राम-कृष्णयोर् जरासन्धेन सह युद्धं द्वारका-दुर्ग-निर्माणं च ।
॥ १०.५०.१ ॥
श्री-शुक उवाच——
अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्व1-पितुर् गृहान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततः पञ्चाशत्तमे तु जरासन्ध-भयाद् इव ।
कारयित्वाम्बुधौ दुर्गं तन् निनाय निजं जनम् ॥*॥
कपटान् कपटैर् एव हत्वा दैत्यान् अयत्नतः ।
अजयच् च जरासन्धं धर्मेणैव तु धार्मिकम् ॥**॥
अस्ति-प्राप्ति-सञ्ज्ञिके ईयतुर् जग्मतुः ॥१.२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
श्री-कृष्णं राधिका-नाथं वृन्दावन-निकुञ्जगम् ।
गोप-गोपी-गवां सेव्यं वन्दे सर्वार्थ-सिद्धये ॥
ततोऽक्रूरागमनोत्तरम् । इव-पदं भयाभावम् आह । दुर्गं शत्रुभिः दुःखेन गम्यं राज्ञाम् आवास-योग्यं स्थल-विशेषे प्रासाद-विशेषम् दुर्गो ना नीलि [ली] कठिन-दुर्गमेषु च वाच्यवत् इति धरणिः ।
राज्ञां स्थानं भवेद् दुर्गं बह्व्-अम्बु-तृण-धान्यकम् ।
सर्व-साङ्ग्रामिकोपेतं वीर्य-संयुतम् ॥
वर्तुलं चतुरस्रं वा भूमिष्ठं वातितुङ्गकम् ।
वार्क्ष-पर्वत-यौयादि-भेदेन बहुधा मतम् ॥
वीर्यं वर्तुलम् अत्युच्चं गोलोत्क्षेपण-रन्ध्र-युक् ।
निरन्तीरक्षं दुर्गागं कथितं युधि कोविदैः ॥
इति संहितायां दुर्ग-लक्षणम् । तत् तत्र । निनाय प्रापयामास
कपटांस् तृणावर्तकादीन् । धर्मेण युद्ध-धर्मेन । धार्मिकं युद्ध-धर्म-विदं वा ।**।
सच्-छास्त्रस्यासच्-छास्त्रेणेव श्री-कृष्णस्य जरासन्धेन सह सङ्ग्रामं वर्णयति । सद्-असत्तां तत्त्व-निर्णयेन भक्ति-द्वेषाभ्याम् उद्वृद्धाभ्यां विहित-मोक्षावाप्तिर् भवति, तत्र कथं प्रसञ्जयितुम् आह—अस्ति-प्राप्ति-शब्दाभ्याम् अविद्याया द्वे रूपे संशय-[विपरति-]{।मर्क्}नामनी कथ्येते । कंसस्य "कसि हिंसायाम्" हिंसात्मनोऽधर्मस्य महिष्यौ महि महिमानं धर्मस्य सिनुत इति महिष्यौ षिज् बन्धने अस्माद् औणादिको इट्, संबन्धिन्यौ । भर्तरि स्व-निर्वाहके कंस्[अनाग्न्य]{।मर्क्}-धर्मे कृष्ण-नाम्ना धर्मेण मृते मारिते । निपातनाण् णिजो लोपः । स्व-पितुः स्व-पोषकस्य जरान्धस्य—जरा व्यर्थ-वयो-हानि-हेतु-भूता कौलिक-मार्गेण शैवत्वावेश-रूपा, तस्यां सन्धा मरणापत्ताव् अपि न मुञ्चामीति प्रतिज्ञा यस्य तस्य । गृहान् प्रमिति-विषयान् ईयतुः प्राप्य स्थिते । शब्द-शक्ति-निपुणैर् अयम् अर्थोऽध्यात्म-विषयतया ज्ञातव्यः । एवम् अन्यत्रापि ध्येयं ग्रन्थ-विस्तर-भिया न प्रदर्श्यत इति । भरतर्षभ इति भरत-वंश्यत्वात् तवैतद् ब्रवीमीत्य् अभिप्रायः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
महाब्धि-मध्ये पतितं व्याकुलं शरणागतम् ।
चैतन्य-देव भगवन् पारं प्रापय सत्वरम् ॥
भक्त-वात्सल्येन स-पुत्रां श्री-कुन्तीं सान्त्वयितुं विशेषतश् च आयास्यामि इति स्वोक्ति-प्रतिपालनाद्य्-अर्थं गन्तुम् अर्हस्यापि श्री-भगवतः प्रयाणे विघ्न-रूपं महा-युद्धादिकं वक्तुम् आरभते—अस्तिर् इत्य्-आदिना । हे भरतर्षभ इति खलु क्सात्रिय-स्त्रीणां स्वभावस् त्वया ज्ञायत एवेत्य् अर्थः । दुःखेन आर्ते व्यग्रे, अतः "सर्वेषाम् एव भूतानाम्" इत्य्-आदि स्वोक्तस्यापि विमर्शो न वृत्त इति ज्ञेयम् । अत एव भर्तृ-गेहाद् अपि पितृ-गृहेषु मोहाधिक्येन स्व-शब्दः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
महाब्धि-मध्ये पतितं व्याकुलं शरणागतम् ।
चैतन्य-देव भगवन् पारं प्रापय सत्वरम् ॥
गोकुलं पाण्डव-कुलं च सान्त्वयितुम् उभयत्र गन्तुम् अर्हेऽपि श्री-भगवति नर-लीलत्वाद् अन्तराय-प्रायं महा-युद्धादिकं वक्तुम् आरभते—अस्तिर् इत्य्-आदिना । हे भरतर्षभ ! इति खलु क्सात्रिय-स्त्रीणां स्वभावस् त्वया ज्ञायत एवेति भावः । दुःखेनार्ते व्यग्रे स्व-शब्देन सम्प्रति पति-गृहे ममत्वाभावः सूचितः । "स्म" इति क्वचित् पाठः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
दशमस्यैव पूर्वार्धोऽनुगृह्नान् मे धियं यथा ।
परार्धो\ऽप्य् अनुगृह्नातु तथा श्री-गुरवे नमः ॥
पञ्चाशत्तम ईशोऽपि विजित्यापि जरा-सुतम् ।
द्वारकां स्वजनं निन्ये तद्-भीत्याष्टादशे मृधे ॥१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२ ॥
पित्रे मगध-राजाय जरासन्धाय दुःखिते ।
वेदयाञ्चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मगध-राजाय द्विजाति-निषिद्ध-कुल-धर्मेण राजमानय मगधस् त्यक्त-नीवृतोः इति कोशात् । आत्मनो वैधव्यस्य वैरूप्यस्य प्रतिपादनासामर्थ्य-लक्षणं कारणम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : []{।मर्क्}
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किम्-अर्थम् ? तद् आह—पित्रे इति । कुत्र तस्य गृहम् ? इत्य् अपेक्षायाम् आह—मागध- इति, मगध-देशे तत्रापि राजगृह इति ज्ञेयम्, तस्य तद्-राजधानीत्वात् । तथा च श्री-हरि-वंशे राजा राजगृहेश्वरः [ह।वं। २.३४.३] इति । दुःखिते इति पितुः स्नेह-विवर्धनेन शोकामर्षार्थम् आर्त-नाद-रोदनादिकं कुर्वत्याव् इत्य् अर्थः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मगध-देशस्य राज्ञ इति तावद् दूर-गमनं बोधयति । दुःखिते दुःखाभिव्यञ्जक-रोदनादि-युक्ते ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३ ॥
स तद् अप्रियम् आकर्ण्य शोकामर्ष-युतो नृपः2 ।
अयादवां3 महीं कर्तुं चक्रे परमम् उद्यमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कंसे शोकः कृष्णे च आमर्षः, ताभ्यां युतः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स जरासन्धः । तद् अप्रियं जामातृ-मृति-रूपम् अमङ्गलम् । नॄन् कौलिकान् नयान् पिबति, नरान्-पातीति नृपः । अयः शुभावहः सताम् अदो नाशकोऽसताम् इत्य् अयादः श्री-कृष्णस् तं वान्ति शरणं गच्छन्तीत्य् अयादवा वैष्णवास् तद्-रहिताम् । नृपः सर्व-नरपतिः, सम्राड् इत्य् अर्थः । नृपेति क्वचित् पाठः । न विद्यन्ते यादवा यस्यां ताम् अयादवाम् । क्वचित् अयादवीम् इति पत्तिः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ?
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृप इति—तदानीं तस्य साम्राज्येन सर्व-नर-नरपतित्वं सूचयति । अयादवीं न विद्यन्ते यादवा यस्यां तादृशीम्, अत एव परमोद्योगं चक्रे ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृपः सर्व-नरपतिः सम्राड् इत्य् अर्थः । "नृप" इति क्वचित् पाठः । अयादवां न विद्यन्ते यादवा यस्यां तादृशीं, "अयादवीम्" इति पाठः क्वचित् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४ ॥
अक्षौहिणीभिर् विंसत्या तिसृभिश् चापि संवृतः ।
यदु-राजधानीं मथुरां न्यरुधत् सर्वतो दिशम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न्यरुणद् रूरोध ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षौहिणी-लक्षणार्थम् अवान्तर-सञ्ज्ञाप्य् अमरेणोक्ता—
एकम् एकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।
पत्त्य्-अङ्गैस् त्रि-गुणैः सर्वैः क्रमाद् आख्या यथोत्तरम् ॥
सेना-मुखं गुल्म-गणौ वाहिनी पृतना चमूः ।
अनीकिनी दशानीकिन्योऽक्षौहिणी ॥ इत्य् अमरः ।
एको गज एको रथस् त्रयोऽश्वाः प[ञ्]{दिर्=“र्त्ल्”}च पदातय इति दश-सङ्ख्या पत्तिः, त्रिगुणिता पत्तिः सेना-मुखम्, तत्-त्रिगुणितं गुल्मः, गुल्मं त्रिगुणितं गणः, त्रिगुणो गणो वाहिनी, त्रिगुणिता वाहिनी पृतना, त्रिगुणिता पृतना चमूः, त्रिगुणा चमूरनीकिनी, दशानीकिन्योऽक्षौहिणीति विवेकः । सर्व-सङ्कलने २१८७० गजाः, २१८७० रथाः, ६५६१० हयाः, १०९३५० पदातय इति । विंशत्याद्याः सदैकत्वे इत्य् अमरार्द्विशत्येत्य् एकत्वम् ॥ अक्षौहिणी-सःयेयम्—
ख-बाणाग्नि-नव-व्योम-चन्द्र-सङ्ख्याः १०९३५० पदातयः ।
खेन्दु-षट्-शर-षट्-सङ्ख्या ६५६१० अश्वा नागा रथा अपि ॥
खाद्रि-नागेन्दु-दृक्-सङ्ख्या २१८७० इत्य् एषाक्षौहिणी स्मृता ॥ इति ।
यदु-राजधानीम् इति तस्या निरोधस्य च महत्त्वे हेतुः । सर्व-दिङ्-निरोध-विशेषो हरि-वंशे जरासन्धोक्तौ—
सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ।
अयो-यन्त्राणि युञ्ज्यन्तां क्षेपणीयाश् च मुद्गराः ॥
ऊर्ध्वं चापि निवार्यन्तां प्राप्ता वै तोमरास् तथा । इति ।
किं च,
मल्लः कलिङ्गाधिपतिश् चेकितान-सवाह्लिकः ।
काश्मीर-राजो गोनर्दः केकयाधिपतिस् तथा ॥
द्रुमः किंपुरुषश् चैव पार्वतीयो ह्य् अनामयः ।
नगर्याः पश्चिम-द्वारं शीघ्रम् आरोधयन्तु वै ॥
पौरवो वेणुदारश् च वैदर्भः सोमकस् तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश् चैव गालवः ॥
विन्दानुविन्दाव् आवन्त्यौ दन्तवक्रश् च वीर्यवान् ।
छागलिः पुरुमित्रश् च विराटश् च महोपतिः ॥
कौशल्यो मालवश् चैव शतधन्वा विदूरथः ।
भूरिश्रवास् त्रिगर्तश् च बाणः पञ्चनदस् तथा ॥
उत्तरं नगर-द्वारम् एते दुर्ग-सहा नृपाः ।
आरुह्य चापि मर्दन्तां वज्र-प्रतिम-गौरवाः ॥
उलूकः कैतवेयश् च वीरश् चांशुमतः सुतः ।
एकलव्यो बृहत्क्सात्रः क्षत्र-धर्मा जयद्रथः ॥
उत्तमौजाश् च शल्यश् च कौरवाः केकयास् तथा ।
वैदेहो वामदेवश् च शाकल्यश् च सिनीपतिः ।
पूर्वं नगर-निर्व्यूहम् एतेष्व् आयत्तमस् तु नः ॥
अहं च वरदश् चैव चेदिराजेन सङ्गताः ।
दक्षिणं नगर-द्वारं वारयिष्यामो दंशिताः ॥ [ह।वं। २.३४.३९-४८] इति ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अक्षौहिणी सङ्ख्येयं । खबाणाग्नि नवव्योम चन्द्र-सङ्ख्याः पदातयः । [१०९३५०] खेन्दु षट्शर षट्-सङ्ख्या अश्वाः [६५६१०] नागा रथा अपि । खाद्रि नागेन्दु दृक् सङ्ख्या [२१८१०] इत्य् एषाक्षौहिणी स्मृतेति । यदु-राजधानीम् इति तस्या निरोधस्य च महत्त्वे हेतुः सर्व-दिङ्-निरोधे विशेषः श्री-हरि-वंशे जरासन्धोक्तौ—
सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ।
अयोयन्त्राणि युञ्ज्यन्तां क्षेपणीयाश् च मुद्गराः ॥
ऊर्ध्व चापि निवार्यन्तां प्राप्ता वै तोमरास् तथा । इति ।
किं च—
मद्रः कलिङ्गाधिपतिश् चेकितान-सवाह्लिकः ।
काश्मीर-राजो गोनर्दः केकयाधिपतिस् तथा ॥
द्रुमः किं पुरुषश् चैव पार्वतीयो ह्य् अनामयः ।
नगर्याः पश्चिमद्वारं शीघ्रम् आरोधयन्तु वै ॥
पौरवो वेणुदारश् च वैदर्भः सोमकस् तथा ।
रुक्मी च भोजाधिपतिस् सूर्याक्षश् चैव गालवः ॥
विन्दानुविन्दाव् आवन्त्यौ दन्तवक्रश् च वीर्यवान् ।
छागलिः पुरुमित्रश् च विराटश् च महोपतिः ॥
कौशल्यो मालवश् चैव शतधन्वा विदूरथः ।
भूरिश्रवास् त्रिगर्तश् च बाणः पञ्चनदस् तथा ॥
उत्तरं नगरद्वारम् एते दुर्ग-सहा नृपाः ।
आरुह्य चापि मर्दन्तां वज्र-प्रतिम-गौरवाः ॥
उलूकः कैतवेयश् च वीरश् चांशुमतः सुतः ।
एकलव्यो बृहत्क्सात्रः क्षत्र-धर्मा जयद्रथः ॥
उत्तमौजाश् च शल्यश् च कौरवाः केकयास् तथा ।
वैदेहो वामदेवश् च शाकल्यश् च सिनीपतिः ।
पूर्वं नगर-निर्व्यूहम् एतेष्व् आयत्तमस् तु नः ॥
अहं च वरदश् चैव चेदिराजेन सङ्गताः ।
दक्षिणं नगर-द्वारं वारयिष्याम दंशिताः ॥ [ह।वं। २.३४.३९-४८] इति ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाह—अक्षौहिणीभिर् इति । तत्-सङ्ख्या चेयम्—
खराणाग्नि नवव्योम चन्द्र-सङ्ख्याः पदातयः ।
[१०९३५०] खेन्दु षट्शर षट्-सङ्ख्या अश्वाः [६५६१०] नागा रथा अपि ।
खाद्रि नागेन्दु दृक् सङ्ख्या [२१८७०] इत्य् एषाक्षौहिणी स्मृतेति ॥ इति ।
अपि एव, सम्यग् वृतो वेष्टित एव, यदुभ्यो भयात् महाराजस्य सर्व-सैन्यान्तर्वीत्तत्वाच् च, नितराम् अरुणत् रुरोध ।
ननु, धार्मिकोऽसौ सर्व-तीर्थ-शिरोमणिं श्री-मथुरां कुतो न्यरुधत् ? तत्राह—यद्वद् इति । तदानीं सर्वेषाम् अपि यदुनां तत्रैवैकत्र निवासात् । सर्व-दिङ्-निरोधे विरोधे विशेषः श्री-हरि-वंशे जरासन्धोक्तौ [ह।वं। २.३५.३६]—
सर्वतो नगरी चेयं जनौधैः परिवार्यताम् ।
अयोयन्त्राणि युञ्ज्यन्तां क्षेपणीयाश् च मुद्गराः ॥
ऊर्ध्व चापि निवार्यन्तां प्राप्ता वै तोमरास् तथा । इति ।
किं च—
मद्रः कलिङ्गाधिपतिश् चेकितान-सवाह्लिकः ।
काश्मीर-राजो गोनर्दः केकयाधिपतिस् तथा ॥
द्रुमः किं पुरुषश् चैव पार्वतीयो ह्य् अनामयः ।
नगर्याः पश्चिम-द्वारं शीघ्रम् आरोधयन्तु वै ॥
पौरवो वेणुदारश् च वैदर्भः सोमकस् तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश् चैव गालवः ॥
विन्दानुविन्दाव् आवन्त्यौ दन्तवक्रश् च वीर्यवान् ।
छागलिः पुरुमित्रश् च विराटश् च महोपतिः ॥
कौशल्यो मालवश् चैव शतधन्वा विदूरथः ।
भूरिश्रवास् त्रिगर्तश् च बाणः पञ्चनदस् तथा ॥
उत्तरं नगरद्वारम् एते दुर्ग-सहा नृपाः ।
आरुह्य चापि मर्दन्तां वज्र-प्रतिम-गौरवाः ॥
उलूकः कैतवेयश् च वीरश् चांशुमतः सुतः ।
एकलव्यो बृहत्क्सात्रः क्षत्र-धर्मा जयद्रथः ॥
उत्तमौजाश् च शल्यश् च कौरवाः केकयास् तथा ।
वैदेहो वामदेवश् च शाकल्यश् च सिनीपतिः ।
पूर्वं नगर-निर्व्यूहम् एतेष्व् आयत्तमस् तु नः ॥
अहं च वरदश् चैव चेदिराजेन सङ्गताः ।
दक्षिणं नगरद्वारं वारयिष्याम दंशिताः ॥ [ह।वं। २.३४.३९-४८] इति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५-६ ॥
निरीक्ष्य तद्-बलं कृष्ण उद्वेलम् इव सागरम् ।
स्व-पुरं तेन संरुद्धं स्व-जनं च भयाकुलम् ॥
चिन्तयामास भगवान् हरिः कारण-मानुषः ।
तद्-देश-कालानुगुणं स्वावतार-प्रयोजनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य बलं सैन्यम् उद्वेलं लङ्घित-मर्यादं सागरम् इव । तेन तस्य बलेन संरुद्धम् ॥५॥ "किं बलम् एव हन्मि, न मागधम् ? मागधं वा हत्वा बलं गृह्नामि ? यद् वा, स-मागधं सर्वं हन्मि?" इति चिन्तयामास । ननु, प्रथमं कथं जेष्यामीत्य् एवं चिन्तयितुं युक्तं ? तत्राह—कारण-मानुष इति भू-भारावतार-कारणेन मानुषो न तु तत्त्वत इति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य जरासन्धस्य । उत् त्यक्ता वेला येन स तथा । वेला काले च सीमायाम् अब्धेः कूल-विकारयोः इति मेदिनी । निरीक्ष्य इति युग्मकम् ॥५॥
असम्भाव्यम् आशङ्कते—नन्व् इति । तत्राक्षेपे । तद् देशेति—तस्मिन् देशे काले च यद् अनुगुणम् उचितम्, इहाधुना किं कार्यम् इति विचारितवान्, स्ववतार-प्रयोजनां भू-भार-हरण-रूपं च चिन्तयामासेति चानुकर्षोऽत्र । कारणं सर्व-कारणं यत्तत्त्वं तद्-रूप एव मानुषस् तद् आकारो न तु प्राकृत-रूप इति तल्-लीलत्वेऽपि सर्व-ज्ञानादि-शक्ति-सत्त्वम् । तस्य देशस्य कालस्य चणुरूपं महासैन्येन श्री-मधुपुर्या निरोधाद् अवश्यम् अत्रैव तद्धन्तुं योग्यम् । तत्रात्य् अधुना, विलम्बं विनैवेत्य् अर्थः । किं चात्र केचिद् आशङ्कन्ते—अष्टादशाक्षौहिणीक-महाभारतीय युद्धस्य श्री-व्यास-देवेन बहुमहत्त्वं वर्णितम् इह चतुर्दशोत्तर-चतुःशताक्षौहिणी काहवस्य न किम् अपि तद्-वर्णितम् अत्र को हेतुर् इति । अत्रेदम् अवधेयम्—तत्र श्री-कृष्न-भक्तानां श्री-भीष्म-युधिष्ठिरादीनां महद् उद्धनीत्य् आदिक-कौशल-वर्णनं श्रोतृजनोद्धारायैव न तु पौत्र-संबन्धेनेति, जरासन्धादीनां कृष्ण-भक्ति-हीनत्वात्त दीय-सङ्ग्रामस्य प्रचुर-सैन्यत्वेऽपि न तन्महत्त्व-वर्णनम् इति । अत एवोक्तम्—
श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईडितो ऽर्थः
तत्-तद्-गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम् ॥ [भा।पु। ३.१३.४] इति ।
यद् वा, अक्षाणां रथ-चक्राधाराणाम् ऊहः समूहो यस्यां सेनायां साक्षौहिणीति सेना-बाहुल्यम् एवावयव-शक्त्या ज्ञेयं, न तु वाचनिकम् । अत एवोक्तम्—आजगाम जरासन्धस् त्रयोविंशत्य्-अनीकपः [भा।पु। १०.५२.६] इति । अनीकश् चाक्षौहिण्य्-अवयव एव । तद् उक्तम् अमर-सिंहेन—दशानीकिन्योऽक्षौहिणी इति ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हरिः कारण-मानुष इति कारण-रूपो मानुषो मानुषाकारो द्वि-भुज-विग्रह इत्य् अर्थः । अत एव यस्यावयव-संस्थाने [भा।पु १.३.३] इति प्रथमे व्याख्यान्तरम् । स्वावतार-प्रयोजनं चिन्तयामास इति भावः ॥६.९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उद्वेलम् इति पारावार-निमज्जनेन सागरस्य आनन्त्यम्, तेन बलस्यापि तद् उक्तम् ॥५॥ हरिर् इति भू-भार-हरणाभिप्रायेण । भगवान् सर्वैश्वर्य-युक्तो\ऽप्य् अचिन्तयत् । कुतः ? कारणेन भू-भार-हरणादि-प्रयोजनेन मानुषस् तच्-चेष्टित इत्य् अर्थः । किं चिन्तयामास ? तद् आह—तद् इति । तस्य कालस्य चानुरूपं महा-सैन्येन सर्वतः श्री-मधुपुर्या निरोधाद् अवश्यम् अत्रैव तद् धन्तुं योग्यम्, तत्राप्य् अधुनाविलम्बेनैवेत्य् अर्थः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निरीक्ष्य इति युग्मकम् । कारणं सर्व-कारणं यत् तत्त्वं तद्-रूप एव मानुषस् तद्-आकारः, न तु प्राकृत-रूप इति तल्-लीलत्वे सर्व-ज्ञानादि शक्तिमत्त्वं तस्य देशस्य कालस्य चानुरूपं महा-सैन्येन सर्वतः श्री-मधु-पुर्या निरोधाद् अवश्यम् अत्रैव योग्यं, तत्राप्य् अधुना विलम्बं विनैवेत्य् अर्थः ॥५-६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कारणं सर्व-कारणं यत्त्वं तद्-रूप एव मानुषस् तद्-आकारः न तु प्राकृत-रूप इति तल्-लीलत्वेऽपि सर्व-ज्ञानादि-शक्तिमत्त्वं दर्शितम् ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : चिन्तयामास इत्य्-आदि । हरिः कारण-मानुष इति कारण-रूपः सर्वस्य हेतु-रूपः, मानुषो मानुषाकारो द्विभुज इत्य् अर्थः ॥६.९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्वेलं वेलातस् तीराद् अप्य् उद्गतं लङ्घित-मर्यादम् इत्य् अर्थः । ननु, किम् अनेन चिन्तयामास ? तत्र नहि नहीत्य् आह—कारणं सर्व-कारण-स्वरूपो महा-महेश्वरश् चासौ मानुषश् चेति सः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.७ ॥
हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् ।
मागधेन समानीतं वश्यानां सर्व-भूभुजाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं त्रिविधा विचिन्त्य प्रथमं पक्षं निर्धारितवांस् तद् आह चतुर्भिः—हनिष्यामि इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-विधया । प्रथमं पक्षं बल-हनन-रूपम् । तत् बल-हननम् । एतद् उपस्थितम् । वश्यानां निजायत्तानाम् समाहितं सम्यक् सर्वतः सम्आहृत्य प्रोत्साद्य चानीतम् । वंश्यानां वंशे स्थितानाम्, अत एव श्री-भीष्मः पाण्डवाश् च नायाता इति ज्ञेयम् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—हनिष्यामि इति । हि यतः सम्यग् आहितम् अर्पितं भार-स्वरूपं सम्यक् सर्वतः समाहृत्य प्रोत्साह्य चानीतम्, वश्यानाम् इति तदा तस्य महा-प्रतापेन सर्व-राज-वर्ग-वशीकरणात्, तथा च श्री-हरि-वंशे—
प्रतापावनता ये च जरासन्धस्य पार्थिवाः ।
मित्राणि ज्ञातयश् चैव संयुक्ताः सुहृदस् तथा ॥
तम् एवानुययुः सर्वे सैन्यैः समुदितैर् नृपाः ।
महेष्वासा महावीर्या जरासन्ध-हितैषिणः ॥ [ह।वं। २.३४.११-१२] इति ।
त एव पाण्डवाः श्री-भीष्मश् च नायाता इति ज्ञेयम् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—हनिष्यामि इति सार्धेकेन । बलं सैन्यं हि यतः सम्यक् आहितम् अर्पितं भार-स्वरूपं सम्यक् सर्वतः समाहृत्य प्रोत्साह्य चानीतं वश्यानां वशे स्थितानाम्, अत एव पाण्डवाः श्री-भीष्मश् च नायाता इति ज्ञेयम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वश्यानां वशे स्थितानाम् अत एव भीष्म-पाण्डवाश् च नायातान् इति ज्ञेयम् ॥७.१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलं सैन्यं तद्-अर्थम् उद्यमं कर्ता करिष्यति ॥७.८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.८ ॥
अक्षौहिणीभिः सङ्ख्यातं भटाश्व-रथ-कुञ्जरैः ।
मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बलोद्यमं कर्ता करिष्यतीति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भटाश्व-रथ-कुञ्जरैर् उपलक्षिताभिर् अक्षौहिणीभिः सङ्ख्यातं कृत-सङ्ख्याम् इति पूर्वान्वयि । भटः परम-जातौ स्यात् पदातौ वीर-विज्ञयोः इति निरुक्तिः । बलाय सेनानयनाय । यद् वा, त्रयोविंशत्य्-अनीकाख्याम् इति वक्ष्यमाणत्वात् त्रयोविंशतिधा-विभक्त-सेना-पटलैर् इति । सेना-पटलेऽपि यौगिकोऽक्षाणां रथ-चक्रावयवानाम् ऊहः समूहो यस्यां सेनायां साक्षौहिणीति प्रयोगो नासङ्गत इति ध्येयम्, अष्टादश-कृत्वो लक्षणिक-सैन्यानयनस्य दौर्घट्य-प्रतीतेः । भटादिभिर् उपलक्षिताक्षौहिणीभिस् सङ्ख्यातं कथितम्, न तत्र घटना-पठीयस् त्वान्मायया यथा-श्रुतम् अपि सम्भाव्यत एवेति तत्त्वम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भटदिभिर् या अक्षौहिण्यस् ताभिर् एव, न तु तेषां प्रत्येकं सङ्ख्यया सङ्ख्यातम् इत्य् अत्यन्तं बाहुल्यम् उक्तम्, बलेन निज-साम्राज्य-शक्त्या उद्यमम् एतावत् सैन्यानयने युद्धोद्योगम् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भटादिभिर् या अक्षौहिण्यः, आभिर् एव, न तु तासां प्रत्येकं सङ्ख्यातम् इत्य् अन्तं बाहुल्यम् उक्तं मागधस् त्व् इत्य् अर्धकम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.९ ॥
एतद्-अर्थो\ऽवतारो\ऽयं भू-भार-हरणाय मे ।
संरक्षणाय साधूनां कृतो \ऽन्येषां वधाय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अत एव हन्तव्यः ? तत्राह—एतद् अर्थ इति । एतच्-छब्धार्थं स्पष्टयति—भू-भार-हरणाय इति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु, निश्चयेन यतः पुनर् आनयिष्यतीत्य् अत एव हेतोर् हन्तव्यो भूभार इति । यद् वा, "न त्व् अतः" इति पाठः स्वामिनां, लेखक-प्रमादान् "ननु" इति जातः, तत्-पक्षे, अत एव यतः पुनर् बलम् आनयिष्यति जरासन्धो ऽतो ऽयं न हन्तव्य इति व्याख्येयम् । एषोऽर्थः प्रयोजनं यस्य स एतद्-अर्थः । एतद्-अर्थम् एतस्मा इत्य् अर्थः । कस्मै ? तत्राह—भू-भार-हरणाय इत्य्-आदि । अवतारः प्रपञ्चे प्राकट्यम् । "अयम्" इति पाठः स्वामि-सम्मतः । "हि" इति क्वचित् पाठः । भू-भार-हरणं स्पष्टयति—संरक्षणाय इति । स शब्देन स्व-भक्ति-प्रवर्तनादिना लोक-द्वयेऽपि रक्षा सूचिता ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवतारः श्री-वैकुण्ठ-लोकाद् अवरणम्, स मया । ननु, भू**-भार-हरणार्थं** साधवोऽपि किं हन्तव्याः ? न, साधवः परिपाल्याः, असाधव एव हन्तव्या इत्य् आह—सर्व-रक्षणाय इति । सं-शब्देन भक्ति-प्रवर्तनादिना लोक-द्वयेऽपि रक्षा सूचिता । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ननु साक्षात् त्वया हतस्य सतो नाधिकारिणोऽपि मोक्षो भविता ? इत्य् आशङ्क्याह—एतद् इति । भू-भार-रूपाणां प्राणिनाम् अपि मोक्ष-प्रदानेन भू-भार-हरणाय । तत्-प्रकारम् एवाह—साधुनां संरक्षणाय योऽसाधूनां वधस् तस्मै चिरान् मोक्ष-दानाय च, किं वक्तव्यम् अशेषैश्वर्य-प्रकटनावतारेऽस्मिन् साधवः संरक्ष्या असाधवश् च हन्तव्या इति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद्-अर्थ इति एतस्मा इत्य् अर्थः । कस्मै ? तत्र—भू-भार-हरणाय इत्य्-आदि अवतारः प्रपञ्चे प्राकट्यं । "अयम्" इति तैः सम्मतः पाठः, उत्तरावतारिकानुरोधात् । हीति क्वचित् मे मया भू-भार-हरणं स्पष्टयति—संरक्षणाय इति । सं-शब्देन स्व-भक्ति-प्रवर्तनादिना लोक-द्वयेऽपि रक्षा सूचिता ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद्-अर्थोऽवतारः कृतः । अर्थं विवृणोति—भू-भार- इति । अन्येषाम् असाधूनाम् ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१० ॥
अन्यो\ऽपि धर्म-रक्षायै देहः सम्भ्रियते मया ।
विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयम् एतद्-अर्थोऽवतार इत्य् उपलक्षणम् इत्य् आह—अन्योऽपि इति । प्रभवतः उद्भवतः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यो\ऽपि रामादिर् अपि विरामाय विनाशाय । अन्योऽपि किम् उत सर्वैश्वर्यादि-पूर्णोऽयम् इत्य् अर्थः । संभ्रियते प्रकाश्यते इत्य् अर्थः। तथा च श्री-गीतासु यदा यदा हि धर्मस्य ग्लानिर् भवति भारत [गीता ४.७] इत्य्-आदि ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : धर्म-रक्षायै अन्योऽपि देहो मयाश्रियते, अधुना तु स्वयम् एवावतीर्ण इत्य् अर्थः ॥११.१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यावतारेऽपि तद् एतत् क्रियत इति तद् आवश्यकताभिप्रायेणाह—अन्योऽपि इति । सम्भ्रियते प्रकाश्यत इत्य् अर्थः । क्वचित् काले प्रभवतो वर्धमानस्येति, यदैव प्रभवेत्, तदैवेत्य् अर्थः । तथा च यदा यदा हि धर्मस्य ग्लानिर् भवति [गीता ४.७] इत्य्-आदि । यद् वा, क्वचित् काले सम्भ्रियत इत्य् अन्वयः। एवं धर्म-रक्षया साधूनां संरक्षा, अधर्म-विरामेण चासाधूनां वधः सिद्ध एव ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्योऽपि किम् उत सर्वैश्वर्यादि-पूर्णोऽयम् इत्य् अर्थः । सम्भ्रियते प्रकाश्यते इत्य् अर्थः । तथा च श्री-गीतासु यदा यदा हि धर्मस्य ग्लानिर् भवति [गीता ४.७] इत्य्-आदि ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : धर्म-रक्षायै अन्योऽपि देहो मूर्तिर् मया ध्रियते । इदानीं स्वयम् एवावतीर्णो यद् धर्मं रक्षिष्यामि, तत् किम् ? इत्य् अर्थः ॥१०.१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्योऽपि देहो वाराहादिः ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.११ ॥
एवं ध्यायति गोविन्द आकाशात् सूर्य-वर्चसौ ।
रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-सूतौ सारथि-सहितौ । परिच्छदः परिकरो ध्वज-कवचादिस् तत्-सहितौ ॥११-१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-प्रकारेण आकाशाद् वैकुण्ठात् आकाशो ब्रह्म-वैकुण्ठ-स्वर्लोक गगणेषु च इति धरणिः । सद्यश् चिन्तनावसरे । उपस्थितौ प्राप्तौ । एवम् इति सार्धकम् । मां पृथ्वीं विन्दतीति गोविन्द इति, भू-भार-हरणार्थं साक्षाद् अवतीर्णो भगवान् इत्य् अर्थः, तस्मिन् । आकाशाद् ऊर्ध्व-लोकात् तदीय-महा-वैकुण्ठाद् इत्य् अर्थः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गां पृथ्वीं विन्दतीति गोविन्दः, भू-भार-हरणार्थं भुवि साक्षाद् अवतीर्णो भगवान् इत्य् अर्थः । तस्मिन् भू-भार-हरणार्थम् ईदृशं चिन्तयति सति, आकाशात् ऊर्ध्व-लोकात् श्री-वैकुण्ठाद् इत्य् अर्थः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इति सार्धकम् । गां पृथ्वीं विन्दतीति गोविन्दः इति भू-भार-हरणार्थं साक्षाद् अवतीर्णो भगवान् इत्य् अर्थः, तस्मिन् । आकाशाद् ऊर्ध्व-लोकात् तदीय-महा-वैकुण्ठाद् इत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आकाशात् ऊर्ध्व-लोकात् तदीय-महा-वैकुण्ठाद् इत्य् अर्थः ॥११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्थितौ तद्-इच्छयैव वैकुण्ठाद् आगत्य निकटे स्थितौ ॥११.१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१२ ॥
आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुराणानि शङ्ख-चक्र-गदादीनि । यदृच्छया अकस्माद् एव । यदृच्छानिमित्ते स्याद् अद्भुताकस्मिकेऽथवा इति धरणिः । तानि रथायुधादीनि । अथ रथाद्य्-उपस्थित्य्-उत्तरम् । दिव्यानि लोकातीतानि । यतः पुराणानि पुरापि नवानि नित्यानीत्य् अर्थः । यदृच्छया स्वैरितया, आनयनादि-पर्यन्तं विनैवोपस्थितानि, तेषां भगवद्-अभिप्रायज्ञत्वेन चेतनाभिप्रेता । यद्य् अपि—
हलं सम्वर्तकं नाम सौनन्दं मुषलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदां कौमोदकीं तथा ॥ [ह।वं। २.३५.६०] इति श्री-हरिवंशात्,
तथा श्री-विष्णु-पुराणे च चत्वार्य् एवायुधान्य् उक्तानि, तथाप्य् अत्र श्री-भगवच्-चक्रं श्री-बलदेवस्य धनुर्-आदिकम् अपि ज्ञेयं योग्यत्वात्, अन्यत्रागमन-श्रवणाच् च । अत एवाग्रे एष ते रथ आयातो दयितान्य् आयुधानि च [१०.५०.१३] इति बहुत्वम् । दृष्ट्वा इत्य् अर्धकम् । हृषीकेशः विनैव वचनेन सर्वं प्रवर्तयितुं समर्थोऽपि सङ्कर्षणं सर्वं दृष्टि-म्[आ]{।मर्क्}त्रेण नाशयितुं समर्थम् अपि । अथ कार्त्स्न्येन अब्रवीत् । लीला-कौतुकावेशेन युक्ति-पूर्वकम् एव बभाष इत्य् अर्थः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिव्यानि लोकातीतानि, यतः पुराणानि पूर्व-सिद्धानि नित्यानीत्य् अर्थः । इति श्री-भगवद् अभिर् पायाभिज्ञाताभिप्रेता । अतो यदृच्छया लीलया स्वयम् एवोपस्थितानि, यद्य् अपि हरि-वंशे—
हलं सम्वर्तकं नाम सौनन्दं मुषलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदां कौमोदकीं तथा ॥ [ह।वं। २.३५.६०]
इति, तथा श्री-विष्णु-पुराणे च चत्वार्य् एवायुधान्य् उक्तानि, तथाप्य् अत्र श्री-भगवतश् चक्रं श्री-बलदेवस्य च धनुर्-आदिकम् अपि ज्ञेयम् । अत एवाग्रे एष ते रथ आयातो दयितान्य् आयुधानि च [१०.५०.१३] इति बहुत्वं । युद्धे चक्राद्य्-अप्रयोगश् च तुच्छत्वाद् इति ज्ञेयम् । हृषीकेशः सर्वेन्द्रिय-प्रवर्तक इति सर्वेषां तद्-अधिनत्वम् उक्तम् । किं च, सङ्कर्षणं सदा तस्माद् अपृथग्-भूतम् अग्रजं साहित्याय तेन युद्ध-क्रीडा-सुखार्थं चाह । अथ तत् तद्र्शानन्तरम् इति तं सद्यो युद्धे प्रवर्तयितुं वचनेऽविलम्बतां बोधयति ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिव्यानि लोकातीतानि यतः पुराणानि पुरापि नवानि, नित्यानीत्य् अर्थः । यदृच्छया स्वैरितया आनयनादि-प्रयन्तं विनैवोपस्थितानि इति तेषां भगवद्-अभिप्रायज्ञत्वेन चेतनाभिप्रेता । यद्य् अपि—
हलं सम्वर्तकं नाम सौनन्दं मुशलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदां कौमोदकीं तथा ॥ [ह।वं। २.३५.६०]
इति श्री-हरि-वंशे तथा श्री-विष्णु-पुराणे चत्वार्य् एवायुधान्य् उक्तानि, तथाप्य् अत्र श्री-भगवतश् चक्रं श्री-बलदेवस्य धनुर्-आदिकम् अपि ज्ञेयं योगात्वाद् अन्यत आगमना[श्रणाच्]{।मर्क्} च अत एवाग्रे एष ते रथ आयातो दयितान्य् आयुधानि च [१०.५०.१३] इति बहुत्वं ।
दृष्ट्वा इत्य् अर्धकं हृषीकेशः विनैव वचनेन सर्वं प्रवर्तयितुं समर्थोऽपि सङ्कर्षणं दृष्टि-मात्रेण सर्वं नाशयितुं समर्थम् अपि, अथ कार्त्स्न्येन अब्रवीत् लीला-कौतुकावेशेन युक्ति-पूर्वकम् एव बभाष इत्य् अर्थः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हृषीकेशः विनैव वाण्या सर्वं प्रवर्तयितुं समर्थोऽपि सङ्कर्षणं दृष्टि-मात्रेण सर्वं नाशयितुं समर्थम् अपि । अथ कार्त्स्न्येन अब्रवीत्, लीला-कौतुकावेशेन युक्ति-पूर्वकम् एव बभाष इत्य् अर्थः ॥१२.२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१३ ॥
पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।
एष ते रथ आयातो दयितान्य् आयुधानि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वम् एवावन् रक्षकौ नाथो विद्यते येषां ते त्वावन्तः, तेषाम् ॥१३.१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वावताम् अत्र समासे त्वद्-आदेशस्य टेर् आकारश् छान्दसः । पश्य अवधेहि । तत् किम् ? व्यसनम् इति व्यसनं विपदि भ्रंशोऽत्याशक्तौ इति कोशात् । त्वं नाथः विद्यसे येषां ते त्वावन्तः । मतुप्य् आत्वम् आर्षम् । यद् वा, त्वम् अवन् रक्षो येषाम् इति शत्र्य् अपि तथा । रक्षकोऽवस् त्राणकरो नाथः स्वाम्य् अधिपो गुरुः इति कोशात् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आर्य इति सादर-सम्बोधनं साहाय्यार्थम्, प्रभो इति युद्धादि-समर्थेति प्रोत्षहनार्थम्, दयितानि इत्य् एषाम् आगमन-साफल्यार्थम् अपि । [हन्तर्]{।मर्क्} अर्हसीति । किं वा, एतैः सुखं हननं सिध्येद् एवेति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्य अवधेहि । तत् किं ? व्यसनम् इति । त्वावताम् इत्य् अत्र आत्वम् आर्षं । किं च, एष इति । आर्य इति सादर-सम्बोधनं स्वभावात् । प्रभो इति वक्ष्यमाण-निर्णय-समर्थ्य-बोधनाय । दयितानि इति स्वतः सामर्थे\ऽप्य् अङ्गीकारावश्यकं सूचयति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं नाथो विद्यसे येषां ते त्वावन्तस् तेषां द-कारस्य आत्वम् आर्षम् ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१४ ॥
यानम् आस्थाय जह्य् एतद् व्यसनात् स्वान् समुद्धर ।
एतद्-अर्थं हि नौ जन्म साधूनाम् ईश शर्म-कृत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् बलम् । इशोति सम्बुद्धिः । निर्णयम् आह—यानम् इति । एतत् सैन्यं जहि । तन्-मुख-प्रयोजनम् आदिशति-व्यसनाद् इति । स्वान् सकल-साधुजनालम्बन-रूपान् परिकरान् सम्यग् अक्षतत्वादिनोद्धर । एतच् चावश्यकतार्थम् इत्य् आशयेना—एतद्-अर्थम् इति । हि यस्मात् । यत एवान्येषां च साधूनां शर्मकृद्भवेद् इत्य् अर्थः । हे ईशेति प्रोत्साहहनम् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतत् सैन्यं जहि । तन्मुख्य-प्रयोजनम् आदिशति—व्यसनाद् इति, सम्यग् अक्षतत्वादिनोद्धव । एतच्-चावश्यं कार्यम् एवेत्य् आशयेनाह—एतद् इति । हि एव, एतद् अर्थम् एव न तु केवलं क्रीडा-सुखार्थम्, एतच्-छब्दार्थम् एव पुनर् अत्यौत्सुख्येन कृत्पदार्ढ्यार्थम् अभिव्यञ्जयति—साधूनां शर्म सुखं करोतीति तथा तद् इति तत्-स्वभाव उक्तः, हे ईशेति प्रोत्साहयति ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निर्णयम् आह—यानम् इति । एतत् सैन्यं जहि तन्मुख्य-प्रयोजनम् आदिशति व्यसनाद् इति स्वान् सकल-साधुजनालम्बन-रूपान् परिकरान् सम्यग् अक्षतत्वादिनोद्धर । एतच्-चावश्यकार्यम् इत्य् आशयेनाह—एतद् इति यस्मात् यत एवान्येषां च साधूनां शर्मकृद्-भवेद् इत्य् अर्थः । हे ईशेति प्रोत्साहनम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१५ ॥
त्रयोविंशत्य्-अनीकाख्यं भूमेर् भारम् अपाकुरु ।
एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दंशितौ बद्ध-कवचौ ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनीकपदम् अक्षौहिणीपरम् एवम् इत्थम् । दंशितः कवचाचितः इति मेदिनी । आवशकतार्थम् एव सैन्यस्य हननस्य च वैशिष्ट्यम् आह—त्रयोविंशतिरनीकान्यक्षौहिण्योऽनीकिन्यो वा, तद् आख्यं तावत्स्-अङ्ख्यम् । यद् वा, त्रयोविशतिश् च ता अक्षौहिण्यस्त्रयोविंशत्य् अक्षौहिण्यस्ता एवानीकं सैन्यं त्रयोर् द्विवशत्यनीकम् । मध्यम-पद-लोपो समासः त्रयोविंशत्य् अनीक माक्या यस्य तथेति । भार भारभूतम् । दाशर्हाव् इति मनुष्य-लीलापरत्वम् अभिप्रेतम् । अत एव दंशितौ ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नौ जन्म प्रादुर्भावः ॥१५.१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् त्रयोविंशतिर् अनीकानि अक्षौहिण्यस् तद् आख्यं तावत्-सङ्ख्यम् इत्य् अर्थः । यद् वा, त्रयोविंशतिस् त्रयोविंशत्य् अक्षौहिण्यस् तत्-सङ्ख्यकमनीकं सैन्यमित्साख्या सङ्ज्ञा-मात्रं यस्य तम्, दशार्हौ यदुकुलोद्भवाव् इति मनुष्य-लीलापरत्वम् अभिप्रेतम् । अत एव दंशितौ, अल्पीयसेति जरासन्धबलाद्-यदु-बलस्यात्यल्पताभिप्रायेण । किं वा, प्रियतमानां स्वसङ्गिनां दुस्त्यजानां कतिपयानाम् एव युद्धे नयनात्, अत एवावृतौ अवरणतया चतुर्दिक्षु परिवेष्टितौ, विशेषेण सर्वतो वैलक्षण्येफ़्न निर्गत्य, यतो दारुक-सारथिः । हरिर् इति शङ्ख-ध्वनिनैव परेषां वीर्यादि-हरणाभिप्रायेण । अत एव विशिष्टत्रासेन वेपथुः ॥१५.१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आवश्यकतार्थम् एव सैन्यस्य हननस्य च वैशिष्ट्याह—अर्धकेन त्रयोविंशतिर् अनीकानि अक्षौहिण्यः तद् आख्यं तावत्-सङ्ख्यम् इत्य् अर्थः । यद् वा, त्रयोविंशतिः अक्षौहिण्यः तत् सङ्ख्याकमनीकं सैन्यम् इत्य् आख्या यस्य तं भावरूपं दाशार्हाव् इति मनुष्य-लीलापरत्वम् अभिप्रेतम् अत एव दंशितौ । अल्पीयसेति जरासन्ध बलाद्यदुर्बलस्याल्पताभिप्रायेण तत्रापि हरिवंशोक्त-विकद्रुदुर्मन्त्रणया सर्वेषाम् आगमनेन च अत-एवावृतौ आवरणतया चतुर्दिक्षु वेष्टितौ स्वैर् निजनिजायुधैर् आढ्यौ युद्धे सम्पन्नौ तत्-तद् आयुध-दर्शनायैव परसैन्यं क्षोभयन्ताव् इत्य् अर्थः । विशेषेण सर्वतो वैलक्षण्येन निर्गत्य यतो दारुक-सारथिः तत् सारथिऽत्वोपलक्षणया दिव्यातिदिव्य तद्-द्रव्यादि-सम्पत्तिमान् हरिर् इति शङ्ख-ध्वनिनैव परेषां वीर्यादि-हरणाभिप्रायेण ॥१५.१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एतद् अर्थम् इत्य्-आदि । नौ आवयोर् जन्म प्रादुर्भावः ॥१५.१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१६ ॥
निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ ।
शङ्खं दध्मौ विनिर्गत्य हरिर् दारुक-सारथिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वायुधाढ्यौ शोभनायुध-सम्पन्नौ ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अल्पीयसा अल्प-प्रमाणेन । दारुकस् तन्-नामा सारथिर् यस्य सः । तथा दारुकः कृष्ण-सारथि इति कोशात् । अल्पीयसेति जरासन्ध-बलापेक्षया, तत्रापि हरिवंशोक्त-विकद्रु-दुर्मन्त्रणया सर्वेषाम् आगमनेन च । अत एवावृतौ आवरण-शक्त्या चतुर्-दिक्षु वेष्टितौ । स्वैर् निज्आयुधैर् आढ्यौ युद्धे सम्पन्नौ तत्-तद्-आयुध-दर्शनेनैव पर-सैन्यं क्षोभयन्ताव् इत्य् अर्थः । विशेषेण सर्वतो वैलक्षण्येन निर्गत्य, यतो दारुक-सारथिः, तत्-सारथित्वोपलक्षणया दिव्यातिदिव्य-तत्-तद्-द्रव्यादि-शक्तिमान् । हरिर् इति शङ्ख-द्वनिनैव परेषां वीर्यादि-हरणाभिप्रायेण ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१७ ॥
ततो \ऽभूत् पर-सैन्यानां हृदि वित्रास-वेपथुः ।
ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषा अधमास् तस्माद् इति वास्तवोऽर्थः । हे पुरुषोत्तम ! इति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः शङ्ख-ध्वनेः वित्रासेन वेपथुः कम्पः । तौ राम-कृष्णौ । अत एव विशिष्ट-त्रासेन वेपथुः । श्री-कृष्णं साक्षात्-काल-रूपं मत्वा तेन साकं युद्धं परिहर्तुम् आह—ताव् इति सार्धेन ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुरुषा अधमा यस्मात् पुरुषोत्तम इत्य् अर्थः ॥१७.५७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव विशिष्ट-त्रासेन वेपथुः । श्री-कृष्णं साक्षात् काल-रूपं मत्वा तेन सह युद्धं परिहर्तुम् आह—ताव् इति सार्धेन ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषा अधमा यस्मात्, हे पुरुषोत्तम ! इति भवत्य् अभिमतोऽर्थः ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१८ ॥
न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुप्तेन सर्वान्तरत्वाद् दर्शनानर्हेण । हे अमन्द । बध्नातीति बन्धुर् अविद्या, तां हन्ति इति । तथा हे अविद्या-निरसन ! इति । याहि प्राप्नुहि ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुप्तेन निद्येन गुप्-सोपीजारेणेत्य् अर्थः । यद् वा, गुप्तेन नन्द-गोप-पालितेन वैश्येनेत्य् अर्थः । बालेनैकेन इति "बालकेनैव" इति च पाठः । ननु, युद्धे शक्तिर् एवापेक्ष्यते, न तु वय इत्य् आह—गुप्तेन इत्य् अर्धकेन, कंस-सार्थेन गोकुले निवासात् । ननु, वैरि-वञ्चनार्थं काले गुप्तिर् एव सर्वान्तरत्वाद् दर्शनानर्हेन । अमन्द हे अभद्र । कुतः ? बन्धुहन् । अतो याहि धर्म-युद्धाद् इतोऽपसर । तत्त्वार्थस् तु व्याख्यातस् तैः ।
यद् वा, याहि स्व-गृहम्, युद्ध-श्रमेण ते प्रयोजनाभावाद् इति भावः । गतस्य तत्र वैश्य-पालित्वेन वैश्य-धर्म-प्राप्तेः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-पराक्रमं साक्षात् काल-रूपं श्री-कृष्णं मत्वा, तेन निज-युद्धं परिहर्तुम् आह—ताव् इति द्वाभ्याम् । लज्जयैव, न तु भयादिना । कुतः ? बालकेन, तच् च निज-वयोऽपेक्षया अल्प-वयस्त्वात् ।
ननु, युद्धे शक्तिर् एवापेक्ष्यते, न तु वयः ? इत्य् अत आह—गुप्तेन इति, कंस-भयाद् इव गोकुले निवासात् ।
ननु, वैरि-वञ्चनार्थं काले गुप्तिर् अपि योग्या ? इत्य् अत आह—मन्द ! हे अभद्रेति । कुतः ? हे बन्धुहन् ! अतो याहि, धर्म-युद्धाद् इतोऽपसर । तत्त्वार्थस् तैर् व्याख्यातः । यद् वा, याहि, स्व-गृहं याहि, युद्ध-श्रमेण ते प्रयोजनाभावाद् इति भावः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालेनैकेन इति "बालकेनैव" इति च वा पाठः । ननु, युद्धे शक्तिर् एवापेक्ष्यते, न तु वयः ? इत्य् आह—गुप्तेन इत्य् अर्धकेन । कंस-भयेन गोकुले निवासात् ।
ननु, वैरि-वञ्चनार्थं काले गुप्तिर् एव योग्या ? इत्य् अत आह—मन्द ! हे अद्भद्रेति । कुतः ? हे बन्धुहन् ! अतो याहि धर्म-युद्धाद् इतोऽपसर । तत्त्वार्थस् तैर् व्याख्यातः।
यद् वा, याहि स्व-गृहं याहि, युद्ध-श्रमेण ते प्रयोजनाभावाद् इति भावः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ताव् आह इत्य्-आदि । हे कृष्ण ! पुरुषाधाम ! इति पुरुषा अधमा यस्मात् स तथा पुरुषोत्तमेत्य् अर्थः ॥१८.५७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाले बाल एव को ब्रह्मा यस्य तेन महा-महिश्वरेण । लज्जया इति मम दुर्जीवत्वेनायोग्यत्वाद् इति भावः । गुप्तेन इति कंसस्य भयाद् गोकुलं प्रति गतस्य एव वैश्य-पालितत्वेन वैश्य-साधर्म्य-प्राप्तेः पक्षे सर्वान्तरत्वाद् दर्शनानर्हेन । हे अमन्द ! बन्धुहन् ! हे मातुल-हन्तः ! पक्षे बद्नातीति बन्धुर् अविद्या, तां हन्तीति तथा ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.१९ ॥
तव4 राम यदि श्रद्धा युध्यस्व धैर्यम्5 उद्वह6 ।
हित्वा वा मच्-छरैश् च्छिन्नं देहं स्वर् याहि मां जहि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अच्छेद्य-देहोऽसाव् इति स्वयम् एव मत्वा परितोषात् पक्षान्तरम् आह । यद् वा, मां जहि इति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रद्धा युद्ध-श्रद्धा । "त्वं च" वा पाठः । च-शब्दस् त्व् अर्थे । श्रद्धा युद्धेच्छा । यदीति मद्-भयानुभवितैव यदि कथञ्चित् स्याद् इत्य् अर्थः । स्थैर्यम् उच्चैर् बहु-बलाद् आत्मानम् उद्वह प्रापय, न जातूद्विग्नो भव, न पलायस्वेत्य् अर्थः । "धैर्यम्" इत्य् अपि पाठे स एवार्थः । यद् वा, मत् मत्तः पापात्मनः सकाशात् स्व-वैकुण्ठं याहि । किं कृत्वा—शरैश् छिन्नं मम देहं हित्वा त्यक्त्वा, अत्रैव प्रक्षिप्येत्य् अर्थः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रद्धा युद्धेच्छा । यदि इति । मद्-भयान् न भवितैव, यदि कुतोऽपि कथञ्चित् स्याद् इत्य् अर्थः । स्थैर्यम् उच्चैर् बहु-बलाद् आत्मानं प्रापय, न जातूद्विग्नो भव, न च पलायस्वेत्य् अर्थः । एषा सर्वा महा-गर्वोक्तिः । "युद्धे धैर्यं समुद्वह" इति पाठान्तरं सुगमम्। स्वर् याहि इति धर्म-युद्धेनैव क्षत्रियस्य स्वर्ग-सिद्धेः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव इति । "त्वं च" इति वा पाठः । त्व्-अर्थे च-शब्दः । श्रद्धा युद्धेच्छा । यदि इति मद्-भयानुभवितैव । यदि कथञ्चित् स्याद् इत्य् अर्थः । स्थैर्यम् उच्चैर् बहु-बलाद् आत्मानं प्रापय, न जातूद्विग्नो भव, न च पलायस्वेत्य् अर्थः । "धैर्यम्" इति क्वचित् पाठः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्छेद्य-देहोऽसाव् इति । स्वयम् एव मत्वा परितोषात् । पक्षान्तरम् आह—यद् वा, मां जहि इति । श्री-स्वामिचरानाः । यद् वा, मत् मत्तः पापात्मनः सकाशात् स्व-वैकुण्ठं याहि । किं कृत्वा ? शरैश् छिन्नम् अर्थात् मम देहं हित्वा त्यक्त्वा अत्रैव प्रक्षिप्येत्य् अर्थः ॥१९.२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२० ॥
श्री-भगवान् उवाच—
न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् ।
न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा-श्रुतार्थ-ग्रहणेन भगवत उत्तरम्—न वै शूरा इति । विकत्थन्ते श्लाघन्ते ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आतुरस्य जामातृ-मरणेन दुःखितस्य मुमूर्षतो मर्तुम् इच्छतः । गीर्-बुद्धी विपरीते स्त आसन्न-मरणस्य नुः इति शिष्टोक्तेः । आत्मना सह युद्ध-कौतुके तं प्रवर्तयितुं व्यक्तार्थम् आश्रित्य सोल्लुण्ठम् उत्तरम् आह—न इति । वै प्रसिद्धम् । न च तव गालि-प्रादानेन वयं क्षुभ्याम इत्य् आह—न इति । आतुरस्य वातादि-दोष-व्याकुलस्य, तत्रापि मुमूर्षतः सन्त्य् एव मरिष्यतः वाचो न गृह्नीमो वस्तु-बुद्ध्या न भावयामः । कुतः ? कोपं कुर्म इत्य् अर्थः । राजन्न् इति—यद्यपि राज्ञस् ते तद् अतीवानुचितम् इति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मना सह युद्ध-कौतुके तं प्रवर्तयितुं व्यक्तार्थम् आश्रित्योत्तरम् आह—न इति । वै एतत् प्रसिद्धम् एवेत्य् अर्थः ।
ननु, मद्-उक्तितो लज्जादिना शूरोऽपि कथं त्वम् अहो-पौरुषं दर्शयिष्यसि ? तत्राह—न गृह्नीमः, हृदि कर्णयोर् वा, न धारयामः । कुतः ? आतुरस्य व्याकुलस्य, यतो मुमूर्षतः स्वयं मरिष्यत इत्य् अर्थः—आसन्न-मरणस्यासम्बन्ध-वाक्योत्पत्तेः । यद् वा, दुरुक्त्या मद्-रोषोत्पादनादिना स्वयं शीघ्रं मर्तुम् इच्छतः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मना सह युद्ध-कौतुके तं प्रवर्तयितुं व्यक्तार्थम् एवाश्रित्य सोल्लुण्ठम् उत्तरम् आह—न इति । न विकत्थन्ते नात्मानं श्लाघन्ते वै एतत् प्रसिद्धम् एवेत्य् अर्थः । न च तव गालि-प्रादानेन वयं क्षुभ्याम इत्य् आह—न इति । आतुरस्य वातादि-दोष-व्याकुलस्य, तत्रापि मुमूर्षतः सम्प्रत्य् एव मरिष्यतः वचो न गृह्नीमः, न वस्तु-बुद्ध्या भावयामः । कुतः ? कोपं कुर्म इत्य् अर्थः । राजन्न् इति यद्यपि राज्ञस् त्व् एतद् अतीवानुचितम् इति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२१ ॥
श्री-शुक उवाच——
जरा-सुतस् ताव् अभिसृत्य माधवौ
महा-बलौघेन बलीयसावृणोत् ।
स-सैन्य-यान-ध्वज-वाजि-सारथी
सूर्यानलौ वायुर् इवाभ्र-रेणुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : माधवौ मधु-वंश-भवौ । महता सैन्य-समूहेन आवृतवान् । वायुर् अभ्रैः सूर्यं, रेणुभिश् चाग्निं यथा इत्य् अदर्शन-मात्रम् एवावरणम् इति सूचितम् ॥२१.२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । सैन्येन यान-ध्वजै रथ-ध्वजैः वाजिभिर् अश्वैः, सारथिभिश् च सहितौ । वाजी त्व् अश्वे शरे खगे इति हलायुधः । "श्री-शुक उवाच" इति क्वचित्कः । जरासुत इति जरा-राक्सास्या संहित-देहत्वात् तद्-दत्त-शक्तित्वेन मनुष्यातीत-शक्तिर् उक्ता । माधवाव् इति दाशार्हाव् इतिवत् । वस्तुतस् तु, साक्षान् माया-नाशकत्वेन, तत्-कार्य-प्रपञ्च-नाशने तु किञ्चिद् अपि प्रयासादिनेत्य् अर्थः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जरासुत इति जरा-नाम-राक्षस्या सन्धित-देहत्वात् तद्-दत्त-शक्तित्वेन मनुष्यातीत-शक्तिर् उक्ता, अतोऽभिसृत्य आभिमुख्येनाग्रतो गत्वा प्राप्य वा, माधवौ मधु-कुलोद्भवाव् इति दाशार्हाव् इतिवत्, अत एव आवृणोत् ॥२१॥
**जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : "**श्री-शुक उवाच" इति क्वाचित्कं । जरासुत इति जरा नाम राक्षास्या संहित-देहत्वात् तद्-दत्त-शक्तित्वेन मनुष्यातीत-शक्तिर् उक्ता । माधवाव् इति । दाशार्हाव् इतिवत् अत एवावृणोत् । सूर्यानलौ प्रलय-काल-सम्बन्धिनौ ज्ञेयौ । सम्प्रति महा-योगितया तथैव भासमानत्वात् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माधवौ मधु-वंशोद्भूतौ । वायुर् यथा सूर्यम् अभ्रैर् अग्निं च रेणुभिर् आवृणोति तथा इति । अदर्शन-मात्रम् एवावरणम् इति सूचितम् ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२२ ॥
सुपर्ण-ताल-ध्वज-चिह्नितौ रथाव्
अलक्षयन्त्यो हरि-रामयोर् मृधे ।
स्त्रियः पुराट्टालक-हर्म्य-गोपुरं
समाश्रिताः सम्मुमुहुः शुचार्दिताः7 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तालो वृक्ष-विशेषः । पुरं गृहम्, अट्टालकं गृहोपरीष्टकादि-विरचित-चतुरस्र-स्थलम् । हर्म्यं धनिनां वासः
पुरं नपुंसकं गेहं देह-पाटलि-पुत्रयोः ।
पुष्पादीनां दलावृतौ ना गुग्गुलो न ना पुरि ॥ इति मेदिनी ।
गोपुरं द्वारि पूर्-द्वारि कैवर्ते मुस्तकेऽपि च इत्य् अपि । हर्म्यादि धनिनां वासः इत्य् अमरः ।
इष्टकादि-विरचितं चतुरस्तं गृहोपरि ।
स्थलम् अट्टालिकं प्रोक्तम् अट्टः क्षौमं तद् एव हि ॥ इति कोशात् ।
सुपर्ण- इति तत्-तद्-ध्वजादर्शनम् अपि सूचितम् । पुरस्य अट्टालिकं दुर्गोपरि-रचितम् उच्च-गृहम्, हर्म्यं चोच्चप्रासादः, गोपुरं पुर-द्वारम्, द्वन्द्वैक्यम् । उच्चारूढा अप्य् अलक्षयन्त्यो लक्षणैर् अप्य् अतर्कयन्त्यः शुचा शोकेनापिता व्याप्ताः । "अर्दिताः" इति पाठे पीडिताः सत्यः सम्मुमुहुः । स्त्रीणां स्वभावतः एव स्नेहार्द्र-चित्तत्वाद् इति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुपर्ण- इति तद्-ध्वजादर्शनम् अपि सूचितम् । हरिर् निज-मनो-हरणात्, रामो मनो-रमणात्, तयोर् इति परम-प्रियत्वं सूचितम्। पुरस्य अट्टालकं हर्म्यं च उच्च-प्रासादं, गोपुरं च द्वन्द्वैक्यम्, सम्यग् आश्रिता उपर्य् अधिरूढा अपि मृधे युद्ध-भूमौ अलक्षयन्त्यो लक्षणैर् अपश्यन्त्यः, शुचार्पिताः शोक-व्याप्ताः सत्यः, सम्यङ् मुमुहुः, यतः स्त्रियः, स्त्रीणां स्वभावतः स्नेहार्द्र-चित्तत्वात् श्री-भगवति भाव-विशेषाश् च ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुपर्ण- इति तत्-तद्-ध्वजादर्शनम् अपि सूचितम्। हरिर् निज-मनोहरणात्, राम इति तन्-मनोरमणात् । तयोर् इति परम-प्रियत्वं सूचितम् । पुरस्याट्टालकं दुर्गोपरि रचितम् उच्च-गृहं, हर्म्यं []{दिर्=“र्त्ल्”}चोच्च-प्रसादं, गोपुरं च द्वन्दैक्यं, सम्यग् आश्रिता उपर्य् अधिरूढा अपि मृधे युद्ध-भूमौ अलक्षयन्त्यः लक्षणैर् अप्य् अतर्कयन्त्यः शुचापिताः शोकेन व्याप्ताः सत्यः । "अर्दिता" इति पाठे पीडिताः सत्यः । सम्यङ् मुमुहुः यतः स्त्रियः स्त्रीणां स्वभावत एव स्नेहार्द्र-चित्तत्वाद् इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुचापिताः शोक-व्याप्ताः "शुचार्दिता" इत्य् अपि पाठः । स्त्रिय इति पुम्भ्यः सकाशात् कृष्णे स्त्रीणाम् असक्त्याधिकात् ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२३ ॥
हरिः परानीक-पयोमुचां मुहुः
शिलीमुखात्युल्बण-वर्ष-पीडितम् ।
स्व-सैन्यम् आलोक्य सुरासुरार्चितं
व्यस्फूर्जयच् छार्ङ्ग- शरासनोत्तमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परस्यानीकानि सैन्यानि तान्य् एव पयो-मुचो मेघाः, तेषां शिलीमुखा बाणाः, तेषाम् अत्युल्बणं वर्षं, तेन पीडितम् । व्यस्फूर्जयद् उज्जृम्भितवान् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलि-वाणौ शिलीमुखौ इत्य् अमरः । उज्जृम्भितवान् उच्चैश् चकार । हरिर् इति युग्मकम्, पर-सैन्य-हरणात् । पीडनम् अत्र सम्पातेन वित्रासनम् एव, न तु छेदनं मुकुन्दोऽपि क्षत-बलः [भा।पु। १०.५०.३६] इति वक्ष्यमाणत्वात् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरिर् इति पर-सैन्य-संहाराभिप्रायेण, सुरैर् असुरैश् चार्चितम् आदृतम्, तेषु तादृश-धनुर्-अभावात्, अत एवोक्तम् उत्तमम् इति, एवं तस्यासाधारणत्वम् उक्तम् । अथ अनन्तरं तत्-क्षणम् एवेत्य् अर्थः । अस्य वक्ष्यमाणस्य अनेकश [१०.५०.२५] इत्य् अस्यापि सर्वैर् एवान्वयः । रथान् इति तदीयांश् च ध्वजादीन्, एतच् चाग्रे व्यक्तं भावि । कुञ्जरादींश् च नितरां घ्नन् ॥२३-२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हरिर् इति युग्मकम् । तन्-नाम च पर-सैन्य-संहाराभिप्रायेण । पीडनम् अत्र सम्पातेन वित्रासनम् एव, न तु छेदनं, मुकुन्दो\ऽप्य् अक्षत बल [भा।पु। १०.५०.३६] इति वक्ष्यमाणात् । तच् च तेन स्व-विद्या-विशेषाभिव्यञ्जनात् । अहो तत्र परमाश्चर्यं शृण्व् इत्य् आह—गृह्नन्न् [२४] इत्य्-आदिना । अथ अनन्तरं तत्-क्षणम् एवेत्य् अर्थः । अस्य वक्ष्यमाणस्य अनेकश [१०.५०.२५] इत्य् अस्यापि सर्वैर् एवान्वयः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परेषां शत्रूणाम् अनीकान्य् एव पयोमुचो मेघास् तेषां शिलीमुखा बाणास् तेषाम् अत्युल्बण-वर्षेण पीडितं व्यस्फूर्जयत् उज्जृम्भयामास ॥२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२४ ॥
गृह्णन् निषङ्गाद् अथ सन्दधच् छरान्
विकृष्य मुञ्चन् शित-बाण-पूगान् ।
निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन्
निरन्तरं यद्वद् अलात-चक्रम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह—गृह्नन्न् इति । निषङ्गाद् इषुधेः शरान् गृह्नन्, अथ तान् गुणे सन्धधत्, गुणम् आकृष्य निशित-बाण-समूहान् मुञ्चन् । निघ्नन् प्रहरन् । पत्तिः पदातिः । निरन्तरम् इति ग्रहणादि-क्रिया-विशेषणम् । ज्वलत्-काष्टं भ्रमणे यथा चक्रवद् भवति, तद्वद् यद् व्यस्फूर्जयद् इति ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् शरासनो [हस्तृमणम्]{।मर्क्} । निषङ्गः सङ्गते तूणे इति मेदिनी । अथ ग्रहणोत्तरम् । तान् शरान् । गुणे मौर्व्याम् । अलातं दीप्त-काष्ठे स्याद् अगृहीते तु वाच्यवत् इति धरणिः ।
तद् विद्या-विशेषाभिव्यञ्जमं शृण्व् इत्य् आह—गृह्नन्न् इति । निषङ्गाद् इषुधेः सकाशाद् एकैक-शरान् गृह्नन् अथ अनु गुणे तान् सन्दधत् । गुणम् आकृष्य तान् मुञ्चंस् तैश् च रथादीन् निघ्नन् । निरन्तरम् इति ग्रहणादि-सर्व-क्रिया-विशेषणम् । तेन ग्रहण-योजन-कर्षण-निक्षेपण-प्रहरण-क्रियाः क्रमेणोद्भूता अपि सदैवोद्भवन्त्य एव द्रष्टॄन् प्रति ताः क्षणार्ध-मध्ये शत-कोटिकत्व उद्भवन्तीत्य् अर्थः । अत एव अलातचक्र-दृष्टान्तः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितरां पेतुर् मरणात् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रथान् इति तदीयांश् च ध्वजादीन् एतच् चाग्रे व्यक्तं भावि । अन्यत् तैः । अत्रोज्जृम्भितवान् सटङ्कारं मुहुर् आकृष्य नमितवान् इत्य् अर्थः । चक्रवद् भवतीति मण्डलाकारतया सर्वत्र वर्तत इत्य् अर्थः । तद्वद् इति तादृशीं कृत्वेत्य् अर्थः । यद् वा, ततश् च यद्वद् अलातचक्रं, तद्वद् एव हरिः सर्वत्राप्य् अदृश्यतेति शेषः । किं कुर्वन् ? परेषां शित-बाण-पूगादिन् निघ्नन् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं कुर्वन् ? इत्य् अत आह । निषङ्गात् इषुधेः सकाशात् शरान् एकैकान् गृह्नन् । अथ तद्-अनन्तरं तान् गुणे सन्दधत् गुणम् आकृष्य तान् मुञ्चन्, तैश् च रथादीन् निघ्नन् । निरन्तरम् इति ग्रहणादि सर्व-क्रिया-विशेषणम् । तेन ग्रहण-योजन-विकर्षण-निप्ःक्षेपण-प्रहरण-क्रियाः क्रमेणोद्भूता अपि सदैवोद्भवन्त्य इव द्रष्टॄन् प्रतिभाताः क्षणार्ध-मध्ये शतकोटि-कृत्वोद्भवन्तीत्य् अर्थः । ततश् च अलात-चक्रं ज्वलत्-काष्ठं भ्रमणे यथा चक्रवद् भवति, तद्वद् एव मथुरायाश् चतुर्दिक्षु सैन्याभिमुखं भ्रमन् शार्ङ्गं व्यस्फूर्जयद् इति ॥२४.२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२५ ॥
निर्भिन्न-कुम्भाः करिणो निपेतुर्
अनेकशो8\ऽश्वाः शर-वृक्ण-कन्धराः ।
रथा हताश्व-ध्वज-सूत-नायकाः
पदायतश् छिन्न-भुजोरु-कन्धराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हता अश्वा ध्वजाः सूता नायका रथिनश् च येषु ते ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्भिन्न-कुम्भा विदलित-मूर्धानः कुम्भो राश्य्-अन्तरे हस्ति-मूर्धांसे राक्सासान्तरे इति मेदिनी । अनीकशः राशिशः अनीकोऽस्त्री रणे सैन्ये समूहे दुर्गन्तेऽपि च इति धरणिः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य तीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निर्भिन्न-कुम्भा इत्य्-आदिना तत्रापि योग्यायोग्य-स्थान एव वेधनम् इति विशेषोक्तिः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोकस्य तीका द्रष्टव्या।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.२६-२८ ॥
सञ्छिद्यमान-द्विपदेभ-वाजिनाम्
अङ्ग-प्रसूताः शतशो \ऽसृग्-आपगाः ।
भुजाहयः पूरुष-शीर्ष-कच्छपा
हत-द्विप-द्वीप-हय-ग्रहाकुलाः ॥
करोरु-मीना नर-केश-शैवला
धनुस्-तरङ्गायुध-गुल्म-सङ्कुलाः ।
अच्छूरिकावर्त-भयानका महा-
मणि-प्रवेकाभरणाश्म-शर्कराः ॥
प्रवर्तिता भीरु-भयावहा मृधे
मनस्विनां हर्ष-करी परस्परम् ।
विनिघ्नतारीन् मुषलेन दुर्मदान्
सङ्कर्षणेनापरिमेय-तेजसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सञ्छिद्यमाना द्विपदा इभा वाजिनश् च, तेषाम् अङ्गेभ्यः प्रसूता असृग्-आपगा रुधिर-नद्यः परस्परं प्रवर्तिता [२८] इति तृतीयेनान्वयः । प्रसिद्ध-नदी-रूपकम् आह । भुजा एव आहयो यासु ताः । पुरुषानां शीर्षाण्य् एव कच्छपा यासु ताः । हता द्विपा एव द्वीपा अन्तर्-वर्ति-तटानि हया एव ग्रहा ग्राहाः, तैश् च आकुला व्याप्ताः ॥२६॥
करा उरवश् च मीना यासु ताः । नराणां केशा एव शैवालं यासु ताः । धनूंष्य् एव तरङ्गा आयुधान्य् एव गुल्माः, तैश् च तैश् च सङ्कुलाः । च्छूरिकाश् चर्माणि चक्राणि वा, तान्य् एव आवर्ताः, तैर् भयानकाः । महा-मणीनां प्रवेका उत्तमा आभरणानि च यथायथम् अश्मानः शर्कराश् च यासु ताः ॥२७॥
भीरूणां भयावहाः । मनस्विनां धाराणां हर्षकर्यः । किं च, सङ्कर्षणेन अपि तद् बलं क्षयं प्रणीतम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इभः स्तम्बेरमः पद्मी इत्य् अमरः । द्वीपोऽस्त्रियाम् अन्तरीपं यद् अन्तर्-वारिणस् तटम् इति च । ग्रहो ग्राहे च रव्य्-आदौ इति धरणिः ॥२६॥
जलनीली तु शेवालं शैवलोऽथ इत्य् अमरः गुल्मा लवल्यः,
गुल्मः सेना-घट्ट-भिदोः सैन्य-रक्षण-रुग्-भिदोः ।
स्तम्बे स्त्रियाम् आमलक्यां लवली-वस्त्र-वेशयोः ॥ इति मेदिनी ।
अच्छूरिका स्यात् पुलके वृत्त-चक्र-ध्वनिष्व् अपि इति तीर्थः । प्रवेकस् तूत्तमे पुंसि वाच्यवत् स्याद् विवेक्तरि इति निरुक्तिः । आवर्तस् त्व् अम्भसां श्रमः इति । यथायथं मणय आश्मानः पाषाणानि अश्मनी मणि पाषाणे इति कोशात् । अलङ्काराश् च शस्त्र-भेदनाच् छर्करावज् जाताः, शर्कराः सिकता बालुका इति यावत् ।
शर्करा खण्ड-विकृताव् उपला-कर्पराशयोः ।
शर्मरान्वित-देशेऽपि रुग्-भेदे शकलेऽपि च ॥ इति मेदिनी ।
अच्छुरिकाश् चर्माणि चक्राणि वा । पञ्चम-स्कन्धे अच्छूर्य्-अमृत-मणी [भा।पु। ५.३.३] इत्य् आदौ प्रयुक्तश् चक्र एव ॥२७॥
परस्परम् अन्योन्यम् । न केवलं श्री-कृष्णेनैव नद्यः प्रवर्तिता इत्य् आह—किं च इति । यद्यपीह कृष्णेति नोक्तं, तथापि क्षयं प्रनीतं वसुदेव-पुत्रयोः [२९] इत्य् अग्रिम-प्रद्योक्ति-विरोधात् तेनापीति बोध्यम् । दुर्मदान् दुष्टाहङ्कारान् । साक्षाच्-छ्री-भगवता सह युद्धात् । यद् वा, निज-बलादिना महामत्तान् इत्य् अर्थः । तेजः पराक्रमः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सञ्छिद्य इति सार्ध-द्वयम् । गुल्माः स्तम्बा अप्रकाण्ड-वृक्ष-जातयः । अच्छूरिका-शब्दो वैदिकः पञ्चम-स्कन्धेऽपि प्रयुक्तोऽस्ति । अच्छूर्य्य्-अमृत-मणि- [५.३.३] इत्य्-आदौ परस्परं हर्ष-करी वीर-स्वाभाव्यान् मारयतां मार्यमाणानाञ् चानन्द-प्रदाः प्रवर्तिताः श्री-भगवतैव । यद् वा, असृगापगा एव परस्परं प्रवर्तिताः मिलित्वा मर्हिता इत्य् अर्थः । तत्र प्रथम-पक्षे निर्भिन्न-कुम्भा इत्य्-आदिना तत्-पराक्रम-वर्णनस्यैव सोत्साहम् अपक्रान्तत्वात् मुकुन्दो\ऽप्य् अक्सात बल इत्य्-आदि वक्ष्यमाणात् परस्परं हर्षकरीर् इत्य् अव्यवहितान्वयाच् च । द्वितीय-पक्षे तत्रैव तात्पर्यात् ॥२६.२७॥
अच्छूरिकेति शब्दोऽयं वैदिकः । पञ्चम-स्कन्धेऽपि प्रयुक्तोऽस्ति अच्छूर्य्-अमृत-मणि- [भा।पु ५.३.३] इत्य् आदौ ॥२७॥
दुर्मदान् दुष्टाहङ्कारान् साक्षात् श्री-भगवता सह युद्धात् । यद् वा, निज-बलादिना महामृतान् अपीत्य् अर्थः । तेजः पराक्रमः विशिष्ट-क्रीडितं लीला-विशेष इत्य् अर्थः । यतः लीलया वसुदेव-पुत्रयोर् अपि अव्यभिचारि-सर्वैश्वर्ययोः परम् इत्य् अनेन तत्र भू-भार-हरण-प्रयोजस्यानुषङ्गिकत्वं व्यञ्जितम् ॥२८.२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च सञ्छिद्यमानानां द्विपदानीनाम् अङ्गेभ्यः प्रसूता असृग्-आपगा रुधिर-नद्यः परस्परं कृष्ण-रामाभ्यां प्रवर्तिता इति तृतीयेनान्वयः । प्रसिद्ध-नदीप-पकम् आह—भूजा एवाहयो यासु ताः हतद्विपा एव द्वीपाः अन्तर्वन्तिन उच्च-प्रदेशाः हया एव ग्रहा ग्राहाश् चलास्तैर् आकुलाः व्याप्ताः ॥२६॥
अच्छूरिकाश् चर्माणि चक्राणि वा ता एव आवर्ताः, तैः भयानकाः, महा-मणीनां प्रवेकाः श्रेष्ठा आभरणानि च क्रमेण अश्मानः शर्कराश् च यासु ताः ॥२७॥
परस्परम् अन्योन्यं मृधे यादवैः परैश् च यद् युद्धं तस्मिन् प्रवर्तिता श्री-भगवतैव निर्भिन्न-कुम्भा [२५] इत्य् आदौ, तेनैव तत्-तद्-वधोक्तेः, अन्यथा अग्रे वक्ष्यमाणे अक्षत-बलः [भा।पु १०.५०.३४] इत्य् अनेन विरोधापत्तिः । दुर्मदान् दुष्टाहङ्कारान्, साक्षात् श्री-भगवता सह युद्धात् । यद् वा, निज-बलादिना महामत्तान् अपीत्य् अर्थः । अपरिमेयम् अनन्तत्वात् परिमातुम् अशक्यं तेजः पराक्रमो यस्य तेन । यतः सङ्कर्षणेन चतुर्व्युहैकतमेन भगवता क्षयं प्रकर्षेण मुक्त्या पुनर् आवृत्त्य्-अभावादिना नीतम्, विशिष्टं क्रीडितं लीला-विशेष इत्य् अर्थः । यतो जगदीशयोर् वसुदेव-पुत्रयोर् इति क्रीडार्थम् एव तत्-पुत्रता-प्राप्त्या जगदीशत्वेऽपि सा क्रीडोचितेति भावः । परम् इत्य् अनेन तत्रायासादिकं भू-भार-हरणादि-मात्र-प्रयोजनं च निरस्तम् ॥२८.२९॥
मनिस्विणां वीराणां हर्ष-कर्यः । अङ्ग हे राजन् ! त्वद्-बलम् अर्णववत् दुर्गं भैरवं च दुरन्त-पारं दुः-शब्दो निषेधे अन्तस्तलं पारम् अवधिः, विक्रमेणागाधं देशतश् च निरवधिकम् इत्य् अर्थः । वस्तु-विचारे तयोस् तत् कर्मं केवलं विक्रीडितं, न तु पराक्रमः ॥२८.२९॥
॥ १०.५०.२९ ॥
बलं तद् अङ्गार्णव-दुर्ग-भैरवं
दुरन्त-पारं मगधेन्द्र-पालितम् ।
क्षयं प्रणीतं वसुदेव-पुत्रयोर्
विक्रीडितं तज् जगद्-ईशयोः परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग ! हे राजन् ! अर्णववद् दुर्गं दुर्गमं भैरवं भयङ्करं च, यतो दुरन्त-पारम् । अन्तोऽत्र तलम् । पारम् अवधिः । दुःशब्दो निषेधे । विक्रमेण अगाधं देशतश् च निरवधिकम् इत्य् अर्थः । किं च, मगधेन्द्रेण च पालितं बलम् । यद् एवं-भूतं राम-कृष्णयोः कर्मोक्तं तत्-परं केवलं तयोर् विक्रीडितं न तु पराक्रमः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो दुरन्त-पारम् अतोऽर्णववद् इति योज्यम् । तलम् इति तलं स्वरूपेऽनूर्ध्वे स्त्री इति मेदिनी । इत्य् अर्थ इति व्याख्येयम् इति । रक्षक-प्रबलत्वे\ऽपि नाशेनायासम् आह—किं च, इति । ययो राम-कृष्णयोः । विक्रीडितं लीला-विशेष एव परं केवलं न त्व् आवेशिकं युद्धम् इत्य् अर्थः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३० ॥
स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः
समीहते\ऽनन्त-गुणः स्व-लीलया ।
न तस्य चित्रं पर-पक्ष-निग्रहस्
तथापि मर्त्यानुविधस्य वर्ण्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न चैतद् आश्चर्यम् इत्य् आह—स्थित्य्-उद्भवान्तम् इति । तर्हि किम् इत्य् आश्चर्यम् इव वर्णितं ? तत्राह—तथापि इति । मर्त्यान् अनुविधत्ते ऽनुकरोतीति मर्त्यानुविधस् तस्य ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् बल-नाशनम् । यः कृष्णः समीहते कुरुते । चित्राभावे तद्वत् कुतो वर्णितम् ? इत्य् आह—तर्हि इति । यद्यपि हरेः । पर-पक्ष-निग्रहश् चित्रं न तथापि इति । तस्य मनुष्य-धर्मम् अनुकुर्वतो हरेस् तद् युद्धं वर्ण्यते, बुद्ध्य्-अवतारार्थं प्रशस्यत इत्य् अर्थः । [विश्वनाथः] ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि लीलया सद्यस् तद्-अनन्त-बल-मारणम् आश्चर्यम् अपि न मन्तव्यम् इति वदन् जगदीशत्वम् एव दर्शयन् केवलं विक्रीडितत्वम् एव साधयति—स्थिति- इति द्वन्द्वैक्यं, स्थित्य्-आदेर् यथोत्तरं प्रस्तावापेक्षया श्रैष्ठ्यम् ऊह्यम् । ततश् च किं वक्तव्यं ? स्थितिम् उद्भवं वा अन्तं संहारम् अपीत्य् अर्थः । अत एव स्थितेर् आदौ निर्देशः । भुवन-त्रयस्य इति श्री-ब्रह्मणः प्रतिदिनम् एव त्रिलोक्यास् तत्-तद्-आचरणात् । य इति जगदीशतया द्वयोर् ऐक्याभिप्रायेण । किं वा, प्राधान्याच् छ्री-कृष्णोद्देशेनैव सम्यक् तत्-तन्-निष्ठया ईहते करोति, यतोऽनन्ता गुणाः सार्वज्ञ्य-चातुर्यादयो यस्य सः, तच् च स्वकीयया लीलयैव, न च तत्-तत्-साधन-प्रयासादिना, स्व-शब्देन तत्र परम-स्वाच्छन्द्यम् उक्तम्, परस्य यदु-कुल-शत्रोर् जरासन्धस्य, पक्षः सहायस् तत्-सैन्यं, तस्य निग्रहो वध इत्य् एतच् चित्रम् अद्भुतं न भवति । मर्त्यानुविधस्य इति तादृशालौकिक-कर्मण्य् अपि मनुष्य-लीलानुसारात् । एवं सर्वतो विलक्षणा पूर्ववल् लीला माधुरी दर्शिता ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, यदि जगदीशता, तर्हि कथं क्षुद्रातिक्षुद्रैर् नीचैर् युद्धे रसः सिध्यति ? न चेत् तर्हि तद्-वर्णनया च किं ? तत्राह—स्थिति- इति । स्थितौ तस्य साक्षाल्-लीलात्वात् तस्याः प्रथमोक्तिः । य इति द्वयोर् ऐक्याभिप्रायेन
ननु, कथम् एकोऽनन्तानां स्थित्य्-आदि कुरुते ? तत्राह—अनन्ता गुणाः सार्वज्ञ्य-चातुर्यादयो यस्य सः । तच् च स्वकीयया लीलयैव, न च तत्-साधन-प्रयासादिना । स्व-शब्देन तत्र परं स्वाच्छन्द्यम् उक्तम् । चित्रम् आश्चर्य-हेतुर् इत्य् अर्थः । हेतुम् इति हेतुत्वोपचारान् न लिङ्ग-त्यागः । एवं पूर्व-पक्षम् अनूद्य सिद्धान्तम् आह—मर्तानुविधस्य इति । यस् तादृशालौकिक-कर्माण्य् अपि मनुष्य-लीलयैव करोति, न त्व् ऐश्वर्याविष्कारादिना तस्येत्य् अर्थः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्थित्य्-उद्भवः ॥३०॥ मर्त्यान् अनुविधत्तेऽनुकरोति मर्त्य-लीलोचिताम् एव शक्तिं व्यञ्जयति नाधिकां, तथापि तन्-निग्रहादिकं करोत्य् एव यत् तस्येत्य् अर्थः ॥ [लोचन-रोचनी ४.८.२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, जगदीशता चेत् तर्हि कथं क्षुद्रातिक्षुद्रैः स्वाननुरूपैर् जीवैः सह युद्धे रसः सिध्यति ? न चेत् तर्हि तद् वर्णने किं ? तत्राह—स्थिति इति । तर्हि किम् अत्याश्चर्यम् इव वर्णितं ? तत्राह—तथापि इति । मर्त्यः सन्न् अनुरूपम् एव विधत्त इति मर्त्यानुविधस् तस्य ।
अयम् अर्थः—येन स्वाकारेण जगत्-सृष्ट्य्-आदिकं करोति, तेनैव यदि जरासन्धं जयति, तदा खल्व् अननुरूपत्वान् न रसः । यदि च मर्त्यः सन् जयति, तदा मर्त्यस्य प्रतियोद्धा मर्त्य एवानुरूपस् तत्रातिप्रौढस्य जरासन्धस्य जयाच् चमत्कार इति रस एव भवति । न च मर्त्य-देहस्य अस्वरूपत्वम् इति वाच्यं—परमात्मा नराकृतिः [भा।पु। ९.२३.२०], नराकृति परं ब्रह्म [वि।पु। ४.११.४], हरिः कारण-मानुषः [भा।पु। १०.५०.६], यन्-मित्रं परमानन्दं पूर्णं ब्रह्म [भा।पु। १०.१४.३२] इत्य्-आदि-श्रवणात्, अहं परं धाम9 इति गीतोक्तेश् च ॥३०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३१ ॥
जग्राह विरथं रामो जरासन्धं महा-बलम् ।
हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, जग्राह इति । हतान्य् अनीकानि यस्य अवशिष्टा असव एव यस्य, तं च तं च ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अद्भुतम् आह—किं च इति । ओजसा बलेन । सिंहः सिंहम् इति मर्त्यानुविधतया साम्याभिप्रायात् । महा-बलम् इति क्वचित् पाठः । तत्र महा-बलत्वम् अपि मर्त्यानुविधापेक्षयैव न तु ऐश्वर्यापेक्षया ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रस्तुतम् आह—जग्राह इति । विरथं सन्तम्, तद्-विस्तारस् तु श्री-हरिवंशाज् ज्ञेयः । ओजसा वेगेनेत्य् अर्थः । यत् महा-बलः किं च, हत इति तस्य मानुस-शरीर-शक्त्योर् हानेः, गदा-युद्धादौ लोक-दृष्ट्या द्वयोः साम्ये\ऽप्य् एकस्य बल-हान्योऽन्यं च बलातिरेकेण ग्रहणे दृष्टान्तः—सिंहः सिंहम् इव इति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतोऽन्यच् च तादृशं तच्-चरितं शृण्व् इत्य् आह—जग्राह इति । ओजसा वेगेनेत्य् अर्थः । सिंहः सिंहम् इवेति मर्त्यानुविधतया साम्याभिप्रायात् । अतो महा-बलत्वाम् अपि तद्-अपेक्षयैव न त्व् ऐश्वर्यापेक्षया महा-बलम् इति क्वचित् पाठः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३२ ॥
बध्यमानं हतारातिं पाशैर् वारुण-मानुषैः ।
वारयामास गोविन्दस् तेन कार्य-चिकीर्षया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हता बहुशोऽरातयो येन तथा-भूतम् अपि जरासन्धं बध्यमानं वारयामासेति ॥३२.३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वारुणैर् नागादि-रूपैः, मानुषै रज्वादिभिः । वारयामास मोचयामास । तेन जरासन्धेन । कार्यस्य पुनस् तदानीन्तन-सेना-वधस्य चिकीर्षया । मानुषीयैस् त्वत्यन्तापमानार्थम् । गोविन्द इति पूर्ववत् । अत एव तेन जरासन्धेन यत्-कार्यं हननार्थं भू-भार-सैन्य-सम्मेलनं तस्य कर्तुम् इच्छया । महाराजोऽयं संबन्धी च ततोऽधुना कृतापराधोऽपि त्यज्येतेति रामस् तम् अत्रायतेत्य् अर्थः । अत्र प्रकरण-प्राप्तस्य बन्धनस्य भीत्रार्थानां भय-हेतुः इत्य् अनेनापादानत्वम्, गोभ्यो यवान्वारयतीतिवत् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वारुणैर् मानुषैश् च दिव्यैर् लोकिकैश् चेत्य् अर्थः । दृढ-बन्धनार्थं लोकेऽपमानार्थं च । यद् वा, वारुणवन् मानुषैर् इति तेषां महा-दार्ढ्यादिकम् उक्तम् । गोविन्द इत्य् अस्याभिप्रायः पूर्ववत् । अत एव तेन जरासन्धेन कृत्वा कार्यस्य भू-भार-हरण-प्रयोजनस्य चिकीर्षया इतस् ततस् तेनानीय तस्य स्वतो बहुतरसैन्यस्यैकत्रैवानायासेन वध-सिद्धेः । वारयामास तद्-बन्धनं न्यषेधद् इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मानुषीयैस् त्वत्य् अन्तापमानार्थम् । गोविन्द इति पूर्ववत् । अत एव तेन जरासन्धेन कृत्वा यत् कार्यं हननार्थं भू-भार-सैन्यसम्मेलनं तस्य चिकीर्षया वारयामास महाराजोऽयं सम्बन्धी च ततोऽधुना कृतापराधोऽपि त्यज्यतेति रामस् तम् अत्रातेत्य् अर्थः । प्रकरण-प्राप्तस्य भीतार्थानां भय-हेतुर् इत्य् अनेनापादानत्वं गोभ्यो यवान् वारयतीतिवत् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३३ ॥
स मुक्तो लोक-नाथाभ्यां व्रीडितो वीर-सम्मतः ।
तपसे कृत-सङ्कल्पो वारितः पथि राजभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुक्तो विसृष्टः । वारितो निवारितः । स मुक्त इति युग्मकम् । लोक-नाथाभ्याम् इति पूर्वोक्तरीत्या लोक-हितार्थर्थम् एवेति भावः । अथ च महाशयत्वाज् झटिति तद्धनने त्वनाग्रहश् च दर्शितः । ततो वीर-सम्मतोऽतो बन्धे ततोऽपि मोचने व्रीडितः । अत एव तपस उद्यतः, कथं यादव-बलाद् अपि पराजयो मम जातस् तत इतः क्षात्र-धर्मं न करिष्यामि किन्तु तपसैव शरीरं त्यक्ष्यामीति बहिर् अभिमानज्ञापनायान्तस् तु वीर्यातिशबलाभायेति ज्ञेयम् । पथि वनवर्त्मनि तपोऽर्थम् आश्रिते ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोक-नाथाभ्याम् इति सर्व-लोक-नाथत्वेन तस्यापि हितार्थम् इति भावः । पुनः पुनः श्री-भगवद् दर्शनादि-सिद्धेः, मुक्तो बन्धनात् ग्रहणाद् वा, मुक्तत्वाद् एव व्रीडितः, यतो वीराणां सम्मतो वीर श्रेष्ठ इत्य् अर्थः । वीराणां युद्धे ग्रहणादेर् अतिनिद्यत्वात् । अत एव तपसे यदुकुलजयार्थे वानप्रस्थ-दर्मानुष्ठानाय । पथीति निज-देश-गमन-मार्गे । किं वा, , युद्ध-स्थानाद् एव तस्यात् सद्यो वनं गच्छतो वर्त्मनि ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स मुक्तो इति युग्मकम् । लोक-नाथाभ्याम् इति पूर्वोक्तरीत्या लोक-हितार्थम् एवेति भावः । अथ च महाशयत्वात् झटिति तद्धननेत्वनाग्रहश् च दर्शितः । यतो वीराणां सम्मतः अतो बन्धे ततोऽपि मोचने ब्रीडितः । अत एव तपस उद्यतः । कथं यादव-बलाद् अपि मम पराजयः तत इतः क्षात्र-धर्मं न करिष्यामि तपसैव शरीरं त्यक्ष्यमीति बहिर् अभिमान-ज्ञापनाय । अन्तस् तु वीर्यातिशयम् अलाभायेति ज्ञेयम् । पथि वनवर्त्मनि तपोऽर्थम् आश्रिते ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लज्जितत्वे हेतुः वीर-सम्मत इति ॥३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३४ ॥
वाक्यैः पवित्रार्थ-पदैर् नयनैः प्राकृतैर् अपि ।
स्व-कर्म-बन्ध-प्राप्तो \ऽयं यदुभिस् ते पराभवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पवित्रार्थानि धर्मोपदेशपराणि पदानि येषु तैर् वाक्यैः । नयनैर् नीतिभिः । प्राकृतैर् लोकिकैः । तत्र लौकिक-न्यायम् आहुः । स्वकर्मेति । यदुभिर् अल्पकैः कृत्वा ते महतः पराभवः केवलं कर्मबन्धेन प्राप्तोऽतस् त्वया न लज्जितव्यम् इति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र नाथेषु । पवित्रार्थ-पदैः क्षत्रियस्य वार्धक्य एव सति वैराग्ये तपः, युद्धादिको मुख्यो धर्मः लज्जया तत्-त्यागोऽन्ऽउचित इत्य्-आदि लक्षणैः । तवैतत्परामवदुःखं ललाटे लिखितम् एव तत्-कथम् अन्यथा भवति अवश्यम् एव भोक्तव्यम् इति स्मृतेः । अतः स्वकर्मभिर् एवैतत्परामवस् तया च प्रारब्धार्धानत्वात् तत्र का लज्जा, कः खलु बुद्धिमानतिक्षुद्राद्यादवाद् अपि दुर्बलं मस्यते । यादवेन युद्धे तव जये सति किम् अपि यशः, पराजये\ऽपि न काचिल्-लज्जा, जरासन्ध-सिंहो हि कृष्ण-सारं जित्वापि न कम् अप्य् उत्कर्षम् अजित्वापि न काम् अपि निन्दां प्राप्नोतीति वयं जानीमः । समपक्षेणापि सह युद्धे जय-पराजयाभ्यां क्सात्रियैर् न गर्वदैत्ये धार्ये, किमुत स्वतोऽतिन्युनेनेति शास्त्र्दम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पवित्रार्थ-पदैः क्षत्रियस्य वार्धक्य एव वैराग्ये सति तपो-युद्धादिकम् एव मुख्यो धर्मः । लज्जया तत्-त्यागोऽनुचित इत्य्-आदि-लक्षणैः, युद्धे कदाचिज् जयः, कदाचित् पराजयोऽपि, ते निर्वेदः क्षत्रियस्यायोग्य इत्य्-आदि-लक्षणैर् नयनैश् च, च एवार्थे, स्वकर्मबन्धत एव प्राप्तः, न तु वीर्यादि-ह्रासात् । अयम् इति पाठे अन्योन्यभावीति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, तत्र परित्रार्थं युद्धे वीरस्य मरणम् अपि श्रेयः, न तु तत्राशक्त्यादिना तप इत्य्-आदि-लक्षणैः । अन्यत् समानम् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पवित्रार्थ-पदैः क्षत्रियस्य बार्धक्य एव वैराग्ये सति तपः युद्धादिकम् एव मुख्यो धर्मः लज्जया तत्-त्यागोऽनुचित इत्य्-आदि-लक्षणैः युद्धे कदाचित् जय कदाचित् पराजयोऽपि तेन निर्वेदः क्सात्रियस्यायोग्य इत्य्-आदि-लक्षणैर् नयनैश् च । च एवार्थे स्व-कर्म-बन्धत एव प्राप्तः न-तु वीर्याद्य् अभावतः अयम् इति पाठेऽन्यो न भावीति भावः । अन्यैत् तैः ।
यद् वा, तत्र पवित्रार्थ-पदान्याह—सेति । अवश्यम् एव भोक्तव्यं कृतं कर्म इत्य्-आदि । शास्त्रीय-न्यायानुगृहीतत्वात् पवित्रार्थपदत्वं प्राकृतैर् इति युद्धे वीरस्य मरणम् अपि श्रेयः न तु तत्राशक्त्यादिना तप इत्य्-आदि-लक्षणैः अन्यत् समम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पवित्राणि तत्त्वोपदेशपराणि अर्था पदानि च येषु तैः । नयनैः नीतिभिः प्राकृतैर् लौकिकैः तत्र तत्त्वोपदेशम् आहुः—स्वकर्मेति । तवैतत् पराभव-दुःखं ललाटे लिखितम् एव तत् कथम् अन्यथा भवति अवश्यम् एव भोक्तव्यं कृतं कर्मं इति स्मृतेः एतद्-व्यङ्ग्यनार्थेन नीतिश्चाहुः स चार्थो यथा यद्य् एष पराभवस्ते प्रारब्ध-कर्माधीन् एव तर्हि का लज्जा कः खलु बुद्धिमानतिक्षुद्रात् यादवाद् अपि त्वां दुर्बलं मंस्यते यादवेन सह युद्धे तव जये सति न किम् अपि यशः पराजयेऽपि न काचिल्-लज्जा जरासन्ध-सिंहो हि कृष्णसारं जित्वापि न कम् अप्य् उत्कर्षम् अजित्वापि न काम् अपि निन्दां प्राप्नोतीति वयं जानीमः समकक्षेणापि सह युद्धे जय-पराजयाभ्यां क्षत्रियैः न गर्मदैन्ये धार्ये किमुत स्वतोऽतिन्यूनेनेति शास्त्रम् इति ॥३४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३५ ॥
हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा ।
उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बार्हद्रथो जरासन्धं ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नृपो बार्हद्रथस् तदा इत्य् एवापाठः सम्यक् । तीर्थस् तु—नृपतिर् वारहद्रथः इति पपाठ, तत्रार्षत्वाश्रयणमृते निर्वाहो नास्ति । हतेष्व् इति त्रिकम् । बृहद्रथः राज-चक्रवर्त्ययं तद् अपत्यम् इति तन्-नाम-विख्यापक इत्य् अर्थः । अत एव साभिमानत्वाद् उपेक्षितोऽपि दुर्मना दुःखित-चिन्त्तः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृपेति सम्राट् तथा बृहद्रथस्य महावीरस्य पुत्रः, अत एव दुर्मना दुःखित-चित्तः, पुनः श्री-भगवता सह युद्धेच्छानपगमात् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हतेष्व् इति त्रिकम् । नृपेति बार्हद्रथः राज-चक्रवर्त्ययं तद् अपत्यम् इति तन्-नाम-विख्यापक इत्य् अर्थः । अत एव साभिमानत्वाद् उपेक्षितोऽपि दुर्मनाः दुःखित-चित्तः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बार्हद्रर्थापि बृहद्रथोऽपि बृहद्रथ-पुत्र जरासन्धः ॥३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३६ ॥
मुकुन्दो \ऽप्य् अक्षत-बलो निस्तीर्णारि-बलार्णवः ।
विकीर्यमाणः कुसुमैस् त्रिदशैर् अनुमोदितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्दोऽपि ययावित्य् अनुषङ्गः । न क्षतं बलं यस्य सः । तस्यैवामृतदृष्ट्या क्सात-प्रतिसन्धानाद् इति भावः । निस्तीर्णोऽनासेनैव तीर्णोखिलार्णवो येन । साधु-साधु इत्य् अनुमोदितश् अ ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपिना पूर्व-क्रिया गृह्यते । तस्यैव मुकुन्दस्यैव । क्षत-प्रतिसन्धानं विक्सातीभवनम् । इति भावः—दृष्ट्या मृतिनाशकस्य विक्ष तीजरणं नाद्भुतम् इत्य् आशयः । अखिलार्णवः शत्र-सेनासमुद्रः । मुकुन्द इति जरासन्ध-मोचनाभिप्रायेन । निर्स्तीर्णेति मर्त्यानुविधत्वात् । मुकुन्दोऽपि मथुरां ययाव् इति । अनुमोदितः जय-जयेत्य् आदि शब्दैर् वर्धितः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुकुन्दः परमानन्दप्रदो भगवान् इति भावः । अत एव न विद्यते क्सातम् अपि तदीयामृत-दृष्ट्या यस्मिन् तथा-भूतं बलं यादव-सैन्यं यस्य सः । अत-एवोक्तं श्री-हरि-वंशे—
जित्वा तु मागधं सङ्ख्ये जरासन्धं महीपति ।
विहरन्ति स्म सुखिनो वृष्णि-सिंहा महा-रथाः ॥ [ह।वं। २.३६.४०] इति ।
कुसुमैः कृत्वा विकीर्यमाणो व्याप्यमान इत्य् अर्थः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुकुन्द इति जरासन्ध-मोचनाभिप्रायेण निस्तीर्णेति मर्त्यानुविधत्वात् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुकुन्दोऽपि ययाव् इत्य् अनुषङ्गः ॥३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३७ ॥
माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः ।
उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्युतैर् मथुरावा सिभिर् जने उपसङ्गम्य मिलित्वा ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्युद्यातैर् आनयनार्थं सम्मुखम् आगतेः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : माथुरैः सूतादिभिः, उप अधिकं गीयमान-विजयः । किं वा, माथुरैर् यादवैः, कथम्भूतैः ? अभित आभिमुख्ये वा सङ्गम्यः श्री-भगवतासह मिलित्वा, विज्वरैः—विगतो ज्वरः श्री-भगवद् अदर्शनादिना ताओ येषां तैः । न च केवलं विज्वरत्वम्, प्रहर्षश् च जात इत्य् आह—मुदित आत्मा मनो देहो वा येषां तैः, उभयेषां वा विशेषणद्वयम् इदम् ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुमुन्दोऽपि माथुरैः । सहाभिमुख्येन सङ्गम्य ययाव् इति पूर्वेणैवान्ययः । मधुपुरीम् इति शेषः । तादृश-वर्णित-प्रावीण्यात् परास्त्रादिभिर् न क्सातम् एव बलं यस्य सः जय-जयेत्य् आद्य् अनुमोदितः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३८ ॥
शङ्ख-दुन्दुभयो नेदुर् भेरी-तूर्याण्य् अनेकशः ।
वीणा-वेणु-मृदङ्गानि पुरं प्रविशति प्रभौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा प्रभौ पुरं प्रविशति सति शङ्खादयो नेदुः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रभौ सर्वेशरे श्री-कृष्णे । शङ्खेति युग्मकम् । अनेकश इत्य् अस्य सर्वेरेवान्वयः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नेदुः स्वयम् एवावाद्यन्त, अनेकः इत्य् अस्य सर्वैर् अप्य् अन्वयः । प्रभौ जगदीश्वरे श्री-मथुरा-नाथे वा ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शङ्खेति युग्मकम् । अनेकश इत्य् अस्य सर्वैर् अप्य् अन्वयः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.३९ ॥
सिक्त-मार्गां हृष्ट-जनां पताकाभिर् अभिलङ्कृताम् ।
निर्घुष्टां ब्रह्म-घोषेण कौतुकाबद्ध-तोरणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम्भूतां पुरं तद् आह । सिक्त-मार्गम् इति । ब्रह्म-घोषेण वेद-घोषेण निर्घुष्टां निनादिताम् । कौतुकेनोत्सवेन आ सर्वता बद्धानि तोरणानि यस्यां ताम् ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रोरणानि वन्दन-मालाः । हृष्टेति दिव्यस्त्रादिधारणं सूचयति । कौतुकेनेति तृतीयालुक्छान्दसः । अतः सर्वत्रान्वेति ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अयं महोत्सवेन स्वयं नदने हेतुः—हृष्टा जना विप्रादयः सर्व-लोका यस्याम् इति ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृष्टेति । दिव्य-वस्त्रादि-धारणं च सूचयति—कौतुकेनेत्थर्थः । तृतीयालुक् छान्दसः अतः सवत्रापि योज्यम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरं विशिनष्टि—सिक्त-मार्गाम् इत्य्-आदिना ॥३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४० ॥
निचीयमानो नारीभिर् माल्य-दध्य्-अक्षताङ्कुरैः ।
निरीक्ष्यमाणः स-स्नेहं प्रीत्य्-उत्कलित-लोचनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निचीयमानो विकीर्यमाणः । प्रविवेशेति विपरिणतानुषङ्गः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्कुरैर् दुर्वाङ्कुरैः । विपरिणतस्य शत्रन्तविशेर् लिडन्तत्वेन विपरिणतस्य । अनुषङ्गः पृष्ठ-पाठत आनयनम् । उत्कलितानि प्रफुल्लानि । कीदृशः सन् प्रविवेश तत्राह—निचीयेति । प्रीत्या हर्षैणोत्कलितैर् विकसितैर् लोचनैः कृत्वा । अत्र विपरिणतानुपङ्ग इति पुरं प्रविशति प्रभौ इति पूर्वोक्त-शतृ-प्रत्ययस्य सप्तम्याश् च लिट्-त्वप्रथमत्वेन विपरिणामात्
यद् वा, निचीयमान इति परेण युग्मकम् ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पौराणां दिव्य-वस्त्रालङ्कार-परिधानादिकं सूचयति । प्रीत्या हर्षेणोत्कलितैर् उत्फुल्लोचनैः कृत्वा ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कीदृशः सन् प्रविवेश ? तत्राह—निचोयेति । प्रीत्या हर्षेण उत्कलितैर् विकसितैर् लोचनैः कृत्वा अत्र टीकायां विपरिणतानुषङ्ग इति पुरं प्रविशति प्रभाव् इति पूर्वोक्त-शतृ-प्रत्ययस्य सप्तम्याश् च विपरिणामात् । यद् वा, नीचीयमानः इति परेण युग्मकम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निचीयमानः विकीर्यमाणः प्रभुः प्राविशद् इति विपरिणतानुषङ्ग इति श्री-स्वामिचरणाः । यद् वा, प्रादिशद् इति परेणान्वयः ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४१ ॥
आयोधन-गतं वित्तम् अनन्तं वीर-भूषणम् ।
यदु-राजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयोधनं रण-भूमिस् तत्रस्थं वित्तम् । वीराणां भूषणम् ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदु-राजायोग्रसेनाय । वीराणां भूषणं गात्रालङ्करणम्, वेषाम् अति-बहुलतयानन्तं मूल्येनाप्य् अनिरूप्यम् इत्य् अर्थः । आहृतं जनैर् आनायितम् । यदुराजाय स्वयम् एव तथात्वेन स्थापितायोग्रसेनाय । प्रकर्षेण राज-योग्याद् अरपूर्वकम् अदिशद् उपहृतवान् । यतः प्रभुः स्वयं तद् वैभवान् अपेक्षः, स्वमर्यादा-पालन-परश्चेत्य् अर्थः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीर-भूषणम् इति वित्तेनैव राज्ञां शोभा-सिद्धेः । यद् वा, वीराणां भूषणं च गात्रालङ्कारम्, जातावेकत्वम्, आहृतं जनैर् आनीतं सत्, यदु-राजाय उग्रसेनाय तद् अर्थं तस्मिन् समर्पयितुं प्रकर्षेणानन्यस्वामित्वादिना आदिशत्, यतः प्रभुस् तस्यापीश्वरः, तद् इति तेन तस्यैव तत्-सिद्धोर् इति भावः । यद् वा, स्वप्रतिज्ञा-पालन-समर्थः, अन्यथा मयि भृत्य उपासीने इत्य्-आदि-स्वोक्त-व्यभिचारः स्याद् इति ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीराणां भूषणं गात्रालङ्करणम् अत एवानन्तं तेषाम् अति-बाहुल्याद्-गणनया महासम्पन्नत्वान् मूल्येन चानिरूप्यम् इत्य् अर्थः । आहृतं जनैर् आनायितं यदुराजाय स्वयम् एव तथा स्थापितायोग्रसेनायैव प्रकर्षेण राज-योग्यादरपूर्वकम् अदिशत् उपहृतवान् यतः प्रभुः स्वयं तद् वैभवान् अपेक्षः स्वमर्यादा-पालन-परश्चेत्य् अर्थः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आयोधनं युद्ध-भूमिस् तत्र पतितं वीराणां भूषणं गात्रलयम् ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४२ ॥
एवं सप्तदश-कृत्वस् तावत्य् अक्षौहिणी-बलः ।
युयुधे मागधो राजा यदुभिः कृष्ण-पालितैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तावतीति च्छेदः । तावति पराजये वर्तमाने\ऽप्य् अक्षौहिण्यो बलं यस्य सः । सप्तदशकृत्वः सप्त-दशवारान्युयुधे ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् इत्य् अनेन प्रतिवारं पूर्ववत् त्रयोविंशत्य् अक्षौहिण्यो ज्ञेयाः । अन्यत् तैर् व्याख्यातम् । यद् वा, तावतीत्य् अत्र पुम्वद्-भावाभाव आर्षः, केचिद् वैयाकरणा अत्र पुम्वद् भावो न स्याद् इत्य् आहुः, तावत्यस्रयोविंशति सङ्ख्या अक्षौहिण्यो बलं सैन्यं ताभिर् वा युद्ध-सामर्थ्यं यस्य सः । कृष्णेन साक्षाद्-भगवता पालितैर् इति पूर्ववद् अक्षतत्वादिकं बोधयति ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इत्य् अनेन प्रतिवारं त्रयोविंशत्य् अक्षौहिण्यो ज्ञेयाः तादृशं युद्धादिकं वन-गमनोद्यमश् च अन्यत् तैः । यद् वा, तावतीत्य् अत्र पुम्वद्-भावाभाव आर्षः । तावत्यः त्रयोविंशति-सङ्ख्याः अक्षौहिण्यो बलं सैन्यं ताभिर् वा युद्ध-सामर्थ्यं यस्य सः कृष्ण-पालितैर् इति पूर्ववद् अक्षतत्वादिकं बोध्यते ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावत्य त्रयोविंशति-सङ्ख्या अक्षौहिण्यो बलं सैन्यं यस्य सः पुम्वद्-भावाभाव आर्षः ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४३ ॥
अक्षिण्वंस् तद्-बलं सर्वं वृष्णयः कृष्ण-तेजसा ।
हतेषु स्वेष्व् अनीकेषु त्यक्तो \ऽगाद् अरिभिर् नृपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अक्षिण्वनुक्षयं निन्युः ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-बलं जरासन्ध-बलम् । अनीकेषु अरिभिः कृष्णादिभिः । वृष्णय एव न तु पूर्ववत् कृष्न-रामौ, तत्र सात्यक्यादीनां प्राधान्यं क्रमशो ज्ञेयम् । कृष्ण-तेजसा वहिना ज्वालानाम् इव श्री-कृष्णेन समवाय एव तेषां तेजो व्यवर्द्वतेत्य् अभिप्रायेण, न तु तद् अभावापेक्षया नृलोके चाप्रति-द्वन्दो वृष्णीञ्छुत्वात्म-सम्मितान् इति वक्ष्यमाणात् । अत एवारिभिर् वृष्णिभिर् ऐव त्यक्तः श्री-कृष्णाभिप्रायेणेति भावः । यद् वा, रिभिर् हतेषु पूर्ववच् छ्री-भगवता त्यक्तः सन् ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वृष्णय एव, न तु पूर्ववत् श्री-कृष्णो रामो वा, अत एव परिभिर् वृष्णिभिर् एव त्यक्तः । किं वा, अरिभिर् हतेषु पूर्ववत् श्री-भगवता त्यक्तः सन् ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वृष्णय एव न-तु पूर्ववत् श्री-कृष्णः श्री-रामो वा न-तु तत्र च सात्त्विक्यादीनां प्राधान्यं क्रमशो ज्ञेयं कृष्ण-तेजति बह्निना ज्वालानाम् इव श्री-कृष्णेन समवाय एव तेषां तेषां तेजो वर्धत इत्य् अभिप्रागेणैव न-तु तद् अभावापेक्षया नृलोके चाप्रतिदन्द्वो वृष्णीन् श्रुत्वात्मसम्मितान् इति वक्ष्यमाणात् अत एवारिमिर्बृष्णिभिर् एव त्यक्तः श्री-कृष्णाभिप्रायेणेति भावः । किं वा, अरिभिर् हतेषु पूर्ववत् । श्री-भगवता त्यक्तः सन् ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्षिण्वन् क्षयं निन्युः ॥४३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४४ ॥
अष्टादशम-सङ्ग्राम आगामिनि तद्-अन्तरा ।
नारद-प्रेषितो वीरो यवनः प्रत्यदृश्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अष्टादशमेऽष्टादशे सङ्ग्रामे भाव्ये तन्मधेऽकस्मात्कालयवनः प्राप्तः ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मडत्रार्षः । प्रत्यदृश्यत सहसैव माथुराणां दृष्टि-विषयो बभूवातिशीघ्रं प्राप्त इत्य् अर्थः । नारदेन प्रेरितोऽत्र विशेषो विष्णु-पुराणे—
गार्ग्यं गोष्ठे द्विजं श्यालः पण्ढ इत्य् उक्तवान् द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवा स् ततः ॥
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
सुतम् इच्छेस्तपस् तेपे यदुचक्रमयावहम् ॥
आराध-यन्-महादेवं सोयश्चूर्णम् अभक्षयत् ।
ददौ वरं च तुष्टोऽसौ वर्षे द्वादशमे हरः ॥
सभाजयामास च तं यवनेशोप्य् अनात्मजः ।
तद्योषित्-सङ्गमाच्चास्य पुत्रोऽभूद् अलिसम्प्रभः ॥
तं काल-यवनं नाम राष्ट्रे स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्र-कठिनोरसम् ॥
स च वीर्य-बलोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥इति।
प्रेषितः इति पाठेऽपि स एवार्थः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रत्यदृश्यत सहसैवाभिमुखे ददृशे वृष्णिभिः । यद् वा, स्वयम् एव प्रत्यक्षोऽभूद् इत्य् अर्थः, नारदेन प्रेरित इत्य् आदौ विशेषः श्री-विष्णु-पुराणे—
गार्ग्यं गोष्ठे द्विजं श्यालः पण्ढ इत्य् उक्तवान् द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवा स् ततः ॥
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
सुतम् इच्छेस्तपस् तेपे यदुचक्रमयावहम् ॥
आराध-यन्-महादेवं सोयश्चूर्णम् अभक्षयत् ।
ददौ वरं च तुष्टोऽसौ वर्षे द्वादशमे हरः ॥
सभाजयामास च तं यवनेशोप्य् अनात्मजः ।
तद्योषित्-सङ्गमाच्चास्य पुत्रोऽभूद् अलिसम्प्रभः ॥
तं काल-यवनं नाम राष्ट्रे स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्र-कठिनोरसम् ॥
स च वीर्य-बलोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश् चास्मै कथयामास यादवान् ॥ [वि।पु। ५.२३.१-६] इति ।
अप्रतिद्वन्द्वः प्रतियोध-रहितः स्वतुल्य-हीनः, श्रुत्वा श्री-नारअदाद् एव ॥४४.४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रत्यदृश्यत सहसैवाभिमुख्येन माथुराणां दृष्टि-विषयो बभूव अतिशीघ्रं प्राप्त इत्य् अर्थः । नारदेन प्रेरित इत्य् आदौ विशेषः श्री-विष्णु-पुराणे—
गार्ग्यं गोष्ठे द्विजं श्यालः पण्ढ इत्य् उक्तवान् द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवा स् ततः ॥
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
सुतम् इच्छेस्तपस् तेपे यदुचक्रमयावहम् ॥
आराध-यन्-महादेवं सोयश्चूर्णम् अभक्षयत् ।
ददौ वरं च तुष्टोऽसौ वर्षे द्वादशमे हरः ॥
सभाजयामास च तं यवनेशोप्य् अनात्मजः ।
तद्योषित्-सङ्गमाच्चास्य पुत्रोऽभूद् अलिसम्प्रभः ॥
तं काल-यवनं नाम राष्ट्रे स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्र-कठिनोरसम् ॥
स च वीर्य-बलोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश् चास्मै कथयामास यादवान् ॥ [वि।पु। ५.२३.१-६] इति ।
प्रेषित इति पाठः क्वचित् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारद-प्रेरित इति विष्णु-पुराणे कथ । यथा, कदाचिद्-गार्ग्यः स्वश्यालेन षण्ड इति परि-हसितः श्रुत्वा यदवो बहु जहसुः ततस् तेषां हास्येन बहु कुपितो गार्ग्यो दक्षिणा-पथं गत्वा यादव-भयङ्करो मे पुत्रो भवत्व् इति सङ्कल्प्य अयश्चूर्णाम् भुञ्जानो महादेवम् आराध्य द्वादश-वर्षान्ते तस्मात् स्वाभीष्टं वरं प्राप्य हृष्यन् स्वगृहम् आगच्छन्नपुत्रकेण यवनेश्वरेण पुत्रार्थं स वृतस् तद्-भार्यायां कालयवनं पुत्रं जनयामास स च कालयवनः महाबलोन्मत्तः पृथिव्यामिदानीं के बलिनो नृपा इति नारदं पप्रच्छ स-च यदून् प्राह एवं नारद-प्रेषितो मथुरायां दृष्टो बभूव ॥४४.४५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४५ ॥
रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छ-कोटिभिः ।
नृ-लोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्म-सम्मितान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-सम्मितान् स्व-तुल्यान् ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न प्रतिद्वन्दः प्रतियोद्धा यस्य सतथा । अप्रतिद्वन्द्वः प्रतियोध-रहितः । श्रुत्वा श्री-नारदाद् एव ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अप्रतिद्वन्द्वः प्रतियोध-रहितः श्रुत्वा श्री-नारदाद् एव ॥४५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४६ ॥
तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण-सहायवान् ।
अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वृजिनं दुःखम् । उभयतो यवनाज्-जरासन्धाच् च ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं पवनम् । सङ्कर्षण-सहायवान् इति मथुरातो दूर-गमने तस्य सम्प्रति ग्रहणार्थ तेन सहेत्य् अर्थः । मत्यानुविधत्वाद् एवेति भावः । अत एवाह—अहो इत्य्-आदि । अहो खेदे । हि निश्चितम् ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-मथुरातो दुर-गमने तस्य सम्मति-ग्रहणार्थं तेन सहेत्य् अर्थः । अहो खेदे, हि निश्चितम् ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षण-सहायवान् इति मथुरातो दूर-गमने तस्य सम्मति-ग्रहणार्थं तेन सहेत्य् अर्थः । मर्त्यानुविधत्वाद् एवेति भावः । अत एवाह—अहो इत्य्-आदि अहो खेदे हि निश्चितम् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णो यादव-स्नेहाविष्टत्वाद् अचिन्तयत् उभयतो यवनात् जरासन्धाच् च ॥४६.४७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४७ ॥
यवनो \ऽयं निरुन्धे \ऽस्मान् अद्य तावन् महा-बलः ।
मागधो \ऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह द्वयेन । निरुन्धे निरुणद्धि ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् वृजिनम् । तावद् अधुना । श्व आगामि-दिने । परश्वस् ततः पर-दिने । नितरां रुन्धे आवृणोति । यतो महा-बलोऽतोऽपसर्तुम् अपि न शक्यत इति भाव ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितरां रुन्धे आवृणोति, वर्तमानया नित्यं निरोधस्याविच्छेदो दार्ढ्यं च बोध्यते, यतो महा-बलः अत इतोऽपसर्तुम् अपि न शक्यत इति भावः । सर्वज्ञस्यापि अद्य वेत्य् आदि-विकल्पोक्तिरियं कथनरीति-स्वभावात् ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नितरां रुन्धे आवृणोति यतो महा-बलः अत इत्य् अतोऽपसर्तुम् अपि न शक्यत भावः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४८ ॥
आवयोर् युध्यतोर् अस्य यद्य् आगन्ता जरा-सुतः ।
बन्धून् हनिष्यत्य् अथ वा नेष्यते स्व-पुरं बली ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य अनेन ॥४८.४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : छन्दसि बहुलम् इति तृतीयार्थे षष्ठी । तद् एवाह—अनेनेति । आवयोः सगणयोर् इति शेषः । बन्धून् अयोद्धृस् तत्रत्य-वृद्धबालादीन् इति भावः । व्रस्थ-गोपांश् च तेषाम् अवध्यत्वम् अनुसन्धाय नेष्यत इति ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बन्धुनाम् अबध्यत्वम् अनुसन्धाय स्वयम् एव पक्षान्तरम् आह—नेष्यत इति । यतो बली, एतच् च स्नेह-विशेषोदय-स्वभावात् । किं वा, न्यत्र तेषां नयनाय भयोत्पादनार्थम् ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवयोः सगणयोर् इति शेषः । बन्धून् अयोद्धृन् तत्रत्य् अवृद्ध-बालादीन् व्रज-स्थ-गोपांश् च तेषाम् अवध्यत्वम् अनुसन्धायाह्—नेष्यत इति ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्त्य अनेन ॥४८.४९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.४९ ॥
तस्माद् अद्य विधास्यामो दुर्गं द्विपद-दुर्गमम् ।
तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो जरासन्ध आयास्यति तस्माद् धेतोः । दुर्गमं मनुष्यागम्यम् । तत्र दुर्गे । समाधाय स्थापयित्वा । अद्यैव विधास्यामः, बहुत्वं श्री-रामस्य महत्त्वापेक्षम् । सम्यक् स्थिरतयाधाय स्थापयित्वा । घातयामह इति अन्य-कर्त्र्-अपेक्षया, रुद्र-वचन-पालनार्थम् । अत्र हरि-वंशे त्व् इयम् अपि भगवतो हेतूक्तिः—
इयं च माथुरी भूमिर् अत्यगम्या परस्य तु ।
वृद्धिश् चैव परास्माकं बलतो मित्रतस् तथा ॥
कुमार-कोट्यो याश्चेमाः पदातीनां गणाश् च ये ।
एषाम् अपीह वसतां सम्मर्दम् उपलक्षये ॥ [ह।वं। २.५६.५-६] इत्य्-आदि ।
अत्रेदं विमृशामः—यादवावासन्तः-पुर-योग्य-समुद्रान्तःस्थ-द्वादश-योजनात्मक-परागम्य-द्वारकातो मथुरा-भूमेर् विस्तीर्णत्वान्नायं केवल-यादवान् अधिकृत्य श्री-भगवतः परामर्शः, किन्तु निगूढोऽयम् अभिप्रायः—सम्प्रति यादव-जातिकतया तदादि-साहाय्येन लीलान्तरम् आरब्धाः स्मः । अतः श्री-गोपानां स्वस्मिन्न् एव निश्चितमज्जाति-भावानां नित्यम् एव वर्धमानैर् यादवैर् भाविनी सङ्कीर्णता नयुक्ता । दुष्टोपद्रवाशङ्का च तेषाम् अप्य् उपस्थिता स्यात् । श्री-मद् उद्धव-द्वारा मदीय-तत्रत्य-लीलास्फोरणेन विरह-दुःख-समाधान-प्रायं च कृतवान् अस्मि तेषाम् । अतो दुष्टान् प्रति तेष्वौदासीन्य-व्यञ्जनाय यादवानां गोपालकैर् अनैक्य-प्रदर्शनाय च मर्त्यानुविधस्य मम विदूर-गमनम् एव युक्तम् इति ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्यैव विधास्यामः बहुत्वं विनयेन श्री-रामाद्य् अपेक्षया सम्यक् स्थिरतया सुखम् आधाय स्थापयित्वा घातयामहे इत्य् अन्यकर्त्रपेक्षया रुद्र-धर-पालनार्थम् अत्र श्री-हरिवंशोत्वियम् अपि भगवतो हेतुक्तिः—
इयं च माथुरी भूमिर् अत्यगम्या परस्य तु ।
वृद्धिश् चैव परास्माकं बलतो मित्रतस् तथा ॥
कुमार-कोट्यो याश्चेमाः पदातीनां गणाश् च ये ।
एषाम् अपीह वसतां सम्मर्दम् उपलक्षये ॥ [ह।वं। २.५६.५-६]
इत्य्-आदि अत्रेदं विमृशामः यादवा-वासान्तःपुरीयोग्य-समुद्रान्तः स्थ द्वादश-योजनात्मक-परागम्य-द्वारकातो मथुरा-भूमेर् विस्त्र्णत्वान्नायं केवलयादबान् अधिकृत्य श्री-भगवतः परामर्शः किन्त्व् अयं निगूढोऽभिप्रायः सम्प्रति यादव-ज्ञातिकतया तदादिसाहाय्येन भू-भार-हरणाय लीलान्तरम् आरब्धाः स्मः अतः श्री-गोपानां स्वस्मिन्न् एव निश्चितम् अज्ज्ञाति-भावानां नित्यम् एव वर्धमानैर् यादवैर् भाविनी सङ्कीर्णता न युक्ता दुष्टोपद्रवाशङ्का च तेषाम् अप्य् उपस्थिता श्री-मद् उद्धव-द्वारा मदीय-तत्रत्य् अनित्य-लीलास्फोरणेन विरह-दुःख-समाधान प्रायं च तेषां कृतवान् अस्ति ततो दुष्टान् प्रति तेषु निजौदासीन्य् अञ्जनाय यादवानां गोपालकेन ये च मर्त्यानुविधस्य मम विदूर-दुर्गगमनम् एव युक्तम् इति ॥४९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५० ॥
इति सम्मन्त्र्य भगवान् दुर्गं द्वादश-योजनम् ।
अन्तः-समुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समुद्र-मध्ये दुर्गं तन्-मध्ये नगरम् । कृत्स्नाद्भुतं सर्वाश्चर्यमयम् । अचीकरत्कारयामास ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् ॥ [वै।तो।] समुद्रस्य्षन्तर् द्वादश-योजनं, बहिश् चाष्टदश-योजनम् अन्यत्र ज्ञेयम् । एवं त्रिंशद् योजनं श्री-द्वारकापुरख्यातम् । योजत्रञ्चोक्तम्—
अष्टभिर् यवमध्यैस् स्याद् अङ्गुलं द्वादशाङ्कुलम् ।
तालं त्रितालको हस्तो हस्तौ द्वौ किष्कुर् उच्यते ॥
किष्कु-द्वयं धनुर् ज्ञेयं धनुषो हि सहस्रकम् ।
क्रोशः क्रोशौ तु गव्यूतिर् गव्यूती द्वे तु योजनम् ॥ इति ।
अचीकरत् विश्वकर्मणा कारितवान् आविर्भावयामास ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्यैव विधास्यामः, बहुत्वं विनयेन श्री-रामाद्य् अपेक्षय सम्यक् स्थिरतया सुखमाधाय स्थापयित्वा घातयामहे, श्री-रुद्र-दत्त-वरपालनार्थम् अन्येन मारयिष्याम इत्य् अर्थः । अत्रेदं तत्त्वम्—श्री-मथुरेयं विंशति-योजन-मण्डला, तत्रापि श्री-गोपेन्द्र-महा-व्रज-श्री-वृन्दावनादिमयी, वयं च धन-परिवार-विभूतिभिर् महा-वृद्धिं नित्यं प्राप्नुमः । तथा श्री-हरि-वंशे श्री-भगवद् उक्तौ—
इयं च माथुरी भूमिर् अत्यगम्या परस्य तु ।
वृद्धिश् चैव परास्माकं बलतो मित्रतस् तथा ॥
कुमार-कोट्यो याश्चेमाः पदातीनां गणाश् च ये ।
एषाम् अपीह वसतां सम्मर्दम् उपलक्षये ॥ [ह।वं। २.५६.५-६]
इत्य्-आदि । अतो बहु-योजनं वसती-स्थानम् अपेक्ष्यते, अत्रैव निवासेन व्रज-भूमि-व्याप्तिः स्याद् इति सुदूरैः विकद्रूक्त-प्रामाण्यैर् न श्री-मथुरा-सम्बन्धवत्याम् एव कुशस्थल्यां वसतिः कार्येति श्री-भगवद् इच्छा जाता, तद् अर्थम् एव तत्-तन्-मन्त्रणादिकम् इति अत एवोक्तं भगवान् सर्व-विचार-कुशल इति । समुद्रस्यान्तर् द्वदश-योजनं बहिश् चाष्टादश योजनम् एव त्रिंशद्-योजनं श्री-दारकापुरं ख्यातम् । योजनञ्चोक्तम्—
अष्टभिर् यव-मध्यैः स्याद् अङ्गुलं द्वादशाङ्गुलम् ।
तालं त्रितालको हस्तो हस्तौ द्वौ किष्कुर् उच्यते ॥
किष्कु-द्वयं धनुर् ज्ञेयं धनुषो हि सहस्रकम् ।
क्रोशः क्रोशौ तु गव्यूतिर् गव्यूती द्वे तु योजनम् ॥ इति ।
अचीकरत् विश्वकर्मणा कारितवान् ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समुद्रस्यान्तर् द्वादश-योजनं, बहिश् चाष्टादश-योजनम् । अन्यत्र ज्ञेयम् एवं त्रिंशद्-योजनं श्री-द्वारका-पुरं ख्यातम् । योजनं चोक्तम्—
अष्टभिर् यवमध्यैस् स्याद् अङ्गुलं द्वादशाङ्गुलम् ।
तालं त्रितालको हस्तो हस्तौ द्वौ किष्कुर् उच्यते ॥
किष्कु-द्वयं धनुर् ज्ञेयं धनुषो हि सहस्रकम् ।
क्रोशः क्रोशौ तु गव्यूतिर् गव्यूती द्वे तु योजनम् ॥ इति ।
अचीकरत् विश्वकर्मणा कारितवान् कृत्स्नाद्भुतम् इति कृत्स्नम् अपि वस्त्वद्भुतं यत्रः ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अचीकरत् अविर्भावयामास ॥५०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुद्र-मध्ये द्वादश-योजनम् इति ।
अष्टभिर् यवमध्यैः स्याद् अङ्गुलं द्वादशाङ्गुलम् ।
तालं त्रि-तालको हस्तो हस्तौ द्वौ किष्कुर् उच्यते ॥
किष्कु-द्वयं धनुर् ज्ञेयं धनुषो हि सहस्रकम् ।
क्रोशः क्रोशौ तु गव्यूतिर् गव्यूती द्वे तु योजनम् ॥ इति ।
इति तन्-मध्ये नगरम् ॥५०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५१ ॥
दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्प-नैपुणम् ।
रथ्या-चत्वर-वीथीभिर् यथा वास्तु विनिर्मितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वष्टा विश्वकर्मा, तदीयं शिल्प-नैपुणं च क्रिया-कौशलम् । तद् आह—
सार्धैस् त्रिभिः—रथ्येति । रथ्या राज-मार्गाः पुरतः, वीथ्य उपमार्गाः पश्चिमतः, उभयतोऽपि चत्वराण्य् अङ्गणानि । तन्-मध्ये कोष्ठाः, ततो\ऽप्य् अन्तः सुवर्ण-भवनानि । तद्-उपरि स्फाटिकाट्टालिकाः, तद्-उपरि हेम-कुम्भा इति बहु-भूमिकम् । यथा-वास्तु वास्तु गृहादि-निर्माण-स्थानं तद् अनतिक्रम्य विनिर्मितम् ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र नगरे । त्वष्टरि विश्वकर्मणि स्थितं त्वाष्ट्रम् । शिल्पनैपुणं शिल्प-विद्यापटुत्वम् । रथ्या राज-मार्गः, चत्वरम् अङ्गणं चत्वरं स्थडिलेङ्गणे इति मेदिनी । वीथी आपणः पण्यवीथी च द्वयं वीथीति शब्दितम् इति शाश्वतः । आपणो हट्ट-शून्य-विरय-मार्गः, पाण्यवीथी हट्टयुत-विक्रय-मार्ग इति भेदः । स्वामिचरणास्तु-पुरतः पूर्व-भागे राज-मार्गाः, पश्चिमतः पश्चाद् भागे उप-मार्गाः, उभयतोऽपि पार्श्व-द्वयेऽपि अङ्गणानि, तन्-मध्ये गणयोर् मध्ये, ततो\ऽप्य् अन्तः कोष्ठेषु मध्ये, सुवर्ण-रसलिप्तानि गृहाणि, तद् उपरि स्वर्ण-गृहोपरि, तदुपरि स्फाटिकाट्टालिकोपरि स्वर्ण-कलशा इति वह्व्यो भूमिका रचना-विशेष यत्र तत्-तथेति । यथावास्त्व् इति वास्तु-शास्त्रानुसारेण गृह-रचना-युतम् । तथा हि—
द्वात्रिंशद् अष्टाधिक-विंशतिश् च सिद्धा नखा भूमिपते द्विजातेः ।
दशांश-युक्तान्य् अपि क्षत्रियस्य वैश्यस्य वस्त्रङ्गुल उज्जितानि ।
शूद्रस्य चस्व-स्वचतुर् विभागयुक्तानि चेत्थं प्रवन्ति भेदाः ।
कश्चिज् जनो भूपसमान-धर्मो गृहं विदध्याद् विधिनाप्य् अनेन ।
अष्टाधिकं हस्तशतं शतं वा यन्नेत्र-नन्द-प्रमितं पृथुत्वे ।
वेदाष्ट-हस्तं रस-सप्तकं च दैर्घ्ये सपादानि भवन्ति भेदाः ।
इत्य् एवं गृह-शुद्धि-पूर्वं गृहाणि कुर्यात् ।
प्राच्यां दिशि स्नान-गृहम् आग्नेय्यां पचनालयम् ।
शयनं याम्य-दिग्-भागे नैऋत्यां शस्त्र-मन्दिरम् ।
प्रतीच्यां भोजन-गृहं वायु-भागे\ऽन्न-सङ्ग्रहम् ।
भाण्डार-सदनं सौम्ये त्व् ऐशान्मां देवढालयम् ।
पूर्वस्यां श्री-गृहं कुर्याद् वायव्यां पशु-मन्दिरम् ।
इन्द्राग्र्योर् मथनं मध्ये याम्याग्र्योर् घृत-मन्दिरम् ।
यम-राक्षसयोर् मध्ये पुरीष-त्याग-मन्दिरम् ।
राक्सासाम्बुपयोर् मध्ये विद्याभ्यासस्य मन्दिरम् ।
तोयेशानिलयोर् मध्ये रौदनं मन्दिरं स्मृतम् ।
वायव्योत्तरयोर् मध्ये सम्भोगस्यैव मन्दिरम् ।
उत्तरैशानयोर् मध्ये त्व् औषधागारम् उच्यते ।
पुरन्दरेशयोर् मध्ये सर्व-वस्तु-सुसङ्ग्रहम् ।
सदनं कारयेद् एव क्रमाद् उक्तानि षोडश ।
इत्य् एवम् उक्त-प्रकारेण गृहादि-रचनाढ्यम् इत्य् अर्थः ।
[वै।तो।] कृत्स्नाद्भुतत्वम् एव दर्शयति—दृश्यत इति चतुष्केण । हि एव । विज्ञानं शिल्प-धीः, शिल्पाभिज्ञतेत्य् अर्थः । तन्-नैपुण्यं हस्त-क्रिया-सौष्ठवं दृश्यते पराकाष्ठापन्नतया विभाव्यते, इदानीं भगवत्-प्रसादेन परम-शक्ति-लाभाद् इति भावः ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृत्स्नाद्भुतत्वम् एव दर्शयति—दृश्यत इति चतुर्भिः । हि एव यत्रैव विज्ञानं शिल्पे धीः शिल्पाभिज्ञातेत्य् अर्थः । शिल्प-नैपुण्यं हस्त-क्रिया-कौशलं च, विशेषेण निर्मितम् इति वि-शब्दऋथस् तैर् व्यञ्जित एव । उद्यानोपवनयोः पुष्प-फल-प्रधानत्वेन भेदः ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृत्स्नाद्भुतत्वम् एव दर्शयति—दृश्यत इति चतुष्केण । हि एव । यत्रैव विज्ञानं शिल्प-धीः शिल्पाभिज्ञातेत्य् अर्थः । शिल्प-नैपुण्यं हस्त-क्रिया-कौशलं च दृश्यते परा काष्टापन्नतया विभाव्य्सते तदानीं भगवत्-प्रसादेन परम-शक्तिलाभाद् इति भावः । अन्यत् तैः तत्र तन्-मध्ये कोष्टा इत्य्-आदिकं वक्ष्यमाणश्लोकोक्तानाम् संस्थानं ज्ञेयम् उद्यानोपवनयोः पुष्प-फल-प्रधानत्वेन भेदः आरकुटैर् इति हृस्वत्वम् आर्षं चतुर्वर्ण्यं चत्वारो वर्णाः यदुदेवा यादव-श्रेष्ठा, श्री-कृष्ण-बलदेव-सुदेवोग्रसेणाः अत्रेदं वासस्थानां ज्ञेयम् । परितस्तावत्-समुद्रः पुरतः सङ्क्रमार्थमालिः समुद्राभ्यान्तरे तीरे सुख-विहारार्थं परितश् चत्वराणि तद् अन्तर्दुर्ग-प्राचीरालिः तत्-कोणेषु तन्-मध्येषु च यथाशोभं रत्न-कूटाः तद् उपरिः हेम-शृङ्गाः तद् उपरि हेम-कुम्भाः पताकाश् अ ज्ञेयाः दुर्ग-चतुर्दिक्षु गोपुराणि बहिर् अवलोकाय तद्-उपरि स्वच्छ-स्फटिक-भित्ति-मयाट्टालिकाः दुर्गान्तः पुरश् चत्वराणि तद्-अन्तर् उद्यानोपवनानि तद् उपलक्षितानि वापीकूपादीनि च तद् अन्तर्वास्तोष्पति-गृहाः तद् अन्तर्यथाभ्यन्तरम् अश्वान्न-गृहादयः कोष्ठा तद् अन्तः-पुर-भागे ब्राह्मण-गृहाः पश्चात् शूद्र-गृहाः पश्चात् शूद्र-गृहाः वामे वैश्य-गृहाः दक्षिणे क्षत्रिय-गृहाः मध्ये सुधर्माम् अग्रे विधाय श्री-कृष्ण-बलदेवोग्रसेन-गृहाः गृहाणामधो मरकत-स्थलीः उपरि वलभ्यो हेम-कुम्भादयश् च यथा-शोभं सुधर्माम् आरभ्य रथ्या वीथयः तद् उप-मार्गाश् च तत् इति ॥५१.५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दृश्यते यत्रेति ब्रह्म-ज्ञानेन सर्व-विज्ञानवत् यद्धर्मसूनार्वत राजसूये इत्य्-आदि-वच्चेति भावः ॥५१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्व् आर्ष्ट्रं विज्ञानं विश्वकर्मणः पाण्डित्यं शिल्पे शिल्प-कर्मणि नैपुण्याम् यतस् तत्, नगरं विशिनष्टि—सार्धैस्त्रिभिः । रथ्याराज-मार्गाः चत्वराण्यङ्गणानि वीथ्य उप-मार्ग्याः वास्तु-गृहादिदि-निर्माण-स्थानं तम् अनतिक्रम्य निर्मितं राजतं चआरकुटं पीतं लोदं च ताभ्यां निर्मितैः रत्नकूटै पद्मरागादि-शिखरैः वास्तोष्पतीनां देवानां वलभीभिश् चन्द्रशालाभिः यदुदेवः श्री-कृष्णः तस्य गृहैर् उत्कर्षेण लसत् ॥५१.५४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५२ ॥
सुर-द्रुम-लतोद्यान- विचित्रोपवनान्वितम् ।
हेम-शृङ्गैर् दिवि-स्पृग्भिः स्फटिकाट्टाल-गोपुरैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुराणां द्रुमा लताश् च येषु तान्य् उद्यानानि विचित्रोपवनानि च तैर् अन्वितम् । हेममयानि शृङ्गाणि येषु तैः । दिविस्पृग्भिर् अत्युच्चैः स्फाटिका अट्टाला उपरिभूमिका गोपुराणि द्वाराणि च तैर् निर्मितम् इत्य् उत्तरेणान्वयः ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुरद्रुमाः—सन्तान-कल्प-वृक्ष-हरिचन्दन-मन्दार-पारिजाताख्याः
सन्तानः कल्प-वृक्षश् च पुम्सि वा हरि-चन्दनम् ।
पञ्चैते देवतरवो मन्दारः पारिजातकः ॥ इत्य् अमरः ।
यद् वा,
आम्र-जम्बू-कदम्बादयो देव-तरवः
आम्रो जम्बूः कदम्बश् च बोधिः पालाश-बिल्वकौ ।
प्लक्षोदुम्बरमाधूकौ बहुपात्पिचु-मन्दकौ ।
एते चन्ये च बहवी देव-वृक्षाः स्मृता बुधैः । इति ।
तथा सुरलताः—स्वर्णवल्लीम् उक्तावल्लीविद्रुमवल्यादयो विष्णुक्रान्तादयो वा ।
मुक्तावल्ली स्वर्णवल्ली तथा कल्पलतादयः ।
देववल्ल्यो बुधैः प्रोक्ता विष्णुकान्तादयस् तथा ।
इति संहितोक्तेश् च । उद्यानोपवनयोः पुष्प-फल-प्रधानत्वेन भेदः । यदुदेवा यदुश्रेष्ठाः श्री-कृष्ण-बलदेव-वसुदेवोग्रसेनादयः । अत्रेवं वास-स्थानं ज्ञेयम्—परितस् तावत्-समुद्रः, पुरतः सङ्क्रमार्थमालिः, समुद्राभ्यन्तरे सुख-विहारार्थं परितश् चत्वराणि, तद् अन्तर्दुर्गप्राचीरालिः, तत्-कोणेषु तन्-मध्येषु च रत्नकूटा यदुपरि हेम-कूटाः, तद् उपरि हेम-कुन्ताः पताकाश् च ज्ञेयाः ।
दुर्गचतुर्दिक्षु गोपराद् बहिर् अवलोकाय तदुपरि स्वच्छस्फाटिकाट्टालिकाः, दुर्गान्तःपुरश् चत्वराणि, तद् अन्तरुद्यानोपवनानि, तद् उपलक्षित-कूपादीइ च, तद् अन्तर्वास्तोष्पतिगृहाः । तद् अन्तर्यथाभ्यन्तरम् अश्वान्नगृहादयः, कोष्ठाः, तद् अन्तः पुरोभागे ब्राह्मण-गृहाः, पणाच्-छूद्र-गृहाः, वामे च वैश्याः, दक्षिणे क्षत्रिय-गृहाः, मध्ये सुधर्माम् अग्रे विधाय श्री-कृष्ण-बलदेव-वसुदेवोग्रसेन-गृहाः, गृहाणां मरकत-स्थाली, उपरि वलभ्यो हेम-कुन्तादयश् च यथा-शोभं सुधर्माम् आरभ्य यथा वीथय उपमार्गाश् च तत इति । पारिजात-प्रस्थापनं तु तत्-त्याग एव ।
यद् वा, अग्रे स्वयं भगवद् आनीतपारिजाताद् अस्य न्यूनत्वेन भेदः कल्प्यः, सुरद्रूमलतोद्यानेति वर्णितत्वात् । सुधर्मायास्त्वेकत्वेन नान्या गतिर् इतीन्द्रस् तथा नाकरोद् इति ज्ञेयम् ।
हरेर् हरये, अन्यथा प्रसह्य स्वयम् एव हरेद् इति विभाव्यैवेति भावः । [इति सार्धत्रयान्वयः ॥५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आरकुटैर् इति हृस्वत्वम् आर्षम् । महान्ति मरकतानि येषु तानि स्थलानि येषु तैर् गृहैः, चातुर् वर्ण्यं चत्वारो वर्णास् तैर् आकीर्णं व्याप्तम्, अतीन्त्यजानां बहिर् वासो ज्ञेयः । यदुदेवः श्री-भगवान्, तस्य यदुदेवत्वेन सर्वयदु-वर्गः गेहेभ्यः परमोत्तमा गृहाः अत एव तैर् उल्लसत् ॥५२.५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव नित्य-स्थितस्यैव तस्याविर्भाव इति दर्शितः अत एव वक्ष्यते चातुर्वणजनाकीर्णम् इति ॥५२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५३ ॥
राजतारकुटैः कोष्ठैर् हेम-कुम्भैर् अलङ्कृतैः ।
रत्न-कूटैर् गृहैर् हेमैर् महा-मारकत-स्थलैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रजतारकुटैः रजतं च आरकुटं च पीतलोहं ताभ्यां निर्मितैः कोष्ठैःरश्वशालान्नशालादिभिः । कथम्भूतैः । हेम-कुम्भैर् अलङ्कृतैः तथा रत्नकूटैः पद्म-रागादि-शिखरैः । हैमैः सौवर्णैः । महा-मरकत-मयानि स्थालानि येषु तैर् गृहैश् च ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
कोष्ठः कुसूले चात्मीये मध्ये कुक्षौ गृहस्य च ।
सङ्ग्रह-स्थापन-स्थाने तृणागारादिकेऽपि च ॥ इति धरणिः ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५४ ॥
वास्तोष्पतीनां च गृहैर् वलभीभिश् च निर्मितम् ।
चातुर्-वर्ण्य-जनाकीर्णं यदु-देव-गृहोल्लसत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, नगर-गृहादौ वास्तोष्पतीनां देवानां च गृहैर् बलभीभिश् चन्द्रशालिकाभिश् च निर्मितम् । यदु-देव-गृहैराज-गृहैर् उल्लसच्छोभमानम् ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं मनुष्यावास-शोभित तद् इत्य् आह—किं च इति । वास्तोष्पतिर् बलारातौ देव-मात्रे धराधरे । मुख्ये गेहे इति निरुक्तिः । शुद्धान्ते वलभीचन्द्रशाले सौधोर्धवेश्मनि इति रभसः । यदुदेवः श्री-कृष्ण उग्रसेनो वा ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पारिजातं प्राहिणीद् इति तैर् व्याख्यातम् एव । यद् वा, अग्रे स्वयं श्री-भगवता स्वर्गादानेतव्यात् पारिजाताद् अस्य न्यूतत्वेन भेदः कल्प्यः । हरेः हरिं प्रति, अन्यथा बलात् स्वयम् एव हरैद् इति भावः ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५५ ॥
सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः ।
यत्र चावस्थितो मर्त्यो मर्त्य-धर्मैर् न युज्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पारिजातं च प्राहिणोत्प्रस्थापयामासेति शुक-परीक्षित्सम्वादात् पूर्वभावित्वाद्-भूत-निर्देशः । मर्त्य-धर्मैः क्षुत्पिपासादि-षर्डूमिभिः ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्यात्-सुधर्मा देवसभा इत्य् अमरः । पारिजातं वाञ्छितदं वृक्षम् । यत्र पारिजातं च पराजितः सन्देवराजः श्री-कृष्णाय ददौ न तु प्रीत्येति । अधिक्रमन्त्यङ्घ्रिभिर् आहृतां बलात्-सभां सुधर्मां सुरसत्तमोचिताम् । निर्जित्य सङ्ख्ये त्रिदंशास् तद् आशिषो हरन्ति इत्य् उक्तेः, पारिजातं तद् उत्पाट्य आरोप्य च गरुत्मति । सेन्द्रान्देवान् विनिर्जित्यः इति वक्ष्यमाणत्वाच् च । अत एव प्राहिणोद् इत्य् उक्तं न तु समर्पयामासेति ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुधर्माम् इति युग्मकम् । पारिजातं प्राहिणोद् इति तैर् व्याख्यातं तत्र प्रस्थापनं नाम परित्याग एव । ज्ञेयः यद् वाग्रे स्वयं श्री-भगवता स्वर्गादानीय पारिजाताद् अस्य न्यूनत्वेन भेदः कल्प्यः सुरद्रुम-लतोद्यानेति वर्णिततत्त्वात् सुधर्मायास्त्वेकत्वेन नान्या गतिर् इतीन्द्रस्था नाकरोद् इति ज्ञेयम् हरेर् हरयेऽन्यथा बलात् स्वयम् एव हरेद् इति विभाव्यैवेति भावः । लोक-पाला अन्येऽपि ॥५५.५६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारिजातं च प्राहिणोद् इति शुक-परीक्षित्-सम्वादात् पूर्व-भूतत्वाद्भूत-निर्देशः ॥५५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५६ ॥
श्यामैक-वर्णान् वरुणो हयान् शुक्लान् मनो-जवान् ।
अष्टौ निधि-पतिः कोशान् लोक-पालो निजोदयान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निधिपतिः कुबेरः अष्टौ कोशान् निधीन् ।
पद्मश् चैव महा-पद्मो कुन्द-कूर्मौ तथौदकः ।
नीलो मुकुन्दः शङ्खश् च निधयोऽष्टौ प्रकीर्तिताः ॥
इति प्रसिद्धान् । निजोदयान् निजविभूतीः ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हयान् सहस्र-सङ्ख्यान् ददौ सहस्र-सङ्ख्यातान् अश्वान्देवाय तोयरात् इति पुराणान्तरात् । औदकः कुन्दः खर्वः । यद् वा, तन्-नामैव क्वचित् तु नव निधयोऽपि—
महापद्मश् च पद्मश् च मकर-कच्छपौ ।
मुकुन्दनीलाश् च खर्वश् च निधयो नव ॥ इति शब्दार्वणवात् ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोक-पाला अन्ये श्री-ब्रह्म-रुद्रादयः । भगवता परमेश्वरेण तेनैव हरौ क्रीडार्थं निजाशेष-विभूति-समाहरणपरे भगवति । कुतः भूमि-गते अपूर्व-विनोदार्थम् एव पृथिव्याम् अवतीर्णो । एवं परमाश्चर्येण हर्ष-भरोदयेन वा सम्बोधयति—नृपेति । श्री-द्वऋअका-निर्माणादि-विस्तारः श्री-हरिवंशाद् विज्ञेयोऽत्र न विस्तर-भयान् न लिख्यते ॥५६.५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निधि-पतिः कुबेरः कोशान् निधीन्—पद्मश् चैव महा-पद्मो मत्स्यः कूर्मस् तथौदकः । नीलो मुकुन्दः शङ्खश् च निधयोऽष्टौ प्रकीर्तिताः । इति निजोदयान् स्वीय-सम्पत्ती ॥५६.५७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५७ ॥
यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये ।
सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ये च सिद्धादयो भगवता स्वाधिकारसिद्धये यद्य् अदाधिपत्यं दत्तम् आसीत् तत्-सर्वं प्रत्यर्पयामासुर् इति ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सिद्धा देव-विशेषाः, आदिना गन्धर्वीक-पुरुषादयश् च । आधिपत्यम् अधिपतित्वापादकं गायनाद्य् ऐश्वैश्वर्यम् । प्रत्यर्पयामासुर् निवेदयामासुः, गायनाद्यैस् तोसायामासुर् इति भावः । हरौ क्रीडार्थं निजाशेष-विभूति-समाहरण-कौतुकिनि भगवति, यतः भूमिगते तादृशविनोदार्थम् एव पृथिव्याम् अवतीर्णे । एवं परम-कौतुकेन सम्बोधनम्—नृपेति । यथा भवादृशां नृपाणाम् अपि विभूतयो विनोदार्था एव तथा तस्यापि परम-नृपतेः परम-विभूतयो विनोदायैवेति सम्बुद्ध्यभिप्रायः । विशेषस् तु हरि-वंशे दृश्यः ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हरौ क्रीडार्थं निजाशेष-विभूति-समाहरण-कौतुकिनि भगवति यतः भूमिगते तादृश-विनोदार्थम् एव पृथिव्याम् अवतीर्णे एवं परम-कौतुकेन नृपेति श्री-द्वारका-निर्माणादि-विस्तारः [विधिः] श्री-हरि-वंशे दृश्यः ॥५७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.५०.५८ ॥
तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः ।
प्रजा-पालेन रामेण कृष्णः समनुमन्त्रितः ।
निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा कालयवनो न वेति न चासौ जनः, तथा योग-प्रभावेण नीत्वा त्वम् अत्र स्थित्वा प्रजाः पालय "अहं पलायिष्ये" इति समनुमन्त्रितः कृतानुमन्त्र इत्य् अर्थः ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र नगरे । नीत्वा प्रापय्य । यद् वा, योगस्य प्रभावः सामर्थ्यं मथुरा-स्थिताखिल-निज-निज-पदार्थ-राशे द्वारकायां भवनं, तेन इत्य् अर्थः । अत्र मथुरायाम् । इत्य् अर्थ इति—उभयोः पलायने प्रजास् त्रस्ता भविष्यन्तीति भावः । पुरद्वारान् मथुरा-द्वारतः ।
योगोऽर्चित्यैश्वर्यम्, तस्य प्रभावेण माहात्म्येन । तथा च पाद्मोत्तर-खण्डे—
सुषुप्तान् मथुरायां तु पौरांस् तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारकायां न्यवेशयत् ॥
प्रबुद्धास् ते जनाः सर्वे पुत्र-दार-समन्विताः ।
हैम-हर्म्य-तलाविष्टा विस्मयं परमं ययुः ॥ [प।पु। ६.२४६.४३-४४] इति ।
हरिर् इति तथानयनात् । त्व् अत्र स्थित्वा प्रजाः पालयेति तैर् व्याख्यातं । तत् तु द्वारकानीत-प्रजाभ्योऽवशिष्ट-बहिरङ्ग-प्रजागतम् एव ज्ञेयम्, निज-पार्श्व-रक्षित-सैन्य-गतम् एव वा ।
यद् वा, अस्य यादवावध्यत्वान् मा शङ्कां कृथाः, त्वम् अत्र स्थित्वा पुरं पालय मुचुकुन्देनैनम् अहं घातयिष्यामीत्य् एव मन्त्रो ज्ञेयः । सम्यग् अनुरूपश् च मन्त्रः समनुमन्त्रः स जातोऽस्येति तारकादित्वादितच् । पद्म-माली इति नारदोक्त-लक्षणापेक्षया । निरायुध इति पलायन-मननार्थम् ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगोऽचिन्त्यैश्वर्यं तस्य प्रभावेण माहात्म्येन । यद् वा, योगेन यः प्रमाणः सामर्थ्य-विशेषस् तेन नीत्वा स्व-स्व-गृहे रात्रौ निद्रितानाम् अलक्षितं तथैव तथैव तत्र नयननं ज्ञेयम् । तथा च पाद्मोत्तर-खण्दे—
सुषुप्तान् मथुरायां तु पौरांस् तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारकायां न्यवेशयत् ॥
प्रबुद्धास् ते जनाः सर्वे पुत्र-दार-समन्विताः ।
हैम-हर्म्यतलविष्टा विस्मयं परमं ययुः ॥ [प।पु। ६.२४६.४३-४४] इति ।
हरिर् इति तथा तत्ता-दानेन, तत्-तद्-अज्ञातत्वेन तत्र सद्यो नयनात् । त्वम् अत्र स्थित्वा प्रजा पालयेति तैर् यद् उक्तम्, तत् तु द्वारकानीत-प्रजाभ्योऽवशिष्टा इति ज्ञेयम् । यद् वा, अस्य यादवैर वध्यत्वण आशङ्कां कृथाः । मुचुकुन्देनैनं घातयिष्यामीति कृतानुमन्त्रः । पद्ममानीति दूरतो यवनेन लक्षयितुम् । किं वा, श्री-नारदोक्त-लक्षणापेक्षया । निरायुध इति शस्त्र-त्यागेन पलायनं मत्वा तथैव पृष्ठतो धावस् तस्य श्री-मुचुकुन्द-गुहायां नयनार्थम् ॥५८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योगोऽचिन्त्यैश्वर्यं तस्य प्रभावेण माहात्म्येन । तथा च पाद्मोत्तर-खण्दे—
सुषुप्तान् मथुरायां तु पौरांस् तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारकायां न्यवेशयत् ॥
प्रबुद्धास् ते जनाः सर्वे पुत्र-दार-समन्विताः ।
हैम-हर्म्यतलविष्टा विस्मयं परमं ययुः ॥ [प।पु। ६.२४६.४३-४४] इति ।
हरिर् इति तथानयनात् त्वम् अत्र स्थित्वा प्रजाः पालयेति तैर् यत् व्याख्यातं, तत् तु द्वारकानीत-प्रभाभ्योऽवशिष्ट-बहिरङ्ग-प्रजा-गतम् एव ज्ञेयं निजा-पार्श्व-रक्षित-सैन्य-गतम् एवे वा । यद् वास्य यादवैर् अवध्यत्वान् मा शङ्कां कृथाः त्वम् अत्र स्थित्वा पुरं पालय, अहं तु मुचुकुन्देन एनं घातयिष्यामीत्य् एव मन्त्रो ज्ञेयः । रामेण सह सम्यग् अनुरूपश् च मन्त्रः सोस्य-सञ्जात इति तारकादित्वाद् इतच् । अत्र सर्व-जनं हरिर् इति पाठे स्वान् भगवान् हरिर् इति क्वचित् । मथुराम् एत्येति पाठे प्रजा-पालनेति क्वचित् पूर्वत्र द्वारकाशिर्माणार्थं तव गमनं योग-प्रभावेणैव वा ज्ञेयं पद्म-मालीति श्री-नारदोक्त-लक्षणापेक्षया निरायुध इति पलायन-मननार्थं ॥५८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगो योगमाया तत्-प्रभावेन तत्-प्रकारः पाद्मोत्तर-खण्डे यथा ।
सुषुप्तान् मथुरायां तु पौरांस् तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारकायां न्यवेशयत् ॥
प्रबुद्धास् ते जनाः सर्वे पुत्र-दार-समन्विताः ।
हैम-हर्म्यतलविष्टा विस्मयं परमं ययुः ॥ [प।पु। ६.२४६.४३-४४] इति ।
रामेण सह समनुमन्त्रितः त्वम् अत्रैव मुहूर्तं तिष्ठ अहम् अनया युक्त्या इमं घातयिष्ये इति कृत-मन्त्रेण इत्य् अर्थः ॥५८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे दुर्ग-निवेशनं
नाम पञ्चाशत्तमोऽध्यायः ।
॥ १०.५० ॥
(१०.५१)