयो नव-यौवन-रूपं यस्य तम् ॥२४.२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२५ ॥

चतुर्-भुजं रोचमानं वैजयन्त्या च मालया । > चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैजयन्ती पञ्च-रत्न-माला । पद्म-मालैव पूर्वोक्ता वन-मालेति पूर्वं निर्दिष्टा सम्प्रत्य् अस्मिन् गर्गोपदेशानुसारेण वैजयन्ती तथा स्फुरद् इति ज्ञेयम् । इयं पञ्च-वर्ण-पुष्पेति सर्वतस् तद्-भूषणानां भगवद् अन्तन्तरूपत्वं व्यञ्जितम् ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैजयन्ती पञ्च-रत्न-माला । पद्म-मालैव पूर्क्ता वनमालेति पूर्वं निर्दिष्टा संप्रत्य् अस्मिन् गर्गोपदेशानुसारेण वैजयन्ती तया स्फुरद् इति ज्ञेयम् । इयं तु पञ्च-वर्ण-पुष्पेति सर्वतस् तद्-भूषणानां भगवद् अनन्त-रुपत्वं व्यञ्जितम् ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रोचमानं सूर्य-कोटिवत् प्रकाशमानम् । यद् वा, तदीयमनोनयनादिभ्यो रुचिं जनयन्तम्, पद्म-वर्ण-पुष्पा वैजयन्ती, तया विशिष्टम् । किं वा, तयैव रोचमानं शोभमानम्, पूर्वोक्त-पद्म-मालैव वृद्ध-गर्गाद्य् उक्तापेक्षया तस्मि वैजयन्तीतयास्फुरद् इति ज्ञेयम् । चऋउचिवुकादि-ललाटान्ताशेषाङ्गैर् मनोहरं प्रसन्नं च सदास्येरत्वादिना वदनं यस्य तं त्रिलोकस्य जगतः प्रेक्षणीयम् । एवम् अनुक्तम् अन्यद् अपि सौन्दर्यं सङ्गृहीतम्, अनुरागेन यत् स्मितं तत्-सहितम् ईक्षणम् अवलोकल्नं यस्य तम् । यद् वा, सानुरागस्मिते, सदा कृपया स्मेरे इत्य् अर्थः । किं वा, अनु पश्चात् प्रान्ते राग आरुण्यं स्मितं च स्मेरता सदा सुप्रसन्नतेत्य् अर्थः, ताभ्यां सहिते ईक्षणे नेत्रे यस्य, अपीच्यं सुन्दरतरं वयो नव-यौवन-रूपं यस्य तम्, मत्तमृगेन्द्राद् अप्य् उदारो विक्रमो यस्य तम्, इति महा-बलिष्टता-सिद्ध-भुज-मध्य-वक्षःस्थलादि-सौन्दर्य-विशेषः सूचितः ॥२५.२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२६ ॥

प्रेक्षणीयं नृ-लोकस्य सानुराग-स्मितेक्षणम् । > अपीव्य-वयसं मत्त- मृगेन्द्रोदार-विक्रमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपीच्य-वयसं शोभमान-यौवनम् । अपीच्यं सुन्दरतरं वयो नव-यौवनं यस्य तम् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२७ ॥

पर्यपृच्छन् महा-बुद्धिस् तेजसा तस्य धर्षितः । > शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्षितोऽभिभतः । दुर्धर्षम् अप्रदृष्यम् ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य । अधृष्यमानभिभाव्यम् । महा-बुद्धिर् इति—श्री-भगवद् वेषेण नायमन्यो मां भ्रमयति मद्-विधधर्पक-प्रभावत्वाभावाद् अन्यस्येति विचार-समर्थप्रज्ञ इत्य् अर्थः । बुद्धेर् महत्त्व-हेतुर् अपि प्रह्लादस्य् एव भक्ति बलम् एव वेति वाक्यालङ्कारः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-बुद्धिर् अपि तेजसा धर्षितः, शङ्कितश् च भीतः सन्, अत एव शनैः परि सर्वतोभावेन गद्-गदादिपर्याकुल-वाक्यतया वा पृच्छत् । ननु, सोऽपि तद्-भक्तो महा-प्रभावः, कुतस् तादृशोऽभूत् ? तत्राह—तेजसा स्वस्य प्रभावेण पराक्रमेण वा दुर्धर्षम् अभिभवितुम् अशक्यम् इत्य् अर्थः । यद् वा, सूर्यादि-तेजसापि दुर्धर्षम् इति महा-तेजस्वितोक्ता । तेजसा धर्षित इत्यादावयं हेतुः । इवेति लोकोक्तिरीत्यानधिकार्थम् । यद् वा, तस्यैव तेजसा दुर्धर्षं प्रष्टुम् अशक्यम् इत्य् अर्थः । तथाप्य् अपृच्छत्, यतो महा-बुद्धिर् गम्भीराशयः, प्रश्नं विनास्य तत्त्वाज्ञानेन भक्ति-विशेषानुदयान्मे सर्व-जन्म-कर्मादिकं विफलम् एव स्यात्, विशेषतोऽस्य वाक्यामृतं च पिबानीत्यादिकं विचारयन्न् इत्य् अर्थः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राजा तस्य तेजसा धर्षितः सन् शनकै पर्यपृच्छत् यतो मह-बुद्धिर् इति श्री-भगवद्-वेषेण नायमन्यो मां भ्रामयति मद् विध-धर्षकर्षक-प्रभाववत्वाद् अन्यस्येति विचार-समर्थ-प्रज्ञ इत्य् अर्थः । अत एव शङ्कितः क्रमश खण्डनाय प्रथमं नाना-वितर्कं कृतवान् इत्य् अर्थः । शनकैर् इत्य् अत्रः हेतुः, तेजसा हेतु दुर्धर्षं प्रश्न-विषयम् अपि कर्तुं दुःशकम् तम् इति शेषः । इवेति वाक्यालङ्कारे ततापि परि सर्वतोभावेनेति महा-बुद्धित्वाद् एवेति भावः । महत्त्वञ्चात्र श्री-प्रह्लादस्य् एव भक्ति-बलं ज्ञेयम् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शङ्कितः किम् अयम् ईश्वर एव वेत्यागताशङ्कः दुर्धर्षम् अधृष्यम् इवेति वाक्यालङ्कारे ॥२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२८ ॥

मुचुकुन्द उवाच—

को भवान् इह सम्प्राप्तो विपिने गिरि-गह्वरे । > पद्भ्यां पद्म-पलाशाभ्यां विचरस्य् उरु-कण्टके ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विपिनेऽरण्ये तत्रापि गिरेर् गह्वरे दुष्प्रवेश-स्थाने तत्राप्य् उरुकण्टके पद्म-पलाशस-दृशाभ्यां पद्भ्यां विचरसीति ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राप्य् अरण्येऽपि । तत्रापि दुःप्रवेशस्थानेऽपि । अरण्यं विपिनं गहनं काननं वनम् इत्य् अर्थः । गुहा गहनदम्भेषु निकुञ्जे गह्वरः स्मृतः इति कोशान्तरम् । विपिने निर्जने ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रश्नम् एवाह—को भवान् इत्य्-आदि-द्वाभ्याम् । तैर् व्याख्यातं च तत्रोरुकण्टक इत्य् अन्तन्तरं सम्प्राप्त इति तत्रापि पद्मेत्य् आदियोज्यं पद्भ्याम् इत्य्-आदिना स्नेहो व्यञ्जितः प्रभावश् च तर्कितः ॥२८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सम्प्राप्तः साक्षाद् आगतः । एतच् च तव योग्यं न स्याद् इति भक्ति-विशेषेण वदन्तस् तस्य जगद् वैलक्षण्यं वक्तुम् आदौ पदाब्जयोः सुकोमलत्वेऽपि कण्टकावेध्यत्वादिकम् आह—विपिन इत्य्-आदिना । यद् वा, तस्य सौन्दर्य-सौकुमार्यादिभिर् आकृष्टोऽतिस्निह्यन्न् आह—पद्भ्याम् इति । एतच् च तैर् एव व्यक्तीकृतम्, विचरसि परिभ्रमसि ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पद्म-पलाश-तुल्यां पद्भ्याम् ॥२८.२९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.२९ ॥

किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः । > सूर्यः सोमो महेन्द्रो वा लोक-पालोऽपरोऽपि वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेजो-मूर्तिः प्रभावो दीप्तिर् वा ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेजस्विनां ज्योतिष्मतां सूर्यादिनां पुञ्जीभूतम् एकं तेजः । किं स्विद् इति वितर्के । स्वामी तु तेजो मूर्तिः मूर्तिमत् प्रभावः प्रतापः, दीप्तिः प्रकाशः । विकल्पत्रयं तु तेज्स्य-वयवासम्भवात् तथा प्रभावस्यापि चरम-पक्षः साधीयान् । अपरः कुब्फ़ेरादिः । स्विद्वितर्के । किं तेजस्विनाम् अखिलानां सूर्यादीनां पुञ्जीभूतं तेजः, अपितु नेत्य् अर्थः । तद् अपेक्षया तावतोप्य् अल्प-प्रमाणत्वाद् इति भावः । एवम् उत्तरत्रापि । तीकायां तेजो-मूर्तिः तेजः शब्दो हि न मूर्ति-वाची तेजो बले च दीप्तौ च तेजो धाम्नि पराक्रमे । प्रभावरेतसोश् च इत्य् एवावन्त एवार्था विश्व-प्रकाशादौ दर्शिताः । मूतः इति निष्ठान्तो वा पाठः । तस्य प्रभाव-दीप्ताभ्यां प्रत्य् एक् अम् अन्वय महा भुत-तेजोंश-रूपम् । तत्-तेजोऽति कियद् इत्य् आह—भगवान् भगवद् विभूति-रूपो महा-भूत-तेजोऽधिष्ठातृ-रूपो देवो विभावसुर् अपि नेत्य् अर्थः । त्रयीतनुत्वेन तेजोऽपि महिष्ठम् । अन्यत् तद् वितर्क्य तम् अप्य् अल्प-प्रमाणत्वेन खण्डयति—सूर्य इति । तेषाम् अतापहारकत्वम् अनाह्लादकत्वञ्चाशङ्क्य चन्द्रं वितर्क्य तम् अपि खण्डयति—महेन्द्रः, तत्-तत्-सर्वदेवानाम् अधिपोऽपि । तत्ऽन्यत्रात्यतमनस्व्याह—लोकेति । वा शब्दः कटाक्षे ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तेजः किं साकारं स्याद् इति पक्स्; अन्तरम् आह—भगवान् इति । तस्यापि श्री-भगवद् विभूतित्वेन सर्व-शकितिमत्वात्, एवम् इदम् अग्रे\ऽप्य् अनुवर्तयितव्यम् । अपि किम् अपरः श्री-ब्रह्मा श्री-रुद्रो वेत्य् अर्थः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वित् वितर्के । किं तेजस्विनां अखिलानां पुञ्जीभूतं तेजः ? अपि तु नेत्य् अर्थः । तद् अपेक्साया तावतोप्य् अल्प-प्रमाणत्वाद् इति भावः । एवम् उत्तरत्रापि । अत्र टीकायां तेजोमूर्तिर् इति तेजोरूपा मूर्तिर् इत्य् अर्थः । प्रभावो दीप्तिर् वेति, तच् च तेजः प्रभावः उच्यते दीप्तिर् वेत्य् अर्थः । तेजः-शब्दो हि न मूर्तिवाची तेजो बले चदीप्तौ च तेजो धाम्नि पराक्रमे । प्रभावरेतसोश् च इत्य् एतावन्त एवार्था विश्व-प्रकाशादौ दर्शिताः मूर्तिर् इत्य् अत्र मूर्त इति निष्ठान्तो वा पाठः, तस्य प्रभाव-दीप्ताभ्यां प्रत्य् एक् अम् अन्वय इति महा-भूत-तेजोंश-रूपं तत्-तेजोऽपि कियद् इत्य् आह—भगवान् भगवद् विभूति-रूपो महा-भूत-तेजोऽधिष्ठातृदेवो विभावसुर् अपि नेत्य् अर्थः । त्रयीतनुत्वेन ततोऽपि महिष्ठमन्यत्तदितर्क्यः, तम् अञ् लप-प्रमाणत्वेन खण्डयति—सूर्य इति । तेषाम् अतापहारकत्वम् अनाह्लादकत्वं चाशङ्क्य चन्द्रं वितर्क्यः, तम् अपि तथा खण्डयति—सोम इति । प्रभावार्थम् आलम्ब्य महेन्द्रम् अपि तथा खण्डयति महेन्द्रस् तत् तत्-सर्व-देवानाम् अधिपोऽपि ततोऽन्यत्रात्यन्तमनास्त्वयाह—लोकेति । वा-शब्दः कटाक्षे ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३०॥

मन्ये त्वां देव-देवानां त्रयाणां पुरुषर्षभम् । > यद् बाधसे गुहा-ध्वान्तं प्रदीपः प्रभया यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वत्रापरितोषाद् आह । मन्य इति । पुरुषर्षभवं श्री-विष्णुम् । गुहाध्वान्तमन्तस्तमः ॥ ३०.३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वत्र सर्व-पक्षेषु । अन्तस् तमः अन्तःकरणाज्ञानम् यो वेद निहितं गुहायाम् इत्य् अत्र गुहापदमन्तकरानपरम् । प्रदीपो गुहान्तर्वर्ति ध्वान्तं यथेति । तेभ्य ऊर्ध्वम् अपि विविच्याह—मन्य इति । त्रयाणां मध्ये पुरुषर्षभं विष्णुत्वम् आरभ्य महा-भगवत्तापर्यन्त-वैभवत्त्वात् । सर्व-पुरुष-श्रेष्ठो यस् तं गुहयोर् बाह्याभ्यन्तरयोर् गिरिकन्दर-हृद्रूपयोस् तमः यथा स्वं ध्वान्तं दुःखं च प्रभया तेजसा प्रदीप इवेति शश्वत्सर्वानुभूतत्वेन दृष्टान्तितं न तु योग्यत्वेन ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्रयाणां मध्ये पुरुषोऽन्तर्यामी चासौ, अत एव ऋषभः श्रेष्ठश् च, तं श्री-विष्णुम् इत्य् अर्थः । गुहयोर् बाह्यान्तरयोर् गिरिकन्दर-हृद्-रूपयोस् तमः, तत्रान्तरं तमोवाधनं सद्यस् तत्-सद्-बुद्ध्यादि-प्रकाशात् । एकदेश-स्थस्यापि व्यापकत्वे दृष्टान्तः—प्रदीप इति, प्रभयेति तथा व्यापकत्व-सिद्ध्यर्थम् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेभ्य ऊर्ध्वम् अपि विविच्याह—मन्ये इति । त्रयाणां मध्ये पुरुषर्षभं विष्णुत्वम् आरभ्य महा-भगवत्तापर्यन्त-वैभवत्वात् सर्व-पुरुष-श्रेष्ठो यस् तं गुहयोः बाह्याभ्यन्तरयोः गिरि-कन्दर-हृद् रूपयोर् ध्वान्तं यथा स्वमन्धकारं दुःखं च प्रभया तेजसा प्रदीप इवेति शश्वत् सर्वानुभूतत्वेन दृष्टान्तितं न तु योग्यत्वेन ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुहयोर् गिरिकन्दरमदन्तः करणयोर् ध्वान्तं तमस् तच्-चान्धकारम् अविद्यां च प्रदीपो मणिमयः ज्ञानमयश् च ॥३०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३१ ॥

शुश्रूषताम् अव्यलीकम् अस्माकं नर-पुङ्गव । > स्व-जन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेजो-मूर्तिः प्रभावो दीप्तिर् वा



वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अव्यलीकं सत्यम् । शुश्रूषतां श्रोतुम् इच्छताम् । गोत्रं नाम वंश-प्रवर्तकश् च

गोत्रं सम्भाव्यबोधे च कानन-क्षेत्रवर्त्मसु ।

कुलाख्ययोर् गिरौ पुंसि भू-गो-रक्षकयोः स्त्रियाम् ॥

इति निरुक्तिः । नरपुङ्गवेति भूमिस्पर्शदि-मनुष्य-लीलाभिप्रायेण । अत एवाव्यलीकं निज-प्रियं त्वज्-जन्मामिशुश्रूषताम् अस्माकं सकाशे कथ्यतां भवतेति शेषः । तद् अनुक्तिः कर्मणि प्रयोगश् च गौरवेण व्यलीकम् अप्रियाकार्य-वैलक्ष्येष्व् अपि इति विश्वः । गोत्रं नाम । यद् वा, अव्यलीकं निष्कपटं कथ्यताम् इत्य् अन्वयः । वा समुच्चये, विकल्पे वा । गुह्यत्वे अप्य् एकतरम् अपि कथ्यताम् इत्य् अर्थः । यदि रोचत इति विनयोक्तिः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चतुर्भुजत्वादिकं साक्षात् पश्यन्न् अपि नहि देवा भुवं स्पृशन्ति इत्य्-आदिकम् अनुष्मरन् भूचरत्वादिना श्री-विष्णुत्वं निश्चेतुम् अशक्नुवन् लोकातीत-रूपं मनुष्यं मन्यमानः सम्बोधयति—नर-पुङ्गवेति । मनुष्य-श्रेष्ठत्वाद् एव अव्यलीकं निज-प्रियं तज्-जन्मादि शुश्रुयताम्, तथा च विश्वः व्यलीकम् अप्रियाकार्य-वैलक्ष्येष्व् अपि इति । यद् वा, अव्यलीकं निष्कपटं कथ्यताम् इत्य् अन्वयः । अस्माकम् इति बहुत्वं तत्-सन्दर्शनादिनात्मनो बहुमानात् । वा समुच्चये । यद् वा, विकल्पे, गुह्यत्वेन जन्म न कथ्यते चेत् तर्हि किं चेत्-तर्हि किं करोषि ? किं वा, अधुना चिकीर्षसीति ? कर्म कथ्यताम् । तद् अपि चेन् न कथ्यते, तर्हि गोत्रं नामैव कथ्यताम् इत्य् अर्थः । तद् अपि यदि ते रोचते, तर्हीति परम-विनयोक्तिः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नरपुङ्गवेति भूमिस्पर्शादि-मनुष्य-लीलाभिप्रायेण अत एवाव्यलीकं निज-प्रियं त्वज्-जन्मादि-शुश्रूषताम् अस्माकं सकाशो कथ्यतां भवतेति शेषः । तद् अनुक्तिः कर्मणि-प्रयोगश् च गौरवेण व्यलीकम् अप्रियाकार्य-वैलक्ष्येष्व् अपि इति विश्वः । गोत्रं नाम यद् वा, अव्यलीकं निष्कपटं कथ्यताम् इत्य् अन्वयः । वा समुच्चये । यद् वा,विकल्पे गुह्यत्वे\ऽप्य् एकतरम् अपि कथ्यताम् इत्य् अर्थः । यदि रोचत इति विनयोक्तिः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुश्रूषताम् इति बहु-वचने स्व-गौरव-प्रख्यापनं तत् प्रति-वचन-श्रवणार्थम् एव स्वस्य निकृष्टत्वे प्रत्युत्तरानर्हत्वात् ॥३१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३२ ॥

वयं तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः । > मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वयं त्व् इति वंश्याभिप्रायेण बहु-वचनम् । तेष्व् अहं मुचुकुन्दं इति प्रोक्त इति । युवनाश्वा मान्धातुः पितातो मान्धाता यौवनाश्वः ॥३२.३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुष-व्याघ्र पुरुष-श्रेष्ठ

व्याघ्र स्यान्तपुंसि शार्दूले रक्तैर् अण्डकरण्दयोः । > श्रेष्ठे नराद् उत्तरस्थ कण्टकार्यां तु योषिति ॥ इति मेदिनी ।

एक्ष्वाका इक्ष्वाकु-कुलजाः । अहो महत्तमस्य जन्मादि-प्रश्ने नीचकस्य का शक्तिः, कथं वा तेन नीचे तत्-कथ्यताम् अत आत्मनः समर्पणार्थम् आत्मन एव जन्मादिकं कथयेयं तत्-प्रसङ्गाद् असौ स्वयम् अपि तत्-कथयेच् च, यतो नर-लील इति गूढाभिप्रायेणाह—वयम् इति । तु-शब्दो निजाल्पतामननाद् भिन्नोपक्रमे । ऐक्ष्वाका इक्ष्वाकव इत्य् अर्थः । क्षत्र-बन्धवो नीचक्षत्त्रिया इत्य् अपि विनयभावात् ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो महत्तमस्य जन्मादि-प्रश्ने नीचस्य का शक्तिः ? परमधार्ष्ट्यापत्तिर् एव, कथं वा तेन नीचे तत् कथताम्, अत आत्मनः जन्मादिकं कथयेयम्, तत्-प्रसङ्गाद् वा स्वयम् अपि निजं तत् कथयेद् इति गूढाभिप्रायेणाह—वयम् इति । तु—शब्दो निजाल्पतामननाद् भिन्नोपक्रमे, ऐक्ष्वाका इक्ष्वाकव इत्य् अर्थः । क्षत्र-बन्धवो नीचक्षत्रिया इत्य् अपि विनयभरात्, यौवनाश्वो युवनाश्व-पुत्रो मान्धाता, तस्य नामाग्रहणं गुरुत्वात्, तस्यात्मन पुत्रः । हे पुरुष-व्राघ्रेति ऐक्ष्वाकत्वेनास्माकं नर-श्रेष्ठत्वेऽपि भवान् एव सर्वथा सर्व-श्रेष्ठतम इति भावः । तत्र हेतुत्वेन सम्बोधयति—प्रभो इति, प्रभाव-विशेषाद् इति भावः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो महत्तमस्य जन्मादिपश्ने नीचस्य का शक्तिः ? कथं वा तेन नीचे तत्-कथ्यताम् ? अतः आत्मनः समर्पणार्थम् आत्मन एव जन्मादिकं कथ्येयं तत्-प्रसङ्गाद् असौ स्वयम् अपि तत्-कथयेच् च यतो नर-लील इति गूढाभिप्रायेणह—वयम् इति । तु-शब्दो निजाल्पतामननाद् भिन्नोपक्रमे । ऐक्ष्वाकाः इक्ष्वाकव इत्य् अर्थः । क्षत्र बन्धवो नीचक्षत्रिया इत्य् अपि विनयभावात् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि मौनम् आलक्ष्य स्वोत्कर्षम् अपि व्यञ्जयन् तं परिचाययति वयन्त्व् इति । क्षत्रबन्धव इति स्वस्य निकर्षो निरहङ्कारित्वज्ञापनया प्रकर्ष एव ॥३२.३४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३३ ॥

चिर-प्रजागर-श्रान्तो निद्रयापहतेन्द्रियः । > शयेऽस्मिन् विजने कामं केनाप्य् उत्थापितोऽधुना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शये अशयिषि, वर्तमान-समीपे भूते लट् । एवं जन्म नाम च कथयित्वा विनयादिना स्वस्यान्तरं भावं ग्पयन् बाह्यं शयक-कारणं कथयन् निज-कर्म् आह—चिरेति । प्रजागर-कारणाकथनं च विनयाद् एव ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं ज्न्म नाम च कथयित्वा विनयादिना स्वस्यान्तर-भावं गोपयन्, बाह्यं ज्ञापयन्, शयन-कारणं कथयन् निज-कर्माहचिरेति । प्रजागर-कारणाकथनं च विनयाद् एव, उपहतानि उपद्रुतानि इन्द्रियाणिऽ यस्य सः । कामं यथेष्टम्, शये इत्य् आत्मनो विषय-भोगाद्य् अपेक्ष नास्तीति ज्ञापितम्, कामम् इत्य् एव सुष्ठु बोधयति—अधुनैवेति । चिर-निद्रायाम् अपि न कदाचित् पूर्वं विघ्नो जात इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं जन्म नाम च कथयित्वा विनयादिना स्वस्यान्तरं भावं गोपयन् बाह्यं शयन-कारणं कथयन् निज-कर्माह-चिरेति । प्रजागर-कारणा-कथनं च विनयाद् एव ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३४ ॥

सोऽपि भस्मी-कृतो नूनम् आत्मीयेनैव पाप्मना । > अनन्तरं भवान् श्रीमाŸ लक्षितोऽमित्र-शासनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मीयेन तदीयेनैव । अमित्रशातनेति पाद-प्रहर्तृयवननाशानाभिप्रायेण । नूनं वितर्के । आत्मीयेनैवेति स्वापराधः परिहृतो विनयश् च व्यञ्जितः । स्वस्यापराधाभावं परम-भाग्यदशां च व्यञ्जयति—अनन्तरम् इति । श्रीमन् इति-वा पाठः । भगवतैव निज-शत्रुरसौ बुद्ध्या घातित इत्य् अपि बुद्ध्यम् इत्याशयेनाह—अमित्रं शास्ति दण्डय्सतीति तथा । अमित्रशातनः इति पाठोऽपि स एवार्थः ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नूनं वितर्के, आत्मीयेनैवेति निजापराधः परिहृतः, विनयो वा व्यञ्जितः, अनन्तरं सद्य एव श्रीमान् लक्ष्मीधरो भगवान् इति प्राग्-लक्षणैर् बुद्धः, श्रीमान् सर्व-शोभायुक्तो लक्षितः । अहो मम भाग्यम् इति भावः । श्रीमन् इति क्वचित् पाठः । तदापि स एवार्थः । तद् अनन्तरं भव-लक्षणाच् च भवतैव निज-शत्रुर् असौ बुद्ध्या घातित इत्य् अपि बुद्धम् इत्य् आशयेनाह—अमित्रं शष्ति दण्डयतीति तथा सः । पाठान्तरेऽपि स एवार्थः ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नूनं वितर्के आत्मीयेनैवेति स्वापराधः परिहृतः विनयश् च व्यञ्जितः स्वस्यापराधाभावो परसभाग्यदशां च व्यञ्जयति, अनन्तरम् इति । श्रीमान् इति श्रीमन्न् इति वा पाठः भवतैव निज-शत्रुरसौ बुद्ध्या घातित इत्य् अपि बुद्ध इत्य् आशयेनाह—अमित्रं शास्ति दण्डयतीति तथा सः । अमित्रशातन इति पाठेऽपि स एवार्थः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमित्रशासनेति मन्ये मद्-द्वारेण त्वयैव स्वशत्रुर्घातित इति भावः ॥३४.३६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३५ ॥

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः । > हतौजसा महा-भाग माननीयोऽसि देहिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हतौजसो नष्ट-तेज्सः । महैस् तेजोभिर् आसमन्ताद्भज्यते सेव्यत इति महा-भाग, अतितेजस्विन्न् इत्य् अर्थः । अत एव माननीयो\ऽसीति । तव तेजसा हतमोजो येषां तथा-भूता वयं, भुवि किम् अर्थम् अत्रागतोऽसि किं वाधुना करिष्यसीत्य् आदिकं बहु प्रष्टुं न शक्नुमः । वक्तुम् इति वक्तव्ये हतौजस्त्वाद् एव भावावरणाशक्तेः प्रष्टुम् इत्य् उक्तम् । द्रष्टुम् इति पाठे द्रष्टुम् इति कुतो वक्तुं प्रष्टुं वेत्य् अर्थः । एतावत्तु निर्णीतम् इत्य् आह—देहिनां ब्रह्मादीनां माननीयो\ऽसि । तच् च युक्तम् एवेति सम्बोधयति—महल्लोकोत्तरं भागं माहात्म्य-समूहो यस्य हे तथाविधेति । भग-शब्दात्-समूहेऽण् प्रत्ययः ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, भक्तवत्सलस्य मम सन्तोषार्थम् अन्यद् अपि निजवृत्तं कथयेति चेत् तत्राह—तेजसेति । तव तेजसा हतमोजः प्रभावो येषां तथा-भूताः सन्तः, भूरि किम् अर्थम् अत्रागतोऽसि ? कुत्र वा यास्यसि ? किं वाधुना करिष्यसीत्य् आदिकं बहुलं प्रष्टुम् अपि न शक्नुमः, किं पुनः स्ववृतं कथयितुम् इत्य् अर्थः । पाठान्तरे बहुकालं द्रष्टुम् अपि न शक्नुमः । कुतः ? प्रष्टुं कथयितुं वेति । अतः केवलं त्वद्-भक्तिर् एव कार्येत्य् आह—देहिनां सर्वजीवानां माननीयोऽसीति । महत् लोकोत्तरं भागं माहात्म्य-समूहो यस्येति माहात्म्यार्थ-भग-शब्दात् समूहार्थेऽण् प्रत्ययः ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव तेजसा हतम् ओजः प्रभावो येषां तथा-भूताः वयं भूरि किम् अर्थम् अत्रागतोऽसि ? कुत्र वा यास्यसि ? किं वाधुना करिष्यसि ? इत्य्-आदिकं बहु प्रष्टुं न शक्नुमः वक्तुम् इति वक्तव्ये हतौजस्त्वाद् एव भावावरणाशक्तेः प्रष्टुम् इत्य् उक्तं द्रष्टम् इति पाठे द्रष्टुम् अपि कुतो वक्तुं प्रष्टुं वेत्य् अर्थः । एतावत्तु निर्णीतम् इत्य् आह—देहिनां ब्रह्मादीनाम् अपि माननीयोऽसीति । तच् च युक्तम् एवेति सम्बोधयति—महत् लोकोत्तर भागं माहात्म्य-समूहो यस्य हे तथाविधेति भग-शब्दात्-समूहेऽण् प्रत्ययः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३६ ॥

एवं सम्भाषितो राज्ञा भगवान् भूत-भावनः । > प्रत्य् आह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तविधया । सम्भावितः पूजितः सम्भावितार्चितौ समौ इति धरणिः । मेघनादा चासौ गभीरा निम्नार्था तया निम्नं गभीरं इत्य् अमरः । अनुकम्पया भूत-मात्रं भावयति पालयितुं प्रवृत्तः किमुत तादृशम् इति तत्राह । अत एव प्रहसन्न् इति, स्वभावानुवादः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्त-वात्सल्येन श्री-भगवांस् त्वात्मानम-गोपयन्नुत्तरं ददावित्य् आह—एवम् इति । उक्त-प्रकारेण सुष्टु भाषितो भूत-भावितो भूत-भावनः स्वभावत एव सर्व-जीव-पालकः तत्रापि भगवान् भक्त-वात्सात्सल्याद्य् अशेष-गूण-प्रकटकः, अत प्रत्य् आह, प्रहसन् स्मयमानः श्री-मुख-प्रसत्तिस्वभावाद् एव, तस्मिन् प्रसड् अविशेषाद्वा । मेघेत्य् अपि स्वभावाद् एव हर्ष-विशेषोदयेनाधुना तद् विशेषाद् वा । यद् वा, स्वस्य श्री-विष्णुत्व-बोधनाय । तथा च श्री-विष्णु-पुराणे तस्य तन्निर् हारे श्री-मुचुकुन्द वाक्यम् तथा हि सजलाम्भोद-नादधीरतरं तव । वाक्यम् इति [वि।पु ५.२३.२७] ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुकम्पया भूत-मात्रं भावयितुं पालयितुं प्रवृत्तः किमुत तादृशम् इति तथा अत एव प्रहसन् । मेघेति स्वभावानुवादः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३७॥

श्री-भगवान् उवाच—

जन्म-कर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः । > न शक्यन्तेऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मायापीति मत्-कर्तृक-संख्याकत्वे\ऽप्य् अनन्तत्वहानिः स्याद् इति भावः । नैतावता मत्-सार्वज्ञम् अपि त्रपते, सतोऽज्ञानस्यैव सार्वज्ञ्य-नाशकत्वाद् इति । तानि च सहस्राणि अनुसङ्ख्यातुं सङ्ख्यान-सदृशम् अपि कर्तुम् अनु हीने सहार्थे च पश्चात् सादृश्ययोर् अनु इति विश्वः । हि निश्चितम् ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अङ्गेति सादर-सम्बोधने । अनु सादृश्ये, तथा च विश्वः अनु हीने सहार्थे च पश्चात् सादृश्ययोर् अपि इति । केनचिद् रज आदि-दृष्टान्तेनापि सङ्ख्यातुम्, हि निश्चितम् । ननु, तर्हि सर्व-शक्ति-मत्त्व-माहात्म्यहानिः स्यात् ? तत्राह—अनन्तत्वाद् इति । ख-पुष्पाद्य् अज्ञानेन सर्वज्ञास्य ज्ञानाहानेर् इति भावः ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तानि च सहस्राणि अनुसङ्ख्यातुं सङ्ख्यात-सदृशम् अपि कर्तुम् अनु हीने सहार्थे च पश्चात्-सादृश्ययोर् अपि इति विश्वः हि निश्चितम् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-निरहङ्कारित्वे\ऽपि मद् वचन-श्रवणार्थम् एव स्वोत्कर्षम् असौ द्योतयत्यतोऽहम् अपि परम-निरहङ्कारोऽपि निज-मुखेनैवास्मै स्वोत्कर्षम् अभिधास्यामि ये यथा मां प्रपद्यन्ते इति मद् उक्तेर् इति विमृश्याह—जन्मेति ॥३७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३८ ॥

क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः । > गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्वचित् कदाचित् कश्चित् यद्य् अपि रजांस्य् अपि विममे गणितवांस् तथापि जन्मानि कर्माणि न विमिमीते ॥३८.४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्तत्वम् आह—कश्चिद् इति । चिद् अव्ययम् अत्रावधारणे ज्ञेयम्, तथा च को ब्रह्मैव सर्व-स्रष्टृत्वात् ॥३८.३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विममे इति सम्म्भावनायाम् अतीत-प्रत्यय आर्षः, विमिमीतेत्य् अर्थः । कर्मादिवद् गुणानाम् अप्य् आनन्त्येनापृष्टानाम् अपि प्रसङ्गात् तेषां कथनं ज्ञेयम् । गुणादीनीति लिख्ये जन्मानीत्य् आदिकं लेखक-भ्रमात् । यद् वा, अत्र मूल-पाठान्तरम् अनुसन्धेयम् । तच् च न मे जन्मानीत्य् अन्वय इति व्याख्या चित्-सुखस्यापि सम्मता, अन्यथा यथावस्थित-पाठे तादृश-लिखनानुपयोगः स्याद् इति दिक् ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विममे विमिमीते तथापि मे जन्मानि न विमिमीतेत्य् अर्थः । कीदृशानि ? गुणैः कर्मभिश् चाभिधानानि नामानि यत्र तादृशानिऽ । टीकायां जन्मानीति कर्माण्य् उपलक्षयति—उत्तरानुरोधात् न मे जन्मानीत्य् अन्वय इति चित्-सुखः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विममे कश्चिद् गणयामास ॥३८.४३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.३९ ॥

काल-त्रयोपपन्नानि जन्म-कर्माणि मे नृप । > अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथापि पार्थिवरजोगणकत्वे\ऽपि । स एवोरुजन्मभिर् अपि, स्वामिना जायत इति जन्मानि कर्माणीत्य् अर्थः कृतः । किम्भूतानि—गुणाः कर्माणि जन्मान्य् अभिधानानि नामानि च विद्यन्ते येषु तानीत्य् अर्थः । इह मत्वर्थीयोच् । ज्न्म स्याज् जनने देहे वंशे स्थाने च कर्मणि इति निरुक्तिः । कर्म व्याप्ये क्रियायां च जनने मरणेऽपि च इति च । विपूर्वात् माङ्-माने अस्माल् लड्र्थे लिट् । विममे-विमिमीये । तथापि मे जन्मानि न विमिमीत इत्य् अर्थः । कीदृशानि ? गुणैः कर्मभिश्चाभिधानानि नामानि यत्र तादृशानि । टीकायां तु ज्न्मानीति कर्माण्य् उपलक्षयत्य् उत्तरानुरोधात् । न मे जन्मानीत्य् अन्वय इति चित्-सुखः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालत्रये उपपन्नानि सिद्धानि भूतानि वर्तमानानि भविष्याणि चेत्य् अर्थः । जन्म-कर्माण्य् अपि किं पुनर् गुणनामानि, तेषां ततो\ऽप्य् आदिक्याद् इत्य् अर्थः । तत्र गुणात्मनस् तेऽपि गुणान् विमातुम् [भा।पु १ओ।१४.७] गुणानां तत् प्रसिद्धम् एव, गुण-कर्मोत्थत्वान् नाम्नाम् अपि तत् सुसिद्धम् एव, जन्मनाम् अप्य् आनन्त्यं काले काले बहुधाविर् भावात्, एकस्यैव रूपस्य च वैविध्याद् बाहुल्याच् च, तत्र च कालस्यानन्त्याद् इति दिक् । अनुक्रमन्तः क्रमेण गणयन्तः, न गच्छन्ति नाद्यापि यान्ति, एव निर्धारणे, परमर्षयो भृग्वादयोऽपि । हे नृपेति सद् राजत्वेन परमर्षीणाम् अपि समागमात् त्वयैतद् विज्ञायत एवेति भावः ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालेति सार्धकम् । काल-त्रये उपपन्नानि सिद्धानि, भूते वा भविष्यति वा वर्तमाने वा कानिचिद् अपीत्य् अर्थः । कर्माणीति गुण-नाम्नाम् उपलक्षणम् । अनुक्रमन्तः क्रमेण गणयन्तः न गच्छन्ति यतो वाचो निवर्तन्ते [तै।उ। २.७.१] इत्य्-आदेः एव निर्धारणे परमार्षयः वेदान्ता अपि तथापि भवद्-अनुरोधेनाद् यतनानि साम्प्रतानि परम-दुरुहान्य् अपि गदतो मम कथयतो मत्तः सकाशाच् छृणुष्व मात्रं, न तु तत्त्वतः परिमाणतो वा ज्ञातुम् इच्छेत्य् अर्थः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४० ॥

तथाप्य् अद्यतनान्य् अङ्ग शृणुष्व गदतो मम । > विज्ञापितो विरिञ्चेन पुराहं धर्म-गुप्तये ॥ > भूमेर् भारायमाणानाम् असुराणां क्षयाय च ।

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुक्रमन्तो नितरां गणयन्तः । परमर्षयो वशिष्ठादयः । कालेति सार्धकम् । कालत्रय उपपन्नानि सिद्धानि, भूते वा भविष्यति वा वर्तमाने वा कानिचिद् अपीत्य् अर्थः । कर्माणीति गुण-नाम्नाम् उपलक्षणम् । अनुक्रमन्तः क्रमेण गणयन्तो न गच्छन्ति यतो वाचो निवर्तन्ते इत्य् आदेः । एव निर्धारणे । परमर्षयो वेदान्ता अपि । तथापि भगवद् अनुरोधेनाद्यतनानि साम्प्रतिकानि परम-दुरूहाण्य् अपि गदतो मम कथयतो मत्तः सकाशाच् छृणुष्व-मात्रं न तत्त्वतो वा परिणामतो ज्ञातुम् इच्छेत्य् अर्थः ॥४०॥

यद्य् अपि नान्तं गच्छन्ति तथापि । अद्यतनान्य् आधुनिकानि । भारायमाणानां भारवदाचरताम् कर्तुः क्यङ् इति क्यङ् । विज्ञापित इति सार्धकम् । धर्म-गुप्तये साधूनां रक्षणायेत्य् अर्थः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्यतनानि आधुनिकानि, पञ्चमार्थे षष्ठी, गदतो मत्तः सकाशाद् इति श्रद्धावधानाद्य् अर्थम्, विशेषेण क्षीर-सागरतीरे श्री-रुद्र-भूम्यादिभिः सह विविध-नियम-पूर्वकोपस्थानादिना ज्ञापितः । धर्म-गुप्तय इति साधूनां पालनं सिद्धम् एव ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विज्ञापित इति सार्धकम् । धर्म-गुप्तये साधूनां रक्षणायेत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४१ ॥

अवतीर्णो यदु-कुले गृह आनकदुन्दुभेः । > वदन्ति वासुदेवेति वसुदेव-सुतं हि माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृहे—भार्यायाम् । प्रवृत्ति-निमित्तम् आह—वसुदेवेति । आदौ जन्म् आह—अवतीर्ण इति । नाम् आह—बदन्तीत्य् अर्धकेन । वासुदेवेति सह सुपा इति सामान्यतः समासः । ननु, असन्ति तत्र भूतानि इत्य्-आदिना तव नामेदं पूर्वम् अपि प्रसिद्धम् एव—सत्यम्, किन्तु मध्ये मध्ये तिरोभूतेन प्रवृत्ति-विशेषेणाधुनिकम् इव प्रतीयत इत्य् आह—वसुदेव-सुतम् इति । हि प्रसिद्धौ । श्री-रामादिष्व् अनेकेष्व् अपि तत्-पुत्रेषु सत्सु प्राधान्यान्मय्य् एव तत्-प्रसिद्धिर् इत्य् अर्थः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदौ जन्म् आह—अवतीर्ण इति । स्वयम् एव साक्षाद् आगतोऽस्मि, न तु गर्भ-वासादिनोत्पन्नोऽस्मीत्य् अर्थः । आनकदुन्दुभेर् इति देवकृतोत्सवेन तस्य प्रसिद्धिं माहात्म्यं च सूचयति । नाम् आह—वदन्तीति । हे वासुदेवेति वदन्ति लोकाः । ननु, चित्ताधिष्ठातृत्वादिना पूर्वम् अपि नामेदं वर्ततं एव, तत्राह—वसुदेव-सुतम् इति । तत्-सुतत्वेनैवैतन् नाम्नः सुप्रसिद्धेर् इत्य् अर्थः । इत्य् अद्यतनता तन् नाम्नः सम्यग् अर्थता च दर्शिता । हि एव, माम् एव, श्री-रामादीनां तत्-पुत्रत्वेन तन्-नाम-सम्भवेऽपि पितृ-स्नेहाधिक्यादिना मय्य् एव तत्-प्रसिद्धेः । श्री-कृष्ण-दामोदर-गोविन्दादि-गोकुल-सम्बन्धि-नामानि गुह्यत्वान्नोक्तानि । अत एव तस्य तज्-ज्न्मनि तच्-छ्रवणायोग्यत्वेन योग्य-जन्मान्तरावाप्तिः, श्री-भगवतैवाग्रे वक्ष्यते । एवम् अग्रेऽपि कर्मोक्तौ श्री-गोकुल-चरितम् अनुक्त्वा केवलं दुष्ट-हननम् एवोच्यत इति ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदौ जन्म् आह—अवतीर्ण इति । नाम् आह—वदन्त्यीत्य् अर्धेकेन वासुदेवेतीति । सह सुपा [२.१.४] इति सामन्यः समासः । ननु, वसन्ति तत्र भूतानि इत्य्-आदिना तव नामेदं पूर्वम् अपि प्रसिद्धम् एव सत्यं किन्तु मध्ये मध्ये तिरोभूतेन प्रवृत्ति-निमित्त-विशेषेणाधुनिकम् इव प्रतीयत इत्य् आह—वसुदेव-सुतम् इति । हि प्रसिद्धौ श्री-रामादिष्व् अन्येष्व् अपि तत्-पुत्रेषु सत्सु प्राधान्यान् मय्य् एव तत्-प्रसिद्धिर् इत्य् अर्थः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४२ ॥

कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्-द्विषः । > अयं च यवनो दग्धो राजंस् ते तिग्म-चक्षुषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते तिग्म-चक्षुषा निमित्तेन मयैव दग्धः ॥४२.४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कालनेमिर् इति प्राग्-जन्माभिप्रायेण । सद्द्विषः सतां द्वेष्टारः । मया हताः, प्रलम्ब आदिर् येषाम् अघ-धेनुकादीनां ते तथा अतद्-गुण-सम्विज्ञान-बहुव्रीहिणा प्रलम्ब-रहिता इत्य् अर्थः । तिग्म-चक्षुषा कोपाग्निना । कर्म् आह—कालनेमिर् इति । मयेति शेषः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कर्म् आह—कालनेमिर् इति । महादैत्यत्व-हनने कारणम्—सतः साधून् द्विषन्तीति सद्-द्विषः । राजन् हे बुद्ध्यादिना राजमानेति त्वया तद्-बुद्ध्यत एवेति भावः । यद् वा, श्री-रुद्र-वरादिना प्रकाशमान इति स्वस्यावध्यत्वं सूचितम् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कर्म् आह—कालनेमिर् इति मयेति शेषः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४३ ॥

सोऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः । > प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्त-वत्सलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वं पुरा जन्मनि । न च तद्धननार्थम् एवागतोस्म्यन्य् अथापि तस्य शक्यत्वात्, किन्तु त्वत्कृतार्थम् एवेत्य् आशयेनाह—स इति । तादृश-माहात्म्ये\ऽप्य् अहम् उप दाक्षिण्येनागतः । उप सामीप्य-दाक्षिण्य-दोषाख्यानात्य् अयेष्व् अपि इति विश्वः । प्रचुरं यथा स्यात् तथा प्रकर्षेण शुद्ध-भावाद् इनार्थितः द्रष्टुं याचितो वाञ्छित इत्य् अर्थः ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न चैतद् अर्थम् एवावगतोऽस्मि केनचिद् अन्येनाप्य् उपायेन तद्धननसुसिद्धेः, किन्तु त्वद् अर्थम् एवेत्य् आशयेनागमन-मुख्य-प्रयोजनम् आह—स इति । तादृश-माहात्म्यो\ऽप्य् अहम् उप दाक्षिण्येनागतः, उप सामीप्य-दाक्षिण्य-दोषाख्यानात्ययेषु च इति विश्वः । प्रचुरं यथा स्यात् तथा प्रकर्षेण शुद्ध-भावाद् इनार्थितो द्रष्टुं याचितो वाञ्चित इत्य् अर्थः । यतो भक्तवत्सलः, दर्शन-मात्रेणैव भक्ताशेष-मनोरथ-पूरणाद् भक्तार्थ सर्वार्थकत्वाच्चेत्य् अर्थः । यद् वा, अस्य पूर्वार्धे नान्वयः ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च तद्धननार्थम् एवागतोस्मि अन्यथापि तस्य शक्यत्वात् किन्तु त्वत् कृपार्थम् एवेत्य् आशयेनाह—स इति । तादृश-माहात्म्योप्य् अहम् उप दाक्षिण्येनागतः उप सामीप्य् अदाक्षिण्य-दोषाख्यानात्ययेष्व् अपि इति विश्वः । प्रचुरं यथा-स्यात्-तथा प्रकर्षेण शुद्ध-भावाद् इनार्थितः द्रष्टुं याचितः वाञ्छित इत्य् अर्थः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४४ ॥

वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते । > मां प्रसन्नो जनः कश्चिन् न भूयोऽर्हति शोचितुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपूर्णोऽहम् इति शोचितुम् । यद् वा, अन्यैर् दत्तेषु वरेषु क्षीयमाणेषु यथा शोचति नैवं मां प्रपन्नः । मद्-दत्त-वराणाम् अक्षय्यत्वाद् इति भावः ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपूर्णाहम् अधन्योऽहम् असुखी जन्मवाम् इति इत्य् अर्धश्लोकः पुस्तकान्तरे लभ्यते, इह स्वामि-चरणैस् तत्-प्रतीकोच्चारणेन स्वीकृतः प्रतीयते । सर्वेश्वर-दत्तापहारित्वाभावम् आह—यद् वेति । अन्यैर् मद्भिन्नैर् देवतान्तरैः । इति भाव इति—

विषयतृपो नर-पशवो य उपासते विभूतीर् न परं त्वाम् । > तेषाम् आशिष ईश तद् अनु विनश्यन्ति यथा राज-कुलम् ॥

इति चित्रकेतूक्तेर् भगवद् दत्तवराणाम् एवाक्षयित्वम् अन्यदत्तानां क्षयित्व-श्रवणाद् इत्य् आशयः । हे राजर्षे इति—राज्ञ ऋषेश् च योग्यान् सर्वान् अपीति भावः । प्रपन्नः शरणागतोऽपि, किं पुनर् भक्तिमांस्त्वादृश इत्य् अर्थः । न भूय इति । तस्मात् तुच्छो वरो न मृग्य इति गूडोऽभिप्रायः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजर्षे ! इति सर्व-काम-दान-पात्रतोक्ता अतो राज्ञ ऋषेश् च योग्यान् सर्वान् एवेत्य् भावः । प्रपन्नः शरणागतत्व-मात्रेणाप्य् आश्रितः, कश्चिद् अपि, किं पुनर्-भक्तिमांस् त्वादृश इत्य् अर्थः । भूयः पुनर् वर-प्रप्तेः पश्चात्, अन्यत् तैर् व्याख्यातम् । यद् वा, पश्चात् कदाचित् कथञ्चित् किञ्चिद् अपि तव दुःखं नास्त्य् एव, तथापीहामुत्रापि सुखार्थं वृणीश्व । तत्र हेतुः—राजर्षे इति ! तव राजत्वेन ऋषित्वेन च लोकद्वय-सुखोपभोग-योग्यत्वाद् इत्य् अर्थः ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे राजर्षे इति राज्ञ ऋषेश् च योग्यान् सर्वान् एवेति भावः । प्रपन्नः शरणागतोऽपि किं पुनर् भक्तिमांस् त्वादृश इत्य् अर्थः । न भूय इति । तस्मात् तुच्छो वरो न मृग्य इति तु निगूडो भावः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोचितुं नार्हतीत्य् अन्यैर् दत्तेषु वरेषु क्षीयमाणेषु सत्सु यथा शोचति नैवं मां प्रपन्नः मद्दत्तवराणाम् अक्षयत्वाद् इति भावः ॥४४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।



॥ १०.५१.४५ ॥**

श्री-शुक उवाच—

इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः । > ज्ञात्वा नारायणं देवं गर्ग-वाक्यम् अनुस्मरन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अष्टाविंशतिमे युगे भगवान् अवतरिष्यतीति वृद्ध-गर्ग-वाक्यम् अनुस्मरन्न् इत्य् अर्थः ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । तं कृष्णं । अष्टाविंशतितमे वैवस्वत-मन्वन्तर-गताष्टाविंशतितमावृत्त्या गते द्वापरे युग इत्य् अर्थः । वृद्ध-गर्ग-वाक्यं गर्गेण तस्मै तस्मै प्रोक्तं वाक्यम् इति पुराणान्तरात् । इत्य् अर्थः इति—गर्ग-पदेन वृद्ध-गर्गो ग्राह्य इति ज्ञेयम् ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एतद् उक्तः सन् गर्ग-वाक्यम् अनुस्मरन् तं नारायणं ज्ञात्वा मुदान्वितः प्रणम्य साष्टाङ्गं नत्वाह । अत एव देवं द्योतमानम् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति एतद् उक्तः सन् गर्ग-वाक्यम् अनुस्मरन् तं नारायणं देवं स्वयं भगवन्तं कृष्णं ज्ञात्वा सुष्ठु निश्चित्य मुदान्वितः प्रणम्य साष्टाङ्गं नत्वाह ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अष्टाविंशतितमे युगे भगवान् अवतरिष्यति तं त्वं द्रक्ष्यसीति **बृहद्-**गर्ग-वाक्यम् अनुस्मरन् नित्य् अर्थः ॥४५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४६ ॥

मुचुकुन्द उवाच—

विमोहितोऽयं जन ईश मायया > त्वदीयया त्वां न भजत्य् अनर्थ-दृक् । > सुखाय दुःख-प्रभवेषु सज्जते > गृहेषु योषित् पुरुषश् च वञ्चितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-भक्तिर् एव केवलं दुर्लभा, कामास् तु तुच्छा न वरण-योग्या इत्य् आशयेनाभक्ताः संसारम् अष्टभिः प्रपञ्चयन् स्तौति—विमोहित इति । हे ईश ! योषित् पुरुषश् इति द्वि-विधो\ऽप्य् अयं जनस् त्वदीयया मायया विमोहितोऽतोऽनर्थ-दृक् अनर्थे संसारे दृक् दृष्टिर् यस्यासौ । यद् वा, अर्थं परमार्थ-स्वरूपं त्वां न पश्यतीति तथा । अतस् त्वां न भजति किन्तु परस्परं वशितः सन् सुखेच्छया दुःखानाम् एव प्रभवो येषु तेषु गृहेष्व् एव सज्जत इति ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद्-भक्तेर् दौर्लभ्यं द्योतयन् कामानाम् अनर्थ-हेतुताम् आह—त्वद्-भक्तिर् इत्य्-आदिना । यतो विमोहितोऽतो हेतोः । अनर्थम् अनर्थ-हेतुं सांसारिक-विषय-सुखं पश्यतीति तथा । अतोऽनर्थ-दृक्त्वात् । परस्परं पुरुषेण स्त्री वञ्चिता, स्त्रिया च पुरुषः, निज-निज-कपटेनेति ज्ञेयम् । सज्जते आसक्तो भवति । त्वदीयया इति दुर्लङ्घ्यत्वम् अभिप्रेतम् । अयम् इति—एतच् च प्रत्यक्साम् एवेत्य् अर्थः । गृहेषु तत्-सम्बन्धि-पुत्र-धनादिषु चासक्तो भवति । न च साक्षाद्-दुःखेऽपि कदाचिन् निर्विण्णः स्यात्, रत्य्-आदिना प्रतारितत्वाद् इत्य् आह—वञ्चित इति ॥४६॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : विमोहित इति । जनो योषित् पुरुषश् इति द्विविधो जनस् त्वदीयया मायया विमोहितो वञ्चितश् च । विमोहितत्वाद् उचिते न प्रवर्तते च पद-द्वयेनाह । अनर्थे प्रपञ्चे दृग् यस्य स तथा । दुःखस्य प्रभवो जन्म येषु तेषु ॥४६॥ [मु।फ। १६.१२]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश हे परमेश्वर ! त्वदीययेति मायाया अपि महा-शक्तित्वेन दुर्लङ्घ्यत्वम् अभिप्रेतम् । अत एव विशेषेण मोहितःअयम् इति—एतच् च प्रत्यक्षम् एवेत्य् अर्थः । यद् वा, सर्वो\ऽप्य् अयं जनो जीवो गृहेषु तत्-सम्बन्धि-पुत्र-धनादिषु सज्जते आसक्तो भवति, न च साक्षाद्-दुःखेऽपि कदापि निर्विण्णः स्यात्, रत्य्-आदिना प्रतारणाद् इत्य् आह—वञ्चित इति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अयं सत्-कुल-जन्मापि मल्-लक्षणो जनो निर्वेदेन देहादौ निरभिमानत्वाद् अहम् इत्य् अस्याप्रयोगः । अनर्थ-दृक् विषय-दृष्टिः, योषित् पुरुषो मर्त्यः, अपि योषिद्भिर् गृहैर् वा वञ्चितोऽपि । अन्यत् समानम् ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वदीयया इति दुर्लङ्घत्वम् अभिप्रेतम् । अयम् इति एतच् च प्रत्यक्षम् एवेत्य् अर्थः । गृहेषु तेषु तत्-सम्बन्धि-पुत्र-धनादिषु च सज्जते आसक्तो भवति, न च साक्षात् दुःखे\ऽपि कदाचिन् निर्विण्णः स्यात् रत्य्-आदिना प्रतारणाद् इत्य् आह—वञ्चित इति ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वद्-भक्तिं परिहाय कामा यतः व्रियन्ते एषैव तव मायेत्य् आशयेनाह—विमोहित इति । योषिच् च जनः पुरुषश् च जनो वञ्चित इत्य् अन्वयः ॥४६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४७ ॥

लब्ध्वा जनो दुर्लभम् अत्र मानुषं > कथञ्चिद् अव्यङ्गम् अयत्नतोऽनघ । > पादारविन्दं न भजत्य् असन्-मतिर् > गृहान्ध-कूपे पतितो यथा पशुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, काम-सुखं सूकरादिष्व् अपि सम्भवति, भगवद्-भजनं तु न मानुष-जन्म-व्यतिरेकेणेति मानुषत्वं प्राप्य त्वाम् अभजन्न् अतिमूढ इत्य् आह—लब्ध्वा इति । अत्र कर्म-भूमौ अव्यङ्गम् अविकलाङ्गम् । किं च, असति विषय-सुखे मतिर् यस्य सः । गृहम् एवान्ध-कूपस् तस्मिन् निपतितःयथा पशुस् तृण-लुब्धोऽन्ध-कूपे पततीति ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विषय-सुख-सौलभ्येऽपि हरि-भजनं दुर्लभम् इत्य् आह—किं च, इति । अत्यनर्थम् आह—किं च, इति । तथायम् अपि विषय-लुब्ध इत्य् अर्थः ।

अहो द्वि-त्रि-वराटक-मूल्येनाज्ञश् चिन्तामणिं विक्रीणातीत्य् आह—लब्ध्वा इति । अनघ ! हे यत्-किञ्चिद्-भजनेन सर्व-दुःख-निवर्तक ! कथञ्चित् पूर्वादृष्टेन । पादारविन्दं त्वदीयम् इति प्रकरण-बलात् साक्षाद् अनुक्तिः । सम्भ्रमेण अयत्नतो न भजति अप्रयासेन तस्य यद् भजनं, तद् अपि न कुरुते । अभजने हेतुः—यथा पशुस् तथैव असन्-मतिः विवेक-रहितः, अतो गृहान्ध-कूपे पतितश् च भवति ॥४७॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : विमोहितत्वम् एव पुनः प्रपञ्चयति—लब्ध्वा इति । कथञ्चित् कुतश्चित् पुण्याद् अव्यङ्गम् अविकलम् असति विषये मतिर् यस्य ॥४७॥ [मु।फ। १६.१३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मानुषं मनुष्यं नृ-देहम् इत्य् अर्थः । अनघ ! हे भजन-मात्रेण सर्व-दुःख-निवर्तक ! कथञ्चित् पूर्वादृष्टेन त्वद्-इच्छया वा, अत एव अयत्नतो लब्ध्वा अपि । यद् वा, कथञ्चिद् अप्य् अयत्नतोऽप्रयासेनापि न भजति, पादारविन्दं त्वदीयम् इति प्रकरण-बलात् । यद् वा, अरविन्द-रूपकेण स्वत एव त्वदीयत्व-बोधनात् साक्षात् तद्-अनुक्तिर् भक्ति-विशेषेण । पतितो भवति । किं वा, वर्तमाने\ऽप्य् अतीत-निर्देशः, पात-निर्धारात् । अन्यत् तैर् व्याख्यातम् । यद् वा, अभजने हेतुः—यथा पशुस् तथा असन्-मतिर् विवेक-रहितः, अतो गृहान्ध-कूपे पतितः सन् । पक्षान्तरे जनोऽयं मल् लक्षणः, अर्थः पूर्वत् ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मानुषं मानुष्यम् । अनघ ! हे यत्-किञ्चिद्-भजनेन सर्व-दुःख-निवर्तक ! कथञ्चित् पूर्वादृष्टेन लब्ध्वा पादारविन्दं त्वदीयम् इति प्रकरण-बलात् साक्षाद् अनुक्तिः । सम्भ्रमेण अयत्नतो न भजति अप्रयासेन तस्य त्वद्-भजनं तद् अपि न कुरुते । अभजने हेतुः—यथा पशुस् तथैव असन्मतिः विवेक-रहितः । अतो गृहान्ध-कूपे पतितश् च भवति ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो द्वि-त्रि-वराटिका-मूल्येनाज्ञश् चिन्तामणिं विक्रीणातीत्य् आह—लब्ध्वा इति । अत्र भारत-भूमौ अव्यङ्गम् अविकलाङ्गम् ॥४७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४८ ॥

ममैष कालोऽजित निष्फलो गतो > राज्य-श्रियोन्नद्ध-मदस्य भू-पतेः । > मर्त्यात्म-बुद्धेः सुत-दार-कोश-भूष्व् > आसज्जमानस्य दुरन्त-चिन्तया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् अस्य जनस्येयं गतिः, किन्तु ममापि तथैवेत्य् आह—ममैष इति । मर्त्ये शरीरे आत्म-बुद्धिर् यस्य तस्य मम, अत एव सुतादिष्व् आसज्जमानस्य ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्यापि तत्त्वम् आह— इति । एष एतच्-छरीर-सम्बन्धी । अजित सर्वेश्वर । उन्नद्धम् उच्छृङ्खलम् । अत एव अनात्म-बुद्धित्वाद् एव । दुष्टो\ऽतः परिणामो येषां ते दुरन्ता विषयाः, तेषां चिन्तया सम्पादनेच्छया । मम तु तत्राविशेष इत्य् आह—मम इति । एष बहु-युग-लक्सणः । निष्फलत्वे हेतुः—अजित ! हे मद्-विध-बहिर्मुखावशीकृत ! भक्ति-विघ्ने हेतुः—भूपतेः सर्व-पृथ्वीशाभिमानिनः । अतो राज्य-श्रियोन्नद्धः संवृद्धो मदो यस्य तस्य । यत एव मर्त्यात्म-बुद्धेः, यत एव च सुतादिष्व् अप्य् आसज्यमानस्य । तत्रापि इदम् []{दिर्=“र्त्ल्”}अद्य मया लब्धम् [गीता १६.१३] इत्य्-आद्य्-उक्त-दुरन्त-चिन्तया अपार-चिन्तनेन । यद् वा, दुःख-मते यस्यास् तया तादृश-चिन्तया । अतो न केवलं निष्फलत्वं किन्तु दुःखदत्वम् अपीति भावः ॥४८॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : अहम् अपि तथेति द्वाभ्याम् आह—मम इति । उन्नद्ध उत्कटः मदो गर्वः । मर्त्ये देहे आत्म-बुद्धिर् यस्य । कोशोऽर्थ-सञ्चयः । चिन्तया आसज्जमानस्य आसङ्गं प्राप्यमानस्य ॥४८॥ [मु।फ। १६.१४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एष बहु-युग-लक्षणः । यद् वा, त्वद्-अवतरणेन सर्वोत्तमोऽयम् । यद् वा, द्वापर-शेष-रूपः । अजित ! हे कालावशीकृत ! यद् वा, निष्फलत्वे हेतुः—अजित इति, भक्त्या त्वद् अवशीकरणाद् इति भावः । किं च, राज्य-श्रिया इत्य्-आदि भूपतेः सर्व-पृथ्वी-स्वाम्य्-अभिमानिनः, अतो राज्य-श्रियोन्नद्धः समृद्धो मदो यस्य तस्य, अत एव मर्त्यात्म-बुद्धेः, विपरीतो वा हेतु-हेतुमद्-भावः । दुरन्त-चिन्तया सुतादि-पोषणाद्य्-अर्थम् अनन्त-चिन्तया इदम् []{दिर्=“र्त्ल्”}अद्य मया लब्धम् [गीता १६.२३] इत्य्-आद्य्-उक्त-दुरन्तया अपारचिन्तनेन । यद् वा, दुःखम् अन्ते यस्यास्, तया चिन्तया । एवम् अन्यतोऽधिकम् आत्मनः काल-निष्फलत्वम् उक्तम् । पक्षान्तरे—अतोऽयं मल्-लक्षणो जनः पदारविनं न भजति, अतो निष्फल एव गतः । न च केवलं त्वद्-अभजन-निष्फल एव, किन्तु साम्राज्यादिना दुःखदोऽपि वृत्त इत्य् आह—राज्य- इति ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मम तु तत्र विशेष इत्य् आह—ममेति । एष बहु-युग-लक्षणः निष्फलत्वे हेतुः । अजित ! हे मद्-विध-बहिर्मुखावशीकृत ! भक्ति-विघ्ने हेतुः—भूपतेः सर्व-पृथ्वीशाभिमानिनः, अतो राज्यश्रिया उन्नद्धः सम्वृद्धो मदो यस्य तस्य, अतो मर्त्यात्म-बुद्धेः, अत एव च सुतादिष्व् अप्य् आसज्जमानस्य । तत्रापि इदम् []{दिर्=“र्त्ल्”}अद्य मया लब्धम् [गीता १६.२३] इत्य्-आद्य्-उक्त-दुरन्त-चिन्तया अपार-चिन्तनेन । यद् वा, दुःखम् अन्ते यस्यास् तया तादृश-चिन्तया । अतो न केवलं निष्फलत्वं, किं तु दुःखदत्वम् अपीति भावः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यम् अहं निन्दामि स चाहम् एवेत्य् आह—मम इति । मर्त्ये शरीरे एव आत्म-बुद्धिर् यस्य तस्य ॥४८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.४९ ॥

कलेवरेऽस्मिन् घट-कुड्य-सन्निभे > निरूढ-मानो नर-देव इत्य् अहम् । > वृतो रथेभाश्व-पदात्य्-अनीकपैर् > गां पर्यटंस् त्वागणयन् सुदुर्मदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उन्नद्ध-मदत्वं प्रपञ्चयति—कलेवरे इति । घट-कुड्यादि-सदृशे दृश्येऽनात्मनि यत एवं सुदुर्मदोऽभवम् । अतो ममैव कालो निष्फलो गत [४८] इति ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कले शुके वरा स्थितिर् यस्य, तत् कलेवरम् । अलुक्-समासः । वरा प्रोक्ता शतावर्षा सुभगास्थिति-भक्तिषु इति धरणिधरोक्तेः । घट-कुड्य-सन्निभे निप-भित्त्य्-आदि-तुल्ये । आदि-पदम् उपलक्षण-लब्धम् इति स्वमि-चरणाभिप्रायः । अस्मिन् सर्व-दोषास्पदे । अगणयन् विस्मरणादिभिर् अनाद्रियमाणः ॥५९॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : कलेवर इति । अहम् इति नरदेव इतिनिरूढाभिमानो गां भुवं पर्यटन् त्वा त्वाम् अगणयन् दुर्मदोऽस्मीत्य् अर्थः दुर्मदानां च ॥४९॥ [मु।फ। १६.१५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्मिन्न् अचेतनत्वेन घटादि-तुल्यतया सर्वैः साक्षाद् अनुभूयमाने । किं वा, सर्व-दोषास्पदे देहे च रथादिभिर् वृतो वेष्टित इति तेषां बाहुल्यं सूचितम्, अतः परितोऽटन् गच्छन् इतस् ततः सर्वत्र परिभ्रमन्न् इत्य् अर्थः । तत्र रथादयः सेनायाश् चत्वार्य् अङ्गानि, अनीकपाः सेनापतय, रथादीनां यथोत्तरं वेष्टने नैकट्याधिक्यात् तत्-तत्-क्रमेण निर्देशः । अगणयन् विस्मरणादिना नाद्रियमाणः ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्मिन् सर्व-दोषास्पदे अगणयन् विस्मरणादिभिर् अनाद्रियमाणः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काल-त्रयोपपन्नानि भूते वा भविष्यति वा वर्तमाने वा कानिचिद् अपीत्य् अर्थः ॥४०.५४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुड्यं भित्तिः । यतोऽहं सुदुर्मदोऽभूवम् । अत एष कालो निष्फलो गत [४८] इति पूर्वेणान्वयः ॥४९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५० ॥

प्रमत्तम् उच्चैर् इतिकृत्य-चिन्त्यया > प्रवृद्ध-लोभं विषयेषु लालसम् । > त्वम् अप्रमत्तः सहसाभिपद्यसे > क्षुल्-लेलिहानोऽहिर् इवाखुम् अन्तकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वाम् अगणयन्तं त्वम् आक्रमसीत्य् आह—प्रमत्तम् इति । प्रमत्तम् अनवहितम् । त्वाम् अन्तकम् अविगणय्य देहादिष्व् आसक्तम् इति यावत् । कुतः ? प्रमत्तम् । इतिकृत्य-चिन्तया "एवम् एवं करणीयम्" इति मनोरथ-परम्परया । मनोरथे भग्नेऽपि विषयेषु लालसम् उत्सुकम् । प्राप्तेऽपि पुनः प्रवृद्धो लोभस् तृष्णा यस्य तम् । अन्तकस् त्वम् अभिपद्यसेऽभिभवसीत्य् अर्थः । क्षुधा सृक्किणी लेलिहानोऽहिर् आखुं मूषकम् इव इति ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्सुकम् उत्क्ण्ठावन्तम् । प्राप्तेऽपि—विषये इत्य् अर्थः । लेलिहान आसास्वादानः, उन्दुरुर् मूषिको\ऽप्य् आखुः इत्य् अमरः । त्वाम् अभजन्तं जनं त्वत्-स्वरूपः काल एवं ग्रसेद् इत्य् आह—प्रमत्तं विषयासक्तत्वेन त्वत्-स्मरणादाव् अवधान-रहितम् । प्रवृद्ध-लोभं तेषां भोगाद् अनुपरतम् । काल-रूपेण अन्तयतीत्य् अन्तकस् त्वम् इत्य् अभेदोक्तिः । काल-शक्तेस् तव भजनं भयेनापि युक्तम् इति विवक्षया । सहसा तर्कम् अतिक्रम्य अभिपद्यसे आभिमुख्येन सर्वतो वा प्राप्नोषि । दृष्टान्ते विशेषणानि समानानि ॥५०॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : काम-भयं द्वाभ्याम् आह—प्रमत्तम् इति । इदं कृत्वेदं करिष्यामीति चिन्तया प्रमादिनम् उच्चैर् अत्यर्थं लालसं कामिनं सावधानस् त्वंसहसा वेगेन । क्षुधा लेलिहानः सृक्क-भागम् अभिपद्यसे प्राप्नोषि ॥५०॥ [मु।फ। १६.१६]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुदुर्मदत्वेऽपि मरणम् अवश्यम् एव, तद् अप्य् अकस्माद् एव स्याद् इत्य् आह—प्रमत्तम् इति । उच्चैर् अतिशयेन प्रमत्तं काल-रूपेणान्तयसीत्य् अन्तकस् त्वम् अप्रमत्तो निज-कृत्ये सदा सावधानः । सहसा सद्य एव अतर्कितं वा, अभिपद्यसे मारयसीत्य् अर्थः । अप्रमत्ततया सहसाभिपत्तौ दृष्टान्तः—क्षुद् इति, अनेनाप्रमत्तत्वं सहसापत्तिश् च तस्य दर्शितम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, उच्चैः प्रमत्तं त्वयि स्व-मरणादौ वावधान-रहितम्, अत एव विषयेषु प्रवृद्ध-लोभम्, प्राप्तौ सत्यां तेषां भोगाद् अनुपरतं तेष्व् एव लालसम्, अप्राप्तौ सदा तद्-ईप्सा-भराकुलम् । अन्यत् समानम् ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृश-चिन्तायाः पर्यवसान-दशां व्यञ्जयति—प्रमत्तम् इति । उच्चैः प्रमत्तं त्वयि स्मरणादौ च अवधान-रहितम् । अतः प्राप्तेषु विषयेषु प्रवृद्ध-लोभं, तेषां भोगाद् अनुपरतम्, अप्राप्तेषु तु तेषु लालसां च तद्-ईप्सा-भराकुलं । काल-रूपेणान्तयसीत्य् अन्तकस् त्वम् अभेदोक्तिः काल-शक्तेस् तव भजनं भयेनापि युक्तम् इति विवक्षया । सहसा तर्कम् अतिक्रम्य अभिपद्यसे आभिमुख्येन सर्वतो व प्राप्नोषि । दृष्टान्तेऽपि विशेषणानि समानानि ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वाम् अभजन्तं जनं त्वत्-स्वरूपः काल एवं ग्रसेद् इत्य् आह—प्रमत्तं विषयासक्तत्वेन त्वय्य् अनवहितम् । इतिकृत्यम् एवम् एवं करणीयम् इति तच्-चिन्तया विषयेषु प्रवृद्ध-लोभं, मनोरथे भग्नेऽपि लालसं विषयेषूत्सुकम् । अन्तकः कल-रूपी त्वं तु अप्रमत्तः सावधान एव अभिपद्यसे अभिभवसि । क्षुधा सृक्किणी लेलिहानोहिराखुं मूषकं यथाभिपद्यते, तथा ॥५०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५१ ॥

पुरा रथैर् हेम-परिष्कृतैश् चरन् > मतङ्गजैर् वा नर-देव-संज्ञितः । > स एव कालेन दुरत्ययेन ते > कलेवरो विट्-कृमि-भस्म-संज्ञितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, कालात्मना त्वयाभिपन्नो देह एवं भवतीत्य् आह—पुरा इति । श्व-सृगालादिभिर् भक्षितो विट्-संज्ञितस् तैर् अभक्षितः कृमि-संज्ञितो दग्धो भस्म-संज्ञितो भवति । इति बुद्ध्या विचार्यैवं-भूत-शरीरे ममतां कुर्वन्तो जना हरिं नाराधयन्ति, ते आत्मनि शत्रु-भूता ज्ञेयाः सततम् । यतः,

योनेः सहस्राणि बहूनि गत्वा > दुःखेन लब्ध्वापि च मानुषत्वम् । > सुखावहं ये न भजन्ति विष्णुं > ते वै मनुष्यात्मनि शत्रु-भूताः ॥ इति ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । अभिपन्नो ग्रस्तः । तैः श्वशृगालाद्यैः । यतः उक्तं ग्रन्थान्तरे—योनेर् इति । सुखावहं स्वर्गापवर्गदम् । दुरत्ययेनानिक्रान्तुम् अशक्येन । ते तत्रांश-भूतेनेत्य् अर्थः । प्रभावं पौरुषं प्राहुः कालम् इत्य् आद्य् उक्तेः । कलेवर इति पुंस्त्वम् आर्षम् ॥५१॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : परिष्कृतैर् भूषितैः । मतङ्गजा हस्तिनः । त्वया कालेन श्वादि-भक्षिते विट्-संज्ञा, दग्धे भस्म-संज्ञा । संज्ञित इति तारकादित्वादि तच् वा ॥५१॥ [मु।फ। १६.१७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मरणे चात्यन्त-घृणाकरं कलेवरं स्याद् इति समुख-विकारम् आह—पुरा इति । यश् चरन्न् आसीत्, स एव, अत्र पुंस्त्वम् आर्षम् । इत्य् अत्यन्त-विरोध-स्थानतोक्ता । दुरत्ययेन याग-योगादिना केनचित् प्रयासेनाप्य् अपरिहार्येण । कुतः ? ते त्वदीयेन त्वद्-अंशत्वाद् इत्य् अर्थः ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मरणे चात्यन्त-घृणाकरं कलेवरं स्याद् इति समुख-विकारम् आह—पुरा इति । यश् चरन्न् आसीत् स एव अत्र पुंस्त्वम् आर्षं ते तव प्रभाव-रूपेण कालेण ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-ग्रस्तो देह एवं भवेद् इत्य् आह—पुरा इति । यो रथैर् मतङ्गजैर् वा चरन् नरदेव-माना शोभित आसीत्, स एव देहः विट्-कृमि-भस्म-नामा बीभत्सितो भवतीत्य् अर्थः ॥५१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५२ ॥

निर्जित्य दिक्-चक्रम् अभूत-विग्रहो > वरासन-स्थः सम-राज-वन्दितः । > गृहेषु मैथुन्य-सुखेषु योषितां > क्रीडा-मृगः पुरुष ईश नीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अन्तक-प्राप्तेः प्राग् अपि दिग्-विजयिनो राज्ञोऽपि पार-तन्त्र्य-दुःखं तद्-अवस्थम् एवेत्य् आह—निर्जित्य इति । अभूत-विग्रहोऽविद्यमान-सङ्ग्रामः । पूर्वं ये समाना राजानस् तै राजभिर् वन्दितोऽपि मिथुनी-भावः सुरतम् एव परं सुखं येषु, तेषु योषितां गृहेषु क्रीडा-मृग इव इतस् ततो नीयते ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । अन्तक-प्राप्तेर् मरणात् । तस्मिन्न् अतिष्ठत इति तद्-अवस्थम् । दिशां चक्रं मण्डलं दिक्-चक्रम्समा विद्या-वयः-कुल-दानैर् ये तुल्याः । नीयते प्राप्यते ।

कामि-मात्रस्य जीवने मरणेऽपि सुखं नास्तीति वदन्न् आदाव् ऐहिक-कामिनः साम्राज्येऽपि पराधीनता-दुःखम् आह—निर्जित्य इति द्वाभ्याम् । वरासनस्थो महा-सिंहासनस्थ । योषिद्भिस् तद्-दास्यादिभिश् च । गृहेषु विविधान्तःपुरेषु । क्रीडामृगो भवन् नीयते । हे ईश ! सर्वेषां त्वन्-मायाधीनत्वाद् इति भावः ॥५२॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : मनुष्यत्वेऽपि स्त्री-प्रसङ्गः क्वाप्य् अधर्मानुष्ठानं वा जुगुप्सितम् इत्य् आह—निर्जित्य दिग् इति द्वाभ्याम् । मैथुन्यं मिथुनस्य कर्म । नीयते नितराम् इयते प्राप्यत इत्य् अर्थः ॥५२॥ [मु।फ। १६.१८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जीवनेऽपि साम्राज्य-सम्पत्ताव् अपि सुखं नास्त्य् एवेति द्वाभ्यां वदन्न् आदौ विषय-भोगे पराधीनता-दुःखम् आह—निर्जित्य इति । वरासनस्थो महा-सिंहासने स्थितः, नीयते योषिद्भिस् तद्-दास्यादिभिर् वा । हे ईश ! इति सर्वेषां तन्-मायाधीनत्वाद् इति भावः ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कामि-मात्रस्य जीवने मरणेऽपि सुखं नास्तीति वदन्न् आदाव् ऐहिक-कामिनः साम्राज्येऽपि पराधीनता-दुःखम् आह—निर्जित्य इति द्वाभ्यां । वरासनस्थः महा-सिंहासने स्थितः नीयते योषिद्भिस् तद्-दास्यादिभिर् अपि । हे ईश इति सर्वेषां त्वन्-मायाधीनत्वाद् इति भावः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं स्व-सजातीय-जनस्य नर-देवत्वं विट्-कृमित्वं काल-भेद-गतम् उक्तं दिग्-विजयित्वं योषित्-क्रीडा-मृगत्वं तु सम-काल-गतम् एवेत्य् आह—निर्जित्य इति । अभूत-विग्रहः निवृत्त-सङ्ग्राम-कृच्छ्र इत्य् अर्थः । पूर्वं ये समास्तैः राजभिर् वदन्तितोऽपि पुरुषः योषितां क्रीडा-मृगो भवन् । गृहेषु विविधान्तः-पुरेषु नीयते योषिद्भिस् तद्-दास्यादिभिर् वेति शेषः ॥५२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५३ ॥

करोति कर्माणि तपः-सुनिष्ठितो > निवृत्त-भोगस् तद्-अपेक्षयाददत् । > पुनश् च भूयासम् अहं स्वराड् इति > प्रवृद्ध-तर्षो न सुखाय कल्पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तत्रातितृष्णा-कुलस्य न भौम-क्षणः कश्चिद् अस्तीत्य् आह—करोति इति । तपस्य् अधः-शयन-ब्रह्मचर्यादौ सुनिष्ठितःपुनश् च स्वराड् इन्द्रः स्याम् इति । यद् वा, जन्मान्तरेष्व् एवम् एव चक्रवर्ती स्याम् इति ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभक्तस्य कर्मादि कुञ्जर-शौचवद् इत्य् आह—किं च इति । तत्र वर्तित्वे । कर्माणि स्वाराज्यदानि । निवृत्ता गता भोगा यस्मात् स तथा । तेषां भोगानां सजातीय-भोगेच्छया अददत्, धनानीति शेषः । स्वर्गस्य कर्म-भूमित्वाभावात् कर्मान्तरासम्भवेन सुखान्तरोत्पादकत्वं नास्तीत्य् अत आह—यद् वा इति ।

यस्य मूर्धनि दृश्यते विना छत्रेण भूपतेः । > पद्मानुकारिणी छाया तम् आहुश् चक्रवर्तिनम् ॥ इति नील-कण्ठः ।

प्रवृद्ध-तर्ष उद्रिक्त-तृष्णः । सुखाय मुक्ति-सुखाय । धर्मम् आचरतोऽपि पारलौकिक-कामिनोऽपि सदा दुःखम् एवेत्य् आह—करोति इति । कर्माणि व्रत-यज्ञादीनि । तपस् तु निष्ठितत्वान् निवृत्त-विषय-भोगोऽपि तस्य भोगस्यैवापेक्षया ददद्-विविध-दानं कुर्वन् । यद् वा, कर्म-साङ्गतार्थं दक्षिणां ददत् । एवम् ऐहिकम् अर्थ-क्षयादि-दुःखं सूचितम् । सुखाय न कल्पते योग्योऽपि न भवति । एवं स्वर्गेऽपि पात-भीतस्य क्षयिष्णोर् नास्ति निर्वृतिर् इत्य्-आदि-न्यायेनेन्द्रत्वेऽपि सुखाभावात् पारलौकिकम् अपि दर्शितम् । श्री-विष्णु-पुराणे चास्यैव स्तुतौ—

देव-लोक-गतिं प्राप्तो नाथ-देव-गणोऽपि हि । > मतः साहाय्य-कामोऽभूच् छाश्वती कुत्र निर्वृतिः ॥ [वि।पु। > ५.२३.४२] इति ॥५३॥

करोति इति । तपः-सुनिष्ठितो निष्ठां प्राप्तः । तद्-अपेक्षया विना भोगापेक्षया निवृत्त-भोगो ददद् दानं च करोति । पुनर् जन्मान्तरे महान् स्वराट् भूयासं भवेयम् इति । प्रवृद्धाभिलाषो न सुखाय कल्पते ॥५३॥ [मु।फ। १६.१९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धर्मम् आचरतोऽपि कामिनः सदा दुःखम् एवेत्य् आह—करोति इति । कर्माणि व्रत-यज्ञादीनि, तपः सुनिष्ठित्वान् निवृत्त-विषय-भोगोऽपि, तस्य भोगस्य एव अपेक्षया तत्-सङ्गतार्थं दक्षिणादिना धनं ददत् । एवम् अर्थ-क्षयादि-दुःखं च सूचितम् ! सुखाय न कल्पते, न योग्यो भवति सर्गेऽपि पात-भीतस्य क्षयिष्णोर् नास्ति निर्वृतिः इत्य्-आदि-न्यायेनेन्द्रत्वेऽपि सुखाभावाद् इत्य् अर्थ । तथा च श्री-विष्णु-पुराणेऽस्यैव स्तुतौ—

देव-लोक-गतिं प्राप्तो नाथ-देवगणोऽपि हि । > मतः साहाय्यकामोऽभूच्छाश्वती कुत्र निर्वृतिः ॥ [वि।पु। ५.२३.४२] > इति ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धर्मम् आचरतोऽपि पारलौतिक-कामिनोऽपि सदा सदा दुःखम् एवेत्य् आह—करोतीति । कर्माणि व्रत-यज्ञादीनि तपः सुनिष्ठितत्वान् निवृत्त-विषय-भोगोऽपि तस्य भोगस्यैव अपेक्षया ददत् विविध-दानं कुर्वन् । यद् वा, कर्म-साङ्गतार्थं दक्षिणां ददत् एवम् ऐहिकम् अर्थ-क्षयादि-दुःखं सूचितं सुखाय न कल्पते न योग्यो भवति । एवं स्वर्गेऽपि पात-भीतस्य क्षयिष्णोर् नास्ति निर्वृतिः इत्य्-आदि-न्यायेनेन्द्रत्वे\ऽपि सुखाभावात् । पारलौकिकम् अपि दर्शितं विष्णु-पुराणे चास्यैव स्तुतौ—

देव-लोक-गतिं प्राप्तो नाथ देव-गणोऽपि हि । > मतः साहाय्य-कामोऽभूच् छाश्वती कुत्र निर्वृतिः । [वि।पु। ५.२३.४२] > इति ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वाम् अभजतो विषय-भोगो यथा निन्द्यस् तथा विषय-भोगाभावोऽपि निन्द्य इत्य् आह—करोति इति । तपसि अधः-शयन-ब्रह्मचार्यादौ सुनिष्ठितः । पुनश् च स्वराड् इन्द्रश् चक्रवर्ती वा ॥५३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५४ ॥

भवापवर्गो भ्रमतो यदा भवेज् > जनस्य तर्ह्य् अच्युत सत्-समागमः । > सत्-सङ्गमो यर्हि तदैव सद्-गतौ > परावरेशे त्वयि जायते मतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् अष्टभिः श्लोकैर् ईश-बहिर्मुखानां संसारं प्रपञ्च्य भक्त्या तन्-निवृत्ति-क्रमम् आह—भवापवर्ग इति । भो अच्युत ! भ्रमतः संसरतो जनस्य यदा त्वद्-अनुग्रहेण भवस्य बन्धस्य अपवर्गतो भवेत् प्राप्त-कालः स्यात्, तदा सतां संसर्गो भवेत् । यदा च सत्-सङ्गमो भवेत्, तदा सर्व-सङ्ग-निवृत्त्या कार्य-कारण-नियन्तरि त्वयि भक्तिर् भवति । ततो मुच्यत इत्य् अर्थः ॥५४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् इति वाक्यालङ्कारे । तन् निवृत्ति-क्रमं संसार-निवृत्ति-क्रमम् । स्याद् अपवर्गस् त्यागे मोक्षे कार्यावसान-साफल्ये इति मेदिनी । तदा भवापवर्ग-पूर्व-काले । इत्य् अर्थ इति—भक्त्य्-अवान्तर-व्यापारी-भूत-ज्ञानावाप्त्या मुक्तो भवतीत्य् अर्थः । तर्हि कदा भद्रं स्यात् ? तत्राह—भवेद् इति । यदा भवेत् सर्वज्ञैः सम्भावितो भवति तर्हि सत्-सङ्गमोऽपि विवेकिभिः सम्भाव्यत इत्य् अर्थः ।

यद् वा, अतिशयोक्ति-नाम्नोऽलङ्कारस्य चतुर्थोऽयं भेदः । यथोक्तं तद्-विवृत्तौ—

चतुर्थी सा कारणस्य गदितुं शीघ्र-कामिताम् । > या हि कार्यस्य पूर्वोक्तिः इति ।

तस्माद् यर्हि भवापवर्गः शीघ्रम् एव भवेद् इत्य् अर्थः । यतः सत्सङ्गम इत्य्-आदि। यतस् त्वयि मतौ च जातायां भवापवर्गस्याप्य् अव्यभिचारः स्याद् इत्य् आह । एव-कारान् नान्यदा कदापीत्य् अर्थः । अच्युत इति सम्बोध्य तत्र त्वम् अच्युतौ भवसीति भावः ।

ननु, मत्-कृपां विना सत्सङ्गोऽपि न स्याद् इति सैवास्त्वादिकारणं तत्राह—सन्त एव गतिराश्रयो यस्य तस्मिन् । स्वेच्छामयस्य इति अहं भक्तपराधीनः इति सद् इच्छयैव तत्र प्रवर्तते । न तु स्वतः, अतः सापि तद् अनुगतैवेति भावः । सतां गताव् इत्य् अस्मिन्न् अर्थेऽपि असतां गतिः प्रार्थितः प्रचुरं पूर्वं त्वयाहम् इति भवद् उक्त-रीत्या ययासौ भवापवर्ग-दाता त्वं लब्ध इति भावः । मतिर् इति । रतिः इति च पाठः । समर्थ एव सत्सङ्गमेन रत्य् अङ्कुर-रूपैव मतिर् जायत इति ॥५४॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : एवं शरीरिण भक्ति-रसम् अनुभवतः सर्वानर्थ-निवृत्तिर् अर्थ-प्राप्तिश् च स्याद् इत्य् आशयवान् अभ्यर्हितत्वाद् अर्थ-प्राप्तं तावद् हि—भव इति । भवापवर्गः संसार-निवृत्तिः । तर्हि तदा यर्हि यदा परे ब्रह्माद्याह् ॥ अपरे जीवाः ॥ [मु।फ। १७.३७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदा भवापवर्गः सम्भाव्यः स्यात् तदा सत्-सङ्गमेन कृतार्थः स्याद् इत्य् आह—भवेति । भवस्य संसार-दुःखस्यापवर्गो नाशो भवेद् इति सम्भावनायां सप्तमी । जनस्य कस्यचिज् जीवस्य सद्भिस् त्वद्-भक्तैः समागमः सङ्गतिः । हे अच्युतेति त्वत्-कृत-निर्बन्धस्य च्युति-राहित्याद् इति भावः । यद् वा, गृहाद्य्-आसक्ति-लक्षणस्यापवर्गः परित्यागः । यद् वा, भवोऽभुदयस् तद्-रूपोऽपवर्गो मोक्षः श्री-वैकुण्ठ-लोक इत्य् अर्थः । अच्युतस्य तव ये सन्तः किं वा अच्युता भक्ति-मार्गाच्युति-रहिता ये सन्तस् तैः । यद् वा, अच्युतः स्थिरः सत्-समागमः । एवेति अन्यथा कथञ्चित् कदाचिद् अपि न जायत इत्य् अर्थः । यद् वा, तस्मिन् क्षणे । कुतः ? सतां गतौ गम्ये तव सत्-सङ्गमैक-वश्यत्वात्, तथा चैकादश-स्कन्धे श्री-भगवद्-वाक्यम्—न रोधयति मां योगः [भा।पु। ११.१२.१] इत्य्-आदि । तद् अपि कुतः ? परश् चतुर्वर्ग-श्रेष्ठो मोक्षो\ऽप्य् अवरोऽपकृष्टो यस्या भक्तेस् तद्-ईशे भक्त्य्-एक-प्राप्यत्वाद् इत्य् अर्थः । यद् वा, परावराणाम् उच्च-नीचानां श्री-ब्रह्मादिस् तत्वर्यन्ताम् आमीशे स्वामिन्य् अपि सताम् एव गतौ । रतिः इति पाट्ःए भक्तिर् इत्य् अर्थः । संसार-निवृत्तौ सत्यां सत्-सङ्गमेन त्वयि इति स्याद् इत्य् अर्थः ॥५४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्हि कदा भद्रं स्यात् तत्राह—भवेति । यदा भवेत् सर्वज्ञैः सम्भावितो भवति तर्हि सत्-सङ्गमोऽपि विवेकिभिः सम्भाव्यत इत्य् अर्थः । यद् वा, अतिशयोक्ति-नाम्नोऽलङ्कारस्य चतुर्थो भेदः, यथोक्तं तद्-विवृतौ—

चतुर्थी सा कारणस्य गदितुं शीघ्र-कामिना । > या हि कार्यस्य पूर्वोक्तिः इति ।

तस्माद् यर्हि सत्-सङ्गमो भवेत् तर्हि भवापवर्गः शीघ्रम् एव भवेद् इत्य् अर्थः । यतः सत्-सङ्गम इत्य्-आदि यतस् त्वयि मतौ च जातायां भवापवर्गस्याव्यभिचारः स्याद् इत्य् आह—तद् एवेति । एव-कारान् नान्यदा कदापीत्य् अर्थः । अच्युतेति सम्बोध्य तत्र त्वम् अप्य् अच्युतो भवसीति भावः । ननु मत्-कृपां विना सत्-सङ्गमोऽपि न स्याद् इति सैवास्त्व् आदि-कारणम् । तत्राह—सन्त एव गतिर् आश्रयो यस्य तस्मिन् स्वेच्छामयस्येति अहं भक्त-पराधीन [भा।पु। ९.४.६४] इति सद्-इच्छयैव तत्र सर्वं प्रवर्तते, न तु स्वतः ततः सापि तद्-अनुगतैवेति भावः । सतां गतौ इत्य् अस्मिन्न् अर्थे\ऽप्य् अस्तां गतिर् न भवसीति भावः । पूर्व-पूर्वेण सत्तापरपस्य सत्त्वे निष्पादित एव सा प्रवर्तते, न तु पूर्वं स्वयं समुत्तीर्य इत्य् आदेः । ततः प्रथमतः सत्-सङ्गमेनैव त्वन्-मतिः स्याद् इति भावः । तत्र हेतुः परावरेशे परेषाम् अवरेषां च ज्ञानाद्य्-अनधीने अतो ममापि श्री-गर्ग-सङ्गमाद् एव त्वन्-मतिर् जाता प्रार्थितः प्रचुरं पूर्वं त्वयाहम् इति भवद्-उक्त-रीत्या ययासौ भवापर्वर्ग-दाता त्वं लब्ध इति भावः । मतिर् इति रतिर् इति च पाठः समर्थ एव, सत्-सङ्गमेन रत्य्-अङ्कुर-रूपैव मतिर् जायत इति ॥५४॥


जीव-गोस्वामी (भक्ति-सन्दर्भ १७९) : अथ तस्या एव प्रकारान्तरेण स्थापनाय प्रकरणान्तरं यावत्-तल्-लक्षण-प्रकरणम् । तद् एवं परम-दुर्लभ-स्वरूपं परम-दुर्लभ-फलं चाकिञ्चनाख्य-साक्षाद्-भक्ति-रूपं साम्मुख्यं कथं स्याद् इति वक्तुं साम्मुख्य-मात्रस्य निदानम् उपलक्षयति—भवापवर्ग इति । यदा भ्रमतः संसरतो भवापवर्गो भवेत् सम्प्राप्त-कालः स्यात्, तदा सत्-सङ्गमो भवेत् । तदा भवापवर्गो भवेद् इति वक्तव्ये वैपरीत्येन निर्देशस् तत्र सत्-सङ्गमस्य श्रीघ्रतयावश्यकतया च हेतुता-विवक्षया तथोक्तं नलकूवर-मणिग्रीवौ प्रति श्री-भगवता—

साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् । > दर्शनान् नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर् यथा ॥ [भा।पु। > १०.१०.४१] इति ।

अत एवातिशयोक्ति-नामालङ्कारस्य चतुर्थो भेदोऽयम् इत्य् आलङ्कारिकाः । तद् उक्तं तद्-विवृत्तौ—

चतुर्थी सा कारणस्य गदितुं शीघ्र-कारिताम् । > या हि कार्यस्य पूर्वोक्तिः इति ।

तत्र हेतुर् यर्हि यदा सत्-सङ्गमस्य दैव-परावरेशे त्वयि मतिर् भवति तद्-वैमुख्य-करान् आदि-सिद्ध-तज्-ज्ञान-संसर्गाभावान्ते तत्-साम्मुख्यकरं तज् ज्ञानं जायत इत्य् अर्थः । अत एवोक्तं श्री-विदुरेण—

जनस्य कृष्णाद् विमुखस्य दैवाद् > अधर्म-शीलस्य सुदुःखितस्य । > अनुग्रहायेह चरन्ति नूनं > भूतानि भव्यानि जनार्दनस्य ॥ [भा।पु। ३.५.३] इति ।

अत्र दैवात् प्राचीन-कर्मणो हेतोस् तदावेशाद् अधर्म-शीलस्य भगवद्-धर्म-रहितस्येत्य् अर्थः । मूल-पद्ये यर्हि यदेति निर्देशान् न काल-विलम्बेन । तत्र चैवकारान् नान्यदा कदाचिद् अपीत्य् अर्थः । तेन तन्-मतौ हेतुः सद्-गतौ यत्र यत्रसन्तः सङ्गच्छन्ते तत्र तत्र गतिः स्फुरणं यस्य तस्मिंस् त्वयीति । तथा च इतिहास-समुच्चये—

यत्र रागादि-रहिता वासुदेव-परायणाः । > तत्र सन्निहितो विष्णुर् नृपतेर् नात्र संशयः ॥ इति ।

सतां गताव् इत्य् अत्र व्याखानेऽपि असतां त्व् असौ न गतिः । अतस् तद्-द्वारैवान्येषां तल्-लाभो युक्त इति पूर्ववद् एव । पिङ्गलाया अपि सत्-सङ्गे विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः [भा।पु। ११.८.३३] इत्य् अत्र व्यक्तोऽस्ति । टीका च— सत्-सङ्गतौ सत्याम् अप्य् अहो मे मोह इत्य् आह विदेहानाम् इति इत्य् एषा ।

तद् एवं यत्र नोपलभ्यते सत्-सङ्गस् तत्राप्य् आधुनिकः प्राक्तनो वा पारम्परिको वानुमेय एव । अत्र कृत-श्री-नारदादि-दर्शनादेर् अपि देवतादेः श्री-नलकूवरादिवत्तादृशत्व-प्राप्तिर् न श्रूयत इत्य् अत एवं विवेचनीयम् । यद्यप्य् अपराध-सद्-भावो वर्तते पुरुषे तदा तद्-दोषेण सत्सु निरादराणां साधारण-पुण्यादि-दृष्टीनां च तद्-दोष-शान्त्य्-अर्थं सत्-सङ्गस्य भगवत्-साम्मुख्य-कारणत्वेऽपि तत्-कृपा-साहाय्यम् अपेक्षते । निरपराधत्वे सति तत्-सङ्गेनैव जात-परमोत्तम-दृष्टीनां तेषु मनोऽवधानाभावेऽपि सत्-सङ्ग-मात्रं तत्-कारणम् इति । अतः सापराधान् एवाधिकृत्योक्तम् अजान् अज-देवैः—

तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये > पराहृतान्तर्-मनसः परेश । > अथो न पश्यन्त्य् उरुगाय नूनं > ये ते पदन्यास-विलास-लक्ष्याः ॥ [भा।पु। ३.५.४४]

ते तव पद-न्यास-विलास-क्षण्याः सम्बन्धिओ ये भक्ता इत्य् अर्थः । ते तान् नूनं प्रायो न पश्यन्ति न कृपा-दृष्टि-विषयीकुर्वन्तीत्य् अर्थः । कान् ? य असद्-वृत्तिभिः सापराध-चेष्टैर् अक्षिभिर् इन्द्रियैः पर-कृतान्तर्मनसो दूरीकृतान्तर्मुख-चित्त-वृत्तयो बहिर्मुखा इत्य् एवं व्याख्यानम् अत्राप्य् अनुसन्धेयम् । अत्र साधारणासद्-वृत्तित्वं न गृह्यते । सर्वस्य तत्-कृपायाः प्राक् तथा-भूतत्वात् । जनस्य कृष्णाद् विमुखस्य दैवाद् [भा।पु। ३.५.३] इत्य्-आदिक-विषयं स्याद् इति तस्माद् अपराधासद्-वृत्तौ तेषां कृपा प्रवर्तत एव । कथञ्चिद् अपराधाभावेन तद्-अप्रवृत्ताव् अपि सङ्ग-मात्रेणैव तेषां सम्मतिः स्यात् । यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति तस्यैव तन्-मतिः स्यान् नान्यस्य नलकूवरवत् साधारण-देवतावच् चेति । तथा श्री-भरतस्य रहूगणे यथा चोपरिचर-वसोर् वृत्तं विष्णु-धर्मे—स हि देव-साहाय्यायैव दैत्यान् हत्वा विरज्य च भगवद्-अनुध्यानाय पातालं च प्रविष्टवान् । तं च निवृत्तम् अपि हन्तुं लब्ध-च्छिद्रा दैत्याः समागत्य तत्-प्रभावेणोद्यत-शस्त्रा एवातिष्ठन् । ततश् च व्यर्थोद्यमाः पुनः शक्रोपदेशेन तं प्रति पाषण्ड-मार्गम् उपदिशन्तोऽपि जातया तत्-कृपया भगवद्-भक्ता बभूवुः [वि।ध।पु। ३.३४६] इति ।

अत उक्तं विष्णु-धर्म एव—

अनेक-जन्म-संसार-रचिते पाप-समुच्चये । > नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ इति ।

ननु,

नैतान् विहाय कृपणान् विमुमुक्ष एको > नान्यं त्वद् अस्य शरणं भ्रमतोऽनुपश्ये [भा।पु। ७.९.४४]

इत्य् एवं श्री-प्रह्लादस्य सर्वस्मिन्न् अपि संसारिणि कृपा जाता, तर्हि कथं न सर्व-मुक्तिः स्यात् ? उच्यते, जीवानाम् अनन्तत्वान् न ते सर्वे मनसि तस्यारूढा यावन्तो दृष्ट्वा श्रुतास् तच्-चेतस्यारूढास् तावतां तत्-प्रसादाद् भविष्यत्य् एव मोक्षः । नैतान् इत्य् एतच्-छब्द-प्रयोगात् । ये चान्ये तेषाम् अपि तत्-कीर्तन-स्मरण-मात्रेणैव कृतार्थतावरं स्वयम् एव कृपया दत्तवान् श्री-नृसिंह-देवः—

य एतत् कीर्तयेन् मह्यं त्वया गीतम् इदं नरः । > त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥ [भा।पु। > ७.१०.१४] इति ।

यस् त्वां कीर्तयेद् अपि किं पुनस् त्वं यान् कृपया स्मरसीति भावः । तस्मात् साधूक्तं भवापवर्गो भ्रमतो यदा भवेद् इति ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवापवर्गोऽत्र यदा सत्-सङ्गमो भवेत् इत्य् आदाव् अतिशयोक्ति-नामालङ्कारो ज्ञेयः । यथोक्तं—कार्य-कारणयोर् यश् च पौर्वापर्य-विपर्ययः विज्ञेयातिशयोक्तिष् सा [काव्य-प्रकाश ८.१०१] इति वायाख्याति च कारणस्य शीघ्र-कारितां वक्तुं कार्यस्य पूर्वानुक्तौ चतुर्थीति । यद् वा, यदा भवेत् सर्वज्ञैः सम्भावितो भवति तर्हि सत्-सङ्गमोऽपि विवेकिभिः सम्भाव्यत इत्य् अर्थः । यतः सत्-सङ्गम इत्य्-आदि ॥५४.५५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि सर्व-दुःखोपशमनी परम-सुख-मयी भक्तिर् एव कदा भवेद् इत्य् अत आह भवेति । हे अच्युत ब्रह्मतोजीवस्य यदा भवापवर्गो भव-बन्धस्य नाशः स्यात्, तदा सत्-सङ्गमः अनुग्राहक-साधु-सङ्गो भवेत् । यर्हि सत्-सङ्गमस् तदिअवेत्य् एव-कारान् नान्यदा कदापीत्य् अर्थः । अत्र यर्हि तर्हि इति स्थूल-कालम् आलम्ब्यैवोक्तिः सूक्ष्म-कालम् अवलम्ब्य तु सत्-समागम-भवापवर्गयोः कारण-कार्ययोः पौर्वापर्यम् अवश्यम् एव वक्तुम् उचितम् । तद् अपि तद्-विपर्ययेणोक्तिः कार्यस्यातिशैघ्र्याबोधिन्य् अतिशयोक्तिश् चतुर्थी ज्ञेया । अत्र सद्-गताव् इत्य् अस्य वैष्णव-तोषण्यां व्याख्या, यथा—ननु मत्-कृपां विना सत्-सङ्गमोऽपि न स्यात् इत्य् अतो मत्-कृपैवादि-कारणम् अस् तु ? तत्राह—सन्त एव गतिर् आश्रयो यस्य तस्मिन् । स्वेच्छामयस्य [भा।पु। १०.१४.२] इति, अहं भक्त-पराधीनः [भा।पु। ९.४.६३]इत्य् आदेः सद्-इच्छयैव तव सर्वं प्रवर्तते । न स्वत इति बुध्यते अतस् त्वत्-कृपापि सद्-अनुगतैवेति भावः । सतां गताव् इत्य् अस्मिन्न् अर्थे\ऽप्य् असतां गतिर् न भवसीति पूर्व-पूर्वेण सतां परस्परस्य सत्त्वे निष्पादित एव त्वत्-कृपा प्रवर्तते, न तु पूर्वं स्वयं समुत्तीर्य [भा।पु। १०.२.३१] इत्य्-आदेर् इत्य् एषा ॥५४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५५ ॥

मन्ये ममानुग्रह ईश ते कृतो > राज्यानुबन्धापगमो यदृच्छया । > यः प्रार्थ्यते साधुभिर् एक-चर्यया > वनं विविक्षद्भिर् अखण्ड-भूमि-पैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मम तु सत्-सङ्गमात् पूर्वम् एव यो राज्यादि-सङ्ग-विच्छेदो जातः, सोऽयं त्वया महान् अनुग्रहः कृत इत्य् आह—मन्य इति । ते त्वया । साधुभिर् विवेकिभिस् तपसे वनं प्रवेष्टुम् इच्छद्भिः स्वयं त्यक्तुम् अलभमानैः प्रार्थ्यत इति ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज-भाग्यं श्लाघते—मम त्व् इत्य्-आदिना । राज्यस्य तद्-अनुबन्धकस्य सम्पादकस्य कोशादेश् च अपगमस् त्यागः । एक एव चरेद् भिक्षुः इत्य् उक्तेर् एकाकि-चरणेच्छया । अखण्ड-भूमिपैः सार्वभौमैः ।

ततस् तद् आरभ्यैव मयि त्वद्-अनुग्रहो लक्षित इत्य् आह—मन्य इति । हे ईश मूकं करोति वाचालम् इति न्यायेन हे दुर्घट-घटनापटो । राज्यानुबन्धस्य राजत्वासक्तेर् अपगमो यस्मात् तादृशोऽनुग्रहस्ते त्वयैव यदृच्छया स्वैरितया कृत इति तर्कयामि

त्रैवर्गिकायास-विघातम् अस्मत्- > पतिर् विधत्ते पुरुषस्य शक्रः । > ततोऽनुमेयो भगवत्-प्रसादो > यो दुर्लभोऽकिञ्चन-गोचरो\ऽन्यैः ॥ [भा।पु। ६.११.२३]

इति वृत्रोक्तेः, यस्याहम् अनुगृह्नामि हरिष्ये तद्धनं शनैः इति स्वयं भगवद् उक्तेश् च । योऽनुग्रहोऽखण्ड-भूमिपैर् अपि मृग्यते किं पुनर् भारत-वर्षैक-देश-पतिभिर् इत्य् अर्थः । एक-चर्यया एकान्तनिष्ठया । तेषां कथं वन-विवक्षा स्यात् तत्राह—साधुभिः विवेकेनासन्निष्ठात्यागिभिर् इत्य् अर्थः ॥५५॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : अनर्थ-निवृत्तिम् आह—मन्य इति । ते त्वया अनुबन्धः सम्बन्धः । यदृच्छया अकस्मात् । विविक्षद्भिर् वेष्टुम् इच्छद्भिः । अखण्ड-भूमिपैः सार्वभौमैः । एक-चर्यया एकाकित्वेन ॥५५॥ [मु।फ। १७.३८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस्त्वयानुग्रहः कृत इति मन्ये । कथम् ? तद् आह—राज्ये राजत्वे राज्य-तत्-सम्बन्धि-सुता-दारादौ वा, अनुबन्धस्य आसक्तेः प्रकृतानुसरणस्य व अपगमो यदृच्छयायन्तोऽभूद् इति । यद् वा, राज्यानुबन्धस्यापगमो यस्मात् सः । हे ईशेति निजैश्वर्याद् एव, न च मम योग्यत्वाद् इति भावः । योऽनुग्रह एकचर्यया परम-भक्त्या, अखण्ड-भूमि-पैर् इत्य् अशेष-भोग-सम्पत्त्या विवेक-योग्यतोक्ता । यद् वा, अखण्ड-भूमि-पैरपि, किं पुनर् भारतवर्षैक् देशपतिभिर् इत्य् अर्थः । तेषां कथं वन-विविक्षा स्यात् ? तत्राह—साधुभिः सद्भिर् इति ॥५५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद् आरभ्यैव मयि त्वद् अनुग्रहो लक्षित इत्य् आह—मन्य इति । हे ईश ! मूकं करोति वाचालम् [गीता ]इत्य्-आदि-न्यायेन हे दुर्घट-तटनापटो ! राज्यानुवन्धस्य राजत्वासक्तेर् अपगमो यस्मात् तादृशोऽनुग्रहः ते त्वयैव यदृच्छया स्वैरितया कृत तर्कयामि योऽनुग्रह एकचर्यया एकान्त-निष्ठया अखण्ड-भूमिपैर् अपि मृग्यते किं पुनर् भारतवर्षैक-देशपतिभिर् इत्य् अर्थः । तेषां कथं वन-विविक्षा स्यात् तत्राह—साधुभिः विवेकेनासन् निष्ठात्यागिभिर् इत्य् अर्थः ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम तु त्वद्-भक्त-गर्ग-सङ्गानन्तरम् अकस्माद् एव यो राज्यादि-सङ्ग-विच्छेदो जातः स तवैवानुग्रहाद् इत्य् अहं जानामीत्य् आह मन्य इति ।

त्रैवर्गिकायास-विघातम् अस्मत्- > पतिर् विधत्ते पुरुषस्य शक्र। > ततोऽनुमेयो भगवत्-प्रसादो > यो दुर्लभोऽकिञ्चन-गोचरोऽन्यैः ॥ [भा।पु। ६.११.२३] इति > श्री-वृत्रोक्तेः ।

यो राज्यानुबन्धापगमः साधुभिर् भूमिपैः प्रार्थ्यते, एकचर्यया एक-चारित्वेन निर्विघ्न-त्वदीय-ध्यान-भक्ति-सिद्ध्य्-अर्थम् इति भावः ॥५५ ॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५६ ॥

न कामयेऽन्यं तव पाद-सेवनाद् > अकिञ्चन-प्रार्थ्यतमाद् वरं विभो । > आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे । > वृणीत आर्यो वरम् आत्म-बन्धनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं विषय-सेवा-मार्गं भगवत्-सेवा-मार्गं च विविच्य वरान् वृणिष्वेति यद् उक्तं तत्रोत्तरम् आह—न कामय इति । अकिञ्चना निवृत्ताभिमानाः । आर्यो विवेकी ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तयोर् धयोः । आत्म-बन्धनम् आत्मनः संसार-कारणम् । अतः पाद-सेवनात्साक्षाद् विविध परिचर्याया अन्यं वरं वरणीयार्थं न कामये, तद् एव कामय इत्य् अर्थः । कुतः—अकिञ्चना मुक्तिपर्यन्तम् अर्थः तुच्छीकृत्य भक्तास् तैर् अपि प्रार्थ्यतमात् । प्रार्थ्या भक्तिः, प्रार्थ्यतरं दर्शनं, प्रार्थ्यतमं पाद-सेवनं, तस्मात् सर्व-पुरुषार्थत आधिक्यम् उक्तं तद् एव हि योग्यम् इत्य् आशयेन सम्बोधयति—विभो हे सर्व-ल्पुरुषार्थाधिक-सुख-दान-समर्थ । आराध्य प्रार्थ्य सेवित्वा वा । अपवर्गो भक्तिः । तथा च पञ्चम-स्कन्धे—यथा वर्ण-विधानम् अपवर्गश् च भवति योऽसौ भगवति सर्व-भूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणे इति ।

यद् वा, मुक्तिं कथं न वृणुषे, तत्राह—आराध्येति । वरमीषत् प्रियेऽव्ययम् । आराध्य कस्त्वा मुक्ति-प्रदं सन्तं वृणीत वरम् आत्मबन्धनम् एव वृणीतेत्य् अर्थः । अहं तु मोक्षेऽपि निरपेक्षः कथं तं वृणुयाम् इति भावः ॥५६॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : न इति । क आर्यः ज्ञात्वा आत्मनो बन्धनं वरं वृणीते ? न कोऽपीत्य् अर्थः । सर्वत्र चैतन्येषु श्लोकेषु अन्यान् अपेक्षया भजन-धर्मासक्त्या कोऽप्य् उत्साहः पुष्यतीति मन्तव्यम् ॥ [मु।फ। १९.२५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत पाद-सेवनात् साक्षाद् विविध-परिचर्याया अन्यं वरं वरणीयार्थं न कामये, तद् एव कामाय इत्य् अर्थः, कुतः ? अकिञ्चना मुक्ता भक्ता वा तैर् अपि प्रार्थ्यतमात्, प्रार्थ्या भक्तिः, प्रार्थ्यतरं दर्शनम्, प्रार्थ्यतमं पादसेवनं तस्मात्, इति सर्व-पुरुषार्थाधिक्यम् उक्तम् । तद् एव हि योग्याम् इत्य् आशयेन सम्बोधयति—विभो हे प्रभो ! इति दासस्य स्वामि-पादा-सेस्वैकयोग्यत्वाद् इत्य् अर्थः । आराध्य प्राप्य सेवित्वा वा, अपवर्गो भक्तिः, तथा च पञ्चम-स्कन्धे भारत-वर्ष-वर्णनान्ते यथा-वर्ण-विधानम् अपवर्गश् च भवति योऽसौ भगवति सर्व-भूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने वासुदेवेऽनस्य नमित्त-भक्ति-योग-लक्षणः इति । यद् वा, अपकृष्टो वर्गश् चतुर्वर्गो यस्मात् पदसेवनात् तद्-दातारम् आत्मानं बन्धानि सुख-लोपेन इष्ट-विधातेन वा यन्त्रयतीति तथा तम् । हरे ! हे सर्वबन्धहर ! हे मनोहरेति वा ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः पाद-सेवनात् साक्षाद् विविध-परिचर्याया अन्यं वरं वरणीयार्थं न कामये तद् एव कामय इत्य् अर्थः । कुतः ? अकिञ्चनाः मुखि-पर्यन्तमर्थं तुच्छीकृत्य भक्ताः तैर् अपि प्रार्थ्यतमात् प्रार्थ्या भक्तिः प्रार्थ्यन्तरं दर्शनं प्रार्थ्यतमं पादसेवन्तं तस्मात् इति सर्व-पुरुषार्थत आधिक्यम् उक्तं तद् एव हि योग्यम् इत्य् आशयेन सम्बोधयति विभो हे ! पुरुषार्थाधिक-सुख-दान-समर्थ सर्व आराध्य प्राप्य सेवित्वा वा अपवर्गो भक्तिः तथा च पञ्चम-स्कन्धे यथा वर्णविधानम् अपवर्गश् च भवति योऽसौ भगवति सर्व-भूतात्मन्यनात्म्येऽनिरुक्ते निलयने वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षण इति यद् वा, मुक्तिं कथं न वृणुषे ? तत्राह—आराध्येति । वरम् आसीत् प्रियेऽव्ययम् आराध्य सेवित्वा वा कस्त्वाम् अपवर्गदं मुक्तिप्रदं सन्तं वृणीत वरम् आत्मबन्धनम् एव वृणीतेत्य् अर्थः ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न कामय इति वरम् इत्य् अव्ययम् ईषत् प्रिये अपवर्गदं सन्तं त्वां को वृणीत न कोऽपि किन्तु वरम् आत्मबन्धनम् एव वृणीतेत्य् अर्थः व्याख्यान्तरे वरम् इति पुनर् उक्तं स्यात् वृणीतेत्य् अनेनैवार्थ-प्राप्तेः ॥५६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरान् वृणीष्व् एति यद् उक्तं तत्रोत्तरम् आह—नेति । अकिञ्चनैः प्रार्थ्या भक्तिः प्रार्थ्यतरः प्रेमा प्रार्थ्यतमं पाद-सेवनं तस्मात् । अन्यं मोक्षम् अपि न कामये किमुतान्यान् वरान् । अपवर्गदं भक्ति-योगप्रदं पञ्चम-सक्न्दए अपवर्ग-शब्देन भक्ति-य्गोक्तेः अथ वा दृष्टान्तम् अपि कैमुत्येनैवःअ हि अप्य् अर्थे अपवर्गदं मोक्षार्थित्वात् मोक्षप्रदम् अपि त्वाम्, आराध्य कः खलु विवेकी आत्मनो बन्धनं वरं त्वया दित्सितम् अपि वृणीत अहं तु मोक्षेऽपि निरपेक्षः कथं तद् वृणुयाम् इति भावः ॥५६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५७ ॥

तस्माद् विसृज्याशिष ईश सर्वतो > रजस्-तमः-सत्त्व-गुणानुबन्धनाः । > निरञ्जनं निर्गुणम् अद्वयं परं > त्वां ज्ञप्ति-मात्रं पुरुषं व्रजाम्य् अहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रजस्-तमः-सत्त्व-गुणैर् अनुबध्यन्त इति तथा ता आशिप ऐश्वर्यादि-शत्रु-मारणादि-धर्मादि-रूपा विसृज्य परं पुरुषम् ईश्वरं ज्ञप्ति-मात्रं ज्ञान-घनम् । कुतः । निरञ्जनम् । तत् कुतः । निर्गुणम् । तद् अपि कुतः । अद्वयम् । अत एव अक्षरं त्वां

शरणं व्रजामीति ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि किं कर्षीत्य् अत आह—तस्माद् इति । यतो वराणां बन्धकत्वं तस्माद् धेतोः । तथा-भूता मानुष-राक्षसदैवीर्याशिषो मनोरथाः संपदो वा स्यात्-सम्पदिच्छयोर् आशीः इति । ज्ञानघनत्वे हेतुम् आशङ्कते-कुत इति । निरञ्जनं निरुपाधिम् । अत्रापि हेतुम् आशङ्कते—कुत इति । तद् अपि निर्गुणम् अपि कुतो द्वैव वर्जितम् । अत एव द्वैत-वर्जितत्वाद् एव । आशिषः फलानि । सर्वश इति पाद-सेवन-विरुद्धो मोक्षोऽपि निरस्तः सर्वतः इति पाठोऽपि स एवार्थः । तस्यापि ज्ञान-हेतु-सत्त्व-गुणानुवन्धनत्वात्, सेवायास् तु नैर्गुण्य-हेतुकत्वात् । सात्त्विक्याधात्मिकी श्रद्धा इत्य् आदौ मत्-सेवायां तु निर्गुणा इति श्री-भगवद् उक्तेः । अन्यत् तैः । तत्र त्वाम् इत्य् एतद् आकारेणाविर्भवन्तम् इत्य् अर्थः । तं च परं सत्यं परं धीमहि इति आद्योवतारः पुरुषः परस्य इति, कृष्णस् तु भागवान् स्वयम् इत्य्-आदि-दृष्ट्या स्वयं भगवन्तम् इत्य् अर्थः । ज्ञाप्ति-मात्रम् इति ज्ञान-मात्रं परं ब्रह्म इति दृष्ट्या चिन्-मात्राकारेण सर्वत्र ब्रह्माख्यम् इत्य् अर्थः । तद् उक्तम्—ब्रह्मेति परमात्मेति भगवाम् इति शब्द्यते इति । तद् एवम् आविर्भावत्रयात्मके मयातीतत्वम् आह—कुत इत्य्-आदिना । तत्र त्रिधापि निरञ्जनम् उपाधिं विना स्वरूपेणैव तथा तथा स्थितं, भगवत्त्वे परमात्मत्त्वेऽपि निर्गुणं निर्गता प्राकृतेभ्यो गुणेभ्यः गुणाः स्वरूप-शक्ति-वृत्ति-रूपा ऐश्वर्यादयो यस्य तम् । मध्य-पद-लोपी समासः । मां भजन्ति गुणाः सर्वे इत्य् आदौ साम्या सङ्गादयो गुणाः इति श्री-भगवद् उक्तेः । अद्वयं सजातीय-विजातीय-भेद-रहितम् । ज्ञाप्ति-मात्रत्वेऽपि स्वरूप-शक्तिर् यत्-किञ्चिद् उपलभ्यते, ईक्षितृत्वस्य स्वाभाविकतयावश्यं मन्तव्यत्वात् । तद् उक्तम् ईक्षते ना शब्दम् इत्य् अत्र भाष्यकृद्भिर् ज्ञान-स्वरूपस्य तस्य ज्ञान-साधनापेक्ष नास्ति प्रकाश-स्वरूपवस्तुनः प्रकाश-साधनापेक्षाभावाद् इति भगवत्त्वे परमात्मत्वे च स्पष्टम् एव सा श्रूयते—

न तस्य कार्यं च विद्यते > न तत्-समश् चाभ्यधिकश् च दृष्यते । > परास्य शक्तिर् विविधैव श्रूयते > स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इति,

अपाणिपादो जवनो ग्रहीता [श्वे।उ। ३.१९] इति च । विग्रहश् च यम् एवैष वृणुते तेन लभ्यस् तथैष आत्मा वृणुते तनुं स्वाम् इति ।

यद् वा, निरञ्जनं नितरां रञ्जकम्, निर्गुणं निःशेषेण गुणयत्य् उत्तरोत्तरं भक्ति-विस्तारेण वर्धयतीति तम्, अद्वयं प्रतिद्वन्द्वि-शून्यम्, ज्ञाप्तिश्देक-लक्षणं ब्रह्माख्यं वस्त्व् अपि मात्रांशो यस्य तम्, सच्चिदानन्द-रूपम् अनन्त-शक्तिं पुरुषाकारं त्वाम् एतम् इत्य् अर्थः । व्रजामि सेव्यत्वेनासादयामि । शेषं पूर्ववत् ॥५७॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : तस्माद् इति । तद् एवं स-प्रभेदं वीर-रसं निरूप्य तद्-भङ्ग्या भक्ति-रसानुभवितुः फल-सम्बन्धं दर्शयन् उपसंहरति—तस्माद् इति । तस्माद् वराणाम् अनर्थ-रूपत्वात् । आशिषः आशास्यमानानि फलानि सर्वशः लोक-त्रय-वर्तिनीर् अपि । निर्गुणं त्वां व्रजामि । निर्गुणः कुतः ? यतो निरञ्जनः । अञ्जनं प्रकाशावरणं मायाख्यम् । सगुणो हि माया-सम्बन्धात् त्वं चाद्वयः । माया-सम्बन्धो हि स-द्वितीयत्वं स्यात्, कुतोऽद्वयः ? यतो ज्ञप्ति-मात्रः । [मायायाः] सत्तासत्त्वाभ्याम् अनिर्वाच्यत्वाद् इत्य् अर्थः1 । भक्त-महिमा तु भक्ति-महिम्नैवोक्त इति अत्र नोक्तः ॥५७॥ [मु।फ। १९.२६]


**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**तस्माद् इत्य्-आदि । आत्मबन्धन वरं को वृणीते, न कोऽपीत्य् अर्थः । तस्माद् धेतो, सर्वा आशिषः सुखानि विसृज्य किम्भूता आशिष रजस् तम इत्य्-आदि—केवलम् आशिषम् उत्सृज्य, निरञ्जनं निर्जिगूणं ज्ञाप्ति-मात्रं यद्-ब्रह्म तद् अपि विसृज्य, परं केवलं त्वां पुरुषं पुरुषोत्तमं व्रजामि प्राप्नोमीत्य् अर्थः ॥५७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आशिषः फलानि, सर्वश इत्य् अनेन मोक्षोऽपि निरस्त एव, तस्यापि ज्ञाने हेतुः—सत्त्व-गुणानुबन्धनात्त्वाम् अद्वयम् एकम् एव व्रजामि, आश्रयामि, कुतः ? परं पुरुषं परमेश्वरं श्री-पुरुषत्तमं वा, अत एव निःशेषा गुणा यस्मिन् तम् । यद् वा, निःशेषेण गुणयति उत्तरोत्तरं भक्ति-विस्तारणेन बर्धयतीति तथा तम्, अत एव नितरां रञ्जयतीति तथा तम्, तत्-प्रकार-विज्ञापनापेक्षा च नास्तीत्य् आह ज्ञाप्ति-मात्रम् इति, ज्ञान-घन-विग्रहत्वाद् इत्य् अर्थः । अहं व्रजामि, अन्यस् त्व् आशिषो गृह्नातु नामेत्य् अर्थः । यद् वा, दीर्घाशाबद्ध-हृदयोऽहम् । एव महम् इति लेख्ये टीकायाम् अत एवाक्षरम् इति लेखक-भ्रमात् ।

ननु, यद् अर्थम् आश्रयसि, तन्-ममादेयम्, तत्राह—ईश हे सर्व-प्रदान-समर्थेति । यद् वा, किम् अन्यवेद्य-विज्ञाप्याद् अधिकम् अपि त्वं ज्ञानास्येवेत्य् आह—ज्ञाप्ति-मात्रम् इति । प्रार्थिताद् अधिकम् अपि दातुं शक्नोषीत्य् आह—हे ईशेति । अन्यत् समानम् ॥५७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आशिषः फलानि सर्वश इति पाद-सेवन-विरुद्धो मोक्षोऽपि निरस्तः सर्वत इति पाठे स एवार्थः तस्यापि ज्ञान-हेतु-सत्त-गुणानुबन्धत्वात् सेवायस् तु नैर्गुण्य-हेतुकत्वात् सात्त्विकाध्यात्मिकी श्रद्धेत्य् आदौ मत्-सेवायां तु निर्गुणेति श्री-भगवद् उक्तेः, अन्यत् तैः तत त्वाम् इति एतद् आकारेणाविर्भवन्तम् इत्य् अर्थः । तं च सत्यं परं धीमहीति आद्योऽवतारः पुरुषः परस्येति कृष्णस् तु भगवान् स्वयम् इति दृष्ट्या स्वयं भगवन्तम् इत्य् अर्थः । पुरुषम् ईश्वरम् इति विष्ट्भ्याहम् इदं कृत्स्नम् एकांशेन इति गीता-दृष्ट्यान्तर्याम्याकारेण परमात्माख्यम् इत्य् अर्थः ज्ञाप्ति-मात्रम् इति ज्ञान-मात्रं परं ब्रह्मेति दृष्ट्या चिन्-मात्राकारेण सर्वत्र ब्रह्माख्यम् इत्य् अर्थः । तद् उक्तं ब्रह्मेति-परमात्मेति भगवान् इति शब्दते तद् एवम् आविर्भावत्रयात्मत्वेऽपि मायातीतत्वम् आह—कुत इत्य्-आदिना तत्र त्रिधापि निरञ्जनम् उपाधिं विना स्वरूपेणैव तथा तथा-स्थितं भगवत्त्वे परमात्मत्वेऽपि निर्गुणं निर्गता गुणेभ्यः प्राकृतेभ्यो गुणाः स्वरूप-शक्ति-वृत्ति-रूपा ऐश्वर्यादयो यस्य तं मध्य-पदलोआः मां भजन्ति गुणाः सर्वे इत्य् आदौ साम्यासङ्गादयोऽगुणा इति श्री-भगवद् उक्तेः अद्वयं सजातीय-विजातीय-भेद-रहितं ज्ञाप्ति-मात्रत्वेऽपि स्वरूप-शक्तिर् यत्-किञ्चिद् उपलभ्यते ईक्षितृत्वस्य स्वाभाविकतयावश्यम्मन्तव्यत्वात् तद् उक्तम् ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] इत्य् अत्र भाष्यकृद्भिः ज्ञान-स्वरूपस्य तस्य ज्ञान-साधनापेक्षा नास्ति प्रकाश-स्वरूपवस्तुनः प्रकाश-साधनापेक्षाभावाद् इति भगवत्त्वे परमात्मत्वे चस्पृष्टम् एव सा श्रूयते ।

न तस्य कार्यं च विद्यते > न तत्-समश्चाभ्यधिकश् च दृष्यते । > परास्य शक्तिर् विविधैव श्रूयते > स्वाभाविकी ज्ञान-बल-क्रिया च ॥ इति,

अपाणि-पादो जवनो ग्रहीता इति च । विग्रहश् च यम् एवैष वृणुते तेन लभ्यस् तथैष आत्मा वृणुते तनुं स्वाम् इति ।

यद् वा, निरञ्जनं नितरां रञ्जकम्, निर्गुणं निःशेषेण भूषयति उत्तरोत्तरं भक्ति-विस्तारेण गुणयति वर्धयतीति तम्, अद्वयं प्रतिद्वन्द्व-शून्यम्, ज्ञाप्तिश्देक-लक्षणं ब्रह्माख्यं वस्त्व् अपि मात्रा अंशो यस्य तम्, सच्चिदानन्द-रूपम् अनन्त-शक्तिं पुरुषाकारं त्वाम् एतम् इत्य् अर्थः । व्रजामि सेव्यत्वेनासादयामि । शेषं पूर्ववत् ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आशिषः फलानि सर्वश इति मोक्षोऽपि निरस्तः तस्यापि ज्ञान-हेतु-सत्त्व-गुणानुबन्धनत्वात् सेवायास् तु नैर्गुण-हेतुकत्वात् सात्त्विक्याधात्मिकी श्रद्धेत्य् आदौ मत्सेवायान्तु निर्गुणेति श्री-भगवद् उक्तेः ज्ञाप्ति-मात्रं ज्ञानघनं सच्छिदानन्द-विग्रहम् इत्य् अर्थः निरञ्जनम् उपाधिं विना स्वरूपणैव तथा-स्थितं निर्गुणं निर्गता गुणेभ्यः प्राकृता गुणा यस्य तं मध्यपद-लोपः, अद्वयं प्रकृति-सम्बन्ध-रहितम् ॥५७.६२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् इत्य्-आदि । हे ईश ईश्वर ! तस्माद् हेतोः सर्वा आशिषः सर्व-विषय-सुखान्य् उत्सृज्य त्वां पुरुषं पुरुषोत्तमं व्रजामि, शरणं यामीत्य् अर्थः । आशिषः कीदृशीः ? रजस्-तमः-सत्त्व-गुणानुबन्धनाः । न केवलं गुणानुबन्धत्वाद् आशिष एवोत्सृज्य, निर्गुणं निरञ्जनम् अद्वयं यन् निर्विशेषं ब्रह्मेति तद् अप्य् उत्सृज्य, तद्-अनुसन्धानम् अप्य् अकृत्वेत्य् अर्थः । त्वद्-आराधनेनैव तल्-लब्धिर् इत्य्-आदि । ज्ञप्ति-मात्रं ज्ञान-मात्रं ज्ञानम् एव मात्रांशो यस्य । ज्ञानम् इति यत्, तद् अपि तवैवांश इति त्वद्-आश्रयेणैव तल्-लब्धेः । किम् इति पृथङ् निराकार-भावनयेति भावः ॥५७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्य सर्व-काम-निस्पृहं स्पृष्टीकृत्य् आह—तस्माद् इति सर्वशः सर्वा एव सर्वत इति पाठे\ऽपि स एवार्थः रजस्-तमः-सत्त-गुणैर् अनुबध्यन्त इति ताः तेन ज्ञान-हेतु-सत्त्व-गुणानुबन्धिनीम् उक्तिर् अपि विसृष्टा गुणत्रयातीता पाद-सेवनात्मिका भक्तिर् एव प्रार्थिता श्री-मद्-गीतास्वेकादशे च भक्तेर् एव त्रिगुणातीतत्व-श्रवणात् त्वां पुरुषं व्रजामि प्राप्नुयाम् इत्य् अर्थः ।

ननु, पुरुषाकारम् मां मायाशरणं ब्रह्मेति केचिद् आचक्षते तत्राह निरञ्जनम् अञ्जनम् उपाधिस् तद् रहितं यतो निर्गुणं ननु, च सत्यं निर्गुण एवास्मि इदं मदीयं वपुस् तु गुणमयम् एव वदन्तीत्य् अत आह अद्वयं त्वन्त्वद् वपुश् च न भिन्नं त्वम् एव त्वद् वपुर् इत्य् अर्थः । तर्हि वपुर् इदं किं स्वरूपं तत्राह ज्ञप्ति-मात्रं चित्-स्वरूपं ब्रह्मैवेत्य् अर्थः । गुणमय-जगतोऽपि त्वच्-छक्तिमयत्वेन त्वद्-भिन्नत्वाभावाद् अद्वयम् स्वरूप-शक्त्या तु ज्ञप्ति-मात्रं पुरुषम् ॥५७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५८ ॥

चिरम् इह वृजिनार्तस् तप्यमानोऽनुतापैर् > अवितृष-षड्-अमित्रोऽलब्ध-शान्तिः कथञ्चित् । > शरणद समुपेतस् त्वत्-पदाब्जं परात्मन् > अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भुङ्क्ष्व तावद् भोगान्, कैवल्यं तु कर-स्थम् एवेति पुनर् वरैः प्रलोभयन्तं श्री-कृष्णं पादोपग्रहणेन प्रार्थयते—चिरम् इति । वृजिनैः कर्म-फलैर् आर्तः, पुनस् तद्-वासनाभिस् तप्यमानः, तथाप्य् अवितृष-षड्-अमित्रः, तृड् एव तृषा तृष्णा, न विगत-तृषाः षड्-अमित्राः शत्रव इन्द्रिय-लक्षणा यस्य सः । अत एव अलब्ध-शान्तिः, कथञ्चिद् दैव-वशेन लब्ध-शान्तिर् इति वा । शरणं स्व-ज्ञानं तद् ददातीति तथा हे शरणद ! समुपेतः प्राप्तोऽहम् । अशोकत्वे हेतुः—अभयम् । तत्रापि हेतुः—ऋतं सत्यम् । आपन्नम् आपदा व्याप्तं पाहि इति ॥५८.५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-वासनाभिः कर्म-फल-वासनाभिः । तथापि कर्म-[वासनातप्य्]{।मर्क्} अमानत्वेऽपि । अत एवातृप्तेन्द्रियारातित्वाद् एव । अरुच्या न पक्षान्तरम् अत्र तत्राप्य् अभयत्वे सत्यस्य भयाभाव-प्रसिद्धेः । अतोऽधुना कथम् अपि माम् उपेक्षितुं नार्हसि किन्तु सर्वतो रक्षेति सदैन्यम् अर्थयते—चिरम् इति । इह संसारे । वृजिनैः पाप-भोगैर् आर्तः, अनुतापैः पुण्य-भोगक्षये शोकैस् तप्य् अमानः कथञ्चिद् अपि न लब्ध्वा शान्तिश् चित्तस्थैर् यं सुखं वा येन सः ।

यद् वा, कठञ्चित् प्रत्नाभावाद् अनिरूप्येण केनचित्-कारणेन सम्यक्-प्रत्यक्षतया तथापि उप-समीपे इतः प्राप्तः तच् च तव योग्यम् इत्य् आह—हे शरणद् । आर्तानां शरणं त्व् अहम् इत्य्-आदि-स्वप्रतिज्ञापेक्षया स्वाश्रय-दायक । न च वक्तव्यं तद्-भक्ति-वशाद् इति भक्तेर् अपि प्रवर्तकस् त्वम् एवेत्य् आशयेन सम्बोधयति—परमात्मन्न् इति । अतोऽधुना निज-पादाब्ज-माहात्म्यानुरूपम् एव दातुम् अर्हसि न त्व् अन्यद् इत्य् आशयेन पादाब्जं विशिनष्टि—पदैस्त्रिभिः । अतः पाहि निज-सेवकत्वेन पालाय । तद् च केवलं दीन-वात्सल्याद् एवेत्य् आशयेन पुनर् आह—आपन्नम् इति । तत्र च त्वम् एवैकः समर्थ इत्य् आह—ईशेति ॥५८॥


हेमाद्रिः (कैवल्य-दीपिका-टीका) : चिरम् इति । वृजिनं दुःखम् । अनुतापैः पश्चात्-तापैः । अवितृषः षट् इन्द्रियाण्य् अमित्राणि यस्य शं सुख-रूपम् । अभयम् अद्वितीयत्वात् । ऋतम् अबाध्यत्वात् । अशोकम् आनन्द-घनत्वात् । आपन्नं शरणागतम् ॥५८॥ [मु।फ। १५.२६]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् त्वत्-पादाब्जं समुपेतोऽहं हे शरणद ! मां पाहि । भक्त-रूपेण मां रक्ष, कैवल्यं मा दाः ॥५८॥


रूप-गोस्वामी (भक्ति-रसामृत-सिन्धु २.४.२२) : दुःखेन दैन्यम् ॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतोऽधुना कथम् अपि माम् उपेक्षितुं नार्हसि, किन्तु सर्वतोऽनिष्टाद् रक्षेति स-दैन्यं प्रार्थयते—चिरम् इति । इह संसारेऽस्मिन् जन्मनि वा, वृजिनैः पाप-भोगैर् आर्तः, अनुतापैः पुण्य-भोगक्षये शोकैस् तप्य् अमानश् च । यद् वा, वृजिनैः पाप-कर्मभिर् आर्तः पुण्य-कर्माणाम् अपि क्षयिष्णु-फलत्वादि-श्रवणाद् अनुतापैस् तपैस्तप्यमान इत्य् अर्थः । यद् वा, वृजिः पूर्व-पापैर् आर्तः पुनश् चाधुनानुतापैः कामादि-कृतैस् तप्यमान इति ब्राह्यान्तर-दुःखम् उक्तम् । कथञ्चिद् अपि त लब्धाशान्तिश् चित्तस्थैर्यं सुखं वा येन सः । यद् वा, कथञ्चित् स्वप्रयासाभावाद् इना निज-स्वरूप-प्रकाशनाद्य् अनिर्वचनीय-प्रकारेण वा सम्यक् प्रत्यक्षत्वेन तत्रापि उप समीपे इतः प्राप्तः, तच् च तद् अनुग्रह-प्रभावाद् एवेत्य् आशयेन सम्बोधयति—शरणद ! आर्तानां शरणं त्व् अहम् इत्य्-आदि-स्व-प्रतिज्ञापेक्षया स्वाश्रय-दायक, न च वक्तव्यं त्वद्-भक्तिवशाद् इति भक्तेर् अपि प्रवर्तकस् त्वम् एवेत्य् आशयेन सम्बोधयति—परात्मन्न् इति । अन्तर्यामितया सर्वत्र प्रवर्तकेत्य् अर्थः । अतोऽधुना निज-पादाव्ज-माहात्म्यानुरूपम् एव दातुम् अर्हसि, न त्व् अन्यद् इत्य् आशयेन पादाब्जं विशिनष्टि पदैस्त्रिभिः । अतः कालभय-व्याप्तं पारमेष्ट्यादि-पदम् अस्त्यमणिमाद्यैश्वर्यं च भक्त-जन-सङ्गात् तुच्छत्वज्ञानेन पश्चाछोककरं मोक्षम् अपि दातुं नार्हसीति भावः । अतः पाहि, त्वत्-प्राप्ति-विघ्नादि-सर्वापद्भ्योऽनिष्टाद् वा रक्ष, तच् च केवलं दीन-वात्सल्याद् एवेत्य् आह—आपन्नम् इति । एतच् च प्राक् वृजिनार्तः इत्य्-आदिनोक्त्वापि परमार्त्योक्तम् । तत्र च त्वम् एवैकः समर्थ इत्य् आह—हे ईशेति । यद् वा, अभयम् इत्य्-आदिकं क्रिया-विशेषणम्, पुनर् यथा संषार-भयं शोकश् च न स्यात्, सत्यं च यथा पाहीत्य् अर्थः । न चा प्रियं कथञ्चिद् दातुम् अर्हसीत्य् आह—परत्मन् हे परम-प्रियतमेति । परमात्मतया परम-प्रियतमत्वं च चतुर्दशाध्यायान्तादौ बहुशो निरूपितम् एव । अवश्यं च शरणागतं रक्षितुम् अर्हसीत्य् आह—आपन्नं प्रपन्नम् इति । न चाधमं प्रतीदृशानुग्रहेण कुतोऽपि तव लज्जाशङ्कादिकं सम्भवेद् इत्य् आह—ईश, हे परम-स्वतन्त्रेत्य् एषा दिक् ॥५८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतोऽधुना कथम् अपि माम् उपेक्षितुं नऋहसि किन्तु सर्वतो रक्षेति सदौन्यम् अर्थयते—चिरम् इति । इह संसारे वृजिनैः पाप-भोगैर् आर्थ अनुतापैः पुण्य-भोगक्षये शोकैस् तप्यमानः कथञ्चिद् अपि न लब्धा शान्तिश्चित्तस्थैर्यं सुखं वा येन सः यद् वा, कथञ्चित् प्रयत्नाभावद् अनिरुप्येण केनापि कारणेन सम्यक्-प्रत्यक्षतया तत्रापि उप-समीपे इत प्राप्तः तच् च तव योग्यम् इत्य् आह—हे शरणद ! आर्तानां शरणं त्व् अहम् इत्य्-आदि-स्वप्रतिज्ञापेक्षया स्वाश्रयदायक, न च वक्तव्यं त्वद्-भक्तिवशाद् इति भक्तेर् अपि प्रवृत्तर्कस्त्वम् एवेत्य् आशयेन सम्बोधयति, परमात्मन्न् इति, अतोऽधुना निज-पादाब्ज-माहात्म्यानुरूपम् एव दातुम् अर्हसि न त्व् अन्यद् इत्य् आशयेन पादाब्जं विशिनष्टि-पदैस्त्रिभिः । अत पाहि निज-सेवकत्वेन पालय तच् च केवलं दीनवात्सल्याद् एवेति दैन्येन पुनर् आह आपन्नम् इति । तत्र च त्वम् एवैकः समर्थ इत्य् आह हे ईशेति ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतस् त्वत्-पादाब्जम् एवानुगतोऽस्मीत्य् आह—चिरम् इहेत्य् आदि । हे शरणद ! त्वत्-पदाब्जं समुपेतोऽहम् । मा पाहि भक्त-रूपेण मां रक्ष, मा मोक्षं दाः । शरणम् आश्रयं ददातीति तथा शरणं गृहं द्यतीति वा, गृह-बन्ध-च्छेदकेत्य् अर्थः । शरणं गृह-रक्षित्रोः इत्य् अमर-सिंहः ॥५८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भुङ्क्ष्व तावत् भोगान् तद् अन्ते साक्षात् पाद-सेवनं तु ते दास्य्साम् एवेति पुनर् वरैः प्रलोभयन्तं श्री-कृष्णं पादोपग्रहणेन प्रार्थयते, चिरम् इति । वृजिनैः सङ्ग्रामे शक्रवैर्जिगीषा-लाक्षणैर् उपद्रवैर् एवार्तः हरि-हरि एतावद् दिनानि भगवन्तं नाभजम् इत्य् अनुतापैस्तप्यमानः विषय-भोगे प्रस्तुते सत्यवितृषषडमित्रः विगत-तृष्णानि मे षडिन्द्रियाणि न भवन्ति कथञ्चित् स्वकृतेनान्यदत्तेन विवेकेनाप्य् अलब्ध-शान्तिः तेन त्वद्-दत्तेष्व् अपि भोगेष्वे एवनम् एव पुनर् अप्य् अहं भविष्यामि विषय-भोगस्य स्वभाव एवायं तस्मात् मा देहि भोगान् इति द्योतितम् । हे परात्मन् ! अन्तर्यामिन् ! सर्वं त्वं जानास्येवेति भावः । अभयमृतम् आशोकम् इति पादाब्जस्य विशेषणत्रयेण अन्यत्र मानुष-सम्पत्तौ रोगविपक्षादिभयं, दिव्य-सम्पत्तौ अचिरस्थायित्व-लक्षणम् अनृतत्वं, ब्राह्म-सम्पत्तौ त्वत्-पाद-सेवन-वञ्चितत्व-लक्षणः शोक इत्य् अलन्ताभिर् इति द्योतितं तस्मान् मा माम् आपन्नम् आपद्ग्रस्तं पाहि स्वपादाब्ज एव रक्षेत्य् अर्थः ॥५८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.५९-६० ॥

श्री-भगवान् उवाच——

सार्वभौम महा-राज मतिस् ते विमलोर्जिता > वरैः प्रलोभितस्यापि न कामैर् विहता यतः । > प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् > न धीर् एकान्त-भक्तानाम् आशीर्भिर् भिद्यते क्वचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रमादाय प्रमादाय न भवत्य् एव । कुत इत्य् अत आह । न धीर् इति । एकान्त-भक्तानां धीराशीर्भिः प्राप्ताभिर् अपि न भिद्यते नासज्जत इत्य् अर्थः ॥६०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऊर्जितात्युच्चा । तत्र हेतुः—वरैर् इत्य्-आदि । हे सार्वभौमेष्व् अपि महाराज इत्य् अत्यन्तादरात् पौनर् उक्त्यं वा हे सार्वभौम महाराजेति । ततः परमेश्वरस्यापीदृशं वचनम् इत्य् अहो सौशील्यम् इति भावः । विमला संसार-वासना-शून्या, ऊर्जिता प्रखर-सविदग्धेत्य् अर्थः । तत्र हेतुः—प्रकर्षेण मां प्रपन्नो जन इत्य् आद्य् उक्त-युक्त्या लोभितस्यापि कामैः साम्राज्याद्य् ऐर्मोक्ष-ल्पर्न्तैर् मद्-भक्त्या काम्यमानैर् अर्थैर् न विहता किन्तु तस्याम् एव बद्ध-स्पृहा जातेत्य् अर्थः । ऊर्जिता चालयितुशक्यत्वाद्-बलवती ॥५९॥

तत्-प्रलोभनम् । एवं कुतः प्रामादाभावाय कुतो ज्ञायते । इत्य् अत इत्य् अत्र । इत्य् अर्थ इति—विषय-सङ्ग एव बुद्धि-भेद इति भावः । अप्रमादाय अप्रमादं दर्शयितुम् अन्योपासकान् इति क्रियार्थोपपदस्य इत्य्-आदिना चतुर्थी । एतद् दर्शनायैव प्रलोभितोऽसीति भावः ॥६०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भगवान् अपि तथैवान् वमोदत न धीरेकान्त-भक्तानाम् आशिर्भिर् भिद्यते क्वचित् क्वचिद् आशिभिर् मोक्ष-प्रभृतिभिः ॥५९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सार्वभौम ! हे अखण्ड-पृथ्वीपते ! अतो महाराज ! हे चक्रवर्तिन् ! किं वा, सर्व-सम्पत्त्यान्तर्बहिश् च परम-प्रकाशमान ! यद् वा, सार्वभौमेषु महा-राज ! अन्यत् समानम् । पाठान्तरे महा-भाग्य-युक्तेत्य् अर्थः । विमला कामादि-दोष-रहिता ऊर्जिता च गभीरा प्रखरा वा प्रकर्षेण मां प्रपन्नो जनः [भा।पु १०.५१.४३] इत्य् आद्य् उक्त्या लोभितस्यापिल्, काम्यन्त इति कामा विषय-भोगादयस् तैः । यद् वा, मद्-व्यतिरिक्त-कामैर् न विहता नोपहता न क्षोभितेत्य् अर्थः ॥५९॥

प्रमालोऽनर्थः प्रकृष्टमतता वा, क्वचित् कदाचिद् अपि प्राप्तैर् अपि तैः प्रमादो न भवतीत्य् अर्थः अन्यत् तैर् व्याख्यातम् । यद् वा, अप्रमादाय सदा वरोपेक्षायाम् अवधानार्थम्, यत एकान्त-भक्तानाम् एव धीर् न भिद्यते न प्रविश्यते, अतस्तवैकान्त-भक्त्यभावेन पश्चात् कदाचित् कथञ्चिद् अपि न भिद्यताम् इत्य् एतद् अर्थम् इत्य् अर्थः ॥६०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे सार्वभौमेष्व् पै महाराज ! हे सार्वभौम महाराज्येत्य् अन्त्यन्तादरात् पौनर् उक्त्यं वा ततः परमेश्वरस्यापीदृशं वचनम् इत्य् अहो सौशील्यम् इति भावः, विमला संसार-वासना-शून्या ऊर्जिता प्रखरा रस-विदग्धेत्य् अर्थः तत्र हेतुः प्रकर्षेण मां प्रपन्न-ओ जन इत्य् आद्य् उक्त-युक्त्या लोभितस्यापि कामैः साम्राज्यादि-मोक्ष-पर्यन्तैर् मद्-भक्त्या काम्यमानैर् अर्थैर् न विहता किं तु तस्याम् एव बद्ध-स्पृहा जातेत्य् अर्थः ॥५९॥

प्रलोभित इति तैर् व्याख्यातं तत्र प्रमादश् चिन्तान्तरं तथा न भक्त्य् एवेत्य् अनन्तरम् इति तद् विद्धीति शेषः एकान्त-भक्तानाम् उपासनान्तरकामनानन्तर-शून्यानाम् आशिर्भिः कामनाभिः [कर्त्त्रीभिः] न भिद्यते न प्रविश्यते तासु नासज्जत इत्य् अर्थः । एतद् दर्शनायैव प्रलोभितोसीति भावः, अप्रमादाय अप्रमादभावायः ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवान् अपि तथैवान्वमोदतेत्य् आह—प्रलोभित इत्य्-आदि । वरैः प्रलोभितोऽपि यत्त्वम् अप्रमादाय प्रमत्तो नाभूर् त्य् अर्थः । विद्धि जानीहि तत् । मय्य् एकान्त-भक्तानां धीराशीर्भिः क्वचिद् अपि न भिद्यते । तेन त्वम् एकान्त-भक्तोऽसि । तस्मात्-मत्-पदाब्जं विना नान्यन् मोक्षाधिकम् अपि यद् अभिलषसि तत्-तद् उचितम् एवेति वाक्यार्थः ॥५९॥

व्यतिरकं दोषम् आह—युञ्जानानाम् इत्य्-आदि । अभक्तानां प्राणायाम् आदिभिर् मनो युञ्जानानाम् आप्य् अक्षीण-वासनं मनः पुनर् उत्थितं दृश्यते मद्-भक्तानां तु मनो मनो मयि लीनत्वान् न पुनर् उत्तिष्ठतीति वाक्यार्थः ॥६०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊर्जिता चालयितुम् अशक्यत्वाद्बलवती ॥५९॥

अप्रमादाय तवाप्रमादं द्रष्टुम् अन्योपासकान् दर्शयितुम् इति वा क्रियार्थोपपदस्य [२.३.१४] इत्य्-आदिना चतुर्थी यतो धीरित्य्-आदि ॥६०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.६१-६२ ॥

युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः > अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् । > विचरस्व महीं कामं मय्य् आवेशित-मानसः > अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यतिरेकम् आह—युञ्जानानाम् इति । उत्थितं विषयाभिमुखम् ॥६१॥

तुभ्यं तव ॥६२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यतिरेकं बुद्धिरेकं युञ्जानानाम् अपि ल्ल्न क्षीणा दुष्कर्म-वासना यस्मिंस् तत्-तथा । अन्योपासकानां तु प्रमादो भवत्य् एवेत्य् आह—युञ्जानानाम् इति । अभक्तानां मद् भक्त-भिन्नानां योगिनां ज्ञानिनां चेत्य् अर्थः ॥६१॥

अनपायिनी जन्मान्तरे\ऽप्य् अपाय-हीना । अस्त्व् एव भविष्यत्य् एव [यादादीनां तुबादीनां च काल-विशेषाकथनेऽपि भविष्यत्कालो बोध्य इत्य् उक्तम् आकरे] । इतः परं कृतकृत्य एव त्वम् इत्य् आह—विचरस्त्वेति ॥६२॥


**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :**व्यतिरेके दोषम् आह—युञ्जानानाम् अभक्तानाम् इत्य्-आदि-प्रार्थितं प्रत्यनुमोदयन्न् आह—अस्त्व् एवम् इत्य्-आदि । अनपायिनीति कैवल्य-निरपेक्षिणी ॥६२.६३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च वक्तव्यम्, अष्टाङ्ग-योगेन मनः-समाधानाद् आशीर्भिर् धीर् न भेद्येति, एकान्त-भक्त्य-भावड् इत्य् आह—युञ्जानानाम् इति । अभक्तानां भक्ति-रहितानाम् । यद् वा, त्यक्तान्नानाम् अपि भक्त्य् अभावाद् एव न क्षीणा विषयादि-वासना यस्य तत्, राजन्न् इति त्वयेदं बुध्यत एवेत्य् अर्थः । यद् वा, जन्मन्य् अस्मिन् राजत्वेन राज-धर्मापेक्षया चिरं देव-रक्षया च दीर्घ-निद्रयाप्य् एकान्त-भक्तिर् न सम्पन्नास्तीति भावः । अत एव जन्मान्तरावाप्तिर् वक्ष्यते, भक्तिस् तु तस्य भात्य् एव, सा च महान् [१४श। श्लो] इत्य् आदौ प्राक् व्यञ्जितैव, अन्यथा श्री-भगवत् तादृशानुग्रहासम्भवः स्याद् इति दिक् ॥६१॥

ननु, कथम् एकान्त-भक्तिः स्याद् इत्य् अपेक्षायाम् आदिशति—विचरस्वेति । मय्य् आवेशित-मानसः सन् कामं यथेष्टं मत्-पाद-सेवासिद्धनुसारेण, अत एव विशेषेण एकाकित्वादिना मद्-भक्त-सङ्गम-सङ्कीर्तनादिना वा, चरस्व, ततश् च अनपायिनी एकान्तित्वाद् अनवच्छिन्ना अहैतुकी वा भक्तिर् अस्ति, भवत्य् एवेत्य् अर्थः । पाठान्तरे एवम् अस्त्व् इति वरस् तादृश विचरणेनाप्य् एकान्त-भक्तेः सुदुर्लभत्वात् ॥६२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मार्गान्तरे तु काम-त्यागयत्नवताम् अपि प्रमादः स्याद् इत्य् आह—युञ्जानानाम् इति । समादधानानां क्रमात् तादृश-निष्टाजनकस्य भक्ति-मात्रस्याभावाद् एव न क्षीणा विषयादि-वासना यस्य तत् ॥६१॥

इतः परं कृत-कृत्य एव त्वम् इत्य् आह—विचरस्वेति । मय्यावेशितमानसस् त्वं कामं यथेष्टं विचरस्व विहर यतः अस्त्व् एवेति अस्त्येवेति पाठे यथास्ति तथैवास्तीत्य् अर्थः ॥६२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मात् त्वया यद् अभिलषितम्, तद् एवास्त्वित्य् आह—अस्त्य् एवम् इत्य्-आदि । भक्तिर् मय्य् अनपायिनीति, अनपायिनी कैवल्य-निरपेक्षिणी ॥६१.६२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यो पासकानां तु प्रमादो भवत्य् एवेत्य् आह—युञ्जानानाम् इति । अभक्तानां मद्-भक्त-भिन्नानां योगिनां ज्ञानिनां चेत्य् अर्थः । प्रणायाम् अशमदमादिभिः, उत्थितं विषयाभिमुखं भवति ॥६१॥

तुभ्यम् इति पूर्वम् अधुनापि विशेषतो दत्तैव ॥६२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.६३ ॥

क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः । > समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्त्याभासेन भीषयंस् तपसि लोक-सङ्ग्रहे प्रवर्तयति, क्षात्र-धर्मेति ॥६३.६४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युक्तिस्तूचितार्था तद्-भिन्नो युक्त्याभासः, न हि भगवद् दर्शिनः पापानि कदापि तिष्ठतीत्य् अतो नेयं युक्तिः किन्ऽतु तद् आभास एवेत्य् आशयः । लोक-सङ्ग्रहे तन् निमित्तम् । निमित्ते सप्तमी । क्षात्र-धर्मे राज-धर्मे । आदिना प्रमादोऽपि राज्ञां भवतीति तद् अग्रहः । तज्-जन्तुवधोत्थम् । अघं पापम् । हा हा अतः परम् अपि मां स्वसङ्गाद् वियोजयितुम् इच्छसि, मैवं मैवम् इति तस्य महोत्कण्ठाम् आलक्ष्य भगवता विचारितम्—अयम् अस्मिन्न् अवतारे स्वसङ्गे नेतुम् अनर्हः, मदीय-लीलापरिकरा हि द्वापरान्तर्भवा उद्द्ववाक्रूरादयो युधिष्ठिरार्जुनादयश् च इमम् एतन् मन्वन्तर-प्रथम-समय-भवम् अतिप्राचीनं दृष्ट्वा—अहो कोऽयम् अतिस्थूलतमोऽतिदीर्घतमोऽस्मद् अनुरूपो मानुष इत्य् उक्त्वा हसिष्यन्ति, तथा सम्प्रत्य् एव जरासन्धात् पलायन-लीलायां तथाग्रिमासु रुक्मिणी-हरणादि-लीलासु जरासन्धादिभिः शाल्वादिभिश् च सङ्ग्रामे नायं मत्सङ्गानु-रूपो भवितुम् अर्हति, अयं तान् मद्-विपक्षन् मशकान् इव करतलाभ्याम् एव घृष्ट्वा वधिष्यतीत्य् अत इमं सङ्गाद् विमोचयितुं कां युक्तिं करोमीति विचिन्त्य केवलम् अलीकोक्तिमयं तत्-प्रत्यायकं किम् अप्य् आह—क्षात्रेति ॥६३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रादौ तावत् तपश्चरेत्य् अघक्षपण-व्याजेनादिशति—क्षात्रेति । अनेन निर्दयत्वम् उक्तम्, वस्तुतस्त्व् अघराहित्यम् एव, क्षत्रियस्य तद् विहितत्वात् । जन्तून् जीवान्, आदि-शब्दाद् युद्धादयः । एवं सर्व-भूत-सौहृदाभावेनैकान्तिक-भक्त्य् अयोग्यत्वं च सूचितम् । तपसा वानप्रस्थ-धर्मेण समाहितः कृत-चित्तस्थैर्यः, अतो मदपाश्रयस् तपोऽर्पणादिना मद् एक-शरणः सन् । अयं भावः—एकान्त-भक्त्य् अभावेनाधुना साक्षात् मत्पाद-सेवायोग्यता नास्ति, कलिकालेऽस्मिन् मही-विचरणश् च मनः क्षोभकरम्, तद् अधुना लोक-सङ्गत्यागेन कुत्रापि निर्जनेऽस्य स्थितिर् एवास्य हिताय स्यात्, तत्र यथाधिकारं तप एवोचितं तद् अर्पणादिना च मद् आराधनम् अपि स्वतः फलिष्यत्य् एवेत्य् अघक्षय-प्रयोजन-व्याजेन तप आदिशामीति ॥६३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्षात्रेति तैर् वतारितं तत्र भीषयन्न् इति सहज-सौशील्येन तद्-गुणमनूद्य पुनर् अतिकारुण्यात् स्वस्मिन् । तस्य प्रेम-विशेष-सम्पादकोत्कण्ठा-वर्धनार्थं कालविलम्बनेनेति भावः, आनुषङ्गिक-प्रयोजनम् आह—लोक-सङ्ग्रह इति । अतः भीषयन्न् इत्य् आर्षः इव प्रयोग आर्षानुगामित्वाद् इति ज्ञेयं यद् वा, तद् अर्थम् एव कृत्य् अशेषाभासं प्रदर्शयन्न् आह, क्षात्रेति । तपसा मयि चित्तैकाग्रेण अघं मर्जितां तादृश-वासनाम् ॥६३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वद् अभीष्टं माम् एव केवलं न तु त्वद् अभीष्टं विभूत्यादिकम् अपि उपसेवार्थं सामीप्ये नेष्यामि ॥६३.६४॥


**जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :**भूत्वा द्विजवर इत्य्-आदि । द्विजवरस् त्वं क्षत्रिय-श्रेष्ठस् त्वं भूत्वा उत्पत्य स्थितः अचिराद् अचिरेणैव माम् अवाप्स्यसि अवापः अतीतार्थे भविष्यत्-प्रयोगः । यद् वा, हे द्विज ! क्षत्रिय ! त्वं वरो भूत्वा अप्राकृतो भूत्वा प्राप्स्यसि इदानीं तु प्राप्तवान् असि किन्त्व् अयं ते देहः प्राकृतः ॥६३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हा हा अतः परम् अपि मां स्वम् अङ्गाद्वियोजयितुम् इच्छामि मैवं मैक्यम् इति तस्य महोत्कण्ठाम् आलक्ष्य भगवता विचारितम् अयम् अस्मिन्न् अवतारे स्वसङ्गे नेतुम् अनर्हः मदीय-लीला-परिकरा हि द्वापरान्तर्भवा उद्धवाक्रूरादयो युधिष्ठिरार्जुनादयश् च इमम् एतन्मन्वन्तर-प्रथम-समय-भवम् अतिप्राचीनं दृष्ट्वा अहो कोऽयम् अतिदीर्घतमोऽति-स्थूलतमो अस्मद् अननुरूपो मानुष इत्य् उक्त्वा हसिष्यन्ति तथा स्वम्पत्य् एव जरासन्धात् पलायन-लीलायां तथाग्रिमासु रुक्मिणी-हरणादि-लीलासु जरासन्धादिभिः शाल्वादिभिश् च सङ्ग्रामे नायं त्व् असङ्गानुरो भवितुम् अर्हति अयं हि तान् मद् विपक्षान् महाकान् इव करतलाभ्याम् एव धृष्ट्वा वधिष्यन्तीत्य् अत इमं स्वसङ्गाद्वियोजयितुं कां युक्तिं करोमीति विचिन्त्य केवलम् अलीकोत्तिमयं तत् प्रत्यायकं किम् अप्य् आह—क्षात्रेति ॥६३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.५१.६४ ॥

जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः । > भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रमादाय प्रमादाय न भवत्य् एव । कुत इत्य् अत आह—न धीर् इति । एकान्त-भक्तानां धीराशीर्भिः प्राप्ताभिर् अपि न भिद्यते नासज्जत इत्य् अर्थः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्वम् आह—जन्मनीति । अनन्तरे एतद् देह-पातानन्तरभाविनि । सर्व-भूत-सुहृत्तम इत्य् अनेन सर्वाभय-प्रदान-लक्षणः संन्यासो लक्ष्यते । आत्यन्तिक-मुक्ति-हेत्वौपनिषदात्म-साक्षात्-कारोषयोगिपारिव्राज्ययोग्यत्वात् सर्वतनुषु प्रायो ब्राह्मण-तनुर् एव चरम-देहत्वान् मत्-प्राप्ति-योग्या नान्येति सूचयन्न् आह—भूत्वेत्य् आदि । द्विजवरो ब्राह्मणः प्रव्रज्या ब्राह्मणस्यैव इत्य् एवकारेणान्य-वर्णस्य तद्-व्यवच्छेद इत्य् उक्तं हारीतस्मृतौ । उपैष्यसीति ब्रह्मैव सन्-ब्रह्माप्येति इति श्रुतेर् ब्रह्म भूत्वा ब्रह्म प्राप्नोतीति प्रातीयते । तथा च ब्रह्म ब्राह्मण आत्मना इति श्रुतेः, अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि इति स्मृतेश् च ब्राह्मणो ब्रह्मैवाऽतो ब्रह्मैव सन् अपरोक्षात्म-ज्ञानवान् ब्राह्मण-जातिर् भूत्वा ब्रह्म-परमात्मानं प्राप्नोतीत्य् अर्थः इति श्रुत्य् अर्थो भगवता ध्वनितः । यत् तु स एष साधो चरमो भवानाम् इत्य् उद्धवं प्रत्य् उक्तं श्री-कृष्णेन, तद् अपि निज-भक्तानां देहत्याग-समलक्षणम् एव ब्राह्मण्यं सम्पाद्य निज-शक्त्या मोक्ष-दानपरम् इति ध्येयम्, अन्यथा भूत्वा द्विजवर इत्य् उक्तिर् व्याकुप्येतेति ।

ननु, तर्हि त्वत्-सङ्गी कदा भविष्यामीत्य् अत आह—जन्मनीति । अतः परं त्वं मद्धाम वैकुण्ठं यास्यस्य् एव स्ववैरिभ्यो\ऽप्य् अस्मिन्न् अवतारे मोक्षं वैकुण्ठ-वासश् च ददामि किं पुनस् तुभ्यं परम-भक्ताय, किञ्चावरातान्तरे च त्वां सङ्गिनं लीला-परिकरं करिष्यामि, यदा त्वं स्वं च समकालम् एवाविर्भावयिष्यामीत्य् अन्ततरे जन्मनि मम च तव चेत्य् अर्थः । सर्व-भूतानाम् उपकारकत्वट्, यथायोगं विद्याप्रदानाच् च । सुहृत्तमो द्विजवरः परमादरणीयो विप्रो भूत्वा मां केवलं वैराग्यत्वान् निष्परिग्रहं समेष्यसि, मत्-सङ्ग एव स्थास्यसीत्य् अर्थः ॥६४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं जन्मान्तरे एकान्त-भक्तत्व-सम्पत्त्या तत्वाभीष्टं सेत्स्यतीत्य् आह—जन्मनीति । अनन्तरे अव्यवहिते, हे राजन्न् इति क्षत्रियत्वेन, तत्र च राज्येन, तद् वासनानुसारेणाधुना सर्व-भूत-सुहृत्तमत्वाभावः सूचितः । द्विजवरो ब्राह्मण इति तस्यैव स्वभावः सुहृत्तमत्व-सिद्धेः । तत्र सर्व-भूतानां सुहृत् ज्ञानी, सुहृत्तरो भक्तः, सुहृत्तम एकान्त-भक्तः, सहज-कारुण्यभरेण भक्ति-विस्तारणादिना निरुपाधि-सर्वोपकार-सहज-कारुण्यभरेण भक्ति-विस्तारणादिना निरुपाधि-सर्वोपकारपरत्वात् । तथा चोक्तं श्री-भगवतैव सुतरां मत्-कृतात्मनाम् इति । एवम् एकान्तित्वम् एवाभिप्रेतम् ।

यद् वा, द्विजेषु विप्रेषु वरः श्रेष्ठ एकान्तभक्तत्वात्, अत एव राजन् राजमानः, सर्व-भूत-सुहृत्तमश् च । वै एव, अतो माम् एव केवलम् एकम्, न तु मद् विभूत्यादिकम् । यद् वा, क्रीडा-विशेषेणैकान्ते एकाकितया वर्तमानम् अपि उप सामीप्येन एष्यसि प्राप्स्यसि, साक्षान् मद् विचित्र-परिचर्यां करिष्यसीत्य् अर्थः । अथवा तस्य पाद-सेवैकवाञ्छया तथा न धीरित्य्-आदिभगवद् उक्त्या चैकान्त-भक्तत्वं गम्यत एव, अन्यथा कृपाकोमलशीलस्य विनयाद्य् अशेष-गुण-निधेर् भक्तं प्रति साक्षाद् एकान्त-भक्ततत्वाभावोक्तेर् अघटनात् । ततश् च तपो मन् निष्ठता बुद्धेः [भा।पु ११.१९.३६] इति स्वनिष्ठतार्थम् एव तथोक्तम्, भक्तेर् आत्यन्तिक-शोधकत्वट् । जन्मान्तरे द्विजवरत्वं च ममैष काल [भा।पु १ओ।५१.४७] इत्य्-आदिना राजत्वस्य दोषोद्घाटेनैव विप्र-जन्मनोऽभिप्रेतत्वात् । किं वा, श्री-नारदादिवन् महा-भागवतोत्तमता-माहात्म्य-विशेष-सिद्ध्यर्थं महा-भागवतोत्तम-लक्षणं चोक्तं पद्मपुराणोत्तर-खण्डे—

तापादि-पञ्च-संस्कारी नवेज्याकर्मकारकः । > अर्थ-पञ्चक-विद्विप्रो महा-भागवतोत्तमः ॥ इति ।

अस्यार्थः श्री-भगवद्-भक्ति-विलास-टीकातो ज्ञेयः । एतद् अनुसारेणोक्ततत् तद् अर्थश्चोह्यः । तत्र च भक्तिर् अस्ति वर्तत एव, अतः कामं विचरस्वेति, अन्यत् स्पटम् एव । स्वामिपादानां व्याख्यानुसारेण तत्र तत्र प्रथम-पक्षे व्याख्यातम् अपि गोकुल-सम्बन्धिनाम् आद्यकथनं च, तस्य श्री-नारायण-ज्ञानेन तदैश्वर्य-श्रवणेनैव विश्वासोत्पत्तेः । तथेश्वर-दृष्टि-मति-युक्तेर् अविशेषमय-गुह्य-प्रकाशनायोग्यत्वाच् चेति दिक् ॥६४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैवाह—जन्मनीति । उत्तर-पक्षे तथैव प्रारब्धाद् इति भावः त्वद् अभीष्टं माम् एव केवलं न तु त्वद् अनभीष्टं विभूत्य् आदिकम् अपि उप सामीप्ये नैष्यसि प्राप्स्यसि साक्षाद् विचित्रम् अल्परिचर्यां करिष्यसीत्य् अर्थः ॥६४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि त्वत्-सङ्गी कदा भष्यमीत्य् अत आह—जन्मनीति । अयम् अर्थः अत परं हेदान्ते त्वं मद्-धाम वैकुण्ठं यास्यस्य् एव स्ववैरिभ्यो\ऽप्य् अस्मिन्न् अवतारे मोक्षं वैकुण्ठ-वासं च ददामि किं पुनस् तुभ्यं परम-भक्ताय किं त्व् अवतारान्तरे त्वां स्वसङ्गिनं लीला-परिकरं च करिष्यामि यदा त्वां स्वं च तुल्य-काल एवाभिर् भावयिष्यामीति अनन्तरे जन्मनि मम च तव चेत्य् अर्थः सर्व-भूतानाम् उपकारकत्वात् यथायोगं विद्या-प्रदानाच् च सुहृत्तमः द्विजवरः परमादरणीयो विप्रो भूत्वा मां केवलं वैराग्यत्वन् निष्परिग्रहम् उपैष्यसि मत्सङ्गे एव स्थास्यसीत्य् अर्थः ॥६४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


(५२)


  1. साङ्ख्य-भाष्य-ध्åतं (१.२९)—नासद्-रूपानसद्-रूपा माया नैवोभयात्मिका । सदसद्भ्याम् अनिर्वाच्या मिथ्याभूता सनातनी ॥ ↩︎