भगवता कुब्जा-मनोरथ-पूर्तिः, अक्रूर-गृहं गत्वा पाण्डव-समाचार-ज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च ।
॥ १०.४८.१ ॥
श्री-शुक उवाच--
अथ विज्ञाय भगवान् सर्वात्मा सर्व-दर्शनः ।
सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्ट-चत्वारिंशकेऽथ कृष्णः कुब्जाम् अरीरमत् ।
अक्रूरस्य गृहं गत्वा तं गजाह्वयम् आदिशत् ॥
सैरन्ध्री-कामम् आपूर्य पूरयित्वा मनोरथान् ।
अक्रूरस्य ततः कृष्णस् तेन पार्थानसान्त्वयत् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ उद्धवागमनोत्तरम् । तम् अक्रूरम् ।*। ततः सैन्ध्री-काम-पूर्त्य्-उत्तरम् । अक्रूरस्य मनोरथान् पूरयित्वा । तेन अक्रूरेण ।*।
अथ इत्य्-उक्तार्थम् । सर्वं दर्शनं ज्ञानं यस्य स तथा ॥ *अतः परं वैष्णव-तोषणी ॥*१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : काम-तप्ताया इति । कामः "कदा कृष्णो मद्-गृहम् एष्यति?" इत्य् अभिलाषः, तेनोद्विग्नायाः ॥१.३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
श्री-सैरिन्ध्य्रै नमस् तस्यै यस्या भाव-नियन्त्रितः ।
स्वयं ग्र्हं गतो रन्तुं नागरी-गण-वल्लभः ॥
गोकुलाश्वासे सत्य् एवान्तः-स्वास्थ्य्-असिद्धेः । विज्ञाय एष्यामि ते गृहम् [भा।पु। १०.४२.१२] इति दत्त-वरम् अनुस्मृत्य । यद् वा, काम-तप्तां तां विज्ञाय, यतः सर्वस्यात्मा अन्तर्यामी । अत एव [सर्व-दर्शनः] सर्वं पश्यतीति तथा सः । काम आत्मना सह रहो रिरंसा । तेन ज्वर-रूपेण तप्ताया इत्य् एतावन्तं कालं सा तदाशया मुहुर् गृहादिकम् उपस्कुर्वाणा स्व-गृहान्तर् एवासीद् इति ज्ञेयम् । अतः प्रियं प्रीतिम् इच्छन् चिकीर्षन्, यतो भगवान् दीन-दयालुर् इत्य् अर्थः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
सैरिन्द्रीम् अपि सन्त्यक्तुम् अहं शक्तोऽस्मि नोद्धव !
किम् उत व्रज-लोकांस् तान् इति व्यञ्जन्न् इमाम् अगात् ।
श्री-सैरिन्ध्र्यै नमस् तस्यै यत् कृपाकृष्ट-मानसः ।
स्वयं गृहं गतो रन्तुम् असङ्कोचं रमापतिः ।
अथेति सार्ध-द्वयकम् । भगवान् श्री-कृष्णः । अथेत्य् उद्धवस्यागमन-हेतो-विज्ञाय बहूनि दिनानि व्याप्य तन् मुखाद् व्रजौकसां पित्रादीनां प्रत्येकं सान्त्वन-प्रायं विशेषेणानुभूय कदाचित् सौरिन्ध्र्या गृहं ययौ । कीदृश्याः कामत-प्राप्ताः स्वार्थाभिलाष-विशेषेण दह्यमानायाः तर्हि किम् एषोऽपि कामी नेत्य् आह । प्रियम् इच्छन् मत् प्रीत्य् अर्थम् असावङ्गरागं मह्यम् अर्पितवती तस्माद् अहम् अमुष्याः प्रीति-विशेषम् एव कृत्वा अनृणः स्याम् इति विचारयन्न् इत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ उद्धवागमनानन्तरं श्री-गोकुलस्य किञ्चिद् आश्वासने ज्ञात एव सर्वात्मा सर्व-दर्शनोऽपि ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ विज्ञाय भगवान् इत्य्-आदि । विज्ञाय तस्यौत्कण्ठ्यं विशेषेण ज्ञात्वा प्रियं प्रीतिम् इच्छन् गृहं ययौ । सौरिन्ध्यास् तन्नाम्ना ख्याताया भगवान् श्री-कृष्णः सर्वात्मा सर्व-सुहृद् सर्व-दर्शनः सर्वज्ञः स्वरूपं जानातीति भावः । स्वरूपं तु पृथिव्यंश-रूपम्, तेन तत्र प्रवृत्ते, न ह्य् अकार्य भगवत् प्रवृत्तिः ॥१.३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्ट-चत्वारिंशकेऽगात् कुब्जां रमयितुं हरिः ।
स्तुतोऽक्रूरेण तद्-गेहे प्राहिणोत्तं गजाह्वयम् ॥
विज्ञाय उद्धवोक्तं विशेषतो ज्ञात्वा तत्र समाधानं पूर्वम् एव कृतवान् इत्य् आह । भगवान् महातर्क्यैश्वर्याद् एव मथुरायां स्थितोऽपि प्रकाशान्तरेण व्रजम् अगाद् एवेत्य् अर्थः । सर्वात्मत्वाद् एव सर्व-मनोरथं पूरयितुम् इत्य् अर्थः । किन्तूद्धव-समाधानार्थं सर्व-दर्शनः तदा उद्धवं प्रति स्वीय-प्रकाश-द्वैत-विरह-प्रकाशेऽप्य् आविर्भावादिक-मति-रहस्यम् अपि ज्ञापयामासैवेत्य् अर्थः । ततश् च पूर्वं यत् प्रतिश्रुतं तत् दातुं तेन सह कुब्जाया गृहं जगाम् एत्य् आह । सैरन्ध्र्या इति ॥१॥
॥ १०.४८.२ ॥
महार्होपस्करैर् आढ्यं कामोपायोपबृंहितम् ।
मुक्ता-दाम-पताकाभिर् वितान-शयनासनैः ।
धूपैः सुरभिभिर् दीपैः स्रग्-गन्धैर् अपि मण्डितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महार्हैर् अनर्घ्यैर् उपस्कारैर् गृहोपकरणैर् अन्वितम् । कामोपायैस् तद् उद्दीपकैः सुरत-बन्धादि-लेख्यैर् उपबृंहितम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपबृंहितम् उपचितम् । सुरत-सम्बन्धिलेख्यानि वृषभबन्ध-विपरीत-रत्यादिचित्राणि । सुरभिभिर्घ्राणेन्द्रियतृप्य् उत्पादकैः सुरभिर्घ्राणतर्पणः इत्य् अमरः । सार्धेनान्वयः । महार्हेति—सम्भोगोत्सवोपयोगि-बहूपकरणान्वितम् इत्य् अर्थः । कामोपाया मधुताम्बूलादयः । उपस्कारानेव प्रपञ्चयति—मुक्तादामानि गृहस्य पताकोपरीति ज्ञेयम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गृहस्य कर्तव्य-रति-योग्यतां दशयन् तद्-वर्णयति—महार्हति सर्धेन । उपस्कराः स्फाटिक-स्तम्भादयः, किम्वा तान् एव प्रपञ्चयति—मुक्तेत्य्-आदिना, मुक्तादामानि गृहस्यान्तः, पताकाश्चोपरीति विवेचनीयम् । सुरभिहिर् इति यथा-यथं वितानाद्भिर् अपि योज्यम् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कुतस् तस्यास् तादृशम् अपि वाञ्छतं विधित्सतवान् ज्ञातवां च तत्राह । सर्वेति । सर्वत्मत्वेन सर्व-हितकारित्वात् तद् अपि कर्तुम् उचितः सर्व-दर्शनत्वेन तद् अपि ज्ञातम् इत्य् अर्थः । कामोपाया मधु-ताम्बूलादयः उपस्करान् एव प्रपञ्चयति । मुक्तेत्य् आदिना । मुक्तादामानि गृहस्यान्ते पताकाश् चोपरीतिं ज्ञेयं सुरभिभीरित । यथा-यथं वितानादिभिर् अपि योज्यम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महार्देति संभोगोत्सवोपयोगि-बहूपकरणान्वितम् इत्य् अर्थः । कामोपायाः कामोद्दीप-कालेख्य-विशेषा औषध-विशेषाश् च ॥२॥
॥ १०.४८.३ ॥
गृहं तम् आयान्तम् आवेक्ष्य सासनात्
सद्यः समुत्थाय हि जात-सम्भ्रमा ।
अथोपसङ्गम्य सखीभिर् अच्युतं
सभाजयाम् आस सद्-आसनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा यथोचितम् ॥३.४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् । जातः सम्भ्रमो वेगो यस्याः सा तथा । सदासनं सिंहासनं, बहु-मूल्य-नेपाल-कम्बलादि-मयं वा । आदिना पुष्प-मालादि-ग्रहः । अवेक्ष्य दूरे दृष्ट्वा । सम्यग् उल्लासेनोत्थाय । हि पाद-पूरणे । उल्लास-कार्यम् आह—जात-सम्भ्रमा, सम्भ्रमः चित्त-त्वरा । अच्युतम् इति प्रतिज्ञात-च्युति-रहितम् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आवेक्ष्य दूरतो दृष्ट्वा सम्यग् दूराद् आसन-परित्याग-कम्पादि-काम-विकारादिनोत्थाय । हि अपि । जात-सम्भ्रमापि सखीभिः सह । उप समीपे संगम्य । यद् वा, हि विशेषे। जात-सम्भ्रमत्वात् स्वयम् अशक्ता सखीभिः कृत्वा सभाजयामास । आदि-शब्दात् पाद-प्रक्षालनादयः, अच्युतम् इति आगमनेन निज-वाक्य-च्युति-राहित्याद्य्-अभिप्रायेण ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवेक्ष्य दूरे दृष्ट्वा सम्यग् अग्त्य् उल्लासेनोत्थाय हि पाद-पूरणे । तच् च करणं तस्याः सम्भ्रम-क्रमेण । उल्लास-कार्यम् आह । जात-सम्भ्रमा सम्भ्रमश् चित्तत्वरा अच्युतम् इति प्रतिज्ञातच्युतिर् आहित्याभिप्रायात् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा यथोचितम् ॥३॥
॥ १०.४८.४ ॥
तथोद्धवः साधुतयाभिपूजितो
न्यषीदद् उर्व्याम् अभिमृश्य चासनम् ।
अकृष्णोऽपि तूर्णं शयनं महा-धनं
विवेश लोकाचरितान्य् अनुव्रतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा कृष्णस् तथैव । तया सैरन्ध्र्या । अभिमृश्य स्पृष्टा । सर्वेश्वरसमक्षं समासनोपवेशनानौचित्याद्-भूमावेवोर्णाद्यासने न तु सिंहासन इति भावः । महाधनम् अनर्घ्यम् । लोका अत्र रसिकास् तदाचरितानि दासीसङ्गादीनि । वस्तुतस् तु लोकाचरितानि स्वोक्तिपालन-निज-जनाभिप्रेतार्थ-पूरणादिनि । तथेत्य् उक्त-समुच्चये । उद्धवश् च साधु यथा स्यात् तथाभितः पूजितः उर्व्यां न्यषीदद् इति भक्त्यासनम् अभिमृश्य स्पृष्ट्स्वेति तस्याः प्रीत्य् अर्थं वन्दित्वेत्य् अर्थो वा । महाधनम् अमूल्य-रत्नादिमयम् इत्य् अर्थः । तूर्णं विवेशेति पूजायाः पूर्वमासने निविष्टस् ततः उत्थाय सद्यो गृहान्तःशय्यायां स्वयम् उपविवेशेत्य् अर्थः । तत्र हेतुः—लोकानाम् आचरितानि स्वैरस्त्रीगृह-मध्ये रत्य् अर्थं स्वेच्छयैवासु तच्-छय्यानिवेशादीनि सर्वाण्येवानुसृतः । स्वीकृत-लौकिक लीलत्वादेवात इदम् अपि रात्रावेव बोद्धव्यम् ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आसनं तया दत्तम् अभिमृश्य वन्दित्वा उर्व्या न्यसीदत् । तया दद्द्तम् संभ्रमेण गोपीनां मतं दृष्ट्वा तादृश-रतिम् अतीषु बहुमानोऽत्यन्त एवोद्धवस्य जात इति नर्मसचिरं तम् एव सङ्गे कृत्वा जगाम श्री-कृष्णः । श्री-कृष्णोऽपि तस्यां अभिलाषं ज्ञात्वा द्रुतं शयनं विवेश ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेनैवोक्त-प्रकारेण, उद्धवश् च साधुतया सम्यक्त्वेन यद् वा, साधु यथा स्यात्-तथा तया, सैरिन्द्र्या अभितः पूजितः तथेत्य् एव साधुतयेत्य् अनेन अभि शब्देन च विव्र्तम् । यद् वा, तथाभि पूजने येतुः—साधुतया श्री-कृष्ण-प्रियत्वादित्य् अर्थः । उर्व्यान्ययीददीति श्री-भगतः श्री-सैरिन्ध्य्रा वा भक्त्या आसनम् अभिमृश्य स्पृष्वेति च, तस्याः प्रित्य् अर्थम्, महाधनम् अमूल्ययत्नादिमयम् इत्य् अर्थः । तूर्णं विवेश पूजायाः पूर्वम् आसने निविष्टोऽथेथाय सस्वरं गृहान्तःशय्योपरि स्वयम् एवोपरिवेशेत्य् अर्थः । तत्र हेतुः—लोकानाम् आचरितान्बि स्वैरस्त्री-ग्र्ह-मध्येर् अत्य् अर्थं स्वेच्छयैव आशु तच्छय्याधिष्ठेयेत्य् आदि-लक्षणानि तान्यनुव्रतोऽनुस्र्तः, अत इदं रात्राव् एअ बोद्धव्यम् । एवम् ईश्वरस्याइ लौकिक क्रीडया पूर्ववल्-लीला-माधुर्येव ज्ञेया । दान्तम् [भा।पु। ६.७.२१] इति गज-दम्भादि-निमितम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथेत्य् उक्त-समुच्चये । उद्धवश् च साधु यथा स्यात् तथा तया सौरिन्ध्रया अभितः पूजित उर्व्यां न्यसीदद् इति भक्त्या आसनम् अभिमृश्य स्पृष्टवेति तस्याः प्रीत्य् अर्थं वन्दित्वेत्य् अर्थो वा । महाधनम् अमूल्य-रत्नादिमयम् इत्य् अर्थः । तूर्णं विवेशेति पूजायां पूर्वम् आसने निविष्टस् तत उत्थाय सत्वरं गृहान्तःशय्यायां स्वयम् एवोपविवेशेत्य् अर्थः । तत्र हेतुः । लोकानाम् आचरितानि स्वैर-स्त्री-गृह-मद्येरत्य् अर्थं स्वच्छयैवाशु तच् छय्याधिष्ठेयेति पर्यन्त-लक्षणानि सर्वाण्येवानुवृतोऽनुसृतः । स्वीकृत-लौकिक-लिलत्वादित्य् अर्थः । अत इदम् अपि रात्राव् एव बोद्धव्यम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न्यसीदद् उर्व्याम् इति साक्षात् स्थितस्य स्व-प्रभोर् गौवात् इति ज्ञेयम् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथोद्धव इत्य्-आदि । तथा तेन प्रकारेण भगवत् सख्यत्वेन सादरतयेत्य् अर्थः । तथा पूजायामासने दत्ते तदासनम् अभिमृश्य स्पृष्ट्वा उर्व्यां न्यसीदत् उपविवेश । तेनाति भगवत् प्रियेति कृत्वा समादरः कृत एव । तद्विधा हि तद्विधानां महिमानं जानन्ति । कृष्णोऽपि तस्या शयनं विवेश । कीदृशम् ? दान्तं हस्ति-दन्तकृत-पर्यङ्कम् महाधनं बहु-मूल्यं लोकाचरितानि लौकिकी-लीला ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उर्व्यां न्यासीदद् इति कृष्ण-प्रियया तथा स्व-हस्तदत्तासने दासस्य तस्योपवेशानौचित्यात् । अभिमृष्य स्व-हस्तेन स्पृष्ट्वेति तस्याज्ञापालनार्थम् । शयनम् अन्तर्गृहस्थित-शय्याम् ॥४॥
॥ १०.४८.५ ॥
सा मज्जनालेप-दुकूल-भूषण-
स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः ।
प्रसाधितात्मोपससार माधवं
स-व्रीड-लीलोत्स्मित-विभ्रमेक्षितैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसाधितो योग्यतमापादित आत्मा देहो यया सा । स-व्रीडं यल् लीलया उद्गतं स्मितं, तद् येषु विभ्रमेषु तद्-युक्तैर् ईक्षितैर् उपलक्षिता ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा कुब्ज्[अचरा]{।मर्क्} । सुधा इव स्वादुर् आसवः । ओषध्य्-अर्कः-सुधासवस् तद्-आदिभिर् उत्तमाञ्जनादिभिः । आलेपश् चन्दन-पङ्कः । गन्धो वह्नि-सम्पर्कजश् चन्दनादि-निर्यासः । सुधावद् आसवो मधु । उपससार समीपे शनैर् गता । माधवं लक्ष्मी-कान्तम् इति "अहो दीन-विसाय-कृपा-पारवश्यं कियद् वर्णनीयम्" इति भावः । प्रसाधितो रति-योग्यतां प्रापितः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सा अपि माधवं लक्ष्मीधरम् उपससार, उपसृत्य व्रीडया स्थगित्[आ]{।मर्क्}ं वीक्ष्य समाजुहाव ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आलेपश् चन्दन-कुङ्कुमादि-पङ्कः, गन्धश् चन्दनागुर्व्-आदि-विभाग-साधित-सुरभि-द्रव-विशेषः, सुधा घनेषद्-उष्ण-दुग्धम्, किं वा सुधावद् आसवो मधु, आदि-शब्दात् तिलकाञ्जनादयः । मज्जनादीनां निष्पादन-क्रमस्य यथोत्तरं प्रसाधने श्रैष्ठ्यस्य वाभिप्रायेण तत्-तत्-क्रमेण निर्देशः । उपससार समीपे शनैर् गता माधवं लक्ष्मीकान्तम् इति । अहो! तस्या भाग्य-महिमेति भावः । यद् वा, निजाशेष-भगवत्त्व-प्रकटनार्थं मधु-वंशे जातस्य तस्य विचित्र-सौन्दर्य-माधुर्य-वैदग्ध्यादिकं सूचितं ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आलेपश् चन्दनादि-पङ्कः । गन्धो बहिः सम्पर्कश् चन्दनादि-निर्यासः । सुधावद् आसवो मधु । उपससार समीपे शनैर् गता । माधवं लक्ष्मीकान्तम् इति । "अहो दीन-विषय-कृपा-पारवश्यं कियद् वर्णनीयम्" इति भावः ॥५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३१४) : अथ अनुभावाः । तत्र सैरिन्ध्र्य्-आदीनां--सा मज्जन- इत्य्-आदि ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सा किं चकारेत्य् आह—सा मज्जनालेप- इत्य्-आदि । सुधा-सदृशे य आसवः पुष्प-रसः, मज्जनं मज्जन-सामग्री स्नान-सामग्री, आलेपनम् अनुलेपः, दुकूलं पीत-कौशेयम्, भूषणं हारादि-स्रङ्-माल्यम्, गन्धस् ताम्बुलं सुधासंवश् च तद्-आदिभिर् उपससार । कीदृशी ? प्रसाधितात्मा भूषित-देहा । पुनः कीदृशी ? स-व्रीड-लीलोत्स्मित-विभ्रमेक्षितैर् विशिष्टा ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गन्धो\ऽगुरु-धूपः प्रसाधितः रति-योग्यताम् आपादित आत्मा देहो यया सा ॥५॥
॥ १०.४८.६ ॥
आहुय कान्तां नव-सङ्गम-ह्रिया
विशङ्कितां कङ्कण-भूषिते करे ।
अप्रगृह्य शय्याम् अधिवेश्य रामया
रेमेऽनुलेपार्पण-पुण्य-लेशया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुलेपार्पणाद् अन्यत् तस्याः पुण्यं नास्तीति दर्शयितुं पुण्य-लेशयेत्य् उक्तं न तु पुण्यस्याल्पत्व-विवक्षया ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नवस्य यद्य् अप्य् असौ पार्श्वगतो रहो गतस् तथापि तस्याङ्घ्रि-युगं नवन्नवम् इत्य् आद्य् उक्तेर् नित्यनूत्नस्य श्री-कृष्णस्य सङ्गमेऽहो अयं ब्रह्माद्याशास्यमानलोक-श्री-रमापतिः क्वाहं क्वेति या लज्जा तया विशङ्कितां सङ्कुचिताम् । शय्याम् इति कर्म-प्रवचनीय-योगे सप्तम्य् अर्थे द्वितीया । भगवतेऽनुलेपार्पणस्यातीत पुण्यत्वात् ।
काश्मीरद्रवपाटीरकर्पूरादिभिर् अन्वितम् ।
अनुलेपं हरेर् दत्त्वा ह्य् अश्वमेध-फलं लभेत् ॥
इत्य्-आदि-पुराणात् । नव-सङ्गमह्रिया विशङ्किताम् इत्य् अनेन तस्याः प्राचीन-तत्-स्पर्श-प्रभावेण तद् एव शरीरं परम-दिव्य-कुमारीभावाय सम्पन्नम् इत्य् एतद्-व्यञ्जितम् । कङ्कण-भूषित इति सुकोमलाङ्गित्वात्-कङ्कणोपर्य्येव प्रगृह्येत्य् अर्थः । तादृशानुग्रहे भक्तिर् एव हेतुर् इत्य् आह—अनुपलेपेति, तैर् व्याख्यातम् । यद् वा, अनुलेपार्पण-लक्षणं पुण्यं लान्ति आत्मसात्कुर्वतीत्य् अनुलेपनलास् तेषाम् ईशयानुलेपार्पकभक्त-वर्ग-श्रेष्ठयेत्य् अर्थः । स्वयं भगवति श्री-कृष्णे तत्रापि साक्षात् तत्रापि समय-विशेषेऽनुलेपार्पणात् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आहूय कान्ताम् इत्य्-आदि । कान्तां कमनीयां स्वकृत शिल्प-कौशलेन परम-रमणीयाम् । इदम् अस्याः सौभाग्यं कुतः ? अनुलेपनार्पणम् इति-वेत्तस्मै मालाकारोऽपि मालादि ददौ, तेन किम् इत्य् आह—अनुलेपनार्पण-पुण्यलेशया—अनुलेपार्णन्तु पुण्यस्य लेश एव यस्याः अङ्ग-सङ्ग-योग्य पूर्व-पूर्व-सुकृत-राशिस् तु भूयानेवास्या इति मन्तव्यम् । भगवत एव यदृश्छया सम्पन्नो वा तथाविधोऽनुग्रः ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वामयेत्य् अनेन तस्या अपि रूप-गुणादिकं वक्ष्यत एव । एवं द्वयोर् अपि मिथः समग्र-रति-योग्यतोक्का, तथाप्य् अस्याः । यद् वा, साक्षात्-तद्-दर्शने\ऽपि सति मज्जनाद्य् अपेक्षणं प्रेम-सौष्ठवाभावं सूचयति । कान्ताम् इत्य् अनेन नव-संगमेत्य् अनेन तथा वामयेत्य् अनेन च श्री-भगवद् अनुग्रहेण बोधि तैव, अतस् ताम् आह्वानेनाप्य् अनायान्तीं स्वयम् उत्थाय करे प्रकर्षेण सभाव-लीलया बलाद्-गृहीत्वा, कङ्कण-भूषित इति सुकोमलत्वात् कङ्कणोपर्य् एव प्रगृह्येत्य् अर्थः न च केवलं वामात्वेन तादृशो\ऽनुग्रहः प्राप्तः, किन्तु भक्त्यैवेत्य् आह—अनुलेपेति । तैर् व्याख्यातम् ।
यद् वा, पुण्यानि यज्ञाद्य् अशेष सुकृतानि लेशः समुद्रस्य कण इव यस्य तादृशम् अनुलेपार्पणं यस्यास् तया, सर्व-पुण्येभ्यो\ऽनुलेपार्पणस्य परम-महत्त्वाद्-विशेषणस्य पश्चात् प्रयोग आर्यः । यद् वा, अनुलेपार्पण-लक्षणं पुण्यं लान्ति गृह्णन्ति आत्मसात् कुर्वन्तीति अनुलेपार्पण-पुण्यला वैष्णव-विशेषाः, तेषाम् ईशया ऐश्वर्या अनुलेपार्पक भक्त-वर्ग-श्रेष्ठयेत्य् अर्थः—समय-विशेषे तया तादृशानुलेपनार्पणात् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नव-सङ्गमह्रिया विशङ्किताम् इत्य् अनेन तस्याः प्राचीन-तत् स्पर्श-प्रभावेण तस्यास् तद् एव शरीरं परम-दिव्य-कुमारी-भावाय सम्पन्नम् इत्य् एतद् व्यञ्जितं कङ्कण-भूषित इति सुकोमलाङ्गीत्वात् कङ्कणोपर्येव प्रगृह्येत्य् अर्थः । तादृशानुग्रहे भक्तिर् एव हेतुर् इत्य् आह । अनुलेपेति । तैर् व्याख्यातम् । यद् वा, अनुलेपापेण-लक्षणं पुण्यं लान्ति आत्मसात् कुर्वन्तीत्य् अनुलेपनलाः तेषाम् ईशया अनुलेपार्पक-भक्त-वर्ग-श्रेष्ठयेत्य् अर्थः । स्वयं भगवति श्री-कृष्णे तत्रापि साक्षात् तत्रापि समय विशेषेऽनुलेपार्पणात् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स तदा किम् अकरादित्य् आह—आहूयकान्ताम् इत्य्-आदि । कान्तां पृथ्ऽइव्य् अंशत्वेन दयितां श्री-भूलीलेत्य् अदिना भुवः कान्तात्वात् । कीदृशीम् ? नव-सङ्गमह्रिया विशङ्कितां कृत-सङ्कोचाम्, अतः कङ्कण-भूषिते करे, प्रगृह्य गृहीत्वा शय्याम् अधिशय्य शययित्वा रेमे, स्वयं रमेशोऽपि ।
नन्व्, एवं-भूतम् अस्याः सौभाग्यं कुतः किम् अनुलेपनार्पणम् एव ? नेत्य् आह—अनुलेपार्पणं तु पुण्यस्य लेश एव न स्यात् । एवंविधं प्राक्तनं पुण्यं प्रचुरम् अस्तीत्य् अर्थः । न हि पुण्यलेशेनैवंविधं भवति सौभाग्यम्, तत् साधूक्तं पृथिव्यंश एवेति ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नव-सङ्गमेति । विशङ्कितेति पदाभ्यां मन्दधियः प्रति तस्याः अनन्य-भोग्यत्वं ज्ञापितं तत्र तस्याः महा-सुन्दर्या अपि कुब्ज एव रक्षकः आसीद् इति भावः । अनुलेपार्पण-लक्षणस् तत् प्रापकः यस्या पुण्य-लेश इति । न तु साधन-सिद्धानां व्रज-स्त्रीणां पुरस्त्रीणाम् इव वा पुण्य-पुञ्ज इति भावः ॥६॥
॥ १०.४८.७ ॥
सानङ्ग-तप्त-कुचयोर् उरसस् तथाक्ष्णोर्
जिघ्रन्त्य् अनन्त-चरणेन रुजो मृजन्ती ।
अदोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तम्
आनन्द-मूर्तिम् अजहाद् अति-दीर्घ-तापम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुचादीनां रुजो मृजन्ती । जिघ्रन्ती च चरणम् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा सैरन्ध्री । दोर्भ्यां बाहुभ्याम् । स्तनावन्तरे मध्ये यस्य तत्-स्तनान्तरं वक्षस्थलं तद्गं प्राप्तं कान्तं कमनीयं, क-शब्दोपलक्षितवेदस्यान्ताम् तात्पर्य-विषयं वा । काम्यते सर्वैर् इति कमनी रमा तया यायते प्राप्यते कमनीया सा मूर्तिर् यस्य, अनेन लक्ष्मी-योग्यमतीव दुर्लभं वस्तु तद् इति ध्वनितम् । अतिदीर्घतापं साम्सारम्, लोक-दृष्ट्या कामार्ति वा । अनङ्गतप्तेत्यस्योरसाक्षिभ्याम् अप्य् अनुषङ्गः । अनङ्ग-तप्तेत्यसमस्तत्वेपि संपलुतत्वात् । अनन्तस्यापरिच्छिन्न-माधुर्यतया च तस्य तथा नाम्नश् चरणेन स्वयं तेन वा तत्र-तत्र निहितेन रुजः काम-पीडा मृजन्ती अपसारयन्ती, एतच् च रतान्ते ज्ञेयम् । स्तनान्तरगतं स्तन-रूपावकाशं प्राप्तम् अन्तरमवकाशावधि इत्य् अमरनानार्थात् । अत एवानन्दमूर्ति तत्रापि कान्तं मधुर-भाव-विशेषमयमत एवात्यन्तदीर्घम् अपि तद् अप्राप्तितापं सद्यो जहौ ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आनन्दमूर्तिम् इत्य् अस्यायं भावः—अन्यत्र-प्रियमालिङ्गन्त्याः प्रियाया आनन्दो जायते, तेन तस्यास् तापादि-नाशः, इयन्तु आनन्दम् एव परिरेभ इत्य् अर्थः ।
यद् वा, आनन्दो ब्रह्म, स एव मूतिः शक्ति विशेषा यस्य,
यद् वा, मूर्तिः काठिन्यमानन्दस्य काठिन्यं घनानन्दम् इत्य् अर्थः ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च वैदग्धी-विशेषेण रत्या तस्याश् चिराप्राप्ति-जात्य् अन्तहत्तापो गत इत्य् आह—सेति । तथेति समुश्च्चये । तद्-बलात्-समासान्तर्गतस्यापि अनङ्ग-तप्तेत्य् अस्योरसाक्षिभ्याम् अप्य् अनुषङ्गः । समासस् तु स्त्रीणां कुचयोः काम-तापाधिक्याभिप्रायेण । यद् वा, तथा तेनानिर्वचनीयेन प्रकारेणाजिघ्रन्ती, न विद्यते विरह-तापादिना भक्तानाम् अन्तो नाशो यस्मात् । यद् वा, नास्ति अन्तः-कारुण्य-वैदग्ध्यादि गुणानां परिच्छेदो यस्य तस्य भगवतश् चरणेन पादाब्जेनैकेन तेन स्वयम् एव वा तत्र तत्र निहितेन रूजः कामादि-पीडा मृजन्ती अपसारयन्ती, एतच च रत्यन्ते कान्तं प्रियम् इति प्रेम-परिरम्भो\ऽभिप्रेतः । यद् वा, सुन्दरम् आनन्द-मूर्तिश् च, विशेषणाभ्याम् आभ्यां सुखप्रदत्वं सुख-घनत्वं चोक्तम् । अत एवात्यन्त-दीर्घम् अपि तद् अप्राप्तितावं सद्यो जहौ ॥ ७
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनङ्गतप्तेत्य् अस्य उरसाक्षिभ्याम् अप्य् अनुषङ्गः । अनङ्गतप्तेति असमस्तत्वेऽपि सप्लुतत्वात् अनन्तस्यापरिच्छिन्न-माधुर्यतया च तस्य तथा नाम्नश् चरणेन स्वयं तेन वा तत्र तत्र निहितेन रुजः काम-ईडा मृजन्ती अप्सारयन्ती एतच् च रत्यन्ते ज्ञयं स्तनान्तरगतं स्तन-रूपावकाशं प्राप्तम् अन्तरमवकाशवधीति अमरनानार्थात् । अत एवानन्दमूर्ति तत्रापि कान्तं मधुर-भाव-विशेषमयम् अत एवात्य् अन्तदीर्घम् अपि तद् अप्राप्तितापं सद्यो जहौ ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : रेमे [६।ष्ठ।श्लो] इत्य् उक्तस्य रमण-प्रकारं सौरिन्ध्री चरितेनैवाह—सानङ्गतप्तेत्य् आदि । अनङ्गो मनोरथः अनङ्गतप्तयोः कुचयोस् तथोरसश् च नवयौवनत्वेनोरस इति पृथङ्निर्देशः । तथाक्ष्णो रुजः पीढनन्तचरणेन श्री-कृष्ण चरणेन मृजन्ती सती । कीदृशी ? जिघ्रन्ती, मध्ये मध्ये तद् एव चरणारबिन्दं जिग्रन्ती दोर्भ्यां भुजाभ्यां स्तनान्तरगतं कान्तं परिरभ्याति दीर्घतापम् अजहात्, चिरविरहोत्तापं जहौ । कान्तं कीदृशम् ? आनन्दमूर्तिम् आनन्द विग्रहं मूर्तानन्दम् इति यावत् ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुचादीनां रुओ मृजन्ती चरणं जिघ्रन्ती च ॥७॥
॥ १०.४८.८ ॥
सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कामम् एव प्राकृत-दृष्ट्या अयाचत । न च गोप्य इव सा तन् निष्ठेति दुर्भगेत्य् उक्तम् । कृतार्थत्वे तु तस्या न सन्देहः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोक्तार्था । प्राकृत-दृष्ट्या संसारिक-दृष्ट्या । कामं निधुवन-लीलाम् । तनिष्ठा कृष्ण-निष्ठा । यत्स्मरणं कृतार्थतापादकं तत्-सङ्गस्य तत्र तत्र का कथेत्य् अर्थः । यद् वा, दुर्गतं भं भयं यस्मात्-सदुर्भः कृष्णस् तं गच्छतीति दुर्भगा, दुःखेभ्यो बिभ्यतीति दुर्भा विरक्तास् तैर् गम्यतेः इति दुर्भगो हरिः सोस्ति प्रियत्वेनास्या इति दुर्भगा । मत्वर्थीयाजन्ताट्टाप् । इदं वक्ष्यमाणम् । ईश्वरं परम-स्वतन्त्रमत एव परम-दुष्प्रापम् । एवम् उक्त-प्रकारेण । तत्रापि केवलः शुद्ध-भक्तस् तस्य भावः कैवल्यम् एकान्त-रति कैवल्य-सम्मतपथस् त्व् अथ भक्ति-योगः इत्य् अत्र कैवल्यम् इत्य् एव सम्मतः पन्था भक्ति-योग इति स्वामि-व्याख्यानात्, यथा वर्ण-विधानम् अपवर्गश् च भवतीति पञ्चम-स्कन्धपद्यानुसाराच् च तस्य नाथं तत्-प्रदान-प्रभुं तत्-तया प्राप्य प्रकर्षेण लब्ध्वा दुर्भगा पूर्वं कुब्जात्वदासीत्व-लक्षण-दौर्भाग्य-युक्तापि न तु श्री-गोपीव स्वतः श्री-विजयितत् तद्-गुण-युक्ता । अहो आश्चर्यम् । इदं वक्ष्यमाणं सुदुर्लभं पदम् अयाचत । अस्या दुर्भगावस्थत्वस्य प्राचीनत्वेन निर्देशः । किम् अनेन कृतं पूर्वम् अवधूतेन भिक्षुणा इत्य्-आदिवत् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ताम् अभिनन्दन्न् आह—सैवं कैवल्यनाथम् इत्य्-आदि । तं दुष्प्रापं सर्वेश्वरम् अपि एवम् एवं प्रकारेण कैवल्येन एकान्त-भावेन नाथं प्राण-नाथं प्राप्य प्राण-नाथत्वेनास्वाद्य इदं वक्ष्यमाणमयाचत अहो ! आश्चर्यम् अत एवासौ न दुभगा कस्मिन् सति ? अङ्गरागार्पणे अङ्गं च रागोऽनुरागश् च तयोर् अर्पणे सति अङ्गार्पणं देहार्पणम्, रागार्पणं रागाधिकरणत्वाद् अन्तः करणार्पणं तत्र तत सति यथा तयोर् अर्पणेन अहः अत्यजतः श्री-कृष्णात् हेतोर् न दुर्भ्यगाः, न जहातीति अहाः तस्माद् अहः पुनः पुनर् आलिङ्गनादि कृत्वापि न त्यजतः श्री-कृष्णस्य स्वात्मानं प्रत्यनुरागातिशयं ज्ञात्वा प्रश्रयवशात् पुनः प्रार्थनम् इति भावः ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश्वरं परम-स्वतन्त्रम् अत एव दुष्प्रापम्, तथाप्य् अङ्ग-रागार्पण-मात्रेण, एवम् उक्त-प्रकारेण तत्रापि कैवल्यम् एकान्त-रतिस् तस्य नाथं तत्-पदान-प्रभुम्, प्राप्य प्रकर्षण लब्ध्वा, दुर्भगा श्री-गोपी-सदृश-प्रेम-राहित्येन तादृश-भाग्य-हीनापि, अहो आश्चर्य, इदं वक्ष्यमाणं सुदुर्लभ-पदमयाचत ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईश्वरं परम-स्वतन्त्रम् अत एव परम-दुष्प्रापं तथापि अङ्ग-रागार्पण-मात्रेण । एवम् उक्त-प्रकारेण तत्रापि केवल-शुद्ध-भक्तेस् तस्य भावः कैवल्यम् एकान्त-रतिः कैवल्य-सम्मत-पथस्त्व् अथ भक्ति-योग इत्य् अत्र कैवल्यम् इत्य् एव सम्मतः पन्था यो भक्ति-योग इति स्वामि-व्याख्यानात् । यथा वर्ण-विधानम् अपवर्गश् च भवतीत्य् आदिपञ्चम-सकन्ध-गद्यानुसाराच् च तस्या नाथं तत्प्रदान-प्रभुं तत् तया प्राप्य प्रकर्षेण लब्ध्वा दुर्भगा पूर्वं कुब्जात्वदासीत्वलक्षणदौर्भाग्य-युक्तापि न तु श्री-गोपीवत् स्वतः श्री-विजयितत् तद् गुण-युक्ता अहो आश्चर्यम् इदं वक्ष्यमाणं सुदुर्लभं पदमयाचत । अस्या दुर्भगावस्थत्वस्य प्राचीनत्वेन निर्देश किम् अनेन कृतं पूर्वम् अद्वधूतेन भिक्षुणेत्य् आदिवत् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सैवम् इति द्वयम् ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तदा सा किम् अकार्षीद् इत्य् आह—सैवं कैवल्यनात्य्हम् इत्य्-आदि । सा सैरिन्ध्री तं कैवल्य-नाथं प्राप्यैवं वक्ष्यमाणमयाचत । अतो न दुर्भगा, कैवल्यञ्चेदयाचिष्यत्, तदा दुर्भगाभविष्यत् । कस्मिन् सति एवम् अयाचतेत्य् आह—अङ्गरागार्पणे सतीति कालार्थे सप्तमी । अङ्गं च रागोऽनुरागश् च, तयोर् अर्पणे सत्य् अङ्गार्पणं रागार्पणं च कृत्वेत्य् अर्थः । अहो इति विस्मये । कीदृशम् ? दुष्प्राप्यं योगिभिर् अपीति भावः । ईश्वरं कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थम् ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा तं कैवल्येनैव नाथम् अयाचत । केवलया मयैव सह रमस्व न त्वन्यया कयाचिद् अपि इति प्रार्थयामासेत्य् अर्थः । तथाभूतवरस्य कृष्णेनाप्रदास्यमानत्वात् दुर्भगा ॥८॥
॥ १०.४८.९ ॥
सहो1ष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया ।
रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : (वैष्णव-तोषान्यी त्यक्ष्यामीति भाव इत्य् अवधि उद्धृता)
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत् किम् ? इत्य् आह—आहोष्यताम् इत्य्-आदि ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): तद् एवाह—सहेति । इह मद्-गृहे मया सहोज्यतां त्वया । तत्र प्रयोजनम् आह—रमस्वेति । अत्रापि मया सहेति योज्यम् ।
ननु ममान्य् अत्र कृत्यान्तराणि बहुतराणि सन्तीति चेत्-तत्राह—नोत्सहे इति । अतस् त्वं यत्र यास्यासि, तत्रैवाहं यायाम, अन्यथा प्राणांस् त्यक्ष्यामीति भावः । कुतः ? हे प्रेष्ठेति प्राणादिभ्यो\ऽपि प्रियतमत्वादित्य् अर्थः । तत् कुतः ? हे अम्बुरुहेक्षणेति परम-सुन्दरत्वादित्य् अर्थः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाह—सहेति । आहोष्यताम् इति पाठः सर्वत्र, स तु पुनर्-उक्तः अयाचतेत्य् उक्तत्वात् । याचनम् एव विवृणोति—सहेति । इह मद्-गृहे मया सहोष्यतां त्वया । तत्र प्रयोजनम् आह—रमस्वेति । तत्रापि मया सहेति योज्यम् । ननु ममान्यत्र कृत्यानि बहुतराणि सन्तीति चेत् तत्राह—नोत्सह इति । अतस् त्वं यत्र यास्यसि तत्रैवाहं यायाम् । अन्यथा प्राणांस् त्यक्ष्यामीति भावः । तत् कुतः ? हे अम्बुरुहेक्षण ! परम-सौन्दर्यादि-गुण-युक्तत्वेनाकृष्ट-मदीय-सर्वेन्द्रियत्वाद् इति भावः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किम् अयाचतेत्य् आह—आहोष्यताम् इत्य्-आदि । हे प्रेष्ठ ! इह मद्-गृहे मया सह कतिचिद् दिनान्य् उष्यताम् । ते सङ्गं त्यक्तुं नोत्सहे । हे अम्बुजेक्षण ! रमस्व इहेत्य् अर्थः । अथवा, इहोष्यतां मया सह रमस्व ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि कतिचिद् दिनानीहान्तर् गृहे एव उष्यतां, न तु बहिर् निष्क्रम्यतां भोजन-पानादि-व्यवहार-सिद्धिर् एतद्-गृहम्-मध्य एव सर्वा वर्तत इति भावः । सहोष्यताम् आहोष्यताम् इति च पाठ-द्वयम् ॥९॥
॥ १०.४८.१० ॥
तस्यै काम-वरं दत्त्वा मानयित्वा च मान-दः ।
सहोद्धवेन सर्वेशः स्व-धामागमद् ऋद्धिमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काम एव वरस् तं दत्त्वा । मानयित्वा चालङ्कारादि-दानैः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यै सैरन्ध्यै । सर्वैश इति तद्-गृह-गमने तत्-सङ्गे च दोषाभावम् आह । कामवरं दत्त्वेति मत्-कर्तृक-सम्पूर्ण-सम्भोग एव तवाभिप्रेतः स च सामान्य-स्त्री-सत्त्वेऽपि ते सेत्स्यतीति प्रतिश्रुत्स्येत्य् अर्थः । मानयित्वा तत्र तं सम्मतां कृत्वा, निरन्तं रमणं तु त्वद् इष्टं न सम्भवेत् किम्वदन्तीभयाद् इति चोक्त्वागमत् । गमनागमनयोर् उद्धव-साहित्यं लोकक्-वितर्काभावाय, तस्य महाशिष्ट-चिरोमणित्वेन सर्वत्र ख्यातत्वात् । कुब्जेयं भू-शक्तेर् विभूतिर् ज्ञेया पूर्व-व्याख्यानात् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स च सर्वेशः सर्वस्यैवाभिलाष-परिपूरकस् तस्यै मानयित्वा साधुवाद-पूर्वकं कामवरं कामः सङ्कल्पस् तेषु वरं श्रेष्ठम् । अथवा तत् सिद्धिप्रदं वरं तथैव कर्तव्यम् इति स्वीकृत्य स्वाधामागमदित्य् अन्वयः । अयम् अभिप्रायः-तया चिरावस्त्स्हितिर् वब्रे, तेन तस्या गृहे स्फुरद् रूपेण तद् विरहं खण्डयन् निरन्तरं स्थितः । कार्यान्तराय स्थानान्तरं च गत इत्य् अहो वस्तु महिम्नः स्वाभावात् को विरोध इति तुल्ययोगितायां चकारः ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कामः स्मर-क्रीडोपभोगः, स एव वरो\ऽभीष्टार्थस् तं च तादृश-वरदानं मानदत्वञ् च, तस्या गुणाद्य् अपेक्षया, किन्तु तस्य तादृश-स्वभावत्वाद् एवेत्य् आह—मानद इति । उद्धवेन सहित इति श्री-गोपीनाम् इव तस्याः सान्त्वनार्थं स तत्र न हि रक्षित इति भावः । यद् वा, तद् अनुमत्य् एत्य् अर्थः । स्वधाम श्री-वसुदेव-गृहम् आगतः । तत्र हेतुः—सर्वेश इति, यादवादीनां सर्वेषां पालकत्वात्, अन्यथा तेषां दुःखोत्पत्तिर् इत्य् अर्थः । ऋद्धिमत्—दास-दास्यादि-सर्व-सम्पत्ति-युक्तम् इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कामः सहोष्यताम् इत्य्-आदिना तथा प्रार्थितः स्मरोप-भोगः स एव वरोऽभीष्टार्थः । आगत्यागत्य रंस्य इति तत् सङ्कल्पात्म कस् तम् इति श्री-गोपीवत् शुद्ध-प्रेम-विशेषाभावो दर्शितः यत् ते सुजात-चरणाम्बुरुहम् इत्य्-आदिरीत्या तासां तदीय-सुखैक-स्व-सुख-दत्वादस्यास् तु स्व-सुख-मात्रोद्देशात् किन्तु लक्ष्मी-सहस्र-कोटीनाम् अप्य् आविर्भावेन च प्रभोः सौरिन्ध्र्याः स्वीकृतिः सेयं व्यनक्ति स्म परं कृपाम् । तत्र च तस्य स्वाभाविक-करूणैव कारणम् इत्य् आह मानद इति उद्धवेन सहित इति । यथा तेन सह गतस् तथा एवागतः । तच् च लोकाचरितम् अनुसृत्य तस्य परम-धर्म-निष्ठस्य सङ्गेनापलनार्थम् इव । वस्तुतस् तु परम-प्रणयेनेति भावः । स्वधाम श्री-वसुदेवान्तर्गृहम् । तत्र तत्र च च तस्य लीलेच्छैव कारणम् इत्य् आह । स्र्वेष इति । ऋद्धिमत् सर्व-विध-प्रिय-जन-तत्-सेवोपकरणस्-अम्पन्नम् इति तत्रागमनयोग्यतोक्ता । अत्रेयं माधुर-हरि-वंश-कथेति श्रूयते । पूर्व-जन्मनीयं राज-कन्यासीत् तत्र नारदात् श्री-भगवद् गुण-गान-चृअवणेन तस्मिन् जातानुरागा बभूव । पश्चाच् च श्री-नारदं प्रति तस्या योग्य-वरे राज्ञा पृष्टे स उवाच । ताम् एव कन्यां पृच्छामः कोऽभिप्रायस् तस्या इति ततश् च पृष्टा साप्य् उवाच यं भवान् सर्वोत्तमत्वेन गायति एव मम वरः इति । ततः श्री-नारदेन तत्-प्राप्तावसम्भावनाया दर्शितायाम् अपि जन्म-कोटिभिर् अपि वरयिष्यामीति तद् वचनं श्रुत्वा विवाहस्य च सा तत्-प्राप्ति-साधनम् उपदिष्टा चिरं तपस् तत्पवती तदाकाश-वाणी जाता जन्मान्तरे भवती कुब्जिका सती यत् स्पर्शण सौन्दर्यं लप्स्यते सोऽहं तव पतिः स्याम् इति ततश् च कंस-मन्त्रिवर-वैश्य-गृहे सा ततैव जाता कंसेन सा प्रार्थ्य-निज-गन्ध-युक्तौ निर्दिष्टेति । एवम् अङ्ग-रागार्पणेनाहो इति यथाधुनिक-दृष्टम् एवेति । ज्ञेयम् । कल्प-भेद-कथात्वियम् एवेति वा ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : काम एव वरः—आगत्यागत्य रंस्य इति लक्षणस् तम् ॥१०.१२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स किम् उवाचेत्य् आह—तस्यै कामवरम् इत्य्-आदि कामोऽभिलाष उक्तप्रकारको मनोरथ इति यावत् । तस्य वरं तत्-स्वरूपं वा वरं तस्यै दत्त्वा इह क्तिचिद् दिनानि स्थास्यामि, त्वया सह रंस्ये चेति वरं दत्त्वा मानयित्वा स मानद उद्धवेन सह स्वधाम चागात् । अयम् अर्थः—तस्या सङ्कल्प-सिद्ध्यर्थं स्फुरद् रूपेण तत्र च स्थितः, स्वाधाम चागात् । व्यापकत्वात् तस्य नासम्भाव्यमेतत्, अन्यथा भक्ताभिमत-प्रदत्वानुपपत्तिः । तस्यै कामवरं दत्त्वेत्य् अस्याप्य् असङ्गतिः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामवरं दत्त्वेति मत् कर्तृक-पूर्ण-संभोग एव तवाभिप्रेतः स च ममान्य-स्त्री-सत्त्वेपि ते सेत् स्यतीति प्रतिश्रुत्येत्य् अर्थः । मानयित्वा तत्र तां समतां कारयित्वा निरन्तर-रमणं तु त्व् अदिष्टं न सम्भवेत् किंवदन्तीभयाद् इति चोक्त्वा अगमत् गमनागमनयोर् उद्धव-साहित्यं लोक-वितर्काभावाय तस्य महाशिष्ट-शिरोमणित्वेन सर्वत्रख्यातत्वात् कुब्जेयं भू-शक्तेर् विभूतिर् ज्ञेया पूर्व-व्याख्यानात् ॥१०॥
॥ १०.४८.११ ॥
दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मनो-ग्राह्यं विषय-सुखम् । असत्त्वात् तुच्छत्वात् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मनसाप्य् अग्राह्यम् । कुत्सिते शब्दादि-विषये मनीषा बुद्धिर् यस्य स तथा । तद् एवं तत्-कथां समाप्य तस्या लौकिक-कामिनीवत्-प्रतीयमानत्वेऽपि निदां निराकुर्वन् प्रशंसाम् एव व्यनक्ति—दुराराध्यम् इति । विष्णुं सर्व-व्यापकं परिपूर्णं स्वयं भगवन्तम् इत्य् अर्थः । अतः सर्वेषाम् ईश्वराणां महत्-स्रष्ट्रादि-पुरुषाणाम् अपीश्वरम् आविर्भावादि-हेतुम् । सर्ववरेश्वरम् इति पाठे तु सर्वेषां वराणां वरणीयार्थानां मुक्ति-भक्ति-पर्यन्तानाम् ईश्वर प्रदान-समर्थम् अत एव दुराराध्य तादृशम् अपि सम्यग् आराध्य यो मनोग्राह्यं वस्तु स्व-प्रीतिजनकत्वेन प्रार्थयते असावेव जनः कुमनीषी कुमतिः, तत्र हेतुर् असत्त्वात् । अति-तुच्छानित्यानर्थ-कऋयर्थवरणात् । एषा तु वाङ्मनसागोचरमानन्द-मूर्ति-श्री-भगवन्तम् एव तादृशत्वेन प्रार्थितवती परम-सुबुद्धिर् एवेत्य् अर्थः । तथैव प्रातितं श्री-प्रह्लादेन—
या प्रीतिर् अविवेकानां विषये ह्य् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् मापसर्पतु ॥
इति विष्णु-पुराणे ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनस् ताव् अभिनन्दन्न् आह—दुराराध्यम् इत्य्-आदि । कृष्णं सर्वेश्वरेश्वं दुराराध्यं समाराध्यं विष्णुं व्यापकं तं विना मनोग्राह्यं यत् किञ्चिद् अन्यत् मोक्षादि यो वृणीते, असौजनः कुमनीषी, इयन्तु न तथा, यतस् तम् एव वृणीते स्म । अतोऽसौ न कुमनीषिणी, धन्यतमैवेत्य् अर्थः । कस्माद् अन्यन्न् न वृणीते स्म, असत्वात् मिथ्याभावात् । तद् अन्यस्य सर्वस्यैवेति वस्तुतोऽपि मोक्षोऽपि मिथ्या अज्ञान-सङ्ज्ञौ भवन्ध-मोक्षौ [भा।पु १०.१४.२६] इत्य् उक्तेः ॥११.१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च मया सह रमस्वः इति कामोपभोग-प्रार्थनया श्री-सैरिन्ध्र्या एकान्तित्व-हानिर् मन्तव्या, तेन सहैव तद्-याञ्चया तद्-रस-विशेष-भोग-सिद्धेर् इत्य् आशयेनाह—दुराराध्यम् इति । विष्णुं निज-शक्त्या सर्व-व्यापकं भगवन्तम् अतः सर्वेषाम् ईश्वराणां ब्रह्मादीनाम् अपीश्वरं नियन्तारमत एव दुराराध्य तथापि सम्यग् आराध्य, पाठान्तरे सर्वेषां वराणां वरणीयार्थानां मुक्ति-भक्त्यादीनाम् ईश्वरं प्रदान-समर्थम् अप्य् असौ जनः कुमरीषी कुत्सित-बुद्धि, अति-तुच्छान् इत्य् आसत्यार्थ वरणात् । एषा च श्री-भगवता सह रतेः प्रार्थनेन तस्याश् च तद् एक-निष्ठत्वेन परम-फलतया सत्य-नित्य् अत्वात् परम-सुबुद्धिर् एवेत्य् अर्थः । तथापि श्री-गोपी-सदृश-प्रेमाभावेन तादृश-सुखानुभवासम्पत्त्यासिद्धाभीष्टापि सा श्री-गोपीभ्यो न्यूनतरैव ज्ञेया, तच् च दुर्भगेत्य् उक्तम् एव । भक्त्यादि-साध्य-परम-प्रेम-परीपाक-लभ्येपि भगवद् अङ्ग-सङ्गे तया लब्धे\ऽपि तादृश-सुखाभावो भाव-तारतम्येनैव यथा साक्षाच्-छी-कृष्णा—दर्शने\ऽपि केषाञ्चित् सुखासम्पतिः । तच् च रङ्ग-स्थलादौ मल्लादीनां दुःखाद्य् उत्पत्याव्यक्तम् एव ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तत्-कथं समाप्य तस्या लौकिक-कामिनीवत् प्रतीयमानत्वेऽपि निन्दां निराकुर्वन् प्रशंसाम् एव व्यनक्ति । दुराराध्यम् इति । विष्णुं सर्व-व्यापकं परिपूर्णं स्वयं भगवन्तम् इत्य् अर्थः । अतः सर्वेषाम् ईश्वराणां महत् स्रष्ट्रादि-पुरुषाणाम् अपीश्वरम् आविर्भावादि-हेतुं सर्व-वरेश्वरम् इति पाठे सर्वेषां वरणीयानाम् अर्थानां मुक्ति-पर्यन्तानाम् ईश्वं प्रदान-समर्थम् अत एव दुराराध्यं तादृशम् अपि सम्यग् आराध्य यो मनोग्राह्यं वस्तु वृणीते स्व-प्रीति-जनकत्वेन प्रार्थयते । असाव् एव जनः कुमनीषी कुत्सित-बुद्धिः । तत्र हेतुर् असत्त्वात् अति-तुच्छानित्यान् अर्थाकार्यार्थवरणात् । एषा तु वाङ्मनसा-गोचरा-नन्द-मूर्ति श्री-भगवन्तम् एव तादृशत्वेन प्रार्थितवतीति परम-सुबुद्धिर् एवेत्य् अर्थः । यथैव प्रार्थितं श्री-प्रह्लादेन । या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान्मापसर्पत्विति । विष्णु-पुराणे श्री-प्रह्लाद-प्रार्थनम् अपि तथैवेति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसङ्गात् प्रेयसी-भावेन भजतो जनान् शिक्षयति । दुराराध्यम् इति । मनोग्राह्यं स्वेन्द्रिय-सुखं तेन कृष्णेन्द्रिय-मुख एव सर्वथा दृष्टया यद्य् आनुषङ्गिकं त्व् इन्द्रिय-सुखं स्यात् तदा न दोष भक्ति-मात्रैककाम् इत्वेऽपि संसारध्वंसव् इति ज्ञेयम् ॥११॥
॥ १०.४८.१२ ॥
अक्रूर-भवनं कृष्णः सह-रामोद्धवः प्रभुः ।
किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूर-प्रिय-काम्यया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किञ्चिच् चिकीर्षयन् । हस्तिनापुर-प्रस्थापनं कारैतुम् इच्छन्न् इत्य् अर्थः । अक्रूर-प्रिय-काम्यया च ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—किञ्चित् पदं सर्व-साधारणवाचि तेनेष्टार्थावबोधः, इष्टं च हस्तिनापुर-प्रेषणम् एवेति भावः । अक्रूर-प्रियं च आगच्छयाम गेहान् नः सनाथान्-कुर्वधोक्षज इत्य् आद्य् उक्त-लक्षणम् । श्री-सैरन्ध्र्या इवाक्रूरायापि दत्तं वरं सम्पादयंस् तद्-गृहं गत इत्य् एतद् अंशेन प्रसङ्गसाजात्याल् लीलाक्रमाच् चाह—अक्रूरेति । रामोद्धवाभ्यां सहित इति । आर्यसमन्वितः इति भगवता पूर्वं तथैवाङ्गीकारात् तथाग्रजं विना स्वातन्त्र्येण तादृश-कार्य-विधानानौचित्याच् च । रामोद्धव-साहित्यं सर्वत्रैव तस्य तद् अनुगतत्वात्-कार्यवरस्य विधानार्थं मन्त्रिवरस्यापेक्ष्यत्वाच् च ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नः इति स्वस्य गौरवेण बहुत्वम् । अगृहं गृहं मानुष्यं शरीरम्, तत्र हितानां सच् चिद् आनन्द-विग्रहाणां पुंसाम् इत्य् अत्रापि तथा अन्तर्यामिणाम् अस्माकम् इत्य् अर्थः । आधि-विकर्शनं भक्त-विरह-जन्या मानसी पीडा अधिस् तस्य कर्षणम् ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-सैरिन्ध्र्या इवाक्रूरायापि दत्तं वरं सम्पादयं स्तद्-गृहं गत इति प्रसङ्ग-साजात्याल्-लीला-क्रमाच्-चाह—अक्रूरेति । रामोद्धवाभ्यां सहित इति प्राक तस्यैव—सहाग्रजः [भा।पु। १०.४१.१२] इति प्रार्थनया, तथा—आर्य-समन्वितः [भा।पु। १०.४१.१७] इति श्री-भगवता तद् अनुमोदनाश् च राम-साहित्यम् उद्धव-साहित्यश् च, सर्वत्रैव तस्य तद् अनुगत्वात्, तथा चिकीर्षमाणार्थ-निर्धार-बोधनार्थं मन्त्रि-वरापेक्षत्वात्, तथा—स-गोपालैः [भा।पु। १०.४१.१२] इति पूर्व-तत्-कृत-प्रार्थ-सिद्धये तेषां प्रियत्वेन तस्य तैस्-तुल्यत्वात् । अतएवोक्तं प्रकर्षणागाद् इति । एषो\ऽपि श्री-भगवद् आगमनापेक्षया गृहादिकं मुहुर् भक्त्या विचित्रं विरचयन्न् एतावत्-कालं स्व-गृह एवावसद् इति ज्ञेयम् । अत एव तेन साक्षाद् अदृष्टस्य कंस-वधादेर् अधुनाग्रे\ऽनुमोदनादिकम् ॥ १२ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-सैरिन्ध्र्या इवाक्रूरायापि दत्तं वरं सम्पादयंस् तद् गृहं गत इत्य् एतद् अंशेन प्रसङ्गसाजात्याल् लीलाक्रमाच् चाह । अक्रूरेति । रामोद्धवाभ्यां सहित इति । आर्यसमन्वित इति भागवता पूर्वं तथाङीकारात् तथाग्रजं विना स्वातन्त्र्येण तादृश-कार्य-विधानानौचित्याच् च । राम-साहित्यम् उद्धव-साहित्यं च सर्वत्रैव तस्य तद् अनुगत्वट् । कार्य-विशेष निर्धारणार्थं मन्त्रिवरसापेक्षत्वाच् च ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तम् एवार्थ पुनः प्रपञ्चयति—दुराराध्यं समाराध्येत्य् आदि । सर्वेश्वरेश्वरं श्री-कृष्णं समाराध्य मनोग्राह्यं मनोरथ-गम्यं यत्किञ्चिद्यो जनो वृणीते, असौ कुमनीषी मूर्खः ! कुत असत्वान् मिथ्यात्वाद्-यन्-मनोग्राह्यम्, तद् असत्, अत इयं सैरिन्ध्री न कुमनीषिणी मनोग्राह्य-सुखवरवैमुख्यात् । तद् अङ्ग-सङ्ग-सुखं तु मनोग्राह्यं न भवति, परमानन्दत्वात् परमानन्दो हि मनोलोपकरः, स कथं मनोग्राहो भवतु ? विष्णुम् इति व्यापकत्वाभिप्राये यतस् तद् गृहे च स्थितत्वम् उक्तम् । समाप्तः प्रकरणार्थः ॥१२.१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्रूर-प्रिय-काम्यैव किञ्चित् चिकीर्षयन् दासस्य स्व-विषयक-प्रभु-निर्दशस्यैव प्रियत्वमननात् ॥१२.१४॥
॥ १०.४८.१३ ॥
स तान् नर-वर-श्रेष्ठान् आराद् वीक्ष्य स-बान्धवान् ।
प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आराद् दूराद् एव ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽक्रूरः । तान् कृष्णादीन् । ननामेत्य् अग्रिमेणाप्य् अन्वयः । श्री-कृष्णस्य तदीयं पाण्डवीयं च सौहृदांशं प्रकाश्यैव तत्र गतत्वात्-प्रथमतोऽक्रूरस्यापि तादृशो भावो जात इत्य् आह—स इति । नरवरेषु श्रेष्ठान् आरात् तद् अर्थं चन्द्रशालिकाद्य् उपवेश्य स्थापयित्वा दूराद् एव स्वयं विलोक्य प्रमुदितः सन् प्रत्युत्थाय प्रत्य् उद्गम्य चेति ज्ञेयम् । ततः परिष्वज्य शुभाशंसनादिनाभ्यनन्दत् । अभिनन्द्यं च इति पाठे युग्मकम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नर-वरेषु यादवेषु । किंवा नरेषु वराः श्रेष्ठा भागवतास् तेषाम् अपि पूज्यतया श्रेष्ठा इति परमार्च्यत्वम्2, स-बान्धवान् इति परम-स्निग्धत्वम्, अत एव आराद् एव वीक्ष्य प्रकर्षण मुदितः सन्, अभिनन्द्य सु-स्वागत-कुशल-प्रश्नादिना ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णस्य तदीयं पाण्डवीयं च सौहृदांशं प्रकाश्यैव तत्र गतत्वात् प्रथमतोऽक्रूरस्यापि तादृशो भावो जात इत्य् आह । स इति । नर-वरेषु श्रेष्ठान् आरात् तद् अर्थं प्रायश् चन्द्रशालिकाद्य् उपविश्य स्थापयित्वा दूराद् एव स्वयं विलोक्य प्रमुदितः सन् प्रत्य् उत्थाय प्रत्युद्गम्य चेति ज्ञेयम् । ततः परिष्वज्य शुभाशंसनादिनाभ्यनन्दत् । अभिनन्द्य चेति पाठे युग्मकम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-कृष्णस्य तदीय-पाण्डवीयं च सौहृदांशं प्रकाश्यैव तत्र गतत्वात् प्रथमतोऽक्रूरस्यापि तादृशो भावो जात इत्य् आह—स ताम् इति ॥१३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४८.१४ ॥
ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः ।
पूजयाम् आस विधि-वत् कृतासन-परिग्रहान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽक्रूरः । तैः कृष्णादिभिः । पश्चाद् आतिथ्यकरणे भक्त्य् अंशम् अवलम्ब्य स्वभावादरेणैवैश्वर्यस्फूर्तिस् तद् अनुक्रमेणैव कृष्णं रामं च ननामेत्य् अन्वयः । उद्धवं तु वैष्णवे बन्धुसत्कृत्या इति रीत्या बन्धूचित्तम् एव सच्-चकारेति ज्ञेयम् । तत्रापि पूर्व-युक्त्या तैः श्री-कृष्णादिभिर् अभिनन्दित एव अभिवादितः इति पाठान्तरम् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णं रामश् च ननाम, ईश्वरत्वात् । न चोद्धवं भ्रातुः पुत्रत्वात्, तत्र च प्राक् कृष्णं साक्षाद्-भगवत्त्वात् । विधिवद् इति यथा-योग्यं श्रद्धयोत्तमासन-पाद्यार्घादि-समर्पणेनेत्य् अर्थः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्चाद् आतिथ्यकरणे भक्त्य् अंशम् अवलम्ब्य स्वभावोदयेनश्वर्य-स्फूर्तिस् तद् अनुक्रमेणैव कृष्णं रामं च ननामेत्य् अन्वयः । उद्धवन्तु वैष्णवे बन्धुसत् कृत्या इत्य् अनेन बन्धूचितम् एव सच् चकारेति ज्ञेयम् । तत्रापि पूर्व-युक्त्या तैः श्री-कृस्णादिभिर् अभिनन्दित एव अभिवादित इति पाठान्तरम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पश्चाद् आतिथ्य-करणे भक्त्य्-अंशम् अवलम्ब्य स्वभावोदयेनैश्वर्य-स्फूर्तेस् तद्-अनुक्रमेणैव कृष्णं रामं च ननामेत्य् अर्थः ॥१४.२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४८.१५ ॥
पादावनेजनीर् आपो धारयन् शिरसा नृप ।
अर्हणेनाम्बरैर् दिव्यैर् गन्ध-स्रग्-भूषणोत्तमैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आ अप इति च्छेदः । अप आ सर्वतो धारयन्न् इत्य् अन्वयः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्हणेन योग्य-पूजोपकरणेन । तद् एवाह—अम्बरैर् इत्य्-आदि । मृजन्मृदु पीडयन् । पादेति युग्मकम् । पादाववनिज्येते याभिस् ताः । धारयन्न् इति वर्तमान-सामीप्ये वर्तमानवद् वा । अर्हणेन चतुर्विधान्नताम्बूल-पर्यन्तार्हण-द्रव्येण । तद्-अनन्तरं पूर्वतोऽपूर्वाम्बरादिभिर् अर्चयित्वा शिरसाऽनम्य पाद-सम्वाहनारम्भे भक्त्या तौ शिरसा स्पृष्ट्वा । पादाव् इति—कृष्ण-रामयोः सह विश्रान्तयोर् एकम् एकम् इत्य् अर्थः । तथाभिप्रेत्यैव श्री-कृष्णेन तथा विश्रान्तत्वात् । मृजन् सम्वाहयन्न् इत्य् अर्थः । श्री-कृष्ण-रामाव् उत्तानशायिनौ ॥१५.१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पादावनेजनीः कृष्ण-रामयोः, हे नृपेति अक्रूर-भाग्य-दृष्टया हर्षेण सम्बोधनम् । विधिवत् पूजाम् एव विवृणोति—अर्हणेनेति । अर्ह्यते पूज्यतेऽनेनेत्य् अर्हणं पद्यादि, तत्रैव विशेवम् आह—अम्बेरैरित्य्-आदिना । यद् वा, भोजनानन्तरं पुनः पूजाम् आह—अहणेनेति । ताम्बूलादिना अर्चयित्वा, पूर्वं पादावनेजनीः इत्य्-आद्यस्यार्द्धस्य पूर्वेणवान्वयः । शिरसैवानभ्येति अङ्कगत-पादाब्ज-सम्वाहनेन दण्डवत् प्रणामासिद्धेः श्री-मुख-सन्दर्शन-लोभाद् वा, पादौ द्वयोर् एव प्रत्येकं द्वौ पादाव् इत्य् अर्थः, किं वा श्री-कृष्णस्यैव स्व-भक्त-वर-प्रीत्य् अर्थं प्रसारणात् मृजन् सम्वाहयन्न् इत्य् अर्थः ॥१५-१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पादेति युग्मकम् । पादौ अवनिज्येते अवनिक्ते याभिस् ताः । धारयन्न् इति सामीप्ये वर्तमानवद् व । अर्हणेन चतुर्विधान्न-ताम्बूल-पर्यन्तेनार्हण-द्रव्येण तद्-अनन्तरं पूर्वतोऽप्य् अपूर्वाम्बगदिभिश् चार्चयित्वा शिरसानम्य पाद-सम्वाहनारम्भे भक्त्या तौ शिरसा स्पृष्ट्वा पादाव् इति श्री-कृष्ण-रामयोः सह विश्रान्तयोर् एकम् एकम् इत्य् अर्थः । तथाभिप्रेत्यैव श्री-कृष्णेन तथा विश्रान्तत्वात् । मृजन् सम्वाहयन्न् इत्य् अर्थः श्री-कृष्ण-रामाव् उत्तानशायिनौ ॥१५.१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आ सर्वतः अपः शिरसा शिरसि धारयन् मृजन् हस्ताभ्यां मर्दनेन संवाहयन् ॥१५.१७॥
॥ १०.४८.१६ ॥
अर्चित्वा शिरसानम्य पादाव् अङ्क-गतौ मृजन् ।
प्रश्रयावनतोऽक्रूरः कृष्ण-रामाव् अभाषत ॥
न केनापि व्याख्यातम्।
॥ १०.४८.१७ ॥
दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् ।
भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वां युवयोर् इदं कुलम् उद्धृतं समेधितं च ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उद्धृतं दुःखात् । समेधितं यथेप्सित-प्रदानेन । सम्यग् एधितं विचित्र वैभवैः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पापः परम-दुष्टः, तद्-वधेनेदं यादव-कुलम् उद्धृतं सम्यग् एधितश् च, विचित्र-धन-जन-वैभवादिभिर् वर्द्धितम्, वां युष्मदीयम् इति तद्-युक्तम् एवेति भावः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् एधितं च विचित्र-वैभवैः । वां युष्मदीयम् इति तद् युक्तम् एवेत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४८.१८ ॥
युवां प्रधान-पुरुषौ जगद्-धेतू जगन्-मयौ ।
भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वाम् इदं कुलम् इत्य्-आदि-व्यवहार-दृष्ट्योक्त्वा परमार्थम् आह—युवाम् इति । जगन्-मयौ युवाम् । कुतः ? जगद्-धेतू । तद् अपि कुतः ? प्रधान-पुरुषौ तद् आत्मकौ अतो भवद्भ्यां विना परं कारणम् अपरं कार्यं च नास्तीति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जगन्मयौ जगव्द्यापिनौ । तत्र हेतुम् आशङ्कते—कुत इति । तद् अपि जगद्धेतुत्वम् अपि । तदात्मकौ प्रधान-पुरुषरूपौ । सङ्कर्षणस्य प्रधान-कार्याहङ्काराधिष्ठातृत्वेन प्रधान-रूपत्वं, पञ्चम-स्कन्धे तु श्री-रुद्रेण स्फुटम् एव प्रधानत्वम् उक्तं सङ्कर्षणस्य प्रधान-कार्यकारित्वात् । तथाहि—यस्याद्य आसीद्-गुण-विग्रहो महान्यत्-सम्भवोऽर्ह त्रिवृता स्वतेजसा इति । साङ्ख्यैर् अपि प्रधानाद् एव महत् तत्त्वोत्पत्तिस् तत्ऽहङ्कारोत्पत्तिश् च मन्यते, श्री-कृष्णस्य पूरुषत्वं—स एष आद्यः पूरुषः पुराणो न यत्र कालो विश्वते न वेदः इत्य्-आदि-वाक्यैर् बहुत्रोक्तम् इति । यतः प्रकृति-पुरुष-रूपावतो हेतोः । नास्तीति निखिल-प्रपञ्चस्य प्रकृति-पुरुषात्मकत्वात् ।
अणुर्बृहत् कृश स्थूलो योयो भावः प्रसिध्यति ।
सर्वो ह्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च ।
इति वक्ष्यमाणत्वात् । इदं कुलं वाम् इति किमुच्यते जगद् अपि युष्मदीयम् इत्य् आह—युवाम् इति । एकस्यापीश्वरस्य द्विधाविर्भावादित्वेन बहिरङ्गन्तरङ्ग-शक्तिभ्यां प्रधान-पुरुषौ सन्तौ जगद्-धेतू जगद् उपादान-निमित्तकारणे, अत एव ताभ्याम् एवांशाभ्यां जगन्मयौ, तत्-ताद् आत्म्येनापि स्थिताव् इत्य् अर्थः । तद् उक्तम् एकादशे—
आसीज्-ज्ञानम् अथो अर्थ एकम् एवविकल्पितम् ।
तन्-माया-फल--रूपेण द्विधा समभवद्-वृहत् ॥ इति ।
अतो भवद्भ्यां विना भूतं कारणं कर्यं च किञ्चिन्नास्तीति जगद् एव युवाभ्याम् उद्धार्यं समेध्यञ्चेति भावः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदं कुलम्, वाम् इति किम् उच्यते, जगद् अपि युष्मद् ईयम् एवेत्य् आह—युवाम् इति । एकस्यैवेश्वरस्य द्वेधावतीर्णत्वाद्-द्वित्वेन निर्देशः । अत एव प्रधानं कुरुषश् च पुरुषत्वाज्-जगद्-धेतू, प्रधानत्वाज्-जगन्मयौ, प्रधानस्यापि तच्-छक्तित्वेन तद् अंशत्वात्, अतो भवद्भ्यां विनाभूतं भिन्न कारणं कार्यश् च किञ्चिन्न् आस्ति, इति जगद् एव युवाभ्याम् उद्धार्य्यं समेध्यञ्चेति भावः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इदं कुलं वां किमुच्यते जगद् अपि युष्मदीयम् एवेत्य् आह । युवाम् इति । एकस्यापीश्वरस्य द्विधाविर्भावाद् द्वित्वेन निर्देशः । बहिर् अन्तरङ्ग-शक्तिभ्यां प्राधान-पुरुषौ सन्तौ जगद् धेतु जगद् उपादान-निमित्त-कारणे । अत एव ताभ्याम् एवांशाभ्यां जगन्मयौ तत् तादात्म्येनापि स्थिताव् इत्य् अर्थः । तथाचैकादशे । आसीज् ज्ञानमयो अर्थ एकम् एवाविकल्पितम् । तन्मयाफल--रूपेण द्विधा समभवद्-बृहद् इत्य्-आदि । अतो भवद्भ्यां विना भूतं भिन्नं कारणं कार्यं च किञ्चिन् नास्ति इति जगद् एव युवाभ्याम् उर्धायं समेध्यं चेति भावः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं कुलं वाम् इति किम् उच्यते जगद् अपि युष्मदीयम् इत्य् आह । युवाम् इति । एकस्यापीश्वरस्य द्विधाविर्भावाद्-द्वित्वेन निर्देशः तेन त्वम् एव प्रधानं त्वम् एव पुरुष इत्य् अर्थः । जगद् धेतू जगन् मयाव् इति त्वम् कारणं त्वम् एव कार्यम् इत्य् अर्थः । एतद् एव व्यतिरेकेणाह । भवद्भ्याम् इति । परं कारणम् अपरं कार्यम् ॥१८॥
॥ १०.४८.१९ ॥
आत्म-सृष्टम् इदं विश्वम् अन्वाविश्य स्व-शक्तिभिः ।
ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु प्रत्यक्षादि-सिद्धं कथं नास्तीत्य् उच्यतेऽत आह—आत्म-सृष्टम् इति । हे ब्रह्मन् परमेश्वर । “ब्रह्म” इति व पाठः । रज-आदि-स्व-शक्तिभिर् आत्मनैव सृष्टम् इदं विश्वम् अन्वाविश्य कारणत्वाद् अननुप्रविष्टोऽप्य् अनुप्रविश्येव स्थितः श्रुत-प्रत्यक्ष-गोचरं यथा भवति तथा बहुधा भवान् एव प्रतीयते ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्यक्ष-सिद्धस्यापलापो न युक्त इत्य् आशङ्कते—नन्व् इति । नपुम्सकानां सम्बोधने न लोप-विकल्पत्वाद्-द्वितीय-पाठोपि साधीयान् । अन्वाविश्यानूत्वमहत्त्वानुरूप्यतया प्रविश्य—तत्-सृष्ट्वा तद् एवानुप्राविशत् इति श्रुतेः । श्रुत-प्रत्यक्षयोगोचरम्—श्रुतं श्रुतिः—वाचारम्भणं विकारः इत्य्-आदि-रूपा, प्रत्यक्षं त्वयं घटोऽयं पट इत्य्-आदि-निर्दोषार्थेन्द्रिय-सन्निकर्ष-लक्षणम् । यद् वा, श्रुतस्य प्रत्यक्षं साक्षात्कारो येषां ते श्रुत-प्रत्यक्षा ज्ञानिनस् तेषां ङ्गोचरं वा । तादृश-तत्-कार्यस्य विश्वस्य तद् अव्यतिरेकेण तद् अभिन्नत्वं साधयन् पुनरन्तर्यामितया तद्-व्याप्तत्वेन च साधयति । आत्मकार्यं स्वसृष्टं बहुधा देव-गन्धर्व-मनुष्य-गवादि--रूपेण चेयतेऽवगम्यते यतो विश्वम् इदं श्रुतप्रत्यक्ष-गोचरं श्रवण दर्शन-विषयीभूतम् । अजहल्-लिङ्गस्यापि गोचर-शब्दस्य क्लीबत्वम् आर्षम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : युवां प्रधान-पुरुषाव् इति—श्री-रामोऽंशत्वेन प्रधानम्, मुख्यांशत्वात्, श्री-कृष्णः पुरुषः सर्वेश्वरेश्वरत्वात्, अथवा युवाम् इति बलदेवः प्रकृतिर् अंशत्वात्, श्री-कृष्णः पुरुषः सर्वेश्वरत्वात् ॥१९.२०॥
तत् किं ? इत्य् आह—आहोष्यताम् इत्य्-आदि ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तत्र शिष्टा उद्धार्याः समेध्याश् च, न तु दुष्टास् तद्-योग्या इति चेत्-तव प्रेरणयैव सर्वे सर्वत्र प्रवर्तन्ते, तत् कथं दुष्टतास् त्व् इत्य् आशयेन पृथक् पृथक् सर्वान्तर्यामितां दर्शयस् तयैव कस्यापि तस्य नानात्वेन प्रतीतिम् आह—आत्मेति । यद् वा, स्व-शक्तिभिर् इति बहुत्वं गौरवात् । स्व-शक्त्या अनु सृष्टः पश्चात् आविश्य अन्तर्यामित्वेनासक्त्या प्रविश्य, श्रुतं श्रवणम्, प्रत्यक्षं दर्शनं तयोर् गोचरम् । नपुंसकत्वम् आर्षम् । श्रुतं दृष्टं चेत्य् अर्थः । एवं विश्व-विशेषणं प्रत्येकं सर्वेष्व् अन्तर्यामितया प्रविश्य पृथक् पृथग् वर्तमानो भवान् एको\ऽपि नाना प्रतीयत एवेत्य् अर्थः । शक्ति-विशेषेण प्रकटीकृतत्वान्-नानात्वस्यापि सत्यत्वं साधितम् एव । तच् च व्यापकत्वाद् उपपद्येतैव् एति सम्बोधयति—ब्रह्मन्न् इति । ब्रह्म इति पाठे\ऽपि स एवार्थः । यद् वा, शक्ति-विशेषेणैकस्यापि नानात्वम् उक्त्वा तथैव सर्वान्तःस्थस्यापि परमेश्वरत्वाद्-बहिर् वर्तमानताम् आह—हे ब्रह्मन्न् इति ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृश-तत्-कर्यस्य विश्वस्य तद् अव्यतिरेकेण तद् अभिन्नत्व साधयन् पुनर् अन्तर्यामितया तद् व्यप्तत्वेन च साधयति । आत्मेति । श्रुतं प्रत्यक्षं च गोचरो यस्य तादृशं यथा स्याद् इत्य् एज्जहल्लिङ्गस्यापि नपुंसकत्वम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : युवां प्रधान पुरुषाव् इत्य्-आदि । युवाम् इति श्री-बलदेव सर्वेभ्योऽंशेभ्यः प्रधान-पुरुष श्री-कृष्णः सर्वेश्वरेश्वरतया प्रधान-पुरुषः । यद् वा, सङ्कर्षणः प्रकृतिः, कृष्णः पुरुषा मिलित्वा जगद्धेतू जगन्मयौ । प्रधान-पुरुषाभ्याम् एव जगत्, प्राधानम् उपादानम्, पुरुषो निमित्तम् ॥१९.२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एक एव भगवान् जगद् रूपेण नाना भवतीत्य् आह । आत्म-सृष्टं स्व-कार्यं विश्वम् इदम् अन्वाविश्य अत्र प्रविश्य स्थित इत्य् अर्थः बहुधा देव गन्धर्वादि--रूपेण मनुष्य-गवादि--रूपेण च इयते अवगम्यते यतो विश्वम् इदं श्रुत-प्रत्यक्ष-गोचरं श्रवण-दर्शन-विषयी-भूतं क्लीवत्वम् आर्षम् ॥१९॥
॥ १०.४८.२० ॥
यथा हि भूतेषु चराचरेषु
मह्य्-आदयो योनिषु भान्ति नाना ।
एवं भवान् केवल आत्म-योनिष्व्
आत्मात्म-तन्त्रो बहुधा विभाति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकस्यैव बहुधा प्रतीतिं सदृष्टान्ताम् आह—यथा हीति । योनिषु स्वस्यैव रूपान्तरेणाभिव्यक्ति-स्थानेषु चराचरेषु यथा मही-प्रमुखानि कारणान्य् एव नाना भान्ति । आत्म-योनिषु स्व-कारणेषु भूत-भौतिकेषु । जीवोऽपि नर-मृगादि-शरीरेषु बाल-युवाद्य्-अवस्थासु च तथा तथा प्रतीयते इति तद् व्यवच्छेद् आर्थम् आत्म-तन्त्र-ग्रहणम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योनिः प्राकट्य-निलये भगणे त्वाकरेषु च इति धरणिः । भान्ति प्रतीयन्ते । तथा-तथा नर-मृगादि रूपो बाल-युवादि-रूपो वा । तद् व्यवच्छेदार्थं जीवत्वापाकरणार्थं । एवं केवलः शुद्धोऽचिन्त्य-शक्त्या विकार-रहित एव आत्म-योनिष्वात्माभि-व्यक्ति-स्थानेषु आत्मा भवान् बहुदा विभाति । आत्मतन्त्रः स्वतन्त्रः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकस्यापि नानात्वं तथान्तःस्थस्यापि बहिर् वर्तमानत्वं दृष्टान्तेन साधयति—यथेति । हि एव, यथैव, योनिष्व् इति कारणतया मह्यादीनां बहिःसत्ता सिद्धैव, केवल एको\ऽपि आत्मा भवान् योनिः कारणं तेषां विश्वेषां तेषु आत्मा चेतयिता आत्म-तन्त्र इति परमेश्वरतया बहिर् अपि सत्ता सिद्धैव, एवम् अन्तर्यामितया भवता सर्वत्र प्रवर्त्तमानानां जीवानां कथं दोषो नाम स्याद् इति सर्व एवोद्धार्थ्याः समेध्याश् चेति तात्पर्य्यम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न तु मह्यादिवद् विकारीत्य् आह । केवलः शुद्धः अचिन्त्य-शक्त्या विकार-रहित इत्य् अर्थः । अत एव आत्मतन्त्रः स्वतन्त्रः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकस्यैव नाना-रूपत्वे दृष्टान्तम् आह । यथा भूतेषु भौतिक-शरीरेषु चराचरेषु योनिषु जातिषु मह्यादयः हेतवो नाना भूत्वा भान्ति एवं केवल एक एव आत्म-योनिषु आत्माभिव्यक्ति-स्थलेषु आत्मा भवान् बहुधा विभाति आत्मतन्त्र स्वतन्त्रः ॥२०॥
॥ १०.४८.२१ ॥
सृजस्य् अथो लुम्पसि पासि विश्वं
रजस्-तमः-सत्त्व-गुणैः स्व-शक्तिभिः ।
अन बध्यसे तद्-गुण-कर्मभिर् वा
ज्ञानात्मनस् ते क्व च बन्ध-हेतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सृष्ट्य्-आदि-कर्तृत्वेन च मम किं जीव-वद् बन्ध उक्तो न हि न हीत्य् आह—सृजसीति । तद्-गुण-कर्मभिर् वा तैर् गुणैः कर्मभिर् वेत्य् अर्थः । यतः क्व च कदाचिद् अपि बन्ध-हेतुर् अविद्या तव नैवास्ति । कुत इत्य् अत आह—ज्ञानात्मन इति । मायाया आश्रयानावरकत्वाद् इति भावः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वतन्त्रत्वेपि पुनर् आशङ्कते—नन्व् इति । नहि-नहिति सम्भ्रमे वीप्सा । इत्य् अर्थ इति—तत्-पुरुष-भ्रम-वारणार्थमयम् अर्थः कर्य इति । यतो हेतोर् बन्ध-हेतुर् नास्ति अतो न बध्यसे इत्य् अन्वयः । इति भाव नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च [भा।पु। ३.२७.२४] इत्य् उक्तेः, लौकिकीं-द्रजालादि-मायायाम् अपि तथा दर्शनात् ।
ननु भवत्व् अचिन्त्य-शक्तित्वाच् चिन्तामन्ययस्कान्तादिवद् उपादान-निमित्तत्वेप्य् अविकारित्वं, कथं नाम वीक्षणादि-चेष्टामयस्र्ष्टृत्वादिकं कथं वा तेन न बद्धस् तत्राह—सृजसीति । सिद्धान्तम् आह—ज्ञानात्मनः चिछक्ति-मात्र-विलास-प्रयत्नस्य माया-विलासोऽपि यस् तव प्रयत्नः प्रतीयते सोऽपि तत्-सम्बन्धेनैवेत्य् अर्थः । एतद् उक्तं भवति-मायिक-प्रवेषेऽपि चिच्-छक्ति विलासास् त्वद् उक्त्यादि-रूपा अनुगता दृश्यन्ते, तथा चैकादशे
सात्त्विक्याध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य-धर्म या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ इत्य्-आदि ।
अतो मायिक-वैभवान्तर्गत-साधक-भक्त-जनार्थम् एव कुर्वति त्वय्यानुसङ्गिकम् एवान्य-सृष्ट्यादिकं भवतीति पासीति पश्चान् निर्देशस्य तात्कालिकत्वेन दृष्टान्ततया विन्यासात् । यतोक्तं प्रथमे श्री-कुन्त्या—
तथा परम-हंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ [भा।पु। १०.८०.२०]इति ।
तद् एवं माहा-विलस एव विकारित्वं न तु चिच्-छक्ति-विलासे, तन्-निषेधात् । यथोक्तं द्वितीये वैकुण्ठ-वर्णने— न यत्र माया [भा।पु। २.९.१०] इति न च काल-विक्रमः [भा।पु। २.९.१०] इति च । तथा माहा-विलासानासक्तेः तेन न बन्धोऽतो न दोष इति भावः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न चान्तर्यामितया प्रेरकत्वात् तत्-तद्-गुण-दोषास् त्वयि पर्यवस्यन्तीत्य् आह—सृजसीति । पासीति पश्चान्-निर्देशः । सम्प्रति तस्य पालन-प्राधान्याद्-गुणा रज-आदयः, कर्माणि सृष्टय्-आदीनि, साक्षाद्-विधीयमानानां सृष्ट्यादि-महा-कर्मणाम् अपि गुण-दोषास् त्वयि न प्रसज्यन्ते, किम् उतान्तर्यामित्वेन प्रेरणाज्-जीव-गुण-दोषा इत्य् अर्थः । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, वा अपि, तस्य विश्वस्य गुणै रज-आदिभिर् घोर-मुढ-शान्त-स्वभावैर् वा यानि कर्माणि तैर् अपि न बध्यसे, कुतो\ऽन्तर्यामित्वाज्-जीव-गुण-दोषैर् इत्य् अर्थः । तत्र हेतुः—स्व-शक्तिभिर् इति । कर्तापि तत्-तद्-गुण-दोषैर् लिप्तो न भवसीति परमेश्वरस्य तव शक्ति-विशेषादित्य् अर्थः । अहो किं वक्तव्यम्, त्वं न वध्यस इति, तदीयस्यापि गुण-दोषैर् बन्धो न स्याद् इत्य् आह—च अपि, ते तव ज्ञाने त्वन्-माहात्म्यादि-बोधे\ऽपि आत्मा चित्तं यस्य तस्यापि बन्ध-हेतुः क, अपि तु कापि नास्त्ये वेत्य् अर्थः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु भवत्वचिन्त्य-शक्तित्वाच्-चिन्तामण्ययस्कान्तादिवद् उपादान-निमित्तत्वेहप्य् अबिकारित्वं, कथं नाम वीक्षणादि-चेष्टामय-स्रष्टृत्वदिकं ? कथं वा तेन न बन्धः ? तत्राह—सृजसीति । सिद्धान्तम् आह—ज्ञानात्मनः चिच्-छक्ति-बिलास-मात्र प्रयत्नस्य माया-बिलासेपि यस् तव प्रयत्नः प्रतीय्ते, साहपि तत्-सम्बन्धे-नैवेत्य् अर्थः । एतद् उक्तं भवति—मायिक-प्रपञ्चेपि चिच्-छक्ति विलासास् त्वद्-भक्त्यादि-रूपा । अनुगत दृश्यन्ते । तथा चैकादशे—
सात्त्विक्याध्य् आत्मिकी श्रद्धा कर्म-श्द्धा तु राजसी ।
तामस्य-धर्म्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भा।पु।११.२५.२७] इत्य्-आदि ।
ततो मायिक-वैभवान्तर्गत साधक-भक्त-जनार्थम् एव बीक्षणादिक । कुर्वति त्व्य्यानुषङ्गिकम् एवान्य-सृष्ट्यादिकं भवतीति । पासीति पश्चान्-निर्देशस् तस्य तत्-कालिकत्वेन दृष्टान्ततया विन्यासात् । यथोक्तं प्रथमे श्री-कुन्त्या—
तथा परम-हंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रिय्ः ॥ [भा।पु। १.८.२० ] इति ।
तद् एवं माया-विलास एव बिकारित्वं, न तु चिच्-छक्ति-विलासे, तत्र तन्-निषेधात्, यथोक्तं द्बितीय-स्कन्धे वैकुण्ठ-वर्णने—न यत्र माया [भा।पु। २.९.१०] इति, न च काल-विक्रमः [भा।पु। २.९.१०] इति च । तथा माया-विलासानासक्तेः तेन न बन्ध, तता न दोष इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रथमं द्वाव् एव स्तुत्वा सृजस्यथो इत्य्-आदि । सम्प्रति भगवन्तम् एव स्तौति । तद्-गुणैर् विश्वसृजनादि गुणैः सत्वादिभिस् त्वं न वध्यसे निर्गुणत्वात् । अतो गुणात्मनो ज्ञान विग्रहस्य तस्य करुणाभिव्यञ्जकोऽक्रूरस्यस् तवः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् त्वम् एवैको जगद् ईश्वर इत्य् आह । सृजसीति । तत् तद् अभिधैस् तैः कर्मभिश् च जीव इव त्वं न बध्यसे । ननु कुतोऽहं न बध्ये तत्राह । ज्ञानात्मनः ज्ञान-स्वरूपस्य परब्रह्मणस् तव बन्ध-हेतुर् अविद्या क्व जीवस्य् एव तव सा नास्तीत्य् अर्थः ॥२१॥
॥ १०.४८.२२ ॥
देहाद्य्-उपाधेर् अनिरूपितत्वाद्
भवो न साक्षान् न भिदात्मनः स्यात् ।
अतो न बन्धस् तव नैव मोक्षः
स्यातां निकामस् त्वयि नोऽविवेकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च आस्तां तावद् बन्ध-शङ्का, यतो विद्योपाधेर् जीवात्मनोऽपि न वस्तुतो बन्धोऽस्तीत्य् आह—देहाद्य्-उपाधेर् इति । भवो जन्म तन् मूला भिदा च साक्षात् स्वरूपतो न स्याद् इति । ननु मम बन्धाभावं वदता त्वया किं मोक्षोऽङ्गी-क्रियते, ॐ इति चेत् तर्हि बन्धाभावे मोक्षासम्भवाद् आपन्नो बन्धोऽपीत्य् आशङ्क्याह—अत इति । यतो नाविद्या अतो न बन्धो मोक्षश् च । एवम् उभौ न स्याताम् इत्य् अर्थः । ननु उलूखले मां बद्धं श्रुतवान्, यमुना-ह्रदे मुक्तं च दृष्टवान् असि, अतः कथम् उभयं नास्त्य् अत आह—निकाम इति । स्वाभिप्रायानुरूपस् त्वयि नोऽस्माकम् अविवेक एव परम् एवं-भूत इति । यद्वा नोऽविवेक एव तवोभौ स्याताम् इति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तव बन्धो दूरापास्त इत्य् आह—किं चेति । तन्-मूला जन्म-कारणम् । भिदा भेदः । निरुपितत्वाद् विचारे क्रियमाणे निरूपयितुम् अशक्यत्वात् । विचारश् च—देहः कुतो जातः शुक्र-शोणिताभ्यां, ते चान्नादन्नञ्चादृष्ट-सह-कृत-जलादित्येवम् आदि-रूपस् तेन परम-कारण एव पर्यवसानं लभ्यते नान्यत्रेति । बन्धाभावेति शङ्कते—नन्व् इति ।
ॐ इत्य् अङ्गीकारेऽव्ययम् । तत्राप्य् आक्षिपति—बन्धाभावे इति । बद्ध एव मुक्तो भवति नाबद्धः इति न्यायात् । तथा च मोक्षाभावे बन्ध एवापन्न आयात इति । एवम् उक्तरीत्या । उभौ बन्ध-मोक्षौ । इत्य् अर्थ इति—सर्वदा विमुक्तस्य कथं बन्धाशंका तद् उत्तरा मोक्ष-शङ्का चेत्य् अर्थः । बन्ध-मोक्षावभिनीय दर्शयति—नन्व् इत्य्-आदिना । मुक्तं कालियाद् इति शेषः । यत उभौ प्रत्यक्ष-सिद्धावतो हेतोः । अतोऽत्र । निकामस् त्व् अनुकूले निश्चयातिशययोर् अपि इति धरणिः । परं केवलम् एवं-भुतो ब्न्धो-मोक्षादि-प्रदर्शक इति । न हि वनस्थाग्निना गृह-दाहो युज्यत इत्य् अतो भवद् अधिकरणकाविवेको भवताम् एव बन्धादि-प्रदो न मम । त्वयीत्य् उक्त्या ममैव प्रतीयत इत्य् अरुच्याह—यद् वेति । वस्तुतस् तव न स्तस्तावस्माकम् एवाविवेकः स यो विद्यमान-धर्मारोपः ख-पुष-सौरभ्यादिवद् इति भावः । अनिरूपितत्वाद् अनिर्वर्वचनित्वादित्य् अर्थः ।
यद् वा—यदि वा स्यातां तादृशौ तदा नोऽस्माकं प्रिय-वर्गाणां नितराङ्काम एव तौ द्वौ स्यातां प्रेम-विजाति-विशेशोचित-मनो-रथ-विशेषं प्राप्तैव तादृश्यो लीलास् तवोदयन्ते, यथा श्री-यशोदाया वात्सल्य-मनो-रथ-विशेषेणार्भक-भावमय-लीला-विशेषोदयाद्-बन्धनादि-प्राप्ति-लीलोदय इति भावः ।
ननु, कथं प्रकटैश्व्र्येऽपि मयि येषां तादृश-भावः सम्भवति तत्राह—न तिष्ठति विवेक ऐश्वर्य-दर्शनेऽपि तद् अनुसन्धानं यस्मात् तादृशोऽपि निष्काम इति । यतः—
अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।
साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ [भा।पु। ९.४०.६३]
इत्य् उक्तेस् तवापि तादृशो भावः स्याद् इति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थं स्पष्टयति—देहाद्य्-उपाधेर् इति । अतस् तव आत्मन आत्मीयस्य परम-भागवतस्य देहाद्य्-उपाधेः प्राकृत-देहाद्य्-उपाधेर् अनिरूपणान् न भवो न संसारः । कुतः ? तत्राह—न भिदा, यतोऽसौ त्वत्तो न विद्यते, साक्षात् त्वम् एव सः । अतो न बन्धो मोक्षश् च स्याताम् । एवं-भूतं त्वयि नोऽस्माकम् अविवेक इत्य् आत्मानं प्रति खेदः । अथवा, साक्षाद् आत्मनस् तव घनानन्दस्य भवः प्रादुर्भावो न देहाद्य्-उपाधेर् महद्-आदितः । कुतः ? अनिरूपितत्वात् । वृतं चतुः-षोडश-पञ्च-शक्तिभिः [भा।पु। २.९.१६] इति पञ्च-विंशतिभिस् तत्त्वैः परिवृतम् आसनम् आस्थितत्वात् तवासन-सेवकत्वेनैतेषां निरूपितत्वात् । न तु ते श्री-विग्रहोपाधितायाः, अतः केवलानन्द-विग्रहस्य तव न भिदा, परं ब्रह्मैव भवान्, अतो न बन्धो, न च मोक्षः, केवलम् अस्माकं त्वय्य् अविवेकः एव ॥२२.२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किम् उच्यते—त्वज्-ज्ञानात् मनो-बन्ध-हेतुर्-नास्तीति, सर्वेषां जीवानाम् अपि तत्त्वतो बन्धो नास्तीत्य् आह—देहेति । देहः, आदि शब्दात् कर्मादिश् च, स एवोपाधिर् जन्मादि-हेतुस् तस्यानिरूपितत्वात् मिथ्यात्वाद्-धेतोः, अतः कर्मभिस् तव न बन्ध एव अपि, नापि तैर् मोक्षः, न मोक्ष्यसे न त्यज्यस इत्य् अर्थः । यदि वा स्यातां तो, तदा नो\ऽस्माकं भक्तानां नितरां काम एव तौ द्वौ तव स्याताम् , भक्तानाम् इच्छया बद्धो मुक्तो\ऽपि भवसीत्य् अर्थः ।
ननु तत्र तत्र भक्तानां कुतो निकामः स्यात्-तत्राह—न तिष्ठति विवेको विचारो यस्मात् स नवनीत-चौर्यादि-कर्मभिर् बद्धो भवतु, निज-भक्तार्थ धर्म-मर्यादाञ् च त्यजस्वित्येतद्-रस-विशेषेण विचार-लोपादित्य् अर्थः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देहेति तैर् व्याख्यातम् । तत्त्रोलूखले बन्ध-श्रवणात् नराकृति-मूर्तौ । संसार-बन्धोऽपि सम्भाव्यते, यमुना-ह्रदे दृष्टदेवाकृतिर् मूर्ते । तत्-तद् ऐश्वर्य-सामग्री-दर्शनात् । ततो मुक्तत्वञ् च प्तीयत इत्य् अभिप्राय्ः, अनिरूपितत्वाद् अनिर्वचनीयत्वाद् इत्य् अर्थः । यद् वा, यदि वा स्यातां तादृशौ, तदा नोऽस्माकं प्रिय-वर्गाणां नितरां काम एव तौ द्वौ तव स्याताम् । प्रेम-जाति विशेषाचित-मनोरथ विशेषं प्राप्यैव तादृश्यो लीलास् तवा दय्न्ते । यथा श्री-यशोदाया वात्सल्य मनोरथ-विशेषेणार्भक-भावमय-लीला-विशेषोदयात् वन्धनादि-प्राप्ति-लीलोदय इति भावः ।
ननु कथं प्रकटैश्वर्येऽपि मयि तेषां तादृश-भावः सम्भवति ? तत्रह—न तिष्ठति विवेकः ऐश्वर्य-दर्शनेऽपि तद् अनुसन्धानं यस्मात्, तादृशाऽपि निष्काम इति । अतः,
अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।
साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जनप्रियः ॥ [भा।पु। ९.४.६३]
इत्य् उक्तेस् तवापि तादृशो भावः स्याद् इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यत एवं जीवस्यापि वास्तवो न बन्धः अतोनि तरां ततो न तमां मोक्षः यदि वा स्यातां तादृशौ तदा नो ऽस्माकं प्रियवर्गाणां नितरां काम एव तौ द्वौ स्याताम्। प्रेमजातिविशेषोचितमनोरथविशेषं प्राप्यैव तादृश्यो लीलास्तत्रोदयन्ते। यथा श्रीयशोदाया वात्सल्यमनोरथविशेषेणार्भकभावमयलीलाविशेषोदयात्। बन्धनादिप्राप्तिलीलादय इति। कीदृशो निकामः ऐश्वर्यादिदर्शने ऽपि न विद्यते विवेको यत्र तादृशः ॥२२.२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं बहुना त्वद्-भक्तानाम् अपि न बन्ध इत्य् आह—देहाद्य् उपाधेर् इत्य्-आदि । अतस् तवात्मनस् तवात्मीयस्य जनस्य परम-भागवतस्य देहाद्य् उपाधेः प्राकृत-देहाद्य् उपाधेर् अनिरूपितत्वाद् अभावान् न बन्धश् च मोक्षश् च स्याताम्, यतो न भवः । भवे सति बन्ध मोक्ष-प्रसङ्गः । यतो न भिदा, त्वया सह तस्य साक्षाद्-भेदो नास्ति, त्वद्-भक्त एव त्वम् इत्य् अर्थः । अतो नोऽस्माकम् अज्ञानां त्वय् अविवेकः त्वन्-महिमानभिज्ञत्वात् । ये तु त्वन्-महिमाज्ञास् तेषाम् उक्त एव प्रकार इत्य् अर्थः ॥२२.२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, मे यद्य् अविद्या नास्ति तदात्म-देहोऽयम् आविद्यकः कुत आयातस् तत्राह । देहादीति । तव देहाद्य् उपाधेर् अनिरूपितत्वाद् इति तव देहादिर् उपाधिर् आविद्यक इति कैर् अपि शास्त्रज्ञैर् न निरूपित इत्य् अर्थः । अत एव तव न भवः जीववत् संसारो जन्म वा नैव स्यात् तवापि देहादिर् अविद्यको यदि भवेत् तदा त्वम् अपि स्वातन्त्र्येऽपि जीव-तुल्य एव जन्मादिमानेव स्या इत्य् अर्थः । अतस् तव देहादेर् उपाधित्वाभावात् जीववत् साक्षात् पैतृक-धातुक-धातु-सम्बद्धं जन्म न स्यात् किन्त्वाविर्भावात्मकम् एव जन्म भवेत् । तथा आत्मनो देहाद् भिदा भिन्नत्वं जवस्य् एव तव नास्ति त्वद्-देहोऽपि त्वम् एवेत्य् अर्थः । देह-देहि-विभागोऽत्र नेश्वरे विद्यते चिद् इत्य् उक्तेः । अतस् तव ब्रह्मत्वाद् एवाविद्याविद्याभ्याम् अतीतस्य नैव बन्धो नैव मोक्षः उलूखले मात्रा निबद्धस्य कालिय-ह्रदान् मुक्तस्य मम बन्ध-मोक्षौ स्त इति चेत् स्यातां तौ तु ते न निषिद्ध्ये ते इति भावः । कुतस् त्वयि स बन्धः स मोक्षश् च मोऽस्माकं भक्तानां निकामो ध्येयत्वाद् अभीष्ट एव । यतो विवेकः स बन्धो मोक्षश् च विवेक एव मायिकत्वाभात् ज्ञान-स्वरूपस्य तव तु न तावज्ञान-सञ्जौ भव-बन्ध-मोक्षाव् इत्य् अर्थः ॥२२॥
॥ १०.४८.२३ ॥
त्वयोदितोऽयं जगतो हिताय
यदा यदा वेद-पथः पुराणः ।
बाध्येत पाषण्ड-पथैर् असद्भिस्
तदा भवान् सत्त्व-गुणं बिभर्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि ममावतारास् तच्-चरित्राणि च शुक्ति-रजत-वद् अविद्या-कल्पितान्य् एव किम् ? न हि न हि, इयं तु तव लीलेत्य् आह द्वयेन—त्वयोदित इति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मत्-सम्बन्धि निखिलं कल्पितम् एवेत्य् आशङ्कते—नन्व् इति । तच्-चरित्राणि अवतार-चरितानि । भीत इवाह—नहि नहीति । इयम् अवतारादि-रूपा । लीला विलासः । उदितः प्रकाशितः । अयं धर्माधर्मादि-बोधकः । हिताय स्वर्गापवर्गाय । अतः स्व-भक्ति-तात्पर्यवसानं वेद-मार्गं पुष्णंस् तद् अभिव्यक्ति-स्थानं सत्त-गुणम् अपि पुष्णातीत्य् आह—त्वयेति । त्वयेश्वरेणोदित उक्त इति भ्रमादि-सोष-चतुष्टय-राहित्यात्-प्रमाण्यम् अवश्य-पाल्यत्वं च । न चेत्थं कृत्रिम इत्य् आह—पुराणोऽनादिः, तवानादित्वेन त्वत्त एवानादितो मुहुर् आविर्भावित्वेन चेति भावः । स यदायदा तादृशत्वद् अपेक्षार्ह भक्त-वृन्दाभावात् त्वद् औदासीन्येनासद्भिर् बाध्येतातिशयेन पीडितः स्यात्-तदा दैवाच् छ्री-प्रह्लादस्येव कस्यचिद् भक्त-जनस्यैकस्य बहूनां वा प्रकट्येसति तत्-पोषनार्थं स्वयम् अवतीर्य सात्त्विक-गण-वर्धनेन वेद-पथं पुष्णन्-स्वयम् एव सत्त्व-गुणं भवान्विभर्ति पुष्णातीत्य् अर्थः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतोऽस्माकं निकामेनैवावतीर्य जगद्-धितार्थं वेद-मार्गम् अपि रक्षसीत्य् आह—त्वयेति । त्वयैवोदित उक्त इति प्रामाण्यम् अवश्य-पाल्यत्वं चोक्तम्, न च तथापि कृत्रिम इत्य् आह—पुराणेऽनादिः, तवानादित्वेन तस्याप्य् अनादित्वात् । यद् वा, त्वया हेतुनोदितः प्राकाट्यं प्राप्तः, यतः पुराणः, अपौरुषेयत्वात् । असद्भिर् इति बाधने हेतुः । शक्तिश् च असतां सन्-मार्ग-प्रतिकूल-स्वभावत्वात् काले सामर्थ्याच् च तदा तदा सत्त्व-गुणं बिभर्ति पुष्णाति, स्वयम् अवतीर्य तामसान् अपास्य सात्त्विकान् वर्धयतीत्य् अर्थः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः स्व-भक्ति-तात्पर्य-पर्यवसानं वेद-मार्गं पुष्णंस् तद्-अभिव्यक्ति-स्थानं सत्त्व-गुणम् अपि पुष्णातीत्य् आह—त्वयेति । त्वयेश्वरेणोदित उक्त इति भ्रमादि-दोष-चतुष्टय-राहित्यात् प्रामाण्यम् अवश्य-पाल्यत्वं च । न चेत्थं कृत्रिम इत्य् आह—पुराणोऽनादिः । तवानादित्वेन त्वत्त एवानादितो मुहुर् आविर्भावित्वेन चेति भावः । न यदा यदा तादृश-त्वद्-अपेक्षार्हं भक्त-वृन्दाभावात् त्वद्-औदासीन्येनासद्भिर् वाध्येतातिशयेन पीडितः स्यात् तदा दैवात् तच्-छ्री-प्रह्रादस्येव कस्यचिद् भक्त-जनस्यैकस्य बहूनां वा प्राकट्ये सति तत्-पोषणार्थं स्वयम् अवतीर्य सात्त्विक-गुण-वर्धनेन वेद-पथं पुष्णन् स्वयम् एव सत्त्व-गुणं भवान् बिभर्ति पुष्णातीत्य् अर्थः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं गुणातीत-स्वरूप-लीलोऽपि त्वं धर्म-मार्ग-रक्षया शिष्ट-जन-पालनार्थं सत्त्व-गुणं पुष्णन्न् आविर्भवसीत्य् आह । त्वया उदितः उक्तः वेद-पथः धर्म-मार्गः पुराणः प्राचीनः ॥२३॥
॥ १०.४८.२४ ॥
स त्वं प्रभोऽद्य वसुदेव-गृहेऽवतीर्णः
स्वांशेन भारम् अपनेतुम् इहासि भूमेः ।
अक्षौहिणी-शत-वधेन सुरेतरांश-
राज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरेतरांशा ये राजानस् तेषाम् अक्षौहिणी-शतानां बधेन भूमेर् भारम् अपनेतुं स्वांशेन रामेन सहावतीर्णोऽसि ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यः पाखण्ड-निवृत्त्य्-अर्थं सत्त्वं बिभर्ति, स इत्य् अर्थः । स्वांशेन निजैश्वर्येण । अमुष्य यदूपपदस्य । तद् एवम् उपोद्धातानन्तरम्—दिष्ट्या पापो हत कंसः [भा।पु। १०.४८.१७] इत्य् एवनुदिष्टं प्रकृतम् एवानुवर्त यति—स इति, एवम् उक्त-माहात्म्यो मुहुर् अवतीर्य सन्-मार्ग-प्रवर्तकः । विभो हे सर्वेश्वर्य-परिपूर्ण वसुदेवस्य यादव-श्रेष्ठस्य, श्लेषेण वसुर् भक्ति-लक्षणो धर्मस् तेन दीव्यति द्योतत इति तथा तस्य ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र चाधुना मोक्षादि-प्रदानेन भू-भारं क्षपयितुं स्व-प्रेम-भक्तिं प्रवर्तयितुं च यदु-कुलेऽवतीर्णोऽसीत्य् अहो यादवानाम् अस्माकं भाग्यम् इत्य् आह—स इति । उक्त-माहात्म्यो मुहुर् अवतीर्य सन्-मार्ग-प्रवर्तकस् त्वम् । विभो ! हे सर्वैश्वर्य-परिपूर्ण ! वसुदेवस्य यादव-श्रेष्ठस्य, श्लेषेण वसु भक्ति-लक्षण-धनं, तेन दीव्यति द्योतत इति । तथा तस्य गृहेऽवतीर्ण इति प्राकृतोत्पत्ति-निरस्ता, असीति तत्र नित्य-स्थितिः सूचिता । अस्य यादव-लक्षणस्य यशः प्रेम-भक्ति-प्रदानेन विशेषेण तन्वन् विस्तारयितुं च ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् उपोद्घातानन्तरं—दिष्ट्या पापो हतः कंस [भा।पु। १०.४८.१७] इत्य्-आदि निर्दिष्टं प्रकृतम् एवानुवर्तयति—स इति । एवम् उक्त-माहात्म्यो मुहुर् एवावतीर्य सन्-मार्ग-प्रवर्तकस् त्वम् । विभो ! हे सर्वैश्वर्य-परिपूर्ण ! वसुदेवस्य यादव-श्रेष्ठस्य, श्लेषेण वसु भक्ति-लक्षणो धर्मस् तेन दीव्यति द्योतत इति तथा तस्य ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सत्वं भवान् इत्य्-आदि । स्वांशेन बलदेवेन यस्य वसुदेवस्य कुलस्योपर्य् अधो न यस्य ॥२४.२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वांशेन रामेण सह । सुरेतरांशा ये राजानस् तेषाम् अक्षौहिणी-शतस्य वधेन भूमेर् भारम् अपनेतुम् ॥२४॥
॥ १०.४८.२५ ॥
अद्येश नो वसतयः खलु भूरि-भागा
यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः ।
यत्-पाद-शौच-सलिलं त्रि-जगत् पुनाति
स त्वं जगद्-गुरुर् अधोक्षज याः प्रविष्टः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एवं-भूतस्य तवागमनेन कृतार्थोऽस्मीत्य् आह त्रयेण, अद्येति । हे ईश, अद्य नो वसतयो गृहास् तपो-वनाद् अपि बहु-पुण्याः । कुतः ? या वसतीस् त्वं साक्षात् प्रविष्टः । कथं भूतः । यस्य तव पाद-सलिलम् एव गङ्गा त्रि-जगत् पुनाति, यश् च त्वं पञ्च-यज्ञ-देवता-मूर्तिः स त्वं जगद्-गुरुर् इति ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-भूतस्य पृथ्वीभार-नाशकस्य । अतः कुल-यशो-विस्तारकत्वाद् अहं कृतार्थोऽत्यन्त-कीर्तिमानस्मीति । बहु-पुण्यत्वे हेतुमाशङ्कते—कुत इति । पञ्च-यज्ञाश्चोक्ताः । सर्वे देवा ब्रह्माद्याः, पितरोर्यमाद्याः, भूताः कीट-पतङ्गाः, नरोऽतिथयः, वेदा ऋगाद्यास् तेषां मूतिरेकत्र घनीभावः । वेद-मूर्तित्वाद् एव जगतां गुरुर् हितोवदेष्टा । यादवेषु चाहं त्वया नितराम् अनुगृहीत इत्य् आह—अद्येति । हे ईश सर्वेश्वर भूरिभागा बलि-प्रभृतिभ्योऽपि बहु-माहात्म्याः, यतो वेदादयो मूर्तय इव मूर्तयोऽधिष्ठानानि यस्य यज्ञ-रूपांशावतारे, यस्य च तव वामनांशावतारे पाद-शौच-सलिलम् अपि त्रिजगत्-पुनाति स त्वं जगद्भ्यः सर्वेभ्यः स्वाविर्भावेभ्योऽपि गुरुर् महान्, या मद् वसतीर् एव प्रविष्टः न त्वद्याप्य् अन्ययादवगृहान् इत्य् अर्थः । जगद्-गुरुत्वाद् एव हे अधोक्षज सर्व-जानातीत ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र चाहं त्वया नितराम् अनुगृहीत इत्य् आह—अद्येति । ईश! हे जगद्-ईश्वरेति परम-दुर्लभता, सर्व-देवेति तत्-तद्-ऋण-समाप्तिः । यद् इति वसतीनां सर्व-तीर्थमयता, जगद्-गुरुः श्री-नारायण इति वैकुण्ठ-लोकता, अधोक्षजेति गोकुल-सदृशता चाभिप्रेता ॥ २५ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यादवेषु शहं त्वया नितराम् अनुगृहीत इत्य् आह । अद्येति । ईश हे सर्वेश्वर भूरि-भागा वलि-प्रभृतिभ्योऽपि बहु-माहात्म्याः । यत देवादयो मूर्तयोऽधिष्ठान्;अनि यस्य यज्ञ-रूपांशआवतारे । यस्य च तव श्री-वामन-रूपांशावतारे पाद-शौच-सलिलम् अपि त्रिजगत् पुनाति स त्वं जगद्भ्यः सर्वेभ्यः स्वविर्भावेभ्योऽपि गुरुर् महान् यामद् वसतीर् एव प्रविष्टः न त्वद्यापि अन्ययादवगृहान् इत्य् अर्थः । जगद्-गुरुत्वाद् एव हे आधोक्षज सर्व-ज्ञानातीत ! ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या वसतीः स एव त्वं प्रविष्टः यस् त्वं सर्थवेदादि-मूर्तिः ॥२५॥
॥ १०.४८.२६ ॥
कः पण्डितस् त्वद् अपरं शरणं समीयाद्
भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् ।
सर्वान् ददाति सुहृदो भजतोऽभिकामान्
आत्मनम् अप्य् उपचयापचयौ न यस्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-मनोरथः परिपूरित इति तुष्यन्न् आह—कः पण्डित इति । ऋत-गिरः सत्य-वाचः । त्वत्तोऽपरं शरणंकः समीयाद् गच्छेत् । यतो भवान् भजतः सर्वान् अभितः कामांश् च ददात्य् आत्मानम् अपीति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरणं रक्षितारम् । शरणं गृह-रक्षित्रोः इत्य् अमरः । यतो हेतोर् ददात्यतः क इति सम्बन्धः, बल्यादिभ्यः स्वात्मार्पण-दृष्टेः । उपचयापचयौ वृद्धिहृषौ, महत्त्वाल्पत्वे इति यावत् । सारथ्यवीरासनादिष्व् अपि निज-जनेच्छया प्रवृत्ति-दर्शनाद् इति भावः । भक्तस् तद्-द्वेषादिनापि पूतनादिभ्योऽपि तादृश-शपद-दानात्-प्रीति-विषयत्वेन प्रसिद्धो यस्य तस्मात् । तथोक्तं श्रीमद् उद्धवेनापि—अहो वकीयम् [भा।पु ३] इत्य्-आदि । तत्-प्रियत्वेऽपि कथम् अप्य् अनवधानादिना तत्-पालन-प्रतिज्ञा-व्यभिचारः स्याद् इत्य् आह—ऋतगिरः सत्य-सङ्कल्पात्, कदाचित् तस्य परम-भक्तान्तरे वेशेऽपि सङ्कल्पस्यैव तत्-कार्य-साधकत्वाद् इति भावः । न चोपकारात्मकस्य भजनस्याप्य् अपेक्षा किन्तु कथञ्चिद् आश्रयण-मात्रस्येत्य् आह—सुहृद इति । न चोपकारानाभिज्ञतेत्य् आह—कृतम् उपकारं जानाति बहुमन्यत इति कृतज्ञस् तस्मात् । तच्चोपकाराभासस्यापि बहुमन्यमानत्वे पर्यवस्यतीत्य् आह—सर्वान् इति । यस्य विसाय-लाभालाभादिनोपचयापचयौ न स्तः स भजतो भजन-मात्रं कुर्वतः पुष्प-पत्रादिनापि सेवमानाय सर्वान्-कामान्ददाति, तत्रसुहृदः सौहृद्य् अयुक्ताय यत् ते आत्मानम् अपि ददाति तदाधीनं करोति तस्मान् मदीय-गृहागमनम् अपि तव नाश्चर्यम् इति भावः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कः पण्डितः इत्य्-आदि । त्वत्तो\ऽपरः कः पण्डितः शरणं समीयात् ? त्वत्तः कीदृशात् ? ऋत-गिरः ऋत-गीस् त्वं तत् मयैवानुभूतम्, यतो\ऽस्मद्-गृहम् आगमः । एवं कुब्जा-गृहं च । भक्त-प्रियाद् इति भक्त-प्रियत्वं चानेनैव सिद्धम् । अतस् त्वम् एव सुहृद् इत्य् आह—सुहृदः शोभनं हृद् यस्य, अत एव कृतज्ञात् कृतं यत् किञ्चिद् भक्ति-जन्यं तज् जानातीति तया, तस्या अङ्ग-रागार्पणं रूपं कृतम् । किं बहुना ? आत्मानम् अपीत्य् अत्रापि कुब्जैवोदाहरणम् । तस्यै आत्मापि दत्तः । आत्मन्य् अपचयो भवति, तद्-वशत्वात् तव तु नैव इत्य् आह—उपचयापचयौ न यस्य ॥२६.३०॥
सनातन-गोस्वामी (दिग्-दर्षिनी): त्वत् त्वत्तोऽपरं कः समीयात् ? दीर्घत्वं परस्मैपदं वा आर्षम् । सम्यक् इयाद् गच्छेत् । तत्र हेतुत्वेन विशेषण-चतुष्टयम्—भक्त एव प्रियो यस्य, ऋता सत्या गीर् वाग् यस्य, सुहृदः निरुपाधि-कृपा-कारिणः, कृतम् आत्मनो भक्तस्य च जानातीति तथा तस्मात् । अत एव भवान् भजतो जनस्य, अत एव सुहृदः सच्-चित्तस्य । यद् वा, प्रियत्वेन स्वीकृतस्य जनस्य सर्वानभितःकामान् अभि अभयं यथा स्याद् इति वा । आत्मानम् अपि ददाति । भजनेन यस्य भवतः स्वत उपचयो लाभो नास्ति, नित्य-परिपूर्णत्वात्, अभजने चापचयो नास्ति, नित्यं स्वतः परिपूर्णत्वेनानन्यापेक्षत्वात् । सोऽपि भवान् भक्ति-परवशः सन् आत्मानं ददाति ।
यद् वा, तेन निजोपचयापचयौ परम-कारुण्यादिना मन्यमानम् अपि भगवन्तं प्रति निज-भक्तत्व-दृष्ट्या परम-विनयेन श्रीमद्-अक्रूरस्य तादृश्य् उक्तिर् ज्ञेया । यद् वा, उपचयापचयौ नेति वृद्धि-ह्रास-हीनतया परम-महत्तमतायाः पराकाष्ठा दर्शिता, भक्त-वश्यं करोतीत्य् अर्थः । अयम् अपि शरण-गमने हेतुर् ज्ञेयः ॥२६॥ [ह।भ।वि। ११.६७८]
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो\ऽपरं देवम् ईश्वरं वा कः शरणं सम्यग् ईयाद् आश्रयेत् ? दीर्घत्वं परस्मैपदं वार्षम् । सं-शब्देन कदाचित् कथञ्चित् त्वत्-प्राप्त्य्-अर्थम् एव वाश्रयेद् इति बोध्यते । सद्-असद्-विवेचिका बुद्धिः पण्डा, तद्वांश् चेत् त्वाम् एव समाश्रयेद् इत्य् अर्थः । तत्र हेतवः—भक्त एव प्रियो यस्य तस्माद् इति भक्त-वात्सल्यात् । ऋताः सत्या गिरः, आर्तानां शरणं त्व् अहम् इत्य्-आदि-लक्षणा यस्य तस्माद् इति दीन-वात्सल्यम् । सुहृदो निरुपाधि-कृपा-कारिण इति हीनार्थाधिक-साधकत्वम् ।
यद् वा, अपराधे\ऽति सुशोभनं हृदयस्य तस्माद् इत्य् अपराधाग्रहणं कृतम् । स्वीयं परकीयं च जानातीति तथा तस्माद् इति सर्व-लोक-हितार्थं सदा सर्वानुसन्धान-कृत्यम् उक्तम् । विशेषणानाम् एषां यथोत्तरम् आश्रयण-हेतुतायां श्रैष्ठ्यम् । एतान् च गृहागमनेन, आयास्ये भवतो गेहम् [भा।पु। १०.४१.१७] इति तद्-वाक्य-सत्यतापादनेन गोपी-विषयकापराधाग्रहणेन गृह-निर्माणादि-निज-कृत्य-ज्ञानेन चात्मानम् उद्दिश्य क्रमेणोक्तानीत्य् अपि ज्ञेयम् । सुहृदय्ः प्रियस्येत्य् अर्थः । यतो भजतः । यद् वा, अ-कार-प्रश्लेषेण—अभजतो\ऽपि सुहृदो बन्धुत्व-मात्रं प्राप्तस्येति बन्धु-वात्सल्यम् । इदम् अपि पूर्ववत् कामान् अभीष्टार्थान् वाञ्छातीतम् अपि ददासीत्य् आशयेनाह—आत्मानम् अपि ददाति तद्-वश्यं करोतीत्य् अर्थः ।
तच् च निरुपाधि-बन्धुत्वाद् एवेत्य् आह—भगवत उपचयो भजनाल् लाभः, अपचयो\ऽभजनाद् धानिः, तौ न स्त इति । यद्यपि भक्तानां भक्ति-सुख-लाभेन भगवतोप्य् उपचयः स्यात्, तथापि तथोक्तिर् भक्त्या विनयात् दैन्याच् च । यद् वा, कामानाम् अदाने उपचयो नास्ति, आत्मनो दाने\ऽप्य् अपचयो नास्ति अचिन्त्यैश्वर्यत्वात् । यद् वा, आत्मनः स्वस्य अदाने उपचयो वृद्धिर् नास्ति, पूर्णता-परम-काष्ठाप्राप्तेः, अपचयश् च क्षयो नास्ति, सदैवाविकारत्वात् । ततश् चात्मनः समग्रस्यैव दानम् अभिप्रेतम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भक्तस् तद्-वेशादिना पूतनादिभ्यो\ऽपि तादृश-पद-दानात् । प्रीति-विषयत्वेन प्रसिद्धो यस्य तस्मात् । तथोक्तं श्रीमद्-उद्धवेनापि—अहो बकीयम् [भा।पु। ३.२.२३] इत्य्-आदि। तत् प्रियत्वे\ऽपि ननु कथम् अप्य् अनवधानादिना तत्-पालन-प्रतिज्ञा-व्यभिचारः स्यात् ? इत्य् आह—ऋत-गिरः सत्य-सङ्कल्पात् । कदाचित् तस्य परम-भक्तान्तरावेशे\ऽपि सङ्कल्पस्यैव तत्-कार्य-साधकत्वाद् इति भावः । न चोपकारात्मकस्य भजनस्यापेक्षा, किन्तु कथञ्चिद् आश्रय-मात्रस्य इत्य् आह—सुहृदः । न चोपकारानभिज्ञतेत्य् आह—कृतम् उपकारं जानाति बहु-मन्यत इति कृतज्ञात् । तच् चोपकाराभासस्यापि बहु-मन्यमानत्वे पर्यवस्यतीत्य् आह—सर्वान् इति । यस्य विषय-लाभालाभादिना उपचयापचयौ न स्तः, सः । भजतः भजन-मात्रं कुर्वतः पुष्प-पत्रादिनापि सेवमानाय सर्वास् तद् अभीष्टान् कामान् ददाति । तत्र सुहृदः सौहृद्य-युक्ताय यत आत्मानम् अपि सुहृद्--रूपेण ददाति तद्-अधीनं करोतीत्य् अर्थः । तस्मान् मदीय-गृहागमनम् अपि तव नाश्चर्यम् इति भावः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कः पण्डितः इत्य्-आदि । त्वद्-अपरं यः शरणं याति, स तु मूर्ख एव । त्वत् कीदृशात् ? भक्त-प्रियाद् ऋत-गिरः उभयम् एव सैरिन्ध्र्या मम च गृहागमनाद् एवावगतम् । पूर्वाङ्गीकृत-वचः पालनात् । अत एव सुहृदः कृतज्ञात् । यो भवान् भजतः सुहृदो भजते सुहृदे सर्वान् अभिकामान् ददाति । किं बहुना ? आत्मानम् अपि ददाति । तत्र सैरिन्ध्र्य् एवोदाहरणम् । तस्यै आत्मापि दत्तः । आत्म-दाने\ऽपचयो भवतीत्य् आशङ्क्याह—यस्यात्मनस् तवोपचयापचयौ न, पूर्वानन्दत्वात् ॥२६.३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वद्-अपरं त्वत्तो\ऽन्यम् । ऋत-गिरः सत्य-वाक्यात् कंसं हत्वा त्वद्-गृहं यास्यामीति स्व-वाक्यं सत्यं कृतम् इति भावः । सुहृदः हित-कारिणः, येन दासस्य हितं स्यात् तत् त्वम् एव ज्ञात्वा करोषीत्य् अर्थः । कृतज्ञात् कादाचित्कम् अपि यत् किञ्चिद् अपि भक्तेन विस्मृतम् अपि त्वद्-भजनं कृतं त्वं जानास्य् एवेत्य् अर्थः । यो भवान् सुहृदः शोभनान्तकरणाय निष्कामायेत्य् अर्थः । भजने भजनं कुर्वते जनाय अभिकामान् अभिवाञ्छितार्थान् सर्वान् एव तेनाकामितान् अपि ददाति, न च तावतो\ऽपि दत्त्वा निवर्तसे इत्य् आह—आत्मानं स्वम् अपि ददाति । अत्र भवान् इत्य् अध्याहार्यम् ।\
ननु स्व-पर्यन्त-दानं नाम महान् अपचयः ? तत्राह—यस्य तव उपचयाप्चयौ न स्तः । कोटि-ब्रह्माण्ड-वर्ति-द्रव्येषु कोटि-सङ्ख्य-ब्रह्माद्यैस् तुभ्यम् उपहृतेष्व् अपि तव न को\ऽप्य् अपचयः । त्वया स्व-पर्यन्त-वस्तु-जात-प्रदाने\ऽपि न को\ऽप्य् अपचयः । अतर्क्यानन्त-शक्तित्वाद् इति भावः ॥२६॥
॥ १०.४८.२७ ॥
दिष्ट्या जनार्दन भवान् इह नः प्रतीतो
योगेश्वरैर् अपि दुरापगतिः सुरेशैः ।
छिन्ध्य् आशु नः सुत-कलत्र-धनाप्त-गेह-
देहादि-मोह-रशनां भवदीय-मायाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नोऽविवेकिनाम् । तत्रापीह गृह एव ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुतादि-देहान्तेषु मोहरशनामज्ञानकृतां बन्ध-हेतु-भूतामहन्ताममताम् इत्य् अर्थः । सा केति भवदीयमायां त्वद् आज्ञकरीं वञ्चक-शक्तिम् । तादृश-तत्-कृपां श्वाघमानः सलज्जः सन्निजतद् एकनिष्ठतातरायराहित्यं प्रार्थयते—दिष्ट्येति । जनार्दनेति—हे ब्रह्मादियाच्यमान-दर्शन । तद् एव दर्शयति—योगेति । योगेश्वरैः सनकाद्यैः, सुरेशैर् ब्रह्माद्यैः, गतिर् ज्ञानं प्रतीतः प्रत्यक्षं प्राप्तः, एतद् दिष्ट्या अहो अस्माकं भाग्य-महिमेत्य् अर्थः । आप्ताः सुहृदः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मम चालभ्य-लाभो\ऽभूद् इति भक्ति-सम्पत्तये\ऽधुना कृपा-विशेष कुर्वित्य् आह—दिष्टयति । जनैः श्री-ब्रह्मादिभिर् भक्त-वर्गैर् अर्द्यते सन्दर्शनाद्य् अर्थं सदा याच्यत इति तथा तत्-सम्बोधनम्, इति परम-दौर्लभ्यम् अभिप्रेतम्, तद् एव दर्शयति—योगः समाधिस् तस्मिन्न् ईश्वरैः समर्थैः श्री-सनकादिभिर् अपि, किं च, सुरेशैः सनकाद्य् उपदेष्टृ श्री-ब्रह्मादिभिर् अपि दुरापा गतिः, हृद्य् अपि साक्षात्कारो मार्गो\ऽपि वा यस्य, यद् वा भक्ति-योगेश्वरैः सुरेशशैर् अपि दुरापा सुरेशत्वाभिमानाद्-दुर्ज्ञेया गतिस् तत्त्वं यस्य तादृशो\ऽपि भवान् नो\ऽस्माकम् अधमानां गृहे प्रतीतः, कारुण्याद्य् अभिव्यजनेन तत्र प्रतीति प्राप्तः । यद् वा, नो\ऽस्माभिः प्रतीतः प्रत्यक्षं प्राप्तः, एतद्-दिष्टया, अहो! अस्माकं भाग्य-महिमेत्य् अर्थः । नः इति तेनैवात्मनो बहुमानात् स्व-परिवारोपेक्षया, वा, अतो नो\ऽस्माकं सुतादिषु यो मोहः स एव रशना बन्ध हेतुत्वाद् दुष्परिहरत्वाच् च, ताम् आशु छिन्धि, तच् च तवैव शक्यं सुकरम् एव चेत्य् आह—भवदीयेति । आप्ताः सुहृदः, आदि शब्दात् सद्-धर्मादयः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तादृश-तत्-कृपां श्लाघमानः सलज्जः सन् निज-तद् एकनिष्ठतान्तराय-व्याहतिं प्रर्थयते । दिष्ट्येति जनार्दन इति । हे ब्रह्मादि-याच्यमान-दर्शन तद् एव दर्शयति । योगेति । योगेश्वरैः सनकादिभिः सुरेशैर् ब्रह्म-भवादिभिर् गतिर् ज्ञानं यस्य सः प्रतीतः प्रत्यक्षं प्राप्तः एतद् दिष्ट्या अहो अस्माकं भाग्यम् अहिमेत्य् अर्थः । छिन्धीत्यादिकं नर-लीलोचितं वचनम् आप्ताः सुहृदः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नोऽस्माभिः प्रतीतः प्रत्यक्ष्यक्षीकृतः ॥२७॥
॥ १०.४८.२८ ॥
इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः ।
अक्रूरं स-स्मितं प्राह गीर्भिः सम्मोहयन्न् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । भक्तेनाक्रूरेण । गीभिर् लोक-विषयाभिः । समोहयन्नुत्पन्नं तत्त्व-ज्ञानम् अन्यथा कुर्वन्न् इव । सम्यग् निजाज्ञाप्यार्थनुकूलतया स्तुतः स त्वं प्रभो [४८.२४] इत्य्-आदिभिः श्रुतत्वात् । गीर्भीर् इति तद् वैशिष्ट्यं बोधयति, शुद्ध प्रेममय-लौकिक-लीलाभिर् उचेः त्वन्नो गुरुः [२९] इत्य्-आदि-लाक्षणाभिर् गीर्भिः सम्मोहयन् मूर्च्छयन्न् इव चेतनायाम् अपि विवेक-लोपात् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्तेनेति अर्चन-संस्तवयोर् उत्तमता, तया श्री-भगवत्-प्रीतिर् अपि सूचिता, अतः सस्मितं प्रकर्षण सस्नेह विनयादिनाह, यतो भगवान् सर्व-गुण-सम्पूर्ण इत्य् अर्थः । तेन मनो-हरणाच च हरिः श्री-कृष्णः, अतो गीर्भिर् वाङ्-मात्रेणेव, न तु तत्वत इत्य् अर्थः । सम्यङ् मोहयन्न् इति साक्षाद् ईश्वरस्य तादृशोक्त्य् अनुपपत्तेस् तद् अर्थ-तत्त्व-निर्धाराशक्तेश् च । इवेति तस्य विनयादि-स्वभावत्वेन तादृशोक्त्य् उपपत्तेः । यद् वा, गीर्भिर् मधुर-मधुर-वाक्-परिपाटीभिः सम्मोहं स्वस्मिन्न् अत्यन्त-ममतां विरतारयन्न् इत्य् अर्थः, इवेति स्वत एव तस्य तस्मिन् भक्त्या सदा ममता-वृत्तेः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् निजाज्ञाप्यार्थानुकूल-वचनतया स्तुतः । स त्वं प्रभो ! इत्य्-आदिमिश्रत्वात् । गीर्भिर् इति तद् वैशिष्ट्यं बोधयति । शुद्ध-प्रेममय-लौलिक-लीला-विशेषाभिरुचेस् त्वन् नो गुरुर् इत्य्-आदि-लक्षणाभिर् गीर्भिः सम्मोहयन् मूर्च्छयन् इवेति चेतनायाम् अपि विवेक-लोपात् । तत्र शक्ति-द्योतकं भगवान् सर्वैश्वर्यादि-सम्पन्नओ हरिर् मनोहारि-लीलश् चेति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्मोहयन् स्वैश्वर्य-ज्ञानं पुष्णन् । इवेति सम्यग् लुम्पन्न् अपि ॥२८॥
॥ १०.४८.२९ ॥
श्री-भगवान् उवाच—
त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा ।
वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वो युष्माकं प्रजाः पुत्रा हि वयम् इति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितृव्यः पितृ-भ्रातात एव गुरुः पितृव्यः पितृवन्मान्यः इत्य् उक्तेः । वयं नित्यदा नित्यं रक्ष्या इत्य्-आदि । एतेनास्य सेव्यत्वम् उक्तम् । नोष्माकम् इति विनयेनात्मनः साधारण्यापादनार्थम् । श्री-बलदेवाद्य् अपेक्षया गुरुर् उपदेष्टा, बन्धुश् च हिताचरणेन, तत्र श्लाघ्यः पर्मोत्तमत्वात्, किं वास्य सर्वैर् वान्वयः, नित्यम् इत्य् अर्थः । अपद्भ्यो रक्ष्या भोजनादिना प्ष्याः सुदुपदेशादिनानुकम्प्याश् च, हि यतो वः प्रजा वयम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नो\ऽस्माकम् इति सहजविनयादिनात्मनः साधारण्यापादनार्थं श्री-बलदेवाद्य् अपेक्षया, गुरुर् उपदेष्टा बन्धुश् च हिताचरणेन, तत्र च श्लाघ्यः, परमोत्तमत्वात् । किं वा अस्य पदस्य सर्वैर् अप्य् अनुषङ्गः । नित्य-देत्यस्य परेणान्वयः । रक्ष्या आपद्भ्यः, पोप्या भोजन-पायनादिना, अनुकम्प्याश् च सट्-उपदेशादिना । हि यतो वः प्रजा वयम ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नोऽस्माकम् इति विनयेनात्मनः साधारण्यापादनार्थं श्री-बलदेवाद्य् अपेक्षया । गुरुर् उपदेष्टा बन्धुश् च हिताचरणेन । तत्र श्लाघ्यः परमोत्तमत्वात् किम्वास्य सर्वैर् अप्य् अनुषङ्गः । नित्यम् एत्यस्य परेणान्वयः । नित्यम् इत्य् अर्थः । आपद्भ्यो रक्ष्याः भोजनादिना पोष्याः सद् उपदेशादिनानुकम्प्याश् चहि यतो वः प्रजा वयम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजाः पुत्र-तुल्याः । एवं व्यवहार-दृष्ट्या । त्वम् अस्माकम् आदरणीय एव परमार्थ-दृष्ट्या तु त्वं परम-वैष्णवत्वात् पूज्य एवेत्य् आह । भवद् विधा इति । अर्ह्यन्त इत्य् अर्हाः पूज्यास् तेषु सत्तमाः ।
ननु, नृभिर् देवाः सेव्या इति प्रसिद्धिस् तत्राह । देवाः खलु स्वार्थाः स्वकार्य-साधनपराः । न तु तथा साधवः । ते तु परानुग्रहकारता एवेति भावः ॥२९.३०॥
॥ १०.४८.३० ॥
भवद्-विधा महा-भागा निषेव्या अर्ह-सत्तमाः ।
श्रेयस्-कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नृभिर् देवाः सेव्या इति प्रसिद्धं तत्राह—देवा इति । स्वार्थाः स्व-कार्य-साधन-पराः, साधवस् तु केवलं परानुग्रह-पराः, परमार्थतस् तु साधव एव देवा इति त एव सेव्या इत्य् अर्थः ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । तत्राक्षेपे । अर्हेषु पूज्येषु सत्तमा अतिश्रेष्ठाः । भवद्विधास् त्वत् तुल्य-भक्तिमन्तः । इत्य् अर्थ इति—स्वपूजां प्राप्य फल-दातृत्वाद्-देवानां वणिक्-साम्यम्, स्वार्थमनपेक्ष्य फल-दातृत्वात्-सेव्यत्वम् इति भावः । भवद्विधा इति—अर्ह्यन्त इत्य् अर्हास् तेषु सत्तमाः ।
ननु, नृभिर् देवाः सेव्या इति प्रसिद्धिस् तत्राह—देवाः खलु स्वार्थ साधनपरा न तु तथा साधवस् ते तु परानुग्रहकातरा एवेति भावः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो महत्तमत्वाच् च विशेषतो\ऽस्माकं त्वम् एव सेव्य इत्य् आशयेनाह—भवद्-विधा इति । गुणादिना कश्चिद्-भवद् अनुकारिणो\ऽपि, किं पुनः साक्षाद्-भवन्त इत्य् अर्थः । नृभिर् नित्यं सम्यक् नितरां सेव्याः, यतो महा-भागाः परम-पुण्यवन्तः, अतो\ऽर्हत्तमाः सेवा-योग्यतमा इत्य् अर्थः । पाठान्तरे अर्ह्यन्ते इत्य् अर्हः पूज्यास् तेषु सत्तमाः । नृभिर् इति प्रायो मनुष्याणाम् एव श्रेयः-साधकत्वात् । तत्र च स्वस्य तत्-पितृव्यक्तोक्त्या यादवतया मनुष्यत्व-मननात्, तत्-कारणं चोक्तम् एव । सं-शब्द-नि-शब्दाभ्याम् अन्य-सेवा तु कदाचित् कश्चिद् एव कार्यति बोध्यते ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो महत्तमत्वाच् च विशेषतोऽस्माकं त्वम् एव सेव्य इत्य् आशयेनाह । भवद्विधा इति । किं पुनः साक्षाद् भवन्त इत्य् अर्थः । अतो देवेभ्योऽपि भवद्विधा मत्तमा इति भावः । नृभिर् नित्यं सम्यङ् नितरां सेव्याः । अतो महा-भागाः महान् भागः परम-भागवतत्व-प्राप्ति-हेतुर् भागो भाग्यं येषां ते महत्तमा इत्य् अर्थः । अतोऽर्हत्तमाः सेवा-योग्यतमा इत्य् अर्थः । पाठान्तरे अर्ह्यन्ते इति अर्ह्याः पूज्याः तेषु सत्तमाः नृभिर् इति प्रायो मनुष्यानाम् एव श्रेयः-साधकत्वात् अत्र च स्वस्यापि पितृव्यतयोक्त्या देव-जातीनां न तावती शक्तिः । स्वल्प-फलदायकत्वेऽप्य् अस्ति दोषान्तरम् इत्य् आह । देवा इति । अतो देवेभ्योऽपि भवद्-विधा देवत्वादि-जाति-निरपेक्षतया महत्तमा इति साधवः तितिक्षव [३.२५.२१] इत्य् आरभ्य, त एते साधवः साध्वि [३.२५.२४] इति पर्यन्तेन लक्षिताः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रेयस्कामैर् इति । बहुत्वेन मुक्ति-भगवद्-भक्ति-पर्यन्तानि श्रेयांसि गृह्यन्ते अतो देव-जातीनां न तावती शक्तिः स्वल्प-फल-दायकत्वेऽप्य् अस्ति दोषान्तरम् इत्य् आह—देवा इति ॥३०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४८.३१ ॥
न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि मृच्-छिलादि-मयाः किं देवादयो नैवेत्य् अत आह—न हीति । अम्मयानि तीर्थानि मृन्-मयाः शिला-मयाश् च देवा न भवन्तीति न, अपि तु भवन्त्य् एव । तथापि साधूना तेषां च महद् अन्तरम् इत्य् आह—ते पुनन्तीति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हीहाक्षेपेऽव्ययानाम् अनेकार्थत्वात् । आक्षिप्य समाधत्ते द्वौ नषौ प्रकृतार्थं गमयतः इति वामनोक्तेः । आपः स्वरूपं येषां तानि । तथा मृच्छिलयोर् विकारास् तथा । ते तीर्थादयः । उरुकालेन बहुकाल-सेवया । सर्वदा परनिष्ठचेतस् त्वात्-साधूनां महत्त्वम् आह—दर्शनाद् एवेति । देवानां मृच्छिलामयत्वे श्रुतिः—संस्रवभागास्थेषाबृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः इमां वाचम् अभिविश्वे गृणन्त आसद्यास्मिन् वर्हिषि मादयध्वं स्वाह्य वाट् इति । हे विश्वे सर्वे देवा यूयं संस्रवतीति संस्रवो घृतम्, उपलक्षणम् एतत्, तद् भागवन्तः, एषा भागेन इच्छया वा बृहन्तो वर्धयन्तः, प्रस्तरे पाषाणे तिष्ठन्ति प्रस्तरेष्ठाः उपलक्षणम् एतत्-पार्थिवतैज्सानाम् , केन—स्वाहा वेद-मन्त्रेण । परि सर्वदा धेया धारणयोग्या धेया इत्य् अर्थः । इमां वाचम् अभिगृणन्तः । इमां काम्-वहति प्रापयति भागं देवेभ्य इति वाट् पूजकः, त्वं वात् भवेत्याध्याहृत्य योज्यम् । अस्मिन् वर्हिषि यज्ञेर्चने यूयम् आसाद्य प्राप्य मादयध्वं तृप्यधम् इत्य् अर्थो वाचा कृतः । अतो यदि देवाः साधारणाः सेवितुं साक्षाल् लभ्यन्ते तदापि न साम्यं साक्षात् तु दुलभा एव, ततः प्रतिमारूपेणैव सेव्यन्ते । तत्र तु तद् अपेक्षयाति-निकर्ष इति वक्तुं प्रसङ्गतस् तीर्थानाम् अपि साधारणानां तम् आह—न हीति, शिरश् चालने नङ् । ते तत्-तद्-रूप-तीर्थ-देवाः । एकशेषत्वेऽपि क्लीबत्वाभाव आर्षः पुनन्ति चित्तमलतः शोधयन्ति तच्-चिरकाल-सेवयैव न तु साधुवत्-प्रथमक्षण-दर्शनाद् एवेति । अतः साधूनां देवादिभ्यो महद् अन्तरम् इति भावः । प्रतिमापूजनाद्-ब्रह्मत्वं च गत्वामृतत्वं च गच्छतीति सामवेदीय-प्रतिमोपनिषदि प्रतिमार्चनम् अपि मोक्ष-हेतुर् उक्तस् तच् च क्त्वा-प्रत्यनेन पूर्वकाल-विहितेन पूजनानन्तरं चिरकालेनैव हरिं नत्वा ग्रामं गच्छतीतिवज् ज्ञेयम् । एवाकारेण साधूनां दर्शन-समकालम् एव पावकत्वम् उक्तम् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न ह्य् अस्मयानीत्य् आदि । अस्मयानि तीर्थानि न ? अपि तु तीर्थान्य् एव । मृच्छिलादयो देवा न ? अपि तु देवता एव । किन्तु उरुकालेनैव पुनन्ति, साधवस् तु दर्शनाद् एवेति भावः ॥३१.३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि देवाः किं न सेव्या एव ? तत्राह—न हीति । तीर्थानीति दृष्टान्तत्वेन, अत एव ते इति पुंस्त्वेन निर्देशः, अन्यथा तानीति स्यात् । अन्यत् तैर्
व्याख्यातम् । भावस् त्व् अयम्—मृच्छिलामया अपि पूज्याः, किं पुनर् ज्योतिर्मयाः सात्त्विकाः, साक्षाद् अनेन पूर्वोक्त-सं-नि-शब्द सूचितार्थस्य विषयो दर्शितः, किन्तु तत्त्वतः साधव एव तीर्थानि देवाश्चेति साधव एव भक्त्याधिक सेव्या इति, यतस् ते देवा बहु-काल-सेवनाद् एव पुनन्ति, पापादि-मलतश् चित्तं शोधयन्ति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो यदि देवाः साधारणाः सेवितुं साक्षाल् लभ्यन्ते तदापि न साम्यं साक्षात् तु दुर्लभा एव ततः प्रतिमा--रूपेण यत् सेव्यन्ते तत्र तु तद् अपेक्षयाति-निकर्ष इति वक्तुं प्रसङ्गतस् तीर्थानाम् अपि साधारणानां तम् आह । नहीति । ते तत् तद् रूपतीर्थ-देवाः एकशेषत्वेऽपि साधारणानां तम् आह । नहीति । ते तत् तद् रूप-तीर्थ-देवाः एक-शेषत्वेऽपि नपुंसकत्वाभावः आर्षः । पुनन्ति चित्तमलतः शोधयन्ति तद् दर्शनाद् एवेति प्रथम-क्षण-दर्शन एवेदं तुल्यते द्वितीय-क्षणादौ तु नेति भावः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतो यदि देवाः सेवितुं साक्षाल्लभ्यन्ते तदापि न साम्यं साक्षात् तु दुर्ल्लभा एव ततः प्रतिमा-रूपेण यत्सेव्यन्ते तत्र तु तदपेक्षया त्वतिनिकर्ष इति वक्तुं प्रसङ्गतस्तीर्थानाम् अपि तमाह। नहीति। पुनन्ति चित्तमलतः शोधयन्ति ॥३१.३६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न ह्य् अस्मयानीत्य् आदि । अस्मयानि तीर्थानिऽ न ? अपि तु तीर्थान्य् एव, मृच्छिलामया देवा न ? अपि तु देवा एव, किन्तु तानि ते चारुलालेनैव पुनन्ति, साधवस् तु दर्शनाद् एवेति विशेष इति । स्व-भक्त-महिम-ख्यापनार्थम् अक्रूरम् उद्दिश्य भगवता गदितम्—तस्यापि भक्तत्वात् ॥३१.३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्मयानि तीर्थानि नहीति शिरश् चालने नष् अपि तु एवं देवा अपि तु भवन्त्य् एव एवं देवा अपि किन्तु साधूनां तेभ्यो महद् अन्तरम् इत्य् आह । ते इति । एक-शेषे पुंस् त्वम् आर्षं दर्शनाद् अपि ॥३१॥
॥ १०.४८.३२ ॥
स भवान् सुहृदां वै नः श्रेयान् श्रेयस्-चिकीर्षया ।
जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किञ्चिच् चिकीर्षयन् प्रागात् इति यद् उक्तं तत् कार्यम् आदिशति, स इति । नः सुहृदां मध्ये भवान् श्रेष्ठोऽतः पाण्डवानां श्रेयश् चिकीर्षया गजाह्वयं गच्छस्व गच्छेति । यद्वा स्वेति पृथक् पदम् । हे स्व आत्मीयेत्य् अर्थः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽर्हत्तमः । यतः श्रेष्ठोऽतो हेतोः । गमेः परस्मैपदित्वाद् आर्षत्वाश्रयणस्यापि वक्रत्वेनर्जुपन्था एव श्रेयानित्यादाह—यद् वेति । इत्य् अर्थ इति—स्वः स्वकीये धनेऽपि च इति कोशात् । एतावता यद् विवक्षितं तद् आह—स साधुत्वेनोक्त-माहात्म्यः पितृव्यत्वेनास्मत् प्रियतरः साधुत्वेन परोपकारकश् च नः सुहृदां यादवानां मध्येऽति-प्रशस्यश् च भवान् । वै प्रसिद्धम् । पाडवानां या जिज्ञासा घृतराष्ट्रश्रये ते कथम् अवतिष्ठन्त इति पर्यालोचनं तद् अर्थः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स साधुत्वेनोक-माहात्म्यः, विशेषतश् च नो\ऽस्माकं सुहृदो यादवास् तेषाम, किं वा सुहृदां यादव-ज्ञातीनां नो मध्ये । चै प्रसिद्धौ । जिज्ञासाथं श्रेयश् चिकीर्षयैव तेषां धृष्टस्य च वृत्तं ज्ञातुम् ॥ ३२
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतावता यद् विवक्षितं तद् आह । स साधुत्वेनाक्त-माहात्म्यः विशेषतश् च नोऽस्माकं सुह्सृदो यादवास् तेषां मध्ये किं वा, सुहृदं ज्ञातीनां न मध्ये वै प्रसिद्धौ श्रेयश् चिकीर्षया पाण्डवानां या जीज्ञासा धृत-राष्ट्राश्रये ते कथम् अवतिष्ठन्त इति पर्यालोचनं तद् अर्थम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः पितृव्यत्वेनास्मत् प्रियंकरत्वात् साधुत्वेन परोपकारकत्वाच् च इदं त्वया कर्तव्यम् इत्य् आह । स इति । गच्छस्व गच्छ स्वेति सम्बोधनं वा ॥३२॥
॥ १०.४८.३३ ॥
पितर्य् उपरते बालाः सह मात्रा सु-दुःखिताः ।
आनीताः स्व-पुरं राज्ञा वसन्त इति शुश्रुम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञा धृतराष्ट्रेण । वसन्ते निवसन्ति । शुश्रुम श्रुतवन्तो वयम् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज्ञा सह ऋषिभिर् आनीताः वसन्तः सन्ति । निजैश्वर्यम् आच्छाद्य वदति—शुश्रुम इति । जिज्ञासाम् एव स कारणं स प्रयोजनं चाह—त्रिभिः । उपरते शान्ते तादृशादरनीयजनेष्व् अश्लील-वचनानर्हताख्यापनाय, बाला इत्य् आनयन-समयापेक्षया, राज्ञेत्य् अन्धस्यापि तस्याधुना दैवाद्राज्य-प्राप्तिर् जातेति सूचितम् । शुश्रुम इति लौकिक-लीला-माधुर्यम् अग्रे नूनम् इति च ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जिज्ञास्यम् एव स-कारणम् आह—पितरीति त्रिभिः । उपरते इति विनयात् , मृते सति सुदुःखिताः । राज्ञे तु कनिष्ठ-भ्रातरि मृते स्वयम् एव राज्यं कुर्वतेति दुष्टतां राजाभिमानमत्ततां च सूचयति । शुश्रुम इति स्नेहभर-विवर्द्धनार्थं लोकरीत्य् अनुसारेण निजैश्वर्य-गोपनात् । एवम् अग्रे नूनम् इति च ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जिज्ञास्यम् एव सकारणं सप्रयोजनं चाह । प्तरीति त्रिभिः । उपरते शण्ते इति तादृशादरणीय-जनेष्व् अश्लील-वचनानर्हता ख्यापनाय बाला इत्य् आनयन-समयापेक्षया । राज्ञेत्य् अन्धस्यापि तस्यापि तस्याधुना द्वैवाद् राजत्व-प्राप्तिश् च जातेति सूचितं श्रुश्रुमेति लौकिक-लीला-माधुर्यं अग्रे नूनम् इति च ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञा धृतराष्ट्रेण वसन्ते वसन्ति ॥३३.३६॥
॥ १०.४८.३४ ॥
तेषु राजाम्बिका-पुत्रो भ्रातृ-पुत्रेषु दीन-धीः ।
समो न वर्तते नूनं दुष्पुत्र-वश-गोऽन्ध-दृक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुष्टा ये स्व-पुत्रा दुर्योधनादयस् तद्-वशेन गच्छतीति तथा । यतोऽन्ध-दृग् अन्ध-नेत्रः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषु पाण्डवेषु । अम्बिका-पुत्रः धृतराष्ट्रः । दीनधीः मन्द-बुद्धिः । अन्ध-दृग् इहान्धपदम् एव दृष्ट्युपघातं वक्ति, पुनर् दृग्ग्रहणं परिणत-गजप्रेक्षणीयम् इति वद्विशेष्य-मात्रपरतयैवेति ज्ञापनायेति ध्येयम् नूनं वितर्के । समो न वर्तते, तत्-कुतः—अम्बिका-पुत्रः, पाण्डोर् वैमात्रेयत्वादित्य् अर्थः । हेत्वन्तरं-दुष्पुत्रवशगः, तत्-कुतः—दीनधीः क्षुद्र-बुद्धिः । तद् अपि कुतः—अन्धदृक् तदादीनां सामुद्रिके बहु-दोष-श्रवणात् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अम्बिका-पुत्र इति साधारण-जनोचितं वैमात्रेयत्वेन वैषम्यं सूचयति । नूनं वितर्क, भ्रातृ-पुत्रेषु समो न वर्त्तते, वैषम्यं प्रातिकूल्यम् आचरति । यद् वा, यथा स्व-पुत्रेषु तथा तेषु न स्याद् इत्य् अर्थः । यतो दीन-धीरल्प-बुद्धिर् दुष्ट-मतिर् वा, यतो दुष्पुत्र-वशगः, अन्ध-दृग् जन्म-नैवान्ध इत्य् अर्थः । अनेन राजान् अर्हत्वम् अपि सूचितम् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नूनं, वितर्के समो न वर्तते तत् कुतः ? अम्बिका-पुत्रः पाण्डोर् वैमात्रेयत्वादित्य् अर्थः । हेत्वन्तरं दुष्पुत्रवशगः तत् कुतः दीनधीः क्षुद्र-बुद्धिः तद् अपि कुतः ? अन्ध-दृक् तदादीनां सामुद्रिके बहु-दोषस्मरणात् । अधुनैव गच्छ तस्य राज्ञो वृत्तं साधु वा भवत्य् असाधु वेति जानीहीत्य् अर्थः । तत् तथा । भगवान् समग्रैश्वर्यादि-पूर्णोऽति हरि मनसैव दुष्ट-संहार-समऋथोऽपि ईश्वरः सर्व-नियन्तापि । इति पूर्वोक्तानुनय-प्रकारेणैव सम्यक् पुरुस्कार-पूर्वकं आदिश्य ततोक्रूर-गृहात् सङ्कर्षणोद्भवाभ्यां सहेति न त्वनुव्रजनार्थम् अक्रूरेणापीति तत्-प्रस्थापनत्वरा दर्शिता स्वेति तस्मिन् भवने तदनन्तरं स्वेच्छामय-विलासः सूचितः । वै सम्बोधने तच् च लीला-माधुर्यानुभव-वैशिष्टयाय ॥३४.३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४८.३५ ॥
गच्छ जानीहि तद्-वृत्तम् अधुना साध्व् असाधु वा ।
विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्वृत्तं धृत-राष्ट्रवर्तनम् । तत् तद्वृत्तं तथा विधास्याम इति । शं सुखम् । सुहृदां पार्थानां । अधुनैव गच्छ तस्य राज्ञो वृत्तं वर्तनं साध्वसाधु वेति जानीहीत्य् अर्थः । तत्-तथा ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना इदानीम् एव गच्छ, तस्य राज्ञो वृत्त साधु असाधु वा जानीहि । तत्-तथा सुहृदाम् इति तद्-योग्यतोक्ता ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४८.३६ ॥
इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः ।
सङ्कर्षणोद्धवाभ्यां वै ततः स्व-भवनं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । ततोऽक्रूर-गृहात् । भगवान् समग्रैश्वर्यादि-पूर्णोऽपि हरिर् मनसैव दुष्ट-संहार-समर्थोऽपि ईश्वरः सर्व-नियन्तापि इति पूर्वोक्तानुनयप्रकारेणैव सम्यक्पुरस्कार-पूर्वकम् आदिश्य ततोऽक्रूर-गृहात्-सङ्कर्षणोद्धवाभ्यां सह, न त्वनु-व्रजनार्थमक्रूरेणापीति तत्-प्रस्थापनत्वरा दर्शिता । स्वेतित स्मिन् भवने तद्-अनन्तरं स्वेच्छा-विलासः सूचितः । वै सम्बोधने । तच् च लीला-माधुर्यानुभव-विशिष्ट्याय ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यङ्-महा-प्रसाद-प्रदानादिना आदिश्य, यतो भगवान् परम-दयालुर् इति पाण्डवानुग्रहस्याभिप्रायेण । हरिर् इति पाण्डव-द्वारा भूभार-हरणस्य वा, ईश्वरो नियन्तेति दुर्योधनादि-दुष्ट-दण्डनस्येति, वै अनुनये, सानुनयं समादिश्य, ततः समादेशतः पश्चाद् एवेति समादेशे परमासक्तिर् उक्ता । यद् वा, ततो\ऽकूर-भवनात्, सङ्कर्षणोद्धवाभ्यां सहेति परमादरार्थं समादेशे तत्-साहित्यम् ॥ ३६ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्ट-चत्वारिंशकोऽयं दशमेऽअजनि सङ्गतः ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे अक्रूर हस्तिनापुर-गमन-
नाम अष्टचत्वात्रिंशोऽध्यायः ।
॥ १०.४८ ॥
(१०.४९)