४२

कुब्जायाम् अनुग्रहः, धनुषो भङ्गः, मल्ल-शाला-सज्जीकरणं च ।

॥ १०.४२.१ ॥

श्री-शुक उवाच—

अथ व्रजन् राज-पथेन माधवः

स्त्रियं गृहीताङ्ग-विलेप-भाजनाम् ।

विलोक्य कुब्जां युवतीं वराननां

पप्रच्छ यान्तीं प्रहसन् रस-प्रदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वि-चत्वारिंशके कुब्जोन् नमनं धनुषो भिदा

वधस् तद् रक्षिणां कंसा- रिष्टं रङ्गोत्सवादि च

अङ्ग-विलेपाश् चन्दनादयः । गृहीतान्य् अङ्ग-विलेपानां भाजनानि यया ताम् । रस-प्रदः सुख-प्रदः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुब्जाया उन्नमन-मृज्वीकरणम् । भिदा भेदनम् । तद्-रक्षिणां धनू-रक्षकाणाम् । कंसस्य अरिष्टं मरण-चिह्नावलोकनम्

अरिष्टम् अशुभे तक्र सूतिकागार आसवे । > शुभे मरण-चिह्ने च इति मेदिनी ।

स्वामिचरणैर् अरिष्टपदं लक्षणया तद् दर्शनपरं प्रयुक्तम् । आदिना श्री-कृष्णस्य पुरान् निर्गमो ग्राह्यः ।*। अथ मालाकार-गृहान् निर्गमोत्तरम् । माधव इत्य् उक्त्या तस्या मांशत्वं सूचितम् । युवतीं तरुणीम् । वराननाम् इति पृच्छायोग्यताम् आह । रसं कुब्जायाः शृङ्गारं, सहचरेषु हास्यं सर्वत्राद्भुतं प्रददातीति सः । इयं स्वरूपभूतायाः साक्षाद्-भूशक्तेः सत्यभामायाः अम्बभूता अस्या एव विभूतिः पृथिवी प्रसिद्धा । अतस् तया सहैक्येनेयं परः सहस्रदुष्टासुरभारभुग्नत्वं स्वकुब्जत्वेन दर्शयन्ती स्वीयं गन्ध-गुणं चन्दनादिमिषेणोपहरन्ती पृथिव्येव परम-भक्ता प्रीत्या पथि सङ्गताभूत् । भगवांश् च सानन्दम् एव गन्धं गृहीत्वा स्वीयं माधुर्यम् एव रसं ददानो-भो मद्-भक्ते पृथिवि सम्प्रत्य् एव कंसादि-स्वभावान् मयापहृतान् एव विद्धि, तद् अधुनैव त्वं स्वस्था भवेति तामाश्वासयन्न् आनन्दमग्नामृज्वी चक्रं इत्य् एवैतत्-प्रकरणतत्त्वम् इति केचिद् आहुः । तोषिणी तु—राज-पथेनेति तस्मिल् लोक-सुख-दातृत्वं दर्शयति । युवतीम् इति, वराननाम् इति पद-द्वयेनान्यत् सौष्ठवं त्व् अस्तीति बोधितम् । यान्तीं कंस-गृहं गच्छतीम् । तथा च तस्या एवोक्तिः श्री-हरि-वंशे राज्ञः स्नान-गृहं यामि इति । प्रकर्षेण साकूततया हसन् । स्वभावत एव रस-प्रद इति ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेति माङ्गल्ये, श्री-गोपी-स्मारकर-सविशेषोदयात्, अत एव तत्-कथन-भङ्ग्या दीर्घच्छन्दःस् ।राज-पथेनेति बहु-लोक-समर्दं सूचयति, तेन व्रजनं च पुरी-शोभा-विशेष-दर्शनार्थं धनुर्-भङ्जनार्थं क्ंस-गृहान्तिके गमनाय च । माधवो लक्ष्मी-कान्त इति परम-वैदग्ध्यादिकः बोधयति । यद् वा, मधु-वंशोद्भवः, मधूनां प्रीत्यै प्रवृत्तेः, अङ्ग-विलेपा घृष्ट-चन्दनादि-गन्ध-द्रव्याणि, कुब्जां स्थानत्रये वक्रतया तन् नाम्नैव प्रसिद्धाम्, अन्यत्र च परम-सुन्दरीम् इत्य् आशयेन तां विशिनष्टि—युवतीम् इति पद-द्वयेन । अनेन सर्व-सौन्दर्यम् एवोपलक्षितम् । यान्तीं मऋगे प्रयान्तीं कंस-गृहं गच्छन्तीम्, तथा च तस्या एवोक्तिः श्री-हरि-वंशे—राज्ञः स्नान-गृहं यामि [ह।वं। २.२७.२८] इति प्रकर्षेण हसन् हास-विशेषं कुर्वं । रसः सुखं रागो वा तद् विस्तारक इत्य् अर्थः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राज-पथेनेति । तस्मिन् लोक-सुख-दातृत्वं दर्शयति । युवतीम् इति । कामिनाम् इति पद-द्वये नान्यत् सौष्ठवं त्व् अस्तीति बोधितं यान्तीं कंस-गृहं गच्छन्तीं तथा च तस्या एवोक्तिः । श्री-हरि-वंशे—राज्ञः स्नान-गृहं यामि [ह।वं। २.२७.२८] इति प्रकर्षेण साकूततया हसन् स्वभावत एव रस-प्रदः । अत्र तु रसः कुब्जायां शृङ्गारः सह-चरेषु हास्यः सर्वत्र त्वद्-भुतश् च तं तं प्रदातुम् इत्य् अर्थः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्विचत्वारिंशके कुजा- हास्योम्नमनचापभित्

कंससेनाबधारिष्ट क्षणरङ्गोत्सवाद्यभूत्

अङ्ग-विलेपाश् चन्दनादयः, रसं कुब्जायाः शृङ्गारं, स्व-सहचरेषु हास्यं सर्वत्र त्वद्-भूतं प्रददातीति सः । इयं स्वरूप-भूतायाः साक्षाद्-भूशक्तेः सत्यभामाया अंशमाया अंशभूता अस्या एव विभूतिः पृथिवी प्रसिद्धा । अतस्तया सहैक्येनेयं परसहस्र-दुष्टासुर-भार-भुग्नत्वं स्वकुब्जेन दर्शयन्ती स्वीयं गन्धगुणं चन्दनादि-मिषेणोपहरन्ती पृथिव्य् एव परम-भक्ता प्रीत्या पथि सङ्गताभूत-भगवांश् च सानन्दम् एव गन्धं गृहीत्वा स्वीयं माधुर्यम् एव रमं ददानो भो मद्-भक्ते पृथ्वि! संप्रत्य् एव कंसादि-स्वभावान् मयापहृतान् एव विद्धि; तद् अधुनैव त्वं सुस्था भवेति ताम् आश्वाससयन् नानन्द-मग्नां ऋज्वीं चक्रे इत्य् एवैतत् प्रकरण-तत्त्वम् इति केचिद् आहुः ॥१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२ ॥

का त्वं वरोर्व् एतद् उ हानुलेपनं

कस्याङ्गने वा कथयस्व साधु नःदेह्य् ।

आवयोर् अङ्ग-विलेपम् उत्तमं

श्रेयस् ततस् ते न चिराद् भविष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे अङ्गने हे वरोरु, इति सोपहासं सम्बोध्यापृच्छति, त्वं का, एतद् अनुलेपनं कस्य वा, उ ह इति निपातौ भ्रूवि-क्षेप-युक्ते वितर्के । अस्मत् सेवा सद्यः फलत्य् एवेत्य् आह—न चिराद् इति ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साधु निष्कपटम् । ततोऽङ्गविलेपदानात् । साधु सभ्यं, वा लज्जया यदुक्ति-वैकल्यं तद् विनैव, वा यदि स्याद् अङ्ग-विलेपनम् अस्मद्-गात्रयोग्यम् । तथा च तत्रैव

ताम् उवाच हसन्तीं तु कृष्णः कुब्जाम् अवस्थिताम् । > उभयोर् गात्रसदृशं दीयताम् अनुलेपनम् ॥ इति ।

किं च,

वयं विदेशातिथयो मल्लाः प्राप्ता वरानने । > द्रष्टुं दिव्यं धनुर् गेहं राष्ट्रं चैव महद्धिमत् ॥ इति ।

सम्बोधनम् उपहासेन-वरावूरू यस्या इति । न तावेव केवलं तादृशव् अपि त्व् अङ्गं मूरिर् एव प्रशस्तं यस्या अस्तीति सर्वे गुणाः सन्त्य् एव, तच् चैकम् एवात्र, बहुत्वं दोष इत्य् अभिप्रायात् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न चिराद् अचिराद् एव भविष्यतीति प्रसादातिशयोक्तिः । इयन्तु कुब्जाख्या गन्ध-गुणा पृथिवी असुर-भार-भरेण भुग्ना श्री-कृष्णायात्मार्पणं चिकीर्षन्ती, अथवा, मथुरा-पुर-श्रीर् एव तादृशी ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुलेपनं साधित-गन्ध-द्रव्यम्, साधु यथा स्यात् तथेति भाव-विशेषेणोक्तिः । यद् वा, अनुलेपन-विशेषणम्, अङ्ग-विलेपम् अस्माद्-गात्र-योग्यानुलेपनम्, तथा तत्रैव हरि-वंशे—

ताम् उवाच हसन्तीं तु कृष्णः कुब्जाम् अवस्थिताम् । > उभयोर् गात्र-सदृशं दीयताम् अनुलेपनम् ॥ [ह।वं। २.२७.३१] इति,

किं च, हरि-वंशे—

वयं विदेशातिथयोः मल्लाः प्राप्ता वरानने । > द्रष्टुं धनुर् महं दिव्यं राष्ट्रञ्चैव महर्धिमत् ॥ [ह।वं। > २.२७.३२] इति ।

ततोऽङ्ग-विलेप-दानात्, सम्बोधन-द्वयम् उपहासेन किं वा, तदीय-सौन्दर्यापेक्षयैव, न चिराद् इति श्लेषेण चिराद् अपि न भविष्यतीति नर्म ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साधु सत्यं वा लज्जया यदुक्ति-वैकल्यं तद् वैनैव वा यदि स्यात् । अङ्ग-विलेपनम् अस्मद्-गात्र-योग्यं तथा च तत्रैव ।

ताम् उवाच हसन्तीं तु कृष्णः कुब्जाम् अवस्थिताम् । > उभयोर् गात्र-सदृशं दीयताम् अनुलेपनम् ॥ इति ।

किं च,

वयं विदेशातिथयो मल्लाः प्राप्ता वरानने ! । > द्रष्टुं धनुर्महं दिव्यं राष्ट्रं चैव महद्धिमत् ॥ इति ।

सम्बोधन-द्वयम् उपहासेन । वरौ ऊरू यस्या इति न केवलं ताव् एव तादृशौ अपि त्व् अङ्गं मूरिर् एव प्रशस्तं यस्या अस्तीति सर्वे गुणाः सन्त्य् एव तत्रैकम् एवात्र बहुत्वं दोष इत्य् अभिप्रायात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : का त्वम् इत्य्-आदि । [१ श्लो] अथ व्रजन् राज-पथेन इत्य्-आदि पूर्व-श्लोकेन कुब्जां पप्रच्छेत्य् अस्य प्रश्नः । न चिराद् अचिराद् एवेति प्रासादातिशयो बोद्धव्यः । इयं तु कुब्जा वस्तुतः पृथिव्येव असुर-भावेन भुग्नतया कुब्जा । गन्ध-गुणा स्वभावाद् एव कृष्णायात्म-समर्पणं चिकीर्षती स्ववैरूप्यं च दर्शयन्ती उपस्थितेति ज्ञेयम् ॥१.२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे अङ्गने, हे वरोर्विति सोपहासं सान्तःस्पृहं च सम्बोध्य पृच्छति, का त्वं? कस्य वा एतदनुलेपनम् ॥२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३ ॥

सैरन्ध्र्य् उवाच—

दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता

त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि ।

मद्-भावितं भोज-पतेर् अति-प्रियं

विना युवां कोऽन्यतमस् तद् अर्हति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तिस्रो ग्रीवोरःकट्यो वक्रा इति त्रिवक्रेति नाम यस्याः सा । अनुलेप-साधन-क्रियायां कंसस्य बहुमता दास्य् अस्मि ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चतुःषष्टि-कलाभिज्ञा शील-रूपादि-सेविनी ।

प्रसाधनोपचारज्ञा सैरन्ध्रीत्य् अभिधीयते ॥ इति कात्यः ।

अमरस् तु सैरन्धी परवेश्मस्था स्ववशा शिल्पकारिका इत्य् आह । दासी परिचारिका । मद्भावितं अम्न् निष्पादितं-चन्दनादि । भोजपतेः कंसस्य । अन्यतमोऽन्येष्व् अपि कः श्रेष्ठः, न कोऽपीत्य् अर्थः । त्रिवक्र-नामेति पुंवद् भाव आर्षः । हि प्रसिद्धौ । तथा च तत्रैव

कुतश् चागम्यते सौम्य यन् मां त्वं नाव-बुद्ध्यसे । > महा-राजस्य दयितां नियुक्ताम् अनुलेपने ॥ [ह।वं। २.२७.३०] इति > ।

मया भावितं साधितम् । तत् अनुलेपनम् । युवाम् इति सामान्योक्त्या श्री-रामेऽपि तद् अर्हता-प्राप्तिस् तत्-सन्बन्धेनैवाभिप्रेयते । हे सुन्दरेति—तस्यैव सम्बोधनेन तद् एकतात्पर्यात् । युवां विनान्येषु बहुषु श्रेष्ठो यः सोऽपि कोऽर्हति । यद् वा, अन्यतमः युवाभ्याम् अत्यन्तभिन्नः, इति युष्मदीयाः सखायोऽप्य् अर्हन्तीति । अन्यत् तैः । यद् वा, तवाहं दास्यस्मीति भाव-विशेषेणादाव् उक्त्वा पश्चात् प्रेम्णोतरम् आह ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सुन्दर ! मां न जानासि ? दास्यस्मि अर्थात्तवैव, ननु मद् दासी चेत् तदा कथं पुर-पुरुष-परायणासीर् इत्य् आशङ्क्याह—अनुलेपन-कर्मण्य् एव कंस-सम्मता, न तु स्पर्शादौ, कुब्ज-त्व् अङ्गीकारेण कस्याप्य् अहं नोपभुक्तेत्य् अर्थः । अतः श्री-कृष्णं प्रत्य् उपास्यत्वज्ञानेनेयं भक्तिमती शृङ्गार-रस-भक्तोदाहरणे\ऽप्य् उदाहृतयम् अस्माभिः [भा।पु।११.१२.८ टीका द्रष्टव्या] ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे सुन्दरेति भाव-विशेषोदयात्, अतस् त्वम् एवैतद्-योग्यो न तु कंस इति भावः । हीति प्रसिद्धिं द्योतयति, तथा च तत्रैव—

कुतश् चागम्यते सौम्य यन् मां त्वं नावबुध्यसे । > महा-राजस्य दयितां नियुक्ताम् अनुलेपने ॥ [ह।वं। २.२७.३०] इति,

मया भावितं साधितं तद् अनुलेपनम्, भोजपतेर् इति श्लेषेण परम-भोगपरस्येत्य् अनुलेपन-द्रव्यस्य तस्य परमोत्तमत्वं ध्वनितम्, अन्यतमो युवाभ्याम् अत्यन्त-भिन्न इति युस्मदीया गोपा अप्येतेर् हन्तीति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, तवाहं दास्यस्मीति भाव-विशेषेणादाव् उक्त्व पश्चात् तत्-प्रश्नोत्तरम् आह—कंसेत्य् आदिना ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रिवक्रनामेति पुंवद् भाव आर्षः । हि प्रसिद्धौ । तत्रा च तत्रैव

कुतश् चागम्यते सौम्य ! त्वं नावबुध्यसे । > महा-राजस्य दयितां नियुक्ताम् अनुलेपने ॥ [ह।वं। २.२७.३०] इति > ।

मया भावितं साधितं तद् अनुलेपनं युवाम् इति सामान्योक्त्या श्री-रामेऽपि तद् अर्हता प्राप्तिस् तत् सम्बन्धेनैवाभिप्रेयते । हे सुन्दरेति । तस्यैव सम्बोधनेन तद् एकतात्पर्यत्वात् । युवां विनान्येषु बहुषु श्रेष्ठो यः सोऽपि कोऽर्हति । यद् वा, अन्यतमः युवाभ्याम् अत्यन्त-भिन्न इति युष्मदीयाः सखायोप्य् अर्हन्तीति अन्यत् तैः । यद् वा, तवाह दास्यस्मीति भाव-विचेषेणादाव् उक्त्वा पश्चात् तत् प्रश्नोत्तरम् आह । कंसेत्य् आदिना ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : युवाम् इति । त्वत्-सम्बन्धेन श्री-रामोऽप्य् अर्हतीति भावः ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : युवाम् इति तत्-सम्बन्धेन श्री-रामोऽप्य् अर्हतीति भावः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दास्यस्मीत्यन्यस्य सम्बन्धिपदस्यानुपादानात् प्रत्यासत्त्या तवेति द्योतनम् । तवेत्युक्ते अनृतं भावव्यक्तिश् च स्याद् इति तन्न प्रयुक्तं, सुन्दरेत्येकवचनेनैकस्मिन् कृष्ण एव स्पृहा युवाम् इति द्विवचने स्वीयभावस्याबहित्था च द्योतिता । तिस्रो ग्रीवोरःकट्यो वक्रा यस्याः सा नाम यस्याः सा । पुंवद्भाव आर्यः । हि एवार्थे अनुलेपनकर्मण्येवाहं कंससम्मता न अन्यत्र कुब्जदोषाद् इति स्व-शुद्धिर्ज्ञापिता ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.४ ॥

रूप-पेशल-माधुर्य- हसितालाप-वीक्षितैः ।
धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : रूपं चाङ्ग-सौष्ठवं पेशलं च सौकुमार्यं माधुर्य च रसिकता हसितं चालापाश् च वीक्षितं च तैर् धर्षितात्मा मोहित-चित्ता । सान्द्रं घनम् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उभयोः राम-कृष्णयोः । सान्द्रं वने घने मृदौ इति मेदिनी । माधुर्यं स्वभावतो मनोहरत्वम् किमेतद् अद्भुतम् इव वासुदेवेऽखिलात्मनि इत्य्-आदि । तच् च रूपं पेशलं सौन्दर्य-सौष्ठव-युक्तम् वाचः पेशैः इतिवत् । तथा तत्रैव हसितेनालापेन वीक्षणेन च विशेषत इत्य् अर्थः । रूपादिभिर् इति—श्री-कृष्णस्यैवेति ज्ञेयम् । तत्रैव भावस्य स्वयम् अभिव्यज्ययिष्यमाणत्वात् । उभयोर् अपि योग्यं तद् इच्छया ददौ समर्पितवती । तथा श्री-विष्णु-पुराणे

श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् । > अनुलेपं च प्रददौ गात्रयोग्यम् अथोभयोः ॥ इति ।

अत्र दानं हस्ते समर्पणं, गात्रे लेपनं वा । पूर्वत्र सान्द्रम् इति तत्-सज्ञकम् । ततः स्ववहनयोग्येन स्वल्पेनापि सहचर-वृन्द-सहितयोः पर्याप्तिर् अभीद् इति बोध्यते । उत्तरत्र सर्वाङ्ग-व्याप्तम् इत्य् अर्थः । उभयत्र मालाकल्पानुपघात-पूर्वकानुलेपनं ज्ञेयम् ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्णस्य रूपादिभिः, उभयोर् योग्यम्, तथा च विष्णु-पुराणे—

श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् । > अनुलेपनं च प्रददौ गात्र-योग्यम् अथोभयः ॥ [वि।पु। ५.२०.७] > इति,

यद् वा, उभयोः उभाभ्याम् अपीत्य् अर्थः, तथैव श्री-कृष्ण-प्रार्थनात् षष्ठी, भक्त्या तत्र तयोः स्वामित्वाभिप्रायेण । ताभ्यां सान्द्रं ददौ, गोपेभ्यश् चान्यत् ददाव् इति ज्ञेयम्, सान्द्रस्य बाहुल्याभ्यावादिना ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रूपेति तैर् व्याख्यातं यद् वा, माधुर्यं स्वभावतो मनोहरत्वं,तद् उक्तं किम् एतद् अद्भुतम् इव वासुदेवेऽखिलात्मनि [भा।पु।१०.१३.३६] इत्य्-आदि । तच् च रूपं पेशल- सौन्दर्य-सौष्ठव-युक्त-वाचः पेशैर् इतिवत् तथा तत्रैव । हसितेनालापेन वीक्षितेन च विशेषत इत्य् अर्थः । रूपादिभिर् इति श्री-कृष्णस्यैवेति ज्ञेयम्, तत्रैव भावस्य स्वयम् अभिव्यञ्जयिष्यमाणत्वात् । उभयोर् अपि योग्यं तद्-इच्छया ददौ समर्पितवतां । तथा च श्री-विष्णु-पुराणे—

श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् । > अनुलेपं च प्रददौ गत्रयाग्यम् अथोभयोः ॥ [वि।पु। ५.२०.७] इति > ।

अत्र दक्षिणं हस्ते समर्पणं गात्रे लेपनं वा । पूर्वत्र सान्द्रम् इति तत्-संज्ञकं । ततः स्ववहन-योग्येन स्वल्पेनापि सहचर-वृन्द-साहितयोः पर्याप्तिर् अभूद् इति बोध्यते उत्तरत्र सर्वाङ्ग-व्याप्तम् इत्य् अर्थः । उभयत्र माला-कल्पानुपघात-पूर्वकानुलेपनं ज्ञेयम् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : माधुर्यं स्वभावतो मनोहरत्वं, तच् च रूप-पेशलं सौन्दर्य-सौष्ठव-युक्तम् । तथा तत्रैव हसितादिना विशेषत इत्य् अर्थः । रूपादिभिर् इति श्री-कृष्णस्यैव ज्ञेयम् । उभयोर् अपि योग्यम् । तद्-इच्छया ददौ । तथा च वैष्णवे—

श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् । > अनुलेपं च प्रददौ गात्रयोग्यम् अथोभयोः ॥ [वि।पु। ५.२०.७] इति > च ॥४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूपेण सौन्दर्येण पेशलैः संमोहन-कर्मणि दक्षैर् माधुर्याद्यैर् धर्षित-चित्ता । दक्षे तु चतुर-पेशल-पटवाः इत्य् अमरः ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.५ ॥

ततस् ताव् अङ्ग-रागेण स्व-वर्णेतर-शोभिना ।
सम्प्राप्त-पर-भागेन शुशुभातेऽनुरञ्जितौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-वर्णेतर-शोभिना राम-कृष्णयोर् वर्णाभ्याम् इतरः पीतादि-वर्णस् तेन शोभितुं शीलं यस्य तेन । संप्राप्त-पर-भागेन संप्राप्तः परो नाभेर् उपरितनो भागो येन सः । संप्रप्तः पर-भागः शोभातिशयो येनेति वा, तेनानुरञ्जितौ ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततोऽनुलेपेन । तृतीयार्थे तसिः । तौ राम-कृष्णौ । प्रसिद्धार्थ-त्यागे कारणाभावमालक्ष्याह—परभागः शोभातिशयः परभागोऽतिसौन्दर्येऽन्यांशे भक्ते महेश्वरे इति धरणि-निरुक्तौ । अनुरञ्जितौ स्वकान्त्यनुकूल-शोभां प्राप्तौ । अनुरञ्जितौ पत्त्रभङ्ग-रचनाविधिना श्री-गण्डवक्षोभुजादिष्व् अनुलिप्तौ सखिभिस् तथैव स्वयम् ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुरञ्जितौ पत्र-भङ्गी-रचना-विधिना श्री-गण्ड-वक्षो-भुजादिषु स्वयम् एवान्योऽन्यं वा गोपैर् वा तयैव वानुलिप्तौ ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुरञ्जितौ पत्र-भङ्गी-रचना-विधिना श्री-गण्ड-वक्षो-भुजादिष्व् अनुलिप्तौ सखिभिस् तयैव स्वयम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : का त्वम् इत्य् अस्योत्तरम् अह—दास्यस्मीत्य् आदि । भो अज ! भो पते ! दास्यस्मि, अर्थात् तवैव । अथवा, भो अजय ! ब्रह्मणोऽपि पालक ! ते तव दास्यस्मि । विसर्गलोपे सन्धिरार्षः सैष दाशरथिर् इतिवत् ।

यद् वा, भोः पते ! जप मनसि स्मर, अहं ते दास्यस्मि । जप मानसे चेति भुवो अंशत्वात् तवाहं दासी । ननु, मम दासी चेत् तदा कथं कंसानुवर्तिनीत्य् आह—अनुलेप-कर्मणि कंस-सम्मता । गन्धयुक्तिकलायाम् एव तत्-सम्मताहम्, न तु स्पर्शादौ पृथिव्यंशे नैवम् एतत् सम्बन्धः पृथिवीपतित्वात्, न तु मूर्तो अंशेनेति यावत् । कुब्जत्वाङ्गीकारान् न कस्यापि सम्बन्धो मयीति भावः । अतो हि श्री-कृष्णं प्रत्युपास्यत्वज्ञानेयं तत्र भक्तिमती । भृङ्गाररस-भक्त-वियमेवोदाहृता । अतो मद्भावितं ते तव रतिप्रियम् मद्भावस् तव रतिप्रिय एवेत्य् अर्थः । ते इत्य् आवर्तनीयम् । भावितम् इति भावः इत्य् अर्थे स्वार्थिकः क्तः । तस्मात् तद् अनुलेपनं युवां विना कोऽन्यतमोऽर्हति ? अनुलेपनं तु युवयोर् एवोचितम् । भावस् तु मम तवैवेति कृष्णं प्रति ज्ञेयं रतिप्रिय इति ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्ववर्णेतरेण कृष्णरामयोर्वर्णाभ्याम् इतरेण श्यामावर्णेन च शोभितुं शीलं यस्य तेन । संप्राप्तः परभागः “भूषणभूषणाङ्ग” इति न्यायेन परमोत्कर्षो येन तेन ॥५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.६ ॥

प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।
ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-दर्शने सद्यः फलं दर्शयन् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दर्शयन् भावि कंसहनने निज-शक्ति-प्रकटनेन लोकान् प्रत्याययन्न् इति भावः । कुब्जामत एव त्रिवक्रां तत्-सञ्ज्ञकाम् । ऋज्वीं कर्तुम् इति—अनृज्वीम् ऋज्वीं कर्तुम् इत्य् अर्थः । ऋज्वीकरणे हेत्वन्तरम्—रुचिराननाम् इति । सद्यः फलम् आपात-फलं विशेष-फलस्य तयैव एहि इत्य्-आदिना प्रार्थयिष्यमाणत्वात् ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दर्शयन् दर्शने फलम् इति—वस्तुतस् तु कैर् न दृष्टो\ऽयम्, तत् किम् इदम् उच्यते ? तर्हि सतात्पर्यकम् इदम् । इयं मद्-भक्ता मद् दर्शनं यावद्-विरूपैर्वासीत्, इदानीं विरूपत्वम् अस्या न योग्येति स्व-दर्शने फलं दर्शयन्, न केवलं वैरूप्य-निरासः फलम्, फलन्तु भोग्यत्वेन स्वीकारः, अतस् तद् योग्यता-हेतुक-मृजुकरणम् इति ॥६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् लीला-विशेषं प्रकटयन्न् इत्य् अर्थः । कुब्जां कुब्जेति प्रसिद्धां त्रिवक्रां तत्-संज्ञकां किं वा, त्रीण्य् अङ्गानि वक्राणि यस्यास् ताम्, ऋजुकरणे हेत्वन्तरं रुचिर् आननाम् इति ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुब्जामत एव त्रिवक्रां तत् संज्ञकाम् ऋज्वीं कर्तुम् इति । अनृज्वीमृज्वीं कर्तुम् इत्य् अर्थः ऋजुकरणे हेत्व् अन्तरं रुचिर् आननाम् इति । अन्यत् तैः । तत्र सद्यः फलम् आपत-फलम् इति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.४२.७ ॥

पद्भ्याम् आक्रम्य प्रपदे द्व्य्-अङ्गुल्य्-उत्तान-पाणिना ।
प्रगृह्य चिबुकेऽध्यात्मम् उदनीनमद् अच्युतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्याः प्रपदे पादाग्र-द्वयं पद्भ्याम् आपीड्य द्वे अङ्गुल्याव् उत्ताने उन्नते यस्मिन् पाणौ तेन चिबुके मुखस्याधो-भागे धृत्वाध्यात्मं देहम् उन्नमयाम् आस ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्याः कुब्जायाः । उन्नमयामास ऊर्ध्वमाकृष्टवान् इत्य् अर्थः । पदाग्रं प्रपदम् इत्य् अपि । अधरोष्ठ्योर् अधस् तादित्य् अर्थेः । सद्यः फलं तु मल्ल-लीलोचित-ग्रहण-प्रावीण्यपूर्वकम् एवेत्य् अह—द्वे अङुल्यौ मध्यमा-तर्जन्यौ उत्ताने उपरिकृताग्रभागे यत्र तेन पाणिना दक्षिणेन, वामेन पृष्टावस्तम्भनं ज्ञेयम् । आत्मानं जीवम् अधिकृत्य वर्तमान मध्यात्मं देहम् । इति जीव-भाग-पर्यन्तं तद्-देहस्य प्रारब्धवशेनापरिहार्य कुब्जत्वम् इति सूचितम् । अच्युतो निज-लीला-विशेषाद् अच्युत इति । अत एव तथा ग्रहणम् अन्यथेच्छामात्रेणैव तत्-तत्-सम्भवात् ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वे अङ्गुल्यौमध्यमा-तर्जनौ प्रकर्षेण लीलया चिवुका-धस्तद्-विन्यासेन गृहीत्वा । आत्मानं जीवम् अधिकृत्य वर्तमानम् अध्यात्मं देहम् इति जीव-त्याग-पर्यन्तं तद्-देहस्य प्रारव्धवशेनापरिहार्यं तत् कुजत्वं सूचितम् । अच्युतः कथम् अपि निजैर्श्वर्याच्च्युतिर् अहित1 इति प्रारव्धक्षपण-सामर्थ्यं च ध्वनितम् । श्लेषेण निज-लीला-विशेषाद् अच्युत इति, अत एव तथा प्रग्रहणम्, अन्यथेच्छा-मात्रेणैव तत्-सम्भवात् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च मल्लाललोचित-ग्रहण-प्रावीण्य-पूर्वकम् एवेत्य् आह । पद्भ्याम् इति द्वे अङ्गुल्यौ मध्यमा-तर्जन्यौ उत्ताने उपरि-कृताङ्ग-भागे यत्र तेन पाणिना वामेन तु पृष्ठावष्टम्भनं ज्ञेयम् । आत्मानं जीवम् अधिकृत्य वर्तमान-मध्यात्मं देहम् इति जीव-त्याग-पर्यन्तं तद् एदेहस्य प्रारब्धवशेनापरिहार्यं तत् कुब्जत्वं सूचितम् । अच्युतः निज-लीला-विशेषाद् अच्युत इति अत एव तथा प्रग्रहणम् अन्यथेच्छा-मात्रेणैव तत् तत् सम्भवात् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रसन्न इत्य्-आदि । भगवान्-कहण्ड-सर्वैश्वर्यः प्रसन्नः सन् तां कुब्जां ऋज्वीं कर्तुं मनश्चक्रे, असुरक्षयात् पूर्वम् एव ऋजुं करिष्यतीत्य् अर्थः । मन इच्छाम् । कुतः ? इत्य् आह—दर्शयन्न् इत्य्-आदि । दर्शने फलं दर्शयन् मद्-दर्शनानन्तरं मदुक्तस्य वैरूप्यं न स्थातुम् अर्हति, तत् किं विलम्बेन सम्प्रत्येवामुं ऋजुं करिष्य इति मनश्चक्रे । कारणे सत्य् अपि कार्यम् एवाग्रे नाशयामासेत्य् अर्थः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याः प्रपदे पादाग्रद्वयं पद्भ्यामापीड्य द्वे अङ्गुल्यावुत्ताने उन्नते यस्मिन् तेन पाणिना चिबुके मुखस्याधोभागे धृत्व अध्यात्मं देहं उन्नमयामास ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.८ ॥

सा तदर्जु-समानाङ्गी बृहच्-छ्रोणि-पयोधरा ।
मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदैव ऋजु समानम् अङ्गं यस्याः । बृहत्यौ श्रोणी पयोधरौ च यस्याः । सा । मुकुन्द-स्पर्शनाद् इति मुख्यं कारणम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा कुब्जा । तदैवोन्नमनक्षण एव । श्रोणि-शब्दो यद्य् अपि कटिः श्रोणिः ककुद्मती इत्य् अमरोक्तेः कटि-वाचकस् तथापि नितम्बं लक्सायतीह । स्तन-मेघौ पयोधरो इति हैमः । कुमुन्द-स्पर्शने नैतद् असम्भावितम् इत्य् आह—मुकुन्देति । ऋजूनि वक्रतापगमात् । अत एव कुब्जतया वक्षोभागादेः स्वल्पत्वादिना पूर्वम् असमामानानि अधुना तु समानं योग्यं मानं परिमाणं येषां तथाभूतान्ययानि यस्याः । तद् एव दर्शयति—बृहद् इति । न केवलम् एतावद् एव, प्रमदानां मध्ये उत्तमा च बभूव । भगवद् अङ्गसङ्गानुरूपोत्कर्षम् अपि लेभ इत्य् अर्थः । अतोऽत्र मुकुन्द-स्पर्शनम् एव मुख्यं कारणं ग्रहणादि-परिपाटी तु विनोद-मात्रत्वाद्-गौणम् इति भावः । मुकुन्देति कैमुत्यम् एव हेतुगर्भम्—यो निजांशेनापि, तेन च चिन्त्यमान-मात्रेणाप्य् अशेष-सम्सार-दोष-दूरी-किरण-पूर्वकं सारूयादि-मुक्तिम् अपि ददाति, तस्य साक्षाद्-भूतस्य कियद् इदम् इति भावः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तदा तस्मिन्न् एव क्षणे ऋजु, वक्रतापगमात्, अत एव समानं च देहाद्य् अनुरूपम् । यद् वा, कुब्जतया वक्षोभागादेः स्वल्पत्वादिना पूर्वं विषम् अधुना वयोरूपाद्य् अनुसारेण समतां नीतम् अङ्गं यस्याः, तद् एव दर्शयति—वृहद् इति । एतद् उपलक्षणम्, सर्वाण्यङ्गानि परम-सुन्दराणि बभूवुर् इति ज्ञेयम् ।

तद् एवाह-प्रमदोत्तम् एति । मु मुक्ति-सुखम्, कु कुत्सितं यस्मात् स भक्ति-लक्षणः परमानन्दस् तं ददातीति, तस्य स्पर्शनाद् दैहिकं श्रेयः कतरद् इति भावः । यद् वा, मु मुख्यं सुखं पारमार्थिकम्, कु पृथ्वी च, लौकिकं सुखम् इत्य् अर्थः, तद्दृयम् एव ददातीति तथा, तस्य स्पर्शनाद् अतस् तस्मिन् भाव-विशेषोऽपि तस्या जातो दैहिकश्रेयश् च सम्पन्नम्, उन्नयनेऽपि पीडादिकं न वृत्तम् इति भावः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऋजूनि वक्रतापगमात् अत एव कुब्जतया वक्षो-भागादेः स्वल्पत्वादिना तावद् एव प्रमदानां मध्ये उत्तमा च बभूव । भगवद् अङ्ग-सङ्गानुरूपोत्कर्षम् अपि लेभे इत्य् अर्थः । अतोऽत्र मुकुन्द-स्पर्शनम् एव मुख्यं कारणं ग्रहणादि-परिपाटी तु विनोद-मात्रत्वाद् गौणम् इति भावः । मुकुन्देति कैमुत्येन हेतु-गर्भ यो निजांशेनापि तेन च चिन्त्यमान-मात्रेणाप्य् अशेष-संहार-दोष-दूरी-करण-पूर्वकं सारूप्यादि-मुक्तिम् अपि ददाइति तस्य साक्षाद्-भूतस्य कियद् इदम् इति भावः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सा तदेत्य् आदि । मुकुन्दस्य स्पर्शनात् सद्यः प्रमदोत्तमा लक्मी-स्वरूपा बभूव केवलं कुब्जत्वैव गतेति न, अपि तु भगवद् उपभोग्य-योग्यता च बभूवेत्य् अर्थः ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदैव ऋजु समानमङ्गं यस्याः सा ॥८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.९ ॥

ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् ।
उत्तरीयान्तम् आकृष्य स्मयन्ती जात-हृच्-छया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः प्रमदोत्तमा-भावानन्तरम् । उत्तरीयान्तं दुकूल-प्रान्तम् । स्मयन्ती ईषद् धसन्ती । जात-हृच्-छया उद्दीप्त-कामा । ततस् तत्-सम्स्पर्शनाद् एव रूप-गुणयोर् औदार्यं महत्त्वं, तेन सम्पन्ना सतीति प्रमदोत्तमात्वम् एव दर्शितम् । अतो योग्यता-प्राप्त्या जात-हृच्छया आविर्भूत-कामा । स्मयो मदः स्मितं वा, तत्-सहितं यथा स्यात् तथा । "स्मयन्ती" इति पाठे स्मयमाना । प्रकर्षेण कटाक्ष-वीक्षणादिना आह । तद् उक्तं श्री-पराशरेण विलास-लालितं प्राह प्रेम-गर्भम्भरालसम् [वि।पु। ५.२०.११] इति ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जात-हृच्-छया जात-मनोरथा ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तत्-स्पर्शनाद् एव रूप-गुणयोर् औदार्यं महत्त्वम् । यद् वा, रूप-गुणौ औदार्यं च दाक्षिण्यं तैः सम्पन्ना सती, इति प्रमदोत्तमात्वम् एव दर्शितम् । तत्र तद्-अनन्तरं प्राह इति वान्वयः । तादृश-प्रग्रहणं प्रमदोत्तमात्वं च विना वक्तुम् अयोग्यत्वात् । प्रकर्षेण कटाक्ष-वीक्षणादिना आह । तद् उक्तं श्री-पराशरेण—विलास-ललितं प्राह प्रेम-गर्भभरालसम् [वि।पु। ५.२०.११] इति ।

स्मयो मदः स्मितं वा तेन सहितं यथा स्यात्, "स्मयन्ती" इति पाठे स्मयमाना, यतो जातः प्रकटतां प्राप्तो हृच्छयश् चिरं हृदि सुप्तवन् निश्चलतया वर्तमानः कामो यस्याः सा, एवं पूर्वत एव तस्याः कामो वर्तत इति कामुकीत्वं ज्ञेयम् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तत् स्पर्शनाद् एव रूप-गुणयोर् औदार्यं महत्त्वं तेन सम्पन्ना सती इति प्रमदोत्तमात्वम् एव दर्शितम् अतो योग्यताप्राप्त्या जाताहृच्छया प्रकटी-भूत-कामा स्मयो मदः स्मितं वा तत् सहितं यथा स्यात् तथा स्मयन्तीति पाठे स्मयमाना प्रकर्षेण कटाक्ष-वीक्षणादिना आह । तद् उक्तं श्री-पराशरेण—विलास-ललितं प्राह प्रेम-गर्भभरालसम् [वि।पु। ५.२०.११] ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एव स्पष्टयति—ततो रूप-गुणौदार्य- इत्य्-आदि । रूपेण गुणैश्औदार्येण सम्पन्ना । उत्तरीयान्ताकर्षणेन स्व-सौभाग्यातिशय-प्रकटनम् । जातहृच्छया जात-मनोरथा ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१० ॥

एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे ।
त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वीर ! इति रति-युद्ध-शूर । इह अधुना । त्वया कारणेन उन्मथितं विलोडितं चित्तं यस्याः । पुरुषेषु श्रेष्ठत्वात् त्वां विनान्यो न मे रोचत इति सम्बुद्ध्य्-अभिप्रायः । वीर इति—निज-भावोद्दीपन-गुण-विशेष-विशिष्टतया सम्बोधयति श्लेषेण, हे अभिष्ट-पूरण-समर्थ मम गृहं त्वम् एहि

ननु, निज-सङ्गिन इमान् विहाय कथम् एकाकी आयायाम् ? इति चेत् तत्राह—त्वम् एतेऽहं च सर्वे यामः

ननु, दिनान्तरे आगमिष्यामह् ? तत्राह— इति । इह राज-मार्गे त्यक्तुं [उत्सहे] शक्नोमि वास-स्थानानिश्चयेन पुनर् दुष्प्रापत्वात् । अतो गृहम् एव नेष्यामीत्य् अर्थः । यद् वा, तर्हि ज्येष्थोऽयं सखीनाम् एको वा नीयतां तत्राह—न इति । त्वय्य् एव मद्-अपेक्षा न त्व् अस्मिन्न् इति भावः ।

नन्व् ईदृशम् अत्र ते धार्ष्ट्यं न योग्यं ? तत्राह—त्वया इति । अतो मम न कोऽपि दोष इति भावः । अत एव प्रसीद स्वयम् एवानुग्रहं कुरु । त्वत्-प्रसादे सति धार्ष्ट्याद् अपि न बिभेमीति भावः । तत्र हेतुम् आह—पुरुषर्षभ ! हे पुरुषोत्तम ! इति । किं च, निज-पुरुषर्षभत्वापेक्षया त्वयापि नाहं त्यक्तुं योग्या इति भावः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जात-मनोथत्वं दर्शयति—त्वयोन्मथित-चित्ताया इति त्वया, न तु कामेन ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीर ! हे अभीष्ट-पूरण-समर्थ ! मम गृहं त्वम् एहि । ननु "निज-सङ्गिन इमान् विहाय कथम् एकाकी यायाम्" ? इति चेत्, तत्राह—त्वम् एते\ऽहं च सर्वे यामः । ननु, दिनान्तरे गमिष्यामः? तत्राह—नेति । इह पुर्या वर्तमानम् । यद् वा, अस्मिन् राज-मार्गे त्यक्तुं न शक्नोमि वास-स्थानानिश्चयेन पुनर् दुष्प्रपत्वात् । अतो गृहम् एव नेष्यामीत्य् अर्थः । यद् वा, तर्हि ज्येष्ठो\ऽयं सखीनाम् एको वा नीयताम् ? तत्राह—नेति । त्वय्य् एव मद्-अपेक्षा न त्व् अन्यस्मिन्न् इति भावः । नन्व् ईदृशम् अत्र ते धार्ष्ट्यं न योग्यं, तत्राह—त्वयेति । उच्चैर् मथितं विलोडितं समन्तात् क्षोभितं चित्तं यस्यास् तस्याः । अतो\ऽत्र मम न को\ऽपि दोष इति भावः । अत एव प्रसीद स्वयम् एवानुग्रहं कुरु । त्वत्-प्रसादे सति धार्ष्ट्यादेर् अपि न बिभेमीति भावः । तत्र हेतुम् आह—पुरुषर्षभ ! हे पुरुषोत्तम ! इति । किं च निज-पुरुषर्षभतापेक्षया त्वयापि नाहं त्यक्तुं योग्येति भावः । यद् वा, पुरुषर्षभत्वात् तव योग्या योषिच्-छ्रेष्ठैव, न त्व् अहं मध्यमा, तथापि त्वयैवोन्मथित-चित्तत्वान् मे प्रसीदेति ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीरेति निज-भावोद्दीपन-गुण-विशेष-विशिष्टतया सम्बोधयति श्लेषेण हे अभीष्ट-पूरण-समर्थ ! मम गृहं त्वम् एहै । ननु, निज-सङ्गिन इमान् विहाय कथम् एकाकी यायाम् ? इति चेत् तत्राह—त्वम् एते\ऽहं च सर्वे सर्वे यामः । ननु, दिनान्तरे गमिष्यामः? तत्राह—नेति । इह राज-मार्गे त्यक्तुं न शक्नोमि वास-स्थानानिश्चयेन पुनर् दुष्प्रपत्वात् । अतो गृहम् एव नेष्यामीत्य् अर्थः । यद् वा, तर्हि ज्येष्ठो\ऽयं सखीनाम् एको वा नीयताम् ? तत्राह—नेति । त्वय्य् एव मद्-अपेक्षा न त्व् अन्यस्मिन्न् इति भावः । नन्व् ईदृशम् अत्र ते धार्ष्ट्यं न योग्यं, तत्राह—त्वयेति । अतो मम न को\ऽपि दोष इति भावः । अत एव प्रसीद स्वयम् एवानुग्रहं कुरु । त्वत्-प्रसादे सति धार्ष्ट्याद् अपि न बिभेमीति भावः । तत्र हेतुम् आह—पुरुषर्षभ हे पुरुषोत्तमेति । किं च निज-पुरुषर्षभतापेक्षया त्वयापि नाहं त्यक्तुं योग्येति भावः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : जात-हृच्छयत्वं दर्शयति—एहि इत्य्-आदि । न त्वां त्यक्तुम् उत्सहेत्वया परम-कारुणिकेन परम-प्रेमास्पदेन उन्मथितं चेतो यस्यास् तस्या मे प्रसीद । मात्र वाम्यं कृथाः । हे पुरुषर्षभ ! हे पुरुषोत्तम ! ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे वीर ! इति । अन्ये धर्म-वीराद्या भवन्ति । त्वं तु स्त्री-जन-धर्म-ध्वंस वीरो भवसीति भावः । ननु, त्वम् एहि इत्य्-आदिना भोजनार्थम् एव मां निमन्त्रयसि किं ? तत्राह—न त्वां त्यक्तुम् इत्य्-आदि । त्वद्-उक्त्या तु लोका इह राज-मार्गे हसन्तः अन्यथा सम्भवयन्ति तस्माद् एवं मा वादीस् तत्राह—त्वयोन्मथिता इति । तर्हि त्वया मच्-चित्तं कथम् उत्कर्षेण मथितम् ? इति तवैवायं स्पर्श-दोषो न ममेति भावः । सप्तम्य्-अर्थे षष्ठी ॥१०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.११ ॥

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।
मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । अनुगानां गोपानाम् स्फुटम् । तां कुब्जाम् । रामस्य पश्यतः, अनुगानां च पश्यतां तत्-साक्षात् स्त्रिया कामिन्या याच्यमानः रहस्यं किम् अपि प्रार्थ्यमानः, अत एव च तस्य तेषां च मुखं वीक्ष्य प्रहसन् कौतुकेनोच्चैर् हसन् । तथा चोक्तं श्री-वैशम्पायनेन,

तौ जात-हर्षावन्त्योऽन्यं सताम् आक्षेपम् अव्ययौ । > वीक्ष्यमानौ प्रहसितौ कुब्जायाः श्रुत-विस्तरौ ॥ [ह।वं। > २.२७.३८] इति ।

स्फुटम् एव उवाच । तथा तच् च श्री-रामादीन् प्रति एतां वञ्चयामीति व्यञ्जनाय, तां प्रति प्रतिजानाम्य् एवैतद् इति बोधनायेति भावः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रामस्य पश्यतः, अनुगानां च पश्यतां तत्-तत्-साक्षात् स्त्रिया कामिन्या याच्यमानो रहस्यं किम् अपि स्फुटं प्रार्थ्यमानः, अत एव तस्य तेषां च मुखं वीक्ष्य प्रहसन् कौतुकेनोच्चैर् हसन्, तथा चोक्तं श्री-वैशम्पायनेन हरि-वंशे—

तौ जात-हर्षावन्त्योऽन्यं सताम् आक्षेपम् अव्ययौ । > वीक्ष्यमाणौ प्रहसितौ कुब्जायाः श्रुत-विस्तरौ ॥ [ह।वं। > २.२७.३८] इति,

स्फुटम् एवोवाच ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रामस्य पश्यतः अनुगानां च पश्यतां तत् तत् साक्षात् स्त्रिया कामिन्या याच्यमानः रहस्यं किम् अपि प्रार्थ्यमानः, अत एव तस्य तेषां च मुखं वीक्ष्य प्रहसन् कौतुकेनोच्चैर् हसन् । तथा चोक्तं श्री-वैशम्पायनेन,

तौ जात-हर्षावन्योऽन्यं सताम् आक्षेपम् अव्ययौ । > वीक्ष्यमाणौ प्रहसितौ कुब्जायाः श्रुत-विस्तराव् ॥ [ह।वं। > २.२७.३८] इति ।

स्फुटम् एवोवाच । तथा तच् च श्री-रामादीन् प्रति एतां वञ्चयामीति व्यञ्जनाय तां प्रति तु प्रतिजानाम्य् एवैतद् इति बोधनायेति भावः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुखं वीक्ष्य इति "भो आर्य ! भोः सखायश् च किम् अधुनापि युष्माकं मुखानि हास्यार्णवे न विप्लुतानि ? पश्यत, नेयं स्त्री-मूर्तिः किन्तु हास्य-रस एव युष्मान् कौतुकिनो ज्ञात्वा मिलितुम् उपक्रमते, मथुरा-पुर्या हास्य-वैदग्धीयं वा स्वं परिचाययति" इति भावः ॥११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१२ ॥

एष्यामि ते गृहं सुभ्रु पुंसां आधि-विकर्शनम् ।
साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आधि-विकर्शनं मनः-पीडा-शमनम् । कंस-वधेन स्वयं साधितोऽर्थः सुहृदां प्रयोजनं येन सः । अगृहाणाम् अकृत-दाराणां पान्थानां प्रवासिनां परम् आयनम् आश्रयस् त्वम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुंसां तरुणानाम् । किञ्चिद् अत्यावश्यकं झटिति करणीयं मेऽस्तीत्य् आह—कंस-वधेन इति । त्वं तु सर्वथा त्याज्येत्य् आह—अगृहाणां वन-वासिनाम् । पान्थानां मऋगत आगतानाम् । नोऽस्माकम् । अनेनासङ्गानाम् ईश्वराणाम् अस्माकं भक्ता एव पूजादिनाश्रयीभूता इति दर्शितम् । कुब्जां प्रति प्रियोऽयं मां स्वीकरोतीति, राम दीन् प्रति तु ग्राम्यां स्त्रियम् इवायं कृष्णो वञ्चयतीति द्योतयन्न् आह—एष्यामीति । पुंसाम् इति बहु-वचनेन तां प्रति परिहासः । साधितार्थ इति कंस-वधाद्य् आश्यककृत्यं कृत्वा निश्चितो भूत्वेति समय-सङ्केतश् च व्यञ्जितः । अगृहाणाम् न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते इति न्यायेणाकृतदाराणाम् । नोऽस्माकम् इति राज-पुत्रत्वाद् आत्मन आदरेण खल्व् एकत्वेऽपि सा बहु-वचनं मन्यते स्म । पान्थानाम् इति—गोकुले स्वनगरे मम गोप्योऽनुरागिण्यो वर्तते तथात्र पुर्याम् अपरिचितायां न काश्चन, केवलं त्वम् एकैवानुरागिणी प्राप्तेति तां प्रत्य् अनुरागश् च व्यञ्जितः । रामादींस् तु बहु-वचनेनाधिपदेन च प्रयुक्तेन कृष्ण एनाम् अस्वीकुर्वन् सामान्य-वनिता-लक्षण-गालि-प्रदानेनैनाम् अनभिज्ञां तिरस्करोतीति प्रत्याययामास ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नः इति स्वस्य गौरवेण बहुत्वम् । अगृहं गृहं मानुष्यं शरीरम्, तत्र हितानां सच् चिद् आनन्द-विग्रहाणां पुंसाम् इत्य् अत्रापि तथा अन्तर्यामिणाम् अस्माकम् इत्य् अर्थः । आधि-विकर्शनं भक्त-विरह-जन्या मानसी पीडा अधिस् तस्य कर्षणम् ॥१२.३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुभ्र् विति, सौन्दर्याभिव्यञ्जक-सम्बोधनेन तद् विषयक-स्वकामम् अपि सूचयति—अगृहाणां तत्रापि पास्थानाम् , बहुत्वं श्री-बल-रामाद्य् अपेक्षया, सा च लज्जया साधारण्येन निज-भावाद्याच्छादनाय । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अगृहाणां त्यक्त-निज-गृहाणां, अतः पान्थानाम् अतोऽत्र चिरं स्थास्यताम् अस्माकं त्वम् एव परमाश्रय इत्य् अर्थः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव तद् विषयक-स्वकामम् अपि सूचयति । एष्यामीति । अगृहाणाम् इत्य् आदौ च बहु-वचनादिना स्वस्य साधारण्यानन्याश्रयत्वाभ्यां पूर्ववद् एव व्यञ्जना ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवान् अपि तथैवाङ्गीकुर्वन्न् आह—एष्यामीत्य् आदि । न इति स्वस्य गौरवापेक्षया बहुवचनम् । एष्यामीति प्रतिज्ञायाम् एक-वचनात् । नः कीदृशानाम् अगृहानां गृहं शरीरं मानुष्यम्, तद् उचितानां सच्चिदानन्द-विग्रहाणां पुंसाम् अन्तर्यामिणाम् योऽन्तश् चरति सोऽध्यक्षः [भा।पु १०.३३.३५] इति प्राग् उक्तेः । अन्तर्यामिणाम् अंशेनैव त्वम् एवं प्रेरितासि, तद् उचितम् एवैष्यामि । आधिविकर्शनम् इति क्रिया-विशेषणम् । भक्त विरह जन्य-मानस पीडा खण्डनं भक्तायास् तव गृह-गमनं ममेश्वरस्य नानुचितम् इत्य् अर्थः ॥१२.३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुब्जां प्रति प्रियो ऽयं मां स्वीकरोतीति रामादीन् प्रति तु ग्राम्यां स्त्रियमिमामयं कृष्णो वञ्चयतीति द्योतयन्न् आह—एष्यामीति पुंसाम् इति । बहुवचनेन तां प्रति परिहासः । साधितार्थ इति । कंसबधाद्यावश्यककृत्यं कृत्वा निश्चिन्तो भूत्वा इति समयसङ्केतश् च व्यञ्जितः । अगृहाणां “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” इति न्यायेनाकृतदाराणां नो ऽस्माकम् इति राजपुत्रत्वादात्मन आदरेण खल्वेकत्वे ऽपि बहुवचनं सा मन्यते स्म पान्थानाम् इति गोकुले स्वनगरे मम गोप्य ऽनुरागिण्यो वर्तन्ते तथा अत्र पुर्यामपरिचितायां न काश्चन केवलं त्वमेवैकानुरागिणी प्राप्तेति तां प्रत्यनुरागश् च व्यञ्जितः रामादींस् तु बहुवचनेन आधिपदेन पान्थपदेन च प्रयुक्तेन कृष्ण एतामस्वीकुर्वन सामान्यवनितात्वलक्षणगालिप्रदानेनैनामनभिज्ञां तिरस्करोतीति प्रत्याययामास ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१३ ॥

विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः ।
नानोपायन-ताम्बूल- स्रग्-गन्धैः साग्रजोऽर्चितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधुरया गिरा तां प्रस्थाप्य व्रजन् वणिक्-पथैर् वणिग्भिर् अर्चितः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां कुब्जाम् । वणिक् वाणिज्या पन्थाः परम्परा-गत-मार्गो येषां तथा । वणिक् स्त्रियां वणिज्यायां वैश्ये च कारणान्तरे इति धरणिः । नाना-विधैर् उपायन-रूपैस् ताम्बूलादिभिश् च उपायन-गृहीतानाम् अपि ताम्बूलादीनां पृथग् निर्देशस् तदानीम् उपादेयानां तेषां प्राचुर्य-विवक्षया, स्त्रजो रत्न-मुक्तादि-मालाः गन्धः सुगन्धि-चन्दनादि-पङ्कोऽगुर्वादि-साधितद्-रव-विशेषः, विचित्र-वर्ण-चूर्णादयश् च । साग्रज इत्य् उपलक्षणं सानुगोऽपि । श्री-यमुनान्तिके पूर्वन्ते वर्तमानत्वाद् आदौ विप्रैः कृतम् अधुना चान्तर्वर्तमानैर् वैश्यैर् अर्चनम् उक्तं, क्षत्रियाश् च प्रायो मध्ये वसन्तीति तत्कृतं नोक्तम् इति ज्ञेयम् ॥१३॥ अत्र विश्वनाथः


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : माध्व्या उक्तया एष्यामि [भा।पु १०.४२.१२] इत्य्-आदि-रूपया । किं वा, त्वं मद् एक-निष्ठ-भावा त्वद् वश्योऽहं त्वद् अर्थम् एवात्रा-गतोऽस्मीत्य् आदि-हास-लक्षणयान्यया च व्रजन् पुर्यन्तर् गच्छन् मार्गे राज-पथे पार्श्व-द्वय-वर्तमानैर् नाना-विधैर् उपायन-रूपैस् ताम्बूलादिभिर् उपायनत्वेन तेषाम् उत्कृष्टत्वं वणिजां च भक्ति-नम्रत्वं सूचितम्,

यद् वा, उपायनैर् विचित्र-दुकूल-भूषण-मोदक-पानक-फलादिभिस् ताम्बूलादिभिश् च, उपायन-गृहीतानाम् अपि ताम्बूलादीनां पृथग्-निर्देशस् तदानीम् उपादेयानां तेषां प्राचुर्य-विवक्षया । स्रजो रत्न-मुक्तादि-मालाः, गन्धः सुगन्धिश् चन्दनादि-पङ्कोऽगुर्वादि-साधित-द्रव-विशेषः, विचित्र-वर्ण-चूर्णादयश् च, अर्चितो भक्त्या सम्मानितः साग्रजः श्री-बलदेव-सहितः । गोपानाम् अनुक्तिस् तयोर् अर्चनेन तेषां तदीयत्वेन स्वत एव तत्-सम्पत्तेः । श्री-यमुनान्तिके पुर्यन्ते वर्तमानत्वादादौ विप्रैः कृतम्, अधुना चान्तर्वर्तमानैर् वैश्यैर् अर्चनम् उक्तम्, क्षत्रियाश् च प्रायो मध्ये वसन्तीति तत्-कृतं नोक्तम् इति ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाना-विधैर् उपायन-रूपैस् ताम्बूलादिभिश् च उपषन-गृहीतानाम् अपि ताम्बूलादीनां पृथक् निर्देशस् तदानीम् उपादेयानां तेषां प्राचुर्य-विवक्षया । स्रजः रत्न-मुक्तादि-मालाः । गन्धः सुगन्धिश् चन्दनादिभिः पङ्कः अगुर्वादि-साधिद्रव-विशेषः विच्चित्र-वर्ण-चूर्णादयश् च । साग्रज इत्य् उपलक्षणं सानुगोऽपि श्री-यमुनान्तिके पुर्यन्ते वर्तमानत्वाद् आदौ विप्रैः कृतम् अधुना-चान्तर्वर्तमानैर् वैश्येरर्चन-मुक्त क्षत्रियाश् च प्रायो मध्ये वसन्तीति तत् कृतं नोक्तम् इति ज्ञेयम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माध्व्या मधुरया वणिक पथै वैष्णवैर्वाणिज्य वर्त्मवर्तिभिर्नानाजातिभिर् इत्य् अर्थः ॥१३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१४ ॥

तद्-दर्शन-स्मर-क्षोभाद् आत्मानं नाविदन् स्त्रियः ।
विस्रस्त-वासः-कवर- वलया लेख्य-मूर्तयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : लेख्याश् चित्र-न्यस्ता इव मूर्तयो यासां ताः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य तयोर् वा दर्शनेन यः स्मरक्षोभः कामोत्थानं तस्माद् विस्रस्तानि स्खलितानि वस्त्र-केशपाशकटकानि यासां ताः । वणिक् पथेष्व् अपि स्त्रीणां तु कोमल-स्वभावत्वाद् अधिको भावो जट इत्य् अह—तद् इति । स्त्रियो वणिग् योष्तितः । तस्य दर्शनेन यः स्मरः स्मरण-मात्रेणापि जायमानः प्रेम-विलास-रूपः कामस् तेन क्षोभो धैर्यक्षयो मोहो वा तस्माद् धेतोर् आत्मानं देहं देहिनं वा नाविदन् । का वयं क्व वर्ताम् अह इत्य् अनुसन्धातुं न शक्ता इत्य् अर्थः । अत एव विशेषेण स्रस्तानि वास-आदिनि यासां ताः । तत्र वासोवलयविस्रंसः स्मरवेगेन सद्य एव कार्श्याद्यापत्तेः, केश-विस्रंस्स् तु गात्र-मोटन-कम्पड्यामर्दात् । किं च—लेख्यवन् मूर्तयो, बभूवुर् इति शेषः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं यद्य् अपि सर्वेषाम् एव तस्मिन् भक्तिर् वृत्ता, तथापि स्त्रीणां कोमल-स्वभावत्वाद् अधिको भावो जात इत्य् आह—तद् इति । स्त्रियो वणिग्-योषितः सर्वा एव वा पौर्यस् तस्य दर्शनेन यः स्मरः स्मरण-मात्रेणापि जायमानः प्रेम-विलास-रूपः कामस् तेन क्षोभो धैर्यक्षयो मोहो वा तस्माद् धेतोर् आत्मानं देहं देहिनं वा माविदन् । का वयम् क्व वर्तामहे इत्य् आद्य् अनुसन्धातुं न शक्ता इत्य् अर्थः । अत एव विशेषेण स्रस्तानि वास-आदीनि यासां ताः, तत्र बलय-विस्रंसः स्मर-वेगेन सद्य एव कार्श्याद्य् आपत्तेः । किं च, लेख्य-मूर्तयश् चित्र-प्रतिमा इव बभूवुर् इति शेषः । इव-शब्दाद्य् अप्रयोगो निर्निमेषत्वाचलत्वादिना भेदाभाव-विवक्षया । यद् वा, स्मरक्षोभाद् एव विस्रस्त-वास-आदयः सत्यः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वणिक-पथेष्व् अपि स्त्रीणान्तु कोमल-स्वभावत्वाद् अधिको भावो जात इत्य् आह । तद् इति । स्त्रियः वणिग्-योषितः । तस्य दर्शनेन यः स्मरः स्मरण-मट्रेणापि जायमानः प्रेम-विलास-रूपः कामस् तेन क्षोभो धैर्यक्षय मोहो वा तस्मष्द् धेतोः आत्मानं देहं देहिनं ताविदन् का वयं क्व वर्तामहे इत्य् अनुसन्धातुं न शक्ता इत्य् अर्थः अत एव विचेषेण स्रस् तानि वास-आदीनि यासां ताः तत्र वासो वलय-विस्रं सः स्मरवेगेन सद्य एव कऋश्याद्यापत्तेः केश-विस्रंसस् तु गात्र-मोटन-कम्पाद्यामर्दात् किं च लेख्यवन् मूर्तयो बभूवुर् इति शेषः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां स्त्रियस् तु परमभक्ताः, “चक्षुरागः प्रथमं चित्तासङ्गस्ततो ऽथ सङ्कल्पः निद्राच्छेदस्तनुताविषयनिवृत्तिस्त्रपानाशः उन्मादो मूर्छामृतिरित्येताः स्मरदशादशैव स्युः” इति काल क्रमोद्भविष्णुरपि स्मरदशाः सद्य एव प्रापुरित्य् आह—तद्दर्शनेति । आत्मानं नाविदन्निति का वयं क्व वर्तामहे किं कुर्मह इत्यनुसन्धातुमक्षमा इति त्रपानाशपर्यन्तादशा उक्ताः । विस्रस्तेति वाससां बलयानां च विस्रंसः स्मरवेगजनितकार्श्याति शयात् कवरविस्रंसस् तु महाकम्पगात्रमोटनभूतललोठनाद्यामर्दात् एष एव उन्मादो ऽष्टमः ततश् च लेख्याश्चित्रन्यस्ता मूर्तयो यासां ता इति मूर्छा नवमी दशमीत्वमङ्गलत्वात् प्रेमवतीनां प्रायो न भवतीति प्राञ्चः ॥१४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१५ ॥

ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः ।
तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : धनुर् मख-शालां पृच्छन् ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः स्त्रीभ्यो दर्शन-दानेत्तरं तस्मिन् धनुःस्थाने । ऐन्द्रम् इवानेकवर्णम् । तत इति सार्धकम् । भक्तजनानुग्रहानन्तरं ज्ञानाद्यैश्वर्यात् सर्वथा च्युति-रहितोऽपि लीला-कौतुकावेशेन धनुःस्थानं पृच्छन्न् इति योज्यम् । इन्द्रं धनुरिवेति रत्नादि-जटितत्वेन विचित्र-वर्णत्वाद् बृहत् तरत्वाच् च, अत एवाद्भुतं तथा च हरि-वंशे

स तयोर् दर्शयामास तद् धनुः स्तम्भसन्निम् । > अनारोप्यमसम्भेद्यं देवैर् अपि सवासवैः ॥ इति ।

पुरुषैः कंसभृत्यैः । अर्चितत्वाद् एव परमद्धिर्भूषणादि-महाधन-सम्पत्तिस् तद्वत् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो भक्त-भजनानुग्रहानन्तरम्, अच्युतः—ज्ञानाद्य् ऐश्वर्यतः सर्वथा च्युति-रहितोऽपि धनुः-स्थानं पृच्छन्न् इति धनू-रक्षिणां कंस-भृत्यानां मोहनार्थं पौराणां वा भक्ति-विवर्धनार्थं मौग्ध्य-लीलेयम्, ऐन्द्रं धनुर् इवेति विचित्र-वर्णानुलेपनालङ्कारादिभिर् अर्चितत्वाद्-बृहत् तरत्वाच् च, अत एवाद्भुतं विस्मयाबहम्, तथा च श्री-हरि-वंशे—

स तयोर् दर्शयामास तद् धनुः स्तम्भ-सन्निभयम् । > अनारोप्यम् असम्भेद्यं देवैर् अपि सवासवैः ॥ [ह।वं। २.२७.४४] > इति,

यद् वा, ततोऽपि महा-विशेषाद् आह—अद्भुतम् इति ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इति । सार्धकं भक्त-जनानुग्रहानन्तरं ज्ञानाद्यैश्वर्यतः सर्वथाच्युति-रहितोऽपि लीला-कौतुकावेशेन धनुः-स्थानं पृच्छन्न् इत्य्-आदि योज्यम् ऐन्द्रं धनुर् इवेति रत्नादि-जटितत्वेन विचित्र-वर्णत्वात् बृहत्तरत्वाच् च अत-एताद्भुतं तथा च हरि-वंशे ।

स तयोर् दर्शयामास तद् धनुः स्तम्भ-सन्निभम् । > अनारोप्यम् असम्भेद्यं देवैर् अपि सवासवैर् ॥ इति ।

पुरुषैः कंस-भृत्यैर् अर्चितत्वाद् एव परमर्दि-भूषणादि-महा-धन-सम्पत्तिस् तद् वत् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.४२.१६ ॥

पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् ।
वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रसह्य बलात् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परमर्धिमद् बहुभारं समृद्धौषधिभारेषु वृद्धा-वृद्धिः प्रकीर्तिता इति निरुक्तिः । वार्येत्य् अर्धकम् । नृभिस् तद्रक्षिभिः क्रोधात्, तथा सर्वैर् अपि क्ंसभीत्या स्नेहाद् वार्यमाणोऽपि ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरुषैः कंस-भृत्यैर् अर्चितत्वाद् एव परमर्धि-भूषणादि-महा-धनादि-सम्पत्तिस् तद्वत् । यद् वा, स्वभावड् एव परमर्धिमन्महा-रत्नादि-निर्मितत्वात्, नृभिस् तद् रक्षिभिस्तैर् एव । यद् वा, कंसभीत्या स्नेहात् सर्वैर् अपि जनैर् वार्ष्यामानोऽपि कृष्ण इति बलाद् आकृष्य धनुर् ग्रहणात् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वार्येत्य् अर्धकम् । नृभिस् तद् रक्षिभिः क्रोधात् तथा सर्वैर् अपि कंसभीत्या-स्नेहा-द्वार्यमाणेऽपि ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसह्य बलात् ॥१६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१७ ॥

करेण वामेन स-लीलम् उद्धृतं

सज्यं च कृत्वा निमिषेण पश्यताम् ।

नृणां विकृष्य प्रबभञ्ज मध्यतो

यथेक्षु-दण्डं मद-कर्य् उरुक्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निमिषेणाति-शीघ्रम् । मद-करी मत्त-हस्ती ॥१७.१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्यया मौर्व्या सहितं सज्यम् । अनिमिषेण निश्चल-पक्ष्मणेत्य् अर्थः । डया मातरि वसुधायां मौर्व्याम् इति मेदिनी । सलीलं सावहेलं, चकाराद् अस्य सर्वैर् अप्य् अन्वयः । तथा निमिषेणेत्य् अस्यापि । उद्धृतम् उत्थापितम् । पश्यतां नृणां तत्र रक्षिणां क्रुद्धानाम् अन्येषां च यथासम्भवं मल्लानाम् इति ज्ञेयम् । अनादरे षष्ठी । अकार-प्रश्लेषेणानिमिषेण निर्निमेषतया पश्यताम् इति वा ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सलीलं भङ्गी-विशेषेणावहेलया वेत्य् अर्थः । चकाराद् अस्य सर्वैर् अप्य् अन्वयस् तथा निमिषेणे त्यस्यापि उद्धृतम् उत्थापितम् उच्चैर् धृतं वा सत् पश्यतां नृणां तेषाम् एव रक्षिणाम् । यद् वा, सर्वेषाम् अपि तत्रत्यानां जनानाम् , अनादरे षष्ठी । यद् वा, परमाश्चर्येण पश्यत्स्व् इत्य् अर्थः । ततश् चाकार-प्रश्लेषेण-अनिमिषेण निर्निमेषतया पश्यताम् इत्य् एवम् अत्रैव वास्यान्वयः । मध्ये प्रकर्षेणात्य् अन्त-भिन्नत्वेन द्विखण्डतया बभञ्ज, यत उरुक्रमो महापराक्रमः, तथा च हरि-वंशे—

आनम्यमानं कृष्णेन प्रकर्षाद् उरगोपमम् । > द्विधा-भूतम् अभून् मध्ये धनुर् आयोग-भूषितम् ॥ [ह।वं। > २.२७.४७] इति,

अस्यार्थः—अयोग आयोजनकं रत्नादि तेन । यद् वा, आ समन्ताद् योज्यते आरोप्यते येन स आयोगो गुणस् तेन भूषितम् । एवं गुणस्यापि द्विधा-भूतत्वं ज्ञेयम् । यद् वा, आयोगः कंसस्यैव समायोगो ग्रहणौचित्यम्, तथा च तत्रैव—अयोग-भूतं कंसस्य इति मद्-अविशिष्टः करी मत्त-हस्ती इक्षु-दण्डं यथेति लीलया प्रभञ्जने दृष्टान्तः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सलीलं सावहेलं चकाराद् अस्य सर्वैर् अप्य् अन्वयः । तथा निइषेणेत्य् अस्यापि उद्धृतम् उत्त्थापितं पश्यतां नृणां तत्र रक्षिणां क्रुद्धानाम् अन्येषां चासम्भवं मल्लानाम् इति ज्ञेयम् अनादरे षष्ठी । अकार-प्रश्लेषेणा-निमिषेण निर्निमेषतया पश्यताम् इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृणां पश्यतां प्रबभञ्जेति हंहो लोकाः श्रुत-चर-महिम-द्रटिमकम् एतद् एव धनुः पूज्यते, युष्माकं राज्ञा इदं तु मत्-पाणि-स्पर्श-मात्रेणैव विदीर्णं घुणजीर्णमेवोपलब्धम् इति प्रोवाचेति ज्ञेयम् ॥१७.१८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.१८ ॥

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।
पूरयामास यं श्रुत्वा कंसस् त्रासम् उपागमत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यं शब्दम् । न च तन् मृदुलं मन्तव्यं किन्तु वज्र-सारतोऽपि परम् अतिकठिनम् इत्य् आशयेनाह—धनुष इति । प्राक् खम् अन्तरिक्षं पूरयामास शब्दस्य आकाश-गतत्वात् । ततो रोदसी द्याव्-आभूमी महत्तरत्वेन उर्ध्वाधो-गामित्वात् । ततश् च दिशः सर्वाः, एवं सर्वान् अपि लोकान् अपूरयद् इत्य् अर्थः । कंसो जगद्-भीषणोऽपि उप आधिक्येन त्रासं प्राप्तः, निर्घात-कोटि-निष्ठुर-तच्-छब्दाद् एव, विचारतश् च तस्मात् सद्यो मृत्यु-प्राप्ति-मननात् ॥१८॥


कैवल्य-दीपिका : धनुष इत्य् आदौ भज्यमानस्य कृष्णेन रोदसि इति भू-द्यावौ अयं शब्दम् ॥१॥ [मु।फ। १५.१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च तन् मृदुलं मन्तव्यम्, किन्तु वज्र-सारतोऽपि परम-कठिनम् इत्य् आशयेणाह—धनुष इति । प्राक् खम् अन्तरीक्षं पूरयामास, शब्दस्य आकाशजत्वात्, ततो दिशः सर्वाः । एवं सर्वान् अपि लोकान् अपूरयद् इत्य् अर्थः । कंसो जगद्-भीषणोऽपि उप सामीप्येन आधिक्येन वा त्रासं प्राप्तो नितरां भय-व्याप्तोऽभूद् इत्य् अर्थः । निर्घात-कोटि-निष्ठुर-तच्-छब्दाव् एव । किं वा, सद्यो मृत्यु-प्राप्ति-मननात् । एवं शब्दस्य परमम् उच्चत्वादिकं धनुषोऽपि काठिन्यादिकं दर्शितम् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च तन् मृदुलं मन्तव्यं किन्तु वज्र-सारतोऽपि परम् अतिकठिनम् इत्य् आशयेनाह--धनुष इति । प्राक् खम् अन्तरीक्षं पूरयामास शब्दस्य आकाश-गतत्वात् ततः रोदसी द्याव्-आभूमी महत्तरत्वेन ऊर्ध्वाधो-गामित्वात् । ततश् च दिशः सर्वाः । एवं सर्वान् अपि लोकान् अपूरयद् इत्य् अर्थः । कंसो जगद्-भीषणोऽपि उप आधिक्येन त्रासं प्राप्तो निर्घात-कोटि-निष्ठुर-तच्-छब्दाद् एव । विचारतश् च तस्मात् सद्यो मृत्यु-प्राप्ति-मननात् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.४२.१९ ॥

तद्-रक्षिणः सानुचरं कुपिता आततायिनः ।
गृहीतु-कामा आवव्रुर् गृह्यतां वध्यताम् इति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : गृह्यतां बध्यताम् इति वदन्तो जिघृक्षव आवृतवन्तः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् रक्षिणो धनू-रक्षिणः । आततायिनः आयुधान्यातत्यागच्छन्तः । सानुचरं श्री-रामादि-सहितम् । आततायिनो गृहीतायुधाः । गृह्यतां राज्ञे समर्पणाय जीवन्न् एव व्रियतां, पश्चाद्-बध्यतां पाशैर् यत्र्यताम् इति, एषा महामदेन बहलोक्तिः । वाग्-देवीमते तु—अस्माद् विधो जनो गृह्यतां वध्यताम् इति ज्ञेयम् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य धनुषो रक्षिणोऽनुचराः, श्री-बलदेवो गोपाश् च तैः सहितम् आततायिनो हननोद्यता गृहीतायुधा वा, वस्तुतस् तु निज-वधोद्यता एव ग्रहीतुम् अशक्यं मन्वाना आहुः—वध्यतां पाशैर्यन्त्र्यताम् इति, एषा च महामदेनावहेलोक्तिः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सानुचरं श्री-रामादि-सहितम् आततायिनः गृहीतायुधाः गृह्यतां राज्ञे समर्पणाय जीवन्न् एव ध्रियतां पश्चाद् वद्यतां पाशैर् यन्त्र्यताम् इति एषा महा-मदेनावहेलोक्तिः । वाग् देवी-मते तु अस्माद् विधो गृह्यतां वध्यताम् इति ज्ञेयम् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : १९ सानुचरं कृष्णं ग्रहीतुकामाः बध्यताम् इति ब्रुवाणाः आवब्रुः । वाग्देवीमते तु अस्मद्विधो जनो बध्यताम् इति ॥१९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२० ॥

अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ ।
क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं क्रुद्धौ, किन्तु भग्नस्य धनुषः शकले गृहीत्वा जघ्नतुश् चेति ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ निजावरणोत्तरम् । तान् धनूरक्षकान् । दुरभिप्रायान् दुष्टभावान् । धन्वनो धनुषः । शकले खण्डे द्वे । तान् विलोक्य क्रुद्धौ, जग्नतुश्चेति वाक्येभेदात् तान् इत्य् अस्यापुनर् उक्तता ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ आवरणानन्तरम् इति तस्माद् अतिदुष्टताभिव्यक्तेः । यद् वा, अथ अस्मद् धेतोर् दुरभिप्रायान् दुष्टभावान् विलोक्य साक्षाद् दृष्ट्वा, बल-केशवाव् इति पूर्व-लिखित-निरुक्त्या पराक्रमभरः सूचितः । द्वे खण्डे द्वौ पृथग् गृहीत्वा क्रुद्धौ जघ्नतुश् चेति वाक्य-भेदात् तानित्य् अस्यापुनर् उक्तता ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दूरभिप्रायान् दुष्टभावान् धन्वनो धनुषः तान् विलोक्य क्रुद्धौ जघ्नतुश् चेति वाक्य-भेदात् तान् इत्य् अस्या-पुनर् उक्ता ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धन्वनो धनुषः शकले द्वे खण्डे गृहीत्वा ॥२०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२१ ॥

बलं च कंस-प्रहितं हत्वा शाला-मुखात् ततः ।
निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुर-सम्पदः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : परतः प्रातर् गन्तव्यम् इति शाला-मुखाद् एव पुनर् निष्क्रम्य ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परतोऽग्रे । इति हेतोः । शाला-मुखाद् धनुर्-गृह-द्वारात् । बलं चेति पूर्वान्वयि । पुर-सम्पदो हर्म्यादि-शोभाः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो रक्षि-गण-हननानन्तरं कंसेन प्रहितं नियुक्तं बलं सैन्यं, श्लेषेण कंसस्य सामर्थ्यम् एवेति । ततस् तस्माद् एवेति शाला-मुख-विशेषणं वा । पुर-सम्पदो निरीक्ष्य साक्षाद् अनुभूयैव हृष्टा सन्तौ पुनर् अपि चेरतुः, लीलया पुर्यन्तर् बभ्रमतुः ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कंसेन प्रहितं बलं सैन्यं श्लेषेण कंसस्य सामर्थ्यम् इवेति ततस् तस्माद् एवेति शाला-मुख-विशेषणं पुर-सम्पदो निरीक्ष्य हृष्टा सन्तौ पुनर् अपि चेरतुः । लीलया पुर्यन्तर् बभ्रमतुः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.४२.२२ ॥

तयोस् तद् अद्भुतं वीर्यं निशाम्य पुर-वासिनः ।
तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेजः प्रभावम् । प्रागल्भ्यं धृष्टताम् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः राम-कृष्णयोः । तत् धनुर्-भङ्ग-बल-हनन-रूपं । रूपं सौन्दर्यं । रूपं स्वभावे सौन्दर्ये इति मेदिनी ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं दुष्ट-दमनादिना शिष्टानां आनन्दो नितरां जात इत्य् आह—तयोर् इति। बल-केशवयोस् तत् हेलया धनुर्-भञ्जन-रक्षि-वर्गादि-वधतोऽभिव्यक्तं वीर्यं धनुर् पराक्रमं अद्भुतं लोकातीतं । च-काराद् अस्य तेज-आदिनाप्य् अन्वयः । पुर-वासिन इति वैदग्ध्य्-आदिना तेषां तन्-मनन-योग्यतोक्ता । तत्रत्याश् च सर्वेऽपि गृहीताः, तेजः-प्रागल्भ्ये तैर् व्याख्याते एव । तत्र प्रभावः सामर्थ्यम् ऐश्वर्यं वा । धृष्टता लीला-भ्रमणादाव् अलज्जता निरपेक्षता वेति । यद् वा, तेजसो लोकानुग्रहादि-सर्व-शक्तेः । प्रागल्भ्यम् प्रौढत्वम् । तान् प्रति परम-कृपादि-गुणः । अन्यत् समानम् । एवं क्रमेण कर्म-गुण-रूपाणि त्रीण्य् उक्तानि विबुधोत्तमौ श्री-शिव-विष्णू मेनिरे ज्ञातवन्तः ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं दुष्ट-दमनादिना शिष्टानां आनन्दो नितरां जात इत्य् आह—तयोर् इति । तत् तत्रत्यं वीर्यं धनुर् ग्रहणादौ पराक्रमं तेजः सर्वाभिभवन-स्वभावः प्रागल्भ्यम् अकुण्ठत्वं रूपं सौन्दर्यं च । तेज-आदीनां द्वन्द्वैक्यं विबुधोत्तमौ शिव-विष्णू, ततोऽप्य् उत्तमौ श्री-सङ्कर्षण-वासुदेवौ वा ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीर्यं बलं तेजः प्रभावः विभुधोत्तमौ विष्णु-रुद्रौ वासुदेव-सङ्कर्षणौ वा ॥२२॥


॥ १०.४२.२३ ॥

तयोर् विचरतोः स्वैरम् आदित्योऽस्तम् उपेयिवान् ।
कृष्ण-रामौ वृतौ गोपैः पुराच् छकटम् ईयतुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शकटं शकटावमोचन-स्थानम् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयो राम-कृष्णयोः । अस्तम् अस्ताचलम् । शकटाः सन्ति अत्रेति शकतम् । अर्श-आदित्वाद् अच् । एतद् अभिप्रेत्यैव स्वाभिभिर् व्याख्यातं शकटावमोचन-स्थानम् इति । विशेषतो बहुव्रता तया चरतोः । आदित्योऽस्तम् इति तदानीम् आविष्कृत-तत्-प्रतापासहनाद् एवेति भावः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वैरं स्वच्छन्दंयथा स्यात् तथा विशेषेण चरतोः पुनर् अपि पुर्यतरितस् ततो भ्रमतोः सतोः, स्नेह-भरेण गोपैः कृतावरणे श्रेष्ठ्कस्य प्राधान्य-विवक्षयादौ निर्देशः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषतो बहुत्रत्यतया2 चरतोर् आदित्योऽस्तम् इति तदानीम् अविष्कृत-तत्-प्रतापासहनत्वाद् एवेति भावः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शकटं शकटावमोचनाभिधं मथुरा-प्रान्त-स्थं नन्दावासम् ॥२३॥


॥ १०.४२.२४ ॥

गोप्यो मुकुन्द-विगमे विरहातुरा या

आशासताशिष ऋता मधु-पुर्य् अभूवन् ।

सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं

हित्वेतरान् नु भजतश् चकमेऽयनं श्रीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्दस्य विगमे व्रजान् निर्गमन-समये या आशिष आशासत—सुखं प्रभाता रजनीयम् [भा।पु। १०.३९.२३], अद्य ध्रुवं तत्र दृशौ भविष्यते [भा।पु। १०.३९.२५] इत्य्-आदि यद् उक्तवत्यस् ता ऋताः सत्या बभुवुः । पुरुष-भूषणस्य श्री-कृष्णस्य गात्रस्य देहस्य लक्ष्मीं शोभाम् । कथं-भूतस्य गात्रस्य ? न अहो इतरान् ब्रह्मादीन् हित्वा यद् अयनम् आश्रयं श्रीः कामयामास । यां गात्र-लक्ष्मीम् इति वा॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुष-भूषणं पुरुष-श्रेष्ठम् । श्रेष्ठे चालङ्कृतौ प्रोक्तं भूषणं भू-निवासके इति निरुक्तिः । किं-भूताः ? यद् इत्य् अध्याहारापेक्षया सरल-पन्थानम् आह—यां ।पुरुष-भूषण-गात्र-लक्ष्मीम् इति वेति । अयनम् इत्य् अनेन व्यधिकरणेनाप्य् अजहल्-लिङ्गत्वात् सम्बन्धः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-भगवतः स्वैर-विचरणेन तत्रत्याः परमानन्दिता बभूवुर् इति तेषां महा-भाग्यं वर्णयति-गोप्य इति । आशिषो मङ्गल-वाक्यानि, केषामृता बभूवुस् तान् आह—सम्यक् पश्यतां जनानां स्वैरं विचरणेनाति-निकट एव प्रिय-सख-वर्गैः सहितस्य गोप-वेषस्य तस्य प्राप्तेर् दर्शन-सम्यक्त्वम् इत्य् अपश्यन्तः कंस-तद् अनुगा व्यवच्छिन्नाः । यद् वा, तत्-सन्दर्शनानन्दभरोदयाभिप्रायेण स्वरूप-मात्र-निर्देशः । अत एव ताभिर् अपि पूर्वम् उक्तम्, द्रक्ष्यन्ति ये च [भा।पु १०.३९.२५] इत्य्-आदि, मधुपुरीति पुरा मधु-नाम-दैत्य-सम्बन्धात् । किं वा, मधु परमानन्द-रसस् तत्-प्रकटनात् । किं वा, मधवो यादवा एव, तद् वासात् । एवं तस्यां तद् योग्यतोक्ता । सत्यतायां हेतुः—गोप्यस् तत्रापि विरहतुरास् तत्रापि मुकुन्दस्य सदा परमानन्द-प्रदस्य विगमे इति विरहाधिक्यम् उक्तम्—परमार्ता महत्तम् अमुखोद्गतानां वाचां सद्यःफलत्वात् । यद् वा, मुकुन्देत्य् आदिकं तत्-समयस्मारण-मत्रं भजतः आदरेण बहुधा सेवमानान् अपि चकम इति तस्या अपि न तत्-सम्यक्-प्राप्तिर् इति बोधयति । अतः किं तेषां भाग्यं वर्ण्यम् इति भावः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-गोपीनां पुर-जनानां च प्रेम-वर्णनम् उपसंहरति—गोप्य इति । अयम् अर्थः—मुकुन्दस्य विगमे व्रजं परित्यज्य मथुरा-प्रस्थाने गोप्यो विरहातुराः सत्यो या आशिषः सुखं प्रभाता रजनीयम् आशिषः सत्यो बभूवुः पुर-योषितां ध्रुवम् । इति रीत्या पुर-योषितां कामिनीनां यान् अर्थान् आशासत अवश्य-प्रार्थयत्वेनेष्टवत्यः स्वयम् अभिप्रेतवत्य इत्य् अर्थः । आङ् शासु इच्छायां ता आशिषो मधुपुरि मधु-पुरे पुरुष-भूषणस्य मुकुन्दस्य सम्यक् पश्यताम् अन्येषां अपि जनानां अव्यभिचारिण्यो बभूवुः । तद्-उत्कर्षार्थं तद्-गात्र-लक्ष्मीम् एव विशिनष्टि—हित्वेति । श्रीर् यत्-पदाम्बुज-रजश् चकमे तुलस्या इत्य्-आदि-रीत्या यद्-वाञ्छया श्रीर् इत्य्-आदि-रीत्या च भजतः स्व-सम्पत्ति-कामनया समुपासीनान् अपि इतरान् हित्वा तन्-मय-निजान्तर-वैभवम् अनादृत्य याम् एवायनम् आश्रयं कामयामास । तद् एवं परम-योग्यानां तासां विरहम् अनभिनन्दन् परम-योग्यत्वाद् एव पर्यवसानेन तु न स्थानस्यत्येव विरह इति ध्वनयति । वक्ष्यते च स्वयं भगवता—

मय्य् आवेश्य मनः कृष्णे विमुक्ताशेष-वृत्ति यत् । > अनुस्मरन्त्यो मां नित्यं अचिरान् माम् उपैष्यथ ॥ [भा।पु। > १०.४७.३६] इति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रज-सुन्दरी-भाव-भावितत्वाद् अकस्मात् तद्-विरह-स्मृति-जनित-विषादो मुनीन्द्रः परीक्षितं स्मारयति—गोप्य इति । मुकुन्दस्य विगमे व्रजान् निर्गमन-समये या आशिषो भविष्यन्तीः सम्पत्तीर् आशासत अस्माकम् आशिषोऽद्य पुरस्थाः प्राप्स्यन्तीत्य् अभाषन्त—सुखं प्रभाता रजनीयम् [भा।पु। १०.३९.२३] इति, अद्य ध्रुवं तत्र दृशौ भविष्यते [भा।पु। १०.३९.२५] इत्य्-आदिकास् ता मधुपुर्यां कृष्ण-गात्र-शोभां पश्यतां ऋताः सत्या यथार्था एवाभूवन् कथं तादृशीनां विलापोक्तिर् अप्य् अन्यथा भवेद् इति भावः । श्रीस् त्रैलोक्य-वर्तिन्य् अपि शोभा सर्व-शोभाधिष्ठात्री देवता इतरान् भजतः स्वं कामयमानान् अपि पुंसस् त्यक्त्वा यां गात्र-शोभां चकमे भूषण-भूषणाङ्गम् इतिवत् स्वं शोभयितुम् इति भावः । गात्र-लक्ष्मीम् विशिनष्टि—अयनं प्राकृताप्राकृत-सर्व-शोभानां आश्रयणीयम् इत्य् अर्थः ॥२४॥


॥ १०.४२.२५ ॥

अवनिक्ताङ्घ्रि-युगलौ भुक्त्वा क्षीरोपसेचनम् ।
ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंस-चिकीर्षितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवनिक्तं क्षालितम् अङ्घ्रि-युगलं ययोस् तौ । क्षीर-मिश्रम् अन्नं भुक्त्वा सुखं न्यवसताम् ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षीरस्योपसेचनम् उपसेको यस्मिन्न् अन्ने तत्-तथा । यस्यां मथुरां गतास् ताम् । कंसचिकीर्षितं हस्तिमल्लादि-द्वारा निजमारण-लक्षणम् । अवनिक्तं दासैः क्षालितम् अङ्घ्रियुग्मं ययोस् तौ । क्षीरेण व्रजस्थ-कृष्ण-प्रियवयस्किनीदुग्धेन शकटोपरिष्टाग्निधान्यां व्रजेश्वर्यैवार्पित-भाण्डस्थेनोपसिच्यमान-मोदनं भुक्ता कंसस्य चिकीर्षितं परेद्यवि स्वहिंस नव्यवसायं ज्ञात्वापि निभयत्वात् सुखं स्वापाधिक्येनोषतुः । भोः पुत्रौ अद्य किं कृतं मुग्धाभ्यां युवाभ्यां, हन्तहन्त कथम् अर्चितं धनुर् भग्नं, कथं वा तद् रक्षिणो हताः, न जाने क्रुध्यन् कंसः श्वः किं कर्तेति हाहा कथं मया गोष्ठाद्यु वामानीताव् इत्यादिभीतस्य सर्वां रात्रिमनिद्राणस्य पितुर् नन्दस्य वाक्यं स्वापाधिक्याद् एव तौ न श्रुतवन्ताव् इति ज्ञेयम् ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कंसस्य चिकीर्षितं दुश्चेष्टच्छां ज्ञात्वापि सुखम् एवोयतुर् निर्भयत्वात् पुरीसम्पन् निरीक्षणाच् च । यद् वा, प्रातर्मञ्चारूढ-जन-समाज-मध्ये रङ्ग-भूमौ मल्ल-युद्धादि-विधापनेच्छामत एव सुखम् ऊषतुः, स्वत एव सुखतस् तद् वधोपायासत्तेः3, तथा गोप-क्रीडा-तुल्ये मल्ल-युद्धे निज-प्रीतेश् च, तथा च वक्ष्यते नियुद्धम् आत्मनोऽभीष्टम् [भा।पु १०.४३.३६] इति ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवनिक्त इति तैर् व्याख्यातं तत्र ययोर् इति षष्ठ्या तत् तद् अङ्ग-सेवक-कर्तृकत्वं बोध्यते । क्षीर-मिश्रम् इति श्री-व्रजेश्वर्या सायमशनार्थं शकट-स्थापिताग्निधानीस्थित-भाण्ड-वृन्द-निषीप्तम् इति ज्ञेयं क्षीरेणोपसिच्यते इति कर्मणि ल्युट् विधानात् । कंसस्य चिकीर्षितं प्रातर् मञ्चारूढ-महाजन-समागम-मध्ये रञ्ज-भूमौ मल्ल-युद्धादि-विधापनेच्छां ज्ञात्वा लोक-मुख्यात् श्रुत्वा सुखं तद् वधार्थम् आयासं विना स्वस्थं यथा-स्यात् तथा । खल्व् अत्र रजकादिकं हत्व पादावनेजन-मात्रं कृत्वा न तु स्नात्वा भुक्तं तत्रेदं मन्यामहे पापिनां वधः खलु परम-धर्म एव तथा प्रत्य् अङ्गुलं तु तीर्थानि प्रति-हस्तं सुरालया इति मथुरा-महात्म्ये वचनादरः कर्तव्य एव ततस् तद्-अनन्तरं स्नानं युक्तम् इति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवनिक्तं दासैः क्षालितमङ्घ्रियुगलं ययोस्तौ क्षीरोपसेचनं क्षीरेण व्रजस्थकृष्णप्रियवस्कयनीदुग्धेन शकटोपरिस्थाग्निधान्यां व्रजेश्वर्यैवार्पितभाण्डस्थेन उपसिच्यमानमोदनं भुक्त्वा कंसस्य चिकीर्षितं परेद्यविस्वहिंसनव्यवसायं ज्ञात्वापि निर्भयत्वात् सुखस्वाप्याधिक्येन ऊयतुः भोः पुत्रौ! अद्य किः कृतं मुग्धाभ्यां युवाभ्यां? हन्त हन्त कथमर्चितं धनुर्भग्नं, कथं वा तद्रक्षिणो हताः न जाने क्रुध्यन् कंसं श्वः किं करिष्यति, हा हा कतह्ं मया गोष्ठात् युवामानीताव् इत्यादिभीतस्य सर्वां रट्रिमनिद्राणस्य पितुर्नन्दस्य वाक्यं स्वापाधिक्यादेव तौ न श्रुतवन्ताविति ज्ञेयम् ॥२५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२६ ॥

कंसस् तु धनुषो भङ्गं रक्षिणां स्व-बलस्य च ।

वधं निशम्य गोविन्द- राम-विक्रीडितं परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परं केवलं गोविन्द-रामयोर् विक्रीडितं तत्, न तु पराक्रमः कश्चित् ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धनुष इति देहली-दीपकन्यायेन भङ्ग-पदेन रक्षिणाम् इत्य् अनेन च सम्बध्यते । परं केवलम् । कंसस्त्विति युग्मकम् । कंसस् तु धनुर्भङ्गादिकं निशम्य तं तं परं केवलं राम-कृष्णयोः विचित्र क्रीडा-रूपं न तु युद्ध-रूपं निशम्य भीतो दुर्निमित्तान्याचष्टे ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दः श्री-गोवर्धन-धारणादिना गोकुलेन्द्रः श्री-कृष्णः, प्रलम्ब-वधादिना गोपादि-रमणाद्रामश् चेति महा-विक्रमवत्त्वं सूचितम् । तयोर् विक्रीडित-रूपं धनुर् भङ्गादिकं निशम्य भीतो दुर्निमित्तान्यचष्टेति द्वाभ्याम् अन्वयः । वि-शब्देन तस्य क्रीडा-मात्रतैव4 बोध्यते, न तु कश्चिद्-विशेषः, अत एवोक्तम्—परं केवलम् इति ॥२६.२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कंसस्व् इति युग्मकम् । कंसस् तु धनुर् भङ्गादिकं निशम्य तं च परं केवलं राम-कृष्णयोर् विचित्र-क्रीडा-रूपं न तु युद्ध-रूपं निशम्य भीतो दुनिमित्तान्य् अचष्ट ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं च बधं परं केवल रामकृष्णयोविक्रीडितं नतु पराक्रमं निशम्य । उभयथा स्वप्न जागरप्रकारेण मृत्योर्दौत्यम् इव कुर्वन्तीति तानि ॥२६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२७ ॥

दीर्घ-प्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।

बहून्य् अचष्टोभयथा मृत्योर् दौत्य-कराणि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उभयथा स्वप्न-जागरित-भेदेन प्रत्येकं मृत्योर् दौत्य-कराणि च । तथा च मन्त्रः, “इत्थादुलूकश् चापघ्नन् हिरण्याक्षो अयो-मुखः । रक्षसां दूत आगतः” इत्य्-आदिः । तथा, “यद् एतद् भूतान्य् अन्वाविश्य दैवीं वाचं वदसि” इत्य्-आदिश् च ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उभयथा दैह्यानि बाह्यानि वा । तथा च मृत्युदौत्ये मन्त्रः श्रुतिः । इत्था इत्थम् । उलूकः पक्षि-विशेषः । आपघ्नन् शुभम् इति शेषः । हिरण्याक्ष पीत-नेत्रः । अयोमुखः लोह-चञ्चुः । रक्षसां रक्षवन् निर्दयानाम् । बहुत्वं पूजापेक्षम् । यमराजस्य मृत्योर् इत्य् अर्थः । तथान्यो मन्त्रः—भूतानि पक्ष्यादीनि । यत् यां वाचम् । दैवी देस्वद्योतिकां वदसीति । तद् एषा वाक् मृत्योर् दूतरूपेति भावः । दुर्मतिः तदानीम् अपि भगवद् भागवत-द्रोहानिवृत्तेः । अयं सर्वत्रैव हेतुः । बहूनि राज्य-भङ्गादि-हेतूनि तावद् दर्श । मृत्योर् दौत्यम् इव कुर्वन्तीति तत्-कराणि तत्-सूचकानि च ददर्शेत्य् अर्थः ॥२७॥


कैवल्य-दीपिका : दीर्घ- इति । दीर्घः प्रजागरो निद्रा-क्षयो यस्य स तथा । अचष्ट अपश्यत् । उभयथा स्वप्ने जागरे च । दौत्यं दूतवत् ॥ [मु।फ। १५.२]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दीर्घः—अविच्छिन्नश् चिरावस्थायी वा, प्राकृष्टो दृग्-निमीलन-मात्रेणापि रहितो जागरो यस्येति श्री-नारदोक्त-श्रवणात् प्रथमत एव निद्रा-बाहुल्य-निवृत्तेः । किं वा, तद् रात्र्याम् एव प्रायो निद्रापगमात्, दुर्मतिः—तदानीम् अपि श्री-भगवद् आगवतद्रोहा-निवृत्तेः । अयं सर्वत्रैव हेतुः । दौत्यकराणि सूचकानि, च-कारोऽनुक्त-समुच्चये, अत्यन्ताभाव-सूचकानि च मोक्षस्य भावित्वात् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दुर्मतिस् तदानीम् अपि श्री-भगवद् भागवत-द्रोहानिवृत्तेः । अयं सर्वत्रैव हेतुः । बहूनि राज्य-भङ्गादि-हेतूनि तावद् दर्श । तथा मृत्योर् दौत्यम् इव कुर्वन्तीति तत् करणि तत् सूचकानि च ददर्शेत्य् अर्थः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभयथा स्वप्न-जागर-प्रकारेण मृत्योर् दोत्यम् इव कुर्वन्तोति तानि ॥२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२८ ॥

अदर्शनं स्व-शिरसः प्रतिरूपे च सत्य् अपि ।

असत्य् अपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तानि दर्शयति श्लोक-त्रयेण । जलादौ प्रतिरूपे दृश्यमानेऽपि स्व-शिरसस् तत्रादर्शनम्। असत्य् अपि द्वितीये चक्षुषोऽन्तर्-धानेऽङ्गुल्य्-आदौ ज्योतिषां चन्द्रादीनां द्वित्वम् ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तानि दुनिमित्तानि । प्रतिरूपे प्रतिबिम्बे । तत्र प्रतिबिम्बे । द्वितीये रूपे । द्वित्वं द्विरूपत्वम् । द्वैरूप्यं द्वित्वभानम् । चकार-द्वयं दर्शनाद् अदर्शनयोर् द्वयोर् अपि प्राधान्य-बोधनार्थम् । एवं तथेत्य् अस्य परेणान्वयः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जागरित-दुर्निमित्तान्याह-अदर्शनम् इति द्वाभ्याम् । द्वीतीय इति तैर् व्याख्यातम् । तत्र चक्षुषः केनचित् किञ्चिद् आच्छादने सति ज्योतिषां द्वित्वं दृश्यत इति अन्तर्धानं यद् अङ्गुल्यादि तस्मिन् नित्यर्थ इति । यद् वा, द्वितीये तिमिरादि-दोषे । किं वा, चन्द्रादीनां द्वित्वे तत्त्वतोऽसत्य् अपि द्वैरूप्यं द्वित्व-दर्शनम् इत्य् अर्थः । च-कार-द्वयम् अदर्शन-दर्शनयोर् द्वयोर् अपि प्राधान्य-बोधनार्थम्, एवं तथेत्य् अस्य परेणाप्य् अन्वयः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अदर्शनम् इति त्रिकम् । द्वितीयेति तैर् व्याख्यातम् । तत्र चक्षुष अन्तर्धानं तद् धेतुर् यद् अङ्गुल्यादि तस्मिन्न् सत्य् अपीत्य् अर्थः । आदि-ग्रहणात् तत्र मुख्यत्वेन मृतु-सूचकानि जागर-दुनिमित्तानि विशेषाद् दर्शयति काच-कामलादयः । द्वैरूप्यं द्वित्वभानं चकार-द्वयम् अदर्शन-दर्शनयोर् द्वयोर् अपि प्राधान्य-बोधनार्थम् । एवं तथेत्य् अस्य परेणान्वयः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तानि दर्शयति, त्रिभिः दर्पणादौ प्रतिरूपे दृश्यमाने ऽपि स्वशिरसस्तत्रादर्शनम् द्वितीये द्वैरूप्यहेतुभूते चक्षुरन्तर्वर्तनकारिण्यङ्गुल्यादौ असत्यपि ज्योतिषां चन्द्रादीनां द्वित्वं, छायायां स्वप्रतिबिम्बे छिद्रप्रतीतिः । पिहितकर्णपुटस्य यो ऽन्तः श्रूयमाणो ध्वनिः स प्राणघोषस्तस्याश्रवणम् वृक्षेषु स्वर्णवर्ण प्रतीतिः रजः कर्दमादिषु स्वपदानाम् अदर्शनम् । एतानि जागरणदुर्निमित्तानि प्रेतैः मृतैः भ्रातृबन्धुभिः सह परिष्वङ्गः खरयानं गर्दभारोहणं, विषादनं वियभक्षणम् । नलदमाली जवाकुसुममालावान् यायाद्गच्छेद् इति यत्तदप्येकंदुर्निमित्तं स्वप्नजागरितानि तत्सम्बन्धीनि ॥२८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.२९ ॥

छिद्र-प्रतीतिश् छायायां प्राण-घोषानुपश्रुतिः ।

स्वर्ण-प्रतीतिर् वृक्षेषु स्व-पदानाम् अदर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : छायायां प्रतिबिम्बे छिद्र-प्रतीतिः । पिहित-कर्ण-पुटस्य योऽन्तः श्रूयमाणो ध्वनिः स प्राण-घोषस् तस्याश्रवणम् । वृक्षेषु स्वर्ण-वर्ण-प्रतीतिः । रजः-कर्दमादिषु स्व-पदानाम् अदर्शनम् । एतानि जागरितानि दुर्निमित्तानि ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जागरितानि जागरे जातानि । स्वपदाना स्वपाद-लाञ्छनानाम् । छिद्र-प्रतीतिः सच्छिद्रता-दर्शनम् ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : छ्रिद्रप्रतीतिः सच्छिद्रतादर्शनम् इत्य् अर्थः ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वच्छायायां छिद्र-प्रतीतिः सच्छिद्रता-दर्शनम् इत्य् अर्थः टीकायां जागरितानीति संजातो जागरो येषु तानि जागर-सम्बन्धीनीत्य् अर्थः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छायायां स्वप्रतिबिम्बं छिद्र-प्रतीतिः पिहित-कर्ण-पुटस्य योऽन्तः श्रूयमाणो ध्वनिः स प्राण-घोषस् तस्याश्रवणं वृक्षेषु स्वर्ण-वर्णप्रतीतिः रजः-कर्दमादिषु स्वपदानाम् अदर्शनम् एतानि जागरण-दुर्निमित्तानि प्रेतैर् मृतैर् भ्रातृ-बन्धुभिः सह-परिष्वङ्गः स्वरयानं गर्धभारोहणं बिषादनं विष-भक्षणं नलदमाली जपाकुसुम-मालावान् यायाद्भच्छेद् इति यत्-तद् अप्य् एकं दुर्निमित्तम् ॥२९.३०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३० ॥

स्वप्ने प्रेत-परिष्वङ्गः खर-यानं विषादनम् ।

यायान् नलद-माल्य् एकस् तैलाभ्यक्तो दिग्-अम्बरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वप्नान्य् आह—स्वप्न इति । प्रेतैर् मृतैः परिष्वङ्गः खरम् आरुह्य यानम् । विष-भक्षणम् । नलद-माली जपा-कुसुम-माली यायाद् इति यत् तद् अप्य् एकं दुर्निमित्तम् इति ॥३०.३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाप्नानि स्वप्न-भवानि । परिष्वङ्ग आलिङ्गनम् । विसादनम् इति पाठे पद्म-कन्द-भक्षणम् इत्य् अर्थ । नलदमाली दक्षिणामुखी व्राजयति इति श्रुतेः ।

पद्मालां शिरः कृत्वा यो गच्छेद् दक्षिणामुखः । > एवं पश्यन् निशि स्वप्ने स्तत्क्षणे मृत्युमृच्छति ॥

इति स्वप्न-निदर्शने । यद् वा, नलदं वक्र-रक्त-पुष्पं मृणाल-शून्यं वर्षासु जायमानं तन् मलाधारी । अभयं नलदं सेव्यम् अमृणालं जलाशयम् इत्य् अमरः । तैलाभ्यक्तः कृततैलाभ्यङ्गः । दिगम्बरो नग्नः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्य् अपि दीर्घ-प्रजागर इत्य् आद्य् उक्त्या स्वप्नो न घटेत, तथापि कदाचिद् ईषत्तन्द्री स्यात् तस्याम् एव तद् दर्शनम् इति स्वप्न इत्य् उक्तम् । एकम् इति तैर् व्याख्यातम् एव । यद् वा, एकं कञ्चित् प्रदेशं यायाद् इति ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दीर्घ-प्रजागरत्वेऽपि कदाचिच् चिन्तयैव तन्द्रा स्याद् इति स्वप्न इत्य् उक्तम् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.४२.३१ ॥

अन्यानि चेत्थं-भूतानि स्वप्न-जागरितानि च ।

पश्यन् मरण-सन्त्रस्तो निद्रां लेभे न चिन्तया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम्भूतानि अन्यानि कर्दम-मज्जनादीति त्वक्-स्फुरणादीनि च स्वप्नजा गरजानि । मरण-सन्त्रस्तो मृत्युभीतः । सञ्जातो जागरो येषु तानि जागरितानि, जागर-सम्बन्धनीत्य् अर्थः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्य् अर्थे च-कारः, अन्यान्य् अपि, इत्थम्-भूतानि उक्त-सदृशानि दुर्निमित्तानि, च-काराद् अन्य-प्रकाराण्य् अपि, तानि च सन्निमित्तानीति पूर्ववद् वोद्धव्यम् । स्वप्न-जागर-सम्बन्धिनी, स्वप्न-जागरितानि स्वाप्नेति वा पाठः । मरणात् सम्यक् त्रस्तः सन्, अतो विविध-कृत्यचिन्तया मनो-व्याकुलतया वा ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वप्न-जागरितानि तत् तत् स्वम्बन्दीनि ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छायायां स्व-प्रतिबिम्बं छिद्रप्रतीति पिहित-कर्ण-पुटस्य योऽन्तः श्रूयमाणो ध्वनिः स प्राण-घोषस् तस्याश्रवणं वृक्षेषु स्वर्ण-वर्ण-प्रतीतिः रजः-कर्दमादिषु स्व-पदानाम् अदर्शनम् एतानि जागरण-दुर्निमित्तानि प्रेतैर् मृतैर् भ्रातृ-बन्धुभिः सह-परिष्व् अङ्गः स्वरयानं गर्धभा-तत् सम्बन्धीनि ॥३१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३२ ॥

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते ।

कारयाम् आस वै कंसो मल्ल-क्रीडा-महोत्सवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कष्टेन कथञ्चित् प्रभातायां पुनः सूर्ये चाद्भ्यः समुत्थित इति । तथा च श्रुतिः, “अद्भ्यो वा” इति, “य उदगान् महतोऽर्णवट् विभ्राजमानः सलिलस्य मध्यात् । स मा वृषभो लोहिताक्षः सूर्यो विपश्चिन् मनसा पुनातु” इति च ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्युष्टायाम् इत्य् अस्य कष्टेनेत्यादिर् अर्थः । अद्भ्यो वा इति श्रुतिर् व्याख्यातचरा । अथापरा श्रुतिः—यः सूर्यः । उद्गाद् उदयं प्राप । अर्णवाद् अर्णवस्य सन्बन्धिनः सलिलस्य जलस्य मध्याद् विभ्राजमानो देदीप्यमानः । स ऋषभ-श्रेष्ठः । विपश्चित् सर्वज्ञो मां पुनात्व् इत्य् अर्थः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सूर्येऽद्भ्यः सम्यग् उन्मीलिते5 चेति दिवा-भागस्य तत्र प्राशस्त्यात् चिन्तावेशेन काल-विलम्बाद् वा, मल्ल-क्रीडैव महोत्सवः शत्रु-वधोपायत्वात् तम् । यद् वा, मल्ल-क्रीडार्थं महोत्सवम्, वै प्रसिद्धौ । एवम् आत्म-वधार्थं स्वयम् एवोपायः कृत इति तद्-दुर्बुद्ध्याश्चर्येण सम्बोधयति—कौरवेति । यथा दुर्योधनादि कुरव इति श्लेषार्थः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : व्युष्टायाम् इति अरुणोदयो विवक्षितः । तर्हि कथम् अन्धकारांश एव नेत्य् आह । सूर्ये चेति । समुद्र-तीरस्थैः सूर्यो यदा तत एवोच्चिष्ठन्न् अदृश्यत तदैवात्रत्योदय-सन्निधाव् इत्य् अर्थः । इति त्वरा तद् अनुरूपकालता च दर्शिता । मल्ल-क्रीडात्मकं महोत्सवं कारयामास आरेभ इत्य् अर्थः । एवम् आत्मबधोपायः स्वयम् एव कृत इति तद् दुर्बुद्ध्याश्चर्येण सम्बोधयति । कौरव्येति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्युष्टायां प्रभातायां सूर्येचाद्भ्य इति । तथाच श्रुतिः, “य उदगान्महतो ऽर्णवात् विभ्राजमणः सलिलस्य मध्यात् समा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनात्वि"ति ॥३२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३३ ॥

आनर्चुः पुरुषा रङ्गं तूर्य-भेर्यश् च जघ्निरे ।

मञ्चाश् चालङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जघ्निरे वादयाञ्चक्रिरे, वादकैः । कर्मेणि लिट् । चैलमत्रानेक-वर्ण-वस्त्रम् । सहोत्सवम् आह—रङ्गं मल्ल-क्रीडा-स्थानम् । पुरुषाः कंसभृत्याः । आनर्चुर् मङ्गल-कलश-स्थापनादिनालञ्चक्रुः । तथा च हरि-वंशे कंसादेश

स्वः सचित्राः समालाश् च सपताकास् तथैव च । > सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।

क्रियन्तां मञ्चवाट्यश् च वलभ्यो वीथयस् तथा ॥ इत्य्-आदि ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मोहोत्सवत्वम् एवाह—आनचुर् इति । रङ्गं मल्ल-क्रीडा-स्थालम्, पुरुषाः कंस-भृत्या आनचुर् मङ्गल-कल-स्थापनादिनालञ्चक्रुः । तथा च हरि-वंशे कंसादेशः—

स्व सचित्राः समाल्याश् च सपताकास् तथैव च । > सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ॥ > क्रियन्तां मञ्च-वाटाश् च बलभ्यो वीथयस् तथा । > रङ्ग-वाटे6 करीषस्य कल्प्यन्तां राशयोऽव्ययाः ॥ > घण्टाभरण-शोभाश् च बलयश् चानुरूपतः । > स्थाप्यन्तां सुनिखाताश् च पान-कुम्भा यथाक्रमम् ॥ > उदभार-सहाः सर्वे सकाञ्चन-घटोत्तमाः । > बलयश् चोपकल्प्यन्तां कषायाच् चैव कुम्भशः ॥ [ह।वं। > २.२८.१०-१४] इति ।

पताकाभिश् चैलानि वस्त्र-निर्मितानि तोरणानि, तैश् च । यद् वा, चैलैः स्थाने स्थाने बद्ध-विचित्र-वस्त्र-समूहैस् तोरणैश् च ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महोत्सवत्वम् एवाह । आनर्चुर् इति । रङ्गं मल्ल-क्रीडा-स्थानं पुरुषाः कंस-भृत्याः आनर्चुर् मङ्गल-कलस-स्थापनादिना अलं चक्रूः । तथा च हरि-वंशे कंसादेशः ।

श्वः सचित्राः समालाश् च सपताकास् तथैव च । > सुवासिता वपुष्मन्तः उपनीतोत्तरच्छदा । > क्रियन्तां मञ्चवाटाश् च बलभ्यो वीथयस् तथा । > अक्षवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः । > घण्टाभरण-शोभाश् च वलयश्चानुरूपतः । > स्थाप्यन्तां सुनिखाताश् च पान-कुम्भा यथा-क्रमम् । > उदभारवहाः सर्वे सकाञ्चन-घटोत्तमाः । > बलयश् चोपकल्प्यन्तां कषषाश् चैव कुम्भशः । इति ।

पताकाभिश् चैलानि वस्त्र-निर्मितानि तोरणानि तैश् च ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषाः कंसस्य कर्म-चारिणः आनर्चुः मङ्गल-कलस-स्थापनादिना अलं चक्रूः। जघ्निरे वादनार्थं काष्ठिकाभिर् अताद्यन्त ॥३३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३४ ॥

तेषु पौरा जानपदा ब्रह्म-क्षत्र-पुरोगमाः ।

यथोपजोषं विविशू राजानश् च कृतासनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथोपजोषं यथा-सुखम् ॥३४.३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषु मञ्चेषु । जानपदा देशान्तरीया जना । यथोपजोषम् इत्य् अत्र विशेषः । श्री-विष्णु-पुराणे—

राज-मञ्चेषु चारूढाः सह भृत्यैर् महीभृतः । > अन्तःपुराणां मध्ये देवकी पुत्र-गर्धिनी ॥ इति ।

हरि-वंशे च—

मञ्चागारैः सुनिर् मुक्तैर् युद्धाय सुविभूषितैः > समाजवाटः शुशुभे समेघौघ इवार्णवः । > श्रेणीनां च गणानां च मञ्चा भान्त्यचलोपमाः । > अन्तःपुरगणानां च प्रेक्षागाराण्यदूरयतः । > रेजुः काञ्चन-चित्राणि रत्नमाला कुलानि च । > गणिकानां पृथग् मञ्चाः शुभैर् आस्तरणाम्बरैः । > शोभिता वारमुख्याभिर् विमान-प्रतिमौजसः । > अन्ये च मञ्चा बहवः काष्ठ-सञ्चय-बन्धनाः । > रेजुः सास्तरणास् तत्र शतशोऽथ सहस्रशः । इति ।

देवक्या नागरी-मध्य-प्रवेशे हेतुः—पुत्रगर्धिनीति । कंसेनानादृतत्वड् अन्तः पुरमञ्चाप्रवेशाद् इति भावः । विविशुरु उपाविशन् । कृतं तिर्माय न्यस्तमासनं तत्-तद्योग्यपीठादिकं येषां ते ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथोपजोषम् इत्य् अत्र विशेषः श्री-विष्णु-पुराणे—

राज-मञ्चेषु चारूढाः सह-भृत्यैर् महीभृतः ॥ > अन्तः-पुराणां मञ्चाश् च तथान्ये परिकल्पिताः । > अन्ये च वार-मुख्यानाम् अन्ये नगर-योषिताम् ॥ > अक्रूर-वसुदेवौ च मञ्च-प्रान्ते व्यवस्थितौ ॥ > नागरी-योषितां मध्ये देवकी पुत्र-गर्धिनी ॥ [वि।पु। ५.२०.२४, > २६-२८] इति,

श्री-हरि-वंशे च विष्णु-पर्वे—

मञ्चागारैः सुनिर्मुक्तैर् युद्धाय सुविभूषितै । > समाज-वाटः शुशुभे समोघौष इवार्णवः ॥ > श्रेणीनां च गणानां च मञ्चा भान्त्य् अचलोपमाः ॥ > अन्तःपुर-गतानां च प्रेक्षागाराण्य् अदूरतः । > रेजुः काञ्चन-चित्राणि रत्न-जालाकुलानि च ॥ > गणिकानां पृथग्-मञ्चाः शुभैर् आस्तरणाम्बरैः । > शोभिता वार-मुख्याभिर् विमान-प्रतिमौजसः ॥ > अन्ये च मञ्चा बहवः काष्ठ-सञ्चय-बन्धनाः ॥ > रेजुः प्रस्तरणास् तत्र शतशोऽथ सहस्रशः ॥ [ह।वं। २.२९.४-६, > ९, १२] इत्य्-आदि ।

विविशुर् उपाविशन्, कृतं निर्माय न्यस्तमासनं तत् तद्-योग्य-पीठादिकं येषां ते, राज-मञ्चश्चोक्तस् तत्रैव हरि-वंशे—

प्राङ्-मुखश् चात्र निर्मुक्तो मेरु-शृङ्ग-सम-प्रभः । > रुक्म-यन्त्र-निभस्तम्भश् चित्र-निर्योग-शोभितः ॥ > प्रेक्षागारः स कंसस्य चाकाशेऽप्य् अधिकं श्रिया । > शोभितो माल्य-दामौघैर् निवास-कृत-लक्षणः ॥ [ह।वं। > २.२९.१४-१५] इति,

किं च—

स दृष्ट्वा सर्व-निर्मुक्तं प्रेक्षागारं नृपोत्तमः । > श्रेणीनां दृढ-संयुक्तैर् मञ्च-वाटैर् निरन्तरम् ॥ > सोत्तरागार-युक्ताभिर् वडभीभिर् विभूषितम् । > काञ्चनीभिः प्रवृद्धाभिर् एकस्तम्भैश् च भूषितम् ॥ > सर्वतः सार-निर्व्यूहं स्वायतं सुप्रतिष्ठितम् । > उदक्प्लवन-सुश्लिष्टं मञ्चारोऽणमुत्तमम् ॥ > नृपासन-परिक्षिप्तं सञ्चार-पथ-सङ्कुलम् । > छन्नं तद् वेदिकाभिश् च मानवौघ-भव-क्षयम् ॥ इति ।

तत्र मञ्च-प्रेक्षागारयोः स्वल्प-बहुल-परिच्छदादिना भेदो ज्ञेयः ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथोपजोषम् इत्य् अत्र विशेषः श्री-विष्णु-पुराणे—

राज-मञ्चेषु चारूढाः सह भृत्यैर् मही-भृतः । > अन्तः-पुराणां मञ्चाश् च तथान्ये परिकल्पिताः । > अन्ये च वार-मुख्यानाम् अन्ये नगर-योषिताम् । > अक्रूर-वसुदेवौ च मञ्च-मध्ये व्यवस्थितौ । > नगरी-योषितां मध्ये देवकी-पुत्र-गर्धिनीति ॥ [वि।पु। ५.२०.२४, > २६-२८] इति

हरि-वंशे—

मञ्चागारैः सुनिर् मुक्तैर् युद्धाय सुविभूषितैः । > समाजवाटःसमाज-वाटः शुशुभे समेघौघ इवार्णवः । > श्रेणीनां च गणानां च मञ्चा भान्त्य् अचलोपमाः । > अन्तः पुरगणानां च प्रेक्षागऋआण्य् अदूरतः । > रेजुः काञ्चन-चित्राणि रत्न-जाला-कुलानि च ।ल् > गणिकानां पृथङ् मञ्चा शुभैर् आस्तरणाम्बरैः । > शोभिता वार-मुख्याभिर् विमान-प्रतिमौजसः । > अन्ये च मञ्चा बहवः काष्ठ-सञ्चय-बन्धनाः > रेजुः प्रस्तरणास् तत्र शत-शोऽथ सहस्रः । इत्य्-आदि ।

अत्र पूर्वत्र मञ्चप्रान्त इति राज्ञ एवेति ज्ञेयम् । मुख्यत्वेन तस्यैव प्राप्तेः । ताभ्यां या देवकी भाव-विकृति-शङ्कया कंसेन तथा-चरितत्वाच् च नागरी-मञ्चे देवकी-प्रवेशे हेतुः पुत्र-गर्धिनीति कंसेनानादृतत्वेनान्तः पुरमञ्चाप्रवेशाद् इति भावः । विविशुर् उपाविशन् कृतं निर्माय न्यस्तमासनाम् तत् तद् योग्य-पीठादिकं येषां ते ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथोपजोषं यथा-सुखम् ॥३४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३५ ॥

कंसः परिवृतोऽमात्यै राज-मञ्च उपाविशत् ।

मण्डलेश्वर-मध्य-स्थो हृदयेन विदूयता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राज-मञ्चे अत्युच्च-मञ्चे । विदूयता परितप्यमानेन । राज-मञ्चश् चोक्तस् तत्रैव,

प्राङ्मुखश् चात्र निर्मुक्तो मेरु-शृङ्ग-सम-प्रभः । > रुक्म-यन्त्र-निभ-स्तम्भश् चित्र-निर्योग-शोभनः । > प्रेक्षागारः स कंसस्य चकाशेऽप्य् अधिकं श्रिया । > शोभितो माल्य-दामौघैर् निवास-कृत-लक्षणः ॥ [ह।वं। > २.२९.१४-१५] इति । > स दृष्ट्वा सर्वनिर्मुक्तिर् प्रेक्षागारं नृपोत्तमः । > श्रेणीनां दृढ-संयुक्तैर् मञ्च-वाटैर् निरन्तरम् । > सोत्तारणाय युक्ताभिर् वलभीभिर् विभूषितम् । > काञ्चनीभिः प्रवृद्धाभिर् एक-स्तम्भैश् च शोभितम् । > सर्वतः सार-निर्व्यूहं स्वायत्तं सुप्रतिष्ठितम् । > उदक-प्लवेन सुशिलष्टं मञ्चारोहणम् उत्तमम् । > छन्नं तद् वोदकाभिश् च मानवौघ-भव-क्षयम् ॥ इति ।

तत्र मञ्च-प्रेक्षागारयोः स्वल्प-बहुल-परिच्छदादीनां भेदो ज्ञेयः । मण्डलेश्वराः खण्ड-मण्डल-पतयस् तेषां मध्यस्थः कंस-सेवकत्वेन तेषां तन्-मञ्च एव स्थितेः । राजानश्चान्ये तन् मित्रनृपा इति भेदः । यद् वा, पृथग् मञ्चोपविष्टानां तेषाम् एव मञ्च-वर्ग-मध्ये कंस-मञ्चस्य वृत्तेः । विशेषेण दूयता दूयमानेन हृदयेनोपलक्षित इति स्वभावो नित्यभीतत्वाद् विशेषतश् च दुनिमित्त-दर्शनात् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मण्डलेश्वराः खण्ड-मण्डल-पतयस् तेषां मध्यस्थः, कंस-सेवकत्वेन तेषां तन् मञ्च एव स्थितेः, राजानश्चान्ये तन् मित्र-नृपा इति भेदाः ।यद् वा, पृथग्-मञ्चोपविष्टानां तेषाम् एव मञ्च-वर्ग-मध्ये कंस-मञ्चस्य वृत्तेः, विशेषेण दूयता दूयमानेन हृदयेनेति स्वभावतो नित्य-भीतत्वात्, विशेषतश् च दुर्निमित्तादि-दर्शनात् ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राज-मञ्चश् चोक्तस् तत्रैव


प्राङ्मुखश् चात्र निर्मिक्तो मेरु-शृङ्ग-समप्रभः > रुक्मयन्त्र-निभस्तम्भश् चित्र-निर्योग-शोभितः । > प्रेक्षागारः स कंसस्य चकाशेऽप्य् अधिकं श्रिया । > शोभितो माल्य-दामाद्यैर् निवासकृत-लक्षण । इति । > स दृष्ट्वा सर्व-निर्मुक्तिं प्रेक्षागारं नृपोत्तमः । > श्रेणीना दृढ-संयुक्तैर् मञ्चवाटैर् निरन्तरम् । > सोत्तरणाय युक्ताभिर् वलभीभिर् विभूषितम् । > काञ्चनीभिः प्रवृद्धाभिर् एकस्तम्भैश् च शोभितम् । > सर्वतः सार-निर्यूहं स्वायतं सुप्रतिष्ठितम् । > उदक्ल्प्लवन-सुश्लिष्टं मञ्चारोहणम् उत्तमम् । > नृपासन-परिक्षिप्तं सञ्चार पथ-सङ्कुलम् । > छन्नं तद्-वोदकाभिश् च मानवौघ-भव-क्षयम् । इति ।

तत्र मञ्च-प्रेक्षागारयोः स्वल्प-बहुल-परिच्छदादीनां भेदो ज्ञेयः । मण्डलेश्वराः खण्ड-मण्डल-पतयः तेषां मध्यस्थः । कंस-सेवकत्वेन तेषां तन् मञ्च एवस्थितेः । राजानश्चाचान्ये तन् मित्र-नृपा इति भेदः । यद् वा, पृथङ्मञ्चोपविष्टानां तेषाम् एव मञ्च-वर्ग-मध्ये कंस-मञ्चस्य वृत्तेः । विशेषेण दूयता दूयमानेन हृदयेनोपलक्षित इति । स्वभावतो नित्य-भीतत्वाद् विशेषतश् च दुर्निमित्तादि-दर्शनात् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदूरता दूयमानेन हृदा उपलक्षित ॥३५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३६ ॥

वाद्यमानेषु तूर्येषु मल्ल-तालोत्तरेषु च ।

मल्लाः स्व्-अलङ्कृताः दृप्ताः सोपाध्यायाः समासत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मल्ल-ताल उत्तर उपरि उच्चैः श्रूयते येषु तेषु तूर्येषु । उपाध्याया मल्लाचार्याः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तालस् ताडः, स च भुजयोस् ताडन-रूपः । डलयोर् ऐक्यम् । ताडस् तु ताडने घोषे मुष्टिमेयतृणादिषु । तादी पत्रद्रुमे इति मेदिनी । न केवलं स्वयम् एव वाद्यमानेषु अपि तु मल्लानां तालश् च स्वबाहुमूलघातः स उत्तरस्तद् अधिकतया श्रूयमाणो येषु तादृशेषु चेति । तद् वाद्याद् अप्य् अधिक-शब्दोऽयम् इति मल्लानां महाबलिष्ठतोक्ता । यद् वा, बहिः साधारणेषु तूर्यषु वाद्यमानेषु, अन्तस् तु मल्लोचितताल-प्रधानेषु वाद्यमानेष्व् इति । यतो दृप्ताः सगर्वाः अत एव सम्यग् असङ्कोचेन सर्वतोऽविशन् प्रविविशुः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मल्लतालोत्तरेष्व् इति मल्लतालस्य बहुल-तुर्य-वाद्याद् अप्य् अधिक-शब्देन मल्लानां महा-बलिष्ठतोक्ता । ताम् एव दर्शयति—दृप्ता बलिनः । यद् वा, सगर्वा अत एव सम्यग् असङ्कोचेन आ सर्वतोऽविशन् प्रैविविशुः । तत्र च चाणूरादयो महा-मल्लाश् चारुवाद्यैः प्रकर्षेण हर्षिताः सन्तः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं स्वयम् एव वाद्यमानेषु अपितु मल्लानां तालश् च स्व-बाहुमूल-घातः । स उत्तरस् तद् अधिकतया श्रूयमाणे येषु तादृशेषु चेति तद् वाद्याद् अप्य् अद्थिक-शब्दोऽयं मल्लानां महावलिष्ठतोक्ता । यद् वा, बहिः साधारणेषु तूर्येषु वाद्यमानेषु अन्यस् तु मल्लोचित-ताल-प्रधानेषु वाद्यमानेष्व् इति । यतो दृप्ताः स-गर्वाः । अत एव सम्यग् असङ्कोचेनासर्वतोऽविशन् प्रविविशुः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मल्लतालोत्तरेषु मल्लोचितताल प्रधानेषु ॥३६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३७ ॥

चाणूरो मुष्टिकः कूटः शलस् तोशल एव च ।

त आसेदुर् उपस्थानं वल्गु-वाद्य-प्रहर्षिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपस्थानं मल्ल-रङ्गम् ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कांश्चिन् मल्लान् नामतो निर्दिशति—चाणुर इति । ते चाणूराद्याः । उपतिष्ठन्त्य् आराधयन्ति कंसं यत्र तद्-उपस्थानं मल्ल-रङ्गोचित-स्थलम् आसेदुः प्राप्तवन्तः । एव-कारेण चाणूरादय एवासेदुः, किमुतान्ये तच् छिष्या इत्य् अर्थः । चकारात् प्राश्निक-वर्गाश् च । तथा च श्री-विष्णु-पुराणे मल्लाः प्राश्निक-वर्गश् च रङ्ग-मधे समीपगः । कृत-कंसेन इति । अस्यार्थः—मल्ला बाहुयोधिनः । प्राश्निकाश् चानुमोदनादिन तद् उत्साहनादि-परास् तेषां वर्ग इति ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपस्थानां रङ्ग-स्थल-मध्यमासेदुः प्रविशुः, उपाविशन् बाहु-युद्धार्थं कंसेन नियुक्तानां तेषां तत्रैव स्थेयत्वात् । एव अपि, तोशलोऽपि, चकारात् तत्-सहायः प्राश्निक-वर्गश् च, तथा च विष्णु-पुराणे—मल्लः प्राश्निक-वर्गश् च रङ्ग-मध्य-समीपगः । कृतः कंसेन [वि।पु। ५.२०.२५] इति । अस्यार्थः—मल्ला बाहु-योधिनः, प्राश्निकाश् चानुमोदनादिना तद्-उत्साहनादि-परास् तेषां वर्ग इति ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपतिष्ठन्ति आराधयन्ति कंसं यत्र तद् उपस्थानं मल्ल-रङ्गोचित-स्थलम् आसेदुःप्राप्तवन्तः एव कारेण चाणूरादय एवासेदुः किमुतान्ये तच् छिष्या इत्य् अर्थः । चकारात् प्राश्निक-वर्गश् च । तथा श्री-विष्णु-पुराणे--मल्लाः प्राश्निक-वर्गश् च रङ्ग-मध्ये समीपगः [वि।पु। ५.२०.२५] कृतः कंसेनेति । अस्यार्थः—मल्ला बाहु-योधिनः प्राश्निकाश् चानुमोदनादिना तद्-उत्साहनादि-परास् तेषां वर्गः इति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्थानं मल्लरङ्गभूमिम् ॥३७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.४२.३८ ॥

नन्द-गोपादयो गोपा भोज-राज-समाहुताः ।

निवेदितोपायनास् त एकस्मिन् मञ्च आविशन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समाहुताः समाहूताः । निवेदितान्य् उपायनानि यैस् ते ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समाहुतः हृस्वत्व् आर्षम् । ये समाहूतास्त इति योज्यम् । निवेदितोपायना दत्तप्रभूताः प्रभूतमुद्गते प्राज्ये उपढौकनकेऽपि च इति कोशात् । भोज-राजेन कंसेन सम्यक् सादरं साश्वसं चाहूता इत्य् अर्थः । अत्राश्वासश् च—भो व्रजराज त्वं मे मण्डलेश्वर-मुख्योऽपि, गोष्ठाद् आगतोऽपि किं भीत्यैव मां न सङ्गतोऽभूः, धनुर् भङ्गं खलु पुत्रयोर् दौरात्म्यं मा संस्थास् ताभ्यां ह्यः स्वबल-परीक्षैव मह्यं दत्ता, तौ बलिष्ठौ श्रुत्वैव द्रष्टुम् आहूतौ, तद्यूयं शीघ्रम् आगच्छत, मा भैष्टेत्य् आदिकः । अत एव राजज्ञा-गौरवड् एव । क्वापि प्रातर् एव गतौ स्वपुत्रौ तत्रापश्यन्न् अपि तद् आगमन-मनपेक्ष्यैव परमाप्त-बुद्धितो गोपान् एव तयोर् अर्थं शील-शिक्षणऋथं च नियुज्य हितोपदेश-वाक्यं सन्दिश्य च द्रुतं नन्दं आजगाम । उपनन्दादयश् च द्रुतमायाताः कंसाय निवेदितदधिघृत-वस्त्र-स्वर्ण-मुद्राद्युपायना राजमञ्चे उपवेश-स्थानादर्शनाद्राज्ञ आज्ञयैवान्यस्मिन्न् एकस्मिन् मञ्चे उपविविशुः । अत्राश्वासनं श्री-राम-कृष्णयोर् मल्ल-युद्धे प्रवर्तनाद्य् अर्थम् एवेति ज्ञेयम् । श्री-कृष्ण-प्रियाणाम् अपि तेषाम् आदौ गमनं हि कुवलयापीड-वध-पूर्वक-स्वच्छन्देन रङ्गातः प्रवेष्टुं श्री-कृष्णेच्छयैवेति ध्येयम् इति तोषिणीकाराः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भोज-राजेन कंसेन सम्यग् अक्रूर-ज्ञाति-भोज-वर्ग-प्रस्थापनेन सादरम् आहूताः सन्तः समाह्वानम् आश्वासनाय, तच् च श्री-कृष्ण-रामयोर् मल्ल-युद्धे प्रवर्तनाद्य् अर्थम् इति ज्ञेयम् । ते श्री-कृष्णैकप्रिया अपि कुवलया-पीड-वध-पूर्वकं स्वच्छन्देन रङ्गान्तः प्रवेष्टुं श्री-कृष्णेच्छयैव तेषाम् आदौ तत्र गमनम् इत्य् ऊह्यम् । अत एवैकस्मिन्न् एव मञ्चे उपविष्टाः । श्री-वसुदेवश् च तन् मञ्चप्रान्त एव स्थितो ज्ञेयः, तत्र तद्-अनन्तरम् एव तद् उक्तेः । गोपाश् च श्री-भगवत्-सहचर-व्यतिरिक्ताः ज्ञेयाः, तत्-सहचराणां तेनैव सह गमनात्, तथा च वक्ष्यते वृतौ गोपैः कतिपयैव [भा।पु १०.४३.१६] इति ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भोज-राजेन कंसेन सम्यक् नूनम् अक्रूर-ज्ञाति-भोज-वर्ग-स्थापनेन वृद्ध-गोपाः सादरम् आहूताः सन्तः अतो धनुर् भङ्गादि शङ्कया स्वयम् अप्रविष्टा इति ज्ञेयम् । समाह्वानमाश्वासनाय । तच् च श्री-कृष्ण-रामयोर् मल्ल-युद्धे प्रवर्तनाद्य् अर्थम् इति ज्ञेयम् । ते श्री-कृष्णैक-प्रिया अपि कुवलयापीड-वध-पूर्वकं स्वच्छन्देन रङ्गान्त प्रवेष्टुं श्री-कृष्नेच्छयैव तेषाम् आदौ तत्र गमनम् इत्य् ऊह्यम् अत एवैकस्मिन्न् एव न तु पृथक् पृथक् मञ्चे उपविष्टाः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समाहूताः सम्यक् सादरं साश्वासञ्चाहूता इत्य् अर्थः । तत्राश्वासश्च-भो व्रजराज! त्वं मे मण्डलेश्वरमुख्यो ऽसि गोष्ठादागतो ऽपि किं भीत्यैव मां न सङ्गतो ऽभूः? धनुर्भङ्गं खलु पुत्रयोर्दौरात्म्यं मामंस्थाः, ताभ्यां ह्यः स्वबलपरीक्षैव मह्यं दत्ता तौ बलिष्ठौ श्रुत्वैव द्रष्टुमाहूतौ तत् युयं शीघ्रमागच्छत माभैष्टेत्यादिकः । अत एव राजाज्ञागौरवादेव क्वापि प्रातर् एव गतौ स्वपुत्रौ तत्रापश्यन्नपि तदागमनमनपेक्ष्यैव परमाप्तबुद्धिमतो गोपानेव तयोरक्षार्थं शीलशिक्षणार्थं च नियुज्य हितोपदेशवाक्यं सन्दिश्य च द्रुतं नन्द आजगाम । उपनन्दादयश् च द्रुतमायाताः कंसाय निवेदितदधि-घृत-वस्त्र-स्वर्णमुद्राद्युपायनाः राजमञ्चे उपवेशस्थानादर्शनाद्राज्ञ आज्ञयैवान्यस्मिन् एकस्मिन् मञ्चे उपविविशुः ॥३८॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्विचत्वारिंशकः साधु- दशमे ऽजनि सङ्गतः


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यंसंहितायां वैयासिक्यां दशम-स्कन्धे मल्ल-रङ्गोपवर्णनं

नाम द्विचत्वारिंशोऽध्यायः ।

॥१०.४२॥


(१०.४३)


  1. निजश्वर्यान् न च्युत ↩︎

  2. बहु-व्रता तया इति वंशीधर-पठितम्। ↩︎

  3. तद् वधोपायासम्पत्तेः ↩︎

  4. क्रीडा-मात्रेणैव ↩︎

  5. सम्यग् उत्थिते ↩︎

  6. अक्षवाटैः ↩︎