कुवलयापीड-वधः, भगवतो मल्ल-शालायां प्रवेशः, चाणूरेण सह संवादश् च ।
॥ १०.४३.१ ॥
श्री-शुक उवाच—
अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप ।
मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
त्रि-चत्वारिंशके हत्वा गजेन्द्रं राम-कृष्णयोः ।
रङ्ग-प्रवेश-सौभाग्यं चाणूरेण च भाषणम् ॥
पूर्वेद्युर् एव कृतं शौचं शुद्धत्वं निरपराधत्वं याभ्यां तौ । एतद् उक्तं भवति, धनुर् भङ्गादिनाऽऽवाभ्यां निजैश्वर्ये सूचितेऽपि पितरौ न मुञ्चत्यावां च पुनर् जिघांसति । अतोऽस्य मातुलस्यापि वधे नावयोर् दोष इत्य् एवं कृतापराध-परिहाराव् इति । मल्लानां दुन्दुभीनां च निर्घोषं मल्ल-ताल-दुन्दुभिनिर् घोषं वा ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सौभाग्यम् अत्र रसकदम्ब-मूर्ति-प्रदर्शन-रूपम् ।*। शौचमभिनीय प्रदर्शयति—एतद् उक्तम् इत्य्-आदिना । द्वितीयोऽर्थ उत्तान एव दुन्दुभिध्वनिना मल्लघोषस्याभिभवम् आशङ्क्यार्थान्तरम् आह—मल्लताल एव दुन्दुभिनिर्घोषस् तम् । तत्र तस्यैव प्राधान्याद् इत्य् अर्थः । अथेति पित्रादीन् पृष्ट्वैव सर्व-लक्षितौ सवयस्यौ यमुनातीरं राम-कृष्णौ गतौ, तत्रैव कृतदन्तधावनादिकौ भो भो वयस्या मल्लतालमयो दुन्दुभिर् घोषोऽयं श्रूयते तदित एव प्रविशाम इति द्रष्टुं द्रुतमीयतुः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेति माङ्गल्ये, दुष्ट-वधादि-प्रसङ्गापत्तेः । यद् वा, श्री-नन्दादि-समाह्वानानन्तरं स्निग्धतर-जनैः सह द्वेष्टृ-निकटे गमनायोग्यत्वात् । किं वा, तेषां गमनेन त्वरयावश्यं तत्र गमनोपपत्तेः । दुष्ट-वधेच्छया निज-जन-चित्तकर्षणात् कृष्णस् तया स्व-बन्धु-वर्ग-रमणाद्राम इति, च-काराभ्यां द्वयोर् अपि प्राधान्यं बोध्यते । यद्य् अपि सर्वत्र श्री-कृष्णस्यैव प्राधान्यम् अत एवात्राप्य् आदौ तस्य निर्देशः, तथापि दुष्ट-वधार्थं श्री-बल-देवस्यापि तादृशोद्यमात्, तथानुज-स्नेहेन सहैव गमनात् तन् मत्य् अनुसाराच् च कृत-शौचत्वादौ प्राधान्यम् ऊह्यम् । मल्लानां युद्ध-सम्बन्धिनं दुन्दुभीनां निर्घोषं महा-नादं श्रुत्वा, अत एव मल्ल-युद्धं द्रष्टुम् इत्य् अम्बष्थादि-वञ्चनार्थं मल्ल-युद्ध-वेषादि-राहित्येन सौम्यतयोपयानाद् उपेतुः, रङ्ग-स्थलान्तिकं ययतुः, तत् सर्वं द्विषतो दुष्टस्य सगणस्य वधार्थं युक्तम् एवेत्याशयेन सम्बोधयति—परन्तप शत्रु-नाशकेति । तद् भवादृशां शीलम् एवेति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्रष्टुम् इति । दिदृक्षाव्याजेनेत्य् अर्थः । अम्बष्ठादि-वञ्चनार्थं परिधानीयोत्तरीय-परिधानेन मल्ल-वेशा-स्वीकारात् । अन्यथा वक्ष्यमाण-परिकर-बन्ध-वैयर्थ्यं स्यात् उपेयत् रङ्ग-स्थान्तिकं ययतुः । परन्तप ! हे शत्रु-नाशनेति तादृश-दुप्ष्टद्वेषो भवादृश;म् शीलम् एवेति भावः । अन्यत् तैः । यद् वा, कृत-शौचाव् इति नर-चेष्टानुकरण-मात्रम् एतन् मिषेणैव वृद्ध-गोपेभ्यः पूर्वम् एव विच्छिन्नाव् इति ज्ञेयम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मल्लानाम् अशनिर् इत्य्-आदि ॥१.४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्रिचत्वारिंशके हत्वा हस्तीन्द्रं रङ्ग-भू-गतः ।
माधुर्यैश्वर्य-वर्षी स चानूरं प्रत्य् अभाषत ॥
अथेति । ऊषसि पित्रादीन् अपृष्ट्वैव सर्वैर् अलक्षितै सवयस्यौ यमुनातीरं राम-कृष्णौ गतौ तत्रैव कृतदन्तधावनादिकौ भो भो वयस्याः मल्लतालमयो दुन्दुभि-घोषोऽयं श्रूयते तदित एव प्रविशाव इति द्रुष्टुं द्रुतमीयतुः ॥१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२ ॥
रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।
अपश्यत् कुवलयापीडं कृष्णोऽम्बष्ठ-प्रचोदितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अम्बष्ठो हस्ति-पकस् तेन चोदितम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् रङ्गद्वारे ।
नागङ्गजम् नागः पन्नगमातङ्गक्रूराचारिषु तोयदे ।
नागकेसर-पुन्नाग-नागदन्तक-मुस्तके ॥ इति मेदिनी ।
अम्बष्टस् तु महा-मात्रे रागद्रव्ये विलोमजे इति धरणिः । हिंसार्थम् एवाम्बष्ठप्रेरितम् ऐक्षत ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् आसाद्य प्राप्य, अतिनिकटे गत्वेत्य् अर्थः । अवधानेन स्थितम्, यतोऽम्बष्ठेन महा-मात्रेण स्कन्धोपर्युपविष्टेन प्रकार्षेणाङ्कुश-प्रहादिना हिंसार्थं चोदितं कृष्णोऽपश्यद् इति तद् वधार्थं तस्याग्रेऽभिसरणात् सावधानत्वाच् च, अत एव सर्व-चित्ताकर्षक-गुणत्वात् कृष्ण इति ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवधानेन स्थितम् अपश्यत् एतच् चाम्बष्ठ-प्रणोदितम् अपश्यद् इत्य् अर्थः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्बष्ठो हस्तिपस् तेन स्वं प्रति हिंसार्थ प्रेरितम् ॥२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.३ ॥
बद्ध्वा परिकरं शौरिः समुह्य1 कुटिलालकान् ।
उवाच हस्तिपं वाचा मेघ-नाद-गभीरया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिकरं युद्धोचित-परिधानं कृत्वा । समुह्य निबध्य ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
भवेत् परिकरः सङ्घे\ऽपयङ्क[-]{दिर्=“र्त्ल्”}परिवारयोः ।
प्रगाद्ःअ-गात्रिकाम्बधे समाचार-विवेकयोः ॥
इति मेदिन्य्-उक्तेर् युद्धोचित-परिधानं गाढ-गात्र-बन्धं, कटि-बन्धम् इति यावत् । शौरिर् इति तद्-वंश्यानाम् आनन्दार्थम् इति भावः । परिकरं बद्ध्वा कञ्चुकं विसृज्य परिधानीय-वस्त्रं मध्य-बन्धन-घटीपटेन वेष्टयित्वा प्रालम्ब-मालादिकं वैकक्षादित्वे निधायेत्य् अर्थः, विचित्र-वेषाभरण-स्रग्-अम्बरौ [भा।पु। १०.४३.१९] इति वक्ष्यमाणत्वात् । कुटिलान् स्वभावत एव वक्रान्, अत एव पूर्वं कङ्कतिकया लसद्-उष्णीषेषु दीर्घ-केशेषु प्रवेशितान् अपि, यद् वा, उष्णीष-बन्धकालेगुल्या केशान्तः-प्रवेशितान् अपि युद्ध-काले विक्षेप-शङ्कया अलकांश् चूर्ण-कुन्तलान् समूह्य उत्तरीयेणापि गाढं बद्ध्वा इत्य् अर्थः । समूह्येह दीर्घत्वम् आर्षम् । श्लेषेण दुष्ट-वधे मुखावरणादिना विघ्नापादनात् कुटिलानां स्वीयानाम् अपि सम्यग् बन्धं युक्तम् एवेति ध्वनितम् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शौरिः शूर-वंशार्णव-चन्द्र इति तद् वंश्यानाम् आनन्दार्थम् इति भावः । श्लेषेण शूरतया परम-विक्रमो ध्वनितः । कुटिलान् स्वभावतो वक्रान्, अत एव संवरणाय बन्ध-योग्यान् अलकान् चूर्ण-कुन्तलान् केशान् एव वा समुह्य संवृत्य, पाठान्तरे दीर्घत्वम् आर्षम् । श्लेषेण दुष्ट-वधे मुखावरणादिना विघ्नापादनात् । कुटिलानां स्वीयानाम् अपि सम्यग्-बन्धनं युक्तम् एवेति ध्वनितम् । वस्तुतस् तु शोभा-विशेष एव, मेघ-गर्जिताद् अपि गम्भीरयेति महा-पुरुष-लक्षणत्वेन वाचस् तादृशत्वात् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शौरिर् इति । तद्-वंश्यानाम् आनन्दार्थम् इति भावः । परिकरं बद्ध्वा कञ्चुकं विसृज्य परिधानीयं मध्य-बन्ध-धटीपटेन वेष्टयित्वा प्रालम्ब-मालादिकं वैकक्षादित्वेन विधायेत्य् अर्थः, विचित्र-वेषाभरण-स्रग्-अम्बरौ [भा।पु। १०.४३.१९] इति वक्ष्यमाणात् । कुटिलान् स्वभावतो वक्रान् अत एव पूर्वं कङ्कतिकया लषद् उष्णीषेषु दीर्घ-केशेषु प्रवेशितान् अपि युद्ध-काले विक्षेप-शङ्कया अलकान् चूर्ण-कुन्तलान् समुह्य उत्तरीयेणापि गाद्ःअं बद्ध्वा इत्य् अर्थः । "समूह्य" इति पाठे दीर्घत्वम् आर्षं, श्लेषेण दुष्ट-वधे मुखावरणादिना विघ्नापादनात् कुटिलानां स्वीयानाम् अपि सम्यग् बन्धनं युक्तम् एवेति ध्वनितम् । अन्यत् तैः । तत्र परिकरम् इत्य् अनन्तरं बद्ध्वेति पतितम् इव । यद् वा, बद्ध्वेत्य् अस्यैव टीका कृत्वेति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिकरं बद्ध्वा कञ्चुकं विसृज्य परिधानीय-वस्त्रं मध्य-बन्धन-धटी-पटेन वेष्टयित्वा प्रालम्ब-मालादिकं वैकक्षकादित्वेन निधायेत्य् अर्थः । कुटिलालकान् उष्णीष-बन्धन-काले अङ्गुल्या केशान्तः-प्रवेशितान् अपि युद्ध-काले विक्षेप-शङ्कया समुह्य उत्तरीयेणापि गाढं बद्ध्वेत्य् अर्थः । "समूह्य" इति पाठे दीर्घत्वम् आर्षम् ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.४ ॥
अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् ।
नो चेत् स-कुञ्जरं त्वाद्य नयामि यम-सादनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपक्रम दूरीभव । नो चेन् मार्ग-दानाभावे । यम-सादनं यम-गृहम् । वीप्सा दृढावधानार्थं क्रोधाद् एव वा । मार्ग-रोधनं किल महा-पातकम् इत्य् आशयेनाह—मा चिरं द्रुतम् अपक्रम मार्गाद् अपसर । सदनम् एव सादनम् । स्वार्थेऽण् । वस्तुतस् तु यमेन मनो-निरोधेनासाद्यते प्राप्यत इति यम-सादनं मोक्षम् । नयामि प्रेषयामि । सामीप्ये वर्तमानत्वम् । अद्य इति एतावन्तं कालम् उद्वृत्तो वर्तसे, तस्माद् अद्य त्वां यमस्य सादनम् । अग्रे पूर्ववत् ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीप्सा दृढावधानार्थम्, क्रोधाद् एव वा । मार्ग-रोधनं किल महा-पातकम् इत्य् आशयेणह—मा चिरं द्रुतम् अपक्रम मार्गाद् अपसर । नो चेत्, यदि नापक्रामसि, कुं पृथ्वीं जरयति दन्ताभ्यां भारेण च चूर्णयतीति कुञ्जरस् तम् इति महाबलत्वम् उक्तम्। अद्य अस्मिन्न् एव क्षणे । नयामि प्रेषयामीत्य् अर्थः, वर्तमानात् तत्-कालतार्थम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीप्सा दृढावधानार्थं क्रोधाद् एव वा । मार्ग-रोधनं किल महा-पातकम् इत्य् आशयेनाह । मा चिरं द्रुतम् अपक्रम मार्गाद् अपसर । नयामि प्रेषयामि सामीप्ये वर्तमानवत्त्वम् । अद्य इति एतावन्तं कालम् उद्वृत्तो वर्तसे । तस्माद् अद्य त्वाम् इत्य् अर्थं यमस्य सदनम् एव सादनं स्वार्थेऽण् । वस्तुतस् तु यमेन मनो-निरोधेन साद्यते आसाद्यते यत् तन् मोक्ष-लक्षणं वस्त्व् इत्य् अर्थः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यमस्य सादनं सदनं, वस्तुतस् तु यमेन मनो-निरोधेनासाद्यते प्राप्यते इति यम-सादनं मोक्षम् ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.५ ॥
एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।
चोदयाम् आस कृष्णाय कालान्तक-यमोपमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तको मृत्युः, कालस् तन् निमित्तम्, यमस् तन् नियन्ता तैर् उपमा यस्य तम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । निभर्त्सितो वाचा ताडितः । कृष्णाय कृष्नम् उद्दिश्य । तन् निमित्तं मृतुकारणम् । तन्नियन्ता मृत्युप्रेरकः । यद् वा, वलाद् आकर्षणो काला मृत्यौर् वा कालो मृतौ यमे कृष्णे समये चालकेऽपि च इति धरणिः । संहारेतको रुद्र इव रुद्रोन्तकः इति श्रुतेः । क्लेशजनने यम इव तम् । कृष्णाय कृष्णं ग्रहीतुम् । कालेनान्तः आयुशेषो येषां तेषां मनुष्यादीनाम् । यो यमः प्रसिद्धस् तेनोपमा यस्य तम् । तेन कृष्णस्यासौ किम् अपि कर्तुं न प्रभ्वविष्यतीति भीतं राजानं प्रत्याश्वासो ध्वनितः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कोपितं श्री-भगवद् उक्त्या, अम्बष्थेनैव वा, तत्-प्रकारज्ञेन कृष्णाय काल--रूपेण सर्वाकर्षकायापि कालेत्य् आदिनात्यन्त-मारकत्वम् अभिप्रेतम्—एकदैव तत्-तत्-संयोगात् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णाय कृष्णं ग्रहीतुम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णाय कृष्णं ग्रहीतुं कालेन अन्तः आयुः शेषो येषां मौष्यादीनां यमः प्रसिद्धस् तेनोपमा यस्य तेन कृष्णस्यासौ किम् अपि कर्तुं न प्रभविष्यतीति भीतं राजानं प्रत्याश्वासा ध्वनितः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.६ ॥
करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् ।
कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्व् अलीयत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विगलितो विच्युतः । मुष्टिना निहत्य अलीयतादृश्यो बभूव ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिद्रुत्य झटिति प्राप्य । तं कृष्णम् । करेण शुण्डा-दण्डेन । करो वर्षोपले रश्मौ पाणौ च बलि-शुण्डयोः इति मेदिनी । अमुं गजम् । स कृष्णः । तं निर्भयत्वेनैव स्थितं कृष्णं करेण शुण्डेन मध्य-देशोऽग्रहीत् । ततश् च स कृष्णोऽमुं कुञ्जरं निहत्य वाम-मुष्ट्या शुण्डे प्रहृत्य तत्-प्रहार-विवशाच् छुण्डाद् विगलितः सन्नङ्घ्रिषु तस्य महा-स्थूल-पदेष्व् अलीयतादृश्यो बभूव । अङ्घ्रिष्व् इति बहु-वचनेनैवं व्याख्येयम्—प्रथमम् एकस्मिन् पाद-पृष्ठेऽलीयत तदा घ्राण-दृष्टौ कुञ्जरै तत्रैव धर्तुम् उद्यते सति अन्यस्मिन् पादेऽलीयत तत्रापि धर्तुम् उद्यतेऽन्यस्मिन्न् इत्य् एवं सहासमुखाम्बुजो महा-कौतुकी स कुञ्जरं बहूशो वञ्चयन् स्वखेलम् इव महाद्भुतां लोकान् दर्शयामासेति भावः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : करीन्द्रो महा-बलिष्ठतादिना हस्ति-वर्ग-श्रेष्ठः, अभिद्रुत्य—अभिमुखं धावन् गत्वा तरसा वेगेनेत्य् अस्य यथा-योग्यं सर्वत्रैवान्वयः । अग्रहीत् धृतवान् एव, महा-कौतुकितया तस्य सर्व-सम्भवात्, एवम् अग्रेऽप्य् ऊह्यम् । अत एव वक्ष्यते [१०.४३.८] लीला इति [१०.४३.११] क्रीडया इति च विशेषेण गलितो निष्क्रान्तः सन्, वि-शब्देन वस्त्र-मालादि-परिच्छदानाम् अपि निराकुलता बोध्यते, एवम् अग्रेऽपि, अमुं करं करीन्द्रं वा निहत्य श्री-हस्त-निधान-मात्रतया तलेन प्रहृत्य अङ्घ्रिष्वलीयत चतुःपाद-मध्यगः सन्नदृश्योऽभूत् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अग्रहीत् धृतवान् एव महा-कौतुकितया तस्य सर्व संभवात् एवम् अग्रेऽप्य् ऊह्यम् । अत एव वक्ष्यते लीलयेति क्रीडयेति च विशेषेण गलितो निष्क्रान्तः सन् वि-शब्देन वस्त्रमालादीनाम् अपि निराकुलता बोध्यते । एवम् अग्रेऽपि अङ्घ्रिषु अलीयत पद-चतुष्टय-मध्यगः सन् तेनादृश्योऽभूत् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं निर्भयतेनैव स्थितं कृष्णं करेण शुण्डेन मध्यदेशो अग्रहीत् ततश् च स कृष्णः अमुं कुञ्जरं निहत्य वाम-मुष्ट्या शुण्डे प्रहृत्य तत् प्रहार-विवशात् शुण्डाद्वि-गलितः सन् अङ्घ्रिषु तस्य महा-स्थूल-पादेषु अलीयत अतः अदृश्यो बभूव अत्र अङ्घ्रिष्व् इति बहु-वचनेनैवं व्याख्येयं प्रथमम् एकस्मिन् पाद-पृष्टे अलीयत तदा घ्राण-दृष्टौ कुञ्जरे तत्रैव धर्तुम् उद्यते सति अन्यस्मिन् पादे अलीयत तथापि धर्तुम् उद्यते अपरस्मिन्न् इत्य् एव सहासमुखाम्बुजौ महा-कौतुकी स कुञ्जरं बहुशो वञ्चयन् स्व-खेलाम् एवाद्भूतां लोकान् दर्शयामासेति भावः ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.७ ॥
सङ्क्रुद्धस् तम् अचक्षाणो घ्राण-दृष्टिः स केशवम् ।
परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अचक्षाणोऽपश्यन् । घ्राणम् अवघ्राणं तेन दृष्टिर् दर्शनं यस्य सः । लोचनागोचरम् अपि हि पशवो घ्राणेन जानन्तीति प्रसिद्धम् । परामृशद् धृतवान् । पुष्करेण शुण्डाग्रेण । स कृष्णः । प्रसह्य बलेन ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स गजः । तं कृष्णं । पुष्करं [खेबु]{।मर्क्}-पद्मयोः ।
तूर्य-वक्त्रे खङ्गफले हस्ति-हस्ताग्रकाण्डयोः ।
कुष्ठौषधे द्वीप-तीर्थ-भेदयोर् दुर्लभेऽपि च । इति बहवः ।
द्वितीयः स शब्दः कृष्ण-परामर्शी । अचक्षाणोऽपश्यन् । पशुत्वात् घ्राण-दृष्टिः गन्धेनैव जानन् । पुष्करेण शुण्डग्रेण । परामृशत् तं गज्राहेति । स्वीय-खेलान्तरं लोकान् दर्शयिष्यन् कृष्णः स्वमेकवार तद् उत्साह-वर्धनार्थं ग्राहयामासेति भावः । ततश् च कुञ्जरे तस्मिन् कृतार्थम् अन्ये सति स कृष्णः प्रसह्य बलट्कारेणैव—किम् अरे बलं दर्शयसीत्य् उक्त्वा स्वं मोचयित्वा बाहेर् निर्गतोऽभूत् ॥७॥ अत्र तोषिण्या
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निहननाद् एव सम्यक् क्रुद्धः सन् केशवं केशिनिसूदनम् इति सङ्क्रुद्धत्वे हेत्वन्तरम् । पुष्करेणेति श्लेषेण तस्य श्रीमद् अङ्गे कमलवत् कोमलतां गतेनेति ध्वन्यते । विनिर्गतः—पुष्कराद् विशेषेण निश्चक्राम । यद् वा, विनिष्क्रान्तः सन् विचकर्षेति परेणान्वयः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुष्करेणेति श्लेषात् तस्य श्री-मदङ्गे कमलवत् कोमलताङ्गतेनेति ध्वन्यते ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अचक्षाणोऽपश्यन् पशुत्वाद्घ्राण-दृष्टिः गन्धेनैव जानन् पुष्करेण शुण्डाग्रेण परामृशत् तं जाग्राहेति स्वीय-खेलान्तरं लोकान् दर्शयिष्यन् कृष्णः स्वम् एकवारं तद् उत्साह-वर्धनार्थं ग्राहया मासेति भावः ततश् च कुञ्जरे तस्मिन् कृतार्थं मन्ये सति स कृष्णः प्रसह्य बलात्कारेणैव किम् अरे बलां दर्शयसीत्य् उक्त्वा स्वं मोचयित्वा बहिर् निर्गतोऽभूत् ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.८ ॥
पुच्छे प्रगृह्यातिबलं धनुषः पञ्च-विंशतिम् ।
विचकर्ष यथा नागं सुपर्ण इव लीलया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धनुषो धनुषां पञ्च-विंशतिर् यावत् तावन्तं देशं विचकर्ष आकृष्य नीतवान् । कं क इव विचकर्ष । यथा नागं सर्प-वद् वर्तमानं गजं सुपर्ण-वत् स्वयम् इति, “आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः” इति-वत् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पञ्च-विंशति-धनुर् मित-देशं शत-हस्तम् इत्य् अर्थः । धनुर् हस्त-चतुष्टअम् इति नाम-माला । इतिवद् इति—यथाविरासीद्य् अथेत्य् अत्र यथा-शब्द इव शब्दश् चान्वितौ, प्राच्यां यथा प्राचीवद् वर्तमानायां देवक्याम् इन्दुर् इव वर्तमानः स्वयं हरिर् आविरासीद् इति तद्वद् अत्रापीति भावः । धनुर् हस्त-चतुष्टयम् इति कोशाच् छत-हस्त-प्रमाणं देशं व्याप्य । यथेति यथावद् एव विचकर्ष । स कुञ्जरस् तदा किम् अपि धैर्यं कर्तुं न शशाकेति भावः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतिबलं महा-बलम् अपि पुच्छ-प्रग्रहणेन लीलया विकर्षणे दृष्टन्तः—यथेति । तैर् व्याख्यातम् एव । यद् वा, यथा यथावद् विचकर्ष, मध्ये किञ्चित्-स्थैर्य-शक्त्य् असद्भावात् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथेति तैर् व्याख्यातम् । यद् वा, यथा यथावत् विचकरा तन् मध्ये तेन क्वचिद् अपि स्थैर्यांशस्याप्य् अशक्यत्वत् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धनुषः धनुषां पञ्च-विंशति शत-हस्त-प्रमाण-देशं व्याप्य यथेति यथावद् एव विचकार्ष कुञ्जरः स तदा यत् किञ्चिद् अपि स्थैर्यं धर्तुं न शशकेति भावः ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.९ ॥
स पर्यावर्तमानेन सव्य-दक्षिणतोऽच्युतः ।
बभ्राम भ्राम्यमाणेन गो-वत्सेनेव बालकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स पर्यावर्तमानेनेति । पुच्छ-ग्राहिणं श्री-कृष्णं ग्रहीतुं यदि दक्षिणतः परिवर्तते गजस् तर्हि सव्यतो भ्रामयति । यदा सव्यतः परिवर्तते तदा दक्षिणतो भ्रामयंस् तेन सह बभ्राम । गो-वत्सेन भ्राम्यमाणेन बालकः स एव कृष्णो यथान्यो वा बालक इवेति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽच्युतः । तेन गजेन । अन्यः प्राकृतः । ततश् च कुञ्जरस्य किञ्चिद् उत्साह-प्रापणार्थम् आकर्षण-वेगं किञ्चिच् छिथिली-चक्रे इत्य् आह—स अच्युतः । कदाचिद् अपि तदा तत्-पुच्छ-ग्रहणाच्च्युति-राहित्याभिप्रायेण । यद् वा, द्रुत-गति-विशेषेण सव्ये दक्षिणे चालात-चक्रवर्तमानत्वात् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युत इति कदाचिद् अपि तदा तत्-पुच्छ-ग्रहणाच् च्युतिर् आहित्याभिप्रायेण । यद् वा, द्रुत-गति-विचेषेण सव्ये दक्षिणे चालात-चक्रवद् वर्तमानत्वात् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युत इति । कदाचिद् अपि तदा तत् पुच्छ-ग्रहणाच्युतिर् आहित्याभिप्रायेण । यद् वा, द्रुत-गति-विशेषेण सव्ये दक्षिणे चालात-चक्रवद् वर्तमानत्वात् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च कुञ्जरस्य किञ्चिद् उत्साह-प्रापणार्थम् आकर्षण-वेगं भगवान् किञ्चित् शिथिली-चक्रे इत्य् आह । स अच्युतः पर्यावर्तमानेन कुञ्जरेण सह सव्य-दशिणतो बभ्रामेति किञ्चिद् उत्साहं प्राप्य पुच्छ-ग्राहिणं कृष्णं ग्रहीतुं यदि दक्षिणतः परिवर्तते कुञ्जरस् तदा तं सव्यतो भ्रामयन् स्वयं भ्रमति यदि च सव्यतस् तदा दक्षिणत इत्य् एवं स बभ्राम भ्राम्यमाणेन गो-वत्सेन सह बलवान् बालक इवेति ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.१० ॥
ततोऽभिमुखम् अभ्येत्य पाणिनाहत्य वारणम् ।
प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वारणं गजं प्राद्रवन् प्रकर्षेणासमन्ततो धावन् पातयाम् आस । यथा पतति तथा तं वञ्चयन् प्राद्रवद् इत्य् अर्थः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भ्रामणोत्तरम् । वारणं प्रतिषेधे स्याद् वारणस् तु मतङ्गजे इति मेदिनी । तं गजम् । इत्य् अर्थ इति—अति-स्थूल-शरीरवत इतस् ततो भ्रमणे स्वयम् एव पतनं भवेद् इति भावः । अथान्यां खेलां दर्शयन् पुच्छं तत्याजेत्य् आह—तत इति । पाणिनाहत्येषद् एव प्रहत्य, यथावत् प्रहारे सद्य एव मरणात् प्रारभ्य माणाखेला न निष्पद्यत इति भावः । प्राद्रवन् सन्निति प्रकर्षेण द्रवन् आ ईषद् एव भ्रमंस्तद् उत्साहवर्धनार्थं स्वस्य प्रद्रवणं दर्शयामास तम् । वस्तुतस् तु स्वस्य तदीषद् एव द्रवणम् इत्य् अर्थः । अत एव पदेपदे तेन स्पृश्यमानः स स्तं पातयामास इति तं पातयितुम् एव स्वयं मुहुर् मुहुर् द्रवणासमर्थ इव स्खलति स्मेत्य् अर्थः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो भ्रामण-लीलानन्तरम्, आहत्य—ईषत् प्रहृता, अन्यथा सद्य एव मरणात्, वारणेन तेन स्पृश्यमानः, अन्यथा निरुत्साहतया तस्य वैमुख्य-सम्भवात्, कौतुक-विशेषासम्पत्तेश् च ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो भ्रमण-लीलानन्तरम् आगत्य ईषत् प्रहत्य अन्यथा सद्य एव मरणात् व्यथादाव् अपि तद् अनुधावनाशक्तेः वारणेन स्पृश्यमानः अन्यथा निरुत्साहतया तस्य वैमुख्य-सम्भवट् कैतुक-विचेषासम्पत्तेश् च ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथान्यां खेलां दर्शयन् पुच्छं तत्याजेत्य् आह । तत इति । पाणिना आहत्य ईषद् एव प्रहृत्य यथावत् प्रहारे सद्योमरणात् प्रारभ्यमाण-खेला न निष्पद्येत इति भावः । प्राद्रवन् सन्न् इति प्रकर्षेण द्रवन्न् अपि आ ईषद् एव द्रवन् तद् उत्साह-वर्धनार्थं स्वस्य प्रद्रवणं दर्शयामास तं वस्तुतस् तु स्वस्य तदीषद् एव द्रवन् तद् उत्साह-वर्धनार्थं स्वस्य प्रद्रवणं दर्शयामास तं वस्तुतस् तु स्वस्य तदीषद् एव द्रवणम् इत्य् अर्थः । अत एव पदे पदे तेन स्पृश्यमानः सन् तं पातयामासेति तं पातयितुम् एव स्वयं मुहुर् मुहुर् द्रवणासमर्थ इव स्खलतिस्मेत्य् अर्थः ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.११ ॥
स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।
तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, स धावन्न् इति । अहनद् अहन् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यं वञ्चनाविधिं चकारेत्य् अर्थ—किं च इति । स कृष्णः । क्रीडया लीलया । सहसा झटित्य् एव । तं कृष्णम् । स गजः । ततश् च कठोरशिलामय्यां भूमौ तम् अत्याघातं पातयितुं स्वस्य पतनम् एव तं दर्शयामास, न तु लाघवोत्थानम् इत्य् आह—स इति । तं पतितं मत्वा तम् एव हन्तुम् उद्यतोऽपि क्षितिमेवाहन् । जानुभ्यां पतित्वा चखानेत्य् अर्थः । तस्य दन्तक्षेपकाल एवातिसूक्ष्मेण रूपेण कृष्णस्योत्थायान्यत्र गमनात्, अत एव अतर्कितेतिसहसा इत्य् अभिधानात् सहसोत्थित इति प्रयुक्तम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सहसेति—अतिद्रुत-मुत्थानेनामुना तद् अतर्कणात्, अत एव क्षितिम् अहनं चखान, तथा च श्री-हरि-वंशे—पपात भूमिं जानुभ्यां दशनाभ्यां तुतोद च [ह।व। २.२९.३२] इति ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स इति तैर् व्याख्यातं तत्र किं च इति । पूर्वोक्तपातने युक्तिश् चेत्य् अर्थः । मूले सहसेति अतिद्रुतम् उत्थानेनामुना तद् अतर्कणात् । अत एव क्षितिमहनत् जानुभ्यां पतित्वा चखानेत्य् अर्थः तथा च श्री-हरि-वंशे । पापात् भूमिं जानुभ्यां दर्शनाभ्यां तुतोद् चिति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च कठोरतर-शिलामय्यां भूमौ तमत्याघातं प्रापयितुं स्वस्य पतनम् एव तं दर्शयामास न तु लाघवाद् उत्थानम् इत्य् आह । स इति । तं पतितं मत्वा तम् एव हन्तुम् उद्यतोऽपि क्षितिम् एवाहन् जानुभ्यां पतित्वा चखानेत्य् अर्थः । तस दन्तक्षेप-काले एवाति सूक्ष्मे कृष्णस्योत्थायान्य् अत्र गमनात् अत एव अतर्कितेति सहसेत्य् अभिधानात् सहसोत्थित इति प्रयुक्तम् ॥११.१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.१२ ॥
स्व-विक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्य्-अमर्षितः ।
चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-मातैर् हस्तिपाधिपैः महा-मात्र समृद्धे चामाने हस्तिपकाधिपे इति मेदिनी । अभ्यद्रवत् सम्मुखम् आजगाम । स्व एवात्य् अमर्षितः सञ्जात-परमामर्षः, पुनश् च महा-मात्रैः प्रेर्यमाणो रुषा तद् वैशिष्ट्येनाभ्यद्रवत् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नः इति स्वस्य गौरवेण बहुत्वम् । अगृहं गृहं मानुष्यं शरीरम्, तत्र हितानां सच् चिद् आनन्द-विग्रहाणां पुंसाम् इत्य् अत्रापि तथा अन्तर्यामिणाम् अस्माकम् इत्य् अर्थः । आधि-विकर्शनं भक्त-विरह-जन्या मानसी पीडा अधिस् तस्य कर्षणम् ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रतिहते व्यर्थे । यद् वा, प्रतिक्षणं श्री-भगवता चातुर्या नाशिते सति स्वभावाद् एवात्यमर्षितः परमासहनः पुनश् च महा-मात्रैः प्रेर्यमाणः सन् रुषाभ्यद्रवत् । बहुत्वं तत्-पादादि-रक्षिणां तदानीं सर्वेषाम् एव समवेततेन बाहुल्यात्, कृष्णम् इति वेगेन तद् आकर्षणाभिप्रायेण ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स इति तैर् व्याख्यातं तत्र किं च इति । पूर्वोक्तपातेन युक्तिश् चेत्य् अर्थः । मूले सहसेति अतिद्रुतम् उत्थानेनामुना तद् अतर्कणात् । अत एव क्षितिमहनत् जानुभ्यां परमामर्षः पुनश् च महा-मात्रैः प्रेयमाणो रुषा तद् वैशिष्ट्येनाभुयद्रवत् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.१३ ॥
तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।
निगृह्य पाणिना हस्तं पातयाम् आस भू-तले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं गजम् । हस्तं शुण्दादण्डम् हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च इति मेदिनी । ततश् च कालाधिक्यम् आलक्ष्य तेन सह खेलां समापयामासेत्य् आह—तम् इति । स्वयं भगवान् अप्य् अंशेन च तादृशमधोः सूदनोऽपि श्रीमन् नराकारोचित-मल्ल-लीला-रसानुसारेणैव पाणिना एकेनैवावहेलया वामेनैवेत्य् अर्थः । हस्तं शुण्डां प्रगृह्येत्य् अर्थः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मधुः आदि-दैत्यस् तत्-सूदन इति महा-बलिष्ठत्वादिकं सूचितम् । अतो निजेच्छयैतद्-गजपातनादिकं कियत् तस्य कर्मेति भावः । तथाप्य् अत्र माधुरी-विशेषेण परमाद्भुततया वर्ण्यत इत्य् आशयेनाह—भगवान् चारु-युद्ध-लीला-चिवेशेण निज-भगतत्ता-विएष-प्रकटक इति । तद् एवाह—प्रगृह्येति । यद् वा, मधुसूदनस् तत्रापि भगवान्, अत एव श्री-हस्तेन तस्य शुण्डां नितरां गृहीत्वा निग्रहतया धृत्वा वा तं पातयामासेति मधु-महा-दैत्य् अतोऽप्य् अस्य महत्वं सूचितम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वयं भगवान् अप्य् अंशेन च तादृश-मधोः सूदनोऽपि श्रीमन् नराकारोचित-मल्ल-लीला-रसानुरूप्येणैव पाणिना हस्तं शुण्डां प्रगृह्येत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च समयाधिक्यम् आलक्ष्य तेन सह खेलां समापयामासेत्य् अःअ । तम् इति । पाणिना एकेनैव अवहेलया वामेनैवेत्य् अर्थः हस्तं शुण्डं नितरां गृहीत्वा ॥१३.१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.१४ ॥
पतितस्य2 पदाक्रम्य मृगेन्द्र इव लीलया ।
दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पतितस्य दन्तम् उद्धृत्य । तेन दन्तेन । इभं गजम् । पतितं सन्तं तं श्री-चरणेन शिर आक्रम्य । पाठान्तरे पतितस्य स्वतस् तस्य दन्तम् उत्पाट्य । हरिर् इति सिंहवत् तत्-प्राण-हरणाद् धस्ति-हनेन सिंह-रूपत्वाच् च ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पतितं सन्तं श्री-चरणेन शिरस्य् आक्रम्य । पाठान्तरे पतितस्य स्वतस् तस्य दन्तम् उत्पाट्य । हरिर् इति तत्-प्राण-हरणात्, हस्ति-हनेन सिंह-रूपत्वच् च ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पतितं सन्तं तं श्री-चरणेन शिर आक्रम्य । पाठान्तरे पतितस्य स्वतः तस्य दन्तम् उत्पाट्य । हरिर् इति सिंहवत् तत्-प्राण-हरणात् हस्ति-हननेन सिंह-रूपत्वाच् च ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.१५ ॥
मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।
अंस-न्यस्त-विषाणोऽसृङ्- मद-बिन्दुभिर् अङ्कितः ।
विरूढ-स्वेद-कणिका- वदनाम्बुरुहो बभौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रङ्गं समाविशत्, तदा वीर-श्रिया बभौ । कथं भूतः ? अंसे न्यस्तं विषाणं गज-दन्तो येन सः । असृजो रक्तस्य मदस्य च बिन्दुभिः परितोऽङ्कितः । विरूढा उद्गताः स्वेद-कणिकास् ताभिर् उपलक्षितं वदनाम्बुरुहं यस्य सः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा रङ्ग-प्रवेशावसरे । अंसे स्कन्धे । अंसो भुज-शिरो-व्याध्य इति धरणिः।
विषाणी क्षीर-काकोल्याम् अज-शृङ्ग्यां च योषिति ।
कुष्ठनाम् औषधे क्लीबं त्रिषु शृङ्गेभ-दन्तयोः ॥ इति मेदिनी ।
असृक् स्याद् योग-भेदेनारक्तेऽपि स्यान् नपुंसकम् इति च । मृतकम् इत्य् अर्धकम् । दन्त-युक्त-वाम-पाणिः । द्वितीय-दन्तोऽस्य श्री-बलदेवेनोत्पाट्य गृहीत इति ज्ञेयम् । गज-दन्त-वरायुधौ [भ।पु १०.४३.१६] इति वक्ष्यमाणत्वात् । सम्यक् मत्त-गजेन्द्र-गत्या शोभा-विशेषेण च, आ ईषद् वारान्तः प्राविशत् प्रविवेश । शोभा-विशेषम् आह—अंसो वाम-स्कन्धः । अङ्कितः विचित्रैर् इव भूषितः । विशेषेण विचित्रतया वा रूड्ःआः प्रादुर्भूताः, रुहेः प्रादुर्भावार्थकत्वात्, सच्चिदानन्द-विग्रहे विकारासंभवात् । अन्तर्-भूतानन्त-तादृश-विलास-धर्माणां लीलानुरूप्येण केवलाविर्भाव-तिरोभाव-सम्प्रतिपत्तेश् च । अम्बुरुह--रूपेण तस्यापि जल-बिन्दुभिर् यथा शोभा स्यात्, तथेति ध्वन्यते । मूर्त्या वीर-रस-श्रियैव बभौ ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दन्त-युक्त-वाम-पाणिः, द्वितीय-दन्तोऽस्य श्री-बलदेवेनोत्पाट्य गृहीत इति ज्ञेयम्, गज-दन्त-वरायुधौ [भ।पु १०.४३.१६] इति वक्ष्यमानत्वात् । सम्यक् मत्त-गजेन्द्र-गत्या शोभा-विशेषेण च आ ईषत्, द्वारान्त आविशत् प्रविवेश । शोभा-विशेषम् एवाह—अंसेति । अंसो वाम-स्कन्धः, अङ्कितश् चित्रैर् इव भूषितो विशेषेण विचित्रतया व रूढाः प्रादुर्भूता इति स्वेद-कणिकानाम् अपि श्री-मुख-भूषणतया केवलम् आविर्भाव-तिरोभाव-मात्रत्वेनानन्द-रूपत्वं बोधयति । अम्बुरुह-रूपकेण कमलस्यापि जल-सम्पर्काल् लग्नैर् जल-बिन्दुभिर् यथा शोभा स्यात्, तथेति ध्वन्यते ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृतकम् इत्य् अर्धकं दन्त-युक्त-वाम-पाणिः । द्वितीय-दन्तोऽस्य श्री-बल-देवेनोत्पाट्य गृहीत इति ज्ञेयं गज-दन्त-वरायुधौ [भ।पु १०.४३.१६] इति वक्ष्यमाणत्वात् । सम्यक् मत्त-गजेन्द्र-गत्या शोभा-विशेषेण च आ ईषद् द्वारान्तः आविशत् प्रविशेश । शोभा-विशेषम् आह--अंसो वाम-स्कन्धः अङ्कितः विचित्रेर् इव भूषितः विशेषेण विचित्रतया वा रूढाः प्रादुर् भूताः । रुहेः प्रादुर् भावार्थत्वात् सच्चिदानन्द-विग्रहे विकारासम्भवात् अन्तर्भूतानन्ततादृश-विलास-धर्माणां लीलानुरूप्येण केवलाविर्भाव-तिरोभाव-सम्प्रतिपत्तेश् च । अम्बुरुह-रूपकेण तस्यापि जल-बिन्दुभिर् यथा शोभा स्यात्, तथा इति ध्वन्यते ॥१५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १३१-१३२) : तद् एवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्-आदिकस्य तस्मिन् परम-साधु-गुणे च परम-हृद्य-सुखदत्वात् तद्-धेतुकं कादाचित्कं सत्यादि-वैपरीत्यम् अपि परम-गुण-शिरोमणि-शोभां भजते । तत्र शौच-विरोध्य् अपि गुणो यथा—अंस इत्य्-आदि । स्पष्टम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अंस-न्यस्त-विषाणः स्कन्धार्पित-गज-दन्तः असृजो मदस्य च बिन्दुभिः परितोऽङ्कितः विरूढा उद्गताः प्रस्वेद-कणिकास् ताभिर् नीहार-कणिकाभिर् इवोपलक्षितं वदनाम्बुरुहं यस्य, स मूर्त्या वीर-रस-श्रियेव बभौ ॥१५.१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.१६ ॥
वृतौ गोपैः कतिपयैर् बलदेव-जनार्दनौ ।
रङ्गं विविशतू राजन् गज-दन्त-वरायुधौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं स एकः समाविशत्, किन्तु वृतौ गोपैर् इति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कतिपयैर् अल्प-सङ्ख्यैः । प्रवेशे पूर्वतो विशेष-विवक्षया उक्त-शेष-न्यायेनाह—वृत्ताव् इति । कतिपयैर् इति वृद्धानां श्री-व्रजेन्द्रेण सह गमनात् । स-वयसाम् अप्य् अत्यासन्नानाम् एव श्री-गोकुलतः सङ्गमनात् । बलदेव इति अनुज-स्नेहेन दुष्ट-वधार्थं बल-विशेष-प्रकटनात् । जनार्दन इति जनैर् निज-भक्तैः श्री-नारदादिभिर् अर्द्यते कंस-वधार्थं याच्यते यः, स तथा । राजन्न् इति हर्षेण सम्बोधयति । गजस्य दन्ताव् एव तन् मारण-साधनतया कंसादौ भयदत्वेनासे गृहीततया च वरे आयुधे ययोः । यद् वा, गजदन्तौ श्रेष्ठाव् आयुधे ययोस् तौ ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रवेशे पूर्वतो विशेष-विवक्षया उक्त-पोष-न्यायेनाह—वृताव् इति । कतिपयैर् इति श्री-नन्दादि-वृद्ध-वर्ग-व्यतिरिक्तत्वेनासाकल्यात् । यद् वा, दुष्ट-गज-युद्धे श्री-कृष्णस्य्स श्रमादिकं स्नेह-भरेण द्रष्टुम् अशक्ष्यतां विविध-शङ्कां प्राप्स्यतां च केषाञ्चित् सखीनां श्री-भगवतैवाग्रे श्री-नन्दादि-सङ्गत्या रङ्गे प्रस्थापनात् रङ्ग-स्थलं प्राविशताम् । बलदेव इत्य् अनुज-स्नेहेन दुष्ट-वधार्थं तदानीं बल-विशेष-प्रकटनात् । जनार्दन इति जनान् दुष्ट-दैत्यादीन् अर्दयति हन्तीति कर्तव्य-कंसादि-वधाभिप्रायेण । यद् वा, जनैर् निज-सेवकैः श्री-नारदादिभिर् अर्द्यते कंस-वधाद्य्-अर्थं याच्यते इति श्री-बलदेवस्यादाव् उक्तिः, ज्येष्ठ-क्रमेण प्रवेशात्, स्नेहेनाग्रे गमनाद् वा । राजन्न् इति दुष्ट-वध-पूर्वक-शोभा-विशेषेण रङ्ग-मध्ये श्री-भगवतः प्रवेश-श्रवणाद् अन्तः-सन्तोषेण विद्योतमानं श्री-परीक्षितं दृष्ट्वा स्वयम् अपि प्रहर्षेण सम्बोधयति । गजस्य दन्ताव् एव वरे असाधारणत्वाच् छ्रेष्ठौ आयुधे ययोस् तौ ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रवेशे पूर्वतो विशेष-विवक्षयोक्त-पोष-न्यायेनाह । वृताव् इति कतिपयैर् इति वृद्धानां श्री-व्रजेन्द्रेण सह गमनात् सवयसाम् अप्य् अत्यासन्नानाम् एव श्री-गोकुलतः सङ्गमनात् । बलदेव इत्य् अनुज-स्नेहेन दुष्ट-वधार्थं तदानीं बल-विशेष-प्रकटनात् । जनर्दन इति जनैर् निज-भक्तैः श्री-नारदादिभिर् अर्द्यते कंस-वधार्थं याच्यते यः, स तथा । राजन्न् इति हर्षेण सम्बोधयति । गजस्य दन्ताव् एव तन्-मारण-साधनतया कंसादौ भयदत्वेनांस-गृहीततया च वरे आयुधे ययोः । यद् वा, गज-दन्त-श्रेष्ठौ आयुधे ययोस् तौ ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.१७ ॥
मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्व-जनोऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः ।
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां
वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र च शृङ्गारादि-सर्व-रस-कदम्ब-मूर्तिर् भगवान् तत्-तद्-अभिप्रायानुसारेण बभौ, न साकल्येन सर्वेषाम् इत्य् आह—मल्लानाम् इति । मल्लादीनाम् अज्ञानां द्रष्टॄणाम् अशन्य्-आदि--रूपेण दशधा विदितः सन् साग्रजो रङ्गं गत इत्य् अन्वयः । मल्लादिष्व् अभिव्यक्ता रसाः क्रमेण श्लोका निबध्यन्ते ।
रौद्रोऽद्भुतश् च शृङ्गारो हास्यं वीरो दया तथा ।
भयानकश् च बीभत्सः शान्तः स-प्रेम-भक्तिकः ॥
अविदुषां विराट् विकलः पर्याप्तो राजत इति तथा, अनेन बीभत्स-रस उक्तः । विकलत्वं च, क्व वज्र-सार-सर्वाङ्गौ [१०.४४.८] इत्य्-आदिना वक्ष्यते ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र च प्रवेश-समये । कदम्बकं समुदायः—कदम्बं निकुरम्बे स्यान् नीप-सिद्धार्थयोः पुमान् इति मेदिनी । निकुरम्बं समूहः । तत्-तद्-अभिप्रायानुसारेण मल्लाद्य्-अभिप्रायानुरोधेन । साकल्येन रस-समूह-मूर्तित्वेन । प्रेम-भक्त्या तन्-नामक-रसेन सह वर्तत इति स-प्रेम-भक्तिकः । अनेन विकलत्व-कथनेन । उक्तो द्योतितो, न तु भगवति बीभत्सत्वं सङ्गच्छतेऽतीव-रम्यत्वाद् इति भावः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मल्लानाम् इति । अविदुषां तन्-महिमानभिज्ञानाम् । विराट् राजमानं राट् दीप्तिः । विगता राट् यस्य स तथा, भीत इति यावत् । अनेन बीभत्स-रसो बोद्धव्यः । श्री-कृष्णं प्रति भीतत्व-ज्ञानम् एव जुगुप्सा-विषयः । यद् वा, अविदुषां श्री-कृष्ण-तत्त्वम् अजानताम्, केवलं विराड् इति विराड्-रूप एवायम् इति विदितः । तथा-भूते परम-प्रेमास्पदे विराड्-भावं जुगुप्सा-विषयत्वात् बीभत्स-रसो भवितुम् अर्हतीति दश-रस-सिद्धौ स्वाभिमत-सङ्गतिः ॥१७.२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मल्लानाम् इति तैर् व्याख्यातम् । दया करुण इत्य् अर्थः, सप्रेम-भक्तिः प्रीताख्यो रसः । तत्र मल्लानां परम-शूरम्मन्यतया गर्वितानाम् अशनि-तुल्याङ्गत्वेन हरेः परिज्ञानाद् विस्पर्धमानानां तदीय-सलील-प्रवेशेनावज्ञातम् इवात्मानं मन्यमानानां चाऊरादीनां क्रोधः नृणां द्वेषिव्यतिरिक्तानां पौरादीनां लोकोत्तर-रूप-विलासादि-दर्शनेन विस्मयः स्त्रीणां प्रियताख्या रतिर् व्यक्तैव, गोपानां श्रीदामादीनां स्वजनो वयस्यः, ततो गज-रक्त-मद-विन्दु-दन्तादि-जातेन विलक्षण-वेशेन महा-विक्रम-भाजोऽपि श्रमाभि-व्यञ्जकेन स्वेदेन च तेषां हासः, असतां राज्ञां तस्य शास्तृत्व-ज्ञानाद् वीर्यातिशय-दर्शनेन युद्धोत्साहः, पित्रोर् देवकी-वसुदेवयोः श्री-गोपेन्द्र-वसुदेवयोर् वा मल्लादि-दौरात्म्य-ज्ञानेन शिशुत्वात् तदीयमार्दवादि-ज्ञानेन च शोकः, कंसस्य मूर्तो मृत्युर् मृत्युर् हेतुर् वा, तेन भयं व्यक्तम् एव ।
अविदुषाम् अत्यनभिज्ञानां विकलत्वज्ञानेन जुगुप्सा । यद् वा, अविदुषां सच्चिदानन्द-विग्रहं तम् अजानतां प्राणाद्य्-उपासकानां केषाञ्चिन् मुनि-प्रायाणां विराट् ब्रह्माण्ड-रूपम्, तेन विकारि-पाञ्चभौतिकत्व-मात्र-दृष्ट्या जुगुप्सा । यद् वा, अविदुषाम् आसुर-प्रकृतीनां पवित्रं-मन्यानां केषाञ्चित् विराट् विपरीतो राजते, स्वेद-मद-रक्ताद्य् अङ्कितत्वाद् अशस्ततयेव दुष्ट-सत्त्वेषु प्रतिभानात् जुगुप्सा ।
योगिनाम् अभेद-दृष्टीनां केवल-ज्ञानवतां परं तत्त्वं ब्रह्म । यद् वा, भेदाभेद-दृष्टीनां ज्ञान-भक्तानां तत्त्वं ब्रह्म, पर-तत्त्वं परं ब्रह्म चिद्-आनन्द-घन-विग्रहः । तेन शान्तिः ।
वृष्णीनाम् उद्धवाक्रूरादीनां परमाराध्यः । तेन प्रीतिः इति । अथवा—
रौद्रोऽद्भुतः शुचिर् अथ प्रिय-युक्त-हास्यो
वीरोऽथ वत्सल-युतः करुणो भयाङ्कः ।
वीभत्स-संज्ञ उदितोऽथ तथैव शान्तः
प्रीतस् तथा दशरसाद्वियुताः क्रमेण ॥
अत्र शुचिः शृङ्गारः । प्रियेण प्रेयो-नाम्ना रसेन युक्तो हास्यः । भयाङ्को भयानकः ।
तत्र रस-लक्षणं—
स्थायि-भावो विभावानुभावैश् च व्यभिचारिभिः ।
स्वाद्यत्वं नीयमानोऽसौ रस इत्य् अभिधीयते ॥
कारणान्य् अथ कार्याणि सहकारीणि यानि च ।
तान्य् एव व्यपदिश्यन्ते विभावादि-पदै3 रसे ॥
आलम्बनोद्दीपनाख्ये विभावस्य भिदे उभे ।
आलम्बनोऽपि द्विविधो विषयाश्रय-भेदतः ॥
रसस्य विषयः कृष्णस् तस्यानुभविताश्रयः ।
उद्दीपनो बहु[-]{दिर्=“र्त्ल्”}विधः प्रागल्भ्यं विक्रमो हरेः ।
सौन्दर्य-गुण-सौरभ्य-नूपुर-स्वनितादिकः ।
अनुभावाः सात्त्विकाः स्युर् आङ्गिकाद्याश् च ते द्विधा ॥
स्तम्भः स्वेद्[ओ]{दिर्=“र्त्ल्”}ऽथ रोमाञ्चः स्वर-भेदश् च वेपथुः ।
वैवर्ण्यम् अश्रुः प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥
भ्रू-भङ्गः कुटिलेक्षा च भुजास्फालन-नर्तनम् ।
वक्रोक्ति-श्वास-भूमाद्याः कथिता आङ्गिकादयः ॥
निर्वेदाद्यास् त्रयस्त्रिंशत् कथ्यन्ते व्यभिचारिणः ।
स्थायिनं वर्धयन्तो ये प्रादुर् अन्तर् भवन्ति च ॥
क्रुद् विस्मयो रतिर् हासोत्साहौ शुग् भीर् जुगुप्सितम् ।
स्थायिनोऽभी रसेष्व् अष्टौ ज्ञेया रौद्राद्भुतादिषु ॥
प्रियता-सख्य-वात्सल्य-शान्ति-पृइतय इत्य् अतः ।
पाञ्चविध्याद् इह रतेः स्थायिनो द्वादशोदिताः ॥
शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ रतिर् उच्यते ॥
स मुख्य-गौण-भेदेन कथितो द्विविधो रसः ।
शृङ्गारोऽत्र तथा प्रेयान् वत्सलः शान्त इत्य् असौ ॥
प्रीतश् च पञ्चधा मुख्यो रतेः श्रैष्थ्येन मुख्यता
रौद्रोऽद्भुतस् तथा हास्यो वीरः करुणा-भीषणैः ।
बिभत्सः सप्त गौणाः स्युः क्रोधादेर् यद् इहोन्नतिः ॥
अथ श्लोकोक्त-क्रमेण रसाः संक्षेपेण लिख्यन्ते । तत्र रौद्रे वज्र-तुल्याङ्गत्वात् परमोज्ज्वलतया विदितो हरिः क्रोधस्य विसायः, वाढम् अवज्ञातम्मन्या मल्ला आश्रयः, परावज्ञादिभिश् चित्तोज्ज्वलनं क्रोधः, सोऽत्र स्थायी भावः, अद्भुते लोकोत्तर-रूप-लीलाद्य् आस्पदतया विदितो हरिर् विस्मयस्य विषयः, प्रायेणानुकूलाः पौरादयो नरा आश्रयः, लोकोत्तरार्थ्य-दर्शनादिना चित्तस्य विस्तारो विस्मयः, सोऽत्र स्थायी, शृङ्गारे कन्दर्प-कोटि-विलासवत्तया विदितोऽयं प्रियताया विषयः, युवत्य आश्रयः, र्तिर् एव सम्भोग-हेतुतां गता । प्रियता, सात्र स्थायी भावः । हास्ये स्वजनतया विदितः करिमद-रक्त-दन्तैर् विलक्षण-वेश-चेष्टितोऽयं हासस्य विषयः, श्रीदामादय आश्रयः, तादृग् वेषादि-दर्शनाच् चित्तस्योत्फुल्लता हासः, सोऽत्र स्थायी । प्रेयसि स्वजनतया वयोवेषादिभिः साम्येन विदितोऽयं सख्यस्य विषयः, श्रीदामाद्याः सखाय आश्रयः, सम्भ्रमानुग्रहाभ्यां शून्या विस्रम्भ-रूपा रतिः सख्यम्, तद् अत्र स्थायी तेन गोपानां हास्यः प्रेयांश् चेति रस-द्वयम्, वीरे सर्वशास्तृत्वान् महा-विक्रम-शालित्वेन विदितोऽयम् उत्साहस्य विषयः, कंस-सखा असन्तः क्षिति-भुज आश्रयः, सौर्यादि-दर्शनेन परमोत्कट-युद्धेच्छा उत्साहः सोऽत्र स्थायी । करुऽने शिशुत्वात् परमानिष्ट-प्राप्तेः पदतया विदितोऽयं शोकस्य विषयः, तद्वेदिता पित्रादिर् आश्रयः, तादृशत्व-ज्ञानेन चित्त-क्लेशभरः, शोकः, सोऽत्र स्थायी । वत्सले पुत्र-बुद्ध्यो विदितोऽयं वात्सल्यस्य विषयः, पित्रादिर् आश्रयः, रतोर् एवानुग्रहमयी वात्सल्यम् तद् अत्र स्थायी, तेन पित्रोश् च करुणो वत्सलश् चेति रस-द्वयम् । भयानके मृत्यु-रूपत्वान् महा-घोरतया विदितोऽयं भयस्य विसायः, सापराधो भीरु-स्वभावः कंसादिर् अप्य् आश्रयः, घोर-दर्शनापराधादिना जातं चित्तस्य चाञ्चल्यं भयम् तद् अत्र स्थायी
बीभत्से स्वेद-मद-रक्ताद्य् अञ्चितत्वेन कुत्सितास्पदतया विदितोऽयं जुगुप्साया विषयः, अविद्वांसोऽत्रासुर-सत्त्वाज्-जुगुप्साया आश्रयः, भक्तैः परम-शोभास्पदत्वे ज्ञायमानेऽपि तथा-भूते हरौ तादृशी बुद्धिर् आसुर-सत्त्वानाम् एवाहृद्याद्य् अनुभवादिना चित्तस्य निमीलनं जुगुप्सा, सात्र स्थायी । शान्ते परमात्मतया विदितः सच्चिदानन्द-घन-विग्रहो भगवान् शान्तेर् विषयः, योगिन आश्रयः, शमात्मिका रतिर् एव शान्तिः, सात्र स्थायी ।
प्रीतेः परम-देवतात्वात् प्रभुत्वेन विदितोऽयं प्रीतेर् विषयः श्रीमद् उद्धवाक्रूरादय आश्रयः, सम्भरम-गौरवादिमयी रतिर् एव प्रीतिः सात्र स्थायी, प्रति-रसम् उद्दीपनानुभावादयो विस्तरभयान् न प्रपञ्चिताः । किम् च, गोपानां प्रेयान् रसस् तथा पित्रोर् वत्सलो रसश् चात्र व्यक्तोऽपि स्वामि-पादैः प्रत्येकम् एकैकरसाश्रय-कथन-प्रस्तावान्नोद्दिष्टः, तस्मिन्न् अवसरे हि हास्य-करुणयोर् एव योग्यत्वात्, प्रेयोवत्सलयोर् विरल-प्रचारत्वाच् च । केचित् तु ब्रह्मादीनाम् अपि ध्यानागोचर-चरण-नखमयुखः श्री-भगवान् गोपानां स्वजनः इति श्रोतॄणाम् एव हास्य-रसः, तथा लोकोत्तर-महा-शक्ति-वृन्द-पूर्णोऽप्य् अत्यज्ञानां विकल इति श्रेतॄणाम् एव वीभत्सरस इति प्राहुः । तत् तु न समञ्जसम् । किं च, रौद्र-वीर-भयानक-वीभत्सख्या रसा रति-सम्बन्धाभावाद् इह रसाभासा एवेति । रसानां प्रपञ्चस् तु रसामृत-सिद्धौ सुव्यक्तः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मल्लानाम् इति तैर् व्याख्यातम् । तत्र सर्व-रस-कदम्ब-मूर्तिर् इति कार्य-कारणाभेदात् । रसो वै सः रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.८] इति श्रुतेः । विशेषश् चैवं—
१) मल्लानां परम-शूरं-मन्यतया गर्वितानाम् अवज्ञात-चरस्याप्य्
अशनि-तुल्याङ्गत्वेन हरेः स्फुरणाद् अशनिवद् विरोधि-जनम् अवगणय्य प्रवेशाच् च मल्लानां क्रोध-स्थायि-भाव-मयो रौद्रः ।
२) नॄणां तद्-द्वेषि-तदीयं-मन्य-व्यतिरिक्तानां पौरादीनां
लोकोत्तर-विलासादि-दर्शनेन विस्मय-स्थाय्य् अद्भुतः ।
३) स्त्रीणां मान्यादि-व्यतिरिक्तानां स्मरत्वेन प्रिय-भाव-मयी
रतिर् व्यक्ता, ततस् तत्-स्थायी शृङ्गारः ।
४) गोपानां श्रीदामादीनां स्वजनो वयस्यः ।
५) ततः सङ्कुचित-चित्ततया
गज-रक्त-मद-बिन्दु-दन्तादि-जात-विलक्षण-वेश-दर्शनेन तेषां हास-स्थायि-भावो हास्यः ।
६) असतां राज्ञां शास्तेति तद्-वीर्यातिशय-दर्शनेन
युद्धोत्साह-मयो वीर-रसः ।
७) पित्रोः श्री-देवकी-वसुदेवयोः श्री-नन्द-वसुदेवयोर् वा
तद्-उपलक्षणत्वेन तत्-सम-वासनानाम् अन्येषाम् अपि शिशुत्व-स्फूर्तेस् तदीयम् आर्द्रव-ज्ञानेन मल्लादि-दौरात्म्य-शङ्कया शोक-स्थायी करुणः ।
८) एष एव दया-शब्देन लक्षितः ।
९) कंसस्य मृत्युस् तद्-धेतुस् तस्य कृते भय-स्थायी भयानकः ।
१०) अविदुषां सच्-चिद्-आनन्द-विग्रहत्वेन विद्वद्-गण-संमतेऽपि
तस्मिन् विकलत्व-मननेन भौतिक-निर्णयाज् जुगुप्सा स्थायी बीभत्सा ।
११) योगिनां ज्ञानि-भक्तानां परं तत्त्वं पर-ब्रह्म-विग्रहः,
तेन शान्ति-स्थायी शान्तः । शमो मन्-निष्ठता बुद्धेर् इति शान्ति-शब्दस्य तन्-निष्ठ-बुद्धिता-वाचित्वेन तन्-निष्ठायाश् च तत्-प्रीति-मात्र-जन्यत्वेन दास्य-सख्यादि-भाव-विशेषानिर्देशेन चाखिलान्य-वासना-शान्ति-पूर्वकस् तत्-स्वरूपैकावलम्बनः प्रीति-विशेष एव शान्तिर् इत्य् उच्यते । सास्यास्तीति अर्ष आदित्वाद् अच् ।
१२) वृष्णीनां परमाराध्य इति स-प्रेम-भक्तिकः । भक्तिर्
आराध्यतया ज्ञानम् । प्रेमात्मिका भक्तिः ।
प्रेम-भक्तिः तया स्थायि-रूपया सह वर्तत इत्य् अतोऽयं रस-सङ्ग्रह-श्लोकः—
रौद्रोऽद्भुतः शुचिर् अथो धृति-सख्य-हासा
वीरोऽथ वत्सल-युतः करुणो भयाङ्कः ।
बीभत्स-संज्ञ उदितोऽथ तथैव शान्तः
स-प्रेम-भक्तिर् इति ते द्व्य्-अधिका दश स्युः ॥ इति ।
अत्र क्रमं विना निर्देशस् तत्रोच्चावच-जनानां दृष्टि-पातस् तथैव जात इति विवक्षया ।
अथवा, अथ ये तत्र प्रतिकूल-ज्ञानाः अज्ञाना स-ज्ञाना अनुकूल-ज्ञानाश् चेति सामान्यतश् चतुर्विधास् तद्-अवान्तर-भेदेन विशेषतो दश-विधा द्रष्टारः सन्ति । तेषम् असौ यथा-योग्यं पृथक् पृथक् तत्-तद्-धर्म-प्रकटनेनाविर्बभाव् इति तादृङ् मधुर-विलासे परमैश्वर्यम् अपि दर्शयति—मल्लानाम् इति ।
तत्र मल्लाः कंस-पक्षीयाः स-क्षितिभुजः कंसश् च प्रतिकूल-ज्ञानाः परम-सुख-विग्रहे तस्मिन्, तथा तथा दुःखदत्वायोगात् । किन्तु तमो-दूषित-दृष्टयः तस्मिन् विपरीतम् एव धर्मं प्रतियन्ति । खण्दे पित्त-दूषित-जिह्वायास् तिक्तत्वम् इव तत्र मल्लानां स्वाङ्ग-स्पर्शातिकर्कशत्वादिना सर्व-यादवादि-साधु-गणस्य, तथा तस्यापि पराभवं भावयतां ततोऽप्य् अतिकर्कशत्वादित्वं प्रकटितम् इत्य् अशनिः ।
असतां साधूनाम् एव शास्तिं कुर्वतां, तत एवानधिकारिणाम् अपि बलाद् एव । क्षिति-भुजां तद् उपभोग-कतॄणां श्लेषेण ताम् अभ्यवहरताम् इव शास्ता दण्ड-कर्ता । भोज-पतेश् च राक्षस-दैत्यादि-निज-गण-द्वारा स्वयं चानेक-साधूनां मृत्यु-हेतुत्वेन स्व-मात्रादौ स्वस्मिंश् च तथोद्यम-कारित्वेन प्रसिद्ध्यस्य, अतः श्लेषेण सर्वङ्गिलानां श्रेष्ठस्येत्य् अर्थः । तस्य मृत्युर् यम इव । अथ न द्वेषिणो, न च स-ज्ञाना, न चानुकूल-ज्ञाना याज्ञिक-ब्राह्मणा इव केचिद् अविद्वांसः तादृश-तत्-स्वरूपानुभूते सुखोदयाभावायोगान् न जानन्त्य् एव, किं तु तादृशत्वानुभावक-तच्-छक्ति-विशेष-प्रसादालाभेन यत् किञ्चिन् नृ-बालकत्वेनैवानुभवन्ति तेषां विराट् विराड्-अंश-नृ-बालक-विग्रहः ।
अथ स-ज्ञाना आकाश-स्थित-योगिनः सनकादयः, ते तु सर्वाश्रय-भूततया जानन्तीत्य् आनुकूल्यांशस्य नातिसम्भवात् । केवल-तज्-ज्ञान-मात्राः, तेषां परं तत्त्वम् अखण्ड-स्वरूप-तल्-लक्षणं गुणानां पिण्ड-रूप-श्री-भगवद्-आकारत्वेन केवल-स्वरूप-मात्राविर्भाव-ब्रह्माकारतोऽपि श्रेष्ठं वास्तव-वस्त्व् इत्य् अर्थः । अथ नर-वरः स्थियो वृष्णयः पितरो गोपाश् चानुकूल-ज्ञानाः । तथा तथा ज्ञानस्यानुकूल्यमयत्वात् तेषां तद् रूप इति स्वाभाविकानन्त-माधुरी-प्रभाव-वृन्दस्य तस्य तांस् तान् प्रति तत् तद् उल्लासात् यद् यद् अंशाभाभास-लाभेन जीवा अपि तथा तथा रोचन्ते । तत्र नृणाम् इतरानुकूल-चतुष्टय-व्यतिरिक्तानां साधारणां निरीक्ष्य ताव् उत्तम-पुरुषौ जना इत्य्-आदि । वक्ष्यमाणानां मध्ये केषाञ्चित् पुरुषाणां महान् अयं इत्य्-आदि वक्ष्यमाण-वचनानां मध्ये कासाञ्चित् स्त्रीणाञ्चेत्य् अर्थः । तेषां नर-वरः नर-श्रेष्ठः एषां ज्ञानित्वं प्रभाव-माधुर्यांश-ज्ञानेनैव तच् छ्रेष्ठत्वावगमात् आनुकूल्यत्वं च तथा तथा वचनात् । एवम् उत्तरोत्तरत्रापि तारतम्येन तत्त्वे ज्ञेये । स्त्रीणां तादृश-वाक्यानां मध्ये गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदि वचनानां कासाञ्चित् स्मरस् तद् धेतु-माधुरी-विशेष-प्रकाशनेन श्री-कृष्णावभासित्ते चेतसि प्राकृत-स्मर-वेषताया अधिकार-सामर्थ्येन च स्वयम् एतद् रूपः । अत एवाह मूर्तिमान् इति । मृत्युत्येन त्व् इदं न विशेष्यत्वेऽयथावत्त्वात् । परतत्त्वेऽपि न तेन सह मूर्तेर् अभेदात् । वृष्णीनां तत् प्रधानानां यादवानां परदेवता-परमैश्वर्य-स्फुरणेन सम्बन्ध-स्फुरणस्यावृत-प्रायत्वात् । परा सर्वतः प्रेष्ठा या देवता स्वयं भगवत्त्वेन निजाराध्या सैव स्वयम् । अतः पित्रोः यदु-कुल-लीलायां पितृत्वेन प्रसिद्धयोः श्री-वसुदेव-देवक्योर् वृष्णि-श्रेष्ठत्वेन तज् जन्म-लाक्षणम् आरभ्य तादृश-स्तुत्यादि-श्रवणेनैश्वर्य-ज्ञानाच् चावृतवात्सल्ययोर् अपि शिशुर् इति तदानीं तादृश-सङ्कट-समये श्री-नन्दादि-सङ्गेनव शुद्ध-वात्सल्यस्योल्लासाद् इति ज्ञेयम् ।
स्व-शब्दोऽत्र वृष्णिभ्योऽन्तरङ्गत्व-व्यञ्जनाय स्वपित्रोर् इति क्वचित् पाठः । अत्र विशेष्य-पदं नाध्याहार्यं गोपानां श्री-नन्दादीनां श्रीदामादीनां च स्वजनः पुत्रादि-रूपो मित्रादि-रूपश् चेति तेषां स्वभावोक्तः । तथा तथैवं श्री-गोकुल-लीलायां श्री-मुनीन्द्रादिभिस् तेषाम् असकृत् प्रशस्तत्वात् तद् अपेक्षयान्येषां कनिष्ठीकृतत्वाच् च अत्र चैवं ज्ञेयम् उक्ता भावास् तावत् त्रिविधाः प्रतिकूल-ज्ञानानां प्रीति-विरोधिनः अज्ञानां प्रीत्य् उदासीनाः । अन्योभयेषां प्रीत्यात्मका इति । तत्राद्यानाम् अशनित्वशास्तृत्व-मृत्युत्वभानाद् भय-प्राया एव लक्ष्यन्ते तच् च तेषां भयं रसतां न प्राप्नोति । प्राकृत-रस-शास्त्रविदः श्रव्य-काव्य-दर्शनौ येषु दृश्य-काव्यानुकार्येषु च नलदमयन्त्यादिषु रसोत्पत्ति न रसं प्रतिपद्यन्ते किन्तु तत् तत्-काव्यानुभवितृष्व् एव तेष्व् अपि तत् सवासनेष्व् एव सम्प्रति पद्यन्ते मल्लादि सवासनास् तु न भगवत् काव्याधिकारेण इति श्री-भागवत-रस-विदस् तु तादृशं भावं द्वेष्यत्वेनैव मन्यन्ते । वस्तुतश् च दुःख-रूप एवासाव् इति न सुख-स्वरूप-रसताम् अर्हति । अथाज्ञानाम् अवज्ञैव सापि रसतां न प्राप्नोति । अथान्योभयेषां प्रीत्यात्मकत्वेनैक्येऽपि तत् तद् विशेषात् पञ्च भेदाः । योगिनां ज्ञान-भक्तस्य परपर्याया शान्तः । वृष्णीनां तद् उपलक्षित-भक्तिमतां प्रेम-पर्याया भक्तिः मित्राणां सख्यं पित्रादीनां शिशुत्व-पुत्रत्व-भावनामय-प्रीतिमतां वात्सल्यं स्त्री-विशेषाणां प्रियता भावनामयीर् अतिति । यत्र तु वैशिष्ठ्यं न जातं तत्र शुद्धैव प्रीतिः तथा नृणाम् इति षट् । एष च प्रीत्यात्मकः सर्वोऽपि भावो रसतां प्राप्नोत्य् एव ब्रह्मानन्दतोऽपि स्वत एव परमानन्द-रूपत्वात् । प्राकृत रस-शास्त्र-ज्ञानाम् अपि यत् किञ्चिद् आनन्द-रूपत्वेनैव प्रीत्यादीनां रसतां प्राप्नोत्य् एव ब्रह्मानन्दतोऽपि विभावादि-सद् भावश् चात्र स्वत एव परमालौकिकः । अतः प्राकृत-रसवत् कविकृत्रिमालौकिकत्वम् अपि नापेक्ष्यते । अतोऽत्र वर्णनीयानुकार्ययोर् एव मुख्या रसोत्पत्तिः । एष एव भागवत-रसो नाम कौमुदीकारादिभिर् दर्शितः । मूलेऽपि पिवत भागवतं रसम् आलयम् इत्य् आदौ । तत्रोदार्हरणं च—
स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या विभ्रत्य् उत्पुलकां तनुम् ॥
क्वचिद् रूदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [११.३.३१-३२] इति ।
अत्र हरिर् आलम्बनो विभावः स्मरणम् उद्दीयनो विभावः विशेषेण भावयति रसम् इति विभाव-शब्दस्यार्थः । स्मरणादिक उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकाख्यः अनुभगवयति ज्ञापयति रसम् इति तच् छब्दार्थः चिन्तादयः सञ्चारिभावः रसे सम्यक् चरन्तीति सञ्जातया भक्त्येति स्थायी भावः सर्वाश्रयत्वात् स्थातुं शीलम् अस्येति । भवन्ति तूष्णीं परमेत्य निर्वृता इति तत्-सम्बलनं परम-रसात्मकं वस्त्व् इत्य् अर्थः । एवं—
भगवद्-दर्शनाह्लाद-बाष्प-पर्याकुलेक्षणः ।
पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्यानेऽपि हि नाशकद् । [भा।पु। १०.३८.३५] इत्य्-आदि ।
एवं प्रीतेर् ऐक्येन तन्मय-रसस्याप्यैक्यं तद् भावानां षोढाभेदेन रसा अपि षोढाः । यथा शान्ति-स्थायी शान्तः प्रेम-भक्ति-स्थायी सप्रेम-भक्तिकः । सख्य-स्थायी सख्यमयः । वात्सल्य-स्थायी वत्सलः । रति-स्थायी शृङ्गारः । अवशिष्ठ-प्रीति-स्थायी तु प्रीतिमय एव । अथ येऽन्येद्भुतादयो भागवताः सप्त रसास् तेऽपि तेषु भगवत् प्रियजनेषु भगवत् प्रीतैर् एवाविर्भवन्ति तत्रैव च तिरोभवन्तीति तत् तद् रस-सञ्चारिभाव-प्राया गौणत्वान्नात्र गण्यन्ते । तद् विराधि-तद् उदासीन-भावो तु तज् ज्ञानायैव दर्शिताव् इति । एते च भाव-रसाः प्रायः सञ्ज्ञान्तरेण परिभाष्य रसामृत-सिन्धौ श्री-मद्-भ्रातृ-शुभाशयैर् विस्तरतः करतल इव दर्शिताः । सङ्क्षेपतस् तद्-अर्थ-सङ्ग्रह-श्लोकाश् चैते ।
स्थायी भावो विभावानुभावैः सञ्चारिभिस् तथा ।
स्वाद्यत्वं नीयमानोऽसौ रस इत्य् अभिधीयते ।
कारणान्य् अथ कार्याणि सहकारीणि यानि च ।
तान्य् एव व्यपदिश्यन्ते विभावाद्य् आख्यया रसे ।
आलम्बनोद्दीपनाख्ये विभावस्य भिदे उभे ।
आलम्बनौ च द्विविधौ विषयाश्रय-भेदतः ।
रसस्य विषयः कृष्णस् तस्यानुभविताश्रयः ।
सचणुभविता प्रेम्णा यः श्रेष्ठोऽन्यस्पृहाकरः ।
उद्दीपनास् तु सम्बन्धि-पदार्थाः कंस-वैरिणः ।
अनुभावाः सात्त्विकाः स्युराङ्गिकाश्चेति ते द्विधा ।
स्तम्भः स्वेदोऽथ रोमाञ्च स्वर-भङ्गोऽथ वेपथुः ।
वैवर्ण्यम् अश्रुप्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ।
नृत्यं विलुठितं गानं श्वास-हासादयोऽपि च
आङ्गिका अनुभावास्ते यथायथम् उदीरिताः ।
निर्वेदश् च विषादश् च दैन्यं ग्लानिस् तमो मदः ।
गर्वः शङ्का त्रास-वेगा उन्मादापस्मृती तथा ।
व्याधिर् मोहो मृतिश् चैव आलस्यं जाड्यम् इत्य् अपि ।
व्रीडावहित्था स्मरणं वितर्कश् चिन्तनं मति ।
हिंसौत्सुक्यत्वौग्र्यमर्षासूयाश् च धृति-चापले ।
निद्रा च सुप्तिर् आलस्यम् इतीमे व्यभिचारिण ।
निर्वेदाद्यास् त्रयस्त्रिंशद् भावाः स्युर् व्यभिचारिणः ।
स्थायिनं वर्धयन्तो ये प्रादुःषन्ति तिरोऽपि च ।
आनुकूल्यात्मका याचिर् लोप्सोल्लासम् अधर्मिका ।
स स्थायी तारतम्येन रतिः प्रेमादि-नाम-भाक् ।
रतिः प्रेम तथा स्नेहः प्रणयो मान-रागकौ ।
अनुराग-महा-भावाव् एते भाव-क्रमा मताः ।
शान्तिः प्रीतिस् तथा सख्यं वात्सल्यं प्रियता च सः ।
ज्ञानादर-स्व-तुल्यत्व-कृपा-वल्लभ-भावतः ।
शान्तः प्रीतस् तथा प्रेयान् वत्सलो मधुरो रसाः ।
सामान्याद् भक्ति-शब्दोक्तः स्थायी भक्ति-रसो मतः ।
विस्मयो हास्य उत्साह-क्रोध-भीत-घृणा-गौण-रसाः क्रमात् ।
श्री-कृष्ण-विषयत्वं तु भक्ति-द्वारात्र सम्मतम् ।
क्वचित् स्वतोऽपि येन स्यात् स्थायिनो नहि दूषणम् ॥ इति ॥१७॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ९९) : न च सर्वापि भगवत्ता सर्वेणोपास्यते अनुभूयते वा, अपि तु स्व-स्वाधिकार-प्राप्तैव, अनन्तत्वाद् अनुपयुक्तत्वाच् च । अत एव वेदान्तेऽपि गुणोपासना-वाक्येषु तत्-तद्-विद्यायां गुण-समाहारः पृथक् पृथग् एव सूत्र-कारेण व्यवस्थापितः । तथैवोक्तं—
यस्य यस्य हि यः कामस् तस्य तस्य ह्य् उपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ इति ।
तथा मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य् आदौ च टीका चूर्णिका—तत्र च शृङ्गारादि-रस-कदम्ब-मूर्तिर् भगवांस् तत्-तद्-अभिप्रायानुसारेण बभौ, न साकल्येन सर्वेषाम् इत्य् आह इत्य् एषा । अत्र परम-तत्त्वतया जानताम् अपि न सम्यग्-ज्ञानम् इत्य् आयातम् । युक्तं चेदं तत्-तन्-माधुर्य-विशेषाननुभवात् । माधुर्यानुभाविनां भक्तानां तु—यस्यास्ति भक्ति भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य्-आदि-न्यायेनानादृतम् अपि सर्वं ज्ञानं समय-प्रतीक्षकम् एव स्यात् । पूर्वत्रैव पद्ये तेषां परम-विद्वत्ताम् अभिप्रैति । यथा—मल्लानाम् इति ।
अत्र खलु पद्ये त्रिविधा जना उक्ताः प्रतिकूल-ज्ञानाः, मूढाः, विद्वांसश् च । तत्र निरुपाधि-परम-प्रेमास्पदता-स्वभावे तस्मिन् विरोध-लिङ्गेन मल्लानां कंस-पक्षीय्आसत्-क्षिति-भुजां कंसस्य च प्रतिकूल-ज्ञानत्वं बोध्यते । विराड् अविदुषाम् इति पृथग्-उपादानेन विराट्त्व-ज्ञानिनाम् एव मूढत्वम् । पारिशेष्य-प्रमाणेनान्येषां तु विद्वत्तैव । तत्र विराट्त्वं नाम विराद्-अंशे-भौतिक-देहत्वं यत्-किञ्चिन्-नर-दारकत्वम् इत्य् अर्थः । अतस् तत्र मूढता । ते च भगवद्-याच्ञाम् अश्रद्दधानैर् याज्ञिक-विप्रैः सदृशाः ।
केचित् तद्-अवज्ञातारो न द्वेष्टारो न च प्रीयमाणाः । अत्र तेषां भौतिकत्व-स्फूर्तौ भक्तानां जुगुप्सां जायत इति बीभत्स-रसश् च भगवता पोष्यते । नर-वरत्वे तु तन्-माधुर्य-प्रभावयोर् अंशेनैव नरेषु तस्य श्रेष्ठत्वम् अनुभूतम् इति तद्-अनुभव-सद्-भावात् साधारण-नॄणाम् अपि विद्वत्ता । अत एव च सामान्य-भक्ताः । यथैव तेषां प्रीतिर् वर्णिता ।
निरीक्ष्य ताव् उत्तम-पुरुषौ जना
मञ्च-स्थिता नागर-राष्ट्रका नृप ।
प्रहर्ष-वेगोत्कलितेक्षणाननाः [भा।पु। १०.४३.२०] इत्य्-आदिना4 ।
एतेषां प्रजात्वेऽपि प्रायस् तदानीम् अजात-ममत्वान् न पाल्यान्तः-प्रवेशः । अथैवं तेषाम् अपि विद्वत्तायाम् अन्येषां सुतराम् एव सा । तत्रापि किम् उत श्री-गोपानाम् । तथा हि, तत्र नॄणां सामान्य-भक्तानां योगिनां तल्-लीला-दिदृक्षा-गताकाशादि-स्थित-चतुःसन-प्रभृति-ज्ञानि-भक्तानां च ममत्व-सूचक-पद-विन्यासो न कृतः । तथा—
तद् बलाबलवद् युद्धं समेताः सर्व-योषितः ।
ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ [भा।पु। १०.४४.६] इत्य् आदौ ।
क्व वज्र-सार-सर्वाङ्गौ [भा।पु। १०.४४.८] इत्य्-आदि-तद्-वाक्योदाहृतानुकम्पामय-परम-प्रीति-विकाराणां नाना-भाव-स्त्रीणां मध्ये स्मरत्वेन विदित-कृष्णानां गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदिक-गिरां स्त्री-विशेषाणां कान्त-भावाख्य-प्रीतेर् लोक-प्रसिद्ध-स्मरेणापि मिश्रत्वेन श्री-व्रज-देवीवच् छुद्धत्वाभावः । तत्-काल-दृष्टत्वेन ममत्वाभावश् चागतश् च । वृष्णि-पितृ-गोपानां तु तत्-तच्-छब्दैर् ममता-विशेषः सूचितः ।
तस्माद् एतेष्व् एव परम-माधुर्यानुभवेषूत्तमत्वं मतम् । तत्र च गोपानां स्वजनो वृष्णीनां पर-देवतेत्य् अनेन श्री-गोपानां बान्धव-भावापादक-माधुर्य-ज्ञानं स्वाभाविकम्, वृष्णीनां तु पर-देवता-भावापादकैश्वर्य-ज्ञानं स्वाभाविकम् इत्य् अङ्गीकृतम् । सम्बन्धाद् वृष्णयः [भा।पु। ७.१.३०] इति तु तथा गौणस्यापि बन्धु-भावस्य तद्-अनुगतौ स्वतः प्राबल्यापेक्षयोक्तम् ।
किं च, तेषु यथा कंसादयः प्रतिकूल-ज्ञाना वृष्ण्य्-अधमाः । तथैवाविद्वांसः शतधन्व-प्रभृतयः सन्ति । तद्-अपेक्षयैव न यं विदन्त्य् अमी भूपा एकारामाश् च सात्वताः [भा।पु। १०.८४.२३] इत्य्-आदिकं ज्ञेयम् ।
अत उत्तम-वृष्णितया सामान्यतो लब्धम् ऐश्वर्य-ज्ञानम् उत्तमम् एव श्री-वसुदेव-देवक्योः सम्मतम् । ततः तत्-संसृष्टत्वेऽपि लीला-विशेषाद् एव पित्रोः शिशुर् इत्य् अनेन माधुर्य-ज्ञानं व्यज्यते । अतो गौणत्वाद् एव—
नातिचित्रम् इदं विप्रा
वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन् नः
पृच्छति श्रेय आत्मनः ॥ [भा।पु। १०.८४.३०] इत्य्-आदौ श्री-नारदेन तन् नानुमोदितम् ।
राज्ञा तु स्वाभाविकत्वात् श्री-व्रजेश्वरयोस् तद्-अनुमोदितम् । नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य् आदौ । तयोर् ऐश्वर्य-ज्ञानस्य स्वाभाविकत्वं च जन्म-क्षणम् आरभ्य तादृश-स्तुत्य्-आदौ प्रसिद्धम् । अत एव पितराव् उपलब्धार्थो विदित्वा [भा।पु। १०.४५.१] इत्य् अत्र टीका-कारैर् अपि तयोर् ऐश्वर्य-ज्ञानं सिद्धम् एव । पुत्रतया प्रेम तु दुर्लभम् इत्य् उक्तम् । तथा श्री-गोपानां स्वजनत्वं सामान्यतो निर्दिष्टम् । तच् च वृष्णि-कंसादिवन् न व्रजे क्वचिद् अपि जने व्यभिचरति—
आबाल-वृद्ध-वनिताः सर्वेऽङ्ग पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥ [भा।पु। १०.१६.१५] इत्य्-आदि-दर्शनात् ।
तद् एवं सति स्वयम् एव गोप-राजे कदाप्य् अव्यभिचारि-वात्सल्ये वैशिष्ट्यम् आयातम् इति तस्यापि शिशुर् इति किं वक्तव्यम् इति भावः ॥ [प्रीति-सन्दर्भ ९९]
जीव-गोस्वामी (क्रम-सन्दर्भः) : मल्लानाम् अशनिर् इत्य्-आदिः ॥१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मल्लानाम् इति । अविदुषां तन्-महिमानभिज्ञानाम् । विराट् रजनं राट् दीप्तिः । विगता राट् यस्य स तथा, भीत इति यावत् । एतेन बीभत्स-रसो बोद्धव्यः । श्री-कृष्णं प्रति यस्य भीतत्व-ज्ञानं स एव जुगुप्सा-विषयः । जुगुप्साख्यस्य स्थायिन एक-निष्ठत्वात् । स एव तथा, न तु श्री-कृष्णः । यद् वा, अविदुषां श्री-कृष्ण-माधुर्यम् अजानताम्, केवलं पुरुष-विग्रहत्वेन जानतां विराड् इति विदितः । तथा-भूते परम-प्रेमास्पदे विराड्-भावनं जुगुप्सा-विषयत्वात् बीभत्स-रसो भवतीति दश-विध-रस-सिद्धिः ॥१७.२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ रङ्ग-भूमौ स्थितेषु नाना-विध-जन-समुदायेषु श्रुति-प्रथित-महा-रस-स्वरुपः स्वयं भगवान् अयम् अन्तः-करणानुरूपम् एव स्फुरति स्मेति वदन्न् अयम् एव सर्वोपनिषत्-सारार्थो मूर्त इति साक्षाद् इव दर्शयति । मल्लानां पर्वतोपम-शरीराणां चाणूरदीनाम् अशनिर् इव विदितोऽभूद् इत्य् एवम् एव सर्वत्रान्वयः । क्वचित् तृतीयार्थे क्वाचित् सम्बन्धे च षष्ठ्याः अतिसुकुमार-सुशीतल-सुमधुराङ्गोऽपि स पर्वतैर् महा-कठोर-सुसन्तापक-कटुतराङ्गो वज्र इव मल्लैर् द्वेष-दुष्टान्तःकरणैर् अनुभूतः, पित्त-दूषित-रसनैर् मत्स्यण्डिका-पिण्ड इवातितिक्त इति तैस् तत्-सवासनैस् तत्रत्यैः सभ्यैर् अपि दृष्ट्वापि भगवतः स्वरूपं नास्वादितम् इति तेषु रसाभास एव, न तु रसः ।
नृणां माथुराणां द्वेषादि-राहित्याद् उत्पत्त्यैव प्रेम-सामान्यवतां नर-वरः, नरेष्व् असाधारणैर् अतिचमत्कारक-रूप-गुण-लीलादिभिः श्रेष्ठ इति । तैः शुद्ध-सत्त्वमयान्तःकरणैस् तस्य नरवरत्वं स्वरूपम् एवास्वादितम् इति तेषु विस्मय-रसः ।
स्त्रीणां जनन्य्-आदि-व्यतिरिक्ताणां युवतीनां स्मर इति कृष्ण-विषयक-कामस्य प्राकृतत्वाभावात् तासां माथुरत्वेन प्रेमवत्त्वात् । ताभिस् तस्य साक्षान्-मन्मथ-मन्मथत्वं स्वरूपम् एवास्वादितम् इति तासूज्ज्वलो रसः । अत्रैव मूर्तिमान् इति विशेषणोपन्यासेनास्यैव स्वरूपस्याङ्गित्वं ध्वनितं ।
गोपानां स्वजन इति तैर् अपि स्वरूपम् आस्वादितं, यतो गोप-मित्रत्वं खलु तस्य स्वरूपम् एवेति तेषु सख्य-रसो हास्य-रसश् च ।
असताम् असाधूनां क्षिति-भूजां श्लेषेण सज्जनवतीं पृथ्वीं ग्रसताम् इव भक्तापराधिनां तेषां शास्ता अन्तकः इत्य् अन्तकत्वं । सर्व-सुहृदः सर्वानन्द-कन्दस्य कृष्णस्य न स्वरूपम् अतस् तैर् मल्लैर् इव तन् नास्वादितम् इति तेषु रौद्र-रसाभास एव ।
स्व-पित्रोर् नन्द-वसुदेवयोर् वसुदेव-देवक्योर् वा शिशुर् इति ताभ्यां च स्वरूपम् आस्वादितं यया नन्दात्मजत्वं वसुदेवात्मजत्वं च तस्य स्वरूपम् एवेति तत्र वात्सल्य-रसः । विजिघांसु-लोक-दर्शनात् करुण-रसश् च ।
भोजपतेः कंसस्य मृत्युर् इति मृत्युत्वं माधुर्य-सुधा-वपुकस्य कृष्णस्य न स्वरूपम् अतस् तेन तस्य तन् नास्वादितम् इति तस्मिन् भयानक-रसाभासः ।
अविदुषां कंस-पुरोहितादीनाम् अपराधिनां विराट् व्यष्टिः प्राकृतो मनुष्यः । हंहो अयम् एव किं परमेश्वर इत्य् उच्यते भ्रान्तैर् अयं तु पारदारिकत्वेन गवादि-घातित्वेन च श्रुत-चरः संप्रति प्राण्य्-अस्थि-रक्त-कलिल-गात्रो मनुष्येष्व् अप्य् अनाचारो घृणास्पदी भवत्य् अस्मन्-नेत्राणाम् इति व्याहरत्सु महा-पापिष्ठेष्व् आवेशाभावात् कंसादिभ्योऽप्य् अधर्मेषु मन्द-भाग्येषु तेषु बीभत्स-रसाभासः ।
योगिनां सनकादीनां परं तत्त्वं मूर्तं परं ब्रह्मेति तस्य स्वरूपं तैर् आस्वादितम् इति तेषु शान्त-रसः ।
वृष्णीनां परदेवता उपास्य-परमेश्वर इति तत्-स्वरूपं तैर् आस्वादितम् इति तेषु दास्य-रस इति । एवं तत्र दश-विधेषु जन-समुदायेषु चतुर्णां विमुखत्वेन तद्-रसास्वादनासमर्थ्यात् षड्भिर् अष्टौ रसाः स्वादिता इति । अतो रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दो भवति [तै।उ। २.७.१] वै निश्चितम् एव सः श्री-भागवतीय-दशम-स्कन्ध-दर्शितायां माथुर-रङ्ग-भूमौ प्रसिद्धः कृष्ण एव रसः । तं रसं कृष्णम् एवायम् आनन्दमयोऽपि लब्ध्वानन्दी आनन्द-भूमवान् भवतीति रस-श्रुतिर् एवं व्याख्येया ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.१८ ॥
हतं कुवलयापीडं दृष्ट्वा ताव् अपि दुर्जयौ ।
कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्विविजे भीतो बभूव ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । मनस्वी शुरः मनस्वी स्थिरचित्ते स्याच् छूरे योगविदि इति धरणिः । हन्तं दृष्ट्वेति महोच् चमञ्चोपर्युपवेशात् । अतिदुर्जयत्व-दर्शनं कुवलयापीडहननात्, तेज विशेषाभिव्यञ्जनाद् वा । मनस्वी महाशूरोऽपि । तदेति ततः प्राक्तादृग् भयाभावट् । कंसस्य तादृशोद्वेगात् प्रहर्षेणाह—हे नृपेति । त्वं तु नृपालकत्वाद् आसन्नमृत्युर् अपि न बिभेषीति भावः । तस्य त्वादृशत्वं नास्ति परद्रोहित्वात् द्रोग्धुर्हि परतो भयम् इत्य् उक्तेः । स एव भूतो न तु त्वम् इति भाषान्तरम् ॥१८॥
कैवल्य-दीपिका : हतम् इति । तौ राम-कृष्णौ । उद्विविजे उद्विग्नोऽभूत् । हे नृप परीक्षित् ! ॥१८॥ [मु।फ। १५.३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हतं दृष्ट्वेति महोच् चमञ्चोपयुपवेशात् तौ चातिदुर्जयौ दृष्ट्वा, अतिदुर्जयत्वं कुवलयापीड-हननात् स्वभावाद् एव वा, मनस्वी महा-शूरोऽपि भृशम् अत्य् अर्थम् । तदेति ततः प्राक्, तादृश-भयाभावात्, नृपेति कंसस्य तादृशोद्वेगेन प्रहर्षात् सम्बोधनम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हतं दृष्ट्वेति । महोच् चम्ञ्चोपर्युपवेशात् । अतिदुर्जयत्व-दर्शनं कुवलयापीड-हननात् तेजो-विषाभिव्यञ्जनाद् वा । मनस्वी महा-शूरोऽपि तदेति ततः प्राक् तादृश-भयाभावात् नृपेति कंसस्य तादृशोद्वेगात् प्रहर्षेण सम्बोधनम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनस्वी महा-शूरोऽपि यद् वा, पूर्वत एव चिन्ताकुलोऽपि तदानीम् अतिचिन्ताकातरो बभूव ॥१८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.१९ ॥
तौ रेजतू रङ्ग-गतौ महा-भुजौ
विचित्र-वेषाभरण-स्रग्-अम्बरौ ।
यथा नटाव् उत्तम-वेष-धारिणौ
मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा नटाव् इति निर्भयत्वं दर्शितम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । महाभुजौ शुरौ । प्रभया देह-कान्त्या । क्षिपन्तावाकर्षन्तौ । विचित्राणि विविधानि अद्भुतानि वा वेषादीनि ययोस् तौ । तत्र वेषस् तिलकादिः, आभरणं तिलकम् एव, कटक-कुण्डलाकृति [धृ] तोऽपि महायुद्धे तेषाम् अम्लानत्वादि-व्यञ्जनया कौशल-विशेषो व्यञ्जितः । निरीक्षमाणां मल्लादि-दशविधजनानां प्रभयाशनित्वादि-रूपया स्वतेजसा मनः क्षिपन्तौ यथायथं विक्षिपन्तौ । उत्तम-वेष-धारिणाव् इति नट-विशेषणम् । उत्तमास् तथा प्रत्यायन-समर्था ये वेषा नानानेपथ्यानि तद् धारिणाव् इत्य् एकस्य नानात्वं, प्रकाश-मात्रेण तु कालभेदेन दृष्टान्तः । यद् वा, इन्द्रजालिक-नट एवात्र दृष्टान्तः । स च स्वाङ्गेन्द्रजालाभ्यां सत्यासत्य-धर्मान्युगपद् दर्शयतीति ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रङ्ग-स्थलान्तः-प्राप्तौ रेजतुः शुशुभाते, महा-भूजाव् इति सर्वाङ्ग-सौष्ठवम् उपलक्षयति, तेन सौन्दर्यं बलिष्ठत्वं चोक्तम्, विचित्रापि विविधानि अद्भुतानि वा वेषादीनि ययोस् तौ, तत्र वेषश्चन्दः, मनोहर-स्रगादीनि वेष-साधनानि, निरीक्षमाणानां जनानां सर्वेषां प्रभया महा-कान्त्या मनः क्षिपन्तौ हरन्ताव् इति परम-गोपने पथ्यं वा, आभरणान्यलङ्काराः, उत्तम-वेष-धारिणाव् इति नट-विशेषणम्, अन्यथा सहज-नट-वेशाभयोर् उत्तम-वेशत्वेन तद् उपमानत्वासङ्गतिः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विचित्राणि विविधानि अद्भुतानि च वेशादीनि ययोस्तौ तत्र वेशस् तिलकादिः आभरणं तिलकम् एव कटक-कुण्डलादि कृतोऽपि महा-युद्धे तेषाम् अम्लानत्वादि व्यञ्जनया कैशल-विशेषो व्यञ्जितः । निरीक्षमाणानां मल्लादि-दशदिधजनानां प्रभया अशनित्वादि-रूपया स्व-तेजसा मनःक्षिपन्तौ यथायथं विक्षिपन्तौ उत्तम-वेश-धारिणाव् इति नट-विशेषणम् उत्तमास् तथा तथा प्रत्यापन-समर्था ये वेशा नानानेपत्थ्यानि तद् धारिणाव् इत्य् एकस्य नानात्व प्रकाश-मात्रेण तु काल-भेदे दृष्टान्तः । यद् वा, ऐन्द्रजालिक-नट एवात्र दृष्टान्तः स च स्वाङ्गेन्द्र-जालाभ्यं सत्यासत्य् अधर्मान् युगपद् दर्शयतीति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनः स्पृशन्तौ आश्लिष्य मनसि लग्नी-भूय तिष्ठन्ताव् इत्य् अर्थः ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२० ॥
निरीक्ष्य ताव् उत्तम-पुरुषौ जना
मञ्च-स्थिता नागर-राष्ट्रका नृप ।
प्रहर्ष-वेगोत्कलितेक्षणाननाः
पपुर् न तृप्ता नयनैस् तद्-आननम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रहर्ष-वेगेनोत्कलितान्य् उज्जृम्भितानीक्षणान्य् आननानि च येषाम् । तयोर् आननं पपुः परं न तृप्ताः । निराकाङ्क्षा न बभूवुर् इत्य् अर्थः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावुक्तार्थौ । इत्य् अर्थ इति—रम्यवस्त्वालोकतः कस्याचिद् अपि चेतो न निवर्तत इति भावः । ये तु प्रतिकूल-ज्ञान-व्यतिरिक्तास् तेषु तु साधारणाम् अपि परम-प्रेमैव जातः किमुतासाधारणानाम् इत्य् आह—निरीक्ष्येति । उत्तम-पुरुषाव् इत्य् अखिल-सौन्दर्य-वैदग्ध्यादिकं सूचितम् । मञ्च-स्थिता इति निरीक्षणं सम्यग् उक्तम् । नागराः पौराः । राष्ट्रिका जानपदा लोकाः सर्वेऽपीत्य् अर्थः । उत्कलितत्वं विकाशितत्वम् । पपुर् इत्य् अनेन नयनानां चमत्कृतत्वम्, आननस्य सौन्दर्यामृत-निधान-पात्रत्वम् । आननं पपुर् इति सौन्दर्य-प्राचुर्यात्तेनाभेदोत्प्रेक्षया । केवलानननिर्देशो दर्शनैतत् प्राधान्यात् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्तम-पुरुषाव् इत्य् अखिल-सौन्दर्य-माधुर्य-वैदग्ध्यादिकं सूचितम् । मञ्च-स्थिता इति निरीक्षण-सम्यक्त्वम्, नागराः पौरा राष्ट्रिकाश् च जानपदा लोकाः सर्वेऽपीत्य् अर्थः, इति सर्वेषाम् एवाविशेषेण तादृशत्व-सम्पत्तेः, अग्नेर् औष्ण्यवत् तस्य सौन्दर्यादीनां सहजत्वम् । उत्कलितानि विकसितानीति प्रहर्ष-वेग-लक्षणम् अत एव न तृप्ताः । पपुर् इत्य् अनेन नयनानां चषकत्वं भृङ्गत्वं वा, आननस्य वामृतमयत्वं पद्मत्वं वा ध्वनितम् । तेन दर्शने परमासक्तिः, न तृप्ता इत्य् अनेनामृताद् अप्य् उत्कर्षः सिद्ध एव । यद्य् अपि श्रीमद् अङ्गानां सर्वेषाम् एव महा-सौन्दर्यम्, तथाप्य् आननं पपुर् इति स्वभावेनादौ तस्मिन्न् एव दृष्टि-निपातात् । किम् वा, तस्य सौन्दर्य-विशेषात् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ये तु प्रतिकूल-ज्ञान-व्यतिरिक्तास् तेषु तु साधारणाम् अपि परम-प्रेमैव जातः किमुतासाधारणानाम् इत्य् आह । निरीक्ष्येति । उत्तम पुरुषाव् इत्य् अखिल-सौन्दर्य-वैदग्ध्यादिकं सूचितं मञ्च-स्थिता इति निरीक्षण-सम्यक्त्वं नागराः पौराः राष्ट्रिकाश् च जान-पदा लोकाः सर्वेऽपीत्य् अर्थः । उत्कलितत्वं विकाशितत्वं पपुर् इत्य् अनेन नयनानां चसकत्वम् आनन्दस्य च सौन्दर्यामृत-निधान-पात्रत्वम् । आननं पपुर् इति सौन्दर्य-प्राचुर्यत्तेनाभेदोत् प्रेक्षया केवलानन-निर्देशो दर्शने तत् प्राधान्यात् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहर्ष-वेगेन सूर्योदयशैघ्र्येणेव उत्कलितानि विकसितानि ईक्षणानि आननानि च कमलानि येषां ते तद् आनन-माधुर्यं पपुः ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२१ ॥
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।
जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—पिबन्त इवेति । श्लिष्यन्तः परिष्वङ्गं कुर्वन्त इव लक्षिता इत्य् अर्थः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवानैराकाङ्क्ष्यम् एव । पिबन्तः सादरम् अवलोकयन्तः । लिहन्त आस्वादयन्तः । इत्य् अर्थ इति—तत्रत्यजनैर् इति शेषः । लक्षिता दृष्टाः । सर्वेन्द्रियैस् तम-भजन्न् इति भावः । पिबन्तः इति युग्मकम् । ताव् इति शेषः । इवेत्य् उत्प्रेक्षायाम् । नेत्र-विस्तारण-लिङ्गेन ताभ्यां तयोः पानम् इव कुर्वन्त इत्य् अर्थः । प्रत्येकापेक्षया द्वित्वाद्वित्वादि । एवं जिह्वा-द्वारा तन्-माधुरी-वर्णन-लिङ्गेन तया तया तयोर् लेहनम् इव कुर्वन्त इत्य् अर्थः । तथा हर्षवशात् तद् अतिसाम्मुख्य-पूर्वकनासाफुल्लत्वसम्भ्रमश्वासोत्तोलनादि-लिङ्गेनाविच्छिदुरतत् सौरभ्य-लालसया ताव् एव नासयोः प्रवेशयितुम् इव प्रवृत्ता इत्य् अर्थः । तद्वद् एव च परस्पर-रूप-दर्शनार्थं कर-चालन-लिङ्गेन बाहुभिस् तद् आलिङ्गनम् इव कुर्वन्तः । अत एव चालन-लाघवेअ बहव इव दृश्यन्त इत्य् अभिप्रायेण । अत्र तु बहुत्वं केषाञ्चित् तत्-तद्योग्यानां तत्-तद् इच्छाप्यस्ति, ततः किञ्चिद् अनुकरणम् अपि सम्भवतीत्य् अपि पिबन्त इवेत्य् आदिकम् उक्तम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पिबन्तः पानं कुर्वन्तः । एवम् अग्रेऽपि । दर्शनाद्य्-अभिनिवेश-मात्रे तात्पर्येण कर्मान् अपेक्षा । यद् वा, ताव् इति शेषः । इवेत्य् उत्प्रेक्षायाम्, तत्त्वतः पानाद्य् असम्भवात्, लिहन्तश् चुम्बनादिना स्वादयन्तो जिह्वाभिर् अभिमृशन्तो वा । बाहुभिर् इति बहुत्वं वस्तुतस् तेषां माथुरत्वेन चतुर्भुजत्वात्, जनानां बाहुल्याभिप्रायेण वा । यद् वा, आश्लेष-दार्ढ्य-विवक्षया । इत्थं तस्मिन् ज्ञानेन्द्रियाणाम् अभिनिवेशेन परम-प्रीतिर् उक्ता, तत्र क्रमेण दृग्-रसन-घ्राणत्वचां पुरोदृश्यत्वेन श्रवणस्य न तादृक्-प्रयोजनम् इति तस्य नोक्तम् । यद् वा, ऊचुर् इत्य् अनेन कीर्तन-द्वारा तस्यापि फलिष्यत्य् एव, उक्तानां पानादीनां चतुर्णां यथोत्तरं श्रैष्ठ्यम् । तत्र लेहनाद् अपि घ्राणस्य, घ्राणेनैकदैव स्वतः सर्वाङ्ग-मालादि-तत्-परिकरामोदानुभवात्, अन्यत् स्पष्टम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पिबन्त इति युग्मकम् । ताव् इति शेषः । इवेत्य् उत्प्रेक्षायां नेत्र-विस्तारण-लिङ्गेन ताभ्यां तयोः पानम् इव कुर्वन्त इत्य् अर्थः । प्रत्येकापेक्षया द्वित्वादि एवं जिह्वा-द्वारा तन् माधुर्य-वर्णन-लिङ्गेन तया तयोर् लेहनम् इव कुर्वन्त इत्य् अर्थः । तथा हर्षवशात् तद् अतिसाम्मुख्य-पूर्वक-नासा-फुल्लत्व-संम्भ्रम-श्वासोत्तोलनादि-लिङ्गेनाविच्छिदुरतत्-सैरभ्य-लाभ-लालसया ताव् एव नासयोः प्रवेशयितुम् इव प्रवृत्ता इत्य् अर्थः । तद्वद् एव च परस्पर-रूप-दर्शनार्थं कर-चालन-लिङ्गेन बाहुस्तियोर् आलिङ्गनम् इव कुर्वन्तः अत एव चऌअन-लाघवे बहव इव दृश्यन्त इत्य् अभिप्रायेणात्र तु बहुत्वं केशाञ्चित् तत् योग्यानां तत् तद् इच्छाप्य् अस्ति ततः किञ्चिद् अनुकरणम् अपि सम्भवतीत्य् अपि पिबन्त इवेत्य् आदिकम् उक्तम् ऊचुर् इति तैर् व्याख्यातम् । तत्र यथा-दृष्टम् इत्य् आदाव् एवं विवेचनीयम् । समासोयम् अव्ययीभावः स चा—व्ययं विभक्ती त्यादिना सूत्रेण यथा-सादृश्य इत्य्-आदिना च वर्ण्यते तत्र प्रथमेन यथर्थत्वे प्रवर्तमानस्यैवं विवेकः यथार्थश् चत्वारः योग्यता वीप्सा पादार्थान् अतिवृत्तिः सादृश्यं चेति । अत्र पदऋथान् अतिवृत्तिस् तद् अनतिक्रमः । तत्रोदाहरणं यथावल-मध्येति बलम् अनतिक्रम्येत्य् अर्थः । योग्यतायाम् उदापरणम् अनुरूपस्य दानं यथा-दानम् इति योग्यम् इत्य् अर्थः अत्र तु यथा-शब्देन प्रयुज्यते नन्वन्य-शब्दैः एवं सवीणं ध्वनतीत्य् अत्र सादृश्यार्थे सह-शब्दवत् । तस्माद् यथा दृष्टम् इत्य् आदौ दृष्टं यद् धनुर्-भङ्गादि तद् अनतिक्रम्य यथाश्रुत श्रुतं यद् गोवर्धनोद्धरणादि तत् तद् अनतिक्रम्येति विभज्यैव योज्यं तद् अनुरूपम् इत्य् अर्थः इत्य् अत्र तु योग्यतायाम् एवाव्ययीभावो गम्यते अनुरूपम् अस्य दानम् इतिवत् ततश् च तत्-तद् योग्यम् इत्य् अर्थः । पदार्थान् अतिवृत्ति-योग्यतयोर् अव्ययीभावयोर् भिन्नार्थत्वेऽपि योग्यतार्थे यत् पर्यवसानं कृतं तत् खलु-तत्रैव तात्पर्यम् इत्य् अपेक्षयागम्यते । यथा-शादृश्य इत्य् अशादृश्ये प्रवर्तमानस्य द्वितीय-सूत्रस्योदाहरणं यथा-वृद्धं प्रविशन्तु ये ये वृद्धास्त इत्य् अर्थः । प्रत्यक्षम् इत्य् अनेन तच् छब्दो व्याख्यात इति । यद् वा, यथेति योग्यतार्थ एव दृष्टं यद् धनुर्भङ्गादि तद् अनुरूपम् एव श्रुतं यन् नारायणांशवत्त्वदि तद् अनुरूपम् एव नाधिकम् इत्य् अर्थः । अत एव वक्ष्यतेऽशेनेति । तद् तद् अपि तेषां संदिग्धम् इवासीत् सम्प्रति तद् दर्शनेनैव निश्चितं जातम् इत्य् आह । तद् रूपेति । तस्य रूपं भगवल् लक्षणाकारः गुणा असमोर्ध्व-सौम्दर्यशौर्यादयः माधुर्यं क्वचिद् आच्छादिष्व् अपि रूप-गुणेषु तत्-स्वभावत एव मनोहरत्वं प्रागल्भ्यं सर्वत्राकुण्ठत्वं तैः स्मारिता इव इवेत्य् उत्प्रेक्षायां वस्तुतस्त्व-सम्भावना-विपरीत-भावनाभ्यां संदिग्धत्वम् एव न तु श्रुत्वापि दृष्ट्वापि विस्मृतत्वम् इति तैः प्रीतिं प्रापिता इत्य् अर्थः । यद् वा, तत् तत् तु तेषां सदा स्मर्यमाणम् अपि तदादीं तद् रूपादि-दर्शनेनातीव चमत्कृतम् आसीद् इति नूतन-स्मरण-विषयम् इव प्राप्तम् इथ् आह तद् रूप-गुणेति । अत एवोत्तरत्र विस्मितानां वक्यम् आहेति तैर् व्याख्यास्यते ॥२१.२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पिवन्त इवेत्य् आदिनि नयन-विस्तार-रसानाकलन-प्रफुल्लनासाश्वास-ग्रहण-बाहु-प्रसारण-लिङ्गज्ञापितान् इत्य् अर्थः । दृष्टं धनुर् भङ्गादि श्रुतं गोवर्धनोद्धरणादि तत् तद् अनतिक्रम्य ऊचुः रूपाणि श्यामत्व-रक्त-दन्त-पाणित्वादीनि गुणाः शौर्यादयः माधुर्याणि हसितापाङ्गापणादीनि प्रागल्भ्यानि धनुर्-भङ्गादिष्व् अकुण्ठानि तैस् तत् प्रभावादीन् श्रुतान् स्मारिता इवेत्य् अनधिकारार्थन् ॥२१.२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२२ ॥
ऊचुः परस्परं ते वै यथा-दृष्टं यथा-श्रुतम् ।
तद्-रूप-गुण-माधुर्य- प्रागल्भ्य-स्मारिता इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा-दृष्टं धनुर् भङ्गादि, यथा-श्रुतं गोवर्धनोद्धरणादि तत् तद् अनतिक्रम्य, तद् अनुरूपम् इत्य् अर्थः । प्रत्यक्षं च तयो रूपं गज-दन्तादि-युक्तम्, गुणाः शौर्यादयो, माधुर्यं हसितालापादि, प्रागल्भ्यं धार्ष्ट्यं तैः स्मारिता इव स्मरणं प्रापिता इव ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—न त्व् अदृष्टाxअ-चरं जगदुर् इब् । प्रगल्भो निपुणे धृष्टे इति धरणिः । प्रागल्भ्यं नैपुण्यं च ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै प्रसिद्धम्, व्यक्तम् इति वा, कंस-भयादिना चिरं विस्मृतम् अपि तयो रूपादिभिस् तन् माहात्म्यादिकं स्मऋइताः, रूपं सौन्दर्यम्, रूप-गुणान्तर्गतयोर् अपि माधुर्य-प्रागल्भ्ययोः पृथग् उक्तिर् विशेषापेक्षया । इवेति माथुरत्वेन तेषां कदाचिद् अपि तत्त्वतस् तत्-स्मरणानपगमात्, केवलं तदानीम् एव तथोक्त्या स्मारण-सादृश्यात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, माधुर्यं प्रागल्भ्यं निर्भयत्वं सर्वथा सर्व-प्रावीण्यं वा । एवं क्रमेण रूप-गुण-कौशल-महात्म्यान्य् उक्तानि ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.२३ ॥
एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि ।
अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मितानां वाक्यान्य् आह अष्टभिर् एताव् इत्य्-आदिभिः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतौ राम-कृस्णौ । नारायणस्य साक्षाद् अंशेनैश्वर्येण । यद् वा, अंशानां समूह आंशं स्वाभाविक-स्वरूपं, नारायण एवावतीर्णाव् इत्य् अर्थः । षष्ठी त्वत्राभेद एव राहोः शिर इतिवत् ।
यद् वा, इं काम हन्तीतीहः शिव, सोंशोऽवयवोद्भवो यस्य स इहांशो नारायणः । नारायणाद्रुद्रोऽजायत इति श्रुतेः । स इनः स्वामी यस्य स इहांशेनः परोक्षित्-तत्-सम्बुद्धौ तथा । एतेन कृष्णस् तु भगवान् स्वयम् इत्य् उक्तिसामञ्जस्यम् उक्तम् । यदूचुस् तद् एवाहाष्टभिः—भगवतः स्वाभाविक-समोर्ध्ववनि खिलैश्वर्य-युक्तस्य हरेः सर्व-दुःख-हर्तुर् अभीष्टदानादिना मनोहरस्य च यतो नारायणस्य सर्वजीवाश्रयस्य तस्य साक्षाद् अंशेन न तु शक्त्यावेशादिना । इत्य् एतौ सर्वाभीष्टप्रदौ भविष्यत इति दर्शितम् । इह मथुरायाम्, तत्रापि श्री-वसुदेवस्य वेश्मनीति स्वेषु चातिशयेन पक्षपातो दर्शितः । वेश्मनीति साक्षाद् भगवद् अंशत्येन विकारासम्भवट् । गीर् देवी त्व् इत्याह—अंशेन तच् छक्तिमयत्वात् तद् अंशोपलक्षितो यो वसुदेवस् तस्य वेश्मनीत्य् अर्थः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एताव् इति । एतौ इह अवतीर्णौ, अनयोर् मध्ये एको भगवतो नारायणस्यांशेन, अन्यः साक्षात्, अयं परिपूर्णो भगवान् । साक्षाद् इत्य् अंशेनेति द्वाभ्यां द्वयोर् विशेषाख्यायाम् अप्य् एक-युक्त्या अवतीर्णाव् इत्य् एकं पदम् ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवतो निजाशेषैर्यं प्रकटयत इत्य् अर्थः । हरेः सर्व-दुःख-हर्तुः, अभीष्ट-प्रदानादिना मनोहरस्य च, यतो नारायणस्य सर्व-जीवाश्रयस्य परमेश्वरस्यांशेन निज-सार-भागेन, न तु मायादि-सम्बन्धेन । यद् वा, जाताव् एकत्वम्, अंशैर् देवादिभिः सहेत्य् अर्थः । इह श्री-मथुरायाम्, हि निश्चितम्, शास्त्रादि-प्रामाण्याद् वसुदेवस्य वेश्मनीति साक्षा द्भगवत्त्वेन प्राकृत-पुत्रवत् तत्-पुत्रत्वाद्य् असम्भवात् तन्-महा-भाग्येन तत्रैवावतरण-योग्यत्वाच् च । अत्र श्री-स्वामि-टीकायां स्मरितानाम् इति लेख्ये विस्मितानाम् इति लेखक-भ्रमात्, मूले टीकायां वा पूर्वं विस्मित-त्वाद् दृष्टेः, तादृशोक्त्या तेषां विस्मय-बोधनाद् वा, तथा व्याख्या तु तथाप्य् ऊह्यार्थ-गौरवापत्त्या तत्र सम्यग् इति ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् ऊचूस् तद् एवाह अष्टभिः भगवतः स्वाभाविकासमोर्ध्व-निखिलैश्वर्य-युक्तस्य-हरेः सर्व दुःख-हर्तुर् अभीष्टदानादिना मनोहरस्य च यतो नारायणस्य-सर्व-जीवाश्रयस्य तस्य साक्षाद् अंशेन न तु शक्त्य् आवेशदिना इत्य् एतौ सर्वभिष्टप्रदा भविष्यत इति दर्शितम् इह श्री-मथुरायां तत्रापि श्री-वसुदेवस्य वेश्मनीति स्वेषु चातिशयेन पक्षपातो दर्शितः । वेश्मनीति साक्षाद् भगवद् अंशत्वेन विकारासम्भवात् गोदेवीत्व् इत्य् आह अंशेन तच् छक्तिमयत्वात् तद् अंशोपलक्षितो यो वसुदेवस् तस्य वेश्मनीत्य् अर्थः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एतौ भगवत इत्य्-आदि । अतो इहावतीर्णौ एनयोर् मध्ये एकओ हरेर् नारायणस्यांशेन, अन्यः साक्षात् स्वयं भगवान् इत्य् अर्थः, साक्षाद् अंशेनेति पदाभ्यां द्वयोर् विशेषाख्यायाम् अप्य् एकयोक्त्यावतीर्णाव् इत्येकम् एव पदम् ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अशेनेति तेषां तथैव प्रतीतेः ॥२३.२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२४ ॥
एष वै किल देवक्यां जातो नीतश् च गोकुलम् ।
कालम् एतं वसन् गूढो ववृधे नन्द-वेश्मनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किलेति सर्वत्रान्वयः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एष कृष्णः । किल प्रसिद्धम् । किल नीतः किल ववृध इत्य् एवं किलाव्ययं सर्वत्रान्वेत्य् अर्थः । एतम् एतावन्तम् । एतच् छश्बो मत्वर्थ लाक्षणिकोऽर्थानुपपत्तेः । एवं साम्यन्येन द्वावप्य् उक्त्वा भगवद् अवतारत्वम् एव स्पष्टयितुं तच् चरितानि वक्ष्यन्तः प्राधान्येन श्री-कृष्णस्याद् आहुः—एष इति षड्भिः । वै प्रसिद्धौ । यो जातः प्रादुर्बूतः स एवैषः अङ्गुल्या निर्देशाद् एष इति । किल निश्चये । एतम् एतावन्तम् । आर्षत्वत्-तद्धित-लुक् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सामान्येन द्वाव् अप्य् उक्त्वा भगवत्त्वम् एव प्रमाणयितुं तच् चरितानि वक्ष्यन्तः प्राधान्येन श्री-कृष्णस्यादावाहुः—स एष इति षड्भिः । किल निश्चये, प्रसिद्धौ वा, स्मारणे वा, यो जटः प्रादुर्भूतः स एवैषः । एष वै इति पाठे वै एष, एतम् एतावन्तम्, गूढो गोकुलेतर-लोकेष्व् अनभिव्यक्तैश्वर्यात् पुरीपरित्यागेन वनान्तर्वासाद् वा ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सामान्येन द्वावप्य् उक्त्वा भगवद् अवतारत्वम् एव स्पष्टयितुं तच् चरितानि वक्ष्यन्तः प्राधान्येन श्री-कृष्णस्यादावाहुः । एष इति षड्भिः । वै प्रसिद्धौ यो जातः प्रादुर्भूतः स एवैषः एष इत्य् अङ्गुल्या निर्दशात् किल निश्चये एतम् एतावन्तम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यः साक्षाद् अवतीर्णः, स एव क इत्य् आह—स एष किलेत्य् अदि । स एष इत्य् एक-वचन-निर्देशात् पृथग् उभयोर् विविच्य कथनम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२५ ॥
पूतनानेन नीतान्तं चक्रवातश् च दानवः ।
अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्-विधाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुह्यकः शङ्ख-चूडः । अन्ये चाधासुरादयः ॥२५.२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनेन कृष्णेन । अन्तं नाशम् । चक्रवटस् तृणावर्तः । अर्जुनौ ककुब्वृक्षौ । तद् विधास् तैस् तुल्याः, छलिन इत्य् अर्थः । अन्तं विनाशम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स एव क इत्य् आह—एष वै किल देवक्याम् इत्य्-आदि । तथाप्य् उभयर् अपि देवकीपुत्रत्वेन सन्देहे पुनर् आह—पूतनेत्य् आदि । अनेन येन पूतना अन्तं नीता, स एवायं साक्षात् परिपूर्णः, द्वीतीयस् तु नारायणांश इति सङ्गतिः ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तं विनाशम्, अर्जुनौ यमलार्जुनौ, तद् विधाः पूतनादि-सदृशा दुष्ट-दानवाः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तं विनाशम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, तथापि द्वयोर् एव देवकी-पुत्रत्वाद्-गोकुलनीतत्वन् नन्द-वेश्मनि वृद्धिमत्वाच् च कथं स एष इति तद् एतद्भ्यां श्री-कृष्ण एवोच्यत इत्य् आशङ्क्याह—पूतनानेएत्य् आदि । अनेन ये पूतनादयोऽन्तं नीताः, स एव साक्षाद्-भगवान् अपरस्त्व् अंश इति पूर्वोक्त-विवृत्तिः ॥२५.२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुह्यकः शङ्खचूडः ॥२५.२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२६ ॥
गावः स-पाला एतेन दावाग्नेः परिमोचिताः ।
कालियो दमितः सर्प इन्द्रश् च विमदः कृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेन श्री-कृष्नेन । सर्पतीतस् ततः प्रसरतीति सर्पः । शिरस्सु नृत्येन तद् गमनम् अशक्यम् इति । कालिय इति तन् नाम-प्रसिद्द्यैव महा-विषत्वादिकं सूचितम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्पति-इतस् ततः प्रसरतीति सर्प इति, शिरःसु नृत्येन तद्-गमनम् अशक्यम् इति, तथा कालियः इति तन् नाम-प्रसिद्ध्यैव महा-विषमयत्वादिकं च सूचितम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्पति इतस् ततः प्रसरतीति सर्प इति शिरसुः नृत्येन तद् गमन-शक्त्यम् इति । तथा कालिय इति तन् नाम-प्रसिद्ध्यैव महा-विषयमत्वादिकं सूचितम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.२७ ॥
सप्ताहम् एक-हस्तेन धृतोऽद्रि-प्रवरोऽमुना ।
वर्ष-वाताशनिभ्यश् च परित्रातं च गोकुलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमुना कृष्णेन । अद्रिप्रवरो गोवर्धनः । अशनिर् वज्रपातः । मिमदकरण-प्रकारम् आह—सत्पाहम् इति । प्रथमः च उक्त-समुच्चये, द्वितीयोऽनुक्तस्य । तेन श्री-गोविन्दाभिषेकोऽपि गृहीतः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विमद-करण-प्रकारम् एवाह—सप्ताहम् इति । अद्रिषु प्रवरः परम-गौरवादिना श्रेष्ठतमः श्री-गोवर्धनः । अमुनेति साक्षाद् अपि पारोक्षोक्तिः । निज-माहात्म्य-श्रवणेन किक लज्जया श्री-बल-पृष्ठे लीनत्वात् । यद् वा, एतेनेत्य् अर्थः । गोकुलं गवां कुलं प्रायस् तन् नाशार्थम् एव महा-वृष्ट्यारम्भात् । यद् वा, व्रजस् तत्रत्याः सर्वेऽपीत्य् अर्थः । परितस्त्रातं सर्व-दुःखतः सम्यग्-रक्षितम् । प्रथमश् चकार उक्तस्य समुच्चये, द्वितीयोऽनुक्तस्य, तेन श्री-गोविन्दाभिषेकादिकम् अन्यत् सर्वं गृहीतम् । लिलेयं प्रकर्ष-विशेषाद् विस्तार्योक्ता, एवम् अग्रेऽपि ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विमद-करण-प्रकारम् एवाह । सप्ताहम् इति । प्रथमश् चकारः उक्तस्य समुच्चये । द्वितीयोऽनुक्तस्य । तेन श्री-गोविन्दाभिषेकम् अपि गृहीतम् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.२८ ॥
गोप्योऽस्य नित्य-मुदित- हसित-प्रेक्षणं मुखम् ।
पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आश्रमम् ईषच्-छ्रम-युक्तं मुखम् । अश्रमं मुखम् इति वा । यद्वा अश्रमं यथा भवति तथा तरन्ति स्मेति ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्य कृष्णस्य । नित्यं सदा मुदिते हर्षयुते हसित-प्रेक्षणे यस्मिंस् तथा । भगवति श्रमारोपेणानीशत्वम् आशङ्क्याह—आश्रमं श्रम-रहितम् इति वा । मुखे तु श्रम-चिह्नं भवति न तु श्रमस् तस्यान्याङ्ग-विषयत्वट् प्राय इत्य् अरुच्छाह—यद् वेति । विविधानाध्यात्मिकादीन् । तत्रैव भाव-विशेषवतीनां कासाञ्चित् स्त्रीणां वाक्यम् आह—गोप्य इति । नित्यं मुनितं हर्षेण प्रसन्नं च, तत् हसिते प्रेक्षणम् अवलोकनं यस्मिं-तच्-च ।
यद् वा, नित्यं मुदितं तत्, अत एव हसितं हास्य-युक्तं च प्रकृष्टं कटाक्षादिनां सुन्दरम् ईक्षणं यस्मिं तत्र ।
यद् वा, उदितं हसित-युक्तं प्रेक्षणं यस्मिंस् तन्-नित्यं मुदा पश्यन्त्यः, अत एवाश्रममनायासेन तरन्तिस्मा अतरन् । ता एव तेरुर् नास्मद् विधमन्द-भाग्या इति दैन्येनातीतत्वम् ।
यद् वा, स्म प्रसिद्धाव् एव नातीते । अतो वर्तमान-प्रयोगस् तस्य व्रजगमने सम्भावनान् अपगमात् । विविधान् गुरु-पत्यादिकृत-निन्दा तर्जनादिना विरहादि-भेदेन वा । एवं रासादि-लीलापि सूचिता ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रास-क्रीडां सूचयन्ति—गोप्य इति । नित्यं मुदितं हर्सेण प्रसन्नं च तत् हसितेन प्रेक्षणम् अवलोकनं यस्मिन् तच् च । यद् वा, नित्यं मुदितं च तत्, अत एव हास-युक्तं च प्रकृष्टं काटाक्षादिना सुन्दरम् ईक्षणं यस्मिन् तच् च । यद् वा, उदितं हसित-युक्तं प्रेक्षणं यस्मिन् तन् नित्यं मुदा पश्यन्त्यः, अत एव अश्रमम् अनायासेन तरन्ति स्म—अतरन्, ता एव तेरुर् नास्मद् विधा मन्द-भाग्या इति दैन्येनातीतत्वम् । यद् वा, स्म प्रसिद्धौ, वर्तमानाप्रयोगस् तस्य व्रज-गमने सम्भावनानपगमात् । विविधान् गुरु-पत्यादि-कृत-निन्दाः, तर्जनादिना विरहजादि-भेदेन वा तत्-क्रीडा-विशेषो लज्जया नोक्तः । एवं गोकुल-लीलानां यथोत्तरं श्रैष्ठ्यापेक्षया क्रमोऽतिक्रान्तः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव भाव-विशेषवतीनां कासाञ्चित् स्त्रीणां वाक्यम् आह । गोप्य इति । नित्यं मुदितं हर्षेण प्रसन्नं च तत् हसितेन प्रेक्षणम् इव लोकनं यस्मिन् तच् च । यद् वा, नित्यं मुदितं च तत् अत एव हसितं हास-युक्तं च प्रकृष्टं कटाक्षादिना सुन्दरम् ईक्षणं यस्मिन् तच् च । यद् वा, उदितं हसित-युक्तं प्रेक्षणं यस्मिन् तन् नित्यं मुदा पश्यन्त्यः । अत एवाश्रमन् अनायासेन तरन्तिस्म अतरन् । ता एव तेरुर् नास्मद् विधमन्द-भाग्या इति दैन्येनातीतत्वं यद् वा, स्म प्रसिद्धावेव नातीते । अतो वर्तमान-प्रयागेस् तस्य व्रज-गमने सम्भावनानपगमात् विविधान् गुरुपत्यादिकृत-निन्दा-तर्जनादिना विरहादि-भेदेन वा एवं रासादि-लीलापि सूचिता ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य कृष्णस्य विविधान् पतिश्वचादि-तर्जन-निरोधादीन् अश्रमं यथा स्यात् तथेति तत्र तासां दुःख-गन्धोऽपि न भवेद् इत्य् अर्थः ॥२८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.२९ ॥
वदन्त्य् अनेन वंशोऽयं यदोः सु-बहु-विश्रुतः ।
श्रियं यशो महत्त्वं च लप्स्यते परिरक्षितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेन परिरक्षितो यदोर् वंशः सु-बहु-विश्रुतः सन् श्र्य्-आदि लप्स्यत इति वदन्तीति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनेन कृष्णेन । अथ श्री-मथुरादौ करिष्यमाणां लीलाम् उद्दिशति—वदन्तीति, शास्त्रज्ञाः कथयन्ति । महत्त्वं सर्वत उत्कर्षम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना श्री-मथुरा-पुर्यादौ कार्य-लीलाम् उद्दिशन्ति—वदन्तीति, शास्त्रज्ञाः कथयन्ति, महत्त्वं सर्वत उत्कर्षम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-मथुरादौ करिष्यमाणां लीलाम् उद्दिशन्ति । वदन्तीति । शास्त्रज्ञाः कथयन्तिः महत्त्वं सर्वत उत्कर्षम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेन ऋअक्षितो यदोर् वंशः श्रयादिकं लप्स्ये इति वदन्ति ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.३० ॥
अयं चास्याग्रजः श्रीमान् रामः कमल-लोचनः ।
प्रलम्बो निहतो येन वत्सको ये बकादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धेनुक-बक-वत्सासुरेषु विपर्ययोक्तिर् जन-वादेष्व् अरिश् चयात् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं रामः । अस्य कृष्णस्य । येन रामेन । एवं श्री-बलदेवस्याप्य् आहुः—अयम् इति । अप्य् अर्थे चकारः । अग्रजत्वेन श्रीमान् तद् अनुरूपं सर्व-शोभा-युक्तः । तत्रापि नेस्त्र-शोभया लोअभयन्ति—कमलेति । वत्सको वत्स-प्रतिरूप एव न तु वत्सः । इवे प्रतिकृतौ इति कन् । इति तद् वधे दोषः प्रत्याख्यातः । आदि-शब्दाद् धेनुक-जातयः । विपर्ययोक्तिस् तैर् योजिता । अत्र यथादृष्टं यथाश्रुतम् ।*। इत्य् उक्तेस् तत्त्व-ज्ञानाभाव एवोपजीव्यः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं श्री-कृष्णं निर्वण्य पश्चाद् द्रामं निर्वर्णयति—अयं चास्याग्रज इत्य्-आदि । वत्सको ये वकादय इति यथाश्रुतम् एव वर्णयन्ति ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-कृष्णस्य माहात्म्यम् उक्त्वा श्री-बलदेवस्याप्य् आहुः—अयम् इति । अप्य् अर्थे चकारः । अयम् अपि तद् अग्रजत्वाद् एव श्रीमान् सर्व-शोभा-युक्तः, कमल-लोचन इति सौन्दर्यम् उक्तम्, संज्ञायां क इति । तद् वध-दोषो निरस्तः । आदि-शब्दाद् धुनुक-जातयः, धेनुक-वत्सादि-वधे तयोर् अन्योऽन्यं साहाय्यात् स्नेहाच् चाभेदाभिप्रायेण वैपरीत्योक्तिः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-बलदेवस्याप्य् आहुः । अयम् इति । अप्य् अर्थे चकारः । अग्रजत्वेन श्रीमान् तद् अनुरूप-सर्व-शोभा-युक्तः तत्रापि नेत्र-शोभया लोभयन्ति । कमलेति । वत्सको वत्स-प्रतिरूप एव न तु वत्सः इवे प्रतिकृताव् इति कन् इति तद् वध-दोषः प्रत्याख्यातःस् । आदि-शब्दाद् धेनुक-ज्ञातयः विपर्ययोक्तिस् तैर् याजिता । अत्र यथा-दृष्टं यथा-श्रुतम् इत्य् उक्तेस् तत्त्व-ज्ञानाभाव एवोपजीव्यः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं पूर्णत्वेन श्री-कृष्णं निरूप्य नारायणस्य हरेर् अंशेनावतीर्ण इति यः कथितस् तं रामं निर्वर्णयन्ति—अयञ्चास्याग्रज इति । अयञ्चांशभूतोऽय् अयम्, अस्य साक्षाद् भगवतोऽग्रजः अग्रे जातः । अनेन प्रलम्बो-निहतः । वत्सको ये वकादय इति यथाश्रुतम् एव निर्दिशन्ति । वस्तुतस् तु-कृष्णेनैव वत्सक-वकौ निहतौ ।
यद् वा, अन्ये च तद्-विधाः [२५श श्लो] इति पूर्व-श्लोकोक्तेर् एव शेषोऽयम्, मध्ये वाक्यान्तर-प्रवेशः ॥३०.४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धेनुक-वत्सकादिषु विपर्ययोक्तिर् जनवादेष्व् अनिश्चयात् ॥३०.३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.३१ ॥
जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।
कृष्ण-रामौ समाभाष्य चाणूरो वाक्यम् अब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जनेष्व् एवं ब्रुवाणेषु सत्सु तद् असहमानश् चाणूरोऽब्रवीद् इति ॥३१.३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् जनवाद-रूपं तन् महत्त्वम् एवम् एतत्-प्रकारम् । ब्रुवाणेष्व् इति प्रहर्षेण तेषाम् उक्त्यसमाप्तिर् उक्त् । जनेष्व् इति बाहुल्यात् एषाम् निवार्यत्वं ज्ञापितं, तद् उक्तेर् अप्रमाणं च खण्डितम् । एवं तेषां मात्सर्यादयः । तूर्येषु नितरां नदत्स्व् इत्य् अनेन युद्धोत्साहश् च दर्शितः । अत एवाब्रवीत् समाभाष्याहूय सम्बोध्य वा, वाक्यम् इति पौनर् उक्त्यं विचेषेणाविशेष्येऽत्र देय इत्य् अभिप्रायेण । स च निष्ठुर इति गम्यः । यद् वाकारप्रश्लेषेण वक्तुमयोग्यम् इत्य् अर्थः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं ब्रुवाणेष्व् इति प्रहर्षेण तेषाम् उक्त्य् असमाप्तिर् उक्ता । जनेष्व् इति बाहुल्यात् तेषाम् अनिवार्यत्वं तद् उक्तेः सत्यत्वं च सूचितम् । अनेन मात्सर्यम् । तूर्येषु नितरां नदत्स्व् इत्य् अनेन च युद्धोत्साहः, अत एवाब्रवीत्, समाभाष्य आहूय सम्बोध्य वा । वाक्यं निष्टुरम् इति शेषः । यद् वा, अकार-प्रश्लेषेण वक्तुम् अयोग्यम् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं एतत्-प्रकारं ब्रुवाणेष्व् इति प्रहर्षेण तेषाम् उक्त्य-समाप्तिर् उक्ता जनेष्व् इति बाहुल्यात् तेषाम् अनिवार्यत्वं ज्ञापितं तद् उक्ते रप्रमाणत्वं च खण्डितम् एवं तेषां मात्सर्यादयः तूर्येषु नितरां नदत्स्वत्य् अनेन युद्धोत्साहश् च दर्शितः । अत एवाव्रवीत् । समाभाष्य आहूय सम्बोध्य वा वाक्यम् इति पौनर् उक्त्यं विशेषण विशेषोऽत्र देय इत्य् अभिप्रायेण स च निष्ठुरम् इति गम्यः । यद् वा, अकार-प्रश्लेषेण वक्तुम् अयोग्यम् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.३२ ॥
हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ ।
नियुद्ध-कुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-प्रसिद्धत्वाद् आह—हे नन्द-सूनो इति । वीर्येण पराक्रमेण । सम्मतौ सम्यक् ख्यातौ । नियुद्धं बाहु-युद्धम् । समाभाषण-प्रकारम् एवाह—हे इति । नन्द-सुनुत्वेन सम्बोधनं तदीय-सत्-पुत्रत्वस्य व्यञ्जनाय, रामेति सकल-लोक-रति-हेतुत्वस्य । तत्-तच् च युद्धाय प्रोत्साहनम् । श्लेषेण तु गोप-पुत्रत्वेनामहत्त्वं, तद्वत्-पितृ-सम्बन्धानुल्लेखेनाज्ञातापितृकत्वं सूचयति । तत्-तूपहासेन तेजोग्लापनार्थम् इति ज्ञेयम् । वीर्येण बलेन । सम्मतौ लोकानाम् आदृतौ तत्रापि नियुद्धे बाहु-युद्धे । कुशलौ दक्षौ प्रुच्त्वात एव दिदृक्षया भवन्तौ नियुद्धं वा द्रष्टुम् इच्छया । राज्ञेति तद्योग्यतोक्ता । अहो अत्र मल्ल-युद्धेन क्रीडताम् इति भावः । अत्रापि विरोधि-लक्षणयोपहास एवतात्पर्यम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समाभाषण-प्रकारम् एवाह—हे इति । नन्द-सूनुत्वेन सम्बोधनम् । गोप-पुत्रत्वस्याल्पतामननात् । हे रामेति संज्ञा-मात्रस्य । किं वा, वने वन्यैः सह रतेर् अपेक्षया, श्लेषेण गोपैः सह क्रीडितुम् एव वेत्सि, न तु मल्लैः सह नियोद्धुम् इति । यद् वा, नन्द-सूनो इति, तथा लोक-रमणाद्—रामेति, तत्-तत्-प्रीत्य् अर्थं सुसम्बोधनम् । तथा भवन्ताव् इत्य्-आदि—सगौरव-प्रशंसोक्तिश् च महा-मदेनात्मना सह तयोर् युद्धे प्रवृत्त्यमननात् तत्र प्रवर्तनार्थम्, वीर्ये वीरत्वे । यद् वा, वीर्येण बलेन सम्मतौ लोकानाम् आदृतौ, तत्रापि नियुद्धे कुशलौ दक्षौ श्रुत्वा, अत एव दिदृक्षुणा—भवन्तौ नियुद्धं वा द्रष्टुम् इच्छया । राज्ञेति तद्-योग्यतोक्ता, अतोऽत्र मल्ल-युद्धेन क्रीडताम् इति भावः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समाभाषण-प्रकारम् एवाह । हे इति । नन्द-सूनुत्वेन सम्बोधनं तदीय-सत्-पुत्रत्वस्य व्यञ्जनाय । रामेति सकल-लोक-रति-हेतुत्वस्य तत् तच् च युद्धाय प्रोत्साहनं श्लेषेण तु गोवपुत्रत्वेनामहत्त्वं तद्वत् पितृ-सम्बन्धानुल्लेखेनाज्ञात-पितृकत्वं च सूचयति तत् तत् ऊपहासेन तेजोग्लापनार्थम् इति ज्ञेयम् । वीर्येण बलेन सम्मतौ लोकानाम् आदृतौ तत्रापि नियुद्धे कुशलौ दक्षौ श्रुत्वा अत एव दिदृक्षुणा भवन्तौ नियुद्धं वा द्रष्टुम् इच्छता राज्ञेति तद् योग्यतोक्ता । अहो अत्र मल्ल-युद्धेन क्रीडतम् इति भावः । अत्रापि विरोधि-लक्षणयोपहास एव तत्पर्यम् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नियुद्धं बाहु-युद्धम् ॥३२.३३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.३३ ॥
प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः ।
मनसा कर्मणा वाचा विपरीतम् अतोऽन्यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतोऽन्यथा राज्ञः प्रियानाचरणेन । विपरीतमश्रेयः । तत्र वैकुख्यं न युक्तं, तथा च स्मृतिर् इत्य् आह—प्रियम् इति । प्रकुर्वन्त्य इत्य् आर्षो नुम् । एतच् च भगवतोः श्रेयोऽर्थम् एवेति भावः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र च वैमुख्यं न योग्यम् इत्य् आह—प्रियम् इति । मन-आदिना प्रकर्षेण सम्यक्तया कुर्वत्यः, श्रेय उत्तम-फलम्, प्रजा इति राज-प्रियाचणावश्यकतोक्ता, वै प्रसिद्धौ । यद् वा, हेतौ यस्माद् इत्य् अर्थः । भवन्तौ श्रेयोऽर्थम् एवाहूताव् इति भावः । अतोऽस्माद् अन्यथा व्यतिरेकेण सम्यक् प्रियाचरणं विनेत्य् अर्थः । विपरीतम् आश्रेयः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र च वैमुख्यं न युक्तं तथा स्मृतिर् इत्य् आह । प्रियम् इति प्रकुर्वन्त्य इत्य् आर्षोनुम् एतच् च भवतोः श्रेयोऽर्थम् इति भावः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.३४ ॥
नित्यं प्रमुदिता गोपा वत्स-पाला यथा-स्फुटम् ।
वनेषु मल्ल-युद्धेन क्रीडन्तश् चारयन्ति गाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज्ञा कथम् अवगतम् एतौ नियुद्ध-कुशलाव् इति चेत् तत्राह—नित्यम् इति । नियुद्ध-क्रीडया गोपा गो-वत्सांश् चारयन्तीति किम्वदन्त्यावगतम् इत्य् अर्थः । न च वक्तव्यं गोपैर् अस्माभिस् तन् न सम्यग् अज्ञयते इति यतो नित्यम् इति । गोपाः गवां रक्षकाः । समुच्चयेऽप्य् अर्थे वा तथा शब्दः । वत्सपाला अपि, गाः गो-जातीः स्फुटं व्यक्तं प्रसिद्धम् एवेत्य् अर्थः इदम् अपि निगूढावहास-युक्तम् । एवम् उत्तरत्रापि ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च वक्तव्यं गोपैर् अस्माभिस् तन् न सम्यग् ज्ञायत इत्य् आह—नित्यम् इति । गोपा गवां वृक्षकाः स्फूटं क्रीडन्तः, समुच्चयेऽप्य् अर्थे वा, तथा वत्स-पाला अपि क्रीडन्तो वत्सांश् चारयन्तीत्य् अर्थः । यद् वा, गा गो-जातीर् इत्य् अर्थः, अथवा गोपा गोप-जातयः, वत्स-पालाः सन्तः, वत्स-पालनम् आरभ्येत्य् अर्थः । तथा तेनानिर्वचनीय-प्रकारेण क्रीडन्तः । एतच् च स्फुटम् एव ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न वक्तव्यं गोपैर् अस्माभिस् तन् न सम्यक् ज्ञायत इति यतो नित्यम् इति । गोपा गोप-जातयो वा सपालाः वत्स-पालत्वम् आरभ्य तथा तेन प्रकारेण वनेषु मल्ल-युद्धेन क्रीडन्तो गाश् चारयन्तीत्य् अर्थः । तद् एतद् विधान्य् अस्य ग्राम्यस्य वाक्यानि कष्टान्वयानि यथावद् एव मुनीन्द्रेणोपहासार्थम् अनुदितानीति ज्ञेयं गोपा गवं रक्षका समुच्चयेऽप्य् अर्थे व तथा-शब्दः वत्स-पाला अपि गा गो-जातीः स्फुटं व्यक्तं प्रसिद्धम् एवेत्य् अर्थः । इदम् अमि निगूढोपहास-युक्तम् एवम् उत्तरत्रापि यथेति पाठे यथावद् इत्य् अर्थः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नियुद्ध-कुशलत्वं कथम् आवयोर् इत्य् अत आह । नित्यम् इति ॥३४.३७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.३५ ॥
तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे ।
भूतानि नः प्रसीदन्ति सर्व-भूत-मयो नृपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे कृष्ण, प्रियं करवामेति । राज्ञि प्रीते भूतानि च प्रसीदेयुः ॥३५.३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो नित्यं भवताम् एषा क्रीडा तस्माद् धेतोः । यूयं वयं च करवाम इत्य् अत्र युगपत् प्राप्तौ परः इत्य् उत्तम-पुरुष-प्रयोगः । नियुद्धस्य कलह-रूपत्वात् तत्र किं फलं तत्राह-भूतानीति । कथं सर्व-भूत-प्रसादस् तत्राह—सर्व-भूतेति । तर्हि गोपैः सह तत्-क्रीडा कार्येति चेत् तत्राह-तस्माद् इति । राज्ञः प्रियार्थम् एवास्माभिः सह कार्येति भावः । भूतानि जीवाः । नृपस्य सर्व-भूतमयत्वं सर्व-भूतस्य तद् उपजीवनत्वात् । तस्मान् निज-प्रजारूपयोर् भवतोर् अनेन रक्षैव कार्येति मा च मैषीस् त्वम् इति भावः । अन्यत् तैः । तत्रेतिशब्दस्य प्रकारार्थस्य राज्ञीत्य् आदिनान्वयः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तर्हि गोपैः सह तत्-क्रीडा कऋयेति चेत् तत्राह—तस्माद् इति । राज्ञः प्रियार्थम् अस्माभिः सह कऋयेति भावः । भूतानि जीवाः, नृप इति निज-प्रजा-रूपयोर् भवतोर् अनेन रक्षैव कार्येति, मा भैष्टम् इति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्हि गोपैः सह तत् क्रीडा कार्येति चेत् तत्राह । तस्माद् इति । राज्ञः प्रियार्थम् अस्माभिः सह कार्येति भावः । भूतानि जीवाः नृपस्य सर्व-भूतमयत्वं सर्व-भूतस्य तद् उपजीवनत्वात् तस्मान् निज-प्रजा-रूपयोर् भवतोर् अनेन रक्षैव कार्येति माच भैष्टम् इति भावः । अन्यत् तैः तत्रेति शब्दस्य प्रकारार्थस्य राज्ञीत्य् आदिनान्वयः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.३६ ॥
तन् निशम्याब्रवीत् कृष्णो देश-कालोचितं वचः ।
नियुद्धम् आत्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् चाणूर-वाक्यम् । अभिनन्द्यं कारवमेत्य् उक्त्वा च । तस्न् निशम्याभिनन्द्य च देश-कालोचितं तदानीं तादृशम् एव वक्तुं योग्यं वचोमात्रम् अब्रवीत् । वस्तुतोऽभिप्रायस् त्वन्य एवेति भावः । तादृश-वचने हेतुः—नियुद्धम् इत्य्-आदि । तत्र हेतुः—कृष्णः, तादृश-लीला-कौतुकितया प्रसिद्ध इत्य् अर्थः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देश-कालोचितम् इति—वाक्-कौशलं तद्-योग्यत्वं चोक्तम् । यद् वा, तदानीं तत्र तादृशम् एव वाच्यम् इति तद् अब्रवीत्, न तु तत्त्वत इति । नियुद्धम् एव किं वा, तत् चानूरोक्तम् एवाभिनन्द्य साध्विति प्रशस्य च । तच् च प्रत्युत्तर-चातुर्य-स्वभावाद् एव । किं वा, नियुद्ध-दार्ढ्यार्थम् इति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तन् निशम्याभिनन्द्य च देश कालोचितं तदानीं तादृशम् एव वक्तुं योग्यं वचो-मात्रम् अब्रवीत् वस्तुतोऽभिप्रायस्त्वन्य एवेति भावः । तादृश-वचने हेतुः नियुद्धम् इत्य्-आदि । तत्रहेतुः कृष्णः तादृश-लीला-कौतुकितया प्रसिद्ध इत्य् अर्थः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.३७ ॥
प्रजा भोज-पतेर् अस्य वयं चापि वने-चराः ।
करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्य कंसस्य । प्रजा यूयम् । तथात्वेऽपि वयं वनेचरा एतेन वनेचराणं मुख्य-प्रजात्वं नास्तीत्य् उक्त, तथापि यद् वयं प्रियं नृप-प्रियं नियुद्धं नित्यं करवाम तत्परं केवलम् अनुग्रह एवेशस्येति शेषः । वस्तुतस् तु वयं नित्यं प्रियं मोक्षं यद् अस्य करवाम करिष्याम, तन् नोऽस्माकम् अनुग्रह एव । न हि मद् अनुग्रहं विना मोक्षो भवतीति सूचितम् । अभिनन्दनम् एवाह—प्रजा इति । भोजपतेर् इति गौरवात् । तत्राप्य् अस्य न तूग्रसेनस्यापीत्य् अर्थः । वयं श प्राजाः कीदृशा अपि वनेचरा अपि । चकाराद् भवन्तस् तावत् पुरवासिनः सुतराम् एवेत्य् अर्थः । तस्माद् वयम् अपि राज्ञः प्रियम् आज्ञापालनादिकं करवामैव, नोऽस्मभ्यं भोजपतेर् अनुग्रह एव वयम् अत्र प्रवृत्ता भवामेति भावः । वस्तुतस्त्व् अस्येत्य् अनादरे षष्ठी । वयं चापि वयम् अपि प्रजाः, अपि तु नैवेत्य् अर्थः । तत्र हेतुर् वनगोचराः, नित्य-वृन्दावन-विहारिण इत्य् अर्थः । अयम् आधुनिक इति भावः । तस्माद् वयं राज्ञः स्वस्य श्री-गोपराजस्यैव प्रियं करवाम कर्तुम् इच्छामः न तु भोजपतेः । नन्व् ईश्वरस्य तवान्यत्र राजत्वादिमननम् आज्ञा-पालनादिकं शसभवम् इत्य् आशङ्क्याह—नोऽस्माकम् अनुग्रहः—प्रेम-विशेष-कर्तृ-जन-विषयश्चेतोद्रव-विशेष एव, येन तादृशीम् अपि वश्यतां प्रतिपद्येमहीति भावः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभिनन्दनम् एवाह—प्रजा इति । अस्य प्रजा-हिंसकस्य ज्ञातिद्रोहिणोऽपि वनेचरा अपि, अप्य् अर्थे च-शब्दः । अस्य भोज-पति-मात्रत्वेनास्माकं च वनेचरत्वेन यद्य् अपि प्रजात्वं नैव सङ्गच्छते, भवतु, तथापि यूयम् इव वयम् अपि प्रजा भवेमेत्य् अर्थः । तस्माभिर् नित्यं तस्य प्रियाचरणं नोऽस्मान् प्रति तस्यानुग्रहः साक्षात् कारुण्यम् एवेत्य् अर्थः । परं केवलम् इति तत्रास्माकं कापि योग्यता नास्तीत्य् अर्थः । अत एव तद् अकारणता-विवक्षया कार्य-कारणाभेदात् तद् अनुग्रह इत्य् उक्तम् । श्लेषार्थश् चायम्—सर्व-प्रजा-पालनाभावात् स्वज्ञाति-द्रोहाच् चास्य राजत्वम् अस्माकं प्रजात्वं न सिध्य् एव, तथाप्य् अस्य प्रियं करवामः, यदि तस्मिन्न् अस्माकम् अनुग्रहो भवेद् अतोऽयं हन्तव्य इति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभिनन्दनम् एवाह । प्रजा इति । भोजपतेर् इति गौरवात् तत्राप्य् अस्येति न तूसेनस्यापीत्य् अर्थः । वयं च प्रजाः कीदृशा अपि वनेचरा अपि चकाराद् भवन्तस् तावत् तत् पुरवासिनः सुतराम् एवेत्य् अर्थः । तस्माद् वयम् अपि राज्ञः प्रियम् आज्ञाप्रति-पालनादिकं करवामैव तच् च नोऽस्मभ्यं भोजपतेर् अनुग्रह एव यत एव वयम् अत्र प्रवृता भवाम् एति भावः । वस्तुतस् तु अस्येत्य् अनादरे वयं चापि वयम् अपि प्रजाः अपितु नैवेत्य् अर्थः । तत्र हेतुः वनेचराः नित्यं वृन्दावन-विहारिण इत्य् अर्थः । अयन्त्वाधुनिक इति भावः । तस्माद् वयं राज्ञः स्वस्य श्री-गोप-राजस्यैव प्रियङ्करवाम कर्तुम् इच्छामः न तु भोजपतेः । नन्वीश्वरस्य तवान्यत्र राजत्वादि-मननम् आज्ञा-प्रतिपालनादिकं चषम्भवम् इत्य् आशङ्क्याह । तच् च नोऽस्माकम् अनुग्रहः प्रेम-विशेष-कर्तृजन-विषयश्च् एतोद्रवविशेष एव येन तादृशीम् अपि वश्यतां प्रतिपद्येमहीति भावः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.३८ ॥
बाला वयं तुल्य-बलैः क्रीडिष्यामो यथोचितम् ।
भवेन् नियुद्धं माधर्मः स्पृशेन् मल्ल-सभा-सदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथोचितं नियुद्धं वाहु-युद्धं भवेत् । मल्ल-सभा-सदो मल्ल-सभाधिकृतान् जनान् अधर्मो मा स्पृशेन् न स्पृशेद् इत्य् अर्थः । हे मल्लेति वा ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-मात्र निषेध एवेति ध्येयम् । न हि मल्लानां सभा सा तु राज्ञ एवेत्य् अस्वारस्याद् आह—हे मल्लेति वा । वस्तुतस् तु वयं बाला बलानां शक्तीनां समूहो बालं तद् विद्यते षेषु ते बालाः । मत्वर्थोयोऽच् । सर्व-शक्तिमन्त ईश्वराः । तुल्यबलैः स्व-सदृशर्वशक्तिमद्भिः । अन्यथा निर्बल-स्सबलयोर् युद्धेक्षणात् सभ्याः पापिनो भवन्तीति तात्पर्यम् । एतेन यूयं नास्मत् तुल्यबला इति बलैकदेशवतां सर्व-बलबद्भिर् नियुद्धम् अनुचितमेवेति ध्वनितम् । बाला बाल्यत्वेनाल्पबला इत्य् अर्थः । बहुत्वम् अन्येषाम् अपि बालानां स्वकोटौ प्रवेशश् च दृष्टान्त-व्यञ्जनाय, सम्सर्गि-गोप-वर्गापेक्षया वा । तुल्यबलैर् इति—बालेष्व् अपि ये न्यूनबला अधिकबलाश् च तैर् नेत्य् अर्थः । क्रीडिष्याम इति—तत्रापि क्रीडायाम् एव ममेच्छेति भावः । अन्यत् तैः वस्तुतस् तु हे बाला अज्ञास् तुल्यबलैर् गोपैः सखिभिर् एव सह क्रीडिष्यामो न त्व् अल्प-बलैर् युष्माभिर् इत्य् अर्थः । गोपैर् ममानन्तबल शीलवयोविलास-वेशैश् च मूर्छित कलं वर-वेणु-वाण-वीणैः इति प्रसिद्धे । मल्लानाम् अशनिः इति च । तत्रापि भवादृशाम् आग्रहात् तत्र प्रवर्तामहे, ततोऽशनिस्वावमद् अङ्गस्य स्पर्शने भवतां वधे तु नास्माकं दोष इति भावः । श्री-हरि-वंशे विष्णुपर्वणि कंस-वधेऽष्टाशीतितमेऽध्याये नियुद्धे निपातनानन्तरम् अवध्यस्यापि मल्लस्य तस्य वधे कार्ये स्वदोष-परिहारार्थं स्पष्टम् एव भगवद् वचनम्—
अहं बालो महाननन्ध्रो वपुषा पर्वतोमपः ।
युद्धं मनानेन सह रोचते बाहु शालिना ।
युद्ध-व्यतिक्रमः कश्चिन् न भविष्यति मत्कृतः ।
न ह्य् अहं बाहुयोधानां दूषयिष्यामि यन्मतम् ।
योऽयं करीष-धर्मश् च तोय-धर्मश् च रङ्गजः ।
कषायायस्य च संसर्गः समयो ह्य् एष कल्पितः ।
संयमः स्थिरता शौर्यं व्यायामः सत्क्रियास् बलम् ।
रङ्गे च नियता सिद्धिर् एतद् युद्धविदां मतम् ।
यद् अयं बाहु-युद्धं वै सवैरं कर्तुम् उद्यतः ।
अत्र वै निग्रहः कार्यस् तोषयिष्याम्य् अहं जगत् ।
करूषेषु प्रसूतोऽयं चाणुरा नाम नामत ।
बाहुयोधी शरीरेण कर्मभिश् चात्र चिन्त्यताम् ।
एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्गप्रतापकामेन मल्ल-मार्गश् च दूषितः ।
शस्त्रसिद्धिस् तु योधानां सङ्ग्रामे शस्त्रयोधिनाम् ।
रङ्गे सिद्धिश् च मल्लानां प्रतिमल्लनिपातजा ।
रणे विजयमानस्य कीर्तिर् भवति शाश्वती ।
हतस्यापि रणे शस्त्रैर् नाकपृष्ठं विधीयते ।
रणे ह्यु भयतः सिद्धिर् हतस्स्येह ध्नतोऽपि वा ।
सा हि प्राणान्तिकी यात्रा महद्भिः साधुपूजिता ।
अयं तु मार्गो बलतः क्रियातश् च विनिस्सृतः ।
मृतस्य रङ्गे कः स्वर्गो जयतां वा कुतो रतिः ।
ये तु केचित् स्वदोषेण राज्ञः पण्डितमानिन ।
प्रतापार्थे हता मल्ला मल्ल-हन्तुर् वधो हिः सः ॥ इति ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बाला अल्पवला इत्य् अर्थः । साक्षात् तथानुक्तिर् महा-बलत्वेन वाचो मिथ्यात्वापत्तेः, बालत्वस्य च साक्षात् प्रकटनात् सत्यत्वम् एव । यद्य् अपि तदानीं कैशोरम्, तथापि सुप्रसिद्ध-बाल्य-तारुण्याद्य् अवस्था-त्रयमृते तद् बाल्यान्तर् एव प्रविशति, बहुत्वं साधारण-कथन-रीत्या सङ्गि-गोप-वर्गापेक्षया वा तुल्य-बलैर् अल्प-बलैर् इत्य् अर्थः । यद् वा, तुल्य-बलैर् बालैः सहेत्य् अर्थः । तुल्य-बलैर् इति बालेष्व अपि ये न्यूनवला अधिकवला वा तैर् अपि नेति भावः । क्रीडिष्याम इति क्रीडैवोक्ता, वधश् च परिहृतः, नियुद्धौचित्यापेक्षया, ततश् च यथोचितम् । अन्यत् तैर् व्याख्यातम् ।
श्लेषेण युष्माभिर् अल्प-बलैः सहास्माकं नियुद्धं नोचितं किन्तु गोपैर् एव स्यात्, तथापि भवादृशाम् आग्रहात् तत्र प्रवर्तामहे, नात्रास्माकं दोष इति । एवं कार्ये तद् वधे दोषः परिहृतः, तथा नियुद्धे निपातनानन्तरम् अवध्यस्यापि मल्लस्य तस्य वधे कार्य-दोषपरिहारार्थं श्री-हरि-वंशे श्री-भगवद्-वाक्यम्—
अहं बालो महानन्ध्रो वपुषा पर्वतोपमः ।
युद्धं ममानेन सह रोचते बाहुशालिना ॥
युद्ध-व्यतिक्रमः कश्चिन् न भविष्यति मत्-कृतः ।
न ह्य् अहं बाहु-योद्धानां दूषयिष्यामि यन्मतम् ॥
योऽयं करीष-धर्मश् च तोय-धर्मश् च रङ्गजः ।
कषायस्य च संसर्गः समयो ह्य् एष कल्पितः ॥
संयमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् ।
रङ्गे च नियता सिद्धिरेतद्-युद्ध-विदां मतम् ॥
यद् अयं बाहु-युद्धं वै सवैरं कर्तुम् उद्यतः ।
अत्र वै निग्रहः कार्यस् तोषयिष्याम्य् अहं जगत् ॥
करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।
बाहु-योधी शरीरेण कर्मभिश् चानुचिन्त्यताम् ॥
एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्ग-प्रतापकामेन मल्ल-मार्गश् च दूषितः ॥
शस्त्र-सिद्धिस् तु योधानां संग्रामे शस्त्र-योधिनाम् ।
रङ्ग-सिद्धिस् तु मल्लानां प्रतिमल्ल-निपाजा ॥
रणे विजयमानस्य कीर्तिर् भवति शाश्वरी ।
हतस्यापि रणे शस्त्रैर् नाक-पृष्ठं विधीयते ॥
रणे ह्य् उभयतः सिद्धिर् हतस्येह घ्नतोऽपि वा ।
सा हि प्राणान्तिकी यत्रा महद्भिः साधु पूजिता ॥
अयन्तु मार्गो बलतः क्रियाश् च विनिसृतः ।
मृतस्य रङ्गे कः स्वर्गो जयतो वा कुतो रतिः ॥
ये तु केचित् स्व-दोषेण राज्ञः पण्डितमानिनः ।
प्रतापार्थे हता मल्ला मल्ल-हन्तुर् वधो हि सः ॥ इति ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाला बालत्वेनाल्पबला इत्य् अर्थः । बहुत्वम् अन्येषाम् अपि बालानां स्वकोटौ प्रवेश्य दृष्टान्तत्व-व्यञ्जनाय सांसर्गि-गोप-वर्गापेक्षया वा तुल्य-बलैर् इति बालेष्व् अपि ये न्यूनबला अधिक-बला वा तैर् अपि नेत्य् अर्थः । क्रीडिष्याम इति । तत्रापि क्रीडायाम् एव ममेच्छेति भावः । अन्यत् तैः वस्तुतश् च हे बाला ! अज्ञाः तुल्य-बलैः गोपैः सखिभिर् एव सह क्रीडिष्यामः नत्वल्प-बलैर् युष्माभिर् इत्य् अर्थः । गोपैः समान-गुणशीलयोर् विलास-वेषैश् च मूर्च्छित-कलस्वन-वेणु-वीणैर् इति प्रसिद्धेः मल्लानाम् अशनिर् इति च तथापि भवादृशाम् आग्रहात् तत्र प्रवर्तामहे ततोऽशनिस्वभावमद् आङ्ग-स्पर्शेन भवतां वधे तु नास्माकं दोष इति भावः—
श्री-हरि-वंशे विष्णु-पर्वणि कंस-वधे अष्टाशीतितमाध्याये ।
नियुद्धे निपातनानन्तरम् अवध्यस्यापि मल्लस्य ॥
तस्य वधे कार्ये स्व-दोषपरिहारार्थं—
स्पष्टम् एव श्री-भगवद् वचनम् ॥
अहं बालो महानन्द्रो वपुषा पर्वतोपमः ।
युद्धं ममानेन सह रोचते बाहुशालिना ॥
युद्ध-व्यतिक्रमः कश्चिन् न भविष्यति मत् कृतः ।
न ह्य् अहं बाहु-योधानां दूषयिष्यामि यन् मतम् ॥
योऽयं करीष-धर्मश् च तयो-धर्मश् च रङ्गजः ।
कषायस्य च संसर्गः समयो ह्य् एष कल्पितः ॥
संयमः स्थिरता शैर्यं व्यायामः सत्क्रिया बलम् ।
रङ्गे च नियता सिद्धिर् एतद् युद्ध-विदां मतम् ॥
यद् अयं बाहू-युद्धं वै सर्वैरं कर्तुम् उद्यतः ।
अत्र वै निग्रहं कार्यस् तोषयिष्याम्य् अहं जगत् ॥
करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।
बाहू-योधी शरीरेण कर्मभिश् चात्र चिन्त्यताम् ।
एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्ग-प्रतापकामेन मल्ल-मार्गश् च दूषितः ॥
शस्त्र-सिद्धिस् तु योधानां सङ्ग्रामे शस्त्र-योधिनाम् ।
रङ्गे सिद्धिस् तु मल्लनां प्रतिमल्लनिपातजा ॥
रणे विजयमानस्य कीर्तिर् भवति शाश्वती ।
हतस्यापि रणे शस्त्रैर्माक-पृष्ठं विधीयते ॥
रणे ह्य् उभयतः सिद्धिर् हतस्येह घनतोऽपि वा ।
साहि प्राणान्तिकी यथा महद्भिः साधु पूजिता ॥
अयन्तु मार्गो वलतः क्रीयातश् च विनिःसृतः ।
भृतस्य रङ्गे कः स्वर्गो जयतो वा कुतो रतिः ॥
ये तु केचित् स्व-दोषेण राज्ञः पण्डितमानिनः ।
प्रतापार्थे हता मल्ला मल्ल-हन्तुर् वधो हि सः ॥ इति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मल्ल-सभासदो मल्ल-सभाधिकृतान् अधर्मो मा स्पृशेदित्य् अतो बालैर् एव सहक्रीडिष्यामोऽन्यथा त्व् अधर्मः स्पृशेदेवेति भावः ॥३८.३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४३.३९ ॥
चाणूर उवाच—
न बालो न किशोरस् त्वं बलश् च बलिनां वरः ।
लीलयेभो हतो येन सहस्र-द्विप-सत्त्व-भृत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्र-द्विपानां सत्त्वं बलं बिभर्तीति तथा ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैवाह सः—न बाल इति । बलिनाम् एकैक-शक्तिमतां ब्रह्मादीनां वरः तद् एवाह—येन त्वया सहस्रेति । किशोरश् च न भवसि तस्यापि बाल-सादृश्येनाल्पबलत्वात् । किन्तु बलिनां मध्ये वरः श्रेष्ठः । वरत्वम् एव दर्शयति—लीलयेति । येनेतियेनयेनेत्य् अर्थः । द्वयोर् अपि स्कन्धे गज-दन्तस्य गृष्टत्वाद् अनुमाय तद् इदं प्रोक्तम् इति ज्ञेयम् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किशोरश् च न भवसि, तस्य बाल्य-सादृश्येनाल्प-बलत्वात्, किन्तु, बलिनां मध्ये वरः श्रेष्ठः । वरत्वम् एव दर्शयति—लीलयेति ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किशोरश् च न भवसि तस्यापि बाल्य-सादृश्येनाल्पबलत्वात् किन्तु बलिनां मध्ये वरः श्रेष्ठः वरत्वम् एव दर्शयति । लीलयेति । येनेति । येन येनेत्य् अर्थः । द्वयोर् अपि स्कन्धे गज-दन्तस्य दृष्टत्वाद् अनुमाय तद् इदं प्रोक्तम् इति ज्ञेयम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४३.४० ॥
तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयोऽत्र वै ।
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बलिभिर् मादृशैः सह । अनयोऽधर्मः विक्रम पराक्रमं कुरु । मुष्टिको विक्रमताद् इत्य् अनुषङ्गः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्माद् युवां बलिनां वरौ लोक-दृष्ट्या । बलिभिरस्माभिः सह । अत्र नियुद्धे । बलिभिर् इति बहुत्वं सर्वेषाम् एव मल्लानां क्रमेण नियुद्धेच्छया । यद् वा, बलिभिर् बहुभिर् अप्य् एकदा योद्धव्यं तथापि नानयः । कथं तर्हि भवता योद्धव्यम् इत्य् आशङ्क्य पुनः स्वाभिमानम् आह—मयि तु विक्रम, यावन्तं स्वविक्रमं दर्शयेत्य् अर्थः । अहं तु न दर्शयामीति भावः
ननु गोपा वयं राजसभायां न क्रीडा-योग्या इत्य् अत्राह—हे वार्ष्णेय । तद् इदम् अपि वयं जानीम इति भावः । न त्वं गोपः किन्तु वृष्णिवशोद्भूतत्वाद् राजवंशीय एवेति तत्त्वम् ॥४०॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलिभिर् इति बहुत्वं सर्वेषां मल्लानां क्रमेण नियुद्धेच्छया, अत्र बाल-वलि-युद्धे । वै प्रसिद्धौ । यद् वा, वलिभिर् बहुभिर् अप्य् एकदा योद्धव्यं तथापि नानयः । मया सह त्वं पराक्रमं कुर्विति मद् विक्रमन्त्वया सोढं न शक्य इति मया सह न कऋयः, किन्तु त्वयैव क्रियताम् इत्य् अर्थः । वार्ष्नेय ! हे वृष्णि-वंशोद्भूतेति विक्रमण-योग्यतोक्ता । तच् च नियुद्धे प्रवर्तनार्थं पूर्ववत् प्रोत्साहनम् । किं वा, वृष्णि-वंशत्वेन राज्ञोऽस्य भागिनेयत्वात् तव बलिष्ठता सम्भाव्यत एवेति । यद् वा, निजानिष्टं मा शङ्कस्वेति तद् भागिनेयेति साक्षाद् अनुक्तिर् महामदात् । किं वा, भागिनेयानिष्ट-चिन्तया लोके महा-दोष-विख्याति-भयात् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बलिभिर् इतिबहुत्वं सर्वेषाम् एव मल्लानां क्रमेण नियुद्धेच्छया यद् वा, बलिभिर् बहुभिर् अप्य् एकदा योद्धव्यं तथापि नानयः कथं तर्हि भवता योद्धव्यम् इत्य् आशङ्क्य पुनः साभिमानम् आह । मयि तु विक्रम यान्तवं स्वविक्रम दर्शयेत्य् अर्थः । अहं तु न दर्शयिष्यामीति भावः
ननु, गोपा वयं राज-सभायां न क्रीडा-योग्या इत्य् अत्राह । हे वार्ष्ण्येय ! तद् इदम् अपि वयं जानीम इति भावः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलभिर् मद् विधैर् एव सह न चात्रत्यैर् बालैस् तेषां त्वत् तुल्य-बलत्वाभावाद् इति भावः ॥४०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
दशमस्य त्रयश् चत्वारिंशोऽप्य् अजनि सङ्गतः ॥*॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यंसंहितायां वैयासिक्यां दशम-स्कन्धे कुवलयापीड-वधो
नाम त्रिचत्वारिंशोऽध्यायः ।
॥१०.४३॥
(१०.४४)