राम-कृष्णयोर् मथुरायां प्रवेशः, रजक-वधः, वायक-मालाकारयोर् अनुग्रहणं च ।
॥ १०.४१.१ ॥
श्री-शुक उवाच—
स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः ।
भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एक-चत्वारिंशकेऽहन् रजकं प्राविशन् पुरीम् ।
ततो वरान् अदात् तुष्टः सुदाम्नो वायकस्य च ॥
स-शङ्कम् अक्रूर-मनः प्रबोध्य
स्व-धाम सन्दर्शन-सत्-कृपातः ।
स्व-राज-धानीं मथुराम् अपश्यद्
अलङ्कृटानन्त-महोत्सवाढ्याम् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रजं वस्त्र-निर्णेजकम् । ततो रजक-हननोत्तरम् । सुदाम्नो मालाकारस्य । वायकस्य सौचिकस्य च ।*। सशङ्कं मारणार्थम् एतावहं नेष्याम्य् अतोऽहं पापीयानस्मीति शङ्काकुलम् । स्वधाम निज-स्वरूपम् । तस्य सन्दर्शनम् एव सती कृपा ततः । प्रमोद्य प्रतोष्य । अलङ्कृता चासाववन्तैर् महोत्सवैर् हस्ति-मल्लादि-शृङ्गारैर् यद् वा, अनन्तेन बलेअ महेनातिपूज्यतमेन श्री-कृष्णेन चोत्सवो ययोर् देवकी-वसुदेवयोस् ताभ्याम् आढ्या युता ताम् ।*। तस्याक्रूरस्यात्मनो वपुर्दशयित्वा । नाट्यं नटन-विषयम्, गणेशाम्बिकादि-रूपम् इव । नटो रूपाभिनयकर्ता । तस्येत्य् अनादरे षाष्ठी । तम् अपृष्ट्वैवेत्य् अर्थः समाहर-दन्तर्धापयामास । नाट्यम् इवेत्य् उपसंहारे दृष्टान्तः । नटो नाट्यं यथोपसंहरति तथैव कृष्णो वैकुण्ठं वैकुण्ठीयं च सनातनं वस्तु तत्-सर्वम् उपसञ्जहारेत्य् अर्थः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : *न व्याख्यातम्।*दर्शयित्वा जले वपुर् इत्य्-आदि । वपुर् नारायण-रूपम्, अतो\ऽस्य प्रधानत्वं ततो\ऽप्यायातम्, दर्शयित्वृत्वात्, यो यस्य दर्शयिता भवति, स तस्याधीनो न भवति, भूयः संहृतवान् नटो नाट्यम् इव नट-सादृश्याद् अस्याविकृतत्वम्, नटस्त्व् अविकृत एव ॥१.२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्याक्रूरस्य स्तुवतः सतः, भूयः पुनः, पश्चात् समाहरत् अन्तर्धापयामास । अनादरे षष्ठी । यद् वा, भोयोऽधिकं यथा स्यात् तथा आत्मनो वपुर् जले दर्शयित्वा, तत्र हेतुः—भगवान् सर्व-निजैश्वर्य-प्रकटक इत्य् अनेन तद् अपि तस्यैश्वर्यम् एकम् इत्य् अपि बोधितम् । संहरणे हेतुः-कृष्ण परम-कौतुकशीलः । किं वा, भक्त-वात्सल्याकृष्ट-चित्त इत्य् अर्थः । अन्यथा तस्य निज-माधुरी-विचेषानुभवानन्दा-सिद्धिर् इति भावः । आत्मन इति प्रदर्शने संहरणे चानायासादिकं तथा तेन सहाभिन्नत्वं च बोधितम्, सं-शब्दार्थं दर्शयंस् तत्रानुरूप-दृष्टान्तम् आह—नटोऽभिनयपरो बहुल-रूप-दर्शीति तद् रूपस्य तद् एक-स्वरूपत्वं निरस्तम्, एतन् मूलकत्वं च ध्वनितम् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्येत्य् अनादरे षष्टी तम् अपृष्टैववेत्य् अर्थः । समहरत् अन्तर्धापयामास नटो नाट्यम् इवेति आकस्मिकत्वांशे दृष्टान्तः आत्मनो बपुर् इति तद् वपुषः स्वभाव-सिद्धत्वं दर्शितम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नटो नाट्यम् इवेत्य् आकस्मिकत्वांशे दृष्टान्तः । आत्मनो वपुर् इति तद्-वपुषः स्वभाव-सिद्धत्वं दर्शितम् ॥१.११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स्तुवत इत्य्-आदि । वपुर् नारायण-रूपं दर्शयित्वा भूयः समहरत्। कृष्णः श्री-नन्द-कुमारो दर्शयितृत्वात् तिरोभावयितृत्वाच् च । तस्य तद्-वपुषः सकाशात् प्राधान्यं स्वारसिकम् एव ॥१.२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकचत्वारिंशके ऽगात् पुरीं स्त्रीर् मोहयन्न् अहन् ।
रजकं वायकयादात् सुदोम्ने च वरान् हरिः ॥
तस्येत्य् अनादरे षष्ठी । समहरद् अन्तर्धापयामास नाट्यम् इवेत्य् उपसंहार एव दृष्टान्तः; नटो नाट्यं यथोपसंहरति तथैव कृष्णो वैकुण्ठं वैकुण्ठीयं च सनातनं वतु तत् सर्वम् उपसञ्जहारेत्य् अर्थः ॥१.२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२ ॥
सोऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः ।
कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽपि अक्रूरोऽपि । आवश्यकं नित्यं सन्ध्यावन्दनादि ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपिच-शब्दः समुच्चितोऽप्य् अर्थ एव । यद् वा, चकारोऽनुक्त-समुच्चये, पुनर् दर्शनाग्रहम् अपि त्यक्त्वेत्य् अर्थः । अन्तर्हितं तद् इति वीक्ष्यलोच्य उन्मज्य निःसृत्य सर्वम् आवश्यक-मध्याह्निक-जल-विषयक-भगवत्-पूजादिकम्, तच् चाभिव्यञ्जितं श्री-पराशरेण अर्चयामास सर्वेशं धूप-पुष्पैर् मनोमयैः [वि।पु। ५.१९.१] इति विस्मितः, श्री-वसुदेव-पुत्रस्य परमैश्वर्य-दर्शनात् । किं वा, तत्-तद् आश्चर्य-सन्दर्शनात् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपि-शब्दः उक्त-समुच्चये अन्तर्हितं तम् इति वीक्ष्य आलोच्य उन्मज्ज्य निःसृत्य सर्वम् आवश्यकं माध्याह्निक-जलाधिकाष्ठानक-भगवत् पूजादिकं तच् चाभिव्यञ्जितं श्री-पराशरेण अर्चयामास सर्वेषं धूप-पुष्पैर् मनोमयैर् इति अत्र जलेनैव तत् तत् कल्पनात् मनोमयत्वम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३ ॥
तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् ।
भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अक्रूरम् । ते त्वया । इव शब्देन सर्वाश्चर्यमये मय्येतन्नाद्भुतम् इत्य् उक्तम् । तयेति—यथा कश्चिद् अद्भुत-दर्शी व्यापृतचित्तो भवतिः । तथा त्वां लक्षयामाह इति—तव नेत्रे साखे प्रोत्फुल्ले एवात्र प्रमाणम् इति भावः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृषीकेशः सर्वेन्द्रिय-प्रवर्तकः सर्वज्ञोऽपीत्य् अर्थः, इह तीर्थे, ननु, कुतस् त्वया ज्ञातम् ? तत्राह—तथा तादृशं दृष्ट्वाद्भुतम् इव लक्षयामहे दृष्टिर् वैलक्षण्यादि-लक्षणैर् अवगच्छामः । तथा च श्री-विष्णु-पुराणे—
नूनं ते दृष्टम् आश्चर्यम् अक्रूर यमुना-जले ।
विस्मयोत्फुल्ल-नयनो भवान् संलक्ष्यते यतः ॥ [वि।पु। ५.१९.५]
इति बहुत्वं न केवलम् अहमेतेऽग्रज-चरणाच् चेति, तद् अपेक्षया तथा प्रश्नः कौतूहलार्थम् एव ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृषीकेशः सर्वेन्द्रिय-प्रवर्तकः सर्वज्ञोऽपीत्य् अर्थः । कौतुकार्थम् इति भावः । इह तीर्थे ननु, कुतस् त्वया ज्ञातं तत्राह । यथा दृष्टाद्भुतत्व-प्रकारेण त्वां लक्षयामहे दृष्टि-वैलक्षण्यादि-लक्साणैर् अवागच्छामः तथा च श्री-विष्णु-पुराणे
नूनं ते दृष्टम् आश्चर्यम् अक्रूर ! यमुना जले ।
विस्मयोत्फुल्ल-नयनो भवान् संलक्ष्यते यत ॥
इति बहुत्वं न केवलम् अहम् एव मेऽग्रजचरणाश्चेति तद् अपेक्षया ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथा त्वां लक्षयामहे इति तव नेत्रे सास्रे प्रोत्फुल्ले एवात्र प्रमाणम् इति भावः ॥३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४ ॥
श्री-अक्रूर उवाच—
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूमौ वियति जले वा यावन्त्य् अद्भुतानि तानि त्वय्य् एव सन्ति तं च त्वां पश्यतो मे किम् अद्भुतम् अदृष्टम् । अपि तु सर्वं दृष्टम् इत्य् अर्थः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—सर्वाद्भुताधिष्ठान-दर्शने सर्वं दृष्टं हस्तिपदन्यायेनेति भावः । पूर्वं तद् रूपं तद् अभेदेन ज्ञातवान्, इदानीं तु सदय-तत्-प्रश्न-प्रभावेण लब्ध-विशेष-ज्ञानस् तम् एव सत्-सर्वदर्शकं मत्वा तद् रूपम् अपि तद् वैभवम् एव विमृश्याह—अद्भुतानीति । भूम्यादिषु यावन्त्यद्भुतानि सन्ति तानि तावन्ति त्वय्य् एवेह सन्ति, तत्र हेतुः—विश्वात्मके विश्वस्य मूल-रूपत्वात् । विश्वेन कार्येणाश्रित आत्मा यस्य तादृशे । मध्य-पद-लोपी बहुव्रीहिः । यस्मिन् इवज्ञाते सर्वं विज्ञातं स्यात् इति श्रुतेः । तस्माद् विपश्यत इति विपश्यता मे मया भूम्यादिषु किम् अद्भुतं दृष्टं न किम् अपि, किन्तु यत् किम् अपि दृष्टं तत्त्वय्य् एव दृष्टम् इत्य् अर्थः । त्वद् रूपे दृष्ट एव तद् दर्शनाद् इति भावः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं तद् रूपं तद् अभेदेन ज्ञातवान् इदानीन्तु सदय-तत् प्रश्न-प्रभावेण लब्ध-विशेष-ज्ञानस् तम् एव तत् सर्व-दर्शकं मत्वा तस्यापि रूपस्य तद् वैभवत्वम् एव विचार्याह । अद्भुतानीति । भूम्यादिषु यावन्त्यद्-भूतानि सन्ति तानि तावन्ति त्वय्य् एवेह सन्ति तत्र हेतुर् विश्वात्मके विश्वस्य मूल-रूपत्वात् विश्वेन कार्येण आश्रित आत्मा यस्य तादृशे मध्य-पद-लोपी बहुव्रीहिः यस्मित् विज्ञाते सर्वं विज्ञातं भवतीति श्रुतेः तस्माद् विपश्यत इति विपश्यता मे मया भूम्यादिषु किम् अद्भुतं दृष्टं न किम् अपि किन्तु यत् किम् अपि दृष्टं तत् त्वय्य् एव दृष्टम् इत्य् अर्थः । त्वद् रूपे दृष्ट एव तद् दर्शनाद् इति भावः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेन कृष्णेनैव तत्तत्सर्वं स्ववैभवमेवाहं दर्शितं इति तादृश तत्प्रश्नादेव निश्चित्य सहर्षविवेकम् आह—अद्भुतानि भूम्यादौ यावन्ति सन्ति तानि त्वय्येव सन्ति अतस्तं त्वां विपश्यतो मे किमद्भुतमदृष्टम् अपि तु सर्वमेव दृष्टम् इत्य् अर्थः ॥४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.५ ॥
यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।
तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मत्-प्राप्तेः पूर्वम् एव त्वं विस्मित-मुखो लक्षितोऽसि, अतो भूमौ वियति जले व किम् अप्य् अद्भुतं दृष्टम् एवेति चेद् अत आह—यत्राद्भुतानीति । यत्र त्वयि सर्वाण्य् अद्भुतानि सन्ति तं त्वाम् इह पश्यतो मेऽन्यत्र भूम्य्-आदौ किम् अद्भुतं दृष्टं, त्वां विना न तत्र किञ्चिद् अद्भुतम् इत्य् अर्थः । ब्रह्मन् हे परमेश्वरेत्य् अर्थः । ब्रह्मेति वा पाठः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । यतो मत्-सङ्गात् पूर्वम् एव विस्मितोऽतो हेतोः । अतोऽत्र । इह रथे । इत्य् अर्थ इति यस्मिन् दृष्ट्वे सर्वं दृष्टं स्यात् इति श्रुत्य् अर्थोऽप्य् अत्र सूचित इति भावः । सम्बुद्धिस् तु स्वयम् एवोपस्थिता भवत्यतो ब्रह्मेति द्वितीयान्तं पदं, तथा च त्वां ब्रह्म परिपूर्णं पश्यत इति योज्यम् । नलोपे सम्बुद्धौ विशेषाभावात् । तद् रूपेऽस्मिन् दृश्यमाने तु तानि सर्वाण्य् अप्य् अद्भुतत्वष न कल्पन्ते किं तु त्वद् रूपमेवेदम् इत्य् आह—यथेति । भूम्यादिषु यान्य् अद्भुतान्य् अपि सर्वाणि यत्र त्वफ़्फ़्यि सन्ति तं त्वाम् अनुपश्यत इति भाग्यतः, सम्प्रति निरन्तरं पश्यता मया किम् अन्यद् अद्भुतम् इह दृष्टं किन्त्वदमेव त्वद् रूपं पूर्वतोऽप्य् अद्भुतं दृश्यत इत्य् अर्थः । तत्र हेतु-गर्भं विशिनष्टि—ब्रह्मेति । अथ कस्माद् उच्यते ब्रह्म बृंहति बृंहयति च इत्य्-आदि-श्रुतौ बृहत्त्वाद् बृंहणत्वाच् च यद्-ब्रह्म परमं विदुः इति श्री-विष्णु-पुराणे च त्वय्य् एव सर्व-बृहत्तमत्त्वस्य दृष्टत्वात् । तत्रापि यन् मर्त्यलीलौपयिकम् इत्य् आदौ विस्मापनं स्वस्य च सौभगर्धेः परं पदम्, इति प्रसिद्ध्या त्वद् रूपस्य परमतत्त्वाद् इति भावः । ब्रह्मन् इति पाठोऽपि स एवार्थः । दृष्टम् इति पाठे त्व् इव-शब्दस् तस्य दर्शनस्य न्यूनत्वम् एव बोधयतीति दिक् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नु निश्चितम् । यद् वा, अनु वारं वारं पश्यतः, पूर्वस्मिन् श्लोके भूम्यादौ यावन्त्यद्भुतानीत्य् अन्वयः, अत्र च भूम्यादौ किं दृष्टम् इति तत्रापि पूर्वस्मिन् अदृष्टम् इति, अत्र च दृष्टम् इति विशेषः । एवं श्री-स्वामि-पादानां मते तथा श्री-चित्-सुख-व्याख्यानाच् च । त्वानुपश्यतः इत्य् एव पाठः, अन्यथा अत्रापश्यत इति, पूर्वं च पश्यत इति पाठेऽन्वय-व्यतिरेकाभ्यां माहेत्य् एव व्याख्यातं स्यात् । अतष्टीकायाम् अपि तं त्वाम् इह पश्यतः इत्य् एव पाठः सङ्गत इति । एवं तद् अद्भुतम् अपि त्वयैव दर्शितम् । किं वा, अहो तद् अद्भुतं त्वयैव दर्शयित्वाधुना अज्ञवद् ईदृशं पृच्छ्यत इति परमाद्भुतमयोऽसीति भावः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वद् रूपेऽस्मिन् दृश्यमाने तु तानि सर्वन्यद्भुताय न कल्प्यन्ते किन्तु तद् रूपम् एवेदम् इत्य् आह । यत्रेति । भूम्यादिषु यान्यद्भुतान्य् अपि सर्वाणि यत्र सन्ति तं त्वा त्वाम् अनुपश्यत इति भाग्यतः सम्प्रति निरन्तरं पश्यता मया किम् अन्यद् अद्भुतम् इह दृष्टं किं त्व् इदम् एव तद् रूपं पूर्वतोऽप्य् अद्भुतं दृश्यत इत्य् अर्थः । तत्र हेतु-गर्भं विशिनष्टि । ब्रह्मेति अथ कस्माद् उच्यत ब्रह्म बृंहीति बृंहयति च इत्य्-आदि श्रुतौ बृहत्वाद् बृहणत्वाच् च यद् ब्रह्म परमं विदुर् इति श्री-विष्णु-पुराणे च त्वय्य् एव सर्व-बृहत्तमत्वस्य दृष्टत्वात् तत्रापि यन् मर्त्य-लीलौपयिकम् इत्य् आदौ विस्मापनं स्वस्य च सौभगर्धः परं पदम् इति प्रसिद्ध्यात् त्वद् रूपस्यास्य परमत्त्वत्वाद् इति भावः । ब्रह्मन् इति पाठे स एवार्थः दृष्टम् इवेति पाठे त्व् इव-शब्दस् तस्य दर्शनस्य न्यूनत्वम् एव बाधयतीति दिक् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वद्-रूपे ऽस्मिन् दृश्यमाने, सम्प्रति तु तानि सर्वाण्य् अद्भुतत्वाय न कल्प्यन्ते, किन्तु त्वद्-रूपम् एवेदम् इत्य् आह—यत्र त्वयि सर्वाण्य् अद्भुतानि तं त्वा त्वां अनुपश्यतो निरन्तरम् ईक्षमाणस्य ममान्यत्र भूम्य्-आदौ किम् अद्भुतं तद् दृष्टम् अपि तु न किम् अपि किन्त्व् इदम् एव त्वद्-रूपं सर्वतो ऽप्य् अद्भुतं दृश्यते इति जले सङ्कर्षण-नारायण-पार्यदान्वितं यद् वैकुण्ठ-स्थलम् अद्भूतं दृष्टं, ततो ऽपि परः सहस्राण्य् अद्भुतानि त्वद्-रूपे ऽष्मिन् वर्तन्त इति प्रत्येमीत्य् अर्थः । हे ब्रह्मन् ! ब्रह्म चेति पाठ-द्वयम् । त्वं महा-महेश्वरः साक्षात् पर-ब्रह्मैवासि, त्वयि भ्रातुष्पुत्रत्व-ज्ञान-रूपं मन्-मौढ्यं सम्प्रति त्वत्-कृपया निःशेषेणैवापक्षीणम् इति भावः ॥५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.६ ॥
इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनी-सुतः ।
मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गान्दिनी-सुतोऽक्रूरः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति एवम् । दिनात्ययेऽपराह्ने । अनयदित्य् अनेन श्री-मुनिन्द्रस्य गोकुल-जनत्वाभिमानो बोध्यते । दिनात्ययेत्ययामे तथापराह्ने इति वक्ष्यमाणात्, वक्ष्यमाणबहल-लीलाकाल-समावेशाच् च, तयोर् विचरतोः स्वैर् अमादित्योऽस्तमुपेयिवान् इति च वक्ष्यते । तथोक्तं श्री-पराशरेण सम्प्राप्तश् चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् इति । अत्रान्तिमदशदण्डात्मकापराह्नस्यान्तिम-षड्दण्डात्मक-सायाह्नस्य च प्रायिकत्वात् तन् मध्यवर्ति-चतुर्थ-प्रहरत्वमेवोभय-समञ्जसम् इति । तद् उक्तं वैशाम्पायनेन विविशुस् ते पुरीं रम्यां काले नक्त-दिवाकरे इति सायाह्नस्यैक-देश-चिह्नं मन्तव्यम् । अक्रूर-तीर्थाद् अतिनिकट-वर्ति-पुरोपवनस्य दिनात्यये प्राप्तिर् अक्रूरस्य तद्-आश्चर्य-दर्शनाच् चिरं विलम्बात् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नित्यम् एकस्या गोर् दानाज् जातेति गान्दिनी-नाम स्मारणेन तस्याः परम-धर्ममयत्वं तेन च तत्-सुतस्यापि तादृशत्वं सूचितम् । अत एव मथुरामनयद् एव, मन्थ विलोडने इत्य् अस्मान् मथुरा ताम् इति तयोश् चित्तं तया विलोडितं क्षोभितम् इति । अत एव प्रिय-जन-विच्छेदेऽपि तस्यां तत्-तत् क्रीडादिकम् इति च सूचितम्,
दिनात्यये अन्त्ययामे अथापराह्ने [भ्।पु १०.४.१९] इति वक्ष्यमाणाद्-वक्ष्यमाण-बहुल-लीला-काल-समावेशाच् च, यच् चोक्तं श्री-पराशरेण—संप्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरा-पुरीम् । इति,
श्री-वैशम्पायनेन च हरि-वंशे—विविशुस् ते पुरीं रम्यां काले रक्त-दिवाकरे [ह।वं। २.२७.२] इति । तच् च कल्प-भेदाद् इति मन्तव्यम् । तत्-तन्-मते च तत्-तल् लिलाः प्रदोषे ज्ञेयाः, अत्र च तयोर् विचरतोः [भा।पु १०.४२.२३] इत्य् अग्रे वक्ष्यमाणाद् दिन एवेति, अक्रूर-तीर्थाद् अतिनिकटवर्ति-पुरोपवनस्य दिनात्यये प्राप्तिः, अक्रूरस्य तत्-तद् आशर्य-दर्शनादिना चिरं विलम्बनात् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनयदित्य् अनेन श्री-मुनीन्द्रस्य गोकुल-जनत्वाभिमानो बोध्यते दिनात्ययेऽन्त्ययामे तथापराह्ने इति वक्ष्यमाणात् वक्ष्यमाण-बहुल-लीला-काल-समावेशाच् च तयोविवरतोः स्वैरमादित्योऽस्तमुपेयिवान् इति च वक्ष्यते तथोक्ते श्री-पराशरेण संप्राप्तश् चापि सायाह्ने साक्रूरो मथुरा-पुरीम् इति अत्रान्तिम-दश-दण्डात्मिकापराह्नस्यान्तिम-षड्-दण्डात्मक-सायाह्नस्य च प्रायिकत्वात् तन् मध्यवर्ति चतुर्थ-प्रहरत्वम् एवोभय-समञ्जसम् इति । यद् उक्तं वशम्पायनेन—विविशुस् ते पुरीं रम्यां काले रक्त-दिवाकर इति सायह्नस्यैक-देश-चिह्नं मन्तव्यम् अक्रूर-तीर्थाद् अतिनिकटवर्ति-पुरोपवनस्य दिनात्यये प्राप्तिः अक्रूरस्य तद् आश्चर्य-दर्शनादिना चिरं विलम्बनात् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गान्दिनी-सुतोऽक्रूरः ॥६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.७ ॥
मार्गे ग्राम-जना राजंस् तत्र तत्रोपसङ्गताः ।
वसुदेव-सुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्टिं नाददुः । पश्यन्त एव स्थिता इत्य् अर्थः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तत्र मार्ग-सव्य-दक्षिण-पार्श्वयोर् इत्य् अर्थः । यद् वा, वसुदेव-सुतौ वीक्ष्य तत्र तत्र श्री-कृष्णे बलदेवे च लग्नां दृष्टिम् । इत्य् अर्थ इति—दृष्टि-प्रत्यादाने विवशा बभूवुर् इत्य् अर्थः । किं च पथि लोकानां प्रीत्य् अर्थं शनैर् आगमनाद् अपीत्य् आचयेनाह—मार्ग इति । ग्रामाणां जना इति मूढत्वं सूचितं, तथापि प्रीता इति वस्तु-स्वभावो दर्शितः । हे राजन्न् इति—तत्त्वया बुध्यत एवेति भावः । यद् वा, ग्रामे जनानाम् अपि तादृश-प्रीति-स्मरणात् प्रेमार्त्युदयेन शोचन् सम्बोधयति—अहो राज्ञां स्वभावं त्वं जनास्येवेति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, पथि लोकानां प्रीत्य् अर्थं शनैर् आगमनाद् अपीत्य् आशयेनाह—मार्हे इति । ग्रामाणां जना इति श्रवण-विशेषादि-राहित्यं सूचितम्, तथापि प्रीता इति वस्तु-स्वभावो दर्शितः । हे राजन्न् इति तत्त्वया बुध्यत एवेत्य् अर्थः । यद् वा, ग्राम-जनानाम् अपि तादृश-प्रीत्या प्रेमार्त्युदयेन शोचन् सम्बोधयति । तत्र तत्र मार्ग-मध्ये स्थाने स्थाने वसुदेवस्य सुताव् इति तदानीं तेषां तथा ज्ञानोत्पत्तेः । यद् वा, तत्-सुतत्वे भगवत्ता-प्रकटनेन सौन्दर्य-विशेषाभिव्यक्तेः । यद् वा, वसुदेवो वसु-श्रेष्टः श्री-नन्द एवेति पूर्वम् एवोक्तम् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, पथि लोकानां प्रीत्य् अर्थं शनैर् आगमनाद् अपीत्य् आशयेनाह मार्ग इति । ग्रामाणां जना इति मूढत्वं सूचितं तथापि व्रीडा इति वस्तु-स्वभावो दर्शितः हे राजन्न् इति तत् त्वया बुध्यते एवेति भावः । यद् वा, ग्रामे जनानाम् अपि तादृश-प्रीति-स्मरणट् प्रेमार्त्युदयेन शोचन् सम्बोधयति ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाददुः पश्यन्त एव निष्पन्दा बभूवुर् इत्य् अर्थः ॥७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.८ ॥
तावद् व्रजौकसस् तत्र नन्द-गोपादयोऽग्रतः ।
पुरोपवनम् आसाद्य प्रतीक्षन्तोऽवतस्थिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राम-कृष्णागमनं प्रतीक्षमाणाः स्थिताः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावत् तदा । अग्रतोऽग्रे । तत्र मथुरोपकण्ठे । यावत्ते आयान्ति तावत् प्रतीक्षमाणाः अवतस्थिरे । अनिष्टा-शङ्गीनि बन्धु-हृदयानि इति न्यायेन कर्म निरीक्षमाणा ऊर्ध्वावस्थित्यावर्तन्त, न तूपविष्टा इत्य् अर्थः । पूर्वं रथ-शैघ्रयेण गन्तुम् अशक्तास् ते स्ववर्त्माग्रे रथ-चिह्नम् अदृष्ट्वापि वक्रवर्त्मान्तरे तच् चिह्नात् तेनासौ गत इत्य् आशङ्कमाना शीघ्रं तन्मेलनायर्जुवर्त्मना चलन्त एवासन्, सम्प्रति त्वेकीभूतवर्त्मनि पुर-समीपे तम् अदृष्ट्वा परमोत्कण्ठया पश्चाद् एव निरीक्षमाणास् तस्थुर् इति ज्ञेयम् । विलम्बस्तव्क्रूरनिमज्जनाद् एवेति तत्त्वम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यावत् ते आयान्ति, तावत् प्रतीक्षमाणा व्रजौकसः सर्वे व्रज-वासिन इत्य् अर्थः बाल-वृद्धादीनां सर्वेषाम् एव प्रायस् तत्-सङ्गत्या गमनात् । यद् वा, प्रतीक्षणे हेतुः—वन्य-जनास् तैर् विना पुरीं प्रवेष्टुम् अशक्ता इत्य् अर्थः । यद् वा, श्री-कृष्णैक-प्राणाः अनिष्टाशङ्कीनि बन्धु-हृदयानि भवन्ति इति न्यायेन विविध-शङ्का-स्नेहभर-स्वभावेनैवेति भावः । अतोऽवतस्स्थिरे वर्त्म निरीक्षमाणा ऊर्धावस्थित्यावर्तन्त, न तुपविष्टा इत्य् अर्थः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावत् ते आयान्ति तावत् प्रतीक्षमाणा अवतस्थिरेऽनिष्ट-शङ्कीनि बन्धु-हृदयानीति न्यायेन वर्त्म-निरीक्षमाणा ऊर्ध्वावस्थित्या अवर्तन्त न तु प्रविष्टा इत्य् अर्थः । पूर्वं रथ-शैघ्रेणानुन्तुम् अशक्तास्ते स्व-वर्त्माग्रे रथ-चिह्नम् अदृष्ट्वापि वक्रवर्त्मान्तरे तच् चिह्नात् तेनासौ गत इत्य् आशङ्कमानाः शीघ्रतन् मिलनाय ऋजुवर्त्माना चलन्त एवासन् सम्प्रति त्व् एकीभूत-वर्त्मनि पुर-समीपेऽपि तद् अदृष्ट्वा परमोत्कण्ठया पश्चाद् एव निरीक्षमाणास् तस्थुर् इति ज्ञेयम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतीक्षन्तः राम-कृष्णौ प्रतीक्षमाणाः स्थिता इति पूर्वं रथ-शैघ्र्येणानुगन्तुम् असमर्थै रथ वर्त्म-परित्यज्य ऋजु मार्गेणैव तैर् अग्रे गमनाद् अक्रूर-निमज्जन-निबन्धन-विलम्बाच् चेति भावः ॥८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.९ ॥
तान् समेत्याह भगवान् अक्रूरं जगद्-ईश्वरः ।
गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रश्रितं विनीतम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् नन्दादीन् । इवेन पितृव्येण हास्यानौचित्यम् उक्तम् । यद् वा, तेषु कंस-कृत-दौर्ज्यन्यम् आलक्ष्य हसन्न् इवेत्य् उक्तम् । जगदीश्वरोऽपि निज-पाणिना तत्-पाणिं गृहीत्वा, यतो भगवान् भक्तवात्सल्याद्य् आशेष-गुण-प्रकटनपर इत्य् अर्थः । प्रहसन्न् इवेति—तदानन्दनार्थम् एव न तु वस्तुतः प्रहसन् मथुरा-दर्शनेन व्रज-नगत्यागस्मृत्यान्तर्विषादोदयात् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तान् श्री-नन्दादीन् समेत्य तैः सह सङ्गत्येति निज-क्रीडा-सुखार्थं प्रियतम-जन-प्राप्त्यान्यत्यागो युक्त एवेति भावः । जगदीश्वरोऽपि निज-पाणिना तत्-पाणिं गृहीत्वा, यतो भगवान् भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनपर इत्य् अर्थः । प्रहसन्निवेति स्वभावतः श्री-मुख-प्रसत्तिर् द्योत्यते, इत्य् अवञ्चना सूचिता । यद् वा, इवेति तत्त्वतः प्रकृष्ट-हासाभावं बोधयति, श्री-गोप्यादि-विरहेणान्तस् तापात् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जगद् ईश्वरोऽपि निज-पाणिना तत् पाणिं गृहीत्वा यतो भगवान् भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटन-पर इत्य् अर्थः । प्रहसन्न् इवेत्य पञ्चनां सूचयितुम् इति भावः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विनीतम् । प्रहसन्न् इवेति तद्-आनन्दनार्थम् एव, न तु वस्तुतः प्रहसन् मथुरा-नगर-दर्शनेन व्रज-नगर-त्याग-स्मृत्यान्तर्-विषादोदयात् ॥९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१० ॥
भवान् प्रविशताम् अग्रे सह-यानः पुरीं गृहम् ।
वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-गृहं च प्रविशताम् । अवमुच्योत्तार्य विश्राम्येत्य् अर्थः ॥१०.११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इहोपवने । इत्य् अर्थः इति—धातूनामानेकार्थत्वाभिप्रायेण विश्रामेऽपि मुचिः । यद् वा, अवोपसर्गवशाद् अप्य् अर्तान्तरम् । त्वत्-प्रवेशान्तन्तरम् एव पुरीं द्रक्ष्यामहे । तातेति तत्-सन्तोषार्थाम् आदरोक्तिः । एवम् अवमोचनं पुरी-दर्शनं च कार्यम् अस्माकम् अस्तीति विलम्बात् सहैव गमने न स्याद् इति व्यञ्जितम् । तच् चासङ्कोचेन तद् दर्शनार्थम् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह पुरोपवने, यावत् पुरीं प्रविशति तावद् इति, अवमोचनं पुरी-दर्शनं चास्माकं कृत्यम् अस्तीति विलम्बः सूचितः, अतः सह-गमनं न सम्भवेद् इति भावः । यद् वा, तावद् इति वाक्यालङ्कार-मात्रो अथ त्वत्-प्रवेशान्तरम् इति तेन सह पूर्यन्तर्गमन-तद्-दर्शनादिकं निरस्तम्, स्वेच्छयासङ्कोचेन तद् दर्शनार्थम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ त्वत् प्रवेशानन्तरम् एव पुरीं द्रक्ष्यामः हे ताते तत्-सन्तोषार्थम् आदरोक्तिः एवम् एव मोचनं पुरी-दर्शनं च कार्यम् अस्माकम् अस्तीति विलम्बात् सहैव गमनं न सम्भवेद् इति व्यञ्जितं तच् चासङ्कोचेन तद्-दर्शनार्थम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहं स्व-वासञ्च अवमुच्य विश्राम्य ॥१०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.११ ॥
श्री-अक्रूर उवाच—
नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो ।
त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्त-वत्सल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्बुद्धित्रयेण स्वत्यागानौचित्यं द्यौतयति । न हि प्रपन्नत्यागः प्रभ्वादीनाम् उचित इति भावः । परमार्त्या बहुधा सम्बोधयन् प्रार्थथते—प्रभो इत्य्-आदिना । नाहम् इत्य् आदौ हेतुः—हे प्रभो सर्वोपकारि-प्रभवनशीलत्वेन सर्वाश्रयः ।
ननु, तदापि मद् आज्ञया प्रविशत तत्राह—त्यक्तुम् इति । तत्र हेतुः—हे नायेति । नाथयति याचयति ददाति सर्वेभ्यः सर्वान् कामान् इति हे तथा-भूत । ननूदाषिनस् त्यज्यत एव तत्राह—भक्तं ते तव । अनन्य-गतिम् इत्य् अर्थः ।
ननु, सत्यं कदापि न त्याज्य एव किन्तु स्वच्छन्देन पुरी-विहाद्य् अर्थम् इमम् अल्पकालं स्वगृहं प्रस्थाप्यसे तत्राह—हे भक्तवत्सलेति । क्साणम् अपि भक्त-त्यागो न युक्तस् तवेति भावः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मथुरां1 श्लेषेण विचित्र-माधुर्य-मनोहराम् अपीत्य् अर्थः । परमार्त्या बहुधा सम्बोधयन् प्रार्थयते—प्रभो इत्य्-आदिना । प्रभो हे ईश्वर ! नाथ हे स्वामिन् ! अथव न प्रवेक्ष्यामीत्य् अत्र हेतुः—प्रभो इति । स्वामिनं विनादौ दासस्य स्वगृह-प्रवेशेऽनौचित्याद् इति भावः ।
ननु, मद् आज्ञया न दोषः, तत्राह—त्यक्तुम् इति । हे नाथेति, यतः स्वामिनो दास-त्यागो नैव युक्त इति भावः ।
ननु, उदासीनस् त्यज्यत एवेति चेत् तर्हि ते तव भक्तमन्य-गतिम् इत्य् अर्थः ।
ननु, सत्यम्, कदापि न त्याज्य एव, किन्तु स्वच्छन्देन पुरी-विहारार्थम् इमम् अल्प-कालं स्व-गृहं प्रस्थाप्यसे ? तत्राह—हे भक्त-वत्सलेति, क्षणम् अपि भक्त-त्यागो न तव युक्त इति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परमार्त्या बहुधा सम्बोधयन् प्रार्थयते । प्रभो इत्य्-आदिना । तत्र नाहम् इत्य् आदौ हेतुः हे प्रभो ! सर्वोपरि प्रभवन-शीलत्वेन सर्वाश्रय !
ननु, तथापि मदाज्ञया प्रविशत तत्राह । त्वक्तुम् इति । तत्र हेतुः नाथ इति नाथयति याचयति ददाति सर्वेभ्यः सर्वान् कामान् इति हे तथा-भूत ! ननूदासीनस् त्यज्यत एवेति चेत् तत्राह । ते तव भक्तम् अनन्य-गतिम् इत्य् अर्थः ।
ननु, सत्यं कदापि न त्याज्य एव किन्तु स्वच्छब्देन पुरी-विहाराद्य् अर्थम् इममम् अल्प-कालं स्व-गृहं प्रस्थाप्यसे तत्राह । हे भक्त-वत्सल ! इति क्साणम् अपि भक्त-त्याजो न तव युक्त इति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.१२ ॥
आगच्छ याम गेहान् नः स-नाथान् कुर्व् अधोक्षज ।
सहाग्रजः स-गोपालैः सुहृद्भिश् च सुहृत्तम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : साग्रजः सह गोपालैर् इत्य् अर्थः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नो गेहान् नोऽस्मान् वा । इत्य् अर्थ इति—बहुलं चन्दसि इति व्यवहितयोर् अपि स-स-ह-शब्दयोः पूर्वोत्तरभावेनान्वय इति तात्पर्यम् । अधोक्षजेतीन्द्रिय-ज्ञानाविषयत्वेऽपि सुहृत्तमत्त्वात् तद्-विषयो जात इति सम्बुद्धिद्वयाभिप्रायः गृहं गेहं च प्म्भूम्नि इति त्रिकाण्ड-कोशात् । तहि किं कार्यं तत्राह—आगच्छेति । नन्व् अस्माद् आगमन-विज्ञापनाय त्वं कंसं यास्यसि इत्य् आशङ्क्य तद् ऐश्वर्यानुभवेन कंसान् निर्भयतया नेत्य् आह—याम इति । अहं यूयं च सर्व एव प्रथमतो गृहान्य् एव गमिष्यामः । तथापि सम्मतिम् आलक्ष्य सदैन्यं प्रार्थयते—नोऽस्मान् सनाथान् कुरु । बहुत्वं निज-बन्धु-वर्गापेक्षया । हे अधोक्षज इन्द्रिय-ज्ञानागोचर इत्य् एवं-भूतस्य तव साक्षद् गमनेनैव सनाथत्वं सिद्ध्यतीति भावः । यद् वा—नोऽस्मत् सम्बन्धिनो गेहान्याम तानेव सनाथान् कुरु दासस्य तेषु स्वामित्वाभावात् । त्वद् गमनेनैव सनाथत्व-सिद्धेर् इति भावः । अत एव नैकाकी चागच्छेर् इत्य् आह—सहेति । तैर् व्याख्यातम् । तत्र चान्दसत्वाद् विपर्येयेण पाठ इति भावः । यद् वा, सुहृद्भिः पित्रादिभिः । तैश् च कीदृशैः—सगोपालैः शाकटबलीवर्दरक्साकैर् अपि सह । साकल्येऽव्ययीभावः । तृतीया-सप्तम्यो-बहुलम् इत्य् आद्येश-विकल्पः ।
ननु, सद्य एव कथं घटतां तत्राह—सुहृन् निरुपाधिकृपाकरः साधुः, सुहृत्तरस् त्वद् भक्तः साधुः, सुहृत्तमस् त्वं भगवान् इति तथा-भूतत्वन् महात्म्येन घटते न तु मद्योग्यतयोत्य् अर्थः ॥१२॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तर्हि किं कार्यम् ? तद् आह—आगच्छेति । नन्व अस्माद् आगमन-विज्ञापनाय त्वं कंसं यास्यति, नेत्य् आह—यामेति । अहं यूयं च सर्व एव गमिष्यामः । यद् वा, आशिषि पष्वमी, तथापि सम्मतिम् अनालक्ष्य सदैन्यं प्रर्थयते—नोऽस्मान् सनाथान् कुरु, बहुत्वं तस्य गृह-गमनेनात्मनो बहुमानात् । किं वा, निज-बन्धु-वर्गापेक्षया । हे अधोक्षज ! इन्द्रिय-ज्ञानागोचरेति, एवम्-भूतस्य तव साक्षाद्-गमनेनैव सनाथत्वं सिध्यतीति भावः । यद् वा, नोऽस्मत्-सम्बन्धिनो एहान् याम, तान् एव सनाथान् कुरु, दासस्य तेषु स्वामित्वाभावात् त्वद्-गमनेनैव सनाथत्व-सिद्धिर् इति भावः ।
ननु, तर्हि त्वया सहाहम् एकाकी यायाम्, नेत्य् आह—सहेति । सुहृद्भिर् अन्यैश् चात्रत्यैर् यादवादिभिः सह । यद् वा, गो-पालानां साहित्ये हेतुतया तेषाम् एव विशेषणम्, सुहृद्भिस् तव मम च बन्धुभिर् इति हे सुहृत् तमेति बन्धु-वर्ग-श्रेष्ठस्य बह्नु-सम्माननं गोग्यम् एवेति भावः ।
अथवा ननु सद्य एवेदृशं कथं घटताम् ? तत्राह-सुहृत् निरुपाधि-कृपाकरः, साधुः सुहृत्तरः, भगवान् त्वं च भगवत्तासार-प्रकटनात् सुहृत्तम इति तत्-सम्बोधनं त्वन् माहात्म्येन घटते, न तु मद्-योग्यतयेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, स पुर्यागमनादिना मयि महानुग्रह-विस्तारकस् त्वं गोपालैश् च सह । अन्यत् समानम् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्हि किं कार्यं ? तत्राह—आगच्छेति । नन्व् अस्मद्-आगमन-विज्ञापनाय त्वं कंसं यास्यसित्य् आशङ्क्य त्वद्-ऐश्वर्यानुभवेन कंसान् निर्भयतया नेत्य् आह—याम इति । अहं यूयं च सर्व एव प्रथमतो गृहान्य् एव गमिष्यामः, तथापि सम्मतिम् आलक्ष्य स-दैन्यं प्रार्थयते—नोऽस्मान् स-नाथान्कुरु, बहुत्वं निज-बन्धु-वर्गापेक्षया । हे अधोक्षज ! इन्द्रिय-ज्ञानागोचर इति । एवं-भूतस्य तव साक्षाद् गमनेनैव सनाथत्वं सिद्ध्यतीति भावः
यद् वा, नोऽस्मत् सम्बन्धिनो गेहान् यामः, तान् एव सनाथान् कुरु । दास्यस्य ते तु स्वामित्वाभावात् त्वद्-गमनेनैव सनाथत्व-सिद्धेर् इति भावः । अत एव नैकाकी चागच्छेर् इत्य् आह—सहेति । तैर् व्याख्यातं
तत्र छान्दसत्वाद् विपर्ययेण पाठ इति भावः । यद् वा, सुहृद्भिः पित्रादिभिः । तैश् च कीदृशैः ? स-गोपालैः शाकट-वलीवर्द-रक्षकैर् अपि सह साकल्येऽव्ययीभावः । तृतीया-सप्तम्योर् बहुलम् इत्य् आदेश-विकल्पः ।
ननु, सद्य एव कथं घटतां ? तत्राह—सुहृत् निरुपाधिकृपाकरः साधुः सुहृत्तमस् तद्-भक्तः साधुः, सुहृत्तमस् त्वं भगवान् इति तथा-भूतत्वन् माहात्म्येन घटते, न तु मद्-योग्यतयेत्य् अर्थः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुहृद्भिः पित्र्-आदिभिः स-गोपालैः शकट-बलीवर्द-रक्षकैर् अपि सहेति शेषः ॥१२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याम एते त्वञ्चाहञ्चास्माकं गेहान् याम इति कंसं समावेदयितुं तत्समीपं प्रथमं न यास्यामि श्वो मरिष्यन् स मे किं कर्तुं शक्नुयात् । नाहं तस्मात् किञ्चिद् अपि विभेमि त्वदैश्वर्यस्य दृष्टत्वाद् इति भावः । नच मद्गृहे कस्यापि वस्तुनः सङ्कोचस्तस्मात् सर्वे ऽपि युयं गच्छतेत्य् आह—सहाग्रज इति ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१३ ॥
पुनीहि पाद-रजसा गृहान् नो गृह-मेधिनाम् ।
यच्-छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यच्-छौचेन यस्य पाद-रजसः क्षालनोदकेन गृहाङ्गानस्थितेन ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृहमेधिनां पञ्चसूनाजात-हिंसावताम् । पितरो दिल्या अग्निष्वात्तादयो वंश-प्रवर्तका वा । अग्नयो गार्ह्यपत्यादयः । सुरा इन्द्रादयः ।
ननु, पित्रग्नि-सुरादीनां पूजादिना सदा त्वद्-गृहाणां सनाथता माभ्य् एव तत्राह—पुनीहि । गृहमेधिनां नित्यं गृहेषु पञ्चसूनातत्पराणाम् । अनु-शब्देन सकृल् लब्धेनापि निरन्तरं तृप्यन्तीति ध्वन्यते । पितर इति—पित्रादीनाम् अनुतृप्त्या गार्हस्थ्यकृत्य-समाप्त्या गृहस्थानां स्वत एव सुखं कृतार्थता च स्याद् इति भावः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, मत्-पूजादिना सदा त्वद्-गृहाणां सनाथता भात्य् एव, तत्राह—पुनीहीति । गृहमेधिनां गृहेषु नित्यं पञ्चसूनापराणम्, अनु-शब्देन सकृल्पब्जेनापि निरन्तरं तृप्यन्तीति ध्वन्यते । पितर इति पित्रादीनाम् अनुतृप्त्या गार्हस्थ्यकृत्य-समाप्त्या गृह-स्थानां स्वत एव सुखं कृतार्थता स्याद् इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, पित्र-निग्नसुरादीनां पूजादिना सदा त्वद्-गृहाणां सनाथता भात्य् एव तत्राह—पुनीहि गृह-मेधिनां नित्यं गृहेषु पञ्चसूनापराणाम् अनु-शब्देन सकृल् लब्धेनापि निरन्तरं तृप्यन्तीति ध्वन्यते पितर इति । पित्रादीनाम् अनुतृप्त्या गार्हस्थ्य-कृत्य-समाप्त्या गृहस्थानां स्वत एव सुखं कृतार्थता च स्याद् इति भावः ॥१३॥
नचेयं स्तुतिर् दृष्ट-फलत्वात्, यद् वा []{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् छौचेन यत्-पाद-रजः-क्षालनोदकेन ॥१२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१४ ॥
अवनिज्याङ्घ्रि-युगलम् आसीत् श्लोक्यो बलिर् महान् ।
ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां तु या ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्लोक्यः पुण्य-कीर्त्य्-अर्हः । एकान्त-भक्तानां या गतिस् तां च लेभे ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवनिज्य प्रक्षाल्य । गतिः सालोक्यादि-रूपा । न चेयं स्तुतिर् दृष्ट-फलत्वात् । यद् वा,
ननु, तर्हि रजस् तच्छौचलजं वा तत्र नीयताम् इत्य् आशङ्क्य श्री-बलिवत् तत्र साक्षात् प्रक्षालयितुम् इच्छामीत्याशयेनाह—अवनिज्येति । महाञ्छ्लोक्यः पुण्य-कीर्तिमत्सु श्रेष्ठ इत्य् अर्थः, श्री-व्यासादादिभिर् अपि प्रशस्तत्वात् । अतुलमिन्द्रादीनाम् अपि दुलभत्वात् । गतिं प्याप्यं तां च लेभे इहैव द्वारपालत्वेन साक्षाच् छ्री-भगवतः प्राप्तत्वात् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न चेयं स्तुतिः, साक्षात्-फलत्वात् । यद् वा, ननु, तर्हि रजस् तच् छौचोदकं वा तत्र नीयताम् इत्य् आशङ्क्य श्री-बलिवत् तत्र साक्षात् प्रेक्षालयितुम् इच्छामीत्य् आशयेनाह—अवनिज्येति । महान् श्लोक्यः पुण्य-कीर्तिमत्सु श्रेष्ठ इत्य् अर्थः । अतुलं ब्रह्मादीनाम् अपि दुर्लभतात्, गति-निष्ठा प्राप्यं वा तां च लेभे, द्वार-पालत्वेन भगवतः सदा सन्दर्शनादि-सम्पत्तेः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्लोकैः पद्यैः श्री-व्यासादि-करि-वर्गेण वर्णयितुं योग्यः श्लोक्यः, श्लोक्यत्वम् एवाह—ऐश्वर्यम् इत्य्-आदिना ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तर्हि रजस् तच् छौच-जलं वा तत्र नीयताम् इत्य् आशङ्क्य श्री-वलिवत् तत्र साक्षात् प्रक्षालयितुम् इच्छामीत्य् आशयेनाह । अवनिज्येति । महान् श्लोक्यः पुण्य-कीर्तिमत्सु श्रेष्ठ इत्य् अर्थः । श्री-व्यासादिभिर् अपि प्रशस्तत्वात् अतुलम् इन्द्रादीनाम् अपि दुर्लभत्वात् गतिं प्राप्यं तां च लेभे इहैव द्वऋआ-पालत्वेन श्री-भगवतः साक्षात् प्राप्तत्वात् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्लोक्यो महायशो ऽर्थः गतिञ्च लेभे या एकान्तिनामेव “गति"श्चेत्यपि पाठः ॥१४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१५ ॥
आपस् तेऽङ्घ्र्य्-अवनेजन्यस् त्रील्ं लोकान् शुचयोऽपुनन् ।
शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपुनन् पवित्रितवत्यः । याभिर् अद्भिः स्वः स्वर्गं प्राप्ताः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्घ्र्योर् अवनेजनं शौचोऽस्ति यासां तास् तथा, चरण-प्रक्षालन-च्युताः । शर्वः शिवः इति-महा-पातकि-पावनेनान्यतीर्थानाम् इवाशुचित्वं निरस्तम् । न केवलं त्रील्लोकानेवापुनन्, लोक-पाल-मुख्यं सर्व-वन्द्य श्री-शिवम् अपात्याह—शिरसेति । तद् उक्त प्रथम-स्कन्धे—सेश् पुनाति इति । बहिःश्मशानादि-सम्बन्ध तिरस्करोतीत्य् अर्थः । इति तासां परम-पुरुषार्थ-रूपत्वम् उक्तम् । अहो साक्षात् तत्-स्पर्शन पावनत्वं किं वक्तव्यं, महापराधिनां चिरं स्वकृत-पापेनैव दग्धानाम् अपि दाहस्थान-स्पर्श-मात्रेणैव परम-शोधनं ब्रह्म-लोक-प्रापणञ्चाह—स्वर्याता इति । स्वरिति—त्रिलोकी-पक्षे ब्रह्म-लोक-पर्यन्तस्य स्वर्गत्वड्-ब्रह्म-लोकम् इत्य् अर्थः । तत्-तु नवमे व्यक्तम् । एवम् आदौ पावनत्वं, ततः परम-वन्द्यत्व, ततश् च सुदुस्तरमहद् अपराधाद् अपि निस्तारकत्वं, परम-पद-प्रापकत्वं च क्रमेणोक्तम् ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो आस्तां तावत् साक्षात् तद् अवनेजन-जलानां माहात्म्यम्, ततश् चिरं निःसृतानाम् अपि माहात्म्यं परमाश्चर्यम् इत्य् आह—आप इति । शुचय इति महा-पातकि-पावनेनान्य-तीर्थानाम् इवाशुचित्वं निरस्तम् । न केवलं त्रीन् लोकान् एवापुनन्, लोक-पाल-मुख्यं ब्रह्मादिवन्द्यं श्री-शिवम् अपीत्य् आशयेनाह—शिरसेति । तथा चोक्तं प्रथमे सेशं पुनाति [भा।पु १.१८.२१] इति तासां पुरुषार्थ-रूपत्वम् उक्तम्, अहो साक्षात्-स्पर्शेण पावनत्वं किं वक्तव्यम्, महापराधिनां चिरं स्वकृत-पापेनैव दग्धानाम् अपि दाहः स्यात् । स्पर्श-मात्रेणैव परम-शोधनं ब्रह्म-लोक-प्रापणं चाह—स्वर्षाता इति । स्वर् इति त्रिलोकी-पक्षे ब्रह्म-लोकर्पयन्तस्य स्वर्गत्वाद्-ब्रह्म-लोकम् इत्य् अर्थः । तदाख्यानं च नवम-स्कन्धादौ व्यक्तम् एव । यद् वा, आदौ पावनत्वं ततः परम-वन्द्यत्वम्, ततश् च सुदुस्तर-महद् अपराधाद् अपि निस्तारणं परम-पद-प्रापकत्वं च क्रमेणोक्तम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो आस्तां तावत् त्वत् तद् अवनेजन-जलानां मःआत्म्यं परम्परयापि तत् स्पृष्टानां माहात्म्यं परमाश्चर्यम् इत्य् आह । आप इति । शुचय इति । महापातकि-पावनेनान्य-तीर्थानाम् इवाशुचित्वं निरस्तं न केवलं त्रीन् लोकान् एवापुनन् लोक-पाल-मुख्यं सर्व-वन्द्यं श्री-शिवम् अपीत्य् आह । शिरसेति । तथा चोक्तं प्रथम-स्कन्धे शेषं पुनातीति बहिः श्मशानादि-सम्बन्धः तिरस्करोतीत्य् अर्थः । इति तासां परम-पुरुषार्थ-रूपत्वम् उक्तं अहो साक्षात् तत् स्पर्शेन पावनत्वं किं वक्तव्यं महापराधिनां चिरं स्वकृत-पापेनैव दग्धानाम् अपि दाहस्थानस्पर्श-मात्रेणैव परम-शोधनं ब्रह्म-लोक-प्रापणञ्चाह । स्वर्गता इति । स्वर् इति त्रिलोकी-पक्षे ब्रह्म-लोक-पर्यन्तस्य स्वर्गत्वाद् ब्रह्म-लोकम् इत्य् अर्थः । तत् तु नवमे व्यक्तम् एवम् आदौ पावनत्वं ततः परम-वन्द्यत्वं ततश् च सुदुस्तर-महद् अपराधाद् अपि निस्तारकत्वं परम-पद-प्रापकत्वं च क्रमेणोक्तम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आपो गङ्गाभिधानाः शुचयो ऽप्राकृत्यः । स्वर्याता इति; यत इति शेषः ॥१५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१६ ॥
देव-देव जगन्-नाथ पुण्य-श्रवण-कीर्तन ।
यदूत्तमोत्तमः-श्लोक नारायण नमोऽस्तु ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रार्थयमानो नमस्करोति—देव-देवेति । अतः परम् अन्य-च्छ्रेयो नास्तीति मत्वा बहुधा सम्बोधयति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः श्री-हरि-कीर्तनात् । देव-देवत्य् उक्तर् इन्द्र-वारणाह—जगद्भिर् नाथ्यते प्रार्थ्यत इति जगन्नाथ दुष्टदमन । तादृशा राजानोऽपि सन्ति तद् वारणायाह—पुण्यं श्रवणं नाम येषां रुद्रादीनां ते पुण्य-श्रवणास् तैः कीर्यन्त इति तथा । यदूत्तमेत्य् उक्त यादवान्तरवारणायाह-उत्तम-श्लोकेति । तादृशा अनेके युधिष्ठिरादयः सन्ति तद् वारणायाह—नारायणेति । हे देव-देवेति । तत्र त्वद् गमनेन ध्रुवं महा-पुण्यं स्याद् एवेति भावः । यद् वा, देवानां ब्रह्मादीनां पूज्येति । यद्य् अपि स्व एव सेवकास् तद् अनुग्राह्यास् तथापि जगन्नाथत्वेन माम् अप्य् अनुग्रहीतुम् अर्हसीति भावः ।
ननु, पुण्यवत एवानुगृह्नामि तत्राह—पुण्येति । तव श्रवणादिनाम् अपि पुण्यवानेव । यद् वा, यस्य श्रवण-कीर्तनाभ्याम् अपि पुण्यं स्यात् तस्य दर्शनादिना ममापि महा-पुण्यं जातमेवेति भावः । किं च—यदूत्तमेति—यदु-कुलावतीर्णेन तच् छ्रेष्ठेन त्वया तत्-कुल-जातोऽहम् अनुग्रहीतुं योग्य एवेति भावः ।
ननु, तथापि कंस-गङ्गी त्वं श्री-गोकुले जातापराधश् च कथम् अनुगृअह्य इत्य् आशङ्क्याह-उत्तम-श्लोकेति । पूतनादीनाम् अपि तादृश-गति-दानेन स्वर्वोत्कृष्ट-निज-कीर्त्यपेक्षयेत्य् अर्थः । नन्व् ईश्वरस्य मम तादृशीच्छा क्वचिद् भवेत् क्वचिन् न भवेद् इत्य् आशङ्क्याह—नारं जीव-समूहस् तस्यायनम् आश्रयेति । भवतु मा वा तथापि जीव-मात्रस्य त्वम् एव गतिर् इति भावः । परम-वैयग्र्येण सपाद-ग्रहं प्रणमति—नम इति । एवं श्री-कृष्णम् एकं प्रत्य् एव प्रार्थनादिकम् । अन्योऽन्यं महा-स्निग्धतया श्री-बलदेवेन सह तस्याभेदात् तस्मात् प्राधान्याच् चेति ॥१६॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे देव-देवेति । तत्र त्वद्-गमनेन सर्वे देवाः स्वयम् एवागताः सन्तुष्टाश् च स्युर् इति भावः । न केवलं देवा एव, किन्तु सर्वेऽपि जीवा इत्य् आह—जगन्नाथेति । पुण्ये श्रवण-कीर्तने अपि यस्येति साक्षात् तव गमने ध्रुवं महा-पुण्यं स्याद् एवेति भावः भावः । यद् वा, देवानां ब्रह्मादीनां देव पूज्येति, यद्य् अपि त एव सेवकास् त्वद् अनुग्राह्यस् तथापि जगन्नाथत्वेन माम् अप्य् अनुग्रहीतुम् अर्हसीति भावः ।
ननु, पुण्यवत एवानुगृह्नामि, तत्राह—पुण्येति, तव श्रवणादिनाहम् अपि पुण्यवान् एव, यस्य श्रवण कीर्तनाभ्याम् अपि पुण्यं स्यात् तस्य दर्शनादिना ममापि महा-पुण्यं जातम् एवेति भावः । किं च, यदूत्तमेति यदु-कुलावतीर्ण्येन तच् छ्रेष्ठेन त्वया तत्-कुल-जातोऽहम् अनुग्रहीतुं योग्य इति भावः ।
ननु, श्री-गोपीषु जातापराधस् त्वं कथम् अनुग्राह्यः ? तत्राह—उत्तम-श्लोकेति, सर्वोत्कृष्ट-निज-माहात्म्यापेक्षयेति भावः ।
ननु, महद् अपराधो भोगेन तत्-क्षमयैव वा नश्येत्, न त्व् अन्यथा, तत्राह—नारं जीव-जिव-समूहस् तस्यायन् आश्रयेति । तथापि त्वम् एव गतिर् इति भावः । परम-वैयग्र्ये सपाद-ग्रहं प्रणमति—नम इति । एवं श्री-कृष्णम् एकं प्रत्य् एव प्रार्थनादिकम् अन्योऽन्यं महा-स्निग्धतया श्री-बलदेवेन सह तस्याभेदात् । यद् वा, पूर्वं प्रधान-पुरुषौ [भा।पु १०.३८.३२] इत्य्-आदि-प्रकारेण द्वयोः साम्येन दर्शनेऽपि वृत्तेऽधुना अनन्त-तीर्थे श्री-कृष्णस्यैव प्राधान्य-सन्दर्शनेन श्रैष्ठ्यमननाद् इति ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे देव-देवेति । तत्र त्वद् गमनेन ध्रुवं महा-पुण्यं स्याद् एवेति भावः । यद् वा, देवानां ब्रह्मादीनां पूज्येति यद्य् अपि त एव सेवकास् त्वद् अनुग्राह्यास् तथापि जगन् नाथत्वेन माम् अप्य् अनुग्रहीतुम् अर्हसीति भावः ।
ननु, पुण्यवत एवानुगृह्नामि तत्राह । पुण्येति । तव श्रवणादिनाहम् अपि पुण्यवान् एव । यद् वा, यस्य श्रवण-कीर्तनाभ्याम् अपि पुण्यं स्यात् तस्य दर्शनादिना ममापि महा-पुण्यं जटम् एवेति भावः । किं च यदूत्तमेति । यदु-कुलावतीर्णेति तच् छेष्ठेन त्वया तत् कुलजोऽहम् अनुग्रहीतुं योग्य इति भावः ।
ननु, तथापि कंस-सङ्गी त्वं श्री-गोकुले जातापराधश् च कथम् अनुग्राह्य इत्य् आशङ्क्याह । उत्तमःश्लोकेति । पूतनादीनाम् अपि तादृश-गति-दानेन सर्वोत्कृष्ट-निज-कीर्त्यपेक्षयेत्य् अर्थः । नन्व् ईश्वरस्य मम तादृशीच्छा क्वचिद् भवेत् क्वचिन् न भवेद् इत्य् आशङ्क्याह । नारं जीव-समूहस् तस्यानम् आश्रयेति भवतु मा वा तथापि जीव-मात्रस्य त्वम् एव गतिर् इति भावः । परम-वैयग्र्येण सपाद-ग्रहं प्रणमति । नम इति । एवं श्री-कृष्णम् एकं प्रत्य् एव प्रार्थनादिकम् अन्योऽयं महास्निग्धतया श्री-बलदेवेन सह तस्याभेदात् तस्मात् प्राधान्याच् च ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे देवदेव त्वं देवेषु दीव्यसि मद्गृहे अपि अद्य दिव्य, त्वं जगतां नाथः अद्य मद्गृहस्य नाथो भव । हे पुण्यश्रवणकीर्तन, अद्य मद्गृहम् अपि पुण्यं कुरु हे यदूत्तम! यदोर्मम गृहमागच्छ । हे उत्तमश्लोक, पतितपावनत्वयशः प्रकाशयन् पतितं मद्गृहं पुनीहि ॥१६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१७ ॥
श्री-भगवान् उवाच—
आयास्ये भवतो गेहम् अहम् आर्य-समन्वितः ।
यदु-चक्र-द्रुहं हत्वा वितरिष्ये सुहृत्-प्रियम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आदौ तावद् यद् उचक्राय द्रुह्यतीति यदु-चक्र-ध्रुक् तं कंसं हत्वा सुहृदां प्रियं वितरिष्ये दास्यामि ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आर्यो बलदेवः । वितरिष्ये विपूर्वस् तरतिर् दाने इति व्याडिः । आर्येण श्री-रामेण सम्यग् अन्वित इति गोपैः साहित्यं निरस्तम्, तेषां चिरं तत्रान् अवस्थानात् । कदेत्य् अपेक्षायाम् आह—यदुचक्रेति । यदेति । यदेति शेषः । सङ्केतेनैव तद् उक्तिः, मन्त्रभगभयाद्दुष्टत्वाद् वा । सुहृदां यादवादीनां श्री-वसुदेव-मोचनादिना प्रियं प्रीतिं-पितरौ बद्धौ सर्वे यादवाश् च दुःखिता अतोऽत्रागतस्य मम त्वद्-गृहपमनादिनातिथ्य-सुखं न योग्यम् इति भावः ॥१७॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदौ हनने हेतुः—यदु-चक्राय सर्व-यादव-वर्गाय द्रुह्यतीति तथा तम्, एवं साक्षात् तन् नामाग्रहणम्, केवलं सङ्केतेनैव तद् उक्तिर् मन्त्र-भङ्ग-भयाद् दुष्टत्वाद् वा, सुहृदां श्री-वसुदेवादीनां प्रियं बन्धन-मोचनादिना प्रीतिम् । पितरौ बद्धौ सर्वे यादवाश् चात्र दुःखिन, अतोऽत्रागतस्य मम त्वद् गृह-गमनादिनातिथ्य-सुखं न योग्यम् इति भावः । वस्तुतस् तु गोपी-विषयक-तद् अपराधेन गोपानाम् असम्मत्या अधुना तत्र न गत इति ज्ञेयम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आर्येण श्री-रामेण सम्यग् अन्वित इति गोपैः साहित्यं निरस्तं तेषां चिरं तत्रान् अनवस्थानात् कदेत्य् अपेक्षायाम् आह । यदुचक्रेति । यदेति शेषः सङ्केतेनैव तद् उक्तिः मन्त्र-भङ्ग-भयात् दुष्टत्वाद् वा सुहृदां यादवानां श्री-वसुदेव-मोचनादिना प्रियं प्रीतिं पितरौ बद्धौ सर्वे यादवाश् चात्र दुःखिताः अतोऽत्रागतस्य मम त्वद्-गृह-गमनादिनातिथ्य-सुखं न योग्यम् इति भावः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं भो! मां यदूत्तमं ब्रूषे, तर्हि यदु-चक्र-द्रुहं हत्वैव भवतो गेहम् आयास्ये ॥१७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.१८ ॥
श्री-शुक उवाच—
एवम् उक्तो भगवता सोऽक्रूरो विमना इव ।
पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राम-कृष्णावानीताव् इति स्व-कृतं कर्मावेद्य समर्प्येति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । भगवता सहागमनाभावाद् विमना इवेति कंस-दौर्जन्याद् वा । स परमोत्सुकः । श्री-भगवद् आनयने परमहृष्टोऽपि । इवेति वाक्यालङ्कारे । यद् वा, आयास्य इति तद् अङ्गीकारेण कंस-हनन-प्रतिज्ञादिना चात्यन्तवेमनस्याभावात् । प्रायः श्वः कंसं मारयित्वा श्री-भगवान् आगमिष्यतीति विभाव्य बहुधा निज-गेहम् उपस्कर्तुम् इति ज्ञेयम् । अत एव तद् आसक्त्या तत्र तस्य श्री-भगवद् आगमन-पर्न्तमन्यत्-कर्मादिकं किम् अप्य् अग्रं कुत्रापि न श्रूयते ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स परमोत्सुकः श्री-भगवद् आनयनेन परम-हृष्टोऽपि वा, इवेति लोकोक्तिरीत्यान् अधिकार्थम् । यद् वा, आयास्य इति तद् अङ्गीकारेण कंस-हनन-प्रतिज्ञादिना चान्तरत्यन्त-वैमनस्याभावत्, गृहं ययाव् इति श्री-भगवद् अर्थं बहुधा निज-गृहोपस्कारार्थम् इति ज्ञेयम् । अत एव तद् आसक्त्या तस्य तत्र श्री-भगवद् आगमन-पर्यन्तम् अन्यत् कर्मादिकं किम् अप्य् अग्रे कुत्रापि न श्रूयते ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स परमोत्सुकः श्री-भगवद् आनयने परम-दृष्टोऽपि च श्वेति वाक्यालङ्कारे । यद् वा, आयास्य इति तद् अङ्गीकारेण कंस-हनन-प्रतिज्ञादिना चात्यन्तवैमनस्याभावात् गृहं ययाव् इति प्रायः श्वः कंसं मारयित्वा श्री-भगवान् आगमिष्यतीति विभाव्य बहुधा निज-गृहम् उपस्कर्तुम् इति ज्ञेयम् । अत एव तदा सक्त्या तत्र तस्य श्री-भगवद् आगमन-पर्यन्तम् अन्यत् कर्मोदिकं किम् अप्य् अग्रे कुत्रापि न श्रूयते ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.१९ ॥
अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः ।
मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपैः परिवारितः प्राविशत् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथाक्रूर-प्रेषणोत्तरम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथाक्रुरस्य पुरी-प्रवेशानन्तरं भगवान् निजैर्श्वर्य-प्रकटन-परः कृष्णः सर्व-चित्ताकर्षक इति पौरजनान् प्रति वक्ष्यमाणानुग्रहे तेषां मनो-हरणे च हेतुर् उक्तः, सम्यक् कर्षत्याकर्षति भाव-विशेषेण श्री-कृष्णस्य, अत एव तत्-प्रिय-जनानाम् अपि चित्तम् इति । यद् वा, श्री-कृष्णेनापृथग्-भावात् सङ्कर्षणस् तेनान्वित इति पुरी-दर्शनादादौ सुख-विशेषः सूचितः । किं च, गोपैर् वयस्यैः श्रीदामादिभिः परिवारितस् ताम्बूलार्पकादि-परिवारतया सेवित इत्य् अर्थः । यद् वा, परितो वारितः परम-स्निग्धेन श्री-बलदेवेन पूर्वं श्री-वल्लवेन्द्रेणैव वा विविध-शङ्कयावरण--रूपेण वेष्टनं कारितम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपैर् वयस्यैः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपैर् वयस्यैः ॥१९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२० ॥
ददर्श तां स्फाटिक-तुङ्ग-गोपुर-
द्वारां बृहद्-धेम-कपाट-तोरणाम् ।
ताम्रार-कोष्ठां परिखा-दुरासदाम्
उद्यान-रम्योपवनोपशोभिताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्ण-दृष्टां पुरीम् अनुवर्णयति चतुर्भिः, ददर्श ताम् इति । स्फाटिकानि तुङ्गानि गोपुराणि पुर-द्वाराणि गृह-द्वाराणि च यस्यां ताम् । बृहन्ति हेममयानि कपाटानि तोरणानि च यस्यां ताम् । ताम्रं च आरः आर-कूटश् च तन् मयाः कोष्ठा धान्यागाराश्वशालादयो यस्यां ताम् । परिखाः परितः स्वात-गर्तास् ताभिर् दुरासदां दुर्गमाम् । उद्यानानि दूर-स्थानि वनानि रम्याण्य् उपवनानि च निकटानि तैर् उपशोभिताम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ मथुरा-वर्णनम् । तां मथुराम् । तोरणानि द्वार-बहिर् भागाः । तोरणोऽस्त्री बहिर् द्वारम् इत्य् अमरः । आरकूटश् च पित्तलम् इत्य् अभिधान-चिन्तामणिः । आरपदेनारकूट-ग्रहस् त्वेकदेशन्यानेन बोध्यः । उपवनानि प्रमदवनादि वा । कोष्ठानि दुर्गप्रकारा इत्य् अपि केचित् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरीं चतुर्भिर् वर्णयन्न् आदौ तस्याः स्वाभाविकीं शोभां वर्णयति—ददर्शेति सार्ध-द्वयेन । आरम् आरकुटः पित्तलम्, परिखाः पऋश्व-द्वये ज्ञेयाः, पूर्वोत्तरयोः प्रायः श्री-यमुनाया एव परिखा--रूपेण वर्तमानत्वात् । किं वा, तदानीं दूरतो यमुनावस्थित्या पुर्यन्तश् चतुर्दिक्षु परिखाश् चतस्र एव । उद्यानं फल-प्रधानम्, उपवनं पुष्प-प्रधानम्, पूर्वम् उक्तम् उत्तारस्थानोपवनं बाह्यम्, अएतवास्य सौन्दर्यादि-विशेषेण रम्येति विशेषणम् । यद् वा, उद्यान-रम्या चासाव् उपवनोपशोभिता च ताम् । एवं क्रमेण दर्शनम् ऊह्यम् । आदौ गोपुरम्, ततोऽन्य-द्वाराणि, ततस् तत्-कपाटादि, ततस् ताम्रादि-रचिताश्वशालादि-तद् अन्तःपरिखा तद् अभ्यन्तरे उद्यानादि, एवम् अग्रेऽपि ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चतुष्केण पुरीं वर्णयन्न् आदौ तस्याः स्वाभाविकीं शोभां वर्णयति । ददर्शति सार्ध-द्वयेन । आर आरकूटः पित्तलं परिखाः पार्श्व-द्वये ज्ञेयाः पूर्वोत्तरयोः प्रायः श्री-यमुनाया एव परिखा--रूपेण वर्तमानत्वात् उद्यानं फल-प्रधानम् उपवनं पुष्प-प्रधानं पूर्वम् उक्त शकटावरणस्थानोपवन-कृत्रिमं बाह्यं च उपवनस्य सौन्दर्यादि-विशेषेण रम्येति विशेषणम् अन्यत् तैः । यद् वा, कोष्ठानि दुर्ग-प्राकाराः उद्यान-रम्या चासाव् उपवनोपशोभिता चेति तां प्रत्येकं विशेषणम् आधिक्यापेक्षया क्रमस्त्वेवम् उद्यानानि उपवनानि परिखाः कोष्ठानि तत्र गोपुराणि अन्यद् वाराणि द्वार्षु हेम-कपाटानि ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुष्केण पुरीं वर्णयन्न् आदौ तस्याः स्वाभाविकीं शोभां वर्णयति । ददर्शति सार्ध-द्वयेन । आर आरकूटः पित्तलं परिखाः पार्श्व-द्वये ज्ञेयाः पूर्वोत्तरयोः प्रायः श्री-यमुनाया एव परिखा--रूपेण वर्तमानत्वात् उद्यानं फल-प्रधानम् उपवनं पुष्प-प्रधानं पूर्वम् उक्त शकटावरणस्थानोपवन-कृत्रिमं बाह्यं च उपवनस्य सौन्दर्यादि-विशेषेण रम्येति विशेषणम् अन्यत् तैः । यद् वा, कोष्ठानि दुर्ग-प्राकाराः उद्यान-रम्या चासाव् उपवनोपशोभिता चेति तां प्रत्येकं विशेषणम् आधिक्यापेक्षया क्रमस्त्वेवम् उद्यानानि उपवनानि परिखाः कोष्ठानि तत्र गोपुराणि अन्यद् वाराणि द्वार्षु हेम-कपाटानि ॥२०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२१ ॥
सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः
श्रेणी-सभाभिर् भवनैर् उपस्कृताम् ।
वैदूर्य-वज्रामल-नील-विद्रुमैर्
मुक्ता-हरिद्भिर् वलभीषु वेदिषु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सौवर्णाः शृङ्गाटकाश् चतुष्-पथा हर्म्याणि धनिनां गृहाणि च निष्कुटा गृहोचिता आरामाश् च तैः । श्रेणीनाम् एक-शिल्पोपजीविनां सभाभिरुपवेश-स्थानैर् अन्यैश् च भवनैर् गृहैर् उपस्कृताम् अलङ्कृताम् । अमलाः स्फटिकाः । हरितो मरकताः । वैदूर्यादि-रत्नैजुष्टेषु वलभ्यादिष्व् आविष्टैर् उपविष्टैः पारावतैर् बर्हिभिश् च नादिताम् । तत्र वलभ्यो गृह-पुरो-भागेषु वक्र-दारु-च्छादनानि । वेदयो वलभीनाम् अधो-देशे विरचिता अवष्टं भवेदिकाः । जालामुख-रन्ध्राणि गवाक्ष-च्छिद्राणि । कुट्टिमानि मणि-बद्धा भूमयस् तेष्व् इति । रथ्या राज-मार्गाः, आपणाः पण्यवीथयः, मार्गा अन्ये च, चत्वराण्य् अङ्गनानि, संसिक्तानि रथ्यादीनि यस्यां ताम् । प्रकीर्णा माल्यादयो यस्यां ताम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शृङ्गाटकं भवेद् वारि-कण्टके च चतुष्पथे इति मेदिनी । हर्म्यं तु धनिनां गृहम् इति शाश्वतः । निष्कुटस् तु गोद्याने स्यात् केदार-कपाटयोः इति मेदिनी । श्रेणिः स्त्री-पुंसयोः पङ्क्तौ समान-शिल्पि-संहतौ इति च । सभा समाजके गोष्ठ्यां द्युत मन्दिरयोर् अपि इति च । भवनं स्याद् गृहे भावे इति च । उपस्कृताम् अलङ्कृताम् । वलभीष्व् आच्छादन-वक्र-दारुषु । वेदिषु परिष्कृत-भूमिषु । वलभी पटलाधारो वंश-पञ्जरस् तस्य चूडा वा इति क्षीर-स्वामी । आच्छादनं स्याद् वलभी गृहाणाम् इति हलायुधः । "छाजा" इति भासायाम् अपि मध्य-देशीयानाम् । सा चेष्टकादि-निर्मित-गृह-प्रान्तैः पाषाणादि-निर्मितच्छादन-श्रेणी वलभी चन्द्र-शालिका इति त्रिकाण्ड-शेषः । सा च गृहोपरि गृहम् । तथा च माघ-काव्ये यस्याम सेवन्त नमद्वलौकाः समं वधूभिर् वलभीर् युवानः इति । वेदिर् गृहाग्र इष्टकादि-बद्धा विश्रान्ति-भूः ।*। नादितां कारित-नादाम् । तत्-प्रतिध्वनि-युक्तान्तर्-गृहाम् इत्य् अर्थः ॥२१.२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलभ्यश् चन्द्रशालिका गृहोपरिगृहाणीति यावत्, बलभ्यादिषु आविष्टा उपविष्टाः । किं वा, तेषु वर्तमाना ये आविष्टा मत्ताः पारावतादयस् तैर् नादिताम् अधुना लोकेषु धनुर् महख्यापनार्थं कंसेन कृताम् । यद् वा, नित्योत्सवमय्यास् तत्-पुर्याः स्वभावतः पौरैर् नित्य-क्रियमाणाम् अलङ्कारादि-शोभां श्री-कृष्ण-यात्राम् अमङ्गल-सूचनीं वर्णयति—संसिक्तेति सार्धेन । सं-शब्देन सम्यग् रजोनाशन-पूर्वकं सुगन्धि-जलाभिषेको2 बोध्यते, अङ्कुरा नवोद्भिन्न-मुद्गादयः, संसेकादीनां बाह्यान्तर-प्रदेश-विशेषकतापेक्षया3 । किं वा, दर्शन-क्रमानुसारेण तत् तत्-क्रमेणोक्तिर् ज्ञेया । आ-शब्देन पवित्रोत्तम-जलादिना सम्यक् पूरणं बोध्यते । स्स्वलङ्कृतेति सु-शब्द-सूचितं दर्शयति—दधीत्यादिभिः । अन्यत् तैर् व्याख्यातम् । तत्र तोरणानि चेति मूले तद् अनुक्ताव् अपि सद्रीत्य् अपेक्षया लिखितम् ॥२१.२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सौवर्णति तैर् व्याख्यातम् तत्र वलभी पटलाधारो वंश्य-पञ्जरः-तस्य चूडा व इति क्षीर-स्वामी आच्छादनं स्याद् वलभी गृहाणाम् इति हलायुधः । तत्र छाजेति भाषा मध्य-देशीयानां सा चेष्टकादि-निर्मित-गृह-प्रान्ते पाषाणादि-निर्मितच्छादना-श्रेणी बलभीश् चन्द्र-शालिकेति त्रिकाण्ड शेषः । सा च गृहोपरि गृहं तथा च माघ-काव्ये यस्याम् असेवन्त नमद् वलीकाः समं वधूभिर् वलभीर् युवान इति वेदिर् गृहाग्रे इष्टकादि-बद्धा विश्रान्तिभूः वलभ्यादिषु आविष्टा उपविष्टाः किं वा, तेषु वर्तमाना ये आविष्टा मत्ताः पारवतादयस् तैर् नादितां कारित-नादां तत् प्रतिध्वनि-युक्तान्तर् गृहाम् इत्य् अर्थः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौवर्णाः शृङ्गाटकाश् चतुष्पथा, हर्म्याणि धनि-गृहाणि । निष्कुटा गृहारामास् तैः श्रेणीनां एक-रूप-शिल्पोपजीविनां सभाभिर् उपवेश-स्थानैर् अन्यैश् च भवनैर् अलङ्कृताम्, वैदूर्यादि-रत्नैर् जुष्टेषु वलभ्य्-आदिषु आविष्टेर् उपविष्टेर् आसक्तैर् वा पारावतैर् बर्हिभिश् च नादिताम् । तत्-तत्-प्रतिध्वनिमत्त्वेन तैर् एव कारितनादाम् इत्य् अर्थः । तत्र वलभी “गृह-चूडे"ति क्षीरस्वामी । “आच्छादनं स्याद् वलभी गृहाणाम्” इति हलयुधः । “वलभी चन्द्र-शालिका इति त्रिकाण्डशेषः । सा च सर्व-गृहोपरि-वर्तिनी ज्ञेया । वेदिर् गृहाग्रे इष्टकादि-बद्धा विश्रान्ति-भूः ॥२१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२२ ॥
जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेष्व्
आविष्ट-पारावत-बर्हि-नादिताम् ।
संसिक्त-रथ्यापण-मार्ग-चत्वरां
प्रकीर्ण-माल्याङ्कुर-लाज-तण्डुलाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना लोकेषु धनुर्महख्यापनार्थं कंसेन कृतां । यद् वा, नित्योत्सवमय्यास् तत् पुर्याः स्वभावतः पैरैर् नित्य-क्रियमाणाम् अलङ्कारादि-शोभां श्री-कृष्ण-प्रवेश-मङ्गल-सूचनीं वर्णयति । संसिक्तेति सार्धेन । सं-शब्देन सम्यग्रजानाशन-पूर्वकं सुगन्धि-जलादिभिः सेको बोध्यते अङ्कुरा नवोद्भिन्नयवादयः एषां सर्वत्र सर्व-सम्भवानुक्रमो ज्ञेयः एवम् अग्रेऽपि ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जालामुखरन्ध्राणि गवाक्षच्छिद्राणि कुट्टिमानि मणिबद्धभूमयः । रथ्या राजमार्गाः, आपणाः पण्यवीथयः मार्गा अवान्तरवर्त्मानि । चत्वराण्यङ्गनानि आपूणैः कुम्भैः । दधिचन्दनेत्यादिषड्विशेषण विशिष्टैः स्वलङ्कृतानि द्वाराणि येषां ते गृहा यस्यां तां ॥२२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२३ ॥
आपूर्ण-कुम्भैर् दधि-चन्दनोक्षितैः
प्रसून-दीपावलिभिः स-पल्लवैः ।
स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः
स्वलङ्कृत-द्वार-गृहां स-पट्टिकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा स्वलङ्कृतानि द्वाराणि येषां ते गृहा यस्यां ताम् । कैः । आपूर्णैः कुम्भैर् दध्ना चन्दनेन चोक्षितैः सिक्तैः प्रसूनानां दीपानां चावलयो येषु तैः । वृन्दैः फल-गुच्छैर् उपलक्षिता रम्भाः क्रमुकाश् च तत् सहितैः । सकेतुभिः केतवो ध्वजास् तत् सहितैः । पट्टिका वितस्तिविस्तार-पट्ट-वस्त्राणि तत् सहितैः । तत्रेयं रीतिः, द्वरेषूभयतस् तण्डुलानाम् उपरि कुम्भास् तत् परितः प्रसूनावलयः कण्ठे पट्टिका मुखे चूतादि-पल्लवास् तद् उपरि पात्रान्तरे दीपा-वलयस् तत् सन्निधौ रम्भाः क्रमुकाः केतवस् तोरणानि चेति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कुम्भाद्य् अलङ्कारे । क्रमुकः पूगः
क्रमुकस् तु पुमान् भद्रमुस्तके ब्रह्म-दारुणि ।
फले कार्पासिकायाश् च पट्टिकालोध्र-पूगयोः ॥ इति मेदिनी ।
रम्भाः कदली वृक्षाः रम्भा कदल्य् असरसोर्ना वेणौ वारणान्तरे इति च ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आ शब्देन पवित्रोत्तम-जलादिना सम्यक् पूरणं बोध्यते अलङ्कृतेति सु-शब्द-सूचितं दर्शयति । दधीत्यादिभिः । अन्यत् तैः तत्र तोरणानि चेति कपाटतोरणम् इत्य् अस्माद् आकृष्टम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृन्दं फलसंहितः । रम्भाः कदल्यः, क्रमुकाः केतवो । ध्वजाः सपताकाः पट्टिकाः वितस्तिविस्तारपट्टवस्त्रखण्डानि, अत्रेयं रीतिः । द्वारेषूभयतस्तण्डुलानाम् उपरि कुम्भाः तत्परितः प्रसूनाबलयः । कुम्भानां कण्ठेषु पट्टिकाः । मुखेषुचूतादिपल्लवाः । तदुपरि स्वर्णपात्रे दीपाबलयः । कुम्भानां पार्श्वद्वये रम्भावृक्षद्वयम् । अग्रे पश्चाच्च क्रमुकवृक्षद्वयम् केतवः कुम्भालम्बाः ॥२३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२४ ॥
तां सम्प्रविष्टौ वसुदेव-नन्दनौ
वृतौ वयस्यैर् नरदेव-वर्त्मना ।
द्रष्टुं समीयुस् त्वरिताः पुर-स्त्रियो
हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नर-देव-वर्त्मना राज-मार्गेण तां पुरीं संप्रविष्टाव् इति द्वितीयान्तम् ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [+++]{।मर्क्}
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : संप्रविष्टाव् इत्य् उक्तम्, सम्यक् प्रवेशम् एष दर्शयति—वृताव् इत्य्-आदिना, समीयुः सम्यङ् नैकट्येन किं वा, सङ्घशः प्राप्ताः, एव अपि, हर्माण्यारुरुहुर् अपि, चकाराद् उच्च-प्राचीरादि च, यत उत्सुका लालसाक्रान्त-चित्ताः, स्वयम् अप्य् औत्सुक्यात् सम्बोधयति—नृपेति, वसुदेव-नन्दनाव् इति पूर्वाक्त-वसुदेव-सुताव् इतिवत् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् इति त्रिकम् । संप्रविष्टाचित्य् उक्तं सम्यक् प्रवेशम् एव दर्शयति । वृताव् इत्य्-आदिना । समीयुः सम्यक् नैकट्येन किं वा, सङ्घशः प्राप्ता एव हर्म्याणि चारुरुहुर् एव निवारिता अपि न निवृत्ता बभूवुर् इत्य् अर्थः । स्वयम् अप्य् औत्सुक्यात् सम्बोधयति नृपेति अत्र टीकायां द्वितीयान्तम् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरदेव-वर्त्मना राज-मार्गेण पुरीं प्रविष्टौ राम-कृष्णौ द्रष्टुं समुत्सुकाः पुर-स्त्रियः समीयुः संहत्य जग्मुः । हर्म्याणि च काश्चिद् आरुरुहुः ॥२४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२५ ॥
काश्चिद् विपर्यग्-धृत-वस्त्र-भूषणा
विस्मृत्य चैकं युगलेष्व् अथापराः ।
कृतैक-पत्र-श्रवणैक-नूपुरा
नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : औत्सुक्यम् एवाह द्वयेन, काश्चिद् इति । विपर्यक् विपरीतं धृतानि वस्त्राणि भूषणानि च यभिस् ताः । युगलेषु युग्म-धार्येषु कुण्डल-कङ्कणादिष्व् एकं विस्मृत्य समीयुः । कृतम् एकम् एव पत्रं ययोस् ते श्रवणे यासाम्, एकम् एव नूपुरं चरणाभरणं यासां ताश् च ताश् च । नाङ्क्त्वा अनङ्क्त्वा । एकस्मिन्न् एव लोचने अञ्जनं निधायैव ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काश्चित् पुर-स्त्रियः । पत्रं तु वाहने पर्णे स्यात् पक्षे शर-पक्षिणोः इति मेदिनी ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपराश् च । अथ अपि युगलेष्व् अप्य् अवश्यं धार्येष्व् अपि । अपरा इत्य् अग्रेऽप्य् अनुवर्तते । एवम् अग्रे एका इति च । च-शब्दोऽनुक्त-समुच्चये, तेन नीवी-विस्मरणेन स्खलत्-परिधान-वस्त्र-धारणं तादृशम् अन्यच् च ज्ञेयम् । तद् अपास्येति भोजनं त्यक्त्वा, आचमनं चाकृत्वेति बोद्धव्यम् । एका सोत्सवा विव्हाहादि-कर्म-परास् तद् अपास्य । यद् वा, सर्वत्रैव हेतुः सोत्सवा हर्ष-भराक्रान्त-चित्ता इति तथाप्य् अस्यात्रैवोक्तिः, अवश्य-कृत्याशनादि-त्याग-गौरवात् । निःस्वनं तयोः सन्दर्शनेन पौर-जनानां हर्ष-कोलाहल-शब्दम् । अर्भं निज-नव-बालकम् । मातर इति स्नेह-विशेषः सूचितः । तथाप्य् एवं यथोत्तरम् आसाम् उत्सुकत्वे श्रैष्ठ्यम् ऊह्यम् । तत्र विपर्यग्-धृत-वस्त्र-भूषणानाम् अनुसन्धानाभावेऽपि पूर्वाभ्यास-वशेन वस्त्रादि-धारणं कृतम् एव । युगलेषु विस्मृतकानां च विस्मरणेन तद्-अधारणात् पूर्वाभ्यास-लोपतः पूर्वाभ्यः श्रैष्ठ्यम् । कृतैक-पत्र-श्रवणैक-नूपुराणां च द्वितीय-नूपुराद्य्-अनपेक्षया । ताभ्योऽप्य् अपराणां च द्वितीय-नेत्रानञ्जनेन परम-वैरूप्यादाव् अनपेक्षया । ताभ्योऽपि एकासाम् अवश्य-कृत्य-कृत्र्य-भोजनादि-त्याग्येन, ताभ्योऽपि सोत्सवानां यथा-काल-कृत्योत्सव-कर्म-त्यागात् ताभ्योऽप्य् अभज्यमानानाम् अभ्यङ्गानन्तरावश्य-कृत्य-स्नान-त्यागेन दोषाद्य्-अनपेक्षया, ताभ्योऽपि निद्रितानां निद्रानस् तच्-छब्द-श्रवण-मात्रेणोत्थानात् ताभ्योऽपि मातॄणां च नूतन-बालक-स्नेह-त्यागेन, ताभ्योऽपि स्पष्टम् इत्य् एषा दिक् । अन्यथा तत्-तत्-क्रमेणोक्तेर् वैयर्थ्यापत्तिः । किं वा, आगमन-क्रमेण तासां तथोक्तम् ॥२५.२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : काश्चिद् इति । निःस्वनं निशम्येति द्वितीय-श्लोकस्थेन सर्वेषाम् एवान्वयः । तयोः सन्दर्शनेन पौर-जनानां हर्ष-कोलाहलं श्रुत्वेत्य् अर्थः । युगलेष्व् इत्य् अत्र च-कारान्वयः । एकम् इति जाताव् एकत्वं काश्चिद् विपर्यग् इत्य्-आदि-लक्षणाः सद्यो युग्मतया धारेष्व् अप्य् एकम् एकम् विस्मृत्य समीयुर् इत्य् अर्थः । अथेत्य् अर्थान्तरारम्भे अपरा एक-पत्रैक-नूपुर-मात्राभरणी-कृताङ्ग्यः सत्यो लोचनम् अङ्क्तुम् आरब्धवत्योऽप्य् एकम् अप्य् अनङ्क्त्वा समीयुः । अपरास् तु तथा-भूता द्वितीयं लोचनम् अनङ्क्त्वा समीयुर् इत्य् अर्थः । च-शब्दोऽनुक्त-समुच्चये तेनान्यद् अपि ज्ञेयम् । स्व-लोचनम् इति तु पाठो बहुत्र स्व-शब्देनावेशातिशयः सूचितस् तथापीत्य् अर्थः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : औत्सुक्यं विवृणोति द्वाभ्यां—काश्चिद् इति । विपर्यक् विपरीतं यथा स्यात् तथ् धृतानि वस्त्राणि भूषणानि च याभिस् ताः । युगलेषु धार्येषु कुण्डल-कङ्कणादिषु मध्ये एकम् एकम् विस्मृत्य समीयुः । कृतम् एकैकम् एव पत्रं श्रवणेषु याभिः । एकैकम् एव नूपुरं यासां ताश् च ताश् च ताः । द्वितीयं स्व-लोचनं न अङ्क्त्वा किं त्व् एकं वामम् एव कज्जलेनाङ्क्त्वेत्य् अर्थः। तद् अशनं सोत्सवा इति विवाहादि-कर्म परास् तत् कर्म त्यक्त्वा परिणीयमानाः कन्याश् च पति-परिक्रमणम् असमाप्यैवेत्य् अर्थः । सखीभिर् अभ्यज्यमाना एव ताः सखीस् तिरस्कृत्य अभ्यङ्गम् अप्य् असमाप्येत्य् अर्थः । न कृतम् उप् आधिक्येन मज्जनं याभिस् ताः स्नानम् अप्य् असमाप्य किल्न्न-गात्र्य एवेत्य् अर्थः । नितराम् अतियत्नेन पाययन्त्य इति स्वयं पातुम् अजानन्तं सद्य प्रसूनम् अर्भम् अप्य् अपोह्येत्य् अर्थः ॥२५-२६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२६ ॥
अश्नन्त्य एकास् तद् अपास्य सोत्सवा
अभ्यज्यमाना अकृतोपमज्जनाः ।
स्वपन्त्य उत्थाय निशम्य निःस्वनं
प्रपाययन्त्योऽर्भम् अपोह्य मातरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् भोजनं त्यक्त्वा अभ्यज्यमानाः सखीभिः क्रियमाण-तैलाभ्यङ्गाः अकृतोपमज्जना अकृतं स्नानाः । अर्भं बालकम् । अपोह्य निरस्य ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्भं बालकम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अपास्येति सर्वत्राप्य् अन्वयः । तत्र प्रथमतः तद्-भोजनं त्यक्त्वा आचमनं चाकृत्वेति बोद्धव्यम् । एकाः सोत्सवा विहारादि-कर्म-परा विवाह्यमानादयश् च तत् तद् अपासय् । यद् वा, सर्वत्रैव हेतुः सोत्सवा हर्ष-भराक्रान्त-चित्ता इति स्व-पत्न्यः स्व-पत्य उत्थाय तद् अपास्येति निद्रा-जाड्यं त्यक्त्वा इत्य् अर्थः । अर्भं निज-नव-बालकं स्तन्यं निपाययन्त्यस् तद् अपास्य तन्-निपायनं त्यक्त्वा पश्चात् तम् अप्य् अपोह्य इत्य् अर्थः । मातर इति स्नेह-विशेषः सूचितस् तथापि आसाम् एवम् अनुक्रमोक्तिः स्व-गमनानुक्रमेण ज्ञेया ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२७ ॥
मनांसि तासाम् अरविन्द-लोचनः
प्रगल्भ-लीला-हसितावलोकैः ।
जहार मत्त-द्विरदेन्द्र-विक्रमो
दृशां ददच् छ्री-रमणात्मनोत्सवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रगल्भा या लीलाः, ताभिर् हसितानि निरीक्षणानि च, तैः श्रियं रमयतीति श्री-रमणः, तेन आत्मना वपुषा तासां दृशाम् उत्सवं ददन् मनांसि जहार ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां पुराङ्गनानाम् । ईक्षणानि कटाक्ष-पातान् । उत्सवम् आनन्दम् । उत्सवो मह उत्सेके इच्छा-प्रसव-कोपयोः इति मेदिनी ॥२७॥
कैवल्य-दीपिका : स्पर्शनानन्तरत्वात् अनन्तरं सम्प्रयोगम् आह—मनांसि इति । तासां मथुरा-स्त्रीणां प्रगल्भ-प्रौढ-लीला विदग्ध-चेष्टा । विक्रमो गमनं गतिः शक्तिर् वा । दृशां दृष्टीनां श्री-रमणात्मना लक्ष्मीम् उपभुञ्जानेन शरीरेण । उत्सवं प्रीतिम् ॥२७॥ [मु।फ। ११.१९]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मनांसि तासाम् अरविन्द-लोचन इत्य्-आदि । दृशाम् उत्सवं दधत् मनो जहार, न तु बलात्कारेणाहृतवान् । द्रष्टव्यान्तरेण विनिमयं त्यक्त्वा स्वीकारस् तु न्याय्य एव, प्रथम-पुर-प्रवेशोऽन्यो योऽनुचितः परस्परावलोकन-रूपोऽयं शृङ्गारः, तेन शृङ्गार-रस-भक्ताः पुर-योषितः ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अरविन्द-लोचन इति सहज-परम-सौन्दर्यम् उक्तम् । तस्य स्वाभाविकत्वेऽपि विशेषतोऽत्रोक्तिः सौन्दर्य-विशेष-प्राकट्य-विवक्षया । इदं मनोहरणे साधनम् आद्यम् । किं च, प्रगल्भेति । प्रगल्भा प्रौढा तासां मनोहरण-समर्था या लीला भ्रू-नर्तनादि-विदग्ध-चेष्टा । मत्त-गजेन्द्राद् अपि विक्रमः पराक्रमः । किं वा, विशिष्टः क्रमो गतिर् यस्येति । सदा तादृशत्वेऽपि तासां मनोहरणाय शनैर् मन्द-गत्या विशेषतोऽत्र तद् उक्तिः । अत एव तत्-तद्-अभिप्रायेण तयोर् एतयोर् विशेषणतया निर्देशः । श्री-रमणात्मनेत्य् अनेनानुक्तम् अन्यद् अप्य् अशेष-सौन्दर्य-माधुर्यादिकं संगृहीतम् । अन्यत् तैर् व्याख्यातम् ।
तत्र ताभिर् इति प्रगल्भा या लीलास् ताभिर् इति प्रगल्भा या लीलास् ताभिर् यानि हसितादीनीत्य् एवं बहुत्वापेक्षया तथा व्याख्यानं युक्तम् । यद् वा, प्रगल्भ-लीला भ्रू-नर्तनादिश् च हसितं चावलोकनम् अपाङ्गेक्षणं च, तैः । यद् वा, प्रगल्भया किं वा, प्रगल्भः प्रौढस् तद्वल् लीलया यानि हसितादीनि । एतानि तस्य सहजान्य् एव, तेषु दृश्यमानेषु तासां मनोहरणम् । किं च, श्री-रमणात्मनेति । एवं दृग्-उत्सव-दानस्य साधनान्य् उक्तानि ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दूरतस् तावत् श्रियोऽपि रति-जनकेन , तत्रापि मत्त-द्विरदेन्द्र-विक्रमत्वेन दृश्यमानो दृशां तं ददत्वपुषैव दृशाम् उत्सवं ददत्, नैकट्ये तु सति तत्राप्य् अरविन्द-लोचनतया दृश्यमानो दृशां तं ददत् । तत्रापि प्रगल्भ-लीला-हासितावलोकनैर् दृशां तं ददत्, तासां मनांसि जहारेत्य् अर्थः ।
प्रगल्भा मनो-हरण-समर्थाः कैशोरत्वेन वैदग्धी-पराकाष्ठां प्राप्ता वा या लीला भ्रू-नर्तनादयः, हसितानि च तत्-तद्-भाव-सूचक-स्मित-भेदास्, तद्-युक्तैर् अवलोकनैर् इति मत्त-द्विरदस्येव विक्रमः, पराक्रम-विशिष्ट-चरण-न्यासो यस्येति च विग्रहः । जात्य्-अपेक्षया एकत्वेनाप्य् अर्थ-सिद्धौ मनांसीति व्यक्त्य्-अपेक्षया बहु-वचनं, ह्रियमाण-बाहुल्यस्य स्पष्टी-भावनैवार्थ-चमत्कारः स्याद् इति ।
जहारेति मनसां निधित्वोत्प्रेक्षा व्यञ्जिता तेन तल्-लोभ्यत्वं च युक्तं च तत् स-प्रेमत्वात् तेषाम् उत्सवं ददत् जहारेति श्लेषेण हरन-चातुरी दर्शिता । अन्योऽपि चतुर-लब्धो महोत्सवादिभिर् जनान् प्रलोभ्य तद्-धनानि गृह्णातीति । इयं दर्शन-क्रमेण व्याख्या पाठ-क्रमेण त्व् एवम् अरविन्द-लोचन एव सन् जहार, किम् उत सर्व-विलासोपरि-चरता दृशावलोकनैः तादृश-विक्रम एव जहार, किम् उत तादृश-तद्-अधिकाधिकानन्त-लीलाश्रयता-तादृश-खण्ड-वपुषेति । अत एव साधकतमत्व-विवक्षया उत्तरोत्तरत्र तृतीया ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मनांसि तासाम् इत्य्-आदि । दृशाम् उत्सवं दधत् तासां मनांसि जहार, न तु बलात्कारेण हृतवान् । द्रव्यान्तरेण विनिमयं कृत्वा द्रव्य-स्वीकारो न्याय्य एव, प्रथम-पुर-प्रवेशे बलात्कारोऽनुचित एवेति ददद् इत्य् अस्य भावः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रिया स्व-शोभयैव रमयति मथुराङ्गनाः क्रीडयतीति श्री-रमणः, तेनात्मना देहेन दृशाम् उत्सवं ददत्, मनांसि तासां जहारेति चाक्षुष-सम्भोग-दानेन ता विह्वलीकृत्यालक्षितम् एव मनो-रत्नानि चोरयामासेत्य् अर्थः ॥२७॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.२८ ॥
दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसस् तं
तत्-प्रेक्षणोत्स्मित-सुधोक्षण-लब्ध-मानाः ।
आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं
हृष्यत्-त्वचो जहुर् अनन्तम् अरिन्दमाधिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुहुः श्रुतत्वात् तद्-गत-चेतसः सद्यस् तं दृष्ट्वा, तस्य प्रेक्षणं चोत्स्मितं च, तद् एव सुधा । सुधा तयोक्षणं सेचनं, तेन लब्धो मानो याभिस् ताः । दृशोद्घाटितेन नेत्र-द्वारेणात्मनि मनसि लब्धं प्राप्तं परिष्वज्य, तद्-अप्राप्ति-जनितम् अनन्तम् आधिं मानसीं व्यथां जहुः । हे अरिन्दम ! निर्जित-कामेति सम्बोधनं शृङ्गार-रसे निमग्नो मा भूर् इति ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-गत-चेतसः कृष्ण-गत-चेतसः । तं श्री-कृष्णम् । तस्य कृष्णस्य । उत्स्मितम् उत्कृष्ट-स्मितम् । तद् एवोत्स्मितम् एव । तया सुधया । तेन सेचनेन । ता गोप्यः । तस्य कृष्णस्याप्राप्त्या जनितम् । एकदापि कृष्णो न दृष्टोऽमाभिर् इत्य् एवम् आधिं मनः-पीडाम् । उप्ंस्य् आधिर् मानसी व्यथा इत्य् अमरः । हृष्यन्ती त्वग् यासां ताः, रोमाञ्चिताङ्गा इत्य् अर्थः । हे अरिन्दम ! इति एतादृश-भगवच्-चरित्र-श्रवण-मननादिनैव त्वया कामादयोऽरयो विजिता इति भावः ॥२८॥
कैवल्य-दीपिका : दृष्ट्वा इति । मुहुर् वारं वारं श्रुतम् । श्री-कृष्णं दृष्ट्वा अनुद्रुत-चेतसः गच्छन्तं श्री-कृष्णं चित्तेन अनुगच्छन्त्यः । तत् किम् अभ्युपहता एव ? नेत्य् आह—तद् इति । तत् तथा-विधं भावावबोधन-क्षमं यत् प्रेक्षणम् उत्कृष्टं च स्मितम् । तद् एव निर्वापकत्वात् सुधा तया ऊक्षणं सेचनं, तेन लब्ध-मानाः कृत-स्वीकाराः । उपगूहनम् आलिङ्गनम् । तत् किं प्रकाशम् एव ? नेत्य् आह—दृशा आत्मना बुद्ध्या लब्धं प्राप्तम् । एवम् आदाव् अन्तर् बहिर् इह प्रयोज्यम् इत्य्-आदि काम-तन्त्रानुसारेण बाह्याभ्यन्तरम् उक्त्वा आधिं जहुर् इत्य् अन्तरम् आह । आधिं तद्-अप्राप्ति-दुःखम् । अनन्तं चिरं सञ्चितम् । यद् वा, अनन्तं यथा स्यात् तथा जहुः ।
अत्रैव सात्त्विकानुभावम् आह—हृष्यत्-त्वच इति । प्रगल्भ-लीलादय उद्दीपन-विभावाः । सञ्चारिणः स्वयम् ऊह्याः । स एव भगवता पुर-स्त्री-बुद्धि-कामिनीनां संश्लेष-रूपः कविना मानसः सम्प्रयोग उक्तः । शरीरं तु पशु-धर्मत्वेन ग्राम्यत्वात् एतत् प्रकर्षत्वात् विशिष्ट-देवता-विषयत्वेन वर्णनीयत्वाच् च नोक्तः । रत्य्-आदि-शब्द-वाच्यत्वेनाचारुत्वात् हृष्यत्त्वं च इत्य् अनुभव-द्वारैवोक्तः । हे अरिन्दम ! परीक्षित् ! अरयोऽत्र कामादयः षड् वर्ण्यमान-शृङ्गार-निर्भर-चित्तो माभूद् अयम् इति उचितम् सम्बोधनम् ॥ ॥२८॥ [मु।फ। ११.२०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ताश् च मनसा आनन्द-मूर्तिम् उपगुह्य आधिं संसार-पीडां जहुः । तेनैव कृतार्थाश् च बभूवुः ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुद्रुतं वेगेन पश्चात् संलग्नम् । किं वा, निरन्तरं प्रेम्णा द्रवीभूतं चेतो यासां ताः । एतच् च श्रवणेनैव पूर्वम् एव । अधुना दर्शनेन वा । अयम् उपगूहने हेतुः । किं च, तद् इति उत् उत्कृष्टं स्मितम् । यद् वा, तासां श्री-कृष्ण-प्रेक्षणेन तस्य यद् उद्गतो मानः सम्मानः अनन्तम् अपि जहुः । तत्र हेतुः—आनन्द-घन-विग्रहम् । तम् उपगुह्येति, तत् कथम् आत्म-लब्धं मनसैवेत्य् अर्थः । तद् अपि कथं दृशेति साक्षाद्-दृष्ट्या मनसि साक्षाद् इव परिस्फूर्त्या तत्र नितरां साक्षाद् इवालिङ्गन-सम्पत्तेर् इत्य् अर्थः । उपगूहन-लक्षणं हृष्यत्-त्वचो महा-पुलकाञ्चित-सर्वाङ्ग्य इत्य् अर्थः । भक्ति-विघ्नः शुष्क-तर्कादिर् एवारिः, तद्-दमनेनैव त्वां प्रति रस-विशेषोऽयं वर्ण्यत इति भावः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुद्रुतं वेगेन पश्चात् संलग्नं किं वा, निरन्तरं प्रेम्णा द्रवीभूतं चेतो यासां ताः । एतच् च श्रवणेनैव सुतरां तु दर्शनेन श्रयम् उपगूहने हेतुः । किं च, तद् इति उत् उत्कृष्टं स्मितम् । यद् वा, तासां श्री-कृष्ण-प्रेक्षणेन तस्य यद् उद्गतं स्मितं मानः सम्मानः अनन्तम् अपि जहुः । तत्र हेतुः—आनन्द-घन-विग्रहं तम् उपगुह्येति तत् कथम् आत्म-लब्धं मनो-लब्धत्वेन मनसैवेत्य् अर्थः । तद् अपि कथं दृशेति दृशा स्व-लब्धम् इति तस्यां दृशि बाष्पेण वा लज्जया वा मोहेन वा मुद्रितायां सत्यां मनसि साक्षाद् इव परिस्फूर्त्या तत्र नितरां साक्षाद् इवालिङ्गन-सम्पत्तेर् इति भावः । उपगूहन-लक्षणं हृष्यत्-त्वचः महा-पुलकाचित-सर्वाङ्ग्य इत्य् अर्थः । एतादृशः श्री-कृष्ण-विषयक-प्रेम-रस-विशेषे विघ्नः प्राकृत-शृङ्गारादि-रसः नातिविचारस् तस्मिन्न् अपि दृष्टिर् एव वा । अरिः हे तद्-दमनेति तद्-दमनत्वेनैव त्वां प्रति रस-विशेषोऽयं वर्ण्यते, अन्यथा न वर्णयिष्यत्य् एवेति भावः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दृष्ट्वा मुहुः श्रुतम् इत्य्-आदि । आनन्द-मूर्तिं मूर्तानन्दम् इत्य् अर्थः । तथा चोक्तम्—
आनन्दो द्विविधः प्रोक्तो मूर्तामूर्त-प्रभेदतः ।
अमूर्तस्याश्रयो मूर्तो मूर्तानन्दोऽच्युतो मतः ॥
इति दिशात्मनि हृदये लब्धं दृशा समाप्य आत्मनि लब्धम् इत्य् अर्थः । आधिं चिरोत्कण्ठाकृतां मानसीं व्यथाम् ॥२८.३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुद्रुतानि दर्शनं लक्ष्यीकृत्यैव द्रवीभूतानि चेतांसि यासां ताः । तत्-कर्तृकं प्रेक्षणम् उत्कृष्टं स्मितं च सुधा तत्त्व् यद् उक्षणं सेचनं ते लब्धो मान आदरो याभिस् ताः । दृशा एकस्यैव नेत्रस्यापाङ्ग-द्वारेण उद्घाटितेन आत्मनि मनसि लब्धं प्राप्तं यच्-छब्देनेवोपगुह्य तद्-अप्राप्ति-जनितम् अनन्तम् आधिं जहुः । हे अरिन्दम ! इति एतादृश-भगवच्-चरित्र-श्रवण-मननादिनैव त्वया कामादयः शत्रवो जिता इति भावः ॥२८॥
॥ १०.४१.२९ ॥
प्रासाद-शिखरारूढाः प्रीत्य्-उत्फुल्ल-मुखाम्बुजाः ।
अभ्यवर्षन् सौमनस्यैः प्रमदा बल-केशवौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सौमनस्यैः कुसुम-समूहैः शोभन-मनो-भावैर् वा ॥२९.३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुसुम-वृष्टेर् अपि सुमनस्त्वं हरे आनन्द-जनकम् इति मत्वाह—शोभन-मनो-भावैर् इति ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आधित्याग-लक्षणम् आह—प्रासादेति । पूर्वं हर्म्याण्यारुरुहुर् इत्य् उक्तम् इदानीं च प्रासादानां शिखराण्यग्र-भागान् आरूढा इत्य् औत्सुक्य-विवृद्ध्यात्य् उच्चैः स्थितिः सम्यग्-दर्शनार्थम्, बलं केशवञ्चाभितोऽवर्षन्, एकत्रैव वर्तनानत्वात्, । यद् वा, श्री-कृष्णाग्रजत्वेन तस्मिन्न् अपि भक्तेः । प्रमदाः श्री-कृष्ण-भावेन प्रकृष्टो मदो मत्तता यासाम् इति भावः । अयम् अभिवर्षणे हेतुः ।
ननु, कंसात्ताः कुतो न विभ्यति स्म ? तयोः प्रभावाद् इत्य् आशयेनाह—बलाधिक्याद् बलः, हेलया महा-बलिष्ठ-केशि-हननात् केशवस्ताव् इति । यद् वा, केशाः परमोत्तमाः सन्त्यस्येति केशव इति परम-सौन्दर्यम्, तत्र च बल-साहित्येन शोभाधिक्यं चोक्तम् । इदम् अभिवर्षणे हेत्वन्तरम् । कंसाद् भयं च प्रमदात्वेन परिहृतम् एव स्यात् । बलस्यादौ निर्देशः ज्येष्ठत्वेनाग्रे गमनात् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आधित्याग-लक्षणम् आह । प्रसादेति । पूर्वं हर्म्याण्यारुरुहुर् इत्य् उक्तम् । इदानीं च प्रसादाग्रम् आरूढा इत्यौत्सुक्याधिक्यं दर्शितं बलं केशवं चाभितो वर्षन् एकत्र स्थितत्वात् । यद् वा, श्री-कृष्णाग्रजत्वेन तस्मिन्नोपभुक्तेः प्रमदाः श्री-कृष्णेन प्रकृष्टमदा इत्य् एव तात् पर्यम् अयम् अभिवर्षणे हेतुः कंसाद् अभये च बल-केशवाव् इति बलाधिक्यकेशि-हन्तृत्वस्फूर्तेः सर्वेषां तदा तद् विषयकम् अपि भयं न जातम् इति भावः । बलस्यादौ निर्देशः श्रेष्ठत्वेनाग्रे गमनात् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुमनसां तासां कर्माणि भवेङ्गितानि सौमनास्यानि तैर्हेतुभिरभ्यवर्षन् कुसुमानि स्मितानि वेति शेषः ॥२९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३० ॥
दध्य्-अक्षतैः सोद-पात्रैः स्रग्-गन्धैर् अभ्युपायनैः ।
ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ बल-कृष्णौ । तत्र तत्र स्थले स्थले । उद-पात्रं पाद्याद्य्-अर्थम् । उपायनैर् उपवीत-फलाद्यैः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं प्रायो मृदुलतर-हृदयतया भाव-विशेष-युक्ताभिः स्त्रीभिर् आदौ श्री-भगवत्-सम्माननम् उक्त्वाधुना ब्राह्मणैः कृतम् आह—दधीति । उदक-पात्र-सहितैर् दध्यादिभिः, पात्राणाम् उक्तिर् जलस्य पान-सुशैत्याद्य् अर्थम्, तद्-ग्रहणाद् उपायनैर् घृत-पक्व-ताम्बुलाद्य् उत्तम-द्रव्यैः । नन्व् एतेऽपि कथं कंसाद्-भयं नाकुर्वन् ? तत्राह—प्रकर्षेण मुदिताः परमानन्देन तद् भयापगमादित्य् अर्थः । अनेनार्चन-विधौ भक्ति-श्रद्धा-सम्यक्त्वादिकम् अपि सूचितम् यद्य् अपि द्वि-जाति-शब्देन त्रैवर्णिका गृह्यन्ते, तथाप्य् अत्र विप्रा एव ज्ञेयाः, अग्रे वाणिज्य-वृत्तीणां वैश्यानाम् उक्तेः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं प्रायो मृदु-लतम् अहृदयतया भाव-विशेष-युक्ताभिः स्त्रीभिर् आदौ श्री-भगवत् संस्मानम् उक्त्वा ब्राह्मणैः कृतम् आह । दधीति । उदक-पूर्ण-घट-सहितैर् दध्य्-आदिभिः उपायनैर् अप्य् अन्यैर् मङ्गलायन-फलादिभिः नन्वेतेऽपि कथं कंसाद् भयं नाकुर्वन् तत्राह । प्रकर्षेण मुदिताः अहो सोऽयं भगवान् इति परमानन्देन तद् भयापगमाद् इति भावः । अत्र द्विजा विप्रा एवमाग्रे वैश्यामाम् उक्तेः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.३१ ॥
ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् ।
या ह्य् एताव् अनुपश्यन्ति नर-लोक-महोत्सवौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पौराः पुर-स्त्रियः ॥३१.३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : या गोप्यः । एतौ बल-कृष्णौ । प्रेक्षणेनैवातीवानन्द-जनकत्वान् नरो लोक्यते निजानन्द-प्रदत्वेन येन स नर-लोकः । यद् वा, नरैर् लोक्यते निजानन्द-प्रदत्वेन यः स नरलोकः स्त्री-जनस् तस्य महान् कथनस्याप्य् अगोचर उत्सवो याभ्यां तौ तथा । पौराः पौर्यः, केवल-गोपीनां श्लाघनात् । ङीबभावस् त्व् आर्षः । यद् वा, एवं स्त्री-पुंसानां सर्वेषाम् एव प्रमोदम् उक्त्वा तत्र च प्रायो रूप-दर्शनम् एव कारणम् इति बोधयंस् तन् माहात्म्यं तात्पर्येणाह—ऊरुर् इति । पुरौकसः सर्वेऽपि किमूचुस् तद् आह—अहो इति । तत्र गोप्य इत्य् उपलक्षणं नरलोको भूर्लोकस् तत्रावतीर्णत्वेन तत्-प्राधान्यात् । यद् वा, नराणाम् इत्य् उक्त्वा सतोषाभावाद् आहुः—लोकानां चतुर्दश-भुवनानाम् अपि । यद् वा, नरलोको जीवलोकस् तेषां सर्वेषाम् अपि महान् उत्सवो याभ्यां तौ महोत्सवरूपाव् इति वा । अनु निरन्तरं पश्यन्तीति वर्तमान-निर्देशः पुनस् तत्र गमन-सम्भावनात् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पौराः प्रवयसः स्त्रियश् च पुत्र-भावेन । गोप्यो यशोदादि-प्रवयसः ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्त्री-पुरुषाणाम् सर्वेषां प्रमोदम् उक्त्वा । तत्र च प्रायो रूप-दर्शनम् एव कारणम् इति बोधयन् तन् माहात्म्यं तात्पर्येणाह—ऊचुर् इति । ई-प्रत्याभाव आर्षः, पौराः पौर्य इत्य् अर्थः । अन्यथा केवलं श्री-गोपीनाम् एव तपःश्लाघानुपपत्तिः । यद् वा, पुरवासिनः सर्वेऽपि जनाः, ततश् च गोप्य इति तासाम् एव सर्व-चमत्कार-करेण भाव-विशेषेण प्रसिद्धत्वात् । किम् ? तद् आह—अहो इत्य् आश्चर्ये । गोप्यो वन्य-स्त्रियो महत् सर्वोत्कृष्टं तपः पुण्यं किं कतरच् चक्रुः ? हि निश्चितम् । नव-लोको भू-लोकः ।
यद् वा, आदौ नराणाम् इत्य् उक्त्या सन्तोषभावाद् आहुः—लोकानां चतुर्दश-भुवनानाम् अपि । यद् वा, नरा जीवास् तेषां लोको दृष्टिस् तस्य महानुत्सवो याभ्यां तौ महोत्सव-रूपाव् इति वा । अनु निरन्तरं पश्यन्तीति वर्तमान-निर्देशः, पुनस् तत्र गमन-मननात् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पौराः पौर्यः केवल-गोपीनां श्लाघनात् । डीप् प्रत्ययाभावः आर्षः । यद् वा, एवं स्त्री-पुषानां स्वेषाम् एव प्रमोदम् उक्त्वा तत्र च प्रायो रूप-दर्शनम् एव कारणम् इति बोधयन् तन् माहात्म्यं तात्पर्येणाह ऊचुर् इति । पुरौकसः सर्वेऽपि किमूचुस् तद् आह अहो इति । तत्र गोप्य इत्य् उपलक्षणम् । नर-लोको भूर् लोकः तत्रावतीर्णत्वेन तत् प्राधान्यात् । यद् वा, नराणाम् इत्य् उक्त्वा सन्तोषाभावाद् आहुः लोकानां चतुर् दशभुवनानाम् अपि । यद् वा, नर-लोका जीव-लोकास् तेषां सर्वेषाम् अपि महानुत्सवो याभ्यां तौ महोत्सव-रूपाव् इति वा । अनु निरन्तरं पश्यन्तीति वर्तमान-निर्देशेशः पुनस् तत्र गमन-सम्भावनात् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ऊचुः पौरा इत्य्-आदि । पौराः पुर-जन-स्त्रियः पुरुषाश् च । गोप्य इति सत्सु सर्वेषु व्रज-जनेषु तासां दर्शनातिशयानुराग-भाक्त्वात् प्रधानतया निर्देशः ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पौराः पुर-वासि-स्त्री-जनाः ॥३१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३२ ॥
रजकं कञ्चिद् आयान्तं रङ्ग-कारं गदाग्रजः ।
दृष्ट्वायाचत वासांसि धौतान्य् अत्युत्तमानि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रजको वस्त्र-निर्णजकः स एव वस्त्राणां रङ्गम् अपि कुर्वन् रङ्ग-कारः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ श्रुति-विहित-रजक-वधमालाकार-कुब्जाद्य् अनुग्रहम् आह—रजकम् इति । तथाह श्रुतिः--युवं वस्त्राणि पीवस वसाथे युवोर् अच्छिद्रामन्तवो ह सर्गाः इति । अर्थस् तु—युवं युवाम् । पीवसा बलेन रजकं हत्वेत्य् अर्थः । वस्त्राणि वसाथे । युवोर् युवयोः । मन्तवो मानयितारः—मालाकार-कुब्जा-प्रभृतयः । सर्गाः सृजन्ति माल्यानुलेपनादिकं ये ते सर्गाः । अच्छिद्रा नीचत्व-कुब्जत्व-दोष-हीना भवन्तीति । एवं शिष्टानां परमानन्देन तत्-सम्माननम् उक्त्वा दुष्टानां तद् वैपरात्यं दर्शयन्नादौ रज-वधम् आह—षड्भिः । किञ्चिद् दत्यस्वभावं कंसानुगम् इत्य् अर्थः । अत उक्तं वैष्णवे—कृष्णस् तस्य दुरात्मनः इति । रङ्गकारम् इत्य् अनेन तस्य विक्रतव्यान्य् अपि कतिचिद् वस्त्राण्यासन् । वञ्चनार्थम् एव तु राज-वस्त्राणीति वक्ष्यतीति भावः । वस्त्र-धावन-स्थानात् पुर्य्-अन्तर् आगच्छन्तिम् इति, तद् अपि मङ्गलम् एकम् इति सूचितम् । धौताम्बरश् च रजकोऽपि शुभाय दृष्टः इत्य्-उक्तेः । गदाग्रज इत्य् अनुप्रासरक्षार्थं, रजरङ्गेति वारद्वय-श्रवणात् । यद् वा, गदोऽपि तादृशत्वेन प्रसिद्धः किम् उत तद् अग्रजः स्वयं भगवान् इति ज्ञापनार्थम् । एवं यदुकुल-लीलारम्भे गुणतः श्री-राम-कृष्णेतर-सर्व-भ्रातृ-गण-मुख्यस्य गदस्यापि जन्म सूचितम् । गदौ च द्वौ । बलं गदं सारणं च इति रौहिणेयः । देव-रक्षितया लब्धा नव चात्र गदादयः इति । दैव-रक्षितेयश् चेति । तत्र रौहिणेयस्य जन्माभावाद् अन्यतर एव गृह्यतेऽत्र । स चानन्तर-कनिष्ठः, श्री-कृष्णश् चानन्तरज्येष्ठः । श्री-रामवदेव सहविहारी भविष्यतीति सूचितम् । अत एव कच्चिद् गदाग्रजः सौम्य इति श्री-गोपीभिः, मम गदाग्रज एत्य पाणिम् इति श्री-रुक्मिण्या च वक्ष्यत इति ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं शिष्टानां परमानन्देन तत्-सम्माननम् उक्त्वा दुष्टानां तद् वैपरीत्यं दर्शयन्न् आदौ रजक-वधम् आह—रजकम् इति षड्भिः । कञ्चित् दुष्ट-दैत्य-स्वभावं कंसानुगम् इत्य् अर्थः । अत एवोक्तं श्री-पराशरेण कृष्णस् तस्य दुरात्मनः [वि।पु। ५.१९.१६] इति, रङ्गकारम् इत्य् अनेन तस्य तद् वस्त्र स्वामित्वम् अपि ध्वनितम् । केवलं वञ्चनार्थं राज-वस्त्राणीति मृषा वक्ष्यति, वस्त्र-धावन-स्थानात् पूर्यन्त-रागच्छन्तम् । गदाग्रज इत्य् अशेष-भगवत्ता-प्रकटनेन महा-रसिकता सूचिता । किं च, तथा यद्-कुलत्वेन तद् रजक-सम्मान्यता च, तद् अग्रजतया तादृश-पौर-वस्त्राण्य् अर्हत्य् एवेत्य् अयाचत, धौतानि प्रक्षालित-नूतन-कार्पासिकादीन्य् अत्य् उत्तमान्यभि-नवसुरञ्जित-दिव्य-पट्ट-वस्त्रादीनि च ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कश्चिद् दैत्य-स्वभावं कंसानुगमम् इत्य् अर्थः । अत उक्तं वैष्णवे कृष्णस् तस्य-दुरात्मन इति । रङ्गकारम् इत्य् अनेन तस्य विक्रेतव्यान्य् अपि कतिचित् वस्त्राण्य् आसन् । वञ्चनार्थम् एव तु राज-वस्त्राणीति वक्ष्यतीति भावः । वस्त्र-धवन-स्थानात् पुर्यन्तरागच्छन्तम् इति तद् अपि मङ्गलम् एकम् इति सूचितं सधौत-वस्त्रो रधकस् त्वद् अन्य इत्य् उक्तेः गदाग्रज इत्य् आनुप्रासरक्षार्थं रङ्ग-रङ्गेति वार-द्वय-शरवणात् । यद् वा, गदोऽपि तादृशत्वेन प्रसिद्धः किम् उत तद् अग्रजः स्वयं भगवान् इति ज्ञापनार्थम् एवं यदुकुल-लीलारम्भे गुणतः श्री-राम-कृष्णेतर-सर्व-भ्रातृ-गण-मुख्यस्य गदस्यापि जन्म सूचितं गदौ च द्वौ । बलं गदं सारणञ्चेति रौहिणेयः देव-रक्षितया लब्धा नव चात्र गदादय इति देव-रक्षितेयश् चेति । तत्र रौहिणेयस्य जन्माभावात् । अन्यतर एवात्र गृह्यते । स चान्तर कनिष्ठ श्री-कृष्णस्यानन्तर-ज्येष्ठः श्री-रामवद् एव सह-विहारी भविष्यतीति सूचितम् । अत एव कच्चिद् गदङ्रजः सौम्येति श्री-गोपीभिर् मम गदाग्रज एत्य पाणिम् इति रुक्मिण्या च वक्ष्यते इति ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रजको वस्त्र-निर्णेजकः स एव वस्त्राणां रङ्गम् अपि कुर्वन् रङ्ग-कारस् तम् ॥३२.३४॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३३ ॥
देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः ।
भविष्यति परं श्रेयो दातुस् ते नात्र संशयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्हतोरित्य् उक्त्या भगवता स्वस्य नरेश-कंस-भागिनेयत्वेन सर्व-पूजा-पूज्यत्वं द्योतितम् । समुचितानि अस्मद् धृति-योग्यानि, प्रमाणतो वर्णतो वा । परं श्रेयस् तु तेऽदातुर् अपि भविष्यति किं पुनर् दातुर् इत्य् असंशयमेवेति । कथम् अयाचत तद् आह—देहीति । समुचितानि परिधान-योग्यानि । अङ्ग हे रजक । न वक्तव्यमेतद् वस्त्रयोग्यौ युवां न भवथ इत्य् आह—अर्हतोर् इति ।
ननु, मूल्यं विना कथं देयानीति चेत् तत्राह—भविष्यतीति । परमुत्तमं श्रेयो मङ्गलम् औहिकामुष्मिकिं च, किञ्चिद् विलम्बेन मूल्यम् अधिकं देयं पुण्यं च परमं भावीत्य् अर्थः । दुष्टं प्रत्यपीदृशं मधुर-वाक्यं निज-सौशील्येनायत्यां भक्त-जनासह्यनिज-कीर्ति-परिहारेच्छया, श्लेषादकार-प्रश्लेषेणादातुश् च, परलोके भक्ति-सुखमयं वैकुण्ठ-प्राप्ति-लक्षणं परं श्रेयो न भावि किन्तु तद्-बाह्यं केवलं कैवल्यम् एव । अत्र च संशयो जीवने सन्देहः, मरणम् एवेत्य् अर्थः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथम् अयाचत ? तद् आह—देहीति । समुचितानि परिधान-योग्यान्य् अङ्गस्य वासांसि देह-वर्णाकारानुरूपाण्य् एव वस्त्राणि, अङ्ग हे रजकेति वा, न च वक्तव्यम्, एतद् वस्त्र-योग्यौ युवां न भवथ इत्य् आह—अर्हतोर् इति ।
ननु, मूल्यं विना कथं देयानीति चेत् तत्राह—भविष्यतीति । परमुत्तमं श्रेयो मङ्गलम् ऐहिकम् आमुष्मिकं च, कियद् विलम्बेन मूल्यम् अधिकं देयम्, पुण्यं च परमं भावीत्य् अर्थः । अवश्य-वध्यं प्रत्य् अपीदृशं मधुर-वाक्यं लोके निज-दोष-परिहाराय, श्लेषेण च अकार-प्रश्लेषात्—अदातुस् ते परलोके वैकुण्ठ-प्राप्ति-लक्षणं परं श्रेयो न भावि, किन्तु केवलं शुष्क-मुक्तिर् एव । अत्र च संशयः—जीवने सन्देहः, मरणम् एवेत्य् अर्थः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथम् अयाचत तद् आह । देहीति । समुचितानि परिधान-योग्यानि स्व-स्व-वर्णाकार-योग्यानि अङ्ग हे रजक ! न वक्तव्यम् एतद् वस्त्र-योग्यौ युवां न भवथ इत्य् आह—अर्हतोर् इति । ननु, मूल्यं विना कथं देयानीति चेत्, तत्राह—भविष्यतीति । परम् उत्तमं श्रेयो मङ्गलम् ऐहिकम् आमुष्मिकं च । कियद् विलम्बेन मूल्यम् अधिकं देयं पुण्यं च परमं भावीत्य् अर्थः । दुष्टं प्रत्य् अपीदृशं मधुर-वाक्यं निज-सौशील्येनायत्यां भक्त-जना-सह्य-निजाकीर्ति-परिहारेच्छया च श्लेषाद् अकार-प्रश्लेषेणादातुस् ते परलोके भक्ति-सुखमयं वैकुण्ठ-प्राप्ति-लक्षणं परं श्रेयो न भावः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.३४ ॥
स याचितो भगवता परिपूर्णेन सर्वतः ।
साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रुषितः कुपितः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स रजकः । सर्वतः परिपूर्णस्य याचनम् अपि तद्-अनुग्रहार्थम् एवेति भावः । साक्षेपं भर्त्सनां कुर्वन्, आक्षेपो भर्त्सनाकृष्टि-काव्यालङ्कृतिषु स्मृतः इति मेदिनी । सुदुर्मदः प्राप्ताल्प-भृतित्वात् । नृपाप्त-विशेष-भृतिको राज-पुरुषः क्षमी, तद्-इतरो विपरीत इति प्रत्यक्षं लोके इति । सर्वतः परिपूर्णेन कौतुकाद् एवेति भावः । सुदुर्मदत्वं तूक्तं वैष्णवे--कंसस्य रजकः सोऽथ प्रसादारूढ-विस्मयः [वि।पु। ५.१९.१५] इति । मुदुर्मुचः इति पाठे परम-दुर्वचनः प्राप्तारिष्टाय मुर्खाय सृजते वाङ्मयं विषम् [ह।वं। २.२७.१५] इति हरिवंशोक्तेः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वतः परिपूर्णेन इति तद्-वस्त्रादौ निरपेक्षत्वम्, तादृश-तद्-उत्तमानन्त-वस्त्राणां सद्यः सम्पादन-सामर्थ्यामृत-समुद्र-लाभात्4, तथापि याचितः । किम् अर्थम् ? भगवता भू-भार-हरणार्थम् अवतीर्णेन साक्षाद् ईश्वरेणेत्य् अर्थः । सद्यस् तद्-वधस्य कारणोत्थापनार्थम् इति भावः । यद् वा, परिपूर्णेनेत्य् अत्र हेतुः—भगवता सर्वैश्वर्य-युक्तेनेति, प्रकर्षेण विस्तरेणाह । साक्षेप-प्रोक्तौ हेतुः—कंसस्य भृत्यः, अत एव सुदुर्मदः परम-दुष्टाभिमानः । तथोक्तं श्री-पराशरेण—
कंसस्य रजकः सोऽथ प्रमादारूढ-विस्मयः ।
बहून्य् आक्षेप-वाक्यानि प्राहोच्चैः राम-केशवौ ॥ [वि।पु। ५.१९.१५] इति ।
"सुदुर्मुखः" इति पाठे परम-दुर्वचनः । तद् उक्तं श्री-वैशम्पायनेन हरि-वंशे—प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विषम् [ह।वं। २.२७.१५] इति । किं वा, सदैव सर्व-लोकान् प्रति दुरुक्त्या सुदुर्मुख इति नामत्वात् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुदुर्मदत्वम् उक्तं वैष्णवे—कंसस्य रजकं सोऽथ प्रासाद् आरूढ-विस्मय [वि।पु। ५.१९.१५] इति । "सुदुर्मुख" इति पाठे परम-दुर्वचनः । तद् उक्तं श्री-हरि-वंशे—प्राप्ताव् इष्टाय मूर्खाय सृजते वाङ्मयं विषम् [ह।वं। २.२७.१५] इति ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.३५ ॥
ईदृशान्य् एव वासांसि नित्यं गिरि-वने-चराः ।
परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे उद्वृत्ताः ! गिरौ वने चरथ ये नित्यं ते यूयं पूर्वं परिधत्त इति सम्भावनायां लोट् । अभीप्सथ प्रार्थयध्वम् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साक्षेप-वाक्यं विवृणोति—ईदृशानि इति । उद्वृत्तम् उत्तमाचारे तथैवोच्छृङ्खलेऽनृजौ इति धरणिः । **गिरि-वनेचर-**उक्तेर् नेदृग्-वस्त्रार्हा यूयं वनौकसः पक्ष्य्-आदिवद् इति भावः । किम् अत्र निषेधे वा वितर्के, कुत्सायां किं वितर्के च निषेध-प्रश्नयोर् अपि इति मेदिनी । हे उद्वृत्ताः ! राजतो निःशङ्क-चेष्टा यतो गिरिवनेचराः, तादृशा यूयम् ईदृशान्य् एव वासांसि परिधत्त, तर्हि किं कथं राज-द्रव्याण्य् अभीप्सथ ? अत्र च हेतुर् गिरिवनेचरा इति । तथापि वञ्चनार्थं सत्य-मुद्रया वावदद् इति किम् अभीप्सथेत्य् उक्तम् ।
यद् वा, ईदृशान्य् एव वासांसि किं परिधत्त, येनोद्वृत्ताः सन्तो राज-द्रव्याभीप्सथ, वस्तुतो न परिधत्त न तद्-अभीप्सा च योग्या, किन्तूद्वृत्तत्वम् एव युष्माकम् अवशिष्यत इति भावः । अत्र यद्य् अपि परिपूर्णेन सर्वतः [१०.४१.३४] इति, श्यामं हिरण्य-परिधिम् [१०.२३.२२] इत्य्-आद्य्-उक्तानुसारेण तद् वस्त्रं तु सर्वोत्कृष्टम् एव । तद् उक्तं वृन्दावन-विहारे पराशरेणापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [वि।पु। ५.९.५] इति । तथाप्य् आसुर-दृष्ट्या तत्-सौन्दर्यं न च दृश्यत इति तथोक्तम् ।
सरस्वती तु यथार्थम् आह—हे उत्कृष्ट-वृत्ता नित्यम् एव श्री-गोवर्धन-वन-विहारिणो यूयं किम् ईदृशान्य् एव वासांसि परिधत्त ? अपि तु परम-दिव्यान्य् एव राज-द्रव्याणि अपवित्राणि लीलयापि किम् अभीप्सथ ? अपि तु नैवेत्य् अर्थः । तस्माद् व्याज-मात्रम् एवेदं याचनम् इति भावः ॥३५॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असद्-वृत्ता उच्छृङ्खला वा, उद्वृत्ताः परिधत्त इत्य् उपहासः । राज-कुलेभ्य उर्वरिताः, तत्त्वतस् तु महा-प्रलयेऽप्य् अवशिष्टा इति किं कथम् अभीप्सथ ? एतान्य् अभीप्सितुं नार्हथेत्य् अर्थः । यद् वा, किम् इति साक्षेप-प्रश्ने, बहुत्वं गोप-वर्ग-संग्रहार्थम् । अन्यत् तैर् व्याख्यातम् एव । यद् वा, नित्यं किं परिधत्त ? अर्थः स एव । यद् वा, किम् उद्वृत्ताः स्थ ? इति ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे उद्वृत्ताः ! राजतो निःशङ्क-चेष्टाः यतो गिरि-वनेचराः तादृशा यूयम् ईदृशान्य् एव वासांसि परिधत्त, तर्हि किं कथं राज-द्रव्याण्य् अभीप्सथ ? अत्र नाधिक-लाभः प्रत्युतेदानीं राज-पुरागतानां वो राजापराधतो भयं च भविष्यतीति भावः । अत्र यद्य् अप्य् परिधत्तेति सोपहासम् एव तत्र च हेतुः--गिरि-वनेचरा इति, तथापि वञ्चनार्थं सत्य-मुद्रया एव अवदद् इति किम् अभीप्सथेत्य् उक्तं । यद् वा, ईदृशान्य् एव वासांसि किं परिधत्त येन उद्वृत्ताः सन्तो राज-द्रव्याण्य् अभीप्सथ । वस्तुतो न परिधत्त, न च तद्-अभीप्सा योग्या किन्तूद्वृत्तत्वम् एव युष्माकम् अशिष्यत इति भावः । अत्र यद्य् अपि परिपूर्णेन सर्वत्र इति श्यामं हिरण्य-परिधिम् इत्य् उक्तानुसारेण तद्-वस्त्रं तु सर्वोत्कृष्टम् एव । तथोक्तं वृन्दावन-विहारे पराशरेणापि--सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [वि।पु। ५.९.५] इति । तथाप्य् आसुर-दृष्ट्या तत् सौन्दर्यं न च दृश्यत इति ।
तथोक्तं सरस्वती तु यथार्थम् आह--हे उत्कृष्ट-वृत्ताः ! नित्यम् एव श्री-गोवर्धन-वन-विहारिणो यूयं किम् ईदृशान्य् एव वासांसि परिधत्त ? अपि तु परम-दिव्यान्य् एव राज-द्रव्याणि च किम् अभीप्सथ ? अपि तु नैवेत्य् अर्थः । तस्माद् व्याज-मात्रम् एवेदं याचनम् इति भावः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ईदृशानीति । तद् इदम् आसुर-दृष्ट्या श्री-विष्णु-पुराणे लौकिक-दृष्ट्यापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [वि।पु। ५.९.५] इवेत्य् उत्तमत्वावगमात् । मूलेऽपि श्यामं हिरण्य-परिधिं [भा।पु। १०.२३.२२] इति दृश्यते ॥३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृत्तात् सौशील्यात् उद्धताः ! हे दुःशीला ! इत्य् अर्थः । परिधत्त इति सम्भावनायां लोट् । सरस्वती त्व् आह--हे उत्कृष्ट-चरित्राः, गोवर्धन-गिरि-चरा यूयं किं ईदृशानि प्राकृतानि परिधत्त, अपि तु नैवेत्य् अर्थः । तस्मात् लीलयापि किं राज-द्रव्याण्य् अपवित्राण्य् अभीप्सथ ? वृत्तं पद्ये चरित्रे च त्रिषु इत्य् अमरः ॥३५॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३६ ॥
याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा ।
बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज-कुलानि राजकीयाः लुम्पन्ति निःस्वं कुर्वन्ति ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जिजीविषा जीवितुम् इच्छा । कुलं जनपदे गोत्रे सजातीय-गणेष्व् अपि । भवने च तनौ भृत्ये इति शाश्वतः । निःस्वं रङ्कम् । हे बालिशाः ! आशु यात, पलायध्वम् इत्य् अर्थः । मैवं प्रार्थ्यं पुनः कदापि प्रार्थनम् ईदृशं न कार्यम् । घ्नन्ति प्रहरन्ति । लुम्पन्ति छिन्दन्ति । हि यतः सम्प्रति त्व् अस्माभिर् बालिशत्वाद् एव क्षान्तम् इति भावः ।
सरस्वती त्व् आह—हे याताशुबालिशाः ! यातः प्राप्तः आशुच् चपलो बालिशो मुर्खश् चायं रजक-लक्षणो यैस् तथा-भूताः । यदि जिजीविषा जीवन-धारणेच्छा तत्-प्रकटनेच्छा, तदा मैवं प्रार्थ्यम्
ननु, शूरै रजकेऽपि कथं बलं वर्णनीयं ? तत्राह—हि यतः राज-कुलानि राज-वंश्यां भवद्-विधा दृप्तं जनं बध्नन्ति इत्य्-आदि जीव-बल-प्राण-धारणयोः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बालिशाः ! हे अज्ञाः ! वस्तुतश् च बालकवन् निरभिमानत्वात् । किं वा, बालका एव—असञ्जात-यौवनत्वात् । आशु यात, इतो निःसरत, पलायध्वम् इत्य् अर्थः । मैवं प्रार्थ्यम्, पुनः कदापि प्रार्थनम् ईदृशं न कार्यम्, घ्नन्ति प्रहरन्ति, लुम्पन्ति छिन्दन्ति, हि यतो निश्चितम् इति वा ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे बालिशाः ! आशु यात पलायधवम् इत्य् अर्थः । मैवं प्रार्थ्यं पुनः कदापि प्रार्थनम् ईडृशं न कार्यं । घ्नन्ति प्रहरन्ति लुम्पन्ति छिन्दन्ति हि यतः सम्प्रति त्व् अस्माभिर् बालिशत्वाद् एव क्षान्तम् इति भावः ।
सरस्वती त्व् आह—हे याताशु बालिशाः यातः प्राप्त आशुश् चपलो बालिशो मूर्खशायं रजक-लक्षणो यैः, तथा-भूताः । यदि जिजीवीषा जीवन-धारणेच्छा तदा मैवं प्रार्थ्यं । ननु शूरै रजकेऽपि कथं बलं वरान्नीयं ? तत्राह । हि यतः राज-कुलानि राज-वंश्या भवद्-विधाः दृप्तं दर्प-युक्तं जन बध्नन्ति इत्य्-आदि । जीव बल-प्राण-धारणयोः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जातेति स्पष्टं । पक्षे हे बालिशाः बलिं श्यन्ति त्रिपाद-भूमिं प्रार्थ्य तनू कुर्वन्तीति बलिशाः स्वर्थेऽण् । बालिशा हे परमेश्वराः ! यदि मे जीजिविषा अस्ति, तर्हि मैवं प्रार्थ्यम् बलिर् इव । तुभ्यं यदि वासांसि ददामि, तर्ह्य् अद्य मे जीवनं अनुस्थास्यतीत्य् अर्थः । कुतः ? इत्य् अत आह—बध्नन्ति इति । राज-कुलानि अत्रत्याः राजकीयाः पुरुषाः दृप्तं कंसराजान् निःशङ्कं जनं प्रथमं बध्नन्ति, ततो राजानं विज्ञाप्य घ्नन्ति, ततो लुम्पन्ति तद्-गृहं लुठन्ति ॥३६॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३७ ॥
एवं विकत्थमानस्य कुपितो देवकी-सुतः ।
रजकस्य कराग्रेण शिरः कायाद् अपातयत्5 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । विकत्थमानस्य अविमृश्य-भाषिणः । कराग्रेण चपेट-प्रदानेन । करस्याग्र्यं सामग्र्यं तेन
अग्रं पुरस्ताद् उपरि परिमाणे पलस्य च ।
आलम्बने समूहे च प्रान्ते सामस्त्य-मुख्ययोः ।
अधिके प्रथमे ज्ञने गमने प्रापणेऽपि च । इति निरुक्तिः ।
कायाद् देहात् । अपाहरत् पृथक् चकार । विकत्थमानस्य विरुद्धम् आत्म-श्लाघा-पूर्वकम् उच्चैर् जल्पतः । अत्रात्म-श्लाघा च एवं-भूत-महा-शिल्पि-राजात्मीय-सेवकोऽहम् इति व्यञ्जनया । सा च स्पष्टं दर्शिता वैश्म्पायनेन—
अहं कंसस्य वासांसि नाना-देशोद्भवानि वै ।
काम-रागाणि शतशो रञ्जयामि विशेषतः ॥ [ह।वं। २.२७.१२] इत्य् आदौ ।
कुपितः कंस-पक्षपातात्, विशेषतश् च बहु-वचनेन तत् साक्षद् अग्रजादीन् प्रति दुरुक्ति-स्पर्शात्। अत एव खड्गानुकारिणा कराग्रेण एकेनैव तिष्ठत एव तस्य शिरः कायाद् अपाहरत्, छित्त्वा दूरे चिक्षेपेत्य् अर्थः । देवकी-सुत इत्य् अत्र कंसेन क्रियमाणया देवक्या यातनया कदर्थितः सोऽयं तदीयानां जनानाम् औद्धत्यं कथं सहताम् ? इति भावः । यद् वा, दुष्ट-सङ्घारार्थं तस्यां जात इत्य् अर्थः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण, ईदृशं वेति, परम् अपि दुरक्षरम् उक्तम् इति सूचयति—विकत्थमानस्य विरुद्धम् आत्मश्लाघा-पूर्व-क्नमुच्चैर् जल्पतः, तद् उक्तं श्री-वैशम्पायनेन—
अहं कंसस्य वासांसि नाना-देशोद्भवानि वै ।
काम-रागाणि शतशो रञ्जयामि विशेषतः ॥ [ह।वं। २.२७.१२] इत्य्-आदि ।
कुपितो विकत्थनाद्-विशेषतश् च बहु-वचनेन तत्-साक्षाद् अग्रजादीन् प्रति दुरुक्ति-स्पर्शात् । अत एव कराग्रेण वज्र-तुल्येन तिष्ठत एव तस्य कायाद् अपाहरत्, छित्त्वा दूरे चिक्षेपेत्य् अर्थः । देवकी-सुत इति, यतो दुष्ट-संहारार्थं तस्यां जात इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विकत्थमानस्य विरुद्धम् आत्म-श्लाघा-पूर्वकम् उच्चैर् जल्पतः अत्रात्मश्लाघा च एवम्-भूत-महा-शिविपराजात्मीय-सेवकोऽहम् इति व्यञ्जनया स्पष्टं दर्शिता श्री-वैशम्पायनेन—
अहं कंसस्य वासांसि नाना-देशोद्भवानि वै ।
काम-रागाणि शतशो रञ्जयामि विशेषत ॥ [ह।वं। २.२७.१२] इत्य्-आदौ ।
कुपितः कंस-पक्षपाताद् विशेषतश् च बहु-वचनेन तत् साक्षाद् अग्रजादीन् प्रति दुरुक्ति-स्पर्शात् । अत एव खण्ड्गानुकारिणा कराग्रेणैकेनैव तिष्ठत एव तस्य शिरः कायाद् अहरत् छित्वा दूरे चिक्षेपेत्य् अर्थः । देवकी-सुत इत्य् अत्र कंसेन क्रियमाणया देवक्या यातनया कदर्थितः सोऽयं तदीयानां जनानां कथम् औद्धत्यं सहताम् इति भावः । यद् वा, यतो दुष्ट-संहारार्थं तस्यां जात इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.३८ ॥
तस्यानुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।
दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वासः-कोशान् वस्त्र-पुटकान् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
तस्य रजकस्यानुजीविनः पुत्रादयः ।
कोशोऽस्त्री कुड्मले दिव्ये पात्रे खड्ग-पिधानके ।
जातिकोषेऽर्थ-सङ्घाते पेश्यां शब्दादि-सङ्गहे ।
गृहे तनौ च पुटके पिटकायाम् अपि इति हलयुधः ।
वै इति च इति पाठोऽनुक्त-समुच्चायकः—ते गर्दभादयोऽपि सर्वत इतस् ततो मार्गं दुद्रुवुः । यद् वा, मार्गस्य सर्वा शिशो दुद्रुवुः अकार-प्रश्लेषेऽमार्गम् इति वा । मार्गं हित्वा तद् इतरस्थानं प्रति दुद्रुवुर् इत्य् अर्थः । अच्युत इति—तत्-स्थान-स्थितिम् अपि व्यञ्जयति ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुजीविनो भार्या-पुत्रादयः, वै एव, चेति पाठेऽनुक्त-समुच्चयः । तेन गर्दभादीन्य् अपि विभ्यति, सर्वतः इतस् ततो मार्गं दुद्रुवुः, मार्गेऽधावन् नित्य् अर्थः । यद् वा, मार्गस्य सर्वतः इतस् ततो मार्गं दुद्रुवुः, मार्गेऽधावन् नित्य् अर्थः । यद् वा, मार्गस्य सर्वतः सर्वतो-मार्गं दुद्रुवुः, वेगेन पलायन्त, अकार-प्रश्लेषेणा-मार्गम् इति वा, मार्गं हित्वा तद् इतरस्थानं प्रति दुद्रुवुर् इत्य् अर्थः । अच्युत इति तत्-स्थान एव स्थितेः । एवं तद् वस्त्र-याचनं तद्-दुरुक्ति-निःसारणाय, तच् च तद् वधाय, स च कंसानुगत्वान् निजानां हर्षार्थं च, अत एवोक्तम्—गदाग्रज इति । देवकी-सुत इति चेत् तत्र6 तत्त्वम् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव चेति पाठेऽनुक्तम् असमुच्चयः ते गर्दभादीन्य् अपि सर्वत इतस् ततो मार्गं दुद्रुवुः । यद् वा, मार्गस्य सर्वा दिशो दुद्रुवुः । अ-कार-प्रश्लेषेण अमार्गम् इति वा । मार्गं हित्वा तद् इतरस् स्थानं प्रति दुद्रुवुर् इत्य् अर्थः । अच्युत इति । तत् स्थानान-स्थितम् अपि व्यञ्जयति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासः-कोशान् वस्त्र-सम्पुटान् ॥३८.३९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.३९ ॥
वसित्वात्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा ।
शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसित्वा परिधाय । वस्त्रे इति द्वित्वेन दुकूलोत्तरीये उक्ते । यद् वा, कञ्चुक-प्रावाररूपे । कानिचिद् धारणाऽयोग्यानीत्य् अर्थः । आत्मप्रिये पीत-नील-वर्णे । वस्त्रे परिधानीयोत्तरीये । आदत्त आ सम्यक् तत्-तद् इच्छानुषरेण वस्त्र म्दत्तवान्, तद् अर्थं गृहीतवन् इति वा । कानिचिद् योग्यानि अधिकानि च । अत्रायम् अपि श्री-भगवताभि प्रायः—नूनं कंसेन महोत्सवे स्वपरिकर-शोभार्थम् एतान्यपूर्वाणि वस्त्राणि धारयितुं दत्तानि, तस्मात् तच्छोभां नाशयंस् तैर् अहम् एव स्वपरिकर-शोभां कुर्वन् प्रथमतस् तद् उत्साहं नाशयामीति । वस्तुतस् त्वेतानि वस्त्राणि नरक-हृत-कुमारीवत् तदीयान्य् एव लीला-सौष्ठवाय लीला-शक्त्या तद्-द्वारैव मिलितानीति ज्ञेयम् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्म-प्रिये पीत-नील-वर्णे वस्त्रे परिधानोत्तरीये । चार्थे तथा-शब्दः । यद् वा, तादृशानि तत्-तत्-प्रियाणीत्य् अर्थः । कानिचिद् अधिकान्य-योग्यानि वा ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्म-प्रिये पीत-नील-वर्णे वस्त्रे परिधानीयोत्तरीये आदत्त आ सम्यक् तत् तद् इच्छाद्य् अनुरूपं वस्त्र दत्तवान् तद् अर्थं गृहीतवान् इति । कानिचिद् अयोग्यानि अधिकानि च । अत्रायम् अपि श्री-भगवतोऽभिप्रायः--नूनं कंसेन महोत्सवे स्व-परिकर-सुशोभार्थम् एतान्य् अपूर्वाणि वस्त्राणि धावयितुं दत्तानि, तस्मात् तच्-छोभां नाशयंस् तैर् अहम् एव स्व-परिकर-सुशोभां कुर्वन् प्रथमतस् तद् उत्सादयामीति । वस्तुतस् त्व् एतानि वस्त्राणि नरक-हृत-कुमारीवत् तदीयान्य् एव लीला-सौष्ठवाय लीला-शक्त्या तद् [वार्]{।मर्क्} एव तु मिलितानीति ज्ञेयम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.४० ॥
ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् ।
विचित्र-वर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वायकस् तन्तु-वाय-विशेषः । वेषम् अलङ्कारम् । चैलेयैर् वस्त्र-मयैर् अकल्पैर् भूषणैः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वस्त्र-स्वीकारोत्तरम् । आकल्पो वेष-भूषणे इति हैमः । इत्थं शिष्टहर्षार्थं दुष्ट-निग्रहं कृत्वा शिष्टान् अनुजग्राहेति वदन्नादौ वायकानुग्रहम् आह—ततस् त्व् इति । ततस् तद् वधाद् वस्त्रपरिधानाच् च । वायकः प्रीतो विष्णु-भक्तत्वात् । चैलेयैर् एवाकल्पैः कटक-कुण्डलादिभिस् तयोर् वेषं रचितवण् । आकल्पत्वम् एव स्थापयति—विचित्र-वर्णैर् मणिजटित-सुवर्णाकल्पवद् विरच्य स्व-गृहादानीतैर् इत्य् अर्थः ।
ननु, कुतस् तौ मणिमय-निजालङ्कारौ त्यक्तवन्तौ कुतो वा सोऽपि चैलेयमेवालङ्कारं दत्त वांस् तत्राह—अनुरूपतः, मल्ल-लीलायां गात्रतोदकत्वेन तस्यौवानुरूप्यादित्य् अर्थः । अनेन तयोः स्व-स्वानुरूत्यम् अपि ज्ञेयम् ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं शिष्ट-हर्षार्थम् एव दुष्ट-निग्रहं कृत्वाथ शिष्टाननुजग्राहेति वदन्न् आदौ वायकानुग्रहम् आह—ततस् त्व् इति । तद् वधाद्-वायकस् तु प्रीतः सन् । यद् वा, वस्त्र-परिधानानन्तरं तदानीम् एव वस्त्रमय-नेपथ्यापेक्षत्वात् प्रीतः, प्रीत्यैव, न तु भयेनेत्य् अर्थः । आकल्पैर् मुकुटादि-भूषणैः, अनुरूपतस् तयोर् वर्णाकाराद्य् अनुसारेण, गोपानां तद् अकरणं7 काल-विलम्बापत्तेः । किं वा, स्वयम् एव तैर् अन्योऽन्यं तद् अकरणाद् इति8 ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं शिष्ठ-हर्षार्थम् एव दुष्ट-निग्रहं कृत्वा शिष्टान् अनुजग्राहेति वदन्न् आदौ वायकानुग्रहम् आह । ततस्त्व् इति । ततस् तद् वधाद् वस्त्र-परिधानाच् च वायकः प्रीतः सन् चैलेयैर् एवाकल्पैः कटक-कुण्डलादिभिस् तयोर् वंशं रचितवान् आकल्पत्वम् एव स्थापयति । विचित्र-वर्णैर् मणि-जटित-सुवर्ण-कल्पवत् विरच्य स्व-गृहादानीतैर् इत्य् अर्थः ।
ननु कुतस् तौ निज-मणिमयालङ्कारं त्यक्तवन्तौ कुतो वा सोऽपि चैलेयम् एवालङ्कारं दत्तवान् तत्राह । अनुरूपतः मल्ल-लीलायां गात्रतोदकत्वेन तस्यौवानुरूप्यादित्य् अर्थः । अनेन तयोः स्व-स्वानुरूप्यम् अपि ज्ञेयम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चैलेयैर् एवाकल्पैः कटक-कुण्डलादिभिः रत्न-निर्मितवत् विचित्र-वर्णैः। तद्-वेशे हेतुः—अनुरूप्यतो मल्ल-लीलायां गात्र-तोदकत्वेन तस्यैवानुरूप्याद् इत्य् अर्थः ॥४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वायकः वैष्णव-सौचिकः आकल्पैः कटक-कुण्डल-केयुरादिभिश् चैलेयैः कोमल-चेल-खण्ड-निर्मितैः विचित्र-वर्णैर् मणि-जटित-स्वर्ण-तुल्य-वर्णैः । अनु रूपतः मल्ल-लीलायां गात्र-तोदकत्वेन चैलेयालङ्काराणाम् इवौचित्येनानुरूप्यात् तयोर् वर्णानुरूप्याच् च ॥४०॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४१ ॥
नाना-लक्षण-वेषाभ्यां कृष्ण-रामौ विरेजतुः ।
स्व्-अलङ्कृतौ बाल-गजौ पर्वणीव सितेतरौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पर्वण्य् उत्सवे ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लक्षणं मुद्रा । पूर्व स्याद् उत्सवे ग्रन्थौ इति कोशात् । सितेतरौ श्वेतश्यामौ । नाना बहु-विधं लक्षणं प्रकारो ययोस् ताभ्यां वेषाभ्यां छन्दाभ्याम् । द्वित्व म्तद् अनुरूपत्वेन द्विधाभेदात् । विरेजतुर् इत्य् अत्र भक्त-सेवा-स्वीकाराद् इति तत्त्वम् । सितेतरौ श्वेत-कृष्णौ । दार्ष्ठान्तिक-वर्ण-व्यतिक्रमेण दृष्टान्त-वर्णोक्तिः । केवलम् अलङ्कारकृत-शोभायां तात्पर्येण पूर्वापरतान् अपेक्षणात् ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नाना बहु-विधं लक्षणं प्रकारो ययोस् ताभ्यां वेशाभ्यां भूषणाभ्यां परिच्छदाभ्यां वा, द्वित्वं तत्-तद् अनुरूपत्वेन द्विधा भेदाट्, विशेषेण रेजतुः शुशुभाते, भक्त-सेवा-स्वीकाराद् इति, तत्र तत्त्वम्—सितेतरौ शुक्ल-कृष्णौ बाल-गजाव् इव दार्ष्टान्तिक-वर्ण-व्यतिक्रमेण दृष्टान्त-वर्णोक्तिः, केवलम् अलक्ङ्कार-कृत-शोभायां तात्पर्येण पूर्वापरतान् अपेक्षाणात् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाना बहु-विधं लक्षणं प्रकारो ययोस् ताभ्यां वेशाभ्यां छन्दाभ्यां द्वित्वं तत्-तद्-अनुरूपत्वेन द्विधा-भेदात् विरेजतुर् इत्य् अर्त भक्त-सेवास्वीकाराद् इति तत्त्व सितेतरौ शुक्ल-कृष्णौ बाल-गजाव् इव दार्ष्टान्तिक-वर्ण-व्यतिक्रमेण दृष्टान्त-वर्णोक्तिः केवलम् अलङ्कार-कृत-शोभाया तात्पर्येण पूर्वापरतानपेक्षणात् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नानाविधं लक्षणं ययोस्ताभ्यां वेशाभ्यां द्वित्वं तत्तदनुरूपत्वेन द्विधा भेदात् । पर्वणि उत्सवे सितेतरौ सितश्यासौ ॥४१॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४२ ॥
तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः ।
श्रियं च परमां लोके बलैश्वर्य-स्मृतीन्द्रियम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इह लोके परमां श्रियं च बलं चैश्वर्यं चेन्द्रियं तत्-पाटवं च प्रादात् ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य वायकत्य । बलं शारीरं रूप-सौन्दर्यं वा । ऐश्वर्य-मणिमादि । स्मृतिर् निज-स्मरणम्
बलं गन्ध-रसे रूपे स्थामनि स्थौल्य-सौन्ययोः ।
पुमान् हलायुधे दैत्य-प्रभेदे वायसेऽपि च ॥
बल-युक्तेऽन्य-लिङ्गः स्याद् वाट्यालके तु योषिति । इति मेदिनी ।
तस्य तस्मै । प्रकर्षेणादात् । पूर्वत एव तस्य तद् भक्त्या सारूप्यादीनां तत्-स्वामित्व-बोधनार्थम् । लोके इति—अत्रैव लोके, किम् उत परत्रेत्य् अर्थः । यद् वा, लोके पश्यत्य् एवेत्य् अर्थः । प्र-शब्दार्थं व्यञ्जयति—आत्मनः श्री-गोपाल-रूपस्येति । परमां ब्रह्मादि-दुर्लभाम् । श्रियं द्रव्यादि-सम्पदम् । परमाम् इति लिङ्गादि-व्यत्ययेनाग्रेऽपि योज्यम् । च-काराद् ऐश्वर्यं प्रभुत्वं दानं च त्रिवक्रावत् तत्-कालम् एव ज्ञेयम् । तत्-सम्भावनार्थम् आह—भगवान् इति ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् निजैश्वर्य-प्रकटक इत्य् अर्थः । तस्य तस्मै प्रकर्षेणादात् । षष्ठी पूर्वत एव, तस्य तद् भक्त्या सारूप्यादीनां तत्स्वामित्व-बोधनार्थं प्र-शब्दार्थम् अभिव्यञ्जयति—आत्मनः श्री-गोपाल-रूपस्येति । परमां ब्रह्मादि-दुर्लभां श्रियं सम्पदम्, परमाम् इति लिङ्ग-व्यत्ययेनाग्रेऽपि योज्यम्, चकारात् ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्य तस्मै प्रकर्षेणादात् षष्ठी पूर्वत एव तस्य तद् भक्त्या सारूप्यादीनां तत् स्वामित्व-बोधनार्थं लोक इत्य् अत्रैव लोके किम् उत परत्रेत्य् अर्थः । यद् वा, लोके पश्यत्येवेत्य् अर्थः । प्र-शब्दार्थम् अभिव्यञ्जयति । आत्मनः श्री-गोपाल-रूपस्यएति परमां ब्रह्मादि-दुर्लभां श्रियं द्रव्यादि-सम्पदं परमाम् इति लिङ्गादि-व्यत्ययेनाग्रेऽपि योज्यं चकाराद् ऐश्वर्यं प्रभुत्वं दानं च त्रिवक्रावत् तत् कालम् एव ज्ञेयं तत् सम्भावनार्थम् आह । भगवान् इति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियम् इन्द्रिय-पाटवम् ॥४२॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४३ ॥
ततः सुदाम्नो भवनं माला-कारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वायक-वरदानोत्तरम् । तौ राम-कृष्णौ । सुदाम्न इत्य् अन्वर्थ-नामवतः । आराद् दूरात् । ततस् तद्-अनन्तरम् इति, चैलेयाकल्यानन्तरं पुष्प-मालानाम् अपेक्ष्यत्वाद् इत्य् अर्थः । यद् वा, वायकानुग्रहानन्तर वायकाद् अपि मालाकारं प्रत्य् अधिकानुग्रहार्थम् इत्य् अर्थं । सर्व-लोकवत् तस्य पूर्वं स्वयं श्री-कृष्ण-ल्निकट-प्रयाण तु तद् उपायनार्थापूर्वमाला-रचनाभिनिवेशेनेति ज्ञेयम् । अग्रे च व्यक्तं भावि । सम्यक् ससभ्रममासन-त्यागादि-प्रकारेणात्थाय भुवि नमामः शिरसा । तद् उक्तं वैष्णवे भुवं विष्टम्य हस्ताभ्यां पस्पर्श शिरसा महीम् इति । श्री-भगवद् दशनार्थं निष्क्रान्त-परिकरस्य तन् माला-निविष्ट-दृष्टेस् तस्य कृपया सहसान्तिक-समागमनेन प्रणाम-स्थान-सङ्कोचापत्तेः, सम्भ्रमेण तद् विस्मरणाद् वा ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तद्-अनन्तरम् इति चैलेयाकल्पानन्तरं पुष्प-मालानाम् अपेक्ष्यत्वादित्य् अर्थः । यद् वा, वायकानुग्रहानन्तरं वायकाद् अपि मालाकारं प्रत्यधिकानुग्रहार्थम् इत्य् अर्थः । सु शोभनानि दामानि पुष्प-माला यस्य । यद् वा, शोभनानां भक्ति-लक्षणानां दाम पङ्क्तिर् यस्मिन्न् इत्य् अन्वर्थ-संज्ञत्वं ज्ञेयम् । अयं तस्य गृह-गमने हेतुः । सम्यक् ससम्भ्रमासन-परित्यागादि-प्रकारेणोत्थाय, शिरसा भुवि ननाम्, मूर्ध्ना भुवं स्पृष्ट्वानमदित्य् अर्थः, तथा चोक्तं श्री-पराशरेण—भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् [वि।पु। ५.१९.२०] इति कृपया सहसा द्रुतम् अन्तिके समागमनेन दण्डवत्-प्रणामे स्थान-सङ्कोचापत्तेः, सम्भ्रमेण तद् विस्मरणाद् वा ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद्-अनन्तरम् इति चैलेयाकल्पानन्तरं पुष्प-मालानाम् अपेक्षत्वाद् इत्य् अर्थः । यद् वा, वायकानुग्रहानन्तरं वायकाद् अपि मालाकारं प्रत्य् अधिक-स्नुग्रहार्थाम् इत्य् अर्थः । सर्व-लोकवत् तस्य पूर्वं स्वयं श्री-कृष्ण-निकटाप्रयाणं तु तद् उपायनार्थापूर्व-माला-रचनाभि-निवेशेनेति ज्ञेयं अग्रे च व्यक्तं भावि सम्यक् ससंभ्रमम् आसन-ग्यागादि-प्रकारेणोत्थाय शिरसा भुवि ननामा यथोक्तं वैष्णवे । भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् इति । श्री-भगवद् दर्शनार्थं निष्क्रान्त-परिकरस्य तन् मालानि विष्ट-दृष्टेस् तस्य कृपया सहसान्तिक-समागमनेन प्रणाम-स्थान-संकोचापत्तेः सम्भ्रमेण तद् विस्मरणाद् वा ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वस्त्रालङ्कार-परिधानानन्तरं माला अपेक्ष्यन्त इत्य् अत आह—तत इति ॥४३॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४४ ॥
तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः ।
पूजां सानुगयोश् चक्रे स्रक्-ताम्बूलानुलेपनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोः राम-कृष्णयोः राम-कृष्णयोः । अर्घार्थम् उदकमघ्यं, तद् इतरम् अर्हणम् अनुधूपादीनि तैः । सानुगयोः सगोपयोः । अर्घ्यं गधादि-द्रष्टकम्, अर्हण चान्यत् पूजोपकरण धूपदीपनैवेद्यादि । आदि-शब्दाच् चामर-वीजन-नीराजनादीनि । अर्हण-शब्दादि-शब्दाभ्यां गृहातानाम् अपि स्रगादीनां पृथग् उक्तिस् तत्-प्राचुर्यस्य पूनः पूजनस्य चाभिप्रायेण ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्घ्यं गन्धादिक-द्रव्याष्टकम्, अर्हणं च, अन्यत् पूजोपकरणं धूप-दीप-नैवेद्यादि, आदि-शब्दाच् चामर-वीजन-नीराजनादीनि, सानुगयोः गोप-वर्ग-सहितयोः, अर्हण-शब्देनादि शब्देन च गृहीतानाम् अपि स्रग्-आदीनां पृथग्-उक्तिस् तत्-प्राचुर्यस्य पुनः पूजनस्य चाभिप्रायेण ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्घ्यं गन्धादि-द्रव्याष्टकम् अर्हणं चान्यत् पूजोपकरणं धूप-दीप-नेवेद्यादि । आदि-शब्दाच् चामर-वीजन-नीराजनादीनि । अर्हण-शब्देनादि-शब्देन च गृहीतानाम् अपि स्रग्-आदीनां पृथग्-उक्तिस् तत्-प्राचुर्यस्य पुनः पूजनस्य चाभिप्रायेण ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.४५ ॥
प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो ।
पितृ-देवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सार्थकं सफलम् । मह्यं मम । वां युवयोः । अथ भक्त्या स्तुतिश् कृतेत्य् आह—आहेति । प्रेभगद्-गदाद्य् उत्तम-प्रकारेणावदत् । न इति बहुत्वं तद् गमनेनात्मनो बहुमानात्, निज-परिकराद्य् अपेक्षया वा । आगमनेति—कृपया वास्तु-स्पर्श-मात्रेण किम् उत साक्षाद् दर्शन-दानेनेति भावः । अहो किं वक्तव्यं युष्मद् आगमन-सौभाग्यवतां युवाम् एव साक्स्;अत् पश्यताम् अस्माकं जन्म सार्थकम् इति । अनेनैव पूर्व-पुरुषाः सम्बन्धिनश् च सर्वे भूत-भविष्या निस्तीर्णा इत्य् आह—पावितश्चेति । नित्य-पूज्याना पित्रादीनां प्रीत्य् उत्पत्त्या समाप्त कृत्यता च वृत्तेत्य् आशयेनाह—पितृदेवेति । हीहि प्रमाणं दर्शयति ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्त्या स्तुतिश् च कृतेत्य् आह—प्राहेति । प्रेम-गद्-गदाद्य् उत्तम-प्रकारेणावत् । नः इति बहुत्वं तद् आगमनेनात्मनो बहुमानान् निज-परिवाराद्य् अपेक्षया वा । अहो किं वक्तव्यम्, जीवतां त्वां साक्षात् पश्यताम् अस्माकं जन्म-सार्थकत्वम्9, पूर्व-पुरुषाः सम्बन्धिनश् च सर्वेऽपि भूत-भविष्या निस्तीर्णा इत्य् आह—पावितं चेति । नित्य-पूज्यानां पित्रादीनां प्रीत्य् उत्पत्त्या समाप्त-कृत्यता च वृत्तेत्याशयेनाह—पितृदेवेति । हीति प्रमाणं दर्शयति अद्येश नो वसतयः [भा।पु १०.४८.२५] इत्य् आद्य् अक्रूरोक्तेः, अग्रे तद् व्यक्तं भावि । युवयोर् आगमनेनेति स्वयम् एव गृहागमनेन जन्म-सार्थकतादि-विशेष-विवक्षया । तत्र सर्वत्रैव हेतुः—विभो ! हे परमेश्वरेति । यद् वा, सर्व-व्यापकेति तद् आगमनं दुर्घटम् उक्तम्, तथापि कृपयात्रागमनेन, एकत्वं द्ययोर् ऐक्याभिप्रायेण, प्राधान्याच् छ्री-कृष्ण-सम्बोधनेन वा ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ भक्त्या स्तुतिश् च कृतेत्य् आह । प्राहेति प्रेम-गद् गद्दिकाद्य् फ़ुफ़्त्तम-प्रकारेणावदत् । न इति बहुत्वं तद् आगमनेनात्मनो बहुमानात् निज-परिवाराद्य् अपेक्षया वा । आगमनेनेति कृपया वास्तु-स्पर्श-मात्रेण किम् उत साक्षाद् दर्शन-दानेनेति भावः । अहो किं वक्तव्यं युष्मद् आगमन-सौभाग्यवतां युवाम् एव साक्षात् पश्यताम् अस्माकं जन्म सार्थकम् इति अनेनैव पूर्व-पुरुषाः सम्बन्धिनश् च सर्व भूत-भविष्या निस्तीर्णा इत्य् आह । पावितं चेति । नित्य-पूज्यानां पित्रादीनां प्रीत्य् उत्पत्त्या समाप्त-कृत्यता च वृत्तेत्य् आशयेनाह । पितृ-देवेति । हीति प्रमाणं दर्शयति । तथा चाक्रूरेण वक्ष्यते । अद्येंश नो वसतय इत्य्-आदि । तत्र सर्वत्रैव हेतुः हे विभो ! परमेश्वरेति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मह्यं मां प्रति ॥४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.४६ ॥
भवन्तौ किल विश्वस्य जगतः कारणं परम् ।
अवतीर्णाव् इहांशेन क्षेमाय च भवाय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षेमायाभयाय । भवायोद्भवाय ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विश्वस्य सर्वस्य । अंशेन प्रकृति-पुरुषादि--रूपेण । परं केवलं कारणम् । इह मथुरायाम् । एकोऽत्र च शब्दः समुच्चये, ते जगतः क्सेमायेति योज्यम् । तथा चाक्रूरेण वक्ष्यते—अद्ये\ऽंश-वसतये इत्य्-आदि । तत्र सर्वत्रैव हेतुः—हे विभो परमेश्वरेति ।
ननु, नन्द-गोप-सुता-वाचां, कथम् ईदृशी स्तुतिः क्रियते तत्राह—भवन्ताव् इति । किल शास्त्रादि-प्रसिद्धौ । विश्वस्य सर्वस्य जगतोऽस्थिरस्य महद् आदेः कारणं पुरुष--रूपेण कारणावस्थातः परं च स्वयं भगवद् रूपेण इह मथुरायाम् अंशेनेति जातावेकत्वम् । अंशैर् गोपयादवादिभिः सहेत्य् अर्थः । यद् वा, अंशेन जगतः कारणम् इत्य् अन्वयः । तथा च वक्ष्यते—यस्यांशांशशांश-भागेन विश्व-स्थित्यप्ययोद्भवाः इति । चकाराभ्यां द्वयोर् अपि प्राधान्यं बोध्यते । तत्र क्षेमम् इहामुत्र चाभयम् । भव उद्भवो वृद्धिर् वा ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अवतीर्णाव् इति । इह भुवि, अंशानां समुह आंशस् तेन भुव एव मङ्गल-रूपेणावतीर्णौ, अत एव क्षेमाय जगतो विमुक्तये भवाय वृद्धये च, अथवा, क्षेमाय स्मरणार्ह-लीलाकरणेन जगतां प्रेमानन्दाय ॥४६.५२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, वसुदेव-सुतौ यादवानां प्रति कथम् ईदृशी स्तुतिः क्रियते ? तत्राह—भवन्ताव् इति । किलेति शास्त्रादि-प्रसिद्धिं प्रमाणयति—विश्वस्य सर्वस्य परं कारणम्, इह—श्री-मथुरायाम्, अंशेनेति जातावेकत्वम्, अंशैर् गोप-यादवादिभिः सहेत्य् अर्थः । यद् वा, अंशेन जगतः कारणम् इत्य् अन्वयः । तथा चोक्तम् यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नारदयः [भा।पु १.३.५] इति च-काराभ्यां द्वयोर् अपि प्राधान्यं बोध्यते । तत्र क्षेमम् इहामुत्र चभयम्, भव इद्भवो वृद्धिर् वा, स च धर्मादीनां भक्त्र् वा ज्ञेयः ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, नन्द-गोप-सुतौ आवां कथम् ईदृशी स्तुतिः क्रियते तत्राह । भवन्ताव् इति । किल शष्त्रादि-प्रसिद्धौ विश्वस्य सर्वस्य जगतोऽस्थिरस्य महद् आदेः कारणं पुरुष--रूपेण कारणावस्थातः परं च स्वयं भगवद् रूपत्वेनदह मथुरायां अंशेनेति । जातावेकत्वम् अंशैर् गोपयादवादिभिः सहेत्य् अर्थः । यद् वांशेन जगतः कारणम् इत्य् अन्वयः । तथा च वक्ष्यते यस्यांशांशं-भागेन विश्व-स्थित्य् अप्य् अयोद्भवा इति । चकाराभ्यां द्वयोर् अपि प्राधान्यं बोध्यते । तत्र क्षेम इहामुत्र चाभयं भव उद्भवो वृद्धिर् वा ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भवन्ताव् इत्य्-आदि । इह आंशेन अंश-समूहेन, कृष्णश् च सर्वांशेन, बलदेवोऽपि तथेत्य् अर्थः । अत एवाह—जगतः क्षेमाय श्रवण-स्मरणार्ह-लीला-करणेनानन्दाय, भवाय सम्पत्त्यै ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४७ ॥
न हि वां विषमा दृष्टिः सुहृदोर् जगद्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तं भजतोर् अपि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रजक-वधेन वायकानुग्रहेण च युवयोर् विषम-दृष्टितयानीष्वरता नाशङ्कनीयेत्य् आह—न हि वाम् इति । अत्र हेतुः, समयोर् इति । अत्रापि हेतु-द्वयम्, सुहृदोर् इति जगदात्मनोर् इति च ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईश्वरतां तयोर् आह—रजकेत्य् आदिना । अत्राविषम-दृष्टित्वे । अत्रापि समत्वेऽपि । ज्ञान-क्रिया-शक्ति-दातृत्वेनोपकारात् सुहृदोः, अर्थात्-सर्वेषां चेतनानां मूल-कारणत्वेन जगतः कृत्स्नस्य चेतनाचेतनस्य चात्मनोः । यद् वा, जगत्-कृस्नं व्याप्य सुहृदोर् आत्मनोश् च । अपिरुक्त-समुच्चये । भजन्तं ब्राह्मण-चाण्डालादीनाम् एकतरम् आश्रयमाण-मात्रम् । भजतोः स्वयम् आश्रयतोश् च । अतः समयोर् युवयोर् न विषमा दृष्टिः । किं वा, सुहृदोर् जगद् आत्मनोश् च तावन् न विषमा दृष्टिः । तथा भजन्तम् एव भजतोः कृपयोर् अपि न सा, यतः समयोः प्राकृते दुःखे सुखे च तुल्ययोः । सूर्थे तमस इव पेचक-चक्षुर् ज्योतिष इव च तच् चेतसि तस्य तस्य स्पर्शसम्भवात् । स्वरूपभूताह्लादिनी-शक्ति-विलास-विशेषरूपाया भक्तेर् एव स्पर्शाद् इति भावः । तद् उक्तं गीतासु
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ इति ।
नवमे च—
साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।
मद् अन्यं ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ इति ।
उभयत्र भक्त्यैव न त्व् अन्येन तच् चित्तं लिप्तं भवतीत्य् अर्थः । अन्यत् तैः । यद् वा, ईश्वरोर् युवयोर् भक्ति-हीनाधम-गृह-आगमनं सर्वत्र समतयैवेति दैन्य-मात्राद् आह—न हीति । अयम् अनुग्राह्योऽयं नेति विषमा दृष्टिर् नास्ति, यतः सुहृदोर् निरुपाधि कृपाकरयोः । किं च—जगद् एवात्मा प्रियः ययोः, कुतः भजन्तं भजतोर् अपि सर्व-भूतेषूत्तमाधमेष्व् अपि समयोर् जगन्नाथत्वाद् दीनवात्सल्याच् चेत्य् अर्थः । न तव जात्यादि-वैषम्यं यतोऽत्रत्येष्व् अपि मध्ये भजन्तं वायकं मालाकारं मां च कृतार्थंयसीति भावः ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भजन्तम् एव भजतोर् अपि न विषमा दृष्टिर् इत्येतत् पूर्वम् अक्रूरोक्तौ सुर-द्रुम-दृष्टानेन साहितम् एव, सुहृदोः स्व-भावत एव सर्व-सखत्वाज् जगत आत्मनोर् अन्तर्यामिनोर् अधीश्वरयोर् इत्य् अर्थः । अन्यत् तैर् व्यातम् ।
यद् वा, ईदृशायोर् युवयोर् भक्ति-हीनाधम-गृहे आगमनं सर्वत्र समतयैवेत्य् आशयेन10 दैन्याद् आह—न हीति । अयम् अनुग्राह्योऽयं च न इति विषमा दृष्टिर् नास्ति, यतः सुहृदोर् निरुपाधि-कृपाकरयोः, किं च, जगद् एव आत्मा प्रियं ययोः, कुतः ? भजन्तं भजतोर् अपि सर्व-भूतेषु उत्तमाधमेष्व् अपि समयोः, जगन् नाथत्वाद् दीन-वात्सल्याच् चेति भावः एवं द्वौ प्रत्य् एव साम्येन स्तुतिर् अन्योऽन्यं स्नेहादैक्याभिप्रायेण, भक्त-वत्सलत्वादि-गुण-प्रकटक-श्री-कृष्ण-प्रीत्य् अपेक्षया वा ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ज्ञान-क्रिया-शक्ति-दाधृत्वेनोपकारात् सुहृदोर् अर्थात् सर्वेषां चेतनानां मूल-कारणत्वेन जगतः कृत्स्नस्य चेतनस्याचेनतस्य चत्मनोः । यद् वा, जगत् कृत्स्नं व्याप्य सुहृदोः आत्मनाश् च । ऐरुक्त-समुच्चये । विशेषतो भजन्तं ब्राह्मण-चण्डालादीनाम् एकतरमाश्रयमाण-मात्रं भजतोः स्वयम् आश्रयतोश् च । अतः समयोर् युवयोर् न विषमा दृष्टिः । किवा सुहृदोर् जगदात्मनोश् च तावन् न विषया दृष्टिः । तथा भजन्तम् एव भजतोः कृपयतोर् अपि न सा । यतः समयोः प्राकृते दुःखे सुखे च तुल्ययोः । सूर्ये तमस इव पेचक-चक्षुर्ज्योतिष इव च तच् चेतसि तस्य तस्य्स् स्पर्शासम्भवात् स्वरूप-भूताह्लादिनी-शक्ति-विलास-विशेष-रूपाया भक्तेर् एव स्पर्शाद् इति भावः । तद् उक्तं श्री-गीतासु ।
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ इति ।
नवमे च,
साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।
मद् अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपीति ॥
उभयत्र भक्त्यैव नत्व् अन्येन तच् चित्तं लिप्तं भवतीत्य् अर्थः । अन्यत् तैः । अथवा ईश्वरयोर् युवयोर् भक्ति-हीनाधम-गृह आगमनं सर्वत्र समतवैवेति दैन्य-मात्राद् आह । नहीति । अयम् अनुग्राह्यः अयं च नेति विषमा दृष्टिर् नास्ति यतः सुहृदोर् निरुपाधिकृपाकरयोः । किं च जगद् एवात्मा प्रियं ययोः कुतः भजन्तं भजतोर् अपि सर्व-भूतेषुत्तमाधमेष्व समयोर् जगन्नाथत्वाद् दीन-वात्सल्याच् चेत्य् अर्थः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सुहृदोर् जगद्-आत्मनोश् च तावन् न विषमा दृष्टः । तथा भजन्तं भवतोः कृपयतोर् अपि न सा । यतः समयोः प्राकृते दुःखे सुखे च तुल्ययोः ॥४७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भजन्तं भजतोर् अपीति । समोऽहं सर्व-भूतेषु इत्य् अत्र ये भजन्ति च मां भक्त्या मयि ते तेषु चाप्य् अहम्” इति तद्-उक्तेः, वस्तुतस् तु विप्र-श्वपचादिषु सत् कर्म कुकर्मवत्स्व् अपि मध्ये यः कोऽपि त्वां भजति तम् एव त्वं भजसीति न तव जात्यादि-वैषम्यं यतोऽत्रत्येष्व् अपि मध्ये भजन्तं वायकं मालाकारं च मां कृतार्थयसीति भावः ॥४७.४८॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.४८ ॥
ताव् आज्ञापयतं भृत्यं किम् अहं करवाणि वाम् ।
पुंसोऽत्य्-अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावत्र भवन्तौ । भृत्यं माम् एतत्-कुर्विति यन्नियुज्यते प्रेर्यत एष इत्य् अर्थः । तौ विषम-दृष्टि-रहिताव् अपि ।
ननु, मद् आज्ञा वेद-रूपास्त्येव तत्राह—किम् इति । साक्षाद् आगतयोर् युवयोर् अधुना किं कार्यं तद् इत्य् अर्थः । नन्वाज्ञां विनापि पूर्वम् आथित्येन स्वयं तत्-कृतम् एव तत्राह—पुंस इति । हि यस्माद् भवद्भिर् यन्नियुज्यते हि एव एष एव पुंसो जीवस्य निज-जनस्य वानुग्रहः परमानुग्राह्यत्वम् इति । भवद्भिर् इति बहुत्वं तदीयापेक्षया । अहो अधुना भवद् आज्ञया किं चिकीर्षामीति भावः ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तौ विषम-दृष्टि-रहिताव् अपि विशेषतश् च भृत्यं माम । ननु, मद् आज्ञा-रूप-वेद-शात्र-द्वारा प्रसिद्धम् एव कृत्यम् ? तत्राह—वाम् इति । साक्षाद् अत्रागतयोर् युवयोर् अधुना किं कार्यं तद् इत्य् अर्थः । नन्वाज्ञां विनापि पूर्वम् आतिथ्येन स्वयं तत् कृतम् एव तत्राह—पुंस इति । हि एव, एष एव, पुंसो जीवस्य निज-जनस्य वा, तत्ं प्रति हि यतोऽनुग्रहः, को भवद्भिर् नियुज्यते आज्ञाप्यत इति यत्, यो भवद्भिर् इति बहुत्वं तदीयापेक्षया, अतोऽधुना भवद् आज्ञया काञ्चित् सेवां चिकीर्षामीति भावः ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तौ विषम-दृष्टिर् अहिताव् अपि । ननु, मद् आज्ञा वेद-रूपास्त्य् एव तत्राह । किम् इति साक्षड् आगतयोर् युवयोर् अधुना किं कायं तद् इत्य् अर्थः । नन्व् आज्ञां विनाप पूर्वम् आतिथ्येन स्वयं तत् कृतम् एव तत्राह । पुंस इति यस्माद् भवद्भिर् यन् नियुज्यते हि एव एष एव पुंसो जीवस्य निज-जनस्य वा अनुग्रहः । परमानुग्राह्यत्वम् इति पुंसस्त्व् इति पाठे अनुग्रहस्त्व् एष इत्य् अन्वयः । भवद्भिर् इति बहुत्वं तदीयापेक्षया । अतोऽधुना भवद् आज्ञया किञ्चिच् चकीर्षामीति भावः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.४९ ॥
इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीत-मानसः ।
शस्तैः सु-गन्धैः कुसुमैर् माला विरचिता ददौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अभिप्रेत्य इत्य् एवं विज्ञापयन्न् अभिप्रेत्य तन् मतं ज्ञात्वा ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽनन्तरं तावान् अर्चेत्य् आह—इत्य् अभिप्रेत्येति । तन्-मतं भगवन् मतम् एता माला अस्मभ्यं ददात्वयम् इत्य् एवंरूपम् । अभिप्रेत्येति—लज्जादिना ताभ्यां साक्षाद् अनुक्तम् अपि मालाकारस्य स्वस्य गृहागमनेन माला-विशेष-विषय-दृष्ट्या च सम्भाव्येत्य् अर्थः । हे राजेन्द्रेति महाराजस्वापि ता दुलभा इति सूचयति । यद् वा, तद् भाग्य-विषेषं बोधयति, न सन्धोधयति । शस्तैः सद् वर्णसौ कुमर्यादि-गुणैर् मङ्गलकरत्वान् मङ्गलैर् इति वा । विरचिता इति—यासु निज-कुटुम्बैः सह स्वयं विशेषेण रच्यमानासु तौ सहसैवानुगतौ, ता विरचिताः सतीर्ददव् इत्य् अर्थः । पूजायां तु शैघ्र्येण पूर्व-सिद्धा राजादि-योग्या एव ददाव् इति भावः । अन्यथा विरचिता इति व्यर्थम् । प्रीतमानसत्वेन दान-प्रकारस् तु श्री-पराशरेणोक्तः—
ततः प्रहृष्टवदनस् तयोः पुष्पाणि कामतः ।
चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥ इति ।
मालाम् इत्य् एक-वचनान्तपाठे भ्रातृभ्यां तुल्यतयंव दीयमानास्व् अपि मालासु मध्य एवालक्षितं श्री-कृष्णाय सर्व-श्रेष्ठाम् एकां मालां ददाव् इत्य् अर्थः ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभिप्रेत्येति लज्जादिना ताभ्यां साक्षादनुक्तम् अपि मालाकारस्य स्वस्य गृहागमनेन माला-विषयक-दृष्ट्या वेत्याद्य् अभिप्रायेण ज्ञात्वा, हे राजेन्द्रेति—महा-राजस्यापि दुर्लभा इति सूचयति । यद् वा, तद् भाग्य-विशेषं बोधयन् सम्बोधयति, शस्तैः—अम्लानत्व-सद्-वर्ण-सौकुमार्यादिनोत्तमैर् मङ्गलकरत्वान् मङ्गलैर् इति वा, विविध-प्रकारादि-विशेषेण रचिताः सतीः । किं वा, पुरैव विरचिता बह्वीर् माला ददौ ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभिप्रेत्येति लज्जादिना ताभ्यां साक्षाद् अनुक्तम् अपि मालाकारस्य स्वस्य गृहागमनेन माल-विशेष-विषय-दृष्ट्या च सम्भाव्येत्य् अर्थः । हे राजेन्द्रेति महाराजस्य् अपि ता दुर्लभा इति सूचयति । यद् वा, तद् भाग्य-विशेषं बोधयति न सम्बोधयति । शस्तैः सद् वर्ण-सौकुमार्यादि-गुणैर् मङ्गलकरत्वान् मङ्गलैर् इति वा । विरचिता इति । यासु निज-कुटुम्बैः सह स्वयं विशेषेण रच्यमानासु तौ सहसैवानुगतौ ता विरचिताः सतीर् ददाव् इत्य् अर्थः । पूजायान्तु शैघ्र्येण पूर्वम् । सिद्धा राजादि-योग्या एव ददाव् इति भावः । अन्यथा विरचिता इति व्यर्थं प्रीतमानसत्वेन दान-प्रकारस् तु श्री-पराशरेणोक्तः ।
ततः प्रहृष्टवदअनस् तयोः पुष्पाणि कामतः ।
चारूण्येतानि चैतानि प्रददौ स विलोभयन्न् ॥ इति ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विरचिता इति । तदागमनं श्रुत्वा तदर्थं निजकुटुम्वैः सह स्वयं रच्यमानायां यस्यां तौ सहसैवागतौ तां विरचितां सतीं ददाव् इत्य् अर्थः । पूजायां तु शैघ्र्येणान्या इति भावः ।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो सुदामन्! यस्तवाभिप्रायस्तमेव कुर्व् इत्येषैवावयोराज्ञेति चेत् भद्रं भद्रम् इत्य् आह—इत्यभिप्रेत्येति । एवं स्वाभिप्रेतं कृत्यं प्राप्येत्य् अर्थः । तर्हि माला दीयन्तां इत्यभिप्रायेनैवाज्ञां ज्ञात्वेति भावः । शस्तैः सौरभ सौरूप्य सौकुमार्यशैत्य् अतिशयबद्भिः मालामित्येकवचनेन भ्रातृभ्यां तुल्यतयैव दीयमानास्वपि मालासु मध्ये एवालक्षितं कृष्णाय सर्वश्रेष्ठामेकां मालां ददाव् इत्य् अर्थः ॥४९॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
॥ १०.४१.५० ॥
ताभिः स्व्-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सहानुगौ ।
प्रणताय प्रपन्नाय ददतुर् वर-दौ वरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताभिर् मालाभि । प्रणताय माला-दानानन्तरं कृताष्टाङ्ग-प्रणामाय । प्रपन्नाय रक्ष-रक्षेत्य् आदि-प्राकारेण शरणागताय । यद् वा, प्रथमत एव भक्ताय ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पूर्व-पूजायां दत्ता एव, किन्तु नेदृश्यो न च बह्व्यः, अधुना च विचित्राः परमोत्तमा बहुला इत्य् अभिप्राय-ज्ञानाद् विशेषः प्रीत-मानसत्वेन दान-प्रकारस् तु श्री-पराशरेणोक्तः—
ततः प्रहृष्ट-वदनस् तयोः पुष्पाणि कामतः ।
चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥ [वि।पु। ५.१९.२२] इति ।
प्रणताय—मालादानानन्तरं कृताष्तङ्ग-प्रणामाय, प्रपन्नाय रक्ष रक्षेत्य् आदि-प्रकारेण शरणं गताय । यद् वा, प्रमत एव भक्ताय वरान् ददतुः, वरेच्छां कारितवन्ताव् इत्य् अर्थः ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रणताय माला-दानानन्तरं कृताष्टाङ्ग-प्रणामाय प्रपन्ना रक्ष रक्षेत्य् आदि प्रकारेण शरणागताय । यद् वा, प्रथमत एव भक्ताय ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.५१ ॥
सोऽपि वव्रेऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि ।
तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽपि सुदामापि । तस्मिंश् छ्री-कृष्ण एव । तद्-भक्तेषु हरि-भक्तेषु । भूतेषु स्थावर-जङ्गमेषु ।
ननु, के ते वराः, तां च परमैकान्ती सुदामा स्वयं वृतवान् न वा ? तत्राह—सोऽपि इति । तस्मिन् कृष्ण एव ।
ननु, कथं पूर्व-भक्ति-रीत्या सङ्कर्षणेऽपि न वृतवान् ? तत्राह—अखिलानां श्री-सङ्कर्षणादीनां स्वांशानाम् आत्मनि मूल-स्वरूपे\ऽंशिनी इत्य् अर्थः । तेन सा च सिद्ध्येद् इति विविक्त-पुरुषार्थतयेति भावः । पूर्वं तु सम-युग्मता-वर्णनं, तद्-अग्रजतया तस्यापि गौरव-लीला-साराद् एकम् एव द्विधा प्रकाशमानं तत्त्वम् एक-परमैश्वर्यस्याश्रय-योग्यं भवत्य् एवेति प्रशंसा-तात्पर्येणेति भावः । परां श्रेष्ठां निरुपाधि-दयाम् । आद्यश् च-कारस् त्व्-अर्थे, द्वितीय उक्त-समुच्चये ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं वर-दानार्थं द्वयोर् अप्य् उद्यतयोस् तयोः श्री-कृष्णम् एव भक्ति-विशेषेण प्रार्थयामासेत्य् आह—सोऽपि इति । अपि-शब्देन तस्यापि निजेष्ट-वरेषु कामः सूच्यते, तस्मिन् श्री-कृष्ण एव ।
ननु, साम्येनाधुनैव श्री-बलदेवोऽपि तेन स्तुतः पूजितश् च, तस्मिन् अपि कथं सा न वृता ? तत्राह--अखिलानां श्री-बलदेवादीनाम् आत्मनि, अवतारित्वेन व्यापके प्रिये वा, तद्-भक्त्या तस्यापि स्वतो भक्ति-सिद्धेर् इति भावः । यद् वा, अखिलात्मनि जगद्-ईश्वर इत्य् अर्थः । तस्य चाद्वैतत्वाद् एकस्मिन्न् एव तस्मिन् तत् प्रार्थनं युक्तम् एवेति भावः । अन्यथा चानर्थापत्तिर् इत्य् उक्तम् एव, स वै पतिः स्यात् [भा।पु ५.१८.२०] इत्य्-आदिना श्री-बलदेवस्य तु भक्तेष्व् अन्तर्भाव एव, पूर्वं च श्री-भगवत्-प्रत्य् अर्थम् एव द्वयोः साम्येन स्तुत्य्-आदिकम् इत्य् ऊह्यम् एव । अत एव एव-कारेणैकान्तिताभिप्रेतेति । परां श्रेष्ठां निरुपाधिं दयां प्रीति-विशेषण-लक्षणाम्, सा चोच्च-नीचादिषु यथावस्थम् ऊह्या । आद्यश् च-कारस् त्व्-अर्थे, द्वितीय उक्त-समुच्चये ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, के ते वराः तांश् च परमैकान्ती सुदामा स्वयं वृतवान् न वा ? तत्राह—सोऽपि इति । तस्मिन् श्री-कृष्ण एव ।
ननु, कथं पूर्व-भक्ति-रीत्या श्री-सङ्कर्षणेऽपि न वृतवान् ? तत्राह । अखिलानां सङ्कर्षणादीनां स्वांशणाम् आत्मनि मूल-स्वरूपेऽंशिनीत्य् अर्थः । तेन सा च सिद्ध्येद् इति विविक्त-पुरुषार्थतयेति भावः । पूर्वं तु सम-युग्मता-वर्णनं तद्-अग्रजतया तस्यापि गौरव-लीला-साराद् एकम् एव द्विधा प्रकाशमानं तत् तत्त्वम् एक-परमैश्वर्यस्याश्रय-योग्यं भवत्य् एवेति प्रशंसा-तात्पर्येणेति भावः । परां श्रेष्ठां निरुपाधि-दयाम् । आद्यश् च-कारस् त्व्-अर्थे, द्वितीय उक्त-समुच्चये ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**
॥ १०.४१.५२ ॥
इति तस्मै वरं दत्त्वा श्रियं चान्वय-वर्धिनीम् ।
बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वय-वर्धिनीं वंशे वृद्धि-मतीम् इत्य् अर्थः । अप्रार्थितं श्री-प्रभृतिकं च दत्त्वा ततो निर्जगामेति ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थं प्रार्थितः । तस्मै सुदाम्ने । इत्य् अर्थ इति—यावद् वंशः, तावद् वृद्धिमतीं, न तु वंशं वर्धयतीत्य् एवं-रूपां सदा-वंश-[सक्ष्व्]{।मर्क्}आपत्तेर् इत्य् आशयः । भक्त-वात्सल्यम् आह—अप्रार्थितम् इति । ततो मालाकार-गृहात् ।*। अध्यायार्थं वर्णयन्न् अग्रिमाध्ययार्थं सूचयति—स्वैरम् इति निकृत्य छित्त्वा कृती—छेदने । ऋज्वीं सरलाम् । बभञ्ज तुत्रोट । इति—एतद् अप्रार्थितान् ।
ननु, कथं वदान्य-शिरोमणिर् असौ स्वयम् अन्यान् वरान् न ददौ ? तत्राह—श्रियं च इत्य्-आदि, द्वितीय-च-कारोक्तं समुच्चिनोति । अन्यत् तैः । अन्वय-वर्धिनीम् इति इन्न्-अन्त-पाठ एव तेषां सम्मतः, मतुपा व्याख्यात् । “वर्धनं” वर्धः अन्वय-वर्धोऽस्याम् अस्तीति । तत्र वंश इति सप्तम्य्-अन्तासमस्त-पाठे तद् वंशेऽनवच्छिन्नां श्रियम् इत्य् अर्थः । समस्त-पाठे वंश-वृद्धिं चेत्य् अर्थः । तद् उक्तं श्री-पराशरेण—
बल-हानिर् न ते सौम्य धन-हानिर् अथापि वा ।
यावद् दिनानि तावच् च न विनङ्क्ष्यति सन्ततिः ।
भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत्-प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्य-लोकम् अवाप्स्यसि ।
धर्मे मनश् च ते भद्र सर्व-कालं भविष्यति ।
युष्मत्- सन्तति-जातानाम् आयुर् दीर्घं भविष्यति ।
नोल्प-सर्गादिकं दोषं युष्मत्-सन्तति-सम्भवः ।
अवाप्स्यति महाभाग यावत्-सूर्यो भविष्यति । [वि।पु। ५.१९.२५,२८] इति ।
बलम् आयुः इति पाठे च तत्-तत्-सर्वं श्रयाद्यन्तर्भूतम् एव ज्ञेयम् । अग्रजेन सह वरान्दत्त्वा तेनैव सह निर्जगामेत्य् अर्थः ॥५२॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवानुप्रार्थितान्, द्वितीय-चकारोऽनुक्तं समुच्चिनोति । तद् उक्तं श्री-पराशरेण—
बल-हानिर् न ते सौम्य धन-हानिर् अथापि वा ।
यावद् दिनानि तावच् च न विनक्ष्यति सन्ततिः ॥
भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत्-प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्य-लोकम् अवाप्स्यसि ॥
धर्मे मनश् च ते भद्र सर्व-कालं भविष्यति ।
युष्मत्-सन्तति-जातानाम् आयुदीर्घं भविष्यति ॥
नोपसर्गादिकं दोषं युष्मत्-सन्तति-सम्भवः ।
अवाप्स्यति महा-भाग यावत् सूर्यो भविष्यति ॥ [वि।पु। ५.१९.२५,२८] इति ।
“बलम् आयुः” इति पाथे तत् तत् सर्वं आयुर्-अन्तर्-भूतम् एव ज्ञेयम् । सहाग्रजः श्री-बलदेवेन सहित इति तत्-तद्-वर-दाने तस्यानुमोदनात् । यद् वा, सुदाम्नो भक्त्या निर्जिगमिषायाम् अपि केवलम् अग्रजेच्छयैव निर्गमात्, गोपानां च तद्-एकानुगत्वात् । स्वत एव तेन सह निर्गमासिद्ध्या पृथङ् निर्गमो नोक्त इति ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति एतद् अप्रार्थितान् । ननु, कथं वदान्य-शिरोमणि-रसौ स्वयम् अन्यान् वरान् न ददौ तत्राह । श्रियं च इत्य्-आदि द्वितीय-च-कारोक्तं समुच्चिनोति । अन्यत् तैः । अन्वय-वर्धिनीम् इतीन्न्-अन्त-पाठ एव तेषां सम्मतः, मतुपा व्याख्यातत्वात् । “वर्धनं” वर्धः अन्वय-वर्धोऽस्तीति । तत्र वंश इति सप्तम्य्-अन्तासमस्त-पाठे तद् वंशेऽनवच्छिन्नां श्रियम् इत्य् अर्थः । समस्त-पाठे वंश-वृद्धिं चेत्य् अर्थः । तद् उक्तं श्री-पराशरेण
बल-हानिर् न ते सौम्य ! धन-हानिर् अथापि वा ।
यावद् दिनानि तावच् च न विनङ्क्ष्यति सन्ततिः ॥
भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत् प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्य-लोकम् अवाप्स्यसि ॥
धर्मे मनश् च ते भद्र ! सर्व-कालं भविष्यति ।
युष्मत्-सन्तति-जातानाम् आयुर् दीर्घं भविष्यति ॥
नोपसर्गादिकं दोषं युष्मत्-सन्तति-सम्भवम् ।
अवाप्स्यति महा-भाग ! यावत् सूर्यो भविष्यतीति ॥
“अलम् आयुः” इति पाठे च तत् तत् सर्वं श्र्य्-आद्य् अन्तर् भूतम् एव ज्ञेयम् । अग्रजेन सह वरान् दत्त्वा तेनैव सह निर्जगाम इत्य् अर्थः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रियं चेति श्री-बलादीनां तस्य ग्रहीतुम् अनपेक्ष्यत्वेऽपि स्वस्य दातुम् अपेक्ष्यत्वाद् ददाव् इति तस्य भक्त-वात्सल्यम् एव प्राय इति ज्ञेयम् ॥५२॥
इति षारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एक-चत्वारिंशकोऽयं दशमेऽजनि सङ्गतः ॥
बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पुर-प्रवेश
नाम एकचत्वारिंशोऽध्यायः ।
॥ १०.४१ ॥
(१०.४२)