४७

उद्धव-गोपी-संवादः, भ्रमर-गीतम्, उद्धवस्य मथुरा-गमनं च ।

॥ १०.४७.१ ॥

श्री-शुक उवाच—

तं वीक्ष्य कृष्णानुचरं व्रज-स्त्रियः

प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् ।

पीताम्बरं पुष्कर-मालिनं लसन्-

मुखारविन्दं परिमृष्ट-कुण्डलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्त-चत्वारिंशकेऽथ कृष्णादेशेन गोपिकाः ।

बोधयित्वोद्धवस् तत्त्वम् अनुज्ञाप्यागमत् पुरीम् ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ तत्त्व-बोधानन्तरम् । ता अनुज्ञाप्य पृष्ट्वा व्रजाङ्गना-व्यामोहोक्ति-भङ्ग्या श्री-कृष्ण-भक्तिम् अत्राध्याये वक्ति—तम् उद्धवम् । परिमृष्टे देदीप्यमाने कुण्डले यस्य स तम् ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णम् अनुचरति भक्ति-विशेषेणात्रैव सारूप्यादि-प्राप्त्यानुगच्छतीति,तथा तम् । व्रज-स्त्रियः सदा श्री-कृष्ण-रूप-वेशादि-ध्यान-गान-परा इति भावः । अतो वीक्ष्य साक्षाद् दूरतो दृष्ट्वैव सुविस्मिताः परम-विस्मयं प्राप्ताः प्रायः श्री-कृष्ण-सारूप्यात् तद् एव दर्शयति—प्रलम्बेत्य्-आदिना । तत्राद्येन पद-द्वयेन रूपतः, ततोऽन्येन तद्-द्वयेन परीत्य् अनेन च भूषणतः, लसत्-सुन्दर-स्मितादिना शोभमानं मुखारविन्दं यस्य तम् इति शोभातः । यद् वा, लसद् इत्य् अत्रैव हेतुः—परिमृष्टेति ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इति युग्मकम् । रहसीत्य् अस्य तृतीय-पद्य-स्थस्याप्य् अत्रान्वयः कार्यः । "कोऽयम् ?" इत्य्-आदिना वितर्क्य,"जानीमस् त्वाम्" इति स्वयम् एव निर्णयात् आह्निकं कृत्वा व्रजम् आगतश् चेत् तदाभविष्यत्, तर्हि लोक-सङ्घट्टे तस्मिन्परम्परायाः सोऽयं महारथी व्यक्त एवाभविष्यद् इति ।

व्रज-स्त्रिय इति—व्रजेऽपि श्रेष्ठत्वेन याः प्रसिद्धा भगवत्-प्रेयसी-रूपाः स्त्रियस् ता इत्य् अर्थः । व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः [भा।पु। १०.२९.४२] इत्य्-आदिष्व् अपि तथैव, तत्-प्रसङ्गे तच्-छब्द-प्रयोगात् । उद्धवं वीक्ष्यतं च कृष्णानुचरंवीक्ष्य तद्-आकारतया निभाल्य । तत्र हेतुः—प्रलम्ब-बाहुम् इत्य्-आदि । तत्र पुष्कर-मालातु प्रस्थापन-समये श्री-भगवतैव स्व-कण्ठात् प्रसादीकृतेति गम्यते । व्रजेऽप्य् एतादृश-तत्-सम-निवेश-रूपा एव तद्-अनुचरा इत्य् अनुमानात् तद्-अनुचरत्वेन वितर्क्येत्य् अर्थः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : व्रज-स्त्रिय इति । व्रजे ऽपि श्रेष्ठत्वेन याः प्रसिद्धा भगवत्-प्रेयसी-रूपाः स्त्रियस्ता इत्य्-अर्थः ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्त-चत्वारिंशकेऽस्मिन् चित्र-जल्पान् दशोद्धवः ।

आकर्ण्य प्रोच्य सन्देशान् गोपीः स्तुत्या पुरीं ययौ ॥१॥


॥ १०.४७.२ ॥

सुविस्मिताः कोऽयम् अपीव्य-दर्शनः

कुतश् च कस्याच्युत-वेष-भूषणः ।

इति स्म सर्वाः परिवव्रुर् उत्सुकास्

तम् उत्तमः-श्लोक-पदाम्बुजाश्रयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपीच्यं सुन्दरं दर्शनं यस्य सः । अच्युतस्येव वेषो भूषणानि च यस्य सः। कोऽयं कुतो वा कस्य च ? इति वदन्त्यस् तं परिवव्रुः ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पीच-वैरूप्ये पीचनार्हः पीच्यः, न पीच्योऽपीच्यः । अपीच्यः सुन्दरेऽनिन्द्यः इति धरणि-देवः । तम् उद्धवम् ।परिवव्रुः परिवेष्टितवत्यः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दृश्यत इति दर्शनंरूपम् । अनेनानुक्तम् अपि ।स्क-सदृशम् आकार-वयो-वर्णादिकं सङ्गृहीतम् । अच्युतेत्य् अनेन च तत्-सदृश-मौक्तिक-हारादि । तत्र वेषः—नट-वर-च्छेदः । किं वा, अच्युतस्य वेषो भूषणम् एव भूषणं यस्य तम् ।त्वयोपयुक्त-स्रग्-गन्ध वासोऽलङ्कार-चर्चिताः [भा।पु। ११.६.४६] इति न्यायेन तदीय-वस्त्रादि-धारणात् । अत एवोत्सुकाः सम्भ्रान्ताः समुत्कण्ठिता वा सत्यः सर्वा एकैकशः स्व-स्व-स्थानाद् आगताः । किं वा, विरहार्त्या सर्वासाम् एवैकत्र स्थित्या युगपद् आगताः परितो वव्रुर् आवृतवत्यः । यत उत्तमश्लोकः श्री-कृष्णस् तत्-पदाम्बुजम् एवाश्रयो यस्य तम् । इत्य् एकास्तितया गुणेनापि तत्-सादृश्यम् उक्तम् ।यद् वा, उत्तम-श्लोक-पदाम्बुजयोः संवाहनाद्य्-अर्थम् उपधानवद् आश्रयम् । इति सततात्यन्त-समीप-वर्तिता परम-प्रियता चोक्ताः । वाक्य-भेदात् तम् इत्य् अस्यापौनरुक्त्यम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः सुविस्मिताः अन्यत्रापि कथम् एतादृशोऽस्तीति तद् एतद् आहुः—कोऽयम् इति । शुचि-स्मिताः इति पाठे तस्य प्रसादायारोपित-स्मिता इत्य् अर्थः । दृश्यते इति दर्शनं रूपम् । वेषो वस्त्र-तिलक-केश-बन्धादिः । भूषणं कटक-कुण्डलादि । यद् वा, अच्युत-वेष-भूषणे एव वेश-भूषणे यस्य तम्, त्वयोपयुक्त-स्रग्-गन्ध वासोऽलङ्कार-चर्चिताः [भा।पु। ११.६.४६] इत्य् एतद्-वाक्यानुसारात् । तत्राप्य् आपाततोऽसङ्कोचे हेतुः—उत्सुकाः कालाक्षमत्वेन विचार-शून्याः । पश्चाद् अपि । तत्र हेतुः—उत्तम-श्लोकः श्री-कृष्णस् तत्-पादाम्बुजम् एवाश्रयो यस्य तम् । यद् वा, उत्तम-श्लोक-पादाम्बुजयोः संवाहनाद्य्-अर्थम् उपधानवद् आश्रयस् तस्य तथा तद्-आत्मीयतां निर्धार्येत्य् अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुचिं शुद्धं स्मितं यासाम् इति कृष्ण-स्मारक-वेष-दर्शनोत्थेन हर्षेण स्मितं सुविस्मिता इति पाठे कृष्णस्यैव पीतोत्तरीयम् इदं तद्-अङ्गोत्तीर्णम् एव कमल-माल्यं च कथम् अनेन प्राप्तम् इति विस्मयः अपीव्यं सुन्दरं यस्य सः कोऽयं कुतः कस्य वा मनुष्य इति वदन्त्यः कृष्ण-वृत्तान्त-प्राप्ति-सम्भावनया उत्सुकाः ॥२॥


॥ १०.४७.३ ॥

तं प्रश्रयेणावनताः सुसत्कृतं

स-व्रीड-हासेक्षण-सूनृतादिभिः ।

रहस्य् अपृच्छन्न् उपविष्टम् आसने

विज्ञाय सन्देश-हरं रमा-पतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताः किं चक्रुर् इत्य् अत आह—तम् इति । तम् उद्धवम् । रमापते राधा-पतेर् इत्य् अनेन तस्यांतस्यासक्तिर् नान्यत्रेति सूचितम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स व्रीडेत्य्-आदि । व्रीडा अत्र तं विनापि जीवन्त्यस् तद्-वार्ता-ग्रहणाय समागताः स्म इति । हासस् तु स्वयं समागमिष्यतीत्य् उक्त्वा सखि-द्वारैव संवादो विधीयते। अहो वञ्चकता ! इत्य् अतिदुःखे हास एव । ईक्षणं प्रिय-प्रस्थापितोऽयम् इति तत् प्रेम प्राकात्य-सूचनम् ।सूनृतम् अन्तः-करणस्य द्रवद्-भावेन रमा-पतेर् इति कटाक्षोक्तिः । सैव धन्या यतोऽसाव् अनेनैव कारणेन वक्षस्य् एव वसति, अतोऽस्याः कदापि न विच्छेद इति तच्-चातुर्याभिव्यञ्जिका वा उक्तिः ॥१-३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्रज-स्त्रियः परिवारणानन्तरम् एव प्रश्रयेण विनयेनावनता नम्र-शिरसः सत्यस् तं रहस्य् एकान्त आसन उपविष्टम् उद्धवं रमापतेः सन्देश-हरम् इङ्गितेन विज्ञाय स-व्रीड-हासेक्षण-सूनृतादिभिः सुसत्कृतंयथा स्यात् तथापृच्छत् ।

व्रीडा च लज्जा-विशेषः । तत्-सहितो हासश् च दर-हसितं, तेन युक्तम् ईक्षणं च मनाग् अवलोकनम् इति त्रयं भगवत्-सारूप्य-दर्शन-जातस्यश्री-भगवति भाव-विशेषस्यस्वभावाद् उद्भूतंसुनृतं च स्वागतं, कुशलं वः इत्य्-आदि-प्रिय-वाक्यं, तेन । आदि-शब्दाद् आसन-पाद्यार्पणादिभिश् च । अत एव सुष्ठु सत्कृतं पूजितम् इत्य् उद्धव-विशेषणं वा, भगवद्-भाव-दर्शनेन तदीय-सुख-विधानात् । रमापतेःलक्ष्मी-कान्तस्येति प्रिय-जन-परिपालकत्वेनात्मन्य् अपेक्षा तस्य सम्भाविता ।

यद् वा, रहसि प्राप्त्या सन्देश-हरं दूतं विज्ञाय रह आगमनादिना निर्धार्यापृच्छत् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तम् इति । तम् उद्धवं रहसि रमापतेः सन्देश-हरं विज्ञाय स्वयम् एव पूजाङ्गत्वेन दत्त आसन उपविष्टं सन्तं प्रश्रयेणावनताः सद्यः पुनः स-व्रीड-हासेक्षण-सूनृतादिभिः सुसंष्कृतं सन्तम् अपृच्छन्न् इति क्रमः कर्तव्यः । अत्रासन इति सामीपिकार्थम् एवाधिकरणं ज्ञेयम् । तद्-विधासु तस्य महा-भक्तेर् अपि निर्णीयमानत्वात् । यतः सैरन्ध्र्य्-आदिषु तस्य तादृशता वर्णयिष्यते इति कैमुत्य-लाभाच् च ।

प्रश्रयेणावनता विनय-नम्र-शिरसः । व्रीडो व्रीडा । हासः प्रसादस् ताभ्यां युक्तम् ईक्षणम् अवलोकनं, सूनृतं च स्वागतं कुशलं चेत्य्-आदि-प्रिय-वाक्यं, तद्-आदिभिस् तत्-पुरःसरासन-पाद्यादिभिः सुसत्कृतम् आदृतम् । ततश् च रहसिसन्देशमानीतवान् अयम् इति निश्चित्यापृच्छन् ।

रमापतेःजयति तेऽधिकं जन्मना [भा।पु। १०.३१.१] इत्य्-आद्य्-अनुसारेण तादृश-तत्-सम्पत्ति-दर्शनेन ज्ञातस्य तासाम् एवाभिप्रायस्य प्रकटनम् इति विशेष्य व्याख्येयम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स-व्रीड-हासेति । व्रीडो व्रीदा । हासः प्रसादस् ताभ्यां युक्तम् ईक्षणम् ।रहसि विजातीय-भावागोचरे देशे । रमापतेर् इति जयति ते\ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि[भा।पु। १०.३१.१] इत्य् अनुसारात् तादृश-तत्-सम्पत्ति-दर्शनेन जातस्य तासाम् एवाभिप्रायस्य प्रकटनम् ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तं प्रश्रयेणेत्य्-आदि । स-व्रीड-हासेत्य्-आदौ । व्रीडा अत्र तं विनापि जीवाम इति प्रेमाणो निर्व्यलीकत्वाभावेनात्मानं प्रति व्रीडा । हासस् तु स्वयम् आगमिष्यामीत्य् उक्त्वापि तेन नायातम्, सखैव प्रेषित इति श्री-कृष्णं प्रत्यसूया-सूचकम् ईक्षणम् । तत्-सखेति तत्-प्रेम-प्राकट्य-करं सूनृतं किम् अयं व्यक्तीति तच्-छ्रवणार्थम् ।रमापतेर् इति सासूयम् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्रयेति व्याख्या-चरम् ।व्रीडा स्त्री-स्वभावोत्था मूर्धादेर् ईषद् आवरण-लक्षणा लज्जा । सा ह्य् आदरणीय-जन-सामान्य-दर्शने सहसैव भवेत् । हासः स्व-प्रिय-दास एवायम् इति निश्चयेन मुख-प्रसाद;ह् । ताभ्याम् ईक्षणं सम्पूर्णावलोकनम् । आदिना यत्र-समयं यथोपस्थितिं च पाद्याद्य्-आतिथ्यं । रहसि विजातीय-जनागोचर-स्थले ।तादृश-स्थले सहसैवागमनेन तं सन्देश-हरं विज्ञाय । रमा-पतेर् इति गोपी-पक्ष-पातिनः शुकस्यासूया-द्योतनं—सम्पत्तिं मथुरायां स्पष्टम् एव परमेश्वरः । तं सुखयितुं रमैवागमिष्यति किम् एतासु सन्देश-प्रेषण-दम्भेनेत्य्-आकारकम् ॥३॥


॥ १०.४७.४ ॥

जानीमस् त्वां यदु-पतेः पार्षदं समुपागतम् ।

भर्त्रेह प्रेषितः पित्रोर् भवान् प्रिय-चिकीर्षया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पार्षदं सेवकम् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदुपतेर् इत्य् अनेनापि गोपी-पतित्वाभावं सूचयन्ति । भर्त्रेहेति राधोक्तिः, न हि भर्तॄणां वनिता-त्यागो योग्य इति भावः । पित्रोर् नन्द-यशोदयोः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जानीम इति । अकथितेनापि जानीम इत्य् अर्थः । यदु-पतेः, न तु गोपी-पतेः । भर्त्रा, न तु प्रियेण । पित्रोः प्रिय-चिकीर्षया न त्व् अस्माकम् । तथा चेत् स्वयम् आगमिष्यत् ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् राज-रथारोहणादिना श्री-व्रजेश्वरान्तिके आगतं जानीम एवेति तद्-विशेष-प्रश्नादिनालम् इति भावः । यदुपतेर् इति तस्याधुना व्रज-जनेषूपेक्षा युक्तेति भावः । जानीम इत्य् एव विवृण्वन्ति—भर्त्रेति । तत्-परित्यक्तेऽपि व्रजेऽत्र तवागमनं भर्त्र्-आज्ञाया भृतेनावश्य-पाल्यत्वाद् इति भावः । ननु मत्-प्रेषणाद् अत्र तस्यपरमापेक्षाव-गम्यताम् । तत्राहुः—पित्रोर् इति । केवलं तयोर् द्वयोर् एव ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा निश्चयेऽपिदुःखेन स्व-सम्बन्धम् अपलपन्त्य आहुः—जानीम इति । सम्यग् एतादृश-परिच्छेदतया व्रज-जन-समीपागतं त्वां यदु-पतेः पार्षदं जानीमः । ततस् तत्-प्रश्नेनालम् इति भावः । आगमने हेतुः—भर्त्रा तेन निज-स्वामिना प्रेषितः स्वयम् अनागत्य तव प्रेषणाम् अनादेशेऽपि लौकिकता-मात्राद् इति तत्-परित्यक्तेऽपि व्रजे तवागमनं भर्त्र्-आज्ञाया भृतेनावश्य-पाल्यत्वाद् इति भावः । यदु-पतेर् इति स्वेषु तस्यानादरे हेतु-व्यञ्जकं स्वेषांतस्मिन्न् अयोग्यत्वं व्यञ्जयति । अतस् तव भर्त्रेति च सौदासीन्यं वचनं प्रयोजनं तु किञ्चिद् एकम् एव जानीम इति तथैवाहुः । पित्रोर् इति । तथापि न स्व-प्रेम्णेति भावः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पित्रोर् इति । तत्रापि न स्व-प्रेम्णेति भावः ॥४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : जानीम इति । अकथितेनापि जानीम इत्य् अर्थः । यदुपतेः, न तु गोपी-पतेः । भर्त्रा, न तु प्रियेण । पित्रोः प्रिय-चिकीर्षया, न त्व् अस्माकम् । तथा चेत् स्वयम् आगमिष्यत् ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जानीम इत्य् अत एवालं प्रश्नेनेति । यदुपतेर् इति स गोप-जातिर् इव सम्प्रति यदूनां पतिर् अभूद् इति बृहत्-पद-प्राप्तस्य स्वयं कथम् अत्राजिगमिषा सम्भवेद् इति भावः । अत एव भवान् प्रेषितः पित्रोः प्रिय-चिकीर्षया, न तु स्वस्य । तेन यशोदा-नन्दाभ्यां पितृभ्यां गोप-जाति-व्यञ्जकाभ्याम् अस्य किं प्रयोजनम् ? इति भावः । नन्द-यशोदे रुदित्वा म्रियेते, कृष्णो मथुरायां राज्यं करोतीति लोक-निन्दा-भयाद् एव त्वं प्रेषित इति मन्यामहे । किन्तु भोश् चतुर-वर्य ! तेन सुबुद्धि-शेखरेण प्रेषितः पित्रोः प्रिय-चिकीर्षया त्वं चात्रायातोऽतः प्रयाहि नन्द-यशोदयोः समीपम् । तौ हि त्वां प्राप्यानन्देन कृष्णं तं विस्मारयिष्यत इति धन्यैव तस्य विवेक-तीक्ष्णतेत्य्-आद्या बहव एव व्याज-स्तुति-मयात्यन्त-तिरस्कृत-वाच्य-ध्वनेःपल्लवाः ॥४॥


॥ १०.४७.५ ॥

अन्यथा गो-व्रजे तस्य स्मरणीयं न चक्ष्महे ।

स्नेहानुबन्धो बन्धूनां मुनेर् अपि सुदुस्त्यजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पित्रोः प्रिय-चिकीर्षयेत्य् अत्र हेतुः, स्नेहानुबन्ध इति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यथा नन्द-यशोदा-प्रिय-चिकीर्षाम् अन्तरा । तस्य कृष्णस्य । चक्ष्महेपश्यामः । मुनेर् अपि शम-निष्ठावतः संन्यासिनोऽपि वसिष्ठादिषु तथाश्रवणात् । सुदुस्त्यजोऽतिशयेन त्यक्तुम् अशक्यः । सुरत्रातिशयेऽनेकार्थत्वात् । न हि कृष्णः सन्न्यासीति भावः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्यथेत्य् आदि । साक्षेपोक्तिः इतीत्य्-आदि-पर्यन्तम् ॥५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यथा तौ विना गवां व्रज इति परम-दैन्येनात्मनो गो-सादृश्य-मननात्, स्मरणीयं जनं कञ्चिद् वा न पश्यामः, बन्धूनां बन्धुषु स्नेहस्यानु-बन्धः प्रवृत्तिः, मुनेरात्मारामस्यापि, किं पुनर् ऐश्वर्याद्य्-अपेक्षस्यतस्य ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यथा तौ विना तु तस्य यदु-पतेर् गो-व्रजेतन्-मात्र-धन-गोपावासे स्मरण-योग्यम् अपि न पश्यामः, किम् उत स्मरण-पथ-गतम् इत्य् अर्थः । यत् तु तयोरपि स्मरणं तद् अपि तयोर् एव स्नेहस्य गुणो, न तु तस्येत्य् आहुः—स्नेहेति । बन्धूनांबन्धूनांपित्रादिषु स्नेहानुबन्धःस मुनेः सन्न्यासिनोऽपिदुस्त्यजः कृच्छ्रेणैव विस्मर्तुं शक्यते, न तु सहसा त्यक्तुम् इति । ततोऽपि काठिन्यम् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् तु तयोर् अपि स्मरणम्, तद् अपि तयोर् एव स्नेहस्य गुणः, न तु तस्येत्य् आहुः—स्नेहेति ॥५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एव प्रकट्यन्त्य आहुः—अन्यथेत्य्-आदि । अन्यथा गो-व्रजे तस्यस्मरणीयं न पश्यामः । पितरौ विना स्मृति-विषयोऽत्र नास्तीति भावः । ननु तस्यात्मारामस्यकथं पितरौ प्रति तथा स्नेहः ? इत्य् आशङ्क्याहुः—स्नेहानुबद्धो बन्धूनाम् इति । मुनेरात्मारामस्यापि, अतो न वयं बन्धवः, अस्मान् प्रति स्मृतिर् अपि तस्य दुर्लभेत्य् असूयोक्तिः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मरणीयं स्मरण-योग्यं जनं कम् अपि न चक्ष्महे न पश्यामः ।स्मृतयोः यशोदानन्दयोः पित्रोर् अपि तेन यद्य् एवम् अनादरः कृतः, तदा अस्मद्-आदीनां तदीय-स्मृत्य्-एक-भूमिकायाम् अप्य् आरोहण-योग्यता कुत एव स्यात् ?इति भावः। मुनेःकृत-संन्यासस्यापिदुस्त्यजः, षष्ठी आर्षी, कृष्णेन तु पर-स्त्री-पुञ्जेषु रममानेनापि दुस्त्यज एवेत्य् अहो कृष्णस्यवैराग्य-तीव्रतेति भावः ॥५॥


॥ १०.४७.६ ॥

अन्येष्व् अर्थ-कृता मैत्री यावद्-अर्थ-विडम्बनम् ।

पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यथा गो-व्रजे तस्येत्य् अत्र हेतुः—अन्येष्व् इति । अर्थ-कृता कार्य-निमित्ता । विडम्बनम् अनुकरण-मात्रं न तु तात्त्विकी मैत्री । पुम्भिर् इति दृष्टान्तौ ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्येषु पितृ-व्यतिरिक्तेषु गोपी-जनेषु यावद्-अर्थं प्रयोजनावसान-पर्यन्तम् अनुकरण-मात्रं यस्याः सेति तीर्थः । मैत्र्या इति शेषेण यावद्-अर्थ-विडम्बनाम् इति स्वामिनः । तात्त्विकीं यथार्थाम् । यद्वत् यथा स्त्रीषु यावद्-अर्था नृणां मैत्री भवतीति तात्पर्यम् ।सुमनःसु पुष्पेषु ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स किम् अस्मासु निरुपाधि प्रेम कृतवान् ? नैवम् । अत आहुः—सुमनःस्विव षट्पदैः ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्येषु बन्धु-व्यतिरिक्तेषु मैत्री स्नेहः । अन्यत् तैर् व्याख्यातम् । यद् वा, यद्यपि मुनेर् अपि सुदुस्त्यजः, तथापि न चक्ष्महे, प्रिय-व्यतिरिक्तानां तस्य बन्धूनाम् अत्राभावात् । ननु, अबन्धुष्व् अपि स्नेहो दृश्यते ? सत्यं, स त्व् औपाधिकोऽस्थिर इत्य् आहु—अन्येष्व् इति । सा ह्य् अर्थे सिद्धे पश्चान् नैवानुवर्तते इत्य् आहुः—यावद्-अर्थं निज-प्रयोजन-साधन-पर्यन्तम् एवेति । अत एव विडम्बनं, कडाचित् कस्यचित् पुंसः कयाचित् स्त्रिया सह दृढ-मैत्री-दृष्ट्या । दृष्टान्तान्तरं सुमनःस्व् इति । श्लेषेण शोभन-चित्तेष्व् इति न तेषां तत्र दोषः, किन्तु चाञ्चल्यात् षट्-पदानाम् इवेति भावः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्येषु मैत्री अर्थ-कृताप्रार्थनीय-पदार्थोपाधिका, न तु बन्धुष्व् इव स्वाभाविकीत्य् अर्थः । सा च यावद्-अर्थ-विडम्बनं यावन्तस् तेऽर्थाः, तावद् एव तस्या मैत्र्या अनुकरण-मात्रम् । अस्मासु तु न काचिद् बन्धुता मिथुनता, सम्बन्धश् च न स्थिरः स्याद् इति । शालीनतयादर्शनोपदेशेनैवाहुः—पुम्भिर् इति । दृष्टान्तस्यैव दृष्टान्तः सुमनःस्व् इति, श्लेषेण शोभन-चित्तेष्व् इति । न तेषांतत्र दोषः, किन्तु लौल्यात् षट्पदानाम् एवेति भावः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भवतीः प्रत्य् अपि तस्यातिशयैव मैत्रीति सुप्रसिद्धैव वार्ता नेत्य् आहुः—अन्येष्व् इत्य्-आदि । अन्येषु मद्-विधेषु अर्थ-कृतैव मैत्री प्रयोजन-कृतैव । सा च यावद्-अर्थं विडम्बनं यावत् प्रयोजनं, अत एव विडम्बनं मैत्रानुकरणम् एव, न तु मैत्री । तस्मात् पुम्भिः स्त्रीषु कृता मैत्री षट्पदैः सुमनःसु कृता मैत्रीव । ते तु यावन्-मधु सम्बन्धस् तावद् एव तासु राज्यन्ति, तद्वत् पुमांसोऽपि स्त्रीषु । एतेन तस्यास्मासु न निष्कैतवं प्रेमेत्य् आक्षेपोक्तिः ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कृष्णस्य पितृभ्यां भ्रात्रादिभिश् च निष्प्रयोजनत्वान् ममता मास्तु, युष्माभिः स्त्रीभिस् तु लम्पटत्वात् तस्य प्रयोजनम् अस्त्य् एवेति । यूयम् एव स्मरणीया भवथेति । तत्राहुः—अन्येष्व् इति । अर्थ-कृता प्रयोजनवती निन्द्यैव मैत्री यावद्-अर्थ-विडम्बनं यावत् तावच् च साकल्ये इत्य् अभिधानात् सर्वार्थ-विडम्बन-रूपाया मैत्र्याः कर्ता यश् च मैत्र्याः प्रतियोगी यश् च प्रयोजकः यश् चोपकरणं, तेषां सर्वेषाम् अप्य् अर्थानां विडम्बनं तिरस्कारस् तद्-रूपेत्य् अर्थः । स्वस्य प्रयोजन-सद्भावे मैत्र्याः सत्त्वं प्रयोजनाभावे मैत्र्या अभाव इत्य् अर्थः । तत्रापि पुम्भिः सुमनःस्व् इव पुष्प-सदृशीषु सौन्दर्य-सौरभ्य-सौकुमार्य-माधुर्यवतीष्व् अपि स्त्रीषु श्लेषेण शोभन-मनस्कास्व् अचञ्चल-चित्तास्व् अपि मैत्री, तद्वत् कृता यद्वत् षट्पदैः कृतेत्य् अन्वयः । षट्-पदा हि सौरभ्यादि-गुणवन्त्य् अपि पुष्पाणि सकृत् पीत्वैव स्व-चाञ्चल्य-दोषात् यथा त्यजन्ति, तथैव पुमांसः स्व-सम्भोगार्ह-माधुर्यादिमतीर् अप्य् एक-निष्ठा अपि स्त्री सम्भुज्य त्यजन्तीति प्रयोजन-सद्भावेऽपि मैत्र्या अभाव इत्य् अतिनिन्दा ॥६॥


॥ १०.४७.७ ॥

निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।

अधीत-विद्या आचार्यम् ऋत्विजो दत्त-दक्षिणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्यैवान्यार्थ-निदर्शनैः प्रपञ्चः—निःस्वम् इत्य्-आदिना । दत्ता दक्षिणा येन तं याज्यम् ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्यैव यावद्-अर्थं विडम्बनस्यैव । निःस्वं निर्धनम् ।गणिका वेश्याः,पण्य-स्त्री गणिका वेश्या इत्य् अमरः । अकल्पं रक्षणाद्य्-असमर्थम् ।अधीता विद्याःशास्त्राणि यैस् ते छात्राः । आचार्यम् अध्यापकम् ।याज्यं यजमानम् ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपाधि-कृतं प्रेम उपाधि-हानौ नश्यतीत्य् आहुः—निःस्वं त्यजन्तीत्य्-आदि सर्वम् ।जारो भुक्त्वा रतां स्त्रियं [भा।पु। १०.४७.८] इत्य् अस्य परिपोषार्थम् ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निःस्वं पूर्वं धनवन्तम् अपि पश्चाद् व्ययादिना निर्धनं सन्तम् । एवम् अग्रेऽप्य् ऊह्यम् ।अकल्पं पालनासमर्थम् ।ऋत्विजो याजकाः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मिथुनता-सम्बन्धश् च यदि धर्म-प्रधानतः स्यात्, तदा स्थिरोऽपि स्यात्। केवल-ग्राम्य-धर्म-मयश् चेत् अस्थिर एव स्याद् इत्य् अर्थान्तर-न्यास-व्याजेन तद् एव पर्यवसाययन्ति—निःस्वम् इति युग्मकेन । निःस्वं निर्धनीभूतम् । अकल्पं पालनासमर्थी-भूतम् । ऋत्विजो याजकाः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्-सजातीयान्य् उदाहरणानि दर्शयन्ति—निःस्वं त्यजन्तीत्य्-आदि बहुभिः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र स्व-प्रयोजनाभाव एव मैत्र्या अभाव इत्य् अत्र दृष्टान्तान् दीपक-न्यायेनाहुः । निःस्वं गणिकास् त्यजन्ति, तेन यावद्-धन-प्राप्तिस् तावन् न त्यजन्तीत्य् एवम् अग्रेऽपि व्याख्येयम् ।अकल्पं पालनासमर्थं ।दत्ता दक्षिणा येन यजमानं ॥७॥


॥ १०.४७.८ ॥

खगा वीत-फलं वृक्षं भुक्त्वा चातिथयो गृहम् ।

दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पक्षिणो विगत-फलं वृक्षम् । रताम् अनुरक्ताम् अतृप्ताम् इत्य् अर्थः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खे गच्छन्तीति तथा । गृहं गृहस्थ-सद्म-प्रणय-कोपातिरेकं बोधयितुं दृष्टान्त-बाहुल्यम् । जीर्यति यशः परलोकश् चानेनेति जारः । इत्य् अर्थ इति—रतिर् अनुरागो विद्यतेऽस्या इति रता ताम् । मत्व्-अर्थीयाचायम् अर्थो लभ्य इति स्वाम्य्-अभिप्रायः । रतिः स्त्री स्मर-दारेषु रागे सुरत-गुह्ययोः इति मेदिनी । रागेऽनुराग इत्य् अर्थः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : खगाः खे भ्रमन्तः । फलानि दृष्ट्वा तद्-अर्थम् आगताः । अतिथयो निमन्त्रणेन क्षुदादिना वा भोजनार्थम् एवागताः । तथेति समुच्चये । अतो नव-तृणाद्य्-अर्थम् आगता इति खगवज् ज्ञेयाः । जारा इत्य् अत्यन्त-दैन्येनात्मोद्देश-सम्भवेऽपि सामान्येनैवोक्तम्, न त्व् आत्मोद्देशेनेति ज्ञेयम् । प्रेम-विशेषेण तद्-एक-परत्वादिना तासु तस्य केवल-प्राकृत-जारत्वाभावात् । एवं क्रमेण धन-पालनाध्ययन-पूजाश्रयण-भोजनोपजीवन-रतयोऽष्टौ प्रायो लोकानाम् आपेक्ष्यार्था उक्ताः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दग्धं दग्धीभूतम् । जारा भुक्त्वा रतां स्त्रियम् इत्य् अत्र दृष्टान्त-पक्षेषु पुरुषेषु निन्द्यं जार-पदं न्यस्तं, स्त्रियां तु तद्वत् पुंश्चली-पदं न न्यस्तं, किन्तु रता-पदम् एव तत् खलु दार्ष्टान्तिकेषु स्वेषु तद्-दोष-सङ्क्रमण-निरसनार्थम् एवं स्थिते वयम् उत्पत्तित एव निजं तस्मिन्न् अनुनिर्णीय तम् एवानन्यतया स्वयं वृतवत्यः । स पुनर् अस्मान् भुक्त्वा परित्यजन् जारायमाण एव जात इति तम् एवानन्य-भावाः भरा इति बहुत्वम् उक्त्वा स्त्रियम् इत्य् एक-वचनं तु जार-परायाः स्त्रिया बहु-जारत्वम् अपि सम्भवतीति तद्-विधायां निन्दाया विवक्षया स्वेषां पुनर् एतादृशताया इति ज्ञेयम् । एवं धन-पालनाध्ययन-पूजोपजीवन-भोजनाश्रयण-रतयोऽष्टौ प्रायो लोकानाम् अपेक्षा अर्था भद्राभद्राश् च सर्वेऽप्य् उपाधय इति न स्नेह-निर्वाहका इति भावः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : जारा भुक्त्वा रतां स्त्रियम् इति भगवन्तं प्रत्य् आक्षेपः । वयं तु तं परम-प्रेयांसम् इत्य् एव ज्ञातव्यः, सम्प्रति तद्-व्यवहारेण जारम् एव तं जानाम् ईत्य् अर्थः ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीत-फलं विगत-फलं । जाराः खलु रतां रमणवतीम् अपि स्त्रियं त्यजन्ति, तेन यावत् तस्या यौवनं तावन् न त्यजन्तीति पूर्ववद् अर्थाभावात् यत् किञ्चित् प्रयोजनाभावेऽपि मैत्र्या अभावः प्रतिपादितः । तेन तस्य स्व-प्रयोजन-सिद्धिः पुर-स्त्रीभिर् एव भवतीति कथं वयं स्मरणीया भवाम ? इति कृष्णस्य स्वेषु प्रेमाभावो व्यञ्जितः । तत्रापि जारा इति बहु-वचनेन स्त्रियम् इत्य् एक-वचनेन च बहु-जार-परायाः कामोपाधिक-प्रीतिमत्यास् तैस् त्यागः सम्भवतु, अस्माकं तु बह्वीनाम् अपि तद्-एक-निष्ठत्वम् एव केवलं प्रेमापि न सम्भवेद् इत्य् अभिव्यज्य निरुपमं नृशंसत्वम् एव कृष्णस्य द्योतितम् ॥८॥


॥ १०.४७.९ ॥

इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः ।

कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्यक्त-लौकिकास् त्यक्त-लोक-व्यवहाराः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् ।लोक-व्यवहाराःपुरुष-समक्षं नग्नाङ्गाच्छनादि-रूपाः । गोविन्द इत्य्-आद्यलुक्-समासः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एतद् वदन्त्य इत्य् अर्थः । यद् वा, इत्य् एवं त्यक्त-लौकिकाः, स्वत एव पूर्वं गोविन्दे गोकुलेन्द्रे, श्लेषेण सर्वेन्द्रिय-व्यापके भगवति, अत एव गतानि प्राप्तानि वाग्-आदीनि यासां ताः, तत्र काय-प्राप्तिर् निजाङ्गानां सर्वेषां प्राणानां वा समर्पणात्, तद्-आविष्टतया कायस्य विस्मरणाद् वा । यद् वा, कायिक-व्यापारस्य तद्-अर्थं त्यागात् । किं वा, तद्-अर्थक-मात्र-कर्माचरणात् । पुनश् च कृष्णस्य स्व-चित्ताकर्षकस्य प्रभोर् दूते तत्र चोद्धवे व्रजम् आयाते सति । अन्यत् तैर् व्याख्यातम् । यद् वा, गत-ह्रियो बभूवुर् इति । किं वा, रुदत्यो मुमुहुर् इति शेषः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति पूर्वोक्त-वचन-प्रकारेणगोप्यस् त्यक्त-लौकिका अनादृत-लोक-सङ्कोचा बभूवुः । क्व इति कृष्णस्यसर्वेषाम् अप्य् आकर्षकतया तन्-नाम्नस् तस्य निज-प्रेष्ठस्यान्यत्र गतस्य सतो दूते तत्राप्य् उद्धवेसमायाते सति । तत्रहेतुः—हियस्मात् गोविन्देपूर्वम् एव गोकुलेन्द्रे श्लेषेणसर्वेन्द्रिय-व्यापके तस्मिन्गतानि वाग्-आदीनि यासां ताः । तत्र कायेन गतिः निजाङ्गानां समर्पणात् तद्-अर्थक-मात्र-कर्माचरणात् तद्-आविष्टतया कायस्य विस्मृतत्वाच् च । तस्मात् तासाम् इदानीं ईदृशी भवनं युक्तम् एवेति भावः । इत्थम् एव च पूर्वम् अनन्यतया स्वयं वृतवत्य इति व्याख्यातम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वत एव गोविन्द-गत-रागादयः । विरहे कृष्ण-दूते व्रजायाते त्यक्त-लौकिकाः ॥९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्यक्त-लौकिकाः स्व-मुखेनैवौपयत्य-स्पष्टीकरणात् त्यक्त-लौकिक-व्यवहारा बभूवुः ॥९॥


॥ १०.४७.१० ॥

गायन्त्यः प्रिय-कर्माणि रुदन्त्यश् च गत-ह्रियः ।

तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियस्य कर्माणि गायन्त्यस् तथा तस्य बाल्य-कैशोरयोर् यानि कर्माणि तानि संस्मृत्य संस्मृत्य गत-ह्रियः सत्यो रुदत्यश् च तम् अपृच्छन्न् इति पूर्व-क्रिययैव सम्बन्धः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य । तम् उद्धवम् । ल्यब्-अन्त-द्विरुक्तिश् छान्दसी ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यानि कैशोर-बाल्ययोर् इति । स्व-कैशोरे तत्-कैशोरं स्व-बाल्ये तद्-बाल्यं यत् तद् इत्य् अर्थः ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पौगण्डस्य बाल्येऽन्तर्-भावो ज्ञेयः । कैशोरस्यादाव् उक्तिस् तत्र रासादि-क्रीडा-विशेषापेक्षया ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च गत-ह्रियः सत्यो यानि कैशोर-बाल्ययोः प्रिय-कर्माणि, तानि मुहुः स्मृत्वा गायन्त्योऽपि बभूवुः । रुदन्त्यो रुदत्यश् च बभूवुर् इत्य् अर्थः । कैशोरस्यप्रथमोक्तिस् तासां स्वरसोद्दीपनत्वेन बाल्यं कौमार-पौगण्डात्मकं तदीय-स्मरणम् आबाल्य-स्नेहेनेति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गायन्त्य इत्य्-आदि ॥१०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इति संस्मृत्य संस्मृत्येत्य् आदि । यानि कैशोर-बाल्ययोर् इति स्व-कैशोरे तत्-कैशोरे च स्व-बाल्ये तद्-बाल्ये च यद् यत् कृतं तत् तद् इत्य् अर्थः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रुदन्त्यश् च बभूवुः कैशोर-बाल्ययोर् इति बाल्यम् आरभ्यैव तस्मिंस् तासां प्रेमा निरुपाधिक एव, न तु कैशोर एवकामोपाधिक इति भावः ॥१०॥


॥ १०.४७.११ ॥

काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् ।

प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियेण श्री-कृष्णेन मां प्रसादयितुं प्रस्थापितोऽयं दूत इति कल्पयित्वाब्रवीत् । यद् वा, तस्मिन्न् अप्य् उद्धवे प्रिय-प्रस्थापितं दूतम् इति दूत-दृष्टिं कृत्वा मधुकरापदेशेनोद्धवम् एवाब्रवीद् इत्य् अर्थः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काचिन् मुग्धा । मधुकरे दूतत्वारोपणम् असम्भवं मन्वानो वक्ति—यद् वेति । मधुकरापदेशेन भ्रमर-व्याजेन । इत्य् अर्थ इति—अन्योक्त्योद्धवम् एव भ्रमरीकृत्यावदद् इति भावः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काचित् कापि तासां मुख्यतमैका ।यद् वा, के प्रेम सुखे आ समन्तात् चित् विज्ञानं यस्या सा राधा।यथाग्नेये—

गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् । > हरि-लीला-विहारांश् च तत्रैकां राधिकां विना । > राधा तद्-भाव-संलीना वासनाया विरामिता । > सखीभिः साभ्यधाच् छुद्ध-विज्ञान-गुण-जृम्भिता । > इज्यान्ते वासिनं वेद-चरमांश-विभावनैः ॥ इति ।

अस्य सार्ध-पद्य-द्वयस्यार्थः—राधिकां विना गोप्यस् तत्रोद्धवं हरि-लीला-विहारान् पप्रच्छुः । सा राधा तद्-भाव-संलीना तस्य कृष्णस्यभावे महा-भावे सम्यग् लीना मग्ना, अत एवान्य-सर्व-वासनातो विरामिता विरामम् उपरमं लम्भिता भावेनैव । वेद-चरमांश-विभावनैर् वेद-चरमांशा उपनिषदः, तासां विभावनैर् विशेष-भावनैः सार-प्रकाशनैर् इज्यान्तेवासिनं गोष्पति-शिष्यम् उद्धवम् अभ्यधात् ।कथं-भूतं ? प्रेम्णां शुद्ध-विज्ञानं तद्-एक-रसतयानुभवः, तेन जृम्भितम् उत्फुल्लम् । एतेनोपनिषत्-सार-संग्रह-रूपो दिव्योन्माद-विवर्तोऽयं श्री-राधायाश् चित्र-जल्पः ।

तथा च रस-ग्रन्थे—

महा-भाव-विशेषस्य गतिं काम् अप्य् उपेयुषः । > भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥ > उद्घूर्णा-चित्र-जल्पाद्यास् तद्-भेदा बहवो मताः ॥ [उ।नी। > १४.१९०-१]

तथा—

प्रेष्ठस्य सुहृदालोके गूढ-रोषाभिजृम्भितः । > भूरि-भाव-मयो जल्पश् चित्र-जल्पस् तद्-उद्भवः ॥ [उ।नी। > १४.१९५]

तद्-उद्भवो दिव्योन्मादोद्भवः । अतोऽन्तिम-पद्यं विहायान्यत्र सर्वैर् अत्रैव रोष-व्यञ्जनं ज्ञेयम् इति । मधुकरं स्वयम् अकस्मात् तदैव प्राप्तं तं च प्रिय-प्रस्थापितं दूतं मत्वा । स्वभावाद् एव तद्-दर्शनाद् वा, कृष्ण-सङ्गमस्यैव ध्यानेन तद्-अर्थं तद्-दूतागमन-बुद्धेः । किन्तु तं लक्ष्यीकृत्य उद्धवम् एवाब्रवीद् इति तैर् व्याख्यातम् एव ।

यद् वा, प्रिय-प्रस्थापितं दूतम् उद्धवं दृष्ट्वा तं च मधुकरं कल्पयित्वा । तत्रहेतुः—ध्यायन्तीति । कृष्ण-सङ्गमे चित्तस्य प्रवेशेन विरहार्ति-विशृङ्खलित-महा-भाव-वैवश्येन चानुसन्धानाभावः श्यामत्वादिना मधुकरतया प्रतीतेर् इति ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ,

महा-भाव-विशेषस्य गतिं काम् अप्य् उपेयुषः । > भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥ > उद्घूर्णा-चित्र-जल्पाद्यास् तद्-भेदा बहवो मताः ॥ [उ।नी। > १४.१९०-१९१] > प्रेष्ठस्य सुहृदालोके गूढ-रोषाभिजृम्भितः । > भूरि-भाव-मयो जल्पश् चित्र-जल्पस् तद्-उद्भवः ॥ [उ।नी। > १४.१९५]

इति रस-ग्रन्थानुसारेण तास्व् एव कस्या अपि दिव्योन्माद-मयं चित्र-जल्पं वक्तुम् आह—काचिद् इति । काचित् कापि परम-प्रेष्ठा सा च श्री-राधाइत्य् अर्थः । श्लेषेण च के प्रेम सुखे आ समन्तात् चित् ज्ञानं यस्या सेति । कं सर्वेषां प्रेम-सुखम् आचिनोति क्षणे क्षणे वर्धयति या सेति च । मुख्यत्वात् सैव । तथैव सैषा एतन्-नाम्नैव प्रतिपादिता वासना-भाष्येऽपि । तादृशी सा पीत-पराग-पिञ्जर-श्मश्रुं कञ्चिद् भ्रमरम् अकस्मात् दृष्ट्वा तं दूतं कल्पयित्वावक्ष्यमाण-भङ्गी-मयम् इदम् अब्रवीत् ।

ननु महा-विरह-दुःखेऽस्मिन् कुतो मानः ? तत्राह—प्रिय-सङ्गं ध्यायन्ती स्फूर्ति-स्वप्नयोर् यः प्रिय-सङ्गमस् तम् एव गुप्तं मुहुर् आगतस्यैव तस्यसाक्षात्तया स्मरन्ती ।

ननु तथापि यद्य् अन्य-नायिकया प्रियस्यतत्र प्रसङ्गः स्यात्, तदा सम्भवत्य् अपि मानः, तत्राप्य् आह—कल्पयित्वेति । या भ्रमरम् अपि दूतं कल्पयित्वा सा तद् अपि कल्पयेद् इति भावः। वक्ष्यति च—सपत्न्याः कुच-विलुलित- [भा।पु। १०.४७.१२] इति प्रियेण स्व-विषयक-परम-प्रेमवता तेन प्रस्थापितं दूतं वितर्क्येदं चित्र-जल्पाख्यं श्लोकम् अब्रवीत् । अतो यत् तत्र वासना-भाष्योत्थापितम् आग्नेय-वचनम्—

गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् । > हरि-लीला-विहारांश् च तत्रैकां राधिकां विना । > राधा तद्-भाव-संलीना वासनाया विरामिता । > सखीभिः साभ्यधाच् छुद्ध-विज्ञान-गुण-जृम्भितम् । > इज्यान्ते वासिनं वेद-चरमांश-विभावनैः ॥ इति ।

तद् एतत् पूर्वंतस्या निर्वेदाख्यं भावान्तरं जातम् आसीद् इत्य् अपि ज्ञेयम् । यं मूलतया प्रणय-रोष-मयोऽयम् अपि भाव-विशेषो जज्ञे । विचित्र-सञ्चारि-मयत्वात्तादृशावस्थायाः, अतस् तद्-भाव-मय-दशमी-दशानन्तर्य-पर्यालोचनया वासनाया विरामिता पुनस् तत्-सङ्गम-सम्भावना-रहिता बभूव । ततश् च तज्-जातीय-वार्ताम् असहमाना तद्-आच्छादनाय देहान्तरेष्व् अपि तद्-दुःख-पारावारम् अपश्यन्ती मुक्तिर् एव वरम् इति प्रतिपादनाय वा वेद-चरमांशस्य ज्ञान-काण्डस्य विभावनैर् उदाहरणैः शुद्धेत्य्-आदि यथा स्यात् तथैवाभ्यधात् संवादम् आचचार । न केवलं सा, किन्तु सख्योऽपीत्य् आह । सखीभिर् इति योज्यम् । अथवा वेद-चरमांशस् तादृश-भाव-प्रकाशको वेदः । वासना तादृश-भावेतरः सर्व एव भावः शुद्ध-विज्ञानं च तादृश-भाव-मयानुभव उच्यते । यं सर्वे वेदा आमनन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ।ता।उ। ४.१०] इति मुक्त्य्-अवस्थोपरि सामान्य-भक्तेर् अपि प्राशस्त्याम्नानात् । वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इति श्री-गोपिका-मात्राणाम् अपि सर्व-स्पृहणीय-भावत्वात् । इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या [भा।पु। ११.२.४३] इत्य् आद्य् एकादशानुसारेण यथा भक्त्यैवानुभावोदयाच् च ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काचित् कापि परम-श्रेष्ठा सा च राधेत्य् अर्थः । वासना-भाष्ये तत्र सैव व्याख्याता । यत् तत्र तद्-उत्थापितम् आग्नेय-वचनम्—

गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् । > हरि-लीला-विहारांश् च तत्रैकां राधिकां विना । > राधा तद्-भाव-संलीना वासनाया विरामिता । > सखीभिः सा व्यधाच् छुद्ध-विज्ञान-गुण-जृम्भिता । > इज्यान्ते वासिनं वेद-चरमांश-विभावनैः ॥ इति ।

तत्रैतत् पूर्वं तस्या निर्वेदाख्यं भवान्तरं जातम् आसीद् इत्य् आद्य् अपि ज्ञेयं तन्-मूलकतया प्रणय-रोष-मयोऽपि भाव-विशेषो ज्ञेयः । विचित्र-सञ्चारि-मयत्वात् तदृशावस्थायाः ततस् तद्-भाव-मय-दशम-दशानन्तर्यालोचनया वासनाया विरामिता पुनस् तत्-सङ्गम-सम्भावन-रहिता बभूव । ततश् च तज्-जातीय-वार्ताम् असहमाना तद्-आच्छादनाय देहान्तरेऽपि तद्-दुःख-पारम् अपश्यन्ती मुक्तिर् एव वरम् इति प्रतिपादनाय वेद-चरमांशस्य ज्ञान-काण्डस्य विभावनैर् उदाहरणैः । शुद्धेत्य् आदि यथा स्यात् तथैवाभ्यधात् सम्वादम् अकरोत् सखीभिः सहेति अथवा वेद-चरमांशस् तादृश-भाव-प्रकाशको वेदः वासना तादृश-भावेतसः सर्व एव भावः । शुद्ध-विज्ञानं च तादृश-भाव-मयानुभव उच्यते । यं सर्वे वेदा आमनन्ति मुमुक्षवो ब्रह्म-वादिमश् चेति मुक्त्य्-अवस्थोपरि सामान्य-भक्तेर् अपि प्राशस्त्याम्नानात् । वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इति श्री-गोपिका-मात्राणाम् अपि सर्व-स्पृहणीय-भावत्वात् इत्य् अच्युताङ्घ्रिं भजतो ऽनुवृत्त्येत्य् एकादशानुसारेऽपि यथा भक्त्यैवानुभावोदयाच् च ध्यायन्तीति मध्ये मध्ये तत्-स्फूर्तेः ॥११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रैव काचिद् दैवागतं मधुकरं दृष्ट्वा साक्षेपम् उद्धवं प्रति वक्तुम् अनौचित्यात् तस्मिन्न् एव मधुकरे तद्-भावम् आपात्य नाना-भाव-शवलेनोन्मादेन निगदति । तथा च—

भावन्तर-समावेशाद् उक्ति-वैचित्र्यतोऽपि च । > उत्तरङ्गतयाङ्गीत्वाद् उन्मादो बहुधा मतः ॥

तद् यथा—

प्रलापश् च विलापश् चानुलापो विप्रलापकः । > आलापश् चापलापश् च सुप्रलापश् च सप्तमः । > प्रविलापोऽष्टमश् चैव प्रतिलापस् ततः परम् । > संलापश् चेति वैचित्र्यम् उन्मादे दशधा गिराम् ॥ इति ।

अत्रापि श्लोक-दशके यथायथं दशधा वैचित्र्यं ज्ञेयम् ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काचिद् इति । ह्लादिनी शक्ति-सार-वृत्ति-रूपस्य प्रेम्णोऽपि या सप्तमी भूमिका महाभावस् तन्-मयी श्री-वृषभानु-नन्दिनीयम् इति वैष्णव-तोषणी कृष्ण-कर्तृकं सङ्गमं मथुराङ्गनासु ध्यायन्ती ध्यानेन कल्पयन्ती, अत एव उद्भूत-माना प्रियेणश्री-कृष्णेन मां प्रसादयितुं प्रस्थापितोऽयं दूत इति कल्पयित्वा कम् अपि मधुकरम् अब्रवीत् । यद् वा, मधुकरापदेशेनोद्धवम् एवाब्रवीद् इत्य् अर्थः ॥११॥


॥ १०.४७.१२ ॥

गोप्य् उवाच—

मधुप कितव-बन्धो मा स्पृशाङ्घ्रिं सपत्न्याः

कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः ।

वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं

यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे मधुप ! कितवस्य धूर्तस्य बन्धो ! नोऽस्माकम् अङ्घ्रिं मा स्पृश, मा मां नमस्कारेण प्रार्थयस्वेत्य् अर्थः । तत् किं ? इत्य् अपेक्षायां कृष्ण-वर्णस्य तस्य श्मश्रूणां लोहितत्वे कारणम् उत्प्रेक्षमाणाह—सपत्न्याः कुचाभ्यां लुलिता संमर्दिता या कृष्णस्य वन-माला, अत एव तस्याः कुङ्कुमं येषु, तैः श्मश्रुभिर् उपलक्षितः, किन्तु तासाम् एव मानिनीनां प्रसादं मधु-पतिर् वहतु । किम् अस्मत्-प्रसादनेन ? तस्य यदु-सदसि विडम्ब्यम् उपहासास्पदम् । कुतः ? यस्य दूतस् त्वम् ईदृग् ईदृशः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र गोप्यश् चित्र-जल्पेन भ्रमरम् उद्दिश्योद्धवम् आहुः । चित्र-जल्पश् च रस-रत्नाकरे—

चित्रजल्पो दशांशोऽयं प्रजल्पः परिजल्पितः । > विजल्पोज्जल्प-संजल्पा अवजल्पोभिजल्पितः । > आजल्पः प्रतिजल्पश् च सुजल्पश् चेति कीर्तितः ॥ इति ।

तत्र प्रजल्पम् आहैका—मधुपेति । उन्मत्तः कितवो धूर्तः इत्य् अमरः । इत्य् अर्थ इति—त्यक्तासु को नमस्कारः । किं तत्-प्रार्थनेन वा ? इति भावः । तद्-वारणम् । किं कुत इति । तस्य भ्रमरस्य । श्मश्रूणां मुख-रोम्णाम् । लोहितत्वे रक्तत्वे । अत एव सम्मर्दनाद् एव । तस्याः सपत्न्याः । कुपिताह—किं त्व् इति । तासाम् एवमथ्रुआ-स्थानाम् एव । मधुपतिर् यदु-पतिः एकदेश-न्यायेन मधुरा-पतिर् वा, मधुरा मथुरा प्रोक्ता इति कोशात् । तस्य कृष्णस्य । उपहासास्पदत्वेनहेतुम् आशङ्कते—कुत इति ।ईदृशो भ्रमरोऽर्थात् तद्वत् ।

अत्र प्रजल्प-लक्षणम् आह—

असूयेर्ष्या-मद-युजा योऽवधीरण-मुद्रया । > प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥ [उ।नी। १४.१९९] > इति ॥१२॥

इति सपत्नीर्ष्या-मदाभ्यां भ्रमरावधीरणं, भ्रमर-दूतत्वेन कृष्णाकौशलम् अपि ध्वनितम् ॥१२॥


कैवल्य-दीपिका : एवम् अल्प-व्यवधानं प्रवासम् उक्त्वा बहु-व्यवधानम् आह—मधुप कितव इति । हे मधुप ! कितव-बन्धो धूर्त-सम्बन्धिन् ! नः अङ्घ्रिं सपत्न्याः कुचयोर् विलुलितं संयोग-विमर्दात् प्रभ्रष्टं मालाया यत् कुङ्कुमं, तद्-रक्तैः श्मश्रुभिर् मा स्पृश । रति-व्यतिकरे सपत्नी-स्तन-कुङ्कुम-रञ्जितायाम् उपवेशाद् भ्रमरस्य शोण-श्मश्रुतां सम्भाव्येदम् उच्यते ।

मधुपतिः कृष्णः, तस्य मानिनीनां माथुरीणां, तन्-मानिनीनाम् इति सोत्प्रासं विडम्ब्यम् उपालम्भनीयम् । स्त्रैणत्व-प्रकाशनाद् ईदृक् कुच-कुङ्कुमेन श्लाघ्यमानत्वाद् निर्लज्जास्पदत्वेन मधुपतिर् अप्य् एवं-विध इत्य् उक्तम् । अत एव मधुपत्वं तस्य च कितवत्वम् । प्रायेण हि मधुपाः कितवाश् च निर्ह्रीका भवन्ति ॥१२॥ [मु।फ। १२.६२]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्रैव कदाचिद् दैवाद् आगतं मधुकरं दृष्ट्वा साक्षेपम् उद्धवं प्रति वक्तुम् अनौचित्यात् मधुकर एव तद्-भावम् आपाद्य नाना-भाव-शावल्येन निगदति—मधुप इत्य्-आदि ।

हे कितव-बन्धो ! किं तवास्तीति कृत्वा पर-सर्वस्वं यो हरति, स कितवः । तथा-विधस्यास्मत्-प्राणाद्य्-अपहारकस्य तस्य बन्धो । स एव वा बन्धुर् यस्यतथा-विध इति साक्षेपोक्तिः । बन्धुत्वं मित्रत्वम् । तच् च सावर्ण्येन मधुपत्वेन च । मधून् पातीति स तथा, सोऽधुना मधुपो मधुपतिः, कितव-बन्धुत्वाद् अस्माकं स्पर्शनम् अनुचितम् एव । वस्तुतस् तु मधुपस्य नागकेशर-परागेण मुख-रोम्णां कपिशत्वं कृतम्, तद् उत्प्रेक्षमाणाह—सपत्नी इति । वयं न मधु-मानिन्यः, किम् अस्माकं प्रसादनेन ? तासाम् एव प्रसादं वहतु प्रापयतु चेन् मधुपतिर् इयम् । किं च, यदु-सदसि विडम्ब्यम् उपहास्यम् । किं तत् ? तत्राह—ईदृक् एवं-विधोद्देशाचरणम् । कः सः ? इत्य् अपेक्षायाम् आह—यस्य त्वं दूतः । अतः सर्वम् इदम् अनुचितम् एव, तस्मात् मा स्पृशाङ्घ्रिम् इति । निर्वेद-ग्लानि-गर्वाणां च शावल्यात् ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

स्वतः प्रेमज-वार्ताया गोविन्दे लीन-चेतसः ।

राधायाः केन वाग्-अर्थो वेद्यः स्यात् तत्-कृपां विना ॥

मधुपेति श्लेषेण हे मधुपेत्य् अर्थः । मद्यपस् तु प्रायः परं कथयत इति सम्बोधयति । कितवः शठः, श्री-कृष्णोऽस्मत्-परित्यागेन, न पारयेऽहं निरवद्य-संयुजां [भा।पु। १०.३२.२०] इत्य्-आदि-वचनार्थ-व्यभिचारात् तस्य बन्धो ! तद्-बन्धुत्वं दूतत्वाद् एव वर्णादि-साम्याद् वा । किं वा, त्वं मधुपः, सोऽपि मधुपतिर् इति नाम-साम्यात् मद्यप-कितवयोः प्रायः सख्यं भवतीति कर्म-साम्याद् वा । सोऽयं कृष्ण-सन्देश-हर-सन्दर्शनेन बाढम् उल्लङ्घित-मर्यादस्य महा-भावामृत-राशेस् तरङ्ग-रूपैर् गूढासूया-गर्वेर्ष्यानादारोपहासादिभिर् भावि-माधुरी-भरम् एव नीयमानः श्री-राधाया जल्पः कस्यचिद् एव बोध-गोचरी-भवितुम् अर्हतीति । तत्र कितवेत्य् असूया ।

रङ्गण-कुसुम-धिया नखेषु पिपतिषन्तं भृङ्गं प्रसादनाय पाद-ग्रहणं कुर्वन्तं मत्वाह—अङ्घ्रिं मा स्पृशेति । वयं तु मान-धनाः परम-स्वतन्त्रास् तेन तद्-विधेन प्रसादनीया न भवेमेत्य् अङ्घ्रि-स्पर्शनेन इत्य् अर्थः इति गर्वः ।

किं वा, कृष्ण-सङ्गम-ध्यानावेशेनात्म-प्रसादनार्थम् उद्धवम् एव तथा कुर्वन्तं मत्वाह । एवं महाभावोन्मादेनोक्तत्वाद् वाक्यानाम् असङ्गत्या महा-गुणत्वेऽपि सतां प्रीतये कथञ्चित् काचित् सङ्गतिः कार्या ।सपत्न्या लक्ष्म्याः पुर-स्त्रिया वा कस्याश्चित्, जाताव् एकत्वं वा । वि-शब्देन दृढालिङ्गनत्वादिकं बोध्यते । नः इति बहुत्वं निज-सखी-वर्गापेक्षया गर्वेणैव वा । एवम् अग्रेऽपि ।

मधुपस्य दूततयाभगवदीयत्वेनतत्र च तद्-वन-मालायां निवासेन तस्यां च रति-समये लग्न-कुङ्कुमेन श्मश्रूणां लौहित्य-सम्भावनया तथोक्तम्, यच् च केचिद् इत्थम् उद्धवस्य रक्त-श्मश्रुलत्वं मन्यन्ते, तद् असङ्गतम् ।अपीव्य-दर्शन[भा।पु। १०.४७.२] इत्य्-उक्तत्वात् । पक्षान्तरे तु भ्रमरतयोद्धवस्य कल्पनया तदीयाशेष-रूप-गुणादेर् उद्धवेऽध्यासेन सर्वंसङ्गम् एव, अहो सपत्न्याः सह रत्यैव वयं तेन किल विस्मृताः स्म इति भावः । इतीर्ष्या ।

अतस् तासां तेन रमितानां तदीयानां वा नागरीणां मानिनीनां सतीनां बहुत्वम् एकस्यां प्रसादितायाम् अन्यस्या मानात्, तस्याम् अपि प्रसादितायाम् अन्यस्या इत्य् एवं बाहुल्याभिप्रायेण, प्रसादं वहतु, पाद-ग्रहणादिना प्रयत्नेन नित्यंनित्यं प्रापयतु, मादृशां तेन किम् आयातम् इत्य् अर्थः । इत्य् अनादरः ।

श्लेषेण मद्य-स्वामी इत्य् अविचारः सौहृदाभावश् च सूचितः, मद्यपे सौहृदं नास्तीति प्रसिद्धेः । यद् यस्मात् । उ इति सम्बोधने भो मधुप ! सदसि विदग्ध-सखीनां सभायां विडम्बाम् उपहसनीयं, तस्य चरितम् इति शेषः । ईदृक् सपत्नी-कुच-कुङ्कुमाक्त-श्मश्रुर् निर्लज्ज इत्य् अर्थः । यादृशः स्वामी, तच्-छीलास् तत्-प्रकृतयः इति न्यायात् त्वत्त एव तत्-स्वभावोऽपि ज्ञात एव । यद् वा, प्रसादनार्थं प्रेषितोऽपि बत सपत्नी-कुच-कुङ्कुम-बहु-श्मश्रुभिर् आगतोऽसीति निर्बुद्धिर् एवेत्य् अर्थः । स्वतः स्त्रैणत्वाद् दूतस्य चेद् रिक्त्वाद् विडम्ब्यम् एवेत्य् उपहासः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, श्मश्रुभिः कृत्वा मा स्पृश । कुतः ? कितवेति कितव-बन्धुत्वाद् इत्य् अर्थः । कैतवं च व्यञ्जितम् एव सपत्न्या इत्य्-आदिना । तद् अस्मासु कैतवेनालम्, पुर-स्त्रीष्व् एव सदा तत् तनोत्व् इत्य् आशयेनाह—वहत्व् इति । यस्य त्वम् ईदृङ् मधुपो दूतः, स मधुपतिः । कथं-भूतं प्रसादं ? विडम्ब्यं विडम्बनार्हम्, पाद-ग्रहणादिना विडम्बनम् एव करोषीत्य् अर्थः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

स्वतः प्रेमज-वार्ताया गोविन्दे लीन-चेतसः ।

राधायाः केन वाग्-अर्थो वेद्यः स्यात् तत्-कृपां विना ॥

सोऽयम् असङ्गति-प्रायोऽपि कृष्ण-सन्देश-हर-सन्दर्शनेन बाढम् उल्लङ्घित-मर्यादस्य महा-भावामृत-राशेस् तरङ्ग-भरैर् गूढासूया-गर्वेर्ष्यानादरोपहासादिभिर् माधुरीब्-भरम् एव नीयमानः श्री-राधाया दिव्योन्माद-मय-चित्र-जल्पः कस्यचिद् एव बोध-गोचरी-भवितुम् अर्हतीति । तत्र मानिनीम् अन्याह—मधुपेति । श्लेषेण हे मद्यपेत्य् अर्थः । मद्यपस् तु प्रायः परं वञ्चयते इति सम्बोधयति । कितवः शठः, श्री-कृष्णोऽस्मत्-परित्यागेन, न पारयेऽहं निरवद्य-संयुजां [भा।पु। १०.३२.२०] इत्य्-आदि-वचनार्थ-व्यभिचारात् । तस्य बन्धो ! तद्-बन्धुत्वं दूतत्वाद् एव वर्णादि-साम्याद् वा । किं वा, त्वं मधुपः, सोऽपि मधुपतिर् इति नाम-साम्यात् । मद्यप-कितवयोः प्रायः सख्यं भवतीति कर्म-साम्याच् च । तत्र कितवेत्य् असूयाविष्कृता ।

रङ्गण-कुसुम-धिया नखेषु पिपतिषन्तं भृङ्गं प्रसादनाय पाद-ग्रहणं कुर्वन्तं मत्वाह—अङ्घ्रिं मा स्पृशेति । वयं तु मान-धनाः परम-स्वतन्त्रास् तेन तद्-विधेन प्रसादनीया न भवेमेत्य् अङ्घ्रि-स्पर्शनेन इत्य् अर्थः इति गर्वः ।

स्पर्श-निषेधे तु विशेषम् अप्य् आह—सपत्न्याः अद्य श्वो यासु स रमते, तासां मुख्यायाःकस्याश्चित् सपत्नी-शब्द-प्रयोगः, स्त्रीणां स्व-पत्य्-उपपत्न्यां द्वेषे तथोक्ति-स्वाभाव्यात् । वि-शब्देन दृढालिङ्गनत्वादिकं बोध्यते । न इति बहुत्वं निज-वर्गापेक्षया गर्वेणैव वा।

अयं भावः—प्रायो मधुप-जातिर् अयं तद्-अनुवर्ती रहो-वेदी च तत्-समीपत इतस् ततोऽप्य् अव्यक्त-रवेण भ्रमण-लीलत्वात्विशेषतोऽस्मान् परितस् तथा चरितत्वात् तदीय दूत एव पीत-श्मश्रुर् असौ वनमाला-निवासित्वात् तथैव सम्भाव्यत इति । तद् एवं याभिः किल वयं विस्मारिता विदूरे परित्याजिताश् च, तस्यतत्रत्यत्वाद् अयोग्यानाम् एव मानिनीनां प्रसादं वहतु इतीर्ष्या । बहुत्वम् एकस्यां प्रसादितायाम् अन्यस्या मानात् तस्याम् अपि प्रसादितायाम् अन्यस्या इत्य् एवं बाहुल्याभिप्रायेण


मधुपतिर् इति वहत्व् इति चैश्वर्येण तद्-युक्तम् एवेत्य् अस्माकं वा तेन किं ? इत्य् अनादरः । श्लेषेण मद्य-स्वामी इत्य् अविचारः सौहृदाभावश् च सूचितः । ततश् च मद्यपतित्वान् मुख्ये मद्यपे सौहृदं नास्तीति प्रसिद्धेः । स च प्रसादस् तेन स्व-माहात्म्य--रूपेण मन्यमानोऽपि वैपरीत्या नैव सम्पत्स्यत इत्य् आह—यदु-सदस्य् अपि विडम्ब्यम् उपहसास्पदतां गमिष्यन्तं कथम् असौ व्यक्ती-भविष्यतीत्य् आशङ्क्याह—यस्य दूतोऽपि त्वम् ईदृक् व्यक्त-तदीय-सुरत-चिह्न-धारी तस्यैतद्-व्यक्तौ किम् आश्चर्यम् इत्य् अर्थः । इति तस्याः कौशलं दर्शितम् । अन्यत् तैः ।

यद् वा, श्मश्रुभिः कृत्वा मा स्पृशेति ॥१२॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४०४) : तत्र उन्मादेनैव मानिनी-भङ्ग्याह अष्टभिः—मधुप कितव-बन्धोइत्य्-आदि ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मधुपेत्य् आदि । किं च, सपत्न्या अद्य श्वो यस्यां रमते, स तस्याः कस्याश्चित् ॥१२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्र प्रलापं दर्शयति—मधुपेत्य्-आदि । हे कितव-बन्धो ! किं तवास्ति कृत्वा पर-सर्वस्वं यो हरति, स कितवस् तस्य बन्धुः, स एव वा बन्धुर् यस्य स तथा मधुप ! भ्रमर ! पक्षे, मधु-श्रेष्ठ उद्धव ! मधुकरोऽपि कितवस्य षिड्गस्य बन्धुर् भवति, वर्ण-साम्यात् । अतः कितव-रूपस्यश्री-कृष्णस्यापि बन्धुर् मित्रम् । मधून् पातीति मधु पिबतीति च शब्द-सारूप्याच् च बन्धुः । त्वं नोऽस्माकम् अङ्घ्रिं मा स्पृश


कितव-बन्धुत्वं पुनर् द्रढयति—सपत्न्या इत्य्-आदि । स च कितवः सपत्न्याः कुच-विलुलित-मालायाः कुङ्कुमाकाराणि यानि श्मश्रूणि श्मश्रु-प्रायाणि केशराणीअर् विशिष्टस् त्वम् अपि मधुपः तथा सपत्न्याः पद्मिन्य्-अपेक्षया नाग-केशर-वल्ली सपत्नी, तस्याः कुच-प्राया ये स्तवकास् तेषांविलुलिता विगलिता यस्या सा तथा, न वेत्य् अर्थः । यद् वा, विलुलिता स्फुटेति यावत् । तथा-भूतायां मालायां श्रेण्यां ये कुङ्कुम-प्रायाः परागास् तद्-युक्तानि श्मश्रूणि श्मश्रु-प्रायाणि मुख-रोमाणि, तैर् युक्तः । अतोऽस्माकं पाद-स्पर्शस् तवानुचित इति भावः ।

ननु त्वत्-प्रसादनाय तन्-नियुक्त एव त्वत्-पाद-स्पर्शनं करोमीति चेत्, तद् अप्य् अयुक्तम् इत्य् आह—वहत्व् इत्य्-आदि । मधुपतिः स कितवस् तन्-मानिनीनां मधु-मानिनीनां प्रसादं वहतु प्रापयतु, कारयत्व् इत्य् अर्थः । किम् अस्माकं तत्-प्रसादनेन, मधुपतित्वात् । मधु-मानिनीनां प्रसाद-करणम् एव तस्योचितम् । यदा गोकुल-पतिर् आसीत्, तदास्माकं प्रसादनं यत् कृतं, तत् समुचितं, नाधुनेति वाक्यार्थः ।

किं च, ईदृग् एवंविधम् अस्माकम् उद्देश-करणं यदु-सदसि विडम्ब्यम् उपहास्यम् । कस्येत्य् अपेक्षायाम् आह—यस्य त्वं दूतः । मधुपतिः स त्व् अद्यापि वन्याः प्रति प्रसादनापेक्षोऽयम् इति, यदव उपहासिष्यन्तीत्य् अर्थः । अतः सर्वथा तवेदं कर्तुम् अनुचितम् इति महा-वाक्यार्थः ।

अत्रोन्मादोऽङ्गी, निर्वेदाक्षेप-ग्लानि-गर्वादयोऽङ्गानि, प्रलाप उक्ति-वैचित्र्यम् । दूतत्वेन कल्पयित्वा सपत्न्याः कुच-विलुलितेत्य्-आदिनानर्थक्यात् ॥१२॥


विष्णुदासः(उ।नी। १४.१९९-२००) : तत्र प्रजल्प इति । असूयेति । असूया च ईर्ष्या च मदश् च तान् युनक्ति । तथा तया अवधीरण-मुद्रया अवज्ञा-भङ्गी-विशेषेण, अकौशलस्य अविचक्षणताया उद्गार आख्यानम् ॥

मधुपेति । निसर्गत एव श्री-कृष्णस्य मथुरा-प्रस्थानादिनम् आरभ्यैव तत्-सङ्गम-ध्यान-लग्न-चित्तायाः श्री-राधायास् तत्र श्रीमद्-उद्धव-दर्शनोद्दीप्त-महाभावाक्रान्तत्वेन दिव्योन्माद-दशाम् आलम्बितायास् तस्याश् चित्रजल्पाख्यम् अनुभावं दशभिः पद्यैस् तद्-उक्त्य्-अनुवादेनैव वर्णयिष्यन् तत्र प्रजल्प-नामानं तद्-भेदं प्रथमम् आह—मधुपेति । मधुपेति निज-चरण-कमल-सौरभ-लोभेन सन्निधौ भ्रमन्तं कञ्चिद् भ्रमरं दृष्ट्वा श्री-राधा आत्मानं मानिनीं-मन्या श्री-कृष्णेन प्रेषितो दूतोऽयं चरण-ग्रहण-पुर्वकं माम् अनुनयतीति सम्भाव्य तं प्रत्य् आह—मधुप ! हे भ्रमर ! श्लेषेण, हे मद्यप ! पद्यपस् तु प्रायः पर-वञ्चको न भवतीइत् सम्बोधयति—कितवस्य, एवं मद्-अर्थोज्झित-लोक-वेद- [भा।पु। १०.३२.२१] इत्य्-आदिना, न पारयेऽहं [भा।पु। १०.३२.२२] इत्य्-आदिना, आयास्य इति दौत्यकैः [भा।पु। १०.३९.३५] इत्य् अनेन च यद् यद् उक्तं, तस्य तस्यान्यथा-भावान् महा-धूर्तस्य श्री-कृष्णस्य बन्धो ! बन्धुत्वं तु तद्-दौत्ये प्रवृत्तत्वात् । लोकेऽपि मद्यप-कितवयोर् मिथः सौहृदं दृश्यते। नः अस्माकम् अङ्घ्रिं चरणं मा स्पृश ।

कुसुम-पराग-पिञ्जरित-श्मश्रुं तम् अन्यथा सम्भाव्य हेतु-गर्भं विशिनष्टि—किम्भूतस् त्वं ? सपत्न्याः अस्मद्-रमणेन तेन सह सम्प्रति विहरणान् मथुरा-पुर-नागर्याः कस्याश्चित् कुचाभ्यां विलुलिता सम्मर्दिता या माला श्री-कृष्णस्य वनमाला तस्याः कुङ्कुमं यत्र तैः श्मश्रुभिर् उपलक्षितः । किं वा, श्मश्रुभिः करणैर् मा स्पृश ।

ननु, भवतीनां प्रसादनाय तेनाहं प्रेषितः पाद-ग्रहणं करोमि, किम् इति मां च तं च मद्-ईश्वरं समाक्षित्पन्त्य् असीत्य् अत्राह वहत्व् इति । मधुपतिः श्री-कृष्णः सम्प्रति तासां मथुरा-नगर-नागरीणां मानिनीनां प्रसादं वहतु, किम् अस्माकं प्रसादेन तस्य ? तासां बहुत्वं तु एकस्यां प्रसादितायां तस्याम् अन्यस्य मानोत्पत्तेः, तस्याम् अपि तथा-भूतायाम् अन्यस्या इत्य् एवं बहुत्व-सम्भावनया । स च प्रसादस् तेन स्वशोभा-विशेषत्वेन धार्यमानोऽपि प्रत्युत विपरीतत्वाय सम्पत्स्यते इत्य् आह—किम्भूतं प्रसादं ? यदु-सदसि विडम्ब्यम् उपहासास्पदतां गमिष्यन्तम् ।

ननु, कथम् असौ व्यक्तीभविष्यतीत्य् आशङ्क्याह—यस्य दूतोऽपि त्वम् ईदृक् । व्यक्त-तदीय-सुरत-चिह्न-धारी तस्य तद्-व्यक्तौ किम् आश्चर्यम् इति भावः । अत्र कितवेत्य् असूया । अङ्घ्रिं मा स्पृशेति मदः । सपत्न्या इत्य्-आदिना ईर्ष्या, वहत्व् इत्य् अवधीरणं, यदु-सदसीत्य् आदिना तस्याकौशलम् इति विवेचनीयम् ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-चरण-कमल-सौरभ-लोभेन भ्रमन्तं भ्रमरं वीक्ष्य दिव्योन्मादवती श्री-वृषभानु-नन्दिनी प्रजल्पति—हे मधुप ! भ्रमर ! कितवस्य धूर्तस्य एवं मद्-अर्थोज्झित-लोक-वेद [भा।पु। १०.३२.२१] इत्य्-आदिना, न पारयेऽहं [भा।पु। १०.३२.२२] इत्य्-आदिना, आयास्य इति दौत्यकैः [भा।पु। १०.३९.३५] इत्य्-आदिना, मिथ्या-वचन-वृन्देन वञ्चकस्य कृष्णस्य बन्धो ! बन्धुता-रूप-दूत्य-कारिन् ! अङ्घ्रिं मा स्पृश ।

ननु, किम् इति नमस्कर्तुं न ददासि ? तत्राह—हे मधुप मद्यप ! मधु मद्ये पुष्प-रसे इत्य् अनेकार्थ-वर्गः । मद्यप-स्पर्शे चरणस्यापावित्र्यं स्यात्, अतो नमश्-चिकीर्षा चेद् दूरम् अपसृत्य नमस्कुर्व् इति भावः ।

नन्व् अदुष्टेऽपि मयि मिथ्या मद्यपत्व-परिवादं किम् अर्पयसि ? इति तत्र नायं परिवादः, किन्तु यथार्थम् एव वच्मीत्य् आह—मम सपत्न्याः कुचयोः श्री-कृष्ण-वक्षः-सङ्घर्षणेन विलुलिता विमर्दिता या माला । किं वा, कुचाभ्याम् एव विलुलिता या श्री-कृष्ण-वन-माला तत्-सम्बन्धि-कुङ्कुम-युक्तैः श्मश्रुभिर् मा स्पृशेति भ्रमरस्य स्वाभाविक-श्मश्रु-पीतिम्न एव तथारोपः । तेन च मानिनीं माम् अनुनेतुं त्वम् इहायातोऽसि । अथ च तथाभूत-कुङ्कुम-श्मश्रुम् अप्रक्षाल्यैवेति विवेकाभाव एव मद्य-पान-लक्षणम् । एतद्-दर्शनया मानो वर्धत एव, न तु विवर्तते इति बुद्ध्यस्वेति भावः ।

ननु, यथा तथास्तु त्वं तावत् प्रसीद । इति तत्राह—मधुप मद्य-पालक ! तत्र गत्वा निज-प्रभोः पेयं मद्यम् एव पालय पिब च तत् कर्मैव त्वं कर्तुं शक्नोषि, न तु दूत्यं कर्म निर्बुद्धित्वाद् इति भावः ।

नन्व् एवं चेद् अलं मया सम्प्रत्य् अहं पुनर् मथुराम् एव यामि । स गोपेन्द्र-नन्दनः स्वयम् एत्य त्वां प्रसादयतु । इत्य् अत आह—वहत्व् इत्य्-आदि । मधूनां यादव-विशेषाणां पतिः सम्प्रति सोऽभूत् व्रजेश्वरी-गर्भ-जातत्वेन गोप-जातिर् अपि भाग्य-वशात् क्षत्रिय-जातिर् अभूत् । अतस् तन्-मानिनीनां क्षत्रिय-स्त्रीणां प्रसादं वहतु प्राप्नोतु, ता एव सदा प्रसादयतु किम् अस्माभिर् निकृष्टाभिर् गोप-स्त्रीभिर् इति भावः । अत्र बहु-वचनेन वह-धातु-प्रयोगेण च मधु-स्त्रीणाम् आनन्त्यात् सर्वासाम् एव तद्-भक्तत्वात् । एकस्यां प्रसादितायाम् अन्यस्या मानोत्पत्तेः । तस्याम् अपि प्रसादितायाम् अन्यस्या इत्य् एवं तासां प्रवाह--रूपेण प्रसादं प्राप्नोत्व् इत्य् अस्मत्-सन्निधाव् आगमने तस्यावसर एव नास्तीति भावः ।

ननु तदीय-सर्व-सौभाग्य-निधे देवि, मैवं वादीः । यदि त्वयि तस्य मनो नास्ति, तर्हि कथम् अहं तेन दूतः प्रस्थापितः ? तत्राह—यस्य दूतस् त्वम् ईदृक् । क्षत्रिय-स्तीर्-जन-सुरत-चिह्न-धारी तस्य यदु-सदसि विदाम्बां विडम्बनम् एव यदु-स्त्रीणां तत्-कृतस्य धर्म-लोपस्य व्यक्ती-भावेन कुपितस् तत्-तत्-पतिभिस् तस्य विडम्बनम् एव भविष्यत इति भावः । यद् वा, यदु-सदसि अधिकरणे एव विडम्बनं भावि गोपेन तन्-नारीणां भक्तत्वात् यदूनां निन्दैव सर्व-देशे भविष्यतीत्य् अर्थः । श्लेषेण यस्य दूतस् त्वम् ईदृक्, स च मधुपतिर् मधूनां मद्यानां पतिर् इति मद्यप एव । यतो मद्यस्य विक्षेपेणैव त्वादृशो भ्रमरो दूतः कुत इति ।

अत्र कितवेत्य् असूया । सपत्न्या इत्य्-आदिना ईर्ष्या । अङ्घ्रिं मा स्पृश इति मदः । वहत्व् इत्य्-आदिना अवधीरणम्, यदु-सदसीत्य् आदिना अकौशलोद्गार इतीत्य् अयं प्रजल्पः, यद् उक्तम् उज्ज्वल-नीलमणौ—

असूयेर्ष्या-मद-युजा योऽवधीरण-मुद्रया ।

प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥ [उ।नी। १४.१९९] इति ॥१२॥


॥ १०.४७.१३ ॥

सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा

सुमनस इव सद्यस् तत्यजेऽस्मान् भवादृक् ।

परिचरति कथं तत्-पाद-पद्मं नु पद्मा

ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किम् इत्य् एवं तम् अवजानीथ ? किं वस्तेनापकृतं ? अत आह—सकृद् इति । भवादृक् त्वादृशो दुर्मनाः सुमनसः कुसुमानि यथा त्यजति, तद्वत् । अहो बताविज्ञस्य तस्य पाद-पद्मं श्रीः कथं सेवते ? विदितं मयेत्य् आह—अपीति । बतेति खेदे । उत्तम-श्लोकस्य जल्पैर् मिथ्या-कथाभिः प्रलापैः प्रायो हृत-चेताः । वयं तु न लक्ष्मीवदविचक्षणा इति भावः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न हि कृष्णेन किञ्चिद् वोऽपराद्धम् इत्य् आक्षिपति—नन्व् इति । अवजानीथावज्ञां कुरुत । वो युष्माकम् । अपकृतम् अपराधः कृत इति । अतोऽत्राह परिजल्पेन—सकृद् इति । दुर्मनाः सकपटः । तद्वत् सोऽस्मांस् तत्यजे । अहो बतेति अत्यद्भुते निपात-द्वयम् । तस्य कृष्णस्य । इति भाव इति—लक्ष्मीस् तु क्षीर-सागरस्य जडत्वेन तद् उद्भूताकुशलः वयं नराणाम् अतिनिपुणत्वेन तत्रापि गोपानां गो-परिचर्यावाप्तातिपुण्यानां कुले जातत्वान् न तादृश्य इत्य् आशयः । परिजल्पित-लक्षणं तु—

प्रभोर् निर्दयता-शाठ्य-चापलाद्य्-उपपादनात् ।

स्व-विचक्षणता-व्यक्तिर् भङ्ग्या स्यात् परिजल्पितम् ॥ [उ।नी। १४.२०१] इति ।

इह तथैवोपपादितम् । सुमनसां त्यागो यथा तद्-गन्धम् आदाय भवतोऽपि नोचितस् तथा वयम् अपि सुमनोभिस् तुल्याः शरीर-दौर्गन्ध्यादि-रहिताः सुकुमाराश् च, यथा घ्राणेन्द्रिय-तर्पकत्वेन पुष्पाणि सेव्यानि तथा तरुण्योऽपि तरुणैः सेव्या एव । सुमनः-पदेन मालती वा ग्राह्या—सुमनाः पुष्प-मालत्योः स्त्री देव-बुधयोः पुमान् इति यादवः । यद् वा, भवं संसारम् आपश्यतीति भवादृक् । अतीव गृहासक्तः सुमनसो देवान् ज्ञानिनश् च यथा त्यजति तत्-सेवां नाद्रियत इति भावः । भवं न पश्यतीति भवादृक् विरक्तो ज्ञानी सुमनस इन हृद्यान् स्त्री-पुत्रादींश् च त्यजति तद्वद् वेति ॥१३॥


कैवल्य-दीपिका : कितवत्वं बन्धुत्वं चाह—सकृद् इत्य्-आदि । समनसोऽस्मान् भवान् इव चल-प्रकृतिर् दृश्यत इति । भवादृक् श्री-कृष्णः । यथा त्वं सुमनसः पुष्पाण्य् उपभुज्य त्यजसितस्य क्षण-सौहृदस्य पाद-पद्मं पद्मा लक्ष्मीः कथं परिचरतिनु-शब्दो वितर्के । अपि अहो । हृतं वञ्चितं चित्तं यस्याः । उत्तमःश्लोकस्य जल्पैः विविधैः चाटु-कारैः प्रिय-वाक्यैः भ्रमित-चित्ता परिचरतीत्य् अर्थः । बत इत्य् अनुकम्पायाम् ॥१३॥ [मु।फ। १२.६३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथम् एवम् आक्षिपसि ? किं तेनापकृतं ? तत्राह—सकृद् इत्य्-आदि । भवादृक् भवत्-सदृशो भवान् यथा स्वाम् अधर-सुधां पाययित्वा सुमनसस् त्यजति, तथा स च सकृद् एक-वारं तथाकृत्वा नस् तत्याज । अयं भावः—इयं स्वानुभावेन असम्भाव्यमानम् अपि भ्रमराधर-सुधा-पानं सुमनसाम् उद्भाव्य, स्व-मौग्ध्यं प्रतिपादयति, वस्तुतस् तुश्री-कृष्ण एव ता अधर-सुधाम् अपाययत्, न तु ताः, तेन भ्रमरा अपि स्वाम् अधर-सुधां सुमनसः पाययन्तीति तथैवानुभवः । अथवा, स श्री-कृष्णः कृत्कृती अधर-सुधां पाययित्वा तत्याज, अतोऽस्माभिर् मर्तुम् अपि न शक्यते । पीतामृतत्वात् । क इव ? भवादृक् भवान् इव । किन्त्व् इयान् विशेषः—भवान् सुमनसः पीत्वा त्यजति, स पाययित्वा त्यजतीति कृतित्वम् । सुमनसस् त्यजति, दुर्मनसो गृह्णातीत्य् आक्षेप-लभ्य आक्षेपः । एवं-विधं वञ्चकं कथं श्रीः परिचरति ? इत्य् आशङ्क्याह—अपि बतेत्य् आदि । तस्य मधुर-कथयैव प्रलोभिता वयम् इव सा तस्य न तत्त्व-ज्ञा इति गर्व-मौग्ध्यासूयानाम् ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्ठु दधाति, पिबतां चित्तं मादकत्वादिना गृह्णातीति । सुधा इति परम-माधुर्य-पायनं च सूचयति । सुमनस इति दृष्टान्तेन सदा तस्मिन्न् आत्मनः शुद्ध-भावश् च ध्वनितः । तथापि सद्यस् तत्याज इति । तस्य निर्दयता वञ्चकता च ।

ननु साध्वीनां धैर्यं योग्यम् ।यद् वा, ननु तस्य पूरी-प्रस्थाने किम् इति भवतीभिर् विघ्नो न कृतः ? तत्राह—मोहिनीं बुद्धि-भ्रंशिनीम् इति । भवादृग् इति भवन्तं कथञ्चिद् योऽनुकरोति मधुमक्षिकादिः, सोऽपि, किं पुनर् भवान् इत्य् अर्थः । इति तस्यात्यन्तास्थिर-सौहृदत्वेन चापलं सूचितं, पूर्वोक्तं बन्धुत्वम् अपि साधितम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, भवान् इव चपल-प्रकृतिर् दृश्यते इति भवादृक् श्री-कृष्णः सुमनसो यथा सकृद् आघ्राय त्यजति लोकः, स एव वा तद्वत् । एवम् अस्थिर-सौहृदत्वाद् अकृतज्ञत्वादिना तस्यासेव्यत्वम् अभिप्रेतम् ।तथापिलक्ष्म्याः सदा तत्-सेवां स्मृत्वा तत्-कारणम् उन्नयन्त्य् आह—परीति । नु अहो कथं कुतो हेतोस् तस्य उक्त-स्वभावस्य मधुपतेः पाद-पद्मं पद्म-रूपकेण कमल-हस्तायास् तस्या लीला-कमलवत् संवाहनादिना सदा तत्-सेवनं ध्वन्यते । अहो अविचक्षणत्वाद् इत्य् आह—अपीति सम्भावनायाम् ।उत्तम-श्लोकस्य तस्य जल्पैः, न पारयेऽःअं [भा।पु। १०.३२.२२] इत्य्-आदिवत् कपटम् इष्ट-गोष्ठीभिः । यद् वा,उत्तमः श्लोकस् तद्-यशस् तस्य जल्पैः । अनुत्तमस्यापि तद्-यशसो वन्दि-जनैर् उत्तमतया गीत्यमान-गाथाभिर् इत्य् अर्थः । यद् वा,उत्तम-श्लोकोऽयम् इति जल्पैर् मिथ्या-भूत-तत्-सेवक-वार्ताभिर् इति सपत्न्या मुग्धता स्वेषां चातुरी सूचिता ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य कैतवम् एव दर्शयन्ती माने कारणम् आह—सकृद् इति । अत्रेर्ष्याधिक्येनागृहीतम् अपि कर्तुर् नाम वाक्यस्य पूरयितव्यतया मधुपतिर् इति पूर्वस्माद् एवाकृष्यते । तत्-सङ्गतत्वाद् भवादृग् इत्य् अनेन मधुप एव लभ्यते । तत्रेयं योजना मधुपतिरसौ स्वाम् असाधारणीं निजाम् अधर-सुधाम् अस्मान् सकृत् पाययित्वा बलाच् छलाद् अपि साध्वीर् अस्मान् पानायापाद्य सद्यस् तत्याज ।

कीदृशीं ? इत्य् आशङ्क्याह—मोहिनीं बुद्धिं भ्रंशयित्वा दुःसह-निज-दुरन्त-लालसा-सम्पादिनीं तथा तस्यतथा पायने नास्त्य् एव दृष्टान्त इति त्यागे तु सोऽयं दृष्टान्तः क्रियतेइत्य् आह—भवादृक् भवद्-विध-मधुप-जातीयः सुमनस इवेति । अयम् अर्थः—भवद्-विध-मधुप-जातिस् तद्-अन्य-जीविकत्वात् तासु बहुषु यत्रतत्र रसम् अल्पम् अल्पं प्राप्य बुभुक्षा-शान्त्य्-अभावात् तां तां सुमनसं स्व-सुखार्थं यत् त्यजति तद् युक्तम् एव । मधुपतिस् तु सुधा-मयाधरत्वाद् अन्य-रसापेक्षाम् अतीतः किन्तु दुःशीलत्वाद् छोभन-मनसां दुःख-दानम् एव स्व-सुखतया मन्यते तस्माद् भवतापि तस्मिन् कितवे बन्धुता न कार्येति ।

अथवा, भवादृग् इत्य् उभयत्र सम्बन्धनीयम् ।तत्रदृष्टान्त-पक्षे मधुप-जातीयः दार्ष्टान्तिक-पक्षे विदूर-सौरभ-ग्रहण-समागमन-परितो भ्रमण-मधुरास्फोटन-सह-चुम्बनादिभिर् भवद्वच् चेष्टमानोऽपीति योज्यम् ।

ननु जयति ते ऽधिकं जन्मना व्रज[भा।पु। १०.३१.१] इत्य्-आदिक-भवद्-वाक्य-रीत्या पद्माया अपि तद्-आसक्तायाः सम्प्रति तत्रापि तद्-उपासनं दृश्यतेभवत्या कथम् असौ निन्द्यते ? तत्राह—परिचरतीति । सकल-पद्माधिकारिण्यः पद्मा तत्-पाद-पद्मं कथं नु परिचरतीति न बुध्यते ।

तद् एतद् उक्त्वा क्षणं विभाव्याह—अपि बतेति । अपीति सम्भावनायां, बतेति खेदे, हीति प्रसिद्धौ । उत्तमश्लोकस्येव ये तस्य जल्पाः प्रलोभन-मयानि भाषितानि तैर् हृत-चेताः सती तत् परिचरतीति ज्ञातं ज्ञातम् इत्य् अर्थः । तद् एवं तस्या अविचक्षणत्वं व्यज्य स्वस्य तु विचक्षणत्वं व्यञ्जितम् ।तस्मात् कितवे तस्मिन्न् अस्माकम् अपि मानो युक्त इति भावः । तत्रासकृत् पायनम् अप्य् उत्कण्ठया विस्मृत्य सकृद् एव पाययित्वेति तस्यानायासत एव वञ्चना-करीं सामग्री-सम्पत्तिं दर्शयित्वा स्वयं त्रासातिशयः प्रकटित-शयः प्रकटितस् तस्मिन्न् ईर्ष्याद्य्-अतिशयश् च सूचितः । तथापि मोहिनीम् इत्य् उक्त्वा स्व-लालसा-व्यवच्छेदं प्रत्याख्याय मोहाद्य्-अतिशयश् च व्यञ्जित इत्य्-आदिकं ऊह्यम् ॥१३॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४०५) : माने कारणम् आह—सकृद् अधर-सुधाम् इत्य्-आदि । अत्र किंवदन्तीम् आश्रित्य पद्मायाः प्रतिनायिकात्वेनोपन्यासः क्रियते ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ जयति ते ऽधिकं जन्मना व्रज[भा।पु। १०.३१.१] इत्य्-आदि-रीत्या लक्ष्म्याः सदा तत्-सेवां स्मृत्वा सा कथं सिद्ध्यतीति व्रज-चारित्व-स्मरणेन स-कारुण्यम् इव वितर्क्य तत्र कारणम् आभाषयन्ती स्व-मानम् एव द्रढयति—परीति ॥१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु किं तेनापराद्धं, कथम् एवं तम् आक्षिपसीत्य् आह—सकृद् इत्य्-आदि । स्वां मधुर-सुधां सकृत् पाययित्वा अस्मान् तत्याजे तत्याजेति यत् स एवापकारो महान् । यतः पीतामृतानां मरणम् अपि दुर्लभम् । अतो मरणाभावे हि नो दुःखम् इत्य् आशयः । कीदृशः ? भवादृक् भवत्-सदृशः । भवान् यथा सुमनसस् त्यजति । किं त्व् इयान् एव विशेषः—त्वं पीत्वा त्यजसि, स पाययित्वा त्यजति । पीत्वा यद्य् अत्याक्ष्यत्, तथापि मर्तुम् अशक्यम् । पाययित्वा चेद् अत्यजत् तेनैव मर्तुं न शक्यते । पीतामृतत्वाद् इत्य् उक्तम् एव । कीदृशीं ? मोहिनीम् । न केवलं मरणाभाव-जननीम् अपि तून्माद-कारिणीम्


मधुप-पक्षे पाययित्वेति स्वार्थे णिच् । सुधाम् अपि सुमनसस् त्यजन्ति, दुर्मनसः परिगृह्णन्तीति श्लेषेण विदग्धता तस्यसूचिता । आत्मनः सौमन्स्यं चेति गूढो गर्वः । एवं-विधम् अविदग्धं पद्मा कथं सेवते इत्य् आशङ्क्य उद्भाव्य स्वयम् एव सिद्धान्तयति च—परिचरतीत्य्-आदि । तत्-पाद-पद्मं कथं तु पद्मा परिचरतीति पूर्व-पक्षः । अपि सम्भावनायाम् । बतेत्य् अद्भुते । उत्तमः-श्लोका ये जल्पास् तैर् हृत-चेताः । उद्गतं तमः पापं यस्मात्तथा-भूतः श्लोको यशो येषां ते तथा । तथा-विधैर् एव जल्पैर् हृत-चित्ताः, तथा-विध-कथयैव प्रलोभिता, न सा तस्य हृदयज्ञेति साप्य् अविदग्धेति तां प्रति चाक्षेपः । अत्राप्य् उन्माद एवाङ्गी, गर्वासूयाक्षेपादयोऽङ्गानि । विलापः ॥१३॥


विष्णुदासः(उ।नी। १४.२०१-२०२): अथ परिजल्पितम् इति । प्रभोर् इति । प्रभोः श्री-कृष्णस्य निर्दयतादीनाम् उपपादनात् उत्पादनात् अर्पणाद् इति यावत् हेतोः स्व-विचक्षणताया व्यक्तिः निज-नैपुण्य-व्यञ्जनं, भङ्ग्या परोक्ष-वाद-मुद्रया ॥२०१॥

ननु किम् इत्य् एवं तम् अवजानीथ ? किं वस् तेनापकृतं ? तत्र तस्य कैतवं निष्पादयन्ती माने कारणम् आह—सकृद् इति । स्वाम् असाधारणीम् अधर-सुधां पानस्यासकृत्त्वेऽपि सकृद् इत्य् उक्तिर् अनुराग-स्वाभाव्यात् महोत्कण्ठया । तत्रापि पाययित्वेति तस्य बलात्कारो दर्शितः । ननु भवत्यः परम-साध्व्यः परम-जितेन्द्रियाः किम् इति बलाद् एव सकृद् एव तत्-पानतः सुष्ठु दहिर्य-रहिता जाताः ? तत्राह—मोहिनीं बुद्धि-भ्रंशिनीम् । एतद्-अर्थम् एव तां पायितवान्, न त्व् अस्माकं सुख-दानाय ।

ननु, भवतीनां सुखार्थम् एव केवलं निर्जासाधारणाधर-सुधा तेन पायितेति चेत् तन् निराकरोति—सद्यस् तत्यजे तत्याज अस्माकं सुखार्थं यदि तस्य तच्-चेष्टितम् अभविष्यत् तर्हि अस्मान् नात्यजिष्यत तेनेति भावः ।

ननु, भवतीष्व् एव कोऽपि दोषोऽस्ति, अन्यथा त्यागासम्भवात् ? तत्राह—भवादृक्, त्वादृशो दुर्मनाश् चपल-चित्तः सुमनसः कुसुमानि श्लेषेण सुन्दर-मानसाः यथा त्यजति, तद्वत् । किन्तु बलात्कारेण तादृश-तत्-पायनात् तस्य भवतोऽप्य् अधिकम् एव निर्दयता सूचिता । एवं तस्मिन् माने कारणम् उक्त्वा स्मृतिम् अभिनीय स-विस्मयम् आह—परीति । गर्ग-वाक्यानुसारतः—श्रयत इन्द्रिआ शश्वद् अत्र हि [भा।पु। १०.३१.१] इति रीत्या पद्मा लक्ष्मीः व्रजाश्रित-चरी, सा कथं वा तत् तस्य पाद-पद्मं नित्यं परिचरति सेवते । नु वितर्के । विदितं मयेत्य् आह—अपीति सम्भावनायां बतेत्य् अनुकम्पायाम् । हि यस्मात् । उत्तम-श्लोकस् तस्य शोभन-यशस् तस्य जल्पैः । अनुत्तमस्यापि तद्-यशसो वन्दि-जनैर् उत्तमतया गीयमान-गाथाभिर् इत्य् अर्थः । यद् वा, उत्तमः-श्लोकोऽयम् इति जल्पैः मिथ्या-भूत-तत्-सेवक-वार्ताभिः हृत-चेताः सतीति तस्या अविचक्षणता सूचिता । वयं तु न लक्ष्मीवद् अविचक्षणा इति भावः ।

अत्र पाययित्वेति मोहिनीम् इति तस्य शाठ्यं सद्यस् त्यागान् निर्दयत्वम् । भवादृग् इति चपलत्वं व्यञ्जितम् । स्व-विचक्षणत्वं तु लक्ष्म्या अकौशलाख्यान-द्वारैव ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भ्रमर-जातेर् ममायं स्वाभाविक एव श्मश्रु-पीतिमा, न तु सुरत-कुङ्कुमम् इदं तस्य च त्वद्-एकतान-मानसस्य मधुपुर्यां काम् अपि स्त्रियं स्वप्नेऽप्य् अपश्यतः कोऽपराधो यतस् त्वम् ईदृशं मानम् आविष्करोषीति तत्राह—सकृद् इति । पायनस्यासकृत्त्वेऽपि सकृद् इत्य् उक्तिर् अनुरागेण, तत्रापि तृष्णां व्यञ्जयति—अधर एव सुधा ताम् इति । तेनैतावद्भिर् अपि सन्तापैर् वयं न मिर्यामह इति भावः । एता मद्-दत्तैः कष्टैर् यदि मरिष्यन्ति, तदाहं काभ्यः कष्टं दास्यामि, तद् आसां मरणाभावाय स्वाम् अधर-सुधां पाययामीति स पुरा विचारयामासेति भावः । अतः सकृद् एव पाययित्वा सद्यस् तत्-क्षण एवास्मांस् तत्याज । अस्मत्-सुख-दान-तात्पर्ये सति सुधापायनस्यासकृत्त्वं स्याद् इति त्वम् एव विचारयेति भावः । तत्रापि पाययित्वेति णिचा तस्य बलात्कारो दर्शितः


नन्व् एवं चेत्, साध्व्यो भवत्यः कथं तस्मै पुनः स्पृहयन्ति, तत्राह—मोहिनीं बुद्धि-भ्रंशिनीम् । अतस् तेनास्मद्-आदयो लोक-द्वयत एव भ्रंशिता इति, विष-वृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुम् असाम्प्रतं [कु।सं। २.५५] इति न्यायोऽपि श्री-कृष्णेन न गणित इति भावः । किं च तस्य प्रीताप्रीतत्वे एवातिविचित्रे इत्य् आह—सुमनसो देव-श्रेणीर् विष्णुर् इव श्री-कृष्णोऽस्मान् सुधां पाययित्वा सुमनसो मालतीर् भवादृक् भ्रमर इवास्मांस् तत्याजेति पयन-त्यागयोः कर्मणि च कर्तरि च पृथक् पृथक् दृष्टान्तः । देव-पक्षे, हे अधर निकृष्टेति सम्बोधनम् ।सुपर्वाणः सुमनसः इत्य् अमरः ।

ननु तस्य युष्मत्-कर्मक-त्यागे युष्माकम् एव कोऽपि दोषः कारणम् अस्ति तस्य वेत्य् अत्राह—सुमनस इवास्मान् स भवादृक् तत्याज । भ्रमरो यन् मालतीस् त्यजति तत्र दोषः कस्येति तयैव विचार्यताम् इति भावः । सुमना मालती जातिः इत्य् अमरः । सौरभ्य-सौकुमार्ये पावैत्र्य-सर्वोत्कर्षादिभिः सुमनसः साधर्म्यात् शोभन-मनस्कत्वाच् च वयं सुमनस इति व्रजे प्रसिद्धा एव स च मधुसूदन इति व्रजे प्रसिद्ध एवेति नेदं कविता-मात्रम् इति ध्वनिः । ततश् च चाञ्चल्य-दोषाद् एव मालतीर् बह्वीर् अपि त्यक्त्वा निकृष्टेष्व् अपि पुष्पेषु विसज्जत्य् अविसज्जति वा भ्रमरे इव श्री-कृष्णे कथं वयं मानिन्यो न भवाम इत्य् अनुध्वनिः ।

ननु श्री-कृष्णस्य निर्दोषत्वं शास्त्र-प्रसिद्धम् एव शास्त्रज्ञेन गर्गेण, नारायण-समो गुणैः [भा।पु। १०.८.१९] इत्य् उक्तत्वात् । तत्र भवतु स नारायणस् तथापि पर-वञ्चनादि-दोषाणां तत्र प्रत्यक्षत एव दृष्टत्वात् ते कथम् अपलपनीया भवन्त्व् इति विमृश्य स-विचिकित्सम् आह—परिचरतीति । पद्मा लक्ष्मीः । लक्ष्मी-परिचर्याम् अपि हेतुं स्वयम् एवोद्भावयन्त्य् आह—अपि बतेति । उत्तम-श्लोक इति ये जल्पाः स्तावक-लोकाणां स्तुति-मात्राणि तैर् हृतं चेतो यस्याः सा । तेन लक्ष्मीर् अतिऋज्वी वयं तु वैचक्षण्य-वैदग्ध्य-बुद्धि-वैचित्र्यादि-गुणानां विधात्रा दत्तत्वात् कथं तादृशीभवितुं प्रभवामेति भावः ।

अत्र पाययित्वेति मोहिनीम् इति च तस्य शाठ्यम् । सद्यस् त्यागान् निर्दयत्वम् । भवादृग् इति चापलम्। लक्ष्म्या आर्जव-व्यञ्जनया स्व-विचक्षणत्वम् । आदि-शब्दाद् अकृतज्ञत्व-प्रेम-शून्यत्वादिकं तु सर्वत्रैवानुस्यूतम् ॥१३॥


॥ १०.४७.१४॥

किम् इह बहु षडङ्घ्रे गायसि त्वं यदूनाम्

अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् ।

विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः

क्षपित-कुच-रुजस् ते कल्पयन्तीष्टमिष्टाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : झङ्कारान् बहुधा कुर्वन्तम् अस्मत्-प्रसाद-लाभाय कृष्णं गायतीति मत्वाह—किम् इहेति । पुराणं पुरातनं बहुशोऽनुभूतम् ।विजय-सखस्य श्री-कृष्णस्य सांप्रतं याः सख्यस् तासाम् अग्रतस्तत्-प्रसङ्गो गीयताम् ।इष्टाः कृष्णस्य प्रियाः । तेन पूजिता इति वा । तेनालिङ्गितेन क्षपिता कुच-रुग् यासां तास् तव इष्टम् अपेक्षितं दास्यन्तीति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विजल्पेनाह—किम् इति । विजयः सखीष्व् एव यस्य । स्व-सखीनाम् एव विरहादिना घातकस्येति तप्तानाम् उक्तिः । अग्रतोऽग्रे यदु-पतिर् गीयताम् । स-विसर्ग-पाठे तत्-प्रसङ्गो वा।

इष्टम् आशंसितेऽपि स्यात् पूजिते प्रेयसि त्रिषु ।

सप्त-तन्तौ पुमान् क्लीबे संस्कारे कृत-कर्मणि ॥ इति मेदिनी ।

यथा पूजिताः पूजकस्य तदीयस्य चेष्टां कुर्वन्ति तथा प्रिया नेत्य् अरुच्याह—पूजिता वेति । निर्विसर्ग-पाठे तेन कृष्णेन, प्रसङ्गेनालिङ्गितेन । क्षपितापास्ता, रुक् काम-क्लेशः । विजल्प-लक्षणं—

व्यक्तयासूयया गूढ-मान-मुद्रान्तरालया ।

अघद्विषि कटाक्षोक्तिर् विजल्पो विदुषां मतः ॥ [उ।नी। १४.२०३] इति ।

कटाक्षिक्तिर् यदु-पति-पुराण-विजय-सखादि-शब्दैः सूचितात्रेति । किं च । यद् वा, स्वपुरतो वर्ण्यमान-प्रिय-कथया प्रबुद्ध-मदन-कलिका पुनर् अपि श्रोतु-मना असहमानेवाधिक्षेपं काम्पनार्थम् अधिकं वक्तीति कृत्वोद्धवम् उद्दिश्याह—षट्सु सन्धि-विग्रहादिषु कपिलादि-दर्शनेषु वाङ्घ्रिर् अवक्र-गतिर् यस्य स तथा । व्याख्या षट्सु विषयेषु भगवद्-भक्ति-परिपन्थिषुयस्य पादो तत्-सम्बुद्धो हे उद्धव ! अङ्घ्रिः स्याद् गति-पादयोः इति निरुक्ति-कारः । अङ्घ्रिर् गतौ रि-प्रत्ययः । त्वम् अगृहाणां गृहाश्रम-रहितानां, वन-चारिणाम् इत्य् अर्थः । नोऽस्माकम् इहाग्रतः—पुरमणति प्राप्नोतीति पुराणस् तम् । अण् गतौ ।

मथुरा-गतं यदूनां पतिं किं बहु कर्ण-बिल-पूरं गायसि, न शब्दायस्वेत्य् अर्थः । तस्य गृहान्तर्-वर्तित्वेन वन-मध्य-वासि-पुरतो गायनम् अनुचितम् इत्य् अर्थः । तर्हीदं कस्याग्रे युक्तम् इति तत्राह—विजयेति । कृष्ण-सखीनां मथुराङ्गनानाम् अग्रतस् तस्यप्रसङ्गो गीयताम् ।तत्र गातुस् तव फल-सिद्धिर् अप्य् अस्तीत्य् आह—क्षपितेति । तत्-प्रसङ्गेन क्षपिता निरस्ता कुचानां रुक् सन्ताप-रूपा यासां ताः । इष्टाः कृष्ण-प्रिया मथुराङ्गना उद्गात्रे तु तुभ्यम् अभीष्टं धनादिकं कल्पयन्तीत्य् अन्वयः । तत्-प्रसङ्गम् इति पाठे तु गायताम् इत्य् आत्मनेपदम् आर्षम् । भवान् गीयताम् ।

यद् वा, यदु-पति-विषया या गीतिस् तां गायेति परस्मैपदम् एव । तस्य प्रसङ्गेन प्रकृष्टालिङ्गनेन विजय-सख-सखीनाम् अग्रतो यदुपतिं गायताम् । पुंसां ते कृष्णेष्टाः स्त्री-जना अभीष्टं कल्पयन्तीति वा ॥१४॥


कैवल्य-दीपिका : भ्रमर-गुञ्जितं कृष्ण-गुण-गानं मत्वाह—किम् इह इति । हे षड्-अङ्घ्रे भ्रमर ! यदूनाम् अधिपतिम् इति लक्षणया तच्-चरितम् अभिमतम् । तत् किम् ? बहु गायसि । यतस् तत् पुराणं जीर्णं वयं चागृहा एकाकिन्यः । विजयोऽर्जुनः । तस्य सखा कृष्णः । तस्य सख्यो मथुरा-स्त्रियः । तासाम् अग्रतो गीयतां । ताश् च तवेष्टं कल्पयन्ति पूरयिष्यन्ति इत्य् अर्थः । वर्तमान-सामीप्ये भविष्यद्-अर्थे लट् । यतस् ताः क्षपित-कुच-रुजः इष्टाश् च तस्य न तु वयम् इत्य् अर्थः ॥१४॥ [मु।फ। १२.६४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनर् झङ्कुर्वाणं तम् एवाह—किम् इहेत्य्-आदि । कृष्ण-गाने कोऽपराधः ? तत्राह—यदूनाम् अधिपतिम् इति । न हि भवत्-प्रियत्वेनैवासौ गीयते ? तत्राह—पुराणंपुराण-प्रेमाणम् । कुतोऽसौ पुराण-प्रेमा ? तत्राह—अगृहाणाम् । वयम् अगृहा वन्याः । इदानीं समीचीन-हर्म्य-वासिन्य एव तत्-प्रियाः । तर्हि किं करोमि ? तत्राह—विजय-सखेत्य्-आदि । विजय-जन्य-गर्व एव सखा यस्य तस्य सखीनां पुनर्-वधूनाम् अग्रतस् तत्-प्रसङ्गो गीयताम्, ताभिः सह तत्-प्रसक्तिर् गीयताम् इत्य् अर्थः । ता एव तस्येष्टाः, तेन क्षपित-कुच-रुजः सत्यस् ते तवेष्टं कपयिष्यन्ति । भविष्यत् समीपे वर्तमाना । वयं सरुजस् तव किं करिष्यामः ? ॥१४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे षडङ्घ्रे इति जाति-स्वभावेन गान-चातुर्यात्, तथा पशुश् चतुष्पात्, त्वं तु षट्पदः, तेन सार्ध-पशुत्वेन बुद्ध्य्-अभावाद् एव गायसि, न तु विचाराद् इत्य् अर्थः । तत्रापि बहु किं वा, गायसि, तत्रापि नोऽस्माकम् अग्रतः समक्षं चेत् तव दुर्निवारा गानेच्छा, तर्हि सकृद् एव परोक्षं गाय, बाढम् अस्माभिर् अश्रूयमाणम् अपि तं मुहुः समक्षं किं गायसीत्य् अर्थः । इति गूढ-मान-गर्भासूया सूचिता ।

ननु निजेष्ट-सिद्ध्य्-अर्थं तथा गायामि, तत्राह—इह व्रज इति । पुर्याम् एव तवेष्ट-सिद्धिर् न तु वन-मध्येऽत्रेति भावः ।

ननु परीतोऽप्य् उत्तमम् इदं, तत्राह—यदूनाम् अधिपतिम् इति । परिपाल्यमानानां तेषाम् एवाग्रे तद्-गानं युक्तम्, न त्व् अन्येषाम् इति भावः


ननु युष्माकम् अपि स एव प्राणनाथः, तत्राह—पुराणं बहुशस् तद्-गीतम् अस्माभिः श्रुतम् एवास्तीत्य् अर्थः । इति सेर्ष्यः कटाक्षः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, नोऽस्माकम् अगृहाणां, दारेषु च गृहाः इत्य् अमरः । अभार्याणाम् अप्रियाणाम् इति यावत् । अग्रतः पुराणं पुरा पूर्वम् एव णं निर्वृति-रूपं सुख-रूपं, णश् च निर्वृति-वाचकः इत्य् उक्तेः । न तु साम्प्रतं दुःख-करम् इत्य् अर्थः ।

किं गायसि ? तत्राह—विजय-सख-सखीनां विजयस्य जगत्-पराजय-शक्तेः सख्युः सहचरस्य कृष्णस्य सखीनां स्थाने तत्-प्रसङ्गो गीयतां, क्षपित-कुच-रुक्तययैव साम्प्रतं प्रिय-करणाद् इष्टास् तास् ते तवेष्टं कल्पयिष्यतीति समात्सर्य-कौटिल्यम् ।यद् वा, विजयते सर्वोत्कर्षेण वर्तत इति विजयः कृष्णः, तस्य सखे, श्री-कृष्ण-बन्धुत्वेन तत्-सखीनाम् अपि त्वत्-सखीत्वेन तवैव सखीनांतस्मिन् कृष्णे प्रसङ्गः परमासक्तिः । यद् वा, स कुच-रुक्-क्षपणादि-लक्षणः प्रसङ्गो गीयताम्, अयं धार्ष्ट्य-प्रदर्शनेनोपहासः, क्षपिता श्री-कृष्णेनालिङ्गन-नखक्षतादि-रत्यापहृता कुचयो रुक् काम-पीडा यासां ताः, कल्पयन्ति तव प्रियं सदा कुर्वन्त्य् एव, अत इष्टाः । एवं त्वया गानेन मानिताः सत्यो विशेषेण कल्पयिष्यन्तीत्य् अर्थः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तदीय-सरोष-चरण-सरोजं विक्षेपेणापस्मृत्य पुरतो रुदन्तं मधुपम् अस्मत्-प्रसादनायैव श्री-कृष्णं बहुधा गायत्य् असाव् इति वितर्क्य तम् अवज्ञातुम् अन्यथोत्प्रेक्षते—हे षडङ्घ्रे तज्-जातित्व-भावा देव गान-स्वभाव तस्माद् यद् गायसि तद् इह व्रजे परम-दुःखिते किं किम् इति गायसि ? तत्रापि बहु किं गायसि ? तत्रापि यदूनाम् अधिपतिं किं गायसि ? स यदूनां महाराज-वंश्यानाम् असङ्ख्यानाम् अधिपतिः । अत्रत्यास् तु गोपास् तत्रापि सम्प्रति तेनानादृताः । अतस् तत्-परिपाल्यमाना यदव एव गान-जीविनस् तवेष्टं विधातुम् अर्हन्ति न त्व् एते इति स्वल्पं वा बहु वा तत्रैव गातव्यम् इति भावः । षडङ्घ्र इत्य् अस्य पशुश् चतुष्पात्, त्वं तु षट्पदः । तेन सार्ध-पशुत्वेन बुद्ध्य्-अभावातिशयाद् एव गायसि, न तु विचाराद् इति च इत्य् असूया ।

ननु व्रज एव सर्वाधिक-प्रेमवान् असौ, ततो व्रज एव श्रेष्ठ इत्य् आशङ्क्य विशिनष्टि । पुराणं बहुशोऽनुभूतं तत् तत् सर्वं कापट्येनैषानुष्ठितवान् इति निश्चितम् ।यद् वा, चिरम् अतिक्रान्त-सम्बन्धं पूर्वम् एव व्रजस्य तत् तद् आसीत्, नाधुनेति भावः । यद् वा, कृषिर् भू-वाचकः शब्दः इति द्व्य्-आत्मकम् अग्रतः किं गायसि बह्व् ? इत्य्-आदि ।

कथं-भूतानां ? अगृहाणां तेन स्वोच्छिष्ट-मोहन-रस-विशेष-सकृत्-पायन-मात्र-पूर्वक-त्यागात् विशिष्य त्याजित-गृहाणां, अतो यदु-पुरेऽपि तत्-प्रेयस्य एव विशिष्टं तव गान-स्थानम् इत्य् आह—विजयतेसर्वं वशीकरोतीति विजयः श्री-कृष्णः, स एव सखा त्वद्-बन्धुस् तस्य सखीनां सह खेलन्तीनाम् एवाग्रतस् तत्-प्रसङ्गस्य विजयस्य साम्प्रतम् अस्मत्-परित्याग-पूर्वक-यादव-कुलाधिपत्य्-अफलं तत्-पुर-वनिता-शत-वशीकरण-लक्षणस्य प्रसङ्गः । तत्-सुखदः प्रस्तावो गीयताम् । ततस् ता इष्टास् तेन त्वयैव वा सम्मानितास् तवेष्टं द्रुतम् एव कल्पयिष्यन्ति । यद् वा, कल्पयन्ति सदा कुर्वत्य एवासते । अधुना त्व् अस्मद्-दुरवस्थां दृष्ट्वा तद्-वर्णन-पूर्वकेण तासांसौभाग्य-ज्ञानेन त्वया मानिताः सत्या विशेषेण कल्पयिष्यन्तीत्य् अर्थः । यतश् च क्षयित-कुच-रुजः सम्प्रति श्री-कृष्णेनैव खण्डितं काम-पीडाः दुःखान्ते लोकाः समुल्लासाद् वन्दिभ्यो बहुशो ददति । इति स-मात्सर्या-कौटिल्यं धार्ष्ट्य-प्रदर्शनेन स-कटाक्षोपहासश् च ॥१४॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४०६): दूत-प्रस्तुति-प्रत्याख्यानं किम् इहैति । विजयते सर्वं वशीकरोतीति विजयः श्री-कृष्णः स एव सखा त्वद्-बन्धुः । तस्य सखीनां सम्प्रति माथुरीणाम् एवाग्रतः तस्य विजयस्य तद्-वशीकार-पर्यन्तस्य प्रसङ्गः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विजयते सर्वं वशीकरोतीति विजयः श्री-कृष्णः । स एव सखा त्व-बन्धुस् तस्य सखीनां सह-खेलन्तीनाम् एवाग्रतस् तत्-प्रसङ्गस् तस्य विजयस्य साम्प्रतम् अस्मत्-परित्याग-पूर्वक-यादव-कुलाधिपत्य-फल-तत्-पुर-वासि-वनिता-शत-वशीकार-लक्षणस्य प्रस्तावः । क्षपित-कुच-रुजः श्री-कृष्णेनैव खण्डित-काम-पीडाः ॥१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनर् अपि हुङ्कुर्वाणं मधुरम् उद्दिश्य सासूयम् इवाह—किम् इह बह्व् इत्य्-आदि । हे षडङ्घ्रे ! षट्पद ! इहास्माकम् अग्रतो यदूनाम् अधिपतिं किं गायसि ? यदूनाम् अधिपतित्वेनास्माकं पुरतः स गेयो न भवति, तत्रापि बहु । सकृद् यद् गीतं तद् अहं क्षमे, पुनः पुनर् मा गीयताम् । षड्-अङ्घ्रे इति चरण-बाहुल्यम् एव, न तु बुद्धि-बाहुल्यं तवेत्य् आक्षेपः ।

ननु मयासौ यदूनाम् अधिपतित्वे न गीयते, अपि तु भवत्-प्रियत्वेनैव ? इति चेत्, सत्यम् । गतः स काल इत्य् आह—पुराणं पुराण-प्रेमाणम् । कुतः ? इत्य् आह—अगृहाणां वन्यानां प्रति हर्म्य-स्थानां मधु-मानिनीनाम् एव प्रिय इति द्वयोर् एव हेतुअम्द्-विशेषणम् ।

ननु तर्हि क्वासौ गेयः ? इत्य् आह—विजय-सखेत्य्-आदि । विजयः सर्वोत्कर्षस् तस्य सखा स तथा । अथवा विजयेन सर्वोत्कर्षेण सखाः सच्छिर्दाः साहङ्काराः, अहङ्कारात् परं छिद्रं नास्ति, तथा-भूता याः सख्यः । अर्थात् तस्यैव तासाम् अग्रे तत्-प्रसङ्गो गीयताम् इत्य् अर्थः ।

ननु तदाग्रतो गानैर् मम को लाभः ? इत्य् आशङ्क्याह—क्षपितेत्य्-आदि । ता इष्टं तवाभीष्टं कल्पयन्ति कल्पयिष्यन्ति, यत इष्टा, अर्थात् तस्येति


ननु भवतोऽपीष्टा इत्य् आशङ्क्याह—क्षपित-कुच-रुजः । तद्-आश्लेषेण क्षपिता नष्टा कुच-रुजो यासां, अतस् ता एवेष्टाः । वयं तु सरुज इति न तथा । अतस् ता एव तवाभिमत-प्रदाः, न वयम् इति यात्र गीयताम् इति वाक्यार्थः ।

अत्राप्य् उन्मादोऽङ्गी, अमर्षाक्षेपासूया-दैन्यादयोऽङ्गानि । अनुलापः, किं गायसीति सिद्धे निषिद्धे गीयताम् इति मुहुर् भाषणात् ॥१४॥


विष्णुदासः: किम् इहेति । भ्रमर-जाति-स्वभावेन झङ्कारान् पुरतः कुर्वन्तं मधुपम् अस्मत्-प्रसादायैवायं श्री-कृष्णं बहुधा गायतीति मत्वाह—षड्-अङ्घ्रे हे मधुप ! यदूनाम् अधिपतिम् । अत्र व्रजे तत्रापि नः अस्माकं पुरतः, तत्रापि सकृद्-दाने न दोषः इति बहु किं गायसि ? अस्माकं किम्भूतानां ? अगृहाणां तेनैव त्याजित-गृहाणाम् । षड्-अङ्घ्रे इति पशुस् तावच् चतुष्पात् । त्वं तु षट्पदः सार्ध-पशुः, अत एव बुद्ध्य्-अभावात् गानस्य स्थानास्थान-विचार-राहित्यम् उचितम् एवेति भावः—अनेनासूया ।

ननु स मत्-प्रभुर् व्रजैक-प्रियः, किम् इत्य् अत्र तं गातुं निषधथ ? तत्र तं विशिनष्टि पुराणं पुरातनं बहुशोऽनुभूतं तत्-तत्-प्रियत्वं तु कापट्येनैवाहार्यानुष्ठितं, न तु नैसर्गिकं तस्य तत् । कार्येणैव कारणम् अनुमीयत इति साम्प्रतम् अस्मद्-व्रज-त्यागेन तत्-तद्-व्यक्तम् अभूद् इति । किन्तु गान-जीविनस् तव सर्वतः समीचीन-गान-स्थानम् उपदिशामीत्य् आह—विजयेति । विजय-नामा श्री-कृष्ण-गात्र्याः अम्बिकायाः पुत्रः । तस्य सखा श्री-कृष्णस् तस्य सखीनां साम्प्रतं तेन सहाहर्निश-खेला-पराणां मथुरा-वासि-रमणीनाम् अग्रतः तत् श्री-कृष्णस्य प्रसङ्गः प्रस्तावः श्लेषेण प्रकृष्ट-सङ्गस् ताभिः सहैव सम्भोग-रूपः गीयताम् । ततस् ता इष्टास् तेन त्वया च पूजिताः सम्मानितास् तवेष्टम् अभीष्टं शीघ्रम् एव कल्पयिष्यन्ति सम्पादयिष्यन्ति । तत्र हेतु-गर्भ-विशेषणं—क्षयित-कुच-रुजः सम्प्रति कृष्णेनैव निर्वासित-काम-बाधाः, पीडा-शान्तौ हि लोकाः वन्दिभ्यो यथेष्टं वितरन्तीति । अनेन सकटाक्षोपहासः । विजय-सख-सखीनाम् इति यदूनाम् अधिपतिम् इति च गूढ-मानान्तरालत्वं व्यक्तम् एव ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रमर-जाति-स्वभावेन हुङ्कारान् कुर्वन्तं तं मत्-कृतेन तिरस्कारेणाप्त-संरम्भोऽयं स्वीयं गान-गुणं प्रकाशयसीति मत्वाह—किम् इति । इह गोपी-सभासु किं गायसि अज्ञस्य तव गानेन नैताः प्रसीदन्तीति भावः । तद् अपि बहु पुनः पुनर् गायसि तत्रापि यदु-पतिं यदूनां पतित्वेन ख्याप्यमानं तत्रापि नोऽस्माकम् अग्रतः । कीदृशीनां? अगृहाणां तेनैव त्याजित-गृहाणाम् इह वन-प्रदेशे उपविष्टानां तुभ्यं चणक-मुष्टि-भिक्षा-दानेऽप्य् असमर्थानाम् ।

ननु स्वाङ्गोत्तीर्ण-पुरातन-वस्त्र-माल्यादिकं किञ्चिद् देहीति, तत्राह—पुराणं गायसि तस्य यदु-पतित्वेन पुराणं प्रमाणयसि । हे षड्-अङ्गे इति । पशुस् तावत् चतुष्पात् त्वं तु षट्पदः सार्ध-पशुः कुत्र किं वा, गातुम् उचितम् इति बुद्ध्य्-अभावान् न जानासि पशुत्वात् पुराणं वा कथं जानासि । अतः कथं भिक्षां प्राप्स्यतीति भावः । किं च तव पशुत्वात् तुभ्यं वयं न कुप्यामः, परन्तु गानोपजीविनस् तव स्थानम् उपदिशामः शृण्व् इत्य् आह—विजयेति । काम-युद्धे विशिष्टो जयो यस्य विगतो जयो वा यस्य स चासौ सखा चेति विजय-सखस् तस्य सखीनां तव सखा काम-युद्धे या जयति याभिर् वा विजयते तासाम् एवाग्रतस् तत्-प्रसङ्गः सुरत-जय-पराजय-प्रसङ्गो गीयताम् ।

यद् वा, श्लेषेण पूर्वं स सुबल-सख आसीत्, सम्प्रति विजयोऽर्जुनस् तस्य सखाभवद् इति भावितार्तापि तस्या मुखात् स्वयं निःसृतेति ज्ञेयम् । ततश् च ताः क्षयित-कुच-रुजः खण्डित-कुच-ज्वालास् तवेष्टं वाञ्छितं कल्पयिष्यन्ति । त्वया च तद्-गान-श्रावणया इष्टाः पूजिताः सत्यः । अत्र पूर्वार्धेऽसूया मान-गर्भा, उत्तरार्धे तूपहासात्मकः कटाक्षः श्री-कृष्णे पर्याप्नोति ॥


॥ १०.४७.१५ ॥

दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः

कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः ।

चरण-रज उपास्ते यस्य भूतिर् वयं का

अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भो मातः ! मैवं वोचः । त्वाम् अनुस्मृत्यानङ्ग-विक्लवस् त्वां प्रसादयितुं माम् आदिष्टवान् इत्य् अत आह—दिवीति । दिवि भुवि रसातले च याः स्त्रियः स्युः, ताः का नाम दुरापाः ? न काश्चन । तद् इत्य् अव्ययम्, तस्येत्य् अर्थः । कपटेन रुचिरेण हासेन भ्रू-विजृम्भो यस्य तस्य । हे कपट इति वा । किं च, यस्य चरण-रजः श्रीः सेवते, तत्र वयं काः? अपि च यद्यप्य् एवं, तथापि कृपण-पक्षे कृपणानुकम्पिनि पुंस्य् उत्तम-श्लोक-शब्दो भवतीति तथा कथनीयं त्वयेति भावः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयम् आक्षिप्य समादधे—आदिष्टवान् आज्ञप्तवान् । उज्जल्पेनाह—दिवीति । तस्य कृष्णस्य । स्व-न्यूनतां द्योतयन्त्य् आह—किं चेति । तत्र तस्य अत्रापि विमृश्याह—अपि चेति । यद्यप्य् एवं लक्ष्मी-सेव्यस्य दृष्टौ वयं—सितोपलाशिनस् तत्-किट्टाशनम् इव वन्या न योग्याः, तथापि । इति भाव इति—कृष्ण-पार्श्वे गत्वेत्थं त्वया वाच्यम् इत्य् आशयः । उज्जल्प-लक्षणम्—

हरेः कुहकताख्यानं गर्व-गर्भितयेर्ष्यया ।

सासूयश् च तद्-आक्षेपो धीरैर् उज्जल्प ईर्यते ॥ [उ।नी। १४.२०५] इति ॥१५॥

तीर्थस् तु—ननु त्वम् इत्थं वदन्ती प्रगल्भा मत्त-काशिन्य् असि । त्वद्-अर्थं कृष्ण आयास्यतीति चेद् अत्राह—याः स्त्रियः कपट-रुचिर-हास्य-युक्तो यो भ्रू-विजृम्भस्य विषयास् ता दिव्य्-आदिषु कास् तस्य दुरापाः ? न का अपि । कपट-रुचिर-हास-भ्रू-भङ्ग-रूपाकर्षण-मन्त्रावित्त्वात् तस्येति भावः । कम् आनन्दं पटयति गमयतीति कपटः । रुचिं राति ददातीति रुचिरस् तत्-सम्बद्धौ वा । तथा कपटेति पृथक्-सम्बुद्धिर् वा । कपटे हेतुः—चरणेति । भूतिर् लक्ष्मीर् यस्य हरेश् चरण-रज उपास्ते, तद्-अनुग्रहार्थम् इति शेषः । ननु भवन्त्योऽपि तथा कुर्व् इत्य् अत्राह—वयम् इति । तत्र वयं वन-चारिण्यः काः स्यामः ? न का अपि । पुनर् अपि शृणु—कृपणस्य किं पचानस्यास्मद्-विधस्यजनस्य पक्षेऽन्तिके उत्तम-श्लोक-शब्द एव कर्ण-विषयो, न तु वाच्योऽर्थश् चक्षुर्-विषय इत्य् अर्थः ।यद् वा, उत्तम-श्लोक-शब्दो दीन-पक्षपाती श्रुतः, सोऽप्य् अस्मद्-विषयो नाभूद् इत्य् अर्थः ॥ (अतः परं विश्वनाथस्य टीका सम्पूर्णतयोद्धृता ।) ॥१५॥


कैवल्य-दीपिका : भो मातः ! मैवं वोचः, त्वाम् अप्य् अभिप्रेत्याह—त्वाम् अनुस्मृत्यानङ्ग-विकलः त्वां प्रसादयितुम् आदिष्टवान् इति । अत आह—दिवि इति । माम् आह्वातुम् अयम् आगत इत्य् अभिप्रेत्याह । स्वर्गादौ तस्य दुरापा याः स्त्रियः, ताः काः ? न काश्चनापीत्य् अर्थः । अतः किं मद्-आह्वानेन ? कपटेन रुचिरो हासो भ्रू-जृम्भश् च यस्याः । यस्य चरण-रजो लक्ष्मीर् अप्य् उपास्ते तस्य वयं काः ? न काश्चनापीत्य् अर्थः । अपि च एवं-विधस्यापि अस्मासु कृपया युज्यते । यतः उत्तमः-श्लोक-शब्दः कृपणानां पक्षे सहाय-भूते पुंसि वर्तते । स च उत्तमः-श्लोकत्वाद् अनाथान् अप्य् अस्मान् अनुग्रहिष्यतीति भावः ॥१५॥ [मु।फ। १२.६५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भवतीभिर् विना तस्य का एव मान्याः सन्ति ? इत्य् आशङ्क्याह—दिवि भुवीत्य् आदि । कास् तस्य दुरापाः ? न का अपीत्य् अर्थः । किम् अन्यत् ? यस्य चरण-रजो भूतिर् लक्ष्मीर् अप्य् उपास्ते, तत्र वयं काः ? ननु यूयं लक्ष्मीतोऽपि तस्य प्रियाः । एवं चेत् सम्भवत्य् अपि यतोऽपि कृपण-पक्षे ह्य् उत्तमःश्लोक-शब्दः । वयं तु कृपणा एव, तेनास्मासु कदाचित् स्निह्यतीत्य् असूया-भाव-शान्तिः । अथवा, अपि च कृपण-पक्षे इत्य्-आदि यत् तस्य तत्त्वम्, तन् मास्मासु मानयत्व् अयम्, अपि तु कुब्जायाम् एव यतस् ताम् ऋजूकरण-व्याजेन स्वीचकृअ इत्य् असूयोदयो वा ॥१५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिवि भुवि रसायां चेति । ऊर्ध्व-मध्याधो-लोक-त्रय इत्य् अर्थः । चरणस्य रज उपास्त इति सुष्ठु नीचतया सेवोक्ता । हि निश्चितम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ननु भवत्य एव केवलं तं नाद्रियन्ते, सर्वत्र यावत्यो युवतयस् तावत्य एव तद्-वशे वर्तन्ते इत्य् अत आह—दिवीति । सर्व-भुवनेषु काः स्त्रियः क्षुद्र-स्त्रियोऽपि यास् तास् तद्-दुरापाः स्युः । किं वा, याः काः स्त्रियः, याः काश्चन स्त्रियः सर्वा इत्य् अर्थः । तेन दुरापाः स्युः इत्य् अवहेलनम् ।तत्रहेतुः—कपटेनैव रुचिरो हास-युक्तो भ्रुवोर् विजृम्भो नर्तनं भ्रू-विजृम्भो भ्रु-कुटी वा यस्य तस्य, इति स्त्री-जन-प्रतारण-मात्र-चातुर्येण तस्य कुहकता ।

ननु किम् एवं ब्रूषे ? सुन्दरी-वृन्द-वृन्दिष्ठा श्रेष्ठा यद् इन्दिरापि तत्-पदारविन्द-रजो वन्दते इति चेत्, तत्राह—चरणेति । यस्यचरण-रजो भूतिश् चेद् उपास्ते, तर्हि उपास्तां नाम, तत्र वयं काः ? किम् अस्माकम् आयातं ? न हि मद्-विधानां मध्ये श्रीर् एकतमापीत्य् अर्थः । इति गर्वेर्ष्ययोः सूचनम् ।

अपि च कृपणानां पक्षः सहायो यस् तस्मिन्न् एवोत्तमश्लोक-शब्दो नाम ख्यातिर् वा भवति, अतः कृपणानाम् उपेक्षया गान-कारण-यशो-हानेस् तस्य गानम् एव न युज्यत इति भावः ।

यद् वा, ननु उत्तमश्लोक-शब्दाश्रयत्वाद् एव लोकोत्तरे तस्मिन्न् उपेक्षा नोचितेत्य् अत आह—अपि चेति । कृपण-पक्षेऽपि च कृपणो निष्ठुरो बद्ध-मुष्टिर् वा, तेन स्व-दर्शनादि-सौख्यानाम् अदातृत्वं लक्ष्यते, तत्-पक्षेऽपि तद्-विषयेऽपीत्य् अर्थः । तस्मिन्न् उत्तमश्लोक इति शब्दस् तद्-विधैर् एव मृषास्तावकैः सेवकैः क्रियतेइत्य् अर्थः । इत्य् असूयया तद्-आक्षेपः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उन्माद-स्वाभाव्याद् अकस्मान्मान-भङ्गीं परित्यज्य कलहान्तरिता-भङ्ग्याह—दिवीति । ऊर्ध्व-मध्याधो-लोक-त्रय इत्य् अर्थः ।कपटत्वं सच्छलत्वम् अन्य-जन-वञ्चनाय चरणस्य रज उपास्त इति । सुष्ठु नीचतया सैवोक्ता । हि निश्चितम् । अन्यत् तैः । तत्र तस्य दुरापा इति सम्बन्ध-विवक्षया षष्ठी । अथवा मान एवानुवर्तनीयः । तथा हि, नन्व् एवं चेत् तर्हि तत्-सम्बन्धे प्रथमत एव कथं न सावधाना जाताह् स्थ ? इत्य् आशङ्क्य स्व-दोषं परिहरन्ती मायया ग्रह इव गृहीतवान् अस्मान् अबला-जनान् अधुनाप्य् असौ परित्यजताद् इति सदैन्यम् इवसेर्ष्यं सन्दिशति—दिवीति । कपटेन माययैवापात-रुचिरौ हास-भ्रू-विजृम्भौ यस्य तस्य । अन्यत् पूर्ववत् । अत उत्तमःश्लोकत्वेऽपि कटाक्ष एव व्यञ्जितः ।

यद् वा, दिवि भुवीत्य् आदिना तस्य प्रभावानुवादं सासूयं ज्ञात्वा तथापि शेषं तद् अवशत्वं सूचयन्ती स-दैन्यम् इव सेर्ष्येण गर्वेण सोल्लुण्ठम् आह—का दुरापा इति । अपि तु यत्राक्रष्टुम् इष्यन्ते तत्रैव सुलभाः । लक्ष्मीस् तु तत्र तत्रैवानुगच्छन्ती चरण-रज उपास्ते, तत्र वयं का इति । अपि चेति कृपणा एव तत्रोत्तमःशोकत्वं जल्पन्ति, न तु माद्र्शाः कृपणाम् इत्य् एवम् आक्षेपः ॥१५॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४०७): तथापि तद्-आसक्तौ तद्-दोष एव कारणम् इति स्व-दोषं परिहरन्ती दैन्यम् आलम्ब्य तस्य निर्दयत्वं प्रतिपादयति—दिवि भुवि चैत्य्-आदि। अपि च । एवम् अपि अस्मद्-विध-कृपण-पक्ष-पाते सत्य् एव तत्र उत्तम-श्लोक-शब्दो भवितुम् अर्हति सम्प्रति तु तस्य तद्-अभाव-दर्शनान् न सदयत्वं तद्-अभावान्यतराम् उत्तमश्लोकत्वम् अपीति भावः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उन्माद-स्वाभाव्याद् अकस्मान् मान-भङ्गीं परित्यज्य कलहान्तरिता-भङ्ग्याह—दिवीति । कपटत्वं सच्छलत्वम् अन्य-जन-वञ्चनाय सोल्लुण्ठम् एवेदं वचनम् ॥१५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भवतीभिर् विना तस्य वा अन्या एवं-विध-सौभाग्याः सन्ति, यासाम् अग्रे मया तत्-प्रसङ्गःकर्तव्यः ? इत्य् आशङ्क्याह—दिवि भुवीत्य्-आदि । त्रिलोक्याम् इत्य्-अर्थे दिवीत्य्-आदि । तस्य काः स्त्रियस् त्रिलोक्यां दुरापाः ? न काश्चिद् अपि । किं बहुना ? यस्यचरण-रजो भूतिर् लक्ष्मीर् उपास्ते, तत्र वयं काः ? वयं क्षुद्रा एव ।

ननु लक्ष्मीश् चरण-रज एवोपास्ते, न तु भवता इव सा तन्-मनो-माणिक्य-हारिणी, तेन भवत्यो लक्ष्मीतोऽप्य् अतिसौभाग्याः ? इत्य् आशङ्क्याह—अपि चैत्य्-आदि । अपि चेत्य् अङ्गीकृतौ उत्तम-श्लोक इति शब्दः कृपण-पक्षे एवेति कृत्वा कृपणास्व् अस्मासु कदाचिद् अनुरज्यत्य् अपि । तेन किं वयं लक्ष्मीतो धन्याः ? नैव, वयं तु कृपणा एवेति ।

अथवा, वयं का इति वयं नोत्तमाः, न कृपणाः । उत्तमाश् चेद् अभविष्याम, तदाभिलषणीया एवाभविष्याम । कृपणाश् चेद् अभविष्याम, तदापि तस्यौत्तमश्लोकतया कृपण-पक्षातित्वेनानुग्राह्या एवाभविष्यम् ।यथा कृपणायाः कुब्जायाः पक्षपातित्वेनानुग्रहः कृत इत्य् आह—अपि चेति । उत्तमश्लोक-शब्दः कृपण-पक्ष इति यत्, तत् कुब्जायाम् एव चरितार्थम् इति हृदय-स्थम् । अत्राप्य् उन्मादोऽङ्गी मति-दैन्यादयोऽङ्गानि


विप्रलापः । दिवि भुवीत्य्-आदिना सर्वासाम् एव सुखापत्वात् स्वस्यापि च सुखापत्वे प्राप्ते दुरापत्वेन विरोधात् ॥१५॥


विष्णुदासः(उ।नी। १४.२०६): अथोज्जल्प इति । हरेर् इति कुहकताख्यानं कापट्य-कथनम् । भो मातर् मैवं वोचः त्वाम् अनुस्मृत्यानङ्ग-विक्लवः स मत्-प्रभुस् त्वां प्रसादयितुं माम् आदिष्टवान् इत्य् अत्र तं सासूयम् आक्षिपति—दिवीति । दिवि भुवर्-लोकान् महर्-लोकावध्य् ऊर्ध्व-लोके रसायां पातालावध्य्-अधो-लोके काः स्त्रियः स्युः सन्ति यास् तं तस्य दुरापाः दुर्लभा, अपि तु न का अपि । किम्भूतस्य ? कपटेनापातम् एव नैसर्गिकत्वेन प्रतीतौ रुचिरौ भ्रू-विजृम्भ-हासौ यस्य तस्य । एवं सासूयं तन्-महिमानम् आख्याय स-दैन्यम् इव सेर्ष्य-गर्वेण सोल्लुण्ठम् आह—चरणेति । यस्य कृष्णस्य चरण-रजः भूतिः श्रीर् अपि उपास्ते यत्र यत्र स गच्छति, तत्र तत्र तत्-सङ्गम् अत्यजन्ती सेवमाना वर्तते, तत्र वयं का इति स-स्मितेन समस्तकोद्धूननेन सोत्तानित-कर-द्वय-भङ्गिना स्वर-विशेषेण कथनात्, वयं तु स्व-स्थानम् अत्यजन्त्यो वर्तमानास् ततोऽप्य् उत्तमा इति भावः । अपि तु यद्यप्य् एवं तथापि कृपण-पक्षे कृपणानुकम्पिनि पुरुषे हि अवधारणार्थे उत्तम-श्लोक-शब्दः शोभते, वस्तुतस् तु कृपणा दीना एव तस्योत्तम-श्लोकत्वं जल्पन्ति, न तु मादृशाः कृपणा इति गर्व-गार्भितेर्ष्यया आक्षेपो ध्वनितः । कपटम् इत्य्-आदिनासूयाव्यक्तम् एवोक्ता ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भोः कृष्ण-प्रेयसी-शिरोमणे ! तत्र स्थितः स रात्रिन्दिवम् एव त्वां ध्यायन् काम-शरार्हितः खिद्यति । त्वं चेत् प्रसीदसि तदैव तस्य निस्तार इति तत्र सासूयम् आह—दिवीत्य् आदि ।

अयम् अर्थः—कृष्णस्य स्त्रीभिर् विना कालो न यातीत्य् अहं सुष्ठु जानाम् इ, तत्र यदि मथुरायां स्त्रियो न मिलन्ति, तदा सोऽस्मान् ध्यायतु प्रसादयतु तत्र नेतुं त्वादृशं दूतं च प्रस्थापयतु । न च गोप-जातिं तं पुर-स्त्रियः क्षत्रिय-जातयः कथम् अङ्गीकरिष्यन्तीति वाच्यम् । यतो दिवि भुवीति । तद् इत्य् अव्ययम् ।

तस्य का दुरापाः ? यदि स स्वर्गे गच्छेत्, तदा देव्योऽपि रसायां रसातलादिषु नागपत्न्योऽपि स्व-स्व-पतींस् त्यक्त्वा तम् आगच्छेयुर् मथुराङ्गनानां का वार्तेति भावः । न च तत्-तद्-अङ्गना-प्राप्तौ तस्य किञ्चित् पणादिकम् अपेक्षितव्यम् इत्य् आह—कपटेनापि रुचिरौ सर्वासां मनोहरौ भ्रू-विजृम्भ-हासौ यस्य, तथा-भूतस्यैव तस्य या देव्य्-आदयः स्युः, न तु स्व-स्व-पतीनाम् इत्य् अर्थः । स-कपट-हास-मूल्येनैव ताः स्वयम् एव क्रीता भूत्वा स्व-स्व-पतींस् तास् त्यजन्ति । कपट-पदेन कृष्णस् तु ताः ताः सकृद् एव भुक्त्वा त्यजति नव-प्रियत्वाद् इति भावः । देव्य्-आदयो दूरे वर्तन्तां भूतिर् लक्ष्मीर् नारायणस्यापि स्त्री चरण-रज उपास्ते तद्-अङ्ग-सङ्गार्थम् इति नाग-पत्नी-वाक्यं वयं पौर्णमासी-मुखाद् अश्रौष्म । अतो वयं काः ? कस्यां गणनायां तिष्ठामो यतो मानुष्यस् तत्रापि गोप्यस् तत्रापि वृन्दावनीया इति भावः । इदं दैन्य-मय-वाक्यम् अपि स-मस्तकोद्धूनन-स्वर-विशेषेण गर्व-गर्भिताम् ईर्ष्याम् एव व्यनक्ति । सा चेर्ष्या स्वेषां लक्ष्म्य्-आदितोऽपि प्रेमाधिक्यं रूप-सार्वर्ण्याधिक्यं चानुव्यनक्ति अपि च ।

किं च, उत्तमः-श्लोक-शब्दो हि कृपण-पक्ष एव सन्तप्त-दीन-हीन-जनान् यो दयते स ह्य् उत्तम-श्लोक उच्यते । कृष्णे तु तल्-लक्षणाभावान् मिथ्यैवोत्तमःश्लोकतेत्य् अर्थः । यद्य् अस्मद्-विधान् कृपण-जनान् स नादुःखयिष्यत् तदा स्वस्मिन् कथम् उत्तमःश्लोक-शब्द-वाच्यत्वम् अधास्यद् इति वा आक्षेप-ध्वनिः ।

अत्र पूर्वार्धं दिवि भुवीत्य् आदिना कुहकताख्यानं चरण-रज इति तृतीय-चरणे गर्व-गर्भिता ईऋष्या । अपि चेति चतुर्थ-पादे सासूय आक्षेप इत्य् अयम् उज्जल्पः । यद् उक्तम्—

हरेः कुहकताख्यानं गर्व-गर्भितयेर्ष्यया । > सासूयश् च तद्-आक्षेपो धीरैर् उज्जल्प ईर्यते ॥ [उ।नी। १४.२०५] इति > ॥१५॥


॥ १०.४७.१६ ॥

विसृज शिरसि पादं वेद्म्य् अहं चाटु-कारैर्

अनुनय-विदुषस् तेऽभ्येत्य दौत्यैर् मुकुन्दात् ।

स्व-कृत इह विसृष्टापत्य-पत्य्-अन्य-लोका

व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाद-मूले प्रविशन्तं क्षमापयिष्यन्तम् इव मत्वाह—विसृज इति । शिरसि न्यसं पादंविसृज । तथाप्य् अमुञ्चन्तम् आह—वेद्मीति । मुकुन्दाद् अभ्येत्य, ततः शिक्षित्वेत्य् अर्थः । दौत्यैर् दूत-कर्मभिश् चाटु-कारैः प्रियोक्ति-रचनाभिर् अनुनय-विदुषः प्रार्थना-चतुरस्य ते तव सर्वम् अहं वेद्मि । मुकुन्दवत् त्वम् अप्य् अविश्वसनीय इति भावः ।

ननु, तेन किम् अपराद्धं ? तत्राह—स्व-कृत इति । स्व-कृते तद्-अर्थम् एव विसृष्टा अपत्य-पत्य्-अन्य-लोकाः अपत्यानि पतयश् चेतीह लोकोऽन्य-लोको धर्म-साध्यश् च याभिस् ता नः अकृत-चेता असंयत-चित्तो यो व्यसृजत्, अस्मिन् किं नु सन्धातव्यं? इति ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सञ्जल्पेनाह—विसृजेति । न्यस्तं स्थापितम् । विसृज अपाकुरु । तथापि तथोक्तेऽपि । ततस् तस्मात् । इत्य् अर्थ इति—अभ्याङ् सम्बन्धाद् इणः शिक्षार्थत्वं धात्व्-अर्थं बाधते कश्चित् इत्य् उक्तेर् इति तात्पर्यम् ।सर्वंकृत्यम् । इति भाव इति—भृत्येऽपि स्वामिनो धर्मः प्रायः स्याद् इति न्यायेनेति भावः । स चाक्षिपति—नन्व् इति । तेन कृष्णेन । तत्राक्षेपे । असंयत-चित्तोऽवशीकृत-चित्तः । यः कृष्णः । अस्मिन् कृष्णे । अनुसन्धातव्यं योक्तव्यम्, न किम् अपीति । सञ्जल्पम् आह—

सोल्लुण्ठया गहनया कयाप्य् आक्षेप-मुद्रया । > तस्याकृतज्ञताद्य्-उक्तिः संजल्पः कथितो बुधैः ॥ [उ।नी। १४.२०७] > इति ।

अर्थान्तरं—प्रणत-कृष्ण-शिर-स्थित-स्व-पाद-स्मरणातिरेक-विवशा स्व-पादम् उद्धव-शिरसि स्थितं मत्वाह—विसृजेति । तव शिरसि स्थितं मम पादं विसृज मुञ्च । अहं त्वां वेद्मि । अनुनयः सान्त्वनम् । किं ते दौत्येनेतो मुकुन्दं याहि, किम् इत्य् एवं कोप-गर्भं वचनं वदसि ? इति तत्राह—स्व-कृत इति । कृष्णार्थं त्यक्त-पुत्र-भर्तृ-बन्धु-जना अस्मान् इह वने व्यसृजद् इति । य इतोऽकृत-चेता अकृतज्ञः, कृतघ्न इत्य् अर्थः । दूतोऽहं त्वां सन्दधामीत्य् अत्राह—किन्त्व् इति ।

उमा-प्रणाम-सङ्क्रान्त-चरणालक्तकः शशी । > सन्ध्यानुग इवाभाति यस्य पायात् स वः शिवः ॥

इत्य्-आद्य्-उक्तेर् ईश्वरेऽपीयं लीला जन-मोहनार्थायेति ॥१६॥


कैवल्य-दीपिका : भ्रमरं स्व-चरण-पतितं मत्वाह—विसृज इति अनुनय-विदुषः सन्धान-प्रकार-ज्ञानं मुकुन्दाद् आगतेन त्वया चाटु-कारैः प्रिय-वाक्योच्चारणैः । शिरसि कृतं मे पादं विसृज, वेद्म्य् अहं मुकुन्दम्नु अहो । अस्मिन् मुकुन्दे किं सन्धेयम् ? यः अस्मान् व्यसृजत्स्व-कृते कृष्णार्थं विसृष्टास् त्यक्ताः । अन्ये गृहादयः । अकृतम् अकृतज्ञं चेतो यस्य ॥१६॥ [मु।फ। १२.६६]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विसृज शिरसीत्य्-आदि तुल्यम् एव । एवं-विधान् चरण-पतनादीन् अनुनयान् वेत्तीति तथा तस्मात् मुकुन्दाद् अभ्येत्य शिक्षित्वा कृतं पादं विसृज । एवं तेनापि कति वा पाद-मूले न पतितम् इति भावः । ते त्वां वेद्मि । यद् वा, ते तव सर्वं वेद्मि ॥१६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहम् इत्य् अन्या न जानन्तु नाम, अहं तु विचक्षणा जानाम् य् एवेत्य् अर्थः । दौत्यैर् दूत-कृत्यैश् चाटुकारैः । यद् वा, चाटुकारैः । यद् वा, चाटुकारैर् दौत्यैश् च, पाद-ग्रहणादिभिः । यद् वा, मुकुन्दात् तत्-सकाशाद् दूतत्वैर् अभ्येत्य, बहुत्वं गौरवात् । तत्र च मुक्तिं कुत्सिद्ताम् अपि ददातीति लोक-वञ्चनया धूर्तत्वम् अभिप्रेतम् ।तदीयत्वेन पुनश् च दूतस्य धूर्त-स्वभावत्वेन परम-धूर्ततोक्ता, श्लेषेण मुखे कुन्द-तुल्या दन्ता यस्येति सौन्दर्यम् एवास्ति, न च विचार इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, कमल-बुद्ध्या पादोपरि पतितं मृदु रुवन्तं भ्रमरम् अवेक्ष्य,“भो देवि ! मा रोषं कार्षीः । सकृद् अपि मे विज्ञप्तिं कृपया शृणु” इति याचमानम् इव च तं मत्वाह—विसृजेति । त्वां मुकुन्दं च युवयोः शीलं च सर्वम् अहं वेद्मि, तस्मान् मे पादं ते त्वदीयैर् असाधारणैश् चाटुकारैः सह विसृज । मत्-पादं निज-चाटुकारांश् च युगपत् त्यज इत्य् अर्थः । कथं-भूतैः ? अनुनय-विदुषो मुकुन्दाद् अभ्येत्य कृतैर् दूत-कृत्यैः ।

ननु स्वामिनि ! तेन प्रेष्ठेन सह विग्रहेच्छयालं, सकृद्-अपराधं क्षान्त्वा मय तीर्थेन सन्धिर् एव कर्तुं युज्यत इति, तत्राह—स्वेति । विसृष्टाः पतयश् चापत्यानि चान्ये च गृहादयो लोकांश् च सर्वे ऐहिकामुष्मिक-सुख-भोग-सहायाः । यद् वा, किं विशेष-निर्देशेन, अयं परश् चेति लोकौ याभिस् ताः । अकृत-चेताः, न विद्यते कृते उपकृते चेतो यस्य सः, अकृतज्ञ इत्य् अर्थः । यद् वा, न कृतम् अस्मासु चेतः, एता अनन्य-गतय इति मनोऽपि येन सः । यद् वा, स्व-कृते स्वार्थम् अस्मान् विसृष्टापत्य-पत्य्-अन्य-लोका अकृत चकार । इताश् च प्राप्तास् तु व्यसृजत् । नु अहो अस्मिन् ईदृशेऽतिकठोरे शठ-वरे किं सन्धेयं सन्धातुं योज्यम्, अपि तु नैवेत्य् अर्थः इत्य् आक्रोशः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहम् इति । अन्या न जानन्तु नाम, अहं तु विचक्षणा जानाम् य् एवेत्य् अर्थः । दौत्यैर् दूत-कर्मभिश् चाटुकारैर् दौत्यैर् इति क्वाचित्कं मुकुन्दाद् इत्य् अस्माकं सर्वासां गृहादि-सर्व-परित्यागं ददातीति तथा-नाम्नः इत्य् अनेन धूर्तत्वं क्रूरत्वं चाभिप्रेतम्। तदीयत्वेन दूतस्य च धूर्त-स्वभावत्वेन, तस्य तु परमाविश्वसनीयत्वम् उक्तम् । अन्यत् तैः ।

यद् वा, कमल-बुद्ध्या पुनर् उपसृत्य पादोपरि तं मृदु रुवन्तं भ्रमरम् अवेक्ष्य, “भो देवि मा रोषं कार्षीः । सकृद् अपि मे विज्ञप्तिं कृपया शृणु” इति याचमानम् इव च तं मत्वाह—विसृजेति । तत्र सोल्लुण्ठम् आह—त्वां मुकुन्दं च युवयोः शीलं च सर्वम् अहं वेद्मि । तस्मान् मे पादं ते त्वदीयैर् असाधारणैश् चाटुकारैः सह विसृज मत्-पादं निज-चाटुकारांश् च युगपत् त्यज इत्य् अर्थः । कथं-भूतैः ? अनुनय-विदुषो मुकुन्दाद् अभ्येत्य कृतैर् दूत-कृत्यैः ।

ननु स्वामिनि तेन प्रेष्ठेन सह विग्रहेणालं सकृद् अपराधं क्षान्त्वा मय गीतेन सन्धिर् एव कर्तुं युज्यत इति, तत्राह—स्वेति । विसृष्टाः पतयश् चापत्यानि चान्ये च गृहादयो लोकांश् च सर्वे ऐहिकामुष्मिक-सुख-भोग-सहायाः । यद् वा, किं विशेषेणायं परश् चेति लोकौ याभिस् ताः । अकृत-चेताः न विद्यते कृते उपकृते चेतो यस्य सः, अकृतज्ञ इत्य् अर्थः । यद् वा, न कृतम् अस्मासु चेतः, एता अनन्य-गतय इति मनोऽपि येन सः । अथवा, स्व-कृते स्वार्थम् अस्मान् विसृष्टापत्य-पत्य्-अन्य-लोका अकृत अकार्षीत् इताश् च प्राप्तास् तु व्यसृजत् । नु अहो । ईदृशेऽस्मिन् कठोरे शठ-वरे किं सन्धेयं सन्धातुम् अहम् अपि तु नैवेत्य् अर्थः इत्य् आक्षेपः ॥१६॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४०८): स्व-कौमल्य-मुद्रया जनितं तच्-चाटुकारोद्यम् अतिशयं मत्वाह—विसृज शिरसीत्य् आदि ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनर् भ्रान्त्वा भ्रान्त्वा चरण एव पतितं तम् आलक्ष्य सोपेक्षम् आह—विसृज शिरसीत्य्-आदि । मुकुन्दाद् अभ्येत्य मुकुन्द-समीपाद् आगत्य दौत्यैर् दूत-कर्मभिश् चाटुकारैः पाद-पतनादिभिश् चानुनय-विदुषः प्रसादन-पण्डितस्य तव चरितं वेद्मीत्य् अर्थः । चरितम् इत्य् अध्याहार्यम् । उन्मादोक्तौ न्यून-पदं गुणः । तस्माच् छिरसि कृतं पादं विसृज । मुकुन्दाद् अभ्येत्येति मुकुन्दात् सर्वम् इदं शिक्षितम् इति भावः । तेन धूर्तैवेयं, न तु साहजिकम् इदम् । तस्मात् पादं मुञ्च । अथवा, पादं शिरसि विसृज, शिरसि करोषि चेत्, कुरु । किं तेन तेनापि, न कतिधैवं कृतम् ।

ननु, कथम् एवं काठिन्याद् औदासीन्यम् आलम्बसे ? इत्य् आह—स्व-कृत इवेत्य्-आदि । स्व-कृते स्व-स्व-निमित्तं विसृष्टापत्य-पत्य्-अन्य-लोकाः । तस्माद् अकृत-चेतो अकृतज्ञ इव यो वासृजत्, अस्मिन्न् अकृतज्ञे नु भोः किं सन्धेयं ? किं पुनः सन्धिः कार्य इत्य् अनपेक्षैव समूचिता । तेन शिरसि कृत-पादं मुञ्च । शिरसि वा पादं विसृज, मम न कापि हानिर् इति । अत्रोन्मादोऽङ्गी, अवहित्थास्मृत्य्-अमर्षादयोऽङ्गानि । आलापः, पूर्व-वृत्त-भाषणात् ॥१६॥


विष्णुदासः(उ।नी। १४.२०८): कमल-बुद्ध्या पाद-मूले प्रविशन्तं भर्तुर् उपराधं क्षमापयिष्यन्तम् इव तं मत्वाह—विसृजेति । निज-शिरसि धृतं मम पादं विसृज त्यज । अथाप्य् अमुञ्चन्तं तं सोल्लुण्ठम् आह—वेद्मीति । अन्या न जानातु, अहं तु वेद्मि त्वां त्वदीय-स्वामिनं युवयोः शीलं च सर्वं जानाम् इ । तद् एवाह—मुकुन्दात् अभ्येत्य शिक्षित्वा दौत्यैर् दूत-कर्मभिः चाटु-कारैः प्रियोक्ति-रचनाभिः अनुनय-विदुषः सविनय-प्रार्थनाभिज्ञस्य ते तव सर्वम् अहं वेद्मि । तस्य शिष्यत्वात् त्वम् अपि मुकुन्दवद् अविश्वसनीय इति भावः ।

यद् वा, ते तवासाधारणैश् चाटुकारैः सह मत्-पादं विसृज मद्-पादं निज-चाटुकारांश् च युगपत् त्यजेत्य् अर्थः । कथं-भूतैः ? अनुनय-विदुषो मुकुन्दाद् अभ्येत्य कृतैर् दूत्य-कृत्यैः ।

ननु, स्वामिनि ! तेन प्रेष्ठेन सह विग्रहेणालं, सकृद् अपराधं क्षान्त्वा मया तीर्थेन सन्धिर् एव कर्तुं युज्यते ? इत्य् अत्र तस्य काठिन्य-शाठ्य-संवलिताकृतज्ञताम् आपादयन्त्य् आह—स्वकृतेति । स्व-कृते तद्-अर्थम् एव विसृष्टास् त्यक्ताः अपत्यानि पूर्व-सिद्धान्त-रीत्या देवर-भगिन्य्-आदिईनाम् अपत्यानि पतयश् चेतीह-लोकाः अन्य-लोको धर्म-साध्यश् च याभिस् ता नः वासृजत् । किं वा, स्व-कृते स्व-सुखार्थम् एवास्मान् विसृष्टापत्य-पत्य्-अन्य-लोका अकृत अकार्षीत् । इताश् च प्राप्ताश् च व्यसृजत् यतोऽकृत-चेताः न विद्यते कृते उपकृते चेतो यस्य सः अकृतज्ञ इत्य् अर्थः । नु अहो ! ईदृशेऽस्मिन् कठोरे शठ-वरे किं सन्धेयं सन्धातुम् अर्हम्, अपि तु नैवेत्य् अर्थः ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौरभ-लोभेन चरण-तले पतन्तम् अपि भ्रमरम् । ननु लक्ष्मी-कोटि-निर्मञ्छनीय-चरण-नख-द्युते देवि सत्यं त्वय्य् अपराद्ध एव श्री-कृष्णस् तस्मात् त्वं कृपयैव क्षमस्वेति प्रणमन्तं तं मत्वाह—विसृजेति । शिरसि धृतं मम पादं विसृज त्यज इतो दूरीभवेत्य् अर्थः । वेद्म्य् अहम् इति । लक्ष्म्य्-आदिकेव नाहं प्रतार्येति भावः । मुकुन्दात् सकाशाद् अभ्येत्य चाटुकारैः प्रियोक्ति-रचना-रूपैर् दौत्यैर् दूत्य-कर्मभिर् अनुनय-विदुषस् तस्माद् अनुनय-प्रकारं शिक्षितवतस् तव सर्वं शीलादिकम् अहं वेद्मि । कर्मणि वा षष्ठी । त्वां वेद्मीत्य् अर्थः ।

ननु स्वामिनि त्वत्-प्राण-कोट्य्-अधिकेन तेन सह विग्रहेणालं प्रत्युत मया तीर्थेन सन्धिर् एव कर्तुं युज्यत इति तत्राह—स्व-कृते तद्-अर्थं विसृष्टानि त्यक्तानि अपत्यानि च पतयश् च अन्य-लोकाश् च माता-पित्रादयश् च याभिस् तत्र वा स मुरली-वादन-समयेऽन्तर्-गृह-निरुद्ध-गोपीभिर् अपत्यानि त्यक्तानि तदानीं तानि त्यक्वैवाभिसृतत्वात् । अस्माभिस् तु पतयः धन्यादि-कन्याभिः पित्रादय इति यथा-सम्भवं ज्ञेयम् । ता गोपीर् योऽसृजत् । कीदृशः ? अकृत-चेताः, न विद्यते कृते उपकृते चेतो यस्य सः । अकृतज्ञ इत्य् अर्थः ।

नन्व् अहो ईदृशेऽस्मिन् कठोरे किं नु सन्धेयं सन्धातुम् अर्हम् । अपि तु नैवेत्य् अर्थः । अत्र पूर्वार्धे सोल्लुण्ठा आक्षेप-मुद्रा । उत्तरार्धेऽकृतज्ञता । आदि-शब्दान् निर्दयत्व-पर-द्रोहित्व-प्रेम-शून्यत्वानि ।

तद् उक्तं—

सोल्लुण्ठया गहनया कयाप्य् आक्षेप-मुद्रया । > तस्याकृतज्ञताद्य्-उक्तिः संजल्पः कथितो बुधैः ॥ [उ।नी। १४.२०७] > इति ॥१६॥


॥ १०.४७.१७ ॥

मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा

स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् ।

बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस्

तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, कृष्णस्य पूर्वाणि कर्माण्य् अनुसन्दधाना बिभेम्य् अहम् अस्माद् इत्य् आह—मृगयुर् इवेति । मृगयुर् लुब्धक इव यः कपीन्द्रं वालिनं विव्यधे अविध्यत् । लुब्ध-धर्मा क्रौर्यवान् वा, लुब्ध-धर्मेति वा । लुब्धको हि तन्-मांसमत्तुकामो विध्यति, अयं तु न तथा, अतो वृथा, कठिन इत्य् अर्थः । तथा स्त्रियं शूर्पणखां स्त्री-जितः सीता-पर-तन्त्रः काम एव यानं प्राप्ति-साधनं यस्यास् तां विरूपां छिन्न-कर्ण-नासिकाम् अकरोद् दाशरथि--रूपेण । तथा बलिम् अपि तद्- दत्तं बलिमत्त्वा भक्षयित्वा ध्वाङ्क्ष-वत् काक-वद् अवेष्टयद् बबन्ध वामन--रूपेण । “बलिम् अत्त्वाधोऽक्षिपद् विष्टपाद्य” इति पाठे बलिं पूजां गृहीत्वा विष्टपात् स्वर्गाद् अधोऽक्षिपद् इत्य् अर्थः । तत् तस्माद् असितस्य कृष्णस्य सख्यैर् अलम् । एवं चेत् किम् इति तं नित्यं गायथ ? तत्राह—दुस्त्यजस् तु तस्य कथा-रूपोऽर्थ इति ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्धेयत्वे दोषम् आह—किं चेति । अनुसन्दधाना विमृशति—अस्मात् कृष्णात् । लुब्धको व्याधः । मृगयुः पुंसि गोमायो व्याधे च परमेष्ठिनीति मेदिनी । लुब्धकानांत्व् इदम् उचितम् अपि, स तु न तथेत्य् आह—अलुब्ध-धर्मेति । तन् मांसं वानर-पशु-मांसम् । विध्यति हिनस्ति । अयं तु कृष्णस् तु । न तथा न वानर-मांसशित्वाभावात् । इत्य् अर्थ इति—वानर-मांसस्याभक्ष्यत्वात् तद्-अर्थम् अपि तद्-धननं नोचितम् । कुतोऽतोऽन्यथेति भावः । तथा तद्वत् । तथा ततोऽपिपूर्वतरावतार-चरितम् अस्य शृणु—बलिम् इति । तद्-दत्त-बलिं तत्-समर्पित-त्रिलोकी-रूप-पूजाम् । अत्त्वा गृहीत्वा । ध्वांश-पक्षे तद्-दत्त-बलिं पुरुषार्पित-बलिम् अत्त्वा तच्-छिरस्य् एव स्वम् अलं त्यजतीत्य् अर्थःकार्यः । ध्वांशो मत्स्यात् स्वङ्गे काके तर्काटे भिक्षुकेऽपि च इति मेदिनी । तस्मात् सदातन-कौटिल्य-स्वभावत्वात् । एवं चेत् सख्यानिच्छा चेत् । तस्य कृष्णस्य । कथार्थः चरित-व्यवहारः दुस्त्यजस् त्यक्तुम् अशक्यः, पारवश्यापादकत्वाद् इति भावः । एतच् चावजल्पेनोक्तम् । स च—

हरौ काठिन्य-कामित्व-धौर्त्याद् आसक्त्य-योग्यता । > यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ॥ [उ।नी। १४.२०९]

वस्तुतस् तु कपेः सुग्रीवस्य ईं लक्ष्मीं द्रावयतीति कपीन्द्रस् तम् अपराधिनम् इत्य् अर्थः । बलिम् इति—बल परिवर्तने धातुः । बलति परिवर्तयतीन्द्र-श्रियम् इति बलिस् तेन परकीयं त्रैलोक्यं स्वीयं कृतम् इति चरुयाख्यापराधं दृष्ट्वा दुष्ट-शिक्षणं कृतवान् इति ॥१७॥


कैवल्य-दीपिका : अकृत-चेतस्त्वम् एवाह—मृगयुर् इव इति । मृगयुर् व्याधः । कपीन्द्रो बाली । लुब्ध-स्वभावः स्त्रियम् सूर्पणखाम् । अकृत कृतवान् । कामयानाम् कामयमानाम् । बलिम् वैरोचनम् । बलिम् उपहारं प्रतिग्रह-रूपम् । अत्त्वा भक्षयित्वा । अवेष्टयद् बबन्ध । ध्वाङ्क्षवत् काकवत् । तत् तस्माद् अकृतज्ञत्वात् । असितः श्री-कृष्णः । नन्व् अलं चेत् किम् इति प्रस्तूयते ? तत्राह—दुस्त्यज इति ॥१७॥ [मु।फ। १२.६७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं नु सन्धेयम् अस्मिन्, अस्मिन् प्रेम किम् अनुसन्धेयम् इति प्राग् उक्तम् अर्थं स्पष्टयति—मृगयुर् इत्य्-आदि । असितस्य श्यामस्य सख्यैर् अलम्, श्यामेन सार्धं सख्यम् अनुइच्तम् एवेत्य् अर्थः । श्यामेन किम् अपराद्धम् इत्य् आह—एको रामाख्यः श्यामः कपीन्द्रः विव्यधे निरपराधम् अपीति वाक्य-शेषः । न केवलं कपीन्द्रः विव्यधे, स्त्रियम् अपि विरूपाम् अकृत । अन्यो वामनाख्यः श्यामः सर्वस्वापहारेणापि बलिं बबन्ध, ध्वाङ्क्षवत् काकवत् । अतः श्यामस्यैवं-विधा रीतिः । तेन सह सख्यम् अनुचितम् एवेति पूर्वोक्ति-दार्ढ्यम् । तर्हि निरकाङ्क्षतयैव स्थीयताम्, किम् एतेनेत्य् आह—दुस्त्यजस् तत्-कथार्थः । तस्य कथा-रूपोऽर्थः, कथा-रूपं दुस्त्यजम् एवेत्य् असूयाभाव-शान्त्यौत्कण्ठ्य-भावोदयः ॥१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कपीनाम् इन्द्रं परम-श्रेष्ठम् इति निर्दोषत्वादिकम् अभिप्रेतम् । स्त्री-जित इति लक्ष्म्या सह सापत्न्येन तद्-अवतार-श्री-सीतायाम् अपि सापत्न्यात् । ध्वाङ्क्षवत्, कालो यथा बलिम् अत्त्वापि लोकं हिनस्ति, तथेत्य् अर्थः । यद् वा, काकम् इवेति महावज्ञा, बन्धन-दृढता, निर्दयता च सूचिता । एवम् अकृतज्ञत्वादिकम् अप्य् अभिप्रेतम् । असितेति श्यामा ईदृशा एव भवन्ति, तत् कस्यापि श्यामस्य सख्यैर् अलम् इति भावः । बहुत्वं सर्वस्यैव तत्-सख्यस्य निरसनार्थम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अहो श्रूयतां तस्य तव सख्युर् गुणा इति सोपालम्भम् आह—मृगयुर् इति । भारेण महीं कम्पयतीति कपीन्द्रो वृष-वरः । महीं महा-ककुत्-कायः कम्पयन् खुर-विक्षतां [भा।पु। १०.३६.१] इत्य्-उक्तेः । तं तद्-विष्;अणेनैव व्याधवद् धर्म-विमुखो विव्याध, तथा लुब्ध-दृश्हा लुब्धाचारः कामुको विरूपां स्त्रियं कुब्जां काम्यानाम् अकृत चकम इत्य् अर्थः । स्त्री-जितः कुस्त्री-वश्यः । तथा गोऐर् गिरये दत्तं बलिम् उपहारम् अत्त्वा इन्द्रस्यापि बलिं पूजां पिष्टपाद् अधोऽक्षिपत् ।

ननु तर्हि मिथस् तद्-वार्ता किम् इति क्रियते ? तत्राह—तस्य कथैवार्थः प्रयोजनं यस्य सः, व्रज इति शेषः । व्रजस्य सदा तद्-वार्तापरत्वेनास्माकम् अपि तत्-सङ्गत्या तद्-वार्ता स्यात्, न च स्वेच्छया । स च व्रजस् त्यक्तुं न शक्यते, अहो बत किं कार्यं ? इति भावः ।

यद् वा, ननु नाख्येयं पर-दूषणम् इति हि निषेधः, सत्यं निषिद्धत्वाद् वक्तुम् अयुक्तम् अपि तद् वैगुण्यं तस्य परमान्याय्य-कारित्वाद् उत्पद्यमानेन महता रोषावेशेन त्यक्तुं न शक्यते इत्य् आह—दुस्त्यज इति । तद्-वैगुण्य-रूप-कथा-प्रयोग इति ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, न केवलं तस्यतादृश-चेष्टिताद् एव बिभेमि, अपि तु श्यामतास्व् अभावाद् अपीति तद्-गुण-योगेन तद्-अभेद-बुद्ध्या धीरोदात्तत्वादि-गुणतया प्रसिद्धेष्व् अपि श्री-राम-वामनादि-रूपेषु दोषं दर्शयन्ती तद्-रूपं कैमुत्यं दर्शयति—मृगयुर् इवेति । मृगयुर् व्याध इव निर्दयो गुप्तश् च सन् एको योऽसितः सोऽपि कपीनाम् अवध्यानाम् ईशम् अपि बालिनं विव्यधे । प्रसिद्धस्य मांसादि-लुब्धस्यधर्माः क्रौर्यादयो यत्र तादृशः । अलुब्ध-धर्मा तद्-धर्म-रहितोऽपीति वा । तद् अप्य् आस्तां य एव स्त्रियं तत्रापि कामयानां कामयमानाम् अपि साक्षाद् विश्रवः-प्रभवां विरूपां छिन्न-कर्ण-नासाम् अकृत । तस्य च क्षत्रिय-जातितया क्रूरस्य तत् तद् अपि सम्भवेन् नाम । योऽन्योऽसितो ब्राह्मण-जातितया तत्रापि ब्रह्मचारितया शान्त्यादि-गुण-योग्योऽपि बलिं परम-धर्मात्मानम् अपि तत्रापि बलिं तस्य पूजाम् उपहारम् अत्त्वा भुक्त्वा गोप्यवद् आत्म-सात्कृत्यापि छलेन दान-पूर्तिम् अमत्वा विष्टपात् त्रैलोक्य-राज्याद् अक्षिपत् भ्रंशयामास । तत्राप्य् अधोऽक्षिपत् भू-विवरे विचिक्षेप । पाठान्तरे त्व् अवेष्टयत् बबन्ध ध्वांक्षवद् इति । काको यथा बलिं जग्ध्वापि लोकं वेष्टयति स्व-जातीयान् अन्यान् आहूय तद्-गृहम् आवृणोति तद्वत् ।

अत्र विव्यध इत्य्-आदिभिः काठिन्यं, स्त्री-जित इति कामित्वं, बलिम् अपीति धौर्त्यम् अभिप्रेतम् । तस्मात् तद् इति तस्यासित-मात्रस्य सख्यैर् बहुषु सख्य-प्रकारेष्व् एकेनाप्य् अलं, न तु प्रयोजनम् इत्य् अर्थः ।

ननु तर्हि कथं तस्यकथा-रूपोऽर्थो मुनिभिर् अपि न त्यज्यते ? तत्राह—दुस्त्यज इति । सोऽयम् इति तस्यैको दुरन्तो मोहनः स्वभाव इति भावः । इति भियेव सेर्ष्योक्तिः । यद् वा, ननु नाख्येयं पर-दूषणम् इति हि निषेधः सत्यं निषिद्धत्वाद् वक्तुम् अयुक्तम् अपि तद् वैगुण्यं तस्यपरमान्याय्य-कारित्वाद् उत्पद्यमानेन रोषावेशेन त्यक्तुं न शक्यते इत्य् आह । तद्-वैगुण्य-रूप-कथा-प्रयोगो दुस्त्यज इति ॥१७॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४०९): ततः प्रणयेर्षया तस्मिन् दोषम् आरोप्यापि स्वस्व्यास् तदीयासक्ति-परित्यागासामार्थ्यं वर्णयन्ती तत्-तद्-दोषं परिहरति—मृगयुरित्य्-आदि ।यतस् तेऽप्य् असिता एवंविधास् तस्माद् असितस्य श्याम-जाति-मात्रस्य सख्यैः प्रणय-बन्धैः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति । तस्य असितस्य श्याम-पात्रस्य सुपां सुलुग् इत्य्-आदि च्छान्दस-सूत्रेण सुपो लुक् । दुस्त्यजः इत्य् अयम् अप्य् एकस् तस्य दुरन्तो मोहन-स्वभाव इति भावः ॥१७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्मिन् किम् अनुसन्धेयम् इति प्राग् उक्तम् एव, दोषान्तरम् उद्भाव्य दृष्टान्तेन स्पष्टयति—मृगयुर् इत्य्-आदि । असितस्य श्यामस्य सख्यैर् अलम् । श्यामेन सार्धं सख्यम् अनुचितम् एवेत्य् अर्थः । श्यामेन किम् अपराद्धम् इत्य् आह—मृगयुर् इवेति । एको रामाख्यः श्यामः कपीन्द्रं बालिनं निरपराधम् अपि विव्यधे । न केवलं तस्य स एव दोषः, स्त्रियं शूर्पणख्याम् अपि विरूपाम् अकृत । न केवलं स एव दोष, स्त्री-जितश् च । अन्यो वामनाख्यः श्यामो बलिं पूजाम् अत्त्वा भुक्त्वा बलिं ध्वाङ्क्षवद् बबन्ध । तथायम् अप्य् अस्माकं सर्वम् एवापहृत्य त्यक्त्वा गतवान् । श्यामत्वेनायम् अपि तथेत्य् अनेन सख्यम् अनुचितम् एव इति भावः ।

ननु तर्हि निराकाङ्क्षत्वेनैव स्थीयतां ? किम् एतेन तद्-दोष-प्रकटनेनेति चेत्, तत्राह दुस्तजस् तत्-कथार्थः । तस्येदृशी या कथा सैवार्थो धनं तद् दुस्त्यजस् त्यक्तुम् अशक्यः । यद् वा,तस्या अर्थो निवृत्तिर् दुस्त्यजः, तस्य काठिन्यात् तद्-वार्ता न श्रूयत एव । तस्मात्परं गीयताम् इति शेषः ।

अत्राप्य् उन्मादोऽङ्गी, असूयावहित्थामर्षादयोऽङ्गानि । अपलापः, उक्ति-वैचित्र्यम्, सख्याकाङ्क्सा-निह्नवात् ॥१७॥


विष्णुदासः(उ।नी। १४.२१०) : किं च, न केवलं तस्य तादृशास्मत्-परित्याग-रूपाकृतज्ञतादिनैव बिभेमि, अपि तु श्याम्तान्वभावाद् अपीति तद्-गुण-योगतस् तद्-अभेद-बुद्ध्या धीरोदात्त-गुणतया प्रसिद्धेष्व् अपि श्री-राधा-वामनादि-रूपेषु दोषं दर्शयन्ती तद्-रूपे कैमुत्यं दर्शयति—मृगयुर् इवेति । मृगयुर् लुब्धक इव यः कपीन्द्रं वालिनं विव्यधे अविध्यत्, निर्दयो गुप्तश् च सन्न् इत्य् अर्थः । यतः लुब्धस्य व्याधस्य धर्मा इव धर्माः क्रौर्यादयो यत्र तादृशः । किं वा, अलुब्ध-धर्मा तद्-धर्म-रहितोऽपि लुभ्दको हि मांसम् अत्तु-कामो विध्यति, अयं तु न तथेति काठिन्यम् ।

तथा स्त्रियं च शूर्पनखां, स्वयं तु स्त्री-जितः सीता-परतन्त्रोऽपि, अनेन कामित्वं काम-यानां कामयमानाम् अपि विरूपां छिन्न-कर्ण-नासिकाम् अकृत अकरोत् दाशरथि--रूपेण ।

तथा बलिं वैरोचनिं तेन दत्तं बलिं पूजोपहारम् अत्त्वा भक्षयित्वापि ध्वाङ्क्षवत् काकवत्, स यथा बलिं जग्ध्वापि लोकं हिनस्ति, तथायम् अपि अवेष्टयत् बबन्ध वामन-रूपेणेति धूर्तत्वम् अभिप्रेतम् । तत् तस्माद् असितस्य श्याम-मात्रस्य सख्यैः सर्वैर् एव तद्-भेदैः अलं पर्याप्तम् । तथापि अस्य राम-वामनादि-रूपस्य कथा-रूपोऽर्थः अद्यापि लोकैर् गीयमानत्वात् दुस्त्यजः । इत्य् एषोऽपि तस्यैको दुरन्तो मोहनः स्वभाव इति भियेव सेर्ष्योक्तिः ।

यद् वा, ननु तर्हि मिथस् तद्-वार्तां किम् इति कुरुथ ? तत्राह—तस्य कृष्णसय कथा-रूपोऽर्थो दुस्त्यजः ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु अतिकोमल-मनाः स त्वाम् एव ध्यायंस् तत्रास्माभिर् दृश्यते इति तत्र त्वम् अर्वाचीनो दासस् तस्य तत्त्वं न जानासि । न केवलं स ह्य् अस्मिन्न् एव जन्मनि कठोरः किन्तु पूर्व-पूर्व-जन्मस्व् अपीति पौर्णमास्या मुखाद् अस्माभिः श्रुतत्वाद् इत्य् आह—मृगयुर् इवेति ।

यदा स क्षत्रिय-जातौ रामचन्द्रोऽभूत्, तदा क्षत्रिय-धर्मं परित्यज्य मृगयुर् व्याध इव कपीनाम् इन्द्रंवालिनं विव्यधे विव्याध । तत्रापि निर्दयो गुप्तः सन्न् इत्य् अर्थः, धर्म-कथापि तद्-उपाख्याने ज्ञेया । तत्राप्य् अलुब्ध-धर्मा लुब्धकस्य व्याधस्यापि धर्म-रहितः, नहि व्याधो वानरान् हिनस्ति, तन् मांसस्याभक्ष्यत्वेन केनाप्य् अक्रेयत्वाद् इति भावाह् ।

अन्यम् अप्य् अधर्मं शृण्व् इत्य् आह—स्त्रियं शूर्पणखां कामयानां तम् एव कामयमानां तां विरूपां छिन्न-कर्ण-नासाम् अकृत । अन्योऽपि कोऽप्य् एनां न सम्भुक्ताम् इति क्रौर्येणेति भावः । न च जटा-वल्कल-धारित्वाद् वैराग्येणेत्य् अत आह—स्त्रिया सीतया जितः ।

तथा तत्-पूर्व-जन्मनि ब्राह्मण-जातौ स वामनोऽभूत् । तदापि ब्राह्मण-धर्मं शान्त्य्-अकैतवादिकं परित्यज्य बलिं परम-धार्मिकम् अपि तत्रापि बलिं तत्-पूजोपहारम् अत्त्वा भुक्त्वापि त्रिविष्टपात् त्रैलोक्य-राज्याद् अक्षिपत्, तत्रापि भू-विवरे। पाठान्तरेऽवेष्टयत् छलेन बबन्ध ध्वाङ्क्षवत् काकवत्, स यथा बलिं जग्ध्वापि लोकं स्त्री-जनं वेष्टयति स्वजातीयान् अन्यान् आहूय तम् आवृणोति कदर्थयति च । तस्माद् असितस्य कृष्ण-वर्णस्य तस्य सखयिर् बहुषु सख्य-प्रकारेषु एकेनापि प्रकारेणालं समाकं गौरीणाम् असिताः स्वल्प-शुद्ध-चित्ता भवन्तीति तेभ्यो भयस्यावश्यम्भावित्वाद् इति भावः ।

नन्व् अभीक्ष्णं पर-निन्दां कुर्वती भवती किं शुद्ध-चित्तासि ? इति तत्राह—तस्य कथायाः प्रतिजन्म-चरित्रस्यार्थो व्याख्या । दुस्त्यजः सोऽस्मान् एवं दुःखयति । अस्माभिस् तत्-कथाया अप्य् अर्थो न वक्तव्य एव किम् । अत्र निन्दा वा भवतु यथार्थ-भाषणेनानिन्दा वा भवतु, असौ त्यक्तुम् अशक्य एवेति भावः । यद् वा, स त्व् अस्माभिस् त्यक्त एव, किन्तु तद् यथा-रूपोऽर्थो वस्तु-विशेषस् तु दुस्त्यज एव, कर्तृ-पदानुक्त्या सर्वैर् एव मुन्य्-आदिभिर् अपीत्य् अर्थः ।

अत्र विव्यध इति काठिन्यम् । स्त्री-जित इति कामित्वम् । बलिम् अपीति धौर्त्यम् । असित-सख्यैर् इति आसक्त्य्-अयोग्यता भयम् ईर्ष्या च ॥१७॥


॥ १०.४७.१८ ॥

यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्-

सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः ।

सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना

बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च, जानीम एव तत् कथापि त्रि-वर्ग-लता-मूलोन्मूलनीति, तथापि न त्यक्तुं शक्नुमः, किं कुर्मः ? इत्य् आह—यद्-अनुचरितेति ।

यस्यानुचरितम् एव लीला, तद् एव कर्ण-पीयूषं, तस्य विप्रुट् कणिका, तस्याः सकृद् अदनं सेवनं, तेन विधूता निरस्ता द्वन्द्व-धर्मा रागादयो येषां ते । त एव विनष्टा असत्-तुल्याः।दीनं दुःखितं गृह-कुटम्बं विहाय दीना भोग-हीना विहङ्गा अपि भिक्षु-चर्यां प्राण-वृत्ति-मात्रं चरन्त्य् अतस् त्याज्याः, तथापि त्यक्तुं न शक्नुम इति निन्दा-परत्वेऽयं तावच् छ्रौतोऽर्थः ।

दुस्त्यजत्वेऽपि पारमार्थिकोऽयम् अर्थः—विधूत-द्वन्द्व-धर्मा इत्य् अन्तः समासः पूर्ववत् । ततस् ते च ते अविनष्टाश् चेति समासः । इतरे पुनर् द्वन्द्व-धर्माणो विनष्टा एव । सपदि तत्-क्षणम् एव दीनं तुच्छं गृह-सहितं कुटुम्बं विहाय दीना इवाकिञ्चनाः । “धीराः” इति वा पाठः । बहवो विहङ्गा हंसा इव सारासार-विवेक-चतुरा भिक्षु-चर्यां पारमहंस्यं चरन्ति । तस्माद् एवं परम-पुरुषार्थ-रूपत्वाद् दुस्त्यज एव तत् कथार्थ इति ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—अपि चेति । तत् कथा । त्रि-वर्ग-लता धर्मार्थ-काम-रूपा वल्ली तस्यमूल-निकृन्तनी । तथापि जानन्त्योऽपि वयं त्रिवर्ग-स्थाः । अभिजल्पेनाह—यद् इति । यस्य कृष्णस्य । अनुचरितम् अवतार-चरितम् एव । लीला विलासः । तद् एवलीलैव । कर्ण-पीयूषं श्रवणामृतम् ।अत एव विनष्ट-रागादित्वाद् एव ।

लीला प्रियस्यानुकृतिः श्लिष्टा वाग्-वेष-चेष्टितैः । > लीला विलासः केलिश् च क्रिया शृङ्गार-भावजा ॥ इति कोशात् ।

पृषन्ति बिन्दु-पृषताः पुमांसो विप्रुषः स्त्रियः इत्य् अमरः । प्राण-वृत्ति-मात्रम् इत्य् अनेन ज्ञानार्थम् एव तेषां देह-धृतिर् न तु भोगार्थेत्य् उक्तम् । अतोऽस्य लीलाकर्णनस्य दीनतापादकत्वात् । तावद् अधुना । श्रौतः श्रुति-विहितः । परमार्थिको वास्तवः अयं वक्ष्यमाणः । ततश् च पूर्ववत् समासोत्तरम् । ते चेत्य्-आदि कर्मधारयः । इतरे गृहस्थाः । इवेन न तु दीना इत्य् उक्तम् । किन्त्व् अत्युदारास् त्यक्तुम् अशक्यस्य त्यागित्वात् । इवाध्याहारापेक्षया धीरा इति पाठः सम्यक् । विहङ्ग-पदं लक्षणया हंस-परम् । पारमहंस्यं संन्यासम् । तथा च श्रुतिः—

प्रव्रजन्त्य् एतद् ध स्म वै पूर्वे विद्वांसः प्रजां न कामयन्ते > किं प्रजया करिष्यामो येषां नोऽयम् आत्मा लोक इति । ते ह स्म > पुत्रेषणायाश् च वित्तेषणायाश् लोकेषणायाश् च व्युत्थायाथ भिक्षा-चर्यं > चरन्तीति च । [ब्।आ।उ। ४.४.२२] > दीनो दुःखित-दुर्गत-तुच्छ-मूषिक-वाचकः इति स्वामी ॥

अभिजल्प-लक्षणम्—

भङ्ग्या त्यागौचिती तस्य खगानाम् अपि खेदनात् । > यत्र सानुशयं प्रोक्ता तद् भवेद् अभिजल्पितम् ॥ [उ।नी। १४.२११] > इति ॥१८॥


कैवल्य-दीपिका : दुस्त्यजत्वम् एवाह—यद्-अनुचरित- इति । यस्य अनु अनुकूला चरितं लीलयैव कर्ण-पीयूषं, तस्य विप्रुषो बिन्दवः, तेषां सकृद् अदनेन विधूतास् त्यक्ता द्वन्द्व-धर्मा स्त्री-पुरुषाणाम् आचाराः राग-द्वेषादयो वा यैस् ते तथा । विभ्यः पक्षिभ्यः नष्टाः पृथग् भूताः त्यक्त-सङ्गा इत्य् अर्थः । सपदि लीलाकर्णनान्तरम् । गृहं कुटुम्बं चेह वृन्दावने भिक्षु-चर्यां परमहंस-स्थितिम् ॥१८॥ [मु।फ। १२.६८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथाया दुस्त्यजत्वं दर्शयति—यद् अनुचरितेत्य्-आदि । बहवो भाग्य-भाजो जना विहङ्गा इव भिक्षु-चर्यां चरन्ति । वयं तु यद् अधुनापि गृहे वर्तामहे, तद् एवाधमतास्माकम् इति ग्लानि-दैन्य-मतीनां शावल्यम् ॥१८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य निष्ठुरता किं वाच्या, तच् चरित-लवम् अपि ये केचित् सकृद् अपि शृणुयुः, तेऽपि निष्ठुराः स्युर् इत्य् आह—यद् इति । अनुचरितं स्वस्यानुकूलं कर्मैव लीला बाल-चेष्टितवत् स्वच्छन्द-खेला-मात्रम् इति निन्दैव, लोक-हितार्थ-कर्मणा सह लीलायाः प्रतियोगित्वात् तद् एव कर्ण-पीयूषं शब्दतः कर्ण-सुख-प्रदम्, न त्व् अर्थतो मनः-प्रीतिकरम् इत्य् अर्थः । तस्यापि विप्रुट्, न तु बाहुल्यम् ।तस्या अपि सकृद् अप्य् अदनं कथञ्चित् किञ्चिद् ग्रहणं तेनापि विशेषेण धूता द्वन्द्व-धर्मा मिथुनाचाराः खादन-पानादि-रागा वा यैस् तथा-भूताः सन्तो विहङ्गाः पक्षिणोऽपि तत्रापि बहव एव, न तु द्वित्राः, सपदि लीला-श्रवणानन्तरम् एव दीनम् अपि गृहस्य कुटुम्बं तात-जननी-भार्यादिकं सर्व-परिवारम् अवश्यापेक्ष्यम् अपीह सर्व-समृद्धि-युक्ते वृन्दावनेऽपि ।

स्तुति-पक्षे—इह संसारे बहवो जना विहङ्गा इव विहङ्गाः, हासवद् विवेकिन इत्य् अर्थः । अत एव तैर् अपि व्याख्यातम्—हंसा इवेति । एवम् इहेत्य् एव पाठः, एष अ सर्व-टीका-कृतां सम्मतः । यद् वा, विभ्यः पक्षिभ्यः नष्टा अदर्शनं प्राप्ताः, विविक्त-वासत्वात् । भिक्षु-चर्याम् इन्द्रिय-ग्राम-निग्रहम् ॥१८॥

प्रीति-सन्दर्भः४१०- पुनः तत्-कथाया यद् दुस्त्यजत्वं तत् खलु तस्यापि दोषत्वेनैव स्थापयति—यद् अनुचरित इत्य्-आदि । कर्णस्यैव पीयूषं, न तु मनस इत्य् आपात-मात्र-स्वाद्यत्वं बोधितम् । विधूत-द्वन्द्व-धर्मत्वाद् एव विनष्टा अचेतन-प्राया जाताः । इह वृन्दावने विहङ्गाः शुकादयोऽपि भिक्षोः सन्न्यासिनश् चर्यां देहादिनैर् अपेक्ष्यं चरन्ति आचरन्तो दृश्यन्त इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्यानुचरितं स्वस्यानुकूलं कर्मैव लीला बाल-चेष्टितवत् स्वच्छन्द-खेला-मात्रम् इति निन्दैव, लोक-हितार्थ-कर्मणा सह लीलायाः प्रतियोगित्वात् । तद् एवकर्ण-पीयूषंशब्दतः कर्ण-सुख-प्रदं, नत्व् अर्थतो मनः-प्रीतिकरम् इत्य् अर्थः । तस्यापिविप्रुट्, न तु बाहुल्यं,तस्या अपि सकृद् अप्य् अदनं दूर-वेशात् । कथञ्चित् किञ्चिद् आस्वादनं तेन विशेषेणधूताद्वन्द्व-धर्मा मिथुनाचारा उष्ण-शीतादि-भोगा वा यैस् तथा-भूताः सन्तः विहङ्गाः आकाश-गामित्वाद् दूराद् आगता हंसादयः पक्षिणोऽपि, तत्रापि बहव एव, न तु द्वित्राः । सपदिलीला-श्रवणान्तरम् एव । दीनम् अपि गृहस्य कुटुम्बं तात-जननी-भार्यादिकं त्यक्त्वा, स्वयम् अपि दीना विनष्टाश् च सन्त इह तल्-लीला-स्थाने वृन्दावने समागत्य भिक्षु-चर्याम् एव चरन्ति ।

धीरा इति पाठे तेषांदुःखेनाक्षुभिताः कठोर-चित्ताः सन्त इत्य् अर्थः । बहव इवेति पाठः सर्व-टीका-कृतां सम्मतः । श्री-स्वामिभिर् अपि स्तुति-पक्ष एव हंसा इवेति गौण-वृत्ति-द्योतनायैव इव-शब्दो दत्त इति


अयं भावः—येऽमी च तेनैव सम्भवति यथा भवद्-आगमनं दौत्येनैवेति । यद् वा, तस्य निष्ठुरता किं वाच्या तच्-चरित-लवम् अपि ये केचित् शृणुयुस् तेऽपि निष्ठुराः स्युर् इत्य् आह—यद् इति । अर्थः पूर्ववत् । यद् वा, तर्हि कथं मां गातुं निषेधसि ? तत्राह—यद् इति । अर्थः पूर्ववद् एव । विशेषतश् च इह बहव एव विहङ्गास् तद्-आवेशात् तद्-गान-शीला भिक्षु-चर्यां चरन्ति । तत्र को वा वराको भवान् ? तत्र च ते प्रायो व्राजपत्य-लीलाम् एव गायन्ति, तथापि न रोचन्ते भवांस् तु यादुपत्य-लीलाम् इति कथन्तरां रोचतां नामेति ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वस्यानुचरितं तस्यानुकूलं कर्मैव लीला बाल-चरितवत् स्वच्छन्द-खेला । सैव कर्ण-मात्रस्य पीयूषं, न तु मनसः आपाततः सुख-प्रदा, परिणामतस् तु दुःखदैवेत्य् अर्थः । तस्यापि विप्रुट्, नतु बाहुल्यम् इत्य्-आदि । स्वयम् अपि दीना विनष्टाश् च सन्तः ।इह तल्-लीलाख्याने । धीरा इति पाठे तेषां दुःखेनाक्षुभिताः कठोर-चित्ताः सन्तः ॥१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कथार्थो दुस्त्यज इति यद् उक्तं, तत् प्रकारान्तरेण द्रढयति—यद् अनुचरितेत्य् आदि । यद् यद् अस्यानुचरित-लीला अनु अनुक्षणं चरिता कृता या या लीला, सैव कर्ण-पीयूषं तस्य विप्रुषः, कर्णस्य सकृद् अदने एक-वार-पाने विधूता द्वन्द्व-धर्माः शीतोष्णादि-धर्मा यैस् ते, दीनं गृह-कुटुम्बं सपदि तत्-क्षणाद् उत्सृज्य बहवो जना विहङ्गा इव भिक्षु-चर्यां चरन्ति । विनष्टा मृत-प्राया अतिक्षामा, अत एव दीनाः । यद् वा, एकम् एव पदं विधूत-द्वन्द्व-धर्मा विधूत-द्वन्द्वा विधूत-धर्मास् त्यक्त-वर्णाश्रम-धर्मास् तथाप्य् अविन्ष्टा अभ्रष्टा दीना निर्विण्णाः । एवं-भूतस्य तस्यतथा-विधाङ्ग-सङ्गं प्राप्य कथं तत्-कथां त्यक्ष्याम इति वाक्य-शेषः । अत्राप्य् उन्माद एवाङ्गी, मत्यौत्सुक्यादयोऽङ्गानि , सुप्रलाप उक्ति-वैचित्र्यम् । यद्यप्य् उन्मादस्य सुवचनत्वं न स्वाभाविकं तरङ्गीत्वात्, तथापि कदाचिद् भवति, लोके दृष्टत्वात् ॥१८॥


विष्णुदासः(उ।नी। १४.२१२) : तस्य निष्ठुरता किं वाच्या ? तच्-चरित-लवम् अपि ये केचित् शृणुयुस् तेऽपि निष्ठुराः स्युर् इत्य् आह—यद् अन्व् इति । यस्यानुचरितम् एव लीला बाल-चेष्टितवत् स्वच्छन्द-खेला, तद् एव कर्ण-पीयूषं शब्द-मात्रत एव कर्ण-सुख-प्रदं, न त्व् अर्थतो मनः-प्रीति-करम् इत्य् अर्थः । तस्य विप्रुट् कणिका, तस्याः सकृद् अप्य् अदनं किञ्चिन्-मात्रास्वादनं, तेन विधूता निरस्ताः द्वन्द्व-धर्मा मिथुनाचारा उष्ण-शीतादि-भोगा वा येषां ते । अत एव विनष्टा भोगादि-राहित्यात् असत्-तुल्याः सन्तः विहङ्गा आकाश-गामिनो हंसादयः पक्षिणोऽपि, तत्रापि बहव एव, न तु द्वित्राः,सपदि लीला-लव-सेवनानन्तरम् एव दीनं दुःखितम् अपि गृहस्य कुटुम्बं तद्-एक-परिपाल्यं तात-जननी-भार्यादिकम् उत्सृज्य स्वयम् अपि दीनाश् च सन्त इह तल्-लीला-स्थाने वृन्दावने समागत्य भिक्षु-चर्यां पारमहंस्यं चरन्ति आचरन्ति । यस्य लीला-लव-मात्रस्य सकृद् एव सेवनाद् विहङ्गा अप्य् एवं दुःखिता भवन्ति, तत्-सङ्गः कथं वास्माकं सुखाय भवतु ? अत एवातः परं तत्-त्याग एव युक्त इति सानुशयं ध्वनितम् ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयं साक्षात् तेन सह सख्यं कृतवत्यो यद् दुःखिन्योऽभूम तत्र किं चित्रं ? तल्-लीला-कथापि सर्व-जगत्-सन्तापनीत्य् आह—यस्यानुचरितं प्रतिक्षण-चेष्टितम् एव लीला सैव कर्ण-पीयूषं शब्द-मात्रेणैव सुखदं किं पुनर् अर्थत इति भावः । तस्यापि विप्रुट्, तस्यापि सकृद् अप्य् अदनं किञ्चिद् आस्वादनं, तेनापि विधूता विशेषेण खण्डिता द्वन्द्व-धर्माः स्त्री-पुंसादि-परस्पर-सौख्य-रूप-धर्मा येषां ते ।

तत् कथां ? स्त्री चेच् छृणोति सद्य एव पति-स्नेहं त्यजति, पतिश् चेत् स्त्री-स्नेहम् । एवं पुत्रश् चेत् पितरं मातरं च, माता चेत् पुत्रम् इत्य् एवं परस्पर-त्यागात् विशेषेण नष्टा इति तेषां नाशे तथा न दुःखं यथा वैराग्य इति । सांसारिक-लोकानुभव एव प्रमाणम् इति भावः ।

किं च, ते जनाः स्निग्ध-मनसोऽपि कठोरस्य श्री-कृष्णस्य लीला-श्रवणादिभिः कठोरा निर्दयाः कृतघ्नाश् च भवन्तीत्य् आह—सपदि कथा-श्रवण-मात्र एव गृह-कुटुम्बं पितृ-स्वस्रादि-पर्यन्तम् अपि दीनम् अन्यस्योपार्जकस्याभावात् श्वो यद् भोक्ष्यते तद् धन-रहितम् अपि । यद् वा, तद्-विच्छेद-कातरम् उत्सृज्य मृत्यवे कुश-वारि-संयोगेन सम्प्रदायेवेत्य् अर्थः ।

हन्त हन्त ते स्त्री-पुत्रादयो म्रियन्तां नाम स्वयम् अपि सुखिनो नैव भवन्तीत्य् आह—दीना गृहं त्यक्त्वा गच्छन्तश् चित्त-विक्षेपात् वराटक-मात्रम् अपि ग्रन्थौ न गृह्णन्तीति भावः । धीरा इति पाठे भार्यादि-रोदन-दर्शनेऽप्य् अक्षुभ्यन्तो महा-कठोरा इत्य् अर्थः । न च ते एको वा द्वित्रा वा चतुः-पञ्च वा किन्तु बहवः परः-शताः परः-सहस्राश् च ।

ननु ततस् ते कया जीविकया जीवन्ति ? इत्य् आह—विहङ्गाः पक्षिण इव भिक्षु-चर्यां गो-धूमादि-कण-भिक्षा-परिपाठ्यैव जीवन्ति, न तु केनापि दत्तया स्थूल-भिक्षयापीति भावः । इहेति पाठेऽत्रैवास्मद्-दुःख-स्थाने वृन्दावन-स्थान एवागत्येत्य् अस्मत्-सङ्गाद् अपि महा-दुःखिनो भवन्तीति भावः । तेन तत्-कथाया बहु-मत्स्यण्डिका-मय-धुस्तूर-बीज-चूर्णत्वं कथा-वाचकस्य साधु-वेष-च्छन्न-धातुकत्वं पुराण-पुस्तकस्य जालत्वं ध्वनितम् । अत एव ते वनाद् वनं भ्रमन्तोऽपि स्व-कक्ष-गृहीत-पुस्तका एव दृश्यन्ते । व्यासादीनां जाल-निर्मातृत्वं श्री-कृष्णस्य परमेश्वरत्वेन तत्-तद्-आदेष्टृत्वम् । एतद्-अर्थम् एव श्री-कृष्णेन परमेश्वरता गृहीता । गोप्य इव सर्व-लोका अपि दुःखाब्धौ पतन्त्व् इति तस्य विचारः ।

ईदृश-पर-दुःख-दर्शनम् एव तस्य सुखम् अत ईद्र्श-पर-दुःख-दान-जन्य-फल-भागी यथा स भविष्यति तथा न व्यासादय इति परञ्-शता एव ध्वनयोऽस्य पदस्य सर्व एव सिद्धान्ततो व्याज-स्तुत्या भक्तेः सर्वोत्कर्ष-व्यञ्जका ज्ञेयाः ॥१८॥


॥ १०.४७.१९ ॥

वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः

कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः ।

ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र-

स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किम् एवं ब्रूषे ? पूर्वं त्वयैव साकं रहसि किम् एवं नावोचत् ? इत्य् अत आह—वयम् इति । हे उपमन्त्रिन् दूत ! आस्ताम् इयं वार्ता । यतः कुलिकस्य मृगयोः रुतं गीतम् अज्ञा यथा ऋतं सत्यम् इति श्रद्दधानाः,कृष्णस्य हरिणस्य वध्वो भार्या हरिण्यः शरैः क्षताः सत्यो रुजो ददृशुः । एवं जिह्मस्य कुटिलस्य तस्य व्याहृतम् ऋतम् इव श्रद्दधानाः स्पृहयन्त्यो वयम् असकृद् एतद् ददृशिम । किं तत् ?तस्य नखैः स्पर्शः, तेन तीव्रः स्मरः, तेन रुजः पीडाः । तस्माद् अन्या वार्ता भण्यतां कथ्यताम् इति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कन्ते—नन्व् इति । एवम् आयोग्यम्, द्वितीयैवं-पदस्याप्य् अयम् एवार्थः । किं-शब्द-द्वये कुत इत्य् अर्थे । इयं वार्ता एकान्त-वार्ता । यतो यस्मात् ।

कुलिकं मृगयौ योग-भेदे वल्मीक-काकयोः ।

पटोलेन्दु-कुल-श्रेष्ठ-समूहेषु च वाच्यवत् ॥ इति धरणिः ।

एतत्-पदार्थं पृच्छति—किं तद् ? इति । तस्य कृष्णस्य । रुक् पीडा-रोग-कान्तिषु इति धरणिः । तस्मात् तस्य संयोगस्य पीडा-हेतुत्वात् । वस्तुतस् तु तच्-छ्रवणस्यानन्द-जनकत्वाद् अन्यस्यसर्वस्माद् विलक्षणस्य कृष्णस्य वार्ता भण्यताम् इति ध्येयम् । तस्य कुलिकस्य नख-स्पर्शात् तीव्रो दुःसहः स्मर-स्पर्शो यस्य शरस्य तेन रुजः पीडा इति वा । स्मरः काम-स्पर्शनयोः स्मरणेऽवगतौ हरौ इति निरुक्ति-कारः । जिह्मं तु कुटिले मन्दे क्लीबं तु गरपादपे इति मेदिनी । इहाजल्पेनोक्तिः । लक्षणं तु—

जैह्म्यं तस्यार्तिदत्वं च निर्वेदाद् यत्र कीर्तितम् । > भङ्ग्यान्य-सुखदत्वं च स आजल्प उदीरितः ॥ [उ।नी। १४.२१३] इति > ।

तस्य प्रियस्य ॥१९॥


कैवल्य-दीपिका : ननु पूर्व-वृत्तान्तो यथा तथास्तु, एतत् सन्धानं न चलतीति चेत्, तत्राह—वयम् इति । वयम् सर्वा अपि जिह्मस्य कुटिलस्य कृष्णस्य व्याहृतम् उक्तम् ऋतम् इव असत्यम् अपि सत्यं मन्यमानाः ददृशुर् इत्य् एतस्य विपरिणामाद् ददृशिम । एतत् तस्य विप्रलम्भकत्वम् । यथा कुलिकस्य व्याधस्य कृतं कपट-गीतं हरिण्यो वास्तवं मन्यमाना वधेनासत्यं ददृशुः । कृष्णो हरिर् मृगश् च । हे उपमन्त्रिन् प्रलोभक ! तस्माद् अन्य-वार्ता क्रियताम् ॥१९॥ [मु।फ। १२.६९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनर् दैन्यादि-भाव-शान्तौ पुनर् असूयामर्षओर् उदये सति निगदति—वयम् ऋतम् इवेत्य्-आदि । अज्ञा एव वयम्, यतः कुटिलस्य तस्य व्याहृतं सत्यं मन्यमानाः स्मः । काः कम् इव ? हरिण्य इव कुलिक-रुतम्, ता अपि अज्ञा एव, वनेचरत्वात् । कृष्ण-वधूत्वाच् चोभयीषाम् एव दुःखोदर्कत्वम् इति भावः । तन्-नख-स्पर्श-तीव्र-स्मर-रुज इति तन्-नख-स्पर्शेन तीव्राः स्मर-रुजो यासां, हरिणी-पक्षे तस्य कुलिकस्य नखो नाराचः, न विद्यते खम् आकाशो यस्य, केवल-लौह-निर्मित-शरीर-विशेषः । तस्य स्पर्शेन तीव्र-स्मरो तीव्रानुभवा रुजो यासाम् । ददृशुर् अनुबभूवुः, अतो हे उपमन्त्रिन् ! अन्य-वार्ता भण्यताम्, तद्-वार्ता त्यज्यताम् इति शेषः । अमर्षासूययोः ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो तल्-लीला-श्रवणाद् बहवो वासनं प्राप्ता इति किं वक्तव्यं ? वयम् अपि तत्-कपटोक्त्या महा-दुःखम् अन्वभूमेत्य् आह—वयम् इति । असत्यम् अपि ऋतम् इति श्रद्दधानाः । कृष्ण-वध्व इत्य् असित-जन-वधूत्वेन तद् युक्तम् एवेति पूर्वोक्तम्—अलम् असित-सख्यैः इत्य् एतद् एव दृढीकृतम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, भो देवि ! तव प्रेयान् सन्दिशति—प्रिये ! प्रसीद ! न कदापि पुनर् वियोक्ष्ये, ततः शीघ्रम् आगत्य माम् अनुगृहाणेति चेत्, तत्राह—वयम् इति । अज्ञत्वाद् एव पूर्वं कृष्ण-वध्वः सत्यस् तन्-नख-स्पर्श-तीव्र-स्मर-रुजो वयं साम्प्रतं तु जिह्मस्य कुटिलस्य तस्य व्याहृतं गमन-समये, आयास्ये [भा।पु। १०.४१.१७] इति दूत-द्वारा लब्धम् ।तथाज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इति मधु-पुराद् गोप-द्वारा च लब्धम् । ऋतम् इति श्रद्दधानाः । इवेति लोकोक्तौ । एतत् किम् अप्य् अनिर्वचनीयं प्रगाढाशा-भरेण देह-धारण-लीलम् असमोर्ध्व-दुःखं ददृशिम इति स-निर्वेदो विषादः । अन्यस्य कृष्णेतरस्य वार्ता, ततश् च कराभ्यां गाढं वक्षो धृत्वा व्याकुला क्षणं विमुह्य भूमौ निपपातेति। एतच् छब्द-ध्वनितोऽर्थः । अतो मधुकरोऽपि प्रस्थित इति ज्ञेयम् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वयम् इति । तैर् अवतारितम् ।तत्रैवम् इति जानीम एवेत्य्-आदि पूर्व-पद्यावतारिकात्मकंपूर्व-पद्यार्थम् इत्य् अर्थः । उत्तरैवं-शब्दोऽपि तद्-अर्थः । पूर्वः किं-शब्दः आक्षेपे । उत्तरस् तु प्रश्ने । आस्ताम् इति तद्-वाक्यं यदि प्रमानं स्यात् तदैव त्वया प्रष्टव्यं, न त्व् अन्यथा । यतस् तद्-वाक्य-प्रामाण्य-बुद्ध्यैव वयं दुःख-सागरे मग्ना इत्य् अर्थ इति । यद् वा, अहो तल्-लीला-श्रवण-मात्रेण बहवो व्यसनं प्राप्ताश् चेत् कथं तत्-कपटोक्त्या महा-दुःखं वयम् अन्वभूमेति किम् आश्चर्यम् इत्य् आह—वयम् इति।

यद् वा, ननु देवि प्रथमतः प्रिय-सन्देशं शृणु, ततो विचारय, ततस् तुष्य कुप्य वा, तत्राह—वयम् इति । वयं जिह्मस्यपूर्वोक्तस्य कितवस्य त्वद्-बन्धोर् असकृद्-व्याहृतं न पारयेऽहम् [भा।पु। १०.३२.२२] इत्य्-आदिकं,आयास्ये [भा।पु। १०.४१.१७] इत्य्-अन्तं वचन-सहस्रम् ऋतं सत्यम् इवासकृच्-छ्रद्दधानाः, यथा महतां वाक्यं सत्यं तद् इव निश्चिन्वानाः मुहुर् व्यभिचारेऽपि मुहुः श्रद्दधाना इत्य् अर्थः । ततो मोहेन कृष्णस्य तस्यैव वध्वोऽपि सत्यस् ततोऽसकृन्-नख-स्पर्शेन मुहुः स्वस्मिंस् तच्-चिह्न-दर्शनात् तीव्र-स्मर-रुजाः तीव्रा स्मर-रुक् यासांतथा-भूताश् च सत्यः एतद् एतादृशं दुरवस्थानम् एव, न तु कदापि स्मर-सुखं ददृशुः ददृशिम प्राप्तवत्य इत्य् अर्थः । तिङां तिङो भवन्ति इति छान्दस-वार्तिकात् स्वतस् तून्मादेनास्मत्-प्रयोगाननुसन्धानात् । अतः परोक्ष-प्रयोगोऽपि तदानीं बोधावरणं सूचयति, यत एवं तस्मात् वयम् अज्ञा एवेति । तत्रदृष्टान्तो हरिण्यः कुलिक-रुतम् इवेति यथा हरिण्यः कुलिक-रुतं सत्यम् इवास्मद्-अनुकूलम् एवेदं न पुनर् अन्यथारूपम् इति मन्यमानाः भवद्-बन्धन-स्व-सदृश-कुलिक-बाण-स्पर्शेनास्मत्-स्मर-रुक्-सदृश-रुजः सत्यः एतद्-अस्मदीय-दुरवस्था-सदृशं दुरवस्थानं ददृशुः प्राप्नुवन्तीत्य् अर्थः । उभयत्र तद्-योग्यतार्थं विशेषणम् अज्ञा इति


ननु भवत्यस् तावत् कुल-वध्वस् तास् तु पशुजायती मनुष्य-भक्ष्यास् तां दुरवस्थां प्राप्तुम् अर्हन्त्य् एव इति तासु कथं स्व-साम्यं निर्दिशसीत्य् आशङ्क्य स्व-पक्षान्तः पात्यमानां तासां पक्षपातम् आचरन्ती श्लाघाम् आह—कृष्ण-वध्व इति । तद्-भर्तारोऽप्य् आत्मानंपरमोत्कृष्ट-कृष्ण-नामतया ख्यापयन्ति ततस् त्वद्-बन्धुस् तेषां को निकर्षो येन तासाम् अपि निकर्षः स्यात् । ततो यथा तादृशीषु तासु कुलिक एव दुःख-दायी स्यात् तथास्मासु भवद्-बन्धुर् एवेति भावः ।

ततो हे उपमन्त्रिन् ! दाम्भितया तूष्णीं-स्थितस्यास्य तन्-मन्त्रिणः प्रतिनिधे । यद् वा, तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् इत्य् अत्र तथा व्याख्येयानुसारेण हे भण्डा-विद्या-पण्डित ! अन्या वार्ता भण्यताम् उपहासस् त्यज्यताम् इति ।

उन्माद-वचने तासां या कृच्छ्राद् अर्थ-सङ्गतिः । > तद् उत्कर्षाय सा भातीत्य् अनूक्तं मुनिभिस् तथा ॥ इति ॥१९॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४११): ततः सानुतापम् आह—वयम् ऋतम् इति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किन्तु वयम् अज्ञा एव, यतस् तत्-कथां सत्याम् एवेति मन्यमानास् तप्यामह इत्य् आह—वयम् ऋतम् एवेत्य्-आदि । वयम् अज्ञाः, यतो जिह्म-व्याहृतं जिह्मस्य कुटिलस्य व्याहृतं वचनामृतं सत्यम् इव श्रद्दधाना अभामेत्य् अर्थः । काः किम् इव ? कृष्ण-वध्वो हरिणाः कुलिक-रुतं व्याध-गीतम् इव, ता यथा व्याधस्य रुतं मनोरमम् इति श्रद्दधाना नश्यन्ति । ताश् चाज्ञा एव पशुत्वात् । ताः कृष्ण-वध्व एतद् असकृद् ददृशुर् अनुभूतवत्यः, दृशेर् ज्ञान-वचनत्वात् । कीदृश्यो वयं ताश् च ? तन्-नख-स्पर्शेन तीव्राः स्मर-रुजो यासाम् । हरिणी-पक्षे तस्य नखो नाराचः सर्व-लोहमयः शर-विशेषः । न विद्यते खम् आकाशो यस्य निरवकाशत्वात् स्पर्शेन तद्-वेधेन तीव्र-स्मरास् तीव्रानुभवा रुजो यासाम् । अतः कृष्ण-वधूत्वेन ताभिः समम् अस्माकं साम्यम् ।तस्मात् हे उपमन्त्रिन् ! अन्य-वार्ता भण्यतां, तद्-वार्ता त्यजताम् इति वाक्य-शेषः ।

अत्राप्य् उन्मादोऽङ्गी, असूयामर्षादयोऽङ्गानि । प्रतिलाप उक्ति-वैचित्र्यम् ।किम् इह बहु षड्-अङ्घ्रे गायसि [भा।पु। १०.४७.१४] इति लपितस्य प्रतिलापात् ॥१९॥

विष्णुदासः[उ।नी। १४.२१४]: अहो तल्-लीला-श्रवणाद् बहवो व्यसनं प्राप्ता इति किं वक्तव्यं? वयम् अपि तत्-कपटोक्ति-मोहिताः सत्यः महा-दुःख-समुद्र-मग्ना जाताः स्मेत्य् आह—वयम् इति । वयं जिह्मस्य कुटिलस्य तस्य व्याहृतम् ।न पारयेऽहं [भा।पु। १०.३२.२२] इत्य्-आदिकम्, आयास्ये [भा।पु। १०.३९.३५] इत्य् आन्तं मुहुर् मुहुर् अपि वचन-सहस्रम् ऋतं सत्यम् इवासकृच्-छ्रद्दधानाः विश्वसन्त्यः एतद् ददृशुः ददृशिम, तिङां तिङो भवन्तीति छान्दस-वार्तिकात् । किं तत् ? तस्य नखैः स्पर्शः तेन तीव्रः स्मरः तेन रुजः पीडाः । किं वा, एतद् दशम-दशा-सन्निहित-दुःखं ददृशुः । वयं किम्-भूताः ? तस्य नख-स्पर्शेन मुहुः स्वस्मिंस् तच्-चिह्न-दर्शनात् तीव्रा स्मर-रुक् यासां तथाभूताः । तत्र दृष्टान्तः—हरिण्यो यथा वयम् इव स्वभावतः एवाज्ञाः कुलिकस्य व्याधस्यापि रुतम् ऋतं निष्कपटम् इव श्रद्दधानाः । ततस् तस्य कुलिकस्य नखास् त्वद्-बन्धु-नख-सदृशा बाणाः तेषां स्पर्शेन स्पर्श-मात्रेण तीव्रा स्मर-रुक् अस्मत्-स्मर-रुक्-सदृशी मर्म-पीडा यासां तथाभूताः सत्यः एतत् अस्मद्-दुःख-सदृश-प्रायं दुःखं यथा पश्यन्ति तद्वत् । एवं जिह्मेति कौटिल्यं, तन्-नखेत्य् आदिना तस्यार्तिदत्वं च स्फुटम् एवाख्याय तद्-उपालम्भेऽपि निर्विद्यमाना स्वभावत एव पुरतो रुवन्तं तं

नारायण-मयं धीराः पश्यन्ति परमार्थिनः ।

जगद् धन-मयं लुब्धाः कामुकाः कामिनी-मयम् ॥

इति रीत्या अयम् अस्माकम् आर्ति-शमनाय तद्-वार्तां पुनर् जल्पतीति मत्वाह—उपमन्त्रिन् ! हे दूत ! अनवस्थित-वसचस् तस्य जिह्मस्य वार्ता त्वया अस्माकम् आर्ति-शमनाय कथ्यमानापि प्रत्युत सास्माकम् आर्त्य्-उद्दीपनी भवतीति तां त्यक्त्वान्या वार्ता भण्यतां कथ्यताम् । तद्-वार्ता-विस्मरण-पूर्वकान-वार्तेवास्मान् सुखयतीति भङ्ग्या ध्वनितम् ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं चेत् परम-विज्ञाभिर् भवतीभिः श्री-कृष्णे तस्मिन् कथं सख्यं कृतं ? तत्राह—वयं तस्य न पारयेऽहं निरवद्य-संयुजां [भा।पु। १०.३२.२२] इत्य्-आदिकं जिह्म-व्याहृतम् अपि ऋतम् इव सत्यम् इव श्रद्दधानाअज्ञा अभूम । कुलिकस्य व्याधस्य रुतं शब्दं श्रद्दधाना हरिण्यः कृष्ण-वध्वः कृष्णसार-स्त्रिय इव । ततः किम् ? अत आह—एतत्-कुलिक-रुतं ददृशुः । रुतस्य दर्शनासम्भवात् तत्-फलं शर-घातं ददृशुर् इत्य् अर्थः । तथैव वयम् अपि तन्-नख-स्पर्शेन तीव्राः स्मर-रुजः कन्दर्प-पीडा ददृशिम इत्य् अर्थः ।

असकृद् इति । एक-वार-तत्-फल-दर्शने पुनर् अपि विश्वासात् पुनर् अपि तत्-फल-दर्शनाद् अक्षत्वाधिक्यं हरिणीनाम् अस्माकं च लब्ध-पुनः-पुनर्-मदनोत्थ-दुःख-दशानां, तस्माद् उपमन्त्रिन् ! हे विदूषक ! अन्य-वार्ता भण्यताम् । तस्य तद्-वार्तायाश् च दुःख-दत्वाद् अन्य-कथैव सम्प्रत्य् अस्माकं सुखदेत्य् अर्थः । अत्र लक्साण-सङ्गतिः स्पष्टैव ॥२०॥


॥ १०.४७.२० ॥

प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं

वरय किम् अनुरुन्धे माननीयोऽसि मेऽङ्ग ।

नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं

सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परावृत्य गत्वा पुनर् आगतं प्रत्याह—प्रिय-सखेति । हे प्रियस्य सखे, प्रेयसा कृष्णेन पुनःप्रेषितःकिं त्वम् आगतोऽसि । अङ्ग हे दूत ! मे माननीयः पूज्योऽसि । अतो भवान् किम् अनुरुन्धे प्राप्तुम् इच्छतीत्य् अर्थः । तद् वरय वृणीष्व । संमानितं प्रत्याह—नयसीति । इह सती अस्मान्दुस्त्यजं द्वन्द्वं मिथुनी-भावो यस्य, तस्य पार्श्वं समीपं कथं नयसि नेष्यसि ? तथा हि, हे सौम्य, श्रीर् नाम वधूः । साकं सहैव सततम् आस्ते, तत्राप्य् उरसि वक्षस्य् एव ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परावृत्य ततोऽन्यत्र पर्यावृत्य प्रियेति । यद् वा, ग्रहाविष्टेवात्मनः कृष्णैक-चित्ततां दर्शयन्त्य् आह प्रतिजल्पेन । पुनर् अप्रथमे प्रश्ने व्यावृत्ताववधारणे इति हलायुधः । पूज्यः प्रेष्ठ-बन्धुत्वात् । अतः पूज्यत्वात् । इत्य् अर्थ इति—किम्-अर्थम् अस्मत्तः स्वीकर्तुम् इच्छसीति भावः । तद् अवाञ्छितम् ।आत्मनो नेतुम् आगत इति भ्रान्त-धीर् आह—इह सतीः, अत्र स्थिता अस्मान् । तस्य कृष्णस्य । सतत-शब्द आपेक्षिक इति तदाह—साकम् इति । अर्धाङ्गीकृत्यास् ते । सपत्न्या लक्ष्म्याः कदापि वियोगाभावात् त्वन्-नीतानांदर्शनम् अपि दुर्लभं किं पुनः सम्भाषणम्, किन्तरां तच्-चित्तादानं, किन्तमां सुरत-लीलानुभव इत्य् आस्ताम् अयं प्रसङ्गः । प्रतिजल्प-लक्षणं—

दुस्त्यज-द्वन्द्व-भावेऽस्मिन् प्राप्तिर् नार्हेत्य् अनुद्धतम् ।

दूत-सम्माननेनोक्तं यत्र स प्रतिजल्पकः ॥ [उ।नी। १४.२१५] इति ॥२०॥


कैवल्य-दीपिका : किञ्चिद् भ्रमणं कृत्वा व्यावृत्तं भ्रमरं भगवत्-प्रेषितं मत्वाह—प्रिय-सख इति । हे प्रिय-सख ! प्रेयसा कृष्णेन प्रेषितः सन् किं पुनर् आगा आगतोऽसि ? किम् अनुरुन्धे? किम् अनुरोधम् अनुवृत्तिं करोमि ? किं ते कामं पूरयामीत्य् अर्थः । मथुरा-गमनम् एव चरयामीति चेत् तत्राह—नयसि इति । इह अस्मिन् प्रस्तावे दुस्त्यजं द्वन्द्वं माथुरीभिः सह मिथुनीभावो येन, तस्य पार्श्वे तद्-आसक्तत्वेन अस्माभिः सह तस्य प्रसङ्गाभावाद् व्यर्थं गमनम् इति भावः । न कदाचिद् एकान्ते त्वयापि सह प्रसङ्गो भविष्यतीति चेत्, तत्राह—सततम् इति । हे सौम्य ! सोमवत् प्रिय-दर्शन ! सा प्रसिद्धा कं सुखं यथा स्यात् तथा आस्ते ॥२०॥ [मु।फ। १२.७०]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यदि तस्यैव वार्ता भणितव्या, तद् इतो याहीति वक्तव्ये दैवाद्दूरं गत्वा पुनर् आगच्छन्तं तम् आह—प्रिय-सखेति । हे प्रिय-सख ! पुनर् आगाः पुनर् आगतोऽसि? भद्रं भद्रं, कथय किम् अनुरुन्धे वरय प्रार्थय, त्वं माननीयोऽसि मे। हे अङ्ग ! अतस् तेऽभिलाषः सम्पादनीय एव । युष्मान् नेतुम् आगतोऽस्मीति चेद् वदसि, तदा श्रूयताम् इत्य् आह—नयसीत्य्-आदि । अस्मान् कथं नयसि ? दुस्त्यज-द्वन्द्वस्य तस्य पार्श्वं कथं केन प्रकारेण नयसि ? दुस्त्यजं द्वन्द्वं वीर-रसो नागरी-जन-सङ्गश् चेति द्वितीयं यस्य । अस्माभिस् तत्र न गन्तव्यम् एव । वयं किं श्रीर् इव या सततं ताभिर् अपि साकम् उरसि आस्ते ? योग्यायोग्य-विचारं न करोति, यतो वधूर् अप्रौढा, वयं ताभिः साकं तस्योरसि वर्तितुं न भवाम इति शेषः । उन्मादासूयौत्कण्ठ्यानाम् ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गणात् स्वस्थोत्थिता सती मधुपम् अप्य् आगतं दृष्ट्वाह—प्रियेति । उद्धव-पक्षे च सम्भ्रम-भरेण जलाद्य्-आहरणार्थं वेगेन गतं तं पुनर् आगतं दृष्ट्वेति, हे प्रिय-सखेति पुनर्-आगमनात्, प्रेयसेति तस्य पुनर्-आगमनेन तत्-प्रेषण-मननात् । दुस्त्यज-द्वन्द्वत्वम् एव दर्शयति—सततम् इति । हे सोम्य ! शान्त-प्रकृते ! अतस् तेन सह तव सख्यम् अनुचितम् इति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, पुरः-स्थम् अपि तं प्रेमोन्मादाद् गतम् इव सम्भाव्य ततश् च भावान्तरापत्त्या पुनर्-आगतं च मत्वा स-विषादम् इवाह—प्रेयेति । प्रेयसा प्रेषितोऽपि किं किम् इति त्वं पुनर् आगाः ? मादृशां मान-धनत्वात् तद्-अभीष्टासिद्धेः । भवतु—यथोक्त-वादिनो दूता नावमन्याः कदाचन इति नयेन मे माननीयोऽसि, ततः किम् अनुरुन्धे, कम् अनुरोधम् अनुवृत्तिं करोमि, कं ते कामं पूरयामीत्य् अर्थः ।

ननु युष्माकं मधु-पुरी-गमनम् एव वृणोमि, तत्राह—नयसीति । सौम्य ! हे सोमवत् प्रिय-दर्शन ! अतो रूपम् एवास्ते, न तु बुद्धिर् इति भावः । दुस्त्यजं द्वन्द्वं पुर-स्त्रीभिः सह मिथुनीभावो येन तस्य पार्श्वं, सदा पुर-स्त्रीभिः सह तस्य प्रसङ्गात् । तत्रास्माकं गमनं व्यर्थम् इति भावः । इतीर्ष्या ।

ननु युष्मासु प्रयातासु ताः सद्यः परित्याज्याः, तत्राह—सततम् इति । सा नित्यं तत्-प्रियत्वादिना प्रसिद्धा कं सुखं यथा स्यात् तथास्ते । उरसीति विपरीत-रत्या वक्ष आक्रम्येति शेषः । इत्य् असूया ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो भ्रमर-स्वभावतो व्यवधानम् अपि प्राप्तं वा प्रदेशान्तरम् एव गतं वा निजोन्माद-मूर्च्छयोर् एकतरतस् तत्रैव स्थितम् अप्य् अननुसंहितं वा क्षणं तम् अदृष्ट्वा सहज-प्रेमोत्कण्ठा-स्वभावतस् तद्-उपेक्षाम् आशङ्क्य मङ्क्षु कलहान्तरितावस्थाम् इव प्राप्नुवन्ती दवात्तं पुनर् आगतं वान्यम् एव वा तम् एवानुसंहितं वा दृष्ट्वा हृष्यन्त्य् आह द्वयेन तत्र स-स्तुतिकम् आह अर्धेन । ईदृशौपकार-परत्वात् प्रिय-सख ! अभिरुचित-मित्रेति प्रेयसेति च परमोल्लासात् किम् अनुरुन्धे अनुरुनत्से कामयसे ? पूर्ववत् तिङ्-व्यत्ययः । यद् वा, कामये एतम् एव कामयिष्ये कर्तुम् इच्छामीत्य् अर्थः । हन्त युष्माकं मधु-पुरीं गमनम् एव वृणोमि तत्र स-सान्त्वं स-युक्तिकं सकाकु प्रत्याख्यानम् आह अर्धेन । दुस्त्यजं द्वन्द्वम् अस्मद्-विजातीय-तत्रत्य-नागरीभिर् मिथुन-भावो येन तस्य त्वद्-बन्धोः पार्श्वं कथं कया युक्त्या नयसि ।

ननु भवद्-गमने सर्वास् ताः स्वयम् एव न्यक्करिष्यन्ते सत्यं ता वराक्यः काः किन्त्व् अस्मद्-व्रजतस् तेन सहैव गता सा लक्ष्मीर् एव तत्र स्व-रमणाय तं रक्षतीति तां प्रत्य् अपि सेर्ष्यम् आह—श्रीर् इति । सा तस्य वधूः श्रीर् आदर-बाहुल्येन कं सुखं यथा स्यात् तथा उरस्यास् ते वसति तद् एतच् च लक्ष्मी-रेखाम् एव तन्-मूर्तितयोत्प्रेक्ष्योक्तम्, गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् इतिवत् । श्लेषेण तस्या विपरीत-स्थिति-व्यञ्जनया धार्ष्ट्यातिशयश् च दर्शितः । इति मत्सरासूये । अयं भावः—यद्यप्य् अत्रापि सा तद् अविच्युतैवासीत्, तथापि श्रीमन् नन्द-व्रज-स्वाभाव्येन तस्य तदा प्रेम-मात्रादरान् न तादृशस् तद्-आदरो वृत्तः । तत्र तु सम्पत्ति-मात्र-पुरुषार्थत्वान् महान् एव तद्-आदरः । इत्य् अतो वयं कथं तत्र यास्याम इति तस्माद् अत्रैव तम् आनयेति गूढोऽभिप्रायः । एवम् ईर्ष्यासूया स्पृहा च ॥२०॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४१२): तद् एवम् अष्टकेन मान-भङ्गीं व्यज्य स्व-काठिन्यातिशयेन दूतं निवर्तमानम् आशङ्क्य कलहान्तरिता-भङ्ग्या द्वयेनाह—प्रिय-सखाइति । तत्रापि स-कौटिल्यम् अर्धेनाह—नयसीति । द्वन्द्वं मिथुनी-भावः । दुस्त्यज-द्वन्द्वत्वे हेतुः—सततम् इति । अत्र तद्-वक्षसि स्थिता लक्ष्मी रेखैव प्रेमेर्ष्यया साक्षात् तद्-रूपत्वेनोत्प्रेक्षिता ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रीर् वधूः साकमास् ते इति लक्ष्मी-रेखाम् एवोद्दिश्योत्प्रेक्षितम् ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनः कियद् दूरान् निकटम् आगच्छन्तं मधुपम् आलोक्य पुनः सोत्कण्ठम् आह—प्रिय-सखेत्य्-आदि । हे प्रिय-सख ! प्रियस्य सखे ! पुनर् आगाः पुनर् आगतोऽसि । अहो भद्रं, किं प्रेयसा प्रेषितः ? अन्यथाकथं स्वयम् आगमिष्यसि ? वरय वृणीष्व, किम् अनुरुन्धे, किं प्रार्थयसि ? यतस् त्वं मे माननीयोऽसि, प्रिय-सखत्वात् । हे अङ्ग ! अतस् तेऽभिलाषः सम्पादनीय एव ।

नन्व् एवं चेद् युष्मान् नेतुम् आगतोऽस्मीति चेत् ब्रूताम् इत्य्-आदि । नयसीत्य् आदि । कथं केन प्रकारेणास्मान् दुस्त्यज-द्वन्द्वस्य तस्य पार्श्वं नयसि, नेतुम् अभिलषसि । दुस्त्यज-द्वन्द्वं वीर-रसो नागरी-जन-सङ्गश् चेति द्वितयं चेति यस्य । एवं-भूतस्य पार्श्वं गन्तुम् अस्माभिर् नेष्यते, तद् इदं विनान्यद् वरदेति वाक्य-शेषः । न वरं श्रीर् इव, यतः सा हे सौम्य । श्रीर् वधूः साकं नागरीभिः सार्धम् उरसि सततम् आस्ते । सेव वयं निरभिमानिन्यो न भवामः । तयैव तथा कर्तुं शक्यते, नास्माभिः । तस्मात्तत्र नेतुम् अस्मान् मा यतस्वेति वाक्यार्थः ।

अत्राप्य् उन्मादोऽङ्गी, हर्षासूयादयोऽङ्गानि । प्रविलाप उक्ति-वैचित्र्यम्, परितो युक्त्मत्त्वेन भाषणात् ॥२०॥


विष्णुदासः(उ।नी। १४.२१६) : ततो भ्रमर-स्वभावाद् व्यवधानं प्राप्तं स्थानान्तर-गतं वा निजोन्मादेन तत्रैव स्थितम् अप्य् अननुसंहितं वा क्षणं तम् अनालोक्य स्हज-प्रगाढ-प्रेमोत्कण्ठा-स्वभावतस् तद्-उपेक्षाम् आशङ्क्य सहसैव कलहान्तरितावस्थाम् इवासादयन्ती पुनर् आगतं वान्यम् एव वा तम् एवानुसंहितं वा दृष्ट्वा हृष्यन्त्याह—प्रिय-सखेति । प्रिय-सख ! ईदृश-परमोपकारे प्रवृत्तत्वात् हे अभिरुचित-मित्र ! अनेनानौद्धत्यम् । प्रेयसा श्री-कृष्णेन पुनः प्रेषितं किं त्वम् अत्रागतोऽसि ? अङ्ग ! हे दूत ! मे माननीयः पूज्योऽसीति दूत-सम्माननं स्फुटम् एव । अतो वरय वृणीष्व किम् अनुरुन्धे अनुरुत्से कामयसे इति पूर्ववत् तिङः पुरुष-व्यत्ययः । हन्त युष्माकं मधुर्-पुरी-गमनम् एव वृणोमि, तत्र ससान्त्वं सयुक्तिकं प्रत्याख्यात्य्-अर्धेन—दुस्त्यजं द्वन्द्वम् अस्माद् विजातीय-तत्रत्य-नागरीभिर् मिथुन-भावो येन तस्य त्वद्-बन्धोः पार्श्वं कथं कया युक्त्या नयसि नेतुम् इच्छसि ? तत्राह—भवत्व् एवं सोऽस्मन्-निष्ठः, किन्तु अस्मद्-व्यजत एव तेन सहैव गता श्रीर् नाम तस्य वधूः साकं सहैव सततम् अनवरतम् आस्ते वसति, तत्राप्य् उरसि वक्षस्य् एव । एतच् च—गोप्यः किम् आचरद् अयं कुशलं स्म वेणुः [भा।पु। १०.२९.९] इत्य्-आदिवत् तस्य वक्षः-स्थ-लक्ष्मी-रेखाम् एव तन्-मूर्तितयोत्प्रेक्ष्योक्तम् । अत एवास्माकं तत्र गमनम् अनर्हम् इति सान्त्व-वचसैव सूचितम् ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथोन्मादेन तत्रैव भ्रमन्तम् अपि तं भ्रमरम् अननुसन्धाय क्षणम् अन्तर्हितं वा तम् अपश्यन्ती सखेदं पराममर्श हन्त हन्त मम तीक्ष्णया गिरा सन्तप्तेनानेन दूतेन मथुरां गतेनावेदित-सर्व-वृत्तान्तः श्री-कृष्णो माम् उपेक्षाञ्चक्रे इति कलहान्तरित-दशां प्राप्ता प्रेमाम्बुधिना सद्-गुण-मौलिना मत्-कान्तेन पुनर् अपि स एव प्रेषितो दूतोऽत्रायात्व् इति तद्-वर्त्म निरीक्षमाणा अकस्मात् तं विलोक्य सादरम् आह—हे प्रिय-सख ! मत्-प्रियस्य सखे, पुनर् आगाः मद्-वाक्-शर-ताडितोऽपि स्व-साद्गुण्येन मद्-अपराधम् अगणयित्वैव आगाः । आं जानाम् इ प्रेयसा मय्य् अतिप्रेमवता मद्-अपराध-कोटीर् अगणयता तेनैव किं प्रेषितः ? तर्हि वरय वृणु किम् अनुरुन्धे अनुरुणत्सि कामयसे इत्य् अर्थः । यद् वा, कम् अनुरोधं ते सम्पादयामीत्य् अर्थः । तव मथुरा-गमनम् एव वृणोमीति चेद् यामि मथुराम् इत्य् उक्त्वापि पुनः पुर-स्त्री-वेष्टितं तं तत्र पश्यन्त्या मेऽवश्यं मानो भविष्यतीति परामृश्याह—नयसीति । दुस्त्यज-द्वन्द्वं मिथुनीभावो यस्य तस्य पार्श्वम् ।

नन्व् एकाकी स तत्र वर्तत् इति स-शपथं ब्रवीमीति । तत्राह—हे सौम्य ! आर्य-बुद्धिर् असीति भावः । श्रीर् एव वधूः साकं सहैव । तत्रापि सततं तत्राप्य् उरसि पुरुषायितत्वेनेति भावः । अयम् अर्थः—श्रियो देवीत्वेन नाना-रूप-धारित्व-शक्तेः श्री-कृष्णो यदा अन्याः स्त्रीः सम्भुक्ते तदा स्वर्ण-रेखा-रूपैव तद् वक्षसि तिष्ठति । यदा त्वम् अन्याह् स्त्रियो नायान्ति तदा रेखा-रूपतां त्यक्त्वा प्रकटम् एव युवतिर् भूत्वा तं रमयतीति । अत्रापि स्पष्टा लक्षण-सङ्गतिः ॥२०॥


॥ १०.४७.२१ ॥

अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते

स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् ।

क्वचिद् अपि स कथां नः किङ्करीणां गृणीते

भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन संमन्त्रिता सती ब्रूते—अपि बतेति । बत हर्षे । हे सौम्य ! गुरु-कुलाद् आगत्यार्य-पुत्रः कृष्णोऽधुना किं मधु-पुर्यां वर्तते ? कदाचिद् अपि नोऽस्माकं वार्ताः किं ब्रूते? अगुरुवत्सुगन्धं भूजंनो मूर्ध्नि कदानु धास्यतीति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेनोद्धवेन । संमन्त्रिता सम्बोधिता । अपि बतेत्य् अव्यय-द्वयं सम्प्रश्ने । गुरुकुलाद् उज्जयिनीतः । आर्यस्य पूज्यस्य वसुदेवस्य पुत्रः।

आर्यो वेदानुगे पूज्ये श्वशुरे वैश्यजे गुरौ । > ब्राह्मणादिषु वर्णेषु चाश्रमेषु चतुर्षु च ॥ इति धरणिः ।

स कृष्णः । पितुर् नन्दस्य गेहान् भार्याम्, बहुत्वं पूजायां, यशोदाम् इत्य् अर्थः । बध्नन्ति स्नेहेनेति बन्धवः स्त्री-जनाः, गोप्य इत्य् अर्थः । च-काराद् गो-गृह-गिरीणां ग्रहः । यद्य् आगमिष्यत् तद् आधास्यन् न सन्देहोऽत्रातस् तद्-आगमनं पृच्छामीति वा । अत्र च सुजल्पेनोक्तम् ।

यत्रार्जवात् स-गाम्भीर्यं स-दैन्यं सह-चापलम् ।

सोत्कण्ठं च हरिः पृष्टः स सुजल्पो निगद्यते ॥ [उ।नी। १४.२१७] इति ॥२१॥


कैवल्य-दीपिका : मनो-गतं पृच्छति—अपि इति । बत अहो । मधुपुरी मथुरा । आर्यस्य वसुदेवस्य पुत्रः क्वचिद् अपि कस्मिन्न् अपि प्रसङ्गे कथां वार्तां गृणीते करोतीत्य् अर्थः । अपीति निपातः सम्बोधने । धास्यत् धास्यति । तु-शब्दः प्रश्ने ॥२१॥ [मु।फ। १२.७१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निराकाङ्क्षतां प्रतिपादयन्ती निराकाङ्क्षम् इव गच्छन्तं तं मत्वा पुनर् आह—अपि बत इत्य्-आदि । अपि प्रश्ने, बत खेदे । हे सौम्य ! आर्यस्य वसुदेवस्य पुत्रः, न त्व् अधुना नन्द-पुत्रः । स कथम् अस्माकं भविष्यतीति स्व-रसः, अधुना मधुपुर्याम् आस्ते ? किं ततोऽपि दूरं गत इति वाक्य-शेषः ? मधुपुरी-स्थितत्वे कदाचिद् वार्ता सुख-लभ्या भवति, तत्रैवास्ते इति चेत्, स पिटृ-गेहान् स्मरति ? पुंलिङ्गम् आर्षम् । स्मरत्य् एव किं ? गोपान् बन्धून् स्मरति ? स्मरत्य् एव किं ? अपि क्वचित् समय-विशेषे किङ्करीणां नोऽस्माकं कथा गृणीते ? अस्माकं स्मरणं तु दूरम् आस्ताम्, कथां किं स्मरतीति वक्रोक्तिः । गृणीत एव, अन्यथाकथं प्रेषितोऽहं ? एवं चेत्, भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु इत्य् औत्कण्ठ्योदये पर्याप्तिः ॥२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं निज-प्राण-नाथे सर्व-सद्-गुण-मये विरहार्ति-भर-जनित-क्रोधोद्रेकेण कठिनतरोक्त्या विशेषतः प्रेम-वेगोदयेन परमार्ता सती सार्जवम् इव स-गाम्भीर्यं स-दैन्यं स-चापल्यं सोत्कण्ठम् उच्चै रुदती पृच्छति—अपीति प्रश्ने । अस्य वाक्य-त्रयेणैवान्वयः । बत भो दूत । यद् वा, सुखम् इत्य् अर्थः । आर्यस्यश्री-गोपेन्द्रस्य पुत्रोऽस्मत्-स्वामीति वा । प्राग् अयं प्रश्नः । मधुपुर्याम् अवस्थित्या नैकट्येन व्रजागमन-सम्भवात् ।

ननु देवि। तत्रासौ सुखम् आस्त एवेति चेत् तर्ह्य् अत्रत्यान् किं स्मरतीत्य् अन्यत् पृच्छति । एवम् अग्रेऽपि व्याख्येयम् ।पूर्व-पूर्वस्मिन्न् अतृप्त्प्योत्तरोत्तर-प्रश्नो ज्ञेयः । स मधु-पुर-निवासी व्रज-जनैक-जीवातुर् आर्य-पुत्रः पितुः श्री-व्रजेन्द्रस्य गेहान् गेहानीति जन्म-भूमित्वादिना स्मरण-योग्यतोक्ता । बहुत्वं व्रजस्येतस् ततो गमनेन पुत्र-सुखार्थं स्थाने स्थाने विचित्र-गृह-निर्माणात् ।

यद् वा,नित्य-निवास-मूल-स्थाने श्री-नन्दीश्वराख्य एव दिव्य-महा-प्रासाद-बाहुल्यात् । किं वा, निकुञ्जाद्य्-अपेक्षया । एवं पित्रोः स्मरण-प्रश्नोऽप्य् आयात एव । यद् वा, पितरौ गृहांश् च निजान् स्मरति । तेषाम् एव तद्-गृहत्वाद् विशेषेणाप्रयोगः । तत्-स्मरणेनापि तत्-सम्बन्धेन निज-स्मरण-सम्भावनया । किं वा, स्वतस् तेषु स्नेहेनैव तत्-स्मरण-प्रश्नः ।

हे सौम्य ! सोम-वंशोद्भव ! महा-कुल-प्रसूतत्वाद् वञ्चना न कार्या इति भावः । बन्धून् ज्ञातीन् उपनन्दादीन् गोपांश् च श्रीदामादीन् । यद् वा, गोपानाम् एव विशेषणम्—बन्धून् सखीन् इति । अयं स्मरणे हेतुः । क्वचित् कस्मिंश्चित् प्रसङ्गे स्थानेऽवसरे वा स श्रीदाम-प्रियसखोऽस्मत्-प्राणनाथो वा गृणीते स्व-मुखेनोच्चारयेद् अपि ।

तत्र योग्यताम् आह—किङ्करीणाम् इति । बहुधा कृत-सेवानां किं वा, स्वयम् एव दासीभूतानाम् इत्य् अर्थः । कथा इति बहुत्वं किङ्करीणां बहुत्वात् । किं वा, प्रत्येकं कथाया वैचित्र्या स्वत एव बाहुल्यात् । अगुरु-सुगन्धम् इति ध्यान-विशेषेणसाक्षात्-तत्-सौरभ्यम् अनुभवन्तीव भाव-विशेषं द्योतयति—मृध्नि धास्यतीति स्पर्श-विशेषापेक्षया । यद् वा, तन्-मात्रेणापि कृतार्थता-मननात् । तत्र च मूर्ध्नीति सर्वाङ्ग-श्रेष्ठे धारणेन सर्वाङ्गेष्व् एव धारण-सिद्धेः। किं व, परम-दैन्येन तस्मिन् धारणस्यापि बहु-मानात् । यद् वा, रासाभिप्रायेण कण्ठ इति वक्तव्ये लज्जादिना मूर्ध्नीति धारणे हेतुः । किङ्करीणाम् इत्य् एव । तु प्रश्ने । पूर्वम् अपीत्य् उक्तेऽपि पुनर् नु-शब्दोऽत्यन्तार्ति-प्रश्नात् । यद् वा, किं न्व् इत्य्-आदिवत् कदाचिद् इत्य् एकम् एव पदम् ।

एवं प्रश्नानां चतुर्णाम् एषां यथोत्तरं लालसाधिक्येन श्रैष्ठ्यं ऊह्यम् ।अन्यत् तैर् व्याख्यातम् ।

यद् वा, बत खेदे । अधुनाप्य् आस्ते किं ? एतावन्तं बहु-कालं तत्र स्थातुं नार्हतीति भावः । यत आर्यपुत्रः । सौम्याश् च ते बन्धवश् च तान् इति । सुप्रकृतित्वादिना स्मरण-योग्यतोक्ता । मूर्ध्नीत्य् एकत्वं लालसा-विशेषेण दैन्य-भरेणैव वा । केवलम् आत्मापेक्षया। मे इति साक्षाद्-अनुक्तिर् धार्ष्ट्य-परिहारार्थं वैदग्धी-विशेषेण वा । प्रेम-भर-स्वभावेनैव वेति दिक् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो किं किं मया प्रलपितं ? प्रष्टव्यं तु न पृष्टम् इति पर्यवसाने सार्जवं स-गाम्भीर्यं स-दैन्यं स-चापलं सोत्कण्ठं स-गद्गद-बाष्प-धारं पृच्छति—अपीति । अपि प्रश्ने अस्यचरण-त्रय-मय-वाक्य-त्रयेणाप्य् अन्वयः । बत भो दूत ! आर्य-पुत्र इति रूढ्या वृत्त्या आर्यस्य श्री-गोपेन्द्रस्य पुत्र इति तच्-छब्देन स एवास्माकं वास्तवः पतिः, अन्यस् तु लोक-प्रतीति-मात्र-मयः । बॢअयम् आरभ्यान्यत्रास्मदीय-भावाभावाद् इति व्यञ्जितम् ।तद् उक्तम् इति गोप्यो हि गोविन्दे [भा।पु। १०.४७.९] इत्य्-आदिना । इत्य् आर्जवम् ।

तत्र मधुपुर्याम् आस्ते इति प्राग् अयं प्रश्नश् चिरात् सन्देशस्याप्य् अनागमनात्, न तु केवलतयातिदूर-गुरुकुल-गमन-श्रवणात्, तच्-छ्रवणे सति व्यग्रतया प्रथमं तद् एव पृच्छ्येत, न तु मान-भङ्गी प्रसङ्गं लभेत, यस्माद् एव व्रज-नर-देवेनापि तन् न पृष्टं तदश्रवणं च प्रथमं लब्ध-गायत्री-पुरश्चरणार्थं गुप्त-वास-व्याजेन तत्-प्रख्यानात् स च व्याजः शत्रुभिर् अतिक्रान्ति-भयात् व्रज-स्थानाम् एषां महा-दुःखस्य च शङ्कितत्वाद् इति ज्ञेयम् ।तद् एवम् अन्यत्र गमनाज्ञानेऽपि सोऽयं प्रश्नस् तूपालम्भकं गाम्भीर्यं व्यनक्ति । इति गाम्भीर्यम् ।

ननु देवि तत्रासौ सुखम् आस्त एवेति चेत्, तर्हि अत्रत्यान् पित्रादीन् किं स्मरतीत्य् अन्यत् पृच्छति स्मरतीत्य् आदि । एवम् अग्रेऽपि व्याख्येयम् ।पूर्वस्मिन्न् अतृप्त्योत्तरोत्तरः प्रश्नो ज्ञेयः । तत्र पित्रादि-स्मरण-गर्भित-तद्-गृह-स्मरणं पृच्छति । स मधु-पुरी-निवासी रोचमान-तत्-पुर-चिर-वासो वा । तत्र विलम्बमानो वा व्रज-जनैक-जीवातुर् वा । आर्य-पुत्रः पितुर् व्रजेन्द्रस्य गेहान् इति जन्म-भूमित्वादिना स्मरण-योग्यतोक्ता बहुत्वं व्रजस्येतस् ततो गमनेन पुत्र-सुखार्थं स्थाने स्थाने विचित्र-गृह-निर्माणात् श्री-नन्दीश्वराख्ये शैले एव दिव्य-प्रासाद-बाहुल्याद् वा गेन-शब्देन तत्-स्थ-पितृ-मातृ-तल्-लालनं तत्र स्वकीय-बाल्य-लीलादिकम् उपलक्ष्यते । बन्धून् ज्ञातीन् उपनन्दादीन् गोपांश् च श्रीदामादीन् क्वचित् कस्मिंश्चित् स्थानेऽवसरे वा स श्रीदाम-प्रिय-सखोऽस्मत्-प्रिय-नाथो वा गृणीते स्व-मुखेनोच्चारयेत् ? इति ।

तत्र योग्यताम् आह—किङ्करीणाम् इति । बहुधा कृत-सेवानाम् इति दैन्यम् । बहुत्वं किङ्करीणां बहुत्वम् । विविध-सुबहु-वृत्तान्त-गर्भ-वाक्य-प्रबन्ध-रूपाः इति प्रत्येकं कथाः वैचित्र्या स्वत एव बाहुल्याच् च । कथाम् इति पाठे एकाम् अपि अगुरु-सकाशाद् अपि सुष्ठु गन्धो यस्यतादृशं भुजम् इति ध्यान-विशेषेणसाक्षात् सौरभम् अनुभवन्तीवोत्कण्ठावेशं द्योतयति । मूर्ध्नि धास्यतीति दैन्यात् किङ्करीत्वम् एव सर्व-विघ्न-निवारण-पूर्वकं स्थापयिष्यतीत्य् अर्थः । इति चापलम् ।

कदेति तत्रानिश्चयेन परम-वैकल्यं सूचयति—तत्रापि वितर्के नु-शब्दो विचारतोऽप्य् अनिश्चयं सूचयतीति परमोत्कण्ठा-परकाष्ठा दर्शिता । पूर्वम् आर्य-पुत्र इत्य् उक्त्या स्वस्य तद्-वधूत्वं स्थापयित्वा सम्प्रति किङ्करीत्व-स्थापना-प्रार्थना दैन्याद् एव । तात्पर्यं तु तद्-वधूत्वम् एव यथा नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः [भा।पु। १०.२२.५] इति सङ्कल्प्यापि श्यामसुन्दर ते दास्य इति [भा।पु। १०.२२.१५] कुमारीभिर् उक्तम् । तद्वत् तस्याहं गृह-मार्जनीत्य्-आदि श्री-कालिन्द्य्-आदि-वचनवच् च । अन्यत् तैः ।

यद् वा, बत खेदे । अधुनापि मधुपुर्याम् एवास्ते किम् एतावन्तं कालं तत्र स्थातुं नार्हति, किन्तु शीघ्रम् आगन्तुम् अर्हतीति भावः । यतः आर्य-पुत्रः सौम्याश् च बन्धवश् च तान् इति सुप्रकृतित्वादिना स्मरण-योग्यतोक्ता ॥२१॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४१३): अन्ते स-दैन्यम् आह—अपि बतैति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : निराकाङ्क्षतां प्रतिपादयन्ती निराकाङ्क्षम् इव गच्छन्तं तं मत्वा पुनर् आह—अपि बतेत्य्-आदि । अपि सम्बोधने प्रश्ने वा, बत खेदे । हे सौम्य । आर्य-पुत्रो व्रजराज-पुत्रोऽधुना मधुपुर्याम् आस्ते, किं ततोऽपि दूरं गत इत्य् अधुना-शब्द-द्योत्यम् । मधुपरी-स्थितत्वे सुख-लभ्या भवति तद्-वार्ता । तत्रैवास्त इति चेत्, स किं पितृ-गेहान् स्मरति ? पुंस्त्वम् आर्षम् । स्मरत्य् एवेति चेत् गोपान् स्मरति, स्मरत्य् एव । किं बन्धून् वयस्यान् स्मरति ? स्मरत्य् एव । भद्रं भद्रम् । किङ्करीणां नोऽस्माकं क्वचिद् अपि प्रस्ताव-विशेषे कथां गृणीते कथयति ? कथयत्य् एव । सततम् एवेति चेत् कदा नु ? भो नोऽस्माकं मूर्ध्नि अगुरु-सुगन्धं भुजम् अधास्यत् धास्यति, विभक्ति-व्यत्ययः । इतः परं बाष्प-रुद्ध-कण्ठत्वात् तूष्णीम् एव तस्थौ । अत्राप्य् उन्मादोऽङ्गी, वितर्कौत्कण्ठ्यादयोऽङ्गानि । संलाप उक्ति-वैचित्र्यम् ॥२१॥


विष्णुदासः(उ।नी। १४.२१८) : अथ सुजल्प इति । यत्रेति आर्जवात् सरलत्वात् हेतोः सगाम्भीर्यम् इत्य्-आदि पद-चतुष्टयं क्रिया-विशेषणम् । तेन संमन्त्रितंमन्या सती तस्यात्रागमनम् एवास्माकं श्रेय इति निश्चित्य दाक्षिण्येन तं पृच्छति । अपीति प्रश्ने । अस्य वाक्य-त्रयेणैव सम्बन्धः । बत भो दूत ! खेदानुकम्पा-सन्तोष-विस्मयामन्त्रणे बत इति नानार्थ-वर्गात् । आर्य-पुत्रः श्री-कृष्णः अधुना सम्प्रति मधुपुर्याम् आस्ते, तत्र स्थित्या नैकट्येन व्रजागमन-सम्भावनाद् इति गाम्भीर्यम् । ननु देवि, तत्रासौ सुखम् आस्त एवेति चेत् तर्हि अत्रत्यान् किं स्मरतीत्य् अन्यत् पृच्छति—स्मरतीत्य् आदि । एवम् अग्रेऽपि तत्-प्रश्न-स्वीकारे व्याख्येयः । स व्रज-जनैक-जीवन-रूपः पितुर् व्रजेन्च्रस्य गेहान्, बहुत्वं नन्दीश्वर-शैल एव दिव्य-प्रासाद-बाहुल्यात् । गेह-शब्देनात्र तत्-स्थ-पितृ-मात्र्-आदि-तल्-लालन्-तत्रकीय-बाल्यादि-लीलादिकं लक्ष्यते । बन्धून् ज्ञातीन् उपनन्दादीन् गोपांश् च श्रीदामादीन् । क्वचित् कस्मिंश्चित् अवसरे स्थाने वा स अस्मद्-एक-प्राण-रूपः नः अस्माकं कथाम् एकाम् अपि गृणीते स्व-मुखेनोच्चारयेत् । तत्र योग्यताम् आह किङ्करीणां स्वयम् एव दासी-भूतानां, वक्षः-श्रियैक-रमणं च भवाम दास्यः [भा।पु। १०.२९.३९] इत्य्-आदिना, अशुल्क-दासिकाः [भा।पु। १०.३१.२] इत्य्-आदिना च पूर्वं ताभिर् एव तत्-समर्थनात्—अनेन दैन्यम् । अगुरुतोऽपि सुष्ठु गन्धो यस्य तादृशं भुजं मूर्ध्नि मस्तकेऽधास्यत् धास्यतीति चापलम् । कदेति निश्चयाभावात् परमोत्कण्ठा सूचिता । नु भो दूत इत्य् अनेन पुनः सम्बोधन-पदेन तद् अतिशय एव व्यञ्जितः । नु पृच्छायां विकल्पे च इति नानार्थ-वर्गात् ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हा हन्त मयोन्मत्तया किं प्रलप्यते ? प्रष्टव्यं तु न पृच्छ्यत इत्य् अनुतप्य स-सम्भ्रमम् आह—अपि बतेति । मधु-पुर्याम् आस्ते इत्य् अनुक्तेर् अस्मत्-प्रणय-स्मरण-व्याकुलोऽनुरोध-वशाद् एव तत्रास्ते, यत आर्यस्य यदुभिर् दुर्विनीतैः प्रतार्यमानत्वात् सारल्य-समुद्रस्य श्री-व्रज-राजस्य तद्-एक-प्राणस्य पुत्रः । हन्त हन्त मत्-पितापि मां व्रजं नेतुं नाशकत्, तद् अहं तत्र गन्तुं कम् उपायं करोमीति स विलम्बम् असहमानस् त्वां प्रस्थापयति स्मेति भावः । तेन मधुपुर्याम् आस्ते इति तस्य को दोषः ? यतः आर्यस्यातिसरलस्य स्व-परिणाम-दर्शितत्वेनापि शून्यस्य श्री-नन्दस्य पुत्रस् तादृशं स्व-पुत्रं तादृशः पिता यस् त्यक्त्वा व्रजम् आयास्यतीति, को जानातीति । यद्य् अज्ञा स्यात् व्रज-राज्ञी सा तावद् अक्रूर-रथारूढे स्व-पुत्रं कण्ठे कुर्वत्य् एव मथुराम् अयास्यत् । ताम् अनु गोपिका-श्रेण्यश् चेति व्रज-राजस्यार्यत्वम् एवास्माकं सर्व-नाशे कारणम् अभूद् इति भावः । अतस् तादृशस्यापि पितुर् अतिसरलस्य वसुदेवेन महा-प्रतारकेणाच्छिद्य गृहीत-पुत्रस्य व्रजम् आगत्य मूर्च्छया पतित्वा स्थितस्य गेहान् कोषागार-रन्धनागार-शयनासनागारादीन् सम्प्रत्य् अमार्जितालिप्तत्वेन तृण-धूलि-पत्र-लूता-तन्तु-वृतान् शून्यायितान् स्मरति कच्चित् ? तथा गेहान्तरेषु बन्धून् सुबलादीन् सम्प्रति मूर्च्छितान् । क्वचिद् अपीति । यदा तस्य मनोऽभिरुचितं कैङ्कर्यं कर्तुं पुर-स्त्रियो न जानन्ति तदैव तत्-सुखम् अनुपलब्धवतीभिस् ताभिः सुखानुपलम्भ-कारणं पृष्टो नोऽस्माकं कथां गृणीते वन-माला-गुम्फने, स्थासक-सम्पादने, वीटिका-निर्माणे, वीणा-वादने, राग-तालादि-सृष्टौ, गीत-नृत्य-रासादौ, सौन्दर्य-लावण्य-वैदग्ध्यादिषु, प्रश्नोत्तर-विलासे, सम्प्रयोग-लीलायां, प्रेम-स्नेह-मान-प्रणयादिषु, यथास्मद्-व्रज-स्था गोप्यो मां सुखयन्ति न तथा यूयम् इति गच्छत भो यदु-स्त्रियः स्व-स्व-पतीन् एव अलम् अलं युष्माभिर् अहं श्वः प्रातर् व्रजम् एव गच्छन्न् अस्मीत्य् उक्त्वात्रागत्य अगुरु-सुगन्ध-भुजम् अस्माकं मूर्ध्नि कदा अधास्यत् धास्यति ? तेन च समाश्वसितव्या भोः प्राण-प्रेयस्यः स-शपथम् इदम् अहं ब्रवीमि । भवतीस् त्यक्त्वा न क्वापि यास्यामि त्रिभुवन-मध्ये क्वापि युष्मत्-सदृश्य-गन्ध-लेशम् अपि नोपलब्धवान् अस्मीति व्यञ्जयिष्यति ।

अत्र प्रथम-चरणे आर्जवम् । द्व्क्तीये स्व-प्रसङ्गानुत्थापनेन गाम्भीर्यम् । तृतीये दैन्यम् । चतुर्थे चापलम् उत्कण्ठा च । अत्र चित्रजल्प-प्रलपन-माधुर्य-श्रवणोत्कण्ठया कृष्ण एव भ्रमर--रूपेण तत्रागत इत्य् ऐश्वर्य-पक्षीयाः । नायम् उन्मादः, किन्तु भ्रमरम् अपदिश्य श्यामं पीतांशुकम् उद्धवं प्रत्य् एवोक्ता दश-श्लोकीत्वन्य-देशीया आहुः ॥२१॥


॥ १०.४७.२२ ॥

श्री-शुक उवाच—

अथोद्धवो निशम्यैवं कृष्ण-दर्शन-लालसाः ।

सान्त्वयन् प्रिय-सन्देशैर् गोपीर् इदम् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्ण-दर्शनोत्सुका गोपीः प्रियस्य सन्देशैः सान्त्वयन् प्रथमं तावद् इदम् अभाषत् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ भ्रमर-गीताकर्णनोत्तरम् । एवं भ्रमरम् उद्दिश्य गीतम् । इदं वक्ष्यमाणम् ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेत्य् आरम्भे । सन्देशारम्भे प्रवर्तमान इत्य् अर्थः । तादृश-प्रेम-वैकल्योदये सद्यः किञ्चिद् अपि वक्तुम् अयोग्यत्वात् पश्चाद् आरम्भे कृतवान् इत्य् अर्थः ।एवम् एतद् अननुभूत-पूर्व-प्रेम-विलपितं निशम्य । सान्त्वयन् सान्त्वयितुम् । प्रियस्य सन्देशैर् इति तेषाम् अपि प्रियत्वं ध्वनितम् । यद् वा, प्रियैः सन्देशैः प्रकृतत्वात् कृष्णस्यैवेत्य् अर्थः । वक्ष्यमाणानां सन्देशानां प्रियैः सन्देशैः । प्रकृतत्वात् कृष्णस्यैवेत्य् अर्थः । वक्ष्यमाणानां सन्देशानां प्रियत्वं कृष्ण-सम्बन्धाद् एव । यद् वा, हे प्रियेति श्री-परीक्षित्-सम्बोधनम् ।प्रेम-भरोदयात् प्रेम-वैकल्योपशान्ताव् एव सत्यां सन्देशास् ते श्रुति-पथं प्रविशेयुः सफलाश् च स्युर् इति दैन्य-विरोधि-धन्यता-प्रतिपादनेनादौ वैह्वल्यं त्याजयितुं पूर्ववद् इदं वक्ष्यमाणम् अभाषत ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पूर्वोक्त-प्रकारं साक्षात् परम्परयाप्य् अश्रुत-चर-प्रेम-वचनं निशम्य । अथ प्रेम-विकार-शान्तेर् अनन्तरं सान्त्वयन् सान्त्वयितुम् इदं श्री-कृष्णैश्वर्यं तत्-प्रेम-महिम-ज्ञापन-मयत्या तादृश-प्रेम-विकार-स्तम्भनाय तासां श्लाघामयतया दैन्य-शमनाय च तथा वक्ष्यमाणं प्रयुक्तम् अन्यथा श्रवणशक्तेः गोपीः सम्भ्रमेण श्री-राधां साक्षाद् असम्भाष्यमाणां श्रावयन्न् अन्याः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.४७.२३ ॥

श्री-उद्धव उवाच—

अहो यूयं स्म पूर्णार्था भवत्यो लोक-पूजिताः ।

वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह षड्भिः—अहो इति । स्म नूनम् । यूयं पूर्णार्थाः कृतार्थाः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् वक्ष्यमाणम् । इति शब्दो हेतौ । यतो वासुदेवे मनोऽर्पितम् इति हेतोः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहो यूयं स्मेत्य् आदि । स्म एवार्थे पूर्णार्था एव । कुतः ? इति एवं-प्रकारेण यासां मनो भगवति वासुदेवेऽर्पितम् इति प्राण-वल्लभत्वेन, न त्व् अन्येषाम् इव मोक्षदत्वेन ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो आश्चर्ये हर्षे वा । स्म एव । अस्ययथापेक्षं सर्वैर् अप्य् अन्वयः । पूर्णाः साकल्येन संसिद्धा अर्थाः सर्वासाध्य-पदार्थाः यासांतथा-भूता यूयम् एव, न तु लक्ष्म्य्-आदयः । अत एव लोकानां चतुर्दश-भुवनानांसर्व-जीवानां वा पूजिताः । वर्तमाने क्त-प्रत्ययः, पूज्या इत्य् अर्थः । यूयम् इति प्राक् प्रहर्षोदयेन, पश्चाच् च भक्त्या भवत्य इति । एवम् अग्रेऽप्य् ऊह्यम् । वासुदेवे सर्वान्तर्यामिनि भगवति षड्गुणैश्वर्ये । यद् वा,श्री-वसुदेव-नन्दने भगवति साक्षात्-परमेश्वरे श्री-कृष्णे, वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः [भा।पु। १०.१.२३] इत्य्-आदि-प्रसिद्ध्या । यद् वा, वसु-श्रेष्ठ-नन्दने श्री-गोपेन्द्र-तनये भगवति स्वयम् अनुभूतासमोर्ध्व-सौन्दर्य-विलासाढ्ये श्री-पुरुषोत्तमे इति श्री-कृष्णस्य सर्वत आधिक्य-कथनेन तासां पूर्णार्थतातिशय-बोधनार्थम् इति । एवं प्रेम-विशेषेण यासां याभिर् मनोऽर्पितम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो आश्चर्ये । अदृष्टाश्रुतं खल्व् एतद् इति भावः । स्म निश्चये । यूयम् एव यूयं भवत्य इति पद-द्वयेन तासाम् आवृत्तिर् अत्यन्तादरेण वर्तमाने क्तः । पूर्ण-स्वरूपेणसर्वैश् च गुणैःसर्वोद्रिक्तः अर्तः श्री-कृष्ण-प्रेम-लक्षणो यासां ता इति स्वतः सम्पत्तिः । अत एव लोकैर् अन्यैःसर्वैर् एव पूजिता इति परतोऽपि । यद् वा, यूयं पूर्णार्था इति श्री-राधाद्याः प्रति । भवत्यो लोक-पूजिता इति अन्याः प्रतिज्ञेयं यासांवासुदेवे सर्वाश्रये सर्वांशिनि भगवति सर्वैश्वर्यादीनांपरमाश्रये स्वयं भगवति श्री-कृष्णेइत्य् अर्थः । अनेन महा-प्रेम-प्रकारेण । यासाम् इति भर्तरि सम्बन्ध-मात्र-विवक्षया षष्ठी । मनसः स्वातन्त्र्येण कर्म-कर्तृत्व-बोधनार्थम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तासाम् अलौकिक-प्रेम-चमत्कारेण विस्मित-मनाः सन् उद्धवो वदति—अहो यूयम् इत्य्-आदि । हे भवत्यः ! यूयं पूर्णार्थाः, स्म एवार्थे स्म-शब्दः । अत एव लोक-पूजिताः । लोकानां चतुर्दश-भुवनानाम् । कुतः ? वासुदेवे भगवति यासाम् इति । एवं-प्रकारेण प्राण-वल्लभ-भावेनेति यावत् अर्पितम् । वसुदेव-शब्दोऽत्र व्रज-राज-पर एव । वसुभिर् गोधनैर् दीव्यतीति व्युत्पत्तेः । द्रोणो वसूनां प्रवरः [भा।पु। १०.८.४८] इति वसु-द्रोणः, तेनापि दीव्यति, तस्य तन् न लीनत्वाद् इति वा ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो इति । स्म नूनम् । यूयं पूर्णार्थाः कृतार्थाः । यासां मन इति एवं-प्रकारेण भगवत्य् अर्पितम् इत्य् अन्वयः । अन्येषाम् अपि भक्तानां मनो भगवत्य् अर्पितं दृढम्, किन्त्व् एवं-प्रकारेण तु न दृष्टम् इति भावः ॥२३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४७.२४ ॥

दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः ।

श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रेयोभिः श्रेयः-साधनैः ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शास्त्रतो नियम-करणं व्रतम् । स्वाध्यायो वेदाभ्यासः । संयम इन्दिर्य-निग्रहः । अन्यैस् तीर्थाटन-सत्सङ्गादि-रूपैः । विशेषेण विधिर् येषां सन्ध्याग्नि-होत्रादीनां ते विविधाः । अच् प्रत्यन्वव इत्य् अत्राजिति योग-विभागाद् अच् । अहरहः सन्ध्याम् उपासीत, यावज् जीवम् अग्निहोत्रं जुहुयात् इत्य्-आदि-श्रुतिभिः । अन्यैर् इत्य् उक्तेर् विविध-पद-वैयर्थ्य-शङ्का-वारणायायम् अर्थः । तद् एव कैमुत्येन प्रतिपादयति—दानेति । दानाद्य्-आत्मकानि यानि श्रेयांसि । अन्यैश् च योग-साङ्ख्य-ज्ञानादिभिः कृष्णेऽपि तैः सद्भिः ।


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु श्री-कृष्ण-प्राप्त्यैव पूर्णार्थता स्यान् न तु मनोऽर्पण-मात्रेण, तत्राह—दानेति द्वाभ्याम् । व्रतं कृच्छ्रादि । तपः स्वधर्मः । होमो हवनं यज्ञः । स्वाध्यायो वेदाभ्यासः । संयमः सर्वेन्द्रिय-नियमः । दान-जपौ प्रसिद्धौ । एते च प्राय आवश्यकत्वात् सर्व-कर्म-श्रेष्ठतया लोके प्रसिद्धत्वाच् च व्यक्तम् उक्ताः । श्रेयांसि ज्ञानादीनि । अन्ये च मोक्षादयस् तैः । विविधैर् इति प्रत्येकं सर्वेषां विशेषणम् । तत्र मोक्षस्य विविधत्वं न्याय-वेदान्तादि सिद्धान्त-भेदेन सालोक्यादि-भेदेन वा । अन्यत् स्पष्टम् । दानादीनाम् एषां भक्ति-साधनत्वे यथोत्तरं श्रैष्ठ्यम् । कृष्णे परमेश्वरे । हि एव । भक्तिर् एव या काचित् साध्यते, अन्यथा तेषां वैयर्थ्यात् । तच् चोक्तं—धर्मः स्वानुष्ठितः पुंसां [भा।पु। १.२.८] इत्य्-आदिना ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदैव कैमुत्येन प्रतिपादयति—दानेति । दानाद्य्-आत्मकानि यानि श्रेयांसि । अन्यैश् च विविधैर् योग-साङ्ख्य-ज्ञानादिभिः कृष्णेऽर्पितैः सद्भिः नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् इत्य् आद्य् उक्तेः । कृष्णे स्वयं भगवति भक्तिः श्रवणादि-रुचि-मात्रं साध्यते, स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे [भा।पु। १.२.६] इति । धर्मः स्वानुष्ठितः पुंसां विष्वक्षेन [भा।पु। १.२.७] इत्य् अन्वय-व्यतिरेकाभ्याम् । तत्र व्रतं नियमः, तपः कृच्छ्रादि-संयम इन्द्रिय-निग्रहः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गोप्यः किम् आचरत् [भा।पु। १०.२१.९] इतिवद् भक्तिः श्रवणादि-रुचिः साध्यते ॥२४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यच् चेत्य् आह—दान-व्रतेत्य् आदि द्वाभ्याम् । दानादिभिर् विविधैर् अन्यैश् च श्रेयोभिर् हि निश्चितं कृष्णो भक्तिः साध्यते । दानादीनि यदि कृष्णेऽर्पितानि भवन्ति, तदा तान् मद्-भक्तेः साधनानि भवन्तीति भावः । किन्तु सा सा भक्तिर् अनुत्तमा । न विद्यते उत्तमा यस्याः सा, तथा न भवति, साधनत्वात् । अनुत्तमा अहैतुकी साध्यानुभावा भवतीभिः प्रवर्तितेति वाक्यार्थः । दिष्ट्या भाग्य-विशेषेण लोकानाम् इति शेषः , न तु दानादीनाम् । तेषाम् अनुत्तमायाः प्रेम-भक्तेः कारणत्वम् अयोग्यत्वात् । कीदृशी ? मुनीनाम् अपि दुर्लभा, तैर् अपीयं विशेषेणानिर्दिष्टा प्रवर्तितेति । ईदृश्या भक्तेर् भवत्य एव सम्प्रदाय-प्रवर्तिकाः । इतः परं भाग्य-भाजः ईड्र्शम् एव प्रेम भगवति करिष्यन्तीत्य् अर्थः । अतो भवत्यः पूर्णार्था एवेति यद् उत्तम तद् अतीव साध्व् इति शेषः ॥२४-२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र दानं विष्णु-वैष्णव-सम्प्रदानकम् । व्रतम् एकादश्य्-आदिकम् । तपः कृष्णार्थ-भोग-त्यागादि । होमो वैष्णवः । जपो विष्णु-मन्त्राणाम् । स्वाध्यायो गोपाल-तापन्य्-आदि-पाठः । श्रेयांस्य् अपि भक्त्य्-अङ्गान्य् अपि ज्ञेयानि । अन्येषां दानादीनां भक्ति-हेतुत्वाभावस्य प्राक् प्रतिपादितत्वात् ॥२४॥

विश्वनाथ (माधुर्य-कादम्बिनी १.८): किं च, स्वेच्छावतार-चरितैः [भा।पु। ४.८.५७] इति, स्वेच्छा-मयस्य [भा।पु। १०.१४.२] इत्य्-आदि प्रमाण-शतैर् अवगतेन स्वाच्छन्द्येनावतरतोऽपि तस्य भू-भार-हरणादेः स्थूल-दृष्ट्या हेतुत्वे इव निष्काम-कर्मादेः क्वापि द्वारत्वेऽपि न क्षतिः । किं च—

यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।

व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा।पु। ११.१२.९]

इत्य्-आदिना दान-व्रतादीनां स्पष्टम् एव हेतु-खण्डनेऽपि—

दान-व्रात-तपो-होम-जप-स्वाध्याय-संयमैः ।

श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भा।पु। १०.४७.२४]

इति यद् धेतुत्वं श्रूयते तत् खलु ज्ञानाङ्ग-भूतायाः सात्त्विक्या एव भक्तेर् न तु निर्गुणायां प्रेमाङ्ग-भूतायाः । केचित् तु दानं विष्णु-वैष्णव-सम्प्रदानकम्, व्रतान्य् एकादश्य्-आदीनि, तपस् तत्-प्राप्ति-हेतुको भोगादि-त्याग इति साधन-भक्त्य्-अङ्गान्य् एवाहुः । तत्-साध्यत्वे भक्तेः भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१] इतिवत् निर्हेतुकत्वम् एव सिद्धम् इति सर्वं समञ्जसम् ॥२४॥


॥ १०.४७.२५ ॥

भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा ।

भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुत्तमा अति-श्रेष्ठा ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुर्लभेति भक्तेर् अवश्य-कर्तव्यताम् आह ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भगवत्य् उत्तमःश्लोके, श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते[भा।पु। १०.४७.२४] इति सर्व-शास्त्र-प्रतिपाद्यम्, किन्तु भवतीभिर् अनुत्तमा भक्तिः प्रवर्तिता न विद्यते उत्तमा यस्याः सा तथा भवतीभिर् एव प्रचारिता, मुनीनाम् अपि दुर्लभा मुनिभिर् अपि न दृष्टेत्य् अर्थः । अतः परं भवतीनां दृष्टान्तेन प्रायः सर्वः एवैतादृशीं भक्तिं करिष्यति ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भवतीभिस् तु भगवति सर्व-निजैश्वर्य-प्रकटके, अत उत्तम-श्लोके तस्मिन्न् अनुत्तमा प्रेम-लक्षणा, प्रवर्तिता स्वाचारेण लोकेषु प्रचारितेति यद् एतद् दिष्ट्या भद्रं जातम् इत्य् अर्थः । स्वत एव सर्व-लोकस्य परम-हित-सिद्धेः । न चैषात्मानुमानेन सर्वेषां सुलभा मन्तव्येत्य् आह—मुनीनाम् इति श्री-सनकादीनाम् अपि । एवं भक्तिर् एव परम-फलम् । ततश् च श्री-कृष्णः स्वत एव वश्यः स्याद् इति तात्पर्यम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवतीनां तु महा-भावात्मिका भक्तिर् नित्य-सिद्धैव, ततः सा किं श्लाघ्या, किन्तु तच्-छिक्षया लोकानां भाग्यम् एव श्लाघ्यम् इत्य् आह । भवतीभिर् भगवति सर्व-निजैश्वर्य-प्रकटके, अत उत्तम-श्लोके तस्मिन्न् अनुत्तमा सर्वतोऽपि श्रेष्ठा महा-प्रेम-लक्षणा प्रवर्तिता स्व-दर्शन-श्रवण-प्रभावेन लोकेषु प्रचारितेतिवत् । यथा वक्ष्यते—सर्वात्म-भावोऽधिकृतः इत्य्-आदि । यथा च प्रोचे—विक्रीडितं व्रज-वधूभिः [भा।पु। १०.३३.४२] इत्य्-आदि । एतद् दिष्ट्या भद्रं जातम् इत्य् अर्थः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवतीनां तु महा-भावात्मिका भक्तिर् नित्य-सिद्धैव । ततः सा किं श्लाघ्या किं तु तच्-छिक्षया लोकानां भाग्यम् एव श्लाघ्यम् इत्य् आह । प्रवर्तिता स्वाचारेण श्लोकेषु प्रचारितेति यत् एतद् दिष्ट्या भद्रं जातम् इत्य् अर्थः ॥२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : २४-साङ्ख्यक-श्लोको द्रष्टव्यः ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवतीनांभक्तिस् त्व् अन्यैव सर्व-विलक्षणेत्य् आह—भगवतीति । अनुत्तमा सर्व-श्रेष्ठा । प्रवर्तितेति प्राग् इयं नासीत्, परं तु भवतीनां रागात्मिकां भक्तिम् अनुसृत्यैव रागानुगा भक्तिर् लोकैःक्रियमाणा प्रचरिष्यतीत्य् अर्थः । प्रवर्तितेति, आशंसायांभूतवच् च इति निष्ठा । दिष्ठ्या लोकानाम् अतिभाग्येन ॥२५॥


॥ १०.४७.२६ ॥

दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च ।

हित्वावृणीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवृणीत वृतवत्यः ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत् कृष्णाख्यं पुरुषम् अवृणीतेति योज्यम् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तद् ईदृश-भक्तिमती लक्ष्मीर् इव श्लाघ्यताम्, वयं तु परमास्वतन्त्रत्वात् तादृश-भजनासमर्थाः, तत्राह—दिष्ट्येति । एतच् चातीव भद्रं जातम् इत्य् अर्थः । स्वजनं भ्रातृ-भगिन्य्-आदिकम् अवृणीत स्व-कान्ततया स्वीकृतवत्यः, परं पुरुषं पुरुषोत्तमम् । तत्र च कृष्ण इति आख्या नाम ख्यातिर् वा यस्य तम् । इत्य् अशेष-रूप-गुणादि-प्रकटनेन माहात्म्य-विशेष उक्तः । पुत्रादीनां त्यागस् तत्-तत्-स्नेह-त्यागेन साक्षात् परित्यजनेनैव वा । ततश् च देहानां त्यागस् तत्र नैरपेक्ष्येण मृत-तुल्यतावाप्तेः । त्यागस्य यथोत्तरं न्यूनताभिप्रायेण तत्-तत्-क्रमेण निर्देशः । अत एवाप्य्-अर्थे च-कारः । इति भक्तेर् एव प्रकार-विशेषेण लक्ष्मीतोऽपि यूयं परम-धन्या इति भावः ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भक्ति-प्रवर्तन-रीतिम् एव स्पष्टयति । यद् यस्मात् पुत्रादीन् तत् तन् मन्यान् निज-कृष्णैकालम्बन-स्वाभाविक-भाव-बलेन हित्वा अवास्तव-बुद्ध्या परित्यज्य कृष्णेति आख्या ख्यातिर् यस्य तं परं पुरुषं नराकृति-पर-ब्रह्म-रूपं यूयम् अवृणीत वास्तव-कान्ततया स्वीकृतवत्यः । तद् दिष्ट्या भद्रं लोकानां महद्-भाग्यम् इत्य् अर्थः । भवतीनांतादृश-चरितं दृष्ट्वा श्रुत्वान्ये च तथा प्रवर्तेरन्न् इति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्ति-प्रवर्तनै रीतिम् एव स्पष्टयति । दिष्ट्या पुत्रान् इति ॥२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : २४-साङ्ख्यक-श्लोको द्रष्टव्यः।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुत्रादीन् ममतास्पदानि त्यक्त्वा कृष्णाभिधानं परं पुरुषं स्व-सम्भोक्तृत्वेन यत् अवृणीत एतद् दिष्ट्या ममातिभाग्येनैव ॥२६॥


॥ १०.४७.२७ ॥

सर्वात्म-भावोऽधिकृतो भवतीनाम् अधोक्षजे ।

विरहेण महा-भागा महान् मेऽनुग्रहः कृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वात्म-भाव एकान्त-भक्तिः । अधिकृतः प्राप्तः । भगवत्-प्रेम-सुख-प्रदर्शनेन ममैव महान् अनुग्रहः कृत इति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विरहेणेत्य् अस्यैवायं प्रपञ्चः भगवत्-प्रेम-सुख-दर्शनेनेति ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेन सह भवतीनां विरहो नास्त्य् एव, यतोऽधोक्षजे कृष्णे सर्वात्म-भावोऽधिकृतोऽधिकारी । स एव तम् उपसन्नीकरिष्यति । किन्तु ममैवानुग्रहार्थं भवतीनां विरह-व्यपदेशः, अन्यथा भवच्-चरण-दर्शनं कुतो मे स्याद् इत्य् आह—विरहेणेत्य्-आदि । हे महा-भागाः ! ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि तेन सह वियोगो न स्यात् । सत्यम्, स तु भक्तेर् एवोत्कर्ष-विशेषार्थम् इत्य् आह—सर्वेति । अधोक्षजे इन्द्रिय-वृत्त्य्-अगोचरत्वेऽपि भगवति सर्वात्मना सर्वेन्द्रिय-वृत्तीनां तद्-एक-निष्ठत्वादिना भावः प्रेमा विरहेणाधिकं कृतः । हे महा-भागा इति परम-भाग्यवतीनां भवतीनाम् एवायं सम्भवेत्, न त्व् अन्य-जनस्येति सर्व-प्रिय-जनेभ्यो यूयं धन्यतमाः । किं पुनर् महा-लक्ष्म्याः सकाशात् । अतोऽस्मत्-प्रभुर् असौ भवतीभिर् एव वशीकृत इति भावः । महान् इति तैर् व्याख्यातम् । यद् वा, ईदृशोऽद्भुतः कोऽपि महा-भाव एकोऽवश्यं वर्तते न वेति बुद्ध्या चिरम् अनुमीयमानोऽप्य् अदृष्टाश्रुतत्वान् मादृशां भक्तानां विश्वसनीयो न स्यात् । अधुना तु साक्षाद्-अनुभवेन ममात्राशाप्य् उत्पन्ना, इति महान् एवानुग्रहो भवतीभिः श्री-भगवतैव वात्र प्रेषणेन कृतः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधिकृत इति शीलादित्वात् वर्तमाने क्तः । तद्-योगे च भवतीनाम् इति कर्तरि षष्ठी । ततश् चाधोक्षजे सर्वात्मना परिपूर्णत्वेन यो भावो महा-भाव-पर्यन्तस् तद्-दशां प्राप्तः निरन्तर-तद्-आविर्भावकः प्रेमा स भवतीभिर् अधिक्रियते वशीकृत्य स्थाप्यत एव । यद् वा,तस्मिन् यः सर्वत्रात्म-भावः । आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इति न्यायेन सर्वत्र स्फुरति स भवतीष्व् एव दर्शनाद् भवतीभिर् एव वशीक्रियतेइत्य् अर्थः । अतः सोऽपिभवतीनां न दूर इति भावः । अत एव हे महा-भागास् ततो विरहो नामायं बहिरङ्ग एवेति न तत्रान्तःकरणावेशो युज्यत इति । किन्तु मह्यम् एतादृश-प्रेम-महिम-दर्शनानुग्रहार्थम् एवासौ विरहो बहिः स्फुरतीति मन्ये इत्य् आह—विरहेणेति । विरहेण कर्त्रा ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवतीनां तु सर्वात्मना परिपूर्णत्वेन यो भावो महा-भाव-पर्यन्त-दशां प्राप्तः प्रेमा यस् त्व् अधोक्षजेऽपि कृतः अधिकारितया प्रवर्तितस् तद् वशकारीत्य् अर्थः । अतः सोऽपि भवतीनां दूर इति भावः । किन्तु मह्यम् एतादृश-प्रेम-महिम-दर्शनार्थम् एवासौ भवतीष्व् अभ्युदेतीति मन्यताम् इत्य् आह—विरहेणेति । विरहेण कर्त्रेति भवतीनाम् इत्य्-आदि ॥२७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपि च भवतीनांभगवता सह विरहो नास्तीति दर्शयितुम् उपक्रमाण आह—सर्वात्म-भाव इत्य्-आदि । अधोक्षजे श्री-कृष्णे भवतीनांसर्वात्मनाकृतो भावोऽधिकृतः, अधिकारी कृष्ण-विषये स्वामीत्य् अर्थः । तेन कृष्णो भवतीनाम् अधीन इत्य् अर्थः । तस्मात्सर्वथैव भवतीनां पुरतोऽसौ वर्तत एव, अतो न तेन सह विरहः ।

ननु तद्-विरहेण वयम् अपि तप्ता एव वर्तामहे, भवता किम् इदम् उच्यते इत्य् आशङ्क्याह—विरहेणेत्य्-आदि । हे महा-भागाः ! युष्माकं विरहेण मे महान् अनुग्रहः कृतः । अयम् आशयः—भवतीनां वास्तवो विरहो नास्ति, तथापि ममानुग्रहार्थं भगवतैव भवतीनां विरह इति प्रतीतिः कारिता । अन्यथाभवतीनां चरण-दर्शनं मे कुतः स्यात् ? ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु वयं यद्-धर्मं त्यक्त्वा यत् पर-पुरुषं वृतवत्यस् तत्रभवतः किं भाग्यम् अभूत् ? तत्राह—सर्वात्म इति । अधोक्षजे अन्यैः प्रत्यक्षीकर्तुम् अप्य् अशक्ये श्री-कृष्णे प्रेमैव तावद् दुर्लभः । भवतीनां तु सर्वात्म-भावः सर्वात्मनासर्वेणैव स्व-रूपेण सहितः परिपूर्णो यो भावः, स महा-भावम् इत्य् अर्थः । सूर्यो यथासर्वास् ताप-सङ्क्रमणेन व्याप्नोति चन्द्रो यथासर्वान् शैत्य-सङ्क्रमेणेन व्याप्नोति, तथा यः सर्वान्स्वधर्म-सङ्क्रमणेन अतति व्याप्नोतीति । सर्वात्मा चासौ भावश् चेति स इति श्लेषेण तल्-लक्षणम् अपि प्रकटीकृतम् । यद् उक्तं—

अनुरागः स्व-संवेद्य-दशां प्राप्य प्रकाशितः ।

यावद्-आश्रय-वृत्तिः स्याद् भाव इत्य् अभिधीयते ॥ [उ।नी। १४.१५८] इति


स च महा-भावः प्रेम्णः सप्तमो विलासः भवतीनां न त्व् अन्यासांलक्ष्म्य्-आदीनाम् अपीत्य् अर्थः । कीदृशः अधिकृतः अधिकार-विषयी-कृतः । तत्राधिकारो भवतीभ्य एव परमेश्वरेण दत्तो नान्याभ्य इति भावः । अत एव विरहेण कर्त्रा मे मम महान् अनुग्रहः । कुतः दिव्योन्माद-चित्रजल्पादि-महाभाव-भेदान् दर्शयित्वेति भावः । यदि भवतीनां विरहो नाभविष्यत् तदा कृष्णो न मां प्रस्थापयिष्यत् । अहं च एतद् आश्चर्य्ं नाद्रक्ष्यम् इति स्व-भाग्य-परावधिर् उक्तः ॥२७॥


॥ १०.४७.२८ ॥

श्रूयतां प्रिय-सन्देशो भवतीनां सुखावहः ।

यम् आदायागतो भद्रा अहं भर्तू रहस्-करः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भर्तुः कृष्णस्य रहस्-करो रहस्य-कार्य-कर्ता ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीं कृष्ण-सन्देशं वक्तुम् उपक्रमते—श्रूयताम् इति । यं सन्देशम् ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : रहस्करो नर्म-सखा ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् आश्वास्य किञ्चित् स्वास्थ्यम् उपलभ्य वक्तव्यम् आह । यद् वा, तथापि वैकल्य-ह्रासम् अदृष्ट्वा व्यग्रः सन् तत्-सन्देशेनैव वा स्वास्थ्यं भवेद् इति सम्भाव्य तम् एव वक्तुम् आरभते—श्रूयताम् इति ।

ननु तेन सन्देशेनालम्, येनैवाशु तत्-प्राप्तिर् न स्यात्, तत्राह—भवतीनां प्रियस्य सन्देशः—तद्-अर्थम् एवात्रागतोऽस्मि, न त्व् अन्यार्थम् इति तस्मिन्न् आदरं जनयति—यम् इति । अन्यथा गो-व्रजे तस्य [भा।पु। १०.४७.५] इत्य्-आदिकम् अनेन प्रत्युत्तरितम् । भर्तुर् इत्य् आत्मनस् तद्-भृत्यत्वं बोधितम् । तत्र च रहस्करः इत्य् आत्मनः परमाप्तत्वेन तत्-सन्देश-दान-योग्यत्वम्, तथा सन्देशस्य योग्यत्वम् । किं च, भद्राः ! हे साध्व्य इति तासाम् अपि सन्देशैक-पात्रत्वं तथा-सन्देशस्यापि भद्रत्वम् आदरार्थं सूचितम् ।

पत्र-पक्षे श्रूयताम् इति तासां विरह-वैक्लव्येन लेख-वाचना-शक्तिं किं वा, प्रवहद्-अश्रु-धारया लेख-लोपं सम्भाव्य पत्रं दर्शयित्वा तन्-मुद्राम् उन्मुच्य स्वयम् एवावाचयद् इति ज्ञेयम् । एवं पूर्वोक्तं बुद्धि-सत्तमत्वं तथा बृहस्पति-शिष्यतया वाग्मित्वादिकं च दर्शितम् ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् आश्वास्य किञ्चित् स्वास्थ्यम् उपलभ्य वक्तव्यम् आह । यद् वा, तथापि वैकल्य-ह्रासम् अदृष्ट्वा व्यग्रः सन्, तत्-सन्देशेनैव वा स्वास्थ्यं भवतीति सम्भाव्य, तम् एव वक्तुम् आरभते—श्रूयताम् इति । प्रियस्य सन्देशः ।

ननु तेन सन्देशेनालम्, येनैवाशु तत्-प्राप्तिर् न स्यात्, तत्राह—भवतीनांपरमोत्कण्ठितानांसुखावहः, आश्व् एव तत्-प्राप्तेर् निर्धारणात् । तद्-अर्थम् एवात्र आगतोऽस्मि, न त्व् अन्यार्थम् इति अस्मिन्न् आदरं जनयति । अन्यथा गो-व्रजे तस्य [भा।पु। १०.४७.५] इत्य्-आदिकम् अनेन प्रत्युत्तरितम् ।

भर्तुर् इत्य् आत्मनस् तद्-भृत्यत्वं बोधितम् । तत्र च रहस्कर इत्य् आत्मनः परमाप्तत्वेन तत्-सन्देश-दान-योग्यत्वम्, तथा सन्देशस्य गोप्यत्वम् । किं च, भद्राः ! हे साध्व्य ! इति तासाम् एव तत्-सन्देशैक-पात्रत्वं, तथा सन्देशस्यापि भद्रत्वम् आदरार्थं सूचितम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किम् एतयैवास्मत्स्वश्लाघया चास्मान् सान्त्वयितुं त्वम् इहायातः किञ्चिद् अस्ति वा कृष्ण-सन्देशादिकम् अस्मद्-दुःखोपशमकं तद् ब्रूहीत्य् अत आह—श्रूयताम् इति । भर्तुः कृष्णस्य रहस्करःरहस्य-कार्य-कर्ता ॥२८॥


॥ १०.४७.२९ ॥

श्री-भगवान् उवाच—

भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।

यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही ।

तथाहं च मनः-प्राण-भूतेन्द्रिय-गुणाश्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भवतीनां मे मया सह वियोगो नास्ति । कुतः ?सर्वात्मना सर्वस्योपादान-कारणेन, अत एव सर्वेषु मन-आदि-कार्येष्व् अहम् अनुगतत्वेन स्थित इति स-दृष्टान्तम् आह—यथेति । भूतेषु चराचरेषु महा-भूतानि । वाय्व्-अग्निर् वायु-सहितोऽग्निः वायुश् चाग्निश् चेत्य् अर्थः । यथा तथाहं च इति । मन-आदीनि कार्याणि,गुणाः कारणं, तेषाम् आश्रयत्वेन अनुगत इत्य् अर्थः ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवियोगे हेतुम् आशङ्कते—*कुत ?*इति । अत एव सर्वोपादानत्वाद् एव । उपादान-कृतत्वं, तथा स-दृष्टान्तम् आह—यथेति । अनुगतानि कानिभूतानि ? इत्य् अत आह—खम् इत्य्-आदि। इत्य् अर्थ इति—कृतस्य मृद्-आदेः कार्येषु घटादिष्व् अनुगतत्व-प्रसिद्धेर् इति भावः ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भवतीनाम् इत्य्-आदि । भवतीनां वियोगो मे मम क्वचित् कदाचिद् अपि न हीति जानीथ, सर्वात्मना प्रपन्नस्येति बाष्प-रुद्ध-कण्ठत्वाद् अर्धोक्तिः ।

ननु कथम् एवं, देशान्तर-वर्तित्वात् ? नैवम् इत्य् आह—यथेत्य्-आदि । यथा भूतेषु खादीनि पञ्च-भूतानि, तथाहं च भवतीष्व् इत्य् अर्थः, सततानुध्यानेन तादात्म्यात् । कीदृशः ? मनःसु प्राणेषु बुद्धिषु इन्द्रियेषु च गुणेष्व् आश्रयो यस्य स तथा, अर्थात् भवतीनाम् । अथवा, भवतीनां मन-आदीनाम् आश्रयोऽहम् । अतो नोभयथैव वियोगः ॥२९॥


**सनातन-गोस्वामी (दिग्-दर्षिनी): [**बृ।भा। १.६.९०] भवतीनां मे मया सह वियोगो नास्ति । कुतः ? सर्वात्मना सर्वस्योपादान-कारणेन, अत एव सर्वेषु मन-आदिषु कार्येषु अहम् अनुगतत्वेन स्थित इति स-दृष्टान्तम् आह—यथेतिभूतेषु चराचरेषु भूतानि महा-भूतानि यथा । वाय्व्-अग्निः वायुश् चाग्निश् च । तथाहंमन-आदीनां कार्याणां गुणानां च कारणानाम् आश्रयत्वेनानुगत इति॥२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि निश्चितम् । क्वचित् कदाचिद् अपि । अन्यत् तैर् व्याख्यातम् । यद् वा, सर्वात्मना सर्वेण प्रकारेण वियोगो नास्ति । भवतीनां प्रकाश-विशेषैर् एव सह नित्यं रासादि-लीलाभिर् व्रजे विहरमाणत्वाद् इति नित्य-लीला सूचिता ।

यद् वा, सर्वत्रैव बहिर् अन्तश् च सदा मत्-स्फूर्तेर् इति स-दृष्टान्तम् आह—यथेति । खम् इत्य्-आदिना यथा-क्रम-निर्देशेन खादीनाम् अपि पूर्व-पूर्वस्य कारणत्वेनोत्तरस्मिन् कार्ये स्थितिः सूचिता । तथाहम् अपि भवतीनां मन-आदीनि गुणाश् च सौशील्यादयः । किं वा, मन-आदीनां गुणा वृत्तय एवाश्रयो यस्य तथा-भूतस् तत्र तत्र सदा वसन् परिस्फुरामीत्य् अर्थः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र च श्री-भगवान् उवाचेति । तत्-तद्-अक्षरेणैवाहं तद् वक्ष्यामीति भावः। तत्र च सुप्तोऽहं किल विललाप हेतिवत् लिटा परोक्ष-निर्देशस्, तद्-अर्थं तु नाहं विवेक्तुं शक्नोमि, किन्तु भवत्य एव विचारयन्त्व् इति व्यनक्ति तथैवाह—भवतीनाम् इत्य्-आदि ।

तत्रापात-प्रतीतो ज्ञान-रूपः प्रथमार्थो रहस्यार्थान्तर-गोपनाय प्रयुक्तोऽपि लोक-रीत्या शोक-शमक इव च भवतीति स्वयं भगवता विचार्य प्रयुज्यते स्म । तत्र, न ज्ञानंन च वैराग्यं प्रायः श्रेयो भवेद् इह [भा।पु। ११.२०.३१] इति, नात्यन्तिकं विगनयन्त्य् अपि ते प्रसादम् [भा।पु। ३.१५.४८] इति साधारण-भक्तैर् अपि ज्ञानस्य तत्-फलस्य च हेयतां शुद्ध-मत्-प्रेम-साधुर् यस्य सर्वातिशयितां स्वानुभवेनैव निश्चिन्वतीनां तासां स्फुरिष्यतीति विचार्य प्रेमानुभव-प्रमाणक-सिद्धान्त-मयस् तासां प्रतीतये मध्ये न्यस्तः


अथ तथापि तासां तत्रस्फूर्ति-मात्र-प्रतीत्या समुत्कण्ठा-क्लेश-पराकाष्ठाम् आशङ्क्य ताभिर् अस्याम् अवस्थायाम् अनुभूयमानो नित्य-लीला-रूपस् तृतीयस् त्व् अर्थः सद्यः शान्तये स्यात्। तद्-अनुसन्धानं च मद्-उपदेश-प्रभावेण भविष्यतीति विचार्यैव निर्दिष्ट इति ज्ञेयम् ।

तत्र भवतीनाम् इत्य् अर्धकं मुख्य-वाक्यम् । अस्यप्रथमोऽर्थस् त्व् एवं मे मया सह भवतीनां वियोगः क्वचिद् अपि न हि स्यात् । तत्रहेतुः—सर्वात्मना सर्वेषाम् आत्मना उपादान-रूपेणान्तर्यामि--रूपेण चेति ।

अथ द्वितीयः । सर्वत्रैव बहिर् अन्तश् च सदा मत्-स्फूर्तेः सर्वात्मनासर्व-प्रयत्नेन सर्वथैव मया सह वियोगो नास्तीति ।तद् एव स-दृष्टान्तम् आह—यथेति । तत्राहम् अपि भवतीनां मन-आदीनि गुणाः सौशील्यादयः, मन-आदीनि गुण-वृत्तय एव वा, आश्रयो यस्य सः । तेषाम् एवाश्रय-रूपो वा तथाभूतोऽहं तत्र तत्र सदा वसन् परिस्फुरामीत्य् अर्थः ।

अथ तृतीयः सर्वात्मनासर्वेणप्रकाशेन वियोगो नास्ति, किन्त्व् एकेनानेन प्रापञ्चिक-लोक-प्रकट-प्रकाशेनैव साम्प्रतोऽयं वियोगः, अन्येन तद्-अप्रकट-प्रकाशेन तु संयोग एवेत्य् अर्थः । कथं ? तत्राह—यथा खादीनि भूतानि स्व-स्व-कार्येषु वाय्व्-आदिषु अप्रकट-प्रकाशेन वर्तन्त एव, तथाहं च तत्र तत्र वर्ते इत्य् अर्थः ।

किम्-आकारः ? तत्राह—भवतीनांबुद्ध्य्-आद्य्-आश्रयाकारः श्यामसुन्दर-वेणु-विलासि-रूप एव सन्न् इत्य् अर्थः ।

एतद् उक्तंभवति—वृन्दावने मथुरायां द्वारकायाम् अपि नित्यैव तस्यस्थितिः श्रूयते । वृन्दावने,यथा स्कान्दे—

तत्र वृन्दावनं रम्यं वृन्दा-देवी-समाश्रितम् । > हरिणाधिष्ठितं च तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति । > वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः । > वृन्दावनान्तर्-गतः स-रामो बालकैर् वृतः ॥ इति च ।

पाद्म-पाताल-खण्डे—

अहो अभाग्यं लोकस्य न पीतं यमुना-जलम् । > गो-गोप-गोपिका-सङ्गे यत्र क्रीडति कंस-हा ॥ इति । > यमुना-जल-कल्लोले सदा क्रीडति माधवः ॥ इति च ।

बृहद्-गौतमीये च—इदं वृन्दावनं रम्यं मम धामैव केवलम् इत्य् आरभ्य,न त्यजामि वनं क्वचित् ॥

आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । > तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।

गोपाल-तापिनी-श्रुतौ—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं परितोषयामि । [गो।ता।उ। १.३७] इति । \ऽ

जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्योऽयं, योऽसौ सौर्ये > तिष्ठति, योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु > तिष्ठति [गो।ता।उ। २.२२] इत्य्-आदि ।

मथुरायां,यथादि-वाराहे—अहोऽतिधन्या मथुरा यत्र सन्निहितो हरिः इति ।

पाताल-खण्डे—अहो मधुपुरी धन्या यत्र तिष्ठति कंसहा । इति ।

वायु-पुराणे—

चत्वारिंशद् योजनानां ततस् तु मथुरा स्मृता । > यत्र देवो हरिः साक्षात् स्वयं तिष्ठति सर्वदा ॥ इति ।

गोपाल-तापिनी-श्रुतौ—

प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादि-सेवितम् । > शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुषलादिभिः ॥ > यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः । > रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। > २.३५-३६] इति ।

अत एवोक्तं—

मथुरा भगवान् यत्र नित्यंसन्निहितो हरिः ॥ इति ।

द्वारकायां यथैकादश-स्कन्धान्ते—

द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् । > वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥ > नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः । > स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ [भा।पु। > ११.३१.२३-२४]

अत्र श्री-विष्णु-पुराणे त्व् अयं विशेषः—यदु-देव-गृहं त्व् एकं नाप्लावयद् [वि।पु। ५.३८.९] इति कृष्ण-क्रीडाकरं स्थानम् [वि।पु। ५.३८.११] इति च । सर्वत्रजयति जननिवास [भा।पु। १०.९०.४८] इत्य्-आदिकम् उदाहरणीयम् । अतस् तत्र तत्रनित्यैव तस्यस्थितिर् वर्तते


अथ च जन्मादि-लीलायां गमन-त्यागौ च श्रूयेते इति प्रकाश-भेदेनैवोभय-विधत्वं व्यवतिष्ठते ।तथा हि—न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि-दामोदर-लीला-दृष्ट्या मृद्-भक्षण-लीलादौ च श्री-व्रजेश्वर्य्-आदीनांतथानुभूत्या च श्री-कृष्ण-विग्रहस्य मध्यमत्वे एव विभुत्वं दृश्यते । तच् च विरोधि-धर्म-द्वयम् एक एतस्मिन्नासम्भवम् अचिन्त्य-शक्तित्वात् । तस्य च, श्रुतेस् तुशब्द-मूलत्वात्[वे।सू। २.१.२७] इत्य् एतन् न्याय-सम्मतत्वात्


तद् एवं विभुत्वे सति युगपद् अनेक-स्थानाद्य्-अधिष्ठानार्थं रूपान्तर-सृष्टिः पिष्ट-पेषिता । किन्तु युगपन् मध्यमत्व-विभुत्व-प्रकाशिकया तयैवाचिन्त्य-शक्त्या तद्-इच्छानुसारेणैक एव श्री-विग्रहोऽनेकधा प्रकाशते । बिम्ब इव स्वच्छोपादिभिः, किन्तु तत्रोपाधि-मात्र-जीवनत्वेन,साक्षात्-स्पर्शाद्य्-अभावेन, वैपरीत्यादि-नियमेन, बिम्बस्य परिच्छिन्नत्वेन च प्रतिबिम्बत्वम् । अत्र तु स्वाभाविक-शक्ति-स्फुरितत्वेनसाक्षात्-स्पर्शादि-भावेन, यथेच्छम् उदयेन, तद्-विग्रहस्य विभुत्वेन च बिम्बत्वम् एवेति विशेषः


तत्र तेषांप्रकाशानां तयैवाचिन्त्य-शक्त्या पृथक् पृथग् एव क्रियादीनि भवन्ति, अत एव युगपद्-आविर्भूतानां प्रकाश-भेदावलम्बिनीनां निमेषोन्मेषादि-क्रियाणाम् अविरोधः । अत एव विभोर् अपि परस्पर-विरोधि-क्रिया-गणाश्रयस्यापि तत्-तत्-क्रिया-कर्तृत्वं यथार्थम् एव । तद्-यथार्थत्वे बहु श्री-भागवतादि-वर्णितं विदुषां तद्-उद्भवं सुखं नोत्पद्यते इति तद्-अन्यथानुपपत्तिश् चात्र प्रमाणम्


इत्थम् एवाभिप्रेत्य् भगवता नारदेन—चित्रं बतैतद् एकेन वपुषा युगपत् पृथक्[भा।पु। १०.६९.१] इत्य् आदौ वपुष एकत्वेऽपि पृथक्-प्रकाशत्वं, तेषु प्रकाशेषु पृथक् पृथक् क्रियाधिष्ठानादित्वं तादृश-मुन्य्-आदाव् अपि न सम्भवतीति स्वयं चित्रत्वं च वक्ष्यते । एष प्रकाशः क्वचिद् आत्म-शब्देनोच्यते क्वचिद् रूपादि-शब्देन च । यथा तत्रैव,न हि सर्वात्मना क्वचिद् इति । अन्यत्र,कृत्वा तावन्तम् आत्मानं [भा।पु। १०.३३.१९] इति, तावद्-रूप-धरोऽव्ययः [भा।पु। १०.५९.४२] इति, कृष्णेनेच्छा-शरीरिणा [भा।पु। १०.३०.४०] इति च ।

तत्र नाना-क्रियाद्य्-अधिष्ठातृत्वाद् एव लीला-रस-पोषाय तेषु प्रकाशेष्व् अभिमान-भेदं परस्परम् अननुसन्धानं च प्रायः स्वेच्छयाङ्गीकरोतीतिभगवान् इत्य् अपि । एवं तच्-छक्तिमयत्वात् तत्-परिकरेष्व् अपि ज्ञेयम् । तत्र तेष्व् अपि प्रकाश-भेदः, यथा कन्या-षोडश-सहस्र-विवाहे श्री-वसुदेव-देवक्य्-आदिषु । वक्ष्यते च टीका-कृद्भिः । अनेन देवक्य्-आदि-बन्धु-जन-समागमोऽपि प्रतिगृहं यौगपद्येन सूचित इति । तेषु श्री-कृष्णे च प्रकाश-भेदाद् अभिमान-भेदो यथा नारद-दृष्ट-योगमाया-वैभवे । तत्र तत्र ह्य् एकत्र—-

दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च । > पूजितः परया भक्त्या प्रत्युत्यानासनादिभिः ॥ [भा।पु। १०.६९.२०] > इति ।

तत्रान्यत्र, मन्त्रयन्तं च कस्मिंश्चित् मन्त्रिभिश् चोद्धवादिभिः [भा।पु। १०.६९.२७] इति । तत्रभाव-भेदाद् अभिमान-भेदो लक्ष्यते,"अयम् एतद् अवस्थोऽहम् अत्रास्मि" इति । एवं षोडश-सहस्र-कन्या-विवाहे कुत्रचित् श्री-कृष्ण-समक्षं कर्म कुर्वत्या देवक्यास् तद्-दर्शन-सुखं भवति, तत्-परोक्षं तद्-दर्शनोत्कण्ठेति । यथा योगमाया-वैभव एव क्वचिद् उद्धवेन संयोगः क्वचिद् वियोग एव इति विचित्रता ।

तद् एवं तत्रप्रकाश-भेदे सति तद्-अभेदेनाभिमान-क्रिया-भेदे चावस्थिते सति च प्रकाशो द्विविधो ज्ञेयः । प्रकटोऽप्रकटश् च । तत्र प्रकटः प्रापञ्चिकेष्व् अप्रकटः प्रकाश-विशेषस् तत्र तदानीम् अपि स्थितेन श्री-कृष्णस्याप्रकटाख्येन प्रकाश-विशेषेण तु तासां प्रकट-प्रकाशैर् वियोग इति ।

तद् एव स-दृष्टान्तम् आह—यथेति । तत्रप्रथमार्थे कं वाय्व्-अग्निर् जलं महीति । खादीनि भूतानि यथाभूतेषु वाय्व्-आदि-पार्थिव-वस्त्व्-अन्तेषूपादानतयानुगमितानि, तथा अहं सर्वेष्व् इत्य् अर्थः ।

अथ द्वितीयः—यथा भूतानि भूतेषु कार्य-रूपेषु भूतानि कारण-रूपाणि आश्रयत्वेन वर्तन्ते, तथाहम् अपि । भवतीनां ये मन-आदयो गुणाश् च धैर्यादयः, तेषां मत्-स्फूर्त्य्-एक-जीवनानाम् आश्रय इत्य् अर्थः ।

अथ तृतीयः । तत् कथं ? तत्राह—यथा खादीनि भूतानि स्व-स्व-कार्येषु वाय्व्-आदिषु अप्रकट-प्रकाशेन वर्तन्त एव,तथाहं च तत्र वर्ते इत्य् अर्थः । किम्-आकारः ? तत्राहं भवतीनां मन-आद्य्-आश्रयाकारः श्यामसुन्दर-वेणु-विलासि-रूप एव सन्न् इत्य् अर्थः ॥२९॥


जीव-गोस्वामी (श्री-कृष्ण-सन्दर्भः १५५) : ये मया सह भवतीनां योऽयं वियोगः स सर्वात्मना सर्वेणापि प्रकाशेन न विद्यते । किं तर्ह्य् एकेन प्रकट-लीलायां विराजमानेन प्रकाशेन वियोगः । अप्रकट-लीलायां त्व् अन्येन प्रकाशेन संयोग एवेत्य् अर्थः । अत्रैतद् उक्तं भवति न चान्तर् न बहिर् यस्य इत्य्-आदि दामोदर-लीला-प्रघट्टक-दृष्ट्या मृद्-भक्षण-लीलादौ श्री-व्रजेश्वर्य्-आदीनां तथानुभूत्या च श्री-विग्रहस्य मध्यमत्व एव विभुत्वं दृश्यते । तच् च परस्पर-विरोधि-धर्म-द्वयम् एकत्राचिन्त्य-विभुत्व-शक्तिमति तस्मिन्न् आसम्भवं श्रुतेस् तु शब्द-मूलत्वाद् इत्य् एतन् न्यायेन इत्य् एवं भगवत्-सन्दर्भे प्रघट्टकेन विवृतम् अस्ति ।

तद् एवं विभुत्वे सति युगपद् अनेक-स्थानाद्य्-अधिष्ठानार्थं रूपान्तर-सृष्टिः पिष्ट-पेषिता । किन्तु युगपन्-मध्यमत्व-विभुत्व-प्रकाशिकया तथैवाचिन्त्य-शक्त्या तद्-इच्छानुसारेणैक एव श्री-विग्रहोऽनेकधा प्रकाशते । बिम्ब इव स्वच्छोपाधिभिः । किन्तु अत्रोपाधि-मात्र-जीवनत्वेन साक्षात् स्पर्शाद्य्-अभावेन वैपरीत्योदय-नियमेन बिम्बस्य परिच्छिन्नत्वेन च प्रतिबिम्बत्वम् । अत्र तु स्वाभावैक-शक्ति-स्फुरितत्वेन साक्षात्-स्पर्शादि-भावेन यथेच्छम् उदयेन श्री-विग्रहस्य विभुत्वेन च बिम्बत्वम् एवेति विशेषः । एवम् एव सर्वेषाम् अपि प्रकाशानां पूर्णत्वम् आह श्रुतिः—

पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।

पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ [बृ।आ।उ। ६.५.४] इति ।

तत्र च तेषां प्रकाशानां तथैवाचिन्त्य-शक्त्या पृथक् पृथग् एव क्रियादीनि भवन्ति । अत एव युगपद् आविर्भूतानां प्रकाश-भेदावलम्बिनीनां निमेषोन्मेषणादि-क्रियाणाम् अविरोधः । अत एव विभोर् अपि परस्पर-विरुद्ध-क्रिया-गणाश्रयस्यापि तत्-तत्-क्रिया-कर्तृत्वं यथार्थम् एव । तद्-अयथार्थत्वे बहुशः श्री-भागवतादि-वर्णितं विदुषां तु तद्-उद्भवं सुखं नोपपद्यत इति तद्-अन्यथानुपपत्तिश् चात्र प्रमाणम् । इत्थम् एवाभिप्रेत्य श्री-नारदेन चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् [भा।पु। १०.६९.१] इत्य्-आदौ वपुषा एकत्वेऽपि पृथक्-प्रकाशत्वं तेषु प्रकाशेषु पृथक् पृथक् क्रियाधिष्ठानादित्वं तादृश-शक्तिस् त्व् अन्यत्र मुनि-जनादौ न सम्भवतीति स्वयं चित्रत्वं चोक्तम् ।

एष एव प्रकाशः क्वचिद् आत्म-शब्देनोच्यते, क्वचिद् रूपादि-शब्देन च । यथा तत्रैव न हि सर्वात्मना क्वचिद् इति, अन्यत्र कृत्वा तावन्तम् आत्मानम् [भा।पु। १०.३३.१९] इति, तावद्-रूप-धरोऽव्ययः [भा।पु। १०.५९.४२] इति, कृष्णेनेच्छा-शरीरिणा [भा।पु। १०.३०.४०] इति च ।

तत्र नाना-क्रियाद्य्-अधिष्ठानत्वाद् एव लीला-रस-पोषाय तेषु प्रकाशेष्व् अभिमान-भेदं परस्परम् अननुसन्धानं च प्रायः स्वेच्छयोरीकरोतीत्य् अपि गम्यते । एवं तच्-छक्तिमयत्वात् तत्-परिकरेष्व् अपि ज्ञेयम् । तत्र तेष्व् अपि प्रकाश-भेदः, यथा कन्या-षोडश-सहस्र-विवाहे श्री-देवक्य्-आदिषु । उक्तं हि टीका-कृद्भिः—अनेन देवक्य्-आदि-बन्धु-जन-समागमोऽपि प्रति-गृहं यौगपद्येन सूचित इति । तेषु श्री-कृष्णे च प्रकाश-भेदाद् अभिमान-क्रिया-भेदो, यथा श्री-नारद-दृष्ट-योगमाया-वैभवे । तत्र ह्य् एकत्र—

दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च ।

पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ [भा।पु। १०.६९.२०] इति ।

तत्रान्यत्र, मन्त्रयन्तं चकस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः [भा।पु। १०.६९.२७] इति । अत्र भाव-भेदाद् अभिमान-भेदो लक्ष्यते, "अयम् एव तद्-अवस्थोऽहम् अत्रास्मि" इति । एवं षोडश-सहस्र-विवाहे कुत्रचित् श्री-कृष्ण-समक्षं माङ्गलिकं कर्म कुर्वत्या देवक्यास् तद्-दर्शन-सुखं भवति, तत्-परोक्षं तु तद्-दर्शनोत्कण्ठेति । तथा योग-माया-वैभव-दर्शन एव क्वचिद् उद्धवेन संयोगः, क्वचिद् वियोग इति विचित्रता ।

तद् एवं तत्र प्रकाश-भेदे सति तद्-भावेनाभिमान-क्रिया-भेदे च स्थिते, तदानीं वृन्दावन-प्रकाश-विशेषे स्थितेन श्री-कृष्णस्याप्रकट-प्रकाशेन तासाम् अप्रकट-प्रकाशात्मिकानां संयोगः, तत्-प्रकाश-विशेषे प्राक्-स्थितेन सम्प्रति मथुरां गतेन तत्-प्रकट-प्रकाशेनैव स्वीकृतेन स्थान-त्रयेऽपि स-परिकर-श्री-कृष्ण-नित्यावस्थायिता-वाक्यम् अनुपहतं स्यात् । प्रकट-लीलायाम् अन्यत्र स-परिकरस्य तस्य कदाचिद् गमनेऽपि प्रकाशान्तरेणावस्थानाद् इति । तस्मात् साधूक्तं भवतीनां वियोगो मे [भा।पु। १०.४७.२९] इत्य्-आदि।

सेयं च नित्य-संयोगिता परम-रहस्येति ब्रह्म-ज्ञान-सादृश्य-भङ्ग्या समाच्छाद्यैवोपदिष्टा । दृश्यते चान्यत्रापि रहस्योपदेशेऽर्थान्तर-समाच्छन्नोक्तिः । यथा महाभारते जतु-गृहे गच्छतः पाण्डवान् प्रति विदुरस्य, यथा वा षष्ठे हर्याश्वादीन् प्रति श्री-नारदस्य ॥


जीव-गोस्वामी (श्री-कृष्ण-सन्दर्भः १५६) : तद् एवं पुनर् अपि तथैवोपदिशति—यथेति । यथा खादीनि कारण-रूपाणि भूतानि वाय्व्-आदिषु स्व-स्व-कार्य-रूपेषु भूतेष्व् अवस्थितानि, तत्राकाशस्य स्थितिर् वायौ, वायोर् अग्नाव् इत्य्-आदि । तथा भवतीष्व् अहं बहिर्-अनुपलभ्यमानोऽपि नित्यं तिष्ठाम्य् एवेत्य् अर्थः । कथं-भूतोऽहम् ? भवतीनां मद्-एक-जीवातूनां मन-आद्य्-आश्रयः । अन्यथा निमेषम् अपि मद्-वियोगेन तान्य् अपि न तिष्ठेयुर् इति भावः ।

यद् वा, किं-रूपस् तिष्ठसि ? इत्य् आकाङ्क्षायाम् आह—भवतीनां मन-आद्य्-आश्रय-भूतो यो द्विभुज-श्यामसुन्दर-वेणु-विनोदि-रूपः, तद्-रूप एवेति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भवतीनाम् इत्य्-आदि । अत्रापात-प्रतीतो ज्ञान-रूपः प्रथमार्थो रहस्यान्तर-गोपनाय प्रयुक्तोऽपि लोक-रीत्या शोक-शमक इव भवतीति प्रयुज्यते स्म । तत्रारुचि-शङ्कया द्वितीयस् त्व् अर्थः प्रेमानुभव-प्रमाणक-सिद्धान्त-मयो मध्ये विन्यस्तः । अथ तासां तथाप्य् उत्कण्ठा-पराकाष्ठाम् आशङ्क्य, ताभिर् अस्याम् अवस्थायाम् अननुभूयमानो नित्य-लीला-रूपः । तृतीयस् त्व् अर्थःसद्यः शान्तये सहसैव निर्दिष्ट इति ज्ञेयम् ।

तत्र प्रथमोऽर्थष् टीकायाम् एव दृश्यः । तृतीयः कृष्ण-सन्दर्भे । अथ द्वितीयो, यथा—सर्वत्रैव बहिर् अन्तश् च सदा मत्-स्फूर्तेः सर्वात्मना सर्वथैव मया सह वियोगो नास्ति, तद् एव स-दृष्टान्तम् आह—यथेति । तथाहम् अपि भवतीनां मन-आदीनि गुणाश् च सौशील्यादय आश्रयो यस्य तथा-भूतः सन्, तत्र तत्र सदा वसन् परिस्फुरामीत्य् अर्थः । इत्य्-आदिकं श्री-दशम-टिप्पण्यां दृश्यम् ॥२९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एवभगवद्-वचनेनापि दृढीकरोति—भवतीनां वियोगो मे इत्य्-आदि । भवतीनां वियोगो मम क्वचित् कदाचिद् अपि न हीति जानीथ । भवतीनां समीप एवाहं तिष्ठामीत्य् अर्थः । सर्वात्मनासर्वतो-भावेन, यतश् चाक्षुष एव नाहं, किन्तु समीप-वर्त्य् एव । अन्यथा मद्-विरहेणभवत्यः किं जीवन्तीति निरन्तरं वृन्दावन-स्थितत्वम् आत्मनः प्रकटितम् ।

नन्व् इदम् अघटमानं देशान्तर-वर्तित्वान् नैवम् इत्य् आह—यथेत्य्-आदि । यथाभूतेषु पञ्चीकरणावस्थासु भूतानिपृथिव्याम् आकाशादीनि, आकाशे पृथिव्य्-आदीनीत्य्-आदि । तथापिपृथिवी पृथिव्य् एवेति दृश्यते, आकाश आकाश एव दृश्यते, तथाहं च भवतीषु मनः-प्राण-बुद्धीन्द्रिय-गुणाश्रयः सन् निकट एव वर्त इति भावः । भवत्यस् तु आत्मानम् एव पश्यन्ति, न माम् इति भावः । तत्र निकटस्थ एव भवतीनाम् अन्तर् एवाहं प्रविष्टः । मनः-प्राणेत्य्-आदि भवतीनां मनो मन्-मनः, भवतीनां प्राणा इत्य्-आदि-प्रकारकः सन्न् इत्य् अर्थः । एतेन भवतीनां मम चाभेद इति प्रेम्णः परिपाक-प्राकट्यं, न तु ज्ञान-योग-वार्ता । अतः सर्वात्मना न हि विरह इत्य् उक्तम् ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र प्रथमो ज्ञानोपदेश-रूपः सन्देशः,परम-विज्ञान् प्रति तत् प्रेम्णोऽन्याधर्षणीयः महा-बलवत्त्व-ज्ञापनार्थकः, मन्द-धियः प्रति तत्-प्रेम-माहात्म्याच्छादनार्थकश् च ।

तथा हि—"मया गोपीभ्यो दातुम् उद्धव-द्वारा ज्ञानाम् ऋतं प्रेषितं, तद् अपि तासां प्रेमाग्निं निर्वापयितुम् असमर्थं, प्रत्युत तत्-तापेनैवालीढं बभूवेत्य् अहो तासां प्रेम-प्राबल्यं यन् मनो योगेश्वरेण मयाप्य् उपदिष्टो ज्ञान-योगो वैयर्थ्यम् अगात्" । यथा रासारम्भे कर्म-योग इत्य् अन्तर-विज्ञ-भक्तान् प्रेम्णः प्राबल्यं प्रकाशयामास । महा-प्रेमवतीष्व् अपि गोपीषु सर्व-हित-कारिणा परमेश्वरेण मोक्ष-सिद्ध्य्-अर्थं ज्ञानोपदेशः कृतः इत्य् अन्यान् पण्डितं-मन्यान् मन्द-धियः प्रति प्रेम्णो माहात्म्यम् आच्छादयामास रहस्यत्वाद् इति । एवं भक्त-विवृद्धान् प्रेमामृतस्य प्रदानेन पुष्णाति, अभक्तांस् तु रासु-प्रदानेन वञ्चयतीत्य् उभयम् एव मोहिनी-सधर्मणः शास्त्रस्यास्य प्रयोजनं ज्ञेयम् ।

अथ प्रकृतम् अनुसरामः—भगवान् उवाचेत्य् उद्धव-वाक्यं तत्रोवाचेति लिटा महा-प्रेमवतोऽपि मत्-प्रभोर् एतादृशो वचनस्य प्रयोजनं मम दुर्गमत्वात्परोक्षम् एवेति ज्ञापितम् ।भवतीनां मे मया सह सदा वियोगो नास्त्य् एव। कथं रुदित्वा रुदित्वा मर्तुम् ईहध्वे ? इति भावः । कुतः ? सर्वेषाम् आत्मनापरमात्मना, अहं हि परमात्मा भवामि ।

अत्र सर्व-शास्त्राणि,सर्वे गर्गादयो मुनयश् च, वरुणादयो देवाश् च प्रमाणम् ।तस्मात्परमात्म-रूपेणभवतीनां देहेष्व् अहं वर्त एवेत्य् अतो मया सह सदा नियोग एवेति भावः ।

अत्र च यथा रासारम्भे धर्मोपदेश-वाक्ये वप्य् अभ्यन्तरी शृङ्गार-कथा स्वोपालम्भन-दोष-निवृत्त्य्-अर्था स्थापिता, तथा हि दिनान्तरे—"भो कृष्ण ! कामुक-शिरोमणे ! त्वया रास-केलि-दिने कथम् अस्मासु धर्मोपदेशः ? कुतः ?" इति प्रेयसीभिः सोपालम्भम् उक्ते सति, "भो अविदुष्यः ! मया तु तद्-दिने सम्भोग-कृत्योपदेश एव कृतः । कथं मुग्धाभिर् भवतीभिर् धर्मोपदेश एवावधारितः ?" इत्य् उक्त्वा, रजन्य् एषा घोर-रूपा [भा।पु। १०.२९.१९] इत्य्-आदि-वाक्यानां द्वितीयं प्रेम-रीति-मयम् अर्थं व्याख्यास्यतीति । अत एतेषु वाक्येषु वर्तमान एव द्वितीयः प्रेम-रीति-मयोऽर्थो व्याख्येयः ।

स यथा—भवतीनां मया सह विरहो न सर्वेणात्मना, किं त्व् एकेन देहेनैव । आत्म-शब्दस्य देह-जीव-मनो-बुद्धि-वाचित्वात्, प्रेमा ह्य् आत्म-धर्म एव ममात्म-बुद्धीन्द्रियादयो भवतीष्व् एव स्थिताः, केवलम् एको देह एव मया मथुराम् आनीतः ।भवतीनाम् अप्य् आत्मानो बुद्धीन्द्रियादयो मय्य् एव वर्तन्ते । केवलं देहा एव तत्र व्रजे स्थिताः, किं त्व् अहं सर्व-शास्त्रेषु सर्वैः प्रेमाधीन एव निरूपितः, अत एव प्रेम्णि मम नास्ति स्वातन्त्र्यं । प्रेमवताम् अस्माकं परस्पर-देह-विच्छेद एव विप्रलम्भः, तम् आरुह्य प्रेमा सम्प्रत्य् अतिवर्धितुम् इच्छति । अतो मया सोत्कण्ठेनापि स्व-देहः कथं साम्प्रतं व्रजम् आनेतुं शक्यः ? किं तु स एव प्रेमा स्वाभीप्सितां वृद्धिं प्राप्य, विप्रलम्भं दर्शयित्वा, यदा सम्भोग-भूमिकाम् आरोक्ष्यति, तदैव मया तद्-अधीनेन स्व-देहो व्रजम् आनेतव्य इति, देहेनापि वियोगोऽपयास्यतीति भावः ।

किं त्व् अहम् उपादान-कारणत्वाद् अपि सर्व-भूतेषु वर्त एवेत्य् आह—यथेति । भूतेषु चराचरेषु भूतानि महा-भूतानि । महा-भूतानि तान्य् एव कानि ? इत्य् अत आह—खम् इति । वाय्व्-अग्निः वायु-सहितोऽग्निः यथा वर्तते, तथैवाहं मन-आदीनि कार्याणि गुणाः, तेषांकारणंसर्वेषाम् अपि परम-कारणत्वेनाश्रयः । तत्र तत्रानुगतो वर्त एवेत्य् अर्थः । पक्षे, मां सदा प्रेम्णा ध्यायन्तीनांभवतीनां मनः-प्राण-बुद्धीर् इन्द्रिय-गुणान् शब्दादींश् च आश्रयामीति सः आश्रित्य तत्र तत्र स्फुरन्न् एवाहं सदा वर्त इत्य् अर्थः ॥२९॥


॥ १०.४७.३० ॥

आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये ।

आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कारणत्वे सर्वानुगतत्वे च कार्य-कारण-भेदः स्यात् ? अत आह—आत्मन्य् एवेति । ननु नित्य-सिद्धस्य कुतः सृष्ट्य्-आदि-रूपता ? अत आह—भूतेन्द्रिय-गुणात्मना । बुद्धीन्द्रियेति वा पाठः । तद्-रूपेणेति । ननु निर्विकारस्य कुतस् तद् रूपता ? इति तत्राह—आत्म-मायानुभावेनेति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवतः एको देवः सर्व-भूतेषु गूढः [श्वे।उ। ६.११] इत्य्-आदि-श्रुति-सिद्धम् एकत्वम् आक्षिप्य समाधत्ते—नन्व् इत्य्-आदिना । अतोऽत्राक्षेपे । पुनर् आशङ्कते—नन्व् इति । भूतादि-रूपेणआत्मनीति । एतेनकार्य-कारण-साधनाधारत्वं स्वस्यैवोक्तम् । पाठान्तरे गुण-शब्देन भूत-प्रहणम् अपि । किं चेन्द्रिय-पदेनैव बुद्धेर् ग्रहात् पूर्व-पाठो मम सम्यग् भातीति । तद्-रूपेणेति—बुद्ध्य्-आदि--रूपेण । भूतादि-रूपत्वे शङ्कते—नन्व् इति । आत्मनो मायानुभावेनाचिन्त्य-शक्ति-प्रभावेण ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु सर्व-जीव-साधारण्येन भवान् अस्माकम् अपि मन-आदिषु वर्तसे, को विशेषः ? नैवं, तेषु तद्-इच्छयाधिष्ठातॄणां नियन्तृ-रूपेणाहम् अंशेन, न तथाभवतीषु । भवतीषु पुनः सततानुध्यान-तादात्म्य-महिम्नैवेतिप्रेम्णस् तथा-विधं विक्रमं वर्णयन्न् आह—आत्मन्य् एवेत्य्-आदि । आत्मना मनसैव आत्मानंविग्रहं कदाचिद् भवतीनाम् अयं परम-प्रेमास्पदम् इति कृत्वा सृजे, मनसैव बहुलीकरोमि, यथासर्वास्व् एव दिक् पश्यामि । एवम् अनुपालये, स्रक्-चन्दनादिना सत्करोमि । कदाचिद् वियोग-दुःखात् हन्मि च, ललाटे उरसि च कर-ताडनादिना धिग् इत्य् आक्षेपेण ताडयामि च ।

ननु त्वं वक्षः-स्थितायाः श्रिया भावेनैव परिपूर्णोऽसि, तद्-अलीकम् एव वदसि ? नैवम् इत्य् आह—आत्म-मायेत्य्-आदि । नु भोः प्रियाः, आत्म-मायाइत्य्-आदि । नुभोः प्रियाः ! आत्म-मायाआत्मनिशरीरे वक्षसि स्थिता या या लक्ष्मीस् तस्या भावे प्रेम्णि न भूत उत्पन्नः । इन्द्रियाणांगुणेषु रूपादिषु आत्मा प्रयत्नो यस्य मनसस् तेन । आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म वर्त्म च इत्य् अमरः ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न चैवम् अत्र पुर्यां वर्तमानस्यापि तत्र तत्र स्थितिर् ममासम्भाव्येति मन्तव्यम् । मच्-छक्तेर् दुर्वितर्क्यत्वाद् इत्य् आह—आत्मनीति । सृजे प्रकटयामि, हन्मि अन्तर्धापयामि । अनु निरन्तरं पालये विचित्र-विभूतिभिर् विभूषयामि। तत्र चात्मन्य् एवेत्य्-आदिना सृष्ट्य्-आदेर् आधारः, करणं कर्म कर्ता चाहम् एवेति । तत्र कारकान्तर-सम्बन्धो निरस्तः ।

ननु नूनं त्रिगुणात्मिकया मायया सृजसि । तत् किं नस् तेन ? इत्य् अत आह—आत्म-मायानुभावेन । आत्म-माया स्वरूप-भूत-माया चिच्-छक्तिः, तस्याः प्रभावेण ।

ननु किम् अस्माकम् अन्येन त्वदीय--रूपेण ? वयं तु त्वाम् एव व्रजेन्द्र-नन्दनं लब्धुम् इच्छामः । तत्राह—भूतेन्द्रिय-गुणात्मना विशिष्टम् आत्मानम् एव सृजे भूतानां सर्व-जीवानाम् इन्द्रियाणि चक्षुर्-आदीनि सौन्दर्यादिना गुणयति स्वस्मिन् आवर्तयतीति भूतेन्द्रिय-गुणो य आत्मा स्वभावस् तेन भवतीनां मनोहरं रूपम् एवेत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मन्य् एवेति । तत्र प्रथमार्थः—नन्व् एकस्योपादानत्वम् अन्तर्यामित्वं च दुर्घटं घटादौ मृत्तिकादेर् अन्तर्यामित्वासम्भवात् । मतान्तरेऽप्य् उपादान-रूपाणां परमाणूनाम् अचेतनानाम् अन्य एव चेतन ईश्वरस् तन्-नियामकः । तत्राह—आत्मन्य् एवाधिष्ठाने आत्मना निमित्तेन आत्मानम् उपादान-रूपं भूतेन्द्रिय-गुणात्मना भूत-रूपेणेन्द्रिय--रूपेण गुण--रूपेण जीव--रूपेण च सृजामि प्रकटयामि । बुद्धेन्द्रियेति पाठे भूतान्य् उपलक्षणीयानि ।

नन्व् आत्मा खल्व् एक एव तस्याधिष्ठानादित्वं युगपत् कथं सिद्ध्यति ? इत्य् आशङ्क्य सर्वाशङ्का-निरसनार्थम् आह—आत्म-मायानुभावेन अचिन्त्य-शक्ति-प्रभावेण । श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायेन चिन्तामण्य्-आदिष्व् अपि तादृशत्व-दर्शनेन चेति भावः ।

द्वितीयो यथा—ननु सत्यम् अस्मासु तथैव त्वं स्फुरसि, त्वयि तु न वयं । संयोगो नाम च स्वप्नादि-व्यतिरिक्तं मिथो मिलनम् एव । तत्राह—आत्मनि चित्ते निर्विकारेऽपि आत्मना मनसा सङ्कल्प-विकल्पात्मकेन आत्मानं भवत्-संयोग-विलासात्मकम् एकं सृजे, करोमि। आत्मा देह-मनो-ब्रह्म-स्वभाव-धृति-बुद्धिषु प्रयत्ने च इति विश्व-प्रकाश-कोशः । न केवलं सृजे अनुपालयामि चिर-कालं व्याप्य संवर्धयामि च । तथा हन्मि विलासान्तरार्थं तं दूरीकरोमि च । एवम् अन्यम् अपि जानीतेत्य् अर्थः ।

कीदृशेनात्मना? आत्मनः स्वस्य माया भवतीषु दया,आत्मनि स्वस्मिन् भवतीनां वा दया, तस्या अनुभावः प्रभावो यत्र, तादृशेन । पुनः कीदृशेन ? भूतानि सिद्धानि साक्षात् स्थितान्य् एव इन्द्रियाणि चक्षुर्-आदीनि गुणा रूपादयः आत्मनः अहङ्कारास्पदानि च यत्र, तादृशेन ।

बुद्धीति पाठे । ननु मनोरथ-मात्रम् इदं भवतः कथं सत्यं स्यात् ? तत्राह—बुद्धि-गुणा विवेकादयः,इन्द्रिय-गुणा दर्शनादयश् च, आत्मानस् तद्-आत्मतां प्राप्ता यत्र तादृशेन विचार-सिद्ध-प्रत्यक्ष-संवलितेनेत्य् अर्थः । तस्माद् उभयानुभवाद् बहिः प्रातिटिकोऽयं वियोगो नादरणीय इति भावः ।

तृतीयो, यथा—ननु तथा तथा प्रकाशः कथं सम्भवति ? तत्राह—आत्मनि विग्रह-स्वरूपेऽधिष्ठाने आत्मना तेनैव करण-भूतेन आत्मानं तत्-प्रकाश-विशेषं सृजे, तद्-आत्मानं सृजाम्य् अहम् इतिवत् आविर्भावयामि,अनुपालयेऽभीष्ट-लीला-पर्यन्तं रक्षामि,हन्मि तद्-अवसानेऽन्तर्धापयामि ।

ननु कथं तेनैव सृजसि ? तत्राह—आत्म-माया अचिन्त्य-शक्तिः, तस्या अनुभावो यत्र तादृशेन तेन । पुनः कीदृशेन ? भूतानि नित्य-सिद्धानि इन्द्रियाणिगुणा रूपादयश् च आत्मा स्वरूपं च यस्य तादृशेन ।

बुद्धीति पाठे बुद्धयोऽन्तःकरणानि च इन्द्रियाणि च गुणाश् च आत्मानः स्वरूप-भूतान्य् एव यत्र तादृशेन । अतस् तत्र प्रकाश-मात्रम् एव स्यात्, न तु विकार इति भावः ॥३०॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १५७) : नन्व् इत्थं प्रकाश-वैचित्री कथं स्यात् यया विरह-संयोगयोर् युगपद् एव स्थितिः ? इत्य् आशङ्क्याह—आत्मनीति । आत्मनि अनन्त-प्रकाश-मये श्री-विग्रह-लक्षणे स्वस्मिन्, आत्मना स्वयम् आत्मानं प्रकाश-विशेषं सृजे अभिव्यञ्जयामि । केन ? निमित्त-भूतेन आत्मा-मायानुभावेन अचिन्त्यायाः स्वरूप-शक्तेः प्रभावेन,स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतैति मध्व-भाष्य-धृत-चतुर्वेद-शिखातः । कीदृशेन? भूतेन्द्रिय-गुणात्मना भूतानि परमार्थ-सत्यानि यानि ममेन्द्रियाणि, ये च गुणा रूप-रसादयः, तेषाम् आत्मना प्रकाशकेनेत्य् अर्थः । बुद्धीन्द्रियेति पाठे आत्मनेत्य् अस्य विशेषणम् । बुद्धयोऽन्तः-करणानि, इन्द्रियाणि बहिः-करणानि, गुणा रूपादयः, तानि सर्वाण्य् अपि आत्मा स्वरूपं यत्र, तेनेति।

तद् एवम् आविर्भूय अनु पश्चात् कदापि हन्मि, ततोऽन्यत्र गच्छामि । हन् हिंसा-गतयोः । कदाप्य् अनु पश्चात् पुनः पालये, स्वयम् आगत्य पालयामि निज-विरह-दूनान् इति शेषः । एतत्-कारणं तु,यत् त्व् अहं भवतीनां वै [भा।पु। १०.४७.३४] इत्य् आदौ वक्ष्यते । हन्तेर् अर्थान्तरे त्रयाणाम् एक-कर्म-कर्तृत्वेऽपि तमात्मानं प्रकाशं कदाचित् तिरोधापयामि । तस्मात् तं प्रकाशम् आकृष्य प्रकाश-वैविध्यम् एकीकरोमीत्य् अर्थः ।

एवम् एव दशम-सप्ततिममाध्याये स्वामिभिर् अपि व्याख्यातम्—एवं सर्व-गृहेभ्यः पृथक् पृथङ् निर्गत्यानन्तरम् एक एव सुधर्मां प्राविशत् [१०.७०.१७] इति । यथा च माध्व-भाष्य-धृत-पाद्म-वचनम्—

स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः । > एकीभूयः पुनः शेते निर्दोषो हरिर् आदिकृत् ॥ इति ।

श्रुतिश् च शङ्कर-भाष्य-धृता—स एकधा भवति, द्विधा भवति, त्रिधा भवति[छा।उ। ७.२६.२] इत्य्-आद्या । तद्-अनन्तरं पुनर् अपि तम् आत्मानं पालये पुनर् अभिव्यज्य निज-श्रेष्ठ-जनैः सह क्रीडया सम्भूतानन्दं करोमीत्य् अर्थः । एवं हन्तिर् अश्लीलोऽपि स्व-वियोगि-जन-विषय-कारुण्य-कृत-भावान्तरेण स्वयम् एव प्रयुक्त इति न दोष आशङ्क्यः—छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिं [भा।पु। ३.१६.६] इतिवत् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु सर्व-जीव-साधारण्येन भवान् अस्माकम् अपि मन-आदिषु वर्तते । को विशेषः ? नैवम् । तेषु तद्-इन्द्रियाधिष्ठातॄणां नियन्तृतयाऽहम् अंशेन वर्ते, न तथा भवतीषु । भवतीषु पुनर् भवद्-विधा-लक्षित एव वर्ते, ममैतादृश एव स्वभाव इत्य् आह—आत्मन्य् एवात्मनेत्य्-आदि ।

आत्मना स्वयम् आत्मनि स्व-हृदि आत्मानं सृजे विरचयामि प्रवेशयामीत्य् अर्थः । आत्मनि स्व-हृदि आत्मना स्वयम् आत्मानं हन्मि, तिरोधापयामि तद्-अनुरागावेगं वर्धयामीत्य् अर्थः। एवम् आत्मनि स्व-हृदि आत्मानं पालयामितद्वित् कारयामि । एवम् आत्मनि स्वस्मिन्न् आत्मानं प्रतिपालये परिचरामि, मनसा सेवे इत्य् अर्थः । भक्तैः समम् एतादृशी मे लीलेत्य् अर्थः ।

आत्मना कीदृशा ? आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना, आत्मनि विग्रहे या मा लक्ष्मीः वक्षः-स्थिता या श्रीः, तस्याः। आत्म-माया इति षष्ठी । नु भोः वल्लभाः !भावे प्रेम्णि न भूत उत्पन्न इन्द्रिय-गुणै रूपादिभिर् आत्मा धृतिर् यस्य । आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म वर्ष्म च इत्य् अमर-सिंहः ।

अथवा, भवतीनां स सर्वात्मना वियोगः कुतः ? यतो भवतीषु महद् एव मे प्रेमेति स्व-प्रेम प्रकटयन्न् आह—आत्मनि मनसि आत्मना स्वयम् एवात्मानं सृजे बहुलीकरोमि, भवतीनां प्रेमास्पदत्वात् ममाप्य् अतिशय-प्रियत्वेन विस्तरीकरोमि, सर्वतः स्वम् एव पश्यन् निर्विण्णोऽस्मीत्य् अर्थः । एवं कदाचिद् भवतीनां विरह-दुःखेन तथैवात्मानं मनसि स्वयम् आत्मानं हन्मि । "किं कृतं किं कृतं ?" इति कृत्वा शिरस्-ताडनादि करोमि । कदाचिद् भवतीनां प्रेमास्पदत्वेनैव आत्मनि आत्मना स्वयम् एवात्मानं प्रतिपालयामि च, शेषार्धं पूर्ववत् ।

अथवा, भवतीभिः सह मे वियोगो नास्त्य् एव, तथापि भवतीभिर् आत्मा विरहीति यन् मन्यते, तन् ममैवेच्छा-विशेषेणेत्य् आह—आत्मन्य् एवात्मनात्मानम् इत्य्-आदि । आत्मनि सुहृदि मध्ये कञ्चन आत्मानं सुहृदम् आत्मना स्वयम् एव सृजे, रूपान्तरेण स्थानान्तरे सृजामि, आविर्भावयामि । क्वचित् हन्मि, विरहेण पीडयामि, क्वचित् प्रतिपालयामि, स्व-रूपेण स्थापयामि, येन सह या लीला समुचिता, करोमीति मे प्रकृतिः । सर्वैव लीला मे सुरसा, भवतीनां वियोग-दुःखानुभवोऽपि रसनीयत्वात् समास्वाद्य इति कृत्वा वियोग आहार्य एव कारितः, न तु स्वाभाविक इति । पूर्वोक्तं व्रज-वधूनां त्रैविध्यं, तथा हि—सृजे इति राज-कन्या-रूपेण, अनुपालये इति वृन्दावन-स्थ-रूपेण, हन्मीति विरहिणी--रूपेण । शेषार्धं समम् ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, अहम् एव कर्ता, अधिकरणं, कर्म चेत्य् आह—आत्मन्य् एवाधिष्ठाने आत्मनैव कारणेन आत्मानम् एव जगद्-रूपं सृजे सृजामि । ननु त्वं सच्-चिद्-आनन्द-स्वरूपः । जगद् इदं ततो भिन्नं प्रतीयते ? तत्राह—आत्मनो मम या माया शक्तिस् तस्या अनुभावः कार्यं, तेन भूताद्य्-आत्मना सृजामि । तस्या मद्-बहिरङ्ग-शक्तित्वाज् जगतोऽस्य मद्-रूपत्वं, न तु मत्-स्वरूपत्वम् इति भावः ।

पक्षे, भवतीनाम् आत्मनि मनसि आत्मना प्रयत्नेन आत्मानं स्वं सृजाम्य् आविर्भावयामि, सम्भोगादि-लीलार्थं मुहूर्तम् अनुपालयामि । ततो हन्मि अन्तर्धापयामि । केन प्रयत्नेन ? आत्म-माया-प्रभावेण योग-माया-प्रभाव एव मम प्रयत्न इति भावः । आत्मानंकथं-भूतं? भूतान्य् अङ्गानि, इन्द्रियाणि चक्षुर्-आदीनि,गुणाःसौन्दर्य-माधुर्य-वैदग्ध्यादयः । आत्मानो बुद्ध्य्-आदयः, तेषां द्वन्द्वक्यं,तेन सहितम् ॥३०॥


॥ १०.४७.३१ ॥

आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।

सुषुप्ति-स्वप्न-जाग्रद्भिर् मनो-वृत्तिभिर् ईयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् आत्मनो भूतादि-रूपत्वे तद्-दोष-प्रसङ्गः स्यात् ? तत्राह—आत्मेति । आत्मा तु शुद्धः । कुतः ?अगुणान्वयः, न गुणेष्व् अन्वेतीति तथा । तत् कुतः ?व्यतिरिक्तः । तद् अपि कुतः?ज्ञान-मयो ज्ञान-स्वरूपः । नन्व् अहं प्रत्यये स्व-संवेद्यम् एवात्मनो नानावस्थावत्त्वम् इति कुतः शुद्धता ? इति तत्राह—सुषुप्तीति । माया-कार्य-मनो-वृत्तिभिर् विश्व-तैजस-प्राज्ञ--रूपेण प्रतीयते, न स्वत इत्य् अर्थः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनो जडत्वंशङ्कते—नन्व् इति । तेषांभूतादीनां दोषो जडत्वादि-रूपः, तस्य प्रसङ्गः प्रसक्तिः । तत्राक्षेपे । शुद्धत्वे हेतुम् आशङ्कते—कुत इति । अन्वेतिसङ्गं प्राप्नोतीति । व्यतिरिक्तः सर्वस्माद् भिन्नः । अत्र हेतुम् आशङ्कते—तद् अपीति, व्यतिरिक्तत्वम् अपि । शुद्ध-रूपताम् आक्षिपति—नन्व् इति । अहं करोम्य् अहं शृणोम्य् अहं वदामीत्य् अनेकावस्थता । तत्राक्षेपे । इत्य् अर्थ इति—मायाकुतं नानात्वम् एकस्यौपाधिकम् एव, न स्वाभाविकम् इत्य् अर्थः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु तदा किम् अनीश्वरः, यतः प्राकृतवच् चेष्टसे ? नैवम् इत्य् आह—आत्मा ज्ञान-मय इत्य्-आदि । सम्भूत आत्माप्य् अहम् अपि त्वद्-विधानां प्रेम्णा विकल इत्य् अर्थः । कोऽसाव् आत्मेत्य् आह—आत्मा सूषुप्त्य्-आदिभिर् मनो-वृत्तिभिः प्रतीयते, मनसि वृत्तिर् यस्य स मनो-वृत्तिर् आत्मा । अवस्था-भेदेन संज्ञा-भेदम् आपन्नैस् त्रिभिर् एव तैः प्रतीयते । यस् तुरीयो निरुपम-चिद्-आनन्द-विग्रह आत्माहम्, अत एव ज्ञान-मयादि-विशेषेणविशिष्टः, स एवं-भूतोऽप्य् आत्मा मद्-रूपो भवद्-विधानां प्रेम्णा इन्द्रियार्थान् अनुध्यायेत, तानि स्पर्श-सुखानीत्य्-आदिवत् सर्वेन्द्रियार्थानुभवेऽपिस्वप्नवत् मृषैव ते भवन्तीत्य् अर्थः । अतः स आत्माउत्थितः । तद्-अनुभावाद् उत्थितः सन् तन् निरुन्ध्यात्, तद्-दुःखं वशीकरोति सहत इत्य् अर्थः । तदा विनिद्रोऽनलसः सन् इन्द्रियाणिप्रत्यपद्यत,भवतीनाम् इन्द्रियाणि कर-चरणादीनि प्रतिपेदे, पुनस् तादृशीर् अवध्यायतीत्य् अर्थः । सर्वं वर्तमानायाम् अतीतवन् निर्देशः ॥३१-३२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो बत ! मायया सृजसीति कथं ? उच्यते । जीवस्यापि तत्त्वतो मायिक-देहेन सम्बद्धो नास्ति, मम तु कुतः स्यात् ? इति दृष्टान्तम् आह—आत्मेति । मनो-वृत्तिभिर् इति तस्य विश्वादि-भेदो मायिक एव, न वस्तुत इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, मयापि सदा भवत्यो दृश्यन्त इत्य् आह—आत्मेति । परमादराद् आत्मना सह प्रेम-विशेषेणाभेदाद् वा भवतीत्य् अर्थः । तासां चान्योऽन्य-स्नेहेन भेदाभावाद् एकत्वं सुषुप्त्य्-आद्य्-अवस्थाभिर् अन्याभिश् च मनो-वृत्तिभिर् ईयते । तत्र तत्रदृश्यत इत्य् अर्थः । यद्यपिजीवस्यैवावस्था-त्रयम् इदम्, तथापिश्री-भगवतोऽपिलीला-विशेषोऽयं सम्भवेत्, सुषुप्तौ दर्शनासम्भवेऽपि तथोक्तिर् दर्शनस्याविच्छेद-विधाने तात्पर्यार्था । यद् वा, सुषुप्तिस् तद्-एकाग्रतया समाधि-रूपा ।

ननु दुर्भगानाम् अस्माकं कुतस् तद्-योग्यत्वम् इत्य् आशङ्क्य तद् एव दर्शयति—ज्ञानेनेत्य्-आदि-चतुर्भिर् विशेषणैः । आत्म-पद-विशेषणत्वात् पुंस्त्वम् । ज्ञान-मयो जीवेश्वर-भक्त्य्-आदि-तत्त्व-ज्ञान-पूर्णः । अत एव शुद्धो माया-गुणाद्य्-अस्पृष्टः । अत एव व्यतिरिक्तः प्रपञ्चाद् विलक्षणम् ।अत एवगुणानांनित्य-सद्-रूप-वयो-वैदग्ध्य्-आदीनाम् अन्वयो यस्मिन् सः ।

यद् वा,आत्माभवतीनां देहः । ननु प्राकृत-निन्द्यास्मदीय-देहस्य द्योतयति—ज्ञान-मयो ज्ञान-घन इत्य् अर्थः । यतः शुद्धः, अतो व्यतिरिक्तः । अन्यत् समानम् ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मा ज्ञान-मय इति । प्रथमार्थः—नन्व् एतावन्तं कालं तवात्मानं घन-श्याम-वर्णं परिमित-सर्वाङ्गं परमाश्चर्य-करंरूपवन्तम् एव मन्यामहे स्म । सम्प्रति भवता त्व् अचिन्त्य-शक्ति-मयस् तत एवसर्वेषाम् उपादानतया अन्तर्यामितया च व्यापक एव स इत्य् अस्माकं भवता सह न वियोग इत्य् उपदिश्यते । स च न केनापि दृश्य इत्य् अरूपश् चेत्य् अवगते, तत्-तद्-रूपता च तव भवद्-एक-गम्येति भवतु नामायं सन्देशः । वयं तु स्वं स्वम् आत्मानं परिच्छिन्न-देह-रूपम् एवानुभवामः । ततः कथञ्चिज् जातीयेनानेन तादृशस्यभवद्-आत्मनः सङ्गमम् अनुभविताः स्मः


तत्राह—आत्मा ज्ञान-मय इति सर्वैर् अप्य् आत्मासुषुप्त्य्-आदिभिर् मनो-वृत्तिभिस् तत्-तद्-रूपासु तत्-तद्-वृत्तिषु प्रतीयते एव, सुषुप्ताव् अपि "सुखम् अहम् अस्वाप्सम्" इति प्रत्यभिज्ञा-बलात्, किम् उतान्ययोर् इति भावः । यतो ज्ञान-मयः प्रकृति-ज्ञान-स्वरूपत्वात् स्वयं-प्रकाशः । यतोऽसौ तत्-तद्-गुणानुगतोऽपि व्यभिचारिणीभ्यस् तत्-तद्-वृत्तिभ्यो व्यतिरिक्तत्वात् शुद्धैत्य् अर्थः । तस्मात् ज्ञान-रूपेणसर्वेषाम् उपादानेन व्यापकेन मद्-आत्मना ज्ञान-रूपस्य निजात्मनस् तादात्म्य-भावनया सुखिन्यो भवत । किम् अनया बहिर्-योग-दुःख-मय-भावनया ? इति भावः । माया-वृत्तिभिर् इति पाठेऽपि स एवार्थः ।

द्वितीये त्व् अर्थे—यो मम तादृश-विग्रह-रूपात्माभवतीभिर् निर्धारितः, स तु सुषुप्त्य्-आदि-वृत्तिषु भवतीभिर् ईयते अनुभूयते एव, मत्-समाधेर् एव भवतीषु सुषुप्तवद् भासमानत्वात्। यथोक्तं—

जाग्रत्-स्वप्न-सुसुप्तिषु योगस्थस्य च योगिनः । > या काचिन् मनसो वृत्तिः सा भवत्य् अच्युताश्रया ॥ इति ।

तम् एवात्मानं विशिनष्टि—ज्ञान-मयो नाना-विद्या-विदग्धः शुद्धो दोष-रहितः व्यतिरिक्तोविशेषेणसर्वोत्तमः गुणान्वयःसर्व-गुण-शालीति


तृतीयेऽप्य् अर्थे—भवतीभिर् यत् सुषुप्त्य्-आदिषु स्वीय-मन-आद्य्-आश्रयस्तादृशो यो ममात्मानुभूयते स च गौतमीय-तन्त्रादि-स्थस्य—

नवीन-नीरद-श्यामं नीलेन्दीवर-लोचनम् । > वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिणम् ॥

इति वर्तमान-वन्दनात्मकस्य सार्वदिकानुशीलनीयस्यश्री-गोपाल-स्तव-राजादेर् दृष्ट्या नित्य-तत्-तद्-विध एव ज्ञेय इति भावः॥३१॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १५८) : ननु प्रकटम् एव मथुरायां विक्रीडसि तर्ह्य् अत्राप्य् अधुना विर्कीडसीत्य् अत्रास्माकं सम्भावना कथं जायताम् इत्य् आशङ्क्य तासाम् एवानुभवं प्रमाणयति—आत्मेति । यद् वा, आस्तां तावद् अप्रकट-लीलायां मद्-वियोगाभाव-वार्ता । प्रकट-लीलायाम् अपि तयानुसन्धीयताम् इत्य् आह—आत्मा ज्ञान-मय इत्य्-आदि ।

अर्थश् चायम्—आत्म-शब्दोऽस्मिन्न् अस्मच्-छब्द-परः । ततश् च,आत्मा अहं श्री-कृष्ण-लक्षणो भवतीनां सुषुप्त्य्-आदि-लक्षणाभिर् मनो-वृत्तिभिर् ईयते अनुभूयत एव । कीदृशः ? ज्ञान-मयो नाना-विद्या-विदग्धः । शुद्धो दोष-रहितः । विगतोऽतिरिक्तो यस्माद् इति वा विशेषेणातिरिक्त इति वा व्यतिरिक्तः सर्वोत्तमः ।गुणान्वयः सर्व-गुण-शाली ।

अत एव स च स्फूर्ति-रूपोऽयम् अनुभवः कदाचित् साक्षात्कार-द्वारापि कल्प्यते इति चिर-काल-विरहेऽपि तासां सन्धुक्षण-कारणं ज्ञेयम् । अत्र सुषुप्तेऽपि तत्-स्फूर्ति-निर्देशः सर्वदैव स्फुरामीति-मात्र-तात्पर्यकः ।

यद् वा, तत्र तासां स्वप्न-जाग्रतोर् अनन्य-वृत्तित्वं सिद्धम् एव । वृत्त्य्-अन्तरासम्भवात् तु श्री-कृष्ण-समाधि-लक्षणे सुषुप्तेऽपि तस्मिन्न् एव स्वप्न-जाग्रद्-गतानां वृत्ति-वैचित्रीणां तद्-अनुभाविता-मात्रावशेषतया प्रवेशो भवति । तद्-उत्तर-काले प्राकृतैः “सुखम् अहम् अस्वाप्सम्” इतिवत् ताभिः स इति एवानुसन्धीयते इति तथोक्तम् ।

तथा हि गारुडे—

जाग्रत्-स्वप्न-सुसुप्तिषु योगस्थस्य च योगिनः ।

या काचिन् मनसो वृत्तिः सा भवत्य् अच्युताश्रया ॥ इति ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथाहं च मनः प्राण[१०.४७.२९] इत्य्-आदिनोक्तम् अर्थं प्रकटयति—आत्मा ज्ञान-मय इत्य्-आदि । आत्मा मल्-लक्षणोऽहम् इत्य् अर्थः । ज्ञानमयः सर्वज्ञत्वात् । अतो भवतीनाम् अन्तर्-गतं यत् किञ्चित्, तत् सर्वं जानाम् इ । तेनाकृतज्ञ इति नाहम् अवज्ञातव्यः, यतह् शुद्धो निरपराधः । सुषुप्ति-स्वप्न-जाग्रद्भिर्मनो-वृत्तिभिर् ईयते गम्यते, अर्थाद् भवतीभिः । अत एव भवतीनां मनः-प्राणेन्द्रियादिष्व् अहं वर्ते इति । व्यतिरिक्तोऽपिदूरस्थोऽपि अत एव अगुणाश्रयोऽपि रूपादि-गुणानाम् अनाश्रयोऽपि ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि तव स्व-स्वरूपं किं लोकैः कथं वा ज्ञेयम् ? इति चेत् मत्-स्वरूपं तु गुणातीतम् अन्तर्यामि-संज्ञं सर्वत्र प्रतीयत एवेत्य् आह । आत्मापरमात्माज्ञान-मयः ज्ञानं मायातीतं चित्, तन्-मयः । गुणैः सृष्ट्य्-आदि-कर्तृत्वेऽप्य् अचिन्त्य-शक्त्या तत्-सम्बन्धाभावाच् छुद्धः । शरीर-मध्य-वर्तित्वेऽपिव्यतिरिक्तः । गुणाधिष्ठातृत्वेऽपि न गुणान् अन्वेतीति सः । स तु सर्वैर् अप्य् अनुमान-गम्य इत्य् आह—सुषुप्तेति । ईयते अनुमीयते। यद् उक्तं पक्षे—गुण-प्रकाशैर् अनुमीयते भवान् [भा।पु। १०.२.३५] इति ।

भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हरिः ।

दृश्यैर् बुद्ध्य्-आदिभिर् द्रष्टा लक्षणैर् अनुमापकैः ॥ [भा।पु। २.२.३५] इति च ।

आत्माहं ज्ञान-मयः । अत्र स्थितोऽपि युष्मद्-विषयकातिशय-ज्ञानवान्, न तु कदाचिद् अपि युष्मान् विस्मरामीत्य् अर्थः । स्थितोऽपि मथ्रुआङ्गना-सङ्ग-दोष-रहितः, यतो व्यतिरिक्तः । युष्मद्-वियोग-खिन्नः कथम् अन्या रोचयामीति भावः । यतो गुणान्वयः युष्मद्-गुणान् सौन्दर्य-मधुर-कटाक्षावलोकादीन् अन्वेमि ध्यानेन निरन्तरं प्राप्नोमीत्य् अर्थः । एवं-भूतो युष्माभिर् अपि सदैवाहम् अनुभूय इय् आह—सुषुप्तेति । तत्र सुषुप्तेन ममात्मनोऽनुभूत-चरस्यरूप-गुणादि-सामान्यं स्वप्ने न तद्-विशेषः । जागरेण तु हास्य-लास्यादि-सम्भोग-माधुर्य-मयः । साक्षाद् आत्मैव ईयते अनुभूयते एव ॥३१॥


॥ १०.४७.३२ ॥

येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवद् उत्थितः ।

तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? मनो-निरोधेतद्-अभावाद् इति व्यतिरेकं दर्शयितुं मनो-निरोधं विधत्ते—येनेति । उत्थितः पुमान् यथा मिथ्या-भूतम् एव स्वप्नं ध्यायति, एवं बाधितान् अपि इन्द्रियार्थान् शब्दादीन् येन मनसा ध्यायेच् चिन्तयेत् । ध्यायंश् च येन इन्द्रियाणिप्रत्यपद्यत प्राप,तन् मनो विनिद्रोऽनलसः सन्निरुन्ध्यान् नियच्छेद् इति ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुतो मायिकं नानात्वम् ? इत्य् आशङ्क्य स-हेतुकं तदाह—मनइत्य्-आदिना । व्यतिरेकम् अभावः । एवं स्वप्नवत् । येन मनसा ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्व-श्लोकस्य टीका द्रष्टव्या।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो अन्तर्यामित्वेन सर्वेन्द्रिय-प्रवर्तकत्वेन च सर्वत्रप्रकाशमानम् अपि मां भवतीभिर् विना न कोऽपिविषयासक्त्या द्रष्टुम् अर्हतीति विषयेभ्योऽन्येन सर्वेण मनो नियन्तव्यम् एवेति प्रसङ्गात् तासांमाहात्म्यार्थम् एवाह—येनेति । तैर् व्याख्यातम् ।

यद् वा, ततश् च विनिद्रो निर्मायः सन्न् इन्द्रियाणि प्रति सर्वेन्द्रियेष्व् एव मां मद्-भक्तः प्रत्यपद्यत, प्राप्तेर् निर्धारार्थम् अतीत-निर्देशः, प्रतिपद्यत एवेत्य् अर्थः । यद् वा, श्रद्धार्थं पूर्व-पूर्व-सद्-आचारो दर्शितः । अन्यत् समानम् ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : येनेति । तैर् व्याख्यातम् ।तत्रचिन्तयेत् चिन्तयति,प्राप प्राप्नोतीत्य् अर्थः ।

द्वितीयोऽर्थो यथा—ननु सत्यं साक्षात्कार-निभा सा स्फूर्तिः । किन्तु न सदेति बहिर्-दृष्ट्या वियोग-स्फूर्तेर् अप्य् एक उपाय उच्यते । बहिर्-वृत्तितो मनो-निरोध एवेति योग-शास्त्र-क्रियाम् उपदिशति—येनेति


तृतीयोऽपि—हन्त यद्य् अस्मिन् प्रकाशे वियोग एव च, तद्-दृष्टिश् चास्माकं हातुम् अशक्या भवतश् च नागमनं, तर्हि कथम् इव कालं क्षिपामः ? इत्य् आशङ्क्य ममागमनं यावन्मनो-निरोधः क्रियताम् इत्य् अभिप्रेत्याह—येनेति ॥३१॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १५९) : ननु तथाप्य् अस्माकं विरह एव सर्वोपमर्दकः स्फुरति । किं कुर्मः ? इत्य् आशङ्क्य, हन्त यदि मद्-वियोगिताभिमानि-मनो-वृत्तिं कथम् अपि रोद्धुं शक्नुथ, तदा स्वत एव नित्य-संयोगित्वम् उदेष्यतीत्य् एवम्-उपदेशेन वक्तुं योग-शास्त्र-प्रक्रियाम् आह—येनेति द्वाभ्याम् ।

उत्थितः पुमान् यथा मिथ्या-भूतम् एव स्वप्नं ध्यायति, एवं बाधितान् अपि इन्द्रियार्थान् शब्दादीन् येन मनसा ध्यायेत चिन्तयेत्, ध्यायंश् च येनेद्रियानि प्रत्यपद्यत प्राप, तन् मनो विनिद्रोऽनलसः सन् निरुन्ध्यान् नियच्छेद् इति ।

यद्यपि स्वप्नादिवत् तद्-विरहस् तासु नाज्ञानाध्यस्तः, प्रकट-लीलायां तस्याप्राप्तेस् तासाम् एवानुभव-सिद्धत्वात्, तथाप्य् अप्रकट-लीलायां नित्य-संयोगम् अनुसन्धापयितुं तस्य तादृशत्वेनैवोपदेशो भगवता योग्य इति तथोक्तम् । एकांशेऽपि संयोगे वियोगो नास्त्य् एवेति वा ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं भवतीभिर् एव मद्-रूप आत्मा एवं-प्रकारेण ईयते, अपि तु भवत्योऽपि मया तथैव ईयते इत्य्-आदि । येन हेतुना मद्-रूप आत्मा इन्द्रियार्थान् रूपादीन्, अर्थात् भवतीनाम् एव, ध्यायेत ध्यायतीत्य् अर्थः । अनुभूतानि रूपादीनि ध्यायामीति यावत् । इन्द्रियार्थ-ध्यानेन तद्-अनुभवेऽपि स्वप्नवत् मृषा, न वास्तवोऽनुभवः, वियोग-दुःख-शमनत्वाभावात् । अतस् तस्माद् ध्यानाद् उत्थितः सन् तन् निरुन्ध्यात्, तन्-निरुद्धे दुःखं सहेतेत्य् अर्थः । तदा विनिद्रः सन् इन्द्रियाणि भवतीनां कर-चरणादीन्य् एव प्रत्यपद्यत प्रतिपद्यते । सर्वत्र विभक्ति-विपरिणामः । तेन, तथाहं च मनः प्राण [१०.४७.२९] इत्य्-अदि यद् उक्तं, तत् साध्व् एव । अतो, भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् [१०.४७.२९] इति मान्यथा शङ्कनीयम् ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपदिष्टोऽयं ज्ञान-योगो मनो-निरोधे सति फलतीति मनो-निरोधं विधत्ते। येन मनसा इन्द्रियार्थान् विषयान् ध्यायेतौत्थितः प्रबुद्धो जनः स्वप्नवत्स्वप्नं यथामृषा-भूतान् अप्य् अर्थान् ध्यायेत्, तन् मन इन्द्रियाणि च निरुन्ध्यात्, यतो विनिद्रः सावधान एव जनःप्रत्यपद्यत,प्रतिपन्नो ज्ञानवान् अभूद् इति भावः ।

यतो विनिद्रः निद्रा-रहित एव भवद्-आदिः इन्द्रियाणि स्व-नेत्रादीनि प्रत्यपद्यतप्रत्यक्षत एव निरञ्जन-नीराग-निश्चन्दनानि अपद्यत ज्ञानवान् एव, युष्माभिर् अनुरागान्धाभिर् महा-विरहौत्कण्ठ्य-विगत-विचाराभिर् मत्-कर्तृक-युष्मत्-कर्मक-नाना-विध-सम्भोगोऽपि यन् मृषा-भूत एव मन्यते, एतद् एव मे महद्दुःखम् ।अत एव तत्-तत्-सत्यापनार्थकम् एतत्-सन्देश-प्रेषणं ममेति भावः॥३२॥


॥ १०.४७.३३ ॥

एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।

त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तावता च कृतार्थो भवतीत्य् आह—एतद्-अन्त इति । एष मनो विरोधः अन्तः समाप्तिः फलं यस्य सः । समाम्नायो वेदः । स तत्र पर्यवस्यतीत्य् अर्थः । योगोऽष्टाङ्गः,साङ्ख्यम् आत्मानात्म-विवेकः,त्यागः संन्यासः,तपः स्व-धर्मः,दम इन्द्रिय-दमनम् । मार्ग-भेदेऽप्य् एकत्र पर्यवसाने दृष्टान्तः—समुद्रान्ता आपगा नद्य इवेति ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावता मनो-निरोध-मात्रेण । इत्य् अर्थ इति—अन्यथा वेदाभ्यासादि निष्फलम् एव । तथा च वक्ष्यत्य् एकादशे श्री-कृष्णः—

दानं स्वधर्मो नियमो यमश् च

श्रुतं च कर्माणि च सद्-व्रतानि ।

सर्वे मनो-निग्रह-लक्षणान्ताः

परो हि योगो मनसः समाधिः ॥ [भा।पु। ११.२३.४६]

इत्य् अष्टाङ्गो यमादि-समाध्य्-अन्तः । अपां समूह आपः प्रवाहः, तेन गच्छन्तीत्य् आपगाः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहो प्रियाः ! किं बहुना प्रलपितेन ? श्रूयताम् इत्य् आह—एतद्-अन्तैत्य्-आदि । समाम्नायः प्रेम्णः परस्परा एतद् अबाधः । तत्रदृष्टान्तः—समुद्रान्ताइत्य्-आदि। समाम्नायं रूपकालङ्कारेणरूपयति—मनीषिणाम् अयम् एव योगैत्य्-आदि । इदं सत्यम् एव ब्रवीमीति यावत् ॥३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एष मनो-निरोधः । किं वा, एषा सर्वेन्द्रियेषु मत्-प्राप्तिर् एवान्त्ये यस्य, अस्य लिङ्ग-विपरिणामेन सर्वैर् अप्य् अन्वयः । मनीषिणां बुद्धिमताम् इति निर्बुद्धीनां लाभ-पूजाख्यात्य्-अर्थम् एवेति भावः । आम्नायः शास्त्रं ज्ञापकं, योगादयः साधनानि, तत्र सत्यं विविध-कर्मस्व् अपि सदा वित्त-शाठ्यादि-वर्जनम् । योगः साङ्ख्यं च सर्वेषाम् एव सामान्यो धर्मः, त्यागादयः क्रमेण प्रायो यति-वनस्थ-ब्रह्मचारि-गृहि-धर्माः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, त्यागो दानं गृहि-धर्मः, सत्यं सम-दर्शनं यति-धर्मः । यद् वा,सर्व एवैते मुख्याः सामान्य-धर्माः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद् इति तैर् व्याख्यातः । किं च,आम्नायः शास्त्रं ज्ञापकम् ।योगादयः साधनानि । तत्र सत्यं विविध-कर्मस्व् अपि सदा वित्त-शाठ्यादि-वर्जनम् ।योगः साङ्ख्यं च सर्वेषाम् एव सामान्य-धर्मः । त्यागादयः क्रमेण यति-वनस्थ-ब्रह्मचारि-गृहि-धर्माः । यद् वा, त्यागो दानं गृहि-धर्मः । सत्यं सम-दर्शनं यति-धर्मः । यद् वा, सर्व एवैते मुख्याह् सामान्य-धर्मा इत्य् अर्थ-त्रयेऽपीदं समानम् ॥३३॥


जीव-गोस्वामी ([क्रम]{।मर्क्}-सन्दर्भः १६०) : तं मनो-निरोधम् एव स्तौति—एतद् इति । एषमनो-निरोधोऽन्तः समाप्तिः फलं यस्य सः । समाम्नायो वेदः । स तत्र पर्यवस्यतीत्य् अर्थः । मार्ग-भेदेऽप्य् एकत्र पर्यवसाने दृष्टान्तः—समुद्रान्ता आपगा नद्य इव इति । यस्मात् सर्वैर् एव वेदादि-विद्भिः प्रशस्यते मनो-निरोधः, तस्माद् यूयम् अपि मद्-वियोगाभिमानि-मनो-वृत्तिं नियच्छथेति पद्य-द्वयेन ध्वनितम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं बहुना ? भवतीभिः सह मयायं प्रेमानुबन्धोऽवधि-भूत इति जानीथेत्य् आह—एतद्-अन्त इत्य्-आदि । योग एतद्-अन्त एतद्-अवधिः । अतः परं संयोगानन्तरं नास्तीति भावः । कीदृशः समाम्नायः ? समाम्नायः सम्यग्-आम्नायः पौनःपुन्यं यस्य । मनीषिणां बुद्धिमताम् अयम् एव साङ्ख्यं त्यागस् तपोदमश् च । एवं-विधो मयि योगः । मम च भक्तेषु योगः सर्व-शास्त्र-प्रतिपाद्यः । मयि योगे सति तस्मिन् ममापि योगः स्वाभाविक एवेति भावः ।

अत्र दृष्टान्तः—समुद्रान्ता इवेति । यथा नद्यस् तावद् एव स्व-रूपेण वर्तन्ते, यावत् समुद्रं न प्रविशन्ति । साङ्ख्यादि तावद् एव यावत् मय्य् एवं योगो न भवति, भूते सति तानि हेयानि भवन्तीति भावः ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनो-निरोधार्थका एव सर्व-शास्त्रोक्ताः सर्वेऽप्य् उपाया इत्य् आह—एतद्-अन्त इति । एष मनो-निरोध एव अन्तः समाप्तिः फलं यस्य सः । समाम्नायः सम्पूर्णो वेदः, स तत्र पर्यवस्यतीत्य् अर्थः । योगोऽष्टाङ्गः,साङ्ख्यम् आत्मानात्म-विवेकः । मार्ग-भेदेऽप्य् एकत्र पर्यवसाने दृष्टान्तः—समुद्रान्ता आपगा नद्य इव ।

पक्षे, यथा—मनो-निरोधे सत्य् एव संसार-तरणं, तथैव भवतीनाम् अपि मद्-विरह-तरणं मनो-निरोधाद् एव । यत् खलु मनः सत्यम् अपि मत्-सङ्गं भवतीर् अलीकत्वेन प्रत्याययतीति भावः । अर्थस् तूभयत्र तुल्य एव ॥३३॥


॥ १०.४७.३४ ॥

यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।

मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किम् अन्यान् इवास्मानात्म-विद्यया प्रलोभयसि, वयं तु सर्व-सुन्दर-सकल-गुण-गणालङ्कृतेन त्वया विरहं नैव सहाम इति चेत्, अत आह—यत् त्व् अहम् इति । दृशां दूरे यद् वर्ते, तन् मद्-अनुध्यानार्थम् । तच् च ध्यानं मनसः सन्निकषार्थम् इति ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न हि वयं संन्यासिन्यो यतो ब्रह्म-ज्ञानेन सन्तोषं करिष्याम इति कृत्वा शङ्कन्ते—नन्व् इत्य्-आदिना । अतोऽत्र । यद् अहं वर्ते । मद्-अनुध्यान-काम्यया निरन्तर-मद्-उपासनेच्छया । सन्निकर्षः सामीप्यम् ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि कथम् अस्मान् अत्याक्षीः ? तत्राह—यत् त्व् अहम् इत्य्-आदि । इयम् एव मे प्रकृतिः । उक्तं च पुरैव—यथाधनो लब्ध-धनः [भा।पु। १०.३२.२०] इत्य्-आदिमनसः सन्निकर्षार्थम् इति ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एवं वञ्चनयालं, साक्षाद् एव त्वां द्रष्टुम् इच्छामः, तत् किम्-अर्थं तत्र चिरं विलम्बसे ? तत्राह—यत् त्व् इति द्वाभ्याम् ।तु-शब्दो भिन्नोपक्रमे । प्रिय इति दूर-स्थित्य्-अयोग्यतोक्ता, तथापिदूरे वर्ते । दृशाम् इति साक्षाच् चक्षुर्-गोचर एव केवलं न वर्ते । अन्येन्द्रियेषु च सदा वर्त एवेत्य् अर्थः । तच् च ममानुध्यानं निरन्तरं भवत्-कर्मक-चिन्तनं, तत्-काम्यया । पाठान्तरेऽपि स एवार्थः । तच् च मन्-मनोभवतीनांसन्निकर्षार्थं नैकट्याय ।

अयम् अर्थः—यथासर्व-परित्यागेन भवतीनां मनो मयि सदा सुस्थिरं,तथा मम न भवतीषु, अतो लज्जयाशेषापेक्षया निज-मनसो भवतीनां सदा सामीप्य-प्राप्त्य्-अर्थम् अत्र तिष्ठामीति ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् अप्रकट-प्रकाशे वियोग एव नास्ति, प्रकट-प्रकाशे\ऽपि बहिः प्रातीतिकः प्रायिक एव च कदाचित् स्फूर्तेर् अपि साक्षात्कर-पदवी प्रप्तत्वात् । स च केनापि मम स्वभाविकेन दुताग्रहेणैवास्तीति ज्ञायताम् इत्य् अभिप्रेत्य तम् एवाग्रहं दर्शयति—यत् त्व् इति द्वाभ्याम् ।\


तु-शब्दो भिन्नोपक्रमे । कंस-वध-लक्षण-महाकार्यानुरोधेनैव तावद् अत्रागतः । सम्प्रति तु कार्यावशेष-परित्याग-पूर्वकागमन-योग्यत्वे\ऽपि यद् अहं यादृशो मित्राणि, तासाम् एव दूरे वर्ते । न तु भवतीनाम् अपि अप्रकट-प्रकाशेन तत्र विद्यमानत्वात् । तत्रापि केवलं वर्ते, न तु सुखेनास्मीत्य् अर्थः । तत् खलु मत्-कर्तृकं यद् अनुध्यानं तत्-कामाय तद्-धेतोर् एव स्थानं भवत्-कर्तृकं क्षणं युग-शतम् इव यासां येन विनाभवत् [भा।पु।] इति प्रसिद्ध्या पूर्वत एव सिद्धं मद्-विषयं अनुध्यानं तद्-अनुगतं तत् सदृशतां प्राप्तं मत्-करेतृकं भवद्-विषयं प्रेयसी-कर्तृकस्याग्रे वक्ष्यमाणत्वात् । तन् मम मनस्य् उदियाद् इति वाञ्छयेत्य् अर्थः ।

तच् च किम्-अर्थं? तत्राह—मनसो यः सन्निकर्षः भवतीनां सान्निध्य-योग्यता, तद्-अर्थम् इत्य् अर्थः । यतस् तां विना मम चेतसि सदैव लज्जा जायत इति भावः । उक्तं च स्वयम् एव—न पारये\ऽहं निरवद्य-संयुजाम् [भा।पु। १०.३२.२०] इत्य्-आदि । एवम् ईदृशं भवद्-उपासनयैव तद्-योग्यता स्याद् इतीडृशम् अपि दुःखं सहे इति वाक्यार्थः । उक्तं च मुनिभिः—

न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते । > कषायिते हि वस्त्रादौ भूयान् एवाभिवर्धते ॥३४॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १६१) : ननु, “अहो यदि तद्-विरहेण वयम् अतिदुःखिता इत्य् अतः कृपालु-चित्त एव त्वम् अस्मभ्यं निज-प्राप्ति-साधनम् उपदिशसि । तर्हि स्वयं किम् उ प्रकटम् एव नायासि, तस्मात् कैतवम् एवेदं तव कृपालुत्वम्” इत्य् आशङ्क्याह—यत् त्व् अहम् इति ।

साम्प्रतं भवतीनां दृशां प्रियोऽप्य् अहं यद् दूरे वर्ते, तद्भवतीनांमद्-अनुध्यानेच्छया यो मनसः सन्निकर्षस् तद्-अर्थं मम भवन्-निकट-स्थितौ मद्-अर्थं भवतीनां दृश्ये वावेशः स्यात्, भवद्-दूरे तु मनस्य् एवेति तत्र मम सन्निकर्षः स्याद् इत्य् एतद्-अर्थः ॥३४॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४१३): अत्र प्रकाशान्तरेण सर्व-व्रज-सहितस्य तस्य नित्य-वृन्दावन-विहार-रूपोऽर्थस् तत्रैव [कृष्ण-सन्दर्भे] प्रतिपादितः । यस् तु व्यक्तो ज्ञान-योग-प्रतिपादकः, स च दुःखादौ शमयितव्ये लोक-रीत्या सम्भवतीत्य् एके । तत्र ज्ञान-योगोपदेशेन तासां न शान्तिर् इति द्वितीय-सन्देशो यत् त्व् अहं भवतीनां वै [भा।पु। १०.४७.३४] इत्य्-आदिकः, या मया क्रीडता रात्र्यां [भा।पु। १०.४७.३७] इत्य् अन्तः । अत्र यत् त्व् अहम् इत्य् आदौ, अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया गतान् [भा।पु। १०.८२.४२] इत्य्-आदि वक्ष्यमाणानुसारेण कार्यान्तरस्यापि भगवत्-प्रेम-सुख-वृद्धि-फलत्वम् एवेत्य् अभिप्रायः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इवेति । यथा नद्यस् तावद् एव स्व-रूपेण वर्तन्ते, यावत् समुद्रं न प्रविशन्ति । साङ्ख्यादि तावद् एव यावत् मय्य् एवं योगो न भवति, भूते सति तानि हेयानि भवन्तीति भावः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो उद्धव ! एतेन सन्देशेनास्मांस् त्वं द्विगुणम् उपालयसि स्म । तस्मात् तं सन्देश-प्रेषकं काल-देश-पात्रान् अभिज्ञं किं ब्रूमस् त्वां वा परामर्श-शून्यं किम् आक्षिपामः । एतद् ब्रह्म-ज्ञानं खलु व्रज-भूमाव् अस्यां कः क्रेष्यति ? यस्यभावस् त्वया एतावत् दूरम् आनीतः । किम् एते गोपी-जना जन्मावधि श्री-कृष्ण-सौन्दर्यामृत-पायिनः सम्प्रति ब्रह्म-ज्ञान-निम्ब-रसं पास्यन्तीति महा-दुर्भिक्षे हि वरम् इह स्त्रियः प्राणान् जहति, तद् अपि घासं नाश्नन्ति । शृणु रे महा-मूर्ख ! शृणु इदं ब्रह्म-ज्ञानं खलु संसार-रोगस्यौषधं महा-मुनि-चिकित्सकानां हृदय-पर्ण-शालायां तिष्ठति । किम् इदं कृष्ण-प्रेम-महा-रोगस्य भेषजं भवति ते चिकित्सका अपि किम् इमं रोगं तावत् कदापि परिचिन्वन्त्य् अपि सान्दीपनि-मुनेः सकाशाच् चिकित्सा-शास्त्रम् अधीत्य त्वाम् उद्धवम् अध्याप्य अस्मभ्यं प्रेम-ज्वालोपशमकम् औषधं प्रेषयामास ? गच्छाधुनैवास्मत्-प्रेषित इदम् औषधं नीत्वा स एव एतत् पीत्वा अस्मद्-विषयकस्य प्रेम-रोगस्य ज्वालां न्यवर्तयन् पुनर् अपि रोग-शेषं निवर्तयतु, अस्माकं प्रेमानल-महा-ज्वालैव शत-जन्म-पर्यन्तं वर्ततां, न चतद् औषध-स्पर्शोऽपि किम् अपरे दावानलोपशमकोऽप्य् अम्बु-राशिर् वज्रानलम् उपशमयितुं शक्नोति ।

किं चास्यसन्देशस्यान्तर् अस्मत् किञ्चिद् अनुकूलाप्य् अर्थो यो यथा कथञ्चित् भासते स किं तद्-अभिप्रेतो घुणाक्षर-न्यायेनायातो वेति न तत्र विश्वसिम इति स-संरम्भं ब्रुवाणासु तासु भो स्वामिन्यः क्षणम् अवधत्त ब्रह्म-ज्ञानाद् अन्यम् अपि सन्देशम् आनीतवान् अस्मीत्य् उक्त्वा तत्र श्रोतुं श्रद्दधानास् ताः प्रति कृष्ण-वाक्यम् आह—यत् त्व् अहम् इति । भवतीनांदृशां प्रियोऽपि यद् अधुना दृशां दूरे वर्ते तन् मद्-अनुध्यान-काम्ययैव । तच् चानुध्यानं मनसः सन्निकर्षार्थम् । अतोऽधुना भवतीनां मनसः समीप एव वर्ते । एकत्रोपलक्षणम् एतत् मम दृशां प्रिया अपि भवत्यो यद् अधुना दृशां दूरे स्थितास् तन् मनसः समीप एव वर्तध्वे इत्य् अप्य् अर्थः । तेन च दृक्-समीप-वर्तित्वं मनः समीप-वर्तित्वे दृग्-दूर-वर्तित्वम् आसक्ति-विषयी-भूतस्य वस्तुतो भवति, अत्रापि मनो-दृशीर् मध्ये मनस एवाभ्यर्थितत्वात् मनः-समीप-वर्तित्वम् एव मद्-अभीप्सितं, तद् एवं भवतीनाम् अप्य् अभीप्सितं भवत्व् इति भावः ॥३४॥


॥ १०.४७.३५ ॥

यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते ।

स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षि-गोचरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् उपपादयति त्रयेण—यथा दूर-चर इति ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतन् मनः-सामीप्यम् । दूरे चरति गच्छतीति तथा तस्मिन् । चात् पुरुषाणाम् अपि। सन्निकृष्टे निकटस्थे । अक्षि-गोचरे इन्द्रिय-विषये ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रस्थित्या कथं तत् सुसिष्येत् तद् उपपादयति—यथेति । अपि । स्त्रीणां प्रेष्ठेऽपि दूर-चरे सत्य् एव यथा तस्य मन आविश्य वर्तते, स्त्रीष्व् आविष्टं भवति। स्त्रीणाम् इति स्त्रीष्व् एव व्यर्थः ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-आधिक्यं स्याद् इति कामनयापीत्य् आह—यथेति । स्त्रीणाम् अन्यासाम् अपि किम् उत भवतीनां च इत्य्-उक्तार्थ-समुच्चये । अतो मिथः प्रेम-वर्धनाभिलाषजो दुर्निग्रहोऽयं मम दुराग्रहो भवतीभिः क्षन्तव्य इति भावः ॥३५॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १६२) : तद् एव निदर्शयति—यथेति । -कारात् स्त्रीषु प्रेष्ठस्य च ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रापत्तिम् आह—यथा दूर-चरे इत्य्-आदि । लोकेऽप्य् एवं दृश्यते—पति-सान्निध्ये स्त्रियो वाम्यादि कुर्वन्ति, तद्-असान्निध्ये तु निरन्तरं तम् एव ध्यायन्तीति वाक्यार्थः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव स्त्री-पुंसाम् अनुभव-दर्शनायोपपादयति—यथेति । स्त्रीणां चेति, -कारात् पुंसां च दूर-वर्तिन्यां प्रेष्ठायां यथा मन आविश्य वर्तते, न तथा सन्निकृष्टायाम् अक्षि-गोचरी-भूतायां चेत्य् अर्थः ॥३५॥


॥ १०.४७.३६ ॥

मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् ।

अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : फल-सन्देहात् प्रियतम-स्मरणं मत्-स्मरण-सदृशं न, फल-निश्चयाद् इत्य् आशयेनाह—मयीति । विमुक्ता त्यक्ता अशेषाः वृत्तयः सङ्कल्पादयो येन, तत् तथा । कृत्स्नं, सर्व-भावेन कृतत्य् अज्ञानम् इति । कृत् ज्ञानं, तेन स्नस्यत आदीयत इति कृद्-उपपदात् स्नसु आदाने इति धातोर् औणादिको ङः । ज्ञान-ज्ञेयम् इत्य् अर्थः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि अस्मासु किम् इयम् एव समाधा ? नेत्य् आह—मयीत्य्-आदि । मयि कृष्णे मन आवेश्य । ननु अद्य आवेशितव्यं त्वयि मनः ? नैवम् इत्य् आह—यत् निवृत्ताशेष-वृत्ति, यद्यपि निवृत्ति-करं मनः, तथाप्य् एकान्तावेशार्थम् अचिराद् अनेनैव देहेन उपैष्यथ इति कुरुक्षेत्र-यात्रायाम् ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तथापि तद्-अर्थं चिरं तत्र स्थातुं नार्हसि, सत्यम् । अधुना तत् सुसिद्धं, अतो माम् आगत-प्रायं जानीथेत्य् आह—मयीति । अचिराद् एव मां नित्यम् अवलम्बनतया प्राप्स्यथ । नित्यम् इति पुनर् विरहं निरस्यति । ननु सर्व-शक्ति-हीना वयं तत्र निजं किम् अपि साधनं न पश्यामः, तत्राह—मयीति । विशेषेण मुक्तास् त्यक्ता अशेषा वृत्तयोऽन्य-सङ्कल्प-विकल्पाद्य्-आत्मिका येन तत् । इति स्वरूप-मात्र-कथनं स्वतः सुखेनावेश-बोधनार्थम् । किं च, कृष्णे भवतीनां चित्ताकर्षक इति । अतो माम् एवैकम् अनुस्मरन्त्य ईदृशेन भवतीनां मद्-अनुस्मरणेनैवाहम् आकृष्य तत्र नेतव्यः । तत्रभवतीनां साधनान्तरेण किम् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एतावत् सन्दिश्य पुनर् विचारयति स्म मया त्रिधा समाधानं कृतं, तद् यद्य् अप्रकट-लीलाम् अयन्ते सम्भावनया तान् मंस्यन्ते मनो-निरोधे च नोत्सहिष्यन्ते, तर्हि प्रकट-लीलायाम् एव साक्षान् मत्-प्राप्तिः समाधानाय कल्पेतेति । तद् एतद् विचार्य सोऽपि मम दुराग्रहो भवतीनाम् आग्रहेण चिराद् एव नङ्क्ष्यतीत्य् आह—मय्य् आवेश्येति । पद्येऽस्मिन्न् उत्तरत्र च मयीत्य् आद्य् अस्मच्-छब्द-प्रयोगस्य द्विस्-त्रिर्-आवृत्त्या तत्राप्य् आदित एव कृष्ण इति विशिष्य सर्वत्राप्य् उन्नेयम् इदम् इत्य् आधिकार-निर्मित्या कृष्ण-पदं यथायथं योज्यम् । तच् चावश्यकत्वायान्याकार-प्राप्ति-परिहाराय च गम्यम् इति स्थिते सोऽयम् अत्रार्थः । यद् यस्माद् विमुक्ते तवाशेष-वृत्तिकं मनो मयि कृष्णे यथा-कथञ्चित्द् आश्रयिभ्यः स्व-दायकतया प्रसिद्धेऽस्मिन् कृष्णतया प्रसिद्धाकारे आवेश्य निरन्तरं मां कृष्णतया प्रसिद्धाकारम् एव स्मरन्त्यः स्थ तस्माद् अचिराद् एव मां कृष्णतया प्रसिद्धाकारम् उप समीपे एष्यथ प्राप्स्यथैव । न तु ममात्र स्वातन्त्र्यम् इति भावः । नन्व् एवं चेत्, पुनर् अपि तथा दुराग्रहो भवतः स्यात् ? तत्र स-चाटु प्राह—नित्यम् इति । सहासेनैव तथाकरत्वं किन्त्व् इत ऊर्ध्वं न करिष्यामीति भावः ॥३६॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १६३) : मनः-सन्निकर्षे किं स्यात् श्रीघ्रम् एव लब्धो भविष्यामीति ज्ञायताम् इत्य् आह—-मयीति । विमुक्ता अशेषा विरह-तत्-कारण-भावना-रूपा वृत्तयो येन तन्-मनो मयि कृष्ण-रूपे आवेश्य मां कृष्ण-रूपम् एवानुस्मरन्त्यो मां कृष्ण-रूपम् एवाचिराद् एव समीप एवैष्यथ, अनन्य-वेद्यतया प्राप्स्यथ ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् एतावन्तं कालं किम् अस्माकं मनः सन्निकर्षो नासीत्, त्वयि दूरस्थ एव स जातः, तदा ज्ञातम् । पुनर् अस्माकं साक्षान् न भविष्यतीति कृत्वा प्रतारणा एव भवता क्रियते, इत्य् आशङ्क्याह—मय्य् आवेश्य इत्य्-आदि । मयि कृष्णे मन आवेश्य विधूताशेष-वृत्ति यथा स्यात् तथा यन् माम् अनुस्मरन्त्यो नित्यम् अवाप्स्यथ, अवाप्नुवन् विभक्ति-विपरिणामः । तद् अचिरात् चिरम् अततीति चिरात् तच् चिर-कालं न भविष्यति साक्षात् संयोग एव सम्प्रति भविष्यतीत्य् अर्थः । आन्तरेण संयोगेन नित्यम् अधुना मालम्भन्त एव भवत्यः किन्तु त्वरितं साक्षात् संयोगश् च भविष्यतीति वाक्यार्थः ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हंहो उद्धव ! एषोऽपि सन्देशः सम्प्रति त्वया स्व-हृदय-सम्पुटे एव स्थाप्यताम् । सम्प्रति कृष्णेन याः स्त्रियः सम्भुज्यन्ते कदाचित् तासांदृशां दूरवर्तिनि कृष्णे भविष्यति सति, ताभ्य एव तदानीं त्वया दातव्यः । सम्प्रति व्रजस्थासु नास्य ग्राहिकाः । यासां व्रज-वर्तिन्य् अपि दृग्-गोचरी-भूतेऽपितस्मिन् कृष्णे एकैक-निमेषेणैकैक-युग-कालं व्याप्य स-दृग्-दूर-वर्ती-कृत एवाभूत्, तदा तदैव सहस्रशो विरहेषु सहस्रकृत्व एव मनः-सन्निकर्षः खल्व् अभूद् एवासाम् इति सावहेलम् आचक्षाणासु तासु भोः स्वामिन्यः यद्य् एषोऽपि न रोचते, तर्ह्य् अस्माद् अप्य् अन्यं सन्देशं शृणुत । मया तु बहव एव सन्देशा आनीता इति प्रोच्य पुनः कृष्ण-वाक्यम् आह—मयीति । विशेषेण मुक्तास् त्यक्ता गृह-पत्य्-आदि-विषयाः अशेषा स्व-वृत्तयो येन तथा-भूतं मनः मयि कृष्णे आविश्य मां नित्यम् अनुस्मरन्त्यो यद् वर्तध्वे तद् अचिराद् एव माम् उप स्व-समीप एव वर्तमानम् एष्यथ प्राप्स्यथ ॥३६॥


॥ १०.४७.३७ ॥

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपैष्यथेति माधुर्य-मात्रम् इति चेत्, अत आह—या इति । हे कल्याण्यः ! स्व-भर्तृभिः प्रतिबद्धा या वने क्रीडता मया सह अलब्ध-क्रीडाः, तास् तदैव माम् आपुः प्रापुः॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माधुर्य-मात्रं प्रियोक्ति-मात्रम् । अत्र स्वानुभूतम् अर्थम् आह—या इति । मद्-वीर्यं मत्-स्वरूपं, वीर्यं तेजो-बल-प्रख्य-स्वरूपेषु च रेतसि इति धरणिः ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् अत्र का प्रतीतिः ? तत्राह—या मयेत्य्-आदि । ता माम् आपुः, तर्हि वयम् अपि देहान्तरेणैव प्राप्स्यामः ? नैवम् इत्य् आह—हे कल्याण्यश् चिर-जीविन्यः ! कथम् एवम् आशङ्क्यते ? शान्तं प्रतिहतम् अमङ्गलम् अचिराद् इति पूर्वम् एवोक्तम् । अनेनैव देहेन प्राप्स्यथेत्य् अर्थ इति सरस्वती-रहस्यं गोप्य एव विदुः, नोद्धवोऽपि तथा ज्ञानवान् ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तत्र विश्वासं कर्तुं न शक्ताः स्मः, तत्राह—या इति । मया क्रीडता सह । किं वा, मयि क्रीडति सतीत्य् अर्थः । अस्मिन्न् इति सदैव चित्तान्तः-साक्षाद् इव तद्-वृत्तेः । किं वा, तत्रागमनस्याविलम्बता-बोधनार्थम् । मा न, मा-शब्दो नञ्-अर्थे । अलब्ध-रासा न वृत्ताः, किन्तु मम वीर्याणां रास-क्रीडादि-लक्षणानां चिन्तया ध्यानेन वा माम् आपुर् एव, यतः कल्याण्यः, युष्मत्-सख्य-सौभाग्यवत्य इत्य् अर्थः । मद्-ध्यानस्यायं प्रभावो व्यक्त एवेति विश्वासः कार्य एवेति भावः ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रमाणं दर्शयति—या इति । अस्मिन् प्रकट-प्रकाशात्मके वृन्दावने रात्र्यां तस्यां क्रीडता मया कृष्णतया प्रसिद्धाकारेण सह अलब्ध-रासाः । तत्र हेतुः—व्रज आस्थिता रुद्धा इत्य् अर्थः । ता अपि मद्-वीर्य-चिन्तया मम कृष्णतया प्रसिद्धाकारस्य सर्वातिक्रमि-मद्-गुण-प्रभावेण मा मां कृष्णतया प्रसिद्धाकारम् आपुर् एव अप्रकट-प्रकाशात्मके वृन्दावने इति भावः । कल्याण्य इति सम्बोध्य भवत्यस् तु साक्षाद् एव प्राप्स्यन्ति, न तु जहुर् गुण-मयं देहम् [भा।पु। १०.२९.११] इति रीत्येति व्यञ्जितम् ॥३७॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १६४) : “तर्हि कथं प्रकटं नागच्छसि ?” तत्राह, “तस्य झटिति प्राप्तेर् वृन्दावन एव लीलान्तर-नित्यास्तितायाश् च प्रतीत्य्-अर्थं निदर्शनम्” अप्य् आह—या मयेति । तद् बहिर्-विघ्न-वञ्चनार्थम् इत्य् अर्थः । ता हि तद्-रात्रि-प्रकट-रास-मात्रम् अलब्धवत्योऽप्य् अस्मिन् वृन्दावन एव सर्व-विघ्नास्पृष्टाः प्रकट-विचित्र-क्रीडा-निधानं माम् आपुर् एवेति । तथा च वासना-भाष्य-धृतं मार्कण्डेय-वचनम्—

तदानीम् एव तं प्राप्ताः श्रीमन्तं भक्त-वत्सलम् । > ध्यानतः परमानन्दं कृष्णं गोपाल-नायिकाः ॥ इति ।

तत्रापि हे कल्याण्यः ! सर्व-विघ्न-रहिताः ! अर्थान्तरे स-शरीरा एव च । स-शरीरा इति तत्-तद्-देह-त्यागेन भवतीनां मत्-प्राप्तिर् न स्यात्, किन्त्व् अनेनैव देहेन मत्-प्राप्तिः स्याद् इति भावः ।

तासां शरीर-परित्यागादिकं तु मायिकम् एवेति भावः । तस्मात् तासां व्रजे प्राकट्येनानुपलम्भात् तथा मयि भक्तिर् हि भूतानां [भा।पु। १०.८२.४४] इत्य्-आदि वक्ष्यमाणानुसारेण मार्कण्डेय-वचनानुसारेण च तदीयाभीप्सित-रूप-विलासस्यैव मम प्राप्तेः सिद्धत्वाच् च विद्यत एव प्रकटाया अस्या लीलाया पृथक् तस्मिन्न् अन्या लीला, तस्यां च ममेव युष्माकम् अपि स्थितिर् अध्यवसीयताम् । याम् एव लीलां मदीय-व्रजागमनासकृत्-प्रतिज्ञानुसारेण शीघ्रम् एव यदु-पुर्याः सकाशाद् भवत्-प्रेम-यन्त्रिततया समागत्याहं (सर्व-समञ्जसतया भवतीनां तत्-तद्-विघ्न-निवारण-पूर्वकं) सर्वेभ्य एव व्रज-वासिभ्यः सन्ततं दर्शयिष्यामीति भावः । अस्मिन्न् इति निर्देशात् तदानीम् अपि स्वस्य वृन्दावन-स्थत्वं सूचयति । प्रकरणेऽस्मिन्न् इदम् उक्तं भवति । न ह्य् अत्र तासाम् अध्यात्म-विद्या श्रेयस्करी भवति ।

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः । > न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भा।पु। > ११.२०.३१]

इति श्री-भगवता,ज्ञाने प्रयासम् उदपास्य नमन्त एव जीवन्ति [भा।पु। १०.१४.३] इति ब्रह्मणा च साधारण-भक्तानाम् अप्य् अनुपादेयत्वेनोक्तत्वात् । न च तच्-छ्रवणेन तासां विरह-ज्वाला शाम्यति । तं श्यामं मनोहरं विना साधारण-भक्तानाम् अपि, स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.१८] इत्य् उक्त-दिशा, नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं [भा।पु। ३.१५.४८] इत्य्-आद्य्-उक्त-दिशा वा हेय-रूपत्वेनैवानुभवात् । तासां तु स्व-रसस्य परम-विरोध्य् एव तत् । पूर्वं च, श्रूयतां प्रिय-सन्देशोभवतीनां सुखावहः [भा।पु। १०.४७.२८] इत्य् एवोक्तम् ।

अत उक्तं तासाम् एवाभिप्राय-कथने श्री-स्वामिभिर् अपि—ननु किम् अन्यान् इवास्मान् आत्म-विद्यया लोभयसि ? वयं तु सर्व-सुन्दर-सर्वालङ्करणेन त्वया विरहं नैव सहामहे [भावार्थ-दीपिका १०.४७.३४] इति । तस्माद् विदुरस्येव कूटोक्तिर् इयम् इत्य् उक्त एवार्थी भवत्य् अन्तरङ्गः । स च युधिष्ठिरस्येव तासाम् एव गम्य इति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत्र किं प्रमाणम् ? इत्य् आशङ्क्य सोदाहरणम् आह—या मया क्रीडतेत्य्-आदि । या व्रज-वध्वोऽलब्ध-रासास् तेनेश्वरेण न लब्धो रासो याभिस् ताः । अस्मिन् व्रजे रात्र्यां क्रीडता मया आस्थिताः कृतास्थाः कल्याण्य आनन्द-विग्रहा भूत्वा मा माम् आपुः। जहुर् गुण-मयं देहम् [१०.२९.११] इत्य्-आदिना याः कथितास् ता एव तत्-क्षणं कल्याण्यो भूत्वा पश्चान् मयैव रात्रौ क्रीडता रासे नृत्यता सह आस्थिता इत्य् अर्थः । कुतः ? इत्य् आह—मद्-वीर्य-चिन्तया । वीर्यं गुणाः । अतस् ता एव प्रमाणम् । तास् तु पूर्वम् अयोग्या एवासन् । तथापि मत्-प्रेम्णा तद्-देह-त्यागेन योग्य-देहं लब्ध्वा तदैव मां प्रापुः । भवत्यस् त्व् अनेनैव देहेन प्रापुश् च प्राप्स्यथ चेत्य् अर्थः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रार्थे भवतीनां मध्ये पूर्वम् अन्तर्-गृह-निरुद्धा या गोप्यस् ता एव प्रमाणम् इत्य् आह—या इति । अस्मिन् वृन्दावने रात्र्यां क्रीडता मया सह या अलब्ध-रासा अभवन् । कुतः ? व्रजे आस्थिताः, भर्तृभिर् निरुद्धत्वाद् इति भावः । ताः स्व-मनोरथासिद्ध्या मद्-विच्छेद-महा-पीडया च मर्तु-कामा अपि कल्याण्यः कल्याणवत्यो जीवन्त्य एव मद्-वीर्य-चिन्तया मा मां तदैवापुः । तत्रैवाविर्भूय रममाणेन मया सार्धम् एव तस्यां रात्रौ व्रजे स्थिताः तत्-पर-रात्रिषु रासम् अपि प्राप्ता इत्य् अर्थः ॥३७॥


॥ १०.४७.३८ ॥

श्री-शुक उवाच—

एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः ।

ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य सन्देशेनागता स्मृतिर् यासां ताः । प्रथमार्थे द्वितीया ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य । ता गोप्यः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् एतत् स्मृतिर् ज्ञानम् । अन्यत् तैर् व्याख्यातम् ।यद् वा, अहो बत तथापि तासां शोको न निवृत्तः । विशेषतश् च तत्-सन्देशाज् जात-स्मृति-वेगेन सर्वा अपि विलेपुर् इत्य् आह—एवम् इति । ईदृशम् अप्य् आकर्ण्य प्रीता हृष्टाः किं ? काक्वा, नैवेत्य् अर्थः । यतो व्रज-स्त्रियस् तद्-दर्शनैक-जीवना इत्य् अर्थः । अतस् तत्-सन्देशाद् आगता विशेषेणोद्गता तत्-स्मृतिर् यासांतथा-भूता ऊचुः । यद् वा, तत्-सन्देशेन कृष्ण-सन्देशेनागता रास सखीनां तासां कृष्ण-प्राप्तौ स्मृतिर् यासां ताः । अत एव विश्वासेन प्रीताः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वम् इति क्रमेण यदा यदा यच् छ्रुतं, तदा तदा तत्रार्थ-त्रयस्यापि ताभिस् तारतम्येनानुसंहितत्वात् । प्रथमार्थे स्व-प्रेयसि तस्मिन् । पूर्वंयत् पत्य्-अपत्य-सुहृदाम् इत्य्-आदिषु या सर्व-तनु-भृतां निरुपाधि-प्रेमास्पदत्वादिना परमात्मना स्थापिता सम्प्रति तेन ज्ञान-मयेन सन्देशेनागता तद्-आत्मिका स्मृतिर् यासां ताः । तन्त्रेण तु तेन ज्ञान-मयेनापि सन्देशेन न गता स्मृतिर् निज-भावोचितानुसन्धान-रूपा यासां ताः । तत्रहेतुः—प्रीताः तस्मिन्स्वाभाविक-तादृश-प्रेमवत्य इत्य् अर्थः । प्रियतमादिष्टम् इति सोऽप्य् एवम् अस्मासु नोपदिशेद् इति विभाव्येति भावः ।

द्वितीयार्थे—तेन प्रेम-कृत-साक्षात्कार-सूचकेन सन्देशेनागता स्मृतिः साक्षात्कारस्यस्मरणं यासां ताः ।

तृतीयार्थे—तेनाप्रकट-प्रकाशे संयोगं सूचयता सन्देशेनागता स्मृतिर् जाति-स्मरवत् तत्-संस्कार-रूपा यासां ताः ।

अन्त्यार्थ-द्वये—अत एव प्रीताः प्राप्त-परमानन्दाः, अत एव विश्वासे हेतुः प्रियतमेति । अथ मय्य् आवेश्य मनः कृष्ण इति चतुर्थ-पक्षे सा स्मृतिस् तु पूर्वं स्व-वर्गवज् जात-पूर्वानुरागतया दृष्टानां तासां रास् तु तत्रादृष्टानाम् अप्य् एतावन्तं कालं स्वीय-श्री-कृष्णानुरागावेशेनाननुसंहितानाम् अनेन तु सन्देश-प्रभावेणानुसन्धान-रूपेति ज्ञेयम्। अत्रैवं श्री-भगवतोऽभिप्रायः—मम सम्प्रति गमनादिकं न सम्भवत्य् एवेति सान्त्वन-सन्देशे प्राप्ते प्रथमत आगमन-प्रतिज्ञैव समञ्जसा भाविनि काल-विलम्बे तु न केवला सा समञ्जसेति विविध-समाधान-सन्धायक-विविधार्थ-सम्बन्धे सन्देशोऽपि योग्यः । यस्य पर्यवसानार्थेन मुहुस् तत्रत्य-नित्य-विहारानुसन्धानम् अपि भवेत् । कदाचिद् बहिर् अनुसन्धाने तु मद्-दर्शन-तृष्णा च मुउस् तत्-स्फुरण-रसास्वाद-चमत्कार-हेतुः स्यात् । आयत्यां मत्-साक्षात्कारे परम-चमत्कारः स्याद् इति ॥३८॥

कृष्ण-सन्दर्भः १६५: पूर्व-व्याख्यानुसारेणैवाह—एवम् इति । तत्-सन्देशेनागता स्मृतिर् नित्य-संयोगानुसन्धान-रूपा यासां तादृश्यः । अत एव प्रीताः । इतः परं कदाचित् प्रकट-लीलानुभवे सति तासां सन्तोषः प्रकट-लीला-दर्शनतस् तु विरह एवेति भाव-द्वैतं लक्ष्यते ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ता अन्तर्-गृह-निरुद्ध-चर्य एवोचुः । तेन सन्देशेन आगताः स्मृतिर् यासां ताः। द्वितीया आर्षी । आं सत्यम् एव तस्यां रात्रौ तेन रममाणेनैव सह वयम् आस्मेति स्मरन्त्यः स्वानुभवं प्रमाणीकृत्य उद्धवं प्रति प्रीतास् ता एव लौकिक-रीत्या उद्धवं पप्रच्छुः ॥३८॥


॥ १०.४७.३९ ॥

गोप्य ऊचुः—

दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघ-कृत् ।

दिष्ट्याप्तैर् लब्ध-सर्वार्थैः कुशल्य् आस्तेऽच्युतोऽधुना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदूनाम् अहितः शत्रुः । अघ-कृद् दुःख-दः । दिष्ट्येत्य् आनन्दे । आप्तैः प्राप्तैर् हितैर् वा सह ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आप्ता जगति बहवः सन्ति, तद्-व्यावृत्त्य्-अर्थम् आह—हितैर् इति ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : "अहो ! अस्माकं निज-सुखेन सिद्धेनासिद्धेनैव वा किं ? तस्य सुखम् एवास्माकं सर्व-मङ्गलम्" इत्य् अभिप्रायेणादौ तद् अभिनन्दन्ति—दिष्ट्येति । लब्ध-सर्वार्थैर् इति तेषाम् अप्य् अशेष-सुख-सिद्ध्या तद्-अर्थ-चिन्ता निरस्ता, अतः कुशली सुखी । अच्युत इति कथम् अपि सुखतश् च्युति-राहित्याभिप्रायेण । अधुना इति पूर्वम् अत्रासौ बहुधा दुःखं प्राप्तोऽस्तीति भावः । अन्यत् तैर् व्याख्यातम् ।यद् वा,दिष्ट्या एतद् एव भद्रम् इत्य् अर्थः । अहितस् तद्-द्वेष्टा यदूनाम् अघकृत्, आप्तैस्तत्र प्राप्तैर् यदुभिः । अन्यत् समानम् ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथागत-स्मृतितया किञ्चिद् आश्वास-युक्तानां पुनर् अननुसंहित-प्रकट-प्रकाशतया जात-विरह-स्फूर्तीनां वाक्यानि दर्शयितुम् आह—गोप्य ऊचुर् इति । "अहो अस्माकं निज-सुखेन सिद्धेनासिद्धेन वा किं ? तस्य सुखम् एवास्माकं परम-मङ्गलम्" इत्य् अभिप्रेत्यादौ तद् अभिनन्दन्ति—दिष्ट्येति । लब्ध-सर्वार्थैर् इति तेषाम् अप्य् अशेष-सुख-सिद्ध्या तद्-अर्थ-चिन्ता निरस्ता, अतः कुशली सुखी । अच्युत इति कथम् अपि सुख-च्युति-राहित्याभिप्रायेण । अधुना इति पूर्वम् असौ कंस-सम्बन्धेन बहुधा दुःखं प्राप्तोऽस्तीति भावः । दिष्ट्या एतद् एव भद्रम् इति वा । अहितस् तद्-द्वेष्टा, यदूनाम् अघ-कृच् च । आप्तैस्तत्र प्राप्तैर् यदुभिः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिष्ट्या भद्रम् इत्य् अर्थः । अहितः शत्रुः ॥३९॥


॥ १०.४७.४० ॥

कच्चिद् गदाग्रजः सौम्य करोति पुर-योषिताम् ।

प्रीतिं नः स्निग्ध-सव्रीड- हासोदारेक्षणार्चितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—कच्चिद् इति । नोऽस्माकं करणीयां प्रीतिं कच्चित् पुर-योषितां करोति । स्निग्धं च तत् स-व्रीड-हासेनोदारम् ईक्षणं तेनार्चितस् ताहिर् अस्माभिर् वा ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याः सापत्न्यम् असहमानाः । गदोऽग्रजो यस्य स तथा, गदस्यातिशय-योद्धृत्वेन क्रूर-स्वभावत्वात् तद्-अनुजोऽपितादृश एवेति । सौम्येति निजार्ति-श्रावणाथ तम् आह्लादयन्त्य आहुः । अस्माभिर् वेति पूर्वकालापेक्षयोक्तम् ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कच्चिद् इत्य् असम्भावनायां प्रश्नः । अकरणे हेतुम् आह—नोऽस्माकं स्निग्धः स-व्रीड-हासोदारेक्षणार्चित इति । तथापि किं करोति ? ॥४०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्र बहुधा वाक्य-भेदेन वक्तृ-भेद-कल्पनायां योग्यायाम् अपि यथा-कथम्चित् सङ्गतिः पूर्ववत् कार्या । सुख-स्थिति-प्रकारम् एव प्रेम-लालसौत्कट्येन पृच्छन्ति—कच्चिद् इति । गदाग्रज इति पौर-स्त्री-जन-सङ्गत्या पुर-स्त्री-प्रीत्य्-आचरणार्हतोक्ता । उदारम् उत्कृष्टम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, नोऽस्मदीयः स्वामी गदाग्रज इत्य् अन्वयः । अथवा, अधुनास्मासु कृपां किं कर्तेति प्रेमार्त्या पुनः पृच्छन्ति—कच्चिद् इति । पुर-योषितां स्निग्ध-सव्रीड-हासादिभिर् अर्चितोऽपि नोऽस्माकं प्रीतिं किं करोति करिष्यति ? सामीप्यापेक्षया वर्तमाना ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र वक्तृ-भेदेऽपिसङ्गतिरुत्तरोत्तरम् ऐकमत्येनोक्त-कार्यैव । तथा हि—अथ सुख-स्थिति-प्रकारं प्रेम-लाससौत्कट्येनैव पृच्छन्त्यः तदीय-विलास-विशेष-स्फूर्तः पुर-स्त्रीणां स्मरणात् सापत्न्य-स्वभावेनेर्ष्याम् अङ्कुरयन्ति । कच्चिद् इति । सप्तम्य्-अर्थे षष्ठ्यौ । गदाग्रज इति । गदोऽयं प्रथमो देव-रक्षितायाः पुत्रः श्री-कृष्णानुजः, तस्मिंश् च सम्प्रत्य् अनुजताभिमननेन तस्याधिक्ये प्रीतिं श्रुत्वा गोकुल-सम्बन्धः शिथिलीभूत इति व्यञ्जयन्त्यः स्वेषु तद्वत् स्नेह-शैथिल्यं पुर-स्त्रीषु तद्-आधिक्यं व्यञ्जितवत्यः । उदारम् उत्कृष्टम् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इदानीं श्री-कृष्ण-सन्देशैर् गत-सम्मोहा लब्धाश्वासाश् च विशेष-वार्ता पृच्छन्त्य आहुः—कच्चिद् इत्य्-आदि । हे सौम्य ! गदाग्रजः कच्चित् पुर-योषितां प्रीतिं करोतिअसम्भावनायां प्रश्नः । असम्भावनैव कुतः ? इत्य् आहुः—नोऽस्माकं स्निग्ध-स-व्रीड-हासोदारेक्षणैर् अर्चितश् च्त् । एवम् अस्मद्-विध-कटाक्ष-पूजितोऽन्यत्र किं रज्यतीति भावः ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्याः सेर्ष्यम् आहुः—कच्चिद् इति । गदाग्रज इति । गदो देव-रक्षितायाःप्रथमः पुत्रः देवकी-पुत्रम् आत्मानं मत्त्वा सम्प्रति तस्याग्रजोऽभूद् इति गोकुल-सम्बन्धस् तस्य शिथिलीभूत इति द्योतयामासुः । नोऽस्माकं स्निग्धं च तत् स-व्रीड-हासेनोदारं च यद् ईक्षणं तेनास्माभिर् अर्चितः स सम्प्रति पुर-योषितां प्रीतिम् उत्पादयति स-हासावलोकादिभिस् ता अर्चयति किं शिव शिव अस्मद्-अर्चनीयः संस् तासाम् अर्चकोऽभूद् इत्य् अस्माकम् एव दौर्भाग्यम् इति भावः ॥४०॥


॥ १०.४७.४१ ॥

कथं रति-विशेष-ज्ञः प्रियश् च पुर-योषिताम् ।

नानुबध्येत तद्-वाक्यैर् विभ्रमैश् चानुभाजितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः, कथम् इति । तासां वाक्यैर् विभ्रमैश् चानुभाजितः पूजितः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्या तद्-आगमने स-सन्देहाः । विभ्रमैःशृङ्गार-चेष्टाभिः, नायास्यतीति भावः ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्या आहुः—कथं न करिष्यति ? रति-विशेषज्ञश् चेत् रति-विशेषानुरूपं रमत इति यावत् । अतः कथं नानुबध्येत, एतत् पृच्छ्यताम् ॥४१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो तत् किं पृच्छ्यते, सन्देह एव तत्र नास्तीत्य् आहुः—कथम् इति । प्रियश् च रूप-वेशोपकारादिना तथा तासां वाक्य-विभ्रमैर् अनुभाजितः । एवं मिथः प्रीति-हेतु-वैदग्ध्यादिकम् उक्तम् । अतः कथं नानुबध्येत, कुतस् तास्व् आसक्तो न भवेत्, अपि तु भवितैवेत्य् अर्थः । यद् वा, तद्-वाक्य-विभ्र्मैर् नानुबध्येत, न वशीक्रियेत, तैर् एवानुभाजितश् च । अन्यत् समानम् ।

पक्षान्तरे, ननु तस्य ताभिःसङ्ग एव नास्तीति चेत्, तन् न सम्भवतीत्य् आहुः—कथम् इति । अर्थः स एव । अतस् तास्व् आसक्तोऽस्माकं प्रीतिं न कर्तैवेति भावः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो तत् किं पृच्छ्यते ? सन्देह एव तत्र नास्तीत्य् आहुः—कथम् इति । प्रियश् च रूप-वेशोपकारादिना तथा तासां वाक्य-विभ्रमैर् अनुभाजितः । एवं मिथः प्रीति-हेतु-वैदग्ध्यादिकम् उक्तम् । अतः कथं नानुबध्येत ? कुतस् तास्व् आसक्तो न भवेत् ? अपि तु भवितैवेत्य् अर्थः । यद् वा, तद्-वाक्य-विभ्रमैर् नानुबध्येत, न वशीक्रियेत, तैर् एवानुभाजितश् च । अन्यत् समानम् । पक्षान्तरे—ननु तस्य ताभिः सङ्ग एव नास्तीति चेत्, तन् न सम्भवतीत्य् आहुः—कथम् इति । अर्थः स एव । अतस् तास्व् आसक्तोऽस्माकं प्रीतिं न कर्तैवेति भावः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या आहुः—कथं न करिष्यति ? करोत्य् एव । तथा हि—कथं रति-विशेषज्ञ इत्य्-आदि । रति-विशेषज्ञत्वात् तद् उचितम् एव । पुर-योषितां प्रियः सन् न तद्-वाक्यैर् अन्बध्येत, अपि त्व् अनुबध्येत ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयि मुग्धाः ! किम् इदम् अपि जिज्ञासध्वेऽत्र सन्देह एव नास्तीत्य् अन्याः सोल्लुण्ठ-सान्तः-कोपम् आहुः—कथम् इति । रति-विशेषज्ञः स साम्प्रतं पुर-योषितां प्रियोऽभूत्कथं नानुबध्येत नासक्तो भवेत्, तासां वाक्यैस् तादृशैर् विभ्रमैश् चानुभाजितः निरन्तरं ता भजन्न् असौ तैर् भाजितः भजनं कारित इत्य् अर्थः । तेन वयं ग्राम-योषितः रति-विशेषं च महा-मत्ताय तस्मै न दित्सामहे । तादृशीम् अनुकूलां वाचं विभ्रमांश् च न जानीम इत्य् अतो वयं तेन आः प्राप्य त्यक्ता एवेति निश्चिनुध्वम् इति पृच्छ्यत इति भावः ॥४१॥


॥ १०.४७.४२ ॥

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।

गोष्ठि-मध्ये पुर-स्त्रीणां ग्राम्याः स्वैर-कथान्तरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर् अन्या ऊचुः—किम् अनया चिन्तया ?अस्मान् क्वचित् प्रस्तुते प्रसङ्गे स्मरति किं?ग्राम्या अविदग्धाः ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-स्मरणेन तद्-आगमनं सभावयन्त्योऽन्याः । अनया पुर-स्त्री-कृत-तद्-आदरादि-रूपया । स्वैर-कथान्तरे स्वच्छन्द-विषय-व्यवहार-विशेषे । प्रस्तुते प्रसक्ते सति ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्मान् किं तस्मिन् समये स्मरतीत्य् आहुः—अपि तु स्मरतीत्य्-आदि । अत्र कः सन्देह इति चेत्, सन्देहे हेतुम् आह—ग्राम्या इति ॥४२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुषुप्त्य्-आदिष्व् अपि भवत्यो दृश्यन्त इति सन्देशतः श्रुतेऽपि स्व-सौभाग्ये पुनः प्रेम-विशेषेणाशान्त्या पृच्छन्ति—अपीति । क्वचित् कस्मिंश्चित् प्रस्तुते प्रस्तावे, तम् एवाहुः—पुर-स्त्रीणां या गोष्ठी सभा, तन्-मध्ये या स्वैर-कथा स्वच्छन्द-वार्ता, तस्या अन्तरे मध्ये ग्राम्या अपि नः किं स्मरति ? गोविन्दो गोकुलेन्द्र इति स्मरणार्हतोक्ता । हे साधो ! इति तत्र कदापि क्वचिन् मिथ्या न वाच्यम् इति भावः ।

यद् वा, क्वचिद् इत्य् अस्याग्रेऽप्य् अन्वयः । अहो ! अन्य-प्रस्तावे क्वचिन् न स्मरतु नाम, गोष्ठी-मध्येऽपि क्वचित् स्मरति, तत्रापि स्वैर-कथान्तरेऽपि क्वचित् स्मरति ? अन्यत् समानम् ।

पक्षान्तरे—अहो ! प्रीतिम् अस्माकं न करोतु नाम, कदाचित् किं स्मरत्य् अपीति पृच्छन्ति—अपीति । अर्थः स एव । एवम् अग्रेऽन्यद् अप्य् ऊह्यम् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथोत्कण्ठया सोल्लुण्ठं पृच्छन्ति—अपीति । क्वचित् कस्मींश्चित् प्रस्तुते प्रस्तावे । प्रस्तावम् एव विशिंषन्ति । पुर-स्त्रीणां या गोष्ठी सभा, तन्-मध्ये या स्वैर-कथा स्वच्छन्द-वार्ता, तस्या अन्तरे मध्ये ग्राम्या अपि नः किं स्मरति । गोविन्दः गोकुलेन्द्रः इति स्मरणार्हतोक्ता । हे साधो ! इति तत्र कदापि किञ्चिन् मिथ्या न वाच्यम् इति भावः । यद् वा, क्वचिद् इत्य् अस्याप्य् अग्रेऽप्य् अन्वयः । अहो अन्य-प्रस्तावे क्वचिन् न स्मरतु पुर-स्त्रीणां गोष्ठी-मध्येऽपि क्वचित् स्मरति, तथापि स्वैर-कथान्तरे क्वचित् स्मरति । अन्यत् समम् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या ऊचुः—अपीति । तस्मिन् समये किम् अस्मान् स्मरति ? स्मरणेऽसम्भावनायाम् आह—पुर-स्त्रीणां गोष्ठी-मध्ये, यतो वयं ग्राम्याः । प्रस्तुते प्रस्तावोचिते, स्वैर-कथा-मध्ये । यद् वा, स्वैः सुहृद्भिर् अकथान्तरे सति कथान्तर-विरमो यदा च भवति ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपीति—सख्यः सत्यम् एव वयं त्यक्तुम् अर्हत्वात् तेन त्यक्ता एव । किं च, लोके हि अतिनिकृष्टा अपि सम्भुक्त-त्यक्ता अपि केनचिद् गुणांशेनदोषांशेन वा स्मृत्य्-आरूढाः कदाचिद् भवन्तीति पृच्छ्यत इत्य् आहुः । ग्राम्या अविदग्धाः । स्वैर-कथान्तरे गान-नर्म-प्रहेली-कवित्वादि-रचना-कथा-मध्ये । भोः पुर-स्त्रियः ! यूयं यथा गानादि जानीध्वे, तथास्मद्-गोष्ठे गोप्योऽपि प्रायः किञ्चिज् जानन्ति । यद् वा, ता ग्राम्या एवं नैव जानन्तीति किम् अस्मानुल्लिखतीत्य् अर्थः । गोविन्दो गोकुलेन्द्र इति स्मरण-हेतोक्ता । साधो इति । अत्र कदापि किञ्चिन् मिथ्या न वाच्यम् इति सम्बुद्ध्य्-अभिप्रायः ॥४२॥


॥ १०.४७.४३ ॥

ताः किं निशाः स्मरति यासु तदा प्रियाभिर्

वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये ।

रेमे क्वणच्-चरण-नूपुर-रास-गोष्ठ्याम्

अस्माभिर् ईडित-मनोज्ञ-कथः कदाचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—ताः किम् इति । कुमुदैः कुन्दैः शशाङ्केन च रम्ये वृन्दावनेक्वणन्ति चरण-नूपुराणि यस्यां, तस्यां रास-गोष्ठ्याम् अस्माभिः प्रियाभिर् ईडिता मनो-ज्ञाः कथा यस्य, स तदा यासु निशासु रेमे,ताःकदाचित् किं नु स्मरति वा, न वा ? इति ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याःसौन्दर्याभिनिविष्टाः । तदा रासावसरे । ता निशाः ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्या ऊचुः, "ग्राम्यत्वेन वयं स्मर्तुं न योग्या इति सत्यम् एव, किं त्व् अस्माभिः सह यो रासः कृतः, स कुत्रापि न भविता ?" इति तात्पर्येण—ताः किं निशा इत्य्-आदि॥४३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : "अहो ! नागरी-गण-प्राप्त्यास्मान् वा न स्मरतु, तद्-रास-क्रीडा-रात्रीर् अपि क्वचित् स्मरेत् ?" इति पृच्छन्ति—ता इति । तासांस्मरण-योग्यताम् आहुः—यास्व् इत्य्-आदिना । तत्र बहुत्वेन तासाम् असङ्ख्यात्वम् उक्तम् ।क्वणन्तितस्यास्माकं च नूपुराणियस्यांरास-लक्षणायांगोष्ठ्यां क्रीडायां


किं वा,तादृश-रासे पश्चाद् या गोष्ठी गोपीनां सभा,तस्याम् ईडित-मनोज्ञ-कथः । अस्माभिर् इति सत्-सहायाः, वृन्दावन इति सत्-स्थानम्, कुमुदेतिसूचितया शरदा सत्-कालः,तथा सत्-पुष्पादि-रत्य्-उपकरणं च,क्वणद् इति सल्-लीला । तत्र च क्वणच्-चरण-नूपुरेति सन्-नृत्य-गतिः । ईडितेतितत्र सद्-उत्साह-हेतुश् च । अन्यत् तैर् व्याख्यातम् ।

यद् वा, तदा तदानीं याः प्रियाः प्रियतया स्वीकृताः, ताभिर् अस्माभिः सह रेमे, ईडिता तदानीं व्योम्न्य् आगतैर् देवादिभिः स्तुतितया गीता मनोज्ञाजगतां तस्यैव वा चित्ताकर्षिका कथा विविध-वैदग्ध्यादि-वार्ता यस्य सः, इयम् अप्य् एका स्मरण-योग्यता । यद् वा,तत्र तैः पुर-स्त्र्य्-आदिभिर् ईडित-मनोज्ञ-कथः सन् स्मरति किम् इति मनोज्ञ-कथा-प्रसङ्गे तत्-स्मरण-योग्यतैवाभिप्रेता ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : "अहो नागरी-गण-प्राप्त्यास्मान् वा न स्मरतु, तद्-रास-क्रीडा-रात्रीर् अपि क्वचित् स्मरति ?" इति पृच्छन्ति—ता इति । अयम् अर्थः—यः खल्व् अस्माभिर् दुर्भिक्ष-भिक्षुकीभिर् इव साम्प्रतम् ईडिता मनोज्ञा तस्य युष्माकं च मनोरमा कथा,दिष्ट्याहितो हतः कंस [भा।पु। १०.४७.३९] इत्य्-आदि-रूपा यस्य सः । तत्रेश्वर-साक्षान्-नाम-निर्देशेन लघूकर्तुं शङ्कनीयस् तां साम्प्रतिकीभ्यः पराभ्यश् च विलक्षणाः । तत्र च बहुत्वाद् विस्मर्तुम् अपारणीया निशाः किं कदाचिद् अपि स्मरति?यासुकुमुद-कुन्द-शशाङ्क-रम्यत्वाद् विलक्षण एव वृन्दावने तदानीं याः काश्चन तस्य प्रिया आसन् । एषा भवतास्मासु दृश्यमाना दुःखावस्था तासु न सम्भवतीत्य् अस्मादृशीभ्यः सर्वाभ्योऽप्य् अन्याभिर् एव ताभिः सह तस्य तासां च क्वणच्-चरण-नूपुरतया अतिमनोहरायांरास-गोष्ठ्यांरेमे स्वयं चिक्रीडेति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या आहुः—ग्राम्यत्वेन वयं स्मर्तुम् अनर्हा एव, किं त्व् अस्माभिः सह यो रास-विलासः कृतः, स त्व् अलौकिकः, स तु सर्वदा स्मरणार्ह एवेति । ताः किं निशा इत्य्-आदि तुल्यम् एव ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो भो गोप्यः वक्रोक्त्यालं, तासां तस्य च निन्दया, स्पष्टम् एव किं न ब्रूध्वे । अन्यद् वैदग्ध्यादिकम् अस्मद्-दौर्भाग्य-वशात् कृष्णेन विस्मर्यतां नाम स्व-वासः कथं विस्मृत इत्य् अस्याः स-रोदनम् आहुः—ता इति । कुमुद-कुन्द-शशाङ्कैर्वृन्दावनीय-पुलिनस्य सर्व-शुक्लीकृतत्वाद् रम्येप्रियाभिर् अस्माभिः सह रेमे ।

ईडिता विमान-चारिणीभिः स्वर्गाङ्गनाभिर् अपि स्तुता कथा यस्य सः । इति तेन पुराङ्गना वराक्यः का वा कथा जानन्ति ? मथुरायां क्व वैतादृश-पुलिनं तद्-अभिमतानि नृत्य-गीत-वादित्राणि चूडा-मुकुट-स्थासक-वन-माला-वीटिकादि-रचना वा तत्र काः कर्तुं जानन्ति ? इति मथुरायांस्थित्या कृष्णस्यसर्वम् एव सुखम् अस्तीभूतम् इति तदीयानन्दाभावम् एव स्मृत्वा वयं दुःखेन म्रियामहे । वयम् इव तत्र काश्चित् तद्-अभिमता विलासिन्यः स्युश् चेत् ताभिः सह रास-लास्य-वेणु-वाद्यादि-विनोदं च शृणुयाम चेत् तदात्र तद्-विरहेऽपि वयं सुखेनैव वर्तेमहीति ध्वनितम् ॥४३॥


॥ १०.४७.४४ ॥

अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा ।

सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-निमित्तेन शोकेन तप्ता नोऽस्मान् गात्रैः कर-स्पर्शादिभिः सञ्जीवयन् किं नु इहैष्यतीति ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-शब्दोऽत्र कृष्णार्थकः । सञ्जीवयन् सन्तोषयन् । अयीति कोमलामन्त्रणे ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्याश् च—अलम् अनेन प्रश्नेन, फल-भूतं पृच्छ्यताम् इत्य् आहुः—अप्य् एष्यतीत्य्-आदि ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु स्मरत्य् एवेति चेत् तर्हि तस्यात्रागमनेनैव प्रतीम इत्य् आशयेन किं वा, रास-स्मरण-जनितौत्कण्ठ्य-भरेण पृच्छन्ति—अपीति । दाशार्हः यदु-कुलोद्भव इति तत्-पालनार्थं व्यग्रोऽपीति भावः । यद् वा, दाशो दानं व्रज-जनेषु निज-दर्शन-दानं तद् अर्हतीति दाशार्हस् तेनात्रागमन-योग्यत्वम् अभिप्रेतम् । शुचा विरह-शोकेन तप्ता इति तद्-दर्शनैक-प्रतिकारत्वम् । स्वकृतयेति अन्यथाकृतज्ञत्वस्य स्त्री-वधस्य च प्रसङ्गः स्याद् इति गात्रैः सम्यग् जीवयन्न् इति तत्-स्पर्शानाम् अमृत-मयत्वम् ।तत्र तु वर्तमानया समागम-काल एव कर-स्पर्शादिकं च । यद् वा, सञ्जीवयितुम्, यथेति दृष्टान्तेन तात्कालिकत्वं तद्-एक-साध्यत्वं च दृढीकृतम् ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु स्मरत्य् एवेति चेत्, तर्हि तस्यात्रागमनं नैव प्रतीम इत्य् आशयेन रास-स्मरण-जनितौत्कण्ठ्य-भरेण तद्-आगमन-सन्देश-विस्मृत्यैव वा पृच्छन्ति—अपीति । दाशार्हह् दाशार्हाणां राजा, तत्-पालनार्थं व्यग्रोऽपीति भावः । स्व-कृतया शुचा इति तत्-स्पर्शैक-प्रतीकारत्वम् । अन्यथास्निग्ध-हृदयाविज्ञत्वं, स्त्री-वधाद् अभीरुत्वं च ज्ञापितम् ।गात्रैःसम्यग् जीवयन्न् इति तत्-स्पर्शानाम् अमृत-मयत्वम् ।तत्र तु वर्तमान-प्रयोगेण समागम-काल एव कर-स्पर्शादिकं चेति विलम्बासहत्वं च । यथेति दृष्टान्तेन तात्कालित्वं तद्-एक-साम्यत्वं च दृढीकृतम् । गर्जनादिनेव सन्देशादिना च तापापनोदनं निराकृतम् ॥४४॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १६७) : स्व-विरहं व्यञ्जयन्ति—-अप्य् एष्यतीति । स्व-निमित्तेन शोकेन तप्ताःनोऽस्मान् गात्रैः कर-स्पर्शादिभिः सञ्जीवयन् किं नुइहैष्यति ? इति ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या आहुः—सत्यम् एव श्री-कृष्णोऽत्रागमिष्यति ? तत् कथयेति—अप्य् एष्यतीत्य्-आदि । अपि सम्भावनायां प्रश्ने वा । आयाति वा किं ? स्व-कृतया शुचा तप्ता अस्मान् सञ्जीवयन् एष्यति । क इव ? इन्द्रोऽम्बुदैर् वनम् इव । जीवयन्न् इत्य् एक-देशे दृष्टान्तः ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो सख्यः ! अत एवतस्मात् पुराद् उद्विग्नः कृष्णः शीघ्रम् अत्रायात्व् इति तद्-आगमनम् आशासनम् । अन्यास् तत्-सम-भावा आहुः—अपीति । स्व-निमित्तेन शोकेन तप्ता अस्मान्स्व-गात्रैर् दर्शितैःसञ्जीवयन्, किं नु इहैष्यतीति ॥४४॥


॥ १०.४७.४५॥

कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः ।

नरेन्द्र-कन्या उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—कस्माद् इति । अनन्य-गतित्वेन पूर्वम् अत्रावसत्, संप्रति महद् ऐश्वर्यं प्राप्तः कस्माद् इहागमिष्यतीति ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्या व्यवहार्-निपुणाः । अनन्य-गतित्वेनान्याश्रयाभावेन । अत्र गोकुले ।

राज्यं राज्ञां समूहे च प्राकाश्ये नृप-कर्मणि ।

पङ्क्ति-कृत्ये महैश्वर्ये मुख्यामात्ये नृपस्य च ॥ इति निरुक्ति-कारः


प्राप्तं राज्यं महैश्वर्यं मुख्यामात्यत्वं वा येन स तथा ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्यास् तद् असम्भाव्योचुः—कस्माद् इति द्वाभ्याम् ॥४५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु एष्यत्य् एवेति तत् तन् न घटेतेत्य् आहुः—कस्माद् इति । कृष्णः पूर्वानन्द-परिपूर्ण इति भावः । तद् एव दर्शयन्ति—प्राप्तेत्य्-आदिना । ननु तस्य राज्यापेक्षा नास्तीति चेत्, तथाप्य् आगमनं न सम्भाव्यत इत्य् आहुः—हताहित इति । शत्रु-वधोपायार्थम् एवात्रासीत् । अधुना तत्-सिद्धौ कुतोऽत्रैष्यतीति भावः ।

ननु तथापिभवतीनां विरहार्त एष्यत्य् एव, तत्राहुः—नरेन्द्रेति । नरेन्द्राणां महाराजानां कन्या इति महा-दैन्येनात्मनः सकाशात् तासाम् उत्कर्षः सूचितः । भाविन्य् अपि प्रीत इत्य् अतीतत्वं तस्यातिसान्निध्यान् निर्धाराच् च ।

ननु तथा सत्य् अपि पितृ-मात्रादीनाम् अत्रत्यानांपरम-सुहृदां प्रीत्य्-अर्थम् एष्यत्य् एव, तत्राहुः—सर्वेति । तत्रैव सर्वे पितृ-मात्रादयो निज-सुहृदो लब्धाः, परेष्व् अधुना कापेक्षेत्य् अर्थः । यद् वा,तत्रत्यैः सुहृद्भिर् अत्रागच्छन्न् असौ निवारयितव्य इति भावः ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एष्यत्य् एवेति चेन् न घटेत्य् आहुः—कस्माद् इति । तद् एव दर्शयन्ति—प्राप्तेत्य्-आदिना । ननु तथापिभवतीनां विरहार्तम् एष्यत्य् एव तत्रान्यथा सम्भावयन्ति—नरेति । प्रीत इति । अस्मद्-गोप-जातेस् तस्य तेनैवाभीष्ट-क्षत्रिय-जातित्व-सिद्धेः कान्ता-विशेष-लाभाच् च । ननु तथा सत्य् अपि माता-पुत्रादीनाम् अत्रत्यानांपरम-सुहृदां प्रीत्य्-अर्थम् एष्यत्य् एव तत्राहुः—सर्वेति । सर्वे ते लब्धाः परेष्व् अधुना कापेक्षेत्य् अर्थः । यद् वा,तत्रत्यैः सुहृद्भिर् अत्रागच्छन्न् असौ निवारयितव्य इति भावः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या ऊचुः—कस्मात् कृष्ण इत्य्-आदि । इहागमने सामग्री न दृश्यते । यतः प्राप्त-राज्यः हताहितो हत-शत्रुः, तत्रापि नरेन्द्र-कन्या उद्वाह्य प्रीतः, तथासर्व-सुहृद्-वृतः ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच् छ्रुत्वा अन्या वाम्यमय-स्वभावाः—भोः सख्यः ! कृष्णस्य रासादिभिः किं सुखं तावत् मुग्धा यूयं किम् अपि न जानीध्वे तद्-अभिमत-सुखं मन्-मुखात् शृणुतेति वक्रोक्त्याहुः—कस्माद् इति । अत्र गो-चारणाक्लिष्टस् तत्र तु प्राप्त-राज्योऽभूत् । अत्र गोप-जातिभिस् तत्रापि परकीयाभिः किं सुक्, अत्र गोपस् तत्र तु नरेन्द्र इत्य्-आदि उद्वाह्येति क्वचित् । पुराणे मथुरा-स्थस्य कृष्णस्य रुक्मिण्य्-उद्वाहः कल्प-भेदेन ज्ञेयः । प्राप्य मथुरां [गो।ता।उ। २.३३] इत्य् अधिकृत्य रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः[गो।ता।उ। २.३४] इति गोपाल-तापिन्य्-उपनिषदि ॥४५॥


॥ १०.४७.४६ ॥

किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः ।

श्रीपतेर् आप्त-कामस्य क्रियेतार्थः कृतात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यास् तु परमार्थं ऊचुः—किम् अस्माभिर् इति । वन-चरीभिर् अस्माभिर् अन्याभिर् वा राज-कन्यामिर् महात्मनो धोरस्य । किं च श्री-पतेः । तद् अपि आस्ताम् । स्वत एवाप्त-कामस्यात एव कृतात्मनः पूर्णस्य किं कोऽप्य् अर्थः क्रियेत ? न कश्चिद् इति ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्या आप्ताः । न केवलं धीर एव, किन्तु सर्व-सौन्दर्याधिष्ठान-भूत-लक्ष्मी-पतिर् इत्य् अपीत्य् आहुः—किं चेति । तद् अपि श्रीपतित्वम् अपि । आस्तां तिष्ठतु । न तथापि तस्य किञ्चित् कृत्यम् अस्तीत्य् आहुः—स्वतः स्वभावत एवाप्त-कामस्य प्राप्ताखिलाभीष्टस्य, अत एवाप्त-कामत्वाद् एव । अर्थः प्रयोजनम् ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तथापिभवतीषु परमापेक्षयात्रैष्यत्य् एव, तत्राहुः—किम् इति । अर्थः प्रयोजनम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, किं क्रियेत, अपि तु नैवेत्य् अर्थः । तत्रहेतुः—महात्मनो जगदादृतस्य जितेन्द्रियस्य इति वा । ननु तथापि प्रेम-विलास-परिपाक-रूपतयाभवतीनां सम्भोगे रसिक-शेखरस्य तस्येच्छास्त्य् एव । तत्राहुः—श्रीपतेर् इति । तद्-अर्थं लक्ष्मीर् विभात्य् एव, किम् अन्याभिर् इत्य् अर्थः।

ननु लक्ष्मीतोऽपिभवतीष्व् अधिकापेक्षा, तत्राहुः—आप्त-कामस्य, अस्माभिः सह कृत-रतेर् इत्य् अर्थः । ननु तथापितत्र तस्य तृप्तिर् नास्तीति चेन् नेत्य् आहुः—कृतात्मन इति । अन्यत् समानम् ।

एषातिदैन्योक्तिः सोल्लुण्ठोक्तिर् एव वा, प्रिय-जन-पर-वशस्य तस्य कदापि तादृशत्वाननुभवात् ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नरेन्द्र-कन्योद्वाहस्यहेतुत्वम् आक्षिप्य तास्व् अपि कारुण्यं व्यञ्जयन्त्य इव तस्य नैरपेक्ष्यम् एव हेतुउं सेर्ष्यम् आहुः—किम् इति । तत्रहेतुः—महात्मनः महास् तद् उपर्य् अपि वर्तमान आत्मा चित्तं यस्य । यतः श्रीपतेः श्रियः सर्वैर् आश्रयितुम् अभीष्टाया अपि तत्र तत्र तद्-अनुगामिन्या लक्ष्म्याः पत्युः । अत एवाप्त-कामस्य यथेष्ट-विषय-पूर्णस्य । आयांकृतात्मनः लब्ध-धृतेर् इति । ततः काचिद् अपि कन्यका तस्य विवाहाय नाहर्तव्येत्य् उद्धवं प्रति च निगूढः प्रयत्नः सूचितः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु सर्वेभ्यो भवत्य एव तस्य प्रियाः, ततो युष्मद्-दर्शनार्थम् आगमिष्यत्य् एवेति सम्भाव्याहुः—किम् अस्माभिर् इत्य्-आदि । वनौकोभिर् वन-वासिभिः । अथवा, किं पुर-स्त्रीभिर् अपीत्य् आहुः—अन्याभिर् वेति । अन्याभिर् वा तस्यार्थः किं क्रियते ? कुतः ? इत्य् आहुः—श्रीपतेः । श्रिया वा किं ? कुतः ? इत्य् आहुः—आप्त-कामस्यपूर्णस्यकृतात्मनः कृत-बुद्धेः परम-गम्भीरस्य ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो सहचर्यः ! प्रेम-शून्ये कृष्णे ईर्ष्यासयादिकं त्यज्यताम् इति वदन्त्यस् तस्यसर्वत्रौदासीन्यम् अन्या आहुः—किम् इति । ननु श्रीपतित्वात् तस्यां तस्य प्रेमास्ति चेन् न आप्त-कामस्यकृतात्मनः पूर्ण-स्वरूपस्यतथापि किं कोऽर्थः क्रियते । युग-पर्याप्तयो कृतम् इत्य् अमरः । पर्याप्तिः परिपूर्णता । ततश् च काचिद् अपि कल्पस्य गतस्य विवाहार्थं नाहर्तव्येत्य् उद्धवं प्रति किम् अपि निगूढं तत्त्वंसूचितम् ॥४६॥


॥ १०.४७.४७ ॥

परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला ।

तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतोऽघटमाना या कृष्णस्य सङ्गतिः सैवास्मान् व्याकुलयति, अतो नैराश्यम् एव परमं सुखम् । तच् चातिदुष्करम् इत्य् आहुः—परं सौख्यम् इति । स्वैरिणी काम-चारिणी ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो यस्मात् । अघटमाना भवितुम् अशक्या या । तच् च नैराश्यम् । पिङ्गला तन्-नाम्नी वेश्या । तथापि नैराश्यं परं सुखम् इति ज्ञाने सत्य् अपि । आशा तृष्णा । दुरत्यया त्यक्तुम् अशक्या ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्या आहुः—हे सख्यः ! भद्रं ब्रूत, किन्तु नैराश्यम् एव परमं सुखं यद्यपि, तथापि निराशया स्थातुं न शक्यते । तथा हि—क उत्सहेत इत्य्-आदि ॥४७-४८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परं परमम् । हि एव नैराश्यम् एव । स्वैरिणीत्वेन तथा वक्तुम् अनर्हापीत्य् अपि-शब्दार्थः । न च मन्तव्यं तद् वयं न विद्म इत्य् आहुः । तत् तस्या वाक्यं किं वानैराश्यम् एव सुखम् इति जानतीनाम् ।यद् वा, तज्-जानतीनाम् अपीत्य् अन्वयः । तथातादृशी आशा दुरत्यया, कथम् अपि त्यक्तुम् अशक्येत्य् अर्थः । कुतः ? कृष्णे चित्ताकर्षके श्री-व्रजेन्द्रनन्दन इत्य् अर्थः । यद्यपिश्री-कृष्णाशापि तत्त्वतः परमानन्द-मयी, सैव जीवनावलम्बनं च, तथापि विरहार्त्या जीवने नैरपेक्ष्येण तथोक्तम् । अन्यत् तैर् व्याख्यातम् ।तत्राघटमानायाःश्री-कृष्ण-सङ्गतेर् आशाइवेति लेख्ये या श्री-कृष्ण-सङ्गिः सैवेति लेखक-भ्रमाद् इति । अथवा तत् तदीयं सत्य-वाक्यत्वादिकं जानतीनाम् अनुसन्दधानानाम् इति दुरत्ययत्व एव हेतुः ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परं परमं हि एव नैराश्यम् एव स्वैरिणीत्वेन तथा वक्तुम् अनर्हापीत्य् अपि-शब्दार्थः । न च मन्तव्यं तद् वयं न विद्म इत्य् आहुः । तन् नैराश्येन सुखम् इति जानतीनाम् अपीत्य् अन्वयः । तथापितादृशी आशा दुरत्यया, कथम् अपि त्यक्तुं न शक्येत्य् अर्थः । कुतः ? कृष्णे चित्ताकर्षके श्री-व्रजेन्द्रनन्दन इत्य् अर्थः । अन्यत् तैः । तत्राघटमानायाःश्री-कृष्ण-सङ्गतेर् आशाइवास्मान् आकुलयतीत्य् उन्नेयम् । स्वैरिण्य् अपीत्य् अनेन—

यन्-मनस्कास् तत्-प्राणास् तद्-अर्थे त्यक्त-दैहिकाः । > तम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ॥

वयं स्वैरिण्यस् तु न मन्तव्या इति व्यज्य श्री-भगवता बल्लव्यो मे मद्-आत्मिका [भा।पु। १०.४६.६] इतिवत् तथा स्वयम् अपि जारा भुक्त्वा रतां स्त्रियं [भा।पु। १०.४७.८] इत्य् अर्थान्तर-न्यासीकृत्य तस्मिंस् तत्-परिहारवन्, मधुपुर्याम् आर्य-पुत्रोऽधुनास्ते [भा।पु। १०.४७.२१] इति साक्षाद्-उक्तिवच् च परम-साधु-शिरोमणाव् उद्धवे सङ्कोचः परिहृत इति च ज्ञेयम् ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तर्हि किं कुर्मः ? इत्य् अपेक्षयान्या आहुः—परं सौख्यम् इत्य्-आदि । नैराश्यं परं सौख्यम् । उक्तं च पिङ्गलेत्य् आदि । स्वैरिण्य् अपीत्य् आदि । ननु तद् एव क्रियताम् इत्य् आहुः—तज् जानतीनाम् अप्य् अस्माकम्, तथापि दुरत्यया दुर्वारा आशा ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि तत्-प्राप्त्य्-आशा त्यज्यताम् इति चेन्, न । सा सर्वथैव त्यक्तुम् अशक्येत्य् आहुः—परम् इति । तद् अपि कृष्णे आशा कृष्ण-विषया ह्य् आशा दुरत्यया सर्वैर् एव दुस्त्यजा । पिङ्गलायाः खलु पुरुषान्तर एव च सीदतः । सा तया त्यक्तेति भावः ॥४७॥


॥ १०.४७.४८ ॥

क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक-संविदम् ।

अनिच्छतोऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : संविदम् एकान्त-वार्ताम् ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलम् अस्माकम् एव कृष्णाशा दुस्त्यजा किं त्व् अन्यस्यापीत्य् आहुः—क इति । यस्य कृष्णस्य ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन्ति—क इति । को जन इति सामान्य-निर्देशः सर्व-लोकापेक्षया । यद् वा, कः पुमान् अपि, किं पुनः स्त्रीत्य् अर्थः । उत्सहेत, उत्साहम् अध्यवसायम् अपि कुर्यात्, किं पुनस् त्यजेद् इति सन्त्यक्तुं विस्मर्तुम् अपि, किं पुनस् तद्-आशां क्षणम् अपि त्यक्तुं, उद्गतं तमो यस्मात् तथा-भूतं श्लोको यशो यस्येति, यस्य यशः-श्रवणाद् अपि तमो-हानिस् तस्य । किं वा, उत्तमाः श्लोका गुण-रूपादि-वर्णनेन कवीनां पद्यानि यस्मिन्निति माहात्म्य-विशेष उक्तस् तस्य संविदं सन्त्यक्तुम् इति सं-शब्देन कदाचित् कथञ्चित् त्याज्यता निरस्ता । कुतः ? तद् आहुः—अनिच्छत इति । श्रियम् अनपेक्षमाणस्यापि समन्ततः परिपूर्णत्वात् । श्रीर् लक्ष्मीः । अङ्गात् वक्षसः क्वचित् कदाचिद् अपि न च्यवते नापयाति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, संविदम् एकं सङ्केत-नर्मापि, श्रीः शोभा, अङ्गात् श्री-मूर्तेः, अन्यत् समानम् ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयन्ति—क इति । को जन लोक-मात्रं, किं पुनः स्त्री ? इत्य् अर्थः । उत्सहेत, अध्यवसायम् अपि कुर्यात्, किं पुनस् त्यजेद् इति सन्त्यक्तुम् । अदार्ढ्य-ज्ञानैर् अपि अवज्ञातुं किं पुनर् विस्मर्तुम् । उत्तमाः श्लोका गुण-रूपादि-वर्णा अपि यस्य तस्य संविदं न पारयेऽहम् इत्य्-आदि-रूपां सन्त्यक्तुम् इति सं-शब्देन मानादौ अप्य् अन्तस्त्यागो निषिद्धः । कुतः ? तद् आहुः—अनिच्छत इति । नाहम् आत्मानम् आशासे इत्य्-आदिवन् नव-नव-प्रिय-जनानुरागेण श्रियम् अपेक्षमाणस्यापि श्रीर् लक्ष्मीः रेखा--रूपेण वर्तमाना अङ्गात् वक्षसः क्वचित् कदाचिद् अपि न च्यवते नापयाति ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मिन्न् आशाया दुर्वारत्वं समुचितम् एवेत्य् अन्या आहुः—क्व उत्सहेतेत्य्-आदि । उत्तमःश्लोकस्य वार्ता सन्त्यक्तुं क उत्सहेत ? न कोऽपि । कुतः ? इत्य् आहुः—अनिच्छेति । क्वचित् कदाचिद् अपि न च्यवते नापसरति, अनिच्छतोऽपिपूर्णकामत्वाद् अध्यायमानस्यापि ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, लोभी खलु लोभ्यं वस्तु प्राप्नोतु न प्राप्नोतु, मया किन्तु तत्रौत्सुक्यं त्यक्तुं नोत्सहते इत्य् आहुः—क इति । उत्तमः श्लोकस्य कृष्णस्य संविदं सौन्दर्य-माधुर्याद्य्-उपलब्धिं त्यक्तुं न उत्सहेत नो कोऽपि । श्रियम् अनपेक्षमाणस्यापि यस्यश्रीर् लक्ष्मी रेखा--रूपेण वर्तमाना अङ्गाद् वक्षसः कदापि न च्यवते नावयाति ॥४८॥


॥ १०.४७.४९ ॥

सरिच्-छैल-वनोद्देशा गावो वेणु-रवा इमे ।

सङ्कर्षण-सहायेन कृष्णेनाचरिताः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तद् विस्मृतौ न तावद् दुःखम् अस्ति, सापि नास्माकं सम्भवतीत्य् आहुः—सरिच्-छैलेति त्रिभिः । आचरिताः सेविताः ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिदुःखिता आहुः—किं चेति । तद्-विस्मृतौ कृष्ण-विस्मरणे । सापि तद्-विस्मृतिर् अपि । इम इति तदाविष्ट-मनस्त्वात् प्रत्यक्षीभूता इवेति प्रतीयते तासाम् इति भावः । प्रभो इति—तद्-दूतत्वात् त्वम् अप्य् अस्माकं प्रभुर् एवेत्य् अभिप्रायः । यद् वा, त्वं प्रभुर् असीत्य् अतो गोपीवच् छ्री-कृष्णावेशं कुर्व् इति शुकोक्तिः ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्राप्य् एते उद्दीपन-विभावा इति काश्चिद् आहुः—सरिच्-छैल-वनोद्देशा इति द्वाभ्याम् ॥४९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो ! तद्-विस्मरणे सत्य् आशापि हीयेत, तच् च नैव घटेतेत्य् आहुः—सरिद् इति । यदि जलान्तिके याम्स् तदा सरितः, गृहे चेत् तिष्ठामस् तदा शिला-बद्ध-भू-भागेन स्मर्यमाणा अत्युच्चत्वाद् वा दृश्यमानाः शैलाः । यदि वा वनानि प्रविशामस् तदापि वनस्थानानीति जल-स्थल-वनानि सर्वाण्य् एवेत्य् अर्थः । इमे इत्य् अस्य लिङ्ग-विपरिणामेन सर्वैर् अप्य् अन्वयः । इति तेषां सर्वेषाम् एव प्रत्यक्षतोक्ता । यद् वा, इमे तद्-विरहातुराः साक्षाद् अत्रैवैते निपतिताः श्रीदाम-सुबलादयस् तत्-सहचराः, तेषाम् अत्यन्त-श्री-कृष्ण-स्मारक-हेतु-महार्ति-जननान् नामाग्रहणम् । एवं सरिद्-आदीनां यथोत्तरं स्मारणे श्रैष्ठ्यं ऊह्यम् । सम्यक् कर्षति—श्री-कृष्णस्य क्रीडा-सुखार्थं सखीन् । किं वा, स्नेह-भरेण तस्य चित्तम् एवाकर्षतीति सङ्कर्षणः सहायः सङ्गी यस्य तेन । किं वा, सङ्कर्षणस्य सहायेनेत्य् उभयथापि मिथः-स्नेहेन सुख-क्रीडा साङ्ख्य्चन्द्रा । कृष्णेन जगच् चित्ताकर्षकत्वम् अभिप्रेतम् । आचरिताः सेविता इति तैर् व्याख्यातम् । यद् वा, स्व-क्रीडा-साधनत्वं नीताः । यद् वा, आचरिताः कृता इति वेणु-रवाणाम् एव विशेषणम् । ततश् च सङ्कर्षण-सहायेनेति तद्-उपगायनत्वेन तेषाम् एव माधुर्य-विशेषः सूचितः । सरिद्-आदीनां तु श्री-कृष्णाक्रीडत्वं व्यक्तम् एव । यद् वा, आचरिताः प्रवर्तिता गोपानां वेणु-रवा इमे इदानीन्तनाः, तद्-व्रज-जातत्वेनैव तत्-प्रकार-विशेष-शिक्षणात् ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो ! तद्-विस्मरणे सत्य् आशापि हीयते, तच् च नैव घटत इत्य् आहुः—सरिद् इति युग्मकेन । वनोद्देशेन व्रजोऽपि गृह्यते । तद्-अन्तर्-वर्तित्वात् तस्येति । सर्वाण्य् अवस्थानानीत्य् अर्थः । वेणु-रवा इदानीम् अपि कैश्चित् क्रियमाणाः । इमे इति स्फूर्त्या प्रत्यक्षा इव क्रियन्ते, तत्र गाव इत्य् अत्र लिङ्गं विपरिणमनीयम् । आचरिताः सेविता अनुशीलिता इत्य् अर्थः । अन्य-कृत-वेणु-रवस्यापि तद्-अनुशीलित्वं जात्यैक्यात् । सङ्कर्षण-सहायेनेति । तत्र तत्र शोभादि-परिपोषात् तेनापि सहागमनम् ईहितम् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वेणु-रवा इदानीम् अपि कैश्चित् क्रियमाणा इमे इति स्फूर्त्या प्रत्यक्षा इव श्राव्यन्ते स्म एषां तद्-आचरितत्वं जात्यैक्यात् ॥४९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपि च स्वभावतोऽस्माकं निरन्तरम् एव तत्-स्मरणं, तत्रापीमे पुनः पुनः स्मारयन्तीत्य् आहुः—सरिच्-छैल-वनोद्देशा इत्य्-आदि ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च तद्-विस्मृतौ सत्याम् आशापि हीयते सा त्वम् अस्माकं नैव घटत इत्य् आहुः—सरिद् इति त्रिभिः । आचरिताः सेविता अनुशीलिताः ॥४९॥


॥ १०.४७.५० ॥

पुनः पुनः स्मारयन्ति नन्द-गोप-सुतं बत ।

श्री-निकेतैस् तत्-पदकैर् विस्मर्तुं नैव शक्नुमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्द-गोप-सुतम् इति तस्य तत्रत्यत्वेऽप्य् अन्तर्हित-लीलत्वात् तथोक्तिर् लोक-दृष्ट्येति ज्ञेयम् । बताश्चर्ये । सार्धेनान्वयः । ननु सरिद्-आद्य्-अवलोकनं श्री-कृष्णं स्मारयत्य् अन्यदा तन् नास्तीत्य् आगतम् इति तत्राह—तत्-पदकैः, तस्य कृष्णस्य प्रशस्त-पदैः । प्रशस्तता तत्र कथम् इति चेद् आह—श्री-निकेतैर् ध्वज-वज्रादि-विशिष्टैः । [वैष्णव-तोषणीतः, श्री-नन्दाभिधस्यैत्य्-आदितः] ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनः पुनर् इति । कथञ्चित् प्रयत्नेन तच्-चिन्तायां त्यक्तायाम् अपि पुनः स्मारणात्, पुनस् तथैव त्यक्तायाम् अपि पुनः स्मरणाद् इत्य् एवम् असकृद् इत्य् अर्थः । किं वा, अविरतम् एवेति । प्रभो इति परम-दैन्येन सम्बोधनम् । यद् वा, हे बोद्धुं समर्थेति, भवतेदं बुध्यत एवेति भावः । नन्दो गोपो महाराजः, तस्य सुतम् इति प्रयत्न-शतैर् ईश्वरत्वेन स्मर्तुम् इष्यमाणम् अपि श्री-वल्लवेन्द्र-कुमारत्वेनैव स्मारयन्तीत्य् अर्थः । बत खेदे ।

ननु तत्र तत्र श्री-कृष्णानुसन्धान-मात्रं बलात् त्यक्त्वा तं विस्मरत । तत्राहुः—श्री-निकेतैर् ध्वजाद्य्-असाधारण-लक्षणैः श्रियः सर्वस्याः सम्पदः शोभाया वा निकेतैस् तस्य नन्द-गोप-सुतस्य पदकैः कोमल-पदैः सर्वत्रोदितैः, तदानीम् अपि तथैव तेषाम् अनुवृत्तिः प्राग् व्युत्पादितैव ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनः पुनर् इति । स्मरणाविच्छेदेऽपि स्मरण-विशेषाणां पुनः पुनर् अरिशयिता ध्वनिता । प्रभो इति परम-दैन्येन । यद् वा, हे प्रभो ! सर्वदा समर्थेति त्वम् एवात्र न्याय-कर्ता भवेति भावः । श्री-नन्दाभिधस्य गोपस्य राज्ञः सुतम् इति भवद्-विधोपदेशात् प्रयत्न-शतैर् ईश्वरत्वेन स्मर्तुम् इष्यमाणम् अपि तद्-रूप तथैव स्मारयन्तीति ज्ञानाद्य्-अनवसरो व्यञ्जितः


ननु तत्र तत्रानुसन्धान-मात्रं बलात् त्यक्त्वा तं विस्मरत । तत्राहुः—श्री-निकेतैर् ध्वजाद्य्-असाधारण-लक्षणैः श्रियः सर्वस्याः सम्पदः शोभाया वा निकेतैस् तस्य पदकैः सर्वत्रोदितस् तल्-लीला-भेदेन पद-चिह्नानां प्रकारैः । स्थूलादित्वात् प्रकारे कन् । तदानीम् अपि तेषाम् अनुवृत्तिः प्राग् व्युत्पादितैव ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनः पुनर् इति । स्मरणाविच्छेदेऽपि स्मरण-विशेषाणां पुनः पुनर् अतिशयिता ध्वनिता ॥५०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-निकेतैर् ध्वज-वर्जादि-चिह्न-शोभा-युक्तैः शिलादिष्व् अद्यापि वर्तमानैः ॥५०॥


॥ १०.४७.५१ ॥

गत्या ललितयोदार- हास-लीलावलोकनैः ।

माध्व्या गिरा हृत-धियः कथं तं विस्मराम हे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे उद्धव, तं कथं विस्मरामेति ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माध्व्या मनोहरया । तत् तम् ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तेषु दृष्टिम् अकृत्वा मनोऽन्यत्र नीत्वा सर्वं तदीयं विस्मृत्यासौ विस्मर्यतां, तत्राहुः—गत्येति । देह-चेष्टोपलक्षिता उदार-हासाश् च लीलयावलोकनानि च तैर् इति माधुरीभिर् मनो-भाव-विशेषः । बहुत्वं तेषां प्रत्येकं परम्परया । माध्व्या शब्दतोऽर्थतश् च मधुरया । एवं त्रिधा हृत-बुद्धयस् तद्-गत्य्-आदिकं तदीय-सौहृदं वा कथं केनोपायेन विस्मरामः ? अपि तु न कथम् अपि विस्मर्तुं नैव शक्नुम इत्य् अर्थः । तत्-तत्-स्मरणेन तस्यैव स्मृत्य्-उत्पादनात् । तम इति पाठो वा ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु वस्त्रेण नेत्रम् आवृत्य बुद्ध्या मनोऽन्यत्र नीत्वा सर्वं तदीयं विस्मृत्य स विस्मर्यतां, तत्राहुः—गत्येति । अनया देह-चेष्टा-मात्रम् उपलक्षितम् । उदार-हासश् च लीलावलोकनानि च तैर् इति तदीय-भाव-विशेषः । बहुत्वं तेषां प्रत्येकं परम्परया । माध्व्या शब्दतोऽर्थतश् च मधुरया । एवं त्रिविध-चेष्टया हृत-बुद्ध्या । तद्-गत्य्-आदिकं तदीय-सौहृदं वा कथं केनोपायेन विस्मरामः ? अपि तु न कथम् अपीत्य् अर्थः । यद् वा, पुनर् अन्यो वा तद्-उपाय उपदिश्यताम् इत्य् अर्थः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि सरिद्-आदिषु कुत्राप्य् अगत्वा वस्त्रेण नेत्रम् आवृत्य धिया मनोऽन्यत्र नीत्वा स विस्मर्यतां तत्रास्माकं धीर् नास्त्य् एव तेनैव हृतत्वाद् इत्य् आहुः—गत्येति । माध्व्या मधुरया वाचा, उद्धव ! ॥५१॥


॥ १०.४७.५२ ॥

हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन ।

मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-जपनीय-मन्त्रं [प्रकाश्य]{।मर्क्} आहुः—हे नाथ ! सर्वैश्वर्य-युक्त ! रमयापि स्वाभीषावाप्तये नाथ्यते प्रार्थ्यते इति तथा । व्रज-नाथानां गोपीनां गोपानां वार्तिनाशन ! यद् वा, व्रजं नाथयन्त्य् उपतापयन्तीति व्रज-नाथाः । कंसादयस् तान् आर्त्या पीडनेन नाशयतीति तथा । भिन्न-पदे वा । गोकुलं तद्-वासिनः त्वद्-वियोग एव वृजिनं दुःखं तद्-अर्णवात्, न हि गोविन्दस्य गोकुलोपेक्षोचितान्यथा नाम्नोऽन्वर्थता न स्याद् इत्य् अभिप्रायः ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि तत्-करुणैव शरणम् इति तम् एव प्रार्थयन्त्योऽन्या ऊचुः—हे कृष्णेति दैन्योत्कण्ठ्ययोर् एव विश्रान्तिः ॥५२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च प्रेमार्ति-भरोदयेन श्री-भगवन्तम् एव साक्षाद् इव सम्बोध्यार्त-नादेन प्ररुदत्य आहुः—हे कृष्णेति । स्वतः परमानन्द-घन-मूर्ते ! न चानन्द-परिपूर्णत्वाद् भक्तोपेक्षास्तीत्य् आहुः—हे रमा-नाथ लक्ष्मी-पते इति । अत्यन्तार्त्या पुनः पुनर् हे शब्दः । न च रमा-नाथत्वाद् अन्य-जनोपेक्षास्तीत्य् आहुः—व्रज-नाथ ! हे व्रज-पालकेति । यद् वा, हे रम हे कान्त ! रमः कान्ते रमा लक्ष्म्याम् इत्य् अभिधानात् । हे अनाथ-व्रज-नाथ ! न विद्यते त्वां विना नाथोऽन्यो यस्य तस्य व्रजस्य नाथ ! ततश् च कदापि तव दीन-जनोपेक्षा नास्त्य् एवेत्य् आहुः—आर्ति-नाशन ! इति । एतच् चात्मोद्देशेनोक्तम् । अतो दुःख-समुद्रे मग्नं गोकुलं सर्वान् अत्रत्यान् प्राणिन उद्धर । सकृन् निज-दर्शनेन सर्वंदुःखम् अपास्य पुनर् जीवयन् सुखीकुर्व् इत्य् अर्थः । तच् च तवावश्य-कृत्यम् एवेत्य् अभिप्रायेण सम्बोधयन्ति—गोविन्द ! हे गोकुलेन्द्र्ति । मग्नम् इत्य् अतीत-निर्देशेनार्णव-रूपकेण च स्वतोऽप्रतिकार्यतया महा-दैन्यं सूचितम् इति ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चास्माकं दुःखम् अस्योपदेशान् नापगच्छेद् इति तम् उद्धवम् अप्य् अनादृत्य समुत्थिततया मथुराभिमुखी-भवन्त्यः समुन्नत-नादेन स्व-कान्तम् एव सम्बोधयन्त्यः स-दैन्य-रोदनम् आहुः । तत्र च तस्य गोकुल-प्रियता-स्मरणेन गोकुल-दुःखासहनतया स्व-दुःखम् अप्य् अनादृत्य गोकुल-रक्षाम् एव प्रार्थयन्ते—हे कृष्णेति । सर्व-तदीयाद्भुत-रूप-गुण-क्रीडा-क्रोडी-कारितया सन्ततं निजान्तः-स्फुरता विशेष-नाम्ना प्रथमतः सम्बोधनं—हे रमा-नाथेत्य्-आदिना । विशेषेण नामभिर् इति ज्ञेयम् । हे कृष्णेत्य् अत्र हे नाथेति क्वचित् पाठः प्रथमतः स्वीय-भाव-स्फूर्तिः । हे सर्वासाम् अस्माकम् आसां स्वामिन्न् इत्य् अर्थः । हे रमा-नाथेति रमा-पर्यन्त-नाथ्यमान-कृपा-दृष्टितयापरम-दुर्लभ ! तत्र च तस्मान् मच्-छरणं गोष्ठं मन्-नाथं [भा।पु। १०.२५.१८] इत्य्-आद्य्-अनुसारेण व्रजस्य नाथः । आर्तिनाशनश् च सन् निर्वाहित-तादृश-सङ्कल्प ! अतोऽधुना तु दुःख-समुद्रे मग्नं गोकुलं सर्वान् तत्र च हे गोविन्देति सम्बोध्य गोकुलेन्द्रतयाभिषिक्तस्य तव गोविन्दता पालनार्थम् अप्य् अवश्यम् एवेदं कृत्यम् इति सूचितवन्त्यः ।

स्वेषाम् आत्म-वियोगार्तिम् अप्य् अवज्ञाय वल्लभाः ।

व्रजस्य हर्तुं वृण्वाना निरस्येत् कथम् अच्युतः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपि च, न केवलम् अस्माकं तद्-अनुध्यानम् एव, अपि तु तत्-तत्-सकलम् एव चरितं स्वयम् एव पुरः स्फुरतीत्य् आहुः—हे कृष्णेत्य्-आदि । इत्य् औत्कण्ठ्य एव विश्रान्तिः ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चोद्धवम् अप्य् अनादृत्य परमार्त्या मथुराभिमुखी-भवत्यः कृष्णायमुखेनैव सम्बोधयन्त्यः सदिअन्य-रोदनम् आहुः—हे कृष्ण ! अयोग्यानाम् अप्य् अस्माकं चित्ताकर्षक ! हे रमा-नाथ ! रमयापि नाथ्यमानाद्भुत-माधुर्य-रस-विलासादि-महा-सम्पत्ते ! हे व्रज-नाथ ! व्रजस् त्वां नाथति । हे आदि-नाशन ! पूर्वंगोवर्धनं धृत्वा इन्द्र-कृताम् आर्तिम् अनाशयत् भवान् इत्य् अर्थः । सम्प्रति तु त्वद्-विरहाद् एव सर्वतोऽप्य् अधिके वृजिनस्यार्णव एव अद्य श्वो वा नश्यद् एव गोकुलं स्वयम् एवागत्योद्धर । हे गोविन्द ! स्व-पलित-चरीः स्वीय-गवीर् विन्दस्व । अलं दूत-प्रस्थापनया इति भावः ॥५२॥


॥ १०.४७.५३ ॥

श्री-शुक उवाच—

ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः ।

उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णम् अधोक्षजं ज्ञात्वा, तं च स्वात्मानं ज्ञात्वा ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः प्रार्थनोत्तरम् । ता गोप्यः । अधोक्षजं ब्रह्म । तम् अधोक्षजम् एवोद्धवोपदेशत आत्मानं ज्ञात्वा निरस्त-वियोग-तापाः ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तस्माद् विलापादेः पश्चाद् इति क्षणं निश्चेष्टतया निपत्य वृत्तानां तासाम् अथ कथञ्चिद् धैर्यतः किञ्चित् स्वस्थतायां सत्याम् इत्य् अर्थः । कृष्णस्यपरमाकर्षकस्य सन्देशैर् इति तत्-सन्देशानाम् अपि चित्ताद्य्-आकर्षकत्वम् अभिप्रेतम् । अत एवाधोक्षजम् इन्द्रिय-ज्ञानागोचरम् अपि भगवन्तम् । किं वा, शकटाक्साधो महा-शकटात् पुनर् जातम् इव श्री-व्रजेन्द्र-नन्दनम् आत्मानम् उक्त-प्रकारेण सदा सर्वथा स-व्यापकं ज्ञात्वा विश्राम-रूपेणापेतो विरहस्य ज्वरो बाह्याभ्यन्तर-तापोद्रेको यासांतथा-भूताः सत्य उद्धवं तादृश-सन्देश-प्रापणादिना साक्षाद्-उत्सव-रूपंभगवान-प्रवरं पूजयाञ्चक्रुः, श्लाघादिना सम्मानितवत्यः, तस्य प्रीत्य्-अर्थम् ।

किं वा, तच्-छ्रवणेन श्री-कृष्ण-सुखार्थं शोक-शान्त्य्-अर्थम् ।यद् वा, व्यपेत-विरह-ज्वरा एव सत्यः, अधोक्षजम् आत्मानं ज्ञात्वेति योज्यम्, तादृश-ज्वरे सति तादृश-ज्ञानासम्भवात् । एतच् च श्री-परीक्षिच्-चित्त-समाधानार्थम् उक्तम् ।

अथवा, आत्मानं प्रियम् अधोक्षजं व्रज-राज-कुमारं कृष्णस्य तस्यैव सन्देशैः—भवतीनां वियोगो मे [भा।पु। १०.४७.२९] इत्य्-आदि-लक्षणैर् ज्ञात्वा, अधुना अत्रैव पश्येमेति विज्ञायेत्य् अर्थः । अत एव व्यपेत-विरह-ज्वरा उद्धवं सम्मानितवत्यः ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः पुनर् अपि तासां वैयग्र्यं दृष्ट्वाकथितैर् भवतीनां वियोगो मे [१०.४७.२९] इत्य्-आदिकैर् मय्य् आवेश्य मनः कृष्ण[१०.४७.३६] इत्य्-आद्य्-अन्तैर् महा-मन्त्रैर् इव कृष्ण-सन्देशैर्व्यपेतो विरहोत्थ-ज्वरो महा-सन्तापो, न तु तत्-प्राप्त्यैक-नाश्यो विरहो यासांतादृश्यः सत्यः सम्प्रत्य् एवोद्धवंयथा स्वावस्थम् आतिथ्योचितं पूजयाञ्चक्रुर् इति पूर्वम् आरब्धापि पूजा दुःखेन वितथा जातेत्य् अधुना तु विशेषेणैवेत्य् अर्थः


ननु सन्देश-मात्रेणकथं व्यपेत-विरह-ज्वरत्वं? तत्राह—ज्ञात्वेति । तत्रप्रथमार्थयस्यात्मनो ज्ञानं सन्दिष्टं तमात्मानम् अधोक्षजंश्री-कृष्णम् एव मत्वा, न त्व् अन्यम् ।

तत्रायम् अभिप्रायः—अनुवादम् अनुक्त्वा तु न विधेयम् उदीरयेद् इति न्यायाद् अत्र तद्-उपदेशात् ज्ञातत्वेनतस्यात्मत्वम् अनूद्य पुनर् अधोक्षजापर-पर्याय-श्री-कृष्णत्वम् एवाभिधीयते । तत्रात्म-शब्देन सर्वात्मोच्यते । अधोक्षज-शब्देन रूढि-वृत्त्या प्रसङ्ग-सङ्गत्या च श्री-कृष्ण एव प्रतिपाद्यते । तत्रैव योग-वृत्त्या सर्वेन्द्रियाधिकारित्वं च । तत्र च सति मया सर्वात्मनेति यत् पूर्वम् उपदिष्टं तत् खलु लक्षणया निर्विशेष-स्वरूपत्वेनैवेत्य् अविद्या-वादिनः । परम-विशेषवत् परम-स्वरूपत्वेनैवेत्य् अचिन्त्य-शक्ति-वादिनः । तादृश-विशेषवत्त्वेऽपि मे मयेत्य् उक्तेः कृष्णतया विलक्षणेनेति प्रकरणार्थ-दर्शिनः । तथैव हि, कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनां [भा।पु। १०.१४.५५] इत्य् आदौ स्वाभाविक-परम-प्रेमास्पदत्वोचितं सर्वात्मत्वं स्थापयित्वादेहीवाभाति मायया [भा।पु। १०.१४.५५] इत्य् अत्र देहि-शब्दोक्त-जीवत्वं निषिद्धम् इति तत्रव्याख्यातम् एव । तत्रयद्यपि गोवर्धन-मख-प्रवर्तनाय कर्म-वादादिवद् अभीष्टम् अप्य् अत्र प्रथमार्थे परम-रहस्योत्तरार्थ-द्वयाच्छादनाय स्वस्माद् उपरततया विरह-सन्ताप-मय-काल-क्षपणाय च श्री-भगवता निर्विशेषत्वम् एव प्रतिपादितं प्रथमतस् ताभिर् अप्य् अपेक्षितम् ।तथापि पुनस् ताभिस् तच्-छ्रवणाद् विलक्षण-स्वरति-स्वाभाव्येन श्री-कृष्णस्यैव सदा सर्वत्र स्फुरणान् निज-सर्वेन्द्रिय-प्रवर्तकत्वेनाभिगमाच् च । तत्रश्री-कृष्णत्वम् एव पर्यवसाय्यते स्म । तद् एवास्माभिर् अप्य् अनूद्य विधेययोर् आत्माधोक्षज-शब्दयोः क्रम-बलाद् दृश्यते । अन्यथा अद्वैतावेशे सति पूज्य-पूजकत्वाननुसन्धानात् ताभिर् उद्धवस्य पूजनं न प्रसज्जते चेति ।

द्वितीयेऽर्थे—यथासाव् अस्मान् सदानुभवति तथा वयम् अपि तम् इत्य् अविनाभाव-स्फूर्तेर् आत्मानम् अधोक्षज-तादात्म्यापन्नं मत्वेति व्याख्येयम्


तृतीयेऽर्थे—यथातेन सन्दिष्टं तथैवात्मानम् अधोक्षजं मत्वेत्य् अर्थः । मय्य् आवेश्य मनः कृष्णे [भा।पु। १०.४७.३६] इति ।

चतुर्थे पक्षे तु—यथा कृष्णेनादिष्टं तथात्मानम् अचिरात् कृष्ण प्राप्स्यन्तं तथैवाधोक्षजं च कृष्णम् अचिरात् स्वं प्रापयिष्यन्तं ज्ञात्वा निश्चित्येत्य् अर्थः । च-शब्दं विनापि तद्-अर्थः स्वयं गम्यते । ब्रह्मेति परमात्मेति भगवान् इतिवत् । किन्तु ततस् ताः कृष्ण-सन्देशैर् ज्ञात्वात्मानम् अधोक्षजम् । व्यपेत-विरह-ज्वराः पूजयाञ्चक्रुर् उद्धवम् इति क्रमम् अकृत्वा । यद् उद्धवम् इत्य्-आद्य्-अनन्तरं ज्ञात्वा आत्मानम् अधोक्षजम् इति पठितम् । तत् खलु यथाश्री-नन्दस्य गर्ग-दर्शने तं दृष्ट्वेत्य् आदाव् आनर्चाधोक्षज-धिया इति तथोद्धव-दर्शने वासुदेव-धियार्चयद् इत्य् आतिथ्यतोचिता तथैव सङ्गच्छते यद् अत्रापि विशेषण-द्वयेन तासांतत्रपरमात्म-दृष्टिर् एव निर्दिष्टेति ॥५३॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १६६) : तच् च सन्तोषम् आह—तत इति । तथा तेन सन्दिष्टं तथैवात्मानम् अनुभूयाधोक्षजं चानुभूयेत्य् अर्थः ॥५३॥


जीव-गोस्वामी (प्रीति-सन्दर्भः४१३): इत्य् अत्रापि व्यपेत-विरह-ज्वरत्वं तद्-आगमनादि-श्रवणेनापात-शान्ति-रूपम् एव क्वचिद् गदाग्रजः सौम्य [भा।पु। १०.४७.४०] इत्य्-आद्य्-उक्तेः । आत्मानं तस्य तद्-दूततया तत्-प्रेर्यत्वेनान्तः-करणाधिष्ठातारम् अधोक्षजं श्री-कृष्णम् एव मत्वा तद्-आत्मकत्वेनोद्धवं पूजयाञ्चक्रुर् इत्य् अर्थः । यथा चोक्तम्—

तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् । > नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥ [भा।पु। > १०.४६.१४] इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं बहिर् दृष्ट्या पुनर् विरह-भावम् इतासु तासु पूर्ववद् एव तान् निज-प्रभु-सन्देशान् श्रावयामासेत्य् अभिप्रेत्याह—तत इति । यथातेन सन्दिष्टं, तथात्मानम् अधोक्षजं ज्ञात्वेत्य् अर्थः ॥५३॥ ???


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत इति । यथा तेन सन्दिष्टं तथात्मानम् अधोक्षजं ज्ञात्वेत्य् अर्थः । विनुदन् बहिर्-विरहानुसन्धानेन विस्मृतौ सत्यां पुनः पुनस् तैः सन्देशैर् अपनयन् एतद्-उपलक्षणत्वेन श्री-नन्द-यशोदयोर् अपि तद् अप्य् अयनं ज्ञेयम् । तत् त्व् अन्यत् गोकुल तज् जन-वृन्दं तत्-स्फूर्त्येव तत्-साक्षात्-कार-प्रतीति-मयं तद् अपि माथुरीर् गोकुल-संबन्धिनीश् च श्री-कृष्ण-लीला-कथा गायन् रमयामास ॥५३॥ ???


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तासु दुःखेनाशाम् अपि शिथिलयित्वा मर्तुम् उद्यतासु अन्यान् अप्य् अतिरहस्यान् सन्देशान् उक्त्वा उद्धवस् ता आनन्दयामासेत्य् आह—ततस् ता इति । ततस् तद्-अनन्तरं ये कृष्ण-सन्देशाः पूर्व-सन्देशेभ्यो भिन्नाः, तैर् इत्य् अन्वयः । ते च सन्देशाः श्री-शुकेनाविवृता अपि फलतो ज्ञेयाः, यथा—“भोः प्राण-प्रेयस्यः ! मत्-प्रेषितस्योद्धवस्याग्रे युष्माभ्श् चक्षुंषि मुद्रयितव्यानि । ततश् च पूर्वंयथा गोप-बालकाश् चक्षुर्-मुद्रणेन मुञ्जाटवी-दावानलाद् उद्धृताः, तथैव विरहानलाद् भवतीर् उद्धरिष्यामि । पश्यत मे योग-बलम्,” इति सन्देश-श्रवणेन ता यदैव चक्षूंषि मुद्रयामासुस् तत्-क्षण-मध्य एव शत-कोटि-वर्ष-समयं योग-मायया प्रवेश्य तत्र ताभिः सह रास-वृन्दावन-विहार-द्यूत-मधुपान-जल-विहार-हिन्दोलनादि-विलासानन्यालक्षितान् कृष्णस् तावच् चक्रेयावद्भिः सा विरह-पीडा सम्यग् एव विस्मृता भवेत् ।

ततश् च तासाम् अङ्गान्य् आनन्द-प्रमुदितान्य् आलक्ष्य मुहूर्तानन्तरं—“भोः स्वामिन्यः ! साम्प्रतं चक्षूंष्य् उन्मीलयत,” इत्य् उद्धवेनोक्ते सति ताश् चक्षूंष्य् उन्मील्य अधोक्षजम् अधः-कृतेभ्योऽक्षिभ्यो निमीलितेभ्यो नेत्रेभ्यः परः-सहस्रानन्द-प्राप्त्या पुनर् जातम् इव आत्मानं स्वं ज्ञात्वा पूजयाञ्चक्रुः ।

“भोः प्रेमवत्यः ! यदि यूयं प्राणांस् त्यक्त्वुम् ईहध्वे, तर्हि युष्मद्-दशां श्रुत्वा अहम् अपि प्राणांस् त्यक्ष्यामि, नात्र सन्देहः । शपथ-सहस्रं कुर्वन्न् अहं ब्रवीमि, यूयम् एव प्राणा भवथ । व्रजं गन्तुं प्रतिक्षणं यतमानोऽप्य् अहं यन् न शक्नोमि, तत्रायं काल एव कर्मैव वा व्याख्यात-लक्षणः प्रेमैव वा प्रतिबन्धक इत्य् अहं शङ्के,” इत्य् एवं प्रकारकैः सन्देशैर् व्यपेतो विरह-ज्वरः स्वेषु तत्-प्रेमाभाव-निश्चय-लक्षणः सन्तापो यासां ताः । अधोक्षजं कृष्णम् आत्मानम् आत्म-तुल्यं विरह-सन्तापज-ज्वरं ज्ञात्वा किं वात्मानम् आत्मनः स्वान् एव अनाः प्राणा यस्यतथा-भूतम् अधोक्षजं कृष्णं ज्ञात्वा उद्धवं पूजयाञ्चक्रुर् इति ।

“भो उद्धव ! साधूक्तम् अतः परं कष्टेनापि स्व-प्राणान् वयं रक्षिष्यामः । एवं यदीमं सन्देशं त्वं नाख्यास्यः, तदा वयम् अमरिष्यामैव । ततश् च सर्व-नाश एवाभविष्यत् । अतोऽस्मद्-इष्टा सर्व-रक्षा त्वया कृता,” इति तं संमानयामासुः । आत्मानं स्व-स्व-जीवात्मानम् अधोक्षजं परमात्मानं ज्ञात्वेति प्रकटोऽर्थोऽसुर-मोहनार्थ एव, न तु वास्तवः । शास्त्रस्यअस्य मोहिनी-साधर्म्यात्, न हि केनापि प्रेम-रसास्वादिना भक्तेनात्म्यैक्य-ज्ञानं कदापि रोचितम् ।आभ्यः प्रेमि-भक्त-मुकुट-मणिभ्यस् तत् कथं रोचितां ?

त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः ।

कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम् ॥ [भा।अ।दी। १०.८८.११]

इत्य् आर्य-शास्त्र-तात्पर्याभिज्ञैः स्वामि-चरणैर् अप्य् उक्तम् । नापि बलवता अप्य् आत्म-ज्ञानेन सम्पूर्णः प्रेमा क्वाप्य् आवरीतुं शक्यो दृष्टः वसुदेवार्जुनयोर् अपि महैश्वर्य-दर्शनोद्दीपित-दास्य-भक्त-वात्सल्य-सख्य-भावावृतावृतौ, न तु ब्रह्म-ज्ञानेन । यत् तु, ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः[भा।पु। १०.२८.१६] इति व्रजौकसां ब्रह्म-रस-निमग्नत्वं श्रूयते, तद् अपि ब्रह्म-ज्ञानस्य तद्-अरोचकत्व-ज्ञापनार्थम् एव । ते एव तत्रोद्धृता इति पदं प्रयुक्तं, यथा संसार-कूपाज् जीवा उद्ध्रियन्ते, तथैव ब्रह्म-रसात् ते व्रजौकस उद्धृता इति ।

किं च, आसाम् उत्पन्न-निर्भेदात्म-ज्ञानवत्त्वे गोप्यो हसन्त्यः पप्रच्छुः—रस-सन्दर्शनादृताः कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभ इति । कृतः नु गृह्णन्त्य् अनवस्थितात्मनो वचः कृतघ्नस्य बुधाः कुल-स्त्रियः इत्य्-आद्य्-अग्रिम-वचनानि साभिमानान्य् अज्ञान-द्योतकानि न सम्भवेयुर् इति विवेचनीयम् ॥५३॥


॥ १०.४७.५४ ॥

उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः ।

कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विनुदन् अपनयन् ॥५४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपनयन् दूरीकुर्वन् । कृष्णस्य लीला यासु ताः ॥५४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपीनां शुचः शोकान् विनुदन्, हतौ शतृ-प्रत्ययः । विनोत् तुम् । कतिचित् दशैकादश वा मासान् उवास व्रजेऽवसत् । एवं तस्य तत्र वासस्य मुख्य-प्रयोजनम् उक्त्वान्यद् अप्य् आह—कृष्ण- इति । गोकुलं तत्रत्यान् मनुष्य-पशु-पक्षि-वृक्षादीन् सर्वान् एव रमयामास सुखयामास । उपनन्दादि-वृद्धेषु तत्-पत्न्य्-आदिषु वृद्धासु च कृष्णस्य वन्दनादीनां तथा श्रीदामादि-वयस्येषु परिरम्भादीनां विज्ञापनादिना, तथा पशु-पक्षि-वृक्षादिषु प्रत्येकं कुशल-प्रश्नादिना यथायथं रमणं ज्ञेयम् । गोकुल-स्थेषु वन्दनादि-विज्ञापनादिकम् एव हरि-लीला-कथा-गानम् इत्य् अर्थः । यद् वा, किम्-अर्थं रमणं ? श्री-कृष्ण-कुल-सम्मतत्वं मन्त्रित्वं च तस्य दर्शितम् । यद् वा, गोपीनां शुचो विशेषेण नुदन्, तत्र तत्र कृष्ण-सन्दर्शनेन नोदनस्य वैशिष्ट्यम् । अत एव सर्वत्र कृष्ण-प्राकट्य-दर्शनेनोत्फुल्लः, कृष्ण-लीलानां कथाः प्रबन्धान् ॥५४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च श्री-गोपी-प्रमुखानां श्री-कृष्ण-स्फूर्तौ साक्षात्-कारत्व-प्रतीत्या तन् नित्य-लीलायां मानस-प्रत्यक्ष-मय-प्रवेशेन मय्य् आवेश्य मनः कृष्ण इति तदा स्वासने च प्रायो विच्छिन्न एव शोक इत्य् आह—उवास इति त्रिभिः । विनुदन् बहिर् विरहानुसन्धानेन विस्मृतौ सत्यां पुनः पुनस् तैः सन्देशैर् अपनयन् । एतद्-उपलक्षणत्वेन श्री-नन्द-यशोदयोर् अपि तथा तद्-उपनयनं ज्ञेयं । यत् त्व् अन्यद् गोकुलं तज्-जन-वृन्दं तत्-स्फूर्त्यैव तत्-साक्षात्कार-प्रतीति-मयं, तद् अपि माथुरीर् गोकुल-सम्बन्धिनीश् च श्री-कृष्णस्य लीला-कथा गायन् रमयामास तत्-तल्-लीलानां साक्षाद् इव स्फोरणेन प्रीणितवान् ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विनुदन् बहिर् विरहानुसन्धानेन विस्मृतौ सत्यां पुनः पुनस् तैः सन्देशैर् अपनयन् । एतद्-उपलक्षणत्वेन श्री-नन्द-यशोदयोर् अपि तद्-अपनयनं ज्ञेयम् । यत् त्व् अन्यद् गोकुलं तज्-जन-वृन्दं तत्-स्फूर्त्यैव तत्-साक्षात्कार-प्रतीति-मयम्, तद् अपि माथुरीर् गोकुल-सम्बन्धिनीश् च श्री-कृष्ण-लीला-कथा गायन् रमयामास प्रीणितवान् ॥५४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.४७.५५ ॥

यावन्त्य् अहानि नन्दस्य व्रजेऽवात्सीत् स उद्धवः ।

व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षण-प्रायाणि क्षण-कल्पानि । क्षणो द्वादश-पलात्मकः कालः ॥५५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स प्राग्-उक्त-माहात्म्यः, तथा तथा गोकुल-रमणो वा । यावन्ति बहुतराण्य् अहानि व्रज-वासिनां सर्वेषाम् एक-क्षण-तुल्यान्य् आसन् । कुतः ? कृष्णस्य वार्तया उद्धवेन तैर् एव वा कथ्यमानया लीला-कथया, कृष्ण-वार्ता-स्वभावेन परमानन्द-जननात् । यद् वा, कृष्णस्य वार्तया तत्र तत्र वर्तनेन ॥५५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव विवृणोति—यावन्तीति द्वाभ्याम् ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षण-प्रायाणि इति । उद्धवस्यान्वर्थ-नामत्वाद् भगवताप्य् आनन्द-दातृत्व-शक्त्य्-अर्पणाच् चेति गम्यते ॥५५॥


॥ १०.४७.५६ ॥

सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान् ।

कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सरिद्-वन-गिरि-दर्य्-आदिषु प्रत्येकं श्री-कृष्णं लीला-सम्प्रश्नादिभिः संस्मारयन् रेमे ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्प्रश्नैर् अत्र किं कृतं ? भगवतात्र किं कृतम् ? इत्य् एवं-रूपैः पार्श्व-द्वयोन्नत-निम्नानिम्न-पत्र-कुसुमित-वृक्ष-निविष्टा स्थली द्रोणी, सानु-विशेषो वा । हरिदासो हरि-सेवको ज्ञातात्म-तत्त्वो वा । दासो भृत्ये तथा शूद्रे ज्ञातात्मनि च धीवरे इति मेदिनी ॥५६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स तु तेषां सङ्गेन श्री-वृन्दावने परिभ्रमन् परम-सुखी बभूवेत्य् आह—सरिद् इति । हरेर् विचित्र-प्रसादादिना निज-मनोहरस्य श्री-भगवतो दासः साक्षाद्-विधि-सेवा-निष्ठः । कृष्णं प्रति तत्-तद्-वार्तया व्रजौकसः सम्यक् स्मारयितुं **सरिद्-**आदीन् वीक्षमाणो रेमे इति तेषां सङ्गत्या तत्र तत्र परिभ्रमणेन वीक्षणे गुण-विशेष उक्तः । एवं यदा कदापि भगवत्-प्रिय-जन-सङ्गेन तल्-लीला-स्थल-दर्शनस्य परमानन्द-कारित्वान् माहात्म्य-विशेषोऽपि दर्शितः । यद् वा, व्रज-भूमेः सरिद्-आद्यास् तत्र तत्र सदा पुष्पित-द्रुमांश् च प्रति कृष्णं वीक्षमाणो रेमे, व्रजौकसां गोपीनां, कर्मणि षष्ठी । ताः प्रति—भवतीनां वियोगो मे [भा।पु। १०.४७.२९] इत्य्-आदि-तत्-सन्देशस्य यथार्थतां संस्मारयन् ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् स्मारयन् साक्षात्-कृत-निर्विशेषं कुर्वन्न् इत्य् अर्थः । तादृशानाम् अपि तेषां स्मरणे यत् सम्यक्त्वं तत् तथैव पर्यवस्यतीत्य् अत एव स्वयम् अपि रेमे । गवादिवत् स्फूर्ति-विशेषात् द्रुमाणाम् अपि कुसुमितत्वम् उक्तम् ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सरिद् इति । तत्र तत्रत्य-लीलाविष्टतया सम्यक् स्मारयन्न् इत्य् अर्थः ॥५६॥


जीव-गोस्वामी (प्रीति-सन्दर्भः २१६) : तत्र श्रीमद्-उद्धव-वासे तु प्रायः सर्वेषाम् अपि तादृशीं स्फूर्तिं वर्णयति—उवास इति त्रिभिः । संसारयन् स्फोरयन्न् इत्य् अर्थः । अत एव विनुदन् शुच इत्य्-आदिकम् उक्तम् ॥५४-५६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.४७.५७ ॥

दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् ।

उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्णावेशेनात्मनो मनसो विक्लवं वैक्लव्यम् । ता गोपीर् नमस्यन् नमस्करिष्यन् । उत्तमस्यात्मनो गोप-स्त्री-नमस्कृतिर् अन्याय्या न भवतीति दर्शयितुं तासां महत्त्वं पञ्चभिर् जगौ उवाच ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम्-आदि पूर्वोक्त-भ्रमरोद्देश्यक-गानादि-प्रार्थान्त-रूपम् । अन्याय्यायोग्या । तासां गोपीनाम् । उत्कृष्टो धवः स्वामी श्री-कृष्णो यस्य स उद्धवः । धवः पतिर् धवो भीरुः इत्य् अनेकार्थ-ध्वनि-मञ्जर्याम् । उद्धुनोति द्रावयति निज-सङ्गिनाम् अज्ञानम् इति वा ॥५७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दृष्ट्वेत्य्-आदि । ता नमस्यन् मनस्या एवैता इति दर्शयन् ॥५७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकार आदिर् यस्य तत्, आदि-शब्दान् मुहुर् उन्मत्तवद् वचनादिकं मुउर् मूर्च्छादिकं च ज्ञेयम् ।यद् वा, आदि-गोपीनांनित्य-प्रियाणां व्रज-सुन्दरीनां कृष्णे आवेशेन तथातथानुभवात् सम्यग् अभिनिवेशेनात्मनो विक्लवं दिव्योन्मादं दृष्ट्वा साक्षाद् अनुभूय नमस्यन् अग्रे नमस्कर्तुं प्राक् स्तोत्रतया किं वा, परम-भक्त्या साक्षाद् एव प्रणमन्न् इदं वक्ष्यमाणं जगौ, उच्चैः सुस्वरं कीर्तयामास । कुतः ?परम-प्रीतो निजेश्वरेऽननुभूत-पूर्व-प्रेम-विशेष-दर्शनेनात्यन्त-हृष्टः सन् ॥५७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं यद्यपि सर्वेषाम् एव व्रज-वासिनां श्री-कृष्णे सर्व-विलक्षणः प्रेमा तथापि श्री-गोपीषु तस्य परम-चमत्कारमयी भक्तिर् जातेति दर्शयति । दृष्ट्वेत्य् आदिना । एवम् उक्त-प्रकार आदिर् यस्य तच्-चरितम् इति शेषः । कृष्णावेशेनात्मनो विक्लवो दिव्योन्मादादिर् यत्र तद्-अननुभूतं दृष्ट्वा परम-प्रीतः तद्-दर्शनात् स्वभाग्य-स्फुरणेन चासां गुणानुमोदनेनैव वात्यन्त-हृष्टः नमस्यन् नमस्कर्तुं स्तोत्रतया जगौ आवेशेन सुस्वरं तुष्टाव । किं वा, झटिति । प्रणमन्न् एव जगौ प्रत्यहं गमनागमन-समये किञ्चिद् व्यवहित-दूरे स्थितेति ज्ञेयम् ॥५७॥


जीव-गोस्वामी (प्रीति-सन्दर्भः१०१) : अथ सर्वेभ्योऽपि मुनि-गण-प्रशस्तत्या सर्वतोऽपि प्रेम-प्रणय-मान-राग-वैशिष्ट्य-पुष्टया विशेषतोऽनुराग-महाभाव-सम्पत्ति-धारिण्या स्व-प्रीत्या वशीकृत-कृष्णानां श्री-व्रज-देवीनां त्व् असमोर्ध्वम् एव तद्-वैभवम् । एतत्-क्रमेणैवोद्धवस्याप्य् अनुज्ञापन-क्रमो दृश्यते ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जगाव् इति प्रत्यहं गमनागमन-समये किञ्चिद् व्यवह्नि-दूरे स्थित्वेति ज्ञेयम् ॥५७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कृष्णावेशेन आत्मनो मनसो विक्लवं वैक्लव्यम् । ता गोपीर् नमस्यन् नमस्करिष्यन् । उत्तमस्यात्मनो गोप-स्त्री-नमस्कृतिर् अन्याय्या न भवतीति दर्शयितुं तासां महत्त्वं पञ्चभिर् जगौ उवाच ॥५७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् आदि-चरितम् इति शेषः । कृष्णावेशेनात्मनो मनसो विक्लवो दिव्योन्मादादिर् यत्र तत् । नमस्यन्न् इदं नमस्कार-मन्त्रम् इव जगाव् उच्चैर् उच्चारयामास । क्षत्रिय-जातेर् अपि स्वस्य गोप-स्त्री-नमस्कृतिर् अन्याय्या न भवतीति दर्शयितुम् इति श्री-स्वामि-चरणैः ॥५७॥


॥ १०.४७.५८ ॥

एताः परं तनु-भृतो भुवि गोप-वध्वो

गोविन्द एवम् अखिलात्मनि1 रूढ-भावाः ।

वाञ्छन्ति यद् भव-भियो मुनयो वयं च

किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एता इति । एताः परं केवलं तनु-भृतः सफल-जन्मानः । रूढ-भावाः परम-प्रेमवत्यः । यद् इति यं रूढं भावं भव-भियो मुमुक्षवो मुनयो मुक्ता अपि वाञ्छन्ति, वयं च भक्ता अपि । अतोऽनन्तस्य कथासु रसो रागो यस्य, तस्य ब्रह्म-जन्मभिर् विप्र-सम्बन्धिभिः शौक्ल-सावित्र-याज्ञिकैस् त्रिभिर् जन्मभिः किं कोऽतिशयः ? यत्र तत्र जातः, स एव सर्वोत्तम इत्य् अर्थः । यद् वा, अनन्त-कथासु रसो यस्य, तस्य ब्रह्म-जन्मभिश् चतुर्-मुख-जन्मभिर् अपि किं ? इत्य् अर्थः ॥५८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एता गोप्यः अपि वाञ्छाम इत्य् अर्थः । यतो भगवत्-प्रेमैवोत्कर्ष-हेतुर् अतो हेतोः । अनन्तस्य हरेः । अतिशय आधिक्यम् । यत्र तत्र यस्मिन् कस्मिन् वंशे । स एव भगवद्-भक्त एव । इत्य् अर्थ इति—

विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-

पादारविन्द-विमुखात् श्वपचं वरिष्ठं [भा।पु। ७.९.१०] इत्य्-आद्य्-उक्तेः


ननु ब्राह्मणो जन्मना श्रेयान् इत्य्-आद्य्-उक्तेः, ब्रह्म ब्राह्मण आत्मना इति श्रुतेश् च तन्-निन्दात्र प्रतीयतेऽतोऽर्थान्तरम् आह—यद् वा इति । इत्य् अर्थ इति—

स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्

विरिञ्चताम् एति ततः परं हि माम् ।

अव्याकृतं भागवतोऽथ वैष्णवं

पदं यथाहं विबुधाः कलात्यये ॥ [भा।पु। ४.२४.२९] इति शङ्करोक्तेः ॥५८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोपीनां परात्परत्वम् अन्वय-व्यतिरेकाभ्यां दर्शयन्न् आह द्वाभ्यां—एता इत्य्-आदि । गोप-वध्वः किल तनु-भृतः प्राणित्वेन ज्ञायमानस्य तनुभृतः प्राणि-मात्राद् वा परं पारम् एताः प्राप्ताः । जाताव् एक-वचनम् । तनुभृन्-मध्ये नासां गणनेति भावः । यतः श्री-गोविन्द एवं रूढ-भावाः, गोविन्दाङ्घ्रि-करणेनैवं-भाववत्त्वं तनुभृत्-परत्वे हेतुः । भावस्य दुर्लभताम् आह—वाञ्छन्ति इत्य्-आदि । यत् यम्।

कथम् एवं [भावलो]{।मर्क्} मुमुक्षु-मुक्त-भक्तैर् वाञ्छ्यते ? तत्राह—किं ब्रह्मेत्य्-आदि । अनन्यत कथायाम् एव, किम् उत अस्मिन् । रसोऽनुरागः । ब्रह्म-जन्मभिर् ब्रह्मतापात्तिभिर् अपि । बहु-वचनं सर्व-स्पृहनीय-प्राधान्यात् ॥५८॥\



सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४७] इदानीं जगत्-पूज्यतम-श्री-भगवद्-भक्त-गण-परम-स्तुत्यत्व-वन्द्यत्वादिना तासां परम-माहात्म्यस्य परा-काष्ठा, त्वं मे भृत्यः सुहृत् सखा [भा।पु। ११.११.४९] इति, त्वं तु भागवतेष्व् अहम् [भा।पु। ११.१६.२९] इति,

न तथा मे प्रियतम आत्मयोनिर् न शङ्करः । > न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [भा।पु। > ११.१४.१५]

इत्य्-आदीनाम् उद्धवं प्रति साक्षाच् छ्री-भगवद्-वचनानां प्रामाण्येन । परम-भागवतोत्तमतया विख्यातो वाचस्पति-शिष्य-वरो मन्त्रि-मूर्धन्यो\ऽसौ श्रीमद्-उद्धवो निज-चातुर्येण भगवत्-सन्देशैर् अपि गोपीनां विरह-दुःखं किञ्चिद् अपि शमयितुम् अशक्नुवन्, अथ च मुहुर् वर्धमानम् एवालक्ष्य, अत एवादृष्टाश्रुत-पूर्वं परम-प्रेम-गाम्भीर्यम् आलोच्य, परम-भक्त्या ताः प्रणमन्, स्तुतित्वेनेदं जगौ—एताः [भा।पु। १०.४७.५८] इत्य्-आदि पद्य-षट्कम् । तत्राद्येन पद्येन मुमुक्षु-मुक्त-भक्तेभ्यो\ऽप्य् आसां माहात्म्यं गीयते—एताः परम् इति


एताः श्री-नन्द-व्रज-महा-लक्ष्म्यः गोप-वध्वः परं केवलं तनु-भृतः सफल-जन्मानः । भुवि इति पृथिव्याम् अन्यत्र स्वर्गादौ भोगैश्वर्यातिशयादिना स्वत एव श्री-कृष्ण-विषयक-भाव-विशेष-सम्पत्त्य्-असम्भवात् सफल-जन्मत्वाभावेनोक्तम् इति ज्ञेयम्। यद् वा, भुवि ये तनवो\ऽल्पका नीच-योनयो जनाः, तान् बिभ्रति समुद्धारयन्ति संसारात्, प्रेम-भक्ति-प्रदानेन पुष्णन्तीति वा, भुवि तनु-भृतः सहज-निज-कारुण्यादि-प्रभावेन पृथ्वी-गत-दुर्गत-जन-परम-हित-कारिण्य इत्य् अर्थः ।

तत्र हेतुः—अखिलात्मनि सर्वान्तर्यामिनि परमेश्वरे, तत्रापि गोविन्दे गवाम् इन्द्रतया विख्याते गोपराज-श्री-नन्दनन्दने रूढ-भावाः परम-प्रेमवत्यः । तथापि एवम् इत्थं सर्व-नैरपेक्ष्येण, पति-भावेन जार-भावेन च, तथा अपूर्व-वृत्त-परम-विचित्र-रास-क्रीडादिनाधुना च, मम धैर्यापहारिणा परम-मनोहरेण जगद्-रोदक-वैष्णव-गणान्त्य-दशापादक-चिर-विरह-संवर्धिताशक्य-संवरण-सुदुःसह-महा-शोकार्ति-मय-प्रेम-भर-विकार-तरङ्गोदयादिना


यद् वा, अखिलात्मनीति सर्व-प्रियतम इत्य् अर्थः । ततश् चाखिलात्मत्वेन कस्य वा\ऽसौ गोविन्दः प्रियतमो न स्यात्, ईदृशस् तु भावो\ऽस्मिन्न् अन्यस्य कस्यचिद् अस्तीति भावः । अन्यत् समानम् ।

यद् इति यं भावं भव-भियो विरक्ता मुमुक्षवः, मुनय आत्मारामा मुक्ताः । श्री-वैष्णावानां कृपया परम-साधनत्वेन परम-फलत्वेन च यथा-क्रमं ज्ञात्वा वाञ्छन्त्य् एव केवलं, न तु प्राप्नुवन्ति । तथा वयं नित्य-सहज-सेवा-परा भक्ता अपि यं वाञ्छामः ।

ननु मुमुक्षुभ्यो मुक्तेभ्यो भक्ति-मार्गादि-गुरुत्वेन भक्तेभ्यो\ऽपि श्रेष्ठो ब्रह्मा तथा परमेष्ठ्य्-आद्य्-अशेषोत्कर्षवांश् च तत् कथम् एताः सर्वाः जगत्-पूज्य-तादृश-जन्मानि नागृह्णन्? इत्य् अत्राह—अनन्तस्य श्री-कृष्णस्य श्री-बलभद्रस्य अपि वा कथायाम् अपि रसो राग-मात्रं यस्य, तस्यापि ब्रह्म-जन्मभिः ब्रह्मतया बहुभिर् जन्मभिः किम् ? अपि तु न किञ्चित् प्रयोजनम्, विविध-महाभिमानादिना-तत्-कथा-रस-प्रातिकूल्यात् । अतः सर्वथा श्री-गोविन्द-पदारविन्द-मकरन्द-लम्पटानां ब्रह्म-जन्म-प्रतियोगि-तादृश-भावोपयोगि गोप-कन्या-जन्मैव समुचितम् इति भावः ।

अरसस्य इत्य् अ-कार-प्रश्लेषे चायम् अर्थो द्रष्टव्यः—यद्य् अनन्त-कथायां रसो नास्ति, तदा तादृश-ब्रह्म-जन्मभिर् अपि किम् ? न किम् अपि फलं, यतो विरक्ति-मुक्ति-भक्तीनाम् इदम् एव फलं, तद्-अभावे तु विरक्ता मुक्ता भक्ता अपि तु न भवन्तीति भावः ।

अथवा, वेद-बोधित-धर्माचारादयः कथम् एताभिः परम् आप्त-मूर्धन्याभिः परित्यक्ताः ? तत्राह—ब्रह्मणो वेदस्य जन्मभिः स्वयम् एव कण्ठे हृदये च प्रादुर्भावैर् अपि, किम् उताध्ययनाद्य्-अभ्यासैः ? यद् वा, ब्रह्मण आत्म-तत्त्वस्य जन्मभिः प्रकाशैर् अपि, किम् उत पुनस् तत्-तत्-साधनैः ? बहुत्वं गौरवेण समग्रतापेक्षया वा ।

अनन्त-कथा-रसस्य जनस्यान्यस्यापि किं स्यात् ? इत्य् एवम् अन्वयेन अ-कार-प्रश्लेष-व्यतिरेकेण च सर्वथा कथम् अपि फलं नास्तीत्य् अर्थः । वेदाध्ययनादीनां तद्-उक्त-कर्माचरणादीनां वा फलं तत्-कथा-रस एव । अतो दीप-हस्तो यथा गच्छेद् द्रव्यम् आलोक्य तत् त्यजेद् इति, तथा उत्तीर्णे च गते पारे नौकायां किं प्रयोजनम् ? इत्य्-आदि-न्यायेन साधन-परित्यागो\ऽप्य् उक्त एव । व्यतिरेके च फल-सिद्ध्या केवलं तुषावहननवत् तैर् वत्य्-अर्थ एव श्रम इति भावः । किम् उत तासां परम-भगवतीनां श्री-गोविन्दे तादृश-भाववतीनां तैस् तद्-उक्ताचरणैस् तत्-फलैर् वान्यैः प्रयोजनम् इति तात्पर्यम् ॥१४७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी):

गोपी-माहात्म्य-विद्-वर्यं सर्व-भागवतोत्तमम् ।

तम् उद्धवं प्रपद्येऽहं तद्-गीतार्थ-विलुब्ध-धीः ॥

एताः श्री-व्रजेन्द्र-व्रज-वासिन्यो गोप-वध्वो गोप्यो भुवि पृथिवी-मध्ये, इत्य् अत्रैवं सुष्ठु साधनादि-सम्पत्त्या जन्म-साफल्य-सिद्धेः । अखिलात्मनि सर्वान्तर्याम्णि परमेश्वरे, तत्रापि गोविन्दे रूढ-भावा जात-प्रेम-विशेषा बभूवुः । तत्राप्य् एवम् अनेन सर्व-नैरपेक्ष्येण तथानिर्वचनीयातिलालसार्ति-विकार-भङ्ग्य्-आदिना प्रकारेण, तत्र च जगच्-चमत्कारि-भाव-विशेषेण वाञ्छन्त्य् एव केवलम्, न तु लभन्ते, यं वयम् अपि वाञ्छामः। एवं मुमुक्षु-मुक्त-भक्तेभ्योऽधिक-माहात्म्यम् उक्तम् ।

अत ईदृशम् एव जन्म सर्वोत्तमं, न तु जगत्-स्रष्टृत्वादिना सर्व-श्रेष्ठतया प्रसिद्धं श्री-व्रज-जन्मापीत्य् आह—किम् इति । बहुत्वं गौरवेण । किं वा, बाहुल्यापेक्षया—श्री-भगवत्-कथा-रसेन श्री-ब्रह्म-जन्मत्ओऽप्य् अधिक-फल-सिद्धेः । अथवा, अखिलस्यात्मनि प्रियतम इत्य् अर्थः । तथापीदृशो भावोऽस्मिन् न कस्याप्य् अन्यस्यास्तीति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ब्रह्म-जन्मभिर् ब्रह्माकार-मनो-वृत्तिभिर् अपि किं ? बहुत्वं गौरवेण समग्रतापेक्षया वा । यद् वा, ईदृश-भावाभावेन ब्रह्म-जन्मनापि न किम् अपीत्य् आह । अ-कार-प्रश्लेषेण अनन्त-कथायां न रसो यस्य तस्य तद्-रसेनैव ब्रह्म-जन्मनाम् अपि साफल्य-सिद्धेः । आसां च कथादि-साध्य-भाव-विशेष-सम्पत्त्या सर्वतः श्रैष्ठ्यं युक्तम् एवेति भावः ॥५८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

गोपी-माहात्म्य-विद्-वर्यं सर्व-भागवतोत्तमम् ।

तम् उद्धवं प्रपद्येऽहं तद्-गीतार्थ-विलुब्ध-धीः ॥

ननु भवद्भिः क्षत्रिय-तनुभिर् ब्राह्मण-तनव एव नमस्या इति स्थिते, क्वेमाः स्त्रियो वनचरीर् व्यभिचार-दुष्टा [भा।पु। १०.४७.५९] इति कस्यचित् दुर्मतम् आशङ्क्य तासाम् एव सर्वोत्तम-तनुत्वं त्रिभिः स्थापयन् प्रथमं तावद् भगवन्-महा-प्रेम-प्रकाशाकरत्वेन स्थापयति । तत्राह—एता इति द्वाभ्याम् ।

एताः श्री-नन्द-व्रज-वासिन्यः श्री-भगवत्-प्रेयस्यः परं केवलं सम्प्रति श्री-भगवद्-अवतार-सह-भाव-सम्पन्न-तद्-भक्ति-साधक-सिद्ध-नित्य-सिद्धालङ्कृतायां भुवि तनु-भृतः परमोत्तम-तनु-धारिण्य इति स्त्रीत्वादि-दृष्ट्या नावमन्तव्याः । कथं ? तत्राह—अखिलात्मनि सर्वांशिनि । स्वरूपत्वाद् एव सर्वेषां तावन् निरुपाधि-तादृश-परम-प्रेयसी-योग्ये, तत्रापि गोविन्दे परम-रूप-गुण-सीमता-विख्यात-श्री-गोकुलेन्द्रतया प्रकाशमाने रूढ-भावा उद्भूत-महा-भावाः । तत्राप्य् एवम् इत्य् अनुभवैक-वेद्येनानिर्वचनीय-प्रकारेणेत्य् अर्थः । तस्मात् तादृश-भावास् तेजोमय्यस् तनवोऽप्य् आसां सर्वतोऽप्य् उत्तमा इति भावः । तत्र प्रमाणानि तु समनन्तरम् एव दर्शयिष्यन्ते ।

तद् अर्थं तादृश-भाव-महिमानम् आह—यद् भाव-मात्रम् आस्तां तावद् दूरतस् तद्-विशेष-वार्ता मुमुक्षवो मुक्ताश् च वाञ्छन्ति, वयम् अपि नित्य-तत्-सङ्गिनो भक्ताः । महिम-दृष्ट्या केवलं वाञ्छामः, न तु प्राप्नुमः । दूरतस् त्व् अन्ये भावस्यास्य यन्-निदानं तन्-माधुर्य-विशेषानुभवः, तद्-अलाभाद् इति भावः । टीकायाम् अत2 इत्य् अस्याप्य् एतद् एव तात्पर्यम् । अन्यत् तैः ।

यद् वा, ईदृश-भावाभावेन ब्रह्म-जन्मभिर् अप्य् अलम् इत्य् आह अ-कार-प्रश्लेषेण । अनन्तस्य परम-माधुरीभिर् अपारस्य तस्य कथास्व् अपि अरसो रुचि-मात्रस्याभावो यस्य, तस्येति । तेषां द्वितीय-पक्षेऽपि “अरस” इत्य् एव पाठो युज्यते । अन्यथा पूर्वत्र चतुर्मुख-जन्मभिर् वेति मात्रम् अवक्ष्यतेति ॥५८॥


जीव-गोस्वामी (प्रीति-सन्दर्भः१०२) : परं केवलम् एतास् तनु-भृतः सफल-जन्मानः । अतोऽखिलात्मनि परमात्मत्वेन सर्वेषाम् अपि दुर्लभ-स्फूर्ति-मात्रे स्व-सन्निधौ तु गोविन्दे साक्षात् श्री-गोकुलेन्द्रतया विराजमाने एवम् ईदृश-भाव-विशेष-माधुर्येण रूढ-भावाः, उद्भूत-महा-भावा जाताः । यद् एव महाभाव-पर्यान्त3-गति-समर्थं भाव-विशेष-माधुर्यं यदि यदृच्छया वर्णन-द्वारा कर्ण-गोचरं स्यात्, तदा स्व-स्वभावं परित्यज्य, यद् अयं भावं प्रेम्णः पराकाष्ठेयम् इत्य् अनुभाव-महिम-द्वारा वितर्क्य, भव-भियो मुमुक्षवो मुनयो प्राप्नुमः । एतासाम् इवास्माकं तन्-माधुर्य-विशेषास्वाद-योग्यत्वाभावाद् इति भावः । तत्र तद्-अवाञ्छकं निन्दति—अनन्तस्य अनन्त-लीलस्य श्री-कृष्णस्य कथासु कथा-मात्रेषु, किम् उत ईदृशीषु कथासु अरसो रसाभावो यस्य, तस्यासाङ्ख्यैर् विरिञ्च-जन्मभिर् अपि किम्, न किञ्चिद् अपीत्य् अर्थः ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एता इत्य्-आदिकम् ॥५८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स चोद्धवः वन्दे नन्द-व्रज-स्त्रीणां [भा।पु। १०.४७.६३] इत्य्-आदि वन्दनं करिष्यन् सर्वोत्कृष्टत्वम् अन्वय-व्यतिरेकाभ्यां दर्शयन्न् आह—एताः परम् इति द्वाभ्याम् । गोप-वध्वस् तनु-भृतः तनु-भृन्-मात्रस्य परं पारम् एताः प्राप्ताः । तत्र हेतुः—अखिलात्मनि गोविन्दे अनिर्वाच्यं यथा स्यात् तथा रूढो बद्ध-मूलो भावो यासाम् । तेनामूस् तनु-भृत्-परा एव तनु-भृतः एवं गोविन्दे भावो नास्त्य् एवेति भावः । एतास् तु स्वभाव-सिद्धाः ।

नन्व् एतादृशस्य भावस्य कथम् एवं महिमा, येन कृतेन तनु-भृत्-परत्वं सम्भाव्यते ? तत्राह—वाञ्छन्ति इत्य्-आदि । यद् यं भावं भव-भियो मुमुक्षवो मुनयो जीवन्-मुक्ताः, वयं च भक्ताः, वाञ्छन्ति, न लभन्ते ।

ननु, ब्रह्म-कैवल्यम् एव परम-पुरुषार्थः, तद्-अनुकूलत्वात् । कथम् अस्य गोपी-कृत-भावस्य दुर्लभत्वं यो मुमुक्षु-प्रभृतिभिर् अपि वाञ्छ्यते ? इत्य् आह—कथा यासाम् इति वा तासां रसोऽनुरागस् तस्य जन्मभिर् उत्पत्तिभिः, स-वासनैः सह कथोपकथनात् प्ररोहैः किम्? ब्रह्म ब्रह्म-कैवल्यं किम् ? इत्य् अर्थः । यद् वा, अनन्त-कथया श्री-कृष्ण-कथया गोप-वधू-विलास-कथया यो रस आस्वादः, तस्य जन्मभिर् उत्पत्तिभिर् इति ॥५८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां सर्वोत्कृष्टं माहात्म्यम् आह—एता इति पञ्चभिः । एताः परं केवलं तनु-भृतः सफल-जन्मानः । रूढ-भावा महा-भाववत्यः । यद् इति यं निरूढ-भावं भव-भियो मुमुक्षवः मुनयो मुक्ता वयं च श्री-कृष्ण-सङ्गिनोऽपि भक्ता वाञ्छन्ति, न तु प्राप्नुवन्ति । अतोऽनन्त-कथासु रसो रागो यस्य, तस्य ब्रह्म-जन्मभिर् विप्र-सम्बन्धिभिः शौक्र-सावित्र-याज्ञिकैस् त्रिभिर् जन्मभिः, चतुर्मुख-जन्मभिर् वा किं कोऽतिशयः ? न कोऽपि । यतोऽनन्त-कथासु राग एव सर्वोत्कर्ष-प्रतिपादको नान्य इति भावः । यद् वा, अनन्त-कथासु अरसो यस्य तस्य विप्र-जन्मभिर् वा किं ? यतस् तत्-कथासु रागाभाव एव तत्-तत्-सर्व-वैफल्य-प्रतिपादक इति भावः ॥५८॥


॥ १०.४७.५९ ॥

क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः

कृष्णे क्व चैष परमात्मनि रूढ-भावः ।

नन्व् ईश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्

छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, ईश्वर-प्रसादो महत्त्वे कारणम्, तस्य च न जातिर् आचारो ज्ञानं वा कारणं, किन्तु केवलं भजनम् एवेत्य् आह—क्वेमा इति । साक्षाद् भजतः पुंसः । ननु अहो उपयुक्तः सेवितः अगद-राजोऽमृतं यथेति ॥५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । इमा गोप्यः । द्वौ क्वाव् अन्वयानु[पपत्ति वक्तः]{।मर्क्} । कथं ? तत्राह—वन-चरीर् इति । तद्-आप्तये वन-गमनम् अप्य् उचितम् एव ? तत्राह—व्यभिचार- इति । अनियत-भर्तृभिर् अप्य् अतृप्ताः । तर्हि कृष्णोऽपि कश्चिद् गोपः स्यात् ? तत्राह—परमात्मनि इति । रूढ-भावः पर-प्रेमा । अनुभजतः स्व-योग्यतानुरोधेन भक्तिं कुर्वतः । अविदुषः शास्त्रानभिज्ञस्य पुंसः । साक्षाच् छ्रेयः । तद् ईप्सितम् । नन्व् इत्य् अनेन,

भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधोऽर्जुन । > ज्ञातुं द्रष्टुं च तत्त्वेन [गीता ११.५४] इत्य् ऐतिह्यं प्रमाणयति ।

प्रश्नावधारणैतिह्य-समीहानुमते ननु इति यादवः ॥५९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : व्यतिरेकेण तनु-भृत्-परत्वम् आह—क्वेमा इति । यद्य् एतास् तनुभृतोऽपरा न स्युः, तदा इमा एतद्-भिन्नाः, एताः सामान्याः स्त्रियः, क्व कृष्णे च एषोऽनिर्वाच्यो रूढश् चासौ भावश् चेति, तथा स क्व अत्यन्तासम्भावनायां क्व-द्वयम्, एवं-विधो भावः किं सामान्य-स्त्रीणां भवति ? नैवेत्य् अर्थः ।

चेद् व्यभिचारेण दुष्टाः श्री-कृष्णे तस्मिन् इह पति-भाव एव व्यभिचारः । अथवा, इमा वनचरीर् वृन्दावन-चर्यो गोप्यः क्व, व्यभिचार-दुष्टाः स्त्रियो वा क्व, कृष्णे रूढ-भावश् च क्वेति च-कारेण पुनः क्व-शब्द आकृष्यते । तर्हि एवं-विधयैव वृत्त्या भजनम् एव भजनम्, एतद् एव कर्तव्यम् इत्य् आयातम् ।

एतद् अविदुषो भजत एतद् अविज्ञाय प्रकारान्तरेण भजतः किं श्रेयो न भवतीत्य् आशङ्क्याह—नन्व् ईश्वर इत्य्-आदि । अविदुष एतद्-गोपी-भजन-रहस्यम् अविदुषोऽपि भजतो जनस्य श्रेयस् तनोति । क इव ? अगद-राज इव, अगद-राजो रसायन-विशेषः, अमृत-रसो वा, सेवित एव विशेष-ज्ञानाभावेनापि सेवित एवोपकरोति । एतद्-भावं विनापि भजनान्तरेणापि श्रेयो भवति, न तत्र सन्देहः, किन्त्व् एतादृशं न परमोत्कृष्टम् इति भावः ॥५९॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृहद्-भागवतामृत २.७.१४८] एवम् एतादृशीनाम् आसां सङ्ग-प्राप्तौ मम कापि योग्यता नास्ति, केवलं महाप्रभोः श्री-कृष्णस्य परम-करुणयैवाघटत इत्य् आह—क्वेमाः [भा।पु। १०.४७.५९] इति । अस्य विष्णोर् वने वृन्दावने तत्-तत्-क्रीडामये सदा प्रेम-भरेण चरन्तीति अवन-चर्यः । चरीर् इति छान्दसम् । एताः श्री-कृष्णैक-प्रियाः स्त्रियः क्व ? कृष्णे कृष्ण-भक्तौ वा व्यभिचारो विशेषेणातिक्रमो\ऽपराध-लङ्घनं वा । किं वा, निःशेष-तद्-आदेशाप्रतिपालनं, तद्-भक्ति-निष्ठत्व-राहित्यं वा, तेन दुष्टा जना मादृशाश् च क्व पूर्व-श्लोकस्थस्य वयम् इति पदस्यैव अत्राप्य् अनुवृत्त्यान्वयो वा व्यभिचार-दुष्टा वयं च क्व ? इति ।

यद् वा, एताः स्त्रियः, तत्र च वनचर्यः विविक्ततर-श्री-वृन्दावने वसन्त्यो विरह-वैकल्येन इतस् ततः परम-दुर्गमेष्व् अपि भ्रमण-शीला इत्य् अर्थः । तत्रापि इमा ईदृश्यः परम-प्रेम-सम्पद्-विवशाः साक्षाद् दृश्यमानाः श्री-नन्दव्रज-परम-महा-लक्ष्मी-रूपाः क्व व्यभिचारो व्यतिक्रमः ? श्री-गोपिकाभिः सह वैपरीत्यं तच् च—पुंस्त्वं परम-संकीर्ण-नगर-मध्ये नियत-निकेत-वासित्वं सुखित्वादिना वृन्दावन-भ्रमणाशक्तिः श्री-कृष्ण-तत्त्व-ज्ञान-गौरवादिना परम-प्रेम-सम्पत्त्य्-अभाव इत्य्-आदिभिर् व्यभिचारैर् गोपी-सद्गुण-प्रतियोगितया दोष-रूपैर् दुष्टा वयं च क्व—इत्थं कथञ्चनास्माकम् एताभिः सङ्गो न घटत एवेति भावः ।

वयम् इति गोपी-सङ्ग-लब्ध्यात्मनो बहु-मानात् श्री-नारदाक्रूरापेक्षया वा बहु-वचनम् । इमा इत्य् अनेन सूचितम् आसां सर्वतः श्रेष्ठं माहात्म्यं परम-विस्मयेनाभिव्यञ्जयति । परमात्मनि कृष्णे एष ईदृशः रुढ-भावः स्वयं प्रादुर्भूतः प्रेम-विशेषः क्व च ? -शब्द-बलात् क्वेत्य् अस्यात्रापि सम्बन्धान् न कुत्रापीदृशो रूढ-भावो वर्तते इत्य् अर्थः । यद् वा, आर्षत्वात् समासः सोढव्यः । एष भावो रूढः सञ्जातः किम् ? इति काक्वा व्याख्येयम् । काकुश् चात्रात्यपूर्वत्वे । अथवा, कृष्णे एष भावः किं सम्भवतीत्य् अर्थाद् अध्याहार्यं स्वत एव भवति ।

परमात्मनीति चाखिलात्मनीतिवद् व्याख्येयम् । यद् वा, परमश् चासौ आत्मनि चित्ते नितरां रूढ-भावश् चासाव् इति पदम् एकम् ।

अहो आसां माहत्म्यम् अजानतो मूढस्यापि मम केवलं श्री-भगवद्-भक्ति-बलेन तत्-कारुण्य-महिम्नैव वा सन्दर्शनं जातम् इत्य् आह—नन्व् इति वितर्के निश्चये वा । ईश्वरो निज-सेवोचित-फल-प्रदान-समर्थः परम-स्वतन्त्रो वा महाप्रभुः । स्वस्य स्वीयानां च महिमानम् अविदुषो\ऽजानतो\ऽपि जनस्य केवलम् अन्य-दृष्ट्या दृष्टस्य कस्यचिद् भक्तस्य अनु पश्चाद् भजतः सेवमानस्य । यद् वा, अनु ईषत् आश्रय-मात्रं कुर्वतो\ऽपि साक्षाद् अव्यवधानेन श्रेयः परम-हितं करोति, उपयुक्तः सेवितः अगदराजो महौषधं यथा ।

अथवा ननु इति पद-द्वयम् ततश् चायम् अर्थः—नु निश्चितम् ईश्वरो\ऽस्मन्-महाप्रभुर् असौ कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थः परम-महा-शक्तिमान् श्री-कृष्णः विद्वन्-मानिनो\ऽपि न अनु निरन्तरं भजतः कदाचिद् एव भजतो\ऽपि । किं वा, नु अहो न भजतः सेवाम् अकुर्वतो\ऽपि केनचित् सम्बन्ध-मात्रेणैव जनस्य, श्रेयः महा-फलं, तच् च साक्षाद् एव, न च काल-विलम्बेनानुमेयम् । परोक्षं वा विस्तारयति—यथा अगदराजो\ऽमृतम् उपयुक्तः भक्षितः । यद् वा, उप सामीप्येन गन्धादिना योगं प्राप्तः, तद्वत् ॥५९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो ममायोग्यस्याभिः सङ्गः केवलं श्री-भगवत्-कृपा-विशेषेणैव संसिद्ध इत्य् आशयेनाह—क्वेति । इमाः प्रोक्त-माहात्म्याः क्व वनचरीर् वनचर्यः । यद् वा, अ-कार-प्रश्लेषेण—अस्य विष्णोर् वने वृन्दावने चरन्ति, सदा तत्-प्रेम्णा परिभ्रमन्तीति तथा-भूताः । अत्र यस्य आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् [भा।पु। १०.४७.६१] इत्य्-आदि-प्रार्थना तस्योद्धवस्य व्यभिचार-दुष्टाः इत्य् अतीवानुचितो वाक्-प्रयोगस् तासु परमाराध्यासु कदापि न सम्भवत्य् एवेति ।

ततश् चायम् अर्थः—क्व च मादृशा इत्य् अर्थात् । कथम्-भूता मादृशाः ? व्यभिचार-दुष्टाः व्यभिचारः सत्-[कर्मण्]{।मर्क्}य् अन्यथात्वं पराङ्मुखतेति यावत्, तेन दुष्टाः । यद् वा, पूर्व-पद्य-स्थस्य वयम् इत्य् अस्याकृष्ट्या व्यभिचार-दुष्टा वयं च क्वेति बहुत्वं स्व-सदृशानाम् अन्येषां गृहणार्थम् ।

परम-विस्मितः सन् स-रोमाञ्चं साभिनयम् आह—कृष्णे मादृशाम् ईश्वरे परमेश्वरे वा, एष ईदृशो रूढ-भावो महा-भावः परां कोटिम् आरूढ-भाव-विशेषः स्यात् सम्भवेत् । यद् वा, स्त्रियः स्त्रीत्वेन सलज्जत्वाद् अन्य-समक्षम् आगन्तुम् अप्य् अयोग्या मादृशां तु पुमांसस् तत्रापि वनचर्यः, मादृशाष् तु पुर-वासिनस् तत्रापीमा ईदृश्यः परमाश्चर्य-महाभाव-विलक्षण-शीलाः, मादृशास् तु कृष्णे व्यभिचार-दुष्टाः, व्यभिचारो महापराधस् तेन दुष्टा इति वैसादृश्येनासां सङ्गस्य सर्वथातिदुर्लभतोक्ता । इमा इति सूचितं माहात्म्य-भरम् एव व्यञ्जयति । यः परमात्मनि रूढभावः परमाश् चासाव् आत्मनि रूढ-भावश् चेत्य् एकं पदम् । आत्मनि चित्ते नितरां रूढो निरूढोऽतिप्रसिद्धो वा भावः, स एष एव ।

ननु विस्मये वितर्के निश्चये वा । अविदुषः भक्ति-माहात्म्यादिकम् अजानतोऽप्य् अनुगतानुगतिकत्वेन । किं वा, कस्यचिद् अनुगत्वेनानुकार--रूपेण वा भजतोऽपि साक्षात् प्रत्यक्षम् एवाव्यवधानेन श्रेयः परम-हितं विस्तरेण करोति, यत ईश्वरः परम-स्वतन्त्रः ।

किं वा, मत्-प्रभुः परम-दयालुः श्री-कृष्णः । अज्ञाने सेवाभासेनापि श्रेयो-विस्तारणे दृष्टान्तः—अगदेति । तत्र नु इति लेख्ये ननु इति लेखक-भ्रमात् । तथा नन्व् इति च न व्याख्यातम् स्पष्टार्थत्वात् । नु इति तु अनुभजतः इति निरासार्थम् इति । उपयुक्तः उप सामीप्येन आघ्राण-मात्रेण स्पर्श-मात्रेण वा अज्ञानेनापि गृहीतः, श्री-कृष्णस्य तथासां च माहात्म्यादिकम् अजानतोऽपि ममाभिः सङ्गतिः केवलं यथा कथञ्चित् तस्य सम्बन्ध-प्रभावाद् एवेत्य् अर्थः॥५९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं पूर्व-पद्येन बहिर्मुखानां विगृह्य तद् एवात्र क्वेमा इत्य्-आदि पद्ये प्रथम-चरणेन साभ्यसूयम् अनुयुज्यते । यत्र च निगृह्यानुयोगे चेति वाक्यस्य ढेः प्लुतो विभाषितोऽस्ति । यथाह काशिकायां—स्व-मतात् प्रस्तावनं निग्रहः अनुयोगस् तस्य मतस्य आविष्करणम् । अत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य ढेः प्लुतो विभाषा। अनित्यः शब्द इति केनचित् प्रतिज्ञातम् । तद्-उपपत्तिभिर् निगृह्य साभ्यनुसूयम् अनुयुङ्क्ते । अनित्यः शब्द इत्य् आत्थ इत्य्-आदि । इह च तद्वद् एव पराक्षेपानुयोग-गर्हितम् ।

सिद्धान्तम् आह—क्वेति । कृष्णे क्व चेत्य् आद्य्-अर्थस्य सद्-भावे सति । क्वेमाः स्त्रिय इत्य् आद्य्-अर्थस्य सम्भावना नैव घटते इत्य् अर्थः । अत्र च तद् एव पूर्व-पद्य-वत् द्वितीयेन चरणेन दार्ढ्यार्थं स्व-सिद्धान्तम् अनूद्य परार्धेनाज्ञानेनाप्य् उपयुक्तस्यामृतादेएर् दिव्य-तनुता कारित्वम् ईश्वर-शक्तेः कैमुत्यातिशयं साधयतीति व्याख्येयम् । प्रथम-चरेण स्थितस्य निकृष्ट-भूमिकया च कस्य क्वेत्य् अस्य प्रतियोगितया द्वितीय-चरणे क्व चेति निर्दिष्टम्, यदि कृष्ण-विषयक-रूढ-भावात्मिका परमोत्कृष्ट-भूमिका ताभिर् लब्धा । तदा तासां निकृष्ट-भूमिका-स्थितिः कुत्र स्थिता । एताः परं तनु-भृत इति तदीय-तनु-व्यवसाय-भावानां श्लाघितत्वात् । यन्-नाम-धेय-श्रवणानुकीर्तनाद् [भा।पु। ३.३३.६] इत्य् आदेः,विप्राद् द्विषड्-गुण-युताद् [भा।पु। ७.९.१०] इत्य्-आदेः । भक्तिः पुणाति मन्-निष्ठा श्वपाकान् अपि सम्भवाद् इत्य्-आदेश् चात्र कैमुत्य-लाभात् । ध्रुवस्यापि पार्थिव-देहस्य सद्यो हिरण्मयत्व-श्रवणात् ।

किं च, स्वतन्त्र-श्रीमद्-उद्धवेन तासु तादृश-निकृष्ट-वचनं न प्रयोक्तव्यम् ।उपक्रमोपसंहाराद्य्-आदिषु तस्य परमादरात् वस्तुतस् तु व्यभिचारस् तासां नास्त्य् एव गोपीनां तत्-पतीनां च इति श्री-शुक-सिद्धाण्तात् । अत्र च श्रीमद्-उद्धवेनैव पूर्वम् अखिलात्मनि तत्र च परमात्मनीति तस्य सूचनात् । न च तासां स्वाभाविकोऽनाचार आशङ्क्यः । आर्य-पथं च हित्वेति वक्षमाणानुषारेण स्वतः सद्-आचारता प्राप्तेः । न तु स्त्रीवं दूषणीयं लक्ष्म्य्-आदेर् अपि स्त्रीत्वात् । न चेमा इति निन्दा-वचनम् । आसाम् अहो इत्य् आदाव् आसाम् इत्य् अनेन इदन्त-निर्देशेन स्तुतेर् एव व्यञ्जयिष्यमाणत्वात् ।

न च वनचरीत्वं निन्द्यम् । वनस्यास्य तद् भूरि-भाग्यम् [भा।पु। १०.१४.३४] इत्य्-आदिना ब्रह्मणापि प्रार्थ्यमानत्वात् । आसाम् अहो इत्य्-आदिना स्वयम् अपि । उत्तरार्धे तु अगद-राजस् तावद् देहम् एव दिव्यं करोतीत्य् एकेनैवांशेन दृष्टान्तः । तादृग्-अगद-राजादि-स्वभाव-मूल-कारणम् ईश्वर-स्वभावस् तु सर्वम् अपि श्रेयः स्वम् अद्विदुषोऽपि जगतः कुर्याद् एव किम् उत तासां तदीय-गुण-ग्राम-विद्वद्-वराणाम् इति । तस्मात् परकीयाभ्यसूयाख्य-सञ्चार्य्-अनुवादस्य तद्-उत्तरस्थया कृष्णे क्व च इत्य्-आदि-वाक्य-मय्या सञ्चारि-लक्षणया मत्या आराध्यत्वेनोक्तत्वात् गुणत्वम् एव । यद् उक्तं काव्य-प्रकाशे—सञ्चार्य्-आदेर् विरुद्धस्य वाक्यस्योक्तिर् गुणावहा [का।प्र। ७.१५] इति ।

अत्र च यथा—तिष्ठेत् कोप-वशात् प्रभाव-पिहिता दीर्घं न सा कुप्यतीत्य् अत्र पिहितेत्य् अनन्तरं नैव घटत इति निर्देशं विनाप्य् उत्तरा प्रतिपत्तिः पूर्वां बाधते इति न्यायेनान्वयो लभ्यते तद्वद् अप्य् अत्र तं विनापीत्य् अत्र तं विनापीति न किञ्चिद् अप्य् असमञ्जसः । अथवा, ननु भवती-प्रभृतयो यूयम् अप्य् उत्तरोत्तरं महान्त एव कथं तद् वाञ्छथ तत्राह—क्वेमा इति । स्त्रिय इति जात्यैव सुकोमलत्वं दर्शितम् । तत्र चेद् या इति स-चमत्कार-निर्देशेन विशेषतः । अत्रेमाः स्त्रिय इति सर्वोत्तमत्वं दर्शितम् । तथा वनं च प्रस्तुतत्वात् श्री-वृन्दावनम् । तच् च श्री-कृष्णैकान्त-विरहासदं तच्-चारिण्य इति सामान्यतस् तावन् महिमा सूचितः । ता इमाः कृष्ण-विषये क्व तम् आश्रित्य कस्यां ऊर्ध्व-भूमिकायां वर्तते । तथा ईदृश-गाढ-तद्-आसक्त्या भाव एव व्यभिचारः ।

अत्र परम-विस्मित-मनसो रोमाञ्चं साभिनयं हेतुम् आह । परमात्मनि सर्वेषाम् एव निरुपाधि-परम-प्रेम-योग्येऽपि तादृशतयानुभवितुं परम-दुर्लभे तस्मिन् । एष ईदृशतया आशु-दृश्यमानो रूढ-भावः परां कोटिम् आरूढो महा-भावः न त्व् अस्मासु तल्-लेशोऽपीत्य् अर्थत्ः । न चासाम् एव तस्मिन्न् एतादृश-सौहृद्यम्, न तु तस्यासु इति वाच्यम् । तस्य परमेश्वरस्य परम-सुहृदयतया असाधारणेष्व् अपि दृश्यते किम् उतैतादृशीष्व् इत्य् आह—नन्व् ईश्वर इति । ननु निश्चये । अनु सादृश्ये । भजनानुकरणम् अपि कुर्वतः अविदुषस् तन्-माहात्म्यम् अजानतोऽपि दैन्यान् मादृशस्यापीत्य् अर्थः । साक्षाद् अव्यवधानेन श्रेयः । एतासां दर्शनादि-प्रसाद-मयं परम-हितं तनोति किम् उतासां तन्-माधुरी-परमोत्कर्षानुभवित्वेन तन्-माहात्म्य-परम-काष्ठाभिनिविष्टानाम् इति भावः ॥५९॥


जीव-गोस्वामी (प्रीति-सन्दर्भः१०३) : ननु ते मुक्ता मुमुक्षवश् च तत्-तद्-भावेन शास्त्र-प्रशस्ता एव । भक्तास् त्व् अतितमाम् । तर्हि तद्-विधानां कथम् अन्यत्र वाञ्छा ? तत्राह – क्वेमा इति । तत्र तासु श्रीमद्-उद्धवस्योपक्रमोपसंहारादिषु महा-भक्तेर् एव स्पष्टत्वात्, तासां श्री-कृष्ण-भजने व्यभिचारित्वस्य सुतरां, तद्-दोषस्य च रासान्ते –

गोपीनां तत्-पतीनां च सर्वेषाम् अपि देहिनाम् ।

योऽन्तश् चरति सोऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [भा।पु। १०.३३.३५]

इत्य्-आदिना निराकृतत्वात् ।

स्वयम् एवाधुनापि परमात्मनीति तस्यैव सूच्यमानत्वात् । दुर्धियां मते वा तासां व्यभिचार-शीलत्वस्य तु आर्य-पथं हित्वा [भा।पु। १०.४७.६१] इति प्राप्यस्यैव परित्यागोपपत्तेः स्वयम् एव निराक्रियमाणत्वात् । अन्यथार्थस्याप्रस्ताव्यत्वम् इति वक्ष्यमाण एवार्थः समञ्जसः । यथा – इमा वनचर्यः वृन्दावन-विहारिण्यः स्त्रियः कृष्णे तद्-रूपे आश्रये क्व कां वा भूमिकाम् अधिकृत्य वर्तन्ते ? तया व्यभिचार-दुष्टा एतादृश-भावोत्कर्षाभावेन यो व्यभिचारो गाढ-तद्-आसक्त्य्-अभावस् तेन दुष्टाः । अन्ये भव-भी-प्रभृतयो वयं वा तस्मिन् क्व ? कां भूमिकाम् अधिकृत्य वर्तामहे ? ततो महद् एवान्तरम् इति भावः । कथं ? एष श्री-गोप-वधूष्व् एतासु दृश्यमानः परमात्मनि सर्वेषाम् एव भजनीयत्वेन स्पृहास्पदे परमेश्वरे रूढ-भावः उद्भूत-महा-भावः समुज्जृम्भते, न त्व् अस्मास्व् इति ।

तर्हि ताभिर् अनुभूयमानस्य तादृश-भाव-जनकस्य श्री-कृष्ण-गुण-विशेषस्यानभिज्ञा यूयं कथं तद्-वाञ्छयापि तत् प्राप्स्यथ ? तत्राह—नन्व् इति । अविदुषोऽपि । तत्र ममैव अकस्मात् स्वयम् अत्र प्रस्थापितस्य दृष्टान्तत्वम् इति भावः। यथोक्तं स्वयम् एव – विरहेण महाभागा महान् मेऽनुग्रहः कृतः [भा।पु। १०.४७.२७] इति ।

अथवा— पूर्वम् एवार्थं तद्-रस-विमुखीनां महा-पतिव्रतानाम् अपि निन्दया द्रढत्यति क्वेमा इति । इमाः श्री-वृन्दावन-विहारिण्यः श्री-कृष्ण-प्रेयस्यः स्त्रियः क्व। अ-कार-प्रश्लेषेण याश् च वन-चर्यस् तद्-वन-विहारिणीभ्यस् ताभ्यो भिन्नाः । अथ च स्त्रियो व्रतैस् त्वां [भा।पु। ५.१८.१९] इत्य्-आदि केतुमाल-वर्ष-वर्णन-स्थित-लक्ष्मी-वचन-रीत्या परमात्मनि स्वतः सर्व-पतौ श्री-कृष्णे वैमुख्येन व्यभिचार-दुष्टाः स्त्रियः क्व । महद् एवान्तरम् इति भावः । यतश् चैतास्व् एष सर्व-पुरुषार्थ-शिरोमणि-रूपो रूढ-भावो दृश्यते न तु तास्व् इव तल्-लेशस्याप्य् अभाव इति । एवं परम-प्रेमवतीष्व् आसौ तस्य सौहृदम् अपि परम-काष्ठापन्नं भवेत् । यतो भक्त-मात्राणां स्वभावत एव सुहृद् असाव् इत्य् आह नन्व् इति ॥५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्वयेनोक्त्वा व्यतिरेकेणाह—क्वेमा इत्य्-आदि । एताश् चेत् तनुभृत्-परा न स्युः, तदासां गोविन्दे कथम् एवं भावः ? इति व्यतिरेकः । तथा हि—इमा अवन-चरीः, अवन-चर्यः, श्री-वृन्दावन-चरी-भिन्नाः स्त्रियः क्व, गोविन्दे एवं रूढ-भावः क्व? अत्यन्तासम्भावनायां क्व-द्वयम् । अवन-चर्यः कीदृश्यः ? व्यभिचार-दुष्टाः । श्री-कृष्णाद् अन्यत्र रतिमत्त्वं हि व्यभिचारः, तेन दुष्टाः । तथा चोक्तं लक्ष्म्या—स वै पतिः स्यात् अकुतो-भयः स्वयं [भा।पु। ५.१८.२०] इत्य्-आदि ।

अथवा, इमा वनचरीर् वनचर्यो गोप्यः क्व ? व्यभिचार-दुष्टाः स्त्रियो वा क्व ? च-काराद् गोविन्दे परमात्मनि एष भावः क्व ? इति क्वानुवृत्तिः । गोविन्दाधिकरणक एव भावः किं गोपीर् विना सामान्य-स्त्रीणां भवति ? नैवेत्य् अर्थः ।

अथवा, वनचरीर् वनचर्यो गोप्यः क्व ? न क्वापि, अत्रैवेत्य् अर्थः । कृष्णे च रूढ-भावः क्व? न क्वापि अस्त्य् एव । कीदृश्यः ? अदुष्टाः—अप्राकृतत्वात् । भावः कीदृशः ? व्यभिचारः, विशेषेणाभिमुख्येन चारयति गमयति कृष्णम् इत्य् अर्थात् व्यभि-पूर्वात् णिज्-अन्तस्य चरतेः क्विपि रूपम् । अन्यथा ता नमस्यन् एताः परं तनु-भृतः [भा।पु। १०.४७.५८], नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य्-आदि पौर्वापर्य-विरोधः । अन्यच् च इमाः क्व, गोविन्दे भावः क्व ? इत्य् आसां गोविन्दे भावस्य सम्भावनैव प्रसज्जेत्, तदा प्रकरण-विरोधम्, गोविन्द एवम् अखिलात्मनि रूढ-भावाः [भा।पु। १०.४७.५८] इति पूर्वोक्तेः ।

अतो गोपीनां भजनम् एव भजनं, नान्यद् इत्य् आयाते भजनान्तरस्यावरता भवतीत्य् आशङ्क्याह—नन्व् ईश्वरोऽन्व् इत्य्-आदि । अविदुषोऽपि अनुभजतो यस्यैतद्-गोपी-भजन-रहस्यम् अविजानतोऽनुक्षणं भजतो जनस्य ईश्वरः श्री-कृष्णः, नु वितर्के, न श्रेयस् तनोति, अपि तु श्रेयस् तनोत्य् एव । तत्र दृष्टान्तः—उपयुक्तः सेवितोऽगदराजो रसायन-विशेषोऽमृतं वा यथा विशेष-ज्ञानाभावेनापि सेवित एव रोगोपशमाय भवति, तथा भजन-मात्रम् एव भव-रोगापहम्, ईदृग् भजनं तु परमानन्द-प्रदम् इति वाक्यार्थः ॥५९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माज् जनानां महोत्कर्षे भक्तिर् एव कारणं, न तु तपो ज्ञानादिकम् । सा च भक्तिः स्वयं सर्वोत्कृष्टापि सर्व-लोक-प्रतिष्ठितत्वेन सर्वोत्कृष्टेऽपि स्थलेन तिष्ठति, सर्व-लोक-विगीतत्वेनातिनिकृष्टेऽपि स्थले तिष्ठति । स्थित्वा च तद् एव स्वास्पदं सर्वोत्कृष्टं सर्व-पूज्यं सर्व-दुर्लभ-पदवीकं च करोतीति स-विस्मयं स-रोमाञ्चम् आह—क्वेति द्वाभ्याम् ।

इमाः स्त्रिय इति । स्त्रीत्वेन गोप-सन्ततित्वेन च जात्या विगीताः । वनचरीर् वनचर्य इति वन-भ्रमण-शीलत्वात् स्वभावेनापि व्यभिचार-दुष्टा इत्य् आचारेणापि विगीता इमाः क्व ? कृष्णे परमात्मनि वैकुण्ठ-नाथादिभ्य आत्मभ्योऽपि परमे सर्वांशिनि पूर्ण-स्वरूपे रूढ-भावो भक्तेर् अपि परम-महान् विलासो महा-भावः क्व ? अत्यन्तासम्भवे क्व-द्वय-प्रयोगः।

अहो अत्याश्चर्यम् इति विमृश्य क्षणं विभाव्य ज्ञात-तत्त्वो नैतद् अत्याश्चर्यम् इत्य् आह—नन्व् इति निश्चये । नु भो इति स्व-मन एव सम्बोध्योक्तिः । ईश्वरो भगवान् भजतो जनस्य नापि भजन-सिद्धस्य अविदुषोऽपि तत्-पदार्थ-त्वम्-पदार्थ-ज्ञान-रहितस्यापि साक्षात्-श्रेयः संसार-मुक्ति-पूर्वक-स्वप्रेम-रसास्वाद-रूपं मङ्गलं सर्व-मुक्तैर् अपि गीतः सन् तत्-स्वरूपम् अजानतोऽपि जनस्य श्रेयः सर्व-व्याधि-प्रशमन-पूर्वकम् अपूर्वास्वाद-विशेषं तनोति । किं पुनर् आसां भक्ति-सिद्ध-नित्य-सिद्ध-शिरोमणीनां तत्-स्वरूप-रूप-गुणैश्वर्य-माधुर्य-महा-विदुषीणां तत्-परिचर्योपकरणी-कृत-स्वीय-बुद्धीन्द्रिय-सर्व-गात्र-यौवनालङ्कार-परिच्छदानां नारदादि-सर्व-भक्त-दुर्लभं रूढ-भावं न तनुयाद् इति भावः । रूढ-भावस्य लक्षणम् उज्ज्वल-नीलमणौ दृश्यम् ।

व्यभिचार-दुष्टा इति स्त्रीणां त्रैविध्याद् व्यभिचारस् त्रिविधः—पतिम्, उपपतिं च रमयन्त्या एकः । स हि लोक-शास्त्रयोर् विगीतः । पतिं त्यक्त्वा उपपतिम् एकम् एव रमयन्त्याः अन्यः । स हि लोक-शास्त्रयोर् विगीतत्वेऽपि एक-पुरुष-मात्र-प्रीतमत्त्वेन रस-शास्त्र-सङ्गीतः । स्व-पतिं त्यक्त्वा उपपति-बुद्ध्या भगवन्तम् एव रमयन्त्या अपरः । स ह्य् अनभिज्ञ-लोक-विगीतत्वेऽप्य् अभिज्ञ-लोक-सङ्गीतत्वालोक-शास्त्रयोः परमार्हणीयत्वाच् च । यद्यपि न व्यभिचारः, तथापि व्यभिचार-साधर्म्याद् एव व्यभिचार उच्यते ॥५९॥


॥ १०.४७.६० ॥

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः

स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ।

रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-

लब्धाशिषां य उदगाद् व्रज-सुन्दरीणाम्4

श्रीधर-स्वामी- अत्यन्तापूर्वश् चायं गोपीषु भगवतः प्रसाद इत्य् आह—नायम् इति । अङ्गे वक्षसि । अहो । नितान्त-रतेर् एकान्त-रतेः श्रियोऽपि नायं प्रसादोऽनुग्रहोऽस्ति । नलिनस्य इव गन्धो रुक् कान्तिश् च यासां, तासां स्वर्गाङ्गनानाम् अप्सरसाम् अपि नास्ति । अस्याः पुनर् दूरतो निरस्ताः । रासोत्सवे श्री-कृष्ण-भुज-दण्डाभ्यां गृहीत आलिङ्गितः कण्ठस् तेन लब्धा आशिषो याभिः, तासां गोपीनां उदगाद् आविर्बभूव ॥६०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्यन्तापूर्वोऽनन्य-लभ्यः । अयं तद्-अनुराग-लक्षणः । कुतोऽन्या इति—बहुलं छन्दसि इति विभक्ति-व्यत्यासः । “कुतोऽन्यासाम्” इत्य् अर्थः । अन्य-पदेन यक्षादि-स्त्री-ग्रहः । यः प्रसादः ॥६०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवम् अन्वय-व्यतिरेकाभ्यां सर्व-परत्वम् अनूद्य सर्वापवादेन द्रढयति—नायम् इत्य्-आदि । तर्हि एता नमस्या इति यत् पूर्वम् उक्तम्, तद् अकिञ्चित्-करम् ॥६०॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४९] अहो यद्यपि महा-लक्ष्मीः हरि-प्रियेति प्रसिद्धा, तथापि तस्याम् अपीदृशो भगवतः प्रसादो न वर्तते, कुतो\ऽन्येषु जनेषु ? अतो\ऽत्यपूर्वम् एवायं श्री-गोपिकास्व् एतासु प्रसाद इत्य् आह—नायम् [भा।पु। १०.४७.६०] इति ॥६१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो हरि-प्रियेति प्रसिद्धा महा-लक्ष्मीर् अप्य् एतादृश-प्रेमाश्रयो न स्याद् इत्य् आह—नेति । नञः प्राङ्-निर्देशो निषेध-दार्ढ्यार्थम् । सप्तम्य्-अर्थे षष्ठी । तथाविमलोत्कर्षिणी ज्ञानादीनां स्वर्-योषितां दिव्याङ्गनानां नलिन-गन्ध-रुचाम् इति रास-योग्यतोक्ता । तत्र रुक्-शब्देन कोमल-गौर-कान्तिर् ग्राह्या । अन्या मानुष्याद्याः । रास एव उत्सवः, तस्मिन् दण्ड-रूपकेण दृढालिङ्गनं ध्वनितम् । व्रजस्य सुन्दरीणाम् इति व्रज-स्त्रियो रमादिभ्योऽप्य् उरु-माधुर्य-मण्डिताः इति बृहद्-वामनानुसारेण रमादिभ्योऽप्य् आकृत्या प्रकृत्या च माधुर्येणासाम् एव रासार्हता समर्थिता । अन्यत् तैर् व्याख्यातम् ।

यद् वा, **उ-**शब्दः परम-विस्मयाक्रोश-विशेषे । नितान्ता गाढा चासौ रतिश् च नितान्त-रतिः प्रेमा तस्या यः प्रसादः प्रसन्नता उत्कर्ष इति यावत्, रासोत्सवे व्रज-सुन्दरीणाम् उदगात् प्रकटोऽभूत् । अयं श्रियोऽपि नास्ति । तथा हि रासे—

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।

गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥ [भा।पु। १०.३३.१५]

अस्यार्थः—श्रियः कान्तं वल्लभम् आत्मन एकान्त-वल्लभं नितान्त-प्रेष्ठम् इति सर्वतः श्रैष्ठ्यम् आसां प्रेमातिशयम् आकलय्य वादरायणिनोक्तम् ।तथा ताभिर् अपि तत्रैव गीतम्—अटति यद् भवान् अह्नि काननं [भा।पु। १०.३१.१५] इत्य्-आदि । यदा श्रिय एवेयं वार्ता, तदा स्वर्-योषितां कुतः ? स्वर्-योषितो वैकुण्ठ-देव्यो धरणी-लीलाद्यास् तासाम् अन्याः कान्ताद्या दक्षिणाद्याश् च ॥६०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु परम-व्योम-नाथ-कृष्णयोर् अभेद एव निरूप्यते । अत्र पूर्वस्य च सदा वक्षः-सङ्गिनी लक्ष्मीः सर्व-भक्त-शिरोमणिस् तस्यां भावः कथं नाभिनन्द्यते ? किं च, यथा दूर-चरे प्रेष्ठे [भा।पु। १०.४७.३५] इत्य्-आदि-रीत्या वियोग-मय-भावस्योत्कर्षः सर्वत्र लभ्यते । ततो यदि संयोगेऽप्य् अस्यां तेनाधिक्यं स्यात् तर्हि तथा वर्ण्यताम् । संयोगे तु लक्ष्म्या एव तद्-आधिक्यं गम्यते ।

किं च, लक्ष्मीर् हि स्वरूप-शक्तिस् ततस् तद्-अपेक्षया स्वरूपेणामूर् न्यूनाः स्युः । कथम् एतावत्यः स्तुतेर् विषयी-क्रियन्ते ? तत्र स-प्रौढि प्राह—नायम् इति । अङ्गे मद्-ईश्वरस्य श्री-कृष्णस्य मूर्ति-विशेषे तस्मिन् संसक्ता या श्रीस् तस्या अप्य् अयम् एतावान् प्रसादस् तद्-अङ्ग-सङ्ग-सुखोल्लासः उ निश्चितं न विद्यते । कीदृश्या अपि तस्या नलिनस्य दिव्य-लोक-गण-शिरोमणि-वैकुण्ठ-स्थितानां योषितां स्वश् चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यं [भा।पु। ३.१५.३९] इत्य् उक्त-दिशा दिव्य-सुख-भोगास्पद-लोक-गण-शिरोमणि-वैकुण्ठ-स्थितानां योषितां भू-लीला-प्रभृतीनां मध्ये नितान्त-रतेः परम-प्रेम-युक्तायाः । तद् एवं सति कुतोऽन्याः ? सर्वा एव स्त्री-जातयो दूरत एव परास्ता इत्य् अर्थः । तं प्रसादम् एव दर्शयति रासेति । व्रज-सुन्दरीणां नित्य-स्थित एव यो यावान् रासोत्सवे उदगात् प्राकट्यं प्राप ।

कीदृशीनां ? अस्येत्य् आसां समीपे यन्-मर्त्य-लीलौपयिकं [भा।पु। ३.२.१४] इत्य् आद्य्-अनुसारेण परम-व्योम-नाथाद् अप्य् उत्कृष्टस्य मया साम्प्रतं साक्षाद् इवानुभूयमानस्यापि श्री-कृष्णस्य यो भुज-दण्डौ ताभ्यां गृहीतः स्वल्पस्यापि विश्लेषस्य भयाद् इव यः कण्ठः कण्ठालिङ्गनं यत् कृतम् इत्य् अर्थः । तेन लब्धा आशिषो मनोरथा याभिस् तासाम् । तस्माल् लक्ष्मीतोऽपिसर्वथा वैलक्षण्याद्य् आसांस्व-रूपेण चास्मिन् प्रेयसी-भावेन च वैलक्षण्यं दर्शितम् ।अत एवलक्ष्मी-विजय-वाक्येऽस्मिन् व्रज-सुन्दरीणाम् इत्य् उक्त्वा सौन्दर्य्-आदीनाम् अप्य् आधिक्यं दर्शितम् ।यस्यास्तिभक्तिरित्य्-आदि-रीत्या भक्ति-तारतम्याद्य्-उक्तम् एव चेदम् । व्रज-वल्लवीनाम् इति पाठे तु व्रजस्य च तासां च प्रसिद्धिः सूचिता ॥६०॥


जीव-गोस्वामी (प्रीति-सन्दर्भः १०४) : किं बहुना—नायम् इति । अङ्गे तदीये श्री-वैकुण्ठ-नाथाख्य-श्री-विग्रह-विशेषे परम-प्रेयसी-रूपायाः श्रियो या नितान्त-रतिः प्रगाढः कान्त-भावः, तस्या अपि अयं एतावान् प्रसादः सौख्य-प्रकाशो नास्ति । यदि श्रियोऽपि नास्ति, तदा नलिनस्य तत्रत्य-दिव्य-स्वर्ण-कमलस्येव गन्धो रूक् कान्तिश् च यासां, तादृशीनाम् अपि स्वर्-योषितां वैकुण्ठ-पुराङ्गनानाम् , अन्यासां सुतराम् एव नास्ति । ततः कुतोऽन्याः ? अन्याः पुनर् दूरतोऽपि निरस्ता इत्य् अर्थः।

कासाम् इव कियान् प्रसादो नास्ति, तत्राह—रासेति । अस्य श्री-व्रजेन्द्र-नन्दन-रूपस्य । यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य्-उक्त-दिशा तस्या अपि स्पृहणीयस्य इत्य् अर्थः। ततो न केवलं विप्रलम्भ एवासाम् ईदृशो भावोत्कर्षः, परन्तु सम्भोगेऽपि लक्ष्या अपि स्पृहणीयाः । तेन मद्-विधानां का वार्ता ? इति भावः । भुज-दण्ड-गृहीत-कण्ठ-लब्धाशिषां परमावेशेन गृहीत-कण्ठतया प्राप्त-परम-मनोरथानां रासोत्सवे वः यावान् उदगात् सततं निगूढमन्तः सन्न् अपि प्राकट्यं प्रापेति । अपि यत् स्पृहा श्रीः [भा।पु। १०.१५.८] इत्य् अत्र लक्ष्मी-स्पर्धामय-वाक्ये व्रज-सुन्दरीणाम् इति सुन्दरी-पद-विन्यासः सौन्दर्यादिकम् अपि तासां तद्वद् अधिकम् इति सूचयति । तच् च युक्तं, यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इति न्यायेन तद्-उत्कर्षत उत्कर्ष-प्राप्तेः


अत्र सर्व-भाव-शिरोमणिना कान्त-भावांशेनैवोभयत्र तारतम्यं दर्शितम् । न तु न च सङ्कर्षणो न श्रीः [भा।पु। ११.१४.१५] इत्य् आदाव् इव भक्ति-जायात्वांशाभ्याम् । ततो नान्येन साधारण्यं मन्तव्यम् । श्री-कृष्ण-लक्षण-स्वयं-भगवद्-विषयतया विशेषान्तरं स्वस्त्य् एवेति ज्ञेयम् ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भजनम् उक्त-प्रकरणार्थं पुनर् द्रढयति—नायं श्रियोऽङ्ग इत्य्-आदि । नितान्त-रतेर् अपि लक्ष्म्या नायं प्रसाद उदगात्, किं पुनर् नलिन-गन्ध-रुचाम् अपि स्वर्-योषिताम् । क इत्य् अपेक्षायाम् आह—रासोत्सवेऽस्य इति । व्रज-सुन्दरीणां य उदगात् । कुतः ? लक्ष्म्याश् चेन् नोदगात् स्वर्-योषितो वराकास् तत्र क्व ? इत्य् अर्थः । कुत इत्य् आवर्तनीयम् । अन्याः कुत एतद् भजनम् इत्य् अर्थः ।

एतेन व्यभिचार-दुष्टाः स्त्रियः क्वेति प्राग् यद् उक्तम्, तस्यैवानुक्तिर् इयम् । यद्यप्य् उद्धवस्य तन् न दृष्टं न श्रुतं च, तथापि तस्य सा लीला प्रादुरासीद् इति मन्तव्यम्, भगवत्-प्रसादातिशय-भाजनत्वात् ॥६०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा सर्वावतारि-श्रेष्ठ एव कृष्णो गोचारण-वानर-बालकैः सह भोजित्व-दधि-चौर्य-पर-स्त्री-चौर्यादि-लोक-विगानं गृहीत्वैव सर्व-सङ्गीतः सर्वोत्कर्ष-सीमानं प्राप । तथैव सर्वाह्लादिनी-शक्ति-शिरोमणि-भूता अपीमाः स्त्रियो गोप-स्त्रीत्व-वनचारित्व-व्रज-लोक-विख्यात-व्यभिचारादि-विगानं गृहीत्वैव लक्ष्म्य्-आदिभ्योऽपि परम-सौभाग्योत्कर्ष-सीमानम् अवापुर् इत्य् आह—नायम् इति ।

अयं प्रसादः अहो अङ्गे नारायणस्य वक्षसि वर्तमानायाः श्रियोऽपि नितान्त-रतेः प्राप्तात्यन्त-रमणाया अपि कदापि नोदगात्कुतः पुनः स्वर्-योषिताम् उपेन्द्राद्य्-अवतार-पत्नीनां नलिनस्येव गन्धो रुक् कान्तिश् च यासाम् इति सौन्दर्य-सौरभ्यादिमत्त्वे सत्य् अपीति भावः । अन्यावतार-स्त्रियः पुनः कुत एतत्-प्रसाद-भाजः स्युर् इत्य् अर्थः । रासोत्सवे अस्य तु भुज-दण्डाभ्यां गृहीत आलिङ्ग्यते यः कण्ठः, तेन लब्धा आशिषो याभिः, तासां तेन भक्ति-मज्जनानां मध्ये सर्वोत्कर्ष-कोट्यां गोप्य एव स्थिताः । साक्षात् श्रेयसोऽपि मध्ये सर्वोत्कृष्ट-कोट्यां रास इति सूचितम् ॥६०॥


॥ १०.४७.६१ ॥

आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां

वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।

या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा

भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥

श्रीधर-स्वामी- किं च, आस्तां तावद् गोपीनां भाग्यम्, मम त्व् एतावत् प्रार्थ्यम् इत्य् आह—आसाम् इति । गोपीनां चरण-रेणु-भाजां गुल्मादीनां मध्ये किम् अपि अहं स्याम् इति आशंसा । कथं-भूतानां ? या इत्य्-आदि आर्याणां मार्गं धर्मं च हित्वा ॥६१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किञ्चित् प्रार्थयितुम् आह—किं च इति । आशंसा इच्छा । स्वजनं भर्त्र्-आदिकम् । धर्मं श्रुति-स्मृति-विहितं नियत-स्व-भर्तृ-सङ्ग-रूपं, नैका द्वौ पती विन्दते इति श्रुतेः । श्रुतिभिर् वेद-शिरोभिः । विमृग्याम् अन्वेषणीयाम् ॥६१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आसां पाद-रजः-सम्बन्धोऽपि यः कश्चिन् ममास्त्व् इत्य् आह—आसाम् इत्य्-आदि । अहो इत्य् असम्भावनायाम् । आसां चरण-रेणु-जुषां गुल्म-लतौषधीनां मध्ये किम् अपि स्याम् । या इति वर्ण-स्वरूपं वर्णयति—याः श्रुतिभिर् विमृग्यां मुकुन्द-पदवीं भेजुः, मुकुन्द-पदवीं मुकुन्दे पति-भावम् ।

ननु मनोरथस् तं श्रुतयो यथा ययुः [भा।पु। १०.३२.१३] इति पूर्वम् उक्तम् । कथम् इदानीं श्रुति-विमृग्यत्वम् उच्यते ? सत्यम्, तत्रषा युक्तिः—श्रुतयो हि नाना, ब्रह्म-पराः, कर्म-पराः, चरणारविन्द-पराश् च । तत्र चरणारविन्द-पराभिः सह पूर्वं दृष्टान्तितम्, अन्यासां तु विमृग्यैर् इति स्थितम् ॥६१॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१५०] एवं तासां सर्वोत्कृष्टताम् आलोच्य तद्-वर्णनेन तासां सङ्ग-महिम्ना च स्वयम् अपि प्रेम-विशेष-परिपूर्णः सन् निजं हृद्यं प्रार्थ्यं निश्चित्य श्री-कृष्ण-सेवा-फलत्वेन प्रार्थयते—आसाम् [भा।पु। १०.४७.६१] इति । गोपीनां चरण-रेणुं जुषन्ति प्राप्नुवन्तीति तथा तेषां गुल्मादीनां मध्ये अहं किम् अपि तृणादिकम् अपि स्यां भवेयम् इत्य् आशंसा । औत्सुक्येन पुनस् तासां माहात्म्यम् एव वर्णयति—सार्धेन । या गोप्यः दुस्त्यजम् अत्याज्यं स्वजनं पति-पुत्रादिकम् आर्य-पथं च सद्-आचार-रूपं धर्मं परमं दुस्त्यजं हित्वा, परित्यज्य मुकुन्दस्य पदवीं पाद-पद्मम् इत्य् अर्यः। भेजुः असेवन्त ।

किं वा, तद्-अनुवृत्तिं भेजुर् भक्त्या अकुर्वन् । यद् वा, तद्-गमनागमन-वर्त्म भेजुः तद्-दर्शनार्थं सन्ध्या-द्वयं सदैव वा परमौत्कण्ठ्येनाश्रयन्तः । यद् वा, पदवीं तस्य भक्ति-मार्गम् एवं तावद् आस्तां मुकुन्द-प्राप्त्या स्वजनादि-त्यागस् तद्-भजने प्रवृत्त्य्-अर्थम् एव तं तं च जहुर् इति महान् महिमा ।

ननु स्त्रीणां पत्य्-आदेर् आर्य-मार्ग[त्व]स्य च त्यागो वेद-विरुद्धः सज्जन-गण-पूज्य-पादाभिस् ताभिः कुतः कृतः ? तत्राह—श्रुतिभिर् वेदैः कृत्वा विमृग्याम् अन्वेषणीयाम् वेदैर् अपि साध्य-मुख्यं, तद् एवेति भावः । यद् वा, श्रुतिभिर् अपि कर्तृभिर् विमृग्याम् एव केवलं, न तु प्राप्त्यां प्राप्यां वा । अतो धर्म-ज्ञानाद्य्-उपदेशकानां वेदानाम् अपि दुर्लभतरस्य वस्तुनो लब्धये तद्-अधीनतानर्हत्वेन तत्-त्यागो युक्त एवेति भावः, तत्-पदवी-भजनस्य स्वजनाद्य्-अपेक्षया विरोधात् । अत एवोक्तं श्री-भगवतैव—त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता २.४५] इति । पूर्वं च, किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य [भा।पु। १०.४७.५८] इत्य् अत्रैक-पक्षे कथा-रस-मात्रेण वेद-तद्-अर्थाचरणादि-नैरपेक्ष्यम् उक्तम् । इदानीं च भगवत्-पदव्याशयैवादौ तत्-त्याग इति विशेषः ।

अथवा, ननु ब्रह्मादीनाम् अपि ज्ञान-प्रदत्वादिना परम-पूज्यतमानां श्रुतीनाम् अपि परमोत्कृष्टता श्रूयते ? तत्राह—श्रुतिभिर् इति । अर्थः पूर्ववद् एव । भावश् चायम्—श्रुतीनां धर्माद्य्-अपेक्षा वर्तते । एतास् तु सर्वं परित्यज्य तम् एकम् एवाश्रिताः । अतः श्रुतीनां केवलं मृग्याम् एव एतास् तु सम्यक् प्रापुर् अपीत्य् आसाम् एव सर्वोत्कृष्टत्वम् इति । एवं च ये केचिद् वदन्ति—उपनिषदो हि भगवद्-भजन-विशेष-लोभेन गोप्यो बभूवुः इति तद् अपि निरस्तम् । लक्ष्मीतो\ऽपि न्यूनतराणां तासां स्वतस् तादृक्-सौभाग्यासम्भवाद् इति केवलं भगवत्-कारुण्य-प्रभावेणैव सम्भवेद् इति दिक् ॥६०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-गोपीनां सर्वतः श्रैष्ठ्यं गीत्वा तासां दास्यम् अन्तर् इच्छन्न् अपि सुदुर्लभं मत्वा तत्-पदाम्बुजैक-रजः-सम्पर्कम् अप्य् आशास्ते—आसाम् इति । अहो अत्यन्त-दुर्लभ-लालसा-खेदे । वृन्दावने इति सदा तत्रैव तासां भ्रमणादिना सान्निध्यात् । गुल्मः स्तम्बः—अप्रकाण्डे स्तम्ब-गुल्माव् इत्य् अमरः । वृक्षादीनाम् अनुक्तिर् अत्युच्चत्वेन तेषां तच्-चरण-रेणु-जोषणासिद्धेः । गुल्मादीनां यथोत्तरं न्यूनत्वं ऊह्यम् । परम-दीनतया आत्मनोऽतिनीचत्व-मननेन तृणत्व-मात्र-प्रार्थने पर्यवसानात् ।

गीतम् अपि तासां माहात्म्यं पुनर् अप्य् औत्सुक्येन गायति—या इति । दुस्त्यजम् अत्यज्यम् । स्वजनं पति-पुत्रादिकम् । मु मुक्तिः कुत्सिता यस्मात् प्रेम्णस् तं भजमानेभ्यो ददातीति मुकुन्दो भगवान् श्री-कृष्णस् तस्य पदवीम् अनुवृत्तिं भेजुर् भक्त्याकुर्वन् ।

यद् वा, तद्-दर्शनार्थं सन्ध्ययोर् अनुगमनाभिगमनाभ्यां तद्-गमनागमन-मार्गं भेजुर् असेवन्त इति मुकुन्दे परम-प्रेमासक्तिर् उक्ता ।

ननु स्वजनस्यार्य-पथस्य च त्यागो वेद-विरुद्धः, साधु-वर्ग-पूज्य-पादाभिस् ताभिस् त्यक्तुं न युज्यते ? तत्राह—श्रुतिभिर् विमृग्याम् एव केवलम्, न तु प्राप्तां प्राप्यां वेत्य् अर्थः । अतो धर्म-ज्ञानाद्य्-उपदेष्ट्रीणां श्रुतीनां दुर्लभतरस्य वस्तुनो लब्धये, तद्-अधीनतानर्हत्वेन तत्-तत्-त्यागो युक्त एवेति । भावश् चायम्—श्रुतीनांधर्माद्य् अपेक्षास्ति, एताश् च सर्वं परित्यज्य भाव-विशेषेण तम् एकम् एवाभजन् । अतः श्रुतीनाम् अद्यापि विमृग्याम् एव । तथाश्री-ब्रह्म-स्तुतौ—अद्यापि यत् पद-रजः श्रुति-मृग्यम् एव [भा।पु। १०.१४.३४] इति । एतास् तु सम्यक् प्रापुर् एवेति ताभ्योऽप्य् आसाम् उत्कर्ष एवेति ।

अथवा, त्वं मे भृत्यः सुहृत् सखा [भा।पु। ११.११.४९] इति, त्वं तु भागवतेष्व् अहं [भा।पु। ११.१६.२९] इत्य्-आदि-श्री-भगवद्-वचनादिना त्वं भक्त-वर्ग-श्रेष्ठतमोऽत एव त्वम् एव साक्षाच् छ्री-भगवद्-विचित्र-सेवा-प्रसाद-विशेष-योग्योऽसि । कथम् एवं प्रार्थयसे ? तत्राह—या इति । स्वजनाद्य्-अत्यागान् मम तादृशी भक्तिर् नास्त्य् एवेत्य् अर्थः ।

ननु गृहस्थस्य तत्-तत्-त्यागो वेद-विरुद्धः ? तत्राह—श्रुतिभिर् इति । भक्त-वर्गादि-गुरु-श्री-ब्रह्मणोऽपि ज्ञान-प्रदत्वादिनादि-गुरूणां श्रुतीनाम् अप्राप्ततया तद्-अनुवर्तिता-त्यागेन श्री-मुकुन्द-प्राप्त्य्-अर्थं श्री-गोपीनाम् एवासाम् अनुगत्वाय तत्-पदाब्ज-रजः-स्पर्शि-जन्मैव युक्तम् इत्य् अर्थः । एवम् उक्त-माहात्म्य-भरस्योद्धवस्येदृश-प्रार्थनया श्री-गोपीनां महान् उत्कर्षः सिद्ध एव । पश्चात्—तद् भूरि-भाग्यं जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकं [भा।पु। १०.१४.३४] इति श्री-ब्रह्म-प्रार्थतोऽस्यायं प्रार्था-विशेषः सोऽस्यैव तस्य सेवकत्वाद्य्-अभावेन, तथा चतुर्मुखत्वादिना महा-वैलक्षण्येन व्रजे चिरं स्थातुम् अप्य् अयोग्यत्वेन यस्य कस्यापि गोकुलीयस्य पाद-रजोऽभिषेकार्थं तत्र तृणादि-किञ्चिज्-जन्म-प्राप्यैव कृतार्थतयातादृश-प्रार्थनाया योग्यत्वात् । अस्य तु सदा-निकटतर-सेवकतयातथा व्रजे चिर-वासादिना तत्रत्यानाम् अनुग्रह-भर-सम्पत्त्या च भाव-विशेषोदयाद् अतृप्त्या ततोऽप्य् उत्कृष्टाय मधुराय श्री-मुकुन्द-भाव-विशेषाय श्री-गोपिका-दास्यार्थं तादृश-प्रार्थस्यौचित्याद् उपपद्यत एवेति दिक् ॥६१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ पूर्वोक्त-रीत्या तस्य नित्य-प्रेयसीनाम् अपि तासां जन्मादि-लीला-विस्मृत-तादृशानां तादृशीनाम् अपि तस्मिन्न् उद्बुद्ध-लोक-धर्मातिक्रमि-रागाणां तादृशीनाम् अपि श्रुति-दुर्लभ-तत्-पदवी-भाजाम् अनुगतिं वाञ्छन् तच्-चरण-रज एव तत्र साधनं निश्चिन्वन् प्रचुर-तत्-स्पर्श-योग्यं तत्र स्थावर-जन्माप्य् आशास्ते आसाम् इति । अहो इत्य् अन्त-दुर्लभ-लालसा खेदे । वृन्दावन इति सदा त्व् अत्रैव तासां भ्रमणादिना सान्निध्यात् ।गुल्मः स्तम्बः । अप्रकाण्डे स्तम्ब-गुल्माव् इत्य् अमरः । वृक्षादीनाम् अनुक्तिर् अत्युच्चत्वेन सम्यक् तज्-जोषणासिद्धेः । गुल्मादीनाम् अनुक्रमेणोक्तिर् नीच-नीचतया रजसां सम्यक् प्राप्तेर् उत्तरोत्तराभिलाषाधिक्यात् दैन्याच् च । गुल्मादीनां यथोत्तरं न्यूनत्वं ऊह्यम् । परम-दीनतयात्मनोऽतिनीचत्व-मननेन तृणत्व-मात्र-प्रार्थने पर्यवसानात् ।

गीतम् अपि तासां माहात्म्यं पुनर् औत्सुक्येन गायति—या इति । या मुकुन्दस्य पदवी, तत्-प्राप्त्य्-एकोपायः पूर्वम् उक्तो रूढ-भाव एव । मुकुन्देति मुक्तिं ददातीति निरुक्त्या तादृश-भावस्य दुर्लभतां सूचयति । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इति । प्रेम-मात्र-दान-कार्पण्य-सूचनात् । कीदृशीं ? श्रुतिभिः कर्त्रीभिर् विमृग्यां परम-पुरुषार्थतयान्वेषणीयाम् ।

किं कृत्वा भेजुः ? स्वजनम् आर्य-पथं च हित्वा लोक-मर्यादां वेद-मर्यादां च त्यक्त्वेत्य् अर्थः । तत् तु दुस्त्यजं पूर्वोक्तेः श्री-प्रभृतिभिः सर्वैर् अप्य् अत्याज्यम् । ते खलु सर्व-लोक-सर्व-महा-वेद-पुरुषार्थ-सार-बुद्ध्यैव भजन्तीत्य् अतो न तेषु रागौत्कट्यम् एव कारणम् इत्य् एता एवासमोर्ध्व-रागा इति भावः । तद् एवं मुकुन्द-पदवीम् इति तत्रापि श्रुतिभिर् विमृग्याम् इति तस्या नित्य् अत्वं सर्वोत्तमत्वं च गम्यते । तत्रापि तास् तां भेजुर् इति तं शीघ्रं ग्रहीष्यन्त्य् एव । गृहीतश् चासौ नात्मानं मोचयितुं शक्ष्यतीति नित्य-तत्-सङ्गित्वं बोध्यते । परमास् तरङ्गेणाप्य् उद्धवेन तासां यथा कथञ्चित् चरण-सम्बन्धेन जन्म-प्रार्थनात् । तत्रापि वृन्दावन एव तत्-सम्भव-मननात् तासां तस्य च तत्-तद्-विधत्वं बोध्यते इति ज्ञेयम् ॥६१॥


जीव-गोस्वामी (प्रीति-सन्दर्भः १०५) : तस्माद् आस्तां तावद् आसां भाव-च्छवि-लाभाभिलाषः । मम त्व् इदम् एव प्रार्थनीयम् इत्य् आह--आसाम् इति । अयम् अर्थः--मय्य् आसां श्री-कृष्ण-प्रेम-विशेष-च्छवि-स्पर्शोऽपि न सम्भवत्य् एव, विजातीय-जन्म-वासनत्वात् । ततश् च साक्षाच्-चरण-स्पर्शोऽपि नेति किं वक्तव्यम् । यद्य् एवं, तदा आसां चरणस्य यो रेणुस् तस्य स्पर्श-भाग-धेयानां श्री-गुल्म-लतौषधीनां मध्ये किम् अपि यत् किञ्चिद् अनादृत-रूपम् इति स्याम् इति । अहो इत्य् अभिलाष-कृत-हृदयार्तौ । कथं-भूतानां ? इत्य् आह--या इति । याः खलु कुल-वधूत्वाद् आपात-विचारेण स्वयं दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा रागातिशयेन लोक-वेद-मर्यादाम् उल्लङ्घ्येत्य् अर्थः । वस्तुतस् तु श्रुतिभिर् विमृग्यां सर्व-श्रुति-समन्वयेन परम-पुरुषार्थ-शिरोमणितया निर्णेयाम् ईदृश-परम-प्रेम-लक्षणां मुकुन्दस्य प्रस्तुतत्वात् श्री-व्रजेन्द्र-नन्दन-रूपस्य पदवीं तदीय-संयोगानन्द-पद्धतिं भेजुर् इति ॥६१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् एतासां चरण-रजः-सम्बन्धोऽप्य् अतिदुर्लभ इत्य् आह—आसाम् इत्य्-आदि । अहो चित्रम् । आसां चरण-रेणु-जुषां गुल्म-लतौषधीनां मध्ये वृन्दावने किम् अप्य् अहं स्याम् । यत्र जन्म लब्ध्वासां चरण-रजो लभ्यते । तत्रैव गुल्मादिषु मध्ये कतमत् स्याम् इत्य् अर्थः । कुतः ? इत्य् आह—या दुस्त्यजम् इत्य्-आदि । श्रुतिभिर् विमृग्याम् एव, न तु लभ्याम् । मुकुन्द-पदवीं मुकुन्द-प्रेम ।

ननु, मनो-रथान्तं श्रुतयो यथा ययुः [भा।पु। १०.३२.१३] इति पूर्वम् उत्क्वा कथम् इदानीं श्रुतिभिर् मृग्याम् इत्य् उच्यते ? सत्यम् । श्रुतयो हि ज्ञान-काण्ड-कर्म-काण्डोपासना-काण्डादिकाः । तत्रोपासना-काण्डात्मिकास् तु तत्-पदवीं गच्छन्त्य् एव । अन्यास् तु मृगयन्त्य् एवेति ॥६१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् आसां भावे परम-दुर्लभे मनोरथस्याप्य् अनौचित्यात् वाञ्छन्ति यद्-भव-भियो मुनयो वयं चेति यन् मयोक्तं तद्-अविचाराद् एव । साम्प्रतं तु स-विचारम् आशासे । एतद् एव मे भूयाद् इत्य् आह आसाम् इति । इमा यासाम् उपरि चरणौ विन्यस्यन्ति तासाम् अतिक्षुद्र-जातीनां गुल्म-लतौषधीनां मध्ये किम् अप्य् अहं स्याम् । ननु भजनस्य सर्वोत्कृष्ट-काष्ठा का खल्व् एतासु वर्तते । याम् एवालक्ष्य त्वम् आसाम् एव चरण-रेणून् वाञ्छसि, न तु लक्ष्म्यादीनाम् अपीत्य् अत आह—या इत्य्-आदि । लोक-धर्म-धैर्य-लज्जा-मर्यादादि-त्रोटन-पूर्वकं महा-रोगेण भजनम् एवं मया न क्वापि दृष्टम् । अत एव प्रति-रजनि यदा यदा स्व-कुल-धर्मादि-मर्यादा वज्र-शलाका अपि महा-राग-बलेन त्रोटयित्वा कृष्णम् अभिसरिष्यन्ति, तदा कृष्ण-पार्श्वं प्रतिगमने वर्त्मावर्त्म-विचारो नासाम् इति तृणादि-रूपस्य मम मूर्ध्नि चरणाव् अर्पयिष्यन्ति अधुना तु कोटिशः सकाकु-प्रार्थिता अपि नैता मन्-मूर्ध्नि चरणान् आधित्सन्तीत्य् अतस् तैर् एव मम धन्य-जन्मता भविष्यतीति भावः ॥६१॥


॥ १०.४७.६२ ॥

या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्

योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् ।

कृष्णस्य तद् भगवतश् चरणारविन्दं

न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनस् ता एव विशिनष्टि—या वा इति । योगेश्वरैर् अप्य् आत्मन्य् एव अर्चितं स्तनेषु न्यस्तं परिरभ्य तापं जहुर् इति ॥६२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गोप्यः । आप्त-कामैः सत्य-सङ्कल्पैः । योगेश्वरैः सनकादिभिः । आत्मनि हृदये । यच् चरणारविन्दम्तापं काम-सन्तापम् ॥६२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : औत्कण्ठ्यात् पुनः पुनर् महिमानं वक्ति—या वा इत्य्-आदि ॥६२॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१५१] ननु सर्वेषाम् अपि भक्तानां स्वजनादि-त्यागेनायं महिमा साधारण एव को नाम गोपीनाम् अनेन विशेषः ? तत्राह—या वै [भा।पु। १०.४७.६२] इति । वै प्रसिद्धौ । श्रिया सर्व-सम्पदा महा-लक्ष्म्या वा अर्चितं संवाहनादिभिः सेवितम्, अत एव अजो ब्रह्मा । आदि-शब्देन रुद्रेन्द्रादयः । किं वा, अजा ब्रह्मादि-सेव्या आदि-शब्देन महद्-आदि-जगत्-कारणानि, तैश् चार्चितं यज्ञादिभिर् आज्ञा-कारित्वेन च संमानितम् ।

किं च, आप्त-कामैर् मुक्तैर् अप्य् अर्चितम्—परम-फलत्वेन भक्त्या पूजितम् । योगेश्वरैर् भक्ति-योग-समर्थैर् भक्ति-परैर् अपि सद्-आत्मनि सच् चासाव् आत्मा चेति तस्मिन् विशुद्ध-चित्ते । किं वा, सर्वदा मनसैवार्चितम् उपासितं स-प्रेम-श्रवण-कीर्तनादिभिः । यद् वा, सद्-आत्मनीत्य् अस्य पूर्वैः श्री-व्यतिरिक्तः सर्वैर् अप्य् अनुषङ्गः । तैस् तैर् अपि यथा-योग्यं सर्वदा आत्मन्य् एवार्चितं, कदाचिद् एव साक्षाद्-दर्शन-प्राप्तेः । यद् वा, सदेत्य् अस्य परतः आत्मनीत्य् अस्य च पूर्वतः सम्बन्धः । एवम् अत्रात्मनीति प्रयोगेणार्थ-बलात् परतः साक्षाद् इति प्राप्तं स्याद् एव । अथवा, पद-द्वयस्यास्य परेणैव सङ्गः । ततश् च आत्मनि निमित्ते गोप्य्-अर्थं भगवद्-अर्थं वा या रास-गोष्ठी तस्याम् इत्य् अर्थः ।

यद्यपि यद् अर्चितं ब्रह्म-भवादिभिः सुरैः [भा।पु। १०.३८.८] इति श्लोकवद् अत्रोक्ति-क्रमो न वर्तते, तथापि तद्-व्याख्यानुसारेण तथैवात्राप्य् अर्थो वितर्क्यः । तद् इति स्वयम् अनुभूतं तदीय-परम-सौन्दर्यादिकं चिर-विरह-प्रेम-भरेण स्मरन्न् आह । यद् वा, श्री-प्रभृतिभिर् यद् अर्चितं, तद् एव । किं वा, परम-दुर्लभत्वादिना सुप्रसिद्धं भगवतः परमेश्वरस्य तत्रापि कृष्णस्य श्री-यशोदा-नन्दनस्य । किं वा, स चासौ भगवांश् चेति तस्य कथम् अपि निर्वक्तुम् अशक्यो यो भगवान् श्री-कृष्णस् तस्य उभयथापि श्री-नन्द-किशोरस्येत्य् अर्थः । अत एव प्रकृष्टं सर्व-प्रकारेणोत्कृष्टं पदारविन्दम् अरविन्द-सुन्दर-पादाग्रं वा या गोप्यो रास-गोष्ठ्यां रास-क्रीडायां सदा अनुक्षणं मुहुर् मुहुर् वा स्तनेषु न्यस्तम् अर्पितं प्रेम-वैवश्यात् स्वयम् एव भगवता वा वैदग्धी-विशेषेण धृतं साक्षाद् एव परिरभ्य स्तनोपर्य् एव धृत्वा, समालिङ्ग्य तापं विरहाग्नि-दाहं विशेषेण जहुः । एवं तेषाम् आत्मन्य् एव तस्यार्चनम् एतासां च साक्षात् तथा परिरम्भणम् अपीत्य् आसां तेभ्यो महान् महिमेत्य् एक-पक्षे, पक्षान्तरे च सदा भगवतः कृष्णस्येत्य् अजादिभ्यः सकाशात् प्रपदारविन्दं साक्षात् परिरभ्य इत्य् आप्त-कामेभ्यः स्तनेष्व् इति योगेश्वरेभ्यः रास-गोष्ठ्याम् इति महा-लक्ष्मीतो\ऽपि गोपीनां माहात्म्य-विशेष ऊह्यः ।

तथैतद् अप्य् उक्तं भवति—याः पूर्वं तथा तापं जहुस् तासाम् अधुना सञ्जातस्यास्य महा-तापस्यापनोदनं किं मम चातुर्यैर् भगवत्-सन्देशैर् वा भवेद् अतस् तथैव तत्-सिद्धये मया प्रयासः कार्य इति । या इत्य् अस्य आसाम् इति पूर्वेणान्वयः ।

एवम् उद्धवस्य श्री-गोपी-चरण-रेणु-स्पृग्-गुल्मादि-मध्ये किञ्चिन्-मात्र-जन्म-प्रार्थनं तथा विशेषतो गान-पर्यवसाने अनेन श्लोकेन गोपीनां तथा माहात्म्य-गानं च तासां सङ्ग-प्रभावोदित-गोपी-भावेनैवेति ज्ञेयम् । यथा श्री-बादरायणि-पादैर् दशम-स्कन्धान्ते श्री-महिषी-वर्ग-माहात्म्य-प्रसङ्गे गोपी-भावेनैवोक्तम् इदम्—

याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः । > जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भा। > १०.९०.२७] इति ।

अत्र जारेत्य् अनुक्तिर् एव प्रेम-भरातृप्त-स्वभावं सदा तत्-काम-सन्तप्त-गोपी-भावं गमयति । अत एव हि दौत्येन तासु भगवताप्य् उद्धवो\ऽयं प्रेषित इत्य् ऊह्यम् । एवं पूर्वेषाम् आधुनिकानां च केषाञ्चिन् महतां तादृशो भावो निशम्यते साक्षाल् लक्ष्यते च । न च मन्तव्यम्—पुंसां तादृशो भावो विरुद्ध इति, यतो दण्डकारण्ये तपस्वि-वेशेन सञ्चरन्तं श्री-रघुनाथं दृष्ट्वापि तदीय-सौन्दर्येणाकृष्टा महा-मुनयो यथावत् त उपभोक्तु-कामास् तत्-पत्नीत्वम् ऐच्छन्न् इत्य् आख्यायिका सुप्रसिद्धैवेति दिक् । तथा च पाद्मोत्तर-खण्डे श्री-शिव-पार्वती-संवादे—

दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् । > ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ॥ > हरिं संप्राप्य कामेन ततो मुक्ता भवार्णवात् । इति ।

महा-कौर्मे च—

अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे । > भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ॥१५१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु सर्वैर् अपि भक्तैः श्री-भगवद्-अर्थं प्रायः स्वजनादयस् त्यजन्त एवेत्य् अनेन को नाम गोपीनां विशेष इत्य् आशङ्क्य परम-दुर्लभस्य लाभ-विशेषेणमाहात्म्य-विशेषं साधयति—या वा इति । श्रिया महा-लक्ष्म्यार्चितं प्रेम-संवाहनादिभिः संलालितम्, अत एव अजो ब्रह्मा आदि-शब्दाच् छ्री-रुद्रादयः । यद् वा, अजा ब्रह्मादि-सेव्या योगमाया, आदि-शब्दा विद्या-शक्त्यादयस् ताभिर् अर्चितं विविधोपासनया सम्मानितम् । आप्त-कामैर् मुक्तैर् अपि रक्तत्वादिना ताप-हरत्वादिना मधुर-रस-स्रावित्वादिना च तत् ।

यद् वा, प्रकृष्टं सर्वथोत्कृष्टम् आत्मन्य् एवार्चितं वैष्णव-कृपया मुक्ति-तुच्छता-विज्ञानेन परम-फलतयाश्रितम् । योगो भक्ति-योगस् तस्मिन्न् ईश्वराः समर्थाः समग्र-भक्ति-प्रचार-निष्ठा इत्य् अर्थः । तैर् अपि सदात्मनि सन् उत्तमो विशुद्धो य आत्मा चित्तं तस्मिन्न् एवार्चितं प्रेम-ध्यानादिना सेवितम्, तेषाम् अपि सर्वेषां प्रायस् तस्यसाक्षाद्-दर्शनाभावेन मनस्य् एवार्चनात् ।

यद् वा, सदेत्य् अस्य परेणान्वयः । एवं शशाङ्कांशु-विराजिता निशाः [भा।पु। १०.३३.२६] इत्य् उक्तेः । तच् च तत्रैव व्याख्यातम् । तेन परम-दौर्लभ्यम् अभिप्रेतम् । अर्चकानाम् अजादीनाम् एषां यथोत्तरं श्रैष्ठ्यं प्रायो यद् अर्चितम् इत्य् आद्य् अक्रूरोक्तवद् ऊह्यम् । एवम् अजाद्य्-अर्चितत्वेन क्रमेणसर्वार्थ-प्रदत्वं परम-फलत्वं परमाराध्यत्वं च माहात्म्यम् उक्तम् । अर्चितम् इत्य् अतीत-निर्देशः सर्वांशैः परिपूर्णतयावतीर्णस्य स्वच्छन्दं गोकुले विक्रीडतोऽनन्यापेक्षस्यश्री-भगवतोऽधुनान्यैर् अर्चयितुम् अलभ्यत्वात् । कृष्णस्य परमानन्द-घन-मूर्तेस् तत्रापि भगवतो निजाशेषैश्वर्यं प्रकटयतः ।

यद् वा, कृष्णस्य मद्-ईश्वरस्यभगवतः परम-स्वच्छन्दस्य, तद् इति बहुधा संसेवितम् अनुभूत-रूप-गुणादि-माहात्म्यं चिर-विरहोदित-प्रेम-भरेण संस्मरति । किं वा, रूप-गुणादिना अनिर्वचनीयम् इत्य् अर्थः । प्रपदं पादाग्रम् एवारविन्दं रक्तत्वादिना ताप-हरत्वादिना मधुर-रस-स्रावित्वादिना च तत् ।

यद् वा, प्रकृष्टं सर्वथोत्कृष्टं पदारविन्दं, या गोप्यो रास-रूपायां गोष्ठ्यां क्रीडायाम् । यद् वा, रासे रासोपक्रमे या गोष्ठी गोपीनां सभा तस्याम् ।तथा हि तत्रैव—एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् [भा।पु। १०.३२.५] इति । अत्र एकेत्य् उपलक्षणार्थम् । किं वा, भजतोऽनुभजत्य् एके [भा।पु। १०.३२.१६] इत्य्-आदि-प्रश्नोत्तराभ्यां श्री-कृष्णेन सह संलापस् तस्यां स्तनेषु न्यस्तं संलग्नं यथा स्यात्, तथा परिरभ्य गाढम् आलिङ्ग्येत्य् अर्थः । संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः [भा।पु। १०.३२.१५] इति तत्रैवोक्तत्वात् ।

यद् वा, प्रेम-वैवश्यात् स्वयम् एव भगवतैव वा नागर-शेखरेण धृतं परिरभ्य स्तनोपर्य् एव निधायालिङ्ग्य तापं काम-ज्वरं विरह-दाहं वा विशेषेण जहुः । वै एतत् प्रसिद्धम् एवेत्य् अर्थः । अक्रूरेणापि पथि मनोरथे यद् गोपिकानां [भा।पु। १०.३८.८] इत्य्-आदिना वर्णितत्वात् । एवं तेषाम् आत्मन्य् एव तस्यार्चनं, आसां तु क्रीडा-विशेषे साक्षात् तादृश-परिरम्भणम् अपीति माहात्म्यं स्वतः-सिद्धम् एव । तत्रभगवतः कृष्णस्येत्य् अजादिभ्यः सकाशात्, प्रपदारविन्दं साक्षात् परिरभ्येत्य् आप्त-कामेभ्यः, स्तनेष्व् इति मधुर-रस-विशेषाभिव्यञ्जनाद् योगेश्वरेभ्यः, रास-गोष्ठ्याम् इति लक्ष्मीतोऽपीत्य् एवं विवेचनीयम् । एवम् उद्धवस्यश्री-गोपी-सङ्ग-प्रभावेणतादृश-भावोत्पत्तिर् ज्ञेया । अतः स्कह्यम् इव प्राप्तस्यास्य गूढोयतेअम् अभिप्रायस् तथा त्यक्त-तापानाम् आसां बताधुना विरह-तापापनोदनार्थं मया प्रयत्नः कार्य इति ।

यद् वा, कृष्णस्यश्री-व्रजेन्द्र-नन्दनस्य यत् प्रपदारविन्दं तदीयासमोर्ध्व-सौन्दर्य-सार-सर्वस्वम् अवेक्ष्य मोहितया श्रिया तद्-उपलब्धये तप-आदिभिर् अर्चितम् इति पूर्वम् एव, गोप्योऽन्तरेण भुजयोर् अपि यत् स्पृहा श्रीः [भा।पु। १०.१५.८] इत्य् अत्र लिखितम् एव ॥६२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं तादृश-तल्-लाभ-साधनस्य तादृश-रासस्यैवोत्कर्षेण तासां माहात्म्यम् अपि तु भगवल्-लाभस्यापीत्य् आह—या इति । वै प्रसिद्धः । सर्व-लोक-चमत्कार-करं यथा स्यात् तथा । कृष्णस्य भगवतः । कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इत्य् आदाव् असमोर्ध्व-रूपत्वेन प्रसिद्धस्य तस्य । तत् तादृश-भावैक-भाव्यं प्रपदारविन्दं गोप्यस् तपः किम् अचरन्[भा।पु। १०.४४.१४] इत्य्-आदि-रीत्या प्रकृष्टाविर्भावं पदारविन्दं परिरभ्य यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु [भा।पु। १०.३१.१९] इत्य्-आदि परम-स्नेह-मये रागेणालिङ्ग्य तापं जहुः । तादृश-तत्-प्राप्तितः पूर्वं यः कश्चिद् भावः । स सर्वोऽपि तादृश-भावानां खल्व् अनुभवेन ताप एव तत् सर्वं तत्यजुर् इत्य् अर्थः । पद-मात्रोपादानेन भकि-व्यञ्जनया तादृश-श्री-कृष्णस्य परम-दुर्लभता सूचिता । तत्रापि लिट्-प्रयोगेण तत्-त्यागस्य स्व-परोक्षतां सूचयित्वा स्व-पर्यन्त-महा-भागवतागम्यत्वं सूचितम् ।

श्री-भगवतोऽपि ताभिः परिरम्भे रागं वर्शयति न्यस्तं तेन बलाद् इवार्पितम् । तत्र समय-वैशिष्ट्यम् अप्य् आह—रास-गोष्ठ्यां रासोपक्रम-सभायां तस्यां परमापूर्व-लीलायां प्रवर्तमायाम् इत्य् अर्थः । संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोर् इति तदानीन्तन-प्रसिद्धेः । ततश् च तदानीं तासाम् आविरभूत्[भा।पु। १०.३२.२] इत्य्-आदि,त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधद्[भा।पु। १०.३२.१४] इत्य्-आद्य्-अनुसारेणात्रत्य-समयान्तराद् अपि परमापूर्वाविर्भावत्वम् इति भावः ।

कथं-भूतं ? अपि श्रिया वैकुण्ठ-लक्ष्म्यापि आत्मनि मनस्य् एव सदार्चितं भाव-विशेषेण बोध्यमानम् एव वर्तते, न तु तथा प्राप्तम् ।यद्-वाञ्छया श्रीर्-ललनाचरत् तपः[भा।पु। १०.१६.३६] इत्य् उक्तेः । अत एव सुतराम् अजादिभिर् ब्रह्म-रुद्रादिभिर् आधिकारिक-भक्तेर् आप्त-कामैर् आत्माराम-भक्तैर् योगेश्वरैः सर्व-योगानाम् ईश्वरैः । शुद्ध-भक्ति-योगिभिर् अपीति मनस्य् एवार्चितम् इति पूजार्थत्वाद् वर्तमाने क्तः । तस्मात् सर्व-दुर्लभ-चरणारविन्दस्य तस्याभिर् एव तादृशतया लब्धत्वाद् अचिराद् एवाकृष्य वशयितव्य इति भावः । यद् आत्मनीति चरणारविन्दम् इति क्वचित् पाठः ॥६२॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः ९९) : सदा भूत-वर्तमान-भविष्यत्-कालेषु श्र्य्-आदीनां सर्वदावस्थायित्वेन प्रसिद्धेः । सदेत्य् अस्य तथैव ह्य् अर्थ-प्रतीतिः । सङ्कोच-वृत्तौ कष्टतापत्तेः, श्री-भगवति तादृशत्वासम्भवाच् च । तथा च श्रुतौ—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भू-रुह-तलासीनं सततं स-मरुद्-गणोऽहं तोषयामि [गो।ता।उ। १.३७] इति ब्रह्म-वाक्यम् ।

तद्-उत्तर-तापनी-श्रुतौ श्री-गोपीः प्रति दुर्वाससो वाक्यम्—जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति । योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति स वो हि स्वामी भवति ॥ [गो।ता।उ। २.२३] इति ॥६२॥


जीव-गोस्वामी (प्रीति-सन्दर्भः १०६) : तद् एवम् “आर्य-पथं त्यजाम” इति तु तासां भ्रम एवेति भावः । य एव तत्-संयोगानन्दः श्री-प्रभृतीनां परम-दुर्लभ एवेति स्वयम् एव व्यनक्ति--या वा इति । या रास-गोष्ठ्यां विराजमानस्य श्री-कृष्णस्य भगवतः परम-माधुर्य-सार-भगवत्ताप्रकाशिनस् तद्-अनिर्वचनीय-माधुर्यक-प्रकृष्टं पदारविन्दं न्यस्तम्, तेन स्वयम् अर्पितं परिरभ्य तापं साक्षात् तद्-अप्राप्ति-हेतुकम् आधिं जहुः । तत् तु योगेश्वरैर् भक्ति-योग-प्रवीणैः श्री-शुकादिभिर् अपि आत्मनि मनस्य् एवार्चितम् ।यद् वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य् उक्त-दिशा श्रियापि यत् प्राप्तुं मनस्य् एवार्चितम् । तच् च सदैवानादित एव न तु कदाचिद् अपि साक्षात् प्राप्तम् । तद्-अश्रवणाद् इति भावः ॥६२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र या वै श्रियार्चितम् इत्य् अत्र, तथापि श्रिया यत् तद् अप्राप्तिस् तत् खल्व् एतासाम् इव तस्या अनन्यत्वाभावाद् इति भावः ॥६२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : औत्कण्ठ्यात् पुनर् एव तासां महिमानं प्रकटयन्न् आह—या वईत्य् आदि । श्रियार्चितम्, तथा अजादिभिस् तथाप्त-कामैर् योगेश्वरैर् अपि तत्रापि सदा, तत्राप्य् आत्मनि मनसि, न तु साक्षात् तत् कृष्णस्य प्रपदारविन्दं रास-गोष्ठ्यां स्तनेषु न्यस्तं कृत्वा परिरभ्य यास् तापं जहुः, तासां चरण-रेणु-जुषाम् इति पूर्वेणैवान्वयः । तस्मात् वृन्दावने किम् अपि गुल्म-लतौषधीनाम् इति साधूक्तम् ॥६२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि तासां लक्ष्म्य्-आदि-दुर्लभ-वस्तु-लाभान् माहात्म्यम् आह—या वै । या एव स्तनेषु न्यस्तं कृष्णस्य चरणारविन्दं परिरभ्य तापं जहुः । यत् खलु श्रिया लक्ष्म्या अजादिभिश् च आत्मनि मनस्य् एव अर्चितं न तु साक्षात् स्प्रष्टुं शक्यम् इति भावः । यद्-वाञ्छया श्रीर् ललनाचरत् तपः इत्य् आदेः रास-गोष्ठ्यां रास-सभायाम् ॥६२॥


॥ १०.४७.६३ ॥

वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः ।

यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं महत्त्वं प्रतिपाद्य नमस्करोति वन्द इति ॥६३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । यासां नन्द-व्रज-स्त्रीणाम् । हरि-कथैवोद्गीतम् उच्चैर् गानं भुवन-त्रयं पुनाति स्मरणादिना देवाः शेषो मनुष्याश् च यल्-लीलां गायन्तीति भावः ॥६३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतः परं पुनर् अपि वन्दते—वन्दे नन्देत्य्-आदि । हरि-कथया सह उद्गीर्तम् उद्गानम् ।भावे क्तः । हरि-कथा यत्रयत्र श्रूयते, तत्र तत्रैव तासाम् अपीत्य् अर्थः ॥६३॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भाग्। २.७.१५२] एवं तासां माहात्म्यं परम-प्रीत्या सुस्वर-गानेन सङ्कीर्त्य पाद-पद्म-परिसर-प्रदेशे दण्डवन् निपत्य परम-दुर्लभत्वम् अनेनैव तत्-पद-पद्धति-रेणुम् एकम् एव दूरतो हस्तेनादाय शिरस्य् आधाय । किं वा, तासाम् अग्रे तम् एव लक्षीकृत्य साष्टाङ्गं प्रणमन्न् आह—वन्दे [भा।पु। १०.४७.६३] इति ।

व्रज-स्त्रीणाम् इत्य् अपरोक्षे\ऽपि प्रेम-भरोदयेन परोक्षवद् उक्तिः । किं वा, परम-गौरवेण संमाननार्थं तत्-सङ्कीर्तन-सुखार्थं वा । अभीक्ष्णशः इत्य् अस्य पूर्वेण परेण चान्वयः । यासां हरि-कथा-सम्बन्धि उच्चैर् गीतं भुवन-त्रय-मूर्धम् अधो मध्यं च लोकं जगद् एव पुनाति । यथोक्तम् अस्मिन्न् एव5 प्रसङ्गे श्री-शुकदेव-पादैः—

उद्गायतीनाम् अरविन्द-लोचनं > व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । > दध्नश् च निर्मन्थन-शब्द-मिश्रितो > निरस्यते येन दिशाम् अमङ्गलम् ॥ [भा।पु। १०.४६.४६] इति ।

यद् वा, यासां महिमनि बन्धनं गीतम् एव ममैतद् गीतम् इव उच्चैर् अतिश्रेष्ठा हरि-कथा । यद् वा, हरि-कथेति दृष्टान्तत्वेनात्रोपन्यस्तं । हरिकथैव यासाम् उच्चैर् गीतं माहात्म्य-गाथा त्रिभुवनम् एव व्याप्य पुनाति । एवं निज-तद्-गानाभिप्रायो\ऽपि सूचित इति ॥१५२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः साक्षाच् छ्री-भगवत्-तादृश-सेवापि मे दूरे तावद् आस्ताम् ईदृश-भाव-सिद्धये श्री-गोपीर् एवैताः प्रणमामीति । यद् वा, आस्ताम् ईदृश-माहात्म्य-गाने मम का शक्तिर् योग्यता वा, केवलं यत्रतत्र निपतितम् आसां पादाब्ज-रज एवैकं नमामि, इत्य् अत्रैवम् एव सदा वन्द इत्य् आह—वन्द इति । नन्द-व्रजस्य स्त्रीणाम् इति किं पुनर् आसांश्री-भगवत्-प्रियतमानाम् ।आसां सम्बन्धेन सर्वासाम् अपि नन्द-व्रज-वर्ति-स्त्री-जातीनाम् इत्य् अर्थः । यासां हरेः सर्वथासर्व-मनोहरस्यश्री-भगवतः कथाया उद्गीतम् उच्चैर् गानं भुवन-त्रयं ऊर्ध्वाधो-मध्य-लोकान् जगद् एव पुनाति मुमुक्षादि-सर्व-मलतः शोधयति । तथा च प्राग् उक्तम्—उद्गायतीनां [भा।पु। १०.४६.४६] इत्य्-आदि ।

यद् वा, हरि-कथावद् उद्गीतं यासाम् उच्चैर् माहात्म्य-गानं माहात्म्य-निबद्धम् उच्चैर् गीतं वा । यद् वा, यासाम् उद्गीतम् एव हरि-कथा इत्य् आसांमाहात्म्य-गानम् एव मम कृत्यम् । अत्र चिर-वासादिना श्री-यदुकुलाद्य्-अपराधतोऽपि न मे किञ्चिद् भयम् इति गूढो भावः । इदं गानं वन्दनं च तासांसाक्षाद् एव ज्ञेयम् । ततश् च नन्द-व्रज-स्त्रीणाम् इति प्रत्यक्षत्वेऽपि परोक्षवद् उक्तिः । तेनैव शब्देन तासांमाहात्म्य-भर-बोधनात् । किं वा, गौरव-विशेषेण, तथैव वाच्यत्वात् । अत एव यूयम् इत्य् आद्य् अनिर्देशः । यद् वा,परम-लज्जादि-गुणवतीनां तासांमाहात्म्य-स्तुत्य्-असहिष्णुतया परोक्षम् एवेति । ततश् च एता इति । आसाम् इति च नैकट्येन प्रस्तुतत्वेन वा । किं वा, सदा हृदि वर्तमानत्वेन प्रत्यक्षत्वादि वेति ॥

तं श्रीमद्-उद्धवं वन्दे कृष्ण-प्रेष्ठ-वरोऽपि यः ।

गोपी-पादाब्ज-धूलि-स्पृक्-तृण-जन्माप्य् अयाचत ॥६३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्माद् अहो आस्ताम् अतिक्षुद्रस्य ममासां साक्षान्-नमस्कार-साहसम् । एतत् सजातीयत्वात् अन्यासाम् अपि पाद-रेणुम् एव नमस्करवाणि । न च साक्षाद् एव । ता इति सकम्प-गद्गदं चाटुम् आह वन्द इति । यासाम् इति याभिः कर्त्रीभिर् इत्य् अर्थः । हरि-कथाया उद्गानम् उद्गायतीनाम् अरविन्द-लोचनम् इत्य् एतत्-प्रकारम् । यद् वा, यत्-सम्बन्धि-हरि-कथाया उद्गानम् । तत्-तन्-महानुभावैर् उच्चैर् गानं सम्बन्ध-परस्परया भुवन-त्रयं ऊर्ध्वाधो-मध्य-लोकं सर्वम् अपि पुनाति । एतद्-विपरीतोदासीन-सर्व-भावापसारतः शोधयति मद्-भक्ति-युक्तो भुवनं पुनातीतिवत् ।

प्रकरणेऽस्मिन् श्री-वेद-व्यास-महा-वक्तॄणां तात्पर्यम् इदम्—सर्व-भागवतानां मध्ये श्री-कृष्ण-सम्बन्धिनः खलु परम-श्रेष्ठास् तस्यैव स्वयं भगवत्त्वात् । तत्रापि तल्-लीला-परिकरा एवान्तरङ्गा अन्येषां तद्-अनुगतत्वात् तेष्व् अपि श्रीमान् उद्धवः—त्वं तु भागवतेष्व् अहं [भा।पु। ११.१६.२९], भक्तम् एकान्तिनं क्वचित् [भा।पु। १०.४६.२], अहं भर्तू रहस्-करः [भा।पु। १०.४७.२८], कृष्णस्य दयितः सखा [भा।पु। १०.४६.१], नोद्धवोऽण्व् अपि मन्-न्यून [भा।पु। ३.४.३१] इत्य्-आदि-दर्शनात् तस्य चेदृशी तद्-भाव-स्पृहा तास्व् आदरो दैन्यं च श्रूयते न जातु पट्ट-महिषीष्व् अपीति केन वा तासां चरणारविन्दं नानुगमनीयम् । तत्रापि श्री-राधाया इति ।

तं श्रीमद्-उद्धवं वन्दे कृष्ण-प्रेष्ठ-वरोऽपि यः ।

गोपी-पादाब्ज-धूलि-स्पृक्-तृण-जन्माप्य् अयाचत ॥६३॥


जीव-गोस्वामी (प्रीति-सन्दर्भः १०७): एवं तासाम् एव साक्षान् नमस्कारे कृत-चित्ततया तथाविधं गायन्न् एवासौ पुनर् अपि महा-महिम-स्फूर्तेर् अतिदैन्य-भर-सङ्कुचिततया तत्राप्य् आत्मनोऽनधिकारितां मन्यमानस् तत्-पाद-रेणुम् एव नमस्कुर्वन् तत्रापि दैन्येन तद्-एक-वर्ग-सम्बन्धात् साधारण-व्रज-स्त्रीणाम् एव नमस्करोति—वन्दे इति । उत्तरार्धेन तादृशीनाम् अप्य् आसां साक्षाद् एव पाद-रेणुं वन्दे, तद् एतद् अप्य् अहो अस्माकं भाग्यम् अस्तीत्य् एतद् अपि महद् अद्भुतम् इति भावः । अत्रैतद् उक्तं भवति –

एते हि यादवाः सर्वे मद्-गणा एव भामिनि । > सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ [प।पु। ६.८९.२२]

इति पाद्म-कार्तिक-माहात्म्य-दृष्ट-श्री-भगवद्-वाक्यानुसारेण शय्यासनाटनालापे [भा।पु। १०.९०.४६] इत्य् आद्य्-अनुसारेण च यादवा एव तावत् स्वयं भगवतः श्री-कृष्ण-देवस्य परम-प्रेष्ठाः । अतः प्रादुर्भावान्तर-भक्तास् तु स्वतो दूरत एव स्थिता ।

अथ भक्तान्तरेषु यादवेष्व् अपि त्वं तु भागवतेष्व् अहं [भा।पु। ११.१६.२९], त्वं मे भृत्यः सुहृत् सखा [भा।पु। ११.११.४९], नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१], न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् [भा।पु। ११.१४.१५] इत्य्-आदि काम-कृच्-छ्री-कृष्ण-वाक्यानुसारात् भक्त्य्-अंशेन तु सर्वतोऽप्य् उद्धव एव श्रेयान्, तस्य तु श्री-व्रज-देवीष्व् एवैवं दैन्य-वचनम्, न जातु महिषीस्व् अपीति जातान्धस्यापि चाक्षुषम् एवेदं तासां यशो-राका-चन्द्रमः-सौन्दर्यम् इति ॥६३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्-कारणं चासाम् एव प्रसादस् तेन पुनः पुनर् आसाम् एव चरण-रजो वन्दे, यावत् प्रसादो भवतीत्य् आह—वन्दे इत्य्-आदि । अहर्निशम् इति भक्त्य्-अतिशय-प्रकटनार्थम् । यासां गीतं गानं कीर्तनम् इति यावत्, भुवन-त्रयं पुनाति । कीदृशं ? हरि-कथोत् हरि-कथाम् उदन्तीति तथा, उन्दी क्लेदने क्विपि रूपम् । हरि-कथाम् अप्य् अर्द्रीकरोति यत्-कथा-सम्बन्धेन हरि-कथा सरसीभवति । अन्यथा येन तेन कृतम् अपि हरि-कथोद्गीतं भुवन-त्रय-पावित्र्य-जनकम् । तत्र भगवतीनां को महिमेति ॥६३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं महत्त्वं प्रतिपाद्य प्रणमति वन्दे इति । पाद-रेणुम् अभीक्ष्णम् । तत्रापि शस्-प्रत्ययेन प्रतिक्षणम् एव, न तु त्रि-कालं पञ्च-कालं वेत्य् अर्थः । यावद् अनायासेन तत्-प्राप्त्य्-अनुकूल-तृणादि-जन्म-भाग्यं मे नाभूद् इति भावः । यासाम् उद्गीतं यत्-कर्मकम् उच्चैर् गानम् एव हरि-कथा भुवन-त्रयं पवित्रीकरोत्य् अविद्या-मालिन्याद् इति भावः ।

प्रकरणेऽस्मिन् व्यासादि-महा-वक्तॄणां तात्पर्यम् इदं—सर्व-भागवतानां मध्ये कृष्ण-सम्बन्धिनः श्रेष्ठाः कृष्णस्य तस्यैव स्वयं भगवत्त्वात् । तत्रापि तल्-लीला-परिकरा एवान्तरङ्गा अन्येषां तद्-अनुगतत्वात् । तेष्व् अपि श्रीमान् उद्धवः त्वं तु भागवतेष्व् अहं [भा।पु। ११.१६.२९] इति, नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१] इत्य्-आदि दर्शनात् तस्यापीदृशी भाव-स्पृहा तास्व् आदरोऽधिको न जातु पट्ट-महिषीष्व् अपीति । केन वा तासां चरण-कमलं नानुगमनीयम् । तत्रापि श्री-राधायाः इति श्री-वैष्णव-तोषणी ॥६३॥


॥ १०.४७.६४ ॥

श्री-शुक उवाच—

अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च ।

गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुज्ञाप्य अनुज्ञां याचित्व । आमन्त्र्य पृष्ट्वा ॥६४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ प्रार्थनोत्तरम् । यास्यन् मथुराम् इति शेषः ॥६४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथेत्य्-आदि । आदरातिशयात् गोपीनाम् एवादाव् अनुज्ञा ॥६४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ कालान्तर एव । -शब्दः समुच्चये । च-कारात् तद्-दास-दासी-गवादींश् च आमन्त्र्य गोप्य्-आदीनां यथोत्तरं श्री-भगवत्-प्रेम-तारतम्येन तत्-तद्-अनुज्ञादि-प्रार्थनेऽपि तत्-तत्-क्रमेण निर्देशः । अत एव गोपानाम् आमन्त्रणम् एव । दाशार्ह यदु-कुलोद्भव इति यादवानां हितार्थम् इति भावः । अन्यथा सर्वोपकर-पर-सन्-मन्त्र्य्-अभावेन तेषां दुःखापत्तिः । आरुरुहे आरोढुम् उद्यतः ॥६४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ कालान्तर एव । -शब्दः समुच्चये । अनुज्ञाप्य तेषां चित्त-समाधान-पूर्वकम् आज्ञां प्रार्थयित्वा । गोप्य्-आदि-निर्देश-क्रमोऽयं तद्-आदीनां प्रेम्नो यथा-पूर्व-प्रकर्षम् अनुभूय तत्-क्रमाद् एवानुज्ञां प्रार्थितेति व्यनक्ति । पूर्वोक्त-युक्त्या सान्त्वनाया मुख्यत्वात् गोपांस् त्व् आमन्त्र्य यथायथं श्री-व्रजेश्वराद्य्-अनुज्ञा-श्रावण-सहितं सम्बोध्य, “हे अमूक ! तेषाम् आज्ञा जातास्ति, सम्प्रति गच्छाम” इति प्रतिजनं सम्भाष्येत्य् अर्थः । दाशार्ह इति तत्-कुलोद्भवत्वेनैव सर्व-नीतिज्ञः, किं पुनः स वैशिष्ट्येनेति भावः ॥६४॥


जीव-गोस्वामी (प्रीति-सन्दर्भः १०१) : अथ सर्वेभ्योऽपि मुनि-गण-प्रशस्तत्या सर्वतोऽपि प्रेम-प्रणय-मान-राग-वैशिष्ट्य-पुष्टया विशेषतोऽनुराग-महाभाव-सम्पत्ति-धारिण्या स्व-प्रीत्या वशीकृत-कृष्णानां श्री-व्रज-देवीनां त्व् असमोर्ध्वम् एव तद् वैभवम् । एतत्-क्रमेणैवोद्धवस्याप्य् अनुज्ञापन-क्रमो दृश्यते । यथा—अथेति । स्पष्टम् ॥६४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथेत्य्-आदि । आदरातिशयाद् गोपीनाम् एवादौ अनुज्ञा-ग्रहणम् । पश्चाद् यशोदायाः, पश्चान् नन्दस्य, पश्चाद् गोपानाम् इत्य् अत्र क्रमः ॥६४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुज्ञाप्य अनुज्ञां याचित्वा । आमन्त्र्य पृष्ट्वा ॥६४॥


॥ १०.४७.६५ ॥

तं निर्गतं समासाद्य नानोपायन-पाणयः ।

नन्दादयोऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् उद्धवम् ॥६५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नानोपायन-पाणय इति श्री-कृष्णाय यद् यद् दातुइम् उचितं तत् तत् पाणौ कृत्वा तद्-अग्रे निन्युः । पश्चात् स्वजन-द्वारा प्रहितवन्त इति ॥६५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निर्गतं व्रजाद् बहिर्-गतं सन्तं समासाद्य दूरतः सङ्गम्य । यद् वा, सम्यग् आसाद्य ज्ञात्वा निश्चित्येत्य् अर्थः । वारं वारं कृत-प्रस्थानस्यापि तस्यादूरतो विदूरतोऽपि निवृत्तेः । नानेति—निज-मुद्रा-लक्षितं पुत्रार्थंश्री-व्रजेश्वर्या दत्तं नव-नवनीत-क्षीर-लड्डुकादिकं पृथक्, तथाश्री-बल-रोहिण्य्-अर्थं निज-निज-शिल्प-चिह्नितं गुञ्जाहारादिकं पृथक्, श्रीदामादिभिश् च प्रिय-सखार्थं तत्-परिचित-वन्य-फल-मूलादिकं पृथक्, श्री-व्रजेश्वरेणापि पुत्रार्थं कस्तूरी-गजमौक्तिक-हारादिकं श्री-वसुदेवार्थं घृत-पक्वादिकम् उग्रसेनार्थं गोरसादिकं पृथक्पृथग् इत्य् एवं नाना-विधैर् उपायनैर् युक्त-पाणयः सन्तोऽनुरागेणाश्रु-युक्त-लोचनाश् च सन्तः, अत एव प्रकर्षेण आर्त-स्वर-गद्गद-भाषादिना सर्व-चित्ताकर्षकत्वादिना अवोचन् ॥६५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रथारोहण-परिपाटीम् आह—निर्गतं रथारोहणार्थं निर्गत्य व्रज-द्वारि स्थितं सन्तम् । नानेति—निज-मुद्रा-लक्षितं पुत्रार्थं श्री-व्रजेश्वर्या दत्तं नव-नवनीत-क्षीर-लड्डुकादिकं पृथक्, तथा श्री-बलदेव-रोहिण्य्-अर्थं श्री-देवक्य्-अर्थं च श्री-व्रज-देवीभिश् च प्राणेश्वरार्थं निज-शिल्प-चिह्नितं गुञ्जाहारादिकं, श्रीदामादिभिश् च प्रिय-सखार्थं तत्-परिचित-वन्य-पुष्प-फल-मूलादिकं, श्री-व्रजेश्वरेणापि पुत्रार्थं कस्तूरी-गजमौक्तिक-हारादिकं श्री-वसुदेवार्थं घृत-पक्वान्नादिकम् उग्रसेनार्थं च गोरसादिकं, सर्वैश् च श्रीमद्-उद्धवार्थं वस्त्रालङ्करणादिकं पृथक् पृथग् इत्य् एवं नाना-विधैर् उपायनैर् युक्त-पाणयः सन्तः प्रकर्षेण गद्गदत्वादि-गुण-युक्ततया अवोचन् ॥६५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : रथारोहण-परिपाटीम् आह—तम् इति । निर्गतं रथारोहनार्थं व्रज-द्वारि निर्गत्य स्थितं सन्तम् ॥६५॥ [+++]{।मर्क्}

तं निर्गतम् इत्य्-आदि । नानोपायन-पाणय इति कृष्णाय यद् दातुम् उचितम् । यद् वा, रामाय । यद् वा, वासुदेवाय । यद् वा, राज्ञे । यद् वा, तस्मै । तत् पाणौ येषाम् ॥६५॥ [+++]{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नानोपायनानि कृष्णस्य पौगण्ड-कैशोर-विलास-समय एव यानि सञ्चितानि बहु-रत्न-स्वर्ण-मुद्रा मुक्तालङ्कारादीनि यौवने सति कृष्णस्य परिधास्यमानानि तदा तु तद्-वियोगात् तेषु ममता त्यागात् तान्य् एवोपायनत्वेन कल्पितानि ज्ञेयानि ॥६५॥


॥ १०.४७.६६-६७ ॥

मनसो वृत्तयो नः स्युः कृष्ण-पादाम्बुजाश्रयाः ।

वाचोऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु ॥

कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।

मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नोऽस्माकं मनसो वृत्तयः कृष्ण-पादाम्बुजाश्रयाः स्युःअभिधायिनीर् अभिधायिन्यः । कृष्णे रतिः स्याद् इति ॥६६-६७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वृत्तयो व्यापाराः, वृत्तिर् व्यापार-जीवे इति कोशात् । तत्-प्रह्वणादिषु कृष्ण-नमस्कारादिषु स्याद् इत्य् अन्वयः ॥६६॥

यत्र क्वापि योनिषु । कर्मभिर् इत्य् अचेतनस्य कर्मणः कथं प्रवर्तकत्वं ? तत्राह—ईश्वरेच्छया इति ।

ननु देवः फलं ददातीति मीमांसको न सहते, तथा हि—नवमाध्याये विचारितं किं योगेन आराधिताया देवतायाः फलम् अपूर्वम् उतापूर्व-द्वारकं यागस्य फल-साधनत्वम् इति संशयः । तत्र भङ्गुरस्य यागस्य कालान्तर-भावि-फलं प्रति साधनत्वायोगाद् अवश्यं द्वारं किञ्चित् कल्पनीयं, देवता-प्रसादश् च श्रुति-युक्तिभ्यां तद्-द्वारं स्यात् । तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति इति श्रुतिः । युक्तिर् अप्य् उच्यते—क्रियया व्याप्तुम् इष्टतमत्वात् कर्म-कारकं प्रधानं तेन च कर्मणा व्याप्यत्वात् सम्प्रदानं ततोऽपि प्रधानम् । इन्द्रादि-देवता च सम्प्रदानत्वात् पूजाम् अर्हति । यागश् च पूजा-रूपत्वाद् अतिथेर् भोजनम् इव देवताया अङ्गं स्यात्, तस्माद् राजादिवद् देवः फलं ददातीति पूर्व-पक्षाम् । अत्रोच्यते—याग-देवतयोर् योऽयम् अङ्गाङ्गि-भाव उपन्यस्तः, स तु शब्दाकाङ्क्षानुसारेण विपर्येति ।

तथा हि—यजेतेत्य् आख्यातेन भावनाभिधीयते, सा च किं केन कथम् इति भाव्य-करणेति कर्तव्यता-लक्षणम् अंश-त्रयं क्रमेणाकाङ्क्षति, तत्र यागस्य समान-पदोपनीतत्वेऽप्य् अयोग्यत्यत्वान् न भाव्यता, स्वर्गस्य तु वाक्य-तात्पर्याद्य्-उपनीतस्यापिपुरुषार्थत्वेन योग्यत्वात् स्वर्गे सा स्यात् । तस्य च स्वर्गस्य साधनाकाङ्क्षायां यागः करणत्वेनान्वेति । तच् च करणं साध्य-रूपत्वात् स्व-निष्पादकं सिद्धम् । द्रव्य-दैवतम् इति कर्तव्यत्वेन गृह्णाति, ततो योगाङ्गी देवता तद्-अङ्गम् । एवं च सति नातिथिवद् देवतायागेनाराध्यते । या तु श्रुतिः—तृप्त एवैनम् इति नासौ स्वार्थे तात्पर्यवती प्रत्यक्षादि-विरोधात् । न हि काचिद् देवता विग्रहवती हविर् भुक्त्वा तृप्ता सती फलं प्रयच्छतीति प्रत्यक्षेणोपलभ्यते, प्रत्युत तद्-अभावः प्रत्यक्षेणायोग्यानुपलब्ध्या वा प्रमीयते ।

किं चाश्वमेधे—स्ते गां दंष्ट्राभ्यां मण्डूकाः काङ्क्षाम् इत्य् आदाव् अश्वावयवानां दंष्ट्रादि-द्रव्याणां हविषां भोक्तृत्वेन मण्डूकादयस् तिर्यञ्चो देवता-विशेषाः श्रूयन्ते, न च तेषांफल-दातृत्वं सम्भाव्यते । ओषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा मूलेभ्यः स्वाहा इत्य् अचेतनाम् ओषध-वनस्पति-तद्-अवयवानां देवतात्वं श्रूयते, तत् कुतो हविर् भोक्तृत्वं, कुतस्तरां तृप्ति, कुतस्तमां फल-दातृत्वं ? तस्माद् विग्रहादिमतां देवतानाम् अभावान् न देवता-प्रसादो यागस्य फल-द्वारं, किन्तु श्रूयमाण-फल-साधनत्वान्यथानुपपत्ति-कल्प्यम् अपूर्वं तद्-द्वारम् ।

अभ्युपगतेष्व् अपि देवेष्व् अपूर्वस्यैव फलं द्वारत्वम् अवश्यं वक्तव्यं मन्त्रार्थ-वादेतिहास-पुराणेषु देवतानाम् अपि तपश्-चरणानुष्ठानं ब्रह्मास्त्रादि-मन्त्र-प्रयोगेभ्यश् समाहित-विध्य्-अनुकीर्तनात् तस्माद् देवो न फल-प्रद इति सिद्धम् ।

औपनिषदास् तु ईश्वरस्यफल-दातृत्वं मन्यन्ते । तथा हि—तदीये शास्त्रे तृतीयेऽध्याये विचारितम्—

किं धर्मः फलं ददात्य् आहो स्विद् ईश्वर इति संशयः । तत्र मीमांसकोक्त-न्यायेन धर्मः फल-प्रद इति पूर्व-पक्षः । सिद्धान्तस् तु किं धर्मोऽन्यान् अधिष्ठित एव फल-प्रदः । किं वा, केनचिच् चेतनेनाधिष्ठितः ? नाद्यः, अचेतनस्य तारतम्यानभिज्ञस्य यथोचित-फल-दातृत्वायोगात् । द्वितीये तु येनाधिष्ठितः स एव फल-दातास्तु, न चैवं धर्म-वैयर्थ्यम् इति शङ्कनीयं वैषम्य-नैर्घृण्य-परिहाराय धर्मापेक्षणात् । असति तु धर्मे कांश्चिद् उत्तमं सुखं कांश्चिन् मध्यमं कांश्चिद् अधमं च प्रापयतीश्वरः कथं विषमो न भवेत् ? कथं वा विचित्रं दुःखं प्रापयन् निर्घृणो न भवेत् ? धर्माधर्मानुसारेण तत्-प्रापणे गुरु-पितृ-राजादीनाम् इव न वैषम्य-नैर्घृण्ये प्राप्नुतः । न हि दुष्ट-शिक्षां शिष्ट-परिपालनं च कुर्वतां गुर्व्-आदीनां वैषम्य-नैर्घृण्ये विद्येते । यद् उक्तं, स्ते गाम् इति मण्डूकादीनां, तिरश्चाम् औषधि-वनस्पत्य्-आदी च इति स्थावराणांफल-प्रदत्वम् अयुक्तम् इति तत् ततैवास्तु, ईश्वरस्यफल-दातृत्वे कः प्रत्यूहः ? यद् अपि तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयतीति तत्रापीन्द्रे देवतायाम् अवस्थितोऽन्तर्यामी फल-प्रदत्वेन विवक्षितः । अतः प्रविष्टः शास्ता जानानाम् इति श्रुतेः, ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठतीति स्मृतेः । तस्माद् ईश्वर-प्रसाद एव फल-द्वारम् ।

न च जैमिनीयौपनिषदयोर् मतयोर् विरोधोऽस्ति, परस्परं विवक्षा-विशेषेण तत्-समाधानात् । यथा देवदत्तस्यैव पक्तृत्वेऽपि सम्यग् अभिज्वलन-विवक्षितत्वात् काष्ठानि पचन्तीति व्यवहारः । तथा परमेश्वरस्यैव फल-प्रदातृत्वेऽपि तारतम्यापादन-निमित्ततया प्राधान्य-विवक्षितत्वात्धर्मः फल-प्रद इति व्यवहारः । किं न स्याद् अस्माद् अविरोधात् फल-प्रद ईश्वर एवेत्य् अलम् अतिप्रसङ्गेन । अतः कर्म-फल-प्रदः श्री-कृष्ण एव ।

रतिर् अत्यन्तासङ्गः । कृष्ण-भक्त्या महानुराग-मय्या कृष्ण-पालिताम् इत्य् अत एवोद्धवेन व्रज-भूमाव् अत्यनुरक्तेनापि तत्र गतं सम्प्रति मथुरा कृष्णेन पाल्यते व्रजः कथं न पाल्यत इत्य् उपालब्धुम् एवेति मुनेर् आशयः ॥६६-६७॥


कैवल्य-दीपिका : मन इति । अभिधायिनीः अभिध्यायिन्यः । तेषु नामसु । प्रह्वणं नम्रता । सा च कृतस्य पृथग्-उक्तत्वात् । श्रवणादरेणेत्य् अर्थः सिद्धम् । आदि-शब्दात् ताल-स्वरादि ॥ कर्मभिर् इति । मनसो वृत्तय इत्य् एव सिद्धे सति न इति पुनर् वचनं त्रिवर्ग-मध्येऽपि स्मरणस्यान्तरङ्गतां वक्तुम् एतान्य् एव हि शास्त्रेषु श्रवण-मनन-निदिध्यासन-शब्दैर् उच्यन्ते ॥६६-६७॥ [मु।फ। १०.१३-१४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य—कृष्ण इत्य् आख्यया प्रसिद्धस्यसाक्षाद्-भगवतः पादाम्बुजम् एवाश्रयो विषयो यासांतथा-भूताः स्युः, सन्तु वृत्तय इत्य् अनेन सदा सर्वत्रैवान्तस् तत्-परिस्फूर्तिर् अभिप्रेता । वाचो गिरो वाग्-इन्द्रियस्य च वृत्तयो वा तद् इति तस्य । एवम् अत्रापि तत्-सम्बन्धः, तस्य कृष्णस्य नाम्नां श्री-कृष्ण-दामोदर-गोविन्दादीनाम् । किं वा, गौरवेण बहुत्वम् । कृष्णेति नाम्नोऽभिधायिनीः कीर्तन-शीलाः, प्रह्वणं भक्त्या प्रणामः, आदि-शब्दात् परिचर्यादयश् च, तेषु । एवं मानस-वाचिक-कायिक-भक्ति-प्रकाराः प्रार्थैताः, विशुद्ध-वात्सल्य-भाजोऽपिश्री-व्रजेशस्य कृष्ण-पादाम्बुजाश्रयाः इत्य्-आदिषु पादादि-शब्द-प्रयोगः । प्रबलेन विश्लेष-जन्य-दैन्य-वैवश्येनैवेति ज्ञेयम् ।

यद् वा, नन्दादयोऽश्रु-लोचनाः सन्तः प्रावोचन्न् इत्य् अत्र वक्तुं प्रवृत्तस्य व्रजेशस्याश्रु-रुद्ध-कण्ठत्वे जातेऽपरे गोपाः प्रावोचन्न् इत्य् अत्रातद्गुण-संविज्ञान्प् बहुव्रीहिः, यतो मनसो वृत्तयो नः स्युः इति तस्यप्रार्थना न घटते । स्मरतां कृष्ण-वीर्याणि [भा।पु। १०.४६.२१] इत्य्-आदिना सदैव तत्-स्मरणस्योक्तत्वात् ॥६६॥

न च प्रार्थैतैर् एतैर् भक्ति-प्रकारैश् च शुभ-कर्मभिः श्री-कृष्ण-प्रेम विनान्यत् किञ्चिद् इच्छाम इत्य् आहुः—कर्मभिर् इति । ईश्वरस्य तस्यैव कर्म-फल-दातुर् इच्छया कर्मभिर् यत्र क्वापि भूमाव् ऊर्ध्व-लोके वा भ्राम्यमाणानां नोऽस्माकं मङ्गलाचरितैर् नित्य-नैमित्तिकादि-शुभ-कर्मभिः पृथग्-गवादि-दानैश् च मङ्गलाचरितान्तर्-भूतानाम् अपि दानानां पृथग् उक्तिः, गोपेन्द्रस्यपरम-वदान्यत्वात् ।

यद् वा,प्रार्थैतैर् मनो-वृत्त्य्-आदि-रूपैर् मङ्गलाचरितैर् दानैश् च तस्मिंस् तत्-तद्-अर्पणैः । बहुत्वं प्रत्येकं सर्वेषाम् एवार्पणेन तद्-बाहुल्यात् । कृष्णे रतिर् अस्तु, न कर्म-बन्धनं जन्म वैष्णवानां तु विद्यते इति पाद्मादाव् उक्तत्वाद् वैष्णवानाम् एव तावत् कर्मभिर् भ्रमणं नास्ति, तत्रापि नित्य-प्रियाणां व्रज-वासिनां, तथापिश्री-भगवद्-इच्छानुसारि-लीला-निमग्नत्वेन संसारित्वाभिमानाद् एतैस् तथोक्तम् ॥६७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुरागेण प्रावोचन्न् इत्य्-उक्तत्वान् मनस इत्य्-आदिर् अनुराग-कृतवोक्तिर् न त्व् ऐश्वर्य-ज्ञान-कृता । तस्मात् तस्यैश्वर्य-प्रधानं मतम् आलोच्य स्वात्यन्त-दुःख-व्यञ्जकेन तद्-अभ्युपगम-वादेनैव स्वाभीष्टं प्रार्थयन्ते—मनस इति द्वाभ्याम् । यदि भवद्भिर् असाव् ईश्वरत्वेनैव मन्यते, यदि चास्माकं तत् प्राप्तिर् दूरत एव, तथापितत्रैवास्माकं तद्-उचिता वृत्तयः सर्वाः स्युः, न तु तत उदासीना इत्य् अर्थः । प्रह्वणं प्रह्वाणं नम्रत्वम् । तद्-आदिषु आदि-ग्रहणात् सेवादिकम् ॥६६॥

कृष्ण ईश्वर इति । ईश्वर-रूपेऽपि कृष्ण एवेत्य् अर्थः । तच्-इच्छयेत्य् उक्त्वा ईश्वर-च्छेदयेति पृथग् ईश्वर-पदोक्तिः, स्वभावानुसारेणकर्मभिर् इति नर-लीलापन्नत्वाद् आत्मनि साधारण्य-मननेन मङ्गलाचरितैः पुण्य-कर्मभिः । दानस्य पृथग्-उक्तिस् तेषां स्वेषु प्राचुर्यात् । अथ च वाक्य-द्वयम् इदं वियोग-मय-पितृ-वात्सल्येनापि सम्भवतीति ॥६७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्ण ईश्वर इति । ईश्वर-रूपेति कृष्ण एवेत्य् अर्थः । तद्-इच्छया इत्य् अनुक्त्वा ईश्वरेच्छया इति स्वभावानुसारेण ॥६७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मात् तद्-ऐश्वर्य-प्रधानं मतम् आलोक्य स्वान्तर्-दुःख-व्यञ्जकेन तद्-अभ्युपगम-वादेनैव स्वाभीष्टं प्रार्थयते—मनस इति द्वाभ्याम् । यदि भवद्भिर् असाव् ईश्वरत्वेनैव मन्यते, यदि चास्माकं तत्-प्राप्तिर् दूरत एव तथापि तत्रैवास्माकं तद्-उचिता वृत्तयः सर्वाः स्युर् न तु तद्-उदासीना इत्य् अर्थः ॥६६॥

कृष्ण ईश्वर इतीश्वर-रूपेऽपि कृष्ण एवेत्य् अर्थः । तद्-इच्छयेत्य् अनुक्त्वेश्वरेच्छयेति पृथग्-ईश्वर-पदोक्तिः स्वभावानुसारेण ॥६७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो आयुष्मन्न् उद्धव ! आवयोर् माता-पित्रोस् तादृशेऽपि महा-रूप-गुण-शील-समुद्रेऽपि बालके महा-कठोरत्वम् एवासीद् अधुनापि वर्तत एव । तदानीं यद् बहुतर-स्नेह-लालनादिकं कृतं तत् सर्वं कृत्रिमम् एवेत्य् अधुनावगतम् । यत् तद् विरहेऽप्य् आभ्यां जीव्यते । पिता खलु जगत्य् एक स एव दशरथो यः पुत्रं रामं विदूर-गतं श्रुत्वैव प्राणांस् तत्याज । आवयोस् तु तस्मिन् पुत्रे कृष्णे प्रेम-गन्धोऽपि नास्तीत्य् अत एवाभिज्ञ-चूडामणिर् अस्मत्-पुत्रः स स्वाननुरूपौ पितरौ परित्यज्य परमेश्वरत्वेनातर्क्य-विचित्रत्वाद् अन्याव् एव देवकी-वसुदेवौ पितरौ चकार । तद् धिक् आवां त्रिजगत्य् अतिदुर्भगौ यशोदा-नन्दौ । तद् अपि कस्मिंश्चिद् अपि भावि जन्मनि तस्मिन् मतिः स्ताद् रतिः स्ताद् इति प्रार्थयते द्वाभ्याम् । मनसो वृत्तयो न स्युर् इति । महानुराग-महावर्त एवायम् । अत एव मन-आदीन्द्रियाणां प्रतिक्षणम् एव कृष्ण-रूपादि-निमग्नत्वेऽपि मनसो वृत्तयः कृष्ण-पादाम्बुजाश्रयाः स्युर् इति रतिः स्याद् इति प्रार्थनायां लिङ् । दैन्य-सञ्चारिणो महा-प्राबल्यं ज्ञापयति ।

किं च, सख-वात्सल्योज्ज्वल-प्रेमवतां स्वभाव एवायं यद् विरह-वैवश्येन विषयालम्बनस्य स्वस्मिन्न् औदासीन्य-ज्ञानेन च जनिते महा-दैन्ये स्व-स्वभाव-विच्युतिर् दास्य-भाव-ग्रहणं च । यथा अयम् अपि कृष्णे नाद्यावधि नः विश्वस् तम् औदासीन्याद् एवेति मत्वा बलदेवेन प्रायो मायास्तु मे भर्तुर् [भा।पु। १०.१३.३७] इत्य् उक्तम् ।दास्यास् ते कृपणाया मे [भा।पु। १०.३०.४०] इति श्री-वृन्दावनेश्वर्या । क्वचिद् अपि स कथां नः किङ्करीणां गृणीते [भा।पु। १०.४७.२१] इति श्री-गोपीभिः । मनसो वृत्तयो नः स्युः [भा।पु। १०.४७.६६] इति श्री-नन्दाद्यैः । न तु सुख-समयेऽपि देवकी-वसुदेवाभ्याम् इव युवां न नः सुतौ [भा।पु। १०.८५.१८] इत्य्-आदिकम् ऐश्वर्य-ज्ञान-जनित-स्व-सम्बन्ध-त्याग-पूर्वकं कदाप्य् उक्तम् ॥६६-६७॥


॥ १०.४७.६८ ॥

एवं सभाजितो गोपैः कृष्ण-भक्त्या नराधिप ।

उद्धवः पुनर् आगच्छन् मथुरां कृष्ण-पालिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । कृष्ण-भक्त्या कृष्ण-दूतत्वात् तत्रापि कृष्ण-भक्तिर् एव तेषाम् इत्य् अर्थः । लोक-दृष्ट्योग्रसेन-पालितायाम् अपि परमार्थत आह—कृष्ण-पालिताम् इति । तस्य सर्वदा तत्-पालिकत्वाद् इति भावः ॥६८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशम् इति तादृशम् अन्यद् अपि बोधयति । तच् चासकृच् छ्री-कृष्णागमनादिकं ज्ञेयम् । यद् वा, एतद् इत्य् अर्थः । तस्यापि रत्य्-अधीनत्वात् कृष्णे भक्तिः प्रेम-लक्षणतयैव हेतुना सम्यक् प्रार्थैतम् । यतो ग्पैस् तद्-एक-प्रियैर् इत्य् अर्थः । प्रेम्णो दैन्योत्पादन-शीलत्वात् तद्वतां तादृश-प्रार्थनं श्री-भागवत-प्रवरे तस्मिन् युक्तम् एवेति भावः । तच् च त्वया बुध्यत एवेत्य् आशयेन सम्बोधयति—नराधिपते ! यद् वा, कृष्ण-भक्तेत्य् अस्य परेणान्वयः । गोपानां कृष्ण-भक्त्या हेतुना तद्-विज्ञानार्थं मथुराम् आगच्छद् इत्य् अर्थः । उद्धव इति तद्-आगमनेन गृहे परमोत्सवोऽभूद् इति भावः । नन्व् एतावन्तं कालं सन्-मन्त्रादि-प्रदेन तेन विना कथं तत्रत्याः सुखम् आसतः ? तत्राह—कृष्णेन पालिताम् इति । एतेन तत्र पूर्वतोऽधिका विविध-सम्पत्तिर् अपि सूचिता ॥६८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अध्याय-द्वयोक्ति-क्रमेण सभाजितः कृष्ण-भक्त्या कृष्णासक्त्यैवेति पूर्ववत् । ननु आसाम् अहो इत्य्-आदि-रीत्या तादृश-वृन्दावनासक्तश् चेत्, कथं मथुरां पुनर् आगच्छत् ? तत्राह—कृष्ण-पालिताम् । सम्प्रति श्री-कृष्णेन सा पाल्यत इति तत्-प्रियतम-भृत्यैस् तैस् तत्रानागमनं कथम् इव कर्तुं शक्यत इति भावः ॥६८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्ण-भक्त्या कृष्णासक्त्यैव । ननु आसाम् अहो इत्य्-आदि प्रार्थना चेत्, कथं मथुरां पुनर् आगच्छत् ? तत्राह—कृष्ण-पालितां सम्प्रति श्री-कृष्णेन पाल्यत इति तत्-प्रियतम-भृत्यैस् तैस् तत्रानागमनं कथम् इव कर्तुं शक्यत इति भावः ॥६८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-भक्त्या महानुराग-मय्या । कृष्ण-पालिताम् इत्य् अत एवोद्धवेन व्रज-भूमाव् अत्यनुरक्तेनापि तत्र गतम् । सम्प्रति मथुरा कृष्णेन पाल्यते, व्रजः कथं न पाल्यते ? इत्य् उपालब्धुम् एवेति मुनेर् आशयः ॥६८॥


॥ १०.४७.६९ ॥

कृष्णाय प्रणिपत्याह भक्त्य्-उद्रेकं व्रजौकसाम् ।

वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्णादिभ्यो भक्त्य्-उद्रेकम् आह—उपायनानि चादाद् इति ॥६९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्त्य्-उद्रेकं प्रीत्याधिक्यम् । नन्दादिभिः पृथक् पृथग् दत्तानि उपायनान्य् उपाहारान् ॥६९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णाय प्रणिपत्याह—गोपीनां कथाम् इति यावत् । अन्यत् सर्वं वसुदेवादिभ्यः ॥६९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रणिपत्य साष्टाङ्गं प्रणम्येति भक्ति-स्वभावात् ।तत्रापि चिर-प्रवासागमनात् । किं वा, विज्ञापन-विशेषार्थम् आह—अकथयत् । भक्तेर् उद्रेकं विरहेण विवृद्धिम्, अतः साक्षात्-तद्-दर्शनाद् एव तेषां प्रीतिर् दुःख-शोक-निवृत्तिश् च, न तु मच्-चातुर्येण त्वत्-सन्देशैर् वेति भावः


ननु तर्हि कथम् अत्र ते नायान्ति ? तत्राह—व्रजौकसाम् इति । तत्रैव त्वत्-सन्दर्शनम् इच्छन्ति, न त्व् अत्र स्वातन्त्र्य-रहिते पद इति भावः । त्व्-अर्थे च-कारः । कृष्णाय वासुदेव-रामाभ्यां च भक्त्य्-उद्रेकम् आह—राज्ञे उग्रसेनाय तु उपायनान्यदात् । न च भक्त्य्-उद्रेकम् आह, राजत्वेन तस्य मात्सर्य-शङ्कया । यद् वा, समुच्चये च-कारः । कृष्णादिभ्यः प्रणिपत्य भक्त्य्-उद्रेकम् आह—उपायनानि च तान्य् अदात् ॥६९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रथमं तावन् निजान्तः-पुर-स्थिताय श्री-कृष्णाय प्रणिपत्य प्रणिपात-पूर्वकं तत्-कृतालिङ्गन-कुशल-प्रश्नादिकं पूर्वं वृत्तं निर्वाह्य क्रमतस् तत्-कृत-प्रश्न-विशेषम् उपलभ्य व्रजौकसां तत्-पित्रादीनां भक्त्य्-उद्रेकं प्रेमातिशयं तत्-तद्-वचन-चेष्टात्मकंयथावसरं यथा-योग्यं सर्वम् एवाह । तच् च साक्षात्-तद्-दर्शनाद् एव तेषां प्रीतिर् दुःख-शोक-निवृत्तिश् च सम्यग् भवति, न तु मच्-चातुर्येण त्वत्-सन्देशैर् वेत्य् अभिप्रायात्मकम् इति ज्ञेयम् । तद्-अनन्तरं यथावसरं पूर्ववत् यथा-क्रमं वसुदेवादिभ्यस् तेषांभक्त्य्-उद्रेकं यथा-युक्तम् आह । तद्-अनन्तरम् एव यथावसरं तस्मै तेभ्यश् चोपायनान्य् अप्य् अदाद् इति विवेचनीयम् ॥

सोऽयम् उद्धव-सन्देशः श्री-रामस्य व्रजागमः । > दन्तवक्र-वधस्यान्त्या टिप्पणी च पुरेक्ष्यताम् ॥ > व्रजैक-जीवैः शीघ्रं व्रजे कृष्ण-गतीप्सुभिः । > तत्र ह्य् उक्तं गवेन्द्रस्य व्रजागमन-मङ्गलम् ॥ > अन्तर्-हृत्य व्रजौकोभिर् नित्य-क्रीडासु शर्म च । > पश्चद् यथेष्टम् अन्यच् च दृश्यतां तस्य पुष्टये ॥

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्ध् पूर्वार्धे

श्रीमज्-जीव-गोस्वामि-कृत-वैष्णव-तोषिण्यां

सप्तचत्वारिंशोऽध्यायः ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : कृष्णायेत्य् आदि । प्रणिपत्याहेति—त्वत्-प्रसादेन तादृशो भाग्योदयो जात इत्य् औत्सुक्यात् प्रणिपातः । आहेत्य् अस्य कर्म-पदं गोपीनां रहस्यम् इति मन्तव्यम् । वसुदेवादिभ्य उपायनान्यदात् । च-कारात् कृष्णाय च व्रजेश्वर्या व्रजेश्वरेण गोपैश् च यद् यद् दत्तम् । तत् सर्वं ददाव् इत्य् अर्थः ॥६९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजौकसां भक्त्य्-उद्रेकं मथुरौकोभ्यः सकाशाद् इत्य् अर्थस् तेन भोः प्रभो ! कृष्ण ! त्वं भक्त्-वशगो भक्ति-प्राप्यो भक्ति-दृश्य इति सर्व-शास्त्रार्थस् तेषां च ॥६९॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्त-चत्वारिंशोऽयं दशमेऽजनि सङ्गतः ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे उद्धव-प्रतियानेन सप्त-चत्वारिंशोऽध्यायः ।

॥४७॥

(१०.४८)


  1. एव निखिलात्मनि ↩︎

  2. अतोऽनन्तस्य कथासु रसो रागो यस्य, तस्य ब्रह्म-जन्मभिर् विप्र-सम्बन्धिभिः शौक्ल-सावित्र-याज्ञिकैस् त्रिभिर् जन्मभिः किं कोऽतिशयः ? यत्र तत्र जातः, स एव सर्वोत्तम इत्य् अर्थः । ↩︎

  3. -तात्पर्यान्त- ↩︎

  4. वल्लभीनाम् ↩︎

  5. यथोक्तम् अस्ति तद् एव। ↩︎