अक्रूरस्य हस्तिनापुरे गमनं, कुन्त्याः करुणोद्गारः, अक्रूर-धृतराष्ट्र-संवादः, अक्रूरस्य पुनर् यदु-पुर्याम् आगमनं च ।
॥ १०.४९.१ ॥
श्री-शुक उवाच—
स गत्वा हास्तिनपुरं पौरवेन्द्र-यशो-\ऽङ्कितम् ।
ददर्श तत्राम्बिकेयं स-भीष्मं विदुरं पृथाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ऊन-पञ्चाशत्तमे तु गत्वाक्रूरो गजाह्वयम् ।
राज्ञः स्व-भ्रातृ-पुत्रेषु बुद्ध्वा वैषम्यम् आगमत् ॥
पौरवेन्द्राणां यशोभिस् तत् कृत-देव-ब्राह्मणायतनादिभिर् अङ्कितम् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऊनपञ्चाशत्तमे एकोनपञ्चाशत्तमे । राज्ञो धृतराष्ट्रस्य । वैषम्यं दौर्जन्यम् ।*। सोऽक्रूरः । तत्र हास्तिनापुरे । स इति युग्मकम् । प्रथमं राज्ञो दर्शनं योग्यं, ततः कुल-श्रेष्ठत्वाद् भीष्मस्य । तद्-दिने तयोर् एकत्र स्थितिर् आसीद् इत्युक्तम्—स भीष्मम् इति । तत आत्मीयत्वाद् विदुरस्य, ततः तत्-सङ्गेन स्वभगिन्याः पृथायाः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नमः कृष्णायेति—कृष्णाय शुद्धाय ब्रह्मणे, श्री-कृष्ण एव शुद्धं ब्रह्म घनानन्दत्वं शुद्धत्वम् ॥१.३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स गत्वेति युग्मकम् । स साधुत्वेनोक्तः, तत्र हास्तिनपुरे तत्रापि सभा-माध्ये इति ज्ञेयम् । एकत्रैव युगपत् सर्वेषां दर्शनात्, भीष्मेण सहितम् इति सर्वकृत्येषु तस्य सम्मति-ग्रहणार्थं तद् अन्तिके राज्ञ आम्बिकेयस्यासनत्वाद् इति । तस्य पार्श्वे दक्षिणे भीमस्य विदुरस्य मन्त्रित्वाद्-वामे अन्येषां च यथा-स्थान मासनम् ऊह्यम् । यद् वा, विदुरस्यैव विशेषणम् । सभीष्मम् इति परम-साधुतया स्नेहेन तयोर् एकत्रैवासनात्, अत एव तयोः पार्श्वे श्री-कुन्त्या आसनात् ताभ्याम् अनन्तरम् एव निर्देशः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स गत्वेति युग्मकम् । प्रथमं राज्ञो दर्शन-योग्यं ततः कुल-श्रेष्ठत्वात् श्री-भीष्मस्य तद् दिने तयोर् एकत्र स्थितिर् आसीद् इति सभीष्मम् इत्य् उक्तं ततः आत्मीवत्वात् श्री-विदुरस्य ततस् तत् सङ्गं न स्वभगिन्याः पृथायाः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जगदीश्वरम् अपि कृष्णं स्वजनं निज-बन्धुतयास्मृत्य ॥१.३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नमः कृष्णायेत्य् आदि । शुद्धाय ब्रह्मणे शुद्धं मूर्त-ब्रह्म आनन्दः मूर्तानन्दायेत्य् अर्थः
आनन्दो द्विविधः प्रोक्तो मूर्तामूर्त प्रभेदतः ।
अमूर्तस्याश्रयो मूर्तो भगवान् अच्युतो मतः ॥
इति हयशीर्षोक्तेः । अमूर्ताश्रयत्वाच्छुद्धम् ॥१.३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उनपञ्चाशत्तमेऽगाद् अक्रूरो हस्तिनापुरम् ।
भ्रातुष्पुत्रेषु वैषम्यं राज्ञो ज्ञात्वागमत् ततः ॥
पौरवेन्द्राणां यशोभिर् यशोद्योतकैस् तत् कृत-देव-ब्राह्मणायतनादिभिर् अङ्कितम् आम्बिकेयं धृतराष्ट्रं सह-पुत्रं सोमदत्त-सहितं भारद्वाजं दरोणं गौतमं कृपम् ॥१.२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२ ॥
सह-पुत्रं च बाह्लीकं भारद्वाजं स-गौतमम् ।
कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बाह्लीक-पुत्रः सोमदत्तः । भारद्वाजो द्रोणः । गौतमः कृपः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपरान् कुरून् । सह-पुत्रम् इति वोपसर्जनस्य इति वैकल्पिकत्वान् सादेशः । ततः कुल-वृद्धत्वाद्-बाह्लीकस्य, ततः पाण्डवान् वेषणे तद् उपाध्यायस्य भारद्वाजस्य, ततस् तत्-सहचारित्वेन गौतमस्य, ततः सहाध्यायित्वेन कर्णादीनां सर्वेषाम् एव बालकानाम् इति पाठक्रमः । तत्र पाण्डवानां पश्चाद्भावः स्वस्य मध्यस्थत्वख्यापनेन धर्मोपदेशाय । प्रथमश् च-शब्दोऽनुक्त-समुच्चये सर्वत्र योज्यः, द्वितीयस्-सूक्तार्थो ब्राह्मणस्यापि भारद्वाजस्य क्षत्रिय-मध्यपातात् । क्वचित् भारद्वाजं सगौतमम् इति पाठः । अपरान् शकुन्यादीन् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आद्यश् चकारस् त्व् अर्थे, बाह्लीकस्य पुत्र-साहित्य-विशेषात् अप्य् अर्थे द्वितीयः, द्रोणस्य विप्रत्वेऽपि तद् अन्तरे वासनात् समुच्चये वा, सगौतमम् इति वा पाठः-तयोर् एकत्रैवासनात्, एवम् एषु यथोत्तरं राज्ञ आदराधिक्यन्यूनत्वाभ्यां तद् अनुसारेण कस्यचिद् अन्तिके कस्यापि दूरे अपि आसनात् तेषां तत्-क्रमेण दर्शनम् । तत्र बाह्लीके भारद्वाजाद् अप्य् अधिक्यम्, तस्य कुल-वृद्धत्वेनातिपूज्यत्वात्, तत्र पुत्रस्य तु पितृ-पार्श्वासननान् अपेततया1 । किं वा, तस्यापि पितामहत्व्wएनात्यादरणीयत्वात्, कर्णस्य च सुयोधन-प्रियत्वादिना, अन्यत् स्पष्टम् । अत एवादरहान्या पाण्डवानां सर्वान्ते आसनात् तथैव दर्शनम्, अपरान् शकुनि-दुःशासनादीन् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः कुल-वृद्धत्वाद् वह्लीकस्य ततः पाण्डवान्वेषणे तद् उपढ्यायस्य भारद्वाजस्य ततस् तत्-सहचारित्वेन गौतमस्य ततः सहाध्यायित्वेन कर्णादीनां सर्वेषाम् एव । बालकानाम् इति तथा पाठक्रमः तत्र पाण्डवानां पश्चाद् भावः स्वस्य मध्यस्थख्यापनेन क्षत्रिय-मध्यपातात् सगौतमम् इति क्वचित् पाठः अपरान् शकुन्यादीन् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४९.३ ॥
यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनी-सुतः ।
सम्पृष्टस् तैः सुहृद्-वार्तां स्वयं चापृच्छद् अव्ययम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्ययं कुशलम् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गान्दिनीसुतोऽक्रूरः । तैर् धृतराष्ट्रादिभिः । यथावद्-वृद्धादीन्-प्रणामादिनोपसङ्गम्य स्नेहाधिक्येन मिलित्वा सुहृदां यादवानां वार्तां कुशलवृत्तं सम्यग् यथा-विध्यादिपूर्वकं सस्नेह पृष्टः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गान्दिनी-सुत इति धर्मज्ञत्वम् अभिप्रेतम्, अत एव यथावद् इति वृद्धान् प्रणामादिना सम्मानालिङ्गनादिना2 कनिष्ठानाम् आशीर्वादादिनेत्य् एवं यथायोग्यम् उपसङ्गम्य मिलित्वा सुहृदां यादवानां वार्तां कुशल-वृत्तं सम्यग् यथा-विध्यातित्य् अपूर्वकं सस्नेहं पृष्टः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथावद्-वृद्धादीन् प्रणामादिना उपसङ्गम्य स्नेहाधिक्येन मिलित्वा सुहृदां यादवानां वार्तां सम्यक् यथाविध्यातिथ्य-पूर्वकं सस्नेहं पृष्टः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अव्ययं कुशलम् ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.४ ॥
उवास कतिचिन् मासान् राज्ञो वृत्ति-विवित्सया ।
दुष्प्रजस्याल्प-सारस्य खल-च्छन्दानुवर्तिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुष्प्रजस्यासत्-पुत्रस्य अल्प-सारस्य मन्द-धृतेः स्वलानां कर्णादीनां छन्दम् इच्छाम् अनुवर्तितुं शीलं यस्येति तथा तस्य ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज्ञो धृतराष्ट्रस्य । छन्दो वशेप्य् अभिप्राये इति मेदिनी ।
खलं भू-स्थान-कल्केपु नीचक्रूराधमे त्रिषु ।
खलो वस्त्र-प्रभेदे स्याद् गर्ते चर्मणि घातके ॥ इति च ।
कतिचिन् मासान् इति बहु-दिन-वासात् तस्य कौटिल्याति शयो व्यञ्जितः । वृत्तम् एव कारणद्वारा सूचयति—दुष्प्रजस्येति ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दुष्प्रजस्येत्य् आदिना परमासाधुत्वम् उक्तम्, अतः क्रूरदुराशयस्य चिरेणैव भाव-ज्ञान-शक्तेर् बहुन्मासांस् तत्रावसत्, दुष्प्रजस्येत्य् आदिनां यथोत्तरं हेतुमत्ता, तया दुष्टताधिकता च ज्ञेया ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कतिचिन्मासान् इति । बहु-दिन-वषात् तस्य कौटिल्यातिशयो व्यञ्जितः वृत्तम् एव कारण-द्वारा सूचयति । दुष्प्रजस्येति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खलानां कर्णादीनां छन्दम् इच्छामनुवर्तितुं शीलं यस्य तथा तस्य ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.५ ॥
तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्-गुणान् ।
प्रजानुरागं पार्थेषु न सहद्भिश् चिकीर्षितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेजः प्रभावः । ओजः शस्त्रादि-नैपुणम् । वीर्यं शौर्यम् । न सहद्भिर् असहमानैः । चिकीर्षितम् इत उपरि कर्तुम् इष्टम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेजो ज्योतिर् लक्षणा दीप्तिः । ओजः पराभिभव-सामर्थ्यम् । बलं शारीरं, रूपं वा इत उपरि तत्-प्रभावाद्य् असहनाद् ऊर्ध्वं कर्तुम् इष्टं तन्निष्कासनम् आरणोपायादि । धार्तराष्टैर् यत्कृतं तत्-पृथाविदुरावाचख्यतुर् इत्य् अर्थः । द्वयोर् अन्वयः । अस्मि अक्रूराय । तेज इति युग्मकम् । आदिना लज्जाधैर्यादि-ग्रहः । गरदानं श्री-भीमाय, आदिना जल-निक्षेपादिकृतम्, चिकीर्षितं तु लाक्षा-गृहादि । किम् उत पृथा यतः पितृव्यत्वेनोभयत्र समो विदुरः सोऽपीत्य् अर्थः ॥५.६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदि-शब्दाल् लज्जा-धैर्यादयः, सत उत्तमान् गुणान्, तेज-आदीनां षण्णां यथा-पूर्वम् असहने शैष्ठ्यम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेज इति युग्मकम् । आदि-शब्दाल् लज्जा-धैर्यादयः गरस्य दानं श्री-भीमाय आदि-शब्दाज् जल-निक्षेपादि कृतं चिकीर्षितं तु लाक्षा-गृहादि ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेजः प्रभावः ओजः शास्त्रादि-नैपुण्यं वीर्यं शैर्यम् अपेशलम् अन्याय्यम् ॥५.६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.६ ॥
कृतं च धार्तराष्ट्रैर् यद् गर-दानाद्य् अपेशलम् ।
आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गरस्य विषस्य दानादि । अपेशलम् अन्याय्यम् । तेज ओज इत्य्-आदि सर्वं कथयाम् आस ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गरस्य दानम्, आदि-शब्दात् तद् दान-प्रकारादि । किं वा, वधार्थ-विविध-दुर्मन्त्रणादि, अस्मै अक्रूराय, एव अपि, पितृव्यत्वेनोभयत्र समो विदुरोऽपीति तद् दार्ढ्यं बोधितम् । च-कारात् द्रोणादिभृत्य-पुरोहितादिर् वा । अन्यत् तैर् व्याख्यातम् । तत्र तेज ओज इत्य्-आदिकम् इति सर्वम् इत्य् अस्यैव व्याख्या ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किम् उत पृथा यतः पितृव्यत्वेन उभयत्र समो विदुर एव सोऽपीत्य् अर्थः । अन्यत् तैः तत्र तेज ओज इत्य्-आदिकम् इति सर्वम् इत्य् अस्यैव व्याख्या ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४९.७ ॥
पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयं स्मरन्त्य् अश्रु-कलेक्षणा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-कथनात् पूर्वतनं पृथाया वृत्तम् आह—पृथा त्व् इति । अश्रूणां कला लेशा ययोस् ते ईक्षणे यस्याः सा ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-कथनाद्-धार्तराष्ट्रकृतान्यायोक्तेः । तम् अक्रूरम् । जन्म-निलयं पितृ-गृहम् । अश्रूणि कलयतः निरन्तरं मुञ्चत इत्य् अश्रुकले ईक्षणे नेत्रे यस्याः सेति वा ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवति भक्ति-विशेषेण श्री-कुन्त्या वृत्तं विस्तार्याह—पृथेति । अत एवान्यतो विशेषात् तु-शब्दः । प्राप्तं पश्चात् स्वगृहे समागतं सन्तं तं श्री-भगवद् भक्तवरत्वेन ख्यातम् । अश्रूणि कलयतो निरन्तरं3 मुञ्चत इत्य् अश्रुकले ईक्षणे यस्याः सा ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवद् भक्ति-विशेषेण कुन्त्या वृत्तं विचार्याह । पृथेति । अत एवान्यतो विशेषात् तु-शब्दःस् प्राप्त स्व-गृहे स्वमागतं सन्तं तं श्री-भगवद् भक्तवरत्वेन ख्यातम् अश्रूणि कलयतः निरन्तरं मुञ्चत इत्य् अश्रुकले ईक्षणे यस्याः सा ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् कथनात् पूऽर्वतरं पृथावृत्तम् आह । पृथा त्व् इति ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.८ ॥
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे ।
भगिन्यौ भ्रातृ-पुत्राश् च जामयः सख्य एव च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि किम् । जामयः कुल-स्त्रियः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नोऽस्मान् जामिः स्वसृकुलस्त्रियोः इत्य् अमरः न इति पुत्राद्य् अपेक्षया बहुत्वम् । सौम्य हे शान्त-प्रकृते भवादृशां बन्धुवात्सल्य-साधुत्वाद् इति भावः । पितरौ शुरतत्षत्न्यौ । जामयः श्री-देवक्यादयः । सख्यः समशिला अन्याः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नोऽस्मान् इति पुत्राद्य् अपेक्षया, मे इति तस्या एव तत्-सुतत्वादिना, सौम्य ! हे शान्त-प्रकृते इति भवादृशां बन्धु-वात्सल्यं साधुत्वाद् इति भावः । पितरौ शूर-तत्-पत्नौ, भ्रातरः श्री-वसुदेवादयः, भ्रातृ-पुत्राः श्री-राम-कृष्णादयः, जामयः श्री-देवक्यादयः, सख्योऽन्याः कुल-स्त्रियः, एव अप्य् अर्थे समुच्चये वा, च-काराद् दासाद्यादयः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नोऽस्मान् इति पुत्राद्य् अपेक्षया सौम्य ! हे शान्त-प्रकृते इति भवादृशां बन्धु-वात्सल्य-सढुत्वाद् इति भावः । पितरौ शूर-तत्-पन्त्यौ जामयः श्री-देवक्यादयः सख्यः समशीला अन्याः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यामयः कुलस्त्रियः ॥८.९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.९ ॥
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः ।
पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पैतृ-ष्वस्रेयान् मत्-पुत्रान् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णस्य चत्वारि विशेषणानि सम्बन्ध-सामर्थ्य-दयालुता-स्वीय-रक्षकता-बोधकानि ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव विशेषतः पुनः पृच्छति—भ्रात्रेय इति । भगवान् कारुण्याद्य्-अशेष-गुण-युक्तः, अत एव शरण्यः शरणागत-पालको विशेषतश् च भक्त-वत्सलः, यतः कृष्णः, साक्षाद् भगवान् निजाशेषैश्वर्य-प्रकटनार्थम् अवतीर्ण इति भावः । विशेषणानां यथोत्तरं स्मरण-हेतुत्वे श्रैष्ठ्यम् । पैतृष्वस्रेयान् इति स्नेह-विशेष-पात्रत्वेन स्मरणीयतां बोधयति । अम्बुरुहेक्षण इति परम-सौन्दर्यम्, दृष्ट्यैव सन्ताप-हारित्वम्, तेन साक्षाद् दिदृक्षां च, एवं द्वयोर् एव तत् तत् सर्वं विशेषणं ज्ञेयम् । तथापि तत्र तत्र गौणत्वाद् रामस्य पश्चान् निर्देशः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव विशेषतः पुनः पृच्छति—भ्रात्रेय इति । तादृश-प्रश्ने निज-योग्यतोक्ता । न चासौ मम भ्रात्रेयोऽन्य-साधारणः, किन्तु भगवान्, तत्र शरण्यः रक्षितृ-वाचकेन शरण्य-पदेन तद्-धर्मो लक्ष्यते । ततश् च तत्र साधुर् इत्य् अर्थः । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दम् [भा।पु। ११.५.४१] इतिवत् । तत्र प्रवृत्तौ हेतुः—भक्त-वत्सलः । अत एव सम्भावयामीत्य् आह—स्मरति किम् इति शेसः । पैतृष्वसेयान् इति स्नेह-विशेष-मात्रत्वेन स्मरणीय-विशेषतां बोधयति । अम्बुरुहेक्षण इति परम-सौन्दर्यम्, एवं दिदृक्षया तस्मिन् सहज-वात्सल्यम् । ततः करिष्यमाण-निज-रक्षा-प्रार्थनापि तद्-विलास एव ज्ञेयो, न तु कामना-मात्रेण । विपदः सन्तु न शश्वत् [भा।पु। १.८.२५] इत्य्-आद्य्-उक्तेः । एतानि विशेषणानि द्वयोर् एव योग्यानि, रामस्य पश्चान्-निर्देशस् तद्-अनुगत्यैव तद्-भावात् ॥९॥
प्रीति-सन्दर्भः १९२- अत्र अत्र पितृष्वसुस् तस्या ऐश्वर्य-ज्ञान-मयी भक्तिर् अयोग्या, वात्सल्यं तु योग्यम् । तथापि भगवद्-आदि-पद-व्यञ्जित-तादृश-सङ्गतिर् यासीत्, ताम् अतिक्रम्य भ्रात्रेय इति, पैतृष्वसेयान् इति, अम्बुरुहेक्षण इति चोक्ति-भङ्ग्या वात्सल्यस्योत्कर्षे सति रसोल्लासः ॥९॥
क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः, विश्वनाथः, बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१० ॥
सपत्न-मध्ये शोचन्तीं वृकानां हरिणीम् इव ।
सान्त्वयिष्यति मां वाक्यैः पितृ-हीनांश् च बालकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शोचन्तीं मां वाक्यैः सान्त्वयिष्यति किम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वृकाणां व्याघ्राणां । सपत्न-मध्ये शत्रु-मध्ये सपत्नोऽरौ च षतिते पत्नीसहचरे त्रिषु इति निरुक्तिः ।
ननु, स्मरन्न् एव माम् अत्र प्राहिणोदित्य् आशङ्क्याह—सपत्नेति । अनेनात्मनः परमार्तत्वं व्यञ्जितम् । वृकाणाम् इत्य् अन्तन्तरं मध्य इत्य् अध्याहार्यम् । वाक्यैः प्रियवचनैः, पूर्ववत्-तत्-तद्-वचन-शुश्रूषया ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, स्मरन्न् एव माम् अत्र प्राहिणोद् इति चेत् तर्हि साक्षाद्-भूय अचिरात् किम् अनुग्रहीष्यतीत्य् आशयेन श्री-कृष्णे भक्ति-विशेषात्तमेवोद्दिश्याम्बुरुहेक्षण इत्य् अभिप्रेतार्थम् एवौत्सुक्यात् सदौन्यम् आह—सपत्नेति । अनेनात्मनः परमार्तत्वम् उक्तम्, अतो वाक्यैः प्रिय-वचनैर् आश्वासयिष्यति किम् ? ततश् च तस्य सस्मितावलोक-पूर्वक-श्री-मुख-मुद्राविशेषोदयेन मधुर-गम्भीर-स्वरेण च विलसद् वचनामृतं साक्षात् पास्यामीति गूढो भावः । यद् वा, वाक्यैर् अपि कैश्चित् किं पुनः सद् व्यवहारेणेत्य् अर्थः । पितृ-हीनान् इति दीनानाथत्वम् उक्तम्, अल्पार्थे कः । तेन च किञ्चित् कर्तुम् असामर्थ्यम्, अतस् तस्य दीनानाथैक-शरणता-माहात्म्यापेक्षयावश्यं सान्त्वन-योग्यताभिप्रेता ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, स्मरन्न् एव माम् अत्र प्राहिणोद् इत्य् आशङ्कयाह । सपत्नेति । अनेनात्मनः परमार्तत्वं व्यञ्जितं वाक्यै प्रिय-वचनैः पूर्ववत् तद् वचन-शुश्रूषया ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृकाणाम् इत्य् अनन्तरं मध्ये इत्य इत्य् अध्याहार्यम् ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.११ ॥
कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-भावन ।
प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे महा-योगिन् महान् योग उपायो मायाख्योऽस्यास्तीति । हे विश्वात्मन् सर्वान्तर्यामिन् । हे विश्व-भावन विश्व-पालक । प्रपन्नां शरणागताम् । अवसीदतीं क्लिश्यन्तीम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुर्वीप्सेहाहरे । सम्बुद्धित्रयं सर्वसामर्थ्यम् आह । गोविन्देति सर्वत्रा दीनदयालुताम् आह ।
ननु, तत्रत्येषु स्वेषु निजकृत्यं विधायात्रागत्य सान्त्वयिष्यत्वेवेति चेदनन्तरं तद्-दर्शनामृतं लभेमहि तावत्-तत्र स्थितोऽप्य् असावस्माकं प्राण-रक्षां कुर्याद् इति परम-सामर्थ्यं निरूपयन्ती परमार्त्या साक्षाद् इवं तं सम्बोध्य त्रिभिः सकरुणं वदन्ती प्राग् उपसन्नापद्रक्षं प्रार्थयते—कृष्णेति । पूर्वं मुख्य-नाम्ना सम्बोधनं, तत्र वीप्सा झटित्याभिमुख्याय, तत्र तादृश-सामर्थ्य-व्यञ्जकं सम्बोधनं—महायोगिन् हे परमोपाय-युक्तेति । न च त्वयि विज्ञापनापेक्षास्ति सर्वज्ञानादि-प्रवर्तकत्वादित्य् आह—हे विश्वात्मन् । न च ज्ञात्वापि कथञ्चिद् उदास्से जगत्पालकत्वादित्य् आह—विश्वभावनेति । तत्र च प्रपन्नवात्सल्यं दर्शयति—हे गोविन्द गोवर्धनोद्धारण प्रकाशित-तन्नामन्न् इति । न च तत्र विलम्बः कार्य इत्य् आह—शिशुभिः सह शत्रु-सङ्कटे निरन्तरं दुःखं प्राप्नुवतीं च ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तत्रत्य् एषु तेषु निजकृत्यं समाधायाचिराद् अत्रागतः सान्त्वयिष्यत्य् एवेति चेत् तत्र स्थितोऽप्य् असावस्मान् अधुनैव परिपालयितुं शक्त इति सर्व-सामर्थ्यं निरूपयन्ती परमार्त्या भक्त्य् उद्रेकेण साक्षाद् इव तम् एव सम्बोध्य त्रिभिः सकरुणं वदन्ती प्राग् उपसन्नापद्रक्षां प्रर्थयते—कृष्णेति परमेश्वरत्वम् अभिप्रेतम्, वीप्सा तस्य दार्ढ्यार्थम्,तन् नाम्नो जिह्वाकर्षण-स्वभावाद् वा । यद् वा, आदौ संज्ञा-मात्रापेक्षया पश्चाद् ऐश्वर्याभिप्रायेणैव । परमेश्वरत्वम् एव दर्शयति—महा-योगिन्न् इत्य्-आदि-सम्बोधनैः, प्रायस् तैर् व्याख्यातान्य् एव ।
एवं माया-शक्त्या परमात्मतया च बहिर् अन्तर्-व्यापकत्वेन तथा जगत्-पालकत्वेन परमेश्वरत्वं सिद्धम् एव, तत्र च विशेषतस् तत्-प्रकट्याभिप्रायेण सम्बोधयति-गोविन्द हे गोकुलेन्द्रेति, तत्रैवाशेषैश्वर्याभिव्यक्तेर् इति । अथवा मायेश्वरत्वेन जगन् नियन्तृत्वेन च, तथा विश्वभावन ! हे जगत्-स्रष्टरित्य् अनेन चानन्ताद्भुत-शक्तिमत्त्वम्, गोविन्देति भक्त-वात्सल्यं च शीघ्र-रक्षार्थम् उक्तम् । यद् वा, पाहीति प्रार्थयितुं प्राक् कृष्णेति परमैश्वर्यम् उक्तम् एव, शीघ्र-रक्षोपायश् च त्वयि भात्येवेत्य् आह—महायोगिन् हे परमोपाय-युक्तेति । न च त्वयि विज्ञापनापेक्षास्ति, सर्वज्ञत्वादित्य् आह—विश्वस्यात्मन् परमार्थत्वेन चेतयितर् इति । न च ज्ञात्वापि कथञ्चिद् उदास्से जगत्-पालकत्वादित्य् आह—गोविन्देति । इत्य् एतद् अवतार-सम्बन्धेन बन्धुत्वम् अप्य् अवश्यं रक्षार्थं सूचितम् । तत्र च प्रपन्नां शरणागतां माम्, न च तत्र विलम्बः कार्य इत्य् आह—शिशुभिः सह निरन्तरं दुःखं प्राप्नुवन्तीं च ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तत्रत्येषु स्वेषु निज-कृत्यं समाधायाचिराद् अत्रागतः सान्त्वयिष्यत्वेवेति चेत् अन्तरा यावत् तद् दर्शनामृतं लभेमहि तावत् तत्र स्थितोऽप्य् असावस्माकं प्राण-रक्षां कुर्याद् इति परम-समर्थ्ये निरूपयन्ती परमार्त्या साक्षाद् इव तम् एव सम्बोध्य त्रिभिः सकरुणं वदन्ती प्राग् उपसन्नापद् रक्षां प्रार्थयते कृष्णेति पूर्वं मुख्य-नाम्ना सम्बोधनं तत्र वीप्सया झटित्याभिमुख्याय तत्र तादृश-सामर्थ्य-व्यञ्जकं सम्बोधनं महा-योगिन हे परमोपाय-युक्तेति । न च त्वयि विज्ञापनापेक्षास्ति सर्व-ज्ञानादि-प्रवर्तकत्वादित्य् आह । विश्वात्मन्न् इति । न च ज्ञात्वापि कथञ्चिद् उदाससे जगत् पालकत्वादित्य् आह । विश्वाभावनेति । तत्र च प्रपन्न-वात्सल्यं दर्शयति । गोविन्द हे गोवर्धनोद्धारण प्रकाशितन्नामन्न् इति । न च विलम्बः कार्य इत्य् आह । शिशुभिः सह शत्रु-सङ्कटे निरन्तरं दुखं प्राप्नुवन्तीं चेति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-योगिन्न् इति । मथुरायां स्थितोऽपि ममैतां खेदोक्तिं शृण्व् इति भावः । किं च विश्वात्मन्न् इति । मम हृद्य् अपि त्वं स्थितः शृणोष्येवेति भावः । विश्व-भावनेति । विश्वम् अपि त्वं पालयसि मत् पालनं ते कोऽतिभार इति भावः । हे गोविन्द ! मम नेत्र-गोचरीभव त्वाम् अहं दृश्यासम् इति भावः ॥११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१२ ॥
नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् ।
बिभ्यतां मृत्यु-संसाराद् ईश्वरस्यापवर्गिकात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आपवर्गिकान् मोक्ष-प्रदात् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आपवगिङ्कात् मोक्ष-हेतुभूतात्, सर्व-कर्म-फल-प्रापकाद् वा अपवर्गः क्रियासाध्य-फलाप्तौ त्यागमोक्सायोः इति वैजयन्ती । मृत्युग्रस्तः संसारो मृत्यु-संसारः । मध्यपद-लोपी समासः । तस्मात् तथा । न चैतद् अर्थम् अन्यः प्रार्थनीयो यतः सर्व-दुःख-मूलात्-संसाराद् अपि सर्वेषाम् अपि त्वच्-चरणम् एव निस्तारकम् इति मम निश्चय इत्य् आह—नेति । अन्यद्-ब्रह्म-ज्ञानाद् अपि येऽन्येऽरविन्दाक्ष इत्य् उक्तेः । तृणां जीवानाम् । मृत्यु-संसाराद् अनादि-मृत्युपरम्पराप्राप्तेः । नान्यत्-पश्यामीत्य् अत्र हेतुम् आह—ईश्वरस्येति ।
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुग्रीहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८]
इति श्री-मत्स्यदेवोक्त्य्-अनुसारेण,
यो माम् अव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान्-समतीत्यैतान्-ब्रह्मभूयाय कल्पते ॥
ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२६-२७]
इत्य्-आदि-श्रीभगवद्-गीतानुसारेण च प्रसिद्ध-महैश्वर्यस्येत्य् अर्थः । अत एवापवर्गिकात् । अपवर्ग-दानार्हाद् इति चक्रवर्ती । यद् वा, ईश्वरस्य महादेवस्यापि वृकासुरादि-भव-महाभयतो मोक्ष-प्रदात् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नः इति स्वस्य गौरवेण बहुत्वम् । अगृहं गृहं मानुष्यं शरीरम्, तत्र हितानां सच् चिद् आनन्द-विग्रहाणां पुंसाम् इत्य् अत्रापि तथा अन्तर्यामिणाम् अस्माकम् इत्य् अर्थः । आधि-विकर्शनं भक्त-विरह-जन्या मानसी पीडा अधिस् तस्य कर्षणम् ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, कञ्चिद् अपरं रक्षार्थं प्रार्थयस्व, सत्-कर्मादिकञ्चाचरेत्य् आशङ्कां परिहरन्ती किं वक्तव्यं शत्रु-भयाद् इति संसार-भयतोऽपि रक्षा कार्येत्य् आशयेन जगतस् तद् एक-शरणताम् आह—नेति । अन्यत् किञ्चिद् अपरं सत्-कर्मादिकं न पश्यामि नालोचयाम्य् अहम् इत्य् आत्मनस् तद् एक-प्रपत्तियोग्यतावश्य-पाल्यता चोक्ता । नृणाम् इति वैराग्याद्य् उत्पत्त्या मनुष्याणाम् एव प्रायो भय-सम्भवात् । यद् वा, सरेषां जीवानाम् इत्य् अर्थः । मृत्यु-लक्षण4 संसारात् जन्मादेः संसारत्वेऽपि मृत्यावधिक-यातनाभिप्रायेण मृत्यु-शब्द-प्रयोगः । यद् वा, मृत्योर्यमात्, किं पुनर् मृत्योः संसाराच् च, द्वन्द्वैक्यम् । तत्र च तत्रैव शक्तिर् न चान्यस्य कस्यापीति वदन्ती नान्यत् पश्यामीत्य् अत्र हेतुम् आह-ईश्वरस्येति । अत एवापवर्गिकात्, तैर् व्याख्यातम् । यद् वा, ईश्वरस्य महादेवस्यापि ब्रह्म-हत्यादि-विविध-शङ्कटतो मोक्ष-प्रदात् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नेति । अन्य-ब्रह्म-ज्ञानाद् अपि येऽन्येरविन्दाक्ष इत्य् आद्य् उक्तेः नृणां जीवानां मृत्यु-संसारात् अनादि-मृत्यु-परम्परा-प्राप्तेः नान्यत् पश्यामीत्य् अत्र हेतुम् आह । ईश्वरस्येति । मदीयं महिमानं च परं ब्रह्मेति शब्दितं वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदीत्य् अष्टम-स्कन्धस्थ-श्री-मत्स्य-देव-वचनानुसारेण यो माम् अव्यभिचारेण भक्ति-योगेन सेवते स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते । ब्रह्मणाहि प्रतिष्ठाहम् इत्य्-आदि श्री-मद् भगवद् गीतानुसारेण च प्रसिद्ध-महैश्वर्यस्येत्य् अर्थः । अत एवापवर्गिकात् न च तैर् व्याख्यातं यद् ऐश्वर्यस्य महा-देवस्यापि वृकासुरादि-भव-विविधभयतो मोक्ष-प्रदात् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आपवर्गिकात् अपवर्गं दानार्हात् ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१३ ॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
योगेश्वराय योगाय त्वाम् अहं शरणं गता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुद्धाय धर्मात्मने । ब्रह्मणेऽपरिच्छिन्नाय । परमात्मने जीव-सखाय । योगेश्वरायाणिमादि-युक्ताय । योगाय ज्ञानात्मने ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश्वरत्वम् एव पुनर् अत्यौत्सुक्येन व्यक्तं वर्णयन्ती भक्त्य् उद्रेकेण साष्टाङ्गं प्रणमन्ती परम-दैन्योदयेन शरणं याति—नम इति । तैर् व्याख्यातम् । कृष्णायेतैर्श्वर्यम् अभिप्रेतम् एव, शुद्धत्वादिना चैश्वर्यं व्यक्तम् एव । यद् वा, शुद्धायेति धर्मात्मतयावश्यं शरणागत-रक्षाभिप्रेता ब्रह्मणे इत्य्-आदि-पद-द्वयेन । तत्र सदा सर्वत्र सर्व-रक्षायोग्यता, योगेश्वरायेति तद् अर्थं स्वतः सर्वार्थ-परिपूर्णता, योगायेति चान्यतो ज्ञानान् अपेक्षा विशेषणानाम् एषां यथोत्तरं शरण-गमन-हेतुत्वे श्रैष्ठ्यम् ऊह्यम् इति । अथवा परमार्त्या शरणं यान्ती माहात्म्य-विशेषं वर्णयन्ती प्राक् प्रणमति—नम इति । कृष्णाय साक्षात्-परमेश्वराय निजाशेषैश्वर्य-प्रकटनपराय, अतः शुद्धाय सर्व-दोष-रहिताय माया-विहीनाय वा, अतो ब्रह्मणे सर्व-व्यापकाय परमात्मने च प्रत्येकं सर्वेषां हृद्यन्तर्म्यामितया वर्तमानाय, किं च, योगेश्वराय भक्ति-योग-प्रवर्तकाय, अत एव योगाय, भक्तैः सह प्रेम्णा स्वयं युज्यते संयोगं प्राप्नोतीति योगस् तस्मै, अतस् त्वाम् एवाहं दीना प्रपन्नेति स्तुत्या भक्तिभरदयाद् उक्त-क्रम-परित्यागेन परोक्षतया कृष्णयेत्य् उक्तम्, पश्चाच् च त्वाम् इति परम-दैन्येनेति ज्ञेयम् । यद् वा, तुभ्यम् इति प्रसङ्गवलाद् अध्याहार्यम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निजाभीष्ट-योग्यम् एव तं प्रणमन्ती शरणं याति । नम इति । शुद्धायेति धर्मात्मतयावश्यं शरणागत-रक्षाभिप्रेता । ब्रह्मन् इत्य्-आदि पद-द्वयेन तत्र च सदा सर्वत्र सर्व-रक्षा योग्यता योगेश्वरायेति तद् अर्थं स्वतः सर्वार्थ-पूर्णता योगायेति चान्यतो ज्ञानान् अपेक्षा यद् वा, कृष्णाय स्वयं भगवते परिपूर्ण-भक्तीनां परिपूर्णैश्वर्यादि-युक्तायेत्य् अर्थः । ब्रह्मणे निर्विशेष-ज्ञानिनाम् अपि परिच्छिन्नतत्त्व-ज्ञान-मात्र-रूपाय परमात्मने अन्तर्यामित्व-मात्रैश्वर्य-ज्ञानिनां तद् रूपाय त्रिष्व् अपि विशेषणं शुद्धाय माया-स्पर्श-रहिताय योगेश्वराय निज-तथा तथाविर्भावानुभवोपायदात्रे शक्ति-शक्तिमतोर् अभेदांशेन स्वयं तत् तद् रूपाय च तुभ्यम् इति शेषः । अतो नासाध्यं तव किञ्चिद् इति भावः । अतस् त्वाम् इत्य्-आदि ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णाय भक्तैर् उपस्यायेत्य् अर्थः । शुद्धाय दृश्यत्वेऽपि मायातीताय ब्रह्मणे ज्ञानिभिर् उपास्याय परात्मने योगिभिर् उपास्याय योगानां तत् तत् प्राप्त्य् उपायानां भक्त्यादीनाम् ईश्वराय प्रदान-समर्थाय योगाय तत् तद् उपाय स्वरूपाय च ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१४ ॥
श्री-शुक उवाच—
इत्य् अनुस्मृत्य स्व-जनं कृष्णं च जगद्-ईश्वरम् ।
प्रारुदद् दुःखिता राजन् भवतां प्रपितामही ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रपितामही पितामहः पाण्डुस् तस्य भार्या रुरोद ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुद्धो द्वितीये धर्मे च निर्दोषे पावने सिते इति धरणिः । निजाभीष्ट-योग्यम् एव तं प्रणमन्ती शरणं याति—नम् इति । शुद्धायेति धर्मात्मतयावश्यं शरणागत-रक्षाभिप्रेता । ब्रह्मणे इत्य्-आदि-पद-द्वयेन तत्र च सदा सर्वत्र रक्षा-योग्यता । योगेश्वरायेति तद् अर्थं स्वतः सर्वार्थ-पूर्णता । योगायेति चान्यतो ज्ञानानपेक्षा ।
यद् वा, कृष्णाय स्वयं भगवते, परिपूर्णैश्वर्यादि-युक्तायेत्य् अर्थः । निर्विशेष-ज्ञानिनाम् अपि परिच्छिन्न-तत्त्व-ज्ञानम् अत्ररूपाय । परमात्मनेतर्यामित्व-मात्रैश्वर्य-ज्ञानिनाम् अपि तद् रूपाय त्रिश्व् अपि विशेषणम् । शुद्धाय मायास्पर्श-रहिताय । योगेश्वराय निज-तथा-तथानुभवोपायदात्रे, शक्ति-शक्तिमतोर् अभेदांशेन स्वयं तत्-तद् रूपाय च तुभ्यम् इति शेषः । अतो नासाध्यं तव किञ्चिद् इति भावः । इत्य् एवम् आदि-गुण-पूर्णम् । प्रपितामही कुन्ती । स्वेषु जन आविर्भावो यस्य तम्, भक्तार्तिहरम् इत्य् अर्थः । इत्य् एवम् । पित्रादिकम्, जगदीश्वरं जगदीशतया कृष्णं चानुस्मृत्य मुहुः स्मृत्वा ।
यद् वा, च अपि बन्धुतां स्वजनं प्राप्तम् अपि कृष्णं जगदीश्वरतयास्मृत्य । किं वा—जगदीश्वरम् अपि स्वजनं निज-बन्धु तयानुस्मृत्य तद् अप्राप्त्या दुःखिता सती प्रकर्षेण सगद्गदमरुदत् । भवतां प्रपितामहीति तस्यास् तादृश-प्रणयवत्याः साक्षात्-कृष्ण-पितृष्वसुः प्रपौत्रत्वेन तस्य भाग्यं सूचयन् हर्षं वर्धयति । अतः परमादरेण भवच्-छब्द प्रयोगस् तत्र बहुत्वं च । अतः प्रहर्षेण सम्बोधयति—राजन्न् इति । श्री-कृष्ण-सम्बन्धित्वेन देदीप्यमानोऽसीति भावः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एवं पित्रादिकम्, जगदीश्वरम् इति दैन्येन जगदीशतया कृष्णञ्चानुस्मृत्य वारं वारं स्मृत्वा । यद् वा, च अपि स्वजनं बन्धुम् अपि कृष्णं जगदीश्वरतयानुस्मृत्य । किं वा, जगदीश्वरम् अपि स्वजनं भक्ति-विशेषोदयेन निज-बन्धुतयानुस्मृत्य, तद् अप्राप्त्या दुःखिता सती प्रकर्षेण सगद्-गदार्तनादाश्रुधारा-निपातादि-प्रकारेणारुदत् । भवतां प्रपितामहीति तस्याः प्रपौत्रत्वेन तस्य भाग्यं सूचयन् हर्षं वर्धयति । यद् वा, भवत्-सम्बन्ध-विशेषेण तस्यास् तद् उचितम् एवेति भावः । अत एव परमादरेण भवच् छब्दस्य प्रयोगः, तत्र बहुत्वं च, अतः प्रहर्षेण सम्बोधयति-राजन्न् इति । यद् वा, प्रपितामही भाव-विशेष-श्रवणतः प्रेमोद्रेकेण राजमानं तं दृष्ट्वा तथैव समबोधयद् इति ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एवं स्वजनं पित्रादिकं जगदीश्वरम् इति जगदीशतया कृष्णं चानुस्मृत्य वारं वारं स्मृत्वा यद् वा, च अपि स्वजनं बन्धुतां प्राप्तम् अपि कृष्णं जगदीश्वरतयानुस्मृत्य किं वा, जगदीश्वरम् अपि स्वजनं निज-बन्धुतयानुस्मृत्य तद् अप्राप्त्या दुःखिता सती प्रकर्षेण सगद्-गदेत्य् आदिनारुदत् भवतां प्रपितामहीति तस्यास् तादृश-प्रणयवत्याः साक्षात् कृष्ण-पितृष्वसुः प्रपौत्रत्वेन तस्य भाग्यं सूचयन् हर्षं वर्धयति अत एव परमादरेण भवच् छब्द-प्रयोगः तत्र बहुत्वञ्चातः प्रहर्षेण सम्बोधयति राजन्न् इति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जगद्-ईश्वरम् अपि कृष्णं स्वजनं निज-बन्धुतयानुस्मृत्य ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रपितामही कुन्ती ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१५ ॥
सम-दुःख-सुखोऽक्रूरो विदुरश् च महा-यशाः ।
सान्त्वयाम् आसतुः कुन्तीं तत्-पुत्रोत्पत्ति-हेतुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथया सह समं दुःखं सुखं च यस्य सः । तस्याः पुत्राणाम् उत्पत्ति-हेतुभिर् जनकैर् धर्मानिलेन्द्रादिभिस् तत् कथनैर् इत्य् अर्थः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्याः कुन्त्याः । तत्-कथनैस् तेषां कथनैः । इत्य् अर्थ इति—कुन्ति-राज-गृह-दुर्वासः परिचर्यावाप्त देवतोषिणी-विद्या-प्रभावागत-धर्मादि-देवांशोद्भूत-तदात्मज-प्रभाव-वर्णनैर् इत्य् आशयः । चस्त्व् अर्थे । विदुरस् तु महद्यशः स्वभावतः पाण्डव-पक्षपातादि-सत्ख्याति-यस्य सः । तत्-पुत्रेति तैर् व्याख्यातम् । तत्र देववरेभ्य उत्पन्नत्वात् तेषां कदाचिद् अप्य् अशुभं नास्तीत्य् आदि-कथनैर् इत्य् अर्थः । अथ वा, तत्-पुत्रोत्पत्तेर् हेतवो भू-भारावतारार्थम् अवतीर्णस्य कृष्णस्य लीला-सहाय्यानि तैः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम-दुःख-सुख इति श्री-कुन्त्यां परम-स्निग्धत्वम् उक्तम्, महद्-यशः स्वभावतः पाण्डव-विषयक-पक्षपातादि-लक्षणं यस्य सः, अतः सान्त्वयामासतुः । यद् वा, द्वयोर् एव प्रत्येकं विशेषण-द्वयम्, सम-दुःख-सुखोऽपि महा-यशः, परम-धैर्यम् अवलम्ब्येत्य् अर्थः । यद् वा, महद्-यशः परम-ज्ञानित्वादि-लक्षणं यस्य, अतस् तत्-पुत्रोत्पत्ति-हेतुभिः । तैर् व्याख्यातम् । तत्र देववरेभ्य उत्पन्नत्वाद् एषां कदापि किञ्चिद् अशुभं नास्ति, अचिरात् परम-सम्पत्तिर् भवितेत्य् एवं कथनैर् इत्य् अर्थः । अथवा तत्-पुत्रोत्पत्तेर् हेतवः—श्री-कृष्णस्य साहाय्येन भू-भार-हरण-पूर्वक-तद्-भक्ति-प्रवर्तनादयस् तैः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चेति त्व् अर्थे बिदुरस् तु महद्यशः स्वभावतः पाण्डव-विषयक-पक्षवातादि-सत्-ख्यातिर् यस्य सः तत्-पुत्रेति तैर् व्याख्यातं तत्र देववरेभ्य उत्पन्नत्वात् तेषां कदाचिद् अप्य् अशुभं नास्तीत्य् एवं कथनैर् इत्य् अर्थः । अथवा तत्-पुत्रोत्पत्तेर् हेतवः भूमारावतारार्थम् अवतीर्णस्य श्री-कृष्णस्य लीला-साहाय्यानि तैः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याः पुत्राणाम् उत्पत्ति-हेतुभिर् जनकै-धर्मानिलादिभिः एते धर्माद्यांशाः केन नाशयितुं शक्या इत्य्-आदि तत् प्रभाव-कथनैर् इत्य् अर्थः ॥१५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१६ ॥
यास्यन् राजानम् अभ्येत्य विषमं पुत्र-लालसम् ।
अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बन्धुभिः राम-कृष्णादिभिः सौहृदेनोदितम् उक्तं यत् तद् अवदद् इति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यास्यन् गन्तुम् इच्छन्, अक्रूरः । यद् वचः साम्यं हि कार्यं सर्वत्र, विदुषां महतां शयं धर्मो यद्-दीन-पालनम् इत्य्-आदि-रूपं तद् इत्य् अर्थः । सौहृदेन सुहृद्भावेनोदितम् । पुत्रेषु तेषां राज्यादि-सिद्धये लालसा महा-मनोरथो यस्य तम् । सुहृदां भीष्मादीनां मद्ये तस्य लज्जोत्पादनेन निजोक्ति ग्रहणार्थम् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राजानम् इति लोभेन धर्मम् अतिक्रम्य गृहीतपर-राज्यम् इति भावः । अत एव विषमं भ्रातृ-पुत्रेषु च साम्यहीनम् । किं वा, अत्यन्तक्रौर्य-कापट्यादि-युक्त-चित्तम्, यतः पुत्रेषु महा-दुष्ट-दुर्योधनादिषु लालसं महा-स्निग्दम् । यद् वा, तेषां राज्य-सुख-भोगादि-सिद्धये लालसा महा-मनोरथो यस्य तम् । सुहृदां भीष्मादीनां मध्ये इति तेषाम् अपि तत्र सम्मतिं वक्ष्यमाणार्थ-प्रामाण्यादिकं च बोधयति । यद् वा, तेषां साक्षात् तस्य लज्जोत्पादनेन निजोक्ति-ग्रहणार्थम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुत्रेषु तेषां राज्यादि-सिद्धये लालसा महा-मनो-रथो यस्य तं सुहृदां भीष्मादीनां मध्य इति तस्य लज्जोत्पादनेन निजोक्ति-ग्राहणार्थम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुहृदां भीष्मादीनां मध्ये स्थितं बन्धुभिर् विदुरादिभिः सहितं सौहृदोदितं सौहृद-व्यञ्जकं वाक्यम् ॥१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१७ ॥
अक्रूर उवाच—
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्ति-वर्धन ।
भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रातर्य् उपरत इति । पाण्डोः पुत्रेषु सत्सु राजासनं त्वम् आस्थित इति कटाक्षः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कीर्ति-वर्धनेत्य् अत्रापि विपरीत-लक्षणया छेदकेत्य् अर्थो लभ्यते । यद् वा, वर्धनं वृद्धि-वर्धिषुच्छेदे घट्यां तु वर्धनी इति । मेदिनी । कटाक्ष इति—न हि पाण्डु-पुत्रेषु सत्सु तव राज्यादिकारोस्तीति । वैचित्र-वीर्येत्य् अपि तथा ज्ञेयं, पाणि-ग्रहीतृ-पुत्राबावत्वेन व्यासात्मजत्वादि । अधुनेत्य् अनेन पूर्वम् अपि तव ज्येष्ठत्वेऽप्य् अन्धत्वान् न राज्यम् आसीद् इति ध्वनितम् । प्राक् सोल्लुण्ठं सामप्रायम् आह—भो भो इति । वीप्सात्यन्ताभिमुख्यार्थं वाच्यार्थाप्रियत्वेनतस्य वैमुख्य-सम्भवात् ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राक् साम्नाह5—भो भो इति वीप्सा, श्रवणेऽत्यन्ताभिमुख्यार्थम्, वाच्यार्थाप्रियत्वेन तस्य वैमुख्य-सम्भवात्, वाच्यार्थाप्रियत्वेन तस्य वैमुख-सम्भवात्, विचित्र-वीर्येत्य् आदिना महा-राज-पुत्रत्वादि-प्रतिपादनेन साम व्यक्तम् एव । किं च, उपरते मृते सतीत्यराजकत्वात् प्रजा-पलनार्थम्, अधुनेति तद् उपरमतो बहु-कालेऽतीते सत्येवासनम् अधिष्ठितोऽसीति युक्तम् एवेत्य् अर्थः । श्लेषेण विचित्र-वीर्यत्वात् त्वम् अप्य् अद्भुत-विक्रमोऽसीति भावः-अन्यायेन सद्य एव परराज्य-ग्रहणात् । कुरूणां कीर्तिवर्धवनेति सोल्लुण्ठोक्तिः—तद् वंश्यानां त्वत्तोऽकीर्त्य् उत्पत्तेः । यद् वा, कीर्तिं वर्धयति चिनत्तीति तथा सम्बोधनम् । भ्रातरीति श्री-युधिष्ठिरस्यैव तद्-योग्यतां बोधयन् कनिष्ठ-भ्रातृ-राज्य-ग्रहण-दोषः सूचयति ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राक् सोल्लुण्ठं साम-प्रायम् आह । भो भो इति । वीप्सात्यन्ताभिमुख्यार्थम् । वाच्यार्थाप्रियत्वेन तस्य वैमुख्य-सम्भवात् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रातर्य् उपरते इति । पाण्डोः पुत्रेषु सत्स्व् अपि त्वं राजासनम् आस्थित इति कटाक्षः ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१८ ॥
धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवतु तथाप्य् एवं वर्तमानः श्रेयोऽवाप्स्यसीत्य् आह—धर्मेणेति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भवतु राज्यम् । तथापि प्राप्त-राज्यत्स्वेपि । एवं मद् उक्त-प्रकारेण । उर्वी भूमिम् । स्वेषु निजात्मज-पाण्ड्वात्मजेषु । श्रेयः प्रारत्रिकं सुखम् । शिलेन सद्वृत्तेन । स्वेषु स्व-पुत्र-पाण्डवादिषु । श्रेयः कुशलं कीर्तिं च ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शीलेन सद्-वृत्तेन, स्वेषु स्वपुत्र-पाण्डवादिषु, श्रेयः कुशलं कीर्तिं च । यद् वा, लोकद्वये श्रेयः सुखं कीर्तिञ्चावास्यसि, अवदटत्वेन शुद्धत्वेन लप्स्यसे ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शीलेन सद्-वृत्तेन स्वेषु स्व-पुत्र-पाण्डवादिषु श्रेयः कुशलं की त्तिं च ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवतु तदाप्य् एवं वर्तस्वेत्य् आह । धर्मेणेति ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.१९ ॥
अन्यथा त्व् आचरन् लोके गर्हितो यास्यसे तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमो नरकम् इहैव महद्-दुःखम् इति भावः ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यथा वैषम्यम् आचरन् । नरकं तत्-समम् । इति भाव इति—प्रबल-विरोधात्-पुत्र-नाशेनेहैव महन्-नरकस्थवद्-दुःखम् अनुभविष्यसीति भावः । तस्माद् ऐहिकामुष्मिकदुःखभयात् । तमो राहुस् तमोऽघं च दुःखैनोव्यसनेष्व् अपि इति यादवः । अथ स-स्मितं स-परिहासम् आह—अन्यथेति । तमः महा-दुःखम्, अत्र पुत्र-वियोगादिजममुत्र नरकादिजम् इत्य् अर्थः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यथान्य-प्रकारम् उक्त-विरुद्धम् आचरन् कुर्वाणस् तु लोके गर्हित इत्य् अकीर्ति-प्राप्तिर् दर्शितैव । तमो महा-दुःखम्, अत्र पुत्र-वियोगादिजम्, अमुत्र च नरकादिजम् त्य् अर्थः । तत्र च स्वेषु समवृत्त्यैव लोक-निन्दाद्य् अभावः श्रेय-आदिकं च सिध्योदित्य् अभिप्रायेण मुख्यकृत्यम् उपदिशति—तस्माद् इति । समत्वे साम्येनेत्य् अर्थः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सस्मितं सपरिहासम् इवाह । अन्यथेति । तमः महा-दुःखम् अत्र पुत्र-वियोगादिजम् अमुत्र च नरकादिकम् इत्य् अर्थः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमो नरकम् ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२० ॥
नेह चात्यन्त-संवासः कस्यचित् केनचित् सह ।
राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् आत्म-जानात्म-जादिषु कथं समत्वं स्यात् तत्राह—नेह चेति । अत्यन्तं नित्यं संवासः सम्यक् स्थितिः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साम्यस्य दौर्घट्यम् आह—नन्न्व् इति । सर्वस्यान् इत्य् अत्वात्स्नेहः । कुत्रापि योग्यताम् अन्तरेण न कार्य इत्य् आह—नेहेति । इह लोके । किं बहुना, स्वदेहोऽपि नात्यन्त-सङ्गीत्य् आह-स्वेनापीति, कैमुत्यं दर्शितम् । इह लोके । च-काराद् अमुष्मिंश् च लोके । कर्हिचित् कदाचिद् अपि । कस्यचित्" इति क्वचित्-पाठः । हे राजन्न् इति राजत्वेऽपि तद् अपरिहार्यम् इति भावः । स्वेनात्मतया प्रतीतेनापि । अतः पुत्रादि-व्यवहारस्यानित्य् अत्वात् तत्रानासक्तिं विधाय धर्म-रक्षार्थं स्वेषु साम्येन वर्तनम् एव युक्तम् इति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह अस्मिल् लोके, च-काराद् अमुष्मिंश् च क्वचित् कदाचिद् अपि, हे राजन्न् इति राजत्वेऽपि तद् अपरिहार्यम् इति भावः, स्वेन स्वीयतया आत्मतयैव वाभिमतेनेत्य् अर्थः । आदि-शब्दात् राज्य-धनादयः, अतः पुत्राणाम् अस्थिरत्वात् तेषु महा-ममत्व-त्यागेन स्वेषु समतावर्तनम् एव युक्तम् इति भावः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इह लोके च-काराद् अमुस्मिंश् च लोके कर्हिचित् कदाचिद् अपि „कस्यचिद्" इति पाठः क्वचित् । हे राजन्न् ! इति राजत्वेऽपि तद् अपरिहार्यम् इति भावः । स्वेन आत्मतया प्रतीतेनापि अतः पुत्रादि-व्यवहारस्या-नित्य् अत्वात् तत्रानासक्तिं विधाय धर्म-रक्षार्थं स्वेषु समता-वर्तनम् एव युक्तम् इति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च ते प्रिया अपि पुत्रा दुर्योधनादयः चिर-स्थायिन इत्य् आह—नेहेति ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२१ ॥
एकः प्रसूयते जन्तुर् एक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तावद् उत्पत्ति-मरणयोः सुख-दुखयोश् च केनापि साहित्यं नास्तीत्य् आह—एक इति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र प्रसिद्धे संसारे । त्वावद् इति वाक्यालङ्कारे । एकोऽसहायः । अनु देहपातोत्तरम् । सुकृतं शुभ-कर्म-फलं स्वर्गादि । दुष्कृतम् अशुभ-कर्म-फलं नरकादि । प्रसूयते प्रसूतो भवति । प्रमीयते मृत्युना हिंस्यते, प्रम्रियत इत्य् अर्थः । प्रलीयते इति पाठेऽपि स एवार्थः । युग्मद्वयेऽप्य् उत्तरत्रैवैवकारः सम्पदि न करोतु नाम कोऽपि बन्धुः साहाय्यं विपदि कुर्यात्-सर्वथा तत्र च न करोतीत्य् अभिप्रायेण । च उक्त-समुच्चयार्थः उभयत्र युग्मेऽपि योग्यः । अनु तत्-तत्-पुत्रादि-सहभावात्-पश्चाद् एव मरणं जन्मान्तरं च लब्ध्वा पूर्व-पूर्व-कर्म भुक्ते ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनन्य-साधित्यं च ज्न्मादिषु सुव्यक्तम् एवेत्य् आह—एव इति । प्रसूयते, प्रमीयते म्रियते, पाठान्तरेऽप्य् अयम् एवार्थः । जन्तुर् इति जनादिषु स्वातन्त्र्याभावेन सर्वेषाम् अपि भोगावश्यकता ध्वनिता एव, द्वयं तत् तद् दार्ढ्याय, अतश् चकारवलात् स्व-स्व-पूर्व-वाक्येऽपि तद् अन्वयः । अनु मरणानन्तरं भुङ्क्ते दुष्मृतं चानुभुङ्क्ते, अन्विति कदाचिद् अत्र पुत्रादिभिः सह सुख-दुःख-भोगात् परलोके च तस्य केवलस्यैव ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसूयते प्रसूतो भवतीति प्रमीयते मृत्युना हिंस्यते प्रम्रियत इत्य् अर्थः प्रलीयत इति पाठेऽपि स एवार्थः । युग्म-द्वयेऽप्य् उत्तरत्रैव एवकारः सम्पदि न करोतु नाम कोऽपि बन्धुः साहाय्यं विपदि तु सर्वथा कुर्यात् तत्र च न करोतीत्य् अभिप्रायेण च-शब्द-उक्त-समुच्चयार्थः उभयत्रा युग्मेऽपि योज्यः अनु तत् तत्-पुत्रादि-सह-भावात् पश्चाद् एव मरणं जन्मान्तरं च लब्ध्वा पूर्व पूर्व कर्म भुङ्क्ते ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तावद् उत्पत्ति-मरणयोः सुख-दुःखयोश् च न केनापि साहित्यम् इत्य् आह—एक इति ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२२ ॥
अधर्मोपचितं वित्तं हरन्त्य् अन्येऽल्प-मेधसः ।
सम्भोजनीयापदेशैर् जलानीव जलौकसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च यदा च सह संवसन्ति तदापि क्लेशोपार्जित-वित्तापहारितया पुत्रा नाम शत्रव एव ज्ञेया इत्य् आह—अधर्मेति । सम्भोजनीयाः पोष्याः । पुत्रादय इति व्यपदेशैर् अल्प-मेधसो मूढस्य वित्तं हरन्ति । जलौकसो मत्स्य-जीवनहूतानि जलानि यथा तत् पुत्रा हरन्ति तद्वद् इति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सहवासेऽपि सम्बन्धिनो न सुखदा इत्य् आह—किं च इति । सम्भोजयितुं योग्याः सम्भोजनीया एते मया रक्ष्या इति व्यपदेशैर् मिथ्या-देतुभिः ।
यद् वा, सम्भोजनीयाः पुत्रादयो वयम् इति व्याजोक्तिभिः सम्भोजनीयेति पृथक्-पदम् । सन्धिरार्षः । तत्-पुत्रा मत्स्यानां पुत्राः । अन्यपदम् उभयत्र पुत्रादिपरम् । तद् वन्-मूढस्याप्य् अन्य इति अपदेशः पुमाल्लक्ष्ये निमित्त-व्याजयोर् अपि इति मेदिनी जलान्यत्र क्षत्पिष्णूनि ज्ञेनानि, महासङ्घट्टेन तेषां क्षयदौर्गन्ध्यापातान् महामत्स्यस्य पूर्वम् एव मरणापत्तेः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्माद् अधर्मेण धर्मातिक्रमेण पापेन विपचितं स्वयं यत्नः समुपार्जितम् अपि, अन्ये पुत्रादयः, अल्पमेधस इति तत्-तद् विचाराभावाद् दानाद्य् अकरणाद् वा ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधर्मेण स्वधर्मातिक्रमेण निषिद्धाचरणेन च उपचितं स्वयं यत्नतः समुपार्जितम् अपि अन्ये पुत्रादयः अल्पमेधसो जनस्येति तत् तद् विचाराभावात् । जलान्यत्र क्षयिष्णूनि ज्ञेयानि बहु-सङ्गट्टेन तेषां क्षय-दौर्गन्ध्यापातात् महा-मत्स्यस्य पूर्वम् एव मरणापत्तेः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च ते प्रिया अपि पुत्रा दुर्योधनादयश् चिरस्थायिन इत्य् आह । नेहेति ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२३ ॥
पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।
तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च यान् एवं पुष्णाति ते धनम् आदाय मृता जीवन्तोऽपि वा तं परित्यजन्तीत्य् आह—पुष्णातीति । स्व-बुद्ध्या स्वीया इत्य् अभिमानेन रायोऽर्थाः अकृतार्थम् अप्राप्त-भोगम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽप्य् अन्यत्-स्नेहाविषयत्वाद् आह—किञ्चित् । यान् पुत्रादीन् । एवम् अकार्येण, स्वत्वभ्रान्त्या । ते पुत्रादयः । तम् अज्ञं नरम् । राः पुंसि स्वर्ण वित्तयोः इति मेदिनी । अधर्मेण स्वधर्मातिक्रमेण निषिद्धाचरणेन च उपचितं स्वयं यत्नत उपार्जितम् अपि अन्ये पुत्रादयोऽल्पमेधसो जनस्येति तत्-तद् विचाराभावात् यं-तत्र वै पोषणं तस्यैव वर्धनं न तु तेन प्राणादिपोषणम् इति लक्षणं प्रहिण्वन्ति त्यजन्ति ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधर्मेणेति प्राणादि-पोषणार्थं विधि-निषेधापालनात्, अत एवापण्डितं मूर्खं तत्र रायं पोषणं सम्बर्धनं प्रहिण्वन्ति त्यजन्ति । आदि-शब्दाद्-भृत्य-मित्रादयः, प्राणादीनां यथोत्तरं त्यागान् अर्हत्वे श्रैष्ठ्यम् ऊह्यम्, तेन च म्रियमाणं प्राणास् त्यजन्तीति किं वक्तव्यम्, जीवन्तम् अपि, धनानि तथा सचेतनाः पुत्रादयोऽपि, धर्मादिकम् अनादृत्य त्यजन्तीति व्याख्येयम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र पोषणं तस्यैव वर्धनं न तु तेन प्राणादि-पोषणम् इति लक्षणम् प्रहिण्वन्ति त्यजन्ति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च स्व-बुद्ध्या स्वीया इत्य् अभिमानेन यान् यः पुष्णाति ते प्राणादयस् तं मूर्खम् अकृतार्थम् एव प्रहिण्वन्ति त्यजन्ति रायः अर्थाः ॥२३.२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२४ ॥
स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थ-कोविदः ।
असिद्धार्थो विशत्य् अन्धं स्व-धर्म-विमुखस् ततः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स पुनः पापैक-पाथेयो नरकं विशतीत्य् आह—स्वयम् इति । असिद्धार्थोऽपूर्ण-मनोरथः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽज्ञः पथि भोज्यं पाथेयं, पापम् एवैकं केवलं पाथेयं यस्य स तया पाथेयं महाबले पान्थे इति धरणिः । तैः पूत्रादिभिः । कोविदः स्व-प्रयोजनाकुशलः । नष् अर्थेन न शब्देन सुप्सुपा इति समासः । अन्धमन्धकारयुतम् । तमो नरकम् । अन्धतमो महानरकम् । नार्थकोविदः धर्माद्य् अर्थान् अभिज्ञः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किल्विषं पुत्रादिभरणार्थार्जितं पापम् आदाय शरीरान्तरेणापीतो गृहीत्वा, इति तद् एक-साहित्यं बोधितम्, अन्धं तमो महा-नरकं प्रविशति, चिरं भुङ्क्त इत्य् अर्थः । यतः स्वकीय-धर्म-विमुखः, यतो नार्थकोविदः परमार्थन् अभिज्ञः । यद् वा, नार्थोऽनर्थो महा-पापं तस्मिन् कोविदस् तद् आचरणे चतुरः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्धं तमः महा-नरकं नऋथकोविदः धर्माद्य् अर्थान् अभिज्ञः न लोपाभावः आर्षः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४९.२५ ॥
तस्माल् लोकम् इमं राजन् स्वप्न-माया-मनोरथम् ।
वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वप्नश् च माया च मनो-रथश् च तत्तेन तुल्यम् । आयम्य नियम्य । शान्तः सन् समो भवेति ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनेन प्रकृते किम् आयातं, तत्राह—तस्माद् इति । यतोऽधर्मेण पुत्रादि-पालनं नरक-हेतुस् तस्माद् धेतोः । लोकं शरीरं, जगद् वा । स्वप्नेति लुपोपमा, स्वप्नवत् । मायापदेनेन्द्रजालं तद्वत् मनोरथः मनोराज्यवत् । प्रभो इति तस्य निजोक्ति-स्वीकारार्थ्ं श्लाघामात्रम् । सम इति स्वपर-बुद्धिं विहाय निज-भ्रातृ-पुत्रेषु तुल्यतया वर्तस्वेत्य् अर्थः । वीक्ष्य दृढं ज्ञात्वा । आत्मना बुद्ध्या आत्मानं मनः । शान्तः लोभाद्य् उपरतः । समः स्वपुत्रेषु पाण्डवेषु च तुल्यभावो भव ।
यद् वा, समः सन् शान्तः सुखी भव, अन्यथा दुःखम् एवेति सम्बोधयति—प्रभो इति । स्वोक्तग्रहणार्थम् इयं चातुरी । तदैव राजत्व-सिद्धिः, अयम् एव राज्ञो मुख-धर्मश्चेति भावेनाह—हे राजन्न् इति ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य विचार्य, दृढं ज्ञात्वा वा, आत्मनात्मानम् इति आत्मनो बन्धुर् आत्मैव [गी ६.५] इति न्षायात् । यद् वा, आत्मना बुद्ध्या आत्मानं मनः शान्तो लोभ-मोहादु परतः सन् समः स्वपुत्रेषु पाण्डवेषु च तुल्य-भावो भव । यद् वा, समः सन् शान्तः सुखी भव, अन्यथा दुःखम् एवेति भावः । यद् वा, शमो मन् निष्ठता बुद्धेः [भा।पु ११.१९.३६] इति श्री-भगवद् उक्तेः, भगवन् निष्ठ-बुद्धिर् भवेत्य् अर्थः—पुत्रेष्व् इव पाण्डवेषु स्नेहेनैव तादृशत्व-सिद्धेर् इत्य् अयम् उपदेशसारः । तत्र च तव शक्तिर् अस्त्येवेति सम्बोधयति—प्रभो इति, इयं स्वोक्त-ग्रहणार्थं चातुरी, तदैव राजत्व-सिद्धिः । अयम् एव राज्ञो मुख्य-धर्मश् चेत्यभिप्रायेणाह—हे राजन् इति ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीक्ष्य दृढं ज्ञात्वा आत्मना बुद्ध्या आत्मानं मनः शान्तः लोभाद्य् उपरतः सन् समः स्वपुत्रेषु तुल्य-भावो भवायद् वा, समः सन् शान्तः सुखी भव अन्यथा दुःखम् एवेति भावः । यद् वा, भगवन् निष्ठ-बुद्धिर् भवेत्य् अर्थः । परेष्व् इव पाण्डवेषु स्नेहेनैव तादृशत्व-सिद्धेः इत्य् अयम् उपदेशसारः । तत्र च तव शक्तिर् अत्येवेति सम्बोधयति । प्रभो इति । इयं स्वोक्त-ग्रहणार्थ चातुरी तदैव राजत्व-सिद्धिः अयम् एव राज्ञो मुख्य-धर्मश् चेत्य् अभिप्रायेणाह । हे राजन्न् इति ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्थिरत्वात् स्वप्नादि-तुल्यम् आयम्य नियम्य ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२६ ॥
धृतराष्ट्र उवाच
यथा वदति कल्याणीं वाचं दान-पते भवान् ।
तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे दान-पते अक्रूर । न तृप्याम्य् अलम् इति न मन्ये ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काल्याणीं कल्याणकरीम् । अनया वाचा । अमृतं देवान्नम्
अमृतं व्योम्नि देवान्ने यज्ञ-शेषे रसायने ।
अयाचिते जले ह्य् अग्नौ मोक्षणे हेम्नि गोरसे ।
क्लीबे ना त्व् अमरे स्त्री तु गुडुच्यान् इति यादवः ।
कदापि समो न भवितास्मीति मनसि द्रढयित्वा शाट्ये न तद् दोषपरिहारार्थं प्रयो इत्य् अस्य प्रत्युत्तरतया निज-स्वातन्त्र्यं निषेद्धुं तत्र श्री-कृष्णस्यैव दोषं वक्तुं प्राक् तत्-सन्तोषार्थं तद् उक्तम् अभिनन्दति—ययेति यथा यद् अभिप्रायेण, तथा तद् अभिप्रायेणैव, न त्व् अभिप्रायान्तरं बुद्ध्वेत्य् अर्थः । दानपते इति सद् उपदेशदानाभिप्रायेण ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कदापि हि समो न भवितास्मीत्य् अन्तर्मनसि द्रढयित्वा शाठ्येन तद् दोषपरिहारार्थम्, प्रभो इत्य् अस्य प्रत्युत्तरतया निजास्वातन्त्र्यं वक्तुं प्राक् तत्-सन्तोषार्थं तद् उक्तम् अभिनन्दति—यथेति । यादृशीं कल्याणीम् उत्तमाम् दान-पते इति सद् उपदेश-दानाभिप्रायेण, तथा तादृश्या अनया साक्षाद् अनुभूयमानया । यद् वा, अनया ईदृश्येत्य् अर्थः । यथा मर्त्यो न तृप्यति, तथा तृप्यामीति योज्यम् । इत्य् उक्त्य-पालनेन तस्य क्रोधम् आशङ्क्य तद् अनुद्भवार्थं स्वोक्तिग्राहणार्थञ्चादौ स्तुतिः कृता ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कदापि समो न भवितास्मीत्य् अन्तर्मनसि द्रढयित्वा शाठ्येन तद् दोष-परिहारार्थं प्रभो इत्य् अस्य प्रत्युत्तरतया निज-स्वातन्त्र्यं निषेद्धुं तत्र श्री-कृष्णस्यैव च दोषं वक्तुं प्राक् तत्-सन्दोषार्थं तद् उक्तम् अभिनन्दति । यथेति । यथा यद् अभिप्रायेण तथा तद् अभिप्रायेणैव न त्व् अभिप्रायान्तरं बुद्ध्वेत्य् अर्थः । दानपत इति सद् उपदेश-दानाभिप्रायेण ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिज्ञम्मन्योऽयम् अक्रूरो माम् अपि तत्त्वम् उपदेष्टुं प्रागल्भेत किम् अहम् इदं न जानाम् ईत्य् अन्तर्मदपूर्णेऽपि महा-गाम्भीर्यं प्रकाशयन् बहिर् महा-साधुर् इवाह । यथेति । दानपते इति । मथुरायाम् अन्न-दानेन यथा बुभुक्षूंस् तर्पयसि तथैवान्न हस्तिनापुरे अनभिज्ञं मां जान-दानेन तर्पयसीति भावः ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२७ ॥
तथापि सूनृता सौम्य हृदि न स्थीयते चले ।
पुत्रानुराग-विषमे विद्युत् सौदामनी यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूनृता प्रिया वाक् चलेऽस्थिरे हृदि न स्थीयते न तिष्ठतीत्य् अर्थः । सुदामा पर्वतस् तत्र भवा विद्युद् इव । तस्मिन् स्फटिक-शिलामये सहसैवाति-स्फुरिता विद्युद् यथा लीयते तद्वद् इत्य् अर्थः । यद्वा सुदामा माला तस्या इयं सौदामनी । मालाकारेत्य् अर्थः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्य् अपि यथा वदसि तथैव कर्तुं योग्यं तथापीति । विषमं तु नतोन्नम् इति धरणिः । सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपि इति मेदिनी । इत्य् अर्थ इति—कर्म-कर्तरि प्रयोगस्त्वत्राकर्मकत्वान्नास्त्यत आर्षत्वाश्रेण यगादीति बोध्यम् । तवत् यथा सुदाम्नि गिरौ विद्युदुद्यन्त्येव लियते तथा त्वाद् वाचोऽप्य् उक्ति-समकालम् एव लीयन्त इत्य् अर्थः । तडिद्दृष्टान्तस्य व्यधिकरणत्वात्-समानाधिकरण्येनाह—यद्वेति । तस्या मालाया इयं दीप्तिः विद्योतत इति विद्युत् संज्ञायां कर्तरि क्विम्वा । स्याद् विद्युत्-तडिप्त्योः इति धरणिः । सुदामा मेघः सुदामा भूधरे मेघे इति विश्वः । चपले मेघे विद्युद् इवेत्य् अर्थः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न स्थीयते स्थिरा न भवतीत्य् अर्थः । कुतः ? चले चञ्चले, यतः पुत्रेष्व् अनुरागेण विषमे त्यक्त-साम्ये दुष्टतां गते वा, सुदामा मेघः, तथ् च विश्वः—सुदामा भूधरे मेघे इति, तत्रत्या सौदामिनी—यथा मेघे सा स्थिरा न स्याद् इत्य् अर्थः । सौम्य ! हे शान्त-प्रकृते ! निज-सौशील्येन त्वया मयि क्रोधो न कार्य इति भावः । एषापि सर्वा परम-शाठ्योक्तिर् एव, बुद्ध्या स्वनियम्यस्यापि स्वमनसो दोषोक्त्या स्वस्य तद् अधीनत्वेनाशक्तिबोधनात् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न स्थीयते स्थिरा न भवति इत्य् अर्थः । कुतः चले चञ्चले यतः पुत्रेति सुदामा मेघः सुदामा भू-धरे मेघे इति विश्वः । तत्रत्या सौदामनी यथा मेघे सा स्थिरा न स्याद् इत्य् अर्थः । सौम्य हे शान्त-प्रकृते निज-सौशील्येन त्वया मयि क्रोधो न कार्य इति भावोऽपि सकपट एव ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूनृता प्रिय-वाक् न तिष्ठति सुदामा मेघः । सुदामा मूधरे मेघे इति विश्वः तत्र भवा सौदामनी चपले मेघे चपला विद्युद् इवेत्य् अवेत्य् अर्थः ॥२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२८ ॥
ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् ।
भूमेर् भारावताराय योऽवतीर्णो यदोः कुले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं जानतोऽपि कथम् अयं मोह इति चेद् अत आह—ईश्वरस्येति । विधिं विधानं । मायाम् इति यावत् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपत्य् अक्रूरो—नन्व् इति । अयं त्वद् उक्तः पुत्रानुराग ईश्वर-रचनाया एव मायात्व-प्रसिद्धेर् इति यावद् अर्थः । विधुनोति उपसर्गवशाद् अत्र घुनोतेः करणार्थता, करोतीत्य् अर्थः ।
उपसर्गेण धात्वर्थो बलाद् अन्यत्र नीयते ।
विहाराहार-संहार-प्रतिहार-प्रहारवत् ॥
इत्य् उक्तेः विधिं विधानेच्चाम्, सा च मायाख्येति तैर् व्याख्यातम् । अन्यथा प्रकारान्तरेणापि कर्तुं कऽपि न शक्नोत्य् अतस्तां को विधुनोत्यति, क्रमेत, न कोपीत्य् अर्थः । अत्र त्वम् एव प्रमाणम्, एतावता शिक्षणेन मां विवेकं ग्राहयितुं नाशक इति भावः । स चेश्वरः संप्रति युष्मद्-गृहे वर्तत इत्य् आह—भूमेर् इति । तेन तत्र गत्वा स एव निवेद्यतां यन् मम विधेयम्, स मैवं प्रेरयेद् इति भावः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विधुनोति—अतिक्रमितुं श्क्नुयाद् इत्य् अर्थः । अन्यथा मिथ्या अन्य-प्रकारकं वा कृत्वेत्य् अर्थः । अनेन कथञ्चिद् अपि किञ्चित् तद् अतिक्रमणं निरस्तम् । पुमान् पौरुष-युक्तोऽपि जन ऐश्वर्यम् एव दर्शयति—भूमेर् इति । मोक्षादि-प्रदानेनावतारणाय । यद् वा, विधिं विधेस्यम्, सर्व-निजाशेषैश्वर्य6 प्रकटनायाधुनात्रैव साक्षाद् भूतोऽस्तीत्य् आह—भूमेर् इति । अतस् तद् अतिक्रमे कस्य शक्तिः स्याद् इति भावः । यद् वा, भूभार-रूपाणां पापिनां मत्-पुत्रादीनां संहारायैवावतीर्णोऽस्तीति तद् अर्थं तन्मूलं मम वैषम्यं तेनैवोत्पाद्यते, तद् अन्यथा-चरणे मम वराकस्य का शक्तिर् इति । पाठान्तरे स एव स्वयम् अवतीणः, अर्थः स एव ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विधिं विधानेच्छां सा च मायाख्येति मत्वा तैस् तथा व्याख्यानं विधुनोति अतिक्रमितुं शक्नुयादित्य् अर्थः । अन्यथा मिथ्यान्य-प्रकारिकां वा कृत्वेत्य् अर्थः । स च सम्प्रति विधान-विशेषेच्छयात्रैव भूमाववतीर्ण इति सोत्प्रासं तन्मतम् अनुवदन्न् आह । भूमेर् इति । ततो भवद्भिर् एव तत्र प्रयतितव्यम् इति भावः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विधिं विधानम् अन्यथेति प्रकारान्तरेणापि को नु विधुनोति न कोऽपीत्य् अर्थः । अत्र प्रमाणं त्वम् एव एतावतापि शिक्षणेन मां विवेकं ग्राहयितुं नैवाशक इति भावः । स चेश्वरः स्म्प्रति युष्मद्-गृहे वर्तते इत्य् आह । भूमेर् इति । तेन तत्र गत्वा स एव निवेद्यतां यन् मम विधेयं स नैवं प्रेरयेद् इति भावः ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.२९ ॥
यो दुर्विमर्श-पथया निज-माययेदं
सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः ।
तस्मै नमो दुरवबोध-विहार-तन्त्र-
संसार-चक्र-गतये परमेश्वराय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तम् एव नमस्यति । य इति । दुर्विमर्श-पठया अवितर्क्य-मार्गया । गुणान् कर्माणि तत्-फलानि च विभजतेति विविच्य ददाति । दुरवबोधो यो विहारस् तस्य क्रीडा स एव तन्त्रं प्रधानं मुख्यं कारणं यस्य संसार-चक्रस्यात एव तस्य गतिर् यस्मात् तस्मै नम इति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् तन्-मायापाकर्तुम् अशक्यातो हेतोः । तम् ईश्वरम् । दुरवबोधो ज्ञातुम् अशक्यः । एव दुर्ज्ञेय-विहारैककारणत्वाद् एव । तस्य संसार-चक्रस्य ।
तन्त्रं कुटुम्बकृत्ये स्यात् सिद्धान्ते चौषधोत्तमे
प्रधाने तन्तुवाये च शास्त्र-भेदे परिच्छदे ।
श्रुति-शाखान्तरे हेताव् उभयार्थ-प्रयोजके ।
इति-कर्तव्यतायां च
इति मेदिनी अस्माभिर् बहिरङ्गैः परमस्वतन्त्रोऽसौ दूरत एव नमस्कार्य एवेत्य् आह—य इति । तैर् व्याख्यातम् । तत्रावतारिकायां निज-वैषम्यहानेच्छाहेतोर् इति शेषः । अवितर्क्य-मार्गया ज्ञानातीत-प्रवृत्तिकत्वात् परिहर्तुम् अशक्यया । न चोच्चनीचसुख-दुःख-विसर्गे तस्य वैषम्यम् इत्य् आह—कर्माणीति । कर्माणि पूर्व-कर्मानुसारेण विधि-निषेधलक्साणानि । शास्रमुखेन व्यवस्थापयति—फलानि सुख-दुःख-लक्षणानि चोत्पादयतीत्य् अर्थः । न चैवं तस्यैश्वर्यं कर्माधीनम् इत्य् आह—दुरवबोधेति । अनादित्वाद् अनन्तानि जीवानां नाना-कर्माणि तद् विहारेच्छानुसारेणैवोदयन्त इति भावः । अतः परमेश्वराय वशीकृत-सर्वत्वेन तन् नाम्ने ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एवं स्वातन्त्र्याभावेन विधि-निषेध-वाक्यानां वैयर्थ्यं स्यात्, ततश् च पुण्य-पापासिद्ध्या तत्-तत्-फल-भोगो न घटते, सत्यम्, तथापि तस्य परमेश्वरतया दुरूह-लीलत्वेन तत्-तत् सर्वं सम्भवत्येवेति परमेश्वरत्वं वर्णयन् प्रणमति—य इति । दुर्विमर्शोऽतर्क्यः पन्था ज्ञानोपायोऽपि, किं पुनस् तत्त्वं यस्यास् तया निजया स्वाधीनया माययेति परमेश्वरत्व-प्रदर्शनाया परमाद्भुत-शक्तिमत्त्वम् उक्तम् । इदं जगत्, अन्तर्यामितया अनुप्रविष्टः सन्न् इति गुणान् सुख-दुःखादीन् तत्र भक्तान् प्रति सुखादीन्, अभक्तादीन् प्रति दुःखादीन् विभजते ।
ननु, क्वचिद् भक्ता अपि दुःखिनो दृश्यन्ते, तत्राह—दुरवबोधेति, दुरवबोधश् चासौ विहार-तन्त्र-संसार-चक्र-गतिश् च, सदा सुखिनोऽपि भक्ताः कदाचिद्-दुःखिन इव यत् प्रतीयन्ते, एतद् एव तस्य दुरवबोधत्वम् इत्य् अर्थः ।
ननु, सर्वान् एव सुखिनः, किं नव-नवान् इव ? तत्राह—विहारेति । भक्तैः सह विहार एव तन्त्रं मुख्यं यत्र तस्य संसार-चक्रस्य गतये विहारार्थम् इत्य् अर्थः ।
नन्व् एवं तस्य वैषम्यं स्यात्, तत्राह—परमेश्वरायेति । परम-स्वतन्त्राय । यद् वा, तादृश-सृष्ट्यादौ सर्वत्रैवायं हेतुः । तद् इच्छा-कारणं महा-दुर्बोधम् एव, परत्वाद् इति भावः । यद्य् अपि तात्त्विकोऽयं सिद्धान्तस् तथापि तत्रान् अधिकारिणः शाठ्य एव पर्यवस्यति, सर्वत्र तादृश-भावाभावात् केवलं स्वदोष-परिहारार्थम् एव तद् उक्तेर् इति ज्ञेयम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्माभिस् तु बहिरङ्गः परम स्वतन्त्रोऽसौ तद् अर्थं दूरतो नमस्कार्य एवेत्य् आह । य इति तैर् व्याख्यातं तत्रावतारिकायां निज-वैषम्यहानेच्छा-हेतोर् इवेति शेषः । अवितर्क्य-मार्गयेति । ज्ञानातीत-प्रवृत्तिकत्वात् परिहर्तुम् अशक्ययेत्य् अर्थः । न चोच्चनीचसुख-दुःख-विसर्गे तस्य च वैषम्यम् इत्य् आह । कर्माणीति । कर्माणि पूर्वकम् आनुसारेण विधि-निषेध-लक्षणानि शास्त्र-मुखेन व्यवस्थापयति सुख-दुःखानि चोत्पादयतीत्य् अर्थः । न चैवं तस्यैश्वर्यं कर्माधीनम् इत्य् आह । दूरवबोधेति । अनादित्वाद् अनन्तानि जीवानां नाना-कर्माणि तद् विहारेच् छानुसारेणैवोदयन्ते इति भावः । अतः परमेश्वराय वशीकृत-सर्वत्वेन तन् नाम्ने इति ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तम् एव नमस्यति । य इति । दुर्विमर्श-पथया दुर्वितर्क्य-मार्गर्या गुणान् विभजते शान्त-घोर-मूढ-रूपत्वेन विभक्तान् करोति दुरवबोधं दुर्गमं विहार-तन्त्रं लीला-सिद्धान्तो यस्य संसार-चक्राद् अस्मात् गति-रुद्ध्वारो यस्मात् स च स च तस्मै धृतराष्ट्र प्रबोधयेति त्वां मत् प्रबोधार्थं प्रेरयति मां प्रबुध्यस्वेत्य् अबोधार्थं मां च प्रेरयतीत्य् एवं विषमा तस्य लीला अतोऽस्य सिद्धान्तं को जानीयाद् इति भावः न च त्व् अन्तु संसार-चक्रे पतित एवेत्य् अपि वाच्यं ममापि तस्मास्द् एव गतिर् भ्याविनीति भावः ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.३० ॥
श्री-शुक उवाच—
इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः ।
सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य ज्ञात्वा ॥३०.३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । नृपतेर् धृतराष्ट्रस्य । सोऽक्रूरः सुहृद्भिर् विदुरादिभिः । इतीदृशं वैषम्प्यापरित्याग-लक्षणम् । नृपतेर् इति समत्वेन युधिष्टिर-राज्ये स्वराजत्वहानि-शङ्कयेति भावः । सुहृद्भिः पाण्डवादिभिः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति ईदृशं वैषम्यापरित्याग-लक्साणम्, नृपतेर् इति समत्वेन श्री-युधिष्ठिरस्य राजत्वे सति तस्य राजाभिमान-हानिर् इति भावः । सुहृद्भिः पाण्डवादिभिः सम्यक् प्रीति-पूर्वकं दृढतया अनुज्ञातः सन् यदुपुरीं श्री-मथुराम् अगात्, यतो यादवः, अत एवोक्तम्—यदुपुरीम् इति ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतीदृशं वैषम्यापरित्याग-लाक्षणं नृपतेर् इति समत्वेन श्री-युधिष्ठिर-राजत्वे स्वराजत्व-हानि-शङ्कयेति भावः । सुहृद्भिः पाण्डवादिभिः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिप्रायं वैषम्यापरित्याग-रूपम् अभिप्रेत्य ज्ञात्वा ॥३०.३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४९.३१ ॥
शशंस राम-कृष्णाभ्यां धृतराष्ट्र-विचेष्टितम् ।
पाण्डवान् प्रति कौरव्य यद्-अर्थं प्रेषितः स्वयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् अर्थं धृतराष्ट्र-विचेष्टित-ज्ञानार्थम् । कौरव्येति—त्वम् अपि तद् वंश्यत्वात्-तत्परायणो भवेत्य् अभिप्रायः । पाण्डवान् प्रति विचेष्टितम् । अतः कौर्यबहिर् मार्दवाभ्यां विविधं चेष्टितम् । यद् अर्थं यद् विचेष्टितज्ञानार्थं प्रेषितः, ताभ्याम् एव । हे परेव्येति-त्वत्-पूर्वजानां कुरुणां क्षयकारणं तद् एव, तच् च त्वया ज्ञायत एवेति भावः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पाण्डवान् प्रति चेष्टितं व्यवहारम् । पाठान्तरे—अन्तःकौर्य-बहिर्मार्दवाभ्यां विविधं चेष्टितम्, यद् अर्थं यच् चेष्टित-ज्ञानार्थं प्रेषितस् ताभ्याम् एव। हे कौरव्येति त्वं पूर्वजानां कुरूणां क्षय-कारणम्, तद् एव, तच् च तद् वंश्यात्वात् त्वया ज्ञायत एवेति भावः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पाण्डवान् प्रति विचेष्टितम् इति अन्तःकौर्य-बहिर् मार्दवाभ्यां विविधं चेष्टितं तद्-अर्थं यद् विचेष्टित-ज्ञानार्थं प्रेषितः, ताभ्याम् एव हे कौरव्येति त्वत्-पूर्वजानां कुरूणां क्षय-कारणं, तद् एव । तच् च त्वया ज्ञायत एवेति भावः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्। (?)
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
ऊनपञ्चाशत्तमोऽत्र दशमेऽअजनि सङ्गतः ॥*॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्ध्ये राजस-लीला-
प्रकरणे प्रमेय-प्रकणे एकोनपञ्चाशत्तमोऽध्यायः ।
॥ १०.४९ ॥