चाणूर-मुष्टिकादीनां मल्लानां निधनं, कंसस्य वधश् च ।
॥ १०.४४.१ ॥
श्री-शुक उवाच—
एवं चर्चित-सङ्कल्पो भगवान् मधुसूदनः ।
आससादाथ चाणूरं मुष्टिकं रोहिणी-सुतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुश्-चत्वारिंशके तु मल्ल-कंसादि-मर्दनम् [।]{दिर्=“र्त्ल्”}
कंस-योषित् समाश्वासस् ताभ्यां पित्रोश् च दर्शनम् [॥]{दिर्=“र्त्ल्”}
चर्चितो निश्चित एव सङ्कल्पो यस्य सः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदि-पदेन माता-पित्रोः शोक-मर्दन-ग्रहः । ताभ्यां राम-कृष्णाभ्याम् ॥ श्रुत्य्-उक्त-मल्लादि-मर्दनम् आह—एवम् इति ।
तथा च श्रुतिः—अवातिरतम् अनृतानि विश्व-ऋतेन मित्रावरुणा सचेथे [ऋ।वे। १.१५२.२२] इति । अर्थस् तु—तत्र अयादवोऽपि कंसो यदूनाम् आधिपत्यम् इच्छन् अनृतः, तेन प्रयुक्तानि मल्लादीनि बहुत्वम् आद्य्-अर्थम् । आदिना हस्त्य्-अनुक्ताद्य्-आदीनां ग्रहः । अनृतानि विश्व-सर्वाणि तानि अवातिरतं तिरस्कृतवन्तौ । ऋतेन सत्येनैव यादवत्वेन गोपत्वाच्छादितया प्राग्-अप्रसिद्धेन मित्रा-वरुणौ सूत्रान्तर्यामिणौ राम-कृष्णौ सचेथे संगच्छेथे युवाम् ।
तत्र कंसस्यानृतत्वम् अत्र हरिवंशस्थ-महामात्र-कथया बोध्यम्—चर्चितौ निश्चितार्चितौ इति निरुक्ति-कारः । एवं चाणूरोक्त-प्रकारेण । भगवान् अशेषैश्वर्य-सम्पन्न इति सद्य एवेच्छा-मात्रेण तद्-वध-सामर्थ्यं सूचितम् । तथापि चाणूरम् आससाद क्षणं क्षणं मल्ल-युद्ध-कौतुकार्थम् अन्तिके गतः । यतो मधुसूदनः । यथा सद्यो हन्तुं शक्तोऽपि चिरं बाहु-युद्ध-क्रीडां कृत्वा मधुं हतवान्, तद्वद् इत्य् अर्थः । लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इति न्यायेनेति भावः । अथ तद्-अनन्तरं मुष्टिकम् इत्य्-आदि ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् अशेषैश्वर्य-सम्पूर्ण इति सद्य एवेच्छा-मात्रेण तद् वध-समर्थ्यं सूचितम् । तथापि चाणूरम् आससाद, क्षणं मल्ल-युद्ध-कौतुकार्थम् अन्तिके गतः स्वीचकार वा, सतो मधुसूदनः—यथा सद्यो शक्तोऽपि चिरं बहुधा युद्ध-क्रीडां कृत्वा मधुं हतवान्, तद्वद् इत्य् अर्थः । अथ तद्-अनन्तरं सदा श्री-भगवद्-अनुवर्तित्वात् रोहिणी-सुत इति रोहिण्यास् तद्-बन्धूनां च सन्तोषणार्थम् इत्य् अर्थः । यद् वा, देवक्याम् अवतीर्णेऽपि यथा श्री-भगवता सह गोकुले सुख-क्रीडार्थं रोहिणी-सुतत्वं गतः, तथाधुनापि तद्-इच्छानुसारेण मल्ल-क्रीडार्थम् इति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् अशेषैश्वर्य-सम्पन्न इति सद्य एव इच्छा-मात्रेण तद्-वध-समार्थ्यं सूचितं, तथापि चानूरम् आससाद क्षणं मल्ल-युद्ध-कौतुकार्थम् अन्तिके गतः यतो मधुसूदनः यथा सद्यो हन्तुं शक्तोऽपि चिरं बाहु-युद्ध-क्रीडां कृत्वा मधुं हतवान्, तद्वद् इत्य् अर्थः । लोकवत् तु लीला-कैव्यल्यम् इति न्यायेनेति भावः । अथ तद्-अनन्तरं मुष्टिकम् इत्य्-आदि । आससाद इति क्वचित् पाठः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
चतुश्चत्वारिंशकेऽत्र मल्ल-कंसा हताः स्त्रियः ।
आश्वासिताश् च भ्रातृभ्याम् अभूत् पित्रोश् च दर्शनम् ॥
चर्चितश् “चाणूरम् अहं हन्याम्” इति विचारितः सङ्कल्पो येन सः ॥१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२ ॥
हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः ।
विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मल्ल-युद्ध-रीतिम् आह—हस्ताभ्याम् इति । बद्ध्वा गृहीत्वा । क्रीडाम् एवाह—हस्ताभ्याम् इत्य्-आदि-चतुर्भिः । च-कार उक्त-समुच्चये । एव-शब्दस्य हस्ताभ्याम् इत्य् अनेनाप्य् अन्वयः, अन्येनान्यस्य मिश्रणे वैषम्यापत्त्या मल्ल-क्रीडा-पाटव-हानेः । एवम् अग्रेऽपि । अन्योऽन्यं विजिगीषयेति । श्री-भगवतोऽपि नर-लीला-व्यवसायत्वेन विजयेच्छासम्भवात् । चर्चितश् „चाणूरम् अहं हन्याम्" इति विचारितः सङ्कल्पोऽभिप्रायो येनेति सः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रीडाम् एवाह—हस्ताभ्याम् इति चतुर्भिः । च-कार उक्त-समुच्चये, अत एव-शब्दस्य हस्ताभ्याम् इत्य् अनेनाप्य् अन्वयः, तयोः कैवल्य-ज्ञापनाय1, अन्यथा वैषम्यापत्त्या मल्ल-क्रीडा-पाटव-हानिः, एवम् अग्रेऽपि । अन्योऽन्यं विजिगीषयेति क्रीड-सौष्ठवाय श्री-भगवतोऽपि चाणुरादिवद् विजयेच्छानुकरणात् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रीडाम् एवाह—हस्ताभ्याम् इत्य्-आदि चतुर्भिः । च-कार उक्त-समुच्चये एव-शब्दस्य हस्ताभ्याम् इत्य् अनेनाप्य् अन्वयः । अन्येनान्यस्य मिश्रणे वैषम्यापत्त्या मल्ल-क्रीडा-पाटव-हानेः । एवम् अग्रेऽपि । अन्योन्यं विजिगीषयेति श्री-भगवतोऽपि नर-लीला-युद्ध-व्यवसायत्वेन जयेच्छासम्भवात् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रीडाम् एवाह—हस्ताभ्याम् इत्य्-आदि चतुर्भिः । चकार उक्त-समुच्चये । एव-शब्दस्य हस्ताभ्याम् इत्य् अनेनाप्य् अन्वयः । अन्येनान्यस्य मिश्रणे वैषम्यापत्त्या मल्ल-क्रीडा-पाटव-हानेः । एवम् अग्रेऽपि । अन्योऽन्यं विजिगीषयेति । श्री-भगवतोऽपि नर-लीला-व्यवसायत्वेन विजयेच्छा-सम्भवात् । चर्चितश् चाणूरम् अहं हन्याम् इति विचारितः सङ्कल्पोऽभिप्रायो येनेति सः ॥२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३ ॥
अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।
शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बाहु-मध्यात् कनिष्ठाङ्गुलि-व्यतिरेकेण कृत-मुष्टिर् हस्तोऽरत्निः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ कृष्ण-चाणुरौ । अभिजघ्नतुः सष्योजितवन्तौ । द्वे प्रत्येकं पृथग् इत्य् अर्थः । तौ श्री-भगवच्-चाणूरौ । ताव् इत्य् अस्य पूर्वेण परेणाप्य् अन्वयः । अभितो जघ्नतुः प्रहृतवन्तौ । अरत्नि-शब्दस् तैर् व्याख्यातः । अत्र प्रमाण-वाचकः खल्व् अयं, ततस् तेन युद्धं न सम्भवति, कञ्चित् तद् व्यञ्जकाकाराङ्गावाचकत्वेऽपि निःसृत-कनिष्ठाङ्गुलितया प्रहा-रसौकयं न सम्भवति, नापि मल्लेषु तादृशं युद्धं, तस्मान् मुष्ठ्योपलक्षितत्वेन कथञ्चिन् मुष्टिर् एव वाश्या । व्याख्यास्यते च भगवद्-गात्राणाम् अरत्निजान् वादीनाम् इति । यद् वा, अरत्निः कफणौ हस्ते सप्रकोष्ठे तद् अङ्गुलौ इति विश्व-प्रकाशात् कफोणि रेवोच्यते । कफोणिः कफणिस् तथा इति द्वि-रूप-कोशात् । एतैर् नियुद्ध-प्रकारैः । प्रत्यरुन्धताम् इति—लुङि श्नम्-प्रत्यय आर्षः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वे इति प्रत्येकं पृथग् इत्य् अर्थः । तौ श्री-भगवच्-चाणूरौ, ताव् इत्य् अस्य पूर्वेण पराभ्याम् अप्य् अन्वयः । अभितो जग्नतुः प्रहृतवन्तौ ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्वे इति प्रत्येकं पृथग् इत्य् अर्थः । तौ श्री-भगवच्-चाणूरौ ताव् इत्य् अस्य पूर्वेण परेणाप्य् अन्वयः । अभितो जघ्नतुः प्रहृतवन्तौ । अरत्नि-शब्दस् तैर् व्याख्यातः । अत्र प्रमाण-वाचकः खल्व् अयं ततस् तेन युद्धं न सम्भवति कथञ्चित् तद्-व्यञ्जकाकाराङ्ग-वाचकत्वेऽपि निःसृत-कनिष्ठाङ्गुलितया प्रहार-सौकर्यं न सम्भवति, नापि मल्लेन तादृशं युद्धं, तस्मान् मुष्ट्य्-उपलक्षितत्वेन कथञ्चिन् मुष्टिर् एव वाच्या । व्याख्यास्यते च भगवद्-गात्राणाम् अरत्निजान् वादीनाम् इति । यद् वा, अरत्निः कफणौ हस्ते स-प्रकोष्ठं तद्-अङ्गुलौ इति विश्व-प्रकाशात् कफोणिर् एवोच्यते । कफोणिः कफणिस् तथेति द्विरूप-कोषाद् इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अरत्निः कफोणिः । अरत्निः कफणौ हस्ते सप्त-कोष्ठ-तलाङ्गुलाव् इति विश्व-प्रकाशात् । कफोणिः कफणिस् तथेति द्विरूप-कोशात् ॥३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कनिष्ठाङ्गुलि-व्यतिरेकेण कृत-मुष्टिर् हस्तोऽरत्निः । यद्यपि ताभ्यां मल्ल-युद्धं दुष्करत्वाद् अप्रसिद्धं, प्रसिद्धं तु स-मुष्टि-हस्ताभ्याम् एव, तथापि वेणु-वाद्य उरुधा निज-शिक्षा इतिवद् भगवता निषक-निष्ठ-मुष्टि-हस्तेनैवारब्धे नियुद्धे चाणूरेणापि कष्टं प्राप्तेनापि वीराभिमानिना तथा कृतम् इति ज्ञेयम् ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.४ ॥
परिभ्रामण-विक्षेप- परिरम्भावपातनैः ।
उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिभ्रामणं हस्तादिषु गृहीत्वा परितश् चालनम् । विक्षेपो नोदनम् । परिरम्भो बाहुभ्यां निष्पीडनम् । अवपातनम् अधः[-]{दिर्=“र्त्ल्”}क्षेपः । उत्सर्पणम् उत्सृज्य पुरतो गमनम् । अपसर्पणं पृष्ठतो गमनम् । एतैः प्रत्यरुन्धतां प्रत्यावृतवन्तौ ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [+++]{।मर्क्}
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रतिपदं प्रतिपक्षतया वा अरुन्धताम्, युयुधाते इत्य् अर्थः । अपसर्पणादीनां बहुत्वं तेषां पौनःपौन्येन बाहुल्यात् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्सर्पणम् अग्रे गमनम् अपसर्पणं पश्चाद् गमनं प्रत्यरुन्धताम् इत्य् अस्य स्थाने लुङ्-प्रयोगे शनम्-प्रत्यय आर्षः । परस्परं मुखुः स्थगितोद्यमं चक्रतुर् इत्य् अर्थः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिभ्रामणं हस्तादिषु गृहीत्वा परितश् चालनं विक्षेपो नोदनं परिरम्भो बाहुभ्यां निष्पीडनम् अवपातनम् अधः-क्षेपः । उत्सर्पणम् उत्सृज्य पुरतो गमनम् । अपसर्पणं पृष्ठतो गमनम् । एतैः प्रत्यरुन्धतां प्रत्यावृतवन्तौ लुङि श्नं-प्रत्यय आर्षः ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.५ ॥
उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि ।
परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्थापनं जानुनी पादौ च पिण्डी-कृत्य पतितस्योच्चाटनम् । उन्नयनं हस्ताभ्याम् उद्धृत्य नयनम् । चालनं कण्ठादि-लग्नस्य निःसारणम् । स्थापनं पादादि-पिण्डी-करणम् । एवं परस्परम् आत्मनो देहस्य अपचक्रतुर् अपकारं कृतवन्तौ ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उच्चाटनम् उच्चैः-करणम् । एवम् उक्त-रीत्या ।
मल्ल-युद्धं नियुद्ध[-]{दिर्=“र्त्ल्”}ज्ञा विंश-भेदं प्रचक्षते । > द्वात्रिंशद्-भेदम् अपरे चत्वारिंशद्-विधं परे ॥ इति > सङ्ग्राम-विजय-वचनात्[]{दिर्=“र्त्ल्”}।
सर्व-नियुद्ध-विधि-दर्शनार्थं भगवतैवं क्रीडितम् । तत्-तद्-विधायासाभावाद् अयम् एवार्थ उपर्य् अपि । तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ । युयुधाते इत्य्-आदिना सूच्यते । आत्मनोपचक्रतुर् इति भगवतस् तद्-अभावेऽपि द्रष्टृ-लोकाभिप्रायानृत्यात् तथोक्तम् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनोऽपचक्रतुर् इति बहुल-परिश्रम-विस्तारणात् । श्री-भगवतो वस्तुतस् तद्-अभावेऽपि तद् उक्तिश् चाणूराभिप्रायानुसारतः । श्री-बादरायणेः प्रेम-शोकाद् वा । यद् वा, आत्मत्वेन कलितस्य चाणूर-देहस्य श्री-भगवता सह युद्धेन स्वयं तेनापि स्व-देहस्यापकारः कृत एव ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मनोऽपचक्रतुर् इति श्री-भगवतो वस्तुतस् तद्-अभावेऽपि चाणूराभिप्रायानुसारतः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मनोऽपचक्रतुर् इति । श्री-भगवतस् तद्-अभावेऽपि चाणूराभि-प्रायानुसारात् ॥५.९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्थापनं पादौ जानुनी च पिण्डी-कृत्य पतितस्योच्चाटनम् । उन्नयनं हस्ताभ्याम् उद्धृत्य नयनम् । चालनं कण्ठादि-लग्नस्य निःसारणम् । स्थापनंपाणि-पादादि-पिण्डी-करणम् । एवं परस्परम् आत्मनो देहस्य अपचक्रतुर्भगवतस् तद्-अभावेऽपि द्रष्टृ-लोकाभिप्रायम् अनुसृत्य तथोक्तम् ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.६ ॥
तद् बलाबलवद् युद्धं समेताः सर्व-योषितः ।
ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् युद्धं बलाबलवद्[,]{दिर्=“र्त्ल्”} एकतो बलम् अन्यतोऽबलम्[,]{दिर्=“र्त्ल्”} तद्-युक्तं बलाबलवत् विषमम् इत्य् ऊचुर् इत्य् अर्थः । वरूथशः समेताः सङ्घशो मिलिताः । यद् वा, बलाबलवतोर् युद्धं दृष्ट्वा महान् अयम् अधर्म इत्य् ऊचुर् इत्य् अन्वयः । अत्र दृष्ट्वेत्य् अध्याहार्यम् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति— कृष्ण-चाणूरयोः साम्याभावाद् बलाबलवतोर् विषमम् एव युद्धम् इति भावः । वरूथशः सङ्घशः, वरूथो रथ-गुप्तौ सङ्घे क्लीबं चर्म-वेश्मनोः इति कोषात् । विषम-पदाध्याहारस्यागतिक-गतिकत्वाद् आह—यद् वा इति । अग्रिम-श्लोक-पादेनान्वयोऽत्रेति । सानुकम्पा इति—स्नेहस्य स्वभाव एवायं, यत् स्व-विषयस्य बलाधिक्यं न प्रत्याययेद् इति । वरूथशः स्व-स्व-वर्ग-भेदेन ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् दृष्ट्वा इति शेषः । तत् प्रति वा श्री-माथुरत्वेन तद्-अज्ञानाम् अपि तथोक्तौ हेतुः । सानुकम्पा इति सहज-स्नेह-विशेषार्द्र-चित्तत्वेन तत्त्वाननुसन्धानाद् इत्य् अर्थः । राजन्न् इति प्रेम-भरेण राजता भवता तद् विज्ञायत एवेति भावः । वरूथशः स्व-स्व-वर्ग-भेदेन । इति प्रेम्णा सर्वासाम् एवैकम् अन्येनोक्तेर् यथार्थता मनोहरता चाभिप्रेता ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् युद्धं बलाबलवद् ऊचुर् इत्य् अन्वयः । सानुकम्पा इति तेषां शुद्ध-प्रेम्णः प्रशंसा । वरूथशः स्व-स्व-वर्ग-भेदेन ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् युद्धं बलाबलवद् ऊचुर् इत्य् अन्वयः । एकतो बलं[,]{दिर्=“र्त्ल्”} अन्यतश् चाबलम्, तद्वत् तद्-युक्तम् अतो विषमम् इत्य् अर्थः । तत्र हेतुः—सानुकम्पा इति । स्नेहस्य स्वभाव एवायं यत् स्व-विषयस्य बलाधिक्यं न प्रत्याययेद् इति ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.७ ॥
महान् अयं बताधर्म एषां राज-सभासदाम् ।
ये बलाबलवद्-युद्धं राज्ञो \ऽन्विच्छन्ति पश्यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव दर्शयति—महान् इति । बालयोर् बलवतोश् च युद्धं राजा चेत् पश्येत् स्वयं वारणीयः । एते तु राज्ञः पश्यतः स्वयम् अन्विच्छन्त्य् अनुनन्यन्त इति महान् अधर्म इत्य् अर्थः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव अधर्मत्वम् । स्वयं युद्ध-कर्तृभिर् इति । एते युद्ध-कर्तारः अनुमन्यन्ते अनुकूलं मन्वते । राज-सभायां सीदन्त्य् उपविशन्तीति राज-सभासदस् तेषां तथा । इत्य् अर्थ इति— सत्य् अप्य् अधर्म-वारके पुनस् तद्-वारणे महान् एवाधर्म उभयोर् इति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किम् ऊचुः ? तद् आह—महान् इति दशभिः । बत खेदे । राज्ञः कंसस्य ये सभासदस् तेषाम् इत्य् अन्यत्रत्या व्यवच्छिन्नाः । किं वा, राज-सभ्यत्वेन धर्मज्ञत्वादि-योग्यतोक्ता ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किम् ऊचुस् तद् आह—महान् इति दशभिः । राज-सभ्यत्वेन धर्मज्ञत्वादि-योग्यतोक्ता । राज्ञि पश्यतीत्य् अर्थः । बत खेदे ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासाम् उक्तिम् आह—महान् इति दशभिः । बालाभ्यां सह बलवतोर् युद्धं राजा चेत् पश्येत् सोऽपि वारणीयः । एते तु राज्ञः पश्यतोऽनु पश्चात् स्वयम् अपि पश्यन्ति, इच्छतस् तस्यानु स्वयम् अपीच्छन्तीति शत्र्-अन्तस्य दृशोर् आक्षेपात् तिङ्-अन्तोऽपि दृशिर् लभ्यते । तथैव तिङ्-अन्तस्येच्छतेर् आक्षेपात् सोऽपि शत्र्-अन्तो लभ्यते ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.८ ॥
क्व वज्र-सार-सर्वाङ्गौ मल्लौ शैलेन्द्र-सन्निभौ ।
क्व चातिसुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बलाबलवद् युद्धतां प्रपञ्चयति पञ्चभिः—क्वेति । वज्र-साराणि वज्रवत् कठिनानि सर्वाण्य् अङ्गानि ययोस् तौ ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सारो बले स्थिरांशे च पुमान् न्याये वरेऽन्यवत् इति यादवः । शैलेन्द्रो मेरुस् तद्वद् दृढाङ्गौ । नाप्त-यौवनाव् अप्राप्त-युव-धर्मौ । बलवत्त्वाबलवत्त्वे तर्जनीभिर् दर्शयन्ति—क्वेति । क्व अत्यन्त-बाधके धर्मे, तथा क्व अत्यन्त-बाध्य-धर्मे वर्तत इत्य् अर्थः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शैलेन्द्रो मेरुर् हिमालयो विन्ध्यो वा । तत्-तुल्याव् इत्य् आकार-बृहत्त्वं सुरूपत्वादिकं च सूचितम् । क्व-द्वयं विरोधे । शैलेन्द्रत्वेन निरुद्ध-तादृश-किशोरत्वम् । ननु प्रायः पञ्चदश-वर्ष-पूर्त्या कथं किशोरौ ? तत्राहुः—नाप्त-यौवनौ तथाप्य् अप्राप्त-तारुण्यत्वात् किशोराव् एवेत्य् अर्थः । एवं वयः-सन्ध्य्-उक्त्या श्रीमद्-आकारस्यानतिबृहत्त्वं परम-सौन्दर्यं चोक्तम् । तथा च श्री-विष्णु-पुराणे—
क्व यौवनोन्मुखी-भूतः सुकुमार-तनुर् हरिः । > क्व वज्र-कठिनाभोगि-शरीरोऽयं महासुरः ॥ [वि।पु। ५.२०.४८] > इति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्व अत्यन्त-बाधकेऽधर्मे तथा क्व अत्यन्त-बाध्ये धर्मे वर्तत इत्य् अर्थः । सम्मिलिताव् इति वा पाठः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलवत्त्वाबलवत्त्वे तर्जनीभिर् दर्शयन्ति—क्वेति ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.९ ॥
धर्म-व्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् ।
यत्राधर्मः समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समाजस्य सभायाः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यतिक्रमो हानिः । अस्य कंस-कृतस्य । यत्र स्थाने । विदुषा न स्थेयम् इत्य् अर्थः । कर्हिचिद् इति लाभेऽपीत्य् अर्थः ॥ समुत्तिष्ठेत् सम्यग् उद्भवेत् । तस्माद् अत्र वयं स्थातुम् न योग्या इति भावः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव । धर्मस्य विशेषेणातिक्रमो लङ्घनम् एव । अस्य कंस-सम्बन्धिनः । यत्र समाजे सम्यग् उत्तिष्ठेत उद्भवेत् कर्हिचित् कदाचिद् अपि न स्थेयम्, प्राज्ञैः कैश्चिद् अपि वादौ न स्थेयम् इति । ततश् च न प्रविशेद् इत्य्-आद्य् अर्थ-भेदात् । अन्या ऊचुर् इत्य्-आद्य् अवत्य् अर्यः । तैर् व्याख्यातम् एव । एक-वाक्यतया सङ्गमय्यापि सर्वं व्याख्यातं स्यात्, तथा हि किं वक्तव्यं ? न स्थेयम् इति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् उत्तिष्ठेत उद्भवेत्, तस्माद् वयम् अत्र स्थातुं न योग्या इति भावः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-व्यतिक्रमोऽधर्मः समाजस्य सभायाः न स्थेयम् इत्य् अतोऽस्माभिर् इत उत्थाय गमयताम् इति भावः ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१० ॥
न सभां प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् ।
अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपरा ऊचुः—न सभाम् इति । अब्रुवन् ज्ञात्वापि तूष्णीं तिष्ठन्, विब्रुवन् विपरीतं ब्रुवन्, अज्ञो न जानाम् ईति ब्रुवन् । अतः प्राज्ञो न सभां प्रविशेद् इति ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः किल्बिषावाप्तेः आत्म-सर्वाङ्ग-सबद्ध-मलं किल्बिषम् उच्यते इति । अनपायि-मलं किल्बिषम् इत्य् अर्थः । तथाप्य् अत्र यत् प्रविष्टास् तन्-महापराधा जाता एवेत्य् आशयेनाहुः—नेति । प्राज्ञः युक्त-वचनायुक्त-वचनयोर् दोषज्ञः । तर्हि तव तस्य सावधानत्वे को दोषः ? तत्राहुः—सभ्यानां कथञ्चित् कस्याचिद् दोषः स्यात् । एवं स्वस्यापि भ्रमादिना सभ्यानां संसर्गजं स्वस्यापि भ्रमारिष्टं विचारयन्न् इत्य् अर्थः । दोषान् एवाह—अब्रुवन्न् इति । विज्ञोऽपि मौनम् अपलापं वा कुर्वन्, तथा स्वयम् अज्ञोऽपि विरुद्धं ब्रुवन्, किम् उत विज्ञोऽपीत्य् अर्थः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र पूर्वम् एव न प्रवेष्टव्यम् इत्य् आहुः—नेति । अनुस्मरन् सदा चिन्तयन् । दोषान् एवाहुः—अब्रुवन्न् इति । किल्बिषं पापम् अश्नुते प्राप्नोति नर इति सर्व-धर्माध्यक्षताद्य्-अधिकारी जनो ज्ञेयः । अन्यथानुक्त्य्-आदिना अनधिकारिणोऽपि सर्वान् एव सभा-स्थितान् प्रति दोष-प्रसक्तिः । अतोऽधिकारिण एते सभासदोऽत्र स्थिता दुष्टा एवेति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अत्र यत्-प्रविष्टास् तन्-महापराधा जाता एवेत्य् आशयेनाहुः—नेति । प्राज्ञः युक्त-वचनायुक्त-वचनयोर् दोषज्ञः । तर्हि तव तस्य सावधानत्वे को दोषः ? तत्राहुः—सभ्यानां कथञ्चित् कस्यचिद् दोषः स्यात् । एवं स्वस्यापि भ्रमादिनेति सभ्यानां संसर्गजं स्वस्यापि भ्रमादिजं दोषं विचारयन्न् इत्य् अर्थः । दोषान् एवाह—अब्रुवन्न् इति । विज्ञोऽपि मौनम् अपलापं वा कुर्वंस् तथा स्वयम् अज्ञोऽपि विरुद्धं ब्रुवन्, किम् उत विज्ञोऽपीत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राज्ञो निवृत्ति-मार्गज्ञः ॥१०.४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्माभिर् अत्रागत्यैवापराद्धम् इत्य् अपराः शास्त्र-शासनम् आहुः—न सभाम् इति। सभायाम् अधर्मे उत्पद्यमाने सति धर्मं ज्ञात्वापि तम् अब्रुवन् तूष्णीं तिष्ठन्न् इत्य् अर्थः । विब्रुवन् विधर्मम् एव ब्रुवन् वा । अज्ञः ज्ञात्वापि न जानाम् ईति ब्रुवन् वा किल्बिषं प्राप्नोतीत्य् अतः सभां न प्रविशेद् इति सभा-प्रवेश-निषेधो व्यवहार-सापेक्षस्यैव प्राज्ञस्य, न तु व्यवहार-निरपेक्षस्य प्राज्ञस्य यथा सभा-पर्वणि द्यूते द्रौपदी-विपदि व्यवहार-सापेक्षाः प्राज्ञाः भीष्मादयोऽब्रुवाणा एव तस्थुः । व्यवहार-निरपेक्षः प्राज्ञो विदुरस् तु धर्मं ब्रूते स्मैवेति रङ्ग-भूमौ तु सर्व एव प्राज्ञाः कंसाद् भीताः व्यवहार-सापेक्षा एवेति ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.११ ॥
वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् ।
वीक्ष्यतां श्रम-वार्य्-उप्तं पद्म-कोशम् इवाम्बुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वल्गतः शत्रुम् अभित इति । शत्रोः सर्वतो धावतः कृष्णस्य श्रम-वारिणा उप्तं व्याप्तं मुखाम्बुजं दृश्यताम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पद्म-कोशं पद्म-मुकुलम् । अम्बुभिर् जल-बिन्दुभिः । वल्ग-प्लुत-गतौ । नन्व् एतयोः श्रमादृष्ट्या बलवत्त्वानुमानान् न कोऽपि दोष-प्रसङ्ग इत्य् आशङ्क्यम् । श्री-कृष्णस्य तावच् छ्रमं दर्शयन्ति—वल्गत इति । श्रमश् चायं तादृश-स्निग्धान् एव प्रतिभासते, न तु सर्वान् इति ज्ञेयम्, मल्लानाम् अशनिः इत्य्-आद्य्-उक्तेः । रूपकेण तत्-तद्-धर्मं साधयित्वापि पद्मेति पुनर् उपमानाद् इदं बोधयति—आकृष्टाम्बुज-गण-सौन्दर्यात् तन्-मुखम् एवाम्बुजम्, तथा श्रमवायेव तच्-छोभा-हेतुत्वेन तद् उपयुक्तं वारीति स्वानुभव-व्याञ्जनाय रूपकं कृतम्, यथा कथञ्चित् साधारण-जनानुभवायैव तु पुनर् उपमा कृतेति । श्रमवारीत्य् अत्र भिसो लुक्छान्दसः । तद् एवाम्बुभिर् इत्य् उपमानेन योगः स्याद् इति कोश-पदोपादानेन मुखस्यापि स्मितेनेषद् विकाशित्वं ज्ञापितमत एव विशेषेणेक्षताम् ॥११॥ [अत्र तु विश्वनाथः ॥]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एतयोः श्रमादृष्ट्या बलवत्त्वानुमानान् न कोऽपि दोष-प्रसङ्ग इत्य् आशङ्क्य श्रमं दर्शयन्ति—वल्गत इति । कृष्णस्य श्यामसुन्दरस्य उप्तं व्याप्तम् इत्य् उक्तम् । श्रमाधिक्यं दृष्टान्तेनाभिव्यञ्जयन्ति—अम्बुभिः पद्म-कोषम् इवेति । जलजत्वेन तस्मिन् बहुल-जल-सम्पर्कात् । अत एव बिन्द्व्-आदि-शब्दाप्रयोगः । यद् वा, तद्-अभावेऽपि, मुक्तेव पङ्कज-दले इत्य्-आदि-न्यायेन पद्म-कोशेऽपि जल-बिन्दव एवोह्याः । कोश-शब्देन वदनाम्बुजस्य सङ्कोचादि-विशेषेण श्रम एव ध्वनितः । ततश् च बहुलैः श्रम-वारि-कणैः श्री-मुखस्य शोभातिशयोऽपि सूचितः । अत एव विशेषेणेक्ष्यताम् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एतयोः श्रमादृष्ट्या बलवत्त्वानुमानान् न कोऽपि दोष-प्रसङ्ग इत्य् आशङ्क्य श्री-कृष्णस्य तावत श्रमं दर्शयन्ति—वल्गत इति । श्रमश् चायं तादृश-स्निग्धान् एव प्रतिभासते, न तु सर्वान् इति ज्ञेयं, मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य्-आद्य्-उक्तेः । रूपकेण तत्-तद्-धर्मं साधयित्वापि पद्मेति पुनर् उपमानाद् इदं बोधयति—आकृष्टाम्बुज-गण-सौन्दर्यात् तन्-मुखम् एवाम्बुजम्, तथा श्रम-वार्य् एव तच्-छोभा-हेतुत्वेन तद् उपयुक्तं वारीति स्वानुभव-व्यञ्जनाय रूपकं कृतम् । यथा कथञ्चित् साधारण-जनानुभवायैव तु पुनर् उपमा कृतेति । श्रम-वारीत्य् अत्र भिसो लुक् छान्दसः । तद् एवाम्बुभिर् इत्य् उपमानेन योगः स्याद् इति कोश-पदोपादानेन मुखस्यापि स्मितेनेषद्-विकाशित्वम् ज्ञापितम् । अत एव विशेषेणेक्षताम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तयोः श्रमादृष्ट्या बलवत्त्वानुमानान् न कोऽपि दोष-प्रसङ्ग इत्य् आशङ्क्य कृष्णस्य तावत् श्रमं दर्शयन्ति । वल्गतः शत्रुम् अभित इति । शत्रोः सर्वतो धावतः कृष्णस्य श्रम-वारिणा उप्तं व्याप्तं वदनाम्बुजं मुख-चन्द्रो दृश्यताम् । अब्जौ शङ्ख-शशाङ्कौ च इत्य् अमरः । [अत्र लक्षित-लक्षणयाम्बुज-पदेन चन्द्रो लक्षितः ।]2 क्लीबत्वं चार्षम् ॥११॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१२ ॥
किं न पश्यत रामस्य मुखम् आताम्र-लोचनम् ।
मुष्टिकं प्रति सामर्षं हास-संरम्भ-शोभितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—किं न पश्यत ? इति । सामर्षं स-क्रोधम् । हासेन संरम्भ आवेशः, तेन शोभितम् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं वितर्के । आताम्रे ईषद् रक्ते लोचने यस्य, तम् । [वै।तो।] अथ तद्वत् सुकुमारस्यापि श्री-रामस्य तच्-छ्रम-दर्शनेन स्व-श्रमम् अभिभूय जातं क्रोधं तेजः पश्येतेति तद् एव स्थापयन्ति—किं न पश्यत ? इति । हासेनावज्ञा च दर्शिता । हास-कर्तृको य आवेशो ऽविच्छिन्नोदयस् तेन शोभितम् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रामस्य मल्ल-युद्धेन रममाणस्येत्य् अर्थः । आताम्रे अतिरक्ते लोचने यस्मिन्न् इति सामर्षः, धर्म-युक्तत्वात् । पूर्वं श्यामसुन्दर-श्री-मुखे मुक्ता-पङ्क्ति-सदृश-श्रम-वारिणा शोभा-विशेषाभिप्रायेणाम्बुज-रूपकम् । अत्र च शुक्ल-वर्णे तेन तादृशत्वाभावात् केवलं मुखम् इत्य् उक्तम् । हासोऽवज्ञया अमर्षेणैव वा । संरम्भे आटोपः। शोभितम् इत्य् अनेन सौन्दर्य-विशेषोऽप्य् उक्तः । श्री-कृष्णस्य हासस् तु पङ्कज-रूपकेण सुप्रसन्नतोक्त्या सूचित एव, किन्तु तस्मिन् भाव-विशेषेण श्रमस्यैवावकलनात् साक्षाद् असौ नोक्तः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तद्वत् सुकुमारस्यापि श्री-रामस्य तच्-छ्रम-दर्शनेन स्व-श्रमम् अभिभूय जातं क्रोधं तेजः पश्यतेति । तद् एव स्थापयन्ति—किं न पश्यतेति हासेनावज्ञा च दर्शिता । हास-कर्तृको य आवेशोऽविच्छिन्नोदयः, तेन शोभितम् । अन्यत् तैः । यद् वा, हासेन संरम्भ आटोपः, तेन ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सामर्षं स-क्रोधम् इति क्रोधस्य कारणं मुष्टिक-प्रहार-जनितः श्रम एव बुद्ध्यताम् इति भावः । कोपोत्थेन हासेन सह संरम्भो युद्धावेशः, तेन शोभितम् ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१३ ॥
पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग-
गूढः पुराण-पुरुषो वन-चित्र-माल्यः ।
गाः पालयन् सह-बलः क्वणयंश् च वेणुं
विक्रीडयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या ऊचुः—पुण्या बत इति । नृ-लिङ्गेन मनुष्य-देहेन गूढः । वन-स्थणि चित्राणि माल्यानि यस्य सः । गिरित्रः शिवो रमा च, ताभ्याम् अर्चिताव् अङ्घ्री यस्य सः । अयं भावः—धिग् इमां सभां यस्याम् अयं पराभूयते । तास् तु व्रज-भुवो धन्याः, यद् याः स्वयं कृष्णो विविध-क्रीडयाञ्चति गच्छतीति ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बत हर्षे । वने यानि चित्राणीति सप्तम्या अधिकरणार्थकत्वाद् वनस्थानीत्य् उक्तं स्वामि-चरणैः । गिरिं कैलासं, गिरीन् पूज्यान् अर्थाद् विप्रांस् त्रातीति वा गिरित्रः, तद्-ब्राह्मणान् परम-सर्व-विपत्सु पाति [भ।पु। ४.७.१४] इति दक्षे प्राख्यानोक्तेः । गिरिर् ना नेत्र-रुग्-भिदि । अद्रौ गैरेयके योषिद्-गीर्णे पूज्ये पुनस् त्रिषु इति मेदिनी । अत्र तात्पर्यम् अहुः—अयं भाव इति । अयं श्री-कृष्णः । ताः प्रसिद्धाः । पुण्या इति तैर् व्याख्यातम् ।
तत्रायं भावः—इत्य् अस्य दन्तं विवक्षितम् इत्य् अर्थः । यद् वा, अथ काश्चिद् विदग्धा यज्ञ-पत्नी-प्रायास्यो ऐश्वर्य-ज्ञान-मिश्र-पर-प्रेमवत्यस् तत्-समा वैगुण्येन मधु-पुरीम् अप्य् अबहु-मन्वानास् तत्रत्यानां साद्गुण्ये श्री-व्रज-भुवम् एव प्रशंसन्ति—पुण्या इति चतुर्भिः ।
बत विस्मये । व्रज-भुवः व्रज-सम्बन्धिन्यो भूमय एव पुण्याः परम-धन्या न त्व् इयं महा-पुर्य् अपि । बहुत्व-निर्देशेन तासां बहूनाम् अपि यादृश-पुण्यत्वं, न त्व् एकस्या अपि तादृशत्वम् इत्य् अर्थः । यत् यासु । अयं श्री-कृष्णाख्यः पुराण-पुरुषोऽपि नवः नित्य-नूतनो यः । य एव पुरुषः, तन्-मुख्यत्वेन तच्-छब्दः प्रथमोऽभिधेयः, सोऽहं चेति । भ्रमति वर्तमान-प्रयोगस् तत्-सामीप्यात्, पुनस् तत्र गमनाभिप्रायाच् च । वस्तुतस् तु यथार्थ-भारती-निःसृतिर् इयम्, तत्र तदीय-नित्य-लीलयाः स्थापयिष्यमाणत्वात् । अन्यत्र परम-महताम् अप्य् असौ दुर्लभ इत्य् आह—गिरित्रेण रमयापि हृदयेऽर्चिताव् आगमोक्त-मार्गेण उद्दिश्यैवाराधितौ, न तु व्रजवासि-जनवत् साक्षात् सेविताव् अङ्घ्री यस्य, तादृश इत्य् अर्थः ।
ननु, सम्प्रत्य् अत्राप्य् अयम् अञ्चति ? तत्राह—विक्रीडयेति । अत्र प्रतिकूलैः पराभवितुम् इष्यते विविधोदासीन-लोकैः सङ्कीर्यते चेति नानाभीष्ट-चिक्रीडिषोदयान् नात्र विशिष्टा क्रीडा । तत्र तु सर्वस्याप्य् अनुकूलत्वेन कान्तत्वेन च परमाभीष्ट-चिक्रीडिषोदयाद् विशिष्टैर् वैति कुतः साम्यम् ? एवेति भावः । सर्वानुकूल्यं वैशिष्ट्यं च दर्शयन्ति—वन- इत्य्-आदिना । वने सर्वाभीष्ट-पुष्पादि-निधाने परमैकान्ते श्री-वृन्दावने चित्राणि विशिष्ट-क्रीडा-कौतुकितया सखिभिर् मिलित्वा विविधाश्चर्यत्वेन यावद् अभीष्टं रचितानि माल्यानि यस्य, तादृशः । उपलक्षणं चैतद् वेशान्तराणाम् । तथा गाः पालयन् स्वयं निज-परम-स्नेह-पात्राणां गवां तत्-तन्-निजाभीष्ट-क्रीडा-स्वैरता-सहायं पालनं विश्व-मोहनं मधुराह्वानादिना कुर्वन् । किं च, सह-बलः तत्र तत्र बल-सहाय इति स्वयम् अभीष्ट-तत्-तत्-क्रीडने श्री-बलेन पुष्ट-तत्-कृईड इत्य् अर्थः ।
अहो किम् अपरं वक्तव्यं ? शक्र-शर्व-परमेष्टि-मोहनं तरूणाम् अपि पुलक-कारकं वेणुं च क्वणयंस् तद् वाद्य-माधुरीं मुहुर् उल्लासयन्न् इति । अत्र विश्वनाथोऽपीत्थम् एव व्याचख्यौ ॥१३॥
कैवल्य-दीपिका : दीर्घ-सम्प्रयोगस्य स्पृहया तं प्राप्तवतीर् गोपीः स्तुवन्ति—पुण्या इत्य्-आदि । बत विस्मये । पुण्याः पुण्याधिकाः । व्रज-भुवो गोप्यः । नृलिङ्गेन मर्त्य-मूर्त्या गूढम् । गूढताम् एवाह—वन-चित्र- इति त्रिभिः । वन-माल्यैश् चित्र इत्य् अर्थः । यत् या गोपी अञ्चति गच्छति । उपभुङ्क्ते विक्रीडया विविध-क्रीडया । विचित्रैः काम-करणैर् इत्य् अर्थः । गिरित्रो रुद्रः । रमा लक्ष्मीः । अनेन स-काम-विचित्रैः कामैर् अयम् एव सेव्य इत्य् उक्तम् ॥१३॥ [मु।फ। ११.२१]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.९६] अधुनादौ सामान्यतः व्रज-भूमेस् तत्रत्यानां च माहात्म्य-प्रतिपादकानि पद्यान्य् आह—पुण्या [भा।पु। १०.४४.१३] इत्य्-आद्य् एकादश । तत्रैव श्री-नन्द-गोकुलतः श्री-मधु-पुर्याम् आगत्य कुवलयापीडं प्रातर् हत्वा रङ्ग-भूमौ प्रविश्य चाणुरेण सह मल्ल-युद्धेन क्रीडन्तं श्री-भगवन्तं पश्यन्तीनां पुर-योषितां मध्ये काश्चिद् आहुः—बाल-बलवद् युद्ध-दर्शनेन महान् अयं बताधर्मः [भा।पु। १०.४४.७] इत्य्-आदिना सख्य्-आदीनां निन्दायां क्रियमाणायां काश्चिद् आहुः—पुण्या इति ।
बत खेदे [तिरस्कारे वा] निर्धारे वा । व्रज-भुव एव पुण्याः परम-धन्याः, न त्व् इयं महापुर्य् अपि । बहुत्वं गौरवेण विस्तारापेक्षया वा । भू-शब्देन च सर्वं तत्रत्यं चराचर-प्राणि-जातं शिला-काष्ठादिकं च लक्ष्यते । यद्य् आसु अयं परम-मनोहरतया साक्षाद् अनुभूयमानः श्री-कृष्णो विक्रीडया विविध-विहारेण हेतुना कृत्वा वा अञ्चति पर्यटति ।
अयं भावः—धिग् इमां सभां यस्याम् अयं पराभूयते । तास् तु व्रज-भुवः पुण्याः यासु विक्रीडयाञ्चतीति । यद् वा, व्रजे भवन्तीति व्रज-भुवस् तत्रत्याः स-चेतन-प्रपञ्चाः, त एव पुण्याः । न त्व् अत्रत्या नागराः क्षत्रिय-प्रवराः श्री-यादवा अपि । यत् यान् अञ्चति संमानयति । अयम् इत्य् अङ्गुल्या सन्दर्श्य वदन्ति । तन् नाम च भर्तृ-भावादिना प्रेम-मोह-भयेन वा स्पष्टं, न किल कीर्तयन्तीत्य् ऊह्यम् ।
ननु वृद्ध-गर्ग-वचनादि-प्रामाण्याद् अयम् एव श्री-कृष्णो\ऽत्र प्रभुर्भवितेति निर्धार्यते । ततश् चेमे सभ्याः सभा मधु-पुरी चेयं सर्वे\ऽत्रत्या अपि धन्या भविष्यन्ति ? इति चेत् सत्यं, तथा सत्य् अपि ता व्रज-भुव एव पुण्या इत्य् आहुः—पुराणो बहुशो\ऽनुभूतश् चासौ पुरुषश् चान्तर्यामितया हृन्-निवासी तादृशो\ऽपि, तथा गिरित्रेण श्री-शिवेन रमया च महा-लक्ष्म्या अर्चिताङ्घ्रिर् अपि मनुष्यस्य लिङ्गेन लक्षणेन गूढश् च । यद् वा, मनुष्यस्येव लिङ्गम् आकारो यस्य स चासौ गूढश् च कंस-वञ्चनाद्य्-अर्थम् अप्रकटित-वैभवः सन् ।
किं वा, क्रीडा-विशेषेण निकुञ्जादौ अलक्षितः सन् । किं च, वन-सम्बन्धीनि चित्राणि विविधानि माल्यानि यस्य सः ।
बलः श्री-बलरामः, तेन सहितः । किं वा, स-बलं हनिष्ये इत्य् अत्र श्रीधर-स्वामि-पाद-व्याख्यानुसारेण बलं सैन्यं निज-सहचर-गोप-कुमार-कुलं, तेन सहितः गाः पालयन् । वेणुं च क्वणयन् रासादि-रूपया विक्रीडयाञ्चति ।
अयं भावः—श्रुति-स्मृत्य्-अर्थ-पराणां क्षत्रिय-वराणाम् एषां पुराण-पुरुषत्वेन सदानुभूयमानतया न तादृग्-आदर-विशेषः । अन्तर्यामि-वासुदेव-बुद्ध्या न च साक्षाद्-दर्शने\ऽतीवौत्सुक्यम् । तथा दिव्य-चतुर्भुजादि-रूप-दर्शनेन शिवादि-सेव्यत्व-ज्ञानेन च तथा परम-वैभव=प्रकटनालोचनेनापि भय-गौरवाद्य्-उत्पत्तेर् न तादृशी प्रेम-सम्पत्तिः सम्भवेत् । तत्रत्यास् तु नित्य-नूतनत्वेन कदाचिद् दूरस्थे चास्मिन् सति दर्शनोत्कण्ठातिशयेन । तत्र च प्रकृष्ट-मनुष्याकार-विलोकनेन च सदाविर्भवत्-परम-प्रेम-परम्परया । तत्रापि श्री-नन्द-यशोदा-नन्दन-ज्ञानेन मधुर-भाव-विशेषेण । तत्रापि च निगूढतया परमोपजीव्य-महा-निधिवन् निरन्तर-परमापेक्षणादिना रहस्य-विहार-विशेषेण वा अविरतम् इमं भजन्तो महा-सुख-विशेष-परम-काष्ठाम् अनुभवन्तो\ऽतीव धन्याः । एवं निजानां परम-धन्यतया व्रज-भुवो\ऽपि परम-धन्या एवेति सिद्धम् ।
किं च, यदि वा वक्तव्यम् इदं प्रेम-भक्तानां यादवानाम् एषां तादृक्त्वं न सम्भवतीतिल्, तथाप्य् अत्रास्य वन-चित्र-माल्यता कुतः स्यात् ? भवतु वा राज्यैश्वर्यादिना सा\ऽपि तथाप्य् अत्र गोपालनं कुतः घटतां ? राज-गोष्ठ्य्-आधिपत्येन लीलया तद् अपि तथापि बलरामेण सह नित्य-साहित्यं कुतः ? निज-निज-कर्तव्यार्थं कुत्रापि कस्यचित् गमनात् । किं वा, तद्-गोप-कुमार-कुल-साहित्यं कुतः भवतु वा कृत-तादृश-वेशैर् यदु-कुमारैस् तद्-अनुकरणम् तथाप्य् अत्र वेणु-वादनं न सम्भवत्य् एव । किं च, रासादि-क्रीडा-श्रेणी चेति । सा च विक्रीडयेत्य् उद्देशेनैवोक्ता तन्-नाम च स्त्रीत्वाल् लज्जया न साक्षाद् गृहीतम् इति ज्ञेयम् । एवम् अधुना पश्चाद् अपि ता व्रज-भुव एव तत्रत्याश् चैव पुण्या इति ।
यथा-क्रमर्थ-निर्वाहार्थं गिरित्र-रमार्चिताङ्घ्रीत्य् अस्यार्थान्तरं चेदं कल्पनीयम् । श्री-गोवर्धन-गिरि-धारण-समये प्रेम-कटाक्षेण श्रम-विध्वंसन-द्वारा तस्माद् गिरेः सकाशात् त्रायते कृष्णम् इवेति तथा चासौ रमा च लक्ष्मीस् तद्-अवतारत्वेन तद्-अभेदात् । यद् वा, गिरिणा तेनैव त्रायते व्रज-भूमिम् इति गिरित्रो गोवर्धन-धारी श्री-कृष्णस् तं च रमयतीति गिरित्र-रमा श्री-राधा तया अर्चिताङ्घ्रिर् इति । तच् च केवलं तत्रैव सम्भवतीति ता एव पुण्या इत्य् उपसंहारः । श्री-गोलोक-माहात्म्य-निरूपण-सञ्जात-प्रेम-विशेषेण श्री-मथुरा-पुर-स्त्री-भावम् आप्तः श्री-परीक्षिन्-महाराजः श्री-दशम-स्कन्धस्य—पुण्या बत [भा।पु। १०.४४.१३] इति श्लोकम् एतम् अगायद् इति ज्ञेयम् ॥९६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बत विस्मये खेदे व । व्रज-भुवो व्रज-सम्बन्धिन्यो भूमय एव पुण्याः परम-धन्याः । न त्वियं महापूर्य् अपि बहुत्वं बहुमानाद्-बृहत्त्वाद् वा, पुराणः—अनादिः पुरुषोऽन्तर्यामी स चासौ स च । यद् वा, पुराण-पुरुष आदि-नारायाणोऽपि, अत एव श्री-शिव-महा-लक्ष्मीभ्यां भक्त्या सेविताङ्ग्रिर् अपि नृलिङ्गेन नराकारेण गूडोऽलक्षितः सन् । यद् वा, नुरिव लिङ्गं यस्य स चषौ गूढश् च कंस-वञ्चनाद्य् अर्थम् अप्रकटित-वैभवः सन् । किं वा, क्रीडा-विशेषेण निकु निकुञ्जादावन्तर्हितः सन् तथा वन-सम्बन्धीनि चित्राण्यद्भुतानि विविधानि वा माल्यानि यस्य तथा-भूतः सन्, सह-बलः सदा श्री-बलदेवेन सहितः, एवं मुष्टिकेन सह युद्धे श्रमादिमननात् तस्यापि तत्रापि च सुख-क्रीडाभिप्रेता । यद् वा, बलं सैन्यम्, गोप-वर्ग-सहित इत्य् अर्थः ।
विक्रीडा विविध-गोप-क्रीडा विचित्र-रासादिर् वा, स्पष्टतया तद् अनुक्तिर् लज्जया प्रेम-मोह-शङ्कया वा, तया कृत्वा अञ्चतीति वर्तमान-निर्देशः, तत्र पुनः प्रयाण-सम्भावनया । यद् वा, कदापि तत्त्वतस् तद् अपरित्यागाद् इति व्रजे नित्य-लीला सूचिता । एवम् अग्रेऽप्य् ऊह्यम्, अन्यत् तैर् व्याख्यातम् ।
अथवा व्रजे भवन्ति जायन्त इति व्रज-भुवो गोप्य एव पुण्याः, न तु वयं नागर्योऽपि, यत् तया अञ्चति सम्मानयति । यद् वा, गच्छति उपभुङ्क्ते, विक्रीडया विचित्र-काम-करणैर् इत्य् अर्थः । यद् वा, व्रज-भुवः सर्वे तत्रत्या वन्या अपि चराचराः, न त्व् अत्रत्या यादवादय इत्य् अर्थः । अयं भावः—शास्त्र-पराणाम् एषां क्षत्रियादीनां पुराण-पुरुषत्वादि-ज्ञानेन भय-गौरवाद्य् उत्पत्त्या न तादृशी प्रेम-सम्पत्तिर् घटते । तत्रात्यानान्तु श्री-नन्द-नन्दनत्व-ज्ञानेन नराकारत्वादि-दृष्ट्या विशुद्ध-भावोदय एव पश्चाद् वास्यात्र निवासेनैषाम् अपि विशुद्ध-भवोदय एव पश्चाद् वास्यात्र निवासेनैषाम् अपि विशुद्ध-भावो घटताम्, तथापि तादृश-भाव-विशेष-सम्पादकं वन-चित्र-माल्यत्वम् अत्रास्य कथम् अन्तु, कुतो वा गोपालनं गोप-कुमार-कुल-साहित्यं वेणु-वादनं रासादी-क्रीडा च, अतस्त एव पुण्या न चैत इति । यद् वा, गिरेः श्री-गोवर्धनात्रायते तद् धारण-समये प्रेम-कटाक्षादिना परिश्रमाच् छ्री-कृष्णं रक्षतीति गिरित्रा, सा चासौ रमा च राधा, लक्ष्म्यवतारत्वात् । किं वा, गिरिणा तेनैव व्रजं त्रयत इति गिरित्रः श्री-कृष्णस् तद्-रमणाद्-रमा श्री-राधैवेत्य् अर्थः । तया प्रेम्णा सेविताङ्घ्रिर् इति तादृशत्वं चात्र कथं सम्भवेत् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुण्या इति तैर् व्याख्यातं तत्रायं भाव इत्य् अस्येदन्तु विवक्षितम् इत्य् अर्थः । यद् वा, अथ काश्चिद् विदग्धा यज्ञ-पत्नी-प्राया ऐश्वर्य-ज्ञान-मिश्र-परम-प्रेमवत्यस् तत्-सभावै-गुण्येन मधुपुरीम् अप्य् अबहुमन्वानाः तत्रत्यानां साद्गुण्ये श्री-व्रजभुवम् एव प्रशंसन्ति—पुण्या इति चतुर्भिः । बत विस्मये । व्रजभुवः व्रज-सम्बन्धिन्यो भूमय एव पुण्याः परम-धन्याः । न त्वियं महापुर्यपि । बहुत्व-निर्देशेन तासां बहूनाम् अपि यादृश-पुण्यत्वं न त्व् एकस्या अपि तादृशत्वम् इत्य् अर्थः । यत् यासु अयं श्री-कृष्णख्यः पुराण-पुरुषोऽपि नवो नित्य-नूतनो यः एव च पुरुषः तन्मुख्यत्वेन तच् छब्दः । प्रथमोऽभिधेयः सोऽञ्चति भ्रमति । वर्तमान-प्रयोगस् तत्-सामीप्यात् पुनस् तत्र गमनाभिप्रायाच् च । वस्तुतस् तु यथार्थ-भारती-निःसृतिर् इयं तत्र तदीय-नित्य-लीलायाः स्थापयिष्यमाणत्वात् । अन्यत्र परम-महताम् अप्य् असौ दुलभ इत्य् आह । गिरित्रेण रमयापि हृदयेनार्चितौ आगमोक्तार्चनम् आग्रेण उद्दिश्यैवाराधितौ न तु व्रजवासिवत् साक्षात् सेवितौ अङ्घ्री यस्य तादृश इत्य् अर्थः ।
ननु, सम्प्रत्य् अत्राप्य् अयम् अञ्चति तत्राहुर् विक्रीडयेति । अत्र प्रतिकूलेः पराभवितुम् इष्यते विविधोदासीनलोकैः सङ्कीर्यते चेति नात्यभीष्ट-चिक्रीडिषोदयन्नात्र विशिष्टा क्रीडा । तत्र तु सर्वस्याप्य् अनुकूलत्वेनैव कान्तत्वेन च परमाभीष्ट-चिक्रीडिषोदयाद् विशिष्तैवेति कुतः साम्यम् एवेति भावः । सर्वानुकूल्यं वैशिष्टयं च दर्शयन्ति । वनेत्यादिना । वने सर्वाभीष्ट-पुष्पादि-निधाने परमैकान्ते श्री-वृन्दावने चित्राणि विशिष्ट-क्रीडा-कौतुकितया सखिभिर् मिलित्वा विविधाश्चर्यत्वेन यावद् अभीष्ट रचितानि माल्यानि यस्य तादृशः । उपलक्षणञ्चैतत् वेशान्तराणां तथा गाः पालयन् स्वयं निज-परम-स्नेह-पात्राणां गवां तत् तन् निजाभीष्ट-क्रीडास्वैरता सहायं पालनं विश्व-मोहनं मधुराह्लानादिना कुर्वन् । किं च । सहबलः तत्र तत्र बल-सहाय इति स्वयम् अभीष्ट-तत्-तत्-क्रीडेन श्री-बलेन पुष्टतत् तत्-क्रीड इत्य् अर्थः । अहो किम् अपरं वक्तव्यं शक्र-शर्व-परमेष्ठि-मोहनः तरूणाम् अपि पुलक-कारकं वेणुं च क्वणयन् तद् वद्य-माधुरीं मुहुर् उल्लासयन्न् इति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ काश्चित् यज्ञपत्नी-सवासनास् ता एव वा तद्-अवाप्ति-सन्ताप-स्फुरित-तद्-ऐश्वर्य-ज्ञानाः महा-प्रेमवत्यो दृश्यमानां ताम् अनीतिम् असहमाना व्रज-भूवस् तत्रत्य-जनाश् च स्तुवाना मथुरायास् तद्-वासिनां च निन्दाम् अभिव्यञ्जयन्ति—पुण्या इति । बत विस्मये । यत् यासु नृ-लिङ्गेन स्व-स्वरूप-लक्षणेनापि बहिरङ्ग-जनैर् ज्ञातुम् अशक्यत्वाद् गूढः विविधया स्व-मनोरथोत्थया क्रीडया अञ्चति भ्रमति । तेन धिग् इमां मथुरा-पुरीं यतो ऽस्याम् अस्यैतादृशो दुःखातिशयस् तं चात्रत्या जनाः पश्यन्ति । तास् तु वन-भूमयो ऽपि धन्या एव या स्वस्य वेणु-वादनादि-विविध-क्रीडानन्द । तष् च तत्रत्या सानन्दं पश्यन्तीति द्योतितम् अत्राञ्चतीति वर्तमानप्रयोगस्तासां तत्रैव पुनः कृष्ण-गमनाभिप्रायात् वस्तुतस् तु यथार्थैव ब्ःअरतीयं तन्मुखेभ्यो निःसृता लीलानां नित्य् अत्वस्य स्थापितत्वात् स्थापयिष्यमाणत्वाच् च ॥१३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१४ ॥
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य3 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो कष्टम् अल्प-पुण्या वयं यतोऽस्माभिर् अनवसरे दृष्टोऽयम् । गोप्यस् तु बहु-पुण्या इत्य् आहुस् त्रिभिः[--]{दिर्=“र्त्ल्”}गोप्य इति । अमुष्य श्री-कृष्णस्य रूपम् अङ्ग-लावण्येन सारं श्रेष्ठम् । किं च[,]{दिर्=“र्त्ल्”} असमोर्ध्वं न विद्यते समम् ऊर्ध्वम् अधिकं च यस्य तत् । तद् अपि नान्येन्[अ]{दिर्=“र्त्ल्”} आभरणादिना सिद्धं[,]{दिर्=“र्त्ल्”} किन्तु स्वत इव । **ऐश्वरस्य []{दिर्=“र्त्ल्”}**ऐश्वर्[य्]{दिर्=“र्त्ल्”}अस्य []{दिर्=“र्त्ल्”}चैकान्त-धाम अव्यभिचारि-स्थानम् । पाठान्तरे अमुष्य ईश्वरस्य्[अ इ]{दिर्=“र्त्ल्”}त्य् अन्वयः । एवं-भुतं नित्यं नवीनं रूपं या नेत्रैः पश्यन्तीति ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज-भाग्यं निन्दन्त्यो गोपी-भाग्यं च श्लाघयन्त्य आहुः—अहो कष्टम् इत्य्-आदिना । रूपं द्रव्याश्रय-लक्षणं गुणम् । तच् च
अङ्गान्य् अभूषितान्य् एव प्रेक्षणीयैर् विभूषणैः । > येन भूषितवद् भान्ति तद् रूपं प्रोच्यते बुधैः ॥ [उ।नी। १०.२५] > इत्य् उक्तं भरतेन4 ।
न केवलं लावण्य-सारम् एव, किं त्व् अन्यत्राविद्यमानम् इत्य् आहुः—किं च इति । तद् अपि असमोर्ध्वम् अपि । पाठान्तरे "ईश्वरस्य" इति पाठे । अनुसवं प्रतिक्षणम् । अभिनवं नूतनम् । तथा चोक्तं स्वामिभिः--नित्य-नवीनम् इति । दुरापं विना ज्ञानम् इत्य् अर्थः ।
गोप्य इत्य् अत्र तेषाम् अवतारिकायां दृष्टोऽयम् इति पर्यन्तः पूर्व-पद्याभिप्रायः । गोप्य इत्य् [उत्तरत्र यस्य]{।मर्क्} ज्ञेयम् । असमोर्ध्वम् अनन्त-तद्-आविर्भावेष्व् अपि न विद्यते समं किम् उतोर्ध्वं यस्य तद् इत्य् अर्थः । पिबन्ति इति तृषार्ता इवामृतम् इति भावः । अनुसवाभिनवं प्रतिक्षणम् अधिकाविर्भाव-प्रेम-तत्-स्फूर्त्योः परस्परं वर्धमानत्वाद् इति भावः । दुरापं लक्ष्म्य्-आदिभिर् दुर्लभम् अपि । श्रियः सर्व-शोभायाः । "ईश्वरस्य" इति पाठे परमेश्वरस्यापि परमालम्बन-रूपम् इत्य् अर्थः । अन्यत् तैः ।
तत्र "सौन्दर्यम्" इति लेख्येऽप्य् असङ्गतम् इति, नूनं प्रथम-लेखक-भ्रमात् । अन्यथा किं च इत्य् अस्य तद् अपि इत्य्-आदेश् चासङ्गतिर् इति ।
यद् वा, व्रज-भुवां धन्यत्वेन तद्-वासि-मात्र-धन्यत्वं व्यञ्जितम् । तत्रापि श्री-गोपीनां किं वक्तव्यम् ? इति परम-विदग्धाः काश्चिच् छ्री-शुकेनाप्य् अनुमोद्यमानेष्व् अमीषु बाढम् अनुमोद्यमान-वाक्यम् आहुः—गोप्य इति । तपो भगवद्-आराधन-लक्षणम् । किं कतमद् आचरितवत्यः, ईदृश-फलस्य वाङ्मनसातीतत्वात् । तद् अपि तादृशम् इत्य् अर्थः । यदि जानीथ तदा वयम् अपि तत्रोद्यमं करवामेति भावः ।
यद् वा, किं ततोऽचरन्, अपि तु नैवाचरन्न् इति तपो-मात्रस्येच्छा-फल-दानाशक्तेस् तदीय-नित्य-प्रेयसी-समुचित एवायम् उदय इति भावः । तथात्वे हेतुं परम् आह—यद्य् अस्माद् अमुष्य साक्षाद्-भावेऽपि निर्देष्टुम् अशक्यस्येत्य् अर्थः । रूपं परमं शोभन-प्रमाणाङ्ग-प्रत्यङ्गवत्त्वम् । दृग्भिः पिबन्ति इति नैरन्तर्येऽपि तस्याक्षयिष्णुत्वं तासाम् अतृप्तिं च सूचयित्वा रूपस्य सुधा-समुद्रत्वम् उत्प्रेक्षते । किं च, दर्शन-मात्रस्य तादृशत्वं दर्शयित्वालिङ्गनादेः कैमुत्यं मानयन्ते । कीदृशं तत् ? लावण्यस्य कान्ति-कन्दली-चाकचिकस्य सारः श्रेष्ठांशो यत्र तादृशं तत्, प्राचुर्यात् तद् रूपम् एव वा ।
नन्व्, अनन्ता एव एव तत्-प्रादुर्भाव इति तत्र तत्रापि तादृशत्वं सम्भवति ? तत्राहुः—असमोर्ध्वम् ।
नन्व्, अत्र नास्ति चेत् कुतो लब्धं ? तत्राहुः—अनन्य-सिद्धं, स्वाभाविकम् एवेति नित्यत्वं च दर्शितम् । अत एव यश-आद्य्-उपलक्षितानां षण्णां भगानाम् अतिशयितं धाम नित्याश्रयम् । पाठान्तरेऽपि "ईश्वरस्य" इत्य् स एवार्थः ।
नन्व्, एवं सदैक-रूपत्वेन पश्यन्ति चेत् तदा नासकृच् चमत्कारः स्यात् ? तत्राउः—अनुसव इति । नन्व्, ईदृशं रूपं तत्रास्ति चेत् तदान्येऽपि पश्येयुः ? तत्राहुः—दुरापम् इति । स्वतस् तादृश-प्रेम्णोऽसम्भवाद् अन्येषां तादृशत्वं तासाम् एव दृढावधानेन स्फुरति, अन्यथा तु न स्फुरतीत्य् अर्थः ॥१४॥
कैवल्य-दीपिका : आस्ताम् अनेन सह सम्प्रयोगो दर्शनम् अप्य् अस्य दुर्लभम् इत्य् आहुः—गोप्य इति । यद् यस्मात् अमुष्य पुरुष-रत्नस्य लावण्य-सारम् अशेष-लावण्येन गृहीत-सारात्मकम् । लावण्य-रूपयोर् अभेद-प्रतिपत्तिः । सामान्याधिकरण्ये व्यङ्ग्यम् । अत एव असमोर्ध्वम् अविद्य-तुल्याधिकम् । तच् च स्वभाव-सिद्धम्, न तु केनचित् कर्त्रा निर्मितम् । अत एव अभिनवं सर्व-क्षणः प्रतिदर्शनेन नवं नवम् अकृत-तपोभिः एकान्त-धाम चाव्यभिचारि स्थानम् । ऐश्वरः ऐश्वर्यम् । एतेन दुर्भगत्व-दुर्विधत्व-दुर्बलत्वानि भर्तुर् दोषाः । स्त्रीणां वैराग्य-हेतवोऽत्र न सन्ति इत्य् उक्तम् ॥१४॥ [मु।फ। ११.२२]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३५] अधुना तासां सर्वत्रैव सदा श्री-भगवत्-सन्दर्शन-कीर्तनादि-परम-सुखानुभव-माहात्म्यं रङ्ग-भूमौ प्रविष्टं चाणूरेण सह नियुद्धेन क्रीडन्तं श्री-भगवन्तं दृष्ट्वा तत्रागताः सर्वा योषितो मिथः पूर्ववद् आहुः—गोप्य इत्य्-आदि-पद्य-त्रयम्। तत्र प्रथम-श्लोकेन सदा श्री-भगवद्-रूप-सन्दर्शन-महा-सौभाग्यं वर्णयन्ति—गोप्यस् तपः किम् [भा।पु। १०.४४.१४] इति ।
प्रसिद्धं यद् यत् तपः, तस्यैतादृशं फलं न श्रूयते । अतः किं कीदृशं कतरत् वा तपः कृच्छ्रादिकं, स्वधर्माचरणं वा, मानसैकाग्र्यं वा अचरन् कृतवत्यः ? यद् या इति येन तपसेति वा अमुष्य श्री-नन्दनन्दनस्य, तन्-नामाग्रहणं गौरवादिना पूर्ववद् एव, रूपं श्री-मूर्तिं सौन्दर्यं वा दृग्भिः मांस-चक्षुर्भिः पिबन्ति । रसनया अमृतम् इव नेत्रैः सादरं प्रेम्णा परमासक्त्या साक्षात् पश्यन्ति ।
कथं-भूतम् ? लावण्येन सारं श्रेष्ठम् । यद् वा, जगति वर्तमानस्य लावण्यस्य सारो यस्मिन् तत् । किं च, असमोर्ध्वं न विद्यते अवतार-दृष्ट्यापि अवतारेषु समम्, अवतारित्वेनापि ऊर्ध्वम् अधिकं यस्य तत् । यद् वा, न विद्यते अवतारावतार्य्-आदिषु समं यस्य तच् च तद् ऊर्ध्वं च । अत एव सर्व-श्रेष्ठ-परम-काष्ठा-प्राप्तम् ।
तद् अपि न अन्येन आभरणादिना सिद्धम्, किन्तु स्वत एव सिद्धम् । यद् वा, अत एव न अन्यस्मिन् कस्मिंश्चिद् अन्यदा वा कदाचित् सिद्धम्, यथोक्तम् उद्धवेन तृतीय-स्कन्धे—विस्मापनं स्वस्य च सौभग-र्द्धेः परं पदं भूषण-भूषणाङ्गम् [भा।पु। ३.२.१२] इति । किं वा, अस्यैव व्रजाद् अन्यत्र न कुत्रापि सिद्धम् सम्पन्नम् ।
अपि च अनुसवाभिनवं प्रतिक्षणम् एव नूतनवत् प्रतीयमानं तृप्त्य्-अनुत्पादक-स्वभावकत्वात्, सदा नूतन-विविध-माधुरी-भङ्ग्य्-एकास्पदत्वाच् च । यथोक्तं माघे—क्षणे क्षणे यन् नवताम् उपैति तद् एव रूपं रमणीयतायाः [शि।व। ४.१७] इति । अत एव दुरापं गोपी-व्यतिरिक्तानाम् अप्राप्यं साक्षाद्-अनुभवितुम् अशक्यम् इत्य् अर्थः । तासाम् अपार-पार-वश्यादिना तदीय-महा-कौतुकि-स्वभावेन च दुर्लभम् एव वा ।
न केवलम् एवं लावण्यादिना श्रेष्ठतां प्राप्तः, किन्तु परम-गुणादिभिर् अपीत्य् आहुः—यशसः सत्-कीर्तेर् एकान्त-धाम अव्यभिचारि-स्थानं, तथा श्रियः महा-लक्ष्म्याः । यद् वा, सर्व-शोभा-सम्पदः, ऐश्वरस्य ऐश्वर्यस्य भग-शब्दादि-वाच्यस्य । एवम् आकृत्या प्रकृत्या च परम-सौन्दर्यम् उक्तम् ।
“ईश्वरस्य” इति पाठे अमुष्य विशेषणम् । एवम् अपि भक्ति-भरेणेश्वर-शब्द-प्रयोग इति ज्ञेयम् । पश्यन्तीति वर्तमान-निर्देशेन कदाचिद् अप्ययं ताः परित्यजतीति ता वा विच्छेदे अपि कदाचिद् एनं न पश्यन्तीति न हीति सूच्यते । अतस् ता एव परमानिर्वचनीय-पुण्यवत्यः, वयं त्व् इमं पश्यन्त्यो\ऽपि स्वल्प-पुण्या एव, यतो\ऽस्थाने\ऽनवसरे च दृष्टो\ऽयम् अस्माभिः । किं चास्माकं तादृश-प्रेमादरेणैव तदीय-सौन्दर्यामृत-पानं न कदाचिद् अपि तथा सम्भवतीति ।१४॥।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तपो भाग्यं पुण्य-विशेषं वा । किं कतरत् प्रसिद्ध-तपसस् तादृश-फलासिद्ध्या तत्त्वाज्ञानात् । अमुष्य इति साक्षात्त्वेऽपि परोक्षवद् उक्तिः, तत्रास्य पूर्व-स्थिति-स्मरणात् । यद् वा, एतस्येत्य् अर्थः । असमोर्ध्वम्—असमम् अवतारेषु अनूर्ध्वं च अवतारिण्य् अपि तादृशत्वाभावात् । पिबन्ति परम-प्रीत्या साक्षात् पश्यन्ति । लक्ष्म्य्-आदिभिर् दुर्लभम् अपि । श्रियः सर्व-शोभायाः, त्रयाणाम् एषां यथोत्तरं श्रैष्ठ्यम् । "ईश्वरस्य" इति पाठे परमेश्वरतया तस्य दुर्लभत्वम् उक्तम् ।
यद् वा, निजाशेषैश्वर्य-प्रकटन-परस्येति तत्र तत्रायं हेतुर् द्रष्टव्यः । एवं लोक-निन्द्यत्व-दुर्भगत्वास्वातन्त्र्यादयः5 स्त्रीणां वैराग्य-हेतवो दोषा निरस्ताः, गुणादिभिश् च परमोत्तमातोक्ता । अन्यत् तैर् व्याख्यातम् ।
तत्र सौन्दर्यम् इति लेख्योऽप्य् अङ्गम् इति लेखक-भ्रमात्, अन्यथा किं चेत्य् अस्य तद् अपीत्य्-आदिश् चासङ्गतिर् इति । यद् वा, न विद्यतेऽवतारावतार्य्-आदिषु समं यस्य, तच् च तत्, अत एवोर्ध्वं च सर्वतोऽधिकं परम-श्रैष्ठ्यान्त्य-काष्ठा-प्राप्ताम् इत्य् अर्थः । अत एव नान्यस्मिन् कस्मिंश्चित् पुरुषे काले वा सिद्धम् । अत एवोक्तं श्रीमद्-उद्धवेन—विस्मापनं स्वस्य च [भा।पु ३.२.१२] इति ।
यद् वा, आस्ताम् अनेन सह सम्भोग-वार्ता, व्रजेऽस्य दर्शन-मात्रेणापि परम-धन्यतेत्य् आशयेनाहुः—गोप्य इति वन्या अपि । अन्यत् समानम् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोप्य इत्य् अत्र तेषाम् अवतारिकायां दृष्टोऽयम् इति पर्यन्तः पूर्व-पद्याभिप्रायः । गोप्यस् त्व् इत्य् उत्तरत्र यस्य ज्ञेयः । असमोर्ध्वम् अनन्त-तद्-आविर्भावेष्व् अपि न विद्यते समं किम् उतोर्ध्वं यस्य तद् इत्य् अर्थः । पिबन्ति इति तृषार्ता इवामृतम् इति भावः । अनुसवाभिनवं प्रतिक्षणम् अधिकाविर्भावि-प्रेम-तत्-स्फूर्त्याः परस्पर-वर्धनत्वाद् इति भावः । दुरापं लक्ष्म्य्-आदिभिर् दुर्लभम् अपि श्रियः सर्व-शोभायाः । "ईश्वरस्य" इति पाठे परमेश्वरस्यापि परमालम्बेन-रूपम् इत्य् अर्थः । अन्यत् तैः ।
तत्र सौन्दर्यम् इति लेख्येऽप्य् अङ्गम् इति नूनं प्रथम-लेखक-भ्रमात् । अन्यथा किञ्चित् इत्य् अस्य तद् अपीत्य्-आदेश् चासङ्गतेर् इति ।
यद् वा, व्रज-भुवां धन्यत्वेन तद्-वासि-मात्र-धन्यत्वं व्यञ्जितं । तत्रापि श्री-गोपीनां किं वक्तव्यम् ? इति परम-विदग्धाः काश्चित् श्री-शुकेनाप्य् अनुमोद्यमानेष्व् अमीषु वाक्येषु बाढम् अनुमोद्यमानं वाक्यम् आहुः--गोप्य इति । तपो भगवद्-आराधन-लक्षणं किं कतमत् आचारतवत्यः ईदृश-फलस्य वाङ्-मनसातीतत्वात् तद् अपि तादृशम् इत्य् अर्थः । यदि जानीथ तदा वयम् अपि तत्रोद्यमं करवामेति भावः । यद् वा, किं तपोऽचरन् अपि तु नैवाचरन् तपो-मात्रस्येदृश-फल-दानाशक्तेः, तदीय-नित्य-प्रेयसी-समुचित एवायम् उदय इति भावः ।
तथात्वे हेतुं परम् एवाहुः--यत् यस्मात् अमुष्य साक्षात्-भावेऽपि निर्देष्टुम् अशक्यस्य इत्य् अर्थः । रूपं परम-शोभन-प्रमाणाङ्ग-प्रत्यङ्गवत्त्वं दृग्भिः पिबन्त्इ इति नैरन्तर्येऽपि तस्याक्षयिष्णुत्वं तासाम् अतृप्तिं च सूचयित्वा रूपस्य सुधा-समुद्रत्वम् उत्प्रेक्षन्ते । किं च, दर्शन-मात्रस्य तादृशत्वं दर्शयित्वा आलिङ्गनादेः कैमुत्यम् आनयन्ते । कीदृशं ? तत् लावण्यस्य कान्ति-कन्दली-चाकचिक्यस्य सारः श्रेष्ठांशो यत्र तादृशं तत्-प्राचुर्यात् तद्-रूपम् एव वा । अनन्वनस्ता एव तत्-प्रादुर्भावा इति तत्र तत्रापि तादृशत्वं सम्भवति तत्राहुः--असमोर्ध्वम् ।
नन्व् अन्यत्र नास्ति चेत् कुतो लब्धं ? तत्राहुः--अनन्य-सिद्धं स्वभाविकम् एवेत्य् अर्थः । इति नित्यत्वं च दर्शितम् । अत यश-आद्य्-उपलक्षितानां षण्णां भगानाम् अतिशयितं धाम नित्याश्रयं पाठान्तरेऽपि ईश्वरत्वस्येत्य् एवार्थः ।
नन्व् एवं सदैक-रूपत्वेन पश्यन्ति चेत् तदापि नासकृत् चमत्कारः स्यात् ? तत्राहुः--अनुसव- इति ।
नन्व् ईदृशं रूपं तत्रास्ति चेत् तदान्येऽपि पश्येयुः ? तत्राहुः--दुरापम् इति । स्वतस् तादृश-प्रेम्णोऽसम्भवाद् अन्येषां तादृशत्वं, तासाम् एव दृढावधानेन स्फुरति । अन्यथा तु न स्फुरतीत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त महासुकृतिन एव व्रज-भूमिषूत्पद्यन्ते ! तेष्व् अपि गोपी-जना अतिश्रेष्ठा इत्य् आहुः—गोप्य इति । किम् अचरन्न् इति भो सख्यः ! तत् तपः यदि युयं सर्वज्ञस्य कस्यचिन् मुखात् जानीथ, तदा ब्रूत । तथा तद् एवास्मिन् जन्मनि कृत्वा व्रज-भूमौ गोप्यो भवेम यत् यतस् ता अमुष्य रूपं सौन्दर्यामृतं पिबन्ति । वयं तु मथुरास्था अस्य पराभव-विषं पीत्वा आ-नख-शिखं ज्वलाम इति भावः ।
तासां दृग्भिः पानस्यैव तादृश तपः फलम् उक्त्वा स्वाङ्गैर् आलिङ्गनादेस् त्व् अनिर्वाच्य-हेतुकत्वं ज्ञापितम् । किं च, अस्य रूपे लावण्यम् अधिकं वर्तत इत्य् अत उपादीयते इति न वाच्यं, किन्तु लावण्य-सारं लावण्यस्यापि यः सारः, तत् स्वरूपम् एवैतत् ।
ननु स्वर्-लोकादिभ्योऽपि न्यूने भूर्-लोकेऽस्मिंश् चेद् एवं रूपं दृश्यते, तर्हि सर्वतः श्रेष्ठे महा-वैकुण्ठ-लोके इतोऽप्य् अधिक-मधुरं श्री-नारायणस्य रूपं भवेत् ? इति तत्राहुः--असमोर्ध्वं एतद्-रूपस्य समवेत-रूपं क्वापि नास्ति किम् उताधिकम् इति भावः ।
ननु तर्हि कृष्णेनैतद्-रूपं कुतः सकाशात् प्राप्तं ? तत्राहुः—अनन्य-सिद्धं अस्मिन्न् एतत् स्वाभाविकम् इत्य् अर्थः ।
नन्व् एवम् अप्य् एतद्-रूपाः ताः सदैक-रूपत्वेन पश्यन्ति चेत् तदापि तासां नासकृच् चमत्कारः स्यात् ? तत्राहुः--अनसवाभिनवं प्रतिक्षण-नूतनम् । एवं चेत् तर्हि तत्रैव गत्वा अन्य-देशीयभिर् अपि स्त्रीभिः सुखेनायं दृश्यताम् इत्य् अत आहुः--दुरापं लक्ष्म्यापि दुर्लभम् ।
ननु, भवतु नामास्य सौन्दर्योपाधिक एव सर्वोत्कर्षः । श्री-नारायणादौ तु भग-शब्द-वाच्यं यद् ऐश्वर्यम् अधिकं वर्तते ? तत्राहुः—एकान्तेति । यश-आद्य्-उपलक्षितानां षण्णाम् एव भगानां एकान्त-धाम अतिशयितम् आस्पदम् ऐश्वरस्य ऐश्वर्यस्य । “ईश्वरस्य" इत्य् अपि पाठः ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : हन्त हन्त ! महा-सुकृतिन एव व्रज-भूमिषूत्पद्यन्ते, तेष्व् अपि गोपी-जनाः अतिश्रेष्ठाः इत्य् आहुः—गोप्य इति । किम् अचरन् इति भो सख्यः ! तपः यदि यूयं सर्वज्ञस्य कस्यचिन् मुखात् जानीथ तदा ब्रूत यथा तद् एवास्मिन् जन्मनि कृत्वा व्रज-भूमौ गोप्यो भवेम । यत् यतस् ता अमुष्य रूपं सौन्दर्यामृतं पिबन्ति, वयं तु मथुरा-स्था अस्य पराभव-विषं पीत्वा आ-नख-शिखं ज्वलाम इति भावः । तासां दृग्भिः पानस्यैव तादृश-तपः-फलम् उक्त्वा स्वाङ्गैर् आलिङ्गनादेस् त्व् अनिर्वाच्य-हेतुकत्वं ज्ञापितम् । किं च, अस्य रूपे लावण्यादिकं वर्तत इत्य् अत उपादीयते इति न वाच्यम् । किन्तु लावण्य-सारं लावण्यस्यापि यः सारस् तत् स्वरूपम् एवैतत् ।
ननु, स्वलोकादिभ्योऽपि न्यूने भूर्-लोकेऽस्मिंश् चेद् एवं रूपं दृश्यते । तर्हि सर्वतः श्रेष्ठे महा-वैकुण्ठ-लोके इतोऽप्य् अधिक-मधुरं श्री-नारायणस्य रूपं भवेद् इति तत्राहुः—असमोर्ध्वम् एतद्-रूपस्य समवेत-रूपं क्वापि नास्ति किमुताधिकम् इति भावः।
ननु, तर्हि कृष्णेनैतद्-रूपं कुतः सकाशात् प्राप्तं ? तत्राहुः—अनन्य-सिद्धम् । अस्मिन्न् एतत् स्वाभाविकम् इत्य् अर्थः ।
नन्व् एवम् अप्य् एतद्-रूपस् ताः सदैक-रूपत्वेन पश्यन्ति चेत् तदापि तासां नासकृच् चमत्कारः स्यात् तत्राहुः—अनसवाभिनवं प्रतिक्षण-नूतनम् । एवं चेत् तर्हि तत्रैव गत्वा अन्य-देशिभिर् अपि स्त्रिभिः सुखेनायं दृश्यताम् इत्य् अत आहुः—दुरापं लक्ष्म्यापि दुर्लभम् ।
ननु, भवतु नामास्य सौन्दर्योपाधिक एव सर्वोत्कर्षः । श्री-नारायण-पादौ तु भग-शब्द-वाच्यं षड्-ऐश्वर्यम् अधिकं वर्तते । तत्राहुः—एकान्तेति । यश-आद्य्-उपलक्षितानां षण्णाम् एव भगानाम् एकान्त-धाम अतिशयितम् आस्पदम् ऐश्वरस्य ऐस्वर्यस्य । ईश्वरस्येत्य् अपि पाठः ॥१४ ॥
॥ १०.४४.१५ ॥
या दोहने\ऽवहनने मथनोपलेप-
प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ ।
गायन्ति चैनम् अनुरक्त-धियो \ऽश्रु-कण्ठ्यो
धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, या दोहनादिष्व् एनं गायन्ति ता व्रज-स्त्रियो धन्याः । प्रेङ्खेङ्खनं दोलान् दोलनम् । उक्षणं सेचनम् । कथं भूताः । उरुक्रमे चित्तम् उरुक्रम-चित्तं तेतैव यानं सर्व-विषय-प्राप्तिर् यासां ताः । पाठान्तरे उरुक्रमं चिन्तयन्त्य इत्य् अर्थः । कुतः ? अनुरक्त-धियः । तत्र लिङ्गम्, अश्रुकण्ठ्यः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् व्रजाङ्गना-भाग्यम् अभिनन्दन्त्य आहुः—किं च इति । अवहनने व्रीहिताडनावसरे । मथने दधि-मन्थने, उपलेपे गोमयादिना स्थल-लेपन-समये, अर्भरुदिते बाल-रोदने, मार्जने धूलि-शोधन-काले, आदिपदात् स्नादि-ग्रहः । पाठान्तरे, चिन्तयाना इति पाठे । इत्य् अर्थ इति—चिति स्मृत्याम् स्मरन्त्य इति भावः । अत्र हेतुम् आशङ्कन्ते—कुत इति । अनुरक्तधिय इति हेतु-गर्भ-विशेषणम् । अनुरक्तधीत्वादित्य् अर्थः । तत्रानुरक्त-बुद्धौ । लिङ्ग-हेतुः । अश्रिवति—न ह्य् औरागं विनाश्रुद्गमो भवतीत्य् अर्थः । किं च—तासां गृह-कर्माण्य् अपि नैतन् माधुर्यपान-प्रतिबन्धकानीत्य् आहुः—या दोहनादिष्व् एनं गायन्ति । दोहनेऽवहनने इति पदे अन्तर्भूतण्यर्थे । अवहननं तुषापकरणम् । चकारात् क्वापि पश्यन्ति चेत्य् एतन् माधुर्यं रसनाभिर् अपि दृग्भिर् अपि पिबन्तीति पानाविच्छेद उक्तः । उरुक्रम-चित्तम् एव यानं वाहनं यासां ताः । यत्र-यत्र तच् चित्तं याति तत्र-तत्रैव तस्मिंस् ता एव स्फुरन्तीति भावः ।
यद् वा, उरुक्रमस्य चित्तं वाहनं यासां ताः । अयम् उरुक्रमोऽपि ब्राह्मद्यैः स्वचित्तेषूह्यमानोऽपि याः स्वयं स्वचित्ते वहतीति तास्व् अपि कृष्णोऽयम् अनुरक्तधीर् इति तासां सौभाग्यभरो दर्शितः ॥१५॥
कैवल्य-दीपिका : या इति । या एनं दोहनादौ गायन्ति । च-कारात् पश्यन्ति । अवहनने कण्डने । प्रेङ्खेङ्खनं हिन्दोलनम् । मार्जनम् अवकर-निरासः ॥१५॥ [मु।फ। ११.२३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३६] भोः माथुर-नागर्यः ! कदाचिद् वा विदग्ध-शिरोमणेर् अस्य कौतुक-लीला-वैचित्र्या नैवं पश्यन्तु नाम, तथाप्य् अस्य सङ्कीर्तनेनैव परम-प्रेमानन्द-सागरे निमग्ना भवन्तीत्य् आहुः—या दोहने [भा।पु। १०.४४.१५] इति ।
**च-**कारोऽप्य् अर्थे । अस्तु तावत् सावकाश-समुच्चये कृष्णार्थ-माला-ग्रन्थनादि-कर्मसु वा दोहनादिष्व् अपि या एनं श्री-कृष्णं गायन्ति, तन्-नाम-गाथया सङ्कीर्तयन्ति । यथाह श्री-पराशरः—
कृष्णः शरच्-चन्द्रमसं कौमुदी-कुमुदाकरम् । > जगौ गोपी-गणास् त्व् एकं कृष्ण-नाम पुनः पुनः ॥ > रास-गेयं जगौ कृष्णो यावत् तारायत-ध्वनिः । > साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः ॥ [वि।पु। > ५.१३.५१-५२] इति ।
ता व्रज-स्त्रियो व्रज-वासिन्यो वन्या अपि ताः स्त्रियः—एतच् च व्रजान्तर-साधारण्य-दृष्ट्या पुर-स्त्रीणां वचन-युक्तिर् इति ज्ञेयम् । यद् वा, भगवत्-सङ्गत्या वनम् आगच्छन्त्यो व्रज-मध्य एव वर्तमाना अपि ताः सर्वा एव तरुण्यो बाला वृद्धाश् च धन्याः परम-भाग-धेय-धनवत्यः ।
अथवा व्रजस्यैव स्त्रियस् ता धन्याः, नान्यत्रत्या इत्य् अर्थः । तत्र हेतुः—या इत्य्-आदि । तत्र दोहनावहनन-मथनानि स्वाम्य्-आदि-परिवार-भोगार्थकानि कर्माणि, उपलेपः कुङ्कुम-चन्दनाद्य्-अनुलेपनं, प्रेङ्खेङ्खनं दोलान्दोलनम् एते च द्वे स्वार्थके । अर्भ-रुदितं चापत्यार्थकम्, उक्षणं सेचनं, मार्जनं संमार्जनी-जल-गोमयादिना रज-आदि-शोधनम् । एते च द्वे सामान्यतो गृह-विषयके । आदि-शब्देन गृहाङ्गन-लेपन-भित्ति-चित्रीकरण-पेषण-रन्धनादि-कर्मणि । एवं सर्वेष्व् एव व्यापारेष्व् इत्य् अर्थः । इत्थम् आवश्यकानि देह-दैहिक-सम्बन्धि-कर्माणि क्रियमाणान्य् अपि तासां भगवद्-भजनानन्दस्य विघ्नाय न जातु प्रभवेयुः ।
अथ च सङ्कीर्तन-जनक-स्वभावकतया अनुकूलान्य् एवेति भावः । अथवा च-कारस्य समुच्चयार्थकत्वेनायम् अर्थो द्रष्टव्यः—या दोहनादौ गायन्ति दृग्भिः पिबन्ति च, आवश्यकत्वेनाभ्यास-वशेन वा तत् तत् कर्म कुर्वाणा अपि तत्-तद्-आसक्त्य्-अभावात्, तत्र तत्रापि तं गायन्ति पश्यन्त्य् अपीत्य् अर्थः । दर्शनं च6 व्रजान्तः-क्रीडायां । साक्षाद् एव भावना-बलाद् वा ।
अथवा व्रजे वर्तमानं पश्यन्ति, अन्यदा दोहनादि-च्छलेन तत्र तत्रैव गायन्ति चेति समुच्चयः ।
अथवा यदि कदाचिद् गुरुजन-लज्जादिना स्वातन्त्र्य-हान्या तं गातुं न शक्नुवन्ति, तदानीं तु केवलम् उरुक्रमे महा-चित्ताक्रान्ति-करे कृष्णे चित्तस्य यानं गमनं यासां ताः । ततश् च अनुरक्ता अर्थात् तस्मिन्न् एवानुरागेण प्रविष्टा धीर् विचारात्मिका यासां, ताः सर्व-विचाराचार-शून्याः सत्यः, ततः केवलम् अश्रु-कण्ठ्यो रोदन-परा भवन्तीत्य् अर्थः । इत्थम् उरुक्रमेण महा-वेगेन चित्तस्य यानं कृष्ण-प्राप्तिर् यासां ताः । अतो\ऽनुरक्त-धियो निरन्तरा आर्द्र-चित्ताः सत्यः अश्रु-कण्ठ्यो भवन्ति । पाठान्तरे उरुक्रमं चिन्तयन्त्य इत्य् अर्थः ।
एवं भगवद्-दर्शन-कीर्तन-चिन्तानानुरागैस् ता एव धन्या इति श्लोकार्थः । यद् वा, गान-प्रकारम् एवाहुः—अनुरक्तेत्य्-आदिना । ततश् चायम् अर्थः—
ननु रागेणैव सर्वत्र प्रवृत्तिः स्यात् । कर्मसु च प्रवृत्त्या कदाचित् तत्र रागोऽप्य् अनुमीयत एव । तत् कथं तद्-एक-प्रेम-निमग्नता तासाम् ? तत्राह—अनुरक्ता भगवति एनं वा भगवन्तम् अनुरक्ता धियो बुद्धि-वृत्तयो यासाम् । तल्-लक्षणम् अश्रुकण्ठ्यः सत्य इति । भगवत्-प्रीत्य् अपेक्षयैव तत्र तत्र तासां प्रवृत्तिर् इति भावः
ननु तर्हि बुद्धेर् अन्यत्रासक्त्या कथं तासां शरीराद्य्-आवश्यक-कर्म-निर्वाहः ? तत्राह—उरुक्रमे परमाद्भुत-शक्तौ कृष्णे यत् तासां चित्तं तेनैव यानं यत् तद् अशेष-कर्म-सिद्धिः सर्व-विषय-प्राप्तिर् वा यासाम् तच् चित्ततयान्यत्र नैरपेक्ष्येण तत्-तत्-कृत्य-निर्वाहे\ऽपि किम् अपि मनो-वैकल्यं न घटत इति भावः ।
अथवा तासां तत्-तद्-दोहनादि-कर्मण्य् अपि भगवत्-परितोषणार्थकान्य् एव तच् चिन्तन-प्रभावेणैव सर्वाणि स्वयम् एव साङ्गं सिद्धिं प्राप्नुवन्तीति भावः । एवम् अत्र गानस्यैव प्राधान्यं स्मरणं तु गाने दर्शने\ऽपि सर्वत्र स्वत एवानुस्यूतम् इति पार्थक्येन नोक्तम् इति ज्ञेयम् । एवं सर्वथा ता एव धन्या इति । अस्माकं त्व् एतत् किम् अपि न सम्भवतीति हा कष्टम् इति तात्पर्यम् ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अवहननं तुषापकरणम्, उपलेपो गृहादि-लेपनं कुङ्कुमादिना साङ्गानुलेपनं वा, प्रेङ्खङ्खनं स्वस्यारोहणे अर्भकस्य वा, मार्जनं रज-आदि-शोधनम्, आदि-शब्दात् पचन-चित्रणादीनीति देह-दैहिकार्थ-कर्माण्य् उक्तानि । चकार उक्त-समुच्चये, तत्र तत्र पश्यन्त्य् अपीत्य् अर्थः । एतानि च कर्माणि तासां प्रायस् तद्-गनार्थम् एवेति गानस्य सम्यक् सिद्धिर् अभिप्रेता । यद्य् अप्य् अन्योऽन्यः तद् वार्तादिकम् अपि कुर्वन्ति, तथापि गायन्तीति भगवत्-परितोषणे विरहार्ति-निस्तारणे च गानस्यैव प्राधान्यात्, तच् च गानं परम-प्रेम्णैवेत्य् आहुः—अन्व् इत्य्-आदिना । व्रजस्यापि स्त्रियः, वन्या अपीत्य् अर्थः । वस्तुतस् तु व्रज-स्त्रीत्वेनैव परम-धन्यत्वयोग्यता सूचिता, उरुक्रमो महा-चित्ताक्रमको भगवान्, तादृश-गानासम्भवाद्वयम् अधन्या एवेति भावः । अन्यत् तैर् व्याख्यातम्
यद् वा, ननु, ईदृश-गानाभोगः कथं नाम सिध्यतु ? तत्राहुः—उरुक्रमे महासमर्थ्यवति श्री-भगवति यच् चित्तं तेनैव यानं सर्व-भोग-प्राप्तिर् यासाम् इति । अन्यत् समानम् । यद् वा, अश्रु-कण्ठ्यो रोदन-पराश् च भवन्ति, कुतः ? अनुरन्तधियः, उरुक्रमेण महावेगेन चित्तस्य यानं श्री-भगवति प्रयाणं यासाम्, पाठान्तरेऽपि स एवार्थः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं दर्शनवदर्शनेऽपि तद् रूपं तथैव तासां स्फुरतीत्य् आहुर्या इति । दोहनावहनने अन्तर्भूतण्यर्थ-पदे ज्ञेये अवहननं तुषापकरणं चकार उक्त-समुच्चये । कदाचित् पश्यन्ति कदाचिद् गायन्ति चेत्य् अर्थः । एवं पूर्वोक्त-रूपं यदा पश्यन्ति तदापि तद् रूपं स्फुरतीति भावः । एवं तादृश-गानाभावाद्वयमधन्या एवेति तात्पर्यम् । अन्यत् तैः । यद् वा, अश्रुकण्ठ्यः रोदन-परश् च भवन्ति यतोऽनुरक्तधियः अतः उरुक्रम-चित्तम् एव यानं गमन-साधनं यासां ताः । यत्र यत्र तच् चित्तं याति तत्र तत्रैव तस्मिंस्ता एव स्फुरन्तीत्य् अर्थः । चिन्तयाना इति पाठेऽपि चिन्तनं चिन्ता तद् एव यानं यासाम् इति समानोऽर्थश् च ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तासां गृहकर्माण्यपि नैतन्माधुर्यपान प्रतिबन्धकानीत्याहुः । या दोहनादिषु एनं गायन्ति चकारात् क्वापि पश्यन्ति चेत्येतन्माधुर्यं रसनाभिरपि दृग्भिरपि पिबन्तीति पानाविच्छेद उक्तः प्रेङ्खेङ्खनं दोलान्दोलनं उक्षणं सेचनम् उरुक्रमस्य चित्तं यानं बाहनं यासां ता इत्ययमुरुक्रमो ऽपि ब्रह्मादिभिः स्वचित्तेयूह्यमानो ऽपि या स्वयं स्वचित्ते बहतीति तास्वपि क्वष्णो ऽयमनुरक्तधीर् इति तासां सौभाग्यभरो दर्शितः । “चिन्तयाना” इति पाठे उरुक्रमं चिन्तयन्त्य् अत्य् अर्थः ॥१५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१६ ॥
प्रातर् व्रजाद् व्रजत आविशतश् च सायं
गोभिः समं क्वणयतो \ऽस्य निशम्य वेणुम् ।
निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः
पश्यन्ति स-स्मित-मुखं स-दयावलोकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रातर् इति । या अबला अस्य वेणुं निशम्य गृहात् तूर्णं निर्गम्य पथि स-स्मित-मुखं पश्यन्ति ता भूरि-पुण्या इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आहुः—प्रातर् इति । अस्य श्री-कृष्णस्य । प्रातर् व्रजाद् वनं व्रजतः, सायं वनाद्-व्रजं प्रविशतोऽस्य कृष्णस्य वेणुं निशम्य गृहेभ्यो निर्गत्य पथि गवानयन-मार्गं समीपोपवनादौ पश्यन्ति । सदयः स्वविरह-खिन्नाङ्गीस् ता दृष्ट्वा तद् अभीष्ट-वितरण-व्यञ्जकानुकम्पा-सहितोऽवलोको यस्य तम् ॥१६॥
कैवल्य-दीपिका : प्रातर् इति । आविशतः आगच्छतः निर्गम्य-गृह-द्वारि स्थितेत्य् अर्थः ॥१६॥ [मु।फ। ११.२४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३७] अहो भवतु वा दुष्ट-कंस-वधानन्तरम् अत्राप्य् अस्यैश्वर्येणास्माकम् अपि सदा सन्दर्शन-लाभो\ऽखिल-व्यापारेषु च सङ्कीर्तनम् अपि तथापि तासाम् इव कुतः स्यात् ? इत्य् अभिप्रेत्याहुः—प्रातः [भा।पु। १०.४४.१६] इति ।
गोभिर् इत्य् उपलक्षणम् । गोभिर् गोप-वर्गादिभिश् च समं प्रातर् वनं व्रजतो\ऽस्य श्री-कृष्णस्य वेणुं, तन्-नादं निशम्य तूर्णं स्व-स्व-गृहेभ्यो निर्गम्य पथि तदीय-गमन-वर्त्मनि स्थिताः । अस्य स-स्मितं मुखं पश्यन्ति ता एव अबलाः स्त्रियो भूरि-पुण्या महा-भाग्याः परम-कृतार्थाः परम-मङ्गल-रूपा वा । यद् वा, अबलाः स्वातन्त्र्यादि-शक्ति-हीना अपि यास् तथा पश्यन्ति ता एव भूरि-पुण्याः ।
कथम्-भूतस्य ? क्वणयतो वादयतो वेणुम् एव । यद् वा, नट-वर-गति-लीलया नूपुरादि-शब्दं कुर्वतः । एतच् च तूर्ण-निर्गमे हेत्व्-अन्तरम् । कीदृशं ? मुखम् दया-सहितो\ऽवलोको यस्मिन् तत् सतत-कृपा-दृष्ट्या परम-शोभमानम् इत्य् अर्थः । इदं स-स्मितेति च विशेषण-द्वयं श्री-मुखस्य स्वरूप-निरूपण-मात्रार्थकं, न तु व्यवच्छेदकं कदाचिद् अपि तत्-तद्-व्यवच्छेदाभावात् । यद् वा, तदानीं क्रोधावेश-लीलया तत्र तयोर् अदृश्यमानत्वात् । किं वा, पश्चाद् अप्य् आत्मानः परम-दौर्लभ्येण तादृक्-सन्दर्शनासम्भावनाद् इति दिक् ।
नन्व् अहो बत वनान्तर् व्रजने विच्छेद-समये दर्शनेन किं नाम बहु पुण्यम् ? तत्राह—सायं व्रजम् आविशतश् चेति । तत्रापि7 गोभिः समम् इत्य्-आदि योज्यम् । यद्यपि दिवा-विरह-दुःख-विकलानां कुमुदिनीनाम् इव मृतवन् निज-गुह एवावस्थितानां वेणु-नादामृत-पानेनैव निर्गमः प्रातस् तु विविध-च्छलेन श्री-यशोदा-गृहे पूर्वम् एव तद्-दर्शनार्थम् आगता वने यान्तम् अनुव्रजन्ति ।
समय-द्वय एव वा तद्-दर्शनावसर-ध्यान-पराः प्रथमम् एव यथा-कालं गृहेभ्यो यत्नेन किल निर्गच्छन्त्य् एव, तथापि वेणु-नाद-श्रवणेन तूर्णं द्रुत-पदैर् निगच्छन्तीति तथोक्तं । अथवा, वेणुं निशम्य अबला इत्य् अन्वयः । वेणु-नाद-श्रवणात् काम-वेगेन बल-हीनतां प्राप्ता अपीत्य् अर्थः । यद्यपि विच्छेदे\ऽपि तासु भगवन्-महा-प्रसादोदय एवेति तासाम् असाधारणं तन्-माहात्म्यं विराजमानम् अस्त्य् एव पूर्वं बहुधा तन्-निरूपणात्, तथापि परम-रहस्यत्वेन महा-दुर्वितर्क्यत्वेन वा तद् वर्णयन्तीभिर् दर्शनम् एव बहु-मन्यमानाभिः पुर-स्त्रीभिस् तथोच्यत इति ज्ञेयम् ।
यच् च रास-क्रीडादि-परम-सौभाग्यं न वर्ण्यते ताभिः तच् च धार्ष्ट्य-परिहाराय । किं वा, दर्शन-सौभाग्यम् अपि वर्णयितुम् अप्यशक्यम् कुतो रास-क्रीडादि-परम-महा-भाग्यम् इत्य् अभिप्रायेणेति । ईदृशं तस्य सन्दर्शनं न कदाचिद् अप्य् अस्माकं सम्भवतीत्य् अल्पतर-पुण्या एव वयम् इति तात्पर्यम् ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, कंस-वधानन्तरम् अत्रास्य प्रभुत्वेनास्माकम् अप्य् अचिरात् तादृश-गानादिकं सम्भवेद् इति चेत् तत्राहुः—प्रातर् इति । व्रजतः श्री-वृन्दावनं गच्छतः, गोभिर् इत्य् उपलक्षणम्, गोप-वर्गैर्श् च समम्, वेणुम् इत्य् अस्योभयत्राप्य् अन्वयः, वेणुं क्वणयतो वडयतः, अत एव वेणुं तन् नादं निशम्य, अयं तूर्ण-निर्गमे हेतुः । वेणु-सम्भन्धाच् छ्री-मुखस्य शोभा-विशेषोऽपि सूचितः । यद् वा, क्वणयतो नूपुरादि-शब्दं कुर्वतः, वेणुं निशम्येति वेणु-वादनम् उक्तम् एव, अवला वेणु-नादेन सत-प्रेम-भरेणैव वा देहादि-सामर्थ्य-हीनाः, अत इतस्तवः प्रस्खलन्त्य इति भावः ।
यद् वा, अस्य सङ्गे गन्तुम् अशक्ताः, अतोऽस्य वर्त्मनि स्थिताः, भूरि पुण्यं भाग्यं यासां ताः । सस्मितेत्य् आदि विशेषण-द्वयं स्वरूप-निर्देश-मात्रम्, न तु व्यवच्छेदात्मकं कदाचिद् अपि तद् राहित्याभावात् । यद् वा, तदानीं मल्ल-युद्धे क्रोधाभिव्यञ्जनेन तद् अव्यक्तेः । यद् वा, दैन्येन पश्चाद् अप्य् आत्मनि तद् असम्भावनया । एवं व्रजनाद् विच्छेदे चित्तावेशेन प्रेमभरोदयाद् दर्शनस्य परमोत्कण्ठापूर्वकत्वात् सम्यक्त्वम् उक्तम् ।
ननु, वन-व्रजनेन दर्शनालाभात् किं नाम भूरि-पुण्यत्वम् इत्य् अत आहुः—सायं आ सम्यग् वन्य-वेशादिनोत्तम-प्रकारेण व्रजं प्रविशतश्चेति, अत्रापि गोभिः समम् इत्य्-आदिकं सर्वं योज्यम्, यद्य् अप्य् अन्यदापि तत् सन्दर्शनं सम्पद्यत एव, तथापि तन् निर्गम-प्रवेशयोर् अनुव्रजनाभिगमनच्छलेन लोकानाम् अग्रेऽप्य् असङ्कोचेन तत् सिध्यतीति तथा विरहागमोपशमयोर् अत्यन्तासक्त्या विशेषतस् तत् स्याद् इति तदानीन्तनं तद् उक्तम् । ईदृशम् अत्रास्य दर्शनम् अस्माकं न कथम् अपि सम्भवेद् इत्य् अल्पतरपुण्या एव वयम् इति भावः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दृग्भिः पानम् एव वर्णयन्ति । प्रातर् इति । व्रजतः श्री-वृन्दावनं गच्छतः गोभिर् इत्य् उपलक्षणं गोप-वर्गैश् च समं वेणुम् इत्य् अस्योभयत्राप्य् अन्वयः । वेणुं क्वणयतः अत एव वेणुं तद् वाद्य-द्वारा निशम्य श्रवण-करणक-ज्ञानं विधायेत्य् अर्थः । अयं तूर्ण-निर्गमे हेतुः वेणु-सम्बन्धात् श्री-मुखस्य शोभा-विशेषोऽपि सूचितः । तन्मुखं कथम् इवाम्बुज-तुल्य-रुक्षं वाचाम् अवाचि ननु पर्वणि पर्वणीन्दोः । तत् किं ब्रुवे किम् अपरं भुवनैक-कान्तः वेणुं त्वद् आननम् अनेन समं नु यत् स्याद् इति श्री-लीला-शुकोक्तिः । अबला वेणु-नादेन सतत-प्रेमभरेणैव वा दोहादि-सामर्थ्य-हीनत्वात् तन् नाम्नेव वाच्या इत्य् अर्थः । अत इतस् ततः प्रस्खलन्त्य इति भावः । यद् वा, अन्यसङ्गे गन्तुम् अशक्यत्वाद् अस्य वर्त्मन्येव ता इति । सुस्मितेत्यादि-विशेषण-द्वयं तत्राप्य् अतिशय-द्योतकं तथा सायं आ सम्यक् वन्यवेशादिना उत्तम-प्रकारेण व्रजं प्रविशतश् च तत्रापि गोभिः समम् इत्य्-आदिकं सर्वं योज्यम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रातर्व्रजाद्वनं व्रजतः सायं वनाद्व्रजं आविशतः प्रविशतो ऽस्य कृष्णस्य वेणुं निशम्य गृहेभ्योनिर्गम्यापथि गवानयनमार्गसमीपो पवनादौ पश्यन्ति सदयः । स्वविरहखिन्नाङ्गीस्ता दृष्ट्वा तदभीष्टवितरणव्यञ्जकानुकस्पासहितो ऽबलोको यस्य तम् ॥१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१७ ॥
एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।
शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स-भयं ब्रुवाणासु स्त्रीषु तासां भय-निवृत्तये कृष्णः शत्रुं हन्तुं मनश् चक्रे ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योगेश्वर इति पराभिप्रायज्ञत्वादित्य् आह—शत्रुं हन्तुम् इति । यद्य् अप्य् अन्यद् अपि तद् दर्शनं सम्पद्यते तथापि तन् निर्गमनावेशयोर् अनुव्रज्याभिगमनच्छलाल् लोकानाम् अग्रेऽप्य् असङ्कोचेन तत्-सिद्ध्यतीति । तथा चेद् दृश-मात्रस्य दर्शनम् अस्माकं न सम्भवेद् इत्य् अत एवा पुण्या एव वयम् इति भावः । एवम् ईदृशं प्रकर्षेण प्रेमार्त्या सभयं भाषमाणासु सतीष्व् इति तादृश-भाषनात् तासाम् अनिवृत्तिर् उक्ता । अर्हानर्हयोश् च इत्य् अर्हार्थे सप्तमी । तदा तद् विधानं योग्यम् एवेत्य् अर्थः । येगेश्वर इति स्वेच्छया स्व-शक्ति-प्रकाशनाप्रकाशनयोर् हेतुः । हरति भूभारम् इति हरिः, तद् वध-प्रवृत्तावौत्सर्गिकश्चास्ति हेतुर् इति भावः । शत्रुम् इति मत्सरिद् वेषित्वात् । भगवान् इति स्वरूप-निर्देशः सर्वत्रैव हेतु-गर्भः । हे भरतर्षभेति—चिरं युद्ध-क्रीडया तद् वध-विलम्बाद् अप्रसन्न-चित्तं राजानम् उल्लासयति, भरत-वंश्यत्वट् त्वम् अपि भारत-युद्धादावीदृशीं लीलां जानासीत्य् अभिप्रायेण ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं प्रकर्षेण प्रेमार्त्या सभयं भाषमाणासु सतीस्व् इति तादृश-भाषणात् तासाम् अनिवृत्तिः परम-कृपा-पात्रता चोक्ता । योगेश्वरः सर्व-शिरोमणिर् इति तासां शीघ्र-दुष्ट-वधेच्छां बुद्धेति भावः । अत शत्रुं स्वस्य सतां तासाम् एव वा द्वेष्टारं हन्तुम् ऐच्छत्, यतो हरिः स्वभावतो निज-जनार्तिहरः, विशेषतश् च भगवान् कारुण्याद्य् अशेष-गुण-प्रकटनपर इत्य् अर्थः । हे भरतर्षभेति । यथा भारत-युद्धे स्वयम् इच्छा-मात्रेण सर्वान् निहन्तुं शक्तोऽपि विविधाद्भुत-लीलाञ्चक्त्रे, तद्वत्, भरत-वंश-श्रेष्ठत्वाद् भवता ज्ञायत एवं, तथेदम् अपीति विभाव्य स्वस्थो भवेति ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् यप्य् अन्यदापि तत् सन्दर्शनं सम्पद्यते तथापि तन् निर्गमनाप्रवेशयोर् अनुव्रजाभिगमनच्छलाल् लोकाताम् अग्रेप्य् असङ्कोचेन तत् सिद्ध्यतीति तथा विरहापगमापगमयोर् अत्यन्ताशक्त्या विशेषतस् तत् स्याद् इति-तदानीन्तनम् एव तद् उक्तम् । ईदृश-मात्रस्य दर्शनम् अस्माकं न कथम् अपि सम्भवेद् इत्य् अत एवापुण्या एव वयम् इति भावः । एवम् ईदृशं प्रकर्षेण प्रेमर्त्या सभयं भाषमाणासु सतीष्व् इति तादृश-भाषणात् तासाम् अनिवृत्तिर् उक्ता । अर्हान् अर्हयोश् चेत्य् अनेन सप्तमी चार्थे तदा तद् विधानं योग्यम् एवेत्य् अर्थः । योगेश्वर इति । स्वेच्छया स्व-शक्ति-प्रकाशनाप्रकाशनयोर् हेतुः हरति भू-भारं हरिर् इति तद् वध-प्रवृत्तावैसर्गिकश्चास्ति हेतुर् इति भावः । शत्रुम् इति सद् विद्वेषित्वात् । भगवान् इति स्वरूप-निद्दः शसर्वत्रैव हेतु-गर्भः । हे भारत-वर्षभेति चिरं युद्ध-क्रीडया तद् वध-विलम्बाद् अप्रसन्न-चित्तं राजानम् उल्लासयति भरत-वंश्यत्वात्त्वम् अपि भारत-युद्धादावीदृशीं तल् लीलां जानासीत्य् अभिप्रायेण ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगेश्वर इति, तत्रत्यानुकूल प्रतिकुललोकानां स्वगता अपि वाचः शृण्वन्नित्य् अर्थः । हन्तुं मनश्चक्र इत्यलमेता अनुरागिणी दुःखयित्वेति भावः ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१८ ॥
स-भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचातुरौ ।
पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-भयाः स्त्रीणां गिरः श्रुत्वा पुत्रयोः स्नेहेन या शुक् तया आतुरौ विह्वलौ पुत्रयोर् बलम् अजानन्तौ पितराव् अनुतापं प्राप्ताव् इति ॥१८.१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितरौ सम्मुखस्थौ देवकी वसुदेवौ ॥ उपाधिक्येन सामीप्येन वा श्रुत्वा पितरौ देवकी-वसुदेवौ वसुदेवनन्दौ वान्वतप्य् एताम्—हन्तहन्त व्रजे गमिष्यन्न् अक्रूर एव कथं तथा न शिक्षितो यथेतौ नानयिष्यत् स इति, हन्त-हन्त कथम् अनायि पुरे मयकासुतः कथम् असौ न निगृह्य गृहे धृतः इत्य्-आदिकं पश्चात् तापं प्रकुर्वन्तौ । बलम् अबुधावजानन्तौ । इह षष्ठ्य् अभावस् तु तस्याः षष्ठ्या अनित्य् अत्वात् । तद् उक्तम् कर्तृ-कर्मणोः कृतिः इत्य् अत्र भाष्यवृत्तौ विहित तद् अर्हम् इति इति-निर्देशेनानित्यज्ञापनात्, धायैर् रामोदम् उत्तमम् इति भट्टेश् च । तद्धित-प्रत्ययः खलु सूत्रे प्रथम-निर्दिष्ट-विभक्त्यन्ताद् एव नियमितः । यथा तस्यापत्यम् इत्य् अत्र उपगोरपत्यम् औपगवः, धनम् अर्हति धन्य इति ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपश्रुत्य समीप एव श्रुत्वा, सभयाः इत्य् अत्र शुग्घेतुत्वेन, तैर् व्याख्यातम् । पाठान्तरं तु चिन्त्यम्, आतुरत्वाद् एव बलम् अबुधौ अननुसन्दधानाव् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्त्रीणां तथाविध-गिरः उप सामीप्येनाधिक्येन वा श्रुत्वा पितरतौदानीं तादृशाभिमानम् एवासृताव् इति पुत्रेत्यादौ हेतुः । आतुरत्वाद् एव बलं वाप्य् अनयोः अबुधौ अजानन्तौ सन्तौ तद् अनुसन्धातुम् अशक्ताव् इत्य् अर्थः अन्वतप्य् एतां कथं व्रजे गमिष्यन्न् अक्रूर एव प्रथमतस् तथा न शिक्षितः यथा नैतावानेष्यदित्य्-आदिकं पश्चात्तापम् अकुर्वताम् अत्र बलमधुधाव् इत्य् अत्र षष्ठ्य् अभावस् तस्याः षष्ठ्या अनित्य् अत्वात् । यदुक्तं । कर्तृ-कर्मणोः कृतीत्य् अत्र भाष्य-वृत्तौ विहिततद् अर्हम् इति सूत्र-निर्देशेनानित्य् अता-ज्ञापनात् । धायैर् आमोदम् उत्तमम् इति भट्टिर् इति । तद्दित-प्रत्ययः खलु सूत्र-प्रथम-निर्दिष्ट-विभक्त्यन्ताद् एव नियमितः । यथा तस्यापत्यम् इत्य् अत्र उपगोरपत्यम् औपगवः यथाचात्र धनम् अर्हति धन्य इति ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितरौ देवकीवसुदेवौ वसुदेव-नन्दौ वा अन्वतप्येताम् । हन्त हन्त व्रजे गमिष्यन्नक्रूर एव कथं तथा न शिक्षितो यथा नैतावानेष्यत् स इति हन्त हन्त कथमनार्य पुरे मयका सुतः कथमसौ न निगृह्य गृहे धृत इत्यादिकं पश्चात्तापमकुर्वताम् । बलमबुधौ अजानन्तौ । षष्ठा अभावतदर्हम् इति निर्देशेन तस्य अनित्य् अत्वज्ञापनात् ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.१९ ॥
तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ ।
युयुधाते यथान्योन्यं तथैव बल-मुष्टिकौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैस् तैर् उक्तैर् अनुक्तैर् वा । इतरश् चाणूरः । तथैव कृष्ण-चाणूरवत् । पुनर् युद्ध-वर्णनम् अवतारयति—तैर् इति, पूर्व-दर्शित-दिङ्मात्रैः । वीप्सा तेषां वैचित्र्याद्य् अपेक्षया । ते च मल्ल-शास्त्र उक्ताः विधयः-कृत-प्रतिकृतसुसङ्कट-बाहुसन्निपातावधूत-प्रमाथोन् मथन-क्षेपण-मुष्टिवराहोद्धूत-निस्वन-तल-प्रसृष्टाशलाका-नखपातपादोद्धूत-जानु-शिरोऽवघट्टन-प्रकर्ष्णाकर्षणाभ्याकर्ष-विकर्षणादि-भेदान् नियुद्धं बहु-भेदम् अस्ति । कृतादि-स्वरूपम् आह—
क्वचिद् देशे नीपीडं तु कृतं तस्य तु मोचनम् । > मल्ल-शास्त्र-विशेषज्ञैः प्रतिकृतमुदाहृतम् ॥ > मुष्टि-ग्रहणवश्यौ तु बाहु सुसङ्कटौ मतौ । > सन्निपातोङ्ग-सङ्घट्टोऽवधूतं तन् निराकृतिः ॥ > निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते । > यत् तूत्थायाङ्ग-मथनं तद् उन्मथनम् उच्यते ॥ > क्षेपणं कथ्यते यत् तु स्थानात् प्रच्यावनं हठात् । > उभयोर् भुजयोर् मुष्टिरुरोमध्ये निपात्यते । > मुष्टिर् इत्य् उच्यते सुज्ञैर् मल्ल-विद्या-विशारदैः ॥ > अवाङ्मुख-स्कन्धगतं भ्रामयित्वा तथैव यः । > क्षिप्तस्य शब्दः स भवेद् वाराहोद्धूत-निःस्वनः ॥ > चेपटो वज्रपातेन तुल्यस् तल उदीरितः । > अङ्गुल्यः प्रसृता यास् तु प्रसृष्टास् ता उदीरिताः ॥ > ऋज्वी दृढा रुषा क्षिप्ता शलाका साङ्गुलि स्मृता । > तस्या यस् तु नखोत्पातः शलाका-नखपातकः । > जानुभिश् च शिरोभिश् चावघट्टन-बहुध्वनिः । > तद् उक्तं जानु-शिरसोरवघट्टनम् अत्र वै ॥ > आकृष्य क्रोडीकरणं प्रकर्षणम् उदाहृतम् । > आकर्षणं लीलयैव सम्मुखीकरणं स्मृतम् ॥ > पुरः पश्चात् पार्श्वयोश् चाभ्याकर्षो भ्रमणं मतम् । > पश्चात् प्रपातनं वेगाद् विकर्षणम् उदाहृतम् ॥
एवम् अन्येऽपि नियुद्ध-भेदा बहवः सन्ति ग्रन्थ-विस्तरभिया न लिखिता इति ज्ञेयम् । उभाव् इति—चाणूरस्यापि तत्र नैपुण्यं बोधयति । अन्यथानर्हतया लीला-सौष्ठवं न स्यात् तच् च लीला-शक्ति-सम्पादितम् इति भावः । विविधैर् अच्युतेररौ इति पाठे इतरश् चाणुरः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनर् युद्ध-वर्णनम् अवतारयति—तैर् इति पूर्वोक्तैः, वीप्सा तेषां वैचित्र्याद्य् अपेक्षया । यद् वा, परमानिर्वचनीयैर् अन्यैर् अपीत्य् अर्थः । उभाव् इति चाणूरस्यापि तत्र नैपुण्यं बोधयति, अन्यथा वैषम्येण श्री-भगवतो नियुद्ध-क्रीडा-सुखा-सम्पत्तेः, केशव-शब्देन केशि-वध-कृत-कौतुकवद् अत्रापि युद्ध-कौतुकम् । एवकारेणाभेदो बोध्यते, तयोस् तन्-मतैकानुसारित्वात् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् युद्ध-वर्णनम् अवतारयति । तैर् इति पूर्व-दर्शित-दिङ्मात्रैः । वीप्सा तेषां वैचित्र्याद्य् अपेक्षया । उभाव् इति चाणूरस्यापि तत्र नैपुण्यं बोधयति अन्यथानर्हतया लीला-सौष्ठवं न स्यात् तच् च लीला-शक्ति-सम्पादितम् इति भावः । विविधैर् अच्युतेतराव् इति पाठे इतरश् चाणूरः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युतश् च इतरश् चाणूरश् च तौ ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२० ॥
भगवद्-गात्र-निष्पातैर् वज्र-निष्पेष-निष्ठुरैः ।
चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा भगवतो गात्राणाम् अरत्नि-जान्व्-आदीनां निष्पातैः प्रहारैः वज्रस्य निष्पेषस् तीव्र-प्रपातस् तद्वन् निष्ठुरैः । भज्यमानाङ्गः श्लथ-गात्रः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा युद्धावसरे । ग्लानिं प्राण-सन्देह-क्लेशम् । अचिन्त्य-शक्ति-वाचको भगवच् छब्दोऽत्र, मल्लेषु तादृश-स्फूर्तौ हेतुः । वज्रनिष्पेषस् तत्-करणक-सञ्चूर्णनं, तद्वन् निष्ठुरैः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवच् छब्देन नील-नलिन-दलाद् अपि सहज-सुकोमलानां श्री-मद् अङ्गानां क्वचिद् वज्र-साराद् अपि काठिन्यम् ऐश्वर्य-विशेषाद् बोध्यते, ह स्फुटम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अचिन्त्य-शक्तित्व-वाचको भगवच् छब्दोऽत्र मल्लेषु तादृश-स्फूर्तौ हेतुः । वज्र-निष्पेषस् तत्-करण-चूर्णनं तस्माद् अपि निष्ठुरैः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्पातैः प्रहारैर्वज्रण निष्पेषः सञ्चूर्णनं तद्वन्निष्ठुरैः ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२१ ॥
स श्येन-वेग उत्पत्य मुष्टी-कृत्य कराव् उभौ ।
भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्येनस्येव वेगो यस्य स चाणूरः । अबाधताताडयत् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्येनः कपोतारातिः पक्षि-विशेषः । उत्पत्य उत्प्लुत्य । श्येन-वेग इति पूर्वं ग्लानिं प्राप्य दूर-गमनं बोधितम् । उभाव् इत्य् एकदैव मुष्टिकृताभ्यां द्वाभ्याम् एव प्रहारात् । महाबलिष्ठत्वान् नियुद्ध-कौशलत्वं च दर्शैतम् । भगवन्तं वासुदेवम् इति तन् मूढत्वदौरात्म्य-व्यञ्जकं तत्-तन् निरुक्तेः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्येन-वेग इति सर्व-जनालक्षितत्वं बोधयति, अन्यथा गोपादिभिः प्रसह्य सद्यो निरोध्यत्वात्, उभाव् इति एकदैव मुष्टिकृताभ्यां द्वभ्याम् एव प्रहारान् महा-बलिष्ठत्वं नियुद्ध-कौशलं च दर्शितम् ।
ननु, सर्व-शक्तिमत्वात् कुतस् तत्-प्रहारं महा-बलः स्वीचक्रे ? तत्राह—भगवन्तम् अशेषैश्वर्य-युक्तम् अपि वासुदेवम्, निजेच्छया बहुधा क्रीडितुं वसुदेवाद् अवतीर्णम् इति नियुद्ध-क्रीडा-निष्ठार्थं किं वा, चाणूरस्य निर्वलताबोधनार्थम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्येन-वेग इति । पूर्वं प्राप्य दूरे गमनं बोधितम् । उभाव् इत्य् एकदैव मुष्टीकृताभ्यां द्वाभ्याम् एव प्रहारात् महावलिष्ठत्वं नियुद्ध-कुशलत्वं च दर्शितं भगवन्तं वासुदेवम् इति । तन्मूढत्व-दौरात्म्य-व्यञ्जकं तत्-तन् निरुत्तेः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवाधत अताडयत् ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२२ ॥
नाचलत् तत्-प्रहारेण मालाहत इव द्विपः ।
बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-प्रहारेण चाणूरोभय-मुष्टि-प्रहारेण । मलाहतः पुष्पैस् ताडितः । श्री-भगवान् अपि तादृश-निज-जन-हर्षणाय तस्य तत्-तद् एव ज्यञ्जितवान् न तु स्वविनोदाय, स्वस्य क्षोभलेशम् अप्य् अकृतवान् इत्य् आह—नेत्य् अर्धेन । स्रग्भिर् इत्य् अनेन सुखम् अपि तस्य तस्य सूचितम् ।
बहुत्वस्य यदि बह्वीभिर् अपि ताभिर् हतः स्यात्, तद् अपि तस्य न किञ्चिद् अपि यथा स्यात्, तथास्य बल-बाहुल्येनापीति भावः । अथ श्री-हरि-वंश-वचनानि—
यद् अयं बाहु-युद्धं वै स-वैरं कर्तुम् उद्यतः । > तत्र वै निग्रहः कार्यस् तोषयिष्याम्य् अहं जगत् ॥ > करूषेषु प्रसूतोऽयं चाणूरा नाम नामतः । > बाहु-योधी शरीरेण कर्मभिश् चानुचिन्त्यताम् । > एतेन बहवो मल्ला निपातानन्तरं हता । > रङ्ग-प्रताप-कामेन मल्ल-मार्गश् च दूषितः ॥ > ये तु केचित् स्व-दोषेण राज्ञः पण्डित-मानिनः । > प्रतापार्थे हता मल्ला मल्ल-हतुर् वधो हि सः ॥
बहुशो बहु-वारान् बहुधा चेत्य् अर्थः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तथापि तेन तदीयानां हन्त महार्तिः स्याद् एव ? तत्राह—नेति । यत्र यथास्थितस् तत्र तथैवातिष्ठद् इति प्रहारस्याकिञ्चित्करतोक्ता, तत्रानुरूपो दृष्टान्तः—स्रग्भिर् इति, अनेन सुखम् अपि तस्य सूचितम् । अतस् तदीयैः सोढम् इति भावः । स्रग्भिर् इति बहुत्वं तत्-प्रहार-प्राचुर्यस्याप्य् अकिञ्चित्करताद्य् अभिप्रायेण । यद् वा, भगवन्तं परमेश्वरं सहज-सुकुमाराङ्गं तत्रापि वासुदेवं निजाशेष-रूप-गुणादि-प्रकटनशीलं तत्रापि तद् वक्षसि तेन प्रकारेण प्राहरद् इति श्री-वादरायणेः शोकोक्तिः । अन्यत् समानम् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवान् अपि तादृश-निज-जन-हर्षणाय तस्य तत् तद् एव व्यञ्जितवान् न तु स्वविनोदाय स्वस्य क्षोभलेशम् अप्य् अनुकृतवान् इत्य् आह । नेत्य् अर्धेन । स्रग्भिर् इत्य् अनेन सुखम् अपि तस्य सूचितम् । बहुत्वस्य यदि बह्वीभिर् अपि ताभिर् हतः स्यात् तद् अपि तस्य यथा न किञ्चिद् अपि स्यात् तथास्य बल-बाहुल्येनापीति भावः । अथ श्री-हरिवंश-बचनानि ज्ञेयानि—
यद् अयं बाहु-युद्धं वै सदैवं कर्तुम् उद्यतः । > तत्र वै विग्रहः कार्यस् तोषयिष्याम्य् अहं जगत् । > करुषेषु प्रसूतोऽयं चाणूरो नाम नामतः । > बाहुयोधी शरीरेण कर्मभिश् चानुचिन्त्यताम् । > एतेन बहवो मल्ला निपातानन्तरं हताः । > रङ्ग-प्रताप-कामेन मल्ल-मार्गाश् च दूषिताः । > ये तु केचित् स्व-दोषेण राज्ञः पण्डितमानिनः । > प्रतापार्थे हता मल्ला मल्ल-हन्तुर् वधो हि सः । इति ।
बहुशः बहुवारान् बहुधा चेत्य् अर्थः । तरसा भ्रमण-वेगेनैव क्षीण-जीविनम् आकाश एव मृतं तथा च श्री-विष्णु-पुराणे—
भ्रामयित्वा शत-गुणं दैत्य-मल्लम-मित्रजित् । > भूमावास्फुटयामास गगने गत-जीवितम् । इति ।
अत एव अहो मृत एवायम् इत्य् उक्त्वा परित्यागम् इषेणैव पोथयामासेति ज्ञेयम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्द्रध्वजः प्राच्येषु प्रसिद्धः ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२३ ॥
भू-पृष्ठे पोथयाम् आस तरसा क्षीण-जीवितम् ।
विस्रस्ताकल्प-केश-स्रग् इन्द्र-ध्वज इवापतत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भू-पृष्ठे भुव उपरि । पोथयाम् आसास्फालयत् । इन्द्र-ध्वजो वज्रम् । यद्वा इन्द्र-ध्वजो गौडेषु प्रसिद्धः । कस्मिंश्चिद् उत्सवे महान् स्तम्भो ध्वज-पताकाद्य्-अलङ्कृतः पुरुषाकृतिर् उच्छ्रीयते स यथा पतति तद्वद् अपतद् इति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आस्फॢअयच् चिक्षेप । वज्रेन्द्रध्वज-पदाप्रसिद्ध्ं मत्वःअ—यद्वति । विस्रस्ता विश्लया आकल्पकेश-स्रजो यस्य स । उच्छ्रीयते ऊर्द्ध्वं स्थाप्यते । स इन्द्रध्वजः । तरसा भ्रामण-वेगेनैव । क्षीण-जीवितम् आकाश एव मृतम् । तथा च विष्णु-पुराणे—
भ्रामयित्वा शत-गुणं दैत्य-मल्लममित्रजित् । > भूमाव स्फोटयामास गगने गत-जीवितम् ॥ इति ।
अत एवाहो मृत एवायम् इत्य् उक्त्वा परित्यागमिषेणैव पोथयामासेति ज्ञेयम् । अपतत्—स चेति शेषः । इन्द्रध्वजोपमया तद् देहस्य बृहत्तरत्वम् अप्य् उक्तं तद् उक्तं श्री-हरि-वंशे—
देहेन तस्य मल्लस्य चाणूरस्य गतायुषः । > सन्निरुद्धो महा-रङ्गः स शेलेनेव लक्ष्यते ॥ इति ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बहुशो बहुवारान् बहुधा चेत्य् अर्थः । हरिर् इति तत्-प्राण-हरणात् । तरसा शीघ्रम् एव क्षिण-जीवितं भ्रमणेनैवाकाशे मृतम्, तथा च श्री-विष्णु-पुराणे—
भ्रामयित्वा शत-गुणं दैत्य-मल्लम् अमित्रजित् । > भूमावास्फोटयामास गगने गत-जीवितम् ॥ [वि।पु। ५.२०.६२] इति ।
यद् वा, तरसा वेगेनापत् । इन्द्र-ध्वजोपमया तद् देहस्य बृहत्तरत्वम् अपि ध्वनितम् । यथोक्तं श्री-वैशम्पायनेन हरि-वंशे—
देहेन तस्य मल्लस्य चाणूरस्य गतायुषः ।
संनिरुद्धो महा-रङ्गः सशैलेनेव लक्षितः ॥ [ह।वं। २.३०.४७] इति ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपतत् स चेति शेषः । इन्द्रध्वजोपमया तद् देहस्य बृहत् तरत्वम् अपि धनितं यथोक्तं श्री-हरि-वंशे—
देहेन तस्य मल्लस्य चाणूरस्य गतायुषः । > सन्निरुद्धो महा-रङ्ग सशैलेनेव लक्ष्यत ॥ इति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.२४ ॥
तथैव मुष्टिकः पूर्वं स्व-मुष्ट्याभिहतेन वै ।
बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्दितः पीडितः । उर्व्य्-उपस्थे भू-तले ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैव चाणूरवद् अपतद् इत्य् अन्वयः । तलेन चपेटेन तलश् चपेटे तादद्रौ तलं ज्याघातवारणे इति मेदिनी । अभिमुखं हतेन प्रहृतेन बलभद्रं बलोच्छ्रयात् इति स्वभावत एव महा-बलिष्ठेन । तत्रापि बलिना प्रकटित-वलेनेत्य् अर्थः । तलेन चपेटेन ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभिमुखं हतेन प्रहृतेन, वै प्रसिद्धौ । बलभद्रेणेति बलभद्रं बलोच्छ्रयात् [भा।पु १०.२.१३] इति स्वभावत एव महा-बलिष्ठेन तत्रापि बलिना प्रकटित-बलेनेत्य् अर्थः । अतो भृशम् अत्य् अर्थम् अभितो हतः सन्, भृशम् इत्य् अस्य परेण वान्वयः । तथाभिहत इति क्रिया-पदं वा ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभिमुखं हतेन प्रहृतेन । बलभद्रं बलोच्छ्रवाद् इति स्वभावत एव महा-बलिष्ठेन तत्रापि बलिना प्रकटित-वलेनेत्य् अर्थः । तलेन चपेटेन ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तलेन पाणितलेन ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२५ ॥
प्रवेपितः स रुधिरम् उद्वमन् मुखतो \ऽर्दितः ।
व्यसुः पपातोर्व्य्-उपस्थे वाताहत इवाङ्घ्रिपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स मुष्टिकः । प्रवेपितोऽतिकम्पयुतः । पूर्वम् इन्द्रध्वज-दृष्टान्त ऊर्द्ध्वात् पतनेऽत्र तु वृक्ष-दृष्टान्तो भूमेर् एवेति ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च प्रवेपित उत्कम्पमानः स मुष्टिको मुखेन रक्तम् उच्चैर् वमन् वातेनाहत उन्मूलितो वृक्ष इवेति दृष्टान्तेन महा-वेग-शब्दादिना पातस् तद् देहस्य बृहत्तरत्वम् अपि ध्वन्यते, किन्त्विन्द्रध्वजोपमया चाणूर-देहस्यास्माद् अपि बृहत्त्वं ज्ञेयम् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वम् इन्द्रध्वज-दृष्टान्तः ऊर्ध्वात् पतनेऽप्त्र वृक्षा-दृष्टान्तो भूमेर् एवेति ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्व्युपस्थे भूतले श्लेषद्योतितं गालि-प्रादानं च ॥२५.२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.२६ ॥
ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः ।
अवधील् लीलया राजन् सावज्ञं वाम-मुष्टिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मुष्टिक-वधोत्तरम् । सावज्ञमनायासं भर्त्सन-पूर्वकं वा । अवज्ञा भर्त्सने श्रमे इति तीर्थः । लीलयाप्रयास-चेष्टया, यतो वाममुष्ट्या, तत्रापि सावज्ञं हेदयैवेत्य् अर्थः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो मुष्टिक-पाताद् अनु पश्चात् प्राप्तम् आगतम् । यद् वा, भीत्या पृष्ठतो गतम्, रामो निज-बन्धुरमणात्, लिलया—अप्रयासेवेत्य् अर्थः, यतो वाम-मुष्टिना तत्रापि सावज्ञं हेलयैवेत्य् अर्थः, यतः प्रहरतां मध्ये श्रेष्ठः । राजन्न् इति प्रहर्षेण विद्योतमानं राजानं दृष्ट्वा हर्षात् सम्बोधयति । यद् वा, लिलया राजमानः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : लीलया अप्रयास-चेष्टया । यतो वाम् अमुष्ट्या तत्रपि सावज्ञं हेलयैवेत्य् अर्थः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.२७ ॥
तर्ह्य् एव हि शलः कृष्ण- प्रपदाहत-शीर्षकः ।
द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तर्ह्य् एव हि मुष्टिक-पात-समकालम् एव । द्विधा द्वाभ्याम् एकेन वोभयोर् विदीर्णो विदारितः । शलस् तोशलकश् च मल्ल-न्यायम् अतिक्रम्य भयान् मिलित्वैवालक्षित-युगपत्-पाद-द्वयाकर्षणाय नीचित-मस्तकः सन्न् इति ज्ञेयम् ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि समुच्चये । शलस् तोशलकश् चानुप्राप्तः सन् श्री-कृष्णस्य बल-विशेष-दृष्ट्या तद्-अन्तिकेनाजिगमिषतोर् अपि तयोः श्री-बल-रामान्तिके कूटस्यास्यागमनानन्तरं कंस-भयादिना द्वयोर् अप्य् एकदैवागमनात् । यद् वा, कूटवद् युद्धार्थम् अप्राप्तयोर् अपि तयोर् युयुत्सया तत्रैवाति-निकटे स्थितयोः कंसानुगत्वाद् वधो ज्ञेयः । ततश् च हि निश्चये । कृष्णस्य पदेन श्री-चरणेन वामेनापहतं दूरात् पातित म्शीर्षं यस्य सः, बहुव्रीहौ कः । यद् वा, शीर्षम् एव कः सूर्यः, किरीटादिना देदीप्यमानत्वात् । को ब्रह्मात्मानिलार्केषु इति विश्वः । कृष्णेति दूरत एव पाद-प्रहारेण तन्मस्तकाकर्षणात् नितरां गत-प्राणत्वादिना पेततुः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शलस् तोशलकश् च मल्ल-न्यायम् अतिक्रम्य भयान् मिलित्वैवालक्षित-युगपत् तत्-पाद-द्वयाकर्षणाय नीचित-मस्तकः सन्न् इति ज्ञेयम् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.२८ ॥
चाणूरे मुष्टिके कूटे शले तोशलके हते ।
शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राण-परीप्सवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शेपा उक्तेभ्योऽन्ये । युद्धे श्री-कृष्नतो युद्धे । कंसतः प्राण-रक्षां कर्तुम् इच्छन्त इत्य् अर्थः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शेषा अवशिष्टाः प्रदुद्रुवुर् वेगेनापलायन्त । ननु, यशः कंसाद् भयं च ते कथं तत्यजुः ? तत्राह—प्राणेति, प्राणान् सर्वतो गत-प्रायान् परितः प्राप्तुम् इच्छन्तः सद्यो मृत्यु-परिजिहीर्षया तत् तद् अनपेक्षणाद् इति भावः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युद्धे श्री-कृष्णतः अयुद्धेतु कंसतः प्राण-रक्षां कर्तुम् इच्छव इत्य् अर्थः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.२९ ॥
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः ।
वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वल्गन्तौ नृत्यादि कुर्वन्तौ ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । संसृज्य सङ्गम्य । रुतौ शब्दायमानौ नूपुरौ तुला कोटी ययोस् तौ तुलाकोटिस् तु नूपुरे इति यादवः । गोपान् इत्य् अतः प्राक् ततश् च विहस्येति ज्ञेयम् । आकृष्य आपात-प्रवृत्तौ लज्जया स्वयम् अनागच्छतोऽपि बलाद्-गृहीत्वा सन्नह्य मल्लरीत्या मिथो गृहीत्वा वल्गन्तौ मल्ल-गतिं कुर्वन्तौ । तदानीं चैलेयालङ्कारत्वेऽपि रत्न-नूपुराव् इति चरणे प्रतिमल्ल-विमर्दाभावाद्-गात्रनोदकत्वेन वल्गनपोप्क-शब्दत्वेन च तद् अपरित्यागात् । एतद् वयस्योत्कर्षणादिकं कौतुकार्थम् । तच् च कंस-क्रोध-विवर्धनम् अपि ज्ञेयम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आकृष्य कंस-भयेन लोक-लज्जादिना वा स्वयम् अनागच्छतोऽपि बलाद् गृहीत्वा संसज्य प्रीत्यासक्तिं कृत्वा मिलित्वेत्य् अर्थः । यतो वयस्यान् विजह्रतुर् नियुद्ध-क्रीडाञ्चक्रुतुः, अत एव वल्गन्तौ इतस्ततो गति-विशेषेण चलन्तौ, अत एव रुतानि कृत-शब्दानि नूपुराणि ययोस् तौ । एतच् च सर्वं नियुद्ध-क्रीडा-शोभायास् तथा चाणूरादीनां गोपेभ्यः सर्वथा निकृष्टतायाः प्रदर्शनार्थं तथा सद्यः कंसस्य वधाय तत्-क्रोध-विवर्धनार्थं तथा गोपैः सह पर्यन्त-महा-रङ्गे नियुद्ध-क्रीडा-सुखर्थं चेति । वाद्यमानेष्व् इत्य् अत्र विशेषः श्री-विष्णु-पुराणे—
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूर-कृष्णयो । > वारयामास तूर्याणि कंसः कोप-परायणः ॥ > मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् । > खे सङ्गतान्यवाद्यन्त देव-तुर्याण्य् अनेकशः ॥ > जय गोविन्द चाणूरं जहि केशव दानवम् । > इत्य् अन्तर्धिगता देवास् त्वदोचुर् अतिहर्षिताः ॥ [वि।पु। ५.२०.५८,६०] > इति,
श्री-हरि-वंशे—
ततः प्रस्विन्न-वदनः कृष्ण-प्रणिहितेक्षणः । > न्यवारयत तूर्याणि कंसः सव्येन प्राणिनाः ॥
प्रतिसिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै ।
खे सङ्गतानि [ह।वं। २.३०.३७-३९] इत्य्-आदि,
किं च, स्वयम् एव प्रवाद्यन्त तूर्य-घोषाश् च सर्वशः इति ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपान् इत्येत् प्राक् ततश् च विहस्येति ज्ञेयम् । आकृष्य आपात प्रवृत्तौ लज्जाया स्ययमनागच्छतोऽपि बलाद्-गृहीत्वा संसृज्य मल्लरीत्या मिथो गृहीत्वा वल्गन्तौमल्ल-गतिं कुर्वन्तौ तदानीं चैलेयालङ्कारत्वेऽपि रत्न-नूपुराव् इति चरणे प्रतिमल्ल-विमर्दाभावात् गात्रातोदकत्वेन वल्गन-पोषक-शब्दत्वेन च तद् अपरित्यागात् । एतद् व्यस्याकर्षणादिकं कौतुकार्थं तच् च कंस-क्रोध-विवर्धनम् अपि ज्ञेयम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वल्गन्तौ नृत्यादि कुर्वन्तौ ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३० ॥
जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः ।
ऋते कंसं विप्र-मुख्याः साधवः साधु साध्व् इति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : साधु साधु इति वदन्तः ॥३०.३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जना रङ्गस्थाः । प्रजहृषुस्तुतुषुः । ऋते विना । विप्रेषु मुख्याः साधवश् च ये ते तु तन् महिम-ज्ञान-बलेनाकुतोभयत्वात् साधु-साध्विति स्पष्टम् एव वदन्तः प्रजहृषुः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रजहृषुः—अत्य् अर्थं हृष्टा बभूवुः । लोक-रमणाद्रामः सर्व-चित्ताकर्षणात् परमानन्द-प्रदत्वाद् वा कृष्णस् तयोः कर्मणा शत्रु-दुष्ट-वधादिना, रामस्याद्व् उक्तिर् ज्येष्ठत्वापेक्षया । विप्र-मुख्या विप्रा मुख्या येषु ते क्षत्रिय-वैश्यादयः साधवः संजगुः । यद् वा, विप्राश्रेष्ठाः सढवश्चान्ये वैष्णवाः, मुख्य-शब्देन कंसाद् भीता अविश्वस्ताः, अत एव न्यूना व्यवच्छिन्नाः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विप्रेषु मुख्याः साधवश् च ये ते तु तन् महिम-ज्ञान-बलेनाकुतोऽभयत्वात् साधु साधु साध्व् इति स्पष्टम् एव वदन्तः प्रजहृषुः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्रेषु ये मुख्याः साधवो ये ते साधु षध्व् इत्यूचुः । विप्राधमाः कंस पुरोहितास् तु हा हेत्यूचुर् इति भावः ॥३०.३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३१ ॥
हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् ।
न्यवारयत् स्व-तूर्याणि वाक्यं चेदम् उवाच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विधृतेषु पलायितेषु । इदं वक्ष्यमाणम् । स्वस्यैव तूर्याणि न्यवारयन्न तु देवानां निवारयितुं शक्तस् तदानीं हततेजस्कत्वात् । न च यानि स्वयम् अवाद्यन्त तानि वाशक्यत्वाद् इति । सः इति पाठोऽपि स एवार्थः । श्री-विष्णु-पुराणे तु पूर्वम् एव न्यवारयद् इति प्रोक्तम्—
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूर-कृस्णयोः । > वारयामास तूर्याणि कंसः कोपपरायणः ॥ > मृदङ्गादिषु वाद्यषु प्रतिषिद्धेषु तत्-क्षणात् । > खे सङ्गतान्यवाद्यन्त देव-तूर्याण्यनेकशः ॥ > जय गोविन्दं चाणूरं जहि केशव दानवम् । > इत्य् अतद्द्धिगता देवास् तम् ऊचुर् अतिहर्षिताः ॥ इति
हरि-वंशे च—
ततः प्रस्विन्नवदनः कृष्ण-प्रणिहितेक्षणः । > न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥ > प्रतिषिद्धेषु तूर्येषु मृदगादिषु तेषु वै । > खे सङ्गतानि इत्य्-आदि ।
किं च—स्वयम् एव प्रावाद्यन्त तूर्य-घोषाश् च सर्वशः इति । अत्रैक-वाक्यता वादकैः पूनः प्रवर्तितत्वाज् ज्ञेया । निवारणच्छल दर्शयति—वाक्यश्चेति । ह स्फुटम् । निजादेशश्रवणार्थम् इवेति । भावः । भोजैर् यादव-भेदैः कतिपयैर् एव राजत इति तथा स इति सर्वेषाम् अपि तद् अनादरः सूचितः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मल्ल-वर्येषु चाणूरादिषु हतेषु अन्येषु च विद्रुतेषु भयाद् वेगेन दूरम् अपगतेषु स्वस्य तूर्याणीति श्री-विष्णु-पुराणाद्य् उक्त-वाद्यमानानां तूर्याणां ज्ञेयम्, तच् च प्रयोजन-विशेषाद् एव । स इति पाठेऽपि स एवार्थः । यद् वा, श्री-वादरायणिमतेऽत्र कंसाद् अत्यन्त-भय-व्याप्तानां देवानां वाद्यादिकं नास्त्य् एव, केवलं जयाशया मल्ल-गण-प्रोत्साहनाय तावत् कंसस्य तूर्याण्य् अवाद्यन्त एव । अधुनैवाशाभङ्गात् तन् निवारणं तत्र छलं च दर्शयति—वाक्यञ्चेति । ह स्फुटम्, निजादेश-श्रवणार्थम् इति भावः । वस्तुतश् चान्तर्दुःखेनैवेत्य् अवारयद् इति । भोजैर् षादवभेदैः कतिपयै राजत इति तथा स इति निजानुवर्तिनो भोजानाज्ञापयामासेत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्यैव तूर्याणि न्यवारयद् इति न तु देवानां निवारयितुं शक्तः तदानीं हत-तेजस्कत्वात् । न च यानि स्वयम् अवाद्यन्त तानि वा अशक्यत्वाद् इति भावः । स इति पाठेऽपि स एवार्थः श्री-विष्णु पुराणे तु पूर्वम् एव न्यवारयद् इत्य् उक्तं
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूर-कृस्णयोः । > वारयामास तूर्याणि कंसः कोप-परायणः । > मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत् क्षणात् । > खे सङ्गतान्य वाद्यन्त देव-तूर्याण्य् अनेकशः । > जय गोविन्द ! चाणूरं जहि केशव दानम् । > इत्य् अन्तर्धि गता देवास्तदोचुर् अतिहर्षिता । इति ।
श्री-हरि-वंशे च—
ततः प्रस्विन्न-वदनः कृष्ण-प्रणिहितेक्षणः । > न्यवारयत तूर्याणि कंसः सव्येन पाणिना । > प्रतिसिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै । > खे सङ्गतानीत्य् आदि ।
किं च । स्वयम् एव अवाद्यन्त तूर्य-घोषाश् च सर्वश इति । अत्रैक-वाक्यतावादकैः पुनः प्रवर्तितत्वाज् ज्ञेया निवारणे छलं दर्शयति । वाक्यञ्चेति ह स्फुटं निजादेश-श्रवणार्थम् इवेति भावः । भोजैर् यादव-भेदैः कतिपयैर् एव राजत इति तथा सः इति तथा सः इति तदानीं सर्वेषाम् अपि तद् अनादरः सूचितः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.३२ ॥
निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।
धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निःसारयत निष्कासयत । बध्नीत निगड-युतं कुरुत । नियुद्ध-क्रीडायां मल्ल-हननाद् दुर्वृत्तौ, युद्धं चानयोस् तद् इत्य् आह—यतो वसुदेवात्मजौ । पुरान् निःसारयत इत्य् अपकर्तुम् अशक्यत्वात् । निःसारण-शक्यत्वं चानयोः प्रायो वन-वासिनोर् वनाभिरुचेः स्याद् इति गूढोऽभिप्रायः । प्रकटस् तु भागिनेयाव् एताव् इति दुर्मतिर् वसुदेवेन सह सौहृद्यात्, तथाप्य् अज्ञानाद् एव मच्-छत्रु-पालनं कुरुत इति बन्धीत एव, न तु हन्याद् इति । सरस्वती तु—दुर्गमं वृत्तं चरितं ययोस् तौ । पुरात् पुरम् अध्यास्य । निःशेषेण सारं श्रेष्ठं कुरुत । गोपानां धनं श्री-कृष्णं हरत अत्रैव रक्षत । नन्दं बध्नीत प्रेम रशनयेति शेषः । तेन सहातिप्रीतिं कुरुतेत्य् अर्थः । दुर्गमा मतिर् यस्य तम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुराद् अस्मान् निःसारयत, यतो दुर्वृत्तौ नियुद्ध-क्रीडायां मल्ल-हननात्, तच् च युक्तम् एवेत्य् आह—यतो वसुदेवात्मजौ, यादृशो दुर्वृत्तः पिता तादृशाव् इत्य् अर्थः । दुष्टष्व् अपि वृत्तं कृपया सद् व्यवहारो ययोः, यतो वसुदेवात्मजाव् इति वास्तवोऽर्थः । गोपानां धनं गवादिकं हरत बलाद् गृह्नीतेति बलिनां बहूनाम् एकदा महा-निष्टा-शक्तेः । बध्नीत शृङ्खलयास्य बन्धनं कुरुत, यतो दुर्मतिर् निभृतं मच् छत्रु-परिपालनाद्-दुष्टेष्व् अप्य् अनुकम्पा मतिर् यस्य वास्तवोऽर्थः । तथा च श्री-हरि-वंशे—
नन्द-गोपश् च दुर्मेधा पापेष्व् अभिरतो मम । > आयसैर् निगडाकारैर् लोह-पाशैर् निगृह्यताम् ॥ [ह।वं। २.३०.६७] > इति,
श्री-विष्णु-पुराणे—नन्दऽपि गृहतां पापो निगडैर् आयसैर् इह [वि।पु। ५.२०.७०] इति । तं प्रति तस्य तादृश-मात्रादेशो गोपेभ्यो भयात् । यद् वा, स्वभावतः परम-साधु-शिरोमणेर् महा-निष्ट-करणाय दुष्ट-मुखाद् अपि दुर्वाग-निर्गमात् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नियुद्ध-क्रीडायां मल्ल-हननाद् दुर्वृत्तौ । युद्धं चानयोस् तद् इत्य् आह--यतो वसुदेवात्मजौ पुरान् निःसारयत इत्य् अपकर्तुम् अशक्यत्वात्, निःसारण-शक्यत्वं चानयोः प्रायो वन-वासिनोर् वनाभिरुचेः स्याद् इति गूढोऽभिप्रायः । प्रकटस् तु भागिनेयाव् एताव् इति दुर्मतिं वसुदेवेन सह सौहृद्यात्, तथाप्य् अज्ञानाद् एव मच्-छत्रु-पालनं कुरुत इति बध्नीत एव, न तु हन्यत इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १३४) : [तद् एवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्-आदिकस्य तस्मिन् परम-साधु-गुणे च परम-हृद्य-सुखदत्वात् तद्-धेतुकं कादाचित्कं सत्यादि-वैपरीत्यम् अपि परम-गुण-शिरोमणि-शोभां भजते ।] तत्र क्षान्ति-विरोध्य् अपि गुणो यथा यस् तान् द्वेष्टि स मां द्वेष्टि यस् तान् अनु स माम् अनु [म।भा। ९१.२८] इत्य्-आदि-महाभारत-स्थ-श्री-भगवद्-वाक्यात् । यथा, धनं हरत गोपानाम् [भा।पु। १०.४४.३२] इत्य्-आद्य्-अनन्तरम्, एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः [भा।पु। १०.४४.३४] । स्पष्टम् ॥३२-३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निःसारयत इत्य्-आदौ सरस्वतीमते तु दुर्गमं वृत्तं चरित्रं ययो स्तौ । पुरात् पुरम् अध्यास्य निःशेषेण सारं श्रेष्ठं कुरुत, गोपानां धनं श्रीकृष्णं हरत अत्रैव रक्षत । नन्दं वध्नीत प्रेम-रशनयेति शेषः । तेन सहातिप्रीतिं कुरुतेत्य् अर्थः । दुर्गमा मतिर् यस्य तम् ॥३२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३३ ॥
वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः ।
उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असत्तमोऽतीव-कपटः । उग्रसेनोऽपि हन्यताम् । पर-पक्षगो वसुदेव-पक्ष-पाती । सुदुर्मेधाः पुत्र-परिवर्तनादि-कौटिल्येन । अतो\ऽसत्तमः स्व-पुत्रार्पण-प्रतिज्ञा-खण्डनात् । वसुदेवस् तु इति पाठः क्वाचित्कः । च-कार एव समुच्चये\ऽत्र । अपि-शब्दात् पितापि । तथापि पर-पक्षगो वसुदेवानुगः । सरस्वती तु—दुर्गम-बुद्धिर् वसुदेवो हन्यतां गम्यतां, सर्वैर् आश्रिताम् इत्य् अर्थः । विद्यते सत्तमो यस्मात् सः । तथोग्रसेनोऽप्य् आश्रियतां, यतः परः परमेश्वरस् तस्य पक्षं गच्छतीति तथा ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुदुर्मेधाः पुत्र-परिवर्तनादि-कौटिल्येन, अतोऽसत्तमः स्व-पुत्रार्पण-प्रतिज्ञा-खण्डनात्, सु शोभना दुष्टेष्व् अपि मेधा सस्नेहा स्थिरा बुद्धिर् यस्य, न विद्यते सत्तमोऽन्यो यस्माद् इति वास्तवोऽर्थः । च-कार उक्त-समुच्चये । पितापि हन्यताम्, यतः परपक्षगः, मच् छत्रु-पक्षपाती वसुदेवाद्य् अनुगो वा, पितृत्वं च तत्-क्षेत्रजत्वात् । किं वा, श्री-हरि-वंशोक्तस्य द्रुमिलाख्य-दानवाज् जन्मनः श्री-शुकदेव-मतेनाज्ञानात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुदुमेधाः पुत्र-परिवर्तनादिकौटिल्येन अतोऽसत्तमः स्व-पुत्रार्पण-प्रति-ज्ञा-खण्डनात् । वसुदेवस्त्व् इत्य् अपि पाठः क्वचित् चकार उक्त-समुच्चये । अपि-शब्दात् यद्य् अपि पिता तथापीत्य् अर्थः । पर-पक्षगो वसेदेवाद्य् अनुगः । वाग् देवी तु यथार्थम् आह । दुःदुर्गमं वृत्तं चरित्रं ययोर् इति प्रपतितो वर्गः प्रबर्ग इतिवत् कृदन्त-पद-लोपात् । पुराङ्गिःसारयत मथुरापुरीम् अधिकृत्य प्रकाशयतेत्य् अर्थः । गोपानां धनं श्री-कृष्णं हरत अत्रैव रक्षत
ननु, श्री-नन्दो नैनं त्यक्ष्यति तत्राह । दुःखितम् ऐ नन्दं बध्नीत कृष्ण-द्वारैव समयं विधाय प्रतिबद्धं प्रतिष्टब्धं कुरुत ततः सुदुर्गम-बुद्धिर् वसुदेवो हन्यतां गम्यतां सर्वैर् आश्रिताम् इत्य् अर्थः । न विद्यते सप्त्तम यस्मात् सः । तथोग्रसेनोऽप्य् आश्रियतां परः परमेश्वरस् तत् पक्षग इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्गमबुद्धिर्वसुदेवो हन्यतां गम्यतां, सर्वैराश्रियताम् इत्य् अर्थः । न विद्यते सत्तमो यस्मात् सः । परस्य परमेश्वरस्य पक्षं गच्छतीति सः ॥३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३४ ॥
एवं विकत्थमाने वै कंसे प्रकुपितो\ऽव्ययः ।
लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्ययोऽश्रमः । लघिम्ना लाघवेन ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । विकत्थमानेऽयुक्तं भाषमाणे । अव्ययो न केनापि हन्तुम् अर्हः । तरसा शीघ्रम् । उत्तुङ्गम् अत्युच्चम् । विकत्थमान इति तथा तर्जनस्याप्य् आत्म-श्लाघायां तात्पर्यात् । अव्ययः श्री-कृष्णः । तन् नामत्वेन प्रसिद्धत्वाद् अश्रम एव सन्न् इत्य् अर्थः । स्वभक्त-द्रोह-श्रवणात् प्रकुपितः । लघिम्ना शौघ्र्यातिशयेनालक्षिततयेत्य् अर्थः । तरसा वेगेन । आरुहत् आरोहद् इत्य् अर्थः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै निश्चये, विरुद्ध-कल्प-मान-गर्वेणातिदिशति—प्रकुपितोऽतिक्रुद्धः सन्, उत्तरोत्तरं दुरुक्तेर् आधिक्यात्8 । लघिम्नातिशीघ्रम् इत्य् अर्थः । उत्तुङ्गम् अत्युच्चम् अपि तरसा वेगेनारुहत्, आरुरोहेत्य् अर्थः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विकत्थमान इति । तथा तर्जनस्याप्य् आत्म-श्लाघायां तात्पर्यात् अव्ययः श्री-कृष्णः तन् नामत्वेन प्रसिद्धत्वादश्रम एव सन्न् इत्य् अर्थः । लघिम्ना शैर्घ्य्रातिशयेनालक्षिततयेत्य् अर्थः । तरसा वेगेनारुहत् आहोहद् इत्य् अर्थः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-भक्त-द्रोह-श्रवणात् प्रकुपितः प्रकृष्ट-कोपेनापि जीवानाम् इव नास्ति व्ययो यस्य सः । लघिम्ना सर्व-दृष्ट्यालक्षितम् इति भावः ॥३४-३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३५ ॥
तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् ।
मनस्वी सहसोत्थाय जगृहे सो \ऽसि-चर्मणी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आविशन्तं वेगेन मञ्चान्तः प्रविशन्तम्, आत्मनो मृत्युं मूर्तं मृत्युम् इवात्यन्तभित्या साक्षान् मृत्युत्वेन प्रतीयमानम् इत्य् अर्थः । मनस्वी शूरः, अत एव स कंस सहसा सद्योऽसिचर्मणी द्वे जग्राह ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आविशन्तं वेगेन मञ्चान्तः प्रविशन्तम् आत्मनो मृत्यं मृत्युम् इव अत्यन्त-भीत्या साक्षात् मृत्युत्वेन प्रतियमानम् इत्य् अर्थः । मनस्वीति निन्दार्थे विन् भूम-निन्दा-प्रशंसास्व् इत्य्-आदि स्मरणात् निन्दितमना भीत इत्य् अर्थः । अत एव कंसोऽशस्त्रोऽपि तस्मिन्न् असिधर्मणी द्वे अपि जग्राह ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.३६ ॥
तं खड्ग-पाणिं विचरन्तम् आशु
श्येनं यथा दक्षिण-सव्यम् अम्बरे ।
समग्रहीद् दुर्विषहोग्र-तेजा
यथोरगं तार्क्ष्य-सुतः प्रसह्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्विषहम् अविषह्यम् उग्रं तेजो यस्य स श्री-कृष्णः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कंसम् । दुर्विषहे उग्रे च बलार्चिषी यस्य स तथा । तेजो दीप्तौ प्रभावे च स्यात्-पराक्रमरेतसोः इति मेदिनी । दक्षिणं वामं च भागं व्याप्य गति-कौशलेल्नाशुवेगेन विविधं चरन्तं भ्रमन्तम् । अत्रानुरूपो दृष्टान्तः—यथाकाशे श्येनम् इति । अनेन दुर्गहत्वम् उक्तम् । तथापि प्रसह्य बालात्-समग्रहीत् । कुतः—दुविषहम् उग्रं न तु साधारणोग्रं तेजः पराक्रमो यस्य स इति । तार्क्ष्यसुतोऽपि दुर्विषान् सर्पान् हन्तीति दुर्विषहा, अत एवोग्रतेजाश् च । तद्-दृष्टान्तेन त्व् असाधारणोग्रः, लीलया ग्रहणम् इति सूचितम् ॥३६॥
कैवल्य-दीपिका : तम् इति । तं कंसं दक्षिण-सव्यं दक्षिणतः सव्यतश् च विचरन्तम् । दुर्विषहम् अतिदुःसहम् । अत एव उग्रं तेजो यस्य स तथा । तार्क्ष्य-सुतोऽपि दुर्विधान् सर्पान् हन्तीति दुर्विषहाः ॥३६॥ [मु।फ। १५.४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दक्षिणं वामं च भागं व्याप्य गति-कौशलेनाकाशे आशु वेगेन विविधं चरन्तं भ्रमन्तम् । यद् वा, दक्षिणं सव्यं च यथा स्यात् । तत्रानुरूपो दृष्टान्तः—यथा श्येनम् इति, अनेन दुर्ग्रहत्वम् उक्तम्, तथापि प्रसह्य बलात् सम्यग् अग्रहीत् । कुतः ? असह्य-तीव्र-पराक्रमः, तार्क्ष्य-सुतोऽपि दुविषान् सर्पान् हन्तीति दुर्विषहा, अत उग्रतेजाश् च, तद् दृष्टान्तेन लिलयानायासेन ग्रहणम् अपि सूचितम् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दक्षिणं वामं च भागं व्याप्य गति-कौशलेन आशु वेगेन विविधं चरन्त भ्रमन्तं तत्रानुरूपो दृष्टान्तः यथाकाशे श्येनम् इति अनेन दुर्ग्रहत्वम् उक्तं तथापि प्रसह्य बलात् समग्रहीत् । कुतः दुर्विषतोग्रः न तु साधारणोग्रः पराक्रमो यस्य स इति । तार्क्ष्य-सुतोऽपि दुर्विषान् सर्पान् हन्तीति दुर्विषहा अत एवोग्रतेजाश् च तद्-दृष्टान्तेन तु साधारणोग्रः लीलया ग्रहणम् अपि सूचितम् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.३७ ॥
प्रगृह्य केशेषु चलत्-किरीटं
निपात्य रङ्गोपरि तुङ्ग-मञ्चात् ।
तस्योपरिष्टात् स्वयम् अब्ज-नाभः
पपात विश्वाश्रय आत्म-तन्त्रः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गरिष्ठत्वाय विश्वाश्रयत्वम् उक्तम् । तत्र हेतुः, अब्ज-नाभः । कुतस् तस्योपर्य् एव पपात । यत आत्म-तन्त्रः स्व-तन्त्रः ॥३७.३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कंसस्य । गरिष्ठत्वाय दुर्भरत्वाय तत्र विश्वाश्रयत्वेन । उपरिपतनम् आक्षिपति—कुत इति । आत्मतन्त्रः अपराधीनत्वाद्यथेच्छं पपातेति भावः । सम्यग् ग्रहणम् एव व्यञ्जयति-केशेषु प्रकर्षेण दृढं गृहीत्वेति ।
ननु, मुकुट-बद्धकेशेषु द्रुतं ग्रहणं कथं स्यात्-तत्राह-चलत् ग्रहणोद्यम एव स-वैयग्र्य-मस्तक-चालनेन । विगलत् किरीटं यस्य तम् । तथा च श्री-विष्णु-पुराणे—केशेष्व् आकृष्य विगलत् किरीटम् इति । हरि-वंशे च—
मुकुटश् चापतत् तस्य कञ्चनो वज्र-भूषितः । > शिरसस् तस्य कृष्णस्य परामृष्टेन पाणिना ॥ इति ।
अन्यत् तैः । यद् वा, आत्म-तन्त्रे हेतुः—विश्वाश्रयः । तत्र कैमुत्येन हेतुः—अब्जनाभः, गर्भोदशायि-रूपेणांशेनापि भूवन-कोष-पद्मनाभ इत्य् अर्थः ॥३७॥
कैवल्य-दीपिका : प्रगृह्य इति । चलत्-किरीटं कंसं, तुङ्गात् उच्चान् मञ्चात् रङ्गोपरि निपात्य तस्योपरि स्वयं पपात । अब्जनाभः इन्द्रनीलोज्ज्वलत्वात् । विश्वाश्रय इत्य् अनेन गुरुत्व-प्रकर्षाद् उपरि-पात-मात्रेण कंसस्य गतासुत्वम् उक्तम् । ननु चक्रादिभिर् अहत्या किम् इत्य् एवम् एव हत इत्य् आह—आत्मेति । अत्र च कंसस्य नारदादिभ्यो भगवत्-कर्तृक-वध-श्रवणात् उत्पन्ना भीः स्थायि-भावो भीत इत्य् अत्रोक्तः ॥३७॥ [मु।फ। १५.५]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समग्रहीद् इति यद् उक्तं तद् एवाभिव्यञ्जयति—केशेषु प्रकर्षेण दृढं गृहीत्वेति ।
ननु, मुकुटान्तर्वर्ति-केशानां ग्रहणं कथं स्यात् ? तत्राह—चलत्-किरीटं यस्य तम् इति मस्तकपरिभ्रमणात् । यद् वा, चलत्-केश-ग्रहणऋथं मस्तक-स्पर्शनाद् एव विगतं किरीटं यस्य तम्, तथा च श्री-विष्णु-पुराणे—केशेष्व् आकृष्य विगलत् किरीटम् [वि।पु। ५.२०.७३] इति, श्री-हरि-वंशे च—
मुकुटश् चापतत् तस्य काञ्चनो वज्र-भूषितः । > शिरसस् तत्र कृष्णेन परामृष्टस्य पाणिना ॥ [ह।वं। २.३०.७७] इति > ।
अन्यत् तैर् व्याख्यातम् । यद् वा, अब्जनाभ इत्य्-आदि-विशेषणाभ्यां सहज-महा-गौरवम् उक्तम् ।
ननु, तर्हि कथं व्रजे श्री-यशोदोत्सङ्गवर्तित्वादिकम्, कथं च श्री-वृन्दावन-नीप-वृक्षाद्य् अद्यारोपणम्, कथं वाधुनैव मल्ल-क्रीडायां परिभ्रमणादिकम् अपि ? तत्राह—आत्म-तन्त्रः स्वेच्छया निज-क्रीडानुसारेण कदाचिद्-गरिष्ठः कदाचिल् लघीयांश् च स्याद् इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् ग्रहणम् एव व्यञ्जयति । केशेषु प्रकर्षेण दृढं गृहीत्वेति ।
ननु, मुकुट-बद्ध-केशानां द्रुतं ग्रहणं कथं स्यात् तत्राह । चलत् ग्रहणोद्यम एव स-वैयग्र्य-मस्तक-चालनेन विगलत्-किरीटं तं तथा च श्री-विष्णु-पुराणे—केशेष्व् आकृष्य विगलत् कितीटम् इति । श्री-हरि-वंशे च—
मुकुटश् चापतत् तस्य काञ्चनो वज्र-भूषितः । > शिरसस् तस्य कृष्णेन परामृष्टस्य पाणिना । इति ।
अन्यत् तैः । यद् वा, आत्म-तन्त्रत्वे हेतुः अब्जनाभः गर्भोद-शायि-रूपेणांशेनापि भुवन-कोष-पद्म-नाभ इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्योपरिष्टाद् इति । स्वस्य भूतलाघाता-भावार्थम् । विश्वाश्रय इति स्वभावेनैव तं मारयितुम् इति भावः ॥३७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३८ ॥
तं सम्परेतं विचकर्ष भूमौ
हरिर् यथेभं जगतो विपश्यतः ।
हा हेति शब्दः सु-महांस् तदाभूद्
उदीरितः सर्व-जनैर् नरेन्द्र ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परेतं मृतम् । हरिः सिंहः । तदा कंसपतनावसरे । कृष्ण-लोलाश्रवरता एव नरेन्द्रा अन्ये तु नरा अपि न सन्ति कृष्ण-भक्ता नरेन्द्राः स्युर् अन्ये तु पशवो नराः इति पुराणान्तरात् । परेतो वाच्य-लिङ्गः स्यान् मृते भूतान्तरे पुमान् इति मेदिनी । उपरि श्री-भगवत्-पाताद् एव सम्यक् परेतं मृतम् । जगतो विश्वस्येति न केनापि निवारितं सर्वेषां च सुखम् इति च सूचितम् । हाहेति शब्दोऽत्र विस्मये । महा-पुरुषस्याप्य् अवज्ञया वधात् । तथा च विष्णु-पुराणे—
ततो हाहाकृतं सर्वम् आसीत् तद् रङ्ग-मण्डलम् । > अवज्ञया हन्तं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ इति ।
नरेन्द्रेति—तं हृष्टं दृष्ट्वा स्वयम् अतिहृष्टः सम्बोधयति । नरेन्द्रा अपि अपि त्वादृशा दुष्टान् मारयन्ति किमुतेन्द्रेन्द्रः श्री-कृष्ण इति नाश्चर्यम् इति भावः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपरि श्री-भगवत्पाताद् एव सम्यक् परेतं मृतं सन्तम्, भूमौ विकर्षणं श्री-वसुदेवादीनां सन्तोषणार्थम् इति तैर् लिखितम् एव । तेन च महापरिखा जातेति ज्ञेयम् । तथा च श्री-विष्णु-पुराणे—
गौरवेणाति-महता परिखा तेन कृष्यता । > कृता कंसस्य देहेन वेगेनेव महम्भसः ॥ [वि।पु। ५.२०.७६] इति > ।
स च श्री-मधुपुर्यां कंसखातम् इति कंस-नदीति च प्रसिद्धा, श्री-विश्रान्ति-तीर्थवर-सङ्गत्याद्यापि9 साक्षाद् वर्तत एवेति कंस-देहस्य परम-स्हौल्य-काठिन्यादिकम् अपि ज्ञेयम् । सिंहो गजं यथेति दृष्टान्तेन लिलायावहेलयैव क्रोधेन च विकर्षणं ध्वनितम् । जगतो विपश्यतः साक्षान् निरीक्षमाणस्येति कंसस्य परम-दुष्टतया केनापि तन् निवारणं न कृतम् इत्य्-आदिकम्, तथा सर्वेषाम् एव तेन सुखम् अभूद् इति च सूचितम् । हाहेति शब्दस् तु महा-शूरस्याप्य् अवज्ञया वधात्, तथा च श्री-विष्णु-पुराणे—
ततो हाहा-कृतं सर्वम् आसीत् तद् रङ्ग-मण्डलम् । > अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ [वि।पु। ५.२०.७८] > इति ।
नरेन्द्रेति दुष्ट-वधेन हृष्टं परीक्षितं दृष्ट्वा स्वयम् अपि हृष्टः सम्बोधयति । यद् वा, लोकानां तादृशः स्वभावो नर-श्रेष्ठत्वाद् भवता ज्ञायत एवेति भावः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपरि श्री-भगवत् पाताद् एव सम्यक् परेतं सन्तं जगतोविपश्यत इति । केनापि न निवारितम् इति सर्वेषाम् एव सुखम् इति च सूचितम् । हाहेति शब्दोऽत्र विस्मये महा-शूरस्याप्य् अस्यावज्ञया वधात् । तथा श्री-विष्णु-पुराणे—
ततो हाहा कृतं सर्वम् आसीत् तद् रङ्ग-मण्डलम् । > अवजाया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् । इति ।
नरेन्द्रेति तं हृष्टं दृष्ट्वा स्वयम् अतिहृष्टः सम्भोधयति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कंस मृत इति यदा को ऽपि न प्रतीयाय । किन्तु मुर्छितो ऽयम् इति मन्यते स्म तदा तं विचकर्य; तन्मृत्युं सर्वानू प्रत्याययितुम् इति भावः हाहेति शब्दो ऽत्र विस्मये । महाशूरस्याप्यवज्ञया वधात् । यदुक्तं वैष्णवे, “ततो हाहा कृतं सर्वमासीत्तद्रङ्गमण्डलम् । अवज्ञया हतं दृष्ट्वा कृष्णेन मथ्रेश्वरम्” इति ॥३८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.३९ ॥
स नित्यदोद्विग्न-धिया तम् ईश्वरं
पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् ।
ददर्श चक्रायुधम् अग्रतो यतस्
तद् एव रूपं दुरवापम् आप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कंसः । उद्विग्नधिया भीयबुद्ध्या तं कृष्ण-रूपम् । नित्यदा सदा । यतो हेतोश् चक्रायुधं सुदर्शन-धरं ददर्शातो हेतोस् तद् एव-रूपं चक्रायुध-रूपं दुरवापं ज्ञानमृते साधनान्तरानवाप्यम् तम् एव विदित्वातिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय इति श्रुतेः । सर्वदा ज्ञान-रूप-भक्तेर् देहान्ते जात ज्ञानत्वात् तद् एवापेति भावः । ज्ञानस्य मुक्तौ पाके वह्नेर् ज्वालावद् भक्त्यवान्तर-व्यापारवत्त्वादित्य् अन्यत्र बहुधा निरूपितम् इति । प्रसङ्गाग् कंसस्य मोक्षम् आह—स इति । नित्यदा नित्यम् एवोच्चैर् भीतया भयेनाकृष्टया धिया ददर्श । तस्य यद् रूपं नित्यं दृष्टं तद् एवाधुनापि स्फुरितं सत्-प्रापेत्य् अर्थः ।
यं यं चापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । > तन्-तम् एवैति कौन्तेय सद तद् भाव-भावितः ॥ [गी।]
इति भगवद् गीतातः पेशस्कारिकीटवद् इति भावः । दुरवापमाप—ननु, कालनेमि-जन्मनि श्रीमद् अजितेन हतस्याप्य् अप्राप्त-मोक्षस्य तादृश-दुष्टस्य तत्-कथं घटेत तत्राह—तं निजाशेषैश्वर्य-प्रकटन-परमीश्वरव् इति ॥३९॥ अत्र विश्वनाथः
कैवल्य-दीपिका : तस्य च धनुषः शब्द-श्रवण-दुर्निमित्तं गज-वध-दर्शनादय उद्दीपन-विभावाः । दीर्घ-प्रजागरादयोऽनुभावाः । त्रासोद्वेगौ च सञ्चारिणौ । अथ भयानक-रसेन भजतः फलम् आह—स इति । स कंसः । नित्यदा सर्व-कालम् उद्विग्न-धिया विशिष्टः । यद् एव पानाद्य्-अवस्थासु ददर्श । तद् एवाप फलं, फल-कीर्तनस्य च प्रकरण-पर्यन्ते समुचितत्वेऽपि भीरु-भक्तेषु कंसस्यैव मुख्यत्वाद् अत्रैव तत् कृतम् ॥३९॥ [मु।फ। १५.६]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रसङ्गात् कंसस्य मोक्षम् आह—स इति । नित्यदा नित्यम् एवास्य यथा-योग्यम् अन्यैर् अप्य् अन्वयः । यद् वा, नित्यं वस्तु मोक्षाख्यं ददातीति तथा-भूतया उद्विग्नया महा-विअरेणोच्चैर् भीतया धिया विशिष्टः, श्लेषेण नित्यं पदं वैकुण्ठाख्यं द्यति अवखण्डयतीति तथा-भूतयेति ईश्वर-भावेन भयं व्यवच्छिन्नम्, अत एव तं श्री-कृष्णं चक्रायुधं मारणाय सदोद्यत-सुदर्शनम् । पानादि कुर्वन्, यतोऽग्रतो वर्तमानं ददर्शेत्य् उक्तम् अतस् तत्-प्रसिद्धं दैत्येभ्यो देयं रूपं ब्रह्मात्मकम् एव, न तु तस्य निजं पार्षद-प्राप्यं योगिभिर् दुर्लभम् अपि प्राप्तः । समुच्चयो । विचरन् पर्यटन् श्वसन् नित्यनेनानुक्तान्यशेष-दशा गृहीता इति पूर्वोक्तेन आसीनः पर्यटन् नित्यादि-नैकवाक्यता द्रष्टव्या।
ननु, तादृश-दुष्टस्य तद् अपि कथं घटेत ? तत्राह—ईश्वरम्, तत्-स्मरण-प्रभावेणेत्य् अर्थः । यद् वा, तं निजाशेषैश्वर्य-प्रकटन-परमीश्वरम् इति पूर्वं कालनेमि-जन्मनि श्री-विष्णुना साक्षाद् धतस्याप्यप्राप्त-मोक्षस्याधुना मोक्षे हेतुर् अयं ज्ञेयः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसङ्गात् कष्मस्य मोक्षम् आह । स इति । नित्यदा नित्यम् एवोच्चैर् भीतया भयेनाकृष्टया धिया ददर्श । तस्य यद् रूपं नित्यं दृष्टं तद् एवाधुनापि स्फुरितं सत् प्रापेत्य् अर्थः—
यं यं वापि स्मरन् भावं त्यज्यन्ते कलेवरम् । > तं तमेवैति कौन्तेय ! सदा तद् भावमावित ॥
इति श्री-भगवद् गीतातः षेशस्कारितीकवद् इति भावः । दुरवापमाप ।
ननु, कालनेमि-जन्मनि श्री-मद् अजितेन हतस्याप्य् अप्राप्त-मोक्षस्य तादृश-दुष्टस्य तत् कथं घटेत तत्राह । तं निजाशेषैश्वर्य-प्रकटनषरमीश्वरम् इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कंसस्य भय-हेतुको भगवद्-आवेश एव सर्वापराध-पूर्वक-मोक्ष-हेतुर् आसीद् इत्य् आह—स इति ॥३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.४० ॥
तस्यानुजा भ्रातरो\ऽष्टौ कङ्क-न्यग्रोधकादयः ।
अभ्यधावन्न् अतिक्रुद्धा भ्रातुर् निर्वेश-कारिणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्वेशो निष्कृतिर् आनृण्यम् इत्य् अर्थः । तत्-कारिणः सन्तस् तेऽभ्यधवन् ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कंसस्य । इत्य् अर्थ इति—निर्वेशस् तु पुमान् भागे वेतने मूर्छनेऽपि च इति मेदिनी । वेतनं भृतिर् आनृण्यम् इति कोशान्तरात् । तत् आनृण्यम् । ते कंसानुजाः । निवेशो निष्कृतिर् आनृण्यम् इति यावत् ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुगा इति तेषाम् अपि तादृश-दुःशीलत्वादिकम् उक्तम् । अनुजा इति पाठेऽपि स एवार्थः । अभिमुखम् अभितो वा । यद् वा, अभि अभयं यथा स्यात् तथा धावन् वेगेनागच्छन् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुजा अनुगा इति वा पाठः तत् तुल्या एवेत्य् अर्थः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्वेशो निष्कृतिर् आनृण्यम् इत्य् अर्थः ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.४१ ॥
तथाति-रभसांस् तांस् तु संयत्तान् रोहिणी-सुतः ।
अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथ तादृग् अति-रभसो वेगो येषां तान् । संयत्तानुद्युक्तान् ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिघो योग-भेदेऽस्त्र-विशेऽर्गलघातयोः इति मेदिनी । पशून् मृगादीन् पशुर् मृगादि-देवाजे नाव्ययं पशु-दर्शने इति । सिंह-व्याघ्रौ मृगाधिपौ इति हलायुधः । परिघं तत्रैव दैवतः प्राप्तम् । यद् वा, परिघाकारं गजदन्तम् एव ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथेति तैर् व्याख्यातम् । तत्र तादृग् इति कंस-सदृशोऽनिर्वचनीयो वेत्य् अर्थः । अथव तेनातिक्रोधादिना प्रकारेणातिरभसानत्यन्त-वेगान्, परिघं निज-मुषलाकारम् अत्र-विशेषं राजकीयं तत्रैव स्थितम् उद्यम्य उच्चयित्वा जघान, यतो रोहिणी-सुतः श्री-कृष्ण-क्रीडानुसारेण तत्-प्रीतिकारीति पूर्ववद्-वोद्धव्यम् । यद् वा, रोहिणी-सुतत्वेन श्री-वसुदेव-देवक्यादीनां प्रीत्य् अर्थम् इति भावः । मृगाधिपः सिंहः पशून् मृगान् इवेति दृष्टान्तेन पशु-तुल्यतया तेषाम् अकिञ्चित्करत्वम् अप्रयासेन हननं च ध्वनितम् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथेति तैर् व्याख्यातं । तत्र तादृग् इति । कंसरभस-सदृश इत्य् अर्थः । यद् वा, तेनातिक्रोधादि-प्रकारेणेति । परिघं तत्रैव दैवतः प्राप्तं यद् वा, परिघाकारं गजदन्तम् एव ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.४४.४२ ॥
नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।
पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णं विभूतयः अंशाः विभूतिर् भस्ममांसेषु सम्पत्तौ भवनेऽपि च इति धरणिः । विभूतयस् तद् दत्तैश्चर्यास् तत्-सेवका इत्य् अर्थः । स्त्रियोऽप्सरसः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च देवादयोऽपि सर्वे परम-निर्वृता जाता इत्य् आह—नेदुर् इति । स्वयम् एवावाद्य् अन्त, दिव्यत्वट् सन् निमित्तवलाद् वा, ब्रह्मेशाद्या देवाः । आद्य-शब्दादिन्द्रदयो बिभूतयो वैभव-रूपाः सेवका इत्य् अर्थः, अतः प्रीता हृड्टाः सन्तः पुष्पैस् तं श्री-कृष्णं किरन्तो व्यापयन्तः शशंसुस्तुष्टुवुः, साधु साध्विति प्रशशंसुर् इति वा । स्थियश् चास्पसरो नृत्यं चक्रुः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विभूतयस् तद् दत्तैश्वर्यास् तत् सेवका इत्य् अर्थः । स्त्रियोऽप्सरसः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.४३ ॥
तेषां स्त्रियो महा-राज सुहृन्-मरण-दुःखिताः ।
तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रु-विलोचनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शोचन्त्यो विलापांश् चक्रुः । शुचः अश्रूणि ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां कंसादीनाम् । तत्र रङ्ग-भूमौ ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेषां कंसादीनां स्त्रियः पत्न्यादयः, सुहृदः पत्यादयः, तत्र रङ्ग-मध्ये तत् तन्मृत-देहान्तिकेऽभित ईयुः । यद् वा, अभि अभयं यथा स्यात् । शीर्षाणि विशेषेण केशोल्लुञ्चनादिना नितरां घ्नन्त्यः, अश्रु-विशिष्ट-विलोचनाः प्रदन्त्य इत्य् अर्थः । हे महाराजेति प्रहर्षात् सम्बोधनम् । यद् वा, महाराजो यः सुहृत् कंसस् तस्य मरणेन दुःखिताः, अन्येषां मरणाद् अपि सर्व-पालकस्य कंसस्य मरणेनाति-दुःखात् ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुहृदः पत्या दयः ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.४४ ॥
शयानान् वीर-शयायां पतीन् आलिङ्ग्य शोचतीः ।
विलेपुः सु-स्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्म-ज्ञ इत्य्-आदीनि विलापे प्रेम-सम्बोधनानि । ते त्वदीया वयम् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वीरशय्यायां रण-भूमौ । वीराणां शय्या शयनं यस्यां सा तस्याम् । विसृजन्त्यस् त्यजन्त्यः । वीराणां शय्या रणभूः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीराणां शूराणां शय्या युद्ध-सम्बन्धि-मरण-भूमिस् तस्यां शयानान् सुप्तवन् निश्चेष्टतया पतितान् पतीन् स्व-स्व-भर्तॄनालिङ्ग्य सुस्वरम् उच्चैर् आर्त्त-करुण-स्वरेणेत्य् अर्थः । मुहुर् सृजन्त्योऽत्यन्तं मुञ्चन्त्यः, मुहुर् इत्य् अस्यान्यैर् अपि यथापेक्षम् अन्वयः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीराणां शय्या युद्धे मरण-भूमिः तस्यां शयानान् सुप्तवत् पतितान् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोचतीः शोचन्त्यः ॥४४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.४५ ॥
हा नाथ प्रिय धर्म-ज्ञ करुणानाथ-वत्सल ।
त्वया हतेन निहता वयं ते स-गृह-प्रजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनाथा प्रिया वत्सला यस्य स तथा । करुणया नाथन्ते प्रार्ययन्त इति करुणानाथा दीनस् तेषु वत्सल स्निग्ध वत्सलः स्निग्ध-पुत्रयोः इति कोशात् । हा नाथेत्य् आद्य् एकत्वं प्रत्येकं पृथग् विलापात् । मुख्यत्वेन कंस-स्त्रीणाम् एव तद्-वर्णद् वा । करुणादयालो आ ईषत् प्रहतेऽपि निहताः किं पुनर् मारिते । त्वया हतेन इति पाठः क्वचित् । त्वया हतेनैव कर्त्रेति दुःखोक्तिः । गृहैः प्रजाभिश्चापत्यादिभिः सहिता । गीर्देवी तु निन्दति—अनाथेत्य् अकार-प्रश्लेषेणैकपद्यात् ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हा नठेत्य् आद्य् एकत्वं स्व-स्व-पतिं प्रति पृथक् सम्बोधनादिना सर्वासाम् एव प्रत्येकं विलापात् । यद् वा, मुख्यत्वेन कंस-स्त्रीणाम् एव तद् उक्तेः । हा कष्ट-सम्बोधने । नाथ हे स्वामिन् ! करुणाया नाथ ईश्वर हे परम-दयालो इत्य् अर्थः । वत्सल ! हे परम-स्निग्ध ! यद् वा, करुण ! दयालो ! अनाथेषु वत्सल इत्य् एषां सम्बोधनानां यथोत्तर-श्रैष्ठ्येन तस्य महात्म्यम् उक्तम्, आ सम्यक् हते मारिते । यद् वा, ईषत् प्रहृतेऽपि नितरां हताः, किं पुनर् मारिते, गृहैः प्रजाभिश्चापत्यादिभिः सहिताः ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हा नाथेत्य् आद्येकत्वं प्रत्य् एकं पृथग् विलापात् मुख्यत्वेन कंस-स्त्रीणाम् एव तद् वर्णनाद् वा । करुण दयालो ! आ ईषत् प्रहृतेऽपि निहताः किं पुनर् मारिते त्वया हतेनेति पाठः क्वचित् । त्वया हतेनैव कर्त्रेति दुःखोक्तिः । गृहैः प्रजाभिश्च् चापत्यादिभिः सहितः ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र सुभगा जरासन्ध-कन्याद्या आहुः--हा नाथ इति द्वाभ्याम् । स-गृह-प्रजाः गृहैः प्रजाभिश् च सह वर्तमानाः ॥४५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.४६ ॥
त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।
न शोभते वयम् इव निवृत्तोत्सव-मङ्गला ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वया पत्या विरहिता पुरीयं न शोभत इति स्व-दृष्ट्याभिधानम् ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निवृत्ते उत्सव-मङ्गले यस्यां सा । उत्सवो होलिकादि-रूपो, मङ्गल विवाहादि । विशेषेणापुनर् योगतया रहिताः । निवृत्त उत्सवो गीत-वाद्यादि मङ्गलानि च शुभ-सूचमानि यस्याः सा । न चान्यतस् तत्-सम्भवेद् इत्य् आहुः—पुरुषर्षभेति । गीर् देवी तु—पुरुषर्षभ बलीवर्द । काक्वा न शोभते किम् इति ऋवभः स्वर-भेदे स्याद् अष्ट-वर्गोषधे वृषे । श्रेष्ठार्थे च इति विश्वप्रकाशात् ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण मरणाद् अपुर्योगतया रहिता, निवृत्त उत्सवो गीत-वाद्यादिर् मङ्गलं च सुखं सत्-कर्म वा यस्याः सा, न चान्यतस् तत्-सर्वं सम्भवेद् इत्य् आशयेन सम्बोधयन्ति—पुरुषर्षभेति ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषेणापुनर् योगतया रहिता निवृत्त उत्सवः गीत-वाद्यादि-मङ्गलानि च शुभ-सूचकानि यस्याः सा । न चान्यतस् तत् सर्वं सम्भवेद् इत्य् आहुः । पुरुषर्षभेति । गीर्-देवी तु निन्दन्ती अनाथेत्य् आकार-विश्लेषेणैकपद्यात् । तथैवाह पुरुषर्षभ बलीवद्र्दकाक्वा न शोभते किम् इति श्लेषाच् च ऋषभः स्वर-भेदे स्याद् अष्ट-वर्गौषधे वृषे श्रेष्ठार्थे चेति विश्व-प्रकाशात् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४४.४७ ॥
अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् ।
तेनेमां भो दशां नीतो भूत-ध्रुक् को लभेत शम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनागसाम् इति तु परमार्थाभिधानम् ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन भूत-द्रोहेण । इमां मृत्यु-रूपाम् । भूतध्रुक् प्राणिद्रोही एतस्य महतो भूतस्य इत्य्-आदि-श्रुतौ भूत-शब्द ईशपरस् तथा चेशद्रोही कः शं लभेत, न कोऽपीत्य् अर्थः । दौहिक-व्यवहार-मात्रेण ताभिः सह शोचन्त्यः काश्चित्-परमार्थ-दर्शिन्य आहुः—अनागसाम् इति द्वाभ्याम् । उल्बणम् उत्कटं बहुधा दुर्मारणात् ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, पुरुषर्षभश् चेत् तर्हि कथम् अकाले दुमरणम् ? तत्राहुः—अनागसाम् इति । द्रोहं हिंसाम्, उल्वणम् उत्कटम्, बहुधा दुर्मारणात् । भो दैत्य-राज ! ननु, ज्ञान-पराणां असुराणां मादृशां तेन न दोषः, नेत्य् आहुः—भूतेति । शं सुखं मङ्गलं वा ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दैहिक-व्यवहार-मात्रेण ताभिः सह शोचन्त्यः काश्चित् परमार्थ-दर्शिन्य आहुर् अनागसाम् इति द्वाभ्याम् । उल्वणम् उत्कटं बहुधा दुर्मारणात् ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दैहिकव्यवहारमात्रेण ताभिः अह शोचन्त्यः काश्चित् परमार्थदर्शिन्य आहुरनागसामिति द्वाभ्याम् ॥४७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्भगाः शुद्धान्तः करणा आहुरनागसाम् इति द्वाभ्याम् ॥४७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.४८ ॥
सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः ।
गोप्ता च तद्-अवध्यायी न क्वचित् सुखम् एधते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एष कृष्णः । प्रभवन्त्य् अस्माद् इति प्रभवः, अपियन्ति अस्मिन्न् इत्य् अप्ययः स च स च । तद् अवध्यानं तद् अवज्ञा तत् कर्तुं शीलं यस्य सः ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष प्रत्यक्ष-स्थितः । प्रभवाप्ययौ हि भूतानाम् इति श्रुतेः । सुखं यथा स्यात्-तथा न वर्धते । किश्च—सर्वेषाम् इति तद् अवध्यायी तद् अवज्ञातापि, किं पुनर् द्रोहीत्य् अर्थः । सुखं यया स्यात्-तथा नैधते स सदा दुःखेन क्षीयत इत्य् अर्थः । क्वचिद् इह परत्र चेत्य् अर्थः । इदं तत्-स्वभाव-निन्दापेक्षयैवोक्तं न तु तादृशानाम् अपि सुखपर्यवसायक भगवत् स्वभाव-दृष्ट्येति ज्ञेयम् । एष श्री-कृष्णः । प्रभवत्यस्माद् इति प्रभवः, अपियन्त्य् अस्मिन्न् इत्य् अप्य् अयः, स च स चेति विश्वःनाथः ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु निज-सुखार्थं राज्ञां शत्रु-तत्-पक्ष-वर्ग-द्रोहो युक्त एव, तत्राहुः—सर्वेषाम् इति । हि निश्चितम् एव वा, एष एव प्रभवाप्यय इति स्रष्टृत्वं संहारकत्वं च, गोप्ता चेति पालकत्वम्, तैः परमेश्वरत्वम् उक्तम्, गोप्तृत्वस्य पश्चाद् उक्तिःं, सम्प्रति पलनार्थम् एवावतीर्णत्वाद् इति जगत् पलकस्य तस्य तत्-परिपाल्य-जनानां च द्रोहेण महा-दोषः सूचितः । तद् अवध्यायी कथञ्चित् तद् अवज्ञा-कार्यपि, किं पुनर्द्रोही, तत्र च सकृद् अवध्यानेनापि न सुखम् एधते, किं पुनस् तत्-स्वभावक इति ताच्छील्ये निणि-प्रत्ययार्थः । सुखं यथा स्यात् तथा नैधते न वर्धते । सदा दुःखेन क्षीयत इत्य् अर्थः । क्वचिद् इति जीवने सदा भयादिना न कदापि सुखम्, मरणेऽपि मुक्त्यां नैवेत्य् अर्थः, मोक्षस्य दुःखाभावैक-मात्रत्वात् ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च सर्वेषाम् इति तद् वद् अवध्यायी तद् अवज्ञातापि किं पुनर् द्रोहीत्य् अर्थः । सुखं यथा स्यात्-तथा नैधते स सदा दुःखेन क्षीयत इत्य् अर्थः । क्वचिद् इह परत्र चेत्य् अर्थः । इदं तत् सभाव-निन्दापेक्षयैवोक्तं न तु तादृशानाम् अपि सुख-पर्यवसायक-भगवत् स्वभाव-दृष्ट्येति ज्ञेयम् ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष श्रीकृष्णः । प्रभवन्त्यस्माद् इति प्रभवः अपियन्त्यस्मिन्नित्यप्ययः सच सच अवध्यानमवज्ञा तत् कर्तुं शीलं यस्य सः ॥४८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
—ओ)०(ओ
॥ १०.४४.४९ ॥
श्री-शुक उवाच—
राज-योषित आश्वास्य भगवांल् लोक-भावनः ।
याम् आहुर् लौकिकीं संस्थां हतानां समकारयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आश्वास्य सर्वतदीयवृत्तश्रावणेन सान्त्वय्य । संस्थां मृत-संस्कारम् । आश्वास्येत्य् अत्र हेतुः—लोक-भावनः, स्वाभाविक्यादयया सर्व-लोक-पालक इति । अत एव श्री-विष्णु-पुराणे—
बहु-प्रकारम् आश्वस्तः पश्चात्तापातुरो हरिः । > ताः समाश्वासयामास स्वयम् अस्त्राविलेक्षणः ॥ इति ।
श्री-हरि-वंशे च—
कंस-नारी विलापांश् च श्रुत्वा स-करुणान् बहून् । > गर्हमाणस् तथात्मानं तस्मिन् यादव-संसदि । > अहो मयातिबाल्येन नव-रोसातिवर्तिना । > वैधव्यं स्त्री-सहस्राणां कंसस्यास्य कृते कृतम् । इत्य्-आदि ।
संस्थाम् अन्त्य-कृत्यम् । सा च स नीतो यमुना-तीरम् उत्तरम् इत्य्-आदि-श्री-हरि-वंशानुसारेण परिज्ञेया । तच् च तासां महा-शोक-दर्शन-परिहार्थं तीर्थानाम् अनाविलतार्थं चेति गम्यते । आश्वास्य मयि पालवितरि का युष्माकं चिन्तेति बोधयित्वेति विश्वनाथः ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आश्वास्य स्वान्त्वयित्वेत्य् अत्र हेतुः—भगवान् दीन-वात्सल्यादि-गुण-प्रकटक इति । अत एव श्री-विष्णु-पुराणे—
बहु-प्रकारम् अस्वस्थः पश्चात् तापातुरो हरिः । > ताः समाश्वासयामास स्वयम् अस्राविलेक्षणः ॥ [वि।पु। ५.२१.८] इति,
श्री-हरि-वंशे च—
कंस-नारी-विलापांश् च श्रुत्वा सकरुणान् बहून् । > गर्हमाणस् तथात्मानं तस्मिन् यादव-संसदि ॥ > अहो मयातिबाल्येन नवरोषानुवर्तिना । > वैधव्यं स्त्री-सहस्राणां कंसस्यास्य कृते कृतम् ॥ [ह।वं। > २.३२.३-४] इत्य्-आदि ।
हतानां या संस्था अन्त्यकृतम् आहुः शास्त्रज्ञाः, ताः सम्यग् यथा-विधि दाहादिनाहकारयत् कर्तुम् आदिदेशेत्य् अर्थः, यतो लोकक्-भावनः शास्त्रोक्त-धर्म-प्रवर्तनेन जगत्-पालन-परः, तच् च स नीतो यमुना-तीरम् उत्तरम् इत्य्-आदि-श्री-हरिवंशोक्तानुसारेण यमुना-पर-पारे ज्ञेयम् । तद् अपि कंस-पत्नीनां पति-देह-दाह-साक्षाद् दर्शन-महा-दुःख-परिहारार्थं पर-दुःखासह-श्री-भगवद् आज्ञयेति लौकिकीम् इति तत्त्वतो मुख्य-प्राप्त्या परलौकिक-कृत्य-समाप्तेः ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आश्वास्येत्य् अत्र हेतुः लोक-भावनः स्वाभाविक्या दयया सर्व-लोक-पालक इति । अत एव श्री-विष्णु-पुराणे—
बहु-प्रकारम् अस्वस्थः पश्चात्तापातुरो हरिः । > ता समाश्वासयामास स्वयम् अस्राविलेक्षणः ॥ [वि।पु। ५.२१.८] इति ।
श्री-हरि-वंशे—
कंस-नारी विलापांश् च श्रुत्वा सकरुणान् बहून् । > गर्हमाणस् तथात्मानं तस्मिन् यादव-संसदि । > अहो मयाति-वाल्येन नवरोषातिवर्तिना । > वैधव्यं स्त्री-सहस्राणां कंसस्यास्य कृते कृतम् । [ह।वं। > २.३२.३-४] इत्य्-आदि ।
संस्थाम् अन्त्यकृत्यं सा च । स नीतो यमुनातीरम् उत्तरम् इत्य्-आदि श्री-हरि-वंशानुसारेण परिज्ञेया ।
तच् च तासां महा-शोक-दर्शन-परिहारार्थं तीर्थानाम् अनाविलतार्थं चेति गम्यते ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजयोषितो दुर्भगा एवं मयि पालयितरि का युष्माकं चिन्तेत्याश्वास्य ॥४९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.५० ॥
मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।
कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्पृश्य ईषत् स्पृष्ट्वा ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ कंस-संस्थोत्तरम् । अथ तद्-अनन्तरम् इति पर-दुःखासहिष्णुतयादौ कंस-स्त्रीणां पति-देहेन सह प्रेषणाय व्यग्रत्वात् सर्वेषु स्वस्व-स्थानं गतेषु कोलाहल-शान्तिश् च । आस्पृश्य सम्यक् स्पृष्ट्वा ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ तद्-अनन्तरम् इति पर-दुःखासहिष्णुतयादौ कंस-स्त्रीणां पति-देहेन सह प्रेषणाय व्यग्रत्वात् श्री-वसुदेव-प्रीत्यपेक्षया निज-स्नेह-विशेषाच् चादौ मातरं ततः पितरं श्री-वसुदेवं मोचयित्वैवेति तद् वन्धनासहिष्णुत्वात् । शिरसा पादयोर् आस्पृश्येति भक्ति-विशेषो दर्शितः । कंसस्यादौ निर्देशः-कारुण्यादि-सद्-गुण-भरेण प्राक् तत्र प्रवृत्तेः, विशेषतश् च श्री-बलदेवस्य सदा तच् चेष्टानुवर्तित्वात् ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तद्-अनन्तरम् इति पर-दुःखा-सहिष्णुतया आदौ कंस-स्त्रीणां पति-देहेन सह प्रेषणाय व्यग्रत्वात् । सर्वेषु स्व-स्व-स्थानं गतेषु कोलाहल-शान्तिश् च आस्पृश्य सम्यक् स्पृष्ट्वा ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आस्पृश्य सम्यक् स्पृष्ट्वा ॥५०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४४.५१ ॥
देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुत्र-भ्रान्तिं विहाय जगद्-ईश्वराव् इति ज्ञात्वा शङ्कितौ न सस्वजाते नालिङ्गितवन्तौ, किन्तु बद्धाञ्जली तस्थतुर् इत्य् अर्थः ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सस्वजात इति,
द्वयोर् नाम्नोर् बहूनां वा यत्र वाक्ये समुच्चयः । > नाम-त्रया श्रिया सङ्ख्या कृतिवायोर् विशेषणम् ॥ इति > हरि-भर्त्र्-अनुशासनाद् ।
देवकी-वसुदेवयोर् द्वित्वम् आदाय सस्वजाते इत्य् उक्तम् । अन्यथा सस्वज इत्य् अस्य द्विरूपादानं स्यात् । इत्य् अर्थः इति—शङ्काकुलत्वान् नालिङ्गितवन्तौ । शङ्का च—"कथम् आवाम् ईश्वरे पुत्रत्व-बुद्धिं कुर्वः ?” इत्य् एवं-रूपा ज्ञेया ।
यादृशो यक्सास् तादृशो बलिः इति न्यायेन स-बीभत्सं केश-ग्रह-पूर्वक-भूमि-विलोडन-सहितम्। अयम् अर्थः श्रुत्याप्य् अनूद्यते—
अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसि वेद्याभिः । > वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि [ऋ।वे। > ६.१०.१] इति श्रुतिः ।
अस्या अर्थः—अहः युद्ध-यज्ञः कृष्णम् अनु एकः विवर्तते विशेषेण जायते । तथा अर्जुनम् अनु अहर् विवर्तते । एकश् च-कारोऽन्वाचयेऽपरः समुच्चये । तेन कृष्णार्जुनाभ्यां विभज्य समुच्चित्य वा क्रियमाणौ द्वौ युद्ध-यज्ञौ वर्तेते इत्य् अर्थः । उभे अप्य् अहनी रजसी रजो-गुण-कार्ये वेद्याभिर् लब्धुं योग्याभिः, श्रीभिर् हेतु-भूताभिः । लक्ष्म्य्-अर्थं युद्धानि जायन्त इत्य् अर्थः । ताभ्यां च सहायाभ्यां वैश्वानरो विश्वेषां नॄणाम् इष्ट-फल-प्रापको धर्मः स्वयम् अदृष्ट-रूपोऽपि जायमान आविर्भवन् । वा-शब्द इवार्थे । राजा जायमानः सन् तमांसि अधर्म-रूपाणि अवातिरत् तिरस्कृतवान् । केन ? अग्नि-ज्योतिषा इत्य् अर्थः । खण्डवद् आहेऽग्निना दत्ते चक्र-गाण्डीवे तद् रूपेण ज्योतिषेति भावः । अनेन मन्त्रेण सर्वे कृष्णकृत-युद्धश् च लक्ष्यन्त इत्य् अवधेयम् । विज्ञाय विशेषतो ज्ञात्वा साम्प्रताद्-भुत-कर्म-दर्शनादिन स्मृत-तज्-जन्म-वृत्तान्तत्वेन पुनर् ऐश्वर्य-ज्ञानोद्बोधात् कृत-स-भक्ति-वन्दनाव् अपि पुत्राव् अपि जगदीश-बुद्ध्या भीतो सन्तौ । यद् वा, न सस्वजाते, किन्तु प्रणतौ भवन्तौ च स्थिताव् इत्य् अर्थः । तथा श्री-विष्णु-पुराणे—
उत्थाप्य वसुदेवस् तं देवकी च जनार्दनम् । > स्मृत-जन्मोक्त-वचनौ ताव् एव प्रणतौ स्थितौ ॥ [वि।पु। > ५.२०.९३]
इति स्तुतिस् तु दीर्घा तत्रास्ति ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषतो ज्ञात्वेति पूर्वं दिव्य-रूप-दर्शनादिना, अधुना चाद्भुत-कर्म-श्रवण-दर्शनादिना जगदीश्अत्वानुभवात् । यद् वा, मातृता-स्वभावजेन वात्सल्य-विशेषेण जगदीशत्व-विज्ञानस्य गौणत्वात्, प्रेम्णः प्राधान्येन तस्याः श्रैष्ठ्यात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, किन्तु प्रणमन्तौ स्तुवन्तौ च स्थिताव् इति स्तुतिश् च दीर्घा तत्र भात्य् एव । यद् विज्ञायापि न शङ्कितौ बभूवतुः, किन्तु सस्वजाते, यतः पुत्रौ पुत्रतां प्राप्तौ । किं च, कृत-संवन्दनौ, आलिङ्गने स्नेह-भरेण । देवक्याः प्राधान्याद् आदौ निर्देशः । अग्रे त्व् ईश्वर-ज्ञान-सम्यग्-आच्छादनार्थम् एव कृपा-भरेण स्व-माया-विस्तारणात् स्नेह-विशेषोदयेन ताभ्याम् अङ्कारोपणादिकं ज्ञेयम् ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषतो ज्ञात्वेति सम्प्रत्य् अद्भुत-कर्म-दर्शनादिना स्मृत-तज्-जन्म-वृत्तान्तत्वेन पुनर् ऐश्वर्य-ज्ञानोद्बोधात् कृत-सभक्ति-वन्दनाव् अपि पुत्राव् अपि जगदीश-बुद्ध्या भीतौ सन्तौ । अन्यत् तैः ।
यद् वा, न सस्वजाते किन्तु प्रणतौ स्तुवन्तौ च स्थिताव् इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
उत्थाप्य वसुदेवस् तु देवकी च जनार्दनम् । > स्मृत-जन्मोक्त-वचनौ ताव् एव प्रणतौ स्थितौ । [वि।पु। ५.२०.९३] > इति ।
स्तुतिश् च दीर्घा तत्र विद्यते ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञाय इति जन्म-समय-स्मृत्या कंस-वधाद्य्-ऐश्वर्य-दृष्ट्या च परमार्थ-दृष्टिम् अग्रे न सस्वजाते । लोक-व्यवहार-दृष्ट-मग्नौ च नापि नमश्चक्राते । किन्तु शङ्कितौ स्तब्धाव् एव स्थितौ ॥५१॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम्
दशमस्य चतुश्चत्वा-रिंशो ऽप्य् अजनि सङ्गतः
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
कंस-वध नाम चतुत्वारिंशोऽध्यायः ।
॥ १०.४४ ॥
(१०.४५)