वसुदेव-देवकी-सान्त्वनम्, उग्रसेनस्य राज्याभिषेकः, राम-कृष्णयोर् उपनयनं विद्याध्ययनं, गुरोर् मृत-पुत्रस्यानयनं च ।
॥ १०.४५.१ ॥
श्री-शुक उवाच
पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः ।
मा भूद् इति निजां मायां ततान जन-मोहिनीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्चचत्वारिंशकेऽथ पितृ-नन्दादि-सान्त्वनम् ।
उग्रसेनाभिषेकश् च गुरौ वासात् पुरागमः ॥
उपलब्धार्थौ विदित्वा इति । अयम् अर्थः—उप समीपे आवयोः पुत्र-बुद्ध्या सांसारिक-परम-सुख-भोगात् पूर्वम् एव लब्धार्थौ आवाम् ईश्वराव् इति लब्धः प्राप्तः परम-ज्ञान-रूपोऽर्थो याभ्यां, तौ तथा-भूतौ ज्ञात्वा मयि प्रसन्ने सत्य् अनयोर् ज्ञानं नाम किं दुर्लभं स्यात् ? दुर्लभं तु मयि पुत्रतया प्रेम । अत इदानीम् एव तज् ज्ञानं मा भूद् इति निजां स्वाधीनां मायां तयोः प्रसारितवान् इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ कंस-मृतेर् अनन्तरम् । गुरौ गुरु-समीपे उज्जयिन्याम् ।*। उपलब्धार्थव् इत्य् अस्याशयम् आह—अयम् अर्थः इति । अतः पुत्र-प्रेम्णो दुर्लभत्वात् । तज्-ज्ञानम् एताव् ईश्वराव् इत्य् एवं-रूपम् । तयोर् देवकी-वसुदेवयोः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
अहो भगवतो नौमि बलाज् जीव-प्रवर्तनम् ।
यद् वा कुर्याद् व्रजेन्द्रस्य प्रस्थापनम् अपि व्रजे ॥
पुरुषोत्तम इति—
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः । > अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति,
श्री-भगवद्-उक्त्य्-अनुसारेण साक्षात् परमेश्वरतया सर्वज्ञत्वं कारुण्यद्य्-अशेष-सद्-गुण-निधित्वादिकं च सूचितम् । अत एव विदित्वा निजां सच्-चिद्-आनन्दात्मिकां शक्तिम् । किं वा, असाधारणीं कृपां विस्तारयामास, ताम् अभिव्यञ्जयति—जनानां स्व-भक्तानां मोहिनीं निज-पादाब्ज-विषयक-ममता-लक्षण मोह-जननीम् इति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
अहो भगवतो नौमि बलट् सर्व-प्रवर्तनम् ।
प्राहिणोद् यः स्व-शून्येऽपि श्री-नन्दादीन् अपि व्रजे ॥
अथ तं सम्परेतं विचकष भूमाव् [१०.४४.३८] इत्य् आरभ्य, उवाच पितराव् [१०.४५.२] इत्य् एतत् पर्यन्तस्य प्रकरणस्य लीला-क्रम-घटनार्थं पचन्त्यां विविधाः पाका इतिवद् आर्थिक एव क्रमो गृह्यते । तथा हि, प्रथमं तावत् कंसस्य मृत्यु-प्रत्यायनार्थं रङ्ग-भूमाव् एव यत् किञ्चिद् विकर्षणं, ततः कंस-भ्रातॄणां हननं, ततः श्री-वसुदेव-देवकी-मोचनं, तत्रैव ताभ्यां वन्दमानयोस् तयोः सङ्कोच-वचनं, ततः पर्वत-कायस्य कंसस्य यमुना-तीरं प्रति नयनासम्भवात् श्री-कृष्णेन स्वयम् एव पुनर् विकर्षणम् । तेन च परिखा जातेति श्री-विष्णु-पुराणे प्रसिद्धम् । यथा—
गौरवेणातिमहता परिखा तेन कृष्यता । > कृता कंसस्य देहेन वेगेनेव महाम्भसः ॥ [वि।पु। ५.२०.८९] इति > ।
सा चाद्यापि विश्रान्ति-तीर्थ-पर्यन्त-सङ्गता कंसस्य खातम् इति कंस-नदीति च प्रसिद्धा दृश्यते । एवं कंस-देहस्य स्थौल्य-काठिन्येऽपि व्यक्ते । ततः कंसादि-स्त्रीणां तत्रैव गमनं विलापाद्यं च । ततश् च पितराव् उपलब्धार्थाव् इत्य्-आदि ।
अथ तद् इदं प्रकरणं व्याख्यायते । उपलब्धार्थाव् इति उपोऽत्र हीने । पुत्र-भावमय-प्रेमतो हीनतया लब्धोऽर्थः पारमैश्वर्य-ज्ञानं याभ्यां तादृशौ तन्-मोचनानन्तरं वन्दन-समये ज्ञात्वा, तत् तु मा भूद् इति विचार्य जन-मोहिनी या माया पुत्राद्य् आसक्ति-रूपा निजां तां स्व-विषयिकां ततान ।
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । > त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [[वि।पु। > १.२०.१९]]{दिर्=“र्त्ल्”} इतिवत् ।
अन्यत् तैः । यद् वा, स्वीयाम् असाधारणीं कृपां किं वा, स्व-विषयिकां पितृ-भावमयीं कृपां वात्सल्य ताम् अभिव्यञ्जयति जनानां स्व-भक्तानां मोहिनीं यद् दर्शनेन तदानीन्तना यच् छ्रवणेनेदानीन्तनाश् च भक्ताः प्रेम-मोहं प्राप्नुवन्तीत्य् अर्थः । एतेन तादृश-भावस्य परम-पुरुषार्थत्वं ध्वनितं श्री-शुकादीनाम् अपि तादृश-भक्त-गणान्तःपातात् । यद् वा, तां मायां क्वीदृशीं अंशेन जन-मोहिनीं च किञ्चिद् अन्यथा-वचनत्वेन पुरतः प्रणीयमानत्वात् तच् चामू प्रति युक्तम् एव । स्त्रीषु नर्म विवाहे च वृत्त्य् अर्थे प्राण-सङ्कटे इत्य्-आदि-न्यायात् पुत्र-भाव एवानया पितृत्वेन स्वीकृतयोर् वृत्तिर् इति । वक्ष्यते चेति मायेत्य् आदौ परिरभ्यापतुर् मुदम् इति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : उपलब्धार्थाव् इति । उपोऽत्र हीने पुत्र-प्रेम्णा प्रेक्ष्य दीनतया लब्धो ऽर्थः मत्-पारमैश्वर्य-ज्ञानं याभ्यां तादृशौ ज्ञात्वा, तच् च मा भूद् इति विचार्य मायां स्व-विषयिकां कृपां वात्सल्यं ततान । तद् उक्तं नन्दः किम् अकरोद् ब्रह्मन् इत्य्-आदौ, नेमं विरिञ्चो न भव इत्य्-आदौ च । पुनः कीदृशीम् ? अशेन जन-मोहिनीं च किञ्चिद् अन्यथा वचनत्वेन पुरतः प्रतीयमानत्वात् ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न लब्धो दैव-हतयोर् इत्य्-आदि । दैवं प्रारब्धम्, तस्याइ हतं हनन्ं याभ्याम् , भावेक्तः प्रारब्ध-क्षयकारिणोर् इत्य् अर्थः । तथाभूताभ्याम् अपि न लब्ध इति यत् तत् प्रारब्धाधीनं न भवति किन्तु ममैवेच्छाविलसितम् इदम् इति भावः ॥१.१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
स्व-पित्रोः सान्त्वनं कंसताते राज्यं व्रजेशितुः ।
समाधिं पञ्च-चत्वारिंशे स वासं गुरौ व्यधात् ॥
उपलब्धोऽर्थः अस्मद् ऐश्वर्य-ज्ञान-रूपं धनं राभ्यां तथा-भूतौ पितरौ ज्ञात्वा माभूद् इति स चार्थोऽनयोर् मास्तु किं तु तदावरको वात्सल्य-प्रेमैव संप्रत्यस् तु मम चानयोश् च तेनैव परमानन्द-लाभाद् इति मनसि विमृश्य निजामन्तरङ्गां मायां स्वैश्वर्य-ज्ञानम् आवरीतुं योगमायां ततान जन-मोहिनी दीयमानं न गृह्नन्ति विना मत् सेवनं जना इत्य् अत्र जन-शब्देन भक्ता एवोक्तास् तान् मोहयितु शीलं यस्यास् तां । यद् वा, जनयत इति जनौ जननीजनकौ तयोर् मोहिनी श्री-स्वामि-चरणाश् चात्र मयि प्रसन्ने सत्य-नयोर् ज्ञानं नाम किं दुर्लभं स्यात् दुर्लभं तु मयि पुत्रतया प्रेमेति भगवद् अभिप्रायम् आहुर् अत एव पितरौ बात्सल्य-रसं ग्राहयितुम् अग्रिमश्लोकेषु तयोः कपटोभक्तिर् अपि न दोषायेति ज्ञेयम् ॥१.२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२ ॥
उवाच पितराव् एत्य साग्रजः सात्वत-र्षभः ।
प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव दर्शयति उवाचेत्य् आदिभिर् अष्टभिः । प्रीणन् प्रीणयन् सार्दरं ब्रुवन् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र त सम्परेतं विचकर्ष भूमौ [अ। ४४।श्लो।३८] इत्य् आरभ्य उवाच पितरावेत्य ।*। इत्य् एतत्पर्यन्तस्य प्रकरणस्य लीलाक्रम-घटनार्थम् इत्य् आद्यर्थिक एव क्रमो गृह्यते । तथाहि—प्रथमं तावत् कंसस्य मृत्यु-प्रत्यायनार्थं रङ्गभूमाव् एव यत्-किञ्चिद् विकर्षणम्, ततः कंस-भ्रातॄणां हननम्, ततः श्री-वसुदेव-देवकी-मोचनम्, तत्रैव ताभ्यां वन्द्यमानयोस् तयोः सङ्कोच-वचनम्, ततः पर्वतकायस्य कंसस्य यमुनातीरं प्रति नयनासम्भवाच् छ्री-कृष्णेन पुनः कर्षणम्, तेन च परिखा जातेति श्री-विष्णु-पुराणे प्रसिद्धम् । यथा—
गौरवेणातिमहता परिखा तेन कृष्यता । > कृता कंसस्य देहेन वेगेनेव महाम्भसः ॥ इति ।
सा चाद्यापि विश्रान्ति-तीर्थ-पर्यन्त-सङ्गता कंसस्य खातं, कंसनदीति च प्रसिद्धा दृश्यते । एवं कंस-देहस्य काठिन्य-स्थौल्येऽपि व्यक्त, ततः कंसादि-स्त्रीणां तत्रैव गमनं विलापाद्यं च, ततश् च पितराव् उपलब्धार्थौ इत्य्-आदि । अथ तद् इदं प्रकरणं व्याख्यायते—उपलब्धार्थाव् इति । उपोत्र हीने, पुत्र-भावमय-प्रेमतो हीनतया लब्धोर्ऽर्थः पारमैश्वर्य-ज्ञानं याभ्यां तादृशौ । तन्-मोचनानन्तर-वन्दन-समये ज्ञात्वा तत्-तु मा भूद् इति विचार्य जन-मोहिनी या माया पुत्राद्या सक्ति-रूपा, निजां तां स्व-विषयकां ततान
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । > त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ इतिवत् ।
यद् वा, स्वीयाम् असाधारणीं कृपां । किं वा, स्वविषयकां पितृभावमयीं कृपां वात्सल्यम् । ताम् अभिव्यञ्जयति—जनानां स्वभक्तानां मोहिणीं, यद् दर्शनेन तदानीन्तना यच् छ्रवणेनेदानीन्तनाश् च भक्ताः प्रेम-मोहं प्राप्नुवन्तीत्य् अर्थः । एतेन तादृश-भावस्य परम-पुरुषार्थत्वं ध्वनितम् । श्री-शुकादीनाम् अपि तादृश-भक्तगणान्तःपातात् ।
यद् वा, तां मायां पुनः कीदृशीम्-अंशेन जन-मोहिनीं च, किञ्चिद् अन्यथा वचनत्वेन पुरतः प्रतीयमानत्वात् । तच् च तां प्रति युक्तम् एव स्त्रीषु नर्म-विवाहेषु वृत्त्य् अर्थे प्राण-सङ्कटे इत्य्-आदि-न्यायात्, पुत्र-भाव एवानयोः पितृत्वेन स्वीकृतयोर् वृत्तिर् इति । वक्ष्यते च—इति माया इत्य् आदौ परिरभ्यापतुर्मुदम् ।*। इति । तद् एव माया-प्रसारणम् एव । प्रश्रयाय प्रकृष्टं सेवां कर्तुम् अवनतः । प्रीणन्न् इति णिजाद्यभाव आर्षः । तद् एव विवृणोति—उवाचेति । उवाच पितरावेत्य इति पूर्वं मोचयित्वा गृहम् एव प्रस्थापितौ ताव् एवेत्य् अर्थः । कंसादि-संस्कारार्थम् अन्यान् नियोल्ज्येति भावः । सात्वतर्षभ इति-स्व-वंश्यत्वेनानुगृहीतेषु यादवेषु च कृपां विस्तारयितुम् उचितोऽयम् इति तद् दर्शनया तेष्व् अपि तां विस्तारयितुम् इति भावः । तथा च विष्णु-पुराणे-मोहाय यद् उचक्रस्य विततान स वैष्णवीम् इति । साग्रजत्वं तत्-साहित्येन तयोर् अधिक-विश्वासार्थम् ।
यद् वा, हे अम्ब, हे तातेत्य् एवं सम्बोधनेन प्रीणन् तौ प्रीणयन् । किं वा, स्वयम् एव हृष्यन् सादरम् उवाच ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एत्येति जगदीश्वर-ज्ञानेन भक्त्या पश्चाद् दूरतः स्थित्वात्, पक्षान्तरे च स्वयम् आलिङ्गनादिन सङ्गत्येत्य् अर्थः । यतः सात्वतर्षभो भक्त-वर्ग-परिपालक इत्य् अर्थः । यद् वा, भक्तवात्सल्याद्य् अशेष-गुण-प्रकटनार्थं यदु-कुल-श्रेष्ठतां गत इति पित्रोः कृपा-विस्तारणेन यादवेषु च सर्वेषु कृपां व्यतनोद् इति भावः । तथा च श्री-विष्णु-पुराणे—मोहाय यदु-चक्रस्य विततान् स वैष्णवीम् इति । साग्रज इति तत्-साहित्येन, स्वोक्तौ तयोर् विश्वासाद्य् अर्थं निजैश्वर्याच्छादनार्थं च । अन्यत् तैर् व्याख्यातम् ।
यद् वा, हे अम्ब ! हे तातेत्य् एवं सम्बोधनेन तौ प्रीणन् प्रीणयन् किं वा, स्वयम् एव हृष्यन् सादरम् उवाच ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव विवृणोति । उवाचेति । उवाच पितरावेत्येति पूर्वं मोचयित्वा गृहम् एव प्रस्थापितौ तावागत्य् एत्य् अर्थः । कंसादि-संस्कारार्थम् अन्यान् नियोज्येति भावः । सात्वतर्पभ इति स्व-वंश्यत्वेनानुगृहीतेषु यादवेषु च कृपां विस्तारयितुम् उचितोऽयम् इति तद् दर्शनयातेष्व् अपि तां विस्तारितवान् इति भावः । तथा च विष्णु-पुराणे । मोहाय यद् उचक्रस्य विततान स वैष्णवीम् इति । साग्रजत्वं तत् साहित्येन तयोर् अधिक-विश्वासाद्य् अर्थःम् । अन्यत् तैः । यद् वा, हे अम्बतातेत्य् एवं सम्बोधनेन प्रीणन्तौ प्रीणयन् किं वा, स्वयम् एव हृष्यन् सादरम् उवाच ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.३ ॥
नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि ।
बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मत्तोऽस्मन्-निमित्तं नित्यम् उत्कण्ठितयोर् अपि युवयोः पुत्राभ्याम् आवाभ्यां कृत्वा बाल्य-पौगण्ड-कैशोरास् तत्-तद्-अवस्थानुभव-सुखानीत्य् अर्थः । नाभवन्न् इति । अस्मत्तः पुत्राभ्याम् इति सामानाधिकरण्यं वा ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—लक्षणयावस्था-शब्दास् तत्-तद् अस्वस्था-सुख-परा बोध्याः । ते बाल्यादयः । मैमित्तिकाधार-सप्तमी-कल्पनापेक्षया तृतीया कल्पना प्रथमातिक्रमे कारणाभावाद् वरेति मत्वाह—अस्मत्त इति । आवाभ्याम् इत्य् अर्थः । तसिर् अत्र सप्तमी-तृतीययोः पूर्वापरख्यानयोर् ज्ञेयः ।
[वैष्णव-तोषणी]: हे तातेति प्राधान्यात् । किं वा, ज्ञान-परस्य तस्य स्नेहौत्कटयम् असम्भाव्य मातृवत् स्नेहोदयाय । क्वचिद् एकांशेऽपि तद् इदं कैशोरस्य पूर्व-पूर्वावस्थैवोच्यते
तथात्र वर्ष-क्रमो विचार्यते । क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् [भा।पु। १०.२६.१४] इति श्री-व्रजवासि-वचनेन तद्-धारण-समये सप्तहायनत्वं श्रूयते । तद्-धारणं च तत्-पूजा-समय-कार्तिक-शुक्ल-प्रतिपद्-अनन्तरं तृतीयायाम् एव गम्यते । वर्ष-पूरण-समयस् तु गौण-भाद्र-कृष्णाष्टम्याम् एव मास-द्वय-दिन-दशकाधिकेऽपि वात्सल्यात् सप्त-वर्ष-मात्रतां प्रोक्तवन्तः । तस्मात् तन्-मर्यादया पूर्व-पूर्व-पर्यालोचनया च तद्-अभ्यन्तरं लीला-वर्षाणि गण्यन्ते । तत्र कालेनाल्पेन राजर्षे [भा।पु। १०.८.२६] इत्य्-आदि-दृष्ट्या राजकुमारादिषु दृष्टत्वेन कैमुत्य-प्राप्त्या च नासम्भावना कार्या । तत्र सति वर्षे पूर्णे तृणावर्त-वधः, तृतीय-वर्षारम्भ-कार्तिके दामोदर-लीला, ततः कतिचिद् दिनान्ते वृन्दावन-प्रवेशः, प्रविष्टे च वृन्दावने द्वि-त्रि-मासानन्तरं वत्स-चारणारम्भः, तत्र वत्स-बक-व्योम-वधः । तद् एवं तृतीये चतुर्थारम्भे शरदि बाल-वत्स-हरणम्, तत्र पौगण्डस्य प्रवेशेऽपि, यत् कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः [भा।पु। १०.१२.४१] इति वचनात् तद्-धारण-हेतोर् अनुल्लासे स्तम्भः, पञ्चमारम्भे पौगण्ड-प्रकाशः, तत्र कार्तिक-शुक्लाष्टम्यां गो-चारणारम्भः, पञ्चमस्य निदाघे कालिय-मर्दनं, षष्ठे गोचारण-कौतुक-मात्रं, सप्तमारम्भे कैशोर-प्रवेशः, तत्रैव पक्व-तालावसरे धेनुक-वधः, तत्-सन्ध्यायां पीत्वा मुकुन्द-मुख-सारघम् [भा।पु। १०.१५.४४] इत्य्-आदि-रीत्या प्रथम-तादृश-भावाभिव्यक्तिः, कालिय-दमन-धेनुक-वधयोर् विपर्ययः प्रतिपन्न एव, सप्तमस्य निदाघे प्रलम्ब-वधः, अष्टमस्याश्विने वेणु-गीतं, कार्तिके गोवर्धनोद्धारणम् इति । क्व सप्त-हायनो बालः [भा।पु। १०.२६.१४] इति वचनम् अनुस्मृत्य स्थापितम्
तथा एकादश-समास् तत्र गूढार्चिः सबलोऽवसत् [भा।पु। ३.२.२६] इत्य् अनुसृत्य निरूप्यते—अष्टमारम्भ एव कार्तिक-शुक्लैकादश्यां गोविन्दाभिषेकाः, द्वादश्यां च वरुण-लोक-गमनम्, तत्-पूर्णिमायां ब्रह्म-ह्र्दावगाहनं श्री-वराह-देवेन तस्यां तन्-महिम-कथनात्, हेमन्ते वस्त्र-हरणं, निदाघे यज्ञ-पत्नी-प्रसादः, नवमस्य शरदि रास-लीला, शिव-रात्रि-चतुर्दश्याम् अम्बिका-वन-यात्रा, फाल्गुन्यां शङ्खचूड-वधः, दशमे स्वैर-लीला, एकादशे चैत्र-पौर्णमास्याम् अरिष्ट-वधः, द्वादशस्य गौण-फाल्गुन-द्वादश्यां केशि-वधं, तच्-चतुर्दश्यां कंस-वध इति द्वादशस् तत्र न पूर्ण इत्य् एकादश समा इत्य् उक्तम् । किन्तु नवमान्त एव पूर्ण-किशोरता, सा च न व्यवच्छिद्यते । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [भा।पु। १०.५५.२८] इति प्रद्युम्नस्यागमनेऽपि तत्-साम्यावगमाद् इति । प्रस्तुतम् अनुसरामः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.५.७३] आवाभ्यां सकाशात् बाल्य-पौगण्ड-कैशोरावस्थानुभव-सुखानि युवयोर् नाभवन्न् इति । तत्र च कैशोर-लीलानुभव सुखं नाभवद् इति तदानीं तत्र परमैश्वर्याविष्कारेण तादृश-कैशोर-लीला-माधुरीणां सम्यक्-प्रकटनासम्भवात्, प्रायस् तद्-अनुभव-सुखाभावापत्तेः । यच् च तत्रापि तारुण्यवद् आचरिताकारादि श्रूयते, तेन च बाल्य-तुल्य-कैशोरे\ऽपि प्रौढ-भावेन सौन्दर्य-विशेष एव सम्पद्यते, न च वयो\ऽधिकत्वम् वयसः कैशोरत्वाङ्गीकारात् ।
अथवा, कैशोरान्त्य-सीमगे पञ्चदशे वर्ष एव भगवान् गोकुलान् मधु-पुरीम् आगत इति ज्ञेयम्, श्री-बिल्वमङ्गलादिभिः व्रजे यौवनोद्भेद-वर्णनात्, तथा तत्र प्रौढ-लीलादि-श्रवणाच् च । तत्र यद्यपि बाल्ये\ऽपि बलोद्रेकादि-प्रकाशनात् प्रौढ-भावो नासम्भावितो भवेत्, तथापि प्रौढाकार-रस-विशेषोदयादिना परम-मनोहर त्व् अपेक्षया पञ्चदश-वर्षीयत्वम् एव परमादृतं स्यात् । तच् च सहज-परम-सौकुमार्यादिना कैशोर-प्रवेश-तुल्यम् एवेति न किञ्चिद् अनिष्ट-शङ्का स्यात् । एवं पञ्चदश वर्षाणि व्रजे\ऽवसद् इति स्यात् । ततश् चाद्यं बाल्य-वर्ष-चतुष्टयं यावन्-मातृ-स्तन्य-पानाद्य्-अभिप्रायेण तत्-त्यागाद् एकादशभिर् वर्षैर् इत्य् उक्तम् इत्य् ऊह्यम् ॥७३-७५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे तातेति प्राधान्यात् । किं वा, ज्ञान-परस्य बहु-पुत्रस्य तस्य स्नेहौत्कण्ट्यम् असम्भाव्य मातृवत् स्नेह-निष्ठोदयाय क्वचिद् अपीति तदानीं कैशोर-शेष-सीमाप्त्या, तत्रापि तद्-अभावात् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे तात ! इति प्राधान्यात् । किं वा, ज्ञान-परस्य तस्य स्नेहौत्कण्ट्यम् असम्भाव्य पितृवत् मातृवत् स्नेह-निष्ठोदयाय । क्वचिद् एकांशेऽपि तद् इदं कैशोरस्य पूर्व-पूर्वावस्थैवोच्यते ।
अथात्र वर्ष-क्रमो विचार्यते । क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् [भा।पु। १०.२६.१४] इति श्री-व्रज-वासि-वचनेन तद्-धारण-समये सप्त-हायनत्वं श्रूयते । तद्-धारणं च तत्-पूजा-समय-कार्तिक-शुक्ल-प्रतिपदानन्तर-तृतीयायाम् एव गम्यते वर्ष-पूरण-समयस् तु गौण-भाद्र-कृष्णाष्टम्याम् इति मास-द्वय-दिन-दशकाधिकेऽपि वात्सल्यात् सप्त-वर्ष-मात्रतां ते प्रोक्तवन्तः । तस्मात् तन्-मर्यादया पूर्व-पूर्व-पर्यालोचनया च तद्-अभ्यन्तर-लीला-वर्षाणि गण्यन्ते । तत्र कालेनाल्पेन राजर्षे [भा।पु। १०.८.२६] इत्य्-आदि-दृष्ट्या राज-कुमारादिषु दृष्टत्वेन कैमुत्य-प्राप्त्या च नासम्भावना कार्या । तत्र सति वर्षे पूर्णे तृणावर्त-वधः । तृतीय-वर्षारम्भे कार्तिके दामोदर-लीला । ततः कतिचिद् दिनान्ते वृन्दावन-प्रवेशः । प्रविष्टे च वृन्दावने द्वि-त्रि-मासानन्तरं वत्स-चारणारम्भः । तत्र वत्स-बक-व्योम-वधः । तद् एवं तृतीये पूर्णे, चतुर्थारम्भे शरदि बाल-वत्स-हरणम् । तत्र पौगण्डस्य प्रवेशेऽपि यत् कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः [भा।पु। १०.१२.४१] इति वचनात् तद्-धरण-हेतोर् अनुल्लासेन स्तम्भः । पञ्चमारम्भे पौगण्ड-प्रकाशः । तत्र कार्तिक-शुक्लाष्टम्यां गो-चारणारम्भः । पञ्चमस्य निदाघे कालिय-दमनं । षष्ठे गोचारण-कौतुक-मात्रं । सप्तमारम्भे कैशोर-प्रवेशः । तत्रैव पक्व-तालावसरे धेनुक-वधः । तत्-सन्ध्यायां पीत्वा मुकुन्द-मुख-सारघम् [भा।पु। १०.१५.४४] इत्य्-आदि-रीत्या प्रथम-तादृश-भावाभिव्यक्तिः । कालिय-दमन-धेनुक-वधयोर् विपर्ययः प्रतिपन्न एव । सप्तमस्य निदाघे प्रलम्ब-वधः । अष्टमस्याश्विने वेणु-गीतं । कार्तिके गोवर्धनोद्धरणम् इति क्व सप्त-हायनो बालः [भा।पु। १०.२६.१४] इति वचनम् अनुस्मृत्य स्थापितम् ।
अथ एकादश-समास् तत्र गूढार्चिः सबलोऽवसत् [भा।पु। ३.२.२६] इत्य् अनुसृत्य निरूप्यते—अष्टमारम्भे एव कार्तिक-शुक्लैकादश्यां गोविन्दाभिषेकः द्वादश्यां च वरुण-लोक-गमनम् । तत्-पूर्णिमायां ब्रह्म-ह्रदावगाहनं श्री-वराह-देवेन तस्यां तन्-महिम-कथनात्1 । हेमन्ते वस्त्र-हरणं, निदाघे यज्ञ-पत्नी-प्रसादः । नवमस्य शरदि रास-लीला । शिव-रात्रि-चतुर्दश्याम् अम्बिका-वन-यात्रा । फाल्गुन्यां शङ्खचूड-वधः । दशमे स्वैर-लीला । एकादशस्य चैत्र-पौर्णमास्याम् अरिष्ट-वधः । द्वादशस्य गौण-फाल्गुण-द्वादश्यां केशि-वधः । तच्-चतुर्दश्यां कंस-वध इति द्वादशस् तत्र न पूर्ण इत्य् एवोक्तम् । किन्तु नवमान्त एव पूर्ण-किशोरता । सा च न ह्य् अवच्छिद्यते । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [भा।पु। १०.५५.२८] इति प्रद्युम्नस्यागमनेऽपि तत्-साम्यावगमाद् इति । प्रस्तुतम् अनुसरामः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मत्तः अस्मद्-धेतोर् नित्यम् उत्कण्ठितयोर् अपि युवयोः पुत्राभ्याम् आवाभ्यां कृत्वा बाल्य-पौगण्ड-कैशोरास् तत्-तद्-अवस्थानुभव-लालनादि-सुखानि पुंस्त्वम् आर्षं
ननु क्व चातिसुकुमाराङ्गौ किशोरो नाप्त-यौवनाव् इति पुरश्रीणाम् उक्तेः कथं कैशोरस्यातीतत्वम् उच्यते
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । > कैशोरम् आपञ्चदशात् यौवनं तु ततः परम् ॥
इति वचनात् पञ्चदश-वर्ष-पर्यन्तम् एव कैशोरम् । कृष्णस् त्व् एकादश-वर्ष-वया एव कंसं जघान । एकादश-समास् तत्र गूढोऽर्चिः सबलोऽवसत् [भा।पु। ३.२.२६] इत्य् उद्धवोक्तेर् व्रज-भूमाव् उपनयनाभावाच् चेत्य् अतस् तदानीं तयोः कैशोरस्यारम्भ एव, न तु शेषोऽपीति सत्यं यद्य् अपि सामान्यतो वयो-गणना ईदृश्य् एव तथापि
कालेनाल्पेन राजर्षे रामः कृष्णश् च गो-व्रजे । > अघृष्टजानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ [भा।पु। १०.८.२६]
इत्य् उक्ते राज-कुमारादाव् अपि क्वचित् क्वचिद् अतिसुखिनि पौगण्ड-वयस्य् अपि शरीर-वृद्धिम् अतिकैशोर-चेष्टा-दर्शनात् । कृष्णे तु कैमुत्य-प्राप्तेर् वैष्णव-तोषणी भक्ति-रसामृतानन्द-वृन्दावनादि-मतम् अनुसृत्य एवं व्यवस्थेयम्—मास-चतुष्टयाधिक-वर्ष-त्रयस्यैव कृष्णे पञ्च-वर्षीयमाणत्वात् तत्-प्रमाणं प्रथमं वय एव कौमारम् । तत्र कृष्णस्य महा-वने स्थितिः । ततः परम् अष्ट-मासाधिक-षड्-वर्ष-पर्यन्तं कैशोरम् । तत्र नन्दीश्वरे स्थितिः । ततः सप्तमे मासि चैत्रे कृष्ण-त्रयोदश्यां मथुरा-गमनम् । चतुर्दश्यां कंस-वध इति । तत्र दशम-वर्षं तु शेष-कैशोरम् । तत्र च नित्य-स्थितिः । अतस् तद्-अनन्तरं सर्व-कालम् एव तस्य कैशोरम् एव ज्ञेयम् । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र-तत्र हि [भा।पु। १०.५५.२८] इति किशोरस्य प्रद्युम्नस्यागमने तत्-साम्यावगमात्, सन्तं वयसि कैशोर [भा।पु। ३.२८.१७] इति सामान्योक्तेश् च । आगमादिष्व् अपि विंशाक्षरादि-मन्त्राणां द्वारका-लीला-मय-ध्यानेष्व् अपि तथा दृष्टेश् च । तस्मात् कंस-वध-दिने तस्य कैशोरापगमः कैशोरानपगमश् चेति कृष्णस्य पुर-स्त्रीणां च वाक्यं सङ्गच्छते स्म ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४ ॥
न लब्धो दैव-हीनयोर्2 वासो नौ भवद्-अन्तिके ।
यां बालाः पितृ-गेह-स्था विन्दन्ते लालिता मुदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, आवाम् एव दैव-हीनाव् इत्य् आह—न लब्ध इति । पितृ-गेह-स्था बाला यां मुदं विन्दन्ते, सा च न लब्धेति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इह चावयोर् एव महती हानिः, नात्र भवतोर् युवयोर् इत्य् आह—किं च इति । दैव-हीनौ मन्द-भाग्यौ । नौ आवयोः । तृतीयार्थे षष्ठी, आवाभ्याम् इत्य् अर्थः । यां लालना-रूपाम् । सा मुद् ।
[वैष्णव-तोषणी] न इति तैर् अवतारितम् । तत्र किं च इत्य् अस्य न केवलं युवयोर् एव हानिः, किं त्व् आवयोर् अपीत्य् अर्थः । अत एव-कारेण नौ व्यावर्तेतां, किन्त्व् अस्य पुत्र-जातीया एवेति ज्ञेयम् । यद् वा, मादृशयोर् अप्रयोजनकयोः पुत्रयोस् तेनापि युष्मत्-सुखदत्वं न स्याद् एव, किं तु आवयोर् एव सर्व-सुख-हानिर् जातेत्य् आह—नेति । कर्तरि सम्बन्ध-विवक्षया षष्ठी । अकार-प्रश्लेषेण अदैव-हतयोः । कर्माधीनता-रहितयोर् इति तत्त्वार्थः । पितृ-गेहस्थत्वाद् एव पितृभ्यां लालिताः सन्तः । यद् वा, पितृ-गेहस्था एव स्वभावतो यां मुदं विन्दन्ति, विशेषतस् ताभ्यां लालित इति ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दैव-हतयोर् इति—दैवस्य प्रारब्धस्यापि हतं हननं याभ्याम् इति सरस्वती-रहस्यम् ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो बतैतादृशोर् अप्रयोजनयोः पुत्रयोः स्नेहाभावान् मास्तु वा युवयोस् तत्-तत्-सुखापेक्षा, आवयोस् तु सर्व-सुख-हानिर् जातैवेत्य् आह—नेति । दैव-हतयोर् दौर्भाग्य-पीडितयोः, कर्तरि षष्ठी । यद्य् अपि सद्-गुण-रत्नाकरस्य तस्य विनयादिनोक्तिर् ईदृश्य् अपि घटते, तथाप्य् अ-कार-प्रश्लेषेण कर्माधीनता-रहितयोर् इति तत्त्वर्थः, साक्षाद् भगवत्त्वात्। पितृ-गेहस्थत्वाद् एव पितृभ्यां लालिताः सन्तः । किं वा, अकार-प्रश्लेषेण—अलालिता अपि ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नेति तैर् अवतारितम् । तत्र किं च इत्य् अस्य न केवलं युवयोर् एव हानिः, किन्त्व् आवयोर् अपीत्य् अर्थः । अत एव कारणेन व्यावर्तेतां, किन्त्व् अस्य पुत्र-जातीया एवेत्य् ज्ञेयम् । यद् वा, मादृश-शयोर् अप्रयोजनकयोः पुत्रयोस् तेनापि युष्मत् सुखदत्वं न स्याद् एव किन्त्वावयोर् एव सर्व-सुख-हानि-जातेत्य् आह । नेति । कर्तरि सम्बन्ध-विवक्षया षष्ठी । अकार-प्रश्लेषेण अदैव-हतयोः कर्माधीनता-रहितयोर् इति तत्त्वार्थः । पितृ-गेहस्थत्वाद् एव पितृभ्यां लालिताः सन्तः । यद् वा, पितृ-गेहस्था एव स्वभावतो यां मुदं विन्दन्ते विशेषस् ताभ्यां लालिता इति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चावाम् एव भाग्य-हीनाव् इत्य् आह—नेति । दैव-हतयोर् हत-भाग्ययोर् भाग्येन प्राप्तयोर् इति वास्तवोऽर्थः । तृतीयार्थे षष्ठी । बाला यां मुदं विन्दन्ते, सा च न लब्धेति शेषः ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.५ ॥
सर्वार्थ-सम्भवो देहो जनितः पोषितो यतः ।
न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावच् छ्लोक-द्वयेन युवयोर् आवयोश् च काम-हानिर् जातेत्य् उक्तम् । आवयोः पुनर् युष्मत्-परिचर्या-लोपेन धर्म-हानिर् अपि जातेत्य् आह—सर्वार्थ-सम्भव इति । सर्वेषां धर्माद्य्-अर्थानां सम्भवो यस्मिन्, स देहो यतो याभ्यां जनितः पोषितश् च, तयोः पित्रोर् निर्वेशं निष्कृतिम् आनृण्यं मर्त्यं शत-संवत्सर-मात्रेण आयुषा न प्राप्नोति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, शत-शब्दोऽनन्तार्थकः । तेन सहस्रादि-वर्षायुषापि न, किं वक्तव्यम् अल्पायुषाम् । तयोर् माता-पित्रोः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पोषित इति सामान्यतः पित्रोः स्वभावापेक्षया, तत्त्वतस् तु श्री-नन्द-यशोदा-कृत-पोषणाभिप्रायेण, यतो मर्त्यो मरण-धर्मा । तत्रापि शत-वर्ष-मात्र्आयुषा विशिष्टः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनन-पोषणे पृथग् एव कारणे विवक्षिते, ताभ्यां पोषणाभावात् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषां धर्माद्य् अर्थानां संभवो यस्मिन्, स देहः । यतो याभ्यां निर्वेशम् आनृण्यम् ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.६ ॥
यस् तयोर् आत्मजः कल्प आत्मना च धनेन च ।
वृत्तिं न दद्यात् तं प्रेत्य स्व-मांसं खादयन्ति हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तन्-मध्ये पितुर् अपेक्षया यः पुत्रः कल्पः समर्थः सन्न् अपि [आत्मना] देहेन धनेन च पित्रोर् वृत्तिं जीविकां न संपादयेत्, तं प्रेत्य लोकान्तरे यम-दूताः स्वस्यैव मांसं खादयन्तीति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-मध्ये तयोर् माता-पित्रोर् मध्ये । पितुः सकाशाद् यः कल्पः स्त्रीणाम् अस्वातन्त्र्यात् सामर्थ्याभावाच् च पितुर् इत्य् उक्तं स्वामिभिः । देहेन निज-देहेनैव, न तु भृत्यादिना । धनेन अलम्-बुद्ध्य्-उत्पादक-वसुना । तयोर् इत्य् उभयत्रान्वेति काकाक्षि-गोलक-न्यायेन । तयोर् माता-पित्रोः, तं मातृ-पित्र्-आजीविकाम् अददतम् । हीति वृद्धौ च माता-पितरौ [मनु ११.१०] इत्य्-आदिकां स्मृतिं सूचयति । यस् तयोर् इत्य् अत्र टीकायां तन्-मध्येऽपि त्व् इत्य् एव पाठो न तु पितुर् इति । स्वस्य तस्यैवेत्य् अर्थः । कल्पः शास्त्र-विधिनादातुं योग्यः । कर्मणि स्थित इति यावत् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च-काराभ्यां द्वयोर् अपि प्राधान्यं द्योत्यते । स्वस्य तस्यैव मांसम् । हि निश्चितम् । कल्प इति रोगादिना असमर्थो व्यावर्तितः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस् तयोर् इत्य् अत्र टीकायां तन्-मध्येऽपि त्व् इत्य् एव पाठः, न तु पितुर् इति स्वस्य तस्यैव मांसं तं खादयन्ति ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कल्पः सर्वेन्द्रिय-पाटव-युक्तोऽपि श्वसन्-मृत [७] एव । अकल्पस् तु सुतराम् एवेत्य् अर्थः ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् तु कल्पः समर्थः शास्त्र-विधिना दातुं योग्यः, कर्म-वर्त्मनि स्थितः इति यावत्, वृत्तिं जीविकां प्रेत्य मृत्वा वर्तमानं यम-दूताः स्वस्य तस्यैव मांसं बलात् तं खादयन्ति ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.७ ॥
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।
गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच् छ्वसन्-मृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मात्रादि-शुश्रूषाम् अकुर्वन् विफल-जीवितश् च भवतीत्य् आह—मातरम् इति । अबिभ्रद् अपुष्णन् श्वसन्न् अपि मृत-तुल्य एवेति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं पारं त्रिक-क्लेश इहापि तेऽयोग्या एवेत्य् आह—किं च इति । स्मृतिम् अर्थतः पठति3—मातरं सर्वावस्थासु मानार्हाम् । साध्वीम् अक्षताचाराम् । शिशुं स्व-जीविका-कृत्यायोग्यम् । गुरुं ज्ञानोपदेष्टारम् । तं च विप्रम् एव तस्यैव ज्ञानोपदेशाधिकारात्
मुखजा उपदेष्टारो बाहुजा रक्षकाः स्मृताः । > वर्णानाम् आश्रमाणां च मुख्योऽभूद् ब्राह्मणो गुरुः ॥
इत्य् उक्तेः, विप्रस्यैवाधिकारोऽस्ति धर्म-ज्ञानोपदेशने [?] इति संहितोक्तेश् च4 । यद् वा, गुरुं ज्ञान-वृद्धम् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुल-वृद्धं किंवा पितुर् विशेषणम्, तादृशस्य तस्यावश्यपोष्यत्वात्, एवम् अग्रेऽप्य् ऊह्यम् । साध्वीं पतिव्रताम्, गुर्वादीनां च सदा सर्वथा पोष्यत्वात् तादृशं विशेषणं नोक्तम् । भार्यादयोऽत्र दृष्टान्ततया प्रसङ्ग-सङ्गत्या चोक्ताः । कल्प इति पुनर् उक्त्या शक्तस्यैव तत्-तद् अओप्षण-दोषः, न त्व् अशक्तस्येति द्रढयति । इति स्व-स्व-श्री-देवक्याद्य् अपालन-दोषः परिहृतः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वृद्धं कुल-वृद्धं कल्पः समर्थोऽपि श्वसन् मृत एव । अकल्पस् तु सुतराम् इत्य् अर्थः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.८ ॥
तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्न-चेतसोः ।
मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्मान् नौ आवयोः । मोघं व्यर्थम् । अनर्चतोर् अपूजयतोः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्व् अस्त्व् एतत् प्रकृते किम् आयातं ? तत्राह—तन् नाव् इति । यत एवं शास्त्रार्थस् तत् तस्माद् धेतोः । कंसात् कसि-गति-शसनयोः इति धातोः सर्व-हिंसाधिकारणत्वेन तन्-नाम्नो राज्ञः । नित्यम् अहोरात्रम् । उद्विग्न-चेतसोः त्रस्त-मनसोः । अकल्पयोः शक्ति-सामग्री-हीनयोः। एते इतः-पूर्व-दिवसाः । मोघम् मोघा स्त्री पाटलायां स्याद् धीन-निष्फलयोस् त्रिषु इति मेदिन्य् उक्तेः, निष्फलं यथा स्यात्, तथा क्रिया-व्यय-विशेषाणानां क्लीबत्वम् एक-वचनं चेति। अत्राकल्प-शब्दः केवलासणर्थस्यैव वशकः । अकल्पत्वे हेतुः—कंसाद् इति । मोघम् इति दोषोक्तिः । न विद्यते कल्पो याभ्यां तयोः, कंसात् कंस-सामान्य-युद्धोत्साह-वशात्, नित्यम् उदारेत एव विग्न-चेतसोः पुरीं प्रति चलित-चेतसोः, ओविजी भय-चलनयोः मोघम् इत्य्-आदि-काकूक्तिर् इति वास्तवोऽर्थः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—तद् इति । अकल्पयोर् इत्य् अत्र हेतुः—कंसाद् इति, अतो युवाम् अनर्चयतोः, अत एव एते कैशोरादि-सम्बन्धिनः, मोघं यथा स्यात्, तथा विशेषतोऽतिक्रान्ता अतीताः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवात्मनो निर्दिशति—तद् इति । अकल्पत्वे हेतुः कंसाद् इति । वां युवाम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् आत्मनो निर्दिशति अकल्पत्वे हेतुः—कंसाद् इति ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तस्मात् नौ आवयोः अकल्पयोः, अत्राकल्प-शब्दः केवलासमर्थस्यैव वाचकः । तत्र हेतुः—कंसाद् इति । अत एव मोघम् इति दोषोक्तिः । न विद्यते कल्पो याभ्यां तयोः कंसात् कंसम् आकर्ण्य युद्धोत्साह-वशात् नित्यम् उदीरत एव विग्न-चेतसोः पुरीं प्रति चलित-चेतसोः ओविजी भय-चलनयोः मोघम् इत्य्-आदि काकूक्तिर् इति वास्तवोऽर्थः ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.९ ॥
तत् क्षन्तुम् अर्हथस् तात मातर् नौ पर-तन्त्रयोः ।
अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्हृदा कंसेन कृत्वा ॥९.११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् एव स्फुटयति—तद् इति । यत आवाम् अकल्पौ । तत् तस्माद् धेतोः । दुर्हृदा अशोभन-मनसा, दुर् अशोभन-दुःखयोः इति यादवः । पर-तन्त्रयोर् इति मनुष्य-नाट्यानुकरणम् । नौ आवयोः ।
[वै।तो।] तद् अनर्चनम् । हे तात ! मातर् ! इति पुनः सम्बोधनं स्नेह-भर-जननार्थम् । तात-मातृत्वाद् एव शुश्रूषाम् अकुर्वतोर् अपि नौ क्षन्तुम् अर्हथः । किं च, पर-तन्त्रयोर् निहृत5-वासेनास्वाधीनयोः, अतो दुर्हृदा कंसेन क्लिष्टयोर् आवयोर् असामर्थ्याच् चेति भावः । तत्र श्री-कृष्ण उवाचेति क्वचिद् अस्ति ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे तात ! हे मातर् ! इति पुनः सम्बोधनं स्नेह-भर-जननार्थम्, शुश्रूषाम् अकुर्वतोर् अपि नौ क्षन्तुम् अर्हथः, अस्मद्-अपराधं क्षन्तुं योग्यौ भवथः, पुत्रापराधस्य पितृभ्यां स्नेहेन क्षम्यत्वात् । किं च, पर-तन्त्रयोर् निह्नुत-वासेनास्वाधीनयोः, अतो दुर्हृदा कंसेन हेतुना क्लिष्टयोः, असामर्थ्याच् चेति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अनर्चनम् । हे तात ! मातर् इति पुनः सम्बोधनं स्नेह-भर-जननार्थं । तात-मातृत्वाद् एव शुश्रुषाम् अकुर्वतोर् अपि नौ क्षन्तुम् अर्हथः । किं च, पर-तन्त्रयोः निह्नुत6-वासेनास्वाधीनयोः, अतो दुर्हृदा कंसेन क्लिष्टयोर् आवयोर् असामर्थ्याच् चेति भावः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नौ आवयोर् द्वितीयार्थे षष्ठी । पक्षे पर-तन्त्रयोर् इति दुर्हृदा कंसेन क्लिष्टयोर् इति वाम् इत्य् अस्य विशेषणे ज्ञेये ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.१० ॥
श्री-शुक उवाच—
इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा ।
मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् उक्त-रीत्या । मायया कृपया गृहीत-नर-वपुषः । विश्वात्मनः सर्वान्तर्यामिण
[वै।तो।] मोहितौ विस्मारित-वात्सल्य-व्यतिरिक्त-सर्वौ । तत्र हेतवः—माया-मनुष्यस्य कृपा-प्रधानेन नराकृतिपर-ब्रह्मणः, हरेर् असमोर्ध्वमाधुर्येण सर्व-मनोहरस्य, विश्वात्मनः परमात्मत्वेन विश्वस्यापि निरुपाधिपरम-प्रेमास्पदस्येति । अङ्कम् आरोप्य ताव् इति शेषः ॥१०॥ अत्र विश्वानाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विश्वस्य आत्मा अन्तर्याम्य् अपि मायया कृपया मनुष्यः, अत एव हरिर् जगन्-मनोहरो यो भगवान्, तस्य । यद् वा, यथोत्तरं हेतु-हेतुमत्ता । ततश् च विश्वस्यात्मा परम-प्रिय इत्य् अर्थः । तस्य गिरा मोहितौ आकृष्ट-चित्तौ, अङ्कम् आरोप्य साग्रजं हरिम् एव वा, तस्मिन्न् एव स्नेहाधिक्यात् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र श्री-शुक उवाचेति क्वचिद् अस्ति मोहितौ विस्मारित-वात्सल्य-व्यतिरिक्त-सर्वौ तत्र हेतवः—माया-मनुष्यस्य इति कृपा-प्रधानेन नराकृति-परब्रह्मणः । हरेर् असमोर्ध्व-माधुर्येण सर्व-मनोहरस्य विश्वात्मनः परमात्मत्वेन विश्वस्यापि निरुपाधि-परम-प्रेमास्पदस्येति अङ्कम् आरोप्य ताव् इति शेषः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मोहितौ विस्मारित-वात्सल्यातिरिक्ताखिलौ । तत्र हेतवः—माया-मनुष्यस्य कृपा-प्रधान-नराकृति-पर-ब्रह्मणः हरेः असमोर्ध्व-माधुर्येण सर्व-मनोहरस्य विश्वात्मनः परमात्मत्वेन विश्वस्यापि निरुपाधि-परम-प्रेमास्पदस्येति ॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति एवं । माया कपटं मनुष्येषु यस्येति गड्वादिः ॥१०.११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.११ ॥
सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ ।
न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बाष्प-कण्ठौ गद्गद-वाचौ । [वै।तो।] च-कार उक्त-समुच्चये । स्नेह-पाशेनावृत्तौ सन्तौ पाशास्रवद् अपरिहार्येण दीर्घेण च प्रेम्णा बहिर् अन्तर् व्याप्यमानौ, अत एव विमोहितौ न किञ्चिद् अप्य् अनुसन्धातुं व्याप्य रुद्ध-कण्ठौ च सन्तौ, न किञ्चिद् अप्य् ऊचतुश् च, किन्तु केवलम् अश्रु-धाराभिः सिञ्चन्तौ तयोर् अभिषेकम् इव कुर्वन्तौ स्थिताव् इत्य् अर्थः । हे राजन् ! इति स्नेह-भर-स्वभावो भवता गम्य एवेति भावः । तद् इदं वृत्तं श्री-नन्दादीनाम् अगोचर एव ज्ञेयम्, उभयत्रैव भगवता पितृत्व-व्यञ्जनात् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च अपि । किञ्चिद् अपि नोचतुर् वक्तुं न शेकतुः । कुतः ? बाष्प-रुद्ध-कण्ठौ । किं च, विशेषेण मोहितौ किञ्चिद् अप्य् अन्यद् अनुसन्धातुम् अशक्ताव् इत्य् अर्थः । अतः केवलम् अश्रूणां धाराभिः सिञ्चन्तौ तं स्नपयन्तौ । तत्र हेतुः—स्नेह- इति । आवृतौ सर्वतो वेष्टितौ पाश-रूपकेन स्नेहस्य परमं दार्ढ्यं दैर्घ्यादिकं च ध्वनितम् । हे राजन्न् इति स्नेह-भर-स्वभावो भवतावगम्यत एवेति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च-कार उक्त-समुच्चये । स्नेह-पाशेनावृत्तौ सन्तौ पाशास्रवद् अपरिहार्येण दीर्घेण च प्रेम्णा बहिर् अन्तर् व्याप्यमानौ, अत एव विमोहितौ न किञ्चिद् अप्य् अनुसन्धातुं व्याप्य रुद्ध-कण्ठौ च सन्तौ, न किञ्चिद् अप्य् ऊचतुश् च, किन्तु केवलम् अश्रु-धाराभिः सिञ्चन्तौ तयोर् अभिषेकम् इव कुर्वन्तौ स्थिताव् इत्य् अर्थः । हे राजन् ! इति स्नेह-भर-स्वभावो भवता गम्य एवेति भावः । तद् इदं वृत्तं श्री-नन्दादीनाम् अगोचर एव ज्ञेयम्, उभयत्रैव भगवता पितृत्व-व्यञ्जनात् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.१२ ॥
एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः ।
मातामहं तूग्रसेनं यदूनाम् अकरोन् नृपम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आश्वास्य सान्त्वयित्व ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदूनां नृपं रायदुजस्वे स्थापयामास । मातामहम् इत्य् अवश्य-मान्यत्वेन पितृभ्यां सह सम्बन्ध-विशेषेण तत्-समतत्वेन च यदुराज-योग्यतोक्ता । अत एव तु शब्दः । तद् विधाने मुख्यं प्रयोजनं स्वस्य गोकुल-गमनेच्छयैव ज्ञेयम् । तथा च श्री-हरि-वंशे तं प्रति श्री-भगवद्-वाक्यम्
अहं स एव गो-मध्ये गोपैः सह वनेचरः । > प्रीतिमान् विचरिष्यामि काम-चारी यथा गजः ॥ > एतावच् छतशोऽप्य् एवं सत्येनैव ब्रवीमि ते । > न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् ॥ > भवण्त् राजा तु मान्यो मे यदूनाम् अग्रणीः प्रभुः । > विजयाभिषिञ्चस्व स्व-राज्ये राज-सत्तम ॥ [ह।वं। २.३२-५०-५२] > इति ।
नृपं राजानम् अकरोत्, न तु पूर्ववद् अधिपं, यतो भगवान् कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थत्वाद् भक्त-वात्सल्येन ययाति-शापम् अपि नापेक्षितवान् इति भावः । अतः पूर्वेषां राजत्वं तु स्व-कपोल-कल्पितम् इत्य् आयातम् । अस्य राजत्व-विधानं वन्धनान् मोचयित्वेति । ज्ञेयम्, प्रथमाध्यायान्ते निगृह्येत्य् उक्तेः । अत एव श्री-विष्णु-पुराणेऽपि—
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः । > अभ्यषिञ्चत् तथैवैनं निज-राज्ये हतात्मजम् ॥ [वि।पु। ५.२१.१०] > इति ।
श्री-हरि-वंशे तु यद् उग्रसेनस्य कंस-शोकादिकं, तत् तु लोक-व्यवहार-मात्रेणाकृतम् इति श्री-शुकेन नादृतम् । यच् च तस्य वसुदेवादेर् अपि कंसेनानिग्रहणं तादृशम् अन्यच् च कल्प-भेदेन व्यवस्थेयम् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मातामहम् इति सर्व-मान्यत्वेन पितृभ्यां सह सम्बन्ध-विशेषेण तत्-सम्मतत्वेन च यदुराज-योग्यतोक्ता, अत एव तु-शब्दः, तथा च श्री-हरि-वंशे तं प्रति श्री-भगवद् वाक्यम्—
भवान् राजास्तु मान्यो मे यदूनाम् अग्रणी प्रभुः । > विजयायाभिषिच्यस्व स्वराज्ये राजसत्तम् ॥ [ह।वं। २.३२.५२] इति > ।
नृपं राजानमकरोत्, न तु पूर्ववद् अधिपम्, यतो भगवान् भक्त-वात्सल्यादि-गुण-प्रकटनपरः, अतो भक्तवात्सल्यत्वेन यदु-शापो नाशित7 इति भावः, तच् च बन्धनान् मोचयित्वेति ज्ञेयम्, प्रथमाध्यायान्ते निगृह्येत्य् उक्तेः । अत एव श्री-विष्णु-पुराणेऽपि—
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः । > अभ्यसिञ्चत् तथैवैनं निज-राज्ये-हतात्मजम् ॥ [वि।पु। ५.२१.९] > इति ।
हरि-वंशे च यदुग्रसेनस्य कंस-शोकादिकं तथा तस्य वसुदेवादेर् अपि कंसेनानिग्रहणं तादृशम् अन्यच् च कल्प-भेद-व्यवस्थया परिहार्यम् । पूर्वं साग्रज् इत्य् उक्तेऽप्य् अधुना देवकीसुत इति केशवस्य तस्यैवोक्तिः, पित्रोस् तादृशाश्वासने तथोग्रसेनराजत्व-यदु-कुल-सन्तर्पणादौ तद्-गुण-रूप-माधुर्यस्यैव शक्तेः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मातामहम् इत्य् अवश्यमान्यत्वेन पितृभ्यां सह सम्बन्ध-विशेषेण तत्-सम्मतत्वेन च यदुराज-योग्यतोक्ता । अत एव तु-शब्दस् तद् विधाने मुख्यं प्रयोजनं स्वस्य गोकुल-गमनेच्छयैव ज्ञेयं च तथा च श्री-हरि-वंशे तं प्रति श्री-भगवद् वाक्यम्—
अहं स एव गो-मध्ये गोपैः सह वनेचरः । > प्रीतिमान् विचरिष्यामि काम-चारी यथा गजः ॥ > एतावच् छतशोऽप्य् एवं सत्येनैव ब्रवीमि ते । > न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् ॥ > भवण्त् राजा तु मान्यो मे यदूनाम् अग्रणीः प्रभुः । > विजयाभिषिञ्चस्व स्व-राज्ये राज-सत्तम ॥ [ह।वं। २.३२-५०-५२] > इति ।
नृपं राजानम् अकरोत्, न तु पूर्ववद् अधिपं यतो भगवान् कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थत्वात् । भक्त-वात्सल्येन ययाति-शापम् अपि नापेक्षितवान् इति भावः । अत पूर्वेषां राजत्वन्तु स्वकपोल-कल्पितम् इत्य् आयातम् । अस्य राजत्व-विधानं बन्धनान् मोचयित्वा इति ज्ञेयम् । प्रथमाध्यायान्ते निगृह्येत्य् उक्तेः । अत एव श्री-विष्णु-पुराणेऽपि—
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः ।
अभ्यषिञ्चत् तथैवैनं निज-राज्ये हतात्मजम् ॥ [वि।पु। ५.२१.९]
हरि-वंशे तु तद् उग्रसेनस्य कंस-शोकादिकं तत् तु लोक-व्यवहार-मात्रेणानुकृतम् इति श्री-शुकेनानादृतं यच् च तस्य वसुदेवादेर् अपि कंसेनानिग्रहणं तादृशम् अन्यच् च कल्प-भेदेन व्यवस्थितम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नृपं राजानम् अकरोत् न तु पूर्ववद् अधिपम् । यतो भगवान् कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थत्वाद् भक्त-वात्सल्येन ययाति-शापम् अपि नापेक्षितवान् इत्य् अर्थः ॥१२.१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् आश्वास्य इत्य्-आदिकं श्री-नन्दस्य परोक्षम् एव । मत्-पुत्रं युद्ध-श्रान्तम् एते परमानन्द-मत्ताः स्नेहेन भोजयितुम् अन्तःपुरं नयन्ति, तन् नयन्तु । अहं तु सम्प्रति पुत्रार्थे गत-भीः स्वावासे एवाह्निकं कृत्यं करवै" इत्य् उक्त्वा तेन तत्रैव गतत्वात् ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.१३ ॥
आह चास्मान् महा-राज प्रजाश् चाज्ञप्तुम् अर्हसि ।
ययाति-शापाद् यदुभिर् नासितव्यं नृपासने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वम् एवाज्ञापयेति मा वदेत्य् आह—ययाति-शापाद् इति । तव तु यादवत्वेऽपि मदाज्ञया न दोष इति भावः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदाज्ञाम् आक्षिपति-त्वम् एवेति । इति भाव इति—प्रभोर् आज्ञा गरीयसी इत्य् उक्तेर् मद्-आज्ञयाकर्तव्यम् अपि कर्तव्यं स्याद् इत्य् अर्थः । अस्मान् यादवान् ।
ननु, भवद्-विधाज्ञापने मम का योग्यता तत्राह—प्रजा इति । त्वद्-अधीनान् इत्य् अर्थः । तु-शब्दो निर्धारणे । हे महा-राजेति यदु-राजत्वेन साम्राज्यम् अप्य् अभिप्रेतम् । किन्तु यद्य् अपि भवताम् अपि यदुत्वम् एव, तथापि भवतां भोजानां प्रायः परस्पर-राज्य-प्राप्तेर् अस्माकं वृष्णीनां तु प्रायस् तद्-अप्राप्तेर् भवताम् एव राज्यं योग्यम् इति विशेषतो भावः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्मान् इति यादवान् सर्वान् संगृह्नाति । ननु, सर्वेऽप्य् एते महान्तः स्वतन्त्राः, एतान् प्रत्याज्ञापने मम का योग्यता ? इत्य् आशङ्क्याह—प्रजा इति त्वद्-अधीनान् इत्य् अर्थः । तु-शब्देन नपृत्वादिना प्रजात्वम् एव साधितम् । हे महारेति यदु-राजत्वेन साम्राज्यम् अप्य् अभिप्रेतम्, किन्तु पूर्वम् एव तव राजत्वं वर्तते, विशेषतश् च नप्तृत्वादिना वयं ते परिपाल्या इति सर्वथा त्वम् एव राज्यार्होऽसीति भावः । इति राजत्व-मात्रस्यात्यन्त-तुच्छतया तदीय-राज्यत्वाद् अनौचित्येन च पुनर् व्रज-जिगमिषया चात्मनो राजत्वं परिहृतम् एव । तथा च श्री-हरि-वंशे पुत्रापराधेन भीत्या स-दैन्यं राज्यादि समर्पयन्तं तं प्रति भगवद्-वाक्यम्—
न हि राज्येन मे कार्यं नाप्य् अहं राज्य-लालसः । > न चापि राज्य-लोभेन मया कंसो निपातितः ॥ > किन्तु लोक-हितार्थाय कीर्त्य्-अर्थं च सुतस् तव । > व्यङ्ग-भूतः कुलस्यास्य सानुजो विनिपातितः ॥ > अहं स एव गो-मध्ये गोपैः सह वनेचरः । > प्रीतिमान् विचरिष्यामि काम-चारी यथा गजः ॥ इति ।
एवम् उक्ति-चातुर्या सर्वान् एव यदूंस् तद्-वशीचकारेति ज्ञेयम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ननु, स्व-कुलार्य-ययाति-शापापेक्षया पूर्ववद् आधिपत्यम् एवास्ताम्, न तु राजत्वम् इत्य् आशङ्क्य परिहरति—आह चेति । यद्यपि नृपासने नासितव्यं राज्ञा न भाव्यम्, तथापि महाराजत्वेनास्मान् आज्ञप्तुम् अर्हसि, मत्-प्रभावाद् इति शेषः, लज्जादिना साक्षाद् अवाच्यत्वात् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्मान् यादवान् ननु, भवद्-विधाज्ञापने मम का योग्यता ? तत्राह—प्रजा इति । त्वद्-अधीनान् इत्य् अर्थः । तु-शब्दो निर्धारणे । हे महाराजेति यदुराजत्वेन साम्रज्यम् अभिप्रेतम् । अन्यत् तैः ।
किन्तु यद्य् अपि भवताम् अपि यदुत्वम् एव तथापि भवतां भोजानां प्रायः परम्परा-राज्य-प्राप्तेर् अस्माकं वृष्णीनां तु प्रायस् तद्-अप्राप्तेर् भवताम् एव राज्यं योग्यम् इति विशेषतो भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवंस् त्वम् एव नृपो भव । त्वम् एवास्मान् आज्ञापयेति मा वदेत्य् आह—ययाति-शापाद् इति । तव तु यादवत्वेऽपि मद्-आज्ञाया नास्ति दोष इति भावः ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.१४ ॥
मयि भृत्य उपासीने भवतो विबुधादयः ।
बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मम तादृशी शक्तिर् नास्तीति चेत्, तत्राह—मयीति । मत्-प्रसादेन सर्वं भविष्यतीत्य् अर्थः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् आशङ्काम् अपनुदतीत्य् अह—ममेत्य् आदिना । भवतस् तव । आदि-पदाद्-दैत्य-गन्धअर्वादीनां ग्रहः । इत्य् अर्थ इति—मय्य् अनुकूले सर्वम् अनुकूलं स्यात्, सुप्रसन्ने जगन्नाथे पतीपं सरलं भवेत् इत्य् उक्तेः । तद् एव दर्शयति—अवनता भक्त्या नम्राः सन्तो बलिं हरन्त्व् इत्य् आज्ञा । तथा च श्री-विष्णु-पुराणे—
ययातिशापाद् वंशोऽयम् अराज्यार्होऽपि साम्प्रतम् । > मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ इति ।
हरन्ति इति पाठे हरिष्यन्तीत्य् अर्थः । अन्ये इतरेभ्यो न्यूना इत्य् अर्थः । नराधिपा अप्य् अन्य इति वा ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मयि भृत्य उपासीन इति उपासीने उपासके जने मयि भृत्य इव सतीति भावः । त्वन्तु मद् उपासक एवासि ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भृत्य उपासीने भृत्यतया सदा समीपे वर्तमाने सेवमाने वेत्य् अर्थः । आदि-शब्दात् सिद्धादयः, अवनता भक्त्या विनम्राः कृत-प्रणामा वा सन्तो बलिं हरन्तु । तथा च श्री-विष्णु-पुराणे—
ययाति-शापद् वंशोऽयम् अराज्यार्होऽपि साम्प्रतम् । > मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥ इति ।
हरन्तीति पाठे सामीप्ये वर्तमाना, हरिष्यन्तीत्य् अर्थः । अन्य इति विबुधादिभ्यो नराधिपानाम् अतिन्यूनत्वं बोधयति । अत एवोक्तम्—किमुतेति ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव दर्शयति । मयीति । अवनता भक्ता नम्राः सन्तः बलिं हरन्त्व् इत्य् आज्ञा । तथा च श्री-विष्णु-पुराणे । यथातिशापाद् वंशोऽयम् अराज्याहोऽपि साम्प्रतम् मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैर् इति । हरन्तीति पाठः हरिष्यन्तीत्य् अर्थः । अन्ये इतरेभ्यो न्यूना इत्य् अर्थः । नराधिपा अप्य् अन्ये इति वा ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम तादृशी शक्तिर् नास्तीति चेत् तत्राह । मयि भृत्ये तत्राप्य् उपासीने त्वद् उपासनां कुर्वति सति ॥१४.१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.१५ ॥
सर्वान् स्वान् ज्ञाति-सम्बन्धान् दिग्भ्यः कंस-भयाकुलान् ।
यदु-वृष्ण्य्-अन्धक-मधु- दाशार्ह-कुकुरादिकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वान् ज्ञातीन् सम्बन्धांश् च दिग्भ्य आनाय्येति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कंस-भयेनोद्गतान् निःसृतान् । विश्वकृत्-सर्वकृति-कुशलः । सर्वान् इति युग्मकम् । स्वे आत्मीयाः, स्वम्बन्धाश् च कृत वैवाहिकादि-सम्बन्धाः । दिग्भ्य आनाय्येति शेषः । दिग्भ्य इति कर्मणि चतुर्था वा, गताव् इत्य् अनेनान्वयात् । यद्वद् इति—यदु-भेदा भोजादय इत्य् अर्थः । आदि-शब्देन सात्वतादयः । भोजाश् चक्रूरेण सह तत्रैवासन् । इत्य् एते यादवान् अष्टौ भेदा मुख्यतमा ज्ञेयाः । समाजितान् सतः शीघ्रयानप्रस्थापनादिमानेनेत्य् अर्थः । अतः सम्यक् सुखं शीघ्रञ्चानाय्य विदेशावासेन कृशतां प्राप्तान् अतो बहुलधनेन सन्तर्प्य नितरां गृहाद्य् उपस्करपरिच्छदवृत्ति प्रदानादिना समहोत्सवमवासयत् । नन्वसङ्ख्यानां कथं तथानिवासनं द्रुतम् एव सम्भवेत् तत्राह—विश्वकृद् इति । अतस् तद्-वैभवस्येन्द्रादि-दुर्लभत्वम् अपि सूचितम् । तत्र श्री-रोहिणीम् अपि व्रजादानेष्यतीति ज्ञेयम् ॥१५.१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दिग्भ्य इति मथुरां त्यक्त्वा कुरु-पाञ्चालादिषु प्रयाणेनाष्ट-दिक्षु वासात् । आदि-शब्देन सात्वतादयः, भोजाश् च प्रायोऽक्रूरेण सह कंसम् अनुवर्तमानास् तत्रैवावसन् । एते यादवानाम् अष्ट-भेदा मुख्यतमाः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वान् इति युग्माकं स्वे आत्मीयाः सम्बन्धाश् च कृत-वैवाहिकादि-सम्बन्धाः दिग्भ्य आनाय्येति शेषः । दिग्भ्य इति कर्मणि चतुर्थी वा गताव् इत्य् अनेनान्ययात् । यद्व् इति यदु-भेदाः भोजादफ़्यः इत्य् अर्थः । आदि-शब्देन सात्वतादयः भोजाश् च प्रायोऽक्रूरेण सह तत्र वासन् इत्य् एते यादवानाम् अष्टौ भेदाः मुख्यतमा ज्ञेयाः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मयि भृत्य उपासीन इत्य्-आदि । उपासीने उपासके जने भृत्य इव मयि वर्तमान इत्य् अर्थः अहं भक्त-पराधीनः [भा।पु ९.४.६] इत्य् उक्तेः । अतो भक्तस्य तवाहम् अपि भक्त न तु राजेति कृत्वा ॥१५.२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.१६ ॥
सभाजितान् समाश्वास्य विदेशावास-कर्शितान् ।
न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सभाजितान् सतः शीघ्रग-यान-प्रस्थापनादिना सम्मान्येत्य् अर्थः । अतः सम्यक् सुखम् आश्वानय्य, यतो विदेशावासेन कर्शितान् चिरं दुःखितान् इत्य् अर्थः । अत एव वित्तैर् बहुल-धनेन सन्तर्प्य स्व-स्व-गृहेषु नितरां गृहाद्य् उपस्कार-वस्त्रालङ्कारादि-परिच्छदोपराह-निज-निज-वृत्ति-प्रदानादिना सुस्थिरतया समहोत्सवं युग-पद-विलम्बनवासयत् ।
ननु, बहुतराणां कथं तथा निवासनं सम्भवेत् ? तत्राह—विश्वकृद् इति । अत इन्द्रादि-दुर्लभम् अपि तेषां विचित्र-वैभवं साधयामासेति च सूचितम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समाजितान् सतः शीघ्रं वान-प्रस्थापनादिमानेनेत्य् अर्थः । अतः सम्यक्-सुखं शीघ्रं चणाय्य विदेशावासेन कर्षितान् कृशतां प्रतितान् अतो बहुल-धनेन सन्तर्प्य नितरां गृहाद्य् उपस्कार-परिच्छदस्येन्द्रादि-दुर्लभत्वम् अपि सूचितम् । तत्र श्री-रोहिणीम् अपि-व्रजादानेष्यतीति ज्ञेयम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.१७ ॥
कृष्ण-सङ्कर्षण-भुजैर् गुप्ता लब्ध-मनोरथाः ।
गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धाः पूर्णाः । कृष्ण-रामाभ्यां गतो निवृत्तो ज्वरस् तापो येषां ते ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वा, सिद्धा इवेति लुप्तोपमा । जीवन् मुक्ता यथा कृष्णे परब्रह्मणि रामेण रमणेन रत्या वा गताध्यास्मिकादितापत्रया भवन्ति तथा रेमिरे
सिद्धिः स्त्री योग-निष्पत्ति-पादुकान्तद्धिवृद्धिषु । > मुक्तौ योग-विशेषे च तद्वान् सिद्धः प्रकीर्तितः ॥
इति निरुक्तिकारः । अथ तेषां सर्वोत्तमां स्थितिम् आह—त्रिभिः । तत्र कृष्णेति युग्मकम् । प्रथमं तावत् कंसादि-वदेन गतज्वराः, ततश् च पुनर् वासादिना लब्धमनोरथाः, तद्-अनन्तरं श्री-कृष्ण-सङ्कर्षण-भुजैर् गुप्ताः कंसभयादितो रक्षिताः, ततस् तैर् एव लब्ध-मनोरथास् तद् अर्पित-स्वविर्भाव-सहित-तादृश-मथुरावासादिना पूर्ण-कामाः सन्तो रेमिरे ताभ्यां चक्रुः । तेनैव सिद्धाः कृतकृत्या बभूवुः । तत्र च कृष्ण-रामाभ्याम् अन्यनिरपेक्षया तत्-स्वरूप-मात्राभ्यां गतज्वरा बभूवुः । ताभ्यां व्यतिरिक्ते तापः सुखं तु तयोर् एव येषां तथा बभूवुर् इत्य् अर्थः । तत्-तद् अर्थ-योग्यततन्-नाम-निरुक्तिस्तून्नेया ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुनेन्द्रादिभ्योऽपि तेषाम् उत्कर्षं दर्शयन् सदा सर्व-दुःख-राहित्यं परम-सुखत्वं चाह—कृष्णेति द्वाभ्याम् । कृष्णं साक्षाद् भगवान् सङ्कर्षणश् च तद्द्वितीय-व्यूहः । किं वा, तत्-पार्षद-प्रवर-शेषावतारो यदुकुलैकीकरणपरः श्री-बलदेवः, तयोर् भूजैर् बहुत्वं द्वयोः प्रत्येकं द्वाव् इति तच् चतुष्टयत्वात् किं वा, भक्त-वात्सल्येन कदाचिद् बहुल-भुजाविस्काराभिप्रायेण गुप्ताः सर्वापत्सु राक्षिताः सन्तः, भुजैर् इति गोपने परम-तात्पर्यादिकं बोधयति । किं च, तैर् वे लव्धमनोरथाः, तद् बलेनैव सदा सर्व-काम-परिपूर्तेः, अत एव गृहेष्व् अपि सिद्धा जीवन्मुक्ताः । किं वा, किं वा, सिद्ध-सर्वार्थाः सन्तो गृहेषु रेमिरे चिक्रीडुः । अहो गृहिणोऽपि ते कथञ्चित् संसार-दुःखं किम् अपि नैवाविन्दन्न् इत्य् आह—कृष्णेति, कर्षति सर्वतापं हरतीति कृष्णः, रमयतीति रामः, अतस् ताभ्यां गतज्वराः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तेषां सर्वोत्तमां स्थितिम् आह त्रिभिः । तत्र कृष्णेति युग्मकम् । प्रथमं तावत् कंसादि-वधेन गतज्वराः ततश् च पुनर् वासादिना लब्ध-मनो-रथाः तद्-अनन्तरं श्री-कृष्ण-सङ्कर्षण-भुजैर् गुप्ताः कंस-भयादितो रक्षितास् ततस् तैर् एव लब्ध-मनो-रथाः तद् अर्पितस्वाविर्भाव-स्हित-तादृश-मथुरावासादिना पूर्ण-कामाः सन्तो रेमिरे ताभ्यां क्रीडां चक्रुः तेनैव सिद्धाः कृत-कृत्याश् च बभूवुः । तत्र च कृष्ण-रामाभ्याम् अन्य-निरपेक्षतया तत्-स्वरूप-मात्राभ्यां गतज्वरा बभूवुः । ताभ्यां व्यतिरिक्ते सर्वत्रैव तापः सुखन्तु तयोर् एव येषां तथा बभूवुर् इत्य् अर्थः । तत् तद् अर्थ-योग्य-तत्-तन् नाम-निरुक्तिस्तून्नेया ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.१८ ॥
वीक्षन्तोऽहर् अहः प्रीता मुकुन्द-वदनाम्बुजम् ।
नित्यं प्रमुदितं श्रीमत्-सदय-स्मित-वीक्षणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सदय-स्मितं वीक्षणं यस्मिंस् तत् ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहरहः प्रतिदिनम् । पूर्वेणैव सम्बन्धः । सुखम् एव विवृणोति-वीक्षन्त इति । विशेषेण सन्निकृष्टत्वादिना तन्-मुखम् ईष्कामाणाः । तत्राप्य् अहरहर् वीक्षमाणाः प्रीता बभूवुर् इति दर्शन-सौख्यं नित्यम् एवाधिकं दर्शितम्, तेनातृप्तिर् अपि दर्शिता । तत्र हेतवः—नित्य-प्रमुदितं क्साण-क्षणम् एव प्रकर्षेण हृष्यत्, अतो नित्येति सर्वत्रैव व्यङ्ग्यम् । क्षण-क्षणम् एव श्रीमत्-प्रशस्त-शोभं तथा सदयेत्य् आदिना च ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परमानन्दं च प्राप्ता इत्य् आह—वीक्षन्त इति, विशेषेण सन्निकृष्टत्वादिना मुखम् ईक्षमाणाः, वर्तमानतया तद् गुणानुसन्धानादिकं निरस्तम्, वीक्षणस्य च नैरन्तर्यं बोधितम् । ततश् च नित्य-नूतनतया प्रीतिं प्राप्ता इत्य् अर्थः । अहरयो नित्यम्, अस्य पूर्वेणान्वय इति भाग्य-विशेष उक्तः । यद् व, रेमिरे इति पूर्वेणान्वयः । किं वा, प्रीताः इत्य् अस्यैव क्रिया-पदत्वेन वाक्य-समाप्तिः । मुकुन्देत्य् आदिकं पूर्वं बहुशो व्याख्यातम् एव, नित्यं प्रकर्षेण मुदितम्—अपराधाग्रहणादिना सदान्तःसुप्रसन्नत्वात्, अत एव सदयेति ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुखम् एव विवृणोति । वीक्षन्त इति । विशेषेण सन्निकृष्टत्वादिना मुखम् ईक्षमाणाः तत्राप्य् अहरहर् वीक्षमाणाः प्रीता बभूवुः इति दर्शन-सौख्यं नित्यम् एवाधिकं दर्शितं तेनातृप्तिर् अपि दर्शिता । तत्र हेतवः । नित्य-प्रमुदितं क्षण-क्षणम् एव प्रकर्षेण हृष्यत् । अतो नित्येति सर्वत्रैव व्यङ्ग्यं क्षण-क्षणम् एव श्री-मत् प्रशस्त-शोभं तथा सदयेत्य् आदिना ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.१९ ॥
तत्र प्रवयसोऽप्य् आसन् युवानोऽतिबलौजसः ।
पिबन्तोऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवयसो वृद्धा अप्य् अतिशयितं बलम् ओजश् च येषां, ते ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र मथुरायां तदा वा । युवत्वे किम् औषधम् ? इति चेत् तत्राह—पिबन्त इति । अक्साइर् नेत्रैः, अक्षो नेत्रे च शकटे चक्रे रावणजेन्द्रिये इति धरणिः । तत्र भगवत्-पार्षदत्वम् एव तद्-आवरण-पूजा-देवतानां श्रीमद्-उद्धवादीनां, प्रवयस् त्वं न स्यद् एव ये केचिद् अन्धकादयो प्राचीन-वृद्धाः, तेऽपीत्य् अपि-शब्दार्थः । अतः, स कथं सेवया तस्य कालेन जरसं गतः [भा।पु। ३.२.३] इति श्रीमद्-उद्धवम् उद्दिश्य विदुर-वाक्यं तु प्राकट्यावसर-प्रमाण-चरम-कक्षां गत इत्य् एवाभिदधाति—अलौकिक-गुण-स्वाद-शालित्वात् सुधेव सुधा सौन्दर्यं मुखाम्बुजस्य सुधाम् इति तथाप्य् अलौकिकत्वं ताम् अक्षैर् अक्षिभिः पिबन्त इति तेनैव तादृशं कमलम् इति च पुनस् तयोः परमालौकिकत्वं व्यञ्जितम् । मुहुः प्रतिक्षणं पिबन्तः प्रतिक्षणम् अतिशयेन युवानः शरीरेन्द्रिय-बल-युक्ताश् चासन् । उपलक्षणं चैतत् सहादीनाम् इति ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो तेषां देहोऽपि सच्चिदानन्दमयोऽभूद् इत्य् आशयेनाह—तत्रेति । तेषु मध्ये प्रायो भगवत्-पार्षदानाम् अवतारत्वेन प्रवयसो न सन्त्य् एव, ये वा केचिद् अन्धकादयः प्राचीनास् तेऽपीत्य् अपि-शब्दार्थः । आसन् नित्यस्थिरतया बभूवुः । बलं देह-शक्तिः, ओजः—इन्द्रिय-ल्पाटवं तेजो वा, अक्षैर् अक्षिभिः सुधा मधुर-मधुर-सौन्दर्यम् इत्य् अर्थः । सुधा-रूपकेणाक्ष्णां चषकत्वं तथा परमान्दास्वादनं सर्वान् अर्थ-विध्वंसनं च ध्वन्यते । मुहुर् इति सदा समीपवर्तितया स्वभाव-मात्र-कथनम् । किं वा, अस्य पूर्वेणान्वयः । सदा नूत्नतया युवानोऽतिवलौजसश् चासन्नित्य् अर्थः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र भगवत् पार्षदत्वम् एव तदावरण-पूज्य-देवतानां श्री-मद् उद्ध्ववादीनाम् इति प्रवयस् त्वं न स्याद् एव । ये केचिद् अन्धकादयो वा प्राचीन-वृद्धास् तेऽपीत्य् अपि शब्दार्थः । अतः स कथं सेवया तस्य काल-नजर-सङ्गत इति श्री-मद् उद्धम् उपद्दिश्य श्री-विदुर-वाक्यन्तु प्राकट्यावसर-प्रमाण-चरम-कक्षां गत इत्य् एवाभिदधाति अलौकिक-गुणास्वादशालित्वात् सुधेव सुधा सौन्दर्यं मुखाम्बुजस्य सुधाम् इति तथाप्य् अलौकिकत्वं ताम् अक्षर् अक्षिभिः पिबन्त इति तेनैव तादृशं कमलम् इति च पुनस् तयोः परमालौकिकत्वं व्यञ्जितम् । मुहुः प्रतिक्षणं पिबन्तः प्रैक्षणम् अतिशयेन युवानः शरीरेन्द्रिय-बल-युक्ताश् चासन् उपलक्षणषैतत् सह आदीनाम् इति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रीमद्-उद्धवादीनां तद्-आवरण-पूज्य-देवतात्वेन नित्य-पार्षदत्वात् प्रवयस् त्वं न स्याद् एव । ये केचिद् अन्धकादयः प्राचीन-वृद्धास् तेऽपि इत्य् अपि-शब्दार्थः ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रवयसो वृद्धा अपि ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२० ॥
अथ नन्दं समासाद्य भगवान् देवकी-सुतः ।
सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ यादवाश्वासनानन्तरम् । देवकी-सुत इति—देवकीत्य् उपलक्षणं माता-पित्रोः, जात-स्नेहः स एव नन्दात्मजस्य तु तत्रानगतत्वात् । मथुरागमनावसरे ततः पृथग्भूय तत्रैवान्तर्हितो नित्य-लीलारतोऽभूद् इति तत्त्वम् । अथ श्री-व्रज-राजस्य प्रस्थापनं प्रक्रममाणः भगवत्तायां देवकीसुतायां प्रस्तावे च परीक्षितः समुल्लसन् मुखताम् अवेक्ष्य राजेन्द्रेति सम्बोधनम् । तन् मुखम् अवलोक्य तदीप्सिततानुरूपं वदन्न् अपि श्री-कृष्णस्यैव वचनपरि पाटीभिर् निजाभिप्सितं स्थापयिष्यन्न् आह—अथेति । अथ यादवानां तथाभावाद् अनन्तरम् इति । अद्य सायम् अस्माभिः प्रस्थापितव्यं सायं च सति प्रातर् इत्य् एवं यदुकुलाश्वासनपौरसम्माननाद्य् अवस्यकृत्योद्यपेक्षया कतिपयादीन् अविलम्ब-विधानात् । यद्य् अहं सहसैव गोकुले गच्छामि तदा जरासन्धादि-सम्मर्दस् तत्र स्याद् अत्रत्यानाम् अरक्षा चेत्य् अङ्गीकृत-नर-लीलाघटितया शङ्कया तद् असमाप्तौ तु कदाचिद् एकान्ते सम्यग् आसाद्य पुत्रोचित-नमस्कारादिमव्द्यवरेणोपेत्य केवल-बालोचित-भावाविष्कारेण परिष्वज्य चेदं श्लोक-त्रयेण वक्ष्यमाणं केवल-तत्-पुत्रोचितम् अब्रवीत् । कोऽसौ—भगवान् पूर्ण-सर्वैश्वयेण निरपेक्षः । यश् च देवकी-सुतः देवक्यां प्रकटित-जन्मा स एव, तथा सङ्कर्षणश् च तत्-तन् निरुक्त्या यो वसुदेवात्मजत्वं प्राप्तस् तद् अनुसङ्गेन स चैव ऊचतुर् इति भवद्भिर् य-सार्थम् एव मन्तव्यम्, न च श्री-वसुदेव-देवक्योर् इव यत्किञ्चिद् अन्यथा कर्तुम्, तत्र सिद्धान्तस्य प्रायो विरुद्धन्तस्य प्रायो विरुद्धत्वात्, तत्र तु नन्दस् त्व् आत्मज [भा।पु १०.४] इत्य् आदौ सिद्धान्तस्य स्वाभाविकत्वेन सर्व-दुर्लभत्वेन स्तुतत्वाच् च । अहो-भाग्यम् [भा।पु १०.४] इत्य्-आदिभिः नेमं विरिञ्च इत्य्-आदिभिः युवां श्लाध्यतमौ इत्य्-आदिभिश् च । तत्र राजेन्द्रेति राजेन्द्राणां भवतां महा-राज-कन्यायाः प्रपितामह्याः सम्बन्धेन तत्रैव निष्टा युक्ता, भिक्षुकाणाम् अस्माकं तु यथा-रुच्येवेति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ पश्चाद् इति अद्य सायं प्रस्थातव्यम्, सायं च सति श्वः प्रातर् इत्य् एवं यदु-कुलाश्वासन-पौर-सम्माननाद्य् अवश्यकृत्यापेक्षया पुर्यां दिन-कतिपय-विलम्बात् सम्यगासाद्य श्री-वसुदेवादिभिः सह तदीय-शकटावमोचन-स्थाने गत्वा । किं वा, श्री-वसुदेव-गृहेऽभ्यागतम् उत्तमावसरे स्वस्थचित्ततया प्राप्य, यच् चाग्रे श्रीमद् उद्धवेन वक्ष्यते—हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य [भा।पु १०.४६.३५] इत्य्-आदि । तत्र रङ्ग-मध्ये कंसं हत्वेति यथावस्थितम् एव सुसम्बन्धः, न तु रङ्ग-मध्ये समागत्येति, समासाद्येत्य् आदौ हेतुः—भगवान् कृतज्ञत्वादि-सर्व-सद् गुण-युक्तः, यतो देवकी-सुतः साक्षाद् अवतारीत्य् अर्थः । यद् वा, तत्रापि देवकी-सुतस् तत् तद्-गुण-परमान्त्यकाष्ठा-प्रकटनपर इत्य् अर्थः।
यद् वा, देवकी-सुतोऽपीति तदानीं श्री-देवक्याद्य् अपेक्षा न स्थितेत्य् अर्थः, यतो भगवान् । उक्तार्थम् एव, सङ्कर्षण इति—यदूनाम् अपृथग्-भावात् [भा।पु १०.८.१२] इत्य् आद्य् उक्त्यनुसारेण श्री-वसुदेव-सुतत्वेऽपि तस्य कदाचिद् अपि श्री-नन्दे भेद-बुद्ध्यभावात् । हे राजेन्द्रेति राज-श्रेष्ठत्वाद्-भवता बन्धुषु व्यवहारो ज्ञायत एवेति भावः । परिष्वज्येति नित्य-स्नेह-स्वभावतो विशेषतश् चाधुना सान्त्वनार्थम् । इदम् इति वक्ष्यमाणार्थस्याति-दुःख-प्रदत्वेन सद्यस् तद् विशेषस्यानिरूप्यत्वात् क्षणं वाक्-स्तम्भं बोधयति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्रीमद्-व्रज-राजस्य प्रस्थापन प्रक्रममाणः श्री-कृष्णस्य भगवत्तायां देवकी-सूततायाः प्रस्तावे च परीक्षितः समुल्लसन् मुखताम् अवेक्ष्य राजेन्द्रेति सम्बोधनेन तन् मुखम् अवलोक्य तदीप्सिततानु-रूपं वदन्न् अपि श्री-कृष्णस्यैव वचन-परिपाटीभि-निजाभीप्सितं स्थापनिष्यन्न् आह । अथेति । अथ यादवानां तथा भावाद् अनन्तरम् इति अद्य सायम् अस्माभिः प्रस्थापितव्यं सायं च सति प्रातर् इत्य् एवं यदुकुलाश्वासन-पौरसम्माननाद्य् आवश्यकृत्याद्य् अपेक्षया दिन-कतिपर्यावलम्ब-विधानात् । यद् अहं सहसैव गोकुले गच्छामि तदा जरासन्धादि-सम्मर्दस् तत्र स्याद् अत्रत्यानाम् अ-रक्षा चेत्य् अङ्गीकृत-नर-लीला-घटितया शङ्गया तद् असमाप्तौ तु कदाचिद् एकान्ते सम्यग् आसाद्य पुत्रोचित-नमस्कारादि-सद् व्यवहारेणोपेत्य केवल-बाल्योचित-भावाविष्कारेण परिष्वज्य च । इदं श्लोक-त्रयेण वक्ष्यमाणं केवल-तत् पुत्रोचितम् अब्रवीत् । कोऽसौ भगवान् पूण-सर्वैश्वर्येण निरपेक्षः । यश् च देवकी-सुतः देवक्या प्रकटित-जन्मा स एव । तथा सङ्कर्षणश् च । तत् तन् निरुक्त्या यो वसुदेवात्मजत्वं प्राप्तस् तद् अनुपङ्गेन स चैवोचतुर् इति भवद् भिर् यथार्थम् एव मन्तव्यम् । न च श्री-वसुदेव-देवक्योर् इव यत् किञ्चिद् अन्यथा-कर्तुं तत्र सिद्धान्तस्य प्रायो विरुद्धत्वाद् अत्र तु नन्दस् त्वात्मज इत्य् आदौ सिद्धान्तस्य दर्शितत्वात् । तथा तत्र मायां सन्तान-जन-मोहिनीम् अतिवद् अत्र श्लेषेणाप्य् अनुक्तत्वात् श्री-नन्द प्रभृतीनां भावस्य श्री-ब्रह्म-शुकोद्धवादिभिः स्वाभाविकत्वेन सर्व-दुर्लभत्वेन स्तुतत्वाच् च । अहो भाग्यम् इत्य्-आदिभिर् नमं विरिञ्च इत्य्-आदिभिर् युवां श्लाघ्यतमाव् इत्य्-आदिभिश् चेति । तत्र राजेत्रेति राजेन्द्राणां भवतां महाराज-कन्यायाः प्रपितामह्याः सम्बन्धेन तत्रैव निष्ठा युक्ता भिक्षुकाणाम् अस्माकं तु यथा-रुच्येवेति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इदं श्लोक-त्रयं वक्ष्यमाणं केवलं पुत्रोचितम् ऊचतुः । न तु वसुदेव-देवक्यौ प्रतीव किञ्चित् किञ्चिद् अन्यथात्वेन जन-मोहनम् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कोऽसौ भगवान् ? पूर्ण-सर्वैश्वर्यत्वेन निरपेक्षः । यश् च देवकी-सुतः देवक्यां प्रकटित-जन्मा, स एव तथा सङ्कर्षणश् च तत्-तन्-निरुक्त्या यो वसुदेवात्मजतां प्राप्तः तद्-अनुसङ्गेन स चैव ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहु-दिवसीय-कथां कथयित्वा कंस-वध-दिवसस्य परेद्यवि कस्याशिद् अतिमुख्याया दुरधिगमार्थायाः कथायाः कथनारम्भ-बोधनायाथ-शब्दः नन्दं सम्याग् आसाद्येति तत् पुत्रत्वाभिमानवत्त्वेनैवेत्य् अर्थः । देवकी-सुत इति । देवकी-सुतत्वाभिमानम् अपि गूहन्न् इत्य् अर्थः । भगवान् इत्य् उभयोः समाधात्री स्वईयाम् ऐश्वर्य-शक्तिम् एवाश्रित्येति भावः । सङ्कर्षणश् चेति यदूनाम् अपृथग् भावात् सङ्कर्षणम् उशन्त्य् अपीति स्वनाम्नो व्युत्पत्तिं दर्शयन्न् इति भावः । परिष्वज्येति प्रणामेऽवसराप्राप्तेर् इति भावः । तद् अवसर-प्राप्त्य् अभावश् च तयोर् दर्शन-मात्रेणैवार्गलोपमाभ्यां भुजाभ्यां श्री-नन्देनानन्द-समुद्र-निमग्नेन युगपद् एवोद्धृत्याति-विस्तीर्णे स्व-वक्षसि तयोर् द्वयोर् एव धारणात् अतस् तयोर् अत्र परिष्व् अङ्ग-कर्मत्वेनेव परिष्व् अङ्ग-कर्तृत्वम् अभूद् इति बुद्द्यते ऊचतुर् इति तद्-अनन्तरम् उपविष्टे व्रजराजे तद् आसन-मध्यास्य तद् भुजाश्लिष्टावेव तौ संप्रश्नोत्तर-वृत्त-बहुवृत्तान्त-कथनानन्तरम् इदं सविनयं सान्तः सङ्कोचं यादव-जनतोपरोधज्ञापन-पूर्वकं साश्वासं ससान्त्वनमूचतुः ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२१ ॥
पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् ।
पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनोऽपि हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भृशम् आत्मनोऽप्य् आधिक्येन पोषितौ । न चाश्चर्यम् एतद् इत्य् आह—पित्रोर् इति । आत्मनो देहाद् अप्य् आत्मजेष्व् अभ्यधिका हि प्रीतिर् इति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युवाभ्यां नन्द-यशोदाभ्याम् । एतत् आत्माधिक्येन पोषणम् ।
[विश्वनाथः] प्रथमं ज्येष्ठत्वाद् बलदेव आह द्वाभ्याम् । हे पितर् ! युवाभ्यां माता-पितृभ्यां यशोदा-नन्द-सञ्ज्ञाभ्याम् इत्य् अर्थः । एतच् च युक्तम् एवेत्य् आह—पित्रोर् इति । आत्मनो देहाद् अप्य् आत्मजेष्व् औरसेष्व् अभ्यधिका स्याद् एव । पोषितौ लालिताव् इत्य् अत्र द्वि-वचनेन मित्र-पुत्रे मयि स्व-पुत्रे कृष्ने च युवयोस् तुल्य-वात्सल्यस्य दृष्टत्वात् । “युवाम् एव यथा कृष्णस्य तथा ममापीत्य् आवयोर् द्वयोर् अपि पितरौ” इति द्योतयित्वा, “युवां लालकौ विना कोटि-प्राण-प्रियतमं भ्रातरं कृष्णं च विनात्र पुर्याम् अपरिचितयोर् देवकी-वसुदेवयोः पित्रोर् गृहे मया स्थातुं न शक्यते” इत्य् अनुद्योतितम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे पितर् ! इति तदानीम् अपि तस्मिन्न् एव स्वस्य पितृत्व-ज्ञानात् । स्नेहाधिक्यं द्योतयति—युवाभ्याम् इति । तत्रावर्तमानाम् अपि श्री-व्रजेश्वरीं स्नेह-भरेण स्मरन् साक्षाद् इव मत्वा परामृशति—लालितौ च परिपालनालिङ्गन-परिचरणेच्छानुवर्तनादिना क्रीडयद्भ्याम् आनन्दितौ, यतः स्निग्धाभ्याम् इति निरूपाधिकत्वम् उक्तम्, हि यत इति । पोषिताव् इत्य् उक्त्या प्राप्तां पुष्ट-पुत्रता-शङ्कां निरस्य औरस-पुत्रत्वं स्थिरीकृतम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव हेतुर् हे पितः ! हि यस्मात् आत्मानम् अप्य् अतिक्रम्य पित्रोर् आत्मजेष्व् औरसेषु अभ्यधिका प्रीतिः स्यात्, तस्माद् एव भृशम् अत्यर्थं स्निग्धाभ्यां युवाभ्यां भोजनादिना पोषितौ स्नपनादिना लालितौ च, तद् इदं नाश्चर्यम् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कोऽसौ भगवान् ? पूर्ण-सर्वैश्वर्यत्वेन निरपेक्षः । यश् च देवकी-सुतः देवक्यां प्रकटित-जन्मा, स एव तथा सङ्कर्षणश् च तत्-तन्-निरुक्त्या यो वसुदेवात्मजतां प्राप्तः तद्-अनुसङ्गेन स चैव ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं ज्येष्ठत्वाद् बलदेव आह द्वाभ्याम् । हे पितर् ! युवाभ्यां माता-पितृभ्यां यशोदा-नन्द-सञ्ज्ञाभ्याम् इत्य् अर्थः । एतच् च युक्तम् एवेत्य् आह—पित्रोर् इति । आत्मनो देहाद् अप्य् आत्मजेष्व् औरसेष्व् अभ्यधिका स्याद् एव । पोषितौ लालिताव् इत्य् अत्र द्वि-वचनेन मित्र-पुत्रे कृष्णे च युवयोस् तुल्य-वात्सल्यं दृष्ट्वत्वात् । “युवाम् एव यथा कृष्णस्य तथा ममापीत्य् आवयोर् द्वयोर् अपि पितरौ” इति द्योतयित्वा, “युवां लालकौ विना कोटि-प्राण-प्रियतमं भ्रातरं कृष्णं च विनात्र पुर्याम् अपरिचितयोर् देवकी-वसुदेवयोः पित्रोर् गृहे मया स्थातुं न शक्यते” इत्य् अनुद्योतितम् ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२२ ॥
स पिता सा च जननी यौ पुष्णीतां स्व-पुत्रवत् ।
शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवकी-वसुदेवयोः पुत्रौ युवां नास्मत्-पुत्राव् इत्य् अपि न वाच्यम् इत्य् आह—स पितेति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्दं बोधयति भगवान्—देवकीत्य्-आदिना । उत्सृष्टांस् त्यक्तान् । पोष-रक्षणे इति समाहार-द्वन्द्वः ।
[विश्वनाथः- ] ननु, भो बलभद्र ! सत्यम् एव त्वं मम मित्रस्य वसुदेवस्यैव पुत्रोऽसि, स च विपन्-मुक्तश् चिरात् प्राप्तं त्वां पुत्रं कथं त्यक्तुं प्रभविष्यत्य् अतस् त्वं सम्प्रति स्व-पितुस् तस्यैव गृहे तिष्ठ । आवां तु त्वद्-विच्छेद-विदीर्णं स्व-हृदयं विवेक-शिलया पिधाय कथञ्चिज् जीविष्यावो, न तु वसुदेवस्य सख्युर् दुःखं द्रष्टुं प्रभविष्यावो यत आवां तव पोषकाव् एव पितराव् इति चेत् तत्राह—स इति ।
तेषां शिशूनां स एव पिता सा एव जननी, न त्व् आधान-कर्तापि पिता स्व-कुक्षौ धृतवत्य् अपि जननी, ताभ्याम् उत्सृष्टानां शिशूनां यदि प्राणा एवायास्यंस् तदा केषां तौ पितराव् अभविष्यताम्, अतः शिशुभिर् अपि विवेकिभिः पोषकाव् एव पितरौ, ताभ्याम् अपि सकाशाद् बहु-माननीयौ, अतो मया नात्र स्थातव्यम् । यदि स्वयं ब्रह्माप्य् आगत्य वदेत्, तेनापि ममायं हठो न शिथिलयितुं शक्यः । हन्त ! हन्त ! पितुस् तव सङ्गे कृष्णो व्रजं गत्वा सुखेन खेलयिष्यति, अहं तु कृष्ण-विच्छेद-दाव-दग्धो मथुरायां स्थास्यामीति सर्वथैव न भवेत् । तस्माद् भोः पितर् ! अहं स-शपथम् एवेदं ब्रुवे—यदि कृष्णो मां हित्वा त्वत्-सङ्गेन व्रजं यास्यति, तदा मे प्राणाः सद्य एव यास्यन्तीति स्वाभिप्रायो द्योतितः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स एव पिता, सैव जननी च, न च गर्भाधान्तात् गर्भे धारणाच् चेति भावः । शिशून्—अभिनव-बालकान्, बन्धुभिः पित्रादिभिर् उत्सृष्टान् दूरतस् त्यक्तान्, तत्र हेतुः—अकल्पैर् इति, इति तेषां दोषोऽपि परिहृतः, शिशूनां महा-दैन्यं चोक्तम् । यद् वा, च अपि, सोऽपि पिता, सा अपि जननी, किं पुनर् जन्म-दाता त्वम्, गर्भे धात्री सा चेति श्री-वसुदेव-देवक्योश् च पूर्व-जन्मनि पुत्रतया सम्बन्ध-मात्रं पाल्यत इति भावः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र सङ्कर्षणोऽपि नान्यथा मन्तव्य इति स्वयं श्री-कृष्ण आह—स पितेति । च-कारोऽप्य्-अर्थे । सोऽपि तस्मात् सङ्कर्षणोऽपि नान्यथा मन्तव्य इति मम तु जन्मादि-त्रय-हेतू एव भवन्ताव् इति भावः । यद् वा, स एव पिता सा एव जननी, न तु त्यक्तवन्तः पूर्व-पित्र्-आदयः । तस्माद् यद्य् अन्यतो जन्म स्यात्, तथापि किमुतात्मजादि-त्रयम् इत्य्-आदि ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रैव हेतुः8—हि यस्माद् आत्मानम् अप्य् अतिक्रम्य पित्रोर् इत्य्-आदिकोऽन्यः। तद् इदं नाश्चर्यम् इति भावः । तद् एतद् अप्य् अस्तु, यतः स पितेत्य्-आदि । च-कारोऽप्य्-अर्थे, सोऽपि साऽपि । तस्मात् सङ्कर्षणोऽपि नान्यथा मन्तव्यः । मम तु जन्मादि-त्रय-हेतू एव भवन्ताव् इति भावः ॥२२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भो बल-भद्र ! सत्यम् एव त्वं वसुदेवस्य मन्-मित्रस्यैवोरसः पुत्रोऽसि । स च विपन्-मुक्तश् चिरात् प्राप्तं स्व-पुत्रं त्वां कथं त्यक्तुं प्रभविष्यति ? अतस् त्वं सम्प्रति स्व-पितुस् तस्यैव गृहे तिष्ठ । आवां तु त्वद्-विच्छेद-विदीर्ण-स्व-हृदयं विवेक-शिलया पिधाय कथञ्चिज् जीविष्यावो, न तु वसुदेवस्य सख्युः दुःखं द्रष्टुं प्रभविष्यावो यत आवां तव पोषकाव् एव पितराव् इति चेत् तत्राह—स इति । तेषां शिशूनां स एव पिता सैव जननी, न त्व् आधान-कर्तापि पिता, स्व-कुक्षौ धृतवत्य् अपि जननी । ताभ्याम् उत्सृष्टानां शिशूनां यदि प्राणा एवायास्यांस् तदा केषां तौ पितराव् अभविष्यताम् अतः शिशुभिर् अपि विवेकिभिः पोषकाव् एव पितरौ, ताभ्याम् अपि सकाशाद् बहु-मननीयावतो मया नात्र स्थातव्यं, यदि स्वयं ब्रह्माप्य् आगत्य वदेत् तेनापि ममायं हठो न शिथलयितुं शक्यः। हन्त हन्त पितुस् तव सङ्गे कृष्णो व्रजं गत्वा सुखेन खेलिष्यति, अहं तु कृष्ण-विच्छेद-दाव-दग्धो मथुरायां स्थास्यामीति सर्वथैव न भवेत् । तस्माद् भो पितर् ! अहं स-शपथम् एवेदं ब्रुवे—यदि कृष्णो मां हित्वा त्वत्-सङ्गेन व्रजं यास्यति, तदा मे प्राणाः सद्य एव यास्यन्तीति स्वाभिप्रायो द्योतितः ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२३ ॥
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वो युष्मान् ज्ञातीन् । पूर्वोक्तरीत्या नन्दादयोऽपि ज्ञतय एव । अत्रत्यं किञ्चित् कृत्यं कृत्वेत्वाह—विधायेति । वयम् इति द्वित्वे अस्मदो द्वयोश् च इति वचनात् । चकारेणोद्धवं सङ्गृह्नाति । पूर्वम् एतावागमिष्यतः पश्चात्-स्वयम् इत्य् अर्थः । सुहृदां भवत्-सख्यादि-सम्बन्धन्धेनैव पित्रादितया मतानां श्री-वसुदेवादीनां सुखं विधायेति तद् इच्छया तत्-तत्-कार्य-साधनाय यद्य् अस्मिन्यादवपाण्डवादिमेलनेच्छया च तद् औरसत्वख्यापन-पूर्वकं तद् विद्वेषिदन्तवक्त्र-पर्यन्त-दुष्ट-वधाधिकम् अभीष्टं सम्पाद्येत्य् अर्थः । एतद् अर्थं भवतां यदुवंशोत्पन्नत्वम् अवलम्ब्य मातृ-पक्षेऽपि
ब्राह्मणाद् उग्र-कन्यायाम् आवृतो नाम जायते । > आभीरोऽम्बष्ठ-कन्यायाम् आयोगव्यां तु धिग्वणः ॥ [मनु १०.१५]
इति मनुस्मृतेस् तद् उत्तमत्वम् आलम्ब्य क्षत्रियकन्या अपि परिणेष्यामीत्य् अनुक्त्वा प्रार्थन-व्यञ्जना च आपतगमनेनैषां प्रीति-भङ्गः स्याद्-भवतां तु न कोटि-कल्पान्तरेऽईति भावः । तद् एव ज्ञातीन् साक्षात् प्रित्रादीन् स्नेह-दुःखितान्द्रष्टुम् एष्यामः । पश्यन्त एव स्थातुम् आगमिष्याम इत्य् अर्थः । तद् अर्थतायां विहितेन तुमुन्-प्रत्ययेन तस्यैव पुरुषार्थत्व-व्यञ्जनात् । यद् वा, तथापि भूमन् महिमा गुणस्य ते [भा।पु। १०.१४.६] इत्य् अत्र बोध-गोचरी-भैवितुम् इतिवद् अत्रापि द्रष्टुं गोचरीभवितुम् इति व्याख्येयम् । न च यत्-किञ्चिद् एव दर्शन-मात्रार्थं किन्त्व् अविच्छिन्नम् एवेत्य् अभिप्रेत्य् आह—स्नेह-दुःखितान् इति । स्नेहस्य निरवधिकत्वे तद्-धेतुकादर्शन-दुःखस्य तादृशत्वम् इति विचार्य यस्मात्-करुणाकुलतया गमिष्यामस् तस्मान् नित्य-निजाविर्भाव-दानेन युष्माकं तद् दुःखम् अवश्यम् एव दूरीकरिष्याम इत्य् अर्थः । अत्र सुखं विधायेति तस्य तु पुनर् अपेक्षणीयत्वं दर्शितम् । तद् एवं ज्ञातिषु भवत्सु नित्यावस्थानम् एव युक्तं तेषु सुहृत्सु पुनर् ऐच्छिकम् एव तद् इति भावः । किं च, सुहृदां सुखं विधायेति मध्ये मध्ये समागमने कदर्थनैव स्यात्, आपात-समाधानार्थं साक्षात्कार-तुल्यं ममाप्रकट-लीला-स्फोरणं तद् उद्धव एव करिष्यतीति व्यञ्जितम् । तद् एतद् उद्धव-सन्धेशे व्याख्यास्यते व्रजम् आगत्य श्री-कृष्णस्य नित्यावस्थितिश् च दन्तवत्क्र-वधान्ते स्थापयिष्यते । श्री-नन्दस् तु तद् एतत्-सर्वं तद् अभिप्रेतं न तदानीं सदावगतवान्, क्रमेणैव तु बोद्धेति गम्यम् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वयं च यस्याम इति नन्दं प्रति साश्वास-भाषणम् । तच् च प्रतिज्ञा-भाषणं कुरून् मधून् वापि सुहृद्-दिदृक्षया [भा।पु।१.११.९] इत्य्-आदि पूर्वोक्तेन स्फुरितम् । यद् वा, नित्यं वृन्दावने तिष्ठता सर्वालक्ष्यत्वेन कुमारीभिः सह विहरता प्रतिज्ञतम् अर्थं प्रतिपालयितुं कदाचित् कदाचित् तत्रैव नन्द-गृहे\ऽपि प्रकटी-भवतीति सर्वम् अनवद्यम् ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथैव सान्त्वयति—यातेति । यूयम् इति सङ्गागत-गोप-वर्ग-साहित्याभिप्रायेण । हे तातेति स्वोक्त-प्रतिपालनायाधिक-स्नेहं जनयति । वयम् इति बहुत्वं श्री-बलदेवोद्धवाद्य् अपेक्षया । किं वा, श्री-बलदेव--रूपेण व्रजमेष्याम इति तस्य गुरुत्वाद् बहु-वचनम् । ज्ञातीन् इति तत्त्वतो यूयम् एव ज्ञातयः, न तु यादवा इति यदुभ्योऽपि यूयम् अधिकम् अपेक्ष्या9 इति भावः । किं च, स्नेहेन दुःखितान् मद् विच्छेदेन स्नेहोद्रेकाद् अधिक-सन्तप्तान् इत्य् अर्थः । सदऋतान् वा, अत एवानुपेक्ष्याप्य् अवश्यं युष्मान् द्रष्टं व्रजमेष्याम इति भावः । द्रष्टुम् इति, न च किञ्चित् प्रत्युपकर्तुम्, तत्रासामर्थ्यादित्य् अर्थः । तत्र तस्य—न पारयेऽहम् [भा।पु १०.३२.२२] इति आदि-वचनान्य् एव प्रमाणम्, तत्त्वतस् तु द्रष्टुम् एव, न तु वस्तुं सान्त्वयितुं वेत्य् अर्थः । तत्र हेतुः—स्नेहेति, स्नेहभर-स्वभावेन विशेषतश् च विश्लेषेणात्यार्तान् इत्य् अर्थः ।
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेद-भीरुता । > नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥
इत्य्-आदि-न्यायेन सुखयितुम् अशक्तेर् इति भावः । एतच् च श्री-भागवतामृतादि-खण्डे विवृतम् अस्त्य् एव ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव सान्त्वय्येति । यातेति । वयम् इति द्वित्वे अस्मादोद्वयोश् च इति वचनात् । चकारेणोद्धवं संगृह्नाति पूर्वम् एतावागमिष्यतः पश्चात् स्वयम् इत्य् अर्थः । सुहृदां भवत् सख्यादि-सम्बन्धेनैव पित्रादितया मतानां श्री-वसुदेवादीनां सुखं विधायेति तद् इच्छया तत् तत् कार्य-साधनाय यद् यस्मिन् यादव-पाण्डवादि-मेलनेच्छया च तदौरसत्वख्यापन-पूर्वकं तद् विद्वेषि-दन्तवक्त्र-पर्यन्त-दुष्ट-वधाव् अधिकम् अभीष्ट सम्पाद्येत्य् अर्थः । एतद् अर्थं भवतां यदु-वंशोत्पन्नत्वम् अवलम्ब्य मातृ-पक्षेऽपि—
ब्राह्मणाद् उग्र-कन्यायाम् आवृतो नाम जायते । > आभीरोऽम्बष्ठ-कन्यायाम् आयोगव्यां तु धिग्वणः ॥ [मनु १०.१५]
इति मनु-स्मृतेस् तद्-उत्तमत्वम् आलम्ब्य क्षत्रिय-कन्या अपि परिणेष्यामीत्य् अनुक्त्वा प्रार्थन-व्यञ्जना च । आपात-गमनेनैषां प्रीति-भङ्गः स्याद् भवतां तु न कोटि-कल्पान्तरेऽपीति भावः । तद् एव स्थापयति ज्ञातीन् साक्षात् पित्रादीन् स्नेह-दुःखितान् द्रष्टुम् एष्यामः पश्यन्त एव स्थातुम् आगमिष्याम इत्य् अर्थः । तद् अर्थतानां विहितेन तु तुमुन् प्रत्ययेन तस्यैव पुरुषार्थत्व-व्यञ्जनात् । यद् वा, तथापि भूमन् महिमा-गुणस्येत्य् अत्र बोध-गोचरी-भवितुम् इतिवद् अत्रापि दृष्टि-गोचरी-भवितुम् इति व्याख्येयं न च यत् किञ्चिद् एव दर्शन-मात्रार्थं किन्त्वविच्छिन्नम् एवेत्य् अभिप्रेत्य् आह—स्नेह-दुःखितान् इति । स्नेहस्य निरवधिकत्वे तद् धेतुकादर्शन-दुःखस्य तादृशत्वम् इति विचार्य यस्मात् करुणा-कुलतया गमिष्यामस् तस्मान् नित्य-निजाविर्भाव-दानेन युष्माकं तद्-दुःखम् अवश्यम् एव दूरीकरिष्याम इत्य् अर्थः । अत्र सुखं विधायेति क्त्वा-प्रत्ययेन तस्य तु पुनर् अपेक्षणीयत्वं दर्शितं तद् एवं ज्ञातिषु भवत्सु नित्यावस्थानम् एव युक्तं तेषु सुहृत्सु पुनर् ऐच्छिकम् एव तद् इति भावः । किं च सुहृदां सुखं विधायेति मध्ये मध्ये समागमने कदर्थनैव स्यात् । व्रजम् आगत्य श्री-कृष्णस्य नित्यावस्थितिश् च दन्तवक्त्र-वधान्ते स्थापयिष्यते । श्री-नन्दस् तु तद् एतत् सर्वं तद् अभिप्रेतं, न तदानीं सदावगतवान् क्रमेणैव तु बार्द्धेति गम्यम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव स्पष्टयति—यातेति ॥ ज्ञातीन् पित्रादि-रूपान् । इति भवन्-मध्य एव मम वासो भवितेति भावः द्रष्टुम् इति । भवद्-दर्शनम् एव मम तत्र पुरुषार्थः । सुहृदां भवत्-सख्यादि-सम्बन्धेनैव पित्रादि तया मतानां श्री-वसुदेवादीनां सुखं विधायेति तद्-इच्छया तत्-तत्-कार्य-साधनाय स्वस्मिन् यादव-पाण्डवादि-मिलनेच्छया तद्-औरसत्व-ख्यापनापूर्वं वा तद्-विद्वेषि-दन्तवक्त्र-पर्यन्त-दुष्ट-वधाव् अधिकम् अभीष्टं सम्पाद्येत्य् अर्थः ॥२३.४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च हन्त हन्त ! किम् अहं करोमि ? यदि बलदेवं नीत्वैव व्रजं यामि तदा व्रजे महा-सुखं भविष्यति किं त्व् अत्र यादवानां विशेषतो वसुदेवस्य महा-दुःख भविष्यति ममापि महाकङ्कओ भावी हा-हा कंसेन मे सर्वे पुत्रा हता यस् त्व् एक्वस् तद् धस्ताद् अपि रक्षितोऽवसिष्टोऽभूदयं बल-भद्रस् तम् अपि नीत्वा नन्दो व्रजं जगाम तन् मे कृष्णस्यापि कुतः कुशलम् इति भावनासंकट-ग्रस्त नन्दं कतिशः क्षणास् तूष्णीम् एव स्थितम् आलक्ष्य तं युक्त्या प्रबोधयन् कृष्णः ससान्त्वनम् आह । यातेति । हे तात ! यूयं सम्प्रति व्रजं यात वयम् इत्य् अहं बलदेवो मधुमङ्गलादयः प्रिय-सखाश् च वो ज्ञातीन् द्रष्टुम् एष्यामः प्रम्प्रति कटिशो दिनान्य् अत्रैव पुर्यां वसेमेति भावः । कदा आयास्यथेत्य् अत आह । वः सुहृदां वसुदेवादीनां सुखं विधायेति यथा त्वां कलङ्को न स्पृशेत् यथैतेषां स्व-पुत्रं बलदेवं प्राप्याभिमत्य संलाल्यास्मद्-गृहे स्थास्यवीति विश्वस्य सुखं भवेत् तथा कृत्वेत्य् अर्थः ॥२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२४ ॥
एवं सान्त्वय्य भगवान् नन्दं स-व्रजम् अच्युतः ।
वासो-\ऽलङ्कार-कुप्याद्यैर् अर्हयाम् आस सादरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-व्रजं व्रज-वासिभिः सहितम् । कुप्यानि स्वर्ण-रजतादि-व्यतिरिक्त-कांस्य-पात्रादीनि तत् प्रभृतिभिः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सान्त्वय्येत्य् अत्र हेतुः । भगवान् सर्वं कर्तुं समर्थ इत्य् अर्थः । मत्-पुत्रोऽयं सत्य-वाक्यात् कदापि च्युतो न स्याद् इति श्री-नन्द-सम्भावनोत्पादनायेति भावः । सव्रज सर्व-व्रजनैः सहितं ये तत्र सङ्गे गतास् तान् साक्षाद् एव तत्-तादृश-प्रणय-वाक्येन तत्-तत् प्रदानेन च ये च व्रजस्थाः श्री-यशोदादयस् तान् अपि तत्-तत्-प्रेषणेन चेत्य् अर्थः । कुप्यानि गोदोहनाद्य् अर्थं कांस्यादि-पात्राणि आदि-शब्दाद् उत्तम यानादिनि । व्रजस्य तत्-तद् अधिक-सम्पत्-सद्भावेऽपि तत्-तद् दानं प्रीतिमयत्वाद् व्यञ्जिततमं गन्ध-पुष्पादिवत् तद् एवाह सादरं यथा स्यात् ।
यद् वा, सडरं श्री-नन्दं पुत्रेण यद् उच्यते क्रियते वा तत्र तत्रैव स्नेहभरेण प्रीयमाणम् इत्य् अर्थः । अर्हयामासेति श्री-वसुदेवोग्रसेनादीनानाय्य तद्-द्वारा पूजयामास स्वयन्तु सान्निध्येनैव हेतुर् आसीद् इत्य् अर्थः । कारीषोऽग्निर् अध्यापयतीति वत् तदा युक्तत्वात् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सान्त्वयेत्य् अत्र हेतुः—भगवान् इति सवं कर्तुं शक्त इत्य् अर्थः । किं च, अच्युत इति मत्-पुत्रोऽयं सत्य-वाक्यात् कदापि च्युतो न स्याद् इति श्री-नन्द-सम्भावनयापीत्य् अर्थः । सव्रजं सर्व-व्रज-जनैः सहितम्, ये तत्र सङ्गे गतास् तान् साक्षाद् एव तत्-तन् नाम्ना तत्-तत्-प्रेषणेनेत्य् अर्थः । कुप्यानि गोदोहनार्थं दुग्ध-पाकाद्य् अर्थं च तत्-तद्-जोग्यानि चिरस्थायीनि कांस्यादि-पात्राणि, आद्य-शब्दाद् उत्तम-पात्रादीनि, आदरः श्रद्धा, तत्-सहितं यथा स्यादित्यौदासीन्यं निरस्तम्, तच् च सवं व्रजे पुनर् निजागमनं प्रति श्री-नन्दडीनां विश्वासोत्पादनार्थम् । यद् वा, सादरं नन्दं पुत्रेण यदुच्यते क्रियते वा तत्र तत्रैव स्नेहभरेण प्रीयमाणम् इत्य् अर्थः । अयम् अर्हणे सान्त्वने च हेतु-विशेषः, तथापि वस्त्रादिभिर् अर्हण-प्रयोजनं तद् एव ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सान्त्वय्य् एत्य् अत्र हेतुः । भगवान् सर्वं कर्तुं समर्थ इत्य् अर्थः । मत् पुत्रोऽयं सत्य-वाक्यात् कदापि च्युतो न स्याद् इति श्री-नन्द-सम्भावनोत्पादनायेति भावः । सव्रज सर्व-व्रज-जनैः सहितं तत्र सङ्गे गतास् तान् साक्षाद् एव तत् तादृश-प्रणय-वाक्येन तत्-तत् प्रदानेन च ये च व्रजस्थाः श्री-यशोदादयस् तान् अपि तत्-तत्-प्रेषणेन चेत्य् अर्थः । कुप्यानि गोदोहनाद्य् अर्थं कांस्यादि-पात्राणि आदि-शब्दाद् उत्तम यानादीनि । व्रजस्य तद् तद् अधिक-सम्पत् सद्भावेऽपि तद्-तद् दानं प्रीतिमयत्वाद् व्यञ्जिततमं गन्ध-पुष्पादिवत् तद् एवाह सादरं यथा स्यात् । यद् वा, सादरं श्री-नन्दं पुत्रेण यद् उच्यते क्रियते वा तत्र तत्रैव स्नेहभरेण प्रीयमाणम् इत्य् अर्थः । अर्हयामासेति श्री-वसुदेवोग्रसेनादीनानाय्य तद्-द्वारा पूजयामास स्वयन्तु सान्निध्येनैव हेतुर् आसीद् इत्य् अर्थः । कारीषोऽग्निर् अध्यापयतीति वत् तदा युक्तत्वात् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यत यूयम् इत्य्-आदि ज्ञातीन् व इति नन्दादयोऽपि यादवा एव, अन्यथा ज्ञातित्वानुपपत्तेः । एष्याम इति भगवतः सत्यवाक्त्वात् तत्र गमनं मध्ये मध्ये भवतीति बोद्धव्यम् । प्राकृतानुपयोगित्वात्तत् पुनर् न विवृतम् । यद् वा, नित्य-वृन्डवनस्थ--रूपेण मध्ये मध्ये तेषं साक्षाद्-भवतीति एष्याम इति पदस्य भावः ॥२४.४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सान्त्वय्येति । यद्य् अत्र मम कतिचिद् दिनविलम्बो भवेत् तदापि न ब्याकुली-भवितव्यं मम तत्रैव मनोऽस्त्यत्रत्वेतद् अनुरोधैनेव स्थितिर् इति स-व्रजं व्रजवासिभिः सहितं कुप्यानि स्वर्ण-रजतातिरिक्त-कांस्यादि-पात्राणि तत् प्रभृतिभिः ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२५ ॥
इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणय-विह्वलः ।
पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । इत्य् उक्त इत्य् अस्य यात यूयम् [१०.४५.२३] इत्य् आद्य् अन्त-पूर्वपद्यत्रयेण व्यवहितेनाप्य् अन्वयः । प्रणय-विह्वल इति स्तम्भ-मोहादिकं च सूचयति । गोपैः सहेति तेषाम् अपि प्रत्येकम् आलिङ्गनं तथा प्रेम-विह्वलत्वादिकञ्चोक्तम् ।
अहो भगवतो नौमि बलात् सर्व-प्रवर्तनम् । > प्राहिणोद् यः स्व-शून्येऽपि श्री-नन्दादीन् अपि व्रजे । > त्वां व्रजेश्वरि शोचामि त्वां च वृन्दावनेश्वरि ।
कृष्णं विना गतेष्व् एषु हा हा जीविष्यथः कथम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति यात यूयम् इत्य् आद्य् उक्तः सन् इति अर्हऽणेऽपि सति तत्रादर-विशेषाभावाद्-व्रजयाने एष्यामः इत्य् एतम् एव हुतुम् अभिप्रैति—प्रणय-विह्वल इति । परिष्व् अङ्गे दार्ढ्यादिकम् अश्रुभिः पूरणेनावच्छिन्न-धारत्वादिकं च तथा मुहुर् आर्तनाद-स्खलन10-मोहादिकं सूचयति । गोपैः सहेत्य् अनेन तेषाम् अपि प्रत्येकम् आलिङ्गनम्, तच् च क्रमतस् तच् छक्ति-विशेषेण युग-पद् एव वा, तथा प्रेम-विह्वलत्वादिकं चोक्तं । यद् वा, प्रणय-विह्वल इत्य् अनेन रोधनं सूचितम् एव, ततश् च तयोः सर्वेषाम् एव नेत्रे पूरयन् तौ गोपान् यादवांश् चात्य् अर्थः । एवं श्री-वसुदेवोग्रसेनादिभिः सह तस्य विदूरतः श्री-नन्दानुव्रजने हेतुः । प्रणयेति स्नेहभरेण कथञ्चित् कदाचिद् अपि तद् उक्तम् अतिक्रम् इतुं न शक्यत इत्य् अर्थः । अत एव गोपैर् अपि सहितः, अन्यत् समानम् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् उक्त इत्य् अस्य यात यूयम् इत्य् आद्य् अन्त पूर्व-पद्यत्रयेण व्यवहितेनाप्य् अन्वयः । प्रणय-विह्वल इति स्तम्भ-मोहादिकं च सूचयति गोपैः सहेति तेषां अपि प्रत्येकम् आलिङ्गनं तथा प्रेम-विह्वलत्वादिकं चोक्तं ।
अहो भगवतो नौमि बलात् सर्व-प्रवर्तनम् । > प्राहिणोत् यः स्व-शून्येऽपि श्री-नन्ददीन् अपि व्रजे । > त्वां व्रजेश्वरि ! शोचामि त्वां च वृन्दावनेश्वरि ! > कृष्णं विना गतेष्व् एषु हा हा जीविष्यथः कथम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रणय-विह्वलः पुत्र-विच्छेदोत्थ-मूर्च्छा विवशः व्रजं ययौ राम-कृष्णौ तौ तु श्री-वसुदेवस्य गृहम् आगत्य सुखं वर्तेते स्मेति अत्र केचिद् रसज्ञाः प्रेम्णोऽणु-मात्रम् अप्य् अपचयम् असहमाना आक्षिपन्तो विवदन्ते इति तां च समाधित्सामो व्याख्यान्तरेण तच् च ये उपादित्सते त एवोपाददतां तत्रायम् आक्षेपः पितर् युवाभ्याम् इत्य्-आदि-श्लोक-पञ्चकस्य यथाश्रुतार्थः खलु प्रेम-प्रतिकूल एव स्पष्टः एतावता व्याख्यानेनापि न प्रेमा स्थिरी-भवति नन्द-कृष्णयोर् मिथस् त्यागात् तत्रापि कृष्णः खल्वीश्वरो दुउगम-लीलो नन्दं पितरम् अपि त्यक्त्वा तिष्ठतु नाम नन्दस् तु कृष्णं त्यक्त्वा कथं व्रजं गन्तुम् अशकत् प्राण-कोड्य् अधिक-प्रेष्ठं तम् अप्य् उपेक्ष्य व्रजे गोधनाद्य् अपेक्षैव किं तस्य दुस्त्य्जाभूत् मथुरा-प्रान्त एव तावत् कालं किं नावसत् तद् व्याख्यानं चैवं श्री-नन्द-प्रबोधनामात्रोपक्षीणं न तु राम-कृष्णयोस् तादृश्येव मनसि निष्ठा वास्तवी यतो रामोऽपि व्रज-मायास्यन् दशमे वर्णितो न तु कृष्णः निखिलान् स्व-वध्यान् शत्रून् दन्तवक्त्र-पर्यन्तान् हत्वा निश्चिन्तीभूय यद् व्रजागमनं पद्मोत्तर-खण्ड-दृष्ट यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वेति प्रथम-स्कन्धीय-वाक्यज्ञापितं च वर्तते तद् अपि न प्रेम-लक्षणं सङ्गमयति तथा हि तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्घाने यदूत्तमः । सान्त्वयामास स-प्रेमैर् आयास्य इति दौत्यकैर् इति शुकोक्तौ दौत्यकैर् दूत-वाक्यैर् इति टीकाकाराणां व्याख्यानं तत्र बहुवचनेन बहूनां दूतानां वाक्यैर् एकस्यैव वा दूतस्य आयास्ये आयास्ये आयास्ये अवस्यम् आयास्याम् एवेति पुनः पुनर् उक्तेर् इति बुद्धते कीदृशैः स-प्रेमैः प्रेम-सहितैर् इति दुर्लङ्घ्याज्ञस्य राज्ञो धनुर् मख-दर्शनार्थक-निमन्त्रणानुरोधेनैवाद्य मथुरां युष्मांस् त्यक्त्वा यामि न तु स्वेच्छया । अतः श्वो धर्मुर् मखं दृष्ट्वा परश्व आयास्यामि तत्र यदि कार्यान्तरम् आपतेत् तद् अपि श्व एव कृत्वा परश्वस् तु शीघ्रम् आयास्याम्य् एवेत्य् एषोऽर्थ एव कृष्णस्य यदि वाङ् मन-नसयोः स्यात् तदैव तद् वाक्यानां प्रेम-सहितत्वं स्याद् अन्यथा तु कपट-सहितत्वम् एव यथा न लब्धो दैवहतयोर् वासो नौ भवद् अन्तिके । यां बालाः पितृ-गेहस्थाः विन्दन्ते लालिता मुदम् इत्य्-आदिदेवकी-वसुदेव-मोहनार्थकानां तद् वाक्यानाम् इति सन्तु वा तद् वाक्यानि तादृशान्य् एव श्री-शुखदेवः कथं स-प्रेमैर् इत्य् अनेन तानि विशिनष्टि स्म तत् तस्माद् यदि जरासन्धादि-दुष्ट-दमनादि-नानाकृत्यान्य् अनपेक्ष्यैव कंस-वध-परदिन एव कृष्णः श्रीघ्रं व्रजम् आगच्छेत् तदैव तस्य गोपीनां प्रेम्ण्य् अपेक्षा स्याद् अन्यथा तूपेक्षैव स-प्रेमैर् इति पदार्थश्चालीक एव स्यात् तस्माद् अत्रोपोपत्तिश् चिन्तनीया तत्रेयं चिन्ता वसुदेवादयोऽपि प्रेमवन्तो भवन्त्येवेत्य् एषाम् अप्य् उपेक्षा अनुचिता नन्दादयस् त्व् असमोर्ध्व-प्रेमवन्तस् तेषाम् उपेक्षा सर्वथैवानुचिता जरासन्धादि-दुष्ट-वध-शिष्ट-पालनम् अप्य् अवतार-प्रयोजनम् अवश्यं सम्पाद्यं रुक्मिण्यादि पारिजाताद्य् आहरण-धर्म-पुत्रादि-साहित्य-विचित्र-चरित्रात्मिका द्वारिकादि-लीलाप्य् अवश्य-प्रकाश्या धनुर् मखं दृष्ट्वैवायास्यामीति गोपीष्व् आगमनं प्रतिश्रुतं च सत्यं कार्यं वह्नि-दाहेन कनक-स्वरूपम् इव महा-प्रवास-विप्रलम्भ-प्रकाशितं तासाम् असमोर्ध्व-प्रेम-स्वरूपं च मथुरा-द्वारका-प्रेम-परिकर-मुख्यम् अभिज्ञ-चूडा-मणिमुद्धवं दर्शयित्वा तस्येव प्रेम्णः सर्वोत्कार्षश् च ख्यापनीय इत्य् आद्यावश्यक-निखिल-कृत्य-समाधात्रीमतर्क्यैश्वर्या स्वीय-योगमाया-शक्तिम् आश्रित्य बलदेव-सहित एव कृष्णः श्री-नन्दं पितरम् आसाद्य तदैव तेषां नन्दादीनां स्वस्य च द्वौ द्वौ प्रकाशाव् आविर्भाव्य प्रथमेन प्रकाशेन श्री-नन्दं प्रति पितुर् युवाभ्याम् इति श्लोकत्रयं यद् उवाच तस्य एवं सान्त्वथ्येति तद् उत्तरस्य श्लोक-द्वयस्य च व्याख्याकृतैव तत्रैव प्रकान्तरेण वर्तमानौ कृष्ण-रामावाहतुः पितर् इति युवाभ्यां स्निग्धाभ्यां आवां कृष्ण-रामौ द्वाव् अपि पोषितौ लालितौ चेति युवयोर् आवां पोष्य-पुत्राव् एव न त्वात्मजौ किम् इत्य् आवाभ्यां त्वां पृच्छ्यसे अत्र तत्त्वं ब्रूहि अत्रत्यास् तु नन्दस्य पोष्य-पुत्राव् एवेत्य् उग्रसेनादयः सर्व एव यादवा ब्रुवन्ति अत एव देवकी-वसुदेवौ आवाम् आत्मजौ मत्वा लालनादिकं मथुरायाम् अत्रैव बहुतरं निरुद्धय रक्षितुम् ईहेते त्वत् समीपम् आयातुम् अपि न ददाते त्वं तत् प्रिय-सखोऽपि लौकिक-रीत्या शो भोजनार्थम् अपि न निमन्त्रितः । अद्यापि त्वं मिलितुम् अपि केऽपि यादवा नायान्ति आवां त्वतितराम् उद्विग्नौ तैर् अलक्षितं बलात् पलाय्यैव त्वत् समीपम् आयाताव् इति भावः ।
ननु, भोः कृष्णः ! त्वं पूर्व-जन्मनि वसुदेवस्य पुत्र आसीर् एव प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मज इति त्व्न् नामकरण-समये गर्गेणोक्त तेनैव वसुदेवं प्रत्य् अपि तथैवोक्तम् इत्य् अनुमिमे अतो वसुदेवस् त्वां गुणार्णवम् एतज् जन्मन्य् अपि पुत्रत्वेनाभिमत्य जिघृक्षति बलदेवं स्व-पुत्रं तु स्व-गृहं नेष्षत्य् एवेत्य् अहं एव तत् त्वाम् अप्य् अहं पृच्छामि एतेषां वाचैव त्वं किम् आवां पोषकौ पितराव् एव संप्रति मन्यसे आवयोः किं त्वं षोष्य एव पुत्रोऽभूस् तत्र कृष्णः सास्रम् आह । पित्रोः ख्व आत्मजेष्व् एव पुत्रेषु आत्मनो देहात् जीवात्मनश् चापि सकाशाद् अप्य् अधिका प्रीतिर् भवेत् । यद्य् अहं युवयोः पोष्य एव पुत्रः आत्मजस् तदा कथम् अहं युवयोर् आत्म-प्राण-कोटेर् अपि प्रियोऽभूवम् अतस् त्वद् वैरिणां वसुदेवादीनां मुखम् अप्य् अतः परं न द्रक्ष्यामीति भावः ।
ननु, भो वत्स ! बलदेव ! तव कोऽभिप्रायस् तं ब्रूहीत्य् अत आह । स पितेत्य् आदि । तद् अहं वसुदेव गृहे त्वां कृष्णं च हित्वा नैव स्थास्यामि यदि स्वयं ब्रह्माप्य् आगत्य वदेद् इति पूर्व-व्याख्यात एव भावः । ततश् च यदि बददेवम् अपि नीत्वा व्रज यामि तर्ह्यते महा-दुःखिनो भविष्यन्ति एतैः स्वार्थपरैर् मयि वैरभावः कृत एव अहं तु वैरं कथं करवाणीति क्षण चिन्तयन्त व्रज-राजं ता सत्वरम् आहतुः । यातेति हे तातेति हे तत ! यूयं व्रज यात वयं च व्रजं यामः न चात्र क्षणम् अपि विलम्ब्यताम् इति भावः ज्ञातिश् चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् इति नीति-शास्त्रं जानास्येव तद् अपि स्वसाधुत्वेन यद्य् एषां दुःख-गन्धम् अपि सोढुं न शक्नोमि तहि श्रृणु तद्-ब्रूमहे इत्य् आहतुः । ज्ञातीन् इति । वो युष्माकं यादवत्वेन ज्ञातीन् वसुदेवादीन् द्रष्टुम् एष्यामः सुहृदां तत्रत्यानां सौहार्दवतां जनानां स्व-दर्शन-दानादिना सुखं विधाय इति ताभ्याम् उक्तस् तौ कृष्ण-रामौ वाम-दक्षिणाभ्यां भुजाभ्यां पारष्वस्ज्यैव कृपणः स्व-धनम् इव न तु स्वाङ्ग-विच्युतीकृत्येत्य् अर्थः । प्रणयानन्द-विवशः श्रुभिर् आनन्द-धाराभिर् नेत्रे पूरयन् नेत्रे पूरयन्न् एव कनक-शटम् आरुह्य व्रजं ययौ अतो योगमायाप्रभावात् परस्परालक्षित एको नन्दः कृष्ण-वियुक्त एव व्रजं ययावन्य् अस्तु कृष्ण-संयुक्त इति एवं च व्रजस्थानाम् अपि सर्वेषां गोपी-गोप-पश्वादीनां प्रकाश-द्वयीकरणाद् एके कृष्ण-वियुक्तेन नन्देन सह दुःख-समुद्रोनमग्ना अन्ये कृष्ण-सक्तेन नन्देन सहानन्द-समुद्रं निमग्ना व्रज एव तत्र परस्परम् अलक्षिता असंपृक्ता एव वर्तन्ते स्म यथा द्वारकायां नारद-दृष्ट-प्रकाशेषु एकत्र कृष्ण लालयन्ती भोजयन्ती देवकी परमानन्द-निमग्ना तदैवान्य् अत्र कृष्ण-वियुक्ता हन्त हन्त मृगयां कृत्वा अधुनापि मत् पुत्रो नायातः क्षुधातृषा व्याकुल इति वदन्ती परम-दुःखे निमग्नैवेति यद् उक्तम् भागवतामृते आश्चर्यम् एकदैकत्र वर्तमानान् अपि ध्रुवम् । परस्परम् असम्पृक्त-स्वरूपाण्य् एव सर्वथेति यद्य् अपि प्रकाशस् तु न भेदेषु गण्यते स हि नो पृथग् इत्य् उक्तेर् वस्तुतो न प्रकाशानां भेदस् तद् अपि अभिमान-चेष्टादीनां लीला-शक्तिप्रभावाद्-भेदस् तिष्ठत्य् एवेति योगमाया-विभूत्य् अध्याये बहुलाश्रुत-देवोपाख्याने च व्यक्ती-भविष्यतीति प्रकाश-द्वयस्य क्रमेण प्रयोजन-द्वयं यथा स्वायकनकस्यानर्ध्यस्य स्वरूप-ज्ञापनार्थम् एव यथा वह्निना तत् सन्दह्यते तथैव स्वीय-सर्व-प्रेम-परिकर-मुख्यम् अप्य् उधव दिव्योन्माद-चित्र-ज्ल्यादिभिर् महा-चमत्कारमयं प्रकाश दृष्ट्वा महा-प्रेम-चमत्कारम् आप्नुवन्नेताः परं तनुभृतो भुवीति नायं श्रियोऽङ्केति आसामहा चरण-रेणु-जुषाम् इत्य्-आदि-पदैस् तत् प्रेम्ण एव सर्वोत्कर्षम् उद्धोषयिष्यति स एव प्रकाशः कुरु-क्षेत्रं गत्वा देवकी-वसुदेवादीन् रुक्मिण्यादीश् च स्वं दर्शयित्वा महा-प्रेम-चमत्कार प्रापयिष्यति बलभद्रापि व्रजं गतस् तम् एव प्रकाश प्रेमान्मादमयं दृष्ट्वा चमत्कारम् आप्स्यतीति व्रज-विषयक स्वाश्रयक प्रेमाण निश्चलम् एव ज्ञापयितुं द्वितीयः संगोगमयः प्रकाशः, अत एव विशोका अहनी निन्युर्गायन्त्यः त्रिय-चेष्टितम् इत्य् अत्राहनी इति द्वि-वचनेन द्व अहनी व्याप्यैव विच्छेदो न तत इति ज्ञापितम् उद्धवेनापि हत्वा कंस रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं कराति तद् इति तदा वर्तमान-काल एव प्रयुक्तः तथा तेन व्रज-प्रवेशे प्रथमं स संयोगमय एव प्रकाशः सामान्यतो द्रक्ष्यत यद् वक्ष्यते वासितार्थभियुद्ध्यद्भि-युद्ध्यद्भिर् नादित शुस्मिभिवृषैर् इति गोदोह-शब्दाभि-रव वेणूनां निखनेन चेति स्व-लङ्कृताभि-गोपीभिर् गोभश् च सुविराजितम् इति तादीपदीप्तेर् मणिभिविरेजु रज्जु-विकर्षद् भजकङ्कण-स्रजः चलन् नितम्ब-स्तन-हार-कुण्डलत्विषत्-कपोलारुण-कुङ्कुमाननाः सामान्यता द्रक्ष्यते उद्गायतीनाम् अरविन्द-लोचनम् इत्य्-आदि कृष्ण-सयोगानन्द-लक्षणम् इत्य् एवं प्रकाश-द्वयस्य प्रयोजन प्रमाण चाक्तम् ॥२५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२६ ॥
अथ शूर-सुतो राजन् पुत्रयोः समकारयत् ।
पुरोधसा ब्राह्मणैश् च यथावद् द्विज-संस्कृतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरोधसा गर्गाचार्येण द्विज-संस्कृतिम् उपनयनम् ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ नन्दागमनोत्तरम् । ब्राह्मणैर् अन्यैः सभ्यादि-रूप-कर्मार्थम् आगतैः सह । यथावत् । क्षत्रियोचित-दण्ड-चर्मादिभिः
पालाशं ब्राह्मणस्योक्तं बैल्वं क्षत्रस्य वै विशः । > औदुम्बरं मार्ग-सैहवास्त-चर्माणि वै क्रमात् ॥ इत्य्-आदि उक्तेः > ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
हा व्रजेश्वरि शोचामि नितरां व्रजदेवि ते । > कृष्णं विना गते नन्दे प्राणान् रक्षिष्यथः कथम् ॥
अथ तद्-अनन्तरं श्रीवल्लवेन्द्रस्य व्रजे यानतः पुत्रयोर् मधुपुरीस्थितिर् निधारेण तत्-संस्कारस्यात्मनैव कृत्यत्वात् । शूर-सुत इति स्वपित्रा सहित इति सूचयति । श्लेषेण सर्वार्थे समर्थ इति, अतो यथावत् सर्व-मुख्य-विध्यादि-सहितं यथा-स्यात्-तथा सम्यगकारयत् । हे राजन्न् इति क्षत्रियतेन तत्-प्रकारो भवता ज्ञायत एवेति किं तद् विशेष-वर्णनेनेति भावः । किं वा, राजमानः सन्, हर्ष-भरोदयात्, अतः श्री-रोहिणीम् अपि व्रजाद् आनयामासेति ज्ञेयम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तद्-अनन्तरम् इति युक्तत्वात् शूरसुत इति स्वपित्रा सहित इति सूचयति । अतः श्री-रोहिणीम् अपि व्रजादानयामास इति ज्ञेयम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुराधसा गगणं द्विज-सस्कृतिम् उपनयनम् ॥२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२७ ॥
तेभ्योऽदाद् दक्षिणा गावो रुक्म-मालाः स्व्-अलङ्कृताः ।
स्व्-अलङ्कृतेभ्यः सम्पूज्य स-वत्साः क्षौम-मालिनीः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गावो गाः रुक्मय माला विद्यन्ते यासां ताः क्षौम-वस्त्र-मालावतीः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यो ब्राह्मणेभ्यः । क्षौमं वस्त्रं मालाः पुष्प-मालाश् च विद्यन्ते यासां तास् तथा ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्ठु अलङ्कृतेभ्यः, सम्यक् पूजयित्वेत्य् अनेन यथाविधि श्रद्धयोत्तम-प्रचुर-वस्त्रालङ्कार-धनादि-दानं च बोध्यते ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रुक्मेति तैर् व्याख्यातं तत्र विद्यन्त इति पद-न्यासाद् रुक्म-मालिनीर् इति मत्वर्थीयान्त-पाठस् तर्क्यते स च कुत्रापि न दृश्यते इति तद् विचार्यं स्वलङ्कृतेभ्य इति कर्म-प्रत्ययेन दातृकत्तृकत्वम् एव बोध्यते ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षौम-वस्रमाल्यवतीर् गाः ॥२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२८ ॥
याः कृष्ण-राम-जन्मर्क्षे मनो-दत्ता महा-मतिः ।
ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : याः पूर्वं मनो-दत्ता आसंस्ता एवाददात् । ननु ताः कंसेनापहृताः, सत्यम्, राज-गोष्ठाद् आच्छिद्य दत्ता इत्य् आह—कंसेनाधर्मत इति ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोदान आशङ्कते—नन्व् इति । राम-कृष्नयोर् जन्मर्क्षे तद् उपलक्षित-समय इत्य् अर्थः । अतः कृष्णावतारोत्सव इत्य्-आदिवद् राम-जन्म श्रुत्वापि तथैवादाद् इति बोद्धव्यम् । तथा दाने हेतुः-महामतिर् इति । तज् जन्म-समये भाविवृत्त-ज्ञानाद् अधुना च तद् अनुस्मरणाद् इति भावः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राम-कृष्णयोर् जन्मन ऋक्षे समय इत्य् अर्थः, तत्र—कृष्णावतारोत्सव-सम्भ्रमोऽस्पृशन् मुदा द्विजेभ्योऽयुतम् आप्लुतो गवाम् [भा।पु १०.३.११] इतिवत् गोकुले श्री-रोहिण्यां राम-ज्न्म श्रुत्वापि सद्यस् तथैवादादित्ये-तस्माद् एव वचनाद् वोद्धव्यम् । महामतिर् इति परम-मेधावित्वौदार्यादिकम् उक्तम्, अतोऽनुस्मृत्यताश् च तेभ्यो दत्तवान् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राम-कृष्नयोर् जन्म-नक्षत्रे तद् उपलक्षित-समय इत्य् अर्थः । अतः कृष्णावतारोत्सवेत्य् आदिवत् राम-जन्म श्रुत्वापि तथैवादाद् इति बोधव्यं तथा दाने हेतुर् महामतिर् इति । तज् जन्म-समये भाविवृत्त-ज्ञानाद् अधुना च तद् अनुस्मरणाद् इति भावः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनसा दत्ता या यावत्य आसन् कंसनापहता इति ता एव स्वीया राज-गोष्ठादाच्छिद्य अददात् ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.२९ ॥
ततश् च लब्ध-संस्कारौ द्विजत्वं प्राप्य सुव्रतौ ।
गर्गाद् यदु-कुलाचार्याद् गायत्रं व्रतम् आस्थितौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गायत्रं व्रतं ब्रह्मचर्यम् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत उपनयनोत्तरम् । द्विजत्वं क्षत्रियत्व-सम्पादक-धर्मम् । व्रतं तज्-जप-रूप-नियमं वा । गर्गाद् इति तच्-छिक्षयेत्य् अर्थः । गायत्रम् इति प्राजापत्य-ब्राह्मयोर् अप्य् उपलक्षणम् । तत्र गायत्रं गायत्रीम् अधीयानस्य त्रि-रात्र-व्यापि प्राजापत्यं वेदारम्भ-पर्यन्तम् । ब्राह्मं तत्-समाप्ति-पर्यन्तम् । अत एव सामान्यतो ब्रह्मचर्यम् एव तैर् व्याख्यातम् । सुव्रतौ सन्तौ ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुव्रतौ तन्त्रोक्त-नियम-निष्ठौ सन्तौ । किं वा, सदा सर्वस्वं दत्त्वन्ताव् अपि आस्थितौ स्वीचक्रतुः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गर्गाद् इति तच् छिक्षयेत्य् अर्थः । गायत्रम् इति प्राजापत्य-ब्राह्मयोर् अप्य् उपलक्षणं तत्र गायत्रं गायत्रीम् अधीयानस्य त्रि-रात्र-व्यापि-प्राजापत्यं वेदारम्भ-पर्यन्तं ब्राह्मं तत्-समाप्ति-पर्यन्तम् । अत एव सामान्यतो ब्रह्मचर्यम् एव तैर् व्याख्यातम् । सुव्रतौ सन्तौ ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गायत्रं ब्रय्ह्मचर्यम् ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : गायत्रं व्रतं ब्रह्मचर्यम् ॥२९॥
॥ १०.४५.३०-३१ ॥
प्रभवौ सर्व-विद्यानां सर्व-ज्ञौ जगद्-ईश्वरौ ।
नान्य-सिद्धामलं ज्ञानं गूहमानौ नरेहितैः ॥
अथो गुरु-कुले वासम् इच्छन्ताव् उपजग्मतुः ।
काश्यं सान्दीपनिं नाम ह्य् अवन्ति-पुर-वासिनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकर्षेण भवन्त्य् आभ्याम् इति प्रभवौ अत एव सर्वज्ञौ स्वतः सिद्धम् अमलं ज्ञानं नर-चेष्टितैः प्रच्छादयन्तौ ॥३०.३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रभवौ मूल-कारणे । अत एव सर्व-ज्ञान-कारणत्वाद् एव । नान्येन तप-आदिना सिद्धं, किं तु स्वाभाविकं यद् अमलं वेद-रहस्य-रूपं ज्ञानम् । प्रभवाव् इति युग्मकम् ॥३०॥
अथो अतः । काश्यां पठितवान् काश्यस् तम् । केचिद् इह काश्यम् इति पठन्ति तन् नादर्तव्यम् । तदोपनीतो भगवान् अवन्ती-नगरं ययौ । चकार विद्या-ग्रहणं मुनेः सान्दीपनेर् गुरोः । इति ब्रह्म-वैवर्तोक्तेः। शिष्टास् तु काश्यम् इत्य् एकदेश-न्यायेन कश्यप-गोत्रोद्भूतम् इत्य् अर्थम् आहुः । उपजग्मतुः रथम् आरुह्येति ज्ञेयम् । रथस्य वक्ष्यमाणत्वात् । काश्यं काश्यां जातम् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं सर्व-विद्यानां प्रभवाव् अपि तत् सर्वं लोक-शिक्षणार्थम् एवेति ग्राहयन्ताव् इत्य् अनेन वक्ष्यत एव ॥३०॥
अथो अनन्तरम् । अतो हेतोर् वा । इच्छन्ताव् इति श्री-वसुदेवादीनाम् उपनयने यथेच्छा नास्तीति सूचयति—विच्छेदादि-दुःखात् प्रयोजन-विशेषाभावाच् च । उपजग्मतुः—समीपे गतौ रथम् आरुह्येति ज्ञेयम् । रथस्य वक्ष्यमाणत्वात् । काश्यं काश्यां जातम् इति सर्व-सच्-छास्त्राद्य्-अभ्यास-निष्ठत्वम् उक्तम् । सम्यग् दीपयति सर्व-विद्याः प्रकाशयतीति सन्दीपनस् तस्य पुत्रं नामेति तत्-संज्ञया प्रसिद्धम् । देवकीत्य् आदिकद् इत्य् अर्थः । अवन्तीपुर-वासिनम् इति मथुरा-द्वारकयोर् अन्तराल-वर्तित्वेनावन्त्याः स्वीयत्व-ज्ञानात् तत्र गमनम् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च प्रभवाव् इति युग्मकं सर्व-विद्यानां प्रभवाव् अपि अथो अनन्तरम् उपजग्मतुः रथम् आरुह्येति ज्ञेयम् । रथस्य वक्ष्यमाणत्वात् । काश्यां काश्यां जातम् ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्य-सिद्धं स्वाभाविकं ज्ञानं नर-चेष्टितैर् एव यत आच्छादयन्तावथो अत एव गुरु-कुले इत्य्-आदि ॥३०.३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : अनन्य-सिद्धं स्वाभाविकं ज्ञानं नर-चेष्टितैर् एव यत आच्छादयन्ताव् अथो अत एव गुरुकुले इत्य्-आदि ॥३०-३१॥
॥ १०.४५.३२ ॥
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् ।
ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा यथावत् । उपसाद्य प्राप्य गुरौ वृत्तिम् अन्यान् ग्राहयन्तौ शिक्षयन्तौ । गुरुम् उपेताव् उपगतौ । सेवितवन्ताव् इत्य् अर्थः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । शिक्षयन्तौ यद्यद् आचरति श्रेष्ठः इत्य् आद्य् उक्त-सम्पादनार्थम् इत्य् अर्थः । देवम् इवेत्य् अनेन यस्य देवे परा भक्तिर् यया देवे यथा गुरौ इत्य्-आदिकां श्रुतिं सूचयति । अनिन्दिताम् इति विद्याभ्यासं कुर्वता छात्रेणाध्यापकेतर-सेवा न कार्या तन्-निन्दाश्रुतेः
विप्रः शास्त्रम् अधीयानो ह्यन्नपानादिलिप्सया । > विना विद्याप्रदातारं सेवमानः पतत्य् अधः ॥ > भिक्षादिना प्रमुञ्जीत न तु वृत्तिं समाश्रयेत् । > निन्दाभिर् एव सम्शस्य तादृशत्वेन तु नारकी ॥
इति संहितोक्तेः । वृत्तिर् बुद्ध्यादिविकृतौ सेवाजीवनयोर् अपि इति धरणिः ।
यद् वा, अनिन्दिता सेवा गुरोः कार्या न तु तस्मिन् प्रवसिते तद्भार्यारज-समाप्तौ तत्-सङ्गादि-रूपापीत्य् अर्थः । अत्र महारतीया गातैतद् विषयिण्य् अनुसन्धेया
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्ना मनसा कर्मणा च । > तेषां पापं भ्रूण-हत्या-विशिष्टं तेभ्यो नान्यः पापकृच्चास्ति लोके ॥ > इति ।
प्रत्यासन्नच्छात्रादिनावश्यम् आचार्य-सेवा शक्त्य् अनुसारेण कार्येति बोधितम् ।
योऽन्नाद्याप्तये त्यक्त्वा गुरु-सेवां करोति च । > अन्यस्य स च सञ्जेयो नामधारक-छात्रकः । > स तु विप्रो न पूजार्हः कुक्षिभरगणाग्रणीः ॥
इति बहुधा संहिता-भागे वर्णितम् अस्ति वरतन्तुनेति । यथावत् समित्-पाणित्वादि-श्रुत्य्-उक्त-प्रकारेण । दान्तौ संयतौ सन्तौ । तथा च हरि-वंशे—
निवेद्य गोत्रं स्वाध्यायम् आचारेणाभ्यलङ्कृतौ । > शुश्रूषू निरहङ्काराव् उभौ राम-जनार्दनौ ॥ [ह।वं। २.३३.४] इति > ।
वृत्तम् अनुवृत्तिम् । अनिन्दिताम् ईश्वरत्वेऽपि कर्तुं योग्यत्वेन श्लाघ्याम् । स्मेति तद्-वृत्तं प्रसिद्धम् एवेत्य् अर्थः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथावत् कुश-पाणित्वादि-पूर्वक-प्रकारेण यथा गुरूपसत्तिः शास्त्रेण विहितास् ते तद्-अनुसारेणेत्य् अर्थः । दान्तौ संयतौ सन्ताव् उपेतौ । तथा च श्री-हरि-वंशे—
निवेद्य गोत्रं स्वाध्यायम् आचारेणाप्य् अलङ्कृतौ । > शुश्रूषू निरहङ्काराव् उभौ राम-जनार्दनौ ॥ [ह।वं। २.३३.४] इति > ।
अनिन्दिताम् उत्तमां वृत्तिम् वर्तनं वासम् इत्य् अर्थः । अनुवृत्तिं वा । परम-दैवतम् इवादृतौ सादरौ गुरुणा सम्मानितौ सन्तौ वा । स्मेति तद्-वृत्तं प्रसिद्धम् एवेत्य् अर्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथा समित्-पाणित्वादि-श्रुत्य्-उक्त-प्रकारेण दान्तौ तथा च हरि-वंशे—
निवेद्य गोत्रं स्वाध्यायम् आचारेणाभ्यलङ्कृतौ । > शुश्रूषू निरहङ्काराव् उभौ राम-जनार्दनौ ॥ [ह।वं। २.३३.४] इति > ।
वृत्तम् अनुवृत्तिं परम-दैवतम् इव आदृतौ सादरौ गुरुणा सम्मानितौ सन्तौ वा । स्मेति तद्-वृत्तं प्रसिद्धम् एवेत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा यथावत् गुरौ वृत्तिम् उपसत्तिम् अन्यान् ग्राहयन्तौ शिक्षयन्तौ उपेतौ स्म सेवितवन्तौ गुरुणा तेनाप्य् आदृतौ ॥३२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.३३ ॥
तयोर् द्विज-वरस् तुष्टः शुद्ध-भावानुवृत्तिभिः ।
प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुद्धो भावो यासु ताभिर् अनुवृत्तिभिः । साङ्गोपनिषदः अङ्गानि षड्-अङ्गानि शिक्षादीनि तैर् उपनिषद्भिश् च सहितान् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः राम-कृष्णयोः । निखिलान् पदक्रमाङ्ग-जटावल्ल्यादि-सहितान् । आदिना कल्प-व्याकरण-निरुक्त-ज्योतिर् गणच्छन्दोविचितीनां ग्रहः । उपनिषदः केनमाण्डूकाद्याः । शिक्षादीनां लक्ष;नान्य् अक्रूर-स्तुतौ विवेचितानि शुद्धेन भावेन भक्त्या या अनुवृत्तयस् ताभिः । तद् विशेषश् चाग्रे श्रीदाम-विप्रोख्याने श्री-भगवन् मुखाद् एव व्यक्तीभाव्यत एवात्र स्वयं बादरायणिना न प्रपञ्चित इति ज्ञेयम् । अखिलान् चतुरोऽपीत्य् अर्थः । एतद् उपदेशश् च शब्द-मात्रतः, अर्थ-ज्ञानं मीमांसोपदेशेनैव भविष्यतीति तद्-अनन्तरं तत्-पाठ-शुद्धर्थम् आवश्यकत्वाद् अर्थ-सहितान्य् एव तान्यङ्गान्युक्तानि ।
शिक्षा व्याकरणं कल्पो ज्योतिषं छन्द एव च । > निरुक्तं च निरुक्तानि षडङ्गानि मनीषिभिः ॥
इति ज्योतिषोऽङ्गत्वं तद् अर्थ-कालादि-शुद्ध्यपेक्षणात् । अङ्गानन्तरं रहसत्वेनानुपदिष्टचरीर् उपनिषदः । एताश् च पूर्ववत्-प्रथ-शब्दत एव ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शुद्धेन भावेन प्रेम्णा या अनुवृत्तयस् ताभिः, तद् विशेषश् चाग्रेऽशीतितम् आध्याये श्रीदामानुग्रहे श्री-भगवन् मुखाद् एव व्यक्तो भावी, दुःसहत्वाच् चात्र स्वयं श्री-वादरायणिना न प्रपञ्चित इति ज्ञेयम् । गुरुस् तत्-तद् अध्यापकत्वेन प्रसिद्धः । यद् वा, आचार्यत्वेन स्वीकृतः, अतः प्रकर्षेण सस्मेहोत्तम-प्रकारादिनोवाच, न चान्यशिष्यस्योवोपदिदेशेति क्षत्रियत्वेन तत्रापेक्षा-विशेषात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शुद्धेन भावेन भक्त्या या अनुवृत्तयस् स्ताभिः । तद् विशेषशाग्रे श्रीदाम-विप्रोपाख्याने श्री-भगवन् मुखाद् एव व्यक्तो भावी । अत एवात्र स्वयं वादरायणिना न प्रपञ्चित इति ज्ञेयम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.३४ ॥
स-रहस्यं धनुर्-वेदं धर्मान् न्याय-पथांस् तथा ।
तथा चान्वीक्षिकीं विद्यां राज-नीतिं च षड्-विधाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-रहस्यं मन्त्र-देवता-ज्ञान-सहितम् । धर्मान् मन्व्-आदि-धर्म-शास्त्राणि । न्याय-पथान् मीमांसादीन् । आन्वीक्षिकीं तर्क-विद्याम् । षड्-विधां, “सन्धिश् च विग्रहो यानम् आसनं द्वैधम् आश्रयः” इत्य् एवं षड्-विधां राज-नीतिम् ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्क-विद्यां वेदेतिहासाद्य् अर्थ-निर्णायकाम् इत्य् अर्थः । सन्धिः साम, बलवतारिणा मेल इति यावत् । विग्रहो दण्डः, दुर्बलेऽरौ निग्रह इत्य् अर्थः । यानं विजिगीषोररिं प्रति यात्रा । आसनं कदाचिच् छक्ति-प्रतिबन्धे च तत्रैव शत्रोदुर्गमावेष्ट्य तत्र धान्यादि-प्रवेशं प्रविबन्धतावस्थानम् । बलवता विग्रहे बलवत्तरेण तछत्रूणा सन्धिं कृत्वोभयत्र दासोस्मीति वाचैवात्म-समर्पण कर्तव्यं न कर्मणेति स द्वेधीभावस् तद् उक्तं कामन्दके
बलिनोद्विषतो-मध्ये वाचात्मानं समर्पयन् । > द्वैधीभावेन वर्तेत काकाक्षिवद् अलक्षितः ॥ इति ।
अरिणा पीड्यमानस्य बलवद्-भूपदुर्गाद्याश्रयणम् आश्रय इति । एषाम् अवन्तर-भेदा विस्तरभिया न लिखिताः । सरहस्यम् इति सार्ध-द्वयकम् । ततश् च क्षत्रिय-जातावावश्यकत्वाद्धनुर्वेदः, एतद् आदीन्यर्थतोऽपि ज्ञेयानि । ततश् च तत्-तत्-सर्व-विद्योपकारकत्वेनापेक्ष्याणि धर्म-शास्त्राणि । ततश् च वैशिष्ट्याधानार्थं न्यायपथान्, तत्-तद्-वेदार्थ-निर्णायकाञ्जैमिनि-कपिल-पतञ्जलि-बादरायण-रचित-पूर्व-मीमांसादीं-शब्दानुगत-युक्ति-ग्रन्थान् । ततश् च बाह्यवादनिरासार्थं स्वतन्त्र-युक्तिमयीमान् विक्षिकीम् अपि । एव जातायां राजत्वयोग्यतायां राजनीतिम् इत्य् एवं क्रम एव सिद्ध्यति ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सरहस्यम् इति सार्ध-द्वयकम् अखिलान् चतुरोऽपीत्य् अर्थः । एतद् उपदेशश् च शब्द-मात्रतः । तद् अर्थ-ज्ञानं मीमांसोपदेशेनैव भविष्यतीति तद्-अनन्तरं तत् पाठा-शुद्ध्यर्थम् आववश्यकत्वाद् अर्थ-सहितान्य् एवाङ्गानि तानि चोक्तानि—
शिक्षा व्याकरणं कल्पो ज्योतिषं छन्द एव च । > निरुक्तं च निरुक्तानि षडङ्गानि मनीषिभिर् ॥ इति ।
ज्योऽतिषोङ्गत्वं तद् अर्थ-कालादि-शुद्ध्येपेक्षणात् । अङ्गानन्तरं रहस्यत्वेनानुपदिष्ट-चरीरुपनिषदः एताश् च पूर्ववत् प्रथमतः शब्दत एव ततश् च क्षत्रिय-जातावश्यकत्वाद् धनुर्वेद एतद् आदीन्यर्थतोऽपि ज्ञेयानि । ततश् च तत्-तत्-सर्व विद्योपकारकत्वेनापेक्ष्याण्य् एव धर्म-शात्राणि । ततश् च वैशिष्ट्य-धनार्थं न्यायपथान् तत् तद् वेदार्थ-निर्णायकान् जैमिनि-कपिल-पतञ्जलि-वादरायण-रचितान् पूर्व-मीमासादीन् शब्दानुगत-युक्ति-ग्रन्थान् । ततश् च बाह्यवादि-निरासार्थं स्वतन्त्र युक्तिमयीमान्वीक्षिकीम् अपि एवं ज्ञातायां राजत्व-योग्यतायां राजनीतिम् इत्य् एवं क्रम एव सिद्ध्यति ॥३४.३५॥
जीव-गोस्वामी (बृहद्-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरहस्यं मन्त्र-देवता-ज्ञान-सहितं धर्मान् मन्वादि-शास्त्राणि न्याय-पथान् मीमांसादीन् आन्वीक्षिकीं तर्क-विद्यां सन्धिर् न विग्रहो यानमासनं द्वैधम् आश्रय इत्य् अमरोक्तं षड्विधां राजनीतिम् ॥३४.३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.३५ ॥
सर्वं नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ ।
सकृन् निगद-मात्रेण तौ सञ्जगृहतुर् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सकृन् निगद-मात्रेणैक-वाराम् गुरोर् उच्चारण-मात्रेण ।तावतीश् चतुः-षष्ती-कलाः । ताश् च शैव-तन्त्रोक्ता लिख्यन्ते, यथा—(१) गीतम्, (२) वाद्यम्, (३) नृत्यम्, (४) नाट्यम्, (५) आलेख्यम्, (६) विशेषक-च्छेद्यम्, (७) तण्डुल-कुसुम-बलि-विकाराः, (८) पुष्पास्तरणम्, (९) दशन-वसनाङ्ग-रागाः, (१०) ) मणि-भूमिका-कर्म, (११) शयन-रचनम्, (१२) उदक-वाद्यम् उदक-घातः, (१३) चित्र-योगाः, (१४) माल्य-ग्रथन-विकल्पाः, (१५) शेखरापीड-योजनम्, (१६) नेपथ्य-योगाः, (१७) कर्ण-पत्र-भङ्गाः, (१८) सुगन्ध-युक्तिः, (१९) भूषण-योजनम्, (२०) ऐन्द्र-जालम्, (२१) कौचुमार-योगाः, (२२) हस्त-लाघवम्, (२३) चित्र-शाकापूप-भक्ष्य-विकार-क्रियाः, (२४) पानक-रस-रागासव-योजनम्, (२५) सूची-वाय-कर्म, (२६) सूत्र-क्रीडा, (२७) वीणा-डमरुकवाद्यानि, (२८) प्रहेलिका, (२९) प्रतिमाला, (३०) दुर्वचक-योगाः, (३१) पुस्तक-वाचनम्, (३२) नाटकाख्यायिका-दर्शनम्, (३३) काव्य-समस्या-पूरणम्, (३४) पट्टिका-वेत्र-बाण-विकल्पाः, (३५) तर्क-कर्माणि, (३६) तक्षणम्, (३७) वास्तु-विद्या, (३८) रूप्य-रत्न-परीक्षा, (३९) धातु-वादः, (४०) मणि-राग-ज्ञानम्, (४१) आकर-ज्ञानम्, (४२) वृक्षायुर्-वेद-योगाः, (४३) मेष-कुक्कुट-लावक-युद्ध-विधिः, (४४) शुक-सारिका-प्रलापनम्, (४५) उत्सादनम्, (४६) केश-मार्जन-कौशलम्, (४७) अक्षर-मुष्टिका-कथनम्, (४८) म्लेच्छित-कुतर्क-विकल्पाः, (४९) देश-भाषा-ज्ञानम्, (५०) पुष्प-शकटिका-निर्मिति-ज्ञानम्, (५१) यन्त्र-मात्रेका-धारण-मातृका, (५२) संवाच्यम्, (५३) मानसी-काव्य-क्रिया, (५४) अभिधान-कोशः, (५५) छन्दो-ज्ञानम्, (५६) क्रिया-विकल्पाः, (५७) छलितक-योगाः, (५८) वस्त्र-गोपनानि, (५९) द्यूत-विशेषः, (६०) आकर्ष-क्रीडा, (६१) बाल-क्रीडनकानि, (६२) वैनायिकीनाम्, (६३) वैजयिकीनाम्, (६४) वैतालिकीनां च विद्यानां ज्ञानम्, इति चतुः-षष्टि-कलाः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वं विद्या-समूहम् । सर्वा विद्या यत्र सा दर्व-विद्या वेद-चतुष्टयी तस्याः सर्वासां विद्यानां वा प्रवर्तकौ
अस्य महतो भूतस्य निःश्वसितम् एतदृग्-वेदो यजुर्वेदः । > सामवेदोऽर्थवाङ्गिरस इतिहासः प्लुराणं विद्या उपनिषदः ॥
इत्य्-आदि-बृहद् आरण्यक-श्रुतेर् विद्यापदवाच्या वैशेषिक-पातञ्जलादि-रूपार्ज्ञेया । इह शास्त्रयोनिस्वात् इति न्यायाच् च ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा न्याय-शौत-पथ-गृहीताया अप्यान्वीक्षिक्याः पृथग् उक्तिः प्रायः श्रौतत्वेन तर्क-मात्रत्वात्, अत एवोक्तम्—विद्याम् इति, लोक-रञ्जनाद्य् उपायम् इत्य् अर्थः । तथा द्वयम्, चकारौ च समुच्चये, तैश् च धर्मादीनां यथोत्तरं न्यूनत्वेऽपि सर्वेषाम् एव तेषां प्रवचने प्राधान्यं द्योत्यते । यद् वा, अप्य् अर्थे चकारौ, यथा धनुर्वेदं तथा धर्मादीन् अपि, इति धनुर् वेदवद् धर्म-शास्त्रादिष् अपेक्षा-राहित्येऽपि लोक-शिक्षार्थं तेषाम् अपि स्वीकारेण तथैवाध्ययनम् अभिप्रेतम् । अत एव चकारौ, तथा द्वयं च । तद् अखिल-वेदादिकं सर्वं सकृद् उच्चारण-मात्रेणैव सम्यक् जगृहतुर् धृतवन्तौ । यतोऽमर-श्रेष्ठौ सर्व-देव-पूज्याव् इत्य् अर्थः । अतः सर्व-विद्यानां प्रवर्त्तकौ सृष्टि-स्थितिकराव् इत्य् अर्थः । यद् वा, सर्व-विद्या प्रवर्तयन्तौ सन्ताव् इत्य् अर्थः । इति संग्रहण-प्रयोजनं पुनर् अप्य् उक्तम्, लोक-शिक्षा-मात्रापेक्षयैव तत्र प्रवृत्तेः । हे नृपेति—अति-शीघ्रम् अश्रमेण तत्-सर्व-संग्रहतो गुरु-सेवा-दुःख-समाप्त्य् उपसत्तेश् च प्रहर्षोदयात् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.३६ ॥
अहो-रात्रैश् चतुः-षष्ट्या संयत्तौ तावतीः कलाः ।
गुरु-दक्षिणयाचार्यं छन्दयामासतुर् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : छन्दयामासतुर् उपलोभितवन्तौ ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चतुष्ट्या सङ्ख्ययासङ्ख्यातैर् अहोरात्रैर् दिन-निशाभिः । तावतीस् तावत्-सङ्ख्याकाः ताश् च कलाश् च । कं सुखं लान्ति स्वविदाम् इति कला इति । ता गणयति-यथेति । गीतम्-- गान-शिक्षा, गीत-निर्माणं, स्वर-जाति-राग-भेदास् ताल-मात्रादि-रचना-प्रकाराः, साधक-बाधक-स्वरादि-मेलन-परिज्यानं च ।
स्व-रगं पदगं चैव तथा लयगम् एव च । > चेतोऽवधानगं चैव गेयं ब्रूयुश् चतुर्विधम् ॥
स्वरादि-भेदा अनन्ताः । रागाश् च भैरव-श्रीराधादि-भेदेन षोढाप्तवान्तर-भेदैर् अनन्ता एव । तालश् च काल-क्रियामानम्, कालस्य क्रिययावापनिष्क्रमादिकया मानं परिच्छेदः । लयश् च गीत-वाद्य-पादादि-न्यासानां क्रिया-कालयोः साम्यम् । गीत-विशेषम् आह—
गा [धा] तुमातु-समायुक्तं गीतम् इत्य् उच्यते बुधैः । > तत्र नादात्मको गातुर् मातुर् अक्षर-सञ्चयः ॥ इति ।
तद् द्विविधम् । यथा—
गीतं च द्विविधं प्रोक्तं यन्त्र-गात्र-विभागतः । > यन्त्रं स्याद् वेणु-वीणादि गात्रं तु मुखजं मतम् ॥
किं च—
निबद्धम् अनिबद्धं च गीतं द्विविधम् उच्यते । > अनिबद्धं भवेद् गीतं वर्णादि-नियमं विना । > ऋग्भिः पाठ्यम् अभूद् गीतं सामभ्यः समपद्यत । > यजुर्भ्योऽभिनया जाता रसाश् चाथर्वणः स्मृताः । > अङ्गैर् आलभयेद् गीतं हस्तेनार्थं प्रदर्शयेत् । > दृष्टिभ्यां भावयेद् भावं पादाभ्यां ताल-निर्णयः । > गीतं पीन-पयोधरा समदना नारी विचित्रा कथा रम्यं > हर्म्यं तलं सुधांशु-किरण-प्रोद्दीपिता यामिनी । > चित्तज्ञाः सुहृदः सुताः सुमनसो भक्ताः पुनः सेवकाः > शुद्धं गीत-फलं कवित्वम् अतुलं संसार-सारामताः । > सङ्गीतकेन रम्येण सुखं यस्य न चेतसि । > मनुष्य-वृषभो लोके विधिनैव स वन्चितः । > संसार-दुःख-दग्धानाम् उत्तमानाम् अनुग्रहात् । > प्रभुणा शङ्करेणात्र गीतं वाद्यं प्रकाशितम् । > गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् । > रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते । > गीतेन हरिणा रङ्गं प्राप्नुवन्त्य् अपि पक्षिणः । > वनाद् आयान्ति फणिनः शिववो न रुदन्ति च । > कृति-चमत्कृतये किम् अतः परं फणि-वरोऽश्वतरो बत पञ्चमः । > अपि मृतां यद् अवाप मदालसां मधुर-गीत-वशीकृत-शङ्करः । > परमानन्द-विवर्धनम् अभिमत-फलं वशीकरणम् । > सकल-जन-चित्त-हरणं विमुखि-बीजं परं गीतम् ।
अत एव—
नाहं वसामि वैकुण्ठे योगिनां हृदये न वै । > मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ।
इति भगवताप्य् उक्तम् इत्य् अलम् [१]
अथ वाद्यानि—
तालेन राजते गीतं तालो वादित्र-सम्भवः । > गरीयस् तेन वादित्रं तच्-चतुर्विधम् उच्यते । > ततं सुषिरम् आनद्धं घनम् इत्थं चतुर्विधम् । > तत्र तन्त्र-गीतं वाद्यं वंशाद्या सुषिरं तथा । > चर्मावनद्धम् आनद्धं घनं तालादिकं मतम् । इति ।
तत्र ततं यथा—
अलावती ब्रह्म-वीणा किन्नरी लघु-किन्नरी । > विपञ्ची वल्लकी ज्येष्ठा चित्रा जोषवती जया । > हस्तिका कुब्जिका कूर्मा शारङ्गी परिवादिनी । > त्रिशवी शत-चन्द्री च नकुलौष्ठी चटंसवी । > औडम्बरी पिनाकी च निबन्धः शुष्कलस् तथा । > गदावारण-हस्तश् च रुद्रोऽथ शर-मण्डलः । > कपि लासो मधुस्यन्दी घोणेत्यादि ततं वदेत् ।
अवलावणी यथा—
कनिष्ठिकापरिध्य् अर्धमध्यच्छिद्रेण संयुतः । > दशयष्टिमितो दण्डः खादिरो वैणवोऽथ वा । > अधः करभवान् ऊर्ध्वे छत्रावल्याभिशोभितः । > नवाङ्गुलादधः छिद्रोपरि चन्द्रार्ध-सन्निभाम् । > निवेश्य तुम्बिकां भद्रालाबुखण्डं निवेशयेत् । > द्वादशाङ्गुल-विस्तारं दृढ-पक्वं मनोहरम् । > तुम्बिकावेध-मध्येन दण्डच्छिद्रे तु निर्मिताम् । > अलाबुमध्यगां डौर्वी कृत्वा स्वल्पां तु काष्टिकाम् । > तथा संवेष्ट्य तन्-मध्ये काष्ठिकां भ्रामयेत् ततः । > यथा स्यात्रिश्चलालाबून्धश् च करभोपरि । > पञ्जाङ्गुलिषु सन्त्यज्यालाबूं स्वल्पां च बन्धयेत् । > केशान्तर् निर्मिता पट्टमयी सूत्रकृताथ वा । > समा सूक्ष्मा दृढा तत्र-तत्र देया विचक्षणैः । > एतल् लक्षण-संयोग्यात्रा [न्या] लावणी प्रकीर्तिता । > बिन्दुना न समुपेतं तुम्बं निक्षिप्य वक्षसि । > मध्यमानाम् इकाभ्यां च वाद्या दक्षिण-पाणिना । > तारे मन्द्रे च घोषे च त्रि-स्थाने बिन्दुर् इष्यते । > तुम्बी-मूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत् । > ततस् ताभिस् तु सर्वाभिः स्वर-व्यक्तिर् विधीयते । > त्रिस्वरो दक्षिणः पाणिर् वामस् तत्र चतुःस्वरः । > अलावण्यां स्थिता ज्ञेयाः सप्त षड्जादयः स्वराः । > राग-व्यक्तिर् यथा रागे भवेत् षड्जादि-भेदतः । > अश न्यास-विभेदाच् च तत्रात्रापि विधीयते । > इयम् अलावणी प्रोक्ता मनः-श्रवण-रञ्जनी । > प्रत्यक्षा शारदा देवी वीणारूषेण संस्थिता ।
इत्य् अलावणी-लक्षणानि । अन्येषां विस्तर-भ्सयान्नोदाहृतानि । तानि च सङ्गीत-दर्पण-सङ्गीतदामो दरादि-ग्रन्थेभ्योऽवसेयानि । सुषिरं यथा—
वंशोऽथ पारो मधुरी तित्तिरी-शङ्खकाहलाः । > तोरडी-मुरली-बुक्वाशृङ्गिका-स्वरनाभयः > शृङ्गं कापालिकं वंशश् चर्म-वंशस् तथापरः । > एते सुषिर-भेदास्तु कथिताः पूर्व-सूरिभिः > वर्तुलः सरलश् चैव पर्वदोष-विवर्जितः । > वैष्णवः खादिरो वापि रक्त-चन्दनजोऽथ वा । > श्रीखण्डजोऽथ सौवर्णो दन्तिदन्तमयोऽपि वा । > राजतस् ताम्रजो वापि लौहजः स्फाटिकोऽथ वा । > कनिष्ठाङ्गुलि-तुल्येन गर्भरन्ध्रेण शोधितः । > शिल्प विद्या-प्रवीणेन वंशः कार्यो मनोहरः । > वंशेनैव मतोऽपिति मतङ्गमुनिनोदितम् । > ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्तिताः । > तत्र चैवं शिरोदेशाद् अधोऽद्रिमितम् अङ्गुलम् । > फूत्कार-रन्ध्रं कुर्वीत मितम् अङ्गुलि-पर्वणा । > पञ्चाङ्गुलानि सन्त्यज्य तावद्रन्ध्राणि कारयेत् । > कुर्यात् तथान्तरन्ध्राणि सप्त-सङ्ख्यानि कौशलात् । > बदरी-बीज-तुल्यानि सत्वज्यार्धार्धम् अङ्गुलम् । > प्रातियोर् वन्धनं कार्यं स्वराद्यैर् नाद-हेतवे । > स्विक्थकेन कल देस्या तेन सुस्वरता भवेत् । > पञ्चाङ्गुलायं वंशः स्याद् एकैकाङ्गुलवृद्धितः । > षडङ्गुलादि-दाम्ना स्याद् यावद् अष्टादशाङ्गुलम् । > फूत्कारतार-रन्ध्रस्य यावद् अङ्गुलम् अन्तरम् । > तद् एव नाम वंशस्य वांशस्य वांषिकैः परिकीर्त्यते । > एकाङ्गुलो व्यङ्गुलश् च त्र्यङ्गुलश् चतुरङ्गुलः । > अतितारतरत्वेन वांशिकैः सपुपेक्षितः । > त्रयोदशाङ्गुलो वीणा विधौ च समुपेक्षितः । > निर्दितो वंशतत्त्वज्ञैस् तथा सप्तदशाङ्गुलः । > महान्दन्दस् तथा नन्दो विजयोऽथ जयस् तथा । > चत्वऋअ उत्तमा वंशा मतङ्गमुनिसम्मताः । > दशाङ्गुलो महानन्दो नन्द एकादशां गुलः । > द्वादशाङ्गुलम् आनस् तु विजयः परिकीर्तितः । > चतुर्दशाङ्गुलमितो जय इत्य् अभिधीयते । > ब्रह्म-रुद्रो रविर् विष्णुः क्रमाद् अत्र व्यवस्थिताः । > नैविद्यं प्रौढता चापि सुस्वरत्वं च शीघ्रता । > माधुर्यम् इति फूत्कृतेषु गुणाः स्मृताः । > शीत्कार-बहुलः स्तब्बो विस्वरः स्फुटतो लघुः । > अमाधुर्यश् च विज्ञेस्स्याः षड् दोषाः फूत्कृतेः क्रमात् । > वृथा प्रयोग-बाहुल्यम् अल्पता गीत-वादने । > एभिर् दोषैर्युतोऽतीव निन्दितो वांशिको मतः । > स्थान-कालिदयाभिज्ञो गमकाढ्यः स्फुटाक्षरः । > शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते । > प्रमुक्तिर् बद्ध-मुक्तिश् च युक्तिश्चेत्य् अङ्गुलेर् गुणाः । > सुस्थानत्वं सुस्वरत्वम् अङ्गुलौ सावनक्रियाम् । > समस्तगमक-ज्ञानं राग-रागाङ्गवेदिता । > क्रियाभाषाविभासु दक्षता गीत-वादनं । > सुस्थाने चापि दुःस्थाने नाद-निर्माण-कौशलम् । > गाटॄणां स्थान-दातृत्वं तद्-दोषाच्छादनं तथा । > वांशिकस्य गुणा एवे मया सङ्क्षिप्य दर्शिताः ॥ इति वंशः ।
काहलास्त्रीति निषङ्गः तोडही मुरली बुक्का इत्य् एतेऽत्र स्त्रियां सप्त-स्वराणां नाभिर् इव स्वरनाभिः स्त्रियां वर्तते, इतरेषां विस्तरभिया स्वरूपं नोक्तम् । तच् च सङ्गीत-दर्शन-सङ्गीत-दामोदरादि-ग्रन्थेभ्योऽवसेयम् । आनद्धं यथा—
आनद्धए मर्दलः श्रेयानित्युक्तं भरतादिभिः ।
अपि च—
मुरजपटहढक्का बिम्बको दापवाद्यं > पणवघसरुञ्जालावजाहूस्त्रिवल्यः । > करठकमठभेरी स्यात्-कुडुक्का > हुड्डुक्का मनस-मुरलिझल्ली डुक्कली दौडिशाना ॥ > डमसटमुकिमड्डुः कुण्डली तण्डनामा > रणमभि घट-वाद्यं दुन्दुभी चारजश् च । > क्वचिद् अपि टुटुकी स्याद्-दर्दुरं शाप्य् उपाङ्गं > प्रकटितमनवद्यं वाद्यम् इत्थं जगत्याम् ॥ > त्रिपुरमथनकर्तुस् ताण्डवे तत्-प्रयाणे > ततमुख-सुषिरञ्चानद्धम् इत्थं विधीयते ॥ > त्रयोदशाङ्गुलं वामम् अथ वा द्वादशाङ्गुलम् । > दक्षिणं च भवेद्धीनम् एकेनाद्धागुलेन वा ॥ > करणानद्धवदनो मध्ये चैव पृथुर् भवेत् । > षण्मासीयो भवेद्वस्तस्तच् चर्मकरणं मतम् ॥ > मृत्तिका-निर्मितश्चैव मृदङ्गः परिकीर्तितः । > पातयेत्खरलिं वाद्यमादनार्थं च मर्दले ॥ > विभूतिर् गैरिकं भक्तं केन्दुकेन समन्वितम् । > यद् वा, चिपि[पी] टकं देयं जीवनीसत्त्वमिश्रितम् ॥ > सर्वम् एकत्र पिष्टं तल्लेपः खरलिर् उच्यते । > वामास्ये पूरिकां कृत्वा लेपं दद्याच् च दक्षिणे ॥ > एवं मदलकः प्रोक्तः सर्ववाद्योत्तमो मतः । > अस्य संयोगमासाद्य सर्वं वाद्यं च शोभते ॥ > एतद् अङ्गे बीजकाष्ठे दलमर्दाङ्गुलं विदुः । > तदिधीमिति विज्ञेयाः पाठवर्णा मृदङ्गजाः ॥
थोदण्डं धिक्कटस् तद्धीताकन्दन्दथोङ्गन्धिधिखर्झझिनङ्गटन्दन्थाः कूट-पाठा मता अमी । तथिन्धोण्डेतक्कवीदोन्दोन्दन्दन्धिगणान्ततं तधितक्कतन्धन्धिदोन्ताधिपाटखण्डे त्वयं क्रमः । तथा च—यतिमाने पाटखण्डः—द्रगतथेजां द्रगतथेजां धो-धो-धिकता-धिकाथो-जान्थोजान्तकतताधिकाथोताद्रगतता-धि-धि-धि-धिकत-ताकडनाथो-धिकथोजान्धोताद्रगतताद्रतताधि इति ।
यतिरोढाप्य् अवछेदो गजरो रूपकं ध्रुवम् ।
गलपः सारिगोणी च नान्द च कथितं तथा ।
प्रहरणं वृन्दनं च प्रबन्धा द्वादश स्मृताः ।
दन्थात इत्य् एकताल्यां यतिः । ओड-वाद्यं यथा—दान्तथोतधिकतधिकदन्थादन्थाथोधियोधितत्त्ततत्तथाविथविदिश्यांदिश्याण्टटनकिटटनकितदटङ्गनण्टतगथवटङ्गथवटङ्गतगिनगितागनगिदान्दादान्दददीदीन्दन्तातथा इति ।
अवच्छेद्यवाद्यं यथा—दन्थातः दथातः धिक्किधिक्किदिगणन्दताथः इति ।
गजरवाद्यं यथा—थोकटेन्ननेजढेण्डङ्गथोगथोङ्गटेङ्कथोगत किधिकटेङ्ननधिधिकटतकथोकत्तधिकटतक्ककतथोगतद्धीम् इत्य् एकताल्यां गजरः ।
रूपक-वाद्यं यथा—तकधिक-तकधिक-कथवितकिथवितक्किधिक्कदन्थातः इति ।
ध्रुवक-वाद्यं यथा—तक्कतक्काटधिक्कधिक्काट इति निसारताले ध्रुवकः ।
गलयो यथा—तधिदधिधिकतकतधिगलगन्थाथादेतथाढेनष इत्य् एकताल्यां गलपः ।
सारिगोणी यथा—थोङ्गटेष्तक्कधिक्कतकधिकतकथोहटङ्गनहटङ्गनथोराक्कथोः इति प्रथम-खण्डः । टेषथोःधिथोहःटेष टेषथोःधिथोहःटेषटेषदक्कतगदक्कधिक्कतदिददक्कदङ्गदङ्गथोगथोकतकतकधिकतघिकतधोटेषधोटेषथटेगलखोगगलखोगखोहटगेण्ठगेङ्खोहटम् इत्य् अस्य छन्दनम् इति ।
नादो यथा—
दाङ्कारत्रितयं पूर्वं दान्धिगिति ततत्त्रयम् । > दान्दान्धिकत्रयं यत्र इति नादः शचीप्रियः । इति । > द्रुतं मानसम् आरब्ध-शुद्धं कूट-विनिर्मितम् । > सप्त-खण्ड-मयं वाद्यं कथितं तद् इहोच्यते ॥
द्रुतमानत्वात्-प्रतिताले यथा—तत्तततत्तततक्कितक्किदिदन्धिगनथोधिगनथो-धिक्कधिक्कधिक्कधिक्कधिक्नगिनगमिथोथोधिधिधिःदान्दान्धि-क्कथोथोहथथोनषिथोनषिथोथोहथोहडेटिडेडिथोहथोहतटि-तटि-तटुक-गीङ्गीन्धगिधगितततधेततधेततततगिङीषङीथोगथोगथोन्थोगगथोगथोतत्तात्ताः
इति सप्त-पदान्याहुः कथितं वाद्यपडितैः । > प्रतितालेन तालेन पादवर्ण-समासतः । > गन्धर्वपतिना पूर्वम् उर्वशीलास्यनर्तने । > सुधर्मारञ्जनार्थं च कथितं प्रकटीकृतम् ।
इति प्रहरणं यथा—थोगक्का तद् अधिकाथागकटगगोन्दन्थोगदिदधिक्धिक्कदिकटेष इत्य् एकताल्या प्रहरणम् । वाद्यं विमुच्यते येनच्छदनं तन्निगद्यते यथा—तैधिथोदिषटेषतन्न इति छदनम् ।
कलासो विकलासश् च टाकलं चार्धटकली । > जोलाटाकलिका चैव गोमुद्री मुरजस् तथा ॥
अलाबुवाद्यं म्लेच्छ-वाद्यम् । मर्दलस्त्रयोदशाङ्गुल-वाम-मुखो, द्वादशाङ्गुल-दक्षिण-मुखः । मुरजस्त्व् अष्टादशाङ्गुल-वाम-मुखः, सप्तदशाङ्गुल-दक्षिण-मुखः, मर्दलमुरजयोर् अयं भेदः । घनं यथा—
अनुरक्तं विरक्तं च द्विविधं घन-वाद्यकम् । > गीतानुगञ्चानुरक्त विरक्तं ताल-संश्रयम् ॥ > करतालः कांस्यतालो जयवण्टोऽथ शुक्तिका । > कम्बिकापटवाद्यं च पट्टातोद्यं च घर्घरम् ॥ > झञ्झातालश् च मञ्जीरं कर्तर्युङ्कुर इत्य् अपि । > द्वादशैते मुनीन्द्रेण कथिता गवसञ्ज्ञिकाः ॥ > त्रयोदशाङ्गुल-व्यामौ शुद्ध-कांस्य-विनिर्मितौ । > मध्यमुखौ स्तनाकरौ तन्-मध्ये रज्जुगुम्फितौ ॥ > पद्मिनी-पत्र-सदृशौ कराभ्यां रज्जुयन्त्रितौ । > करतालावुभौ वाद्यौ पोटर्ह्यनटकैर् इति ॥ > यद् वा, त्रयोदशयवव्यानं वक्त्रयवोन्मितम् । > यवपञ्चक-गम्भीरं मध्ये च यवसप्तकम् ॥ > विसृतं वर्तुलं निम्न यवत्रयमितं ततः । > पृष्ठतो मध्य-देशे च शिवलिङ्ग-समाकृतिम् ॥ > अत्यम्लपैष्टिनिर्दिग्ध-शुद्धकांस्यविमिर्षितम् । > संरक्ताङ्गुलि-सुस्निग्ध-सुदीर्घ-मधुर-ध्वनिम् ॥ > घनानिसाविसंरक्तं दृढं शुष्कं मनोहरम् । > काश्मर्यादिसमुद्भूतं तालमाहुर् मनीषिणः ॥ > सुनादं दक्षिणां तालं ततो हीनं च वामकम् । > कुर्वीत तद्द्वयं कार्यं तर्जन्य् अङ्गुष्ठयोगतः ॥ > वाम-हस्तस्य मध्यमं सन्निनादितम् । > तिर्यग्-दक्षिण-तालस्य परिव्यंसेन तालयेत् ॥ > तालादौ वादयेच् चैव प्लुत-दीर्घलबुद्रुतैः ।
इति करताल-विशेषः । कर्तरी घन-विशेषः । उङ्गरश् च घन-विशेषोऽदन्तरेफान्तपुंल्लिङ्गः । अन्येषां विस्तरभयान्नोक्तम् ।
रुक्मिण्याः सत्यभामायाः कालिन्दी-मित्र-विन्दयोः । > जाम्बवत्या नाग्नजित्या लक्ष्मणाभद्रयोर् अपि । > कृष्णस्याष्ट-महिषीणां पुरोद्वाहमहोत्सवे ॥ > ततं शुषिरमानद्धं घनं च युगपज्जनाः । > अवादयन्नसङ्ख्यातम् इति पौराणिकी श्रुतिः ॥ > ततं वाद्यं तु देवानां गन्धर्वाणां च शौषिरम् । > आनद्धं राक्षसानां तु किन्नराणां घनं विदुः । > निजावतारे गोविन्दः सर्वमेवानयत्क्षितौ ॥ > यावन्ति वाद्य-भाण्डानि राम-रावणयोर् युधि । > तावन्त्यो नाभवन् सेनः कुरुपाण्डवसङ्गरे ॥
किं च—
निलिम्पहृत्कम्पनतोमरेण रणे सुरारेर् मथनात्सुरेण । > अभूत् तताद्यैर् अपि सिंहनादैः सा पञ्च-शब्दीति कणादवादः ॥
युधि सैन्यानां योऽहङ्काररवः स सिंहनादः । ततादिभिर् एभिश्चतुर्भिर् वाद्यैश् च पञ्चशब्दी-वाद्यम अभूत् । सिंहनादेन सह वाद्यं पञ्चविधम् अस्तीति सङ्गीत-दामोदरः ।
शिवागारे झल्लकं च सूर्यागारे तु शङ्खकम् । > दुर्गागारे वांश [शी] वाद्यं माधुरीं च न वादयेत् ॥
झल्लकं कांस्य-निर्मित-करतालम् इति योगिनीतन्त्रम् । मत्स्य-पूराणेऽपि—
गीतवादित्र-निर्घोषं देवस्याग्रे च कारयेत् । > विरिञ्चेश् च गृहे ढक्कां घण्टां लक्ष्मी-गृहेत्यजेत् ॥ > घण्टा भवेद् अशक्तस्य सर्व-वाद्यमयी यतः ।
किं च—
देवस्याग्रे प्रतिदिनं कारयेत् सद्मकारकः । > तत्-तद् देवस्य चरितं पौराणं व्यासकीर्तितम् ॥ > तेनैव सर्व-वाद्यानां फलं पूर्णं प्रजायते । > न्यूनता चोपचाराणां सापि पूर्णा भवेत् ततः ॥ > वेदिता सर्व-शास्त्राणां वेदानाम् अङ्गसंयुजाम् । > विशुद्धोभय-वंशश् च वक्ता कार्यो द्विजोत्तमः ॥ > कुटुम्बी शान्त-चित्तश् च छात्राध्यापन-तत्परः । > अनन्यजीविको विप्रो जयोच्चारे शुभावहः ॥
इति भविष्योक्तेः । जय-शब्दार्थस्तु—
अष्टादश पुराणानि रामस्य चरितं तथा । > विष्णु-धर्मादि-शास्त्राणि शिव-धर्माश् च भारत ॥ > कार्ष्ण्यं च पञ्चमो वेदो यन्-महाभारतं स्मृतम् । > सौराश् च धर्मा राजेन्द्र मानवोक्ता महीपते । > जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥
इति ब्रह्मचारि-काण्डे भविष्योक्तेः । वाद्यम्—
विततं च घनं वाद्यं ततं सुषिरम् एव च । > कांस्यं पुष्कर-तन्त्रीभिर् वेणुना च यथाक्रमम् ॥
एतद् एवामरेणापि—
ततं वीणादिकं वाद्यम् आनद्धं मुरजादिकम् । > वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ > चतुर्विधम् इदं वाद्यम् । इति ।
तत्र शिक्षादयः पूर्ववत् । नृत्य-नाट्यम्—
नृत्यं कृतानुकरणं नाट्यं तु नर्तकाश्रयम् । > करणान्यङ्गहाराश् च विभावो भाव एव च । > अनुभावो रसाश्चेति सङ्क्षेपान् नृत्य-सङ्ग्रहः ॥ इति ।
करणानि साधनानि । अङ्ग-हारो अङ्ग-विक्षेपः । विशेषेण भावयन्त्युत्पादयन्ति रसम् इति विभावाः, स्त्री-वसन्तोद्यानादयः रसकारणानि । अनुभूयते रस एभिर् इत्य् अनुभावाः, कम्पस्वेदादीनि रसकार्याणि । भावाः सात्त्विकाः स्तम्भादयो, व्यभिचारिणश् च धृति-स्मृत्यादयः । एतैर् उत्कर्षमारोप्यमाणोऽत्र व्यञ्जितः स्थायीभावो रत्यादिः शृङ्गारादि-रस-रूपो भवतीति । तन्त्रान्तरे तु नृत्य-भेद-ज्ञानार्थम् एव पृथग् नाट्यकलोक्ता [३]
आलेख्यम्—चित्र-कर्म ।
रूप-भेदाः प्रमाणानि भाव-लावण्य-योजनम् । > सादृश्य वर्णिकाभङ्गम् इति चित्रं षडङ्गकम् ॥
एषां स्वरूपं स्थापत्यशास्त्रादवसेयम् [४] विशेषकच्छेद्यम्-विशेषकं तिलकं यद्यल्ललाटे दीयते तस्य भूर्जादि-पत्रमयस्य छेदनं, विशेषक-ग्रहणम् आदरार्थं विलासिनीनाम् अतिप्रियत्वात् [५] तण्डुल-कुसुमावलिविकाराः—तण्डुलेर् नाना-वर्णैः कुसुमैर् वा शिवादि-पूजार्थं नाना-प्रकार-रचना । अत्र ग्रथनं माल्य-ग्रथन एवान्तर्भूतं भक्ति-विशेषेणावस्थापनं कलान्तरम् [६] पुष्पास्तरणम्—पुष्पादिभिः । शय्यादि-रचनम् । पुष्प-शयनम् इत्य् अपरा सञ्ज्ञा [७] दशनवसनाङ्गरागाः—राग-शब्दः प्रत्येकं सम्बध्यते । दशन-रागो मस्यादिना । वसन-रागः कौसुम्भादिना । अङ्ग-रागोगमार्ष्टिः [८] मणि-भूमिका-कर्म—मणि-भूमिकावत्कुट्टिम-भूमिस् तस्या मरकतादि-भेदेन करणम् [९] शयन-रचनम्—शयनीयस्य कालापेक्षया रक्त-विरक्त-मध्यस्थाभिप्रायादाहारपरिणत्यादि-दशाकृद्रचनम् [१०] उदक-वाद्यम्—उदक-पूरित-पात्रे मुरजादिवन्-मधुर-नाना-ताल-समुत्थापनम् [११] उदक-घातः—हस्त-यन्त्र-युक्तिभिर् उदकस्य ताडनं तडूभयं जलक्रीडाङ्गम् । जलस्तम्भ-विद्येति केचित् [१२] चित्र-योगाः-दौर्भाग्य-केश-पलितीकरणादयोऽद्भुत-दर्शनोपायाः [१३] माल्य-ग्रथन-विकल्पाः—माल्यानां देव-पूजार्थं नेपथ्यानां ग्रथन-विकल्पाः [१४]
शेखरापीडयोजनम्—ग्रथन-विकल्प एवायं किन्तु योजनं कलान्तरम् । तत्र शेखरस्य शित्खास्थानेऽवलम्बन-न्यासेन परिधापनादापीडस्य च मण्डलाकार-ग्रथितस्य काष्ठिकायोगेन परिधापनान् नाना-वर्णैः । पुष्पैर् विरचनं योजनम् । तद् उभयं नेपथ्याङ्गम् [१५] नेपथ्ययोगाः—देश-कालाषेक्षया वस्त्र-माल्याभरणादिभिः शोभार्थ शरीरस्य मण्डनाकाराः [१६] कर्ण-पत्र-भङ्गाः—दन्तशङ्खादिभिः कर्ण-पत्र-विशेषा नेपथ्यार्थाः [१७] सुगध-युक्तिः—स्वशास्त्र-विहित-प्रपञ्चातीत-प्रयोमना [१८] भूषण-योजनम्—तद्योगो द्वविधः—संयोज्योसंयाज्यश् च । तत्र संयोज्यस्य हारादेर् मणि-मुक्ता-प्रबालादिभिर् योजनम् । असंयोज्यस्य कटकादे रचनम् । तद् उभयं नेपथ्याङ्गं न तु शरीरे भूषण-योजनं, तस्य नेपथ्य योगाः इत्य् अनेन गतार्थात्वात् [१९]
ऐन्द्रजालम्—इन्द्र-जालादि-शास्त्र-प्रभवयोगाः सैन्यादि-दर्शनाद् विस्मयार्थाः [२०] कौचुमारयोगाः—कौचुमाराश् च योगाः कुचुमारर्षिणा प्रोक्ताः सुभगङ्करणादयः, सुरूपत्वाद् यापादका इत्य् अर्थः । कौचमार इति पाठे कुचानां स्तनानाम् इमे कौचा, काठिन्यादयः, मारस्य कामस्येमे मारा रागकरणादयः, कौचाश् च ते माराश्चेति कौचमाराः । यद् वा, कुचु-शब्दः पक्षि-शब्दानुकरणे, तेन पक्षिणो लक्ष्यन्ते, कुशुन् पक्षिणो मारयन्तीति कुचुमारास्त एव कौचुमारा जाल-निर्माणादयः [२१]
हस्तलाघवम्—चमत्कारार्थं लघु-हस्ततया तत्-तद् वस्तुपरिवर्तनम्, शस्त्रास्त्राद्य् उत्सर्गशैध्य्रं वा [२२] चित्रशाकापू [कसू] पभक्ष्य-विकऋअ-क्रियाः—पानकरसरागासवयोजनं दश-विधशाकमुद्गादि-सूप-भक्ष्य-विकाराणां क्रिया पाक-विधिना निष्पादनम् । द्रावितम् अद्रावितं र्सं पानकम् । रागो लेह्यम् । आसवः सन्धानमेका कल द्विविधोक्ता, पानकेषु रसादियोजनम् इति केचित् ।
मूलपत्रकरीराग्रफल-काण्डादि-रूढकम् । > त्वक्पुष्पं कवकं चैव शाकं दशविधं स्मृतम् ॥
अधिरूढं नालबीजाङ्कुरास्थिमज्जादि । सूपं व्यञ्जन-सूदयो इति मेदिनी [२३] सूचीवायकर्म—सूच्या पुष्पमूर्त्यादि--रूपेण सीवनम् [२४] सूत्रक्रीडा—सूत्राणाम् अन्यथा दर्शनं, सूत्रचारेण पुत्रिकादि-चालनं वा [२५] वीणाडमरुक-वाद्यानि—एतच् च विशेष-विवक्षयेहोक्तम् अपि केचिन् न लिखन्ति, वाद्य-शब्देनोक्तार्त्वात् [२६]
प्रहेलिका—अपह्नुत-वाग् अर्थज्ञानम् ।
व्यक्तीकृत्य कम् अप्य् अर्थं स्वरूपार्थस्य गोपनात् । > यत्र बाह्यार्थसम्बद्धं कथ्यते सा प्रहेलिका ॥
इति हरिः । तथाहि—
वने जाता वनं त्यक्त्वा वने वसति नित्यशः । > पाण्य स्त्री न तु सा वेश्या यो जानाति स पण्डितः । > अर्घं वसति वैकुण्ठे तद् अर्घं गणिका-गृहे । > सर्वं तु वणिजो हट्टे वद वैद्य किम् औषधम् [२] । > पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः ।
चलति [ते] वायुवेगेन तस्याहं कुलबालिका [३] श्यामा स्या न च मार्जारी द्विजिह्वा नैव सर्पिणी पञ्चभर्त्री न पाञ्जाली यो वेद स च पण्डितः [४] । अपदो दूरगामी च साक्षरो न तु पण्डितः । अमुखः स्फुटवक्ता च योजानाति स पण्डितः ॥ [५] । क्रमाद् एता नौ हरिताल कुलालजा-लेखनी-पत्राणां बोधकाः । एवम् अन्या बह्व्यः सन्ति [२७]
प्रतिमाला—
प्रतिश्लोकं क्रमाद् यत्र सन्धायाक्षरमन्तिमम् । > पठेत् तं श्लोकमन्योऽन्यं प्रतिमालेति सोच्यते ॥
तथाहि—
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । > भस्मीभवन्ति तस्याशु महापातक-कोटयः ॥
इह यः अन्ते पठित एतच् छुत्वापरो यकारादिमं श्लोकं पठेत् । स च—
य इच्छेन् निज-कल्याणं स सदा सङमाचरेत् । > हरि-भक्तिपराणां हि ते हि कल्याण-भाजनम् ।
इत्य् एतच् छ्रूत्वा परस्तु—
नन्दन-नन्द मे देहि दधिपात्रं नमोऽस्तु ते । > पात्रं विना गताया मे श्वश्रूस्ताडयिता भृशम् ॥
इतोऽन्यस्तु—
शङ्खचक्र-गदा-पद्मास्ते करेषु जनार्दन । > द्योतन्तेऽर्कं त्वतिक्रम्य रणे मुरणिपूदन ॥
इति श्रुत्वापरो नकारादिमं पठेद् इत्थं प्रतिमालभवति । सर्व-वस्तु-प्रकृति-निर्माणं वा प्रतिमाला [२८] दुवचकयोगाः—शब्दतोऽर्थतश् च यद्-दुःखेनोच्यते तद् वक्तुम् उपायाः । यथा—वाश्चारेड्ध्वजधग्धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेड्गोराडारुड्डुरस्सरेडुरुतरग्रैवेयकभ्राडरम् । उडुवीड्धृङ्नरकास्थिभृत्त्रिदृग्भृदार्द्राजिनाच्छच्छविः स स्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो मृडः ॥ इत्य् एवं रूपं वृत्तं पाठार्थतो दुरुच्चार्यम् । [पदच्छेदः-वाश्चारेढ्ध्व जधक् । धृतोड्वधिपतिः । कुध्रेड्जनानिः गणेट् । गोराडारुडुरस्सरुतरग्रैवेयकभ्राट् । अरम् । उडुवीड्धृक् । नरकास्थिभृत् । त्रिदृग्भृत् । आर्द्राजिनाच्चछविः । सः । स्तात् । अम्बुमदम्बुदालिगलरुक् । देवः । मुदे । वः । मृडः] । वार्षु चरन्तीति वाश्चारा मत्स्याः, तेषाम् ईट्-ट्ष्टे इतीट् स्वामी महामत्स्यो ध्वजे यस्य स कामः, तं दहतीति तथा । धृत उडूनामृक्षाणाम् अधिपतिश् चन्द्रो येन स तथा । कुं भूमिं धन्तीति कुध्राः पर्वतास् तेषाम् ईढिमालयस् स्तज्जा पार्वती जाया यस्य स तथा । गणानां प्रमथानाम् ईड् स्वामी । गवां राजा नन्दी गोराट्, तमारोहतीति गोराडारुट् ।
उरसा सरन्ति गच्छन्तीत्य् उरःसरा सर्पास् तेषाम् ईडेव उरुतरं ग्रैवेयकं कण्ठाभरणं तेन भ्राजते द्योतते इति तथा । उ सण्डुद्धौ रुषोक्तौ च शिववाचि त्वनव्ययम् ।
उ प्रश्ने च इति हैमः । उना शंभुना डीयते उपरि ध्रियत इत्य् उडुर्गङ्गा-प्रवाहः । विशेषेणेड्यत इति वीट्, उडुश्चासावीट् चेत्य् उडुवीट्, तं धृजतीति तथा । नराणां कं मस्तकं च तद् अस्थि चेति तथा, तद् विभर्तीति तथा । तिस्रः दृशस्त्रिदृशस्ता बिभर्तीति तथा । आर्द्राजिनेनाच्छा छविर् यस्य स तथा । अम्बुमन्तश् च तेम्बुरास् तेषाम् आद्लिस्तद्वग्दलरुक्वण्ठकानिर् यस्य स तथा । स देवो मृडः वो मुदे अरं शीघ्रं स्याद् इत्य् अर्थः [२९]
पुस्तक-वाचनम्—पुस्तक-स्थानां काव्यानां शृङ्गारादि-रसानुकूल-गीत-स्वरेण वाचनम् [३०] नाटिकाख्यायिका-दर्शनम्—नाटकस्य दशरूपकस्याख्यायिकायाश् च परिज्ञानं निर्माणं च । तच् च नाटकम्—
पूर्व-रङ्गं विधायादौ सूत्रधारे विनिर्गते । > प्रविश्य तद्वदपरः काव्यमास्थापयेन् नटः ॥ > प्रथमं पूर्व-रङ्गः स्यात् ततः प्रस्थापनेति च । > आरम्भे सर्व-नाट्यानाम् एतत्-सामान्यम् इष्यते ॥
इत्य्-आदि-नारभ्यते । पूर्व-रङ्गो नान्दी । सूत्रधारो नाट्याचार्यः । आख्यायिकाज्ञातप्तत्यार्थभूता कथा । यथा—
उत्पातकं तद् इह देव विचारणीयं > नारायणः पतति चेद् अथ वा सुभ्रदा । > कादम्बरी मदविघूर्णितलोचनस्य > युक्तं हि लाङ्गलपतेः पतनं पृथिव्याम् ॥ [१]
अयं श्लोकः साख्यायिकः । सा च—कदाचित् कश्चिद्-ब्राह्मणोऽधीतशास्त्रो वृत्त्य् अर्थं देशान्तरे भ्रमन् कस्यचिन् नृपस्य नगर-समीपस्थसरसि स्नात्वा हरिमर्चयस् तत्रागतेनैकाकिनैव तन्-नगरनृपेण नमस्कार-पूर्वकं पृष्टः—किम् अर्थं कुतश्चागत इति, तेनोक्तं—वृत्त्य् अर्थम् अत्र नृपपार्श्वे आगतोऽस्मि, तेनोक्तं—यति न किञ्चिद् दास्यति तदा किं करिष्यसि, विप्रेणोक्तं—यदि मे दैवं प्रबलं तदा पादत्राण प्रहारेण ग्रहीष्याम इत्य् उक्तो नृपः स्व-द्वारपालादीस् तं दर्शयित्वोवाच—अयं न मत्पार्श्वमानेयो नास्य वार्तापि कार्येति । ब्राह्मणश् च मध्याह्नोत्तरं भ्रमन्त्राजमार्गे केनचिन् नृपाधिकारिणा दृष्टः स्वगृहमानीय सत्कृत्येह तिष्ठ तव वृत्त्य् अर्थं यत्नं करिष्यामीत्य् उक्तस् तत्-स्थान उवास । तत्र वसतस् तस्याल्पेनैव कालेन तद्-गृहस्थ-जगन्नाथ-मन्दिर-मूतित्रयमध्यतो बलभद्र-मूर्तिरकस्मात् पपात । ततो नृपो ब्राह्मणानाहूयोत्पातोऽयं जातः किम् अर्थं का चास्य शान्तिर् इत्य् उवाच । तच् छ्रूत्वा ते स्व-स्वमत्य् अनुरोधेनोत्पातं मत्वा शान्त्याद्यूचुः । यद्-गृहे राजदृष्टचरविप्र आसीत्तेनोक्तं-मद्-गृहेऽप्य् एकः पण्डितोऽस्ति तम् अहं पृष्ट्वा वदिष्यामि, राज्ञोक्तम् अवश्यं पृष्ट्वागच्छ । स तदैव गत्व तं तद्वृत्तं पप्रच्छ, तेनोक्तं-नृप पार्श्व एव वदिष्यामि नान्यत्र । स चागत्य नृपाय तथैवाकथयत् । नृपश् च तमानाय्य नत्वा च दृष्टचरं तम् एव मत्वा पप्रच्छ, तेन हि पूर्वम् उक्त-श्लोकः पठितस् तद् आकर्ण्य नृपो नाना-वस्त्रालङ्कारद्यानाय्य तद् उपरि पादत्राणं संस्थाप्य विप्राय ददौ । कथं राजन्-सर्वोपकरणोपरि पादत्राणं स्थापितम् इत्य् उक्तो विप्रेण नृपस् तमाहानेन मां तादायित्वा गृहाणैतद् इति, भवद् उक्तिर् इयं सत्या जातेति कथाम् एतां विना श्लोक-तात्पर्यं न लभ्यते । इत्थं साख्यायिका अन्येऽपि सन्ति [३१]
काव्यस्-अमस्यापूरणम्—पूरण-साकाङ्क्षा कविशक्ति-परीक्षार्थम् अपूर्णतयैव पठ्यमाना समस्या । तस्याः पूरणं यथा—शतचन्द्रं नभस्तलम् इति । तत्र दामोदरकराघात-विह्वलीकृत-चेतसा । दृष्टं चाणूर-मल्लेन इत्य् अनेन पूर्यते । एवम्—पिपीलिका चुम्बति चन्द्र-बिम्बम् इति । तत्र
सज्जन-सङ्गमेन करोति दुःसाध्यम् अपीह साध्यम् । > पुष्पाश्रया शम्भु-शिरोऽधिरूढा
इति आदिना पूर्यस्ते । एवम् अन्या अप्य् अनन्ताः सतीति [३२]
पट्टिकावेत्रवानविकल्पाः—पट्टिकायाः खट्वादेश् च वेत्रैर् वाने वितनने विधिकल्पनानेक-पुष्पलतादिरूपा कल्पना । पट्टिका छुरिकासन्द्योः इति धरणिः । केचित् तु—छुरिका वेत्र बाणानां प्रहरणे विविध-कल्पना ऊर्ध्वाधस् तिर्यग् आदि-प्रकारेण प्रहरणम् इत्य् आहुः [३३]
तर्क-कर्माणि—तर्काणां शस्त्रीयाणां लौकिकानां वा नानाविधोहापोहेन क्रिया । तथाहि—भट्टस्य कट्यां शरटः प्रविष्टः । तत्र छिद्रा भावे प्रवेशो न सम्भवतीत्य् आद्यूहनम् । यदि माता स्यात् तर्हि पितापि स्याद् इत्य् एवं रूपा अनन्ताः सन्तीति । तर्किकास् तु व्याप्यारोपेण व्यापकारोपस् तर्क इत्य् ऊचुः । तद् उदाहरणं च—यदिवह्निर् न स्यात् तर्हि धूमोऽपि न स्यात् इति । व्याप्य् अस्य वचनं पूर्वं व्यापकस्य ततः परम् । यथा—बह्व्यभावो व्याप्यस् तदारोपप्रयुक्तो व्यापक-धूमाभाव इति केचित् तु—तर्कोऽनिष्ट-प्रसञ्जनम् इत्य् आहुः । तच् च शङ्खोऽस्थि कथं पवित्रं मृग-चर्मापि कथं तत्, तयोर् अस्थि-चर्मा विशेषत्वात्पावित्र्ये हेतुर् वाच्य इत्य् एवम् अनेकधानिष्टप्रसङ्गारोपोऽस्ति वैधेयानम् [३४]
तक्षणम्—शयनाद्य् अर्थं वार्धकि-कर्म [३५] वास्तु-विद्या—गृह-निर्माणाषोडश-वर्ण यावत् । एवं रूप्यम् अपि मृदु कांस्यादिस्-अङ्गहोनं ग्राह्यम् । तत्र वज्रमौक्तिक-मणिक्य-नीलमरकत-भेदात् पञ्च रत्नानि, गोमेद-पुष्प-राग-वैदूर्य-प्रबाल-भेदाच् चतुर्धो परत्नानि । वज्रमौक्तिके श्वेते, माणिक्यं लोहितम्, नीलं नीलम् एव, मरकतं श्वेतं पीतं च । गोमेदं पुष्प-रागं पिङ्गलम्, प्रवालं लोहितम् । वैदूर्यं हरि-पाण्डुरं च इति । वज्रे सप्त दोषाः पञ्च गुणाश् च सन्ति । षट्कोण-लघुभास्वरतीक्ष्णधार-सर्वतोरश्मिस्निग्धञ्चाकाल-मृत्यु-सर्पादि-शत्रु-व्याधि-भयहरं वज्रं भवति । मल-बिन्दुरूक्षरेखा-वैषम्यकाचवत्तद् अनिष्टकरम् । तन्-मौल्यं द्वादशधा परीक्षानुसारेण । एवम् एव रत्न-शास्त्रे सर्वेषां गुण-दोष-मूल्यानुक्तानीत्यलम् अतिप्रसङ्गेन [३७]
धातुवादः—स हि मृत्प्रस्तर-रस-धातूनां गौरिका-भ्रकपारदादि-रूपाणां पातन-साधनमेलनादि-ज्ञान-हेतुर् अर्थार्थः । यद् वा, धातूनां क्रियाणां वादः । धातुर् इत्य् उपलक्षणम् । स च गुप्त-क्रियादि-रूपः । तथाहि—
राम-नाम सुधा-धाम पवित्रं रसना रसम् । > कः कर्ता कर्म किञ्चात्र क्रिया-सम्बोधने च के ॥ इति ।
इह हे न इति सम्बुद्धिः, रसेति क्रियापदम् रसति क्रियापदम् रस—आस्वादने राम-नामेति कर्मत्वम् इति कर्तति । एवम्—
सार स्व तेन कौ मुद्याथ वा भवति देहिनाम् । > अत्र क्रियावदं गुप्तं कर्तृ-सम्बोधने तथा ॥
इति केचिद् आहुः । हे स्व देहिना या मुद् हर्षः कौ भूमौ भवति सा ते न आरेति योजनया सर्वं ज्ञायते [३८]
मणिरागाकर-स्थानम्—स्फुटिकादि रञ्जन-ज्ञानम् । तद् उत्पत्ति-स्थानम् एतादृश-भूमावमुकमण्याकर इति ज्ञानम् [३९] हृक्षायुवर्देयोगाः—वृक्षाणां रोपणमुष्टि-चिकित्साः । वृक्षाश्चाभ्रादयस् तेषां रोपणम्
सम्यक् कृष्टे समे क्षेत्रे माषानुत्वा तिलांस्तया । > सुनिष्पन्नान्-समुद्धृत्य तत्रबीजोप्तिर् इष्यते ॥ इति ।
क्षीर-निषिक्तं बीजं वृहतीतिलभस्म-सर्पिषा तिप्तम् । गोमयमृदितम् अथोप्तं सद्यो जायते धूपितं वसया ।[१] खर्जूर-बिल्वलकुचाः सितसर्षपेण इण्याकतश् च तुषवारिवशेन चाम्राः । ऐरावता निचुल-पत्रजलोक्षितेन सार्द्रा हिमाभसलिलेन च यान्ति वृद्धिम् [२] नराणाम् इव वृक्षाणां वातपित्तकफादगदाः । सम्भवन्ति न सन्देहस् तल्-लक्षणम् अथो ब्रूवे [३] कुशो दीर्घो लघू रूक्षो निद्राहीनोऽल्पचेतन्ः । न धत्ते फल-पुष्पाणि वात-प्रकृतिकस् तरुः [४] आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि । अकाल-पहापाकी च शाखी पित्तात्मकः कृशः [५] स्निग्ध-शाखादलः शाखी सम्यक् पुष्प-फलोज्ज्वलः । लतापरीत-गात्रस् तु कफवान् परिमण्डलः [६] सस्निग्धैः पिशितरसैः प्रयाति वातः सस्निग्धैस्सुहिमजलैश् च याति पित्तम् । कटवम्लैर् अहिमजलैः कषायरूक्षैः श्लेष्मापि क्रम-विहितैः प्रयाति नाशम् [७] इत्थं वहुधा वृक्षायुर्वेदे वर्णितम् इत्य् अलं प्रपञ्चेन [४०]
मेष-कुक्कुट-लावक-युद्धविधिः—मेषादीनाम् उपस्थानादि-चतुरङ्गैर् योधनम् । लवका पक्षि-विशेषः । उपस्थानानुस्यान-प्रस्थानपुरस्थानानि चतुरङ्गानि [४१] शुकसारिका प्रलापनम्—तयोर् मानुषभाषपाठनम् [४२] उत्सादनम्—उत्सादने सन्वाहने केश-मर्दने च कौशलम् । पादयोर् मर्दनम् उत्सादनं, शेषाङ्गेषु मर्दनं सम्वाहनं शिरोऽभ्यङ्गकर्म केश-मर्दनम् [४३]
अक्षर-मुष्टिका-कथनम्—अक्षराणां मुष्टिर् इव गुप्तिः साभासा निराभासा च । आद्याक्षर-मुद्रा यथा—मे-वृ-मि-क-सि इत्य्-आदिना मेष-वृषादि-कथनम् । दिवोदासीयेऽपि—
आ-भा-का-सित-पक्षेषु मैत्र-शरवण-रेवती । > सङ्गमे न हि भोक्तव्यं द्वादश्यां द्वादड्चाहरेत् । इति ।
आःका-पौ-चै-द्वितीयायां शिष्यं नाध्यापयेद्-गुरुः इति स्मृत्य् अन्तरे ।
जन्मक्षर्सङ्ख्या-सहिता शताब्दा दृगूनिता नन्दहृतावशेषाः । > आ-चं-कु-रा-जी-श-बु-के-शु-जाताः क्रमेण मौद्दीयदशाः प्रदिष्टा । इति > ।
हिल्लाजेऽपि
धनिष्टार्धश-पू-उ-रे तृण-काष्ठादि-संग्रहम् । > शय्याविततिगेहान्तर्द्दिप्रेतदहनं त्यजेत् ।
इति मुहूर्त-शास्त्रेऽपि । यद् वा, एकाक्सारोक्त्याक्षर-मुष्टिकाया वर्ण-समुदायरूपपादादेर् ज्ञानम् । तथाहि—कदाचिद् एकनगरवास्तव्यौ स्व-स्व-विद्याप्रवीणौ सवयसौ कौञ्चिद् अवनिदेवरुक्मकारतनयौ मिथः सख्येनार्थार्जनाय नगरान्तरमीयतुः । तत्र च पश्यतोहरतया बह्वसचातुरी-चुञ्चुनापि नाडिन्धमेन न तथा धन-मार्जितं दर्शनाभिलाषुकयोर् भवनम् अभिपरावर्तमानयोर् द्रव्यापहारभिया कृतजागरणयोर् अरण्ये क्रमेण शयने कृत-समययोः पुरश्चयितेन वर्णकार सुतेन शयानस्य साधुद्विजदारकस्य शिखां पादेनाक्रम्य शिरश्छेदाय पापेन वसुलिप्सयासिरुदयोजि । ततश् च बहुबोधितस्यापि दुर्मतिशान्तिमनालौच्यासिछिन्नाङ्गुल्यसृजा पत्रे अ-प्र-शि-ख इति वर्ण-चतुष्तयं विलिख्य मत्-पित्रे देयम् इति तस्मै प्रायच्छत् । स च स्वमनोरथं सम्पाद्यागत्य तत्-पित्रे तददात् । स च तद् अर्थमबुध्यमानो भोजराज-सभामागात् । तत्रत्येष्व् अपि तद् अर्थम् अकथयत्सु बुधेषु राज्ञि सप्त-दिनाभ्यन्तरेऽब्रुवाणा यथार्हं दण्ड्या इमे इति कृत-नियमे पलायमानेषु तेषु वन-वटाधः स्थितेन वररुचिना रात्रौ तत्रस्थगृध्र—गर्भिनीमांसाभिलाषितत्-पत्नीसम्वादेन तद् अक्सारार्थोऽवगतः । यतश् च श्रूयते—
दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च । > नैव च धूर्ताः सर्वत्र तिष्ठन्ति वटे वररुचिर् यथा । इति ।
ततश् च प्रसन्नमनाः स प्रातः राज-सभाम् आगत्येमं श्लोकमेकैक्षरज्ञातैकैकपादं पपाठ—
अ-नेन तव पुत्रस्य प्र-सुप्तस्य वनान्तरे । > शि-खामाक्रम्य पादेन ख-ङगेन निहन्तं शिरः ॥ इति ।
अपरा चेष्टा-मुद्रा । सा च किसलयादि-रूपेणाक्षर-कथनम् । तथाहि—
अहि-फणकजचक्राणि टङ्कारासिप्रभञ्जनान् । > मुखोर्ध्वरोमसम्सपर्शकेशम्पर्शौ क्रमेण च । > अकचटतपयशा इति वर्गाष्टकस्य च । > एतानि कुर्यान्-मतिमान्-समितौ बोधनाय वै । > अगुल्या निर्दिशेद्वर्णं मात्राः स्फोटिकया तथा । > एतद् रामेण निर्दिष्टं लक्ष्मणाय वने सता । > नासाकर्णौ शूर्पणाख्याश् छेत्तुं बोधाय चेष्टया ।
अस्यार्थः—कमलम् । टङ्कारो दुन्दुभिवादनानुकरणम् । असिपदेन खङ्ग-प्रहारानुकरणं प्रभञ्जनो वातकरणानुकरणम् । स्पष्टम् अन्यत् यदा रामं नौमि इति कथनेच्छा स्यात्-तदा मुखोर्धवरोमाणि स्पृष्ट्वाङ्गुलि-द्वयम् उत्थाप्य स्फोटिकाद्वयं कुर्याद् एतेन रा इति सिद्धम् । तत् मं सिद्ध्यर्यं हस्तेन पवनं कृत्वाङ्गुलिपञ्चकम् उत्थाप्यैकादश स्फोटिकाः कुर्यात् । ततो नौ सिद्धये खड्ग-प्रहारं हस्तेनानुकार्याङ्गुलि-पञ्चकम् उत्थाप्य स्फोटिकात्रयं कुर्यादित्य् एषा रीतिः सर्वत्र बोध्या । एवम् कृष्णोऽस्ति इति बोधनार्थम् आदौ कमलं कृत्वा तत एकाङ्गुलिम् उत्थाप्य तां वक्रां कुर्याद्दृपारसिद्धये स्फोटिका न कार्या, तेन कृ इति सिद्धं । ततः केशं स्पृष्ट्वाङ्गुलिद्वयम् उत्थाप्य दुन्दुभिवादनानुकरणं कृत्वाङ्गुलि-पञ्चकम् उत्थाप्य पुनर् अङ्गुलिद्वयं संयोज्य नव स्फोटिकाः कुर्यात् तेन ष्णो इति जातम् । ततः केशान्-स्पृष्ट्वाङ्गुलित्रयम् उत्थाप्य पुनर् अङ्गुलिद्वयं सष्योज्य स्फोटिकात्रयं कुर्यात् तेन स्ति इति । सर्वसंयोजनात्-कृष्णोऽस्तीति जायते । किं च—क्रू कथनार्थम् आदौ कमलं कृत्वेकाङ्गुलिम् उत्थाप्य ततो मुखोर्ध्वरोमाणि स्पृष्ट्वाङ्गुलि-द्वयम् उत्थाप्याङ्गुलि-द्वय-संयोगं कृत्वा षट् स्फोटिकाः कुर्यात् । क्ष कथनेऽपि कमलं कृत्वा केशान्-स्पृष्ट्वाङ्गुलि-द्वयं संयोज्यैकां स्फोटिकां कुर्यात् । ध्नि कथनार्थं मुख-रोमाणि स्पृष्ट्वाङ्गुलि-द्वयम् उत्थाप्यासिचेष्टां कृत्वाङ्गुलित्रयम् उत्थाप्य पुनर् असिचेष्टां कृत्वङ्गुलि-चतुष्कम् उत्थाप्य पुनर् असिचेष्टां कृत्वङ्गुलि-पञ्चकम् उत्थाप्याङ्गुलि चतुष्टय-योगं विधाय स्फोटिकात्रयं कुर्यादित्य् एवं संयुक्ताक्षरेऽक्षरपौर्वापर्यापेक्षयाक्षर-संयोग-समाङ्गुलियोगेनान्ते मात्रा-समाः स्फोटिकाः कार्या इति [४४]
म्लेच्छित-विकल्पाः—यत्-साधु-शब्दोपनिबद्धम् अप्य् अक्षरविन्यासाद् अस्पष्टार्थाम्, तस्य ब्य्हेदा ज्वलनागन्तुकशृङ्गादयः । यथा साहेऽव शलाम् इति । इहाहिना शेषेण सह वर्तते इति साहिर् विष्णू रुद्रो वा, तत्-सम्बुद्धौ हे साहे । शं मोक्ष-लक्षणं कल्याणं लाति ददातीति शला ब्रह्म-विद्या ताम् । अव रक्ष देहि वा । भारतेऽपि विदुरेणेणोपदिष्टा लक्षा-मन्दिर-प्रवेश-समये । भेदाश्चास्य ग्रन्थान्तर-गम्याः [४५]
देश-भाषा-ज्ञानम्—अप्रकाश-वस्तु-ज्ञापनार्थं तत्-तद्-देशीयैर् व्यवहारार्थं च [४६] पुष्प-शकटिकानिमित्त-ज्ञानं—पुष्पाणि निमित्तीकृत्य शुभानुभादेशपरि-ज्ञानम् । पुष्प-सङ्ख्या-वर्णाभ्यां शुभाशुभकथनम् । तच् च शकुन-शास्त्राद् अवसेयम् । निमित्त-ज्ञानम्—आगतस्य भाषादिना तदागमन-कार्य-ज्ञानम् । भवदीयं तक्रमतिमिष्टाम् इत्य् उक्ते तक्रार्थमागतोऽयम् इत्य् एवंरूपतया ज्ञानम् इति सामान्येनोक्तम् [४७]
यन्त्र-मातृकासजीवानां च यन्त्राणां सङ्ग्रामार्थं धटनाशास्त्रं विश्व-कर्म-प्रोक्तम् । सजीवयन्त्राणि तु जीववद् उत्पत्योत्प्लुत्य नाश-हेतूनि । तानि च धनुर्देवे प्रसिद्धानि [४८] धारणमातृका—श्रुत-ग्रन्थस्य धारणार्थं शास्त्रम् । यथोक्तम्—
वस्तु कोशस् तथा द्रव्यं लक्साणं केतुर् एव च । > इत्य् एते । धारणादेशाः पञ्चाङ्गरुचिरं वपुः । इति ।
वस्तुपदेन वस्तुणां स्वरूप-बोधकं शास्त्रम् । निघण्ट्वादिकोशः प्रसिद्धः द्स्रव्यस्य तल्-लक्षणस्य च बोधकं शास्त्रं तर्कादि । केतुपदं तत्-तच्-चिह्नपरम्, व्याकरणं पुंस्त्र्यादिबोधकम् [४९] सम्पाद्य [वाच्य] म्-तत्रैकः पूर्वधारित ग्रन्थं पठति, अपरोऽश्रुत-पूर्वं तेन सह तथैव पठति । केचित् तु सम्पाट्यम् इति पठित्वाभेद्यस्यापि वज्रादेर् द्वेधाकरणाम् इत्य् आचक्षते [५०]
मानसी—मनःसम्भवा चिन्ता । तत्र कश्चिव्द्यिञ्जनाकारैः पद्माद्याकृतिर् यथा-स्थितानुस्वारविसर्ग-युक्तैर् अनुक्तार्थं श्लोकं लिखत्यन्यस् तथैव पठतीति दृश्य-विषया । यदा तु तथैव यथा-क्रमम् आख्यातानि श्रुत्वापूर्ववद् उन्नीय पठति तदादृष्ट-विषया, सा चाकाशमानानसी । तद् उभयं क्रीडऋथं वादार्थं च । तद् उक्तं विदग्ध-मुख-मण्डने—
मानसी नाभसीत्याद्या बुद्ध्यादौ न्यासितापि या । > बाहुल्येन प्रयोगात् तु नेह नासां प्रदर्शनम् ॥ इति ।
आदि-पदान्मूर्ता-विचित्रा वाचिकी-प्रातिलोमिकी-मौलदेवी-धारा-पल्लवी-साभिनयालङ्कारादयः सम्वेद्याः ।
[: इ ———-द्रष्टव्य——————— : ।]{।मर्क्}
[।——————————— : ।]{।मर्क्}
इयम् एव बिन्दुमतीत्युते—
स्वरेषु बिन्दु-युक्तेषु हलां यदवबोधनम् । > तद्-बिन्दुमद् इति प्राहुः केचिद्-बिन्दुमतीमिति ॥
त्रिनययन-चूडारन्तं मित्रं सिन्धोः कुमुद्वतीदयितः अयम् दयति घुसृणारुणरमणीवदनोपमश् चन्द्रः । इत्य् अस्योदाहरणं स्वर-बिन्द्वादि पूर्वोक्तम् । यद् वा,
पत्रादि-चित्ररूपा सा वर्णद्वयेन चैकैकदलभूतदलाष्टकम् । > सर्वोत्तराद्यवर्णेन पद्यं स्यात्वृत्तकर्णिकम् ।
उदाहरणम्—अलयोऽपश्यद् अरयोऽररेऽवन्द्योऽहस्तोऽगजोऽहीनः एवम् अन्येऽपि बहवो भेदाः सन्तीति [५१]
काव्य-क्रिया—संस्कृत-प्राकृतापभ्रंश-काव्य-करणम्, चित्र-काव्य-करणम् । तद्-उक्तम्—
भासाभिश् चित्रितं यत्-स्यात्-संस्कृत-प्राकृतादिभिः । > सन्तश्चित्रं तद् इच्छन्ति संशुद्धं त्व् एक-भाषया । इति ।
उदाहरणं संस्कृत-प्राकृतयोः—
किं न स्यात्-कीदृक्षं मतोऽपि हि तादृशस्य जल-राशेः । > दिनमणि-किरणसिफंसणपडिबद्धं लोहि किं गोसे [१] ।
कमलवणं महतोऽपि समुद्रस्य किं कीदृशं न स्यात् । क्ं जलमलवणमक्षारं न स्यात् । दिनमणेः किरणानां स्पर्शेन प्रतिबुद्धं भवति किं प्रभाते कमलानां वनम् । एवम् अन्यद् अपि साहित्य-शास्त्रतोऽवसेयम् । संस्कृतापभ्रंशम् उदाहरति—
किं सुखम् आहुः प्रायः केशविकारं च का हरे दयिता । > भा कस्मिन् निशि किं भृशवाक्लोलुच्च इवीलपुलसाणम् [१] ।
के रोचते वीर-पुरुषाणाम् इति चतुर्थः प्रश्नः । शमल-कम्मालं भे शं सुखम्, अलकं चूर्ण कुन्तलम्, मा लक्ष्मीः, अलमत्य् अर्थम्, भे नक्षत्रे, समरकर्मारम्भे इत्य् अलमति प्रसङ्गेन [५२]
अभिधान-कोशः—उत्पलमालादि । आदिना विश्व-हैम-शब्दार्णवो-ज्ज्वला-जय-धनञ्जय-संसारावर्त-नामा-माला-यादव-शाश्वत-धरणि हलायुध-वररुचि-व्याड्यमर-भागुरि-बोपालित-रन्तिदेव-हर-केशव शुभाङ्क गोवर्धन-रभश-रुद्रदत्त गङ्गाधर-हारावली-त्रिकाण्ड-रत्न-माला सौभरि-वाग्भट-माधव-वाचस्पति-धर्म-तारपाल-विक्रम-वामन-कात्यायन-चन्द्र-गोभि-पाणिन्यनेकार्थध्वनिमञ्जर्यणेकार्थादीनां ग्रहः [५३]
छन्दो ज्ञानम्—पिङ्गलादि-प्रणीत-च्छन्दसो ज्ञानम् । छन्दश् च मात्रा-वर्ण-भेदेन द्विधा । मात्रा-छन्दांस्य् आर्यादीनि । वर्ण-च्छन्दांसि तु श्रयादीनि । तेषां [प्रस्तारोद्दिष्टैनष्टैकव्द्यादि]{।मर्क्}-ल-ग-क्रिया-पथि-मार्ग-योग-मेरु-मर्कटी-सूची-पताक्य्-आदिभिः । प्रत्ययैर् यथार्थ-ज्ञानं भवतीति [५४]
क्रिया-कल्पः—काव्य-करण-विधिः । स च—
साधु-शब्दार्थ-सन्दर्भं गुणालङ्कार-भूषितम् । > स्फुट-रीति-रसोपेतं काव्यं कुर्वीत कीर्तये ॥
इति वाग्-भट उक्तः । साधू निर्दोषौ सालङ्कारौ यौ शब्दार्थौ तयोः सन्दर्भो गुम्फनं यत्र तत् । गुणैर् औदार्यादिभिर् अलङ्कारैश् चित्रोपपमादिभिर् भूषितम् । स्फुटा रीतयः पाञ्चाली-गौड्यार्भट्यादयः, रसाश् च शृङ्गारादयस् तैर् उपेतम् । कीर्तय इत्य् उपलक्षणं
काव्यं यशसेऽर्थ-कृते व्यवहार-विदे शिवेतर-क्षतये । > सद्यः पर-निर्वृतये कान्ता-सम्मिततयोपदेश-युजे ॥ [का।प्र। > १.२]
इति काव्य-प्रकाशोक्तार्थानाम् । तत्-कारणं च प्रतिभाव्य् उत्पत्त्यभ्यासाः । नव-नवार्थोन्मेषशालिनी बुद्धिः प्रतिभा, व्युत्पत्तिर् गुरूपदेश-पूर्वक-सर्व-शास्त्र-ज्ञानम्, अभ्यासोऽनारतं काव्यरचनादरः । एवम् अन्येऽपि मनःप्रसत्त्यादयः काव्य-हेतवस् तच्-छास्त्रतोऽवसेयाः । यद् वा, क्रियाणां यज्ञादीनां कल्पो बौधायनादिपद्धति-ग्रन्थ-ज्ञानम् । वा—क्रियाणां स्वर्णकारादि-कर्मणां कल्पो ज्ञानम् । तेन भूषण-भाजन-हर्म्यादि-सर्व-क्रिया-करणं बोध्यम् [५५]
छलितक-योगाः—
तद् रूपम् अन्य--रूपेण सप्रकाश्य हि वञ्चनम् । > देवेतर-प्रयोगाभ्यां ज्ञायं तच्-छलितं तथा ॥
वञ्चनार्थं देवादि-बहु-रूप-धारणोपाया इत्य् अर्थः [५६] वस्त्रा-गोपनानि—वस्त्रेणाप्रकाश्य-देश-सम्वरणम् । यथा तद् रूपं मानम् अपि तस्मान्न् आपैति, त्रुटितस्यात्रुटितस्येव परिधानं महतो वस्त्रस्य सम्वरणादिनाल्पीकरणं च गोपनानि । सूत्रादिमयानां कौशेयादि-रूपतया प्रदर्शनं वा [५७] द्यूत-विशेषाः—निर्जीवसजीवादि-भेदेन बहवो द्यूत-भेदाः । सपण सजीवं, तर्द्धोनं निर्जीवम् । चतुरङ्कादि-रूपमेतन् निर्जिव-विधानम् [५८] आकर्षक्राडा—दूरस्थ-क्रीडकान्याकृष्य यत्र क्रीडा काष्ठ-पुत्तलिकाचालनरूपा । यद् वाकाशे दीर्घडोरकया प्रेषितस्य शरणपत्रादि-निर्मितयन्त्रस्याकर्षणादिना क्रीडा, पाशक-क्रीडा वा । दुर्विज्ञयतया पुनर् वचनं सजीव-द्यूत-विधानं वा । पाशके चतुर्ङ्के सति द्रव्यं दशधा विभज्य लापयेत् । एकाङ्कपाते एक जेता गृह्नीयात्, द्व्यङ्के त्र्यंशान्, त्र्यङ्के षडंशान्, चतुरङ्के पतिते दश भागानेव पूर्वाङ्कयोजनया गृह्नीयाद् इति द्युतविदां स्थितिः [५९]
बाल-क्रीडनकानि—बालानां कन्दुक-वीटा-पुत्रिकादिभिः क्रीडनानि । तानि च देश-काल-भेदादन्ततानि [६०] वैनायिकी—हस्त्यादि-शिक्षा । आदिना वाजिग्रहः [६१] वैजयिकी—विजय-प्रयोजना दैव्यपराजितादिः, मानुषी साङ्ग्रामिकी शस्त्र-विद्या [६२] व्यायामिकी व्यायाम् अप्रयोजना मृगयादिः । एतास्तिस्र आत्मोत्कर्ष-रक्षणाजीव्यार्थाः [६३] इत्य् एताच् चतुःषाष्टि-कला व्याख्याताः । उत्सादनात्केश-मार्जनस्य पृथग्-गणने सङ्ख्यापूर्तिः [६४]
कला स्यान् मूल्यैर् अवृद्धौ शैल्यादावंश-मात्रके ।
षोडशांशे च चन्द्रस्य कलना कालमानयोः । > भूमौ भक्त्यां कृपायां च कादम्बिन्यामथो कला ॥
इति मेदिनी-निरुक्तौ । गुरु-दक्षिणाया आवश्यकत्वम् आह—याजने हि ददन्तं वै ते तम् अयाजयं तस्माद् ददद् याज्यः, प्रतिगृह्नन्तो वै ते तम् अयाजयस् तस्मात् प्रतिगृह्नता याज्यम् उभये राध्नुवन्ति इति श्रूयते
तद्वद् अध्यापनेऽपि—याजने प्रतिग्रहवज् जीविका-रूपे ददद् एवाध्याप्यः । प्रतिगृह्नतैवाध्याप्यम् इति धर्मः । अत्र भारत-स्मृतिम् अप्य् आह—
यश् चाधर्मेण वै ब्रूयाद् यश् चाधर्मेण पृच्छति । > तयोर् अन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥
इति अस्यार्थः—यो दक्षिणाया अग्रहणेनाधर्मेण ब्रूयाद् अध्यापयेत् । यश् चाधर्मेण तस्या असमर्पणेन पृच्छत्य् अधीयते अन्यतरो दाता प्रतिग्रहीता वा प्रैति म्रियते । विद्वेषं चान्यतरोऽदानाद् अप्रतिग्रहाद् वाधिगच्छति । मद्-दत्त-दक्षिणाया अग्रहे तवाधर्मः स्यान् मम च त्वयि द्वेषः स्याद् अहम् अनेन कृतार्थो न कृत इति भावः ।
ततश् च कौतुक-विशेषार्थं कला अप्य् उपदिदेशेत्य् आह—अहो-रात्रैर् इति । यावतीः कलाः सञ्जगृहतुर् इति—चतुःषष्टि-कला-सङ्ग्रहे एतावन्त्य् अहो-रात्राणि । एवम् अखिल-वेदादि-सङ्ग्रहणेऽप्य् अहो-रात्राणि ज्ञेयानि । कलानां नामानि तु तैर् एव लिखितानि । केचित् तु कलाः कल्प-संहितोक्ताः सुधियाम् एव प्रत्येकम् अहोरात्र-शिक्षणार्हाः क्षुद्र-सिद्धि-रूपाः पर-चित्ताद्य्-आभिज्ञातादूर-श्रवण-दर्शन-चिन्ता-रत्नामृत-विशेष-निर्माणाद्या अन्या एवाहुः । यद् वा, तत् सर्वं कलाश् चाहोरात्र-चतुःषष्ट्या सञ्जगृहतुर् इत्य् अन्वयः । तथा च विष्णु-पुराणे—
स-रहस्यं धनुर्-वेदं स-सङ्ग्रहम् अधीयताम् । > अहोरात्र-चतुःषष्ट्या तद् अद्भुतम् अद्भूद् द्विज ॥ [वि।पु। ५.२१.२१] > इति
श्री-हरि-वंशे च—
तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् । > अहोरात्रैश् चतुःषष्ट्या साङ्ग-वेदम् अधीयताम् ॥ [ह।वं। २.१३३.६] > इति ।
छदयामासतुः काम् अप्य् अभीप्सितां दक्षिणां गृह्नात्व् इत्य् उक्त्वा तत्-प्राप्तीच्छां कारयामासतुर् इत्य् अर्थः । अभिप्राय-वशौ छन्धौ इत्य् अमरः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहोरात्रैर् इति रात्रिष्व् अपि तत्-तद् अभ्यासः सूचितः । संयत्तौ गुरु-सेवादि-नियमपराव् इत्य् अर्थः । तावतीः कलाः संजगृहतुर् इति चतुःषष्टि-कला-संग्रहे तावन्त्यहोरात्राण्य् अखिल-वेदादि-संग्रहे चान्यान्यप्य् अहोरात्राणि, एवं मासकतिपयान् तत्रैवोषतुर् इति ज्ञेयम् । वह्वहानीति वक्ष्यमाणत्वात् । यद् वा, कति-दिनैः संजगृहतुर् इत्य् अपेक्षायाम् आह—अहोरात्रैर् इति । केचित् तु कलाः कल्प-संहितोक्ताः सुधियाम् एव प्रत्येकम् एकाहोरात्र-शिक्षणार्हाः क्षुद्र-सिद्धि-रूपाः परचित्तज्ञता दूर-श्रवण-दर्शन-चिन्ता, रत्नामृत-विशेष-निर्माणाद्या अन्या एव कलाः प्राहुः ।
यद् वा, तत्-सर्वं कलाश् चाहोरात्रैश् चतुःषष्ट्या सञ्ज-गृहतुर् इत्य् अन्वयः । तथा च श्री-विष्णु-पुराणे—
सरहस्यं धनुर्वेदं ससंग्रहम् अधीयताम् । > अहोरात्रैश् चतुषष्ट्या तद् अद्भुतम् अभूद् द्विज ॥ [वि।पु ५.२१.२१] > इति,
श्री-हरि-वंशे च—
तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् । > अहोरात्रैश् चतुःषष्ट्या साङ्गं वेदम् अधीयताम् ॥ [ह।वं। २.३३.६]
इति छान्दयामासतुः, तद् अनिच्छुम् अपीच्छां कारितवन्तौ, अत एव विस्मयेन सम्बोधयति—नृपेति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च कौतुक-विशेषार्थं कला अप्य् उपदिदेश इत्य् आह । अहोत्रात्रैर् इति । यावतीः कलाः सञ्ज-गृहतुर् इति चतुःषष्टि-कलाः संगृहे एतवन्त्य् अहोत्राणि अखिल-वेदादि-सङ्ग्रहेणाप्य् अहोरात्राणि ज्ञेयानि । कलानां नामानि तैर् एव लिखितानि स्वरूपाणि तु लेख्यानि । तत्र गीतं गान-क्षिक्षा गीत-निर्माणं स्वजाति-रोग-भेदाः ताल-मात्रादि-रचना-प्रकाराः साधक-बाधक-स्वरादि-मेलनानां परिज्ञानं च [१] अथ वाद्यं चतुर्विधं तत्रापि क्षिक्षादयः पूर्ववज्ज्ञेयाः एवम् उत्तरत्रापि [२] नृत्यं सामान्यम् [३] नाट्यं रूपकम् अयं [४] आलेख्यं चित्र-कर्म [५] विशेषकच्छेद्यं तिलकेषु नाना विच्छेद-रचना [६] तण्डुलादि-बलि-विकारास् तण्डुलानां कुसुमानां च पूजोपहार-रूपाणां विकारा नाना-प्रकार-रचना [७] पुष्पास् तरण पुष्पादिभिः शय्या रचनं [८] दर्शन-वसनाङ्गरागास् तेषां तेषां च रञ्जन-भेदाः [९] मणि-भूमिका-कर्ममय-निमित-पाण्डव-सभावन् मणि-बद्ध-भूमि-क्रिया [१०] शयन-रचनं पर्यङ्कादि-निर्माणम् [११] उदक-वाद्यं सरोवरादि-स्थापित-भाण्डे उदकपूरित-पात्रे वा मधुर-नानातान-समुत्थापनं[१२] उदकघातः जलस् तम्भ-विद्या [१३] चित्रा योगाः नानद्भुत-दर्शने सम्यग् उपायाः [१४] माल्येत्य् आदि सप्तकं सुगमं [१५.२१] कौचुमारयोगः कुचुमार-नाम्ना प्रकाशिता स्वस्मिन्न् नाना-रूपा व्यञ्जना [२२] हस्त-लाघवं चमत्कार-लम्भनार्थम् अलक्षितेन हस्त-सञ्चारेण तत् तद् वस्तु-प्रवर्तनं [२३] चित्रेऽपि द्वयं चित्रम् अत्र नाना-प्रकारं [२४] पानक-रस-रागः पानकेषु रसस्य रागम्य च नाना-निर्माणम् इत्थर्थः । तद् वदासवयो-जनञ्चेत्य् अर्थः [२५] सूचीति सुगमं सूत्र-क्रीडादि सूत्र-सञ्चालनेन पुत्तलिकादि-चालनं [२७] प्रहेलिका अपह्नुत-वाग् अर्थपरिज्ञानं [२८] प्रतिमाला सर्व-वस्तु प्रतिकृति निर्माणं [२९] दुवच-योगाः यद् यद् वक्तुं न शक्यते स्तत् तद् वक्तुम् उपायाः [३०] पुस्तक-वाचनम् अतिशीघ्रम् अविद्यमानान् अपि वर्णान् योजयित्वा यद् वाचनं [३१] नाटकाख्यायिकादर्शनं तत् तच् छास्त्राणं परिज्ञानं निर्माणं च [३२] काव्य-समस्यापूरणं काव्येषु गुप्त-पदस्य समस्यायाः सङ्क्षेपेणोक्तस्य सहसा पूरयितुम् अशक्यस्य श्लोकांशस्यांशन्तरेण पूरणं [३३] पट्टिका-वेत्र-वाणविकल्पाः सूत्रोप्त चिपिटाकारस्य बन्धनादि-साधनस्य कलाया वाणस्य च कल्पनाः [३४] तर्कुम मर्माणि सूत्र-निर्माण-साधन-लौह-शलाकया साध्यानि विविध-सूत्र-कल्पानि [३५] तक्षणं तक्ष्णां कर्म [३६] वास्तु-विद्या गृहोचित-भूम्यादीनां तन् निर्माण-भेदानां च ज्ञानं [३७] रूप्यरत्न-परीक्षा रूप्यादीनां रत्नानां सद् असत्ताज्ञानं [३८] धातुवादः स्वर्णादि-कल्पनं [३९] मणि-राग-ज्ञानं मणिषु राग-निर्माण-ज्ञानं [४०] आकर-ज्ञानं दर्शनाद् एव मण्वाद्य् उद्धव-भूमि-ज्ञानं वृक्षेति त्रयं स्पष्टम् [४२.४४] उत्सादनं मन्त्रादिना परस्परासत्तित्याजनं [४५] केशेति स्पष्टम् [४६] अक्षर-मुष्टिका-कथनम् अक्षराणाम् अदृष्टानां तथा मुष्टिका-स्थित-वस्तूनां च स्वरूपस्य सङ्ख्यायाश् च कथनं [४७] म्छेच्छि विकल्पाः । म्लेच्छ-विविध-भाषा-भरत शास्त्राणां ज्ञानं [४८] देश-भाषा-ज्ञानम् इति स्पष्टं [४९] पुष्प-शकटिका-निमित्त-ज्ञानं पुष्प-शकटौपाधिकायां कस्याञ्चिद् विद्यायां निमित्तस्य ज्ञानं [५०] यन्त्र-मातृका-पूजार्थे मातृका वर्णेर् यन्त्र-निर्माणं [५१] सैव धारणऋथो चेद् धारण-मातृका [५२] सम्पाट्यम् अभेद्यस्यापि हीरकादेर् द्वेधीकरणं [५३] मानसी-काव्य-क्रिया परमनः स्थितस्यार्थस्य श्लोकनं [५४] क्रिणा-विक्ल्पाः एकैकस्या क्रीयाया विविधैर् उपायैर् निष्पादनं [५५] छलितक-योगाः परवञ्चनोपायाः [५६] अभिधानेति सुगमं तत्राभिधान-कोपयोर् नानार्थता पर्याय-समर्थता भेदाद् भेदः छन्दः तच् छास्त्र्ं एतानि च वेदाङ्गानि अन्यानि तत् तद् विपश्चिन् निबद्धानि [५७] वस्त्र-गोपनानि तूल-सूत्रमयादि-वस्त्राणां पट्ट-वस्त्रादितया दर्शन-प्रक्रिया [५८] द्यूतेति स्पष्टम् [५९] आकर्ष-क्रीडा दूरस्थान्य् अपि क्रीडा-द्रव्याणि यत्राकृष्यन्ते स क्रीडा-विशेषः [६०] बालेति स्पष्टं [६१.६३] वैनायिकी वैजयिकी वैतानिकी चेति विद्यात्रय उन्नेयं [६४] केचित् तु कलः कल्प-संहितोक्ताः सुधियाम् एव प्रत्येकम् एकाहोरात्र-शिक्षणार्हाः क्षुद्र-सिद्धि-रूपाः परिचित्तज्ञता दूरश्रवण-दर्शन-चिन्ता रत्नामृत-विशेष-निर्माणाद्या अन्या एवाहुः यद् वा, तत् सर्वं कलाश्चाहोरात्रैश् चतुःषष्ट्या सञ्जगृहतुर् इत्य् अन्वयः । तथा च श्री-विष्णु-पुराणे—
सहरस्यं धनुर् वेदं ससङ्ग्रहम् अधीयताम् । > अहोरात्रैश् चतुःषष्टया तद् अद्भुतमभूद्-द्विजेति ।
श्री-हरि-वंशे च—
तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् । > अहोरात्रैश् चतुःषष्ट्या साङ्गं वेदम् अधीयताम् ।
इति-छन्दयासतुः तद् अनिच्छकम् अपीच्छां कारितवन्तौ ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावतीश् चतुःषष्टि-कलाः ताः शैवन्तत्रे द्रष्टव्याः चन्दयामासतुः कामप्य् अभीप्सितं दक्षिणां गृहाणेत्य् उक्त्वा तत् प्राप्तीच्छां कारयामासतुर् इत्य् अर्थः । अभिप्रायवशौ छन्दाव् इत्य् अमरः ॥३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.३७ ॥
द्विजस् तयोस् तं महिमानम् अद्भुतं
संलक्ष्य राजन्न् अति-मानुषीं मतिम् ।
सम्मन्त्र्य पत्न्या स महार्णवे मृतं
बालं प्रभासे वरयां बभूव ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभासे क्षेत्रे महार्णवे मृतं बालं वरयाम् आस ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः राम-कृष्णयोः । अतिमानुषीं मनुष्य-देहे असम्भवाम् । स सान्दीपनिः । प्रभासे मृतं, तीर्थ-यात्राया पितृभ्यां सह तत्र महा-शिव-क्षेत्रे गतस्य तत्र बालतया जले क्रीडतः शङ्खासुरेण ग्रसनाद् इति ज्ञेयम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स परम-बुद्धिमान् द्विजस् तं स्वल्पतरेणैव कालेनाशेष-विद्या-संग्रहण-लक्षणमत एवाद्भुतम् अलौकिकं तमेवाभिव्यञ्जयति—अतीति । यद् वा, दान्तत्वादि-लक्षणम्, मतिं च, पत्न्या सह सम्मन्त्र्येति दुर्लभार्थ-धारणे सन्देहात्, तस्याः प्रीत्य् अर्थं वा । प्रभासे मृतम् इति तीर्थ-यात्राया पितृभ्यां सह तत्र गतस्य बलतया जले क्रीडतः सङ्खासुरेण ग्रसनाद् इति ज्ञेयम् । ह हर्षे, यम-निर्जय-प्रारव्धान पेक्षणादि-श्री-भगवन् माहात्म्य-विशेष-प्राकट्योपपत्तेः11, हे राजन्न् इति तद् वरणस्याद्भुतत्वात् राजमान इति वा ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभासे मृतम् इति । तीर्थ-यात्रायां पितृभ्यां सह तत्र महा-शिव-क्षेत्रे गतस्य बालतया जले क्रीडतः शङ्खासुरेण ग्रसनाद् इति ज्ञेयम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रभासे मृतम् इति । तत्र महा-शिव-क्षेत्रे बालतया जले क्रीडतस् तस्य शङ्खासुरेण ग्रसनाद् इति ज्ञेयम् ॥३७.३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.३८॥
तथेत्य् अथारुह्य महा-रथौ रथं
प्रभासम् आसाद्य दुरन्त-विक्रमौ ।
वेलाम् उपव्रज्य निषीदतुः क्षणं
सिन्धुर् विदित्वार्हणम् आहरत् तयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वराव् इति विदित्वा समुद्रस् तयोर् अर्हणम् आजहार ॥३८.३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरूक्तिं तथेत्य् अङ्गीकृत्य । अथाङ्गीकारोत्तरम् । महान्तौ लोकापेक्षयालौकिकौ पूज्यौ रथौ यथोस् तौ, न तु योध-महारथावनन्तबलत्वेन तत्त्वासम्भवात् । वेलां सिन्धुतीरम्
बेला काले च सीमायामब्धेः कूल-विकारयोः । > अक्लिष्टमरणे रागे ईश्वरस्य च भोजने ॥
इति मेदिनी । तयोः राम-कृष्णयोः । विदित्वा पूर्वावतारीय-पुरुषार्थस्मरणेन तावेताव् इति ज्ञात्वा महा-रथौ वीर-प्रवरौ, अनेन सर्वायुध-साहित्यादिकम् उक्तम् । दुरन्त-विक्रमावनन्तपराक्रमौ । वेलां समुद्रतीरम् । निषेदतुरुपविष्टौ । निषीदतुः इति पाठस् त्व् आर्षः । अर्हणममूल्य-रत्नादिकम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथेति एवम् अस्त्विति तत् स्वीकृत्येत्य् अर्थः । अथानन्तरं सद्य एवेत्य् अर्थः । महा-रथौ वीर-प्रवराव् इति सर्वायुध-साहित्यादिकम् उक्तम् । दुरन्त-विक्रमौ—अनन्त-पराक्रमौ, वेलां समुद्र-तीरम्, अर्हणममूल्य-रत्नादिकम् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रेति स्वीकृत्येत्य् अर्थः । अथानन्तरं सद्य एवेत्य् अर्थः । महा-रथौ वीर-प्रवरौ इतिसर्वायुध-साहित्यादिम् उक्तं दुरन्त-विक्रमौ अनन्त-पराक्रमौ वेलां समुद्र-तीरं निषेदतरुपविष्टौ निषीदतुर् इति पाठस् त्व् आर्षः अर्हणम् अमूल्य-रत्नादिकम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.३९ ॥
तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् ।
योऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तमब्धिम् । यो गुरु-पुत्रः, असौ प्रदीयताम् इति भगवान् इत्य् ऐश्वर्यं प्रदर्शयन्न् इत्य् अर्थ । असौ प्रकर्षणाविकृत-शरीरत्वादिना दीयतां देहवत्त्वात् तथाशक्तेर् इति भावः । इह प्रभासे ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् इति—शैश्वर्यं दर्शयन्न् इति भावः । असौ प्रकर्षेणाविकृत-शरीतत्वादिना दीयताम् । इह प्रभासे, महतोर्मिणा कृत्वा ग्रस्तः संहृत इत्य् अपमृत्युनैव मृतत्वादायुःशेषवृत्तेर् जीवन्न् एवास्तीति भावः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् इत्यैश्वर्यं प्रदर्शयन्न् इत्य् अर्थः । असौ प्रकर्षेणा-विकृत-शरीतत्वादिना दीयतां देवत्त्वात् तया शक्तेर् इति भावः । इह प्रभासे ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.४० ॥
श्री-समुद्र उवाच—
न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् ।
अन्तर्-जल-चरः कृष्ण शङ्ख-रूप-धरोऽसुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्च-जनस् त्व् असुरोऽहार्षीत् । स च महान् ममासाध्य इत्य् अर्थः ॥४०.४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शङ्खाकारमत्स्य-रूपधरः । समुद्र उवाचेति क्वचिद् अस्ति क्वचिद् अस्ति क्वचित् तु न, टीकाकृद्भिस् त्यद् वाक्यत्वेन न स्पष्टीकृतः । न चेत्य् अर्धकं क्वचिन् नास्ति । देव हे क्रीडापरेति, तत्-सर्वं जानन्न् अपि यदेवम् आज्ञापयति सेयम् एका तव क्रीडेति भावः । अत्र दैत्य इत्य् अस्यैवासुर इति टीका । अन्तरित्य् अधकम्, आस्त इति शेषः । आस्ते तेनाहृतो नूनं तच्-छ्रुत्वा सत्वरं प्रभु इत्य् अर्धकं क्वचिद् अस्ति । एतद् अभावे तूत्तरत्र प्रभूः इत्य् अध्याहार्यम् । कृष्णेति—सर्वाकर्षकशक्तेस् तव तस्य निग्रहो न दुष्कर इति भावः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देव हे क्रीडापरेति त्वं सर्वं जानन् अपि यद् एवम् आज्ञापयसि, सेयम् एका तव क्रीडेति भावः । तच्चोचितम् एवेति सम्बोधयति कृष्णेति । सर्व-चित्ताकर्षक-सहज-विनोदपरत्वाद् इति । यद् वा, जगद् धितार्थम् अवतीर्णेन साक्षाद् भगवता त्वया सोऽप्य् उधर्तुं युज्यत इति भावः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समुद्र उवाचेति क्वचिद् अस्ति क्वचित् तु न किन्तु टीकाकृद्भिस् तद् वाक्यत्वेन न स्पष्टी-कृतं न चेत्य् अर्धकं नैति क्वचित् पाठः देव हे क्रीडापरेति तं सर्वं जानन्न् अपि यद् एवम् आज्ञापयसि सेयम् एव तव क्रीडा इति भावः । अत्र दैत्य इत्य् अस्यैव असुर इति टीका ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्जजनोऽहार्षीद् इति शेषः । स च महान् ममासाध्य इत्य् अर्थः ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४१ ॥
आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः ।
जलम् आविश्य तं हत्वा नापश्यद् उदरेऽर्भकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सपर्यां पूजाम् । सर्वेषां भूतानाम् आशया अन्तः-करणानि तान्य् आलयो निवासो यस्य तम् ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं पञ्च-जनम् । जलम् इति श्री-शुकोक्तिः । सक्षोभमन्तः प्रविश्य अर्भकं तद् अस्तीन्यपीत्य् अर्थः । तद् अन्वेषणं च यद्य् अप्य् अस्थीन्य् अपि प्राप्स्यामि तद् अपि गुरु-प्रसादेन जीवयिष्यामीति समुद्रं प्रति लौकिक-लीला-व्याञ्जनार्थम् । एक-वचनाद् एकाक्येव श्री-कृष्णः प्रविष्ट इति ज्ञेयम् । तथा च विष्णु-पुराणे—
इत्य् उक्तेन्तर् जलं गत्व हत्वा पञ्चजनं तु तम् । > कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खम् उत्तमम् । इति ।
तच् च रथ-रक्षार्थं बलदेवस्य तीरे स्थापनात् ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आस्त इत्य्-आदि पद्यार्धं श्री-स्वामि-पादानाम् असम्मतम्, आहार्षीद् इति तैर् व्याख्यानात्, आविश्य सक्षोभम् अन्तः प्रविश्य, एकाकी श्री-भगवान् एवेति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
इत्य् उक्तोऽन्तर्जलं गत्वा हत्वा पञ्च-जनं च तम् । > कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खम् उत्तमम् ॥ [वि।पु। > ५.२१.२७] इति,
तच् च रथ-रक्षाद्य् अर्थं श्री-बलदेवस्य तीरे स्थापनात् । तद् अङ्ग-प्रभवम् इति तत्त्वतो विप्र-शापापेक्षया नित्य-पार्षदेन शङ्खेन दैत्य् अत्वस्वीकारात् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जलम् इति श्री-शुकोक्तिः । आविश्य सक्षोभम् अन्तः प्रविश्य अर्भकं तद् अस्थीन्यपीत्य् अर्थः । तद् अन्वेषणं च यद्य् अप्य् अस्थीन्य् अपि प्राप्स्यामि तदा गुरु-प्रसादेन जीवयिष्यामीति समुद्रं प्रति लौकिक-लीला-व्यनार्थम् । एक-वचनाद् एव्काक्य् एव श्री-कृस्णः प्रविष्ट इति ज्ञेयं तथा च श्री-विष्णु-पुराणे—
इत्य् उक्तोऽन्तर् जलं गत्वा हत्वा पञ्चजनं तथा । > कृष्णो जग्राह तस्यास्थिः प्रभवं शङ्खम् उत्तमम् ॥ > []{दिर्=“र्त्ल्”}[वि।पु। ५.२१.२८] इति ।
तच् च रथ-रक्षार्थं श्री-बलदेवस्य तीरे स्थापनात् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तर्जलचर इत्य् अत्रास्ते इति शेषो ज्ञेयः । आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुर् इति पद्यार्धम् अधिकं क्वचिद् इति वैष्णव-तोषणी अत उत्तरत्रापि प्रभुर् इत्य् अध्याहार्यम् ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४२ ॥
तद्-अङ्ग-प्रभवं शङ्खम् आदाय रथम् आगमत् ।
ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य पञ्चजनस्य । अङ्ग-प्रभवं शरीर-सम्भूतम् । ततो दैत्य-हननोत्तरम् । तद् अङ्गप्रभवम् इति—तत्त्वतो विप्र-शापापेक्षया नित्य-पार्षदेन शङ्खेन दैत्यस्यानुकरणात्, जय-विजयवत् । अत एवेच्छया श्री-कृष्ण-हस्ते तु वाद्य-योग्य-सूक्ष्माकारोऽप्य् अभवद् इति ज्ञेयम् । अवन्ती-खण्ड-मते तु—
ततः पञ्चजनं हत्वा ग्राह-रूपं महासुरम् । > तन्-मन्ध्यस्थ स जग्राह शङ्खं ग्रस्तं हि यत्पुरा ॥ > तस्योदरे यद बालं नाप्तवांस्तं जनार्दनः । > यमालयगतं मत्वा तदा वरुणम् अब्रवीत् ॥ > भगवन् यादसामीश रथो मे दीयतां महान् । > येनाहं विहितात्मा हि पश्येयं सङ्गरे यमम् ॥ > पुराजिरे हता दैत्या दानवा बलगर्विताः । > त्वया येन रथेनाद्य मह्यं स दीयतां रथः ॥ इत्य्-आदि ।
दीयताम् इति तत्र निवास-निश्चयात् ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत इति तद् उदरे दर्शनेन तस्य मरण-मननादित्य् अर्थः । दयिताम् इति सदैव सपरिवारस्य यमस्य तत्रैव निवासात्, अत एव हलायुध-सहितस् तां गत्वेति श्री-बलदेवेन युद्धार्थं हलं प्रकटयामासेति ज्ञेयम् । जनार्दन् इति वैष्णवाग्र्येण धर्म-राजेन चिरं निज-गृहेऽर्चयितुम् उपेक्ष्यत इति भावः । शङ्खं तम् एव प्रकर्षेणात्य् उच्चैर् दध्मौ ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अङ्ग-प्रभवम् इति तत्त्वतो विप्रशापापेक्षया नित्य-पर्षदेन शङ्खेन दैत्य् अत्वानुमरणात् जय-विजयवत् । अत एवेच्छया श्री-कृस्ण-हस्तेषु वाद्य-योग्य-सूक्ष्माकारोऽप्य् अभवद् इति ज्ञेयम् । अवन्ती-खण्डमते तु—
ततः पञ्च-जनं हत्वा ग्राह-रूपं महासुरम् । > तन्मध्यस्थं स जग्राह शङ्खं ग्रस्तं हि यत् पुरा । > तस्योदरे यदा बालं नाप्तवांस्तं जनार्दनः । > यमालय-गतं मत्वा तदा वरुणम् अव्रतीत् । > भगवन् ! यादसाम् ईश ! रथो मे दीयतां महान् । > येनाहं विहितात्मा हि पश्येऽहं सङ्गरे यमम् । > पुराजिरे हता दैत्या दानवा बलगर्विताः । > त्वया येन रथेनाद्य मह्यं स दीयतां रथ । []{दिर्=“र्त्ल्”}इत्य्-आदि > ।
दयिताम् इति तत्र निवासनिश्चयाद् इत्य् अर्थः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : *न व्याख्यातम्।*तद्-अङ्ग-प्रभवम् इति । तत् ततो विप्र-शापापेक्षया नित्य-पार्षदेन शङ्खेन दैत्यानुकरणात् ॥४२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रथम् आगमद् इति । रथं तत्रस्थं बलदेवं च तीरे स्थापयित्वैव स्वयम् एकाक्ये कृष्णः सर्वज्ञत्वात् तज् जानन्न् अपि तद् अन्वेषणम् इषेण स्वीयं शङ्खमानैषीद् इति ज्ञेयं तद् अङ्ग-प्रभवम् इति । चिन्मयत्वान्न् इत्य् अस्यापि पाञ्चजन्यस्य जय-विजयवद् असुरत्वम् इति केचिद् आहुः । ततः पञ्चजनं हत्वा ग्राह-रूपं महासुरम् । तन् मध्यस्थं स जग्राह शङ्खं ग्रस्तं हि हि यत् पुरे त्यवन्तीखण्ठ-वचन-दृष्ट्या तद् अङ्ग-मध्ये प्रकर्षेण भवः स्थितिर् यस्य तम् इति च केचिद् व्याचक्षते ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४३ ॥
गत्वा जनार्दनः शङ्खं प्रदध्मौ स-हलायुधः ।
शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनो यमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रजाः संयच्छति नियच्छतीति प्रजासंयमनः । जनार्दनः सर्व-निज-जनाभीष्टपूरकः । अत एव हलायुद्स्हेनापि सह, एतन्नाम्ना तस्य हल-प्रकटनम् अपि तदा ज्ञेयम् । शङ्ख-प्रध्मानानन्तरम् अवन्ती-खण्डे त्व् एवम्—
तेन शब्देन वित्रस्ताः कृतान्तालयवासिनः । > नरकान्तर्गता मर्त्याः पापाचारपरायणाः ॥ > सुखम् आपुः प्रशान्तश् च बहवः कृक्ष्ण-दर्शनात् । > शास्त्राणि कुण्ठतां प्रापुर् यन्त्राणि विविधानि च ॥ > विदीर्णानि तदा व्यासः वासुदेवस्य दर्शनात् । > असिपत्रवनं नाम शीर्णपत्रम् अजायत ॥ > रौरवं नाम नरकमरौरवम् अभूत् तदा । > अभैरवं भैरवाख्यं कुम्भीपाकम् अपाचकम् ॥ > शृङ्गाटकम् अशृङ्गाटं लोह-सूच्यप्य् असूचिताम् । > जगाम जगताम् ईशे प्राप्ते तत्र जनार्दने ॥ > हस्त-मात्रतरा जाता तदा वैतरणी नृणाम् । > नारकास्ते तदा याते तत्र विश्वेश्वरे विभौ ॥ > पापक्षयात् तदा सर्वे विमुक्ता नऋअका नराः । > पदम् अव्ययम् आसाद्य दृष्ट्वा विष्णुं तमोऽपहम् ॥ > विमानायुत-साहस्रैर् आरूढास्ते समन्ततः । > समीक्ष्य पुण्डरीक्षाक्षं मुक्तास्ते सर्व-पातकात् ॥ > ततः शून्यं मुने यतं सर्वं निरय-मण्डलम् । > दर्शनात् तस्य देवस्य विष्णोर् विश्व-स्वरूपिणः ॥
इति प्रजा-संयमन इति भयङ्करत्वम् उक्तम् । तथात्र युद्धं च सूचितं, श्री-विष्णु-पुराणे—जित्वा वैवस्वतं यमम् इत्य् उक्तेः । अवन्तीखण्डे बहुशो वर्णितम् एस्तत् ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राजाः पापि-प्राणिनः संयमयति दण्डयतीति तथा स इति महा-भयङ्करत्वम् उक्तम्, सोऽपि । यद् वा, प्रजा-संयमन इति श्री-भगवद् दत्ताधिकारापेक्षया प्राक्-कृत-युद्धार्थ-निर्जितः सन्न् इति श्री-विष्णु-पुराण-हरि-वंशोक्तानुसारेण ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
तं पाञ्चजन्यम् आपूर्य गत्वा यम-पुरीं हरिः । > बलदेवश् च बलवान् जित्वा वैवस्वतं यमम् ॥ > तं बालं यातना-संस्थं यथा-पूर्वं शरीरिणम् । > पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः ॥ [वि।पु। ५.२१.३०] > इति,
श्री-हरि-वंशे च—
ततो वैवस्वतं दैवं निर्जित्य पुरुषोत्तमः । > आनिनाय गुरोः पुत्रं चिर-नष्टं यमक्षयात् ॥ [ह।वं। २.३३.२०] > इति,
यद् वा, प्रजाः सर्वान् एव प्राणिनः, सम्यक् यमयति धर्माधर्म-फल-प्रदानेन शोधयित्वा मर्यादायां स्थापयतीति तथा सः । एवं लोक-हितकारित्वेन परम-साधुत्वम् उक्तम् । अत एव भक्त्योपबृंहितां वर्धितां सम्पादितां वा । सर्व-भूताशयालयम् इति मद् भक्तवरोऽयं मद् दर्शनाद्य् अर्थम् एव मृतं गुरु-पुत्रम् आनीतवान् इत्य् अस्यापराधः कश्चिन् न घटते, अथ चानुग्राह्य एवेति भावः । कृष्णम् इति प्राधान्यात् तं प्रत्येवोक्तेः, अतस् तम् एव सम्बोधयति—विष्णो हे प्रभुत्वेन विश्व-व्यापकेति । इत्यात्मनस् तत्-सेवकत्वं सूचितम् ।
युवयओर् इति तत्-सङ्गित्वाग्रजत्वादिना श्री-बलदेवस्याप्य् अपेक्षत्वात् । लीलया लीलार्थं वा मनुष्ययोः । यद् वा, लीलामय-मनुष्याकारयोः । किं करवाम तद् आज्ञापयेति शेषः । बहुत्वं निज-परिवारापेक्षया । यद् वा, किं करवाम, किं कर्तुं शक्नुम इत्य् अर्थः । परमेश्वरतया परिपूर्णत्वात्, ततश् च बहुत्वम् इन्द्राद्य् अभिप्रायेण ॥४३.४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनार्दनः सर्व-निज-जनाभीष्ट-पूरकः । अत एव हलषुधेनापि सहैतन् नाम्ना तस्य हल-प्रकटनम् अपि तदा ज्ञेयं शङ्ख-प्रध्वानानन्तरम् अवन्ती-खण्डे त्व् एवं—
तेन शब्देन वित्रस्ताः कृतान्तालय-वासिनः । > नरकान्तर्गता मर्त्याः पापाचार-परायणाः । > सुखम् आपुः प्रशान्ताश् च बहवः कृष्ण-दर्शनात् । > शस्त्राणि कुण्ठतां प्रापुर् यन्त्राणि विविधानि च । > विदीर्णानि तदा व्यास वासुदेवस्य दर्शनात् । > असिपत्रवनं नाम शीर्ण-पर्णम् अजायत । > रौरवं नाम नरकम् अरौरवम् अभूत् तदा । > अभैरवं भैरवाख्यं कुम्भीपाकाम् अपाचकम् । > शृङ्गाटकम् अशृङ्गाटं लोह-सूच्यप्य् असुचिताम् । > जगाम जगताम् ईशे प्राप्ते तत्र जनार्दने । > हस्त-मात्रतरा जाता तदा वैतरणी नृणाम् । > नरकान्ते तदा याते तत्र विश्वेश्वरे विभौ । > पापक्षयात् ततः सर्वे विमुक्ता नारका नराः । > पदम् अव्ययम् आसाद्य दृष्ट्वा विष्णुं तमोऽपहम् । > विमानायुत-साहस्त्रैर् आरुढास् ते समन्ततः । > समीक्ष्य पुण्डरीकाक्षं मुक्तास् ते सर्व-पातकात् । > ततः शून्यं मुने जातं सर्वं निरव-मण्डलम् । > दर्शनात् तस्य देवस्य विष्णोर् विश्व-स्वरूपिन ।
इति प्रजा-संयमन इति भयङ्करत्वम् उक्तं सोऽप्य् अत्र युद्धं च सूचितं श्री-विष्णु-पुराणे । जित्वा वैवस्वतं यमम् इत्य् उक्तेः । अवन्ती-खण्डे बहुशो वर्णितम् ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शङ्खं प्रदध्माव् इति तद्ध्वनिं श्रावयित्वा सर्वान् एव नारकारन् जीवान् कृपासिन्धुः संसाराद् उद्धारेत्यवन्तीखण्डं दृष्टं यथा असिपत्रवनं नाम शीर्ण-पत्रम् अजायत । रौरवं नाम नरकमरौरवम् अभूत् तदा अभैरवं भैरवाख्यं कुम्भीपाकम् अपाचकम् इत्य्-आदि अन्ते च पापक्षयात् ततः सर्वे विमुक्ता नारका नराः । पदम् अव्ययम् आसाद्ये त्यादिना वैकुण्ठं च तान् प्रस्थापयामासेत्य् अपि दृष्टम् ॥४३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४४ ॥
तयोः सपर्यां महतीं चक्रे भक्त्य्-उपबृंहिताम् ।
उवाचावनतः कृष्णं सर्व-भूताशयालयम् ।
लीला-मनुष्ययोर् विष्णो युवयोः करवाम किम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः राम-कृष्नयोः । अवनतोऽतिनम्रः । सर्वति—तस्य तत्र निष्कपटताम् अपि जानन्तम् इत्य् अर्थः । विष्णोर् व्यापकत्वेन विश्व-प्रभो इत्य् आत्मनस् तत्-सेवकत्वं सूचितम् । लीला-प्रधानममुष्याकारयोः लीला मनुष्य हे इति क्वचित् पाथः । किन्तु लीला-मनुष्ययोर् विष्ण्वोः इति पाठः स्वामिसम्मतो लक्ष्यते एकसबोधनस्याग्रह एव वत्सेत्य् अत्र करिस्षमाण-समाधानत्वात् । किं करवाम आज्ञापयेति शेषः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : लीला-मनुष्ययोर् लीलायां मनुष्ययोर् अप्राकृतयोः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वति । तस्य तत्र निष्कपटताम् अपि जानन्तम् इत्य् अर्थः विष्णोर् व्यापकत्वेन विश्व-प्रभो इत्य् आत्मनस् तत् सर्वकत्वं सूचितं लीला-प्रधान-मनुष्याकारयोः लीला-मनुष्य हे इति क्ववित्पाठः किन्तु लिला-मनुष्ययोर् विष्णोर् इत्य् एव पाठः स्वामिसंमतो लक्ष्यते एक-सम्बोधनस्याग्रत एव वत्सेत्य् अत्र करिष्यमाण-समाधानत्वात् किम् करवाम तद् आज्ञापयेति शेषः ॥४४॥
जीव-गोस्वामी (बृहद्-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लीला-मनुष्ययोर् विष्णोर् इति लीला-मनुष्य हे विष्णो इति च पाठ-द्वयम् ॥४४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४५॥
श्री-भगवान् उवाच—
गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महा-राज मच्-छासन-पुरस्कृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निजं कर्मैव निवर्धनं यस्य तथा-भूतम् अपि मदाज्ञा-पुरस्कारेणानयतस् ते न दोष इत्य् अर्थः ॥४५.४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति । अपराधिनो विनापराधमयातनाभोगत्यागे यद् अप्य् अधिकारिणस् तव दोषस् तथापि परनियन्तुर्ममाज्ञयाकर्तव्यम् अपि कर्तव्यम् एवेति भावः । निज-कर्म प्रारब्धाख्यं निबन्ध्नम् अवश्य-भोग्यं यस्य तथा-भूतम् अपि । हे महाराजेति तद् अत्यन्ताभिक्रमम् अभिप्रेत्य कृपया तत्-प्रोत्साहनाय सादरं सम्बोधनम् । तद् आज्ञानुवर्ती सन् । अयं भावः—प्रारब्धस्यावश्यकत्वम् अपि मद् आज्ञयैव, अधुना च गुरु-पुत्रानयनं मद् आज्ञायैव किन्तु विशिष्य साक्षान्मया क्रियमाणत्वादियम् एव बलवती, यथा यावद् आयुः कारावासायाज्ञप्तः कश्चिन् नृपेण, स यदि तं पक्ष-समाप्तौ मोक्तुम् इच्छेत् तदा पूर्वाज्ञं बाधित्वा तं मुञ्चत्येवेति तद् वद् अत्रापि ज्ञेस्यम् । मच् छासन-पुरस्कृत इत्य् अत्र मद् आज्ञया तम् आनमतस् तव को दोष इति विश्वनाथः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निज-कर्म-निबन्धनम् इति निज-कर्मैव नितरां बन्धनं यस्य, तथा-भूतम् अपि मच्-छासनं पुरस्कृत्य इत्य् अनेनास्य सर्वं प्रारब्धं क्षीणम्, तस्माद् अत्र विप्रतिपत्तिर् न कार्या । शीघ्रं गुरु-पुत्रम् आनीयताम् इति भावः ॥४५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निजं कर्म प्रारब्ध-लक्षणं निबन्धनम् अवश्य-भोग्यं यस्य तथा-भूतम् अपिति पूर्वं तद्-आनयने यमस्य दोषः परिहृतः, तस्यैव तादृक् प्रारब्धत्वात् । हे महाराजेति धर्म-राजत्वात् मद्-भक्त्या प्रारब्धस्याप्य् अतिक्रमो भवतीति धर्म-तत्त्वं त्वया ज्ञायत एवेति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, नन्व् एवं मर्यादायां भङ्गः स्यात्, तत्राह—मद् इति । मद्-आज्ञानुवर्ती सन् । अयं भावः—सो\ऽपि मद्-आज्ञयैवाधुना च गुरु-पुत्रानयनं मद्-आज्ञयैव, किन्तु निज-भक्तापेक्षया साक्षान् मया क्रियमाणेयम् आज्ञा-वश्यम् एव परिपाल्येति । हे महाराजेति निज-भक्तार्थं मया मर्यादातिक्रम्यत इति त्वया ज्ञायत एवेति भावः
यद् वा, राजदन्तादिवत् मच्-छासनानां राजा, तत्रापि महान्, महाराज ! मच्-छासनं तत्-पुरस्कृत इति मर्यादा-पालनाज्ञायाः सकाशान् निज-भक्तार्थाज्ञायास् तत्र च साक्षान् मया विधीयमानायाः परंअ-गरिष्ठत्वाद् इयम् एव नितराम् अपेक्ष्येति भावः ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निजं कर्म प्रारब्ध-लक्षणं निबन्धनम् अवश्य-भोग्यं यस्य तथा-भूतम् अपि हे महाराजेति तद्-अत्यन्तातिक्रमम् अभिप्रेत्य कृपया तत्-प्रोत्साहनाय सादरं सम्बोधनं मद्-आज्ञानुवर्ती सन् । अयं भावः—प्रारब्धस्यावश्यकत्वं मद्-आज्ञयैव अधुना च गुरु-पुत्रानयनं मद्-आज्ञयैव किन्तु विशिष्य साक्षान् मया क्रियमाणत्वाद् इयम् एव बलवतीति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गुरु-पुत्रम् इत्य्-आदि । निज-कर्म-निबन्धनम् इति निज-कर्मैव नितरां बन्धनं यस्य, तथा-भूतम् अपि मच्-छासन-पुरः-सरः सन् आनयस्व । मच्-छासनेनैव तस्य प्रारब्धं नष्टम् इत्य् अर्थः । त्वयात्र मच्-छासने विप्रतिपत्तिर् न कार्येति भावः ॥४५.५०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निजं कर्म प्रारब्ध-लक्षणम् अवश्य-भोग्यं यस्य तथा-भूतम् अपि । मर्त्येन यो गुरु-सुतं यमलोक-नीतम् इत्य् एकादशोक्तेः तेनैव शरीरेणैव युक्तम् इति टीका व्याख्यानाच् च मच्-छासनेति मद्-आज्ञा पुरस्कारेणानयतस् तव को दोष इति भावः ॥४५।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४५.४६ ॥
तथेति तेनोपानीतं गुरु-पुत्रं यदूत्तमौ ।
दत्त्वा स्व-गुरवे भूयो वृणीष्वेति तम् ऊचतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन यमराजेन । तं गुरुम् । भूयो वृणीष्व पुनराज्ञापय । तथेत्य् उक्त्वा यमेन तेनोप समीप आनीतम् । गुरु-पुत्रम् इति यादृशो मृतस् तादृश-तच्-छरीरकम् एवेत्य् अर्थः । अवन्ती खण्डे तु
तच्-छ्रूत्वा धर्मराजस् तु पुत्रं सान्दीपिनेस् तदा । > ससर्जं बाल-रूपं च तद् वन्मानं तद् उद्भवम् । > पश्यतां सर्वदेवानां तद् अद्भुतम् इवाभवत् । इत्य् उक्तम् ।
तच् च कृष्ण-प्रभावैर् एव ज्ञेयम् । मच्छासन-पुरस्कृत इत्य् अनेनैव क्रीडीकृतत्वात् । यतो वक्ष्यते एकादशे—मर्त्येन यो गुरु-सुतं यम-लोकनीतं त्वं चानयच्छरणदः परमास्रद्ग्धम् इति । तत्र तेनैव शरीरेणेति तट्टीका च । अतस् तत्-प्रभाव एव विवक्षित इति । तथा च श्री-विष्णु-पुराणे—
तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरी हरिः । > बलदेवश् च बलवाञ्जित्वा वैवस्वतं यमम् । > तं बालं यातनासंस्थं यथा-पूर्वं शरीरिणम् । > पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः । इति ।
अत्र यातनासंस्थाम् इति प्राचीनावस्थोक्ता—सर्वेषां यातनाशान्तेः । अस्य वैकुण्ठ-गमनं तु भगवद् इच्छया । अथ समुद्राहृतं रत्नादिकं तस्मै दत्तम् इति च ज्ञेयम् । तथा च श्री-हरि-वंशे—
सान्दीपिनेः पुत्रं तद् रूपवयसं तदा । > प्रादात्कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः ॥ इति ।
स्व-शब्देन गुरौ महा-भक्तिर् बोध्यते । अत पराम् अपि दक्षिणां वृणीष्वेति भूयः पुनर् उचतुस् तच् च युक्तम् एवेत्य् आशयेनाह—यदूत्तमाव् इति । तादृश-धर्म-प्रचारार्थं यदुकुलेऽवतीर्णत्वाद् इति भावः ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निज-कर्म-निबन्धनम् इति-निज-कर्मैव नितरां बन्धनं यस्य तथाभूतम् अपि मच्छासन पुरस्कृत इत्य् अनेनास्य सर्वं प्रारब्धं क्षीनम्, तस्माद् अत्र विप्रतिपत्तिर् न कार्या । शीघ्रं गुरु-पुत्रम् आनीयताम् इति भावः ॥४६.५०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेन यमेन, उप समीपे । किं वा, उपायनत्वेनानीतं समर्पितं गुरु-पुत्रं स्व-गुरवे दत्त्वा । यद् वा, यथा-पूर्व-शरीरत्वादिनोपस्कृत्यानीतम्, आदाय इति शेषः । समुदाहृतं च रत्नादिकं तस्मै दत्तम् इति ज्ञेयम् । तथा श्री-हरि-वंशे—
ततः सान्दीपनेः पुत्रं तद्-रूप-वयसं तदा । > प्रादात् कृष्णः प्रतीतात्मा सहरत्नैर् उदारधीः ॥ [२.३३.२६] इति ।
तम् इति पाठे यादृशो मृतस् तादृशम् एव, तथेति यमेनोक्ते सति स्वयम् एव गुरु-समीपम् आनीतम् इत्य् अर्थः । स्व-शब्देन गुरौ महा-भक्तिर् बोध्यत, अतः पराम् अपि दक्षिणां वृणीष्वेति भूयः पुनर् ऊचतुः, तच् च युक्तम् एवेत्य् आशयेनाह—यद् उत्तमाव् इति । गुरु-सन्तोषणादि-सद्-धर्म-प्रदर्शनार्थं यदु-कुले\ऽवतीर्णत्वाद् इत्य् अर्थः ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथेत्य् उक्त्वा तेन यमेन उप समीपे आनीतं गुरु-पुत्रम् इति यादृशो मृतस् तादृश-तच्-छरीरकम् एवेत्य् अर्थः । अवन्ती-खण्डे ह्य् उक्तं—
तच् छ्रुत्वा धर्म-राजास्तु पुत्रं सान्दीपनेस् तदा । > ससर्ज बाल-रूपं च तद्-उन्मानं तद् उद्भवम् ॥ > पश्यतां सर्व-देवानां तद् अद्भुतम् इवाभवत् ॥ इति ।
तच् च श्री-कृष्णाज्ञा-प्रब्रह्माइवेति ज्ञेयम् । मच्-छासन-पुरस्कृत इत्य् अनेनैव क्रोडीकृतत्वात् यतो वक्ष्यते एकादशे—मर्त्येन यो गुरु-सुतं यम-लोकम् अनीतं त्वां चानयच् छरणदः परंआस्त्र-दग्धम् [भा।पु। ११] इति तत्र तेनैव शरीरेणेति तट्-टीका च । अत्र तत्-प्रभाव एव हि विवक्षित इति । तथा च श्री-विष्णु-पुराणे—
तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरीं हरिः । > बलदेवश् च बलवान् जित्वा वैवस्वतं यमम् ॥ > तं बालं यातना-संस्थं यथा-पूर्वं शरीरिणम् । > पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः ॥ इति ।
अत्र यातना-संस्थम् इति प्राचीनावस्थोक्ता सर्वेषां यातना-शान्तेः, अस्य वैकुण्ठ-गमनं तु भगवद्-इच्छया । अथ समुद्राहृतं च रत्नादिकं तस्मै दत्तम् इति ज्ञेयम् । तथा च श्री-हरि-वंशे—
ततः सान्दीपनेः पुत्रं तद्-रूप-वयसं तदा । > प्रादात् कृष्णः प्रतीतात्मा सहरत्नैर् उदारधीः ॥ [२.३३.२६] इति ।
स्व-शब्देन गुरौ महा-भक्तिर् बोध्यते । अतः पराम् अपि दक्षिणां वृणीष्वेति भूयः पुनर् ऊचतुः । तच् च युक्तम् एवेत्य् आशयेनाह यदूत्तमाव् इति । तादृश-सद्-धर्म-प्रचारार्थं यदु-कुले\ऽवतीर्णत्वाद् इत्य् अर्थः ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४५.४७॥
श्री-गुरुर् उवाच—
सम्यक् सम्पादितो वत्स भवद्भ्यां गुरु-निष्क्रयः ।
को नु युष्मद्-विध-गुरोः कामानाम् अवशिष्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वत्सेति प्राधान्येनैकस्य सम्बोधनम् । गुरोर् निष्क्रयो गुरु-दक्षिणा । युष्मद् विधयोर् गुरोर् मम कामानां मध्वे को नु कामोऽवशिष्यते, न कोऽपीति ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निष्क्रिया ग्रतिकारे स्यात्क्रियाभावे स्त्रियाम् इति धरणि । ईश्वरानुचराणां सर्व-कामाप्तिर् भवति कथं न तद्-गुरोति भावः । वत्सेति स्नेह-विशेषात्-कृष्णं प्रति सम्बोधनम् । युष्मद् विधानाम् अपि किम् उत युवयोर् इत्य् अर्थः ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वत्सेति स्नेह-विशेषाच् छ्री-कृष्णं प्रति तथा सम्बोधनम् । भवद्भ्याम् इति द्वयोर् अपि सामान्येन सम्यग् गुरु-दक्षिणा-सम्पादनात् । युष्मद्-विधानां कथञ्चिद् युवयोः किञ्चित् सादृश्यवताम् अपि, किम् उत युवयोर् गुरोर् इत्य् अर्थः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वत्सेति स्नेह-विशेषाच् छ्री-कृष्णं प्रति तथा सम्बोधनम् । युष्मद्-विधानाम् अपि किम् उत युवयोर् गुरोर् इत्य् अर्थः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युष्मद्-विधानाम् अपि गुरोः किम् उत युवयोर् गुरोर् मम कामानां नाना-विधानां मध्ये कः कामः ॥४७॥
॥ १०.४५.४८ ॥
गच्छतं स्व-गृहं वीरौ कीर्तिर् वाम् अस्तु पावनी ।
छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वीरौ ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वीरौ सुभटौ । वां युवयोः । अयातयामः सफले प्रहाराद् अर्वाक्कर्मणि इति धरणिः । इह साफल्यम् अध्यापनादिना परत्र तद्-उक्ताचरणेनोत्तम-फलदत्वाद् इत्य् अर्थः ।
अत्रार्थ मानम्—यो वा अविदितार्थे यच्-छन्दो-दैवत-विनियोगेन ब्राह्मणो न मन्त्रेण वा यजते याजयति अध्यापयति वा स्थाणुं गच्छति श्वभ्रां वा वार्चत् प्रमीयते पापीयान् भवति यात-यामान्य् अस्य छन्दांसि भवन्ति । अथ मन्त्रे मन्त्रे वेद सर्वम् आयुर् एति अयात-यामान्य् अस्य छन्दांसि भवन्ति । तस्मान् मन्त्रे मन्त्रे विद्यात् इति श्रुतेर् एवार्थो यजुर्वेद-दीपे कात्यायनेन धृतः ।
तथाह—द्रष्टार ऋषयः स्मर्तारः परमेष्ठ्यादयो देवता मत्रान्तर्भूता अग्न्यादिका हविर्भाजः स्तुतिभाजो वा छन्दांसि गायत्र्यादीनि एतान्यविदित्वायोऽधीतेऽनुब्रूते जपति जुहोति यजये याजयति वा तस्य ब्रह्म निर्वीर्य यातमामं भवत्यन्तराशु गर्तं वा पद्यते स्थाणुं वार्च्छति प्रमीयते वा पापीयान् भवति इति ।
स्व-गृह इति—यद्य् अप्य् एतन्-मद्-गृहम् अपि युवयोर् एव गृहं तथापि तत्र केवल-निजाभिमानात् स्वीये माथुरे गृहे इत्य् अर्थः । स्व-गृहम् इति पाठः क्वचित् । हे वीराव् इति—तादृश-दान-चाउर्यदयासु वीरत्वात् त्रिविधवीरता-युक्तौ युवाम् इति भावः । तत्र तदादीन् प्रणम्य गच्छन्तावाशिषाभिनन्दयति—कीर्तिर् इति ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-गृहम् इति यद्यप्य् एतन्-मद्-गृहम् अपि युवयोर् एव गृहम्, तथापि स्वकीये माथुरे गृहे इत्य् अर्थः । हे वीराव् इति तादृश-दानात् तादृश-शौर्याच् च । हेयम् अप्य् उक्ति-चातुर्येणाशीर् ज्ञेया । पावनी परंअ-निर्मलेत्य् अर्थः । यद् वा, जगत्-पावित्र्य-कारिणी, अतो मृत-पुत्रानयनाद्य्-अर्थं युष्मन् नियोजनादिना जातो मद्-अपराधो\ऽपि युष्मत्-कीर्त्यापनेष्यत इति भावः ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-गृहम् इति । यद्यप्य् एतन् मद्-गृहम् अपि युवयोर् एव गृहम्, तथापि तत्र केवल-निजाभिमानात् स्वीये माथुर-गृहे इत्य् अर्थः । स्व-गृहम् इति पाठः क्वचित् । हे वीराव् इति तादृश-दानात् तादृश-शौर्याच् च । ततस् तदादीन् प्रणम्य गच्छन्ताव् आशिषाभिनन्दयति । कीर्तिर् इति ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४५.४९ ॥
गुरुणैवम् अनुज्ञातौ रथेनानिल-रंहसा ।
आयातौ स्व-पुरं तात पर्जन्य-निनदेन वै ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिल-वद्-रंहो वेगो यस्य तेन ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् अ-आशीः-प्रदान-पूर्वकम् । तातेति कृष्ण-लीलाकर्णं नाविष्टत्वेन प्रियत्वद्योतनाय राज्ञ आमन्त्रणं नित्यं विष्णु-जन-प्रियः इत्य् उक्तत्वात् । तातस् तु प्रिय-पित्रोः स्याद् विस्तृते चात्मजे गुरौ इति धरणिः । स्व-गुरुणा इति पाठोऽपि क्वचित् । स्वपुरम् इति तत्र ममता-स्नेहो दर्शितः । अत एवानिलरंहसेति शीघ्र-गमनम् । अनिलरंहस् त्वाद् एव पर्जन्यो गर्जन्-मेघस् तद्वन् निनदो यस्य तेन । अतो विदूराद् एव । तच्-छब्द-श्रवणेन सर्वे तद् अभिमुखं जग्मुर् इति ज्ञेयम् । हे तातेति प्रहर्षात् ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुरुणैवम् अनुज्ञाताव् इति पाठः स्पष्टः । स्वपुरम् इति तत्र ममतादिना स्नेहभरः उक्तः । अत एवानिल-रंहसेति शीघ्रम् आगमनं बोधयति । अनिल-रंहस्त्वाद् एव पर्जन्यो गर्जन् मेघस् तद्वन् निनदो यस्य तेन, अतो विदूराद् एव तच् छब्द-श्रवणेन श्री-वसुदेवोग्रसेनादयः सर्वे अग्रेऽभिजग्मुर् इति ज्ञेहम् । वै प्रसिद्धौ, हे तातेति मधुपुर्यागमनेन श्री-नन्द-व्रज-निकटतया पुनर् आगमनाशया च प्रेमोदयात् ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुरुणैवम् अनुज्ञाताव् इति अनुज्ञातौ स्व-गुरुणेति च पाठ-द्वयं स्वपुरम् इति । तत्र ममतया स्नेहो दर्शितः अत एवानिलरहंसेति शीघ्रम् आगमनम् अनिलरंहस्त्वाद् एव पर्जन्यो गर्जनं मेघस् तद् वन् निनदो यस्य तेन अतो विदूराद् एव तच् छब्द-श्रवणेन सर्वेऽभिजग्मुर् इति ज्ञेयं हे तातेति प्रहर्षात् ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४५.५० ॥
समनन्दन् प्रजाः सर्वा दृष्ट्वा राम-जनार्दनौ ।
अपश्यन्त्यो बह्व् अहानि नष्ट-लब्ध-धना इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पर्जन्यो मेघस् तद्वन् निनदो यस्य तेन नष्टम् अदृष्टं तत् पुनर् लब्ध धनं याभिस् ता इवेति ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बह्वहानि बहूनि दिनानि । सर्वाः पौर्यः जानपदाश् च । तत्र जानपदाः काश्चित् पथि दृष्ट्वा काश्चिच् च पुर्याम् आगताः सत्य इति ज्ञेयम् । तद् विशेषश् च श्री-हरि-वंशे [अग्रे द्रष्टव्यम्] ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वाः पौर्यो जानपद्यश् चेत्य् अर्थः । तत्र जानपद्यः काश्चित् पथि दृष्ट्वा काश्चिच् च पुर्याम् आगताः सत्य इति ज्ञेयम् । बहून्य् अहान्य् अपश्यन्त्य इत्य् अनेन नष्टेति दृष्टान्तेन च परमोत्कण्ठतयातिप्रीत्या दर्शनं बोधितम् । अत एव सम्यग् अनन्दन् । तद् विशेषश् च श्री-हरि-वंशे—
ततः प्रत्युद्यताः सर्वे यादवा यदु-नन्दनौ । > सबला हृष्टमनस उग्रसेन-पुरागमाः ॥ > श्रेण्यः प्रकृतयश् चैव मन्त्रिणः सपुरोहिताः । > सबाल-वृद्धा स चैव पुरी समभिवर्तत ॥ > नन्दि-तुर्याण्य् अवाद्यन्त तुष्टुवुश् च जनार्दनम् । > रथ्याः पताका-मालिन्यो राजन्ते स्म समन्ततः ॥ > प्रहृष्टम् उदितं सर्वम् अन्तःपुरम् अशोभत । > गोविन्दागमनेऽत्य् अर्थः यथैवेन्द्रमहे तथा ॥ > मुदिताश्चाप्य् अगायन्त राज-मार्गेषु गायनाः । > जयाशीःप्रथिता गाथा यादवानां प्रियङ्कराः ॥ > गोविन्द-रामौ संप्राप्तौ भ्रातरौ लोक-विश्रुतौ । > स्वे पुरे निर्भयाः सर्वे क्रीडन्ति सह बान्धवैः ॥ > न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः । > मथुरायाम् अभूद् राजन् गोविन्दे समुपस्थिते ॥ > वयांसि साधु-वाक्यानि प्रहृष्टा गो-हय-द्विपाः । > नर-नारी-गणाः सर्वे भेजिरे मनसः सुखम् ॥ > शिवाश् च वाताः प्रववुर् विरजस्का दिशो दश । > दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥ > यानि लिङ्गानि लोकस्य्स बभुः कृत-युगे पुरा ।
तानि सर्वाण्य् अदृश्यन्त पुरीं प्राप्ते जनार्दने ॥ [ह।वं। २.३३.२९-३८] इति ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वाः पौर्यो जानपद्यश् च तत्रजान-पद्यः काश्चित् अपथि-दृष्ट्वा काश्चिच् च पुर्याम् आगताः सत्य इति ज्ञेयं । तद्-विशेषश् च श्री-हरि-वंशे—
ततः प्रत्युद्यताः सर्वे यादवा यदु-नन्दनौ । > सबला दृष्टमनस उग्रसेन पुरोगमाः । > श्रेण्यः प्रकृतयश् चैव मन्त्रिणः स पुरोहिताः । > सबाल-वृद्धा साचैव पुरी ससभिवर्तत । > नन्दि-तूर्याण्य् अवाद्यन्त तुष्टुवुश् च जनार्जनम् । > रथ्याः पताका-मालिन्यो राजन्ते स्म समन्तः । > प्रहृष्टम् उदितं सर्वमन्तः पुरमशोभत । > गोविन्दागमनेऽत्य् अर्थं यथैवेन्द्र-मखेः तथा । > मुदिताश् चाप्य् अगायन्त राज-मार्गेषु गायनाः । > जयाशीः प्रथिता गाथायादवानां प्रियं-कराः > गोविन्द-रामौ भ्रातरौ लोक-विश्रुतौ । > स्वे पुरे निर्भयाः सर्वे क्रीडन्ति सह-बान्धवैः । > न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः । > मथुरायाम् अभूद् राजन् गोविन्दे समुपस्थिते । > वयांसि साधु-वाक्यानि प्रहृष्टा गो-हया द्विपाः । > नर-नारी-गणाः सर्वे भेजिरे मनसः सुखम् । > शिवाश् च वाताः प्रववुर् विरजस्का दिशो दश ॥ > दैवतानि च प्रहृष्टानि सर्वेष्व् आयातनेषु च । > यानि लिङ्गानि लोकस्य बभूः कृत-युगे पुरा । > तानि सर्वान्य् अदृश्यन्त पुरीं प्राप्ते जनार्दने ॥ [ह।वं। > २.३३.२९-३८] इत्य्-आदि ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्। (?)
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
दशमस्य पञ्च-चत्वारिंशोऽप्य् अजनि सङ्गतः ॥*॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे गुरु-पुत्रानयनं
नाम पञ्चचत्वात्रिंशोऽध्यायः ।
॥ १०.४५ ॥
(१०.४६)
-
मथुरा-माहात्म्यं दृष्ट्वापि न प्राप्तम्। ↩︎
-
-हतयोर् ↩︎
-
वृद्धौ च माता-पितरौ साध्वी भार्या शिशुः सुतः ।
अप्य् अकार्य-शतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ [मनु ११.१०] ↩︎
-
सेए वंशीधर तो १.१.५- व्यासासनोपवेशाच् च शूद्रश् चाण्डालतां व्रजेत्
विप्रस्यैवाधिकारोऽस्ति व्यासासन-समाक्रमे
धर्माणां श्रुति-गीतानाम् उपदेशे तथा द्विज ↩︎
-
निह्नुत- ↩︎
-
निहृत- ↩︎
-
नापेक्षित ↩︎
-
तथैवाहतुः ↩︎
-
यूयम् अधिकापेक्ष्या ↩︎
-
मुहुर् आवर्तनादर-स्खलन् ↩︎
-
प्राकट्योपसत्तेः ↩︎