स्व-विरहार्त-गोप-गोपीनां सान्त्वनाय भगवतोद्धवस्य प्रस्थापनम्, नन्दोद्धव-संवादश् च ।
॥ १०.४६.१ ॥
श्री-शुक उवाच—
वृष्णीनां प्रवरो1 मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षट्-चत्वारिंशके घोषम् उद्धवं प्रेष्य तद्-गिरा ।
यशोदा-नन्दयोश् चक्रे कृष्णः शोकापनोदनम् ॥*॥
काम-चारं द्विजातिः सन् परित्यज्यातिसंयतः ।
गुरोर् ज्ञानम् अनुज्ञाप्य सख्या गोपीर् उपादिशत् ॥**॥
गोपीनां सान्त्वनम् अतिरहस्यं सन् मन्त्रि-साध्यम् इत्य् उद्धवं विशिनष्टि—वृष्णीनाम् इति । बुद्धि-सत्तमः बुद्ध्यातिश्रेष्ठः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-गिरा उद्धव-वाचा ॥*॥ काम-चारं यथेच्छाचरणम् । द्विजातिः कृतापनयनः । अतिसंयतः जितेन्द्रियः । सख्या उद्धवेन ॥**॥
भगवद्-वशीकरणे भक्तिर् एव मुख्येति वक्तुं हरेर् गोपीष्व् अनुकमित्वम् आह—तद्-अर्थं सान्त्वनार्थम् । बुद्ध्या सत्तमः पण्डित-शिरोमणिः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
आर्तैक-शरणं कृष्णम् आर्तान् व्रज-जनांश् च तान् ।
तं चार्ताश्वासकं भक्तम् आर्त्या वन्दे दुराशया ॥
एवम् आत्मनोऽवश्य-कृत्य-समाप्त्या तथा आयास्ये [भा।पु। १०.४१.१७] इति, द्रष्टुम् एष्यामः [भा।पु। १०.४७.२३] इत्य्-आदि-वाक्य-सत्यतापेक्षया च व्रजे जिगमिषन्न् अपि पाण्डवाश्वासन-जरासन्ध-निर्जयादिना सुहृदां हितार्थम् एव पुरे वसन् आदौ स्व-तुल्येन प्रिय-सखेन व्रज-जनान् सान्त्वयामासेति क्रम-प्राप्तं वक्तुम् आरभतेऽध्याय-द्वयेन । वृष्णीनां विविध-भावानाम् अपि सर्वेषाम् एव यादवानां सम्मत अत्यादृत इति परम-चातुर्यम् अभिप्रेतम् । तेन च बाल-वृद्ध-तरुणादीनां प्रायः प्रत्येकं पृथग्-भावानां विचित्र-रसवताम् अपि व्रज-जनानां सान्त्वने सामर्थ्यम् ।
किं च, मन्त्री, गुप्त-युक्ति-प्रदो राजामात्य-विशेषः । यद् वा, वृष्णीनां सम्मतत्वेन मन्त्रित्वम् आयातम् एव । ततश् च स्वभावेनैव सिद्ध-मन्त्र इत्य् अर्थः । तेन सर्व-वशी-कारित्वं सूचितम् ।
किं च, कृष्णस्य सर्व-चित्ताकर्षक-गुणस्य दयितः सखा प्रिय-सखा इत्य् अर्थः । इति तस्यापि तादृशत्वम् अभिप्रेतम्, तथा समवयस्कतादिकं परम-विश्वासास्पदत्वादिकं च । तथात्म-गम्ये स्थाने प्रस्थापन-योग्यत्वं च । यद् वा, दयितो यथानुगृहीत-कनिष्ठ-भ्राता वा सखा च सहचर इति सदा सङ्गित्वादिना श्री-कृष्णस्य भावाभिज्ञतादिकम् ।
किं च, बृहस्पतेः साक्षाद् एव शिष्यः, न तु शिष्यादि-द्वाराध्यापनाद् इत्य् अर्थः । इति सर्व-शास्त्र-तत्त्वज्ञत्वं परम-वाग्मित्वं च ।
किं च, बुद्धि-सत्तम इति महा-प्रतिभादिमत्त्वम् । एवं श्री-भगवत एव षड्गुणा उक्ताः । उद्धव-नामा श्री-वसुदेव-भ्रातृ-देवभागस्य पुत्रः, श्लेषेण साक्षाद् उद्धवो मूर्तिमान् उत्सव इत्य् अर्थः । विशेषणानाम् एषाम् उत्तरोत्तरस्मिन् हेतु-हेतुमत्तोह्या, फलं चाग्रे तद्-वचनादौ पृथक् पृथग् व्यक्तं भावि ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
आर्तैक-शरणं कृष्णम् आर्तान् व्रज-जनांश् च तान् ।
तं चार्ताश्वासकं भक्तम् आर्त्या वन्दे दुराशया ॥
एवम् आत्मनः प्राथमिकावश्य-समाप्त्या तथा आयास्ये [भा।पु। १०.३९.३५] इति, द्रष्टुम् एष्याम [भा।पु। १०.४५.१३] इति स्व-वाक्य-व्यभिचार-तर्कतस् तेषाम् आर्ति-विशेष-शङ्कया च व्रजं गन्तुम् अर्होऽपि यत् श्री-भगवान् नाजगाम, तत्र नन्द-यशोदादि-प्रेम-बुद्धतया पुनस् तद्-आगमनाभाव-महा-शङ्कमानानां श्री-वसुदेव-देवक्य्-आदीनां गुरुत्वेनालङ्घनीय-वाक्यानाम् अननुज्ञैव कारणं लक्ष्यते, ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखं [भा।पु। १०.४५.१३] इत्य्-आद्य्-उक्तत्वात् । श्री-व्रज-राजादिभिश् च तद्-विध-गुरु-जनानाम् इच्छा-रक्षाम् अप्य् उल्लङ्घ्य तद्-आगमनस्य तत्र मङ्गलातिक्रम-शङ्कया स्फुटम् अप्रार्थैतत्वात् जरासद्न्हादि-महा-शत्रुभ्यो रक्षा चास्यास्मद्-व्रजे न स्यात्, किं तु दुर्गादि-सम्पत्तिमत्यां पुर्याम् एव स्याद् इति स्वयम् अपि विचारितत्वाच् च । अतः श्री-वसुदेवादिभ्यो गोपनानुसारेणैव उद्धवं प्रति भक्तम् एकान्तिनं क्वचिद् इति वक्ष्यते—
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया > गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः [भा।पु। १०.८२.४१]
इति वक्ष्यमाणानुसारेण जरासन्धादि-दुर्जन-निजयादि-कृत्य-शेषोऽपि कारणान्तरवत् । अन्यथा तैर् यदूनां व्रज-जनानाम् अपि महान् उपद्रवः स्यात् । अत औदासीन्य-व्यञ्जनाय श्री-नन्दादीन् स्व-निकटेऽपि नाजुहाव । किं च, युगपद् उभयत्र पितृत्वादि-व्यवहारस्याभिरुचित-लीलावेशादीनां समञ्जसायां दुर्घटता स्यात् निज-प्रेयसीनां चानयनेऽनानयने चासमञ्जसत्वम् इति । अत एव पूर्वम् अपि वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.१३] इत्य् एवोवाच । न त्व् आह्वयिष्याम इति । अतस् तादृशान् अपि वो वयम् एव द्रष्टुम् एष्यामः, न तु यूयम् अत्रागच्छतेति व्यञ्जनाम् अभिप्रेत्यैव तयोर् दिदृक्षया स्वयं नन्दादयोऽतिनिरूढा अपि व्रजान् नागताः । तत्-तद्-उपद्रवापातात् पुरे व्रजे च युगपत् प्रकटा स्थितिश् च न स्यात् । तत्-ज्ञाने श्री-नन्दादीनाम् अस्मदीयत्वे ज्ञान-हान्या बन्धु-भाव-हानिश् च स्यात्, यथैव वक्ष्यते—यथा दूर-चरे प्रेष्ठे [भा।पु। १०.४७.५३] इत्य्-आदि । तस्मात् तथा स्थितिम् अपि न चकार । अप्रकटा स्थितिस् तु तस्य सर्वदास्त्य् एव तथैव प्रतिपादयिष्यते—मा शोचतं महा-भागौ [भा।पु। १०.४०.१८] इत्य् आदौ । भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् [भा।पु। १०.४७.२९] इत्य् आदौ च किन्त्व् असौ प्रकट-लीलाविर्भाविनां तेषाम् अनुभव-गोचरो न भवति प्रकट-लीलायाम् अपि मध्ये यत् तस्य व्रज-स्थं कञ्चित् कञ्चित् प्रति गुप्तम् आगमनं तद् अप्य् उत्कण्ठा-प्रधानानां स्फुरण-भ्रमकरत्वाद् विश्वासाय न भवति । तस्माद् दन्तवक्त्र-वधान्ते वर्णयिष्यमाणं श्री-भागवत-मते च व्यञ्जयिष्यमाणं यावत् तत्र निज-गमनं सम्पद्यते तावत् तेषां यथा केनापि व्याजोपदेशेन तत्-तद्-विश्वासास्पदं स्यान् महाराजत्व-वैभव-श्रवणं स्यात् तथा समाधातुं स्वयम् अगत्वा स्वस्यागमने केवल-श्री-राम-गमनं च दुःख-करं मत्वा स्व-तुल्येन श्रीमद्-उद्धव-वाक्येन प्रिय-सखेन तादृशं सन्दिश्य श्री-व्रज-वासिन सान्त्वया मासेति क्रम-प्राप्तां लीलां वक्तुम् आरभते अध्याय-द्वयेन—वृष्णीनाम् इत्य्-आदि ।
वृष्णीनाम् असङ्ख्यानां ऊर्ध्वोर्ध्व-महानुभावानां विविध-भावानाम् अपि सर्वेषाम् एव यादवानां सम्मतस् तादृश-वचनाचरणः । "प्रवर" इति पाठेऽपि तथैवाभिप्रायः । इति परम-माहात्म्यं परम-सामञ्जस्यम् अभिप्रेतं, तेन च व्रज-जनानाम् अपि तादृशां सान्त्वने सामर्थ्यम् । किं च, मन्त्री गुप्त-युक्ति-प्रदोऽमात्य-विशेष इति विश्वासास्पदत्वेन युक्ति-नैपुण्येन च तत्-सामर्थ्यं, तेन च पूर्व-लिखित-युक्तिर् अपि श्री-भगवता, तस्मिन् स्वयम् एव कदाचिद् व्यञ्जितास्तीति गम्यते । न केवलम् एतावत् किन्तु कृष्णस्य च दयितो दया-विशेष-विषय इत्य् अनिर्वचनीय-गुणत्वं तेनात्मीयतया स्वीकृतत्वं चोक्त्वा आत्म-गम्य-स्थाने प्रस्थापने श्री-गोपिकास्व् अपि सन्देशे योग्यत्वं च ।
एवम् अन्तरङ्ग-लोक-दृष्ट्या यथोत्तर-श्रेष्ठेन तन्-महिमानम् उक्त्वा, तद्-योग्यता-विशिष्टं तथा सखा असङ्कोच-प्रेम्णा दत्त-सख्य-पदवीकोऽपीति । श्री-कृष्णेनापि गुण-रूप-वय-आदौ साम्यं सर्व-यादवेभ्यः, तस्य परमासङ्कोच-विस्रम्भास्पदत्वं चोक्त्वा, बहिरङ्ग-लोक-दृष्ट्याप्य् आह—बृहस्पतेः साक्षाद् एव शिष्यः, न तु शिष्यादि-द्वाराध्यापनाद् इत्य् अर्थः । तच् च नीति-शास्त्रम् आरभ्य श्री-भागवत-पर्यन्तस्येति ज्ञेयम् ।
बृहस्पतेर् अपि तत्र सङ्कर्षण-सम्प्रदायान्तः-पाताद् इति च परम-वाग्मित्वम् उक्त्वा, तेषां श्री-कृष्ण-जित्वर-शुद्ध-प्रेम-वाक्यानां प्रत्युत्तरे तस्य तु यत् किञ्चित् सामर्थ्यं व्यञ्जितम् । सर्वत्र हेतुः—बुद्धि-सत्तम इति । एवं श्री-भगवत इव षड्-गुणा दर्शिताः ।
एतद् एव च मनसि विचारितं श्री-भगवता नोद्धवोऽण्व् अपि मन्-न्यून [भा।पु। ३.४.३१] इति **उद्धव-**नामा श्री-वसुदेवस्य भ्रातुर् देव-भागस्य पुत्रः तत्रास्तीति शेषः । यद्यपि हरि-वंशे—
उद्धवो देवभागस्य महाभागः सुतोऽभवत् । > पण्डितानां परं प्राहुर् देवश्रव-समुद्भवम् ॥ [ह।वं। १.३४.३१] > इति ।
द्वयोर् अपि भ्रात्रोर् उद्धव-नामानौ पुत्रौ कथ्येते, तथाप्य् अयं देवभाग-सुत एव ज्ञेयः। महाभागत्वं खलु तादृश-श्री-कृष्ण-कृपा-योग्यत्वं, न तु पण्डित-मात्रत्वं तद् एवम् एव कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दन [भा।पु। १०.४६.१६] इति स एव व्रजेश्वरेण तथा सम्बोधयिष्यते श्लेषेण साक्षाद् उद्धवः मूर्तिमान् उत्सव इति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् आत्मनः प्राथमिकावश्य-कृत्यासमाप्त्या तथा आयास्ये [भा।पु। १०.३९.३५] इति, द्रष्टुम् एष्याम [भा।पु। १०.४५.१३] इति स्व-वाक्य-व्यभिचार-तर्कतः, तेषाम् आर्ति-विशेषाशङ्कया च व्रजं गन्तु-मना अपि यच् छ्री-भगवान्न् अजगाम तत्र श्री-नन्द-यशोदादि-प्रेम-बहुतरा पुनस् तद्-आगमनाभावम् आशङ्कमानानां श्री-वसुदेव-देवक्य्-आदीनां गुरुत्वेनालङ्घनीय-व्यक्यानाम् अनुज्ञैव कारणं लक्ष्यते । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.१३] इत्य्-उक्तत्वात् । अतः श्री-वसुदेवादिभ्यो गोपनानुसारेणैव उद्धवं प्रति भक्तम् एकान्तिनं क्वचिद् [भा।पु। १०.४६.२] इति वक्ष्यते ।
ज्ञान-हान्या बन्धु-भाव-हानिश् च स्यात् । पुत्रादि-रूपस्य स्वस्य महाराजता-श्रवणेन तूत्कण्ठात्यय-प्रेमानन्द-वृद्धिः स्यात्, यथैव वक्ष्यते—यथा दूर-चरे प्रेष्ठे [भा।पु। १०.४७.३५] इत्य्-आदि । तस्मात् तथा स्थितिम् अपि न चकार । अप्रकटा स्थितिस् तु तस्य तत्र सर्वदास्त्य् एव। तथैव प्रतिपादयिष्यते--मा शोचतं महा-भागौ [भा।पु। १०.४०.१८] इत्य्-आदौ, भवतीनां वियोगो मे नहि सर्वात्मना क्वचित् [भा।पु। १०.४७.२९] इत्य्-आदौ च । किन्त्व् असौ प्रकट-लीलाविर्भाविनां तेषाम् अनुभव-गोचरो न भवति । तस्माद् दन्तवक्त्र-वधान्ते पाद्मोत्तर-खण्ड-वर्ण्यमानं, श्री-भागवत-मते च वर्णयिष्यमाणं यावत् तत्र निज-गमनं सम्पद्यते, तावत् तेषां यथा केनापि व्याजोपदेशेनाशाव् अनुभव-गोचरः स्यान् महाराजत्वे वैभव-श्रवणं च स्यात्, तथा समाधातुं स्वयम् अगस्वा स्वस्यागमने केवलं श्री-राम-गमनं च दुःख-करं मत्वा स्व-तुल्येन श्रीमद्-उद्धवाख्येन प्रेयस्त्वेन तादृशं सन्दिश्य श्री-व्रज-वासिनः सान्त्वयामासेति क्रम-प्राप्तां लीलां वक्तुम् आरभते अध्याय-द्वयेन—वृष्णीनाम् इति ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षट्चत्वारिंशके गोष्ठं गत उद्धव उद्धवम् ।
ददर्शास्येशयोः कृष्ण-विरहाद् अत्यनुद्धवम् ॥
स्व-विच्छेदवतां व्रज-स्थानां दुःखम् अनुस्मृत्य, तेन स्वयं व्याकुलस् तद्-दुःख-हरं मत्-सन्देशं प्रापयितुं तत्-तत्-प्रेम्णां च सर्वोत्कर्षं ख्यापयितुम् अत्र पुर्या कोऽनुरूपो यः खलु व्रज-नगर-स्थः तत्र-स्थानां तत्-तत्-प्रेम्णां च माधुर्य-सुधा-सिन्धौ खेलितुं कृत-परः-सहस्र-तपस्कोऽस्तीति परामृशति भगवत्य् अकस्मात् तत्रैवागतम् उद्धवं तत्-कृत्य-साधकं ज्ञापयितुं विशिनष्टि । वृष्णीनां सम्मतः यदु-वंश्यैः सर्वैर् एव प्रमाणीकृत-वचनाचरणादिर् इत्य् अर्थः । तेन व्रजाद् आगत्य यद् अयं तत्-तत्-प्रेमाणम् अनुभूय श्री-यशोदानन्दयोः गोपानां गोपीनां प्रेम्णां सौभाग्योत्कर्षान् अत्र तेभ्योऽपि परः-सहस्रान् वक्ष्यते, तत्र सर्वेऽपि वृष्णयो विश्वासं प्राप्स्यन्ति । येऽमी परमेश्वर-पुत्रकत्वेन देवकी-वसुदेवयोर् एव सौभाग्यस्य प्रेम्णश् च सर्वोत्कर्षं तत्-सम्बन्धित्वेन स्वेषाम् एव च तं मन्यन्त इति भावः ।
मन्त्री इति व्रजस्थानां सान्त्वनं यया मन्त्रणया सम्भवेत्, तद्-अभिज्ञ इति भावः । कृष्णस्य दयितो वल्लभ इति, अत एव व्रज-प्रेम-सुधा-पान-योग्यता इति भावः । सखा इति व्रज-भूमौ सुबलस्येवास्याप्य् उज्ज्वल-रस-संलाप-वावदूकत्वं हृद्य्-उत्पन्नम् एवाग्रतस् त्वद्-अधिकम् एवोत्पत्स्यते, तथा नोद्धवोऽण्व् अपि मन्-न्यून [भा।पु। ३.४.३१] इति तृतीयोक्तेश् च कृष्ण-तुल्यत्वात् कृष्ण-प्रतिमूर्तिना अनेन कृष्ण-दूत्यं साधु सम्पत्स्यते इति भावः ।
बृहस्पतेः साक्षात् शिष्यः इत्य् अस्य बुद्धेर् इति तैक्ष्ण्यं दृष्ट्वा स्वयम् एव बृहस्पतिर् इमं सर्व-शास्त्राण्य् अध्यापयामास, किन्त्व् एकस्मिन् शास्त्रे बृहस्पतेर् अप्य् अगम्येऽस्य न्यूनतेत्य् अतस् तत् सर्व-मुकुटोत्तमं कृष्ण-वशीकारकं प्रेम-शास्त्रम् । एनं कृष्णोऽपि रहसि पट्ट-महिषी-सभायां तच्-छास्त्रम् एव वाचयिष्यति । तद् एव श्रुत्वा,
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । > गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा।पु। १०.८३.४३]
इत्य् उक्तिमत्यः पट्ट-महिष्योऽप्य् अभिलषिष्यन्तीति भावः । उद्धवोऽयं वसुदेव-भ्रातुर् देवभागस्य पुत्रः । तद् उक्तं हरि-वंशे—उद्धवो देवभागस्य महाभागः सुतोऽभवत् [ह।वं। १.३४.३१] इत्य् अत एव कच्चिद् अङ्ग महाभाग [भा।पु। १०.४६.१६] इति श्री-नन्देन सम्बोधयिष्यते ।श्लेषेण साक्षाद् उद्धवो मूर्तिमान् उत्सव इतीमं दृष्ट्वा व्रजस्था उत्सवं प्राप्स्यन्तीति भावः ॥१॥
॥ १०.४६.२ ॥
तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् उद्धवम् । क्वचिद् रहसि ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्तं, तत्रापि एकान्तिनं, तत्रापि प्रेष्ठं प्रेयांसम् । अतस् त्वयि किम् अपि न गोप्यम् इति भावः ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्वचिद् व्रज-स्मृति-विशेष-जनके कस्मिंश्चित् समये स्थाने वा तम् उद्धवम् आह । वक्ष्यमाणस्य पितृभ्याम् अपि गोपीनां विशेषस्य परापर-रहस्यस्य प्रकाशन-योग्यत्वेन तं पूर्वतो विशिष्टतया पुनर् विशिनष्टि—प्रेष्ठं प्रियतमं, ततो भक्तम् आबाल्याद् एव सेवा-रतं—
यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः । > तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥ [भा।पु। > ३.२.२]
इत्य्-आदिना तृतीय-स्कन्धादौ तद् उक्तम् एव । तत्र च एकान्तिनंन् तद्-एकापेक्षकम् इत्य् अर्थः । यद् वा, एकान्तिनं भक्तं तद्-एक-भक्ति-निष्ठम् इत्य् अर्थः । तथा श्री-वैष्णवैर् उक्तम्—
विहाय पितृ-देवादीन् परिनिष्ठाङ्गतो हरौ । > तद्-गाढ-प्रेमभिः पूर्ण एकान्तीति निगद्यते ॥ इति ।
वक्ष्यमाणस्य तादृशत्वे हेतुः—भगवान् स्वभावत एव परम-कारुणिक इत्य् अर्थः । विशेषतश् च प्रपन्नादीनां भक्तानाम् आर्ति-हरः । किं वा, तवास्मीति याचनादिना शरणागतानाम् अपि, किं पुनस् तद्-एक-जीवनानां व्रज-जनानाम् आर्ति-हरः । यतो हरिः । अत एव तस्य पाणिं स्व-पाणिना गृहीत्वा तच् च निजेष्ट-योजने तस्यानुरागोत्पादनार्थम् । किं वा, परम-गोप्यत्वेन शनैर् निकटे वाच्यत्वात् । किं वा, तद्-उक्ति-प्रवृत्त्या प्रेम-भरोदय-स्वभावात् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य श्री-कृष्ण-दयितत्वादौ हेतुं तत्र तत्-परतां च विशेषणैर् दर्शयन् तादृश-तद्-वर्णनस्योद्देश्यम् आह—तम् इति । प्रेष्ठं बाल्यम् आरभ्यैवातिशयेन प्रीति-कर्तारं भक्तं परमादरेण सेवा-तत्परं च—
यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः । > तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥ [भा।पु। ३.२.२] > इत्य्-आदि-तृतीयाद्य्-उक्तेः ।
अत एव एकान्तिनं तद्-एकापेक्षकं, यथोक्तं श्री-गजेन्द्रेण—
एकान्तिनो यस्य न कञ्चनार्थं > वाञ्छन्ति ये वै भगवत्-प्रपन्नाः । > अत्यद्भुतं तच्-चरितं सुमङ्गलं > गायन्त आनन्द-समुद्र-मग्नाः ॥ [भा।पु। ८.३.२०]
श्री-वैष्णवैर् अपि—
विहाय पितृ-देवादीन् परिनिष्ठाङ्गतो हरौ । > तद्-गाढ-प्रेमभिः पूर्ण एकान्तीति निगद्यते ॥ इति ।
अत्र सर्व-यादवापेक्षाम् अप्य् अतीत्य तस्यैकान्तित्वं ज्ञेयं तथा तथा-भूतं तम् आह—किम्-अर्थं प्रपन्नानां तवास्मीति सकृद् याचमानानाम् अपि, किम् उत तद्-एक-जीवनानां व्रज-जनानां य आर्तिं हरति, सः । तेषाम् आर्तिं हर्तुम् इत्य् अर्थः । तस्य तत्-तज्-ज्ञान-तादृशानुग्रहादौ योग्यं पदं भगवान् इति सार्वज्ञ्य-दयादि-गुणानां मर्यादावारान् निधिर् इत्य् अर्थः ।
नन्व् अपरिहार्य-नाना-स्निग्ध-जन-वेष्टितेन श्री-भगवता तादृश-सन्देशो दुष्करः ? तत्राह—क्वचित् कथञ्चिल् लब्धे तद्-एक-द्वितीये स्थाने हन्त तादृश-सन्देशं कया मुद्रयोवाच । तत्राह—गृहीत्वा इति । तच् च निजेष्ट-प्रयोजने तस्यानुरागोत्पादनेच्छातः परम-गोप्यत्वेन शनैर् निकटे विवक्षातः तद्-उक्ति-प्रवृत्त्या प्रेम-भरोदय-स्वभावाच् च ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तम् आह भगवान् इत्य्-आदि । भक्तं तत्रापि प्रेष्ठं प्रेयांसम् । तत्रापि एकान्तिनम् । क्वचित् रहसि पाणिना पाणिं गृहीत्वेति प्रणयाधिक्य-प्रकटनम् । प्रपन्नार्ति-हर इति हेतुमद् विशेषणम् ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तं तत्राप्य् एकान्तिनं,
विहाय पितृ-देवादीन् परिनिष्ठाङ्गतो हरौ । > तद्-गाढ-प्रेमभिः पूर्ण एकान्तीति निगद्यते ॥ इति ।
इति तल्-लक्षणम्, तत्रापि प्रेष्ठं तेष्व् अतिप्रीति-विषयं क्वचित् विविक्ते गृहीत्वा पाणिना पाणिम् इति स्व-वैदग्ध्य-द्योतना । प्रपन्न-मात्रस्याप्य् आर्ति-हरः, किम् उत प्रेमवच्-छिरोमणीनां व्रज-स्थानाम् इति भावः ॥२॥
॥ १०.४६.३ ॥
गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मत्-सन्देशैर् मद्-आज्ञा-वचनैः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृहद्-भागवतामृत २.७.१३९] एवं साक्षाद् एकेन साक्षाद् उक्तेर् अपि परोक्षोक्तेर् दार्ढ्य-विशेषापेक्षया महा-भागवतं निज-प्रियतमं श्रीमद्-उद्धवं परोक्षे चाष्टभिः । तत्र श्री-गोपिका-विषयकासाधारण-प्रसाद-सम्पत्तये तद्-अनुरूपं व्यवहरन् भगवान् स्वयं व्रजे न गत्वा तत्रत्यान् अपार-विरहानल-दग्धान् आत्म-सन्दर्शनार्थं तद्-रक्षण-सन्देशामृत-सेकेन2 सन्तर्पयितुं निज-प्रिय-सेवक-वरं महा-मन्त्रिणम् उद्धवं दूतत्वेन प्रेषयन्न् इदम् आदिशत्—गच्छोद्धव [भा।पु। १०.४६.३] इति चतुर्भिः । तत्रार्धेन3 लोक-व्यवहारापेक्षया प्रथमं माता-पित्रोः सन्तोषणम् आदिश्य पश्चाद् गोपी-सान्त्वनम् उद्दिशति4 । तथा हि—हे उद्धव-संज्ञ ! व्रजं गच्छ । श्लेषेण जगताम् उत्सव-रूप त्वयि गते तत्र महान् उत्सवो भवितेत्य् अर्थः ।
नः अस्माकम् इति नन्द-यशोदा-पुत्रत्वेनात्मानं बहु-मन्वानो बहुत्वेन निर्दिशति । यद् वा, मम बलरामस्यास्मत्-सम्बन्धेन तव च तादृशाम् अन्येषाम् अपीत्य् एवम् अभिप्रायेण बहुत्वम् । अतः पुत्रवत् परम-भक्ति-विनयादिना मच्-छोक-सन्तप्तयोः [पित्रोः] प्रीतिं हर्षं निज-चातुर्या आवह सातत्येन सम्पादय ।
हे सौम्य ! इति निज-सहज-कोमल-रीत्यैवेति भावः । यद् वा, हे सोम-तुल्य तव सन्दर्शनाद् एव तौ परमानन्दं प्राप्स्येत इत्य् उद्धव-प्रोत्साहनम् ।
गोपीनां तु मम वियोगेन य आधिः, तं च मत्-सन्देशैर् मदीय-वाचिकैर् एव, न तु निज-चातुर्यादिना । यद् वा, मदीयैर् एवासाधारणैः स-सङ्केतैः प्रतीति-जनकैः सन्देशैः । एवं तयोः प्रीतिम् अपि कथञ्चित् कर्तुं शक्ष्यसि, आसां चाधि-विमोचन-मात्रं, तच् च मत्-सन्देशैर् एवेति ताभ्यां सकाशाद् अप्य् आसां विरह-दुःखाधिक्योक्त्या प्रेम-महिमानं सूचयति । एतच् च पूर्वम् अप्य् उक्तम् अस्ति ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न इति बहुत्वं तत्-पितृकत्वेनात्मनो बहु-मानात्। किं वा, मत्-पितृत्वेन भवादृशाम् अपि तौ पितराव् इत्य् अभिप्रायेणेति तयोस् तस्य स्नेहं वर्धयति । पित्रोर् मद्-विच्छेद-दुःखितयोः प्रीतिं सुखम् आ सम्यग् वहस्व, स्व-चातुर्येण बलाद् इव प्रापय, मद् विना तयोः प्रीतेर् दुःसाध्यत्वात् । यद् वा, प्रवाह-न्यायेन कुरु यथा त्वत्-पश्चाद् अपि तयोः प्रीतिस् तिष्ठेद् एवेत्य् अर्थः ।
ननु तत्र मम वराकस्य का शक्तिः ? इत्य् आशङ्क्य सम्बोधयति—हे उद्धव ! इति । पूर्वोक्त-सद्-गुण-गण-निधित्वं सूचयति । उद्धव-शब्द-श्लेषार्थ उक्त एव । किं च, सौम्य ! हे शान्त-मूर्ते ! मनोज्ञ ! इति वा । अस्तु तावत् त्वच्-चातुर्यं त्वद्-दर्शन-मात्रेण च तयोः प्रीतिर् भवितेति भावः । इदं तत्-प्रोत्साहनं, गोपीनां तु मद्-वियोगेन य आधिः, तं विशेषेण मोचय दृढ-बन्धनवद् धृदि संलग्नम् अपुनः-स्पर्शतया त्याजय ।
एवम् आधि-विमोचन-मात्रम् एव तासां, न तु प्रीतिं कर्तुं शक्ष्यसीत्य् अर्थः । तच् च मत्-सन्देशैर् बहुभिर् एव, न च त्वद्-वाक्-चातुर्यादिना द्वि-त्रैर् वा । भो देव्यः ! कृष्णेनेदम् उक्तम् एवं चोक्तम् इत्य् एवं मुहुर् मत्-सन्देशत्वेन सद्-युक्ति-पूर्वक-मदीय-भाव-व्यञ्जनाद् आत्मनि मद्-अपेक्षा-मननेन तासां किञ्चिद् आश्वास-सम्भवात् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न इति बहुत्वं तत्-पितृकत्वेनात्मनो बहु-मानात् । किं वा, मत्-पितृत्वेन भवादृशाम् अपि तौ पितराव् इत्य् अभिप्रायेण इति तयोस् तस्य स्नेहं वर्धयति । "नौ" इति क्वचित् पाठः कृष्ण-रामयोर् इत्य् अभिप्रायेण पित्रोर् मद्-विच्छेद-दुःखितयोः प्रीतिं सुखम् आ सम्यग् वहस्व चातुर्येण बलाद् इव प्रापय, मद्-विना तयोः प्रीतेर् दुःसाध्यत्वात् । यद् वा, प्रवाह-न्यायेन कुरु यथा त्वत्-पश्चाद् अपि तयोः प्रीतिस् तिष्ठेद् एवेत्य् अर्थः ।
ननु तत्र मम वराकस्य का शक्तिः ? इत्य् आशङ्क्य सम्बोधयति—हे उद्धव ! इति । उद्धव एव त्वम् असीति पूर्वोक्त-सद्-गुण-गण-निधित्वं सूचयति । उद्धव-शब्दस्य श्लेषार्थश् चोक्त एव । किं च, सौम्य ! हे शान्त-मूर्ते ! मनोज्ञ ! इति वा । अस्तु तावत् त्वच्-चातुर्यं त्वद्-दर्शन-मात्रेण च तयोः प्रीतिर् भवितेति भावः । इदं प्रोत्साहनार्थं गोपीनां तु मद्-वियोगेन आधिस् त्वं तं विशेषेण मोचय दृढ-बन्धनवद् धृदि संलग्नम् अपुनः-स्पर्शतया एवम् आधि-विमोचन-मात्रम् एव त्याजय तासां, न तु प्रीतिं कर्तुं शक्ष्यसीत्य् अर्थः । तच् च मत्-सन्देशैर् बहुभिर् एव, न तु त्वद्-वाक्-चातुर्यादिना नापि द्वि-त्रैर् एव ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आ सम्यक् प्रापय विमोचय इत्य् अनेन यद् वियोगाधिस् तासां हृदि दृढेन ग्रन्थिना निबद्ध इति ज्ञापयति । तद्-विमोचनम् अपि मम सन्देशैर् एव, न तु तद्-वाक्-चातुर्यादिभिः । सन्देशैर् बहुभिर् एव, न तु सन्देशेनैकेन ज्ञान-योगोपदेशेन, न तु द्वाभ्यां तद्-अनन्तरं वक्तव्याभ्यां सन्देशाभ्यां मत्-प्राप्त्य्-उपायाश्वासनाभ्यां तत्-प्रेम-बाडवाग्नि-ज्वालया भस्मीभावित्वात् । किन्तु सर्वान्ते प्रकाशितैस् ताभ्योऽन्यत्र ज्ञापनानर्हैः सन्देशै रहस्य-व्यञ्जकैर् बहुभिर् एव ॥३॥
॥ १०.४६.४ ॥
ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ।
माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ।5
ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपीनां विशेषतः सन्देशे कारणम् आह—ता इति । मय्य् एव सङ्कल्पात्मकं मनो यासां ताः । अहम् एव प्राणो यासां ताः । मद्-अर्थे त्यक्ता दैहिकाः पति-पुत्रादयो याभिस् ताः । ततः किं ? अत आह—ये त्यक्त-लोक-धर्मा इति । मन्-निमित्तं त्यक्तौ लोक-धर्माव् इहामुत्र सुखे तत्-साधनानि च यैः, तान् बिभर्मि पोषयामि संवर्धयामि सुखयामीत्य् अर्थः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पति-पुत्रादि-त्यागेन । किं ? किं जातं ? अतोऽत्राक्षेपे । यद् वा, लोको देहस् तद्-धर्मा अशन-वसनानुलेपादयः । यद् वा, लोकाः स्वर्गादयः, तद्-अर्थं धर्मा यागादयः । यद् वा, लोकानां जनानां धर्मः प्रवृत्ति-लक्षणः, निवृत्ति-मार्गे वर्तमाना इत्य् अर्थः । यद् वा, त्यक्ता दत्ता लोकेभ्यो धर्मा मद्-अर्चनादि-रूपा यैस् ते, मद्-धर्मोपदष्टारः । यद् वा, अत्यक्तो लोक-धर्मः स्व-विहित-धर्मो वर्णाश्रमाचार-लक्षणो यैस् ते । मत्-प्रीतये ये स्व-धर्म-निष्ठा इत्य् अर्थः । बिभर्मि स्व-सायुज्यम् आवहामीत्य् अर्थः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मन्-मनस्का इत्य् अत एव मत्-प्राणा मम प्राण-रूपाः । प्रेयसां प्रेष्ठे [१०.४६.५] मयि प्रेयसां प्राणानाम् अपि प्रेष्ठः प्राणेभ्योऽपि परे प्रेष्ठा न सन्ति । तेभ्योऽपि प्रेष्ठः ॥४॥
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृहद्-भागवतामृत २.७.१४०] तत्रैव हेतुं तासु च स्वाभिमतं विधेयं द्वितीयेनाभिव्यञ्जयंस् तासां लक्षणान्य् आह—ता मन्-मनस्काः [भा।पु। १०.४६.४] इति । मय्य् एव मनो यासाम्, अतो बहिर् उन्माद-गृहीता इव । किं च, अहम् एव प्राणा यासाम्, अतो मद्-दूर-स्थित्या मृत-तुल्या इति । न च तासाम् अवलम्बनम् अन्यत् किम् अप्य् अधुनास्तीत्य् आह—पूर्वम् एव मद्-अर्थे मद्-एक-भक्त्या त्यक्ता दैहिकाः पति-पुत्र-गृहादयो याभिः, ताः, तत्-तत्-सङ्ग-विवर्जिताः । एवं तासां प्रेम-माहात्म्यं6 लक्षणानि चोद्दिष्टानि ।
अथवा, त्वयि सर्वं विहाय, कथम् अत्र त्वत्-पार्श्वं नायान्ति ? तत्राह—मद्-अर्थे आयास्यामि7 इति मद्-आज्ञा-हेतोर् मत्-प्रीत्य्-आलोचनतो वा न त्यक्ता दैहिका देह-सम्बन्धिनः पति-पुत्रादयो\ऽलङ्कारादयो\ऽपि याभिः । एवम् अनासक्त्या पति-पुत्रादि-सङ्गे\ऽवस्थानं गात्रेषु मत्-प्रहितालङ्कार-धारणं च न कृतम् इति लक्षणम् उक्तम् ।
ततः किम् ? अत आह—य इति । त्यक्तौ मन्-निमित्तम् उपेक्षितौ लोक-धर्मौ ऐहिकामुष्मिक-सुख-भोगः, तत्-साधन-जातं च यैर् जनैः, तथा-भूता ये बभूवुः, तान् अहं बिभर्मि वर्धयामि सुखयामीत्य् अर्थः । अत एव त्वाम् एवम् आदिशामीति भावः । यद् वा, तादृशानाम् एव तत्त्वतो भर्ता भवामीति भावः । तेषां स्व-भार्त्र्-आदिभ्योऽप्य् अधिकं सुखं पालनादिकं च करोमीति यावत् । पुंस्त्वं तु ये केचिज् जनाः स्त्रियः पुमांसो वा तादृश-भाव-युक्ता इत्य् अभिप्रायेण । अथवा दैहिक-शब्देन पति-पुत्रादयो लोकास् तथा स्त्री-स्वाभाविक-धैर्य-लज्जादयो धर्मा अपि ग्राह्याः । किं च, दैहिक-धर्माः ।
ततश् चायम् अर्थः—ननु ता यदि सर्वम् एव तत्यजुः, तदा तासां वन-मध्य एवानियतालक्षित-वासो\ऽनुमीयते । तत् ता मया कथं प्राप्तव्याः ? किं च, दैहिक-धर्म-त्यागेनोन्मादादि-गृहीता इव कथं वा प्रबोधयितुं शक्याः ? तत्राह—ये मद्-अर्थे ताभिस् त्यक्ता लोका धर्माश् च, तान् अहम् एव बिभर्मि धारयामि रक्षामीत्य् अर्थः । ताभिः परित्यक्ता अपि ते ते मया लोक-व्यवहार-सिद्धये तासु सङ्गमय्य रक्ष्यन्ते । अतस् त्वया पति-पुत्रादि-मध्ये गृहेष्व् एव वर्तमाना धैर्यादि-युक्ता अपि ता द्रष्टव्या इति भावः ।
अथवा, ताभिस् त्यक्तानां पति-पुत्रादीनां भोगाद्य्-असिद्ध्या कथं देह-रक्षा ? ताभिस् त्यक्तानां च धर्मानाम् आप्त-जनादृतत्वात् कथं वा लोके रक्षा भवतु ? तत्राह—तान् अप्य् अहम् एव रक्षामि, किम् उत ताः, तद्-अपेक्षित-मद्-धर्मा वेत्य् अर्थः । तेषां तत्-तत्-पत्न्य्-आदि--रूपेण साक्षाद्-भोग-सम्पादनेन स्व-शक्ति-बलेन वा तेषाम् अपि देहान् पुष्णामि, किम् उत तासाम् । तथा लोके स्त्री-धर्मांश् च प्रवर्तयामि, किम् उत तासाम् अभीष्ट-मत्-सङ्कीर्तनादि-धर्मान् इत्य् अभिप्रायः ।
अ-कार-प्रश्लेषे सति चायम् अर्थः—ये तु मद्-अपेक्षया ताभिर् अत्यक्ता लोक-धर्माश् च, तान् अपि अहम् एव तत्-सम्बन्धेन बिभर्मि विशेषेण भर्तुम् इच्छामीत्य् अर्थः । अतो मत्-तुल्यस् त्वं तत्र गत्वा ता इव तासां पति-पुत्रादीन् अपि सुखय, धैर्यं लज्जादिकं च परिपोषयेति भावः ॥१४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मन्-मनस्का इत्य्-आदि । विशेषण-त्रयेण क्रमेण तासां तं विना धर्माद्य्-अशेषार्थेषु देहेषु लोकेष्व् अपि नैरपेक्ष्यम् उक्तम् । किं च, अनन्य-चिन्तादिना गूढत्वम् इव तथात्मनो दूर-स्थित्या मृत-तुल्यत्वम्, तथा दैहिकानपेक्षया निर्गतित्वादिकं च सूचितम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, मम मनो यासु ता मच्-चित्ताकर्षिण्य इत्य् अर्थः । किं च, मम प्राणाः । कुतः ? मद्-अर्थे मद्-एकापेक्षया त्यक्ताः पुरैवोपेक्षिता दैहिकाः पति-पुत्रादयो भोजन-पानादयश् च याभिस् ताः, यतः परमात्मानम् अपि मां दयितं निज-पतिम् इति, न तु पाणि-ग्रहीतारं गोपम् । तत्रापि प्रेष्ठं तत्त्वतः पति-पुत्रादिभ्योऽधिक-प्रियस्यात्मनोऽप्य् आधिक्यात् । किं वा, उपपतित्वेनाधिक-प्रेमास्पदत्वात् । प्रियतमम् इति माम् एव व्रजेन्द्र-नन्दन-रूपं, न तु श्री-नारायण-रूपं श्री-बलदेवं वा मनसा गताः जानन्तीत्य् अर्थः, निश्चितवत्य इति वा । इदं पद्यार्धं श्री-स्वामि-पादानाम् असम्मतम्, तैर् अस्पृष्टत्वात् । तथा वाक्य-समाप्त्य्-अपेक्षया ततः किम् ? इत्य्-आदि व्याख्यानाच् च ।
बिभर्मि तान् अपि । च-कारां मोक्षाद्य्-अनपेक्षकाश् च । य इति सामान्येन निर्देशः । अधिकाराद्य्-अनपेक्षया भरणस्यावश्यकत्व-बोधनार्थः, किं पुनः प्राणाद्य्-अपेक्षिकास् ता इत्य् अर्थः । यद् वा, अहं ब्रह्मादि-ध्येयोऽपि बिभर्मि अन्तर् धारयामि, सदा चिन्तयामीत्य् अर्थः ।
अतस् तासाम् आधेर् मद्-अन्तः-प्रवेशेन सदाहम् अप्य् आधिमान् इति भावः । यद् वा, ये ताभिस् त्यक्ताः पत्य्-आदि-लोकाः, भोजनादि-देह-धर्माः, लज्जादि-साध्वी-धर्माश् च तान् अप्य् अहं बिभर्मि रक्षामि, किम् उत ताः ? अतस् तासु ते ते विद्यन्त इत्य् अर्थः । तेन तद्-अर्थं त्वां तत्र प्रस्थापयामीति भावः ।
अथवा, ननु तर्हि कुतोऽत्र त्वत्-पार्श्वे नायान्ति ? तत्राह—मद्-अर्थे आयाष्यामीति । मद्-आज्ञा-हेतोस् तत्रैव स्वच्छन्द-मत्-सङ्गमार्थं वा ।
अ-कार-प्रश्लेषेण—न त्यक्ता दैहिका गृहादयोऽलङ्कारादयश् च याभिस् ताः । एवं तासां गृहावस्थिताव् अपि परमौदासीनां स्व-प्रहितालङ्कार-धारणादिकं च लक्षणम् उद्दिष्टम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपीनां विशेषतः सन्देशे द्वाभ्यां विशेषावस्था-वर्णनेन कारणं वक्तुं प्रथमतः साधारणावस्थां वर्णयति—ता इति । विशेषण-त्रयेण क्रमेण तासां विना धर्माद्य्-अशेषार्थेषु देहेषु लोकेष्व् अपि नैरपेक्ष्यम् उक्तम् । अन्यत् तैः ।
तत्रादि-ग्रहणाद् भोजन-पानादयश् च दैहिकाः । यद् वा, मन्-मनस्का इति बाह्य-सर्व-प्रियार्थानादरः । मत्-प्राणा इति ततोऽपि प्रियाणाम् अन्तरीण-सर्वार्थानाम् अनादरः । मद्-अर्थम् इत्य्-आदिना, भोक्तृत्वे सर्व-दुःखानां पुरुषः प्रकृतेः परम् [भ।पु। ३.२६.८] इत्य् आत्म-पर्यवसायि-सर्व-भोगानादरात्मानादरश् च विवक्षितः । तत्र तत्र हेतुम् आह—माम् एव दयितं प्रियं मनसा गता निश्चितवत्यः, न तु बाह्यान् विषयान् । तथा प्रेष्ठं ततोऽपि प्रियतमं माम् एव, न तु ततोऽन्तरीण-प्राणादीन् । मद्-वियोगे तत्-तद्-अनादरात् । तथा निरुपाधि-प्रेष्ठम् आत्मानम् अपि माम् एव, न तु देहिनम् । मद्-वियोगे तस्यापि शून्यायमानत्वात् । मद्-विना-भूतानां तासाम् आत्मान्यत्र प्रीति-मात्रं न स्पृशातीत्य् अर्थः ।
तद् एवं त्रिभिर् योगैः पदैर् माम् एव पतिं निश्चितम् अवेत्य इत्य् अर्थः । न तु किंवदन्ती-प्राप्तम् अन्यद् इत्य् अर्थः । तथैव ता एव वक्ष्यन्ते—अपि बत मधुपुर्याम् आर्य-पुत्रोऽधुनास्ते [भ।पु। १०.४७.२१] इतीदं पद्यार्थं बहुत्र तत्त्व-वादिनां टीकायाम् अपि ध्रियते । किन्तु स्वामि-पादैर् अनभिमतम् इव लक्ष्यते, मध्ये प्रविष्टस्य सुदुर्गमस्याप्य् अव्याख्यातम् । य इति सामान्येन निर्देशः, अधिकाराद्य्-अनपेक्षया भरणस्यावश्यकता-बोधनार्थम् । च-कारात् तान् अपि, किं पुनः प्राणाद् युतेक्षिकास् ता इत्य् अर्थः ।
यद् वा, मम मनो यासु ताः । किं च, मम ता एव प्राणाः, यतो मद्-अर्थ इत्य्-आदि । तत्र हेतुः—माम् एव इत्य्-आदि । कैमुत्येन हेतुः—य इत्य्-आदि । अहं ब्रह्मादि-ध्येयोऽपि बिभर्मि अन्तर् धारयामि, चिन्तयामीत्य् अर्थः । तथा चादि-पुराणे—
भक्ता ममानुरक्ताश् च कति सन्ति न भू-तले । > किन्तु गोपी-जनः प्राणाधिक-प्रियतमो मम ॥ इति ।
अतस् तासाम् आधेर् मद्-अन्तः-प्रवेशेन सदाहम् अप्य् आधिमान् इत्य् अर्थः । यद् वा, ये ताभिस् त्यक्ताः पत्य्-आदि-लोकाः, भोजनादि-देह-धर्माः, लज्जादि-साध्वी-धर्माश् च तान् अप्य् अहं बिभर्मि रक्षामि, किम् उत ताः ? ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ये त्यक्त- इति । यच्-छब्दः सामान्य-निर्देशः । तन्-निर्देशश् च विप्रत्वाद्य्-अनपेक्षार्थः । च-कारात् तान् अपि, किम् उत मन्-मनस्का इत्य्-आदि लक्षणास् ता इति ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ता मन्-मनस्का इत्य्-आदि । ता इति विप्रलम्भ-लीला-विषयत्वेनाङ्गीकृताः । मयि मनसः कं सुखं यासाम् । अत एव मत्-प्राणाः, मम प्राण-स्वरूपाः । मद्-अर्थे मन्-निमित्तं त्यक्तं दैहिकं देह-सम्बन्धि सुखं याभिः ।
नन्व् एवं चेत्, तत् कथं तद्-विरहेण जीवन्ति ? इत्य् आह—माम् एव इत्य्-आदि । माम् एव आत्मानं मनसा गताः प्राप्ताः । मयात्मनैव ता जीवन्तीत्य् अर्थः । कीदृशम् आत्मानं ? दयितं वल्लभम् । स्वात्मभ्योऽपि वल्लभम् । कुतः ? प्रेष्ठम् अतिप्रियतमम् ।
नन्व् एवं चेज् जीवन्ति, तदा किं ताः प्रति चिन्ता-करणेन ? नैवम् इत्य् आह—ये त्यक्त-लोक- इत्य्-आदि । ये जना मद्-अर्थे मन्-निमित्तं त्यक्त-लोक-धर्माः । त्यक्ता लोका धर्माश् च यैस् ते तथा । तान् अहं बिभर्मि, हृदि वहामि ।
किं पुनस् त्यक्त-दैहिकास् ताः ? इति तद्-उद्देशाकरणे मम कृतघ्नता अधैर्यं चेति तत्र गन्तव्यम् एव भवतेति भावः ।
ननु भवन्-मतेऽप्रकट-रूपेऽभौमांशे वृन्दावने नित्यं भगवान् काभिश्चिन्न् इत्य् असिद्धाभिः सह वर्तत एव, तत् कथं तत्रैव प्रकटीभूय तासां विरहं नापनोदयति ? सत्यम्, नापनोदयतीति कथं ज्ञायते ? किन्तु विप्रलम्भ-शृङ्गारस्यापि रसनीयत्वे भगवतस् तद्-अङ्गीकारो युज्यत एवेति विप्रलम्भ-लीला नान्यथा भवतीति तद्-अर्थैवेदृशीच्छा भगवत इति सर्वम् अनवद्यम् । विप्रलम्भो नाना । तत्र प्रवास-रूपस्यास्य तासां मनस्य् आविर्भावः । तेन भक्त-विच्छेद-दुःखानुभव-लीलेयम् इति सुरसा । अतोऽप्रकट-वृन्दावन-स्थानां कासाञ्चिन् नित्य-संयोग एव । प्रकट-वृन्दावन-स्थानां कदाचित् संयोगः, कदाचिद् वियोगश् च। अन्यासां राज-कन्यात्वेन स्थितिर् इति पूर्वोक्तं त्रैविध्यम् एव तासाम् इति स्थितम् ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मय्य् एव सङ्कलात्मकं मनो यासां ताः । अहम् एव प्राणो यासां ताः । त्यक्ता दैहिकाः पति-पुत्र-पितृ-शयन-भोजन-पानादयोऽपि याभिस् ताः । तत्र तत्र हेतुः माम् एव, न तु स्व-स्व-पतिम् अन्यं दयितं प्रियं मनसा गता ज्ञानवत्यः । न केवलं दयितम् एव, अपि तु प्रेष्ठं । न च प्रेष्ठम् एव किन्तु आत्मानं ताभिर् अहम् एव स्व-स्व-जीवात्मा परमात्मा च निश्चित इत्य् अर्थः । स चाहम् अत्र मथुरायाम् अतस् ताभिः स्व-स्व-देहान् निर्गतात्मान एव मन्यन्ते, केवलं मदीय-योगमायैव दुस्तर्कया शक्त्या जीव्यन्ते इति भावः । येऽन्येऽपि साधक-भक्ता अपि मन्-निमित्तं लोक-धर्मादीस् त्यजन्ति, तान् अपि बिभर्मि, किं पुनस् ताः ? ॥४॥
॥ १०.४६.५ ॥
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तासां वियोगाधिं दर्शयति द्वयेन--मयि ता इति । विरहेण यत औत्कण्ठ्यं, तेन विह्वलाः परवशाः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां गोपीनाम् । ता गोप्यः । औत्कण्ठ्यं रागित्वम् । प्रेयसां गेहादीनां प्रेष्ठे, तेभ्योऽपि प्रियतमे । विगतं ह्वलं चलनं यासां ताः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४१] अहो बत सखे ! तादृशाधिश् च कुत्राप्य् अन्यत्र न दृष्टः8 श्रुतो वास्ति यतो\ऽनुक्षणं तासां मोहं मृत्युं च जनयतीत्य् आह—मयि [भा।पु। १०.४६.५] इति द्वयेन ।
प्रेयसां प्रेष्ठ इति प्रथमं लोके प्रियाः पति-पुत्रादयः, ततो\ऽपि देहः, ततो\ऽपि प्राणाः, ततो\ऽपि धर्मः, तस्मान् मोक्षः, ततो\ऽपि मद्-भक्तिर् मद्-एक-प्रेम-फलेति । एवं प्रियतमानाम् अपि मध्ये तेभ्यो\ऽपि प्रियतमे मयि दूर-स्थे श्री-मथुरायाम् अत्रागत्य स्थिते ताः सर्वा रूप-गुणादिना अनिर्वचनीया मद्-एक-प्राणा वा गोकुलस्य स्त्रियः सर्वा एव विरहेण यद् अधिकम् औत्कण्ठ्यं मत्-सङ्गमाशा, तेन विह्वला उन्मत्ताः सर्व-विचाराचार-रहिता एव । तत्रापि स्मरन्त्यः, तेनैव मत्-सङ्गमादिकं विशेषतो\ऽनुसन्दधाना मां मद्-विरहादिकं च चिन्तयन्त्यो वा विमुह्यन्ति विशेषेण मुहुर् मोहं प्राप्नुवन्ति, सदा मृत-तुल्या भवन्तीत्य् अर्थः । अङ्ग हे मद्-अङ्ग-तुल्य प्रिय-मन्त्रि-वर !
विरहौत्कण्ठ्येति (?) पाठे\ऽयम् अर्थः—मयि कथञ्चिल् लीला-कौतुकेन तत्रैव9 कथञ्चिद् अन्तर्हिते सति किञ्चिन्-मात्र-विरहेणापि परमार्ता भवन्ति । अधुना च दूरस्थे विरहस्यौत्कण्ठ्यम् आधिक्यं तेन विह्वलाः, तत्रापि स्मरन्त्यः कदाचिद् अपि विस्मर्तुम् अशक्नुवत्यः सदा विमुह्यन्त्य् एव । अन्यत् समानम् ।
इत्थं च सूचितम् इदम्—त्वया मत्-सन्देशादिना तादृश-चातुर्येणाहं ताः स्मारयितव्याः येन तासां प्राण-रक्षा भवेद् इति ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किन्तु मद्-आधेर् अपि तासाम् आधिर् गरीयान् इति शोचन्न् आह—मयि इति द्वाभ्याम् । ता उक्त-स्वभावा अनिर्वचनीय-भावा मद्-एक-प्राण-वल्लभा वा गोकुलस्य स्त्रियः इति गोकुले स्थित्या स्त्रीत्वेन चात्मनस् तासु भावाद् अपि तासाम् आत्मन्य् अधिकोऽसौ दर्शितः । किं च, प्रेयसाम् अपि मध्ये प्रेष्ठम् इत्य् अनन्य-प्रियत्वम् उक्तम् । अतो मयि दूरस्थे मधु-पुर्याम् अत्र वसति सति विरहेण यद् औत्कण्ठ्यं मद्-दर्शन-लालसा, तेन विह्वलाः परमार्ताः सत्यः स्मरन्त्यो मां रास-क्रीडादिकं वा चिन्तयन्त्यः, कृष्ण कृष्णेति लघु लघु कीर्तयन्त्यो वा विस्मर्तुम् अशक्नुवत्यो वा विशेषेण मुह्यन्ति, चिरं नष्ट-संज्ञतया भूमौ पतितास् तिष्ठन्तीत्य् अर्थः । अङ्ग ! हे मद्-गात्र-तुल्य ! हे परम-प्रिय ! इत्य् अर्थः । अतस् त्वयेदं बुध्यत एवेति भावः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु या भवन्-मनस्कादि-रूपाः, ता लब्ध-भवत्का एव तर्हि कथम् अनुशुच्यन्तां ? सत्यम्, अन्तर्-अनुसन्धाने तादृश्य एव ताः, किन्तु बहिर्-अवधाने जाते परम-व्यग्रा भवन्तीत्य् आह—मयि इति । गोकुल-स्त्रीत्वेन तावन् मदीय-दर्शन-मात्र-जीवनाः, तत्रापि ता अनिर्वचनीय-स्वभावाः । द्वयोः प्रकर्षे खलु [तरवीय]{।मर्क्}-सुनौ बहूनां तु तम् [अविष्ठनाव्]{।मर्क्} इति प्रियं, तावत् सर्वं ममतास्पदम् । ततोऽपि प्रियः प्रेयान् अहन्तास्पदम्, आत्मा ते च यद्य् एकस्य बहवः सम्भवन्ति, तदा तेषां कोटि-सङ्ख्यानाम् अतिप्रेष्ठे तान् अप्य् अतिक्रम्य ये मत्-सम्बन्धिनः प्रियाः, तेभ्योऽप्य् अधिक-प्रिय इत्य् अर्थः । एवं-भूते मयि कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षितां पक्ष्म-कृद् दृशां [भा।पु। १०.३१.१५] इति तद्-वाक्यानुसारेण निकट-स्थोऽपि महार्ति-प्रदः सम्प्रति तु दूरस्थ इत्य् अर्थः ।
स्मरन्त्यः तत् मम दूरस्थत्वं भावयन्त्यः तद्-भावनारम्भवत्य एव विमुह्यन्ति, मूर्च्छां प्राप्नुवन्ति । एवं तथा भावनायाः स्वल्प-कालत्वं मूर्च्छायास् तु चिर-स्थायित्वं व्यञ्जितम् । ततश् च, हा कष्टं ! मद्-भावनम् अपि कर्तुं न शक्नुवन्तीति भावः । वर्तमान-प्रयोगेन स्मरणस्य मोहस्य च पौनःपुन्यं दर्शितम् ।
मोहे हेतुः—विरह इति । अतो लाला-स्रावादेर् अयम् अपस्माराख्यः सञ्चारी भावः । अतः कुज-गतिं गमिता न विदामः, कश्मलेन कवरं वसनं वा इति पूर्वम् अपि तथावस्था-स्पष्टानाम् एव मया त्यक्तानाम् । सम्प्रति तु लब्ध-तद्-अतिशयानां मयि भावस्य सर्वतः प्रचारद् इति साम्प्रतं तत्र गमनेन मम लज्जापि जायत इति भावः ।
अङ्ग ! इत्य् आर्त्या सम्बोधनम् । श्लेषेण हे मद्-अङ्ग-तुल्य ! इति तासां सान्त्वनाय प्रोत्साहनं च ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मयि ताः प्रेयसाम्** इत्य्-आदि । प्रेयसां प्राणानाम् अपि प्रेष्ठे प्रियतमे दूरस्थे गोकुल-स्त्रियः स्मरन्त्यः सत्यो विमुह्यन्ति । तस्मात् ता मत्-सन्देशैः सान्त्वयेत्य् अर्थः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तासां यदि त्वम् एव मनः-प्राणादयः प्रेष्ठ आत्मा च, तर्हि ताः कथम् अत्र नायाताः ? तत्र स्थातुम् एव कथं शक्नुवन्ति ? तत्राह--मयि इति । ताः खलु गोकुलस्य स्त्रियः गुञ्जा-गैरिक-मुरली-मयूर-पिच्छाद्य्-अलङ्कृतेन गोप-वेशेनैव मया सह तत्र गोकुल एव विलासे प्राप्त-मनो-निष्ठा मयाप्य् अत्रानेतुम् अनभिप्रेताः कथम् अत्र वृष्णि-पुर्याम् अगच्छेयुः ? इति भावः । ततश् च प्रेयसां मयि प्रेष्ठे दूरस्थे सतीति प्रियं तावत् सर्वं ममतास्पदं ततोऽप्य् अधिकोऽहन्तास्पदम् आत्मा प्रेयान् ते च यद्य् एकस्य बहवः सम्भवन्ति, तदा तेषाम् अपि कोटि-सङ्ख्यानां प्रेष्ठ इति । यद्य् आत्म-कोटिभ्योऽपि केचित् पदार्थाः प्रियाः सम्भवेयुः, तेषाम् अपि मध्ये योऽतिप्रियः, तद्-रूपे मयीत्य् अर्थः । अत एव विमुह्यन्ति विशिष्टां मूर्च्छां प्राप्नुवन्तीत्य् अर्थः । मदीय-दुस्तर्कया शक्त्या जीव्यमाना अपि न जीवयितुम् इव शक्यन्त इति भावः ॥५॥
॥ १०.४६.६ ॥
धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोकुलात् निर्गमन-समये शीघ्रम् आगमिष्यामीति ये प्रत्यागमन-सन्देशाः, तैर् मे मदीया बल्लव्यो गोप्यो मद्-आत्मिका इति तासाम् आत्मा स्व-देहे यदि स्यात्, तदा विरह-तापेन दह्येतैव । मयि वर्तमानत्वात् कथञ्चित् जीवन्तीति भावः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां वल्लवीनाम् । विरह-तापेन मद्-वियोगाग्निना । तस्यात्मनः । इति भाव इति—अन्यत्र वर्तमानस्यान्यत्रत्य-वह्निना दाहो न भवतीत्य् अत्र आह—प्रति- इति ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४२] गोकुल-स्त्रिय इत्य् अनेन बाला वृद्धादयो\ऽपि गृहीताः । ततश् च सर्वासाम् एव तासां मद्-विरह-विह्वलतया मोहः समान एवेत्य् उक्तः स्यात् । अतो\ऽधुना श्री-राधादीनां निज-प्रियतमानां विशेषम् आह—धारयन्ति [भा।पु। १०.४६.६] इति ।
मे मदीयाः श्री-चन्द्रावल्य्-आदयो बल्लव्यस् तु मद्-दीर्घ-विच्छेदेन मृत्यु-वशंगता अपि अतिकृच्छ्रेण परम-दुःखेन प्राणान् धारयन्ति । तथा हि स्वयम् एव तत्रासम्भवं मत्वाह—कथञ्चनेति । तच् च निज-मिथ्या-वादि-प्रसङ्ग-लज्जया प्रथमम् अप्रकाश्य सन्देशाय विवृणोति—प्रत्यागमनेति । अक्रूरस्याग्रहेण त्वरया गोकुलान् निर्गम-समये शीघ्रम् आगमिष्यामीति दूत-द्वारा ये प्रत्यागमन-सन्देशा मदीयाः, तैः मत्-सत्य-वचनता-विश्वासेन केवलं मद्-दर्शन-सुखातिशया तादृश-महा-दुःखानि सहमाना मुहुः स्वयम् एव निर्गच्छतः प्राणान् बलात् रक्षन्तीत्य् अर्थः । एवम् ईदृशा एव मम सन्देशास् तासु त्वया प्रतिपाद्या इत्य् अपि सूचितम् ।
तथाप्य् असम्भवं मन्यमानः स्वयम् एव स-विमर्षम् आह—मद्-आत्मिका इति । मयि आत्मा यासां ता इति । तासाम् आत्मा स्व-देहे यदि वर्तेत, तदा नूनं विरह-तापेन दह्येतैव मयि वर्तमानत्वाच् च मया सदा प्रयत्नतो रक्ष्यमाणत्वात्, कथञ्चिज् जीवन्तीति भावः । प्राय इति बाहुल्येन जीवन्ति काश्चित् तद्-आद्याः । तदानीम् एव पश्चाद् अपि मृता एवेत्य् अर्थः ।
अथवा, प्रत्यागमन-सन्देशैर् एव प्राणान् धारयन्ति, तच् च अतिकृच्छ्रेण काल-विलम्बतो विरह-दुःखातिवृद्ध्या, तद् अपि कथञ्चन मम शक्ति-विशेषेणेत्य् अर्थः । तच् च न स्पष्टयति मरणेन हि तद्-दुःख-निवृत्तिः स्याज् जीवनेन च दुःखार्णव-तरङ्ग-निमज्जनम् । तथापादानं परम-कारुणिकस्य उचितं न भवतीत्य् उद्धवाक्रोश-शङ्क्या तथा च मद्-आत्मिका मत्-स्वरूपाः, यादृशी तासां दशा तादृशी ममापीत्य् अर्थः । अतस् तासाम् आधि-मोचनेन ममाप्य् आधि-विमोचनं त्वया कृतं स्याद् इति भावः ।
किं च, तासां या गतिर् ममापि सैव अतो यादृशं ताभिः कर्तव्यं मयापि तादृशम् एवेत्य् अपि भावान्तरम् ऊह्यम् । एवम् अवश्यम् एव प्रयत्नतः प्राण-रक्षार्थं तासु सन्देशान्तरम् इत्य् अप्य् ऊह्यम् ।
अथवा, अलम् अन्तर्-दावानल-विस्तारिकया व्याख्यया जीवनावेक्षकम् अर्थान्तरम् इदम् एव कल्पनीयम्—बिभर्मीति प्रतिज्ञात-सुख-सम्पादन-हेतुत्वेन पुनर् अपि तासां गाढ-प्रेम-महिमानं तृतीय-श्लोकेन निरूप्य चतुर्थेन तत्-सुख-सम्पादन-प्रकारम् आदिशन् मत्-सन्देशैर् इति यद् उक्तं, तान् स्व-सन्देशेनाभिव्यञ्जयति—धारयन्तीति । सामीप्ये वर्तमानो\ऽयम् । मद्-आत्मिका मद्-एक-चित्तास् ता बल्लव्यः मे प्रत्यागमन-सन्देशैस् तत्र मद्-आगमन-सम्बन्धि-वाक्य-प्रतिपादनेनैव प्राणान् धारयिष्यन्ति, तच् च अतिकृच्छ्रेण एव, तद् अपि कथञ्चन कण्ठा-गत-प्राणत्वादिना । अन्यत् यथापेक्ष्यं पूर्ववद् ऊह्यम् । एवं च श्री-नन्दनन्दनो\ऽत्राचिराद् एवागमिष्यति समागच्छन्न् एवास्ति, अयम् अयम् आगत-प्रायः इत्य्-आदि-प्रकारा एव । मत्-सन्देशास् तासु त्वया कथनीया इत्य् अत्राभिप्रायो ज्ञेयः ॥१४२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हा तर्हि महानिष्ट-प्राप्तिं शङ्के । तत्राह—धारयन्ति इति । अतिकृच्छ्रेण मरणाद् अप्य् अधिक-दुःखेन प्राणान् धारयन्ति, स्वयं निर्गच्छतो यत्नाद् रक्षन्तीत्य् अर्थः । प्राय इति कासाञ्चिन् निश्चेष्टतया मृतत्वेनैव व्यवहारात् । कथञ्चन इति स्व-वाग्-असत्यता-लज्जयादौ सामान्योक्त्या तद्-अर्थम् अप्रकाश्य पश्चात् प्रसङ्गात् तम् एव विवृणोति—प्रति इति ।
मे बल्लव्य इति मदीयत्वेन प्रेम-कोमल-स्वभावत्वेन च मद्-वाक्ये विश्वासानपगमान् मत्-प्रत्याशा कदापि त्यक्तुं न शक्यत इति भावः । एवम् उक्तानां धारण-हेतूनां त्रयाणाम् एषां यथोत्तर-श्रैष्ठ्यम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ममात्मीयाः सुताः । अतस् तासाम् आर्त्या अहम् अप्य् आर्तोऽस्मीति तासाम् अप्य् आर्ति-मोचनेन ममाप्य् आर्तिस् त्वया मोचिताः स्याद् इति भावः । अथवा, दूरस्थे तत्रैव श्री-वृन्दावन-विहारादिना दूर-वर्तिनि सत्य् अधुना त्व् अत्यन्त-दुःखं सदा विन्दन्तीत्य् आह—धारयन्ति इति । अन्यत् समानम्।
यद् वा, सन्देश-मुख्यं प्रकारम् एवान्ते समादिशति—धारयन्ति इति । सामीप्ये वर्तमाना । मे प्रत्यागमनं व्रजे तत्र पुनर् आगतिः, तस्य सन्देशैः सम्यक् प्रतिपादनैर् एव प्राणान् धारयन्ति । तच् च अतिकृच्छ्रेण एव, तद् अपि कथञ्चन कण्ठ-गत-प्राणत्वादिना, अतो "भवतीनां प्रियतमोऽसाव् अचिराद् एष्यति समागत-प्रायः" इत्य् एवं-प्रधानाः सन्देशा बोधिता इति दिक् ।
एवं सर्वथा पितृभ्याम् आत्मनोऽपि सकाशात् तासां विशेषः साधितः । सर्वेषाम् एव व्रज-जनानां तद्-विच्छेदार्तानां सामान्येन सान्त्वने समादेष्टुं योग्योऽपि केवल-पित्रोर् गोपीनां च तद्-आदेशः, तयोस् तासां च तद्-विशेषाभिप्रायेण श्रीदामादिषु वयस्येषु न सन्दिष्टः, तेषां मधुपुरे समागम-सम्भावनाभिप्रायेण ।
यद् वा, गोपीनाम् इति निर्विशेषतया सर्वासाम् एव वृद्धा-तरुण्य्-आदीनाम् आधि-विमोचनादिष्टम् । ता गोपीः । तथा ये मद्-अर्थं त्यक्त-लोक-धर्माः, कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा [भा।पु। १०.१६.१०] इत्य्-आद्य्-उक्तेः । श्रीदामादयो गोपास् तांश् च बिभर्मि, अधुना तत्रैव निज-प्रियतमानां गोपीनां विशेषतराभिप्रायेणाह—मयि इति द्वाभ्याम् । अन्यत् समानम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तासां दशमीं दशाम् अपि शङ्कते अत्यायासेनैव प्राणान् धारयन्ति निर्गच्छतोऽप्य् अवस्थापयन्ति । अतोऽग्रे कति दिनानि वा धारयितुं शक्ष्यन्तीति भावः
ननु कोऽसाव् आयासः, येन धारयन्ति ? तत्राह—कथञ्चन इति । केनापि प्रकारेण यस् तेन तद् एवं स्व-वाक्-चलन-लज्जया कारणं व्यक्तम् अनुक्त्वा पश्चाद्-गत्य्-अन्तराभावात् स्पष्टम् एव निर्दिशति—प्रति इति । सन्देशस्य बहुत्वं मध्ये सन्देशान्तराणाम् अपि प्रेषितत्वात् इत्थं प्रथमोक्त-मत्-प्रत्यागमन-दिन-सम्भावन-प्रपञ्चः । ततो विलम्ब-तर्कतो मूर्च्छा ततस् तस्याम् एव उद्भूत-स्वाभाविक-तत्-स्मरणं तच्-चेतना पुनस् तत्-सम्भावनादि पौनःपुन्याद् आयासेनैव धारयन्ति इत्य् अर्थः ।
मे बल्लव्य इति । ब्राह्मणस्यास्य ब्राह्मणीति यन् मम गोप-रूपस्य गोपी-रूपा भार्या इत्य् अर्थः । पूर्वं हि पित्रोर् नः प्रीतिम् आवह [भा।पु। १०.४६.३] इत्य् अनेन तु गोपाभिमानित्वं स्वस्य स्वयम् एव व्यञ्जितं, न केवलं साधारण-लोक-रीत्या तादात्म्य-व्यवहारस् ताभिर् मम किन्तु मद्-आत्मिका मत्-स्वरूप-भूत-शक्तय इत्य् अर्थः । मन्-मनस्का [भा।पु। १०.४६.४] इत्य्-आदिकं तूक्तम् एव ब्रह्म-संहितायां तु स्पष्टम् एव तादृशत्वं—
आनन्द-चिन्मय-रस-प्रतिभाविताभिस् > ताभिर् य एव निज-रूपतया कलाभिः । > गोलोक एव निवसत्य् अखिलात्म-भूतो > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३७]
तस्मात् पर-दारतया कल्पनं तासां वाग् अनिर्गलता-प्रकटनाय लीला-शक्त्या कृतम् इति प्रातीतिक-मात्रं पर-शय्या-सम्बन्धश् च तासां नासूयन्न् [भा।पु। १०.३३.३७] इत्य्-आदौ प्रयाख्यात एव इति भावः । यद्यपि मदीयत्व-भाव-मयेन प्रेम्णा मद्-वाक्ये विश्वासान् अपगमात् मत्-प्राप्त्य्-आशां कदाचिद् अपि न त्यक्तुं शक्नुवन्तीति, तथापि प्राय इति काश्चिन् न धारयन्त्य् अपीति सम्भाव्यते । अतः प्रत्यागमन-पर्यवसानैर् एव सन्देशैर् अधुनापि ताः सान्त्वनीया इति भावः । अत्र यद्यपि सर्वेऽपि व्रज-वासिनस् तद्-एक-जीवनत्वात् सान्त्वनार्हाः, एषां घोष-निवासिनाम् इत्य्-आदिषु यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३०] इत्य्-आदिभ्यः, अहो भाग्यम् अहो भाग्यं [भा।पु। १०.१४.३२] इत्य्-आदिभ्यः कालिय-ह्रद-प्रवेशोत्थापनयोः पशूनां स्थावराणाम् अपि सुख-दुःख-वर्णनाच् च,
दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । > नन्द ! ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ [भा।पु। > १०.२६.३]
इत्य्-आदिभ्यश् च । अतो मनसि चिन्तितं स्वयं भगवता तस्मान् मच्-छरणं गोष्ठं [भा।पु। १०.२५.१८] इत्य्-आदि तत्रापि श्रीमद्-उपनन्दादयः, तत्रापि श्रीदामादयस् तद्-अर्हाः, तत्र तत्र तथा तथा प्रशस्तत्वात् । अतः श्री-व्रज-राजेन वक्ष्यते—
अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् । > गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ [भा।पु। > १०.४६.१८] इति ।
तथापि यस् तेषाम् अनुल्लेखस् तस्माद् इदं गम्यते केषुचित् श्री-पित्राद्य्-अन्तः-पातित्वेन । सान्त्वनाभाव एव सान्त्वनम् अभिप्रेतम् इति, तथा हि श्रीमति गोकुले प्रेमा खलु त्रिविधो दृश्यते--(१) उत्कण्ठा-प्रधानो, (२) विस्रम्भ-प्रधानो, (३) विवेक-शून्यश् चेति । स चान्यत्रापि सर्वोऽपि गरिष्ठः सन् प्रेष्ठ-स्फूर्ति-साक्षात्कारम् एव जनयति, यथा श्री-लीलाशुक-चरणैर् उक्तम्—
अग्रे समग्रयति काम् अपि केलि-लक्ष्मीम् > अन्यासु दिक्ष्व् अपि विलोचनम् एव साक्षि । > हा हन्त हस्त-पथ-दूरम् अहो किम् एतद् > आशा-किशोर-मयम् अम्ब जगत्-त्रयं मे ॥ [कृ।क। ६०] इति ।
तत्र च श्री-जयदेव-चरणैर् अपि वर्णितम्—
श्लिष्यति चुम्बति जल-धर-कल्पम् । > हरिर् उपगत इति तिमिरम् अनल्पम् ॥ [गी।गो। ६.७] इति ।
अत्रैव च वक्ष्यते व्रज-राजेन मनो याति तद्-आत्मताम् [भा।पु। १०.४६.२२] इति तत्रोत्तरोभय-भावानां साक्षात्कार-बुद्धि-जनिकैव सा भवेत्, विस्रम्भा-विवेकयोर् अन्यत्व-प्रतीति-जननायोग्यत्वात् । प्रथम-भावानां तु साक्षात्कारेऽप्य् अप्रतीतिः स्यात्, किम् उत स्फूर्तौ ? उत्तर-काले तु सर्वथोत्कण्ठाया विकल्प-स्वभावत्वात् यथा द्वारका-जल-विहारे पट्ट-महिषीणां वर्णयिष्यते । अत [उत्कण्ठा-प्रधान]{।उन्देर्लिने}-प्रेमाणः पितरौ प्रेयस्यश् च वियोगि-मानिन एवासन् यथैवोक्तं गच्छोद्धव [भा।पु। १०.४६.१] इत्य्-आदिना । वक्ष्यते च—इति संस्मृत्य [भा।पु। १०.४६.१८], इति गोप्यो हि गोविन्द [भा।पु। १०.४७.९] इत्य्-आदिना च ।
अथ ये [विवेक-शून्य-प्रेमाणो]{।उन्देर्लिने} गवादयः, ये च [विस्रम्भ-प्रधान]{।उन्देर्लिने}-प्रेमाणः श्रीदामादयः, ते संयोगि-मानिन एवासन् गवादीनां स्वानुभवेनैव निश्चयात् श्रीदामादीनां च मां त्व् एकान्ते मथुरात इहागत्य मिलतीति रहो मिथः संवादेन तद्-दार्ढ्यात्, अत एवैषां हर्षोऽपि वर्णयिष्यते--वासितार्थेऽभियुध्यद्भिः [भा।पु। १०.४६.९] इत्य्-आदिना तस्मात् पित्रोः प्रेयसीनां च सान्त्वनम् एव सान्त्वनम् अन्यथा समाधानाभावात् श्रीदामादिषु तु सान्त्वनाभाव एव । सान्त्वनं सान्त्वने प्रत्युत सन्देहापत्तेर् इति । तद् एवं तिर्विधानाम् उत्कण्ठादि-प्रधानानां सान्त्वनासान्त्वन-व्यवस्थायां सिद्धायाम् अन्येषां तत्-तद्-अनुगत-भावानां तयैव तद्-व्यवस्था यथा अक्रूर अगतः किं वा, यः कंसस्यार्थ-साधक इति वचनोपलक्षितानां दुःखं गोप्यः समुत्थाय [भा।पु। १०.४६.४४] इत्य्-आदि तद्-उपलक्षितानां सुखं वृक्षाणां पक्षिणां च तथा तथा वर्णयिष्यमाणानां प्राचीन-तत्-स्पर्शनादि-संस्कार-विमुक्तानां सुखम् इति कालिय-ह्रद-प्रवेश-निर्गमयोः स्थवराणाम् अपि, किम् उत मृग-पर्यन्त-प्राणिनां दुःख-सुखयोर् व्यक्तिस् तु तत्-तद्-अनिष्टेष्टता-परमातिशय-लीला-विशेष-म्लिष्ट-कालस्य तादृश-स्वभाव-भावत्वाद् एव जातेति मन्तव्यं । यत्र भुवि दिवि चामङ्गल-मङ्गल-निमित्तानि जातानीति केचित् तु सखीनां गमनागमनाभिप्रायेण सान्त्वनम् इति व्याचक्षते, तत् तु न बुध्यते, तत्र श्री-गोपेन्द्र-प्रश्ने सखी-नित्यस्यास्वारस्यात् । तद् एवम् अग्रिम-ग्रन्थोऽपि व्याख्येयः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : धारयन्ति इति । अतः प्रत्यागमन-पर्यवसानैर् एव सन्देशैर् अधुनापि ताः सान्त्वनीया इति भावः । मे वल्लव्य इति वस्तुतस् तस्यैव पत्नीत्वात् । मन्-मनस्का मत्-प्राणा इत्य् अनेन पौनरुक्त्यान् मद्-आत्मिका मत्-स्वरूपता इत्य् एवार्थः । तत्र यद्यपि सर्वेऽपि व्रज-वासिनस् तद्-एक-जीवनत्वात् सान्त्वनार्हाः, यद्-धामार्थ-सुहृद् [भा।पु। १०.१४.३०] इत्य्-आदिभ्यः, तत्रापि श्रीमद्-उपनन्दादयः, तत्रापि श्रीदामादयः । अतः श्री-व्रज-राजेन वक्ष्यते—
अपि स्मरति नः कृष्णो मातरः सुहृदः सखीन् । > गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ [भा।पु। > १०.४६.१८] इति ।
तथापि यस् तेषाम् अनुल्लेखस् तस्माद् इदं गम्यते । केषुचित् श्री-पित्राद्य्-अन्तः-पातित्वेन सान्त्वनं केषुचित् त्व् अभिप्राय-विशेषेण सान्त्वनाभाव एव सान्त्वनम् अभिप्रेतम् । तथा हि श्रीमति गोकुले प्रेमा त्रिविधो दृश्यते—(१) उत्कण्ठा-प्रधानो (२) विश्रम्भ-प्रधानो (३) विवेक-शून्यश् चेति । स च सर्वोऽपि गरिष्ठः स्फूर्ति-साक्षात्-कारम् एव जनयति । तत्रोत्तर-भावानां साक्षात्-कार-बुद्धि-जनिकैव । सा भवेत् विस्रम्भाविवेकयोर् अन्यत्व-प्रीति-जननायोग्यत्वात् । प्रथम-भावानां तु साक्षात्कारेऽप्य् अप्रतीतिः स्यात्, किम् उत स्फूर्तौ ? उत्तर-काले तु सर्वथा उत्कण्ठाया विकल्प-स्वभावत्वात् । अत [उत्कण्ठा-प्रधान-प्रेमाणः]{।उन्देर्लिने} पितरौ प्रेयस्यश् च वियोग-मानिन एवासन् । यथोक्तं गच्छोद्धव [भा।पु। १०.४६.१] इत्य्-आदि । वक्ष्यते च इति संस्मृत्य [भा।पु। १०.४६.२७] इत्य्-आदि । अथ ये [विवेक-शून्य-प्रेमाणो]{।उन्देर्लिने} गवादयः, ये च [विस्रम्भ-प्रधान]{।उन्देर्लिने}-प्रेमाणः श्रीदामादयस् ते संयोग-मानिन एवासन्, तत्-तत्-कनिष्ठ-प्रेमाणः पितृ-प्रेयसीतर-गोप्य्-आदयस् तु कासाञ्चिद् एव गवादीनां स्वानुभवेनैव निश्चयात्। अन्येषां मां तु एकान्ते मथुरात इहागत्य मिलतीति मिथः सम्वादेन तद्-दार्ढ्यात् । यथैतेषां हर्षोऽपि वर्णयिष्यते वासितार्थेऽभियुध्यद्भिः [भा।पु। १०.४६.९] इत्य्-आदिना च । तस्मात् श्रीदामादिषु सान्त्वनं केषुचित् तद्-अन्तः-पातित्वेनैव सान्त्वनम् इति ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु कथञ्चिद् एव ता जीवन्ति । तद् अलं तत्र गमनेनेत्य् आह—धारयन्त्यश् चेत्य्-आदि । कृच्छ्रेण कष्टेन प्रायः कथञ्चन कथम् अपि प्राणान् धारयन्ति। ननु कथं तव विरहेण तासां जीवनं सम्भाव्यते ? इत्य् आशङ्क्याह—प्रत्यागमन-सन्देशैर् इत्य्-आदि । मया आयास्ये [भा।पु। १०.३९.३५] इति यद् उक्तम्, तद् आशयैव जीवन्तीत्य् अर्थः । मे वल्लव्य इति ममकार-पुरःसरोक्तिः परम-प्रेम-सूचिका ॥६
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिकृच्छ्रेण तासां मत्-प्राप्त्य्-आशया प्राण-धारणम् एवातिकष्टं, प्राण-त्यागस् तु सुगम एव इति भावः । ननु केन प्रकारेण प्राणान् धारयन्ति ? अत आह—प्रति- इति । गोकुलान् निगमन-समये शीघ्रम् आगमिष्यामीति ये प्रत्यागमन-सन्देशाः, तैर् अतो मत्-प्राप्त्य्-आशैव महा-बलवती निर्गच्छतोऽपि प्राणान् बध्नातीति भावः । तव का भवन्ति ताः ? तत्राह—वल्लव्यः, यद्यपि ता वल्लवानाम् एव स्त्रियस् तद् अपि मे मदीया एवं तासां महा-माधुर्य-मय-रूप-पर-सगन्ध-शब्द-स्पर्शादि-सम्बन्ध-गन्धम् अपि तत्-पतयः स्वप्नेऽपि न लभन्ते, किन्त्व् अस्मद्-भार्या इमा इत्य् अभिमान-मात्रम् एवेत्य् अतो रस-शक्त्यैव स्व-पुष्ट्य्-अर्थम् अनादित एव नित्य-परकीयाः कृता अपि ता मद्-भोग्या मदीया एव यतो मद्-आत्मिकाः, मत्-स्वरूप-शक्तेर् ह्लादिन्या अपि महा-सार-प्रेम-वृत्तित्वान् मत्-स्वरूप-भूता अपि सर्वोत्कृष्ट-ह्लाद-रूपत्वान् मद्-आकर्षण-समर्थाः, अत एवात्मारामस्यापि मम ताभी रमण-सुखम् अत्यधिकम् । अत एव मयात्मनः सकाशाद् अपि ता अधिकम् अनुकम्पनीया इत्य् अनुकम्पार्थकः क-प्रत्ययः प्रयुक्तः । श्लेषेण ममात्मा मनो रमणार्थी यासु ता मय्य् एवात्मा तथा-भूतो यासां ता इति वा । मत्-सम्भोग्यत्वान् मदीया इत्य् अर्थः ॥६-७॥
॥ १०.४६.७ ॥
श्री-शुक उवाच—
इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः ।
आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्देशं भवतीनां वियोगो मे नहि सर्वात्मना क्वचिद् इत्य्-आदिकम् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्द-गोकुलं नन्द-ग्रामम् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजन्न् इति । श्री-कृष्ण-कृत-व्रज-जनानुग्रहेण प्रहर्षोदयात् । किं वा, इत्य् उक्तः सन् राजमान आदृतः सादरः । किं वा, प्रेषणार्थं प्रसाद-वस्त्रादि-प्रदानेन । किं वा, तादृश-सन्देशेन तत्र प्रेषणेनैव वा भर्त्रा सम्मानितः । अयम् अपि राजमानत्वे हेतुर् एकः । सन्देशम् आदाय चित्ते धृत्वा । किं वा, स्वाक्षरेण तल्-लिखित-सन्देश-पत्रं शिरसि गृहीत्वा । भर्तुर् इति तद् एव पोषणम् इति भावः । रथम् आरुह्य शीघ्र-गमनार्थं प्रकर्षेणाक्रूरतोऽप्य् अधिक-विचित्र-मनोरथाचरणादिना ययौ ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भर्तुर् इति तस्य तद्-भावेन भक्ति-भरो द्योत्यते, रथम् आरुह्येति शीघ्र-गमनं बोधयति प्रकर्षेण प्रकृष्ट-मनोरथ-चरणादिना ययौ नन्दयतीति नन्दस् तस्य गोकुलम् इति तद्वद् गोकुलस्यापि श्री-कृष्ण-प्रेम्णानन्दकत्वम् अभिप्रेतम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इत्य् उक्त इत्य्-आदि । आदृत इति गोपीनां दर्शनं मम भावीति स्व-भाग्यम् उद्भाव्य सादरः ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.४६.८ ॥
प्राप्तो नन्द-व्रजं श्रीमान् निम्लोचति विभावसौ ।
छन्न-यानः प्रविशतां पशूनां खुर-रेणुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निम्लोचति अस्तं गच्छति सति । छन्नं यानं यस्य स इति तदा गोपीभिर् अज्ञातत्वेन नन्द-सङ्गं लब्धवान् इति सूचयति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभावसौ सूर्ये, सूर्य-वह्नी विभावसू इत्य् अमरः । यानं रथः । तदा प्रवेश-समये । यानं स्याद् वाहने गतौ इति मेदिनी । श्रीमान् स्व-शोभया रथ-शोभया च विराजमानः । श्रीमन् इति पाठे तु सम्बोधनम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्दयतीति नन्दस् तस्य गोकुलम् इति गोकुल-व्यालङ्कारादिना महा-शोभावान् अपि छन्नयानः प्रविशताम् इत्य् अनन्तानां पशूनां व्रज-प्रवेशे खुर-रेणूनाम् अधिकाधिकोत्थानात् । इति गो-धूलि-संज्ञकोत्तम-योगे गत इति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राप्त इति षट्कं श्रीमान् स्व-शोभया च विराजमानः श्रीमन्न् इति पाठे सम्बोधनं, किन्तु छत्र-यानः । प्रविशताम् इति अनन्तानां पशूनां व्रजे प्रवेशेन खुर-रेणूनां महा-संवाराणां चाधिकाधिकोत्थानं विवक्षितम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निम्लोचति अस्तं गच्छति सति । छन्न-यान आच्छन्न-रथः ॥८॥
॥ १०.४६.९ ॥
वासितार्थेऽभियुध्यद्भिर् नादितं शुष्मिभिर् वृषैः ।
धावन्तीभिश् च वास्राभिर् उधो-भारैः स्व-वत्सकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रजं वर्णयति पञ्चभिः—वासितार्थ इत्य्-आदिना । वासिताः पुष्पवत्यो गावस् तन्-निमित्तम् अभितो युध्यद्भिः शुष्मिभिर् मत्तैर् वृषैर् नादितम्। वास्राभिर् धेनुभिः । स्व-वत्सकान् प्रति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वासिता वृष-काकिनी इति यादवः । शुष्मं तेजसि सूर्ये च इति मेदिनी । शुष्मं तेजो-बल-वीर्य-रूपं विद्यते येषां ते शुष्मिणः, तैः । वासयति दुग्धं स्वस्याम् इति वास्रा, धेनुर् वास्रा रोहिणी च इति कोशान्तरात् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीमद्-उद्धवानन्दनत्वं पञ्चभिर् दर्शयन्न् अधिक-रेणूत्थाने हेतुम् आह—वासितार्थ इति सार्धेन । अभितः संमर्दनं मिथो युध्यद्भिर् युध्यमानैः। च-कारात् हुङ्कार-घोषैश् च लक्षिताभिः । वत्सकान् इति नव-जातत्वेन अल्पत्वात् कः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव वर्णयन् श्रीमद्-उद्धवानन्दनत्वं व्यनक्ति पञ्चभिः—वासितार्थ इति । युध्यद्भिर् युध्यमानैः । वत्सकान् इत्य् अनुकम्पायां कन् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजं वर्णयति—वासितार्थ इति पञ्चभिः । मदीय-व्रजस्य शोभाम् उद्धवः पश्यत्व् इति भगवद्-इच्छा-शक्ति-प्रेरिता योगमाया निर्वेद-विषाद-दैन्यादि सञ्चारिभिर् विधुरं कृष्ण-वियुक्त-प्रकाशं संवृत्य हर्षोत्सुक्य-चापल्योत्साहादिभिर् अतिमनोहरं कृष्ण-संयुक्त-प्रकाशं प्रथमं सायं समये सामान्यत एवोद्धवं दर्शयामासेति ज्ञेयम् ।
वासिताः पुष्पवत्यो गावस् तन्-निमित्तम् अभितो युध्यद्भिर् मिथो युध्यमानैः शुष्मिभिर् मत्तैः नादितं नाद-युक्ती-कृतम् । वास्राभिर् धेनुभिश् च नादितम् । स्व-वत्सकान् नूतनान् प्रतिधावन्तीभिः ॥९॥
॥ १०.४६.१० ॥
इतस् ततो विलङ्घद्भिर् गो-वत्सैर् मण्डितं सितैः ।
गो-दोह-शब्दाभिरवं वेणूनां निःस्वनेन च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विलङ्घद्भिः उत्पतद्भिः गो-दोह-शब्दैः सहाभितो रवाः मुञ्च, मा मुञ्च, नय, आनय, देहि, गृहाणेत्य्-आदयो यस्मिंस् तम् । वेणूनां निःस्वनेन च मण्डितम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुञ्चादि-क्रियाणां वत्सं क्षीरं चेति यथायथं शेषः । आदिना उपेहि, अपसर, तरस्व, मा त्वरस्वेत्य्-आदीनां ग्रहः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गवां वत्सैर् इति महिष्य्-आदयो वर्जिताः, अत एव सितैः । यद् वा, गवां वत्सेषु वात्सल्यातिशयात् तैः समं तासाम् अपि धावनम् अभिप्रेतम् । सितैर् इति वृषाणां धेनूनां प्रायो धवलत्वेऽपि वत्सानाम् अतिनूतनत्वेन सुनिर्मलतयातिधावल्यात् । एवं वृषादिभिर् आनन्दनत्वम् उक्त्वा गोपानां करणणापि तदाह—गोदोहेति । निःस्वनेन चोपलक्षितम् । किं वा, नादितम् इति पूर्वेणैवान्वयः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सितैर् इति शुभ्रताधिक्य-विवक्षया गोदोह-शब्द-मिश्रा अभिरवा यस्मिंस् तद् इति टीकायां तु लेखक-भ्रमः । निःस्वनेन च गोपैश् च सुविराजितम् इति गोपीभिः प्रेयसीभ्य इतराभिः मद्-अर्थे त्यक्त-दैहिका इत्य्-आद्य्-उक्तेः श्री-गोपैः श्रीदामादिभिर् अन्यैश् च कैश्चित् स्वलङ्कृतैर् इति योज्यम् ॥१०-११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गो-दोह-शब्दैः सह अभितो रवा मुञ्च मा मुञ्च उपेहि अपसरः त्वरस्व मा त्वरस्व नयानय देहि गृहाणेत्य्-आदयो यस्मिंस् तम् । वेणूनां निःस्वनेन च ॥१०॥
॥ १०.४६.११ ॥
गायन्तीभिश् च कर्माणि शुभानि बल-कृष्णयोः ।
स्वलङ्कृताभिर् गोपीभिर् गोपैश् च सुविराजितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गायन्तीभिर् गोपीभिर् गोपैश् च सुविराजितम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुभानि मङ्गल-कराणि ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपीनां कर्मणां चानन्दनत्वम् आह—गायन्तीभिर् इति । शुभानि मङ्गलानि । च-कारात् प्रेम्णा रुदतीभिश् च । यद्यपि परम-दुःखिनो जनाः सुष्ठु-मलिनत्वाद् अतीव विकत्वाच् चानन्द-हेतवो न स्युः, तथापि श्री-भगवदीय-गाढ-प्रेम्णां लोकोत्तर-चमत्कारित्वात् मालिन्येऽपि काम् अपि शोभां वैकल्येऽपि काम् अपि हृदयङ्गमतां च प्रकटय्य परमानन्द-कारित्वं भवत्य् एव । अधुना तासां गोपीनां च रूपादिना चानन्दनत्वम् आह—स्वलङ्कृताभिः । श्री-कृष्णेनागत्य दृष्ट्वा साधु मन्तव्यम् इत्य् एवं तस्य प्रीत्य्-एकापेक्षया तत्-प्रेषितैर् अलङ्कारैः सुष्ठु भूषिताभिः । च-कारात् तथैव गोपैर् अपि स्वलङ्कृतैः, अत एव सुष्ठु विशेषेण राजितं शोभितम् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-श्लोको द्रष्टव्यः।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गायन्तीत्यादिभिश् च विराजितम् ॥११॥
॥ १०.४६.१२ ॥
अग्न्य्-अर्कातिथि-गो-विप्र-पितृ-देवार्चनान्वितैः ।
धूप-दीपैश् च माल्यैश् च गोपावासैर् मनोरमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्न्य्-आद्य्-अर्चनान्वितैर् गोप-गृहैर् धूपादिभिश् च मनोरमम् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माल्यैः पुष्पैः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धर्मं सम्पत्त्या चानन्दनत्वम् आह—अग्नीति । तत्र नित्य-होमापस्थानादिनाग्न्य्-अर्कयोः ग्रास-दानादिना गवाम् । अतिथ्य्-आदीनां च चतुर्णां सत्कारादिना । यद् वा, अग्न्य्-आदयः पञ्च भगवत्-पूजाधिष्ठानान्य् एव । पित्र्-आदयश् च गृहस्थानाम् अवश्यार्च्या एवेति तेषाम् अर्चनेनान्वितैः । यद्यपि महा-भागवतैर् अप्य् उपास्यानां व्रज-वासिनां विधि-कैङ्कर्यं नास्ति, तथापि श्री-भगवत इव तेषां च कर्म-करणम् इदं लीलेति विविधोपभोग-सामग्रीभिश् चानन्दनत्वम् आह—धूपेति । धूपादीनां मङ्गलत्वेन स्पष्टतयोक्तिः । ध्वज-पताकादयश् च ज्ञेयाः । अन्यत् तैर् व्याख्यातम् । यद् वा, धूपादिभिर् उपलक्षितैर् गोपावासैः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं लौकिक-शोभां वर्णयित्वा वैदिक-शोभाम् अपि वर्णयति—अग्नीति । नित्य-होमोपस्थानादिनाग्न्य्-अर्कयोः ग्रास-दानादिना गवाम् अतिथ्य्-आदीनां चतुर्णां सत्कारादिना । यद् वा, अग्न्य्-आदयः पञ्च भगवत्-पूजाधिष्ठानान्य् एव पित्र्-आदयश् च स्व-गृह-स्थानाम् अवश्यार्च्या एवेति वैष्णवानां तेषां ते च तदीयत्वेनैवेति तेषाम् अर्चनान्वितैः । यद्यपि महा-भागवतैर् अप्य् उपास्यानां श्री-व्रज-वासिनां विधि-कैङ्कर्यं नास्ति, तथापि श्री-भगवत इव तेषां च कर्म-करणम् इदं लीलयैवेति ज्ञेयम्, किन्तूभयथा वैश्याभीरतया द्विजत्वम् एवैषां दर्शितम् । तद् उक्तं श्री-कृष्ण-राम-नाम-करणे—कुरु द्विजाति-संस्कारं [भा।पु। १०.८.१०] इति । वैश्यस् तु वार्तया जीवेत् [भा।पु। १०.२४.२०] इत्य्-आदौ । वार्ता चतुर्विधा तत्र वयं गो-वृत्तयोऽनिशं [भा।पु। १०.२४.२१] इति च । अन्तर्-गृह-शोभां वर्णयति—धूपेति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्न्य्-अर्केति गोपावासैर् इत्य् अस्य विशेषणम् ॥१२॥
॥ १०.४६.१३ ॥
सर्वतः पुष्पित-वनं द्विजालि-कुल-नादितम् ।
हंस-कारण्डवाकीर्णैः पद्म-षण्डैश् च मण्डितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : षण्डः समूहः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : षण्डोऽर्धे मणि-दोषे च समूहेक्षु-विकारयोः इति धरणिः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं व्रजस्यानन्दनत्वम् उक्त्वा तद्-बाह्यस्यापि तद् आह—सर्वत इति। श्री-वृन्दावनस्य सर्वत्वाश्रयत्वेन सर्व-स्थानेषु सर्व-वृक्ष-लतादीनाम् एव पुष्पितत्वात् हंस-कारण्डवाकीर्णैः सरोभिर् इति शेषः । पद्मानां षण्डं येषु सरःसु तैश् च । पूर्वं वासितार्थेऽ भियुध्यद्भिः [भा।पु। १०.४६.९] इत्य्-आदिना यत् पशूनां हृष्टत्वम् उक्तम्, वनादीनां च यत् पुष्पितत्वादिना, ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इति भगवद्-वचसा गोपानां मुखतः श्रवणेन झटिति तदागमनस्यावश्यकत्व-मननाद् इति ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बहिः प्रदेश-शोभां वर्णयति—सर्वत इति । पद्म-षण्डैः सरोवरादि-गतैः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.४६.१४ ॥
तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् ।
नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आर्चयत् पूजयामास ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आगतं स्व-गृह-द्वारि प्राप्तं समागम्य प्रत्युत्थानादिना सङ्गम्य छन्न-यानतया तद्-आगमनाज्ञानेनाग्रेऽनभिगमनाद् अभिशब्दाप्रयोगः । अनुचरं भक्तम्, अत एव प्रियं तस्यात्मनो वा, वासुदेव-धियेति सताम् अतिथ्य्-अर्चन-स्वभावात् । किं वा, वासुदेवः श्री-कृष्णोऽयम् आगत इति मत्वेत्य् अर्थः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आगतं स्व-गृह-द्वारि प्राप्तं समागम्य श्रुत्वाभ्यन्तरतः सन्निकृष्टम् आगम्यानुचरं भक्तम्, अतः प्रियं कृष्णस्यात्मनो वा वासुदेव-धिया वैष्णवस्य तद्-अधिष्ठानत्वात् तद्-अभेदेन ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथोद्धवः कृष्ण-वियुक्त-प्रकाशं नन्दालयं प्रविवेशेत्य् आह—तम् इति । समागम्य अभ्यन्तरतः समीपम् आगत्येति स्व-पुत्र-सारूप्यावलोकनेनोद्धवस्य च स्व-द्रष्टृ-जन-मात्रोत्सव-दायित्व-शक्त्या च श्री-नन्दस्य बाह्य-व्यवहारानुसन्धान-सम्भाषणादि-सामर्थ्योदयो ज्ञेयः । वासुदेव-धिया अतिथि--रूपेण मद्-इष्ट-देवो नारायण एवागत इत्य् आर्चयेत् पाद्यादिना ॥१४॥
॥ १०.४६.१५ ॥
भोजितं परमान्नेन संविष्टं कशिपौ सुखम् ।
गत-श्रमं पर्यपृच्छत् पाद-संवाहनादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कशिपौ शय्यायां संविष्टम् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमान्नेनेति प्राधान्याद् अन्नेन च भक्त-गो-रसादिना, संविष्टम् उपविष्टं कायं प्रसार्य निविष्टं वा, आदि-शब्दाद् वीजनानुलेपनादीनि, तैश् च कारितैः स्वयम् एव वा कृतैः । गत-श्रमं सन्तं परिदेवनतयापृच्छत् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं परमान्नेन पायसेनोत्कृष्टान्नेन वा भोजितं ततः कशिपौ शय्यायां संविष्टं क्षणं कायं सम्प्रसार्य विश्रान्तवन्तं ततश् च सेवक-द्वारा पाद-संवाहनादिभिर् गत-श्रमं सुप्तं सुखोपविष्टं पर्यपृच्छद् इत्य् अर्थः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पाद-संवाहनादिकं सेवक-द्वारा सुहृदस् तन्-मातुलादीन् ॥१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : परमान्नेनेति प्राधान्याद् अन्नेन च भक्त-गोरसादिना । संविष्टम् उपविष्टं कायं प्रसार्य निविष्टं वा, आदि-शब्दाद् वीजनानुलेपनादीनि तैश् च कारितैः स्वयम् एव वा कृतैः । गत-श्रमं सन्तं परिदेवनयापृच्छत् ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोजितं परमान्नेति । यद्यपि मथुरा प्रस्थान-दिनावधि व्रज-स्थ-जनानां सर्वम् एव महानसम् अमार्जितम् अलिप्तं तृण-पत्र-धूलिभिः परिपूर्णं लूता-तन्तु-वितान-मयम् एवाभूत्, परस्पर-प्रतिवेशि-जन-दत्तैर् दधि-दुग्ध-तक्रादिभिर् एव प्राणान् धारयन्तो हा हताः स्म इति वादिनः सर्वे विषीदन्त्य् एव, तद् अपि तद्-दिने हन्त हन्त मद्-गृहम् आयातोऽयम् उद्धवोऽद्य मा क्षुधा विषीदत्व् इति व्रज-राजस्याशयम् अभिज्ञ;ह् कश्चित् परिजनो ब्राह्मणः खण्ड-तण्डुल-पयोभिर् एक-पुरुष-मात्र-भोज्यं परमान्नं पपाचेति ज्ञेयम् । पाद-संवाहनं सेवक-द्वारैव उद्धवस्य तद्-भ्रातुष्पुत्रत्वात् ॥१५॥
॥ १०.४६.१६ ॥
कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दनः ।
आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्-वृतः10 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रात्म-सखत्वेन श्री-कृष्ण-पितृत्वेन च प्राक् श्री-वसुदेवस्य पृच्छ्यत्वात् । यद् वा, स्पष्टं कृष्णे पृष्टे सत्यार्ति-भरोदयेन पश्चाद् अनृ-प्रश्नस्याशक्यत्वात् । किं वा, सूचीकटाह-न्यायेन विस्तीर्णस्य तत्-प्रश्नस्य पश्चाद् एव पृच्छ्यत्वात् । किं वा, परम-हृद्यस्य स्नेहज-विविध-शङ्कया सहसा प्राग्-अपृच्छत्वाद् आदौ श्री-वसुदेवस्य कुशलं पृच्छति—कच्चिद् इति । हे महा-भाग ! इति श्री-कृष्णस्य प्रियत्वाद् भवान् परम-भाग्यवान् एव । वयं तु भाग्य-हीनास् तेन परित्यक्तत्वाद् इति भावः । शूर-नन्दन इति सखित्वेन गौरवेण च साक्षान्-नामाग्राह्यत्वात्, स्नेह-भर-स्वभावाद् वा । आद्य-शब्देन कलत्रादयः । मुक्तः सर्वापद्भ्यः । अपत्याद्यैर् युक्त इत्य् अनेन सुहृद्भिर् यदुभिर् वृत इत्य् अनेन च सामान्यतः श्री-कृष्णस्यापि तथा श्री-देवक्य्-आदीनां तत्-परिवाराणां यादवानां च सर्वेषां कुशलं पृष्टम् एव ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र श्री-कृष्णस्य विश्लेष-दुःख-वृद्धि-शङ्कया सहसा स्पष्टं प्रष्टुम् अशक्यत्वाद् आदौ तत्-प्रश्न-भूमिका-रूपं श्री-वसुदेवस्य कुशलं पृच्छति । कच्चिद् इति । हे महा-भागेति श्री-कृष्णस्य सन्निहितत्वाद् भवान् प्रसिद्धायां महा-भागतायां योग्य एव वयं तादृशतायाम् अयोग्यास् तेन परित्यक्तुं योग्या एवेति भावः । शूर-नन्दन इति । तेन तत्-पितुर् भाग्योदयो विवक्षितः । तच् च श्री-कृष्णस्य तत्र पुत्रायमाणत्वाभिप्रायेण । मुक्तः सर्वापद्भ्यः अपत्याद्यैर् युक्त इत्य् अनेन च सामान्यतः सर्वेषां तथा श्री-कृष्णस्यापि कुशलं पृष्टम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्य प्रश्ने अश्रु-कण्ठावरोधादयः सहसोद्भविष्यन्तीत्य् आशङ्क्य प्रथमं वसुदेवस्य कुशलं पृच्छति मुक्तो बन्धनात् सर्वापद्भ्यश् च ॥१६॥
॥ १०.४६.१७ ॥
दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना ।
साधूनां धर्म-शीलानां यदूनां द्वेष्टि यः सदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिष्ट्या इति कर्मणि षष्ठी, हिंसार्थानां प्रयोगे ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सानुगः केश्य्-आदि-सहितः । स्वेन स्वकीयेन स्व आत्मात्मीययोर् अपीति हलायुधः । यदूनाम् इति द्वितीयार्थे षष्ठी । यद् वा, कर्मेति पदम् अध्याहार्यम् । यदूनां कर्म कृत्यं यो द्वेष्टि इति ज्ञेयम् ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्षणं निज-धैर्यार्थं मुक्तत्वस्य मुख्य-कारणम् एव साक्षात् कृष्ण-प्रस्ताव-व्यवधानतया प्रस्तौति—दिष्ट्या इति । स्वेन इति तद्-धनने दोषः परिहृतः । पाप्मानम् एवाह—साधूनां सदाचाराणां, अत एव धर्म-पराणां, अतस् तद्-अर्थं तत्र श्री-कृष्ण-गमनम् अस्माभिर् अप्य् अनुज्ञातम् इति भावः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४६.१८ ॥
अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।
गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गावो गाः । गिरिं गोवर्धनम् ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न इति सामान्येनोक्तं, पुनर् विशेषत आह—मातरम् इति ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च धैर्ये चिरम् अक्षमः प्रष्टव्यम् एव साक्षात् पृच्छति—अपि इति । कृष्णः सर्व-चित्ताकर्षको मत्-पुत्रः किं स्मरति ? किं न विस्मृतवान् अस्ति ? इत्य् अर्थः । न इति बहुत्वम् उपनन्दाद्य्-अपेक्षया । किं वा, प्राक् सामान्येनेत्य् उक्त्वा पश्चाद् तद् एव विवृणोति--मातरम् इत्य्-आदिना । ततश् च व्यक्ततया स्वस्यानिर्देशो महा-दैन्येन तत्-कर्तृक-स्व-स्मरन-मननात् । सुहृद उपनन्दादीन् सखीन् श्रीदामादीन् ।
आत्मा कृष्ण एव नाथो यस्य, तम् । च-काराद् इदं लिङ्ग-वचन-व्यत्ययेन विशेषणतया यथा-योग्यम् अन्यैर् अपि योज्यम् । तथा वो युष्मदीया इति चानेन तु स्नेह-विश्ēषणं जनयति । एषां स्नेहादिना तारतम्यापेक्षया क्रमेण निर्देश्यानाम् अपि तथोक्तिर् आर्ति-भरोदयेन वैक्लव्यात् ।
अथवा, तत्रैव श्री-देवक्य्-आदि-प्राप्त्या मात्रादीन् एतान् न स्मरतु नाम, आत्म-नाथं व्रजम्, तथा तादृशीर् एव स्वयं नित्यं परिपालिता गाः सर्व-गुण-युक्तं सदा विविध-क्रीडा-सुख-पदं वृन्दावनं किं स्मरति ? अहो बत पुर्यां गवाश्वादीनाम् उपवनानां चोत्तमानां प्राप्त्या नैतानि वा स्मरतु, विचित्र-सेवया हरिदास-वर्यत्वेन ख्यातं स्वयं प्रवर्तितार्चनं सप्ताहं स्व-करे धृतं गिरिं किं स्मरति ? कथम् अपि तस्याप्राप्तेः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च धैर्ये चिरम् अक्षमः प्रष्टव्यम् एव साक्षात् पृच्छति—अपि इति । कृष्णः सर्व-चित्ताकर्षको मत्-पुत्रः किं स्मरति ? किं न विस्मृतवान् अस्तीत्य् अत्र न इति बहुत्वम् उपनन्दाद्य्-अपेक्षया । सा च समान-स्निग्धत्व-विवक्षया । मातरम् इति तन्-मातृ-निर्देशस् तु तस्या अत्यन्त-दुःख-दर्शन-व्यग्रतया तद्-एक-स्फुरणात् । सुहृदः सम्बन्धि गोपाल-तन्-मातुलादीन्, सखीन् श्रीदामादीन् गोपान् इति साधारणान् । एक-शेषत्वेन गोपीर् इति ताश् च तादृशीः । आत्मा कृष्ण एव नाथो यस्य तम् । व्रजस्य तन्-नाथत्वेन सर्वेषां तन्-नाथत्वं सिद्ध्यतीत्य् अस्यैव विशेषणं दत्तम् । गावो गाः गौरवानुसारेण यथा-क्रमम् अन्यूनोक्तिः । वृन्दावनाद् गिरेर् अगुरुत्वं तद्-अन्तर्भूतत्वात् । अथवा, प्रथमत आत्म-स्फूर्तेर् एव लभ्यत्वात्, पूर्वं न इत्य् उक्तम् । ततश् चोत्तरोत्तरस्यासङ्कोच-स्थानत्वातिशयेन सान्निध्यातिशयात् स्मरणातिशय-सम्भावनया सखि-पर्यन्तानुक्रमोक्तिः ।
अथ विशेष-स्मरणासम्भावनया सामान्यत्वेनापि द्वयोस् तद्-विषयत्वं पृच्छति पद-द्वयेन । तत्रापि सामान्योक्तिर् व्रजं चेति । तत्र तत्रासम्भावनया पुनविशेषोक्तिर् गाव इति । अहो अहरहस् तम् अपि त्यक्त्वा यत् सङ्गे यत्र चारमत ता गावस् तद् वृन्दावनं च किं स्मरति ? तत्र च विचित्र-क्रीडा सुख-सम्पत् कल्प-द्रुमं स्वयं प्रवर्तित-पूजनं सप्ताहं स्व-करे धृतं गिरिं वा स्मरति मारितेऽप्य् एकस्मिन् कंसे, तत्र तत्-पत्नी-द्वयावर्तिनाम् अन्यत्र च तद्-रिपु-पित्र्-आदीनां परः-कोटीनां दुरुद्यम-भाजां प्रतिघातार्थं स्वजनानाम् अपि यदूनां, ततस् तत आनीय सुख-वासार्थं व्यग्र-चित्तत्वाद् आत्मनः स्मरणम् अपि तस्य तत्र तत्र प्रतिरुद्धस्य न सुघटते, किम् उतान्येषाम् इति भावः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः साश्रु-गद्गदं पृच्छति—अपि इति । मातरम् इति तन्-मातुर् दुरवस्था त्वयैव दृश्याताम् इति तर्जन्या तां दर्शयति । आत्मा स्वयम् एव नाथो यस्य तम् इमम् अनाथं सम्प्रति निःशोभं व्रजं च पश्य इति भावः । गावः गाः ॥१८॥
॥ १०.४६.१९ ॥
अप्य् आयास्यति गोविन्दः स्वजनान् सकृद् ईक्षितुम् ।
तर्हि द्रक्ष्याम तद्-वक्त्रं सुनसं सुस्मितेक्षणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्य् आयास्यत्य् आगमिष्यति किम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्हि गोविन्दागमनावसरे । तद्-वक्त्रं गोविन्द-मुखम् । गोविन्द इति गो-प्रियत्वम् आह । तद्-अर्थम् आयास्यति चेत्, तर्हीति ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु धीमान् कृतज्ञोऽसौ सदा स्मरत्य् एवेत्य् आशङ्क्य हृद्यम् अन्यत् पृच्छति—अपीति । गोविन्दो गोकुलेन्द्रो मत्-पुत्र इत्य् आगमने योग्यतोक्ता । स्व-शब्देन स्नेह-पात्रतयेक्षणावश्यकता च । अतः स्वजनान् अत्यार्तान् सकृद् ईक्षितुम् अपि, किं पुनर् मधुर-वाक्यादिना सान्त्वनादिकं कर्तुं ? यद् वा, सकृद् ईक्षितुम् एव, न त्व् अन्यत् किम् अपि कर्तुम् । सकृत् तत्-कर्तृक-दर्शन एवास्माकम् अपेक्षा, न चान्यत्रेत्य् अर्थः । एषा परम-दैन्योक्तिः ।
ननु स सर्व-दर्शी तत्र स्थितोऽपि युष्मान् सदा पश्यत्य् एव । किम् आगमनेन ? तत्राह—कर्हीति । द्रक्ष्यामः द्रक्ष्यामः, सुन्दर ईक्षणे नेत्रे यस्मिन् तत् । श्री-मुखस्यान्येषाम् अपि सर्वावयवानां सुन्दरत्वेऽपि नासा-नेत्रयोर् एव सौन्दर्योक्तिः, मुख्यत्वेनोपलक्षणार्थम् । अतोऽत्रागमनेनैवास्मन्-मनोरथोऽयं सम्यक् सिध्यतीति भावः ।
अथवा, सकृद् ईक्षितुं किम् आयास्य्यतीत्य् उक्त्या मिथो दर्शने सुद्धेऽपि पुनर् अत्यौत्कण्ठ्येन धरिय-हानेः स-वैयग्र्यम् आह—कर्हीति । तथाप्य् आयास्यति किं ? इत्य् उक्त्या व्रजे तत्रैव दर्शनम् अपेक्ष्यते ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु धीमान् कृतज्ञोऽसौ सदा स्मरत्य् एव, किन्तु विधाय सुहृदां सुखम् इत्य् उक्तेः कार्य-वशात् किञ्चिन्-मात्र एव विलम्बः स्याद् इत्य् आशङ्क्य फलं हृद्यम् अन्यत् पृच्छति—अपीति । गोविन्दो गोकुल-पालकः इत्य् आगमनागश्यकतोक्ता । स्व-शब्देन स्नेह-पात्रतयेक्षणावश्यकता आस्तां पौनःपुन्याशा सकृद् अपि तथैवास्तां सान्त्वनाद्य्-आशा ईक्षितुम् अपि किम् आयास्यति तत्रेक्षितुम् इति स्वेषां महा-व्याधितानाम् इव तापः सूचितः सकृद् इति तत्राप्य् असम्भावित-जीवनानाम् इव यन्-मात्रेणास्मासु मरिष्यमाणानां पुनर् दर्शनाभाव-दुःखं कथञ्चिज् जीविष्यतां च पुनर् दर्शनासम्भावन-दुःखम् उभयेषां चापाततस् तृष्णाया असह्यता-दुःखं नङ्क्ष्यतीति भावः ।
तस्मिन्न् अपि तद्-आगमने हृद्यं फलान्तरं सैवाग्न्यम् अभिव्यनक्ति—कर्हीति । कदागमनं स्यात् ? कदा द्रक्ष्याम इत्य् अर्थः । स-लोप आर्षः । तर्हीति पाठे तर्ह्य् एवेत्य् अर्थः । ज्ञातीन् वो द्रष्टुम् एष्यामः इत्य् अत्रास्माकं तत्र गमनस्यानभिप्रेतत्वात् । एवं श्रीमद्-वक्त्रं स्मरणे तदीय-शोभा-विशेषं मुह्यन्न् इव स्मरति सुनसम् इत्य्-आदि ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्य् आयास्यतीति किं स्विद् उद्धव ! तन्-मनोऽभिप्रायं जानासीति भावः । ननु जानाम् य् एव स आयास्यति युष्मान् सान्त्वयिष्यति निश्चलम् अत्रैव स्थास्यतीति तत्रास्मत् सान्त्वनं दूरे वर्ततां निश्चल-वासोऽपि मा भवतु, किन्तु तद्-दर्शन-मात्रम् अहं याचे इत्य् आह—गोविन्द इति । स्व-स्वजनान् अस्मान् विरह-महा-ज्वर-पीडितान् अद्य श्वो वा मरिष्यतो द्रष्टुम् अपि सकृद् अपि किम् आयास्यति गोविन्द इति । परः परार्धान् गास् तद्-उपलक्षितानि कोटिशः स्वर्ण-मुद्रा-मुक्ता-हीरकादि-रत्न-राजित-कानक-पात्र-विविध-वस्त्रालङ्कार-चन्दनागुरु-कुङ्कुमाद्य्-अनेक-गृह-द्रव्याणि स्वीयानि विन्दतां लभताम्, आवयोर् मृतयोर् एतेषु वस्तुषु कोऽन्यः स्वत्वं कल्पयेत् । अत एतानि गृहीत्वा यत्र तस्य वस्तुम् इच्छास्ति तत्रैव वसत्व् इति भावः ।
ननु किम् एवं द्योतयसि तम् आगत-प्रायं विद्धीति तत्र विलम्बम् असहमान आह—कर्हीति । तर्हीति च पाठः द्रक्ष्याम् इति स-लोप आर्षः, तच् चन्द्र-महीत्य् आकाङ्क्षा महती वर्तते इति भावः ॥१९॥
॥ १०.४६.२० ॥
दावाग्नेर् वात-वर्षाच् च वृष-सर्पाच् च रक्षिताः ।
दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णोपकार-स्मरणादिभिर् अनुपमानन्देनाभिभूयमान आह—दावाग्नेर् इत्य्-आदिना । वाताद् वर्षाच् चेति वृषात् सर्पाच् चेति अन्येभ्यश् च दुरतिक्रमेभ्यो मृत्युभ्यः श्री-कृष्णेन रक्षिताः स्मः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वात-वर्षाद् इन्द्र-कृतात् । वृष-सर्पाच् चेति समाहार-द्वन्द्वः । अन्येभ्यः केश्य्-आदिभ्यः । मृत्युभ्यो मृत्यु-हेतुभ्यः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं दर्शन-हेतुतया रूपम् उक्त्वा विलपन्न् इव प्रेमादि-गुणं चाह—दावाग्नेर् इति । सर्पः कालियोऽजगरश् च । एषां विशेषतां निर्देशः स्वयं तेन साक्षाद् अनुभवात् । मृत्युभ्यो मृत्यु-तुल्येभ्यः स्मेति तत्-प्रसिद्धम् एवेत्य् अर्थः । पाठान्तरे रक्षिताः स्म इत्य् अन्वयः । तेन रक्षितत्वाद् एव जीवाम इत्य् अर्थः । रक्षणे हेतुः—महान् आत्मा कृपामयत्वादि-स्वभावो यस्य तेन । सुमहात्मनेति पाठः क्वचित् । निज-दयालुत्वेनैव रक्षिताः, न त्व् अस्मद्-गुणादिनेत्य् अर्थः । इति खेदात् कार्पण्योक्तिः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः स-धैर्यम् इव स्वेषु तत्-कर्तृकात्म-दुःखाद्य्-अनपेक्षित-स्नेह-शतं निज-सान्त्वनार्थम् इव स्मरन्, प्रत्युत तेन हृदि विदीर्यन्न् इव विलपति—दावाग्नेर् इति । अहो परम-बाल्याद् एव तेनास्माकं रक्षा मुहुर् एव कृतास्ति । कति वा वर्णयामः ? यत्र दावाग्नेर् अपि स्वयम् अनुकम्पावेशेन पातुम् आरब्धात् सतो गर्गोद्दिष्ट-नारायण-सम-प्रभावत्वेन वा तं दृष्ट्वा स्वत एव दयया वा पीयूषीभूयाप्यायित-तद्-देहाद् वयं रक्षिताः स्मः । एवं वात-वर्षादाव् अपि योज्यं मृत्युभ्यो मरणाधिष्ठातृ-देवताभ्य इतरेभ्यः सुष्ठु महान् आत्मा कारुण्य-प्रभावादिः निरुपाधि-प्रेमास्पदादि स्वभाव औत्पत्तिक-गुणो यस्य तेन ॥२०॥\
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु नैव मरिष्यथ बहु-कालम् एव । तं स्व-सुतं लालयन्तो जीविष्यथेति तत्राधुना तु मृत्यु-हस्तान् न मुच्यामहे इति वक्तुम् अतीतान् मृत्यून् गणयति—दावाग्नेर् इति । सुमहात्मना महा-स्नेहमय-स्वभावेन किं त्व् अधुना सुमहा-वाडवानलात् कथं न तेन रक्ष्यामहे ? इति न जानीम इति भावः ॥२०॥
॥ १०.४६.२१ ॥
स्मरतां कृष्ण-वीर्याणि लीलापाङ्ग-निरीक्षितम् ।
हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, स्मरताम् इति । लीलयापाङ्गेन निरीक्षितम् । अङ्ग हे उद्धव ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं चेति । क्रिया गृहादि-विषयाः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथैव लीलाम् अपि वर्णयन् तस्या मनोहरताश् च दर्शयन् निजातिदीनताम् आह—स्मरताम् इति । कृष्णस्य वीर्याणि पूतना-वधाद्य्-अद्भुत-चरितानि । कृष्णस्येति समासान्तः प्रविष्टम् अपि कृष्ण-परैर् अपि सर्व-योज्यम् । एवं लीलेति च, लीलात्र विलास-विशेषः । एवं वीर्यादीनाम् अपि सर्वेषां सर्व-चित्ताकर्षकत्वम् अभिप्रेतम् । तेषां च चित्ताकर्षणे यथोत्तरं श्रैष्ठ्यम् । तत्र सर्वेभ्यो भाषितस्य पर्यवसितं श्रैष्ठ्यम्—मधुरया गिरा वल्गु-वाक्यया [भा।पु। १०.३१.८] इत्य्-आदि-वचनतो व्यक्तम् एव । भाषिते हसितादेर् अपि समुचितत्वात् । क्रिया नित्य-नैमित्तिकादि-कर्माणि भोजनादयो व्यापारा वा । शिथिला मन्द-मन्दा बभूवुः । क्रियाभिर् अन्य-चित्ततया वा क्षणं स्वस्थास् तिष्ठेम, तद् अपि न सिध्येद् इति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पद्य-द्वयेन माधुर्य-प्रभावौ स्मृतौ । तत्रोभयथापि वैयग्र्यं लब्ध्वा एतद् एव प्रात्यहिकम् आत्म-दुःखं निवेदयति—स्मरताम् इति । कृष्णेति कृष्णस्येत्य् अर्थः । सुपां सुलुग् इत्य्-आदिना सुपो लुक् । अत एव लीलेत्य्-आदाव् अप्य् अन्वयः कृष्णेति मुहुर् उक्तिः पितुः पुत्रस्य मूल-नामन्य् आसक्तेः । वीर्याणि दावाग्नि-मोक्षणादि-रूप-प्रभाव-मय-चरितानि न केवलं तानि, अपि तु माधुर्य-मय-चरितानि चेत्य् आह—लीलेत्य् आदि । लीला नेत्रयोः स्वाभाविक-विलासः तत्-पूर्वकम् अपाङ्गेन लज्जा-स्वभावान् नेत्रैक-देशेनैव निरीक्षितं सर्वत्रैव स्निग्ध-स्वभावतया सावधानम् अक्षिणं, तथा तत्रैव हसितं, तत्र भाषितं च स्मरतां तद्-व्यसनम् आपन्नानां सर्वा भोजनादि-क्रियाः शिथिलाः अन्तर्-व्यग्रतया बहिः प्रयत्न-शून्याः, ईश्वरेणैव प्रवर्तिता इत्य् अर्थः । क्रियाभिर् अन्य-चित्ततया वा स्वस्थास् तिष्ठेम, तद् अपि न सिध्येद् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तदीय-मुख-चन्द्र-स्मरणं सुधयैव सर्वे सन्तापाः शाम्यन्तीति सत्यं तत्-स्मरणं सर्व-सन्ताप-हरम् अपि सम्प्रति दुरदृष्ट-वशाद् अस्माकं सर्व-सन्ताप-करम् एवाभूद् इत्य् आह—स्मरताम् इति । क्रियाः शिथिला इति स्नान-भोजन-पानाद्या अभ्यास-वशाज् जायमाना अपि सम्प्रति शिथिलीभवन्ति । अत एव न जीवाम इति भावः ॥२१॥
॥ १०.४६.२२ ॥
सरिच्-छैल-वनोद्देशान् मुकुन्द-पद-भूषितान् ।
आक्रीडान् ईक्ष्यमाणानां मनो याति तद्-आत्मताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं शिथिला एव किन्तु शनैर् उपरमन्तीत्य् आह सरिद् इत्य्-आदि । सरितश् च वनोद्देशाश् च तान् आक्रीडान् क्रीडा-स्थानानि ॥२१ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-आत्मतां तस्मिन्न् एव व्याप्तताम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि तद्-वीर्यादि-स्मरणम् एव त्यज्यतां ? तत्राह—सरिद् इति । सरितः श्री-यमुनाद्याः, शैलान् श्री-गोवर्धनादीन्, वनोद्देशांश् च काम्यक-वनादीन् । मुकुन्दः परमानन्द-प्रदो मत्-पुत्रः, तस्य पदैर् भूषितान्, यत आक्रीआन् इति पदानाम् अपि परमानन्द-प्रदत्वम् अभिप्रेतम् । अतस् तद्-ईक्षणाद् अप्य् उपरन्तुं न शक्नुम इति भावः । गोविन्देति पाठेऽपि गोकुलेन्द्रतया व्रज-जनैक-गतित्वेन तथैवार्थः । पदानां तावच् चिर-कालेऽप्य् अम्लानतादि-कारणम् आदाव् उक्तम् एव । अत एवैकादशे वक्ष्यते—पदैस् तान् ईक्षतां कारण्ः [भा।पु। ११.१.६] इति । यद् वा, मुकुन्दस्य पदाब्जाभ्यां विचित्र-क्रीडया विविध-श्री-विस्तारणेन भूषितानां क्रीडांश् च क्रीडा-विशेष-स्थानानि पावन-सरः-प्रभृतीनि । तद्-आत्मतां मुकुन्द-मयताम् एव ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु स्व-गृहावस्थाने पुत्र-स्मरणम् अधिकं स्याद् इति तत्-त्यागाय स्वयम् एव गाः पालयता यमुना-तीरादौ भ्रम्यताम् इत्य् आशङ्क्य तेनाप्य् अप्रतीकारं निवेदयति—सरिद् इति । उद्देशाः प्रदेशाः, तान् मुकुन्दस्य अजगर-वरुणादिभ्योऽस्मद्-आदि-मुक्ति-दातृत्वेन तन्-नाम्ना व्रजे विख्यातस्य पदैश् चरण-चिह्नैः श्री-पृथिवी-देव्यापि स्नेहाद् अद्यापि निजाङ्के तथैव रक्ष-प्राणैर् विभूषितान्, तथा आक्रीडान्, तत्-तत्-क्रीडा-चिह्न-मनोहरान् ईक्षमाणानां प्राणि-मात्राणां किमि उतास्माकं मनस् तद्-आत्मतां तत्-स्फूर्ति-मयतां याति । अस्माभिः किं कर्तव्यम् इति भावः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यद्य् एवं, तर्हि गृहावस्थाने पुत्र-स्मरणम् अधिकं स्यात् । अतस् तत्-त्यागाय स्वयम् एव गाः पालयता भवता यमुना-तीरादौ भ्रम्यताम् इत्य् आशङ्क्य तेनाप्य् अप्रतीकारं ज्ञापयति—सरद् इति । उद्देशाः प्रदेशाः । तद्-आत्मतां तत्-स्फूर्ति-मयतां तस्मिन् लीनतां वा ॥२२॥
॥ १०.४६.२३ ॥
मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ ।
सुराणां महद्-अर्थाय गर्गस्य वचनं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुराणाम् अर्थाय महत् गम्भीरं, गर्गस्य वचनं यथा ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गम्भीरं दुर्ज्ञेयार्थं, प्राग् अयं वसुदेवस्य इत्य् आद्य् उक्त-रूपम् । यद् वा, महते भू-भार-संहार-लक्षणायार्थाय प्रयोजनाय । इह च सामानाधिकरण्ये महतष् टेर् आ-काराभावश् छान्दसः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च परमार्तः सन् पुत्र-बुद्ध्या स्नेह एवात्यन्तार्ति-हेतुर् इत्य् आशङ्क्य स्व-चित्ताश्वासनाय ताम् आच्छादयन्न् इव । किं वा, तथापि नीचेष्व् अस्मासूपेक्षा, तस्यातुच्छत्वात् सम्बन्धासम्भवेन किल घटेतैवेत्य् अतिदैन्येनाह—मन्य इति । च-कारौ द्वयोर् अपि प्राधान्य-बोधनार्थम् । अतः कृपा-कोमल-स्वभावस्य बन्धु-वत्सलस्य रामस्यापि कृष्णस्येवास्मासूपेक्षोचितैवेति भावः । इह मर्त्य-लोके प्राप्तौ अवतीर्णौ सुरोत्तमौ श्री-हरि-हरौ श्री-वासुदेव-सङ्कर्षणौ वा चतुर्व्यूह-श्रेष्ठौ मन्ये । सुराणाम् अर्थाय भू-भार-हरणादि-प्रयोजनार्थम् । अतोऽस्माकं मर्त्यानां हितं कुतस् ताभ्यां कार्यम् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, सुराणाम् अपि मध्ये सुरोत्तमौ, महतां भक्तानाम् आर्थाय, ततो भक्तानां यादवानाम् एवार्थः कर्तुम् उपयुज्यते । न त्व् अस्माकम् अभक्तानाम् इति भावः । इयम् अत्यन्त-दैन्योक्तिर् एव । अथवा, एवम् अत्र चित्र-विचित्र-क्रीडादिना कृतम् अप्य् अस्माकं सुखम् अधुना परित्यागाद् विपरीतम् एव वृत्तम् इत्य् आह—मन्य इति । गोपायस्व समाहितः [भा।पु। १०.८.१९] इति गर्गस्य सुहृद्-वचनं यथावन् मन्ये । किम् अपि तु नैव, किन्तु इह व्रजे प्राप्तौ आगतौ यत् तत् सुराणाम् एवार्थाय पूतनादि-वधार्थं, न चास्माकं सुख-लाभायेत्य् एव मन्ये, परित्यागेनात्यन्त-दुःख-प्रदानात्, पूर्व-सुखस्यापि परम-दुःख-हेतुत्वेन दुःख एव पर्यवसानाच् च ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं हठात् पुनर्-आगतेन माधुर्य-स्फुरणेन लब्ध-चित्तास्वस्थ्यः पुत्र-बुद्ध्या स्नेह एवात्यन्तार्ति-हेतुर् इत्य् आशङ्क्य तद्-आच्छादनाशया विश्लेष-विशेष-मय-प्रीति-जाति-स्वभावात् तन्-माहात्म्य-कीर्तनेच्छया वा पुनः प्रभावान् स्मरति—मन्ये इति चतुर्भिः । इह मद्-गृहे प्राप्तौ स्वाच्छन्द्येनैव जन्मानुकृतवन्तौ सुओत्तमौ नारायण-समौ काव् अपि मन्ये सम्भावयामि । इति पुत्र-भावस्यैव सहजत्वम् अन्तर्गतत्वं च बोधयति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्लेषमय-प्रीति-जाति-स्वभावाद् एव सहसा स्फुरितेन तद्-ऐश्वर्येण क्षणं लब्ध-विवेक इवाह—मन्ये इति । इह मद्-गृहे प्राप्तौ मम च वसुदेवस्य च भाग्यात् पुत्राव् अभूताम् इत्य् अर्थः । सुराणाम् अर्थाय कंसादि-शत्रु-वध-लक्षणाय प्रयोजनाय महत् गम्भीरं गर्गस्य वचनं यथा ॥२३-२४॥
॥ १०.४६.२४ ॥
कंसं नागायुत-प्राणं मल्लौ गज-पतिं यथा ।
अवधिष्टां लीलयैव पशून् इव मृगाधिपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं तद्-वचोऽनुसारेणैव व्यवहार-संवादाद् अपीत्य् आह कंसम् इति ॥२३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा-शब्देन मल्लयोर् गज-पतेश् च नागायुत-प्राणत्वम् उक्तम् । अवधिष्टां हतवन्तौ । एव-शब्देन परिश्रमादिकं निरन्तम् । तत्रोपयुक्तो दृष्टान्तः—पशून् सिंह एवेति ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य गर्गस्य वचनानुरोधेन न सुरोत्तमौ, अपि तु व्यवहरणं व्यवहारः कृति-रूपः संवदतीत् संवादः सम्यग्-वक्ता व्यवहार एव संवादो व्यवहार-संवादस् तस्मात् । अवधिष्टां नाशयामासतुः । मल्लौ चाणूर-मुष्टिकौ । तथा-शब्देन मल्लयोर् गज-पतेश् च नागायुत-प्राणत्वम् उक्तम् । अवधिष्टां हृतवन्तौ । यौ यश् च यथा-स्वम् इति शेषः । मृगाधिप इत्य् एकत्वं प्रत्येक-दृष्टान्तत्वात् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४६.२५ ॥
ताल-त्रयं महा-सारं धनुर् यष्टिम् इवेभ-राट् ।
बभञ्जैकेन हस्तेन सप्ताहम् अदधाद् गिरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इभ-राट् यष्टिम् इव ताल-त्रय-प्रमाणं धनुर् बभञ्ज ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तालोऽङ्गुष्ठ-मध्यमे विस्तृते यत् परिमाणं जायते सः । तादृश-ताल-त्रय-परिमाणम् ।प्रादेश-ताल-गोकर्णाः साङ्गुष्ठे वितते करे तर्जन्य्-आदि-युते इति कोशात् । केचित् तु तालो हस्त-चतुष्टयम् इत्य् आहुः । महासारं बाहु-पुरुष-धार्यत्वाद् गुरुतरम् । यष्टिम् इक्षु-दण्डं, यष्टिर् वेण्व् इक्षु-दण्डयोः इति शाश्वतः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तालो नव-वितस्तय इति देव-बोधः । यष्टिम् इक्षु-दण्डं बभञ्ज । कृष्ण एकेन वामेनैव हस्तेनादधात् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तालः षष्ठि-हस्त-प्रमाणक-परिणत-ताल-वृक्षः । तालो नव-वितस्तय इति देव-बोधः । एकेन वामेनैव । यष्टिम् इव इक्षु-दण्डम् इव बभञ्ज ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तालं षष्टि-हस्त-प्रमाणक-परिणत-ताल-वृक्षः एकेन वामेनैव ॥२५-२६॥
॥ १०.४६.२६ ॥
प्रलम्बो धेनुकोऽरिष्टस् तृणावर्तो बकादयः ।
दैत्याः सुरासुर-जितो हता येनेह लीलया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : येनेत्य् एकत्वं प्राधान्यात् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भि-प्रायेण अन्त्य-पक्षे च सुराणाम् अर्थायेति । यद् उक्तं तद् एवं दर्शयति—कंसम् इति त्रिभिः । गोवर्धन-धरणस्यापि शत्रु-मद-भञ्जनादिना शत्रु-हिताचरणेन देवार्थ एव पर्यवसानाद् इति ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : येनेति येन येनेत्य् अर्थः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४६.२७ ॥
श्री-शुक उवाच—
इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः ।
अत्युत्कण्ठोऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । प्रेम-प्रसरेण स्नेहाधिक्येन विह्वलो विवशः । अत्युत्कण्ठा अनुरागो यस्य स तथा ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वत एव कृष्णानुरक्त-धीः । विशेषत इति पूर्वोक्तं माधुर्यं प्रभावमय-निज-पालनं च सम्यक् मुहुः स्मृत्वा प्रेम-वेग-विवशः, अत एवाश्रु-पूर्ण-कण्ठः सन् तूष्णीम् अभूत्, परं किञ्चिद् वक्तुं न शशाकेत्य् अर्थः । वीप्सया साङ्ख्यानस्य त्यागे शक्त्य्-अभावो बोध्यते ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वत एव कृष्णानुरक्त-धीः । विशेषत इति पूर्वोक्तं माधुर्य-प्रभाव-मय-निज-पालनं च सम्यक् मुहुः स्मृत्वा प्रेम-वेग-विवशः, अत एवाश्रु-पूर्व-कण्ठः सन् तूष्णीम् अभूत्, परं किञ्चिद् वक्तुं न शशाकेत्य् अर्थः । वीप्सया स्मरणस्य त्यागे श्रुत्य्-अभावो बोध्यते ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णानुर्कतधीर् इति । स्मृत्य्-आरूढेण महैश्वर्येणापि हन्त हन्त एतादृशैश्वर्यवता पुत्रेण गुण-रत्नाकरेण दुरदृष्ट-वशाद् विशिष्टोऽभूवम् इति कृष्णेऽनुरक्तेश् च धीः, न तु वसुदेवस्यैवैश्वर्य-गन्धेनापि सङ्कुचितानुरागा शिथिलित-सम्बन्धा धीर् यस्य सः । प्रेम-प्रसर-विह्वल इति—जाति-प्रमाणाधिक्यवतः प्रेम्णोऽगस्त्यस्याग्रे खल्व् ऐश्वर्यस्य समुद्रोऽपि कियान् इति भावः । एवं कृष्णस्य पिता नन्दो गाम्भीर्यस्य बलाद् धृतिं धृत्वा लौकिक्या रीत्योद्धवं संमानयितुं सम्यग् ईक्षितुं परिचेतुं कुशलं प्रष्टुं कृष्णस्य प्रभाव-मय-चरितुं वक्तुं शशाक ॥२७॥
॥ १०.४६.२८ ॥
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवास्राक्षीन् निरन्तरम् अमुमुचत् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुत्रस्य इति, प्राप्ताव् इह सुरोत्तमौ [भा।पु। १०.४६.२३] इत्य्-आदि-वचनादिनापि कथम् अपि पुत्र-भावानपगमेन, विशेषतश् च स्नेह-वर्धनेन तस्मिन् परम-वात्सल्यम् एव द्योतयति । अत एव वर्तमानानि इति शृण्वन्ती इति च वर्तमानया, वर्णनारम्भे श्रवण-प्रवृत्ति-मात्रेणैवेत्य् अर्थः । च-कारात् रूपादीनि च । स्नेहेन स्नुतौ प्रसृत-क्षीरौ पयोधरौ यस्यास् तथा-भूता सती । इति स्नेहातिरेक उक्तः । चिर-कालेऽतीतेऽपि सद्यः स्तनयोः स्नुतत्वात्, अत एवाश्रूणि अव समन्तात् निज-वस्त्रादिकम् आप्लाव्य अस्राक्षीत् विससर्जैव केवलम्, न तु किञ्चित् प्रष्टुं वक्तुं कर्तुं वान्यच् छक्तेत्य् अर्थः । एवं व्रजेशाद् विशेष उक्तः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुत्रस्य इति । सुरोत्तमाव् [भा।पु। १०.४६.२३] इत्य्-आदि श्रवणेऽपि, प्रत्युत तया निश्चिते तत्रैवावेशो दर्शितः । चरितानि प्रभाव-मयानि । च-कारात् किम् उत सौन्दर्यादीनीत्य् अर्थः । अत एव वर्तमान-शतृ-शनाभ्यां प्रवृत्त-मात्रेणैव नैरन्तर्येण चैवेत्य् अर्थः । अव समन्तात् । निज-वस्त्रादिकम् आप्लाव्य अस्राक्षीत् विससर्जैव केवलं, न तु किंतु किञ्चित् कर्तुं स्नेह-प्रस्नुत-पयः-पयोधरा च जातेत्य् अर्थः । इति चिर-कालेऽतीतेऽपि तादृशत्वात् स्वाभाविक-महा-स्नेहः सूचितः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कृष्णस्य पिता न गाम्भीर्य-बलात्वं धृतिं धृत्वा लौकिक्या रीत्या उद्धवम् आतिथ्येन संमानयितुं परिचेतुं कुशलं प्रष्टुं कृष्ण-प्रभाव-मयं चरितं च वक्तुं शशाक । माता श्री-यशोदा स्व-धैर्य-सिन्धु-भ्रमि-निमज्जनोन्मज्जनवती तत् तत् किम् अपि कर्तुं न शशाकेत्य् आह—यशोदा इति । मथुरा-प्रस्थान-दिनम् आरभ्यैव शतशः स्त्री-पुंस-स्वजनैः प्रबोध्यमानापि पुत्र-मुखं विनान्यत् किम् अप्य् अहं न द्रक्ष्यामीति प्रतिक्षणम् एव प्रतिजनानां पुरो मुद्रित-नेत्रैवाश्रूणि अव समन्तात् निज-वस्त्रादिकम् आप्लाव्य अस्राक्षीत् विससर्जैव, न तूद्धवं परिचेतुं वात्सल्य-विषयीकर्तुं स्वयं किञ्चित् प्रष्टुं पुत्रं प्रति किञ्चित् सन्देष्टुं च शक्तेत्य् अर्थः । स्नेहेन पुत्र-विषयकेण स्नुत-पयसौ पयोधरौ यस्या सा । श्लेषेण स्नुतानां वर्षणे जल-धरायमाणा ॥२८॥
॥ १०.४६.२९ ॥
तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परमं परां काष्ठां प्राप्तम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवति ब्रह्म-द्रवादि-ध्येय-पादन-चन्द्रिके निजेश्वरे श्री-कृष्णे सर्व-माधुरी-भर-पूर्णे तयोर् व्रज-नाथयोः परमं सर्वोत्तमम् अनुरागं प्रगाढ-प्रेमाणं, इत्थम् अदृष्टाश्रुत-प्रकारेण वीक्ष्य मुदा विस्मयेन नन्दम् आह, प्राधान्यात् तस्य ।
किं वा, मातुः स्नेह-विह्वलत्वेन श्रवणाशक्तेः । यद् वा, तयोर् अनिर्वचनीय-तादृश-माहात्म्ययोः ।
किं वा, पूर्व-जन्मनि द्रोण-धरयोः श्री-ब्रह्म-वर-प्राप्त-परम-प्रेम-भक्तिकयोः, यतो नन्दयति प्रेम-भक्त्या जगद् इति परम-स्निग्धत्वादिना कृष्णम् एव वेति नन्दः । दाम-बन्धनादिना तस्य भक्त-वश्यतादि-यशो-विस्तारणाद् यशोदा । तयोर् इति सर्वथा तादृशानुराग-योग्यत्वेन विस्मय-करत्वम् उक्तम् । यद् वा, इत्थम् ईदृशम् । किं वा, अनेन अश्रु-कण्ठोऽभवत् तूष्णीं [भा।पु। १०.४६.२७] इत्य्-आदिना, तथा शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् [भा।पु। १०.४६.२८] इत्य्-आदिना चोक्त-प्रकारेण परमं परां काष्ठां प्राप्तम् अनुरागं नव-नवोल्लासि-स्नेह-विशेषं वीक्ष्य साक्षाद् अनुभूय मुदा प्रीत्या आह, यत उद्धवो भागवतोत्तम इत्य् अर्थः । भक्त-वराणां प्रेम-विशेष-वीक्षणेन स्वत एव हर्षोदयात् । तद् वा, रोदनार्होऽपि मुदा सुखाविष्कारेणैव आह, यत उद्धव उक्त-महा-मान्त्रत्वादि-गुण-युक्त इत्य् अर्थः, अन्यथा सान्त्वनासिद्धेः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तयोः कीदृशौ भावौ तौ भवेताम् ? इति स-विस्मयं परिचिन्त्यमानयोः श्री-नन्द-यशोदयोर् इत्थं पूर्वोक्त-प्रकारेणानुरागं निरन्तरम् आह—कृष्णेति-प्रश्रय-मय-स्नेहं भगवति सर्वेश्वरे वीक्ष्य विशेषेण साक्षात्कृत्य तत्रापि कृष्णे परम-पूर्णाविर्भावे तस्मिन् वीक्ष्य तत्रापि परमं सर्वोत्कृष्टं वीक्ष्य उद्धवो नन्दं तस्यैव प्राधान्यात् संवादे प्रवृत्तत्वाच् च श्री-यशोदायास् तु परम-वैयग्र्येण तत् प्रत्यशक्त्या तम् एव आह उच्चैः सान्त्वयितुम् इति शेषः । तच् च मुदा "अहो मम भाग्यम् एतादृश-दर्शनम् अपि जातम्" इति हर्षेण तद्-अंशाविष्कारेणैवोपलक्षितः, न तु तद्-दुःख-दर्शन-मय-दुःखांशाविष्कारेणेत्य् अर्थः । तस्य हि तद्-ऐश्वर्य-स्फूर्तेर् एव प्राधान्यात् तद्-अनुरागस्यापि महिमांश-स्फूर्तिर् एव प्रथमतो जाता, न तु वैयग्र्यांश-स्फूर्तिः । केवल-वैयग्र्यांश-स्फूर्ते योग्यत्वे तु सान्त्वनानधिकारिणं मन्यमानो भगवान् अपि न तं प्रास्थापयिष्यत् इति भावः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुदा अहो मम भाग्यम् एतादृश-दर्शनम् अपि जातम् इति। हर्षांशाविष्कारेणोपलक्षितः, न तु तत् दुःखांशाविष्करेणेत्य् अर्थः । तस्य हि तद्-ऐश्वर्यांश-स्फूर्तेर् एव प्रधान्यात्, तद्-अनुरागस्यापि महिमांश-स्फूर्तिर् एव तावज् जाता, न च वैयग्र्यांश-स्फूर्तिः । वैयग्र्यांश-मयत्वे तु तु सान्त्वनानधिकारिताभवद् इति ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीक्ष्य ज्ञात-चर-तन्-महा-प्रेमकोऽपि विशेषेण ईक्षित्वा परमं देवकी-वसुदेवाभ्यां सकाशाद् अप्य् उत्कृष्टं मुदा इति ममैतज् जन्मैव सार्थकम् अभूत् यद् ईदृशोऽनुरागो दृष्ट इति तयोर् दुःख-दर्शनेऽप्य् उद्धवस्यानन्दः ॥२९॥
॥ १०.४६.३० ॥
श्री-उद्धव उवाच—
युवां श्लाघ्यतमौ नूनं देहिनाम् इह मानद ।
नारायणेऽखिल-गुरौ यत् कृता मतिर् ईदृशी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् धेतोर् नारायणे मतिः कृतातो युवां श्लाघ्यतमाव् इत्य् अन्वयः । तच् च मुदाहो मम भाग्यं ममैतज् जन्मैव सार्थकं जातं यद् ईदृशोऽनुरागो दृष्ट इति तयोर् दुःख-दर्शनेऽप्य् उद्धवस्यानन्दः । हर्षेण तद्-अंशाविष्कारेणैवोपलक्षितो न तु तद्-दुःख-दर्शन-मय-दुःखांशाविष्कारेणेति भावः । तस्य हि तद्-ऐश्वर्य-स्फूर्तैर् एव प्रधान्यात् । तद्-अनुरागस्यापि महिमांश-स्फूर्तिर् एव प्रथमतो जातो, न तु वियग्र्यांश-स्फूर्तिः । केवल-वैयग्र्यांश-स्फूर्तेर् योग्यत्वे तु सान्त्वनानधिकारिणं मन्यमानो भगवान् अपि, न तं प्रास्थापयिष्यद् इति भावः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नारायणेऽखिल-गुराव् इत्य्-आदि । नारायणोपासकेनापि आनांअत एवऽ सति अखिलानां नारायणादीनाम् अपि गुरौ श्री-कृष्णे यत् त्वया ईदृशी मतिः कृतेति नन्दं स्तौति ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : युवाम् इत्य्-आदि चतुर्दश-पद्यात्मकं श्रीमद्-उद्धव-वचनम् । केचिद् एवं व्याचक्षते—श्रीमद्-उद्धवेन श्री-भगवतो विविधैश्वर्य-कथनेन तस्यासङ्गोदासीनतान्-निरूपणेन च तथा सर्वात्मकत्व-बोधनेन च व्रज-नाथयोः प्रेम्णां स्तम्भनं क्रियते, तत्र तु प्रयोजन-द्वयं—तयोर् दुःखस्य प्रेमैक-जन्यत्वात् प्रेम-स्तम्भनेन दुःख-ह्रासः स्याद् इति श्री-भगवद्-आज्ञा-सफली-करणम् एकं तथा तयोः प्रेमभिर् आकर्षात् कृष्णे व्रजम् आगते परम-भक्तानां स्व-बान्धवानां यादवादीनाम् इष्ट-सिद्धिर् न स्याद् इत्य् अपरम् इति तत्राद्ये तादृशानां तादृशो गाढ-प्रेमा स्तम्भयितुम् अशक्य एवेति स्वानुभवेन महा-भागवतैस् तैर् एवोद्धवादिभिर् ज्ञायते ।
किं च, गाढ-प्रेम-विवर्त-विशेषाणाम् अनिर्वचनीय-परमानन्द-रूपत्वात् प्रेम्णः स्तम्भनं कदाचिद् अपि भक्तानां दुःख-निरसनाय न कल्पते, प्रत्युत दुःख-भरायैव । श्री-भगवते च भक्त-प्रेमोल्लास एव बाढं रोचते, अत एवाग्रे व्रज-वासिभिः प्रार्थयिष्यते—रतिर् नः कृष्ण ईश्वरे [भा।पु। १०.४७.६७] इति । द्वितीये पित्रोर् आनन्दनार्थं यथावसरं [कदाचित् कदाचित्] श्री-भगवतो व्रज-गमनेन यादवादीनां हानिर् नास्ति, किन्तु पूर्ववत् सह-निवासेनैव स च सम्प्रति प्रारीप्सित-प्रकट-लीलानुगुणो न स्याद् इति, अपि च श्री-कृष्णे ईश्वर-भावाद् अपि पुत्र-भावेन स्नेहस्य भावनया सर्वत्र तद्-दर्शनाद् अपि साक्षात् कृष्ण-दर्शनस्य तथा प्रपञ्चात्मक-विराड्-रूपाद् अपि सच्-चिद्-आनन्द-घन-मूर्तेः, समन्ततः परमोत्कृष्टत्वात् तथा प्रतिपादनं कापट्य एव पर्यवस्त्यति ।
तस्माद् अयम् अर्थः—व्रज-नाथयोर् अनुरागौत्कण्ठ्येनानातिविस्मयाद् उद्धवेन प्रथमं युवाम् इत्य् आभिश् चतुर्भिस् तौ स्तुतौ । शेषैश् च पद्यैः श्री-भगवद्-आगमनस्यावश्यकत्व-प्रतिपादनेन सुदृढम् आश्वासितौ, न च तद्-आश्वासन-मात्रम् एव केवलं—
यर्ह्य् अम्बुजाक्षापससार भो भवान् > कुरून् मधून् वाथ सुहृद्-दिदृक्षया [भा।पु। १.११.९]
इति प्रथम-स्कन्धे श्री-द्वारका-वासिनां वचनेन व्रजे श्री-भगवद्-आगमनं व्यक्तम् एव । तदा माथुर-मण्डलेऽन्येषां सुहृदाम् अभावाद् एषोऽर्थस् तत्-तत्-पद्यानां व्याख्याने स्फुटीभविष्यति । तत्रादौ विस्मयेनाभिष्टौति—युवाम् इति । इह जगति देहिनाम् ऋषि-देव-नराणां मध्ये न्ञ्नं निश्चितं युवाम् एव श्लाघ्यतमौ, भक्तः श्लाघ्यः, प्रेम-भक्तः श्लाघ्यतरः, स्नेह-विशेषवान् श्लाघ्यतमः । तादृशत्वेन परम-स्तुति-योग्याव् इत्य् अर्थः । हे मानदेति । युवाभ्याम् एवम् अस्माकम् अपि लोके मानो दत्त इति भावः । यद् यस्मान् नारायणे सर्व-जीवेश्वरे ।
किं च, अकिलानां श्री-ब्रह्मादीनां सर्वेषां गुराव् अपीदृशी पुत्र-स्नेह-मयी मतिर् युवाभ्यां कृतेति श्री-भगवन्-माहात्म्य-कथनम् अपीदम् एतयोः स्तुताव् एव पर्यवस्यति ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् तव प्रथमतस् तन्-महिम-वर्णन-द्वारैव प्रोत्साह्य तौ सान्त्वयितुम् इच्छन् तज्-जातीय-श्री-नन्द-वाक्यावसरं प्राप्य तथैवाह—युवाम् इति द्वाभ्याम् । इह श्री-कृष्णावतारावतीर्ण-तदीय-महा-भक्त-गण-पूर्णे जगति देहिनां तत् पर्यन्तानां सर्वेषां मध्ये ये श्लाघ्याः श्री-नारदादयः श्री-गोकुल-वास्यन्तास् तेषाम् अपि मध्ये श्रेष्ठौ हे मानदेति एवं युवाभ्याम् एव तदीयानाम् अस्माकं मानो दत्तः यतः श्री-कृष्ण-सम्बन्धिनः । एवं-विधा जाता इति लोकैः कीर्तयिष्यत इति भावः । यद्य् अस्मान् नारायणे नारस्य महत्-स्रष्टृ-प्रभृति-पुरुषावतार-समूहस्याप्य् आश्रमेऽखिल-गुरौ परम-व्योम-नाथादितोऽपि परमोत्तम-प्रकाशे उभयथा परमोपादेये परम-दुर्लभ-परम-भाग्य-दुष्प्रापाश्रय-मात्रे इत्य् अर्थः । तस्मिन्न् ईदृशी पुत्र-भावतया तद्-वश्यतातिशय-कारिणी मतिः कृता विद्यते युवाभ्याम् इति शेषः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतस् तत्र प्रथमतः तव महिम-वर्णन-द्वारैव प्रोत्साह्य तौ सान्त्वयितुम् इच्छन् तज्-जातीया । नन्द-वाक्यावसरं प्राप्य तथैवाह—युवाम् इति द्वाभ्याम् । नारायणे नारस्य महत्-स्रष्टृ-प्रभृति-पुरुषाकार-समूहस्याप्य् आश्रये अखिल-गुरौ परम-व्योमाधिपादितो ऽपि महत्त्व-प्रकाशे मति तद्-वश्यता-कारी वात्सल्य-मयो भावः । भूतेषु प्राणिषु तद्-विलक्षणस्य ज्ञानस्य शुद्ध-चिन्मात्र-स्वरूपस्य जीवस्येशाते ।
यद् वा, नारायणत्वम् अखिल-गुरुत्वम् अप्य् आह—एताव् इति । विश्वस्य च-काराद् अवतारादीनां च यतेः भूतेषु सर्व-भूतेषु अन्वीयाऽपि तद्-विलक्षणस्यान्तर्यामिणः तथा तादृशतया स्थितस्य ज्ञानस्य चिन्-मात्रस्य ब्रह्मणस् तद्-रूपस्यापि ईशाते प्राकाशनाप्रकाशनयोः प्रभवतः । तयोर् अप्य् आश्रयत्वात् विष्टभ्याहं [गीता १०.४२] इत्य्-आदि, ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इत्य्-आदि-श्री-गीताभ्यः ॥३०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : युवां श्लाघ्यतमाव् इत्य्-आदि । नारायणेऽखिल-गुराव् इति नारायणोपासकत्वेनापि नारायणे सति यद् यस्माद् अखिलानां नारायणादीनाम् अपि गुरौ श्री-कृष्णे ईदृशी मतिः कृता । तत् तस्माद् युवां श्लाघ्यतमौ । वस्तुतस् तु श्री-नन्द-यसोदे नित्य-सिद्धे एव । तथापि तत्र प्रविष्टौ द्रोण-धरात्मानौ प्रतीयम् उक्तिर् वेदितव्येति ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इह जगति श्लाघ्येषु भक्तेष्व् अपि देवकी-वसुदेवौ श्लाघ्यतरौ, ताभ्याम् उत्कर्षात् युवां श्लाघ्यतमौ नारायणेऽखिल-गुराव् इति मन्ये रामं च कृष्णं च प्राप्ताव् इह सुरोत्तमाव् इति तद्-वाक्येनैव तस्य कृष्णैश्वर्य-स्फूर्तिं ज्ञात्वा तद्-ऐश्वर्येणैव तौ सान्त्वयितुं तद् एव व्याचष्टे स्मेति भावः ॥३०॥
॥ १०.४६.३१ ॥
एतौ हि विश्वस्य च बीज-योनी
रामो मुकुन्दः पुरुषः प्रधानम् ।
अन्वीय भूतेषु विलक्षणस्य
ज्ञानस्य चेशात इमौ पुराणौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिल-गुरुत्वम् एव जनकत्वेन नियन्तृत्वेन चाह—एताव् इति । रामो मुकुन्दश् चेत्य् एतौ विश्वस्य बीज-योनी निमित्तोपादाने । ननु पुरुष-प्रधानयोर् बीज-योनित्वं प्रसिद्धम् ? अत आह—पुरुषः प्रधानम् इति । पुरुषोऽंशः । प्रधानं शक्तिः । अतः प्रधान-पुरुषाव् अप्य् एताव् एवेत्य् अर्थः । एवं जनकत्वम् उक्तम् ।
किं च, अन्वीय भूतेषु भूतेष्व् अनुप्रविश्य भूतानां तद् उपहितस्य विलक्षणस्य नाना-भेदस्य ज्ञानस्य जीवस्य चेशाते ईश्वरौ नियन्तारौ भवतः । कुतः ? पुराणाव् अनादी । अनादित्वात् कारणत्वं ततश् च नियन्तृत्वम् इत्य् अर्थः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निमित्तोपादानत्वे आक्षिपति—नन्व् इति । अतोऽत्र । अतः पुरुष-प्रधानयोर् अप्य् अनयोर् अंश-शक्तित्वात् । इत्य् अर्थ इति—अंशांशिनोः शक्ति-शक्तिमतोश् चाभेदोपचाराद् एताव् एवेत्य् आशयः । यद् वा, पाठ-क्रमाद् अर्थ-क्रमो बलियान्—अग्निहोत्रं जुहोति, यवागुः पचतीतिवत् । रामो मुकुन्दः पुरुषः प्रधानम् इह रामः प्रधानम् । यस्याद्य आसीद् गुण-विग्रहो महान् यत् सम्भवोऽहं [भा।पु। ५] इति पञ्चम-स्कन्धे रुद्रोक्तेः सङ्कर्षणस्य प्रधानत्वम् उक्तम् । प्रधानाद् एव महत्-तत्त्वोत्पत्तिस् ततोऽहङ्कारोत्पत्तिश् च साङ्ख्यैर् मन्यत इति मुक्न्दस्य पुरुषत्वम् । स एष पुरुषः साक्षात् इत्य्-आदि बहुश उक्तेः स्फुटम् एवेति । एवम् इत्थम् । नियन्तृत्वम् आह—किं चेति । तद्-उपहितस्य भूतोपाधिकस्य । जानातीति ज्ञानं जीवस् तस्य नियन्तृत्वे हेतुम् आशङ्कते—कुत इति । इत्य् अर्थ इति—अनादि-भावस्य कारणता कारणस्य नियन्तृता च प्रसिद्धेति भावः । यद् वा, एतौ रामो मुकुन्दश् च प्रधानं सर्वोत्तमः । कुतः ? यतः पुरुषः, अन्येषाम् अर्वाचीनत्वात् पुराणः पुरातनः ।
किं च, अनयोर् अवतार-प्रयोजनं दैत्य-हननम् एव न किन्तु स्वोपदिष्ट-ज्ञान-रक्षणम् अपीत्य् आह—अन्वीयेति । इमौ पुराणौ पूर्णानन्दौ राम-कृष्णौ विलक्षणेषु विविध-लक्षणेषु नाना-विध-व्यावर्तक-धर्मेषु भूतेषु अन्वीयावतीर्य विज्ञस्य व्यासाद्य्-आत्मनोपदिष्ट-विशिष्ट-ज्ञानस्यासुर-जन-कृत-नाशं विज्ञायेशाते समर्थयेते रक्षत इत्य् अर्थः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्दस्य स्नेहातिरेकेण बहिर् गच्छतः प्राणान् रक्षन्न् इव ज्ञान-मार्गं प्रस्तौति—पतौ हीत्य् आदि । विश्वस्य योनी, न तु तव पुत्रौ विश्व-योनेः पुत्रत्वम् अनुपपन्नम् एवेति स्नेहातिरेकं स्थगयति ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव । एताव् एव । मुकुन्दश् चेति च-कारान्वयः । भूतेषु प्राणिषु देहेषु वान्तीय-विलक्षणस्य देहादेर् भिन्नस्य, यतो ज्ञानस्य च अपि, ज्ञान-स्वरूपस्यापि जीवस्य इत्य् अर्थः । इमाव् इति पुनर् उक्तिस् तयोर् एव तादृशत्व-निर्धारार्थम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, भूतेषु सर्व-जीवेष्व् अन्तर्यामितयान्वीय, तेषां तथा विलक्षणस्य सर्वतोऽसाधारणस्य ज्ञान-स्वरूपस्य च ब्रह्मणोऽपीत्य् अर्थः । ईशाते प्रभुत्वेन वर्तते, यतः पुराणौ पुरापि नव-नवाव् इति ब्रह्मणोऽप्य् अधिकाश्चर्यत्वाद् ब्रह्म-घन-रूपाव् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि एव । एताव् एव । मुकुन्दश् चेति च-कारान्वयः । भूतेषु प्राणिषु अन्वीय तद्-विलक्षणस्य ज्ञानस्य शुद्ध-चिन्मात्रस्य रूपस्य जीवस्येशाते च-काराद् भूतानां च सन्धिर् आर्षः । इमाव् इति पुनर् उक्तिस् तयोर् एव तादृशतां निर्धारयति । अन्यत् तैः ।
तत्रानादित्वात् कारणत्वम् इव स्वातन्त्र्येणेति वैशिष्ट्यं ज्ञेयं जीवादेर् अप्य् अनादित्वाद् इति । यद् वा, नारायणत्वम् अखिल-गुरुत्वम् अप्य् आह—एताव् इति । अंशांशिनोर् अभिन्नत्वाद्येन रामेण सहैक-स्वरूपो यो मुकुन्दस् ताव् एतौ राम-कृष्णाभिधतया पृथग् दृश्यमानाव् एताव् एव च विश्वस्य च-काराद् अवतारादीनां च बीज-योनी, द्वाव् अपि निमित्तोपाधान-रूपौ विश्वस्य तद्-रूपतया नाम्नापि पुरुषः प्रधानम् इति विख्यातौ । इमाव् एव तद् एतद् द्वयं राम-कृष्ण--रूपेण पुराणाव् अनादि-सिद्धौ सन्तौ भूतेषु अन्वीय तत्-तद्-उपाधाव् अन्तर्यामि-रूपेणानुप्रविश्य विलक्षणस्य ज्ञानस्य चाद्वय-ज्ञान-स्वरूपस्य ब्रह्मणोऽपीशाते प्रकाशनाप्रकाशनयोः समर्थौ भवतः । यथोक्तं—
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । > सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। > ११.२४.१९] इति ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगद् [गीता १०.४२] इति, ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति श्री-भगवद्-गीताभ्यः ।
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । > वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। > ८.२४.३८] इति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं श्री-व्रज-राजस्य निर्गच्छतः प्राणान् रुन्धन्न् इव ज्ञान-मार्गं प्रस्तौति—एतौ हीत्य् आदि । विश्वस्य योनी उत्पत्ति-स्थाने, न तु कस्यापि पुत्रौ । विश्व-योनेः पुत्रत्वम् अनुपपन्नम् एवेति भक्त्या स्नेहातिरेकं वारयति ॥३१ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारायणत्वम् अखिल-गुरुत्वम् आह—एताव् इति । अंशांशिनोर् अभिन्नत्वाद् बहु-मूर्त्य्-एक-मूर्तिकम् इत्य् अब्रह्म-ज्ञानश् च एतौ द्वाव् अप्य् एक एव नारायण इत्य् अर्थः । विश्वस्य बीजयोनी द्वाव् अपि निमित्तोपादन-रूपौ द्वाव् एव पुरुषः प्रधानं शक्ति-शक्तिमतोर् अकियाद् इति भावः ।
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । > सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। > ११.२४.१९]
इत्य् एतद्-उक्तेः । भूतेषु अन्वीय अन्तर्यामितया प्रविश्य विलक्षण-ज्ञानस्य ईशाते प्रदान-समर्थौ भक्तेभ्यो भगवद्-ज्ञानस्य ज्ञातभ्यो ब्रह्म-ज्ञानस्य च कृपया दातारौ स्याताम्।
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । > ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ [गीता १०.१०] इति > । > मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । > वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। > ८.२४.३८] इति चैतद्-उक्तेः ।
च-काराद् अविलक्षण-ज्ञानस्य प्राकृतस्य स्वर्गादि-साधनस्यापि कर्मिभ्यो दातारौ ॥३१॥
॥ १०.४६.३२ ॥
यस्मिन् जनः प्राण-वियोग-काले
क्षणं समावेश्य मनोऽविशुद्धम्।
निर्हृत्य कर्माशयम् आशु याति
परां गतिं ब्रह्म-मयोऽर्क-वर्णः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सृष्ट्य्-आदि-कर्मावेशान् मनुष्यादि-जन्म-दर्श्नाच् च तस्यान्येभ्यः को विशेष इत्य् आशङ्क्याह—यस्मिन्न् इति द्वाभ्याम् । कर्माशयं कर्म-वासनां निर्हृत्य त्यक्त्वा ब्रह्म-मयः स्वरूप-ज्ञानवान् अर्क-वर्णः शुद्ध-सत्त्व-मूर्तिः सन् पराः गतिं तत् पदं याति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् ईशताम् आक्षिपति—नन्व् इति । तस्य श्री-कृष्णस्य । विशुद्धं तद्-भक्त्य्-आदिना पूतम् । तत्-पदं श्री-कृष्ण-सायुज्यम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तादृशेश्वरे च तस्मिन् कथम्चित् कदाचिद् बलात् किञ्चिन् मनः-प्रवेशेनापि सर्वस्य कृतार्थता स्यात्, भवतोश् च सहज-सन्तत-भाव-विशेषेण कृतार्थता किं वर्ण्यस्याह—यस्मिन्न् इति । यत्र कृष्णे द्वयोर् अभेदाभिप्रायेण कृष्णस्य प्राधान्येन वा एकत्वेन निर्देशः । जनो यः कश्चिद् अपि जीवो मरण-समयेऽपि क्षणम् अपि विशुद्धं केवलम् एव, न त्व् अन्येन्द्रियम् । यद् वा, अ-कार-प्रश्लेषेणाविशुद्धम् अपि मनः समावेश्य सम्यक् सुष्ठु आ ईषत् किञ्चिन्-मात्रम् अपीत्य् अर्थः । बलाद् अपि प्रवेश्य आशु सद्य एव ब्रह्म-मयः, श्री-भगवत्-पार्षद-रूपतया ब्रह्म-स्वरूप-मूर्तिः सन्, अतोऽर्क-वर्णः सूर्य-रूपो जगत् प्रकाशयन्न् इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तयोश् चेतः प्रसक्तिम् अदृष्ट्वा तद् एव पुनः कैमुत्येन विवृणोति—यस्मिन्न् इति द्वयेन । यस्मिन् कृष्णे । एकस्य निर्देशो द्वयोर् अभेदाभिप्रायेण । जनो यः कश्चिद् अपि जीवो मरण-समयेऽपि क्षणम् अपि विशुद्धम् अपि मनः समावेश्य यथा कथञ्चिल् लब्ध-पदं कृत्वा आशु सद्य एव ब्रह्म-मयः श्री-भगवत्-पार्षद-रूपतया चिच्-छक्ति-वृत्तिः शुद्ध-सत्त्वस्यैव तादृश-मूर्तित्वेन स्वरूप-प्रकाश-प्रचुरः, न तु प्राधानिकवत् तिरोहित-तद्-अंशः, अतोऽर्क-वर्णः स्वयम् एव प्रकाशमानोऽन्यांश् च इत्य् अर्थः । आदित्य-वर्णः आदित्य-वर्णं तमसः परस्ताद् [गीता ८.९] इतिवत् । अखिलेति तैर् व्याख्यातम् । तत्रात्मा स्वांशानाम् ईश्वर-रूपाणां विभिन्नांशानां च जीवानां मूल-रूपः हेतुश् च सर्व-प्रकाशक इति ज्ञेयम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तयोश् चित्त-प्रसत्तिम् अदृष्ट्वा, तद् एव पुनः कैमुत्येन विवृणोति—यस्मिन्न् इति द्वाभ्याम् । जनः यः कश्चिद् अपि जीवः मरण-समयेऽपि क्षणम् अपि, अविशुद्धम् अपि, ब्रह्म-मयः श्री-भगवत्-पार्षद-रूपतया चिच्-छक्ति-वृत्ति-शुद्ध-सत्त्वस्यैव तादृश-मूर्तित्वेन स्वरूप-प्रकाश-प्रचुरः, न तु प्राधानिकवत् तिरोहित-तद्-अंशः । अतोऽर्क-वर्णः स्वयम् एव प्रकाशमानोऽन्यांश् च प्रकाशयन्न् इत्य् अर्थः । आदित्य-वर्णं तमसः परस्ताद् [गीता ८.९] इत्य्-आदिवत् ॥३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्हृत्य दग्ध्वा परां गतिं वैकुण्ठ-लोकं ब्रह्म-मयश् चिन्मय-शरीरः सन् अर्क-वर्णः सूर्य-तुल्य-तेजाः ॥३२॥
॥ १०.४६.३३ ॥
तस्मिन् भवन्ताव् अखिलात्म-हेतौ
नारायणे कारण-मर्त्य-मूर्तौ ।
भावं विधत्तां नितरां महात्मन्
किं वावशिष्टं युवयोः सुकृत्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिलस्यात्मा च हेतुश् च तस्मिन् कारणेन मनुष्याकृतौ महात्मन् महात्मनि परिपूर्णे भवन्तौ भक्तिं कुरुतः । अतः कृत-कृत-कृत्याव् इत्य् अर्थः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् श्री-कृष्णे । कारणेन भू-भार-हरणादिना हेतुना । महात्मन्न् इति सप्तमी । भावम् अतिप्रेमाणम् । यतः श्री-कृष्ण-भक्ताव् अतो हेतोः । इत्य् अर्थ इति—समुद्रान्ता इवापगाः [भा।पु। १०.४७.३३] इति न्यायेन हरि-भक्त्य्-अन्ता सर्व-विधय इति । तद्वत्त्वाद् युवां कृतार्थाव् एवेति भावः । अखिलेति—अथात्मा स्वांशानाम् ईश्वर-रूपाणां विभिन्नांशानां च जीवानां मूल-रूपः हेतुश् च सर्व-प्रकाशक इति ज्ञेयम् ॥३३॥
कैवल्य-दीपिका : भगवतः प्राकट्ये सति कृतार्थताम् आह—अस्मिन्न् इति । आत्म-तात्त्विकं रूपं हेतु-निर्मित्तम् । कारणेन सृष्ट्य्-आदिना मूर्तिर् यस्य, तत्त्वतस् त्व् अमूर्तिः । भावं चित्त-वृत्तिम् । हे महात्मन् नन्द ! युवयोः यशोदा-नन्दयोः ॥३३॥ [मु।फ। ६.४८]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नारायणे कारण-मार्त्य-मूर्तौ—नारायणस्य ईः लक्ष्मीर् ऐश्वर्यम् इति यावत्, तस्याः कारण-रूपा मर्त्याकारा द्विभुजेति यावत् ईदृशी मूर्ति, श्री-विग्रहो यस्य तस्मिन् श्री-कृष्णे ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भवन्ताव् इति प्रात् अत्यादरात् । पश्चाद् भक्ति-भरावेशेन युवयोर् इति । एवम् अग्रेऽप्य् ऊह्यम् । अखिलेति तैर् व्याख्यातम् । तत्र आत्मा हेतुश् चेत्य् अभिन्नत्वं भिन्नत्वं चेति श्री-वैष्णव-सिद्धान्त-मतम् । यद् वा, अखिलानाम् आत्मनां जीवानां हेतौ कारणे, तस्माद् एव तेषाम् आविर्भावाद् इति भावत्वम् उक्तम् ।
ननु तद् अमूर्तम् इत्य् आशङ्क्याह—नारायण इति । ननु स चतुर्भुजः ? अत आह—कारणेति । कृतं भक्त-वात्सल्यं विचित्रासाधारण-विहरणं वा, भावं स्नेह-लक्षणम् । अतितराम् इत्य् अनेन सर्वावतारतात, जननीभ्यस् तथा वसुदेव-देवकीभ्याम् अपि भाव-विधानोत्कर्षं बोधयति—महात्मन् ! महा-बुद्धे ! नन्दम् आहेत्य् उक्त्या तस्यैव सम्बोधनम् । वा-शब्दो भ्रू-क्षेपे । किं कतरत् युवयोः कृत्यं परिपूर्णम् एव, केवलं युष्मत्-सन्तोषकं तस्यैव कृत्यम् अवशिष्यत इति स्व-शब्दार्थः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र हेतुः—नारायण इति । ननु स चतुर्भुजस् तत्राह—सर्व-कारणं यत् तत्त्वं तद् एव मर्त्याकारा मूर्तिर् यस्य तस्मिन् नराकृति-पर-ब्रह्मणीत्य् अर्थः । भावम् ईदृशानुरागं नितराम् इत्य् अनेन श्री-वसुदेव-देवकीभ्याम् अपि तद् उत्कर्षं बोधयति—हे महात्मन् ! तादृशानुराग-शीलत्वात् परमोत्कृष्ट-स्वभाव ! श्री-व्रजेश्वर ! वा-शब्दो भ्रू-क्षेपे तयोर् युवयोः किं कतरत् अवशिष्टं ? किन्तु सर्वं परिपूर्णम् एव केवलं युष्मत्-सन्तोषकं तस्यैव कृत्यम् अवशिष्यत इति स्व-शब्दार्थः । युवयोः स्व- इति पाठे स एवार्थः॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु नारायणश् चतुर्भुजः तत्राह । सर्व-कारणं यत् तत्त्वं तद् एव मर्त्याकारा मूर्तिर् यस्य सः, नराकृति परं ब्रह्म इत्य्-अर्थः । भावम् ईदृशानुरागं तथाप्य् अजात-शान्ती, प्रत्युत त एवहिते ऽपि तद् उत्कर्षम् एवं कथयन्तीति पितृत्वे हेतुः ॥३३॥
श्री-कृष्ण-सन्दर्भः (१०४): अत एव सा नराकारा मूर्तिर् एव परम-कारणं वस्तु-तत्त्वम् इत्य् आह—नारायणे कारण-मार्त्य-मूर्तौइति। सर्व-कारणं यत् तत्त्वं तद् एव मर्त्याकारा मूर्तिर् यस्य । तद् उक्तं तत्त्वं परं योगिनां [भा।पु। १०.४३.१७] इति । तथा च पाद्म-निर्माण-खण्डेश्री-वेद-व्यास-वाक्यम्—
दृष्टातिहृष्टो ह्य् अभवं सर्व-भूषण-भूषणम् ।
गोपालम् अबला-सङ्गे मुदितं वेणु-वादिनम् ॥
ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् ।
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्णं पद्य-पलाशाक्षं नातः-परतरं मम ॥
इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ॥ इत्य्-आदि ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मिन् भवन्ताव् इत्य्-आदि । नारायणे कारण-मर्त्य-मूर्तौ नारायणस्य ईर् लक्ष्मीर् विभूतिर् इति यावत् । तस्याः कारण-रूपा मर्त्या मर्त्याकारा द्विभुजा मूर्तिर् यस्य तस्मिन् । भावं विधत्तः । अतः किं वा, युवयोः स्व-कृत्यम् । अवशिष्टे भाव-विधानम् एव फलम् । तत् तु भवतोऽखण्डम् एव ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अखिलानाम् आत्मा च हेतुश् च तस्मिन् कारणं च मनुष्य-मूर्तिश् च तस्मिन् युवयोश् च कृत्यं किम् अवशिष्टम् इति तु-कारेण तस्य कृष्णस्यैव युष्मत्-सान्त्वन-प्रीणन-वशीभवनादि-कृत्यम् अवशिष्यते इति ज्ञाप्यते । स्व-कृत्यम् इति पाठेऽपि स एवार्थः ॥३३॥
॥ १०.४६.३४ ॥
आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—आगमिष्यति इति । पित्रोर् युवयोः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रस्तुतं प्रकृतम् । अदीर्घेण शीघ्रम् । अच्युत इति वाक्य-च्युति-वर्जितत्वम् आह ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् अजात-शान्तिं विशेषतश् च तद्-उत्कर्ष-श्रवण-जात-स्नेह-भरेणात्यन्तार्तं तं विलोक्य कृष्णागमन-दार्ढ्येनाश्वासयन्न् आह—आगमयिष्यतीति । अच्युतः—स्व-सत्य-वाक्यादेः कदापि न चलित इति भावः । न चागत्योदासीनः सन् स्थास्यति, किन्तु चिरम् अत्र निवसन् पूर्ववद् युवयोः प्रीतिं करिष्यतीत्य् आह—प्रियम् इति । अवश्यं प्रिय-विधाने हेतुः—पित्रोर् इति । भगवान् परम-दयालुः । किं च, सात्वतां भक्तानां पतिः पालकः ।
यद् वा, ननु तर्हि कुतोऽधुनैव नायाति ? तत्राह—प्रियम् इति । पित्रोः पितृ-निर्विशेषयोर् देवकी-वसुदेवयोः, सात्वतां पतिर् इति यादवानां पालनश् च तस्यावश्यं विधेयं, यतो भगवान् भक्तानां कृते स्वयम् अवतीर्णः, अतोऽवशिष्टं किञ्चित् समाप्यायास्यतीति भावः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अजात-शान्ती प्रत्युत हन्त त एव हि तेऽपि तद्-उत्कर्षम् एवं कथयन्तीति तद्-गुण-चिन्तनेनात्यन्तार्तौ तौ वीक्ष्याधुना तु तद्-वैयग्र्य-स्पृष्ट आह—आगमिष्यतीति । अच्युतः सत्य-सङ्कल्पत्वादिना तन्-नामासौ प्रियम् अव्यभिचारि-सङ्कल्प-रूपम् । अवश्यं प्रिय-विधाने हेतुः पित्रोः यथा युवाभ्यां पितृ-भाव-मयेन महा-प्रेम्णा वशीकृत्य पुत्रत्वेन सम्पादितोऽसौ, तथा तेनापि पितृत्वेनैवाभिमतयोर् युवयोर् इत्य् अर्थः । ये यथा मां [गीता ४.११] इत्य्-आदेः । यतो भगवान् अपि सात्वतानां पतिः पालकः तद्-अभीष्ट-सुख-सम्पादकः । यद् वा, भगवान् अपि यादवानां पतिर् अपि तादृश-प्रेम-वशत्वाद् इति भावः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् अपि सात्वतानां भक्तानां पतिः पालकः । तद्-अभीष्ट-सुख-सम्पादकः । ये यथा माम् इत्य् आदेः ॥३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतो दर्शनम् अपि शीघ्रं भावीत्य् आह—आगमिष्यतीत्य् आदि । अदीर्घेण शीग्र्हम् एव ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो वत्स उद्धव ! त्वम् अतिबुद्धिमान् श्रुतः किं तु मुग्ध एवासि यद् आवाम् अपि स्तौषि । हन्त हन्त तादृशो गुणार्णवः पुत्रो यद्-गृहाद् अन्यत्र गतस् ततोऽधिको मन्द-भाग्योऽधमो दुःखी त्रि-भुवन-मध्ये कोऽस्तीत्य् आवां सर्वैर् निन्दनीयाव् एवेति तद्-उक्तिम् आशङ्क्य साश्वासम् आह—आगमिष्यतीति । अच्युतः द्रष्टुम् एष्याम् इति सत्य-वाक्यात् । च्युति-रहितः सात्वतां यदूनां पतिः पालक एव केवलम् अत्रैव स्थित्वा भविष्यतियुवयोस् तु प्रियं मनोऽभीष्टं करिष्यतिईति ॥३४॥
॥ १०.४६.३५ ॥
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । > ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। > १०.४५.१३]
इति यद् आह कृष्णस् तत् सत्यं करिष्यातीति ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतीपं प्रतिकूलं, प्रतीपौ नृपतौ पुंसि प्रतिकूले तु वाच्यवत् इति धरणिः । किं च, करोतीति वर्तमानार्थ-कलटा श्रीमद्-उद्धवः स्वात्मानं नोद्धवोऽण्व् अपि मन्-न्यूनो यद्-गुणैर् नादितः प्रभुः इति तृतीय-स्कन्धोक्तिं स्व-विमर्श-रूपां श्री-कृष्णस्य स्फुटयितुं साक्षाद् एव कृष्ण-रूपत्वेनाह ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तस्यात्रागमनं न प्रतीम इत्य् आशङ्क्यागमन-प्रत्यायकं तद्-वचनम् एव स्मारयंस् तद्-अव्यभिचारित्वं च प्रतिपादयन्न् आह—हत्वेति । स्व-भक्त-हर्षार्थं स्व-वीर्यं प्रदर्श्य यत् तेनोक्तं, तत्र कदाप्य् असत्यता नास्तीति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु तस्यागमनम् अत्र न प्रतीमः ? तत्राह—हत्वेति । यद् वा, पितृत्वं विलम्ब-कारणं च तद्-वाक्येनैव प्रतिपादय—हत्वेति । करोतीति वर्तमान-सामीप्ये वर्तमानवद् वा । किं वा, तत् तस्माद् धेतोर् अस्माभिः सह सत्यं शपथं करोति, कुर्वन्न् एवास्ते इत्य् अर्थः । सत्यं शपथ-तथ्ययोर् इत्य् अमरः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत् तस्माद् धेतोः । सत्यं सपथम् एव कुर्वन्न् आस्त इत्य् अर्थः । सत्यं शपथ-तथ्ययोर् इत्य् अमरः ॥३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्र किं प्रमाणं ? इत्य् आह—हत्वा कंसम् इत्य्-आदि । तद् वाक्यम् एव प्रमाणम् । तस्य सत्य-वाक्त्वात् ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् आह—यात यूयं व्रजं तात [भा।पु। १०.४५.१३] इति श्लोकेन तत् सत्यं करोति करिष्यति, वर्तमान-सामीप्ये लट्, वस्तुतस् तूद्धवेनादृष्टस् तत्रैव ताभ्यां तदैव लालितः स प्रकाशान्तरेण वर्तत एवेत्य् उद्धव-मुखात् सत्यैव वाग्-देवी निरगात् ॥३५॥
॥ १०.४६.३६ ॥
मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके ।
अन्तर्-हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-विलम्बनम् असहमानौ प्रत्याह—मा खिद्यतम् इति । हे महा-भागौ ! अन्तिके इदानीम् एव समीपे वा । कुतः ? इत्य् अत आह—अन्तर्-हृदीति । तर्हि सर्वैः किम् इति न दृश्यते ? तत्राह—ज्योतिर् इवैधसीति । तद् यथा मथनं विना न दृश्यते, तथा भक्तिं विना कृष्णोऽपीति भावः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीम् एव काल-क्षयं विनैव, अन्तिकं शीघ्र-सामीप्ये इति यादवः । प्रकटम् अप्य् आह—मा खिद्यतम् इति । द्रक्ष्यथः पश्यथः । इह वर्तमाने लृट् । अत एव श्रीमद्-अनुभूति-स्वरूप-चरणैः कारक-प्रक्रियायां, छन्दसि स्यादिः सर्वत्र इत्य् अत्र स्यादि-पदं त्व् आद्य् उपलक्षकम् उक्तं—एक-सम्बन्धि-ज्ञानम् अपर-सम्बन्धि-स्मारकम् इति न्यायेन । स्याद् इत्य्-आद्य्-उभयावयववत्वाद् विभक्तेर् इति । अत्र हेतुम् आशङ्कते—कुत इति । तत्राक्षेपे तद् यथा ज्योतिर् यथा । इति भाव इति—भक्त्याहम् एकया लभ्यः इति श्री-मुखोक्तेर् इत्य् अर्थः । काष्ठं दार्वि-धनं त्व् एधः इत्य् अमरः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो सर्वेषां भूतानां हृद्य् एव स आस्ते, तत्राप्य् अन्तर्-निगूढतयैवेत्य् अर्थः । तं युवाम् अन्तिकं निजाङ्के द्रक्ष्यथः । अतो मा खिद्येथाम् । महा-भागाव् इति महता युवयोर् भक्ति-भाग्येनैवासाव् आकृष्यानेष्यत इति भावः । अत एव भक्त्याकृष्यत्वात् कृष्णम् इत्य् उक्तम् । एवम् अधुना व्रजेश्वर्या अपि सम्बोधनम् अत्यन्तार्ति-व्याकुलायास् तस्या अचिरात् पुत्र-दर्शनोक्त्या खेद-निरासार्थम् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आगमिष्यतीत्य् अप्य् असहमानौ प्रत्याह—मा खिद्यतम् इति । महा-भागाव् इत्य् अधुना द्वयोः सम्बोधनं पुत्रागमन-वार्तया तस्या अपि स्वं प्रति दृष्टि-निक्षेपं दृष्ट्वा । अथाल्प-विलम्बम् असहमानाव् आशङ्क्य शोक-शमक-लोक-रीत्या तत्त्वोपदेशम् आरभमाण आह—अन्तर् इति । स कृष्णो भूतानां सर्वेषाम् एव प्राणिनाम् अन्तर्-हृदि हृदयाभ्यन्तरे यद् अन्तःकरणाख्यं हृदयं तत्राप्य् आस्ते किम् उत बहिर् इति । अप्रकटता-मात्रांशे दृष्टान्तः । ज्योतिर् इवेति दाम-बन्धन-मृद्-भक्षण-लीलादौ श्रीमत्या मात्रैव तद्-व्यापकत्वानुभवात् तत्रान्येषां स्वतोऽप्य् अनुभावो नास्तीत्य् असन् निवर्तते भवतोस् तु सदा स्फूर्तेर् हृदयाभ्यन्तरेऽपि सन्न् एव विराजते इत्य् अलं बहिस् तद्-अपेक्षया । तथापि तद्-अपेक्षा चेत्, तदा शीघ्रम् एव तद् अपि भविष्यतीत्य् अर्थः । अथवा, भूतानाम् अन्तर् हृदि परमात्म-लक्षणं ज्योतिर् इव एधसि चाग्नि-लक्षणं ज्योतिर् इवाप्रकटः सन् अन्तिके युवयोर् निकटे, तत्रैव स्वयं भवद्भ्यां दर्शिते गोलोकाख्ये प्रकाशे आस्ते । स तु युवां निकटात् पश्यत्य् एव युवां च मनसा तं पश्यथ एव चक्षुषापि शीघ्रं पश्यतम् एवेति तात्पर्यम् ॥३६॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः १५४) : वक्ष्यमाण-भगवद्-अभिप्रायानुसारेण स्पष्टार्थत्वेन च वस्तुतः स्वारसिकीम् आह—मा खिद्यतम् इति । हे महा-भागौ श्री-व्रजेश्वरौ ! मा खिद्यतं यतः श्री-कृष्णं द्रक्ष्यथः । कथं ? यतः सोऽन्तिक एवास्ते । तस्यान्तिक-स्थितेर् अव्यभिचारे दृष्टान्तः । भूतानाम् अन्तर्-हृदि परमात्म-लक्षणं ज्योतिर् इव एधसि चाग्नि-लक्षणं ज्योतिर् इवेति । तत्र निरन्तरस् तत्-स्फूर्तिर् एव भवतां प्रमाणम् इति भावः । अर्थान्तरे तूत्तरार्धस्य हेतुत्वास्पष्टत्वात् परमात्म-रूपेणान्तर्-हृदि-स्थितस्यापि दर्शनानियमात् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मा खिद्यतं विशेषतश् च चिरं
विलम्बमसहमानावाशङ्क्याह । मेति । अल्पविलम्बमप्यसहमानापाशङ्क्य शोकशमकलोकरीत्या तत्वोपदेश्माह । अन्तर् इति । यद्यपि कारणान्तरेण प्रियाप्रियादयो न सन्ति तथापि साधुत्वेन प्रियवयस्यः । तद्राहित्येनाप्रियादयश् च सन्तीत्याह । सद् इति । सज्जातिरियमसज्जातिरिर्यामत्यादरा नादरावननुसग्धाय तासु तदनुकारिस्वरूपविग्रहेण प्रकटीभूय साधूनां साधुत्वेन प्रियवदितया स्वीकृतानां सर्वतो रक्षणाय योग्यो भवतीत्य् अर्थः ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतः खेदो न कार्य इत्य् आह—मा खिद्यतम् इत्य्-आदि । खेदाभावे कारणम् आह—द्रक्ष्यथः कृष्णम् अन्तिके । ननु तस्यागमनं दुष्करम् । कार्य-व्यापृतत्वेनानवसरत्वाद् इति चेत्, नैवम् । न स जीववद् देशाद् देशान्तर-गमने प्रयत्नवान् । व्यापकत्वात् सर्वत्राभिव्यक्तिर् एव तस्येत्य् आह—अन्तर्ह् हृदीत्य् आदि । भूतानाम् अन्तर् हृदि स ह्य् अंस-रूपेणास्ते । कस्मिन् क इव ? एधसि ज्योतिर् इव । अतो यद् अंशः सर्व-व्यापी, तस्य सर्व-व्यापित्वे किम् आश्चर्यम् इति भावः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त धिग् आवां ययोर् अभाग्यस्य प्राबल्यम् एव सत्य-वचसोऽपि पुत्रस्यात्रागमने प्रतिबन्धकी भवतीति खिद्यन्तौ तौ प्रत्याह—मेति । नन्व् “अन्तिके यद् द्रक्ष्यावः, तत् कस्मिन् दिने, श्वः परश्वो वा, पञ्चमे दिने दशमे दिने वा, सम्प्रति निर्जिगमिषून् प्राणान् केनाश्वासेन स्थापयिष्यावः ? तावन् न चेद् आगमिष्यति, तद् एव निश्चित्य ब्रूहि । निर्यान्तु प्राणाः, मास्तु तन्-निरोधन-कष्टम् आवयोः ।” इत्य् उक्तवति श्री-नन्दे उद्धवः स्व-हृदि पराममर्श—“हन्तात्र कम् उपायम् अनुतिष्ठामि प्राकृत-पुत्र-वियोगातुराः खल्व् एवं प्रबोध्यन्ते भो भोः ! किम् इति सांसारिक-मोहे मग्ना भवथ मिथ्या-भूत-पुत्र-कलत्रादिष्व् आसक्तिम् अनर्थ-हेतुं परित्यज्य भगवत्य् आसक्तिः क्रिय्यताम् इति यस्य तु भगवत्य् एव पुत्रीभूते आसक्तिः, स नन्दोऽयं कथं प्रबोधयितव्यः ? न च वसुदेवस्येवास्य पुत्र-भावः ऐश्वर्य-प्रदर्शनया शिथिलयितुं शक्यः, प्रत्युत तयोः स-गाढत्वम् एवापद्यते । हन्त प्राकृत-पुत्रम् अपि गृहे खेलन्तम् अदृष्ट्वा तत्-पितरौ दुःखेन म्रियेते । आवयोस् त्व् अतिभाग्य-वशात् परमेश्वरोऽपि पुत्री-भूतो गृहे खेलति स्म, आवयोः क्षणम् अपि लालनम् अप्राप्य खिद्यते स्म, स्व-गृहे तं पुत्रम् अदृष्ट्वा कथं जीविष्यावः ? धिग् आवां यत् तादृशाद् अपि पुत्राद् वियुक्ताव् इत्य् एवं-विधानयोर् मनो-निष्ठा देवकी-वसुदेवौ त्व् एतत्-पारमैश्वर्यानुभवे सति हन्तावयोर् अयम् आराध्य एव न पुत्र् ऐत्य् एतत् परिष्वङ्ग-लालनादाव् अपि शङ्केते । न च केवलम् एषाम् एव कृष्णे ममता-ग्रन्थिर् दृढः, किं तु परमेश्वरस्यापि तस्यैतेषु दृढैव ममता गृहीत्वा पाणिना पाणिं॥। पित्रोर् नौ प्रीतिम् आवह [भा।पु। १०.४६.२-४] इत्य् एतद्-अर्थे तस्यापि व्याकुलता मया दृष्टैव,
दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ [भा।पु। १०.२६.१३]
इति गोप-वाग् अपि श्रुता स्मर्यते एव यदि पुनर् मथुरां गत्वा श्वस् तम् आनयामि, तदा कंस-भार्या-द्वयोपजापकुपिते जरासन्धे मथुरां हन्तुम् आगमिष्यति सति, तत्रैव वसुदेवादीन् यादवान् को रक्षेत ? यदि तद्-रक्षार्थं कृष्ण एव पुनर् मथुरां गच्छेत्, तदैते म्रियेरन् । यदि चातश् चतुः-पञ्च-वर्षान्ते आयास्यतीति ब्रवीमि, तदा तावत्-काल-पर्यन्तं धैर्य-दिधीर्षाप्य् एतैर् दुष्कराद् अधुना कृष्णस्य परमात्मत्वेन सर्वत्रौदासीन्यं, तथा निर्विशेष-ब्रह्म-स्वरूपत्वेन जन्म-कर्म-शरीर-पित्रादि-सम्बन्ध-राहित्यं तद्-अनुकूलम् अध्यात्म-योगं च प्रपञ्च्यानयोः प्रेमा सङ्कोचनीयः । तेन तेनाप्य् अप्रमेयो दुष्पारो दुर्निवार-प्रेमा यदि प्रत्युत वर्धतैव, तदा मथुरां गत्वा कृष्ण-वसुदेवोग्रसेनादि-महा-सदस्य् अनयोः प्रेम्णो निरुपमां कीर्तिं कीर्तयित्वा सर्वान् विस्माप्य कृष्ण एव मयोपालम्भनीयः” इति मनसि कृत्वा प्रथमं कृष्णस्य परमात्मत्वं द्योतयन्न् आह—अन्तर् इति ।
तर्हि सर्वैः किम् इति न दृश्यते ? तत्राह—ज्योतिर् इति । तद् यथा मन्थनं विना न दृश्यते, तथैव कृष्णोऽपि तस्माद् युवाभ्यां तस्मिन् पुत्रे कृष्णे वैष्णवैर् अपि भक्तिः कर्तुं न शक्यते । कथं स साक्षात् स्व-गृहे द्रष्टव्यः इति द्योतिते सति येन तेन प्रकारेण पुत्रः स गृहम् आयातु । पुत्रेऽपि तस्मिन् भक्तिः कर्तव्येति नन्द-यशोदाभ्यां मनसि विचारितम्, अत एव मनसो वृत्तयो नः स्युः कृष्ण-पादाम्बुजाश्रया इत्य् उद्धवं प्रत्य् उपरिष्टाद् वक्ष्यते ॥३६॥
॥ १०.४६.३७-३९ ॥
न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः ।
नोत्तमो नाधमो वापि स-मानस्यासमोऽपि वा ॥
न माता न पिता तस्य न भार्या न सुतादयः ।
नात्मीयो न परश् चापि न देहो जन्म एव च ॥
न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु ।
क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो आस्ताम् एतत् तस्य त्व् इहागमनं स्वस्याति-प्रियान् पित्रादीन् विहाय न सङ्गच्छत इति मन्येत, तत्राह—न ह्य् अस्येति । अस्य प्रियादयो न हि सन्ति । तत्र हेतू—अमानिनः समानस्येति च । सोऽपि जन्म-कर्मादि-रहितोऽपि क्रीडा-प्रयोजनः सन् स साधूनां परिपालनाय सद्-असन्-मिश्र-योनिषु सात्त्विक-राजस-तामस-योनिषु, यद्वा देवादि-मत्स्यादि-नृसिंहादि-योनिषु कल्पते आविर्भवतीत्य् अर्थः ॥३७-३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् भक्तिं विना स नाप्यते इत्य् एतत् । आस्तां तिष्ठतु । तस्य कृष्णस्य । तत्राक्षेपे । तत्र प्रियाद्य्-अभावे । अमानिनः अहं-ममाभिमान-हीनस्य प्रियादयो न । समानस्य सर्वत्रैक-रूपस्य चोत्तमादयो न भवन्तीति भावः ॥३७॥
तद् एवाह न मातेति ॥ धातु-द्वारोत्पादन-हेतोर् न माता न पिता च । अतः सुतादयोऽपि न विवाह-सम्बन्ध-हेतोर् भार्यापि न, सर्व-कारणादि-हेतोर् आत्मीयो न, तद्-अभाव-हेतोः परोऽपि न, अभिन्न-देह-देहि-स्वरूपाद् अन्यत्रास्मत्त्वाभिमान-हेतोर् देहो न । अन्यादृश-देह-स्वीकाराज् जन्मैव च न, कुतो देह इत्य् अर्थः ॥३८॥
सात्त्विका ऋषयः, तामसाः सर्पादयः, राजसा मनुष्याः । एतद्-अर्थे देवादि-ग्रहणार्थम् आह—यद् वेति । इत्य् अर्थ इति—समर्थार्थक-कृप-धातोर् आविर्भावोऽप्य् अर्थः । समर्थस्यैव प्राय आविर्भावो नासमर्थस्येति भावः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु पुरे प्रिय-जन-ल्लाभात् स कथम् अत्रागमिष्यतीत्य् आशङ्क्य यथा जीवानां तेन तेन लौकिक-प्रकारेणातिप्रियादयः कर्मान्ताश् चतुर्दश-भावाः स्युस् तथास्यामी न सन्तीत्य् आह—न हीति त्रिकेण । हि एव नैव, अस्य कृष्णस्यात्युपकारादिनातिप्रियो नास्ति, अपकारेणाप्रियोऽपि नास्ति । तथा हेतुः—अस्मानिनस् तादृश-प्रियत्वादेर् अभिमान-कृतत्वात् । कश्चिद् इति यथा-योग्यम् अग्रे सर्वैर् अपि योज्यम् । उत्तम उत्तमत्वाद् अपेक्ष्यः । अधम उतेक्ष्यः । समो मध्यमोऽनपेक्ष्यश् च । तथा नात्मीयो न हितः, न परश् च, न शत्रुः । तत्र हेतुः—समस्य अविषम-दृष्टेः । न च धातु-सम्बन्धेन मात्रादयः—माता जननी, पिता गर्भाधायकः, भार्या सम्भोग्या स्त्री, सुत आत्मजत्वेनैव पाल्यः, भक्त-द्रोहित्वाद् एव स्वावतार-वराह-जातत्वेन पुत्रस्यापि हननात् । आदि-शब्दात् तादृशा भ्रातृ-पित्र्-आदयः । देहादीनि च त्रीणि प्राकृतानि, च-काराज् जीववद् अवस्था च । प्रायः सर्वत्रैव नञः प्रयोगस् तत्-तन्-निषेध-निर्धारार्थम् । आद्यो वा-शब्दः समुच्चये । अन्ये च तत्-तत्-सम्भावनायाम् अपि तत्-तन्-निरसनार्थम् । किन्तु तस्यैवम्-भूतस्यापि भक्तत्वेनैव प्रियादयः ।
भक्त-द्रोहित्वेनैवाप्रियादयः सन्तीत्य् अभिप्रेत्याह—सद् इति । स्व-भक्तैः सह क्रीडा-प्रयोजनः सन् साधूनां भक्तानां दुष्टेभ्यो रक्षणाय तद्-द्रोहिणो दुष्टान् हनिष्यन् देवादि-योनिषु प्रादुर्भवति । तत्रायम् अभिप्रायः—भक्ति-मात्रापेक्षी श्री-भगवान् । अतो देवकी-वसुदेवादिभ्योऽपि भवादृशाम् अतीव भक्तत्वात् तान् अप्य् अनपेक्ष्य युष्मत्-प्रेम-दामभिर् आकृष्यमाणो निज-मनोहर-लीलार्थं युष्मद्-व्रजम् एवागमिष्यतीति ॥३७-३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न ह्य् अस्यास्तीति तैर् व्याख्यातम् । तत्रास्ताम् एतद् इति न वयम् अन्तर् हृदीत्य्-आदिकं बुध्यामहे इत्य् अर्थः । यथा जीवानां तेन तेन लौकिक-प्रकारेण प्रियादयः कर्मान्ताः चतुर्दश भावाः स्युस् तथास्यामी न सन्तीत्य् आह—नहीति त्रिकेण । अस्तीति सर्वत्र निषेधे योज्यम् । अस्य श्री-कृष्णस्य उपकारादिना प्रियोऽतिशयेन न ह्य् अस्ति एकांशेनापि नास्तीत्य् अर्थः । अपकारेणाप्रियोऽपि नास्ति कश्चिद् इति यथा-सम्भवम् अग्रेऽपि योज्यम् । तथा सौन्दर्य-पाण्डित्यादि-गुण-दृष्टि-हेतोर् उत्तमः स्तुत्यो न कौरूप्य-कौबुद्ध्यादि-दोष-दृष्टि-हेतोर् अधमो निन्द्यो न तादृश-गुण-दोषाभाव-दृष्टि-हेतोर् भार्या न । सर्व-कारणादि-हेतोर् आत्मीयो न । तद्-अभाव-हेतोः परोऽपि न । अभिन्न-देह-देहि-स्वरूपाद् अन्यत्रात्मत्वाभिमान-हेतोर् देहो न । अन्यादृश-देह-स्वीकारज् जन्मैव च न । कुतो देहः ? इत्य् अर्थः । अपूर्णोत्पत्ति-योगत्वाभावात् । कर्म शुभाशुभम् अदृष्टं च नेति । सर्वत्र यथायथं हेतुः—अमानिनः तत्-तद्-अभिमान-शून्यस्य समानस्य विकार-रहितस्येति प्रायः सर्वत्रैव नञः प्रयोगस् तन्-निषेध-निर्धारणार्थः । आद्यो वा-शब्दः समुच्चये । अन्ये च तत्-सम्भावनायाम् अपि तन्-निरासार्थाः । जन्म एव चेति च-शब्दः काचित्कः ॥३७-३८॥
किन्तु तस्यैवम्-भूतस्यापि साधुत्वेन प्रियादयः साधुत्वेन प्रियादयः साधु-द्रोहित्वेनैवाप्रियादयः सन्तीत्य् अभिप्रेत्याह—सद् इति । सज्-जातिर् इयम् असज्-जातिर् इयम् इत्य् आद्यादरानादराननुसन्धाय तासु तद्-अनुकारि-स्वरूप-विग्रहेण प्रकटी-भूय साधूनां साधुत्वेनैव प्रियादितया स्वीकृतानां सर्वतो रक्षणाय योग्यो भवतीत्य् अर्थः ।
ननु सङ्कल्पेनैव तत् स्यात्, किं तत्-तत्-प्रादुर्भावेन ? तत्राह—क्रीडार्थं, लोकवत् तु लीला-कैवल्यम् इति न्यायेन क्रीडा-प्रयोजनः सन्न् इत्य् अर्थः । अयम् अभिप्रायः—अन्य-लेपस् तस्मिन् न भवत्य् एव, किन्तु परम-सद्-गुण-शिरोमणये तस्मै साधुत्वं खलु रोचेत, साधुत्वस्य च तद्-अतिनिष्ठतायाम् एव मुख्या वृत्तिः, धर्मः प्रोज्झित-कैतवोऽत्र [भा।पु। १.१.२] इत्य् अत्र मोक्षे पर्यन्तस्य कैतवता-स्वीकारात् ।
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । > वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ [भा।पु। > ११.२०.४] > साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । > मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [भा।पु। ९.४.८] > इति स्पष्टत्वात् ।
तद्-एक-निष्ठता च तत्-प्रेम-तारतम्यैक-तारतम्यात् तद्-वैविध्येन विविधा च प्रेमैक-हेतुत्वात् तस्याः । तथा चोक्तं—यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनुघासं [भा।पु। ११.२.४२] इति । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरु सुहृदो दैवम् इष्टं [भा।पु। ३.२५.३८] इत्य्-आदि ।
तच् च तत्-प्रेम निर्गुणम्—
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । > तामसं मोह-दैन्योत्थं मन्-निष्ठं निर्गुणं स्मृतम् ॥ [भा।पु। > ११.२५.९] > सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । > तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भा।पु। > ११.२५.७]
इति श्री-भगवता निर्णयात् । अतस् तादृश-साधु-मात्रापेक्षी भगवान् । मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इति पाद्म-स्थ-तद्-उक्तानुसारेण तत्-सुख-मय-स्व-सुखाय क्रीडति यत् तत् तस्य स्वभाव एवेति स्थिते, ये यथा मां [गीता ४.११] इति न्यायात् यथावसरं प्रियादि-रूपताम् अपि प्राप्नोति । सम्प्रति च वसुदेव-देवक्य्-आदिभ्योऽपि युवयोः शुद्ध-वात्सल्याख्य-प्रेमातिशयवत्त्वात् तान् अपेक्ष्य युवयो रक्षाम् इच्छन् युवयोः प्रेमभिर् आकृष्यमाणो युवयोर् एव पुत्रत्वम् आत्मनि बहु मन्वानो युवयोर् अग्रे तद्-उचित-मनोहर-लीला-प्रकाश-लालसो व्रजम् आगमिष्यत्य् एवेति । तद् उक्तं स्वयम् एव—गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह [भा।पु। १०.४६.३] इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु सङ्कल्पेनैव तत् स्यात् । किं तथा प्रादुर्भूतः ? तत्राह—क्रीडार्थं तत्-प्रियादि-भाव-मय-क्रीडा-प्रयोजनः सन्न् इत्य् अर्थः । मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इति पाद्मे तद्-वाक्यात् । अयं भावः—अन्य-लेपस् तस्मिन् न भवत्य् एव, किन्तु परम-सद्-गुण-शिरोमणये तस्मै साधुत्वं खलु रोचेत, साधुत्वस्य च तद्-एक-निष्ठायाम् एव मुख्या वृत्तिः । धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सतां [भा।पु। १.१.२] इत्य् अत्र मोक्षेच्छा-पर्यन्तस्य कैतवतास्वीकारात् तद्-एक-निष्ठता च प्रेम-तारतम्यैक-तारतम्या तद्-वैविध्यतो विविधा च प्रेमैक-हेतुत्वात् तस्याः । तथा चोक्तं—यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनुघासं [भा।पु। ११.२.४२] इति । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरु सुहृदो दैवम् इष्टं [भा।पु। ३.२५.३८] इत्य्-आदि । अतस् तन्-मात्रापेक्षी भगवान् इति स्थिते श्री-वसुदेव-देवक्य्-आदिभ्योऽपि युवयोः शुद्ध-वात्सल्याख्य-प्रेमातिशयतया तान् अप्य् अपेक्ष्य युवयो रक्षाम् इच्छन् युवयोः प्रेमभिर् आकृष्यमाणो युवयोर् एव पुत्रत्वम् आत्मनि बहु मन्वानो युवयोर् अग्रे तद्-उचित-लीला-प्रकाश-लालसो व्रजम् आगमिष्यत्य् एवेति । क्रीडा-मय-साधु-परित्राणम् एव योजयति ॥३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं चान्तर्यामी तु कृष्णस्यांशः । कृष्णस् त्व् अंशी । भेदस् त्व् अनयोर् अयम् एवेत्य् आह—न ह्य् अस्यास्तीति सार्ध-द्वाभ्याम् । अस्यान्तर्यामिनः । तुल्यैव व्याख्या ॥३७॥
क्रीडार्थः सोऽपीति । स-शब्दः श्री-कृष्ण-परः । इदं-शब्द-तच्-छब्दाभ्यां व्यधिकरणत्वेन निर्देशात् । सोऽप्य् अंश्य् अपि क्रीडार्थः सन् साधूनां भक्तानां परित्राणाय कल्पते, समर्थो भवति, तथाविध-वात्सल्यात् । अतः खलु युवयोर् अन्तिक-वर्ती भविष्यति ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथापि प्रेमाणम् असङ्कुचन्तम् आलक्ष्य भो व्रज-राज ! कृष्णः साक्षात् परं ब्रह्मैव भवतीत्य् आह त्रिभिः प्रियादयो न सन्ति । तत्र हेतुः—अमानिनः समानस्येति च । न मातेत्य् आदि प्रकटार्थो नन्दं ज्ञापयितुम् ईप्सितः अप्रकटोऽर्थस् त्व् अन्य एव । तत्र सद्-असन्-मिश्राः सात्त्विक-तामस-राजस्यो या योनयः, तासु अस्य जन्म नास्ति, जन्माभावाद् एव । तद्-उत्तर-काल-भवं कर्तरि नास्ति तादृश-जन्मा देहोऽपि नास्ति । तेन देहेन क्रीडापि नैव । अन्यः प्रओजनं च नैव या गुणातीताः शुद्ध-सत्त्व-स्वरूपा यशोदा-देवकी कौसल्याद्यास् तासु जन्म च तद्-अनन्तरं कर्म च तज्-जन्म देहश् च क्रीडा च प्रयोजनं चास्ति, तद्-रूपा मात्राद्याश् च सन्तीति भावः । किं त्व् अयं नन्दं ज्ञापयितुम् अनभीप्सितः सोऽपि एवं ब्रह्म-स्वरूपोऽपि साधूनां स्व-भक्तानां दुःख-त्राणाय कल्पते योग्यो भवत्य् एव भक्त-वात्सल्याद् इति भावः ॥३७-३९॥
॥ १०.४६.४० ॥
सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् ।
क्रीडन्न् अतीतोऽपि गुणैः सृजत्य् अवति हन्त्य् अजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु जन्म-कर्मादि-रहितस्य कुत एतद् इत्य् अत आह—सत्त्वम् इति । कीडाम् अतीतोऽपि क्रीडन् । तथापि माया-गुणैर् घटत इत्य् अर्थः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथाशङ्कते—नन्व् इति । एतत् आविर्भाव-कल्पनम्, वस्तुतो निर्[गो।ता।उ।ऽ मायया सत्त्वादि-गुणान् लीलार्थम् आदत्ते । यद्यपि क्रीडातीतस्य क्रीडनं न सङ्गच्छते तथापीति । इत्य् अर्थ इति—स्फटिक-रागवद् उपाधि-सम्बन्धेन क्रीडा सम्पनीपद्यत एवेति भावः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु यद्य् अस्य प्राकृतं कर्म नास्तीत्य् उच्यते, तर्हि कथम् एतौ हि विश्वस्य च बीज-योनी [भा।पु। १०.४६.३१] इत्य्-आदिना विश्व-सर्गादि-कर्मोक्तं ? तत्राह—सत्त्वम् इति द्वाभ्याम् । अर्थस् तैर् एव व्याख्याः । यद् वा, क्रीडार्थ इत्य् उक्तम् । सा तु सद्-गुणाविष्करणेनैव सुष्ठु सम्पद्यत इत्य् अतस् तद् आह—सत्त्वम् इति । सत्त्वं रजस् तम इत्य् एतद् गुण-त्रयम्, अतीतः, अतो निर्गुणः । गुणैः प्रकृति-गुण-कार्यैर् अस्पृष्टोऽपि स्वयम् अजोऽपि गुणान् अप्राकृतान् वैदग्ध्य-माधुर्य-कारुण्यादीन् भजते प्रकटयति । किम्-अर्थं ? अत्र लोके गुणैस् तैर् एव क्रीडन् क्रीडितुम् । क्रीडाम् एवाह—सृजतीति । ब्रह्म-रुद्रादि-मोहनान् स्वरालापान् सृजति, अवति, शङ्खचूडादिभ्यो व्रजाङ्गनादीन्, हन्ति शङ्खचूडादीन् एव । यद् वा, सृजति वत्स-वस्तपालान्, अवति तान् एव वत्सर-पर्यन्तम्, हन्ति तान् एव संहरति, अन्तर्धापयतीत्य् अर्थः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्त्वम् इति तैर् व्याख्यातम् । तत्र तथापीति तत्-सान्निध्य-बलेन तन्-माया-गुणास् तत्र कुर्वन्ति तत् तस्मिन् नारोप्यत इत्य् अर्थः । यद् वा, इतः क्रीडा च तस्य स्वभाव एव यत्र प्राकृत-सत्त्वादिनाप्य् अनुरक्तीकरोतीति दर्शयति—गुणेभ्यः सत्त्वादिभ्यो निष्क्रान्तस् तत्-संसर्ग-रहितोऽपि क्रीडन् निज-भक्त-सुख-मय-निज-सुख-क्रीडा-हेतोः सत्त्वं रजस् तम इति गुणान् अपि भजते स्वीकरोति, तर्हि तैर् आविष्टो भवति, नहि नहीत्य् आह गुणैः स्वरूप-भूतैर् ज्ञानादिभिस् तान् अतिक्रान्तस् तद्-अनाविष्ट इत्य् अर्थः । अत एव अजः जन्मादि-विकार-रहितत्वे तन्-नामेत्य् अर्थः । प्राकृत-सत्त्वादि-मयीं क्रीडाम् अप्य् आह—सृजतीति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्त्वम् इति । यथा निर्गुणो निर्गता गुणेभ्यः सत्त्वादिभ्यो गुणाः, तादृशोऽपि गुणान् सत्त्वादीन् भजते सान्निध्येनोपकरोति, तथा सत्त्वादि-मय-क्रीडातीतोऽपि क्रीडन्, लोकवत् तु लीला-कैवल्य-न्यायात् साधु-परित्राण-मय-क्रीडां कुर्वन् सान्निध्येन गुणैः सत्त्वादिभिः सृष्ट्य्-आदिकं करोतीत्य् अर्थः ॥४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् असौ अंशित्वेन पर-ब्रह्मतया निर्गुण एव । कथं तस्य वात्सल्यादि-गुण-कल्पना ? इत्य् आह—सत्त्वम् इत्य्-आदि । निर्गुणोऽपि सत्त्वं रजस् तम इति गुणान् भजते । कुतः ? अति अतिशयं क्रीडन् क्रीडा-परः सन् । तत्र दृष्टान्तम् इवाह—अत्र अजः स एव। गुणैर् इतः प्राप्तः सन् सृजत्य् अवति हन्ति यथेति बोद्धव्यम् ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि तस्य सर्वत्र साम्यात् यथाप्रियादयो न सन्ति, तर्हि केचित् सुखिनः केचिद् दुःखिनश् च जगत्य् अत्र सृष्टास् तत्र गुण-कृतम् एव सुख-दुःखादिकं न तत्-कृतम् इत्य् आह—सत्त्वम् इति । निर्[गो।ता।उ।ऽ स्व-माया-शक्त्या वीक्षणादिना गुणांस् तदीयान् भजते स्वीकुरुते । किम्-अर्थं ? क्रीडन् क्रीडितुम् अतीतः क्रीडाम् अतीत इति क्रीडापि तस्य नास्तीति नन्दं बोधयितुम् अभीप्सितोऽर्थः । वस्तुतस् तु गुणान् अतीतः सन् अत्र मायिक-लोक-मध्ये कृष्ण-रामाद्य्-अवतारेण स्व-भक्तैः सह क्रीडितुम् इत्य् अर्थः । अतो गुणान् अतीतोऽपि गुणैर् जगत् सृजति यत एव प्राक्-कल्प-गत-जीवाः स्व-स्व-शुभाशुभ-कर्म-साधन-फल-सिद्ध्य्-अर्थं बुद्धीन्द्रियादीनि प्राप्य सुखिनो दुःखिनश् च भवन्तीति तत्र तस्य को दोषः, न हि तस्य ते प्रिया अप्रियाश् चेति भावः ॥४०॥
॥ १०.४६.४१ ॥
यथा भ्रमरिका-दृष्ट्या भ्राम्यतीव महीयते ।
चित्ते कर्तरि तत्रात्मा कर्तेवाहं-धिया स्मृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्राविद्योपाधेर् जीवस्य कर्तृत्वं दृष्टान्ती-कुर्वंस् तस्याविद्ययैव कर्तृत्वम् इति स-दृष्टान्तम् आह—यथेति । भ्रमरिका परिभ्रमणं तयोपलक्षितया दृष्ट्या भूर् अपि भ्राम्यतीति यथा प्रतीयते, एवं चित्ते कर्तरि सति तत्र चित्तेऽहं-धिया आत्माध्यासेनात्मा कर्ता स्मृतो यथा, तद्वद् इति ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र प्रकृते । तस्य जीवस्य । तया भ्रमरिकया । तत्र कर्तृत्वाभिनिवेशवति । आत्मा जीवः । तद्वद् ईशोऽपि स्रष्टृत्वादिकं माया-कृतम् एव न स्वाभाविकम् असङ्गत्वात् तस्येत्य् आशयः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि कथं साधारण-जनैर् असौ गुण-त्रय-भाग् इव प्रतीयते ? तत्राह—यथेति । आत्मौपम्येनैव तेषां तथा प्रतीतिर् इति भावः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्हि कथं तत्-तद्-गुणाविष्टः प्रतीयते ? तत्राह—यथेति । यथा जीवैर् भ्रमरिका-दृष्ट्या कुम्भकार-चक्रवन् निज-देह-परिभ्रमण-संस्कारवत्या दृष्ट्या मही भ्राम्यतीव प्रतीयते । यथा जीवैश् चित्तेऽपि कर्तरि सति तत्र चित्तेऽहं धिया चित्तम् एवाहम् इति बुद्ध्या शुद्ध-स्वरूप आत्मा स्वं कर्तेव स्मृतः स्मर्यते प्रतीयत इत्य् अर्थः । तथेश्वरोऽपि सृष्ट्य्-आद्याविष्टः प्रतीयत इति शेषः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ईश्वरे साक्षात् कर्तृत्वादिकं तु जीवेनारोप्यत एवेति दृष्टान्तेन योजयति—यथेति ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् अन्तर्यामी च कर्ता । तत् किम् अनयोर् भेद इत्य् उक्तम् इत्य् आशङ्क्याह—यथेति । आत्मा अन्तर्यामी कृष्णस्यांशः । चित्ते कर्तरि अहं कर्तेति स्मृतः । यथा भ्रमरिकेत्य् आदि तुल्यम् एव ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जगत्-स्रषृत्वम् अपि तत्र परमेश्वरे वस्तुतो नास्ति, तस्यापि गुण-कृतत्वाद् इत्य् आह—यथेति । भमरिका परिभ्रमणं वातादि-धातु-वैगुण्यात् तद्-युक्तया दृष्ट्या जनेन मही कुम्भकार-चक्रवद् भ्राम्यतीव ईयते प्रतीयते । यथा च जीवने चित्तेऽपि कर्तरि सति तत्रैवाहं-धिया चित्तम् एवाहम् इति बुद्ध्या आत्मा कर्ता स्मृतः स्मर्यते, तथैव गुण-कृतैव जगत्-सृष्टिर् ईश्वरे प्रतीयते इति शेषः । एवं च स्वरूपेणैव सर्व-जगत्-स्रष्टृत्वं नास्ति, किन्तु स्वरूप-भूताया अपि मायायास् तच्-छक्तित्वेन तद्-अभेदाज् जगत्-स्रष्टृत्वम् अस्यापीति ज्ञेयम् ॥४१॥
॥ १०.४६.४२ ॥
युवयोर् एव नैवायम् आत्मजो भगवान् हरिः ।
सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, युवयोर् एव नायम् आत्मजः, किन्तु सर्वेषाम् अपि । तत्रापि नात्मज एव, किन्तु शत्रु-मित्रादि-रूपोऽपीति सर्वात्मत्व-निरूपणेन मोह-निवृत्तये सम्बन्धम् अनैकान्तिकी-करोति—युवयोर् एवेति द्वाभ्याम् ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुत्राभिनिवेशं नैजत्वेनाविष्टम् आलक्ष्य तन्-निवृत्तये सर्व-रूपतां निरूपयितुम् आह—किं चेति । अयं कृष्णः । तत्रापि सर्वात्मजत्वेऽपि न केवलम् आत्मज एवेति । आदिना सुहृद्-आदयो ग्राह्याः । अनेकान्तिकी-करोति व्यभिचारयति ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निर्धारितेऽप्य् अर्थे प्रेमोद्रेक-स्वभावेन नातिविश्वास-भाजं तम् अवेक्ष्य प्रोक्त-प्रायम् एवार्थं पुनर् अप्य् आह—युवयोर् इति । अयम् ईश्वरो मद्-विधस्य भगवान् अखिलैश्वर्य-युक्तः । हरिः सर्व-मनोहरः । युवयोर् एवात्मजः । तस्य तद्-अनुरूप-व्यवहार-दर्शनात् । सर्वेषां रोहिणि-देवकी-वसुदेवादीनाम् आत्मजो नैव तथा, नैवेत्य् अर्थः । किं च, न केवलं युवयोर् आत्मज एव, किन्तु आत्मा परम-प्रियः, पिता च पालकः, माता च मातृवद् अतीव स्निग्धः । किं वा, प्रेम-सार-सर्वस्वाभिज्ञः सर्वेषां तु तेषां तथा नैवेति भावः । तेनान्यदीय-पुत्रत्व-शङ्कया तस्यात्रागमने नाविश्वासः कार्य इत्य् अर्थः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः प्रेम-विशेष-वशत्वेनैव युवयोः पुत्रोऽसौ, ततः कथञ्चिद् अन्यत्र गतोऽप्य् आगमिष्यत्य् एव । यदि च प्रातीतिकेन जन्य-जनक-भावेन तस्मिन् पुत्रत्वं मन्यसे, तदा सर्वात्मकत्वेन न केवलं युवयोर् एव, अपि तु सर्वेषां न च केवलं पुत्र एव, अपि तु पित्रादिर् अपि तत्र तत्र च खिलैश्वर्य-युक्तः हरिः सर्व-दुःख-हर्ता । यद् वा, तस्मात् प्रेम-विशेष-सद्-भाव-मात्रस्य तस्मिन् पुत्रत्वापादकत्वात् युवयोर् एवायम् आत्मजः, नैव न तु सर्वेषाम् आत्मजः । हि यस्मात् । सर्वेषाम् आत्मा परमात्मा पिता जनयिता माता धारयिता ईश्वरः कर्म-फल-दाता चेति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं साधारणेषु तस्य साधारणं वैभवं वदन् तत्रैवार्थ-विशेषेण तयोः सम्बन्ध-विशेषं स्थापयति—युवयोर् इति ॥४२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रकृतम् आह—युवयोर् इत्य्-आदि । आत्मजः—आत्मना स्वयं जात इत्य् आत्मजः स्व-प्रकाशः । तथा-भूतोऽपि हरिर् अयम् एष भगवान् युवयोर् एवात्मज एव न ? अपि त्व् आत्मज एव । अयम् एवेति कः ? सर्वेषाम् आत्मा पिता माता ईश्वरः स प्रसिद्धः । अतो मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णम् अन्तिके [भा।पु। १०.४६.३६] इति साधूक्तम् एव ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः सर्व-जगत्-स्रष्टरि तस्मिन् परमेश्वरे पुत्रादि-भावना सुख-दुःखत्वादि-भावना च कर्तुं नोचिता, तद् अपि परमेश्वरोऽपि स कृष्णो ममैव पुत्र इति यदि मन्यसे, तदा शृणु तत्त्वम् इत्य् आह—युवयोर् एव न आत्मजः, किन्तु ये ये तस्मिन्न् आत्मज-भावं कुर्युस् तेषां सर्वेषाम् आत्मजः । आत्मा आत्मवत् प्रेष्ठः ये ये तस्मिन्न् आत्मैवायम् इति भावं कुरुस् तेषाम् आत्मा । एवं पित्रादि-भावतां स पित्रादिः ईश्वर इतीश्वरत्वात् तस्मिन् किम् अपि नायुक्तम् इति भावः ॥४२॥
॥ १०.४६.४३ ॥
दृष्टं श्रुतं भूत-भवद्-भविष्यत्
स्थास्नुश् चरिष्णुर् महद् अल्पकं च ।
विनाच्युताद् वस्तु तरां न वाच्यं
स एव सर्वं परमात्म-भूतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अच्युताद् विना तरां नितरां तत्त्वतो वाच्यं निर्वचनार्हं वस्तु नास्तीति ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तराम् इह नि-लोपे आर्षः । अत एव स्वामि-चरणैर् व्याख्यातं—नितराम् इति । परमार्थ-रूपो नित्य-प्रतिहृत-रूपः । स एव श्री-कृष्ण एव ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च दूर-वर्तित्वाद् अस्यात्रागमने विलम्ब-लवोऽपि सम्भाव्य इत्य् आशयेनाह—दृष्टम् इति । प्रत्यक्षं परोक्षं च वस्तु स्थास्नुश् चरिष्णुश् च यः शरीरी, अच्युताद् इति कुत्रापि तस्य च्युति-राहित्याभिप्रायेण, यतः सोऽच्युत एव सर्वम् । कथं परमात्म-भूतः ? सर्व-जीवानाम् अन्तर्यामितया तद्-एक-मयत्वात् । परमार्थ-भूतः इति पाठे, अर्थो वस्तु तेन तस्य सर्वात्मकत्वेन व्यापित्त्वाद् अत्रेवाविर्भूयासौ शीघ्रम् आत्मानं दर्शयिष्यतीति भावः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र हेतुत्वेन सर्वात्मकत्वम् एव दर्शयति—दृष्टम् इति । अविनाभावत्वे हेतुः—परमात्म-भूतः सर्वेषां मूल-स्वरूपः परमार्थ्-भूत इति पाठेऽपि स एवार्थः । अर्थो वस्तु ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : युवयोर् एव सर्वात्मकत्वम् इति दर्शयति—दृष्टम् इति ॥४३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सर्वात्मत्वं तस्य दर्शयन्न् आह—दृष्टं श्रुतम् इत्य्-आदि । तुल्यम् ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो व्रजराज ! वस्तुतस् तु युष्मद्-आदिकं सर्वम् इदं जगत् तच्-छक्ति-सृष्टत्वात् तद्-आत्मकम् एव जानीहि । ब्रूहि च तद्-अनुरूपम्न् इत्य् आह—दृष्टम् इति । अच्युताद् विना वस्तु न तरां नैव वाच्यं प्रकृति-प्रत्यययोः पौर्वापर्याभाव आर्षः ॥४३॥
॥ १०.४६.४४ ॥
एवं निशा सा ब्रुवतोर् व्यतीता
नन्दस्य कृष्णानुचरस्य राजन् ।
गोप्यः समुत्थाय निरूप्य दीपान्
वास्तून् समभ्यर्च्य दधीन्य् अमन्थन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दीपान् निरूप्य प्रज्वाल्य । वास्तून् देहल्य्-आदीन् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । कृष्णानुचरस्योद्धवस्य । समभ्यर्च्य वास्तु-देवताः मार्जना-लेपना-क्षतादिभिः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पूर्वोक्त-प्रकारं ब्रुवतोः सतोर् इति द्वयोर् अपि पुनः पुनस् तादृग् उक्तिं बोधयति । अतो अपि स्मरति नः कृष्णः [भा।पु। १०.४६.१८] इत्य्-आदिकं मुहुर् वलल्वेन्द्रेणाप्य् उक्तम् इति ज्ञेयम् । यद् वा, एवम् ईदृशम् अन्यद् अपि ब्रुवतोर् इत्य् अर्थः । अतः सा तयोः संलाप-सम्बन्धिनी दीर्घापीति वा । निशैव विशेषेण निःशेषम् अतीता, न च श्री-गोपेन्द्रस्य शोको नाप्य् उद्धवस्य तद्-अर्थ-वाक् प्रयोगो विररामेत्य् अर्थः । कृष्णानुचरस्येति अशेष-चातुर्यवतोऽपीत्य् अर्थः । ततश् च प्रातः-कृत्यार्थं त्वरया श्रीमद्-उद्धवो बहिर् निर्गत इति ज्ञेयम् । राजन् हे सर्व-सद्-बुद्धि-प्रकाशमानेति तत्त्वया बुध्यत एवेति भावः ।तद्-आगमन-ज्ञानेन च गोप्यः प्रातर् गृह-कृत्यं कर्तुं प्रवृत्ता इत्य् आह—गोप्य इति । जात्या दधि-मन्थनादि-कर्म-योग्यतोक्ता, श्लेषेणाशय प्रयत्नेन स्व-देह-रक्षिका इत्य् अर्थः । सम्यग्-आचमनादि-पूर्वकं कृष्ण-मनोहर-लीला-ध्यानावेशेनोत्थाय सम्यग् यथा-विधि अभितः सर्वतोऽर्चययित्वा, एतच् च पूर्वाभ्यासेनैव विरह-वैक्लव्येन प्रायस् तासां गृह-कृत्यस्योपरमेऽपि तत्र प्रवृत्तिः श्री-कृष्णागमनस्य प्रगाढाज्ञया तत्-प्रीत्य्-अर्थं प्रयत्न-विशेषेण । किं वा, तत्-कीर्तन-हेतुतया दधि-मथन-मात्रापेक्षया । किं वा, कृष्णाय नवनीत-प्रेषणापेक्षया ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पूर्वोक्त-प्रकारेण । तत्र श्री-नन्दस्य तत्-प्रकारो यथा-कथञ्चित् स्व-पुत्रागमन-मात्र-तात्पर्यकः श्रीमद्-उद्धवस्य तत्-प्रकारस् तु सान्त्वन-मात्र-तात्पर्यकः । वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा इत्य्-आद्य्-उक्तेः । यथा अयम् अनयोर् भावः सर्वेषाम् एव श्लाघनीयः । एतादृश-भाव-मूलकं चेदं विरह-दुःखं तच् च सम्प्रति परम-दुःसहं जातं श्री-कृष्णागमनं च न सम्प्रति घटते । तस्माद् भाव-श्लाघासहितेनैव तत्त्वोपदेशेन भावम् एवैतं यत् किञ्चिद् विश्लथायमानं विधाय तद्-दुःखं च तादृशं विधेयम् इति सान्त्वन-मात्र-तात्पर्यकः । ब्रुवतोः सतोर् इति शतृ-प्रयोगेण तु द्वयोर् अपि पुनः पुनस् तादृग् उक्तिं बोधयति सा तयोः संलाप-सम्बन्धिनी दीर्घापि निशैव विशेषेण निःशेषणातीता न च श्री-गोपेन्द्रस्य शोको नाप्य् उद्धवस्य तद्-अर्थ-वाक् प्रयोगो विररामेत्य् अर्थः । कृष्णानुचरस्येति तद्-आदेशानुसारेणाशेष-वाक्-चातुर्यवतोऽपीत्य् अर्थः । ततश् च प्रातः-कृत्यार्थं त्वरया श्रीमद्-उद्धवो बहिर् निर्गत इति ज्ञेयम् । तद्-आगमन-ज्ञानेन च गोप्यः प्रातर् गृह-कृत्यं कर्तुं प्रवृत्ता इत्य् आह—गोप्य इति । गोप्योऽत्र विश्रम्भ-प्रधानान्तः-पातिन्यः साधारण्ये वा । दधि-मन्थनम् इदं प्रायः कृष्णाय नवनीत-प्रेषणापेक्षया ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति । समाधानं तु न जातम् इति भावः । गोप्यः साधारण्यः ॥४४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं तयोर् ब्रुवतोर् एव सा निशा व्यतीता, न तु नन्द-यशोदयोः सान्त्वनं कर्तुम् उद्धवः शशाक । नाप्य् उद्धवस्य प्रबोधनं तौ जगृहतुर् इति भावः । अत्र व्रज-राजो मनस्य् एवं विचारयामास—“अयं कृष्णः परमेश्वर एवेति प्राबोधययुद्ध-वस्तु तत् किम् अहं न जानाम् इ ? अस्य नाम-करण-समय एव नारायण-समोऽयम् इति गर्ग-मुखाद् अश्रौषम् एव । नारायणस्य समः, तं विना कोऽन्यः ? तस्मात् तथा पूतना-बकादि-मारणाद् गोवर्धन-धारण-दावानलोपशमनाद् वरुण-लोक-पाल-प्रणमनान् नारायणत्वम् अस्यान्वभूमैव ।
“नारायण एव परमात्मा । स एव पर-ब्रह्म इत्य् एतद् अपि जानाम् य् एव । तद् अप्य् अयम् आवयोर् एव पुत्र इत्य् अत्राबाधितोऽस्मद्-अनुभव एव प्रमाणम् । तस्मान् नदात्मजोऽयं ते इति श्री-गर्ग-महामुनि-वाक्यम् अपि, परमेश्वरेऽपि तस्मिन्न् नाराध्यत्व-बुद्धिम् अकृतवतोर् अपि स्व-भुक्त-शेष-ताम्बूलार्चितादिकं समर्पितवतोर् अप्य् आक्योर् मनः-प्रसादान्यथानुपपत्तिर् अपि । कृष्ण-जन्मनः पूर्वम् आवयोर् इष्ट-देवो नारायणो ध्यातुं शक्य एवासीत्, अधुना तु ध्यान-मात्र एव स्फुरत्य् आविर्भवति चेत्य् आवयोर् मनः-प्रसादे लिङ्गम् । अतः आवयोः पुत्रे तस्मिंस् तत्-तद्-व्यवहृतिर् न दोषः ।
“तथा कृष्णस्यावां पितराव् एवेत्य् अत्र कृष्णैवानुभवः प्रमाणम् । आवयोस् ताम्बूल-चर्वित-प्रदानाङ्कारोहण-परिष्वङ्ग-चुम्बनादि-लक्षण-लालनस्याप्राप्तौ सत्यां तस्य सुख-म्लानेर् बहुशो दृष्टत्वात् । यदि तस्येयं माता न स्यात्, तदा माण्ड-स्फोटापराधे तं कथं बबन्ध ? बन्धने मुख-म्लाने मया मुख-प्रसादस्य च तदानीं दृष्टत्वात् । आवयोः पितृत्वे सत्य् एव परमेश्वरोऽपि स विविधानुशासन-भर्त्सन-बन्धनादिकम् अङ्गीकुरुते स्म, अन्यथा पर-ब्रह्मणः सर्व-व्यापकस्य परमेश्वरस्य कथं बन्धनम् इति ?
“किन्तु साम्प्रतं मथुरायां चाणूर-कंसादि-वधानन्तरं, ऽहे कृष्ण, त्वं परमेश्वर एवऽ इति सर्व एव ब्रुवते स्म । तत्र देवकी त्व् ऽअहं ते माताऽ इति, वसुदेवः ऽअहं ते पिताऽ इति । केचिद् अन्ये ऽवयं ते पितृव्याःऽ इति, केचिच् च ऽवयं भ्रातरःऽ इति ऽआत्मीयाःऽ इति ऽबन्धवःऽ इत्य् उक्त्वा बहव एव यदा तं स्व-स्व-गृहं प्रति नेतुं निमन्त्रयन्तो मथुरायाम् एव रोद्धुं प्रावर्तन्ते, तदा मत्-पुत्रो महा-भव्य-शिरोमणिः स महा-सङ्कटे तत्-तन्-मुखापेक्षया जाले पतितः ।
स्वीयं व्रजम् अप्य् आगन्तुम् अपारयन् सर्वत्रैव दाक्षिण्याद् एवम् अब्रवीद् इत्य् अहम् अनुमिमे—ऽअहं खलु परमेश्वर एव सर्व-विश्व-स्रष्टा । मम का माता ? कः खलु पिता? क आत्मीयः ? को वा परः ?ऽ किं तु यूयं सर्व-शास्त्रं पश्यत—यो मे भक्तिं करिष्यति तस्यैवाहं नान्यस्य, तस्यैव गृहं यास्यामि । स मम पितादिर् इति ।
“अयं तूद्धवो बालक एव । बुद्धिमान् अपि मत्-पुत्रस्य तस्य महा-गम्भीर-हृदयम् अवगादु समर्थः, तद्-वाचं तां श्रुत्वा कृष्णस्यायम् एवाशय इति मत्वा तत आगत्यात्र मां तथैव बोधयति स्म । किं च, मत्-पुत्रेण चातुर्थ्यात् सम्यग् एतद् उक्तं यो मे भक्तिं करिष्यति, स एव मे पित्रादिः, तस्यैव गृहे वसाम्य् अहम् ।
“अतोऽहम् अप्य् उद्धव-द्वारा स-देशम् इमं सम्प्रेषयिष्यामि—ऽहे कृष्ण ! त्वम् अहं मम भक्तिर् भवेत् तथा स्वाम् अहं प्राप्नुयाम्ऽ इति । ततश् च सर्व-यादव-सभासु मत्-सन्देशम् इमं प्रथयित्वा—ऽभो भो यदु-वंश्याः ! भवन्तोऽत्र मद्-भक्तिं कर्तुं न शक्नुवन्ति । नन्दस् तु करोत्य् अतः स एव पिता बन्धुः प्रियश् च । तद्-गृहम् एव यामिऽ इत्य् उक्त्वा स शीघ्रम् इहागच्छेद् इति हन्ते व्रज-राजस् तम् अपि पराममर्श दैन्य-सञ्चारि-प्राबल्येन विसस्मरि ।
अथ प्रकृतम् अनुसरामः । ब्राह्मे मुहूर्ते समुत्थाय दीपान् निकृष्य प्रज्वाल्य वास्तून् देहल्यादीन् ॥४४॥
॥ १०.४६.४५ ॥
ता दीप-दीप्तैर् मणिभिर् विरेजू
रज्जूर् विकर्षद्-भुज-कङ्कण-स्रजः ।
चलन्-नितम्ब-स्तन-हार-कुण्डल-
त्विषत्-कपोलारुण-कुङ्कुमाननाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मणिभिः काञ्च्य्-आदिषु स्थितैः रज्जूर् विकर्षत्सु भुजेषु कङ्कणानां स्रजो यासां ताः । चलन्तो नितम्बाः स्तना हाराश् च यासां ताः, कुण्डलैस् त्विषन्तः स्फुरन्तः कपोला यासां ताः, अरुणानि कुङ्कुमानि येषु तान्य् आननानि यासां ता एव ताश् च ताश् च ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गोप्यः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दीपैः कृत्वा दीप्तैर् अधिकं द्योतमानैर् इत्य् अर्थः । यद् वा, दीपेभ्योऽपि दीप्तैर् विरेजुः, स्वत एव दीप्तिमत्यः । पुनश् च तादृशैर् मणिभिर् विशेषतोऽशोभन्तेत्य् अर्थः । विराजने हेत्व्-अन्तरं चाह—रज्जुर् इत्य्-आदिना । विकर्षाद् इति भुजानां कङ्कण-सुजाञ्च चलनं वाद्यं च सूचयति । तथा नितम्बादीनां चलने हेतुश् च । अन्यत् तैर् व्याख्यातम् । यद् वा, चलन्ति नितम्बादीनि कुण्डलान्तानि यासाम् । स्वभावत एव रज्जु-विकर्षण-श्रमज-स्वेद-बिन्दुभिर् वा भ्राजत्-कपोलाः, तच्-छ्रमेणैवारुणानि कुङ्कुम-युक्ताननानि यासां ताश् च ताश् च, मण्य्-आदीनां धारणं स्वभावत एव अङ्गेषु वर्तमाणतया, स्वलङ्कृताभिः [भा।पु। १०.४६.११] इत्य् अत्र पूर्वोक्त-युक्त्यैव ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दीपैर् हेतुभिर् दीप्तैस् तत्-प्रतिबिम्बेन विशेषतः व्रेजुर् इति स्वत एव रेजुः । पुनश् च तादृशैर् मणिभिर् विशेषत इत्य् अर्थः । यद् वा, दीपाद् अपि दीप्तैः । अतो विशेषतो रेजुः । ततो दीप-ज्वालनं तु मङ्गलतयैव विराजमाने हेत्व्-अन्तरं रज्जुर् इत्य्-आदि । स्रक् श्रेणी कुण्डलस्यापि चलनं प्रकरण-वशाज् ज्ञेयम् । अरुणेति वाह्लीक-देशोद्भवानि कुङ्कुमानि व्यज्यन्ते ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मणिभिः कङ्कण-किङ्किण्य्-आदिषु स्थितै रज्जूर् विकर्षत्सु भुजेषु कङ्कणानां स्रक् श्रेणी यासां ताः चलन्तः काममाना नितम्बाः स्तना हाराश् च यासां कुण्डलैस् त्विष्यन्तः स्फुरन्तः कपोला यासाम् अरुण-कुङ्कुमम् । यद् वा, आह्लीक-देशोद्भूतं तद्-युक्तान्य् आननानि यासां ताश् च ताश् च ताश् च ताः ॥४५॥
॥ १०.४६.४६ ॥
उद्गायतीनाम् अरविन्द-लोचनं
व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः।
दध्नश् च निर्मन्थन-शब्द-मिश्रितो
निरस्यते येन दिशाम् अमङ्गलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दिवं स्वर्गम् । येन ध्वनिना । दिशां दिक्षु स्थितानाम् अशुभं नश्यतीत्य् अर्थः । एतेन तासां ध्वनिस् तदा सर्व-दिक्षु दिवि च प्रसृत्य तत्रत्य-कर्ण-देशम् आगत्य तेषाम् अशुभं नाशयतीत्य् अर्थः ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (हरि-भक्ति-विलासः ३.२६) : एवं साक्षाद्-भगवतः कीर्तन-स्मरणे लिखित्वा प्रिय-जन-प्रेम-द्वारापि कीर्तन-स्मरण-विशेषं लिखति—उद्गायतीनाम् इति । दिशां दश-दिक्-स्थानां जीवानाम् अमङ्गलम् ऐहिकामुष्मिकम् अखिलम् अभद्रम् । यद् वा, अ-कारो विष्णुस् तद्-रूपं मङ्गलम् । किं वा, न विद्यते मङ्गलं यस्मात् तद् अमङ्गलम् । अनुत्तमादिवत् परम-मङ्गलम् इत्य् अर्थः । तच् च मुख्य-वृत्त्या श्री-भगवत्-प्रेमैव, यत् येन ध्वनिना दिशः प्रति नितरां रस्यते आस्वादः कार्यत इत्य् अर्थः ॥४६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दधि-मथन-मूल-प्रयोजनम् आह—उद् इति उच्चैः । अरविन्द-लोचनम् इति सौन्दर्यं तेन च प्राधान्येन सौन्दर्य-गानम् । तथा व्रजाङ्गनानाम् इति गान-नैपुण्यं चाभिप्रेतम् । एवं प्रेम्णोच्चैर् गानात् तासां बाहुल्याच् च गीत-ध्वनेर् व्यापकतोक्ता । अत एव दिवम् अस्पृशत् । तत्र हेत्व्-अन्तरं च—दध्न इति । निर्मन्थनं निरन्तर-विलोडनम् । च-कारात् कङ्कणादेश् च शब्द-मिश्रितः । दिशां दश-दिग्-वर्तिनां सर्वेषां लोकानाम् अमङ्गलम् ऐहिकामुष्मिकाशेष-दुःखं तन्-मूल-पापं च निरस्यते, निःशेषतया दूरतः क्षिप्यते ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सन्ततं श्री-कृष्ण-वेश-युक्तानाम् अपि तासां व्रज-व्यवहार-रक्षणाय श्री-कृष्णैक-रक्षित-तत्-तत्-संस्कार-वशाद् दधि-मन्थनेऽपि तद्-आवेशं सूचयन् तत्र च योगावसरतया गानेनातिशयं दर्शयन् तेन जगतोऽपि मङ्गलं जातम् इत्य् आह—उद् इति । उच्चैर् इत्य् आवेशो दर्शितः । अरविन्द-लोचनम् इति सौन्दर्य-प्रधान-गानं व्रजाङ्गनानाम् इति तादृश-प्रसिद्धैर् गान-नैपुण्यं च । एवं प्रेम्णोच्चैर् गानात् तासां बाहुल्याच् च गीत-ध्वनेर् व्यापकता ज्ञापिता । अत एव दिवम् अस्पृशत् । तत्र हेत्व्-अन्तरं च—दध्न इति । निर्मन्थनं निरन्तर-विलोडनम् । च-कारात् कङ्कणादेश् च शब्द-मिश्रितः । दिशां दश-दिग्-वर्तिनां सर्वेषाम् एव लोकानाम् अमङ्गलम् ऐहिकामुष्मिकाशेष-दुःखं तन्-मूलं च कर्म निरस्यते, स-वासनं दूरतः क्षिप्यते ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्गायन्तीनाम् इत्य् आनन्द-द्योतने वस्त्रालङ्कार-कुङ्कुमालेप-मधुर-गानादिकं विरहे न घटत इत्य् उक्ततो कृष्ण-संयुक्त-प्रकाश एवोद्धवेन सामान्यतो रात्र्य्-अन्तेऽपि दृष्ट्वा तया दिनान्ते इति ज्ञेयम् ॥४६॥
॥ १०.४६.४७ ॥
भगवत्य् उदिते सूर्ये नन्द-द्वारि व्रजौकसः ।
दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा व्रजौकसो गोप्यः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा सूर्योदये । शातकौम्भं सुवर्ण-बहुलम् । शातकौम्भं सुवर्णे च घट-पुञ्जेऽश्व-मारके इति मेदिनी ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवतीति तमो-नाशनादि-शक्त्य्-अभिप्रायेण श्री-भगवत्-पूजाधिष्ठानत्वादिना वा । व्रजौकस इति सदा व्रज एव निवासात् तद्-रथापरिचये हेतुः । किं च, शतकौम्भं सर्व-निर्मितम् इति वैलक्षण्यम् उक्तम् । अतोऽयं कस्येत्य् अब्रुवन् । च-काराद् अक्रूर-रथ-स्मरणेन विलक्षणं प्रारुदंश् चेत्य् अर्थः । तत्र व्रजौकसो गोप्य इति तैर् व्याख्यातम् । स्त्रीणां वदन्तीनाम् इति वक्ष्यमाणत्वात् । यद् वा, सर्व एव व्रज-वासिनोऽब्रुवन् । ततश् च तेषां तादृशोक्ति-श्रवणात् तयैव वदन्तीनां स्त्रीणाम् इत्य् अर्थः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतीति । तमो-नाशनादि-शक्त्य्-आदि--रूपेण श्री-भगवत्-पूजाधिष्ठानत्वादिना वा । तादृशी स्तुतिश् च तद् उ यस्य सर्वेषां व्रज-वासिनां श्री-कृष्ण-वार्ता-प्राप्ति-सुख-समयो हेतुतया सन्तोषेण । व्रजौकसः पुरुषाः । स्त्रीणां वक्ष्यमाणत्वात् । तच्-छब्द-प्रयोगश् च सदा व्रज एव निवासात् तद्-रथापरिचये हेतुः । किं च, शातकौम्भं स्वर्णकौम्भं स्वर्ण-परिवृतम् इति वैलील्यम् उक्तम् अतोऽयं कस्येत्य् अब्रुवन् । च-कारादन् उक्तं चान्यत् किञ्चित् समुच्चितेति ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : व्रजौकसः पुरुषाः स्त्रीणां वक्ष्यमाणत्वात् ॥४७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजौकसो विरहिण्यो गोप्यः ॥४७॥
॥ १०.४६.४८ ॥
अक्रूर आगतः किं वा, यः कंसस्यार्थ-साधकः ।
येन नीतो मधु-पुरीं कृष्णः कमल-लोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-क्रोधम् आहुः—अक्रूर इति । अर्थं साधितवान् इत्य् अर्थ-साधकः । तद् आहुः—येन नीत इति ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयम् आक्षिप्य समादधिरे—कंसस्येत्य्-आदिना । येनाक्रूरेण ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मधु-नामा महा-दैत्यस् तस्य पुरीम् इति श्लेषेण तस्यां तन्-नयनायोग्यतोक्ता । किं च, कृष्णः परमानन्द-घन-मूर्तिर् अस्मत्-प्रानेश्वरः । किं च, कमल-लोचन इति दृष्टि-मात्रेण सर्व-तापापहारित्वादिकम् अभिप्रेतम् । अत एतादृशस्य व्रजात् तत्र नयन-युक्तम् एवेति भावः ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथोत्कण्ठा-प्रधानान्तः-पातिनीनां कासाञ्चिद् वाक्यम् आह—अक्रूर इति द्वाभ्याम् । मधुपुर्य्-अधिकारित्व-दैत्य् अत्वाभ्यां कंसोऽपि मधुस् तस्य पुरीम् इति । तस्यां तन्-नयनायोग्यता । कृष्ण इति नास्मत्-पुत्रादिर् अन्योऽपि किन्तु स्वयम् एव कृष्ण इति, तत्रापि कमल-लोचन इति विशेष्य-सौन्दर्य-विशेष-सर्व-ताप-हारिता-गुण-विशेष-स्मरणेन निज-हृदयार्ति-विशेषं निवेदयन्ति । अत एव तादृशस्य व्रजाद् बहिर् अपि नयनम् अयुक्तं, किम् उत मधुपर्याम् इति भावः । यद् वा, क्रुद्धा आहुः—यः कंसस्यार्थं साधितवान् इति सः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-क्रोधम् आहुः । अक्रूर इति । अर्थं साधितवान् इति सः ॥४८॥
॥ १०.४६.४९ ॥
किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् ।
ततः स्त्रीणां वदन्तीनाम् उद्धवोऽगात् कृताह्निकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कंसं घातयित्वा पुनः किम् अर्थम् आगत इत्य् आशङ्क्य स्वयम् एव कारणं सम्भावयन्ति, किम् इति । तदा साधितेन कार्येण प्रीतस्य तुष्टस्य भर्तुः । पाठान्तरे प्रेतस्य मृतस्य कंसस्य निष्कृतिम् और्ध्व-देहिकम् अस्माभिः कृत्वा साधयिष्यते किम् । अस्मन् मांसैः पिण्डान् कृत्वा दास्यतीत्य् अर्थः । इत्य् एवं वदन्तीनां स्त्रीणां ततस् तस्मिन्न् अवसरे कृताह्निकः कृत-स्नानादि-नियम उद्धव आगत इति ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निष्कृतिं प्रीतिं स्यान् निष्कृतिर् और्ध्वदैह-प्रीत्यानृण्येषु कृत्रिमम् इति धरणिः । प्रेतस्य पर-लोकं गतस्य । किम् इति वितर्के । इत्य् अर्थ इति—मृतोद्देशेन मांसेन श्राद्धं बहु-तृप्ति-करं भवतीत्य् अर्थः । ततस् तासां कथनोत्तरम् । तस्मिन्न् अवसरे कथनोत्तर-क्षणे ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किम् इति तैर् व्याख्यातम् । यद् वा, तादृशम् इव रथं दृष्ट्वा अक्रूरम् आगतं मत्वार्ति-भरोदयेन मिथो मनोरथं कुर्वन्ति—किम् इति । प्रेतस्यापि निष्कृतिम् आनृण्यम् । अन्यत् समानम् । तदा गमन-प्रयोजनाविचारणं च वैजल्याद् युक्तम् एवागात्, व्रजान्तः प्राप्तः । अत एव तैर् व्याख्यातम्—आगत इति ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि स्व-भर्तुः कंसस्यैवार्थ-साधनाय श्री-कृष्णं नीतवांस् तथापि दैवात् तस्मिन् घातिते स्वार्थ-साधनाय तत्रैव श्री-कृष्णं रक्षित्वा यत् पुनर् अत्रागतस् तन् नूनम् एवम् अभिप्रायेणैवेत्य् अभिप्रेत्याहुः—किम् इत्य् अर्धेन । पूर्वं प्रीतस्य पश्चाद् दैवाद् अन्यथात्वं प्राप्तस्येत्य् अर्थः । पाठान्तरे प्रेतस्यापि निष्कृतिम् आनृण्यम् इति । ततस् तादृशोक्ति-श्रवणात् स्त्रीणां तत्-तद्-गृह-वर्तिनीनां सर्वासाम् एवं वदन्तीनां तास्व् अपि तथैव परस्परं वदन्तीष्व् अपीत्य् अर्थः । षष्ठी श्रुत्वाप्य् अश्रुतवद् आचरणेन श्रीमद्-उद्धवस्य तद्-आदर-व्यञ्जनात् । अगाद् यत्र श्री-कृष्ण-प्रेयस्यस् ता नित्यं मिथः-सम-दुःखतया मिलित्वा वसन्ति तम् एव स्थान-विशेषम् एकान्तम् अन्विष्य गत इत्य् अर्थः । एवम् उक्तः विस्तार-दैर्घ्ययोश् चतुर्-अष्टौ कोशान् व्याप्तस्य व्रजस्य व्यञ्जयिष्यमाणत्वात् । मिलित्वा कृत-वन-वासत्वाद् एवासनादिभिस् तद्-आतिथ्यस्य भ्रमरागमनस्यापि वक्ष्यमाणत्वात् । रहस्य् अस्पृच्छन्न् उपविष्टम् आसन इत्य् अहं भर्तुर् अहस्कर इति वक्ष्यमाणत्वात् व्रजस्य वर्त्मनि गृहे च कस्मिंश्चित् तत्-तद्-असमावेशात् ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अगात् यत्र श्री-कृष्ण-प्रेयस्यस् तं प्रत्यहं मिथः सम-दुःखतया मिलन्ति, तम् एव स्थान-विशेषम् एकान्तम् अन्विष्य गत इत्य् अर्थः ॥४९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कंसं घातयित्वा पुनः किम्-अर्थम् आगत इत्य् आशङ्क्य कार्यं सम्भावयन्ति। किम् इति । तदा साधितेन कार्येण प्रीतस्य भर्तुः प्रेतस्येति पाठे मृतस्य कंसस्य निष्कृतिम् और्ध्व-देहिकम् अस्माभिः कृत्वा साधयिष्यते अस्मन् मांसैः पिण्डान् कृत्वा दास्यतीत्य् अर्थः इति वदन्तीनां समीपम् आजगाम ॥४९॥
(१०.४७)
-
प्रवरो [नोत् गौडीय रेअदिन्ग्] ↩︎
-
सन्दर्शनाशा-तन्तु-रक्षक-सन्देशामृत-सेकेन। ↩︎
-
आद्येन ↩︎
-
आदिशति ↩︎
-
इदं पद्यार्धं श्री-स्वामि-पादानाम् असम्मतम्, तैर् अस्पृष्टत्वात् । ↩︎
-
माहात्म्य- ↩︎
-
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः
सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः [भा।पु। १०.३९.३५] ↩︎
-
कुत्राप्य् अन्य-जन-दृष्टः ↩︎
-
तच् चैव ↩︎
-
-व्रतः ↩︎