४०

अक्रूर-कृता भगवत्-स्तुतिः ।

॥ १०.४०.१ ॥

श्री-अक्रूर उवाच—

नतोऽस्म्य् अहं त्वाखिल-हेतु-हेतुं

नारायणं पुरुषम् आद्यम् अव्ययम् ।

यन्-नाभि-जाताद् अरविन्द-कोषाद्

ब्रह्माविरासीद् यत एष लोकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चत्वारिंशे ततोऽक्रूरः कृष्णं मत्वेश्वरेश्वरम् ।

प्रणम्य भक्त्या तुष्टाव स-गुणागुण-भेदतः ॥

श्री-कृष्णं प्रणमति—नतोऽस्मीति । हे कृष्ण ! त्वा त्वां नतोऽस्मि । त्वम् अस्मत्-पितृव्यः कुतो मां बालं नतोऽसि ? तत्राह—आद्यं पुरुषम् अव्ययं च । अनादि-निधनम् इत्य् अर्थः । कुत एतत् ? अखिल-हेतूनां हेतुम् । स तु नारायणो नाहम् इति चेत्, तत्राह—नारायणं त्वाम् । किं नारायण इति मां स्तौषि ? काद्यं स्तुतिः सत्यम् एवेत्य् आह—यन् नाभि-जाताद् इति । यतो ब्रह्मणः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईश्वरेश्वरं सर्वेश्वरम् । स-गुणागुण-भेदाभ्याम् इति तृतीयार्थे तसिः ।*। तत्राक्षेपे । इत्य् अर्थ इति—उभय-पद-सङ्गृहीतोऽयम् अर्थ इत्य् आशयः । अत्र हेतुम् आक्षिपति—कुत इति । एतद् अनादि-निधनत्वम् । सोऽखिल-हेतु-हेतुः इत्य् उक्तेः । इति चेत् इत्य् उक्ते । तत्राक्षेपे उत्तरम् आह—मां किं स्तौषीति, नारायणस् त्वम् । अत्र मन्-नारायणत्वे । सत्यं यथार्थम् एव। यस्य नारायणस्य नाभि-जातात् ।

केचित् तु नार-पदेन नराद्य् अखिल-वस्त्व्-अवकाश-प्रदत्वेनायनत्वान् नारायण आकाश एव किं न स्यात् ? तद् वारणाय—पुरुषम् इति । पुरुषाणाम् अपि पितृ-पितामहादिवद् बीज-परम्परा स्यात्, तद्-वारणाय आदिम् इति वदन्ति, तद् अत्राचारुवद् भातीति ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शेषासन-श्रीनारायण--रूपेण दर्शनादादौ तद् रूप-वर्णनेनैव स्तुवन् प्रणम् इति—नतोऽस्मीति । पुरुषं परमेश्वरम्, अरविन्दस्य कोशाद् इति लौकिक-पद्मवत् प्राक् मुकुल--रूपेण जन्मत आविर् आसीद् इति श्री-ब्रह्मणः श्री-भगवद्-गुणावतारतया नित्य् अत्वाभिप्रायेण । अवताराणां नित्य् अत्वं श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव । यद् वा, जातो ब्रह्मणः समष्टि-जीव-रूपत्वाद् एष विविध-वैचित्रीमयः सर्वो लोक-प्रपञ्चः । अन्यत् तैर् व्याख्यातम् ।

तत्र हे श्री-कृष्णेति श्री-कृष्णतयैव तस्य प्रत्यभिज्ञानात् । अत एव ननु, त्वम् अस्मत्-पितृव्य इत्य्-आदि व्याख्यातम्, अन्यथा साक्षाच् चतुर्भुजत्वादिना परमेश्वरतया दर्शने तादृश-व्याख्यानुपपत्तिः ? सत्यम् एवेत्य् अहेति । यन्-नाभि-जाताद् इत्य्-आदि-स्वरूप-मात्र-कथनात् स्तुतिर् न स्याद् एवेत्य् अभिप्रायेण । वस्तुतश् च सर्वोत्कर्षमयस्य स्वरूप-मात्र-कथन-मात्रेऽप्य् अन्यतो महा-विशेषेण परमोत्कर्ष-सम्पत्त्या परमा स्तुतिः पर्यवस्यत्य् एव । यद् वा, ताम् एवेति लेख्ये लेखक-भ्रमात् सत्यम् एवेति । अथवा, अखिलस्य जगतो हेतुनाम् उत्पादकानां हेतुम्, अत एव नारस्य जीव-समूहस्य अयनम् आश्रयम्, अत एव सर्वेषाम् आदौ वर्तमानत्वाच् छ्रेष्ठत्वाद् वा, आद्यं पुरुषम् ईश्वरं हेतुत्वेऽपि मृदादीनां घटाद्य् उपत्त्य् एव प्राप्तम्, व्ययं निरस्यति—अव्ययम् इति । अखिल-हेतु-हेतुत्वादिकम् एव1 दर्शयति—यद् इति । एष चतुर्दश-भुवनात्मको लोकश् चराचर-जीव-जातं वा, अखिल-जगत्-स्रष्टृ-ब्रह्म-योनि-कमल-नाभत्वेनाखिल-हेतुत्वादिकम्, तथा तावतापि पद्म-जन्मना सरोवरस्येवाकिञ्चिद् व्ययत्वं स्वतः सिद्धम् एवेति ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं तावत् पुरुषत्वेन स्तौति—नतोऽस्मीति । तैर् व्याख्यातम् । तत्र साक्षाच् चतुर्भुजत्वादिनाभिर् भावेऽपि त्वम् अस्मत्-पितृव्य इत्य्-आदिकं विनोदेन वदेदसाव् इत्य् अभिप्रायेणाद्यमित्य्-आदिकमाहेति भावः किम् इत्य्-आदिः प्रश्नः नारायणत्वम् आरोप्य किल मां प्रोत्साहयसीत्य् अर्थः केत्यादिकम् उत्तरम् अत्र न कापि स्तुतिः किन्तु सत्यम् एवेदम् इत्य् अर्थः । अत्र तन् नाभीत्यादेर् हेतुत्वं च तर्जनी-द्वयेन साक्षाद् अरविन्दकोपदर्शनाद् इति ज्ञेयम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

चत्वारिंशे स्वेष्ट-देवं तुष्टाव विविधा ब्रुवन् ।

उपासना उपास्यांश् च गान्धिनी-नन्दनो नमन् ॥

अखिलानां हेतुर् ब्रह्मा, तस्यापि हेतुं पुरुषम् इति पुरुषाकारत्वम् एव सर्व-हेतु-हेतुत्वं आद्यम् अव्ययम् इत्य् अनादि-निधनत्वम् । सर्व-हेतु-हेतुत्वं विवृणोति—यन्-नाभीति ॥१॥


॥ १०.४०.२ ॥

भूस् तोयम् अग्निः पवनं खम् आदिर्

महान् अजादिर् मन इन्द्रियाणि ।

सर्वेन्द्रियार्था विबुधाश् च सर्वे

ये हेतवस् ते जगतोऽङ्ग-भूताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिल-हेतु-हेतुत्वं प्रपञ्चयति—भूर् इति । खस्यादिर् अहङ्कारः । अजा माया । तस्या आदिः पुरुषः । एते ये जगतो हेतवः, ते सर्वे तवाङ्ग-भूताः । अङ्गाच् छ्री-मूर्तेर् भूताः उपसर्जन-भूता वा ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-कारणत्वं विशदयति अनन्तस्य विधिर् वा प्रतिषेधे वा इति न्यायेन खस्यादिर् इत्य् उक्तम् । एवम् अजादिर् इहापि । इन्द्रियार्थाः शब्दादयः । विबुधा इन्द्रियाधिष्ठातारः । श्रीमूर्तेर् नारायणात् ।

नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । > पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकान् अकल्पयन् ॥ > श्रोत्राद् वायुश् च प्राणाश् च मुखाद् अग्निर् अजायत ।

इत्य्-आदि श्रुतेः । यद्येत एव जगद् धेतवस् तर्हि किं मयेति चेद् आह—उपसर्जन-भूता न ह्य् आङ्गिनं प्रधानं विना गुणी भूतैर् अङ्गैः किञ्चित् कर्तुं शक्यत इति । श्रीमूर्तेर् जाता वाचां बह्नेर् मुखं क्षेत्रम् इत्य् आद्य् उक्तेः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भ्व्-आदीनि महा-भूतानि पञ्च, आदि-शब्दस्य सापेक्षत्वान् निरन्तर-वर्तमान-खस्यैवादितयाहङ्कारः, एवम् अग्रेऽपि । अजेति पृथक् पदम्, ततश् चाहङ्कारादि-पुरुषान्ताश् चत्वारः, मनस्य् एव बुद्धि-चित्तयोर् अन्तर्भावः, इन्द्रियाणि दश, इन्द्रियार्था विषयाः पञ्च, एवम् एव पञ्च-विंशतिः, विबुधाः श्रोत्राद्य् अधिष्ठातारो दिग्वाताद्या दश, मन-आद्यन्तःकरण-चतुष्टयस्य चन्द्र-ब्रह्म-रुद्र-क्षेत्रज्ञाश् चत्वार इति चतुर्दश । ये चान्ये जगतो हेतवः काल-कर्म-स्वभावादयस् तत्-तद् अधिष्ठातारस् ते सर्वे । अन्यत् तैर् व्याख्यातम् एव ।

पक्षान्तरे च—नन्वादि-कारणान्य् अन्यानि बहूनि सन्ति ? सत्यम्, तान्य् अपि त्वत्त एवोत्पन्नानीत्य् आह—भूर् इति । अङ्गं ब्रह्म तत्-तेजो-रुप-विभूतित्वात् तस्माद् उद्भूताः । यद् वा, अङ्ग हे भगवन् ! ते त्वत्त एवम्-भूताः प्राग्-उत्पन्नाः । अन्यत् समानम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूर् इति तैर् व्याख्यातं तत्रादि-शब्दस्य सापेक्षत्वान् निरन्तरवर्तमानस्य स्वस्यैवादितयाहङ्कारो लभ्यत इत्य् अभिप्रेत्य् आह । खस्येति खवद् अजेत्य् अपि पृथक् पदं पुरुषो जीवः तस्य मायात आदित्वं तद् अस्तीति तद् अंशत्वेन श्री-मूर्तीर् अति तस्या एव परम-तत्त्व-रूपत्वं साधितं जन्म चाचिन्त्य-शक्त्या कारणस्य विकारित्वराहित्येनैव तद् भ्रम-हानार्थम् एव चोत्तरः पक्षः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, पृथिव्यादयः पदार्थास्तव पुरुषाकारस्यास्य चिद्-आनन्द-मयस्यैव अङ्गानां विभूतय इत्य् आह—भूर् इति । आदिर् अहङ्कारः । अजादिः प्रधान-जीव-काल-कर्मादि-वस्तु-मात्रम् । एते ये जगतो हेतवस् ते सर्वे तव अङ्ग-भूताः । अङ्गात् श्री-मूर्तेर् भूता जाताः, यद् उक्तं वाचां वह्नेर् मुखं क्षेत्रम् [भा।पु २.६.१] इत्य्-आदि ॥२॥


॥ १०.४०.३ ॥

नैते स्वरूपं विदुर् आत्मनस् ते

ह्य् अजादयोऽनात्मतया गृहीताः ।

अजोऽनुबद्धः स गुणैर् अजाया

गुणात् परं वेद न ते स्वरूपम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अति-स्तुतिः कथं क्रियते, अहम् एवान्यत उत्पन्नस् तत् पर-तन्त्रश् चेत्य् आशङ्क्य, तवैषा माया, त्वत्-पारमार्थ्यं तु न कोऽपि वेदेत्य् आह—नैत इति । एते अज आदिर् येषां ते आत्मनस् ते स्वरूपं न विदुः । अनात्मतया जडत्वेन कारणेन । जडत्वे हेतुः, गृहीताः प्रत्यक्षादिभिर् दृष्टाः । न ह्य् अजादो दृग्-गोचर इति भावः । ननु जडा मां मा जानन्तु जीवस् तु ज्ञास्यतीत्य् अत आह—अज इति । सोऽजो ब्रह्माऽप्य् अजाया गुणैर् अनुबद्ध आवृतो गुणातीतं ते तव स्वरूपं न वेद, अन्यः कुतो ज्ञास्यतीति । यद्वा प्रकृत्य्-आदय आत्मनः स्वरूपं तव स्वरूपं च न विदुः, जडत्वाद् एव । जीवस् तु तानात्मानं च वेत्ति न पुनस् त्वत्-स्वरूपम् इति । यथोक्तं हंस-गुह्ये—

देहोऽसवोऽक्षा मनवो भूत-मात्रा > नात्मानम् अन्यं च विदुः परं यत् । > सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो > न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ [६.४.२५] इति ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । तत्-परतन्त्रोऽन्याधीनः । इति भाव इति—चेतनस्येन्द्रियाविषयत्वात् । न हि ज्ञातारं वेद इति श्रुतेः ।

ननु, वेदाहम् एतं पुरुषं महान्तम् इति श्रुतेर् ब्रह्मणस् तु ज्ञानमस्तीति प्रतीयतेऽतोऽर्थातरम् आह—यद् वेति । यथोक्तम् इति षष्ठे स्कन्धे हंस-गुह्ये एतन् नामकस्तोत्रे दक्षेणोक्तम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अजा मया तद्-आदयः, जीवस्य पृथग्-वक्ष्यमाणत्वात् । अत एव तैर् व्याख्यातम्—अजा आदिर् येषाम् इति । स चिद्-रूपोऽपि जीवः । यद् वा, चतुर्मुखोऽपि अनु निरन्तरं बद्धः, पक्षान्तरे ननु, श्रीनारायण-रूपम् एव वर्णयन् स्तौषि, न च कथं साक्षाद् दृष्टं श्री-गोकुलोत्सवं द्विभुजं मम निज-रूपम् इत्य् अपेक्षायाम् एतत् तव गोकुलोत्सव-रूपं सर्वोत्कृष्टम् इति गुणातीततां गताः परम-भागवता एव ज्ञातुं शक्नुवन्ति, न त्व् अन्य इत्य् आह—नेति । आत्मनः स्वयं साक्षाद्भुतस्यापि ते एते प्राकृता अजादयो जीवादयो न जानन्ति, किन्तु केवलं गोकुल-वासिन एव जानन्तीत्य् अर्थः । नन्व् एवं कस्याप्य् अन्यस्य तत्राशा नाम न तिष्ठेत्, सत्यम् तादृश-भक्त्या अन्योऽपि कश्चित् कदाचिज् जानीयाद् इति वदन् श्री-ब्रह्मणस् तज्-ज्ञानाम् हस्—अज इति । स श्री-वृन्दावनं गतोऽजो ब्रह्मा माया-गुणैर् अनुवन्द्धोऽपि नते नमने त्वत्-प्रणतौ सत्य्यां त इत्य् अनुवर्तत एव, तव स्वरूपं निजं रूपं वेद, नौमीड्य [भा।पु १०.१४.१] इत्य्-आदि-श्रुतेः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणात् परं तद् अनासक्तम् अन्यत् तैः तत्र तानात्मानं चेत्य् अर्थात् । यद् वा, नन्व् एतावन्तं कालं कथम् एवं न ज्ञातवान् असि तत्राह । न ते इति । तस्माद् अधुना कृपयाविर्भावाद् एव ज्ञायस इति भावः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एते त्वत्तो जाता एव केवलं, न तु त्वां जानन्तीत्य् आह—नैते इति । एते अजा आदिर् येषां ते आत्मनः परमात्मनस् ते स्वरूपं न विदुः । कुतः? जडत्वेन जड्येन गृहीताः ग्रस्ता इत्य् अर्थः । ननु जडा मां न जानन्तु, चेतनो जीवस् तु ज्ञास्यत्यत आह—अजो ब्रह्मापि भवन् जीवो न वेद । कुतः? अजाय गुणैर् अनुबद्धं आवृतः गुणातीतं ते स्वरूपं न वेद॥३॥


॥ १०.४०.४ ॥

त्वां योगिनो यजन्त्य् अद्धा महा-पुरुषम् ईश्वरम् ।
साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि केऽपि न जानन्ति कथं तर्हि संसार-निवृत्तिर् जीवानाम् ? इत्य् आशङ्क्य साक्षाद् अगोचरत्वेऽपि येन केनापि मार्गेण भजतां त्वं गम्योऽसीत्य् आह—त्वां योगिन इति । हैरण्य-गर्भादयोऽध्यात्माधिभूताधिदैव-साक्षिणं महा-पुरुषं तद् अन्तर्यामि-स्वरूपम् ईश्वरं नियन्तारं च यजन्ति ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वाज्ञत्वम् आक्षिप्य समादधते—नन्व् इति । हैरण्य-गर्भा हिरण्य-गर्भोपासका योगिपद-ग्राह्याः । साधवो यथोचितानुष्ठान-निष्ठाः । केचिद् अत्राध्यात्मादि-पदम् अन्यथा व्याख्यान्ति । तथाहि—आत्मानो जीवास्तैः सहाधिकत्वेन वर्तमानं साध्यात्मम् । भूतैर् आकाशादिभिः सह तद् विलक्षणत्वेन वर्तमानं साधिभूतम् । देवैर् ब्रह्मादिभिः । विशिष्ट-गुणत्वेन वर्तमानं साधिदैवं तत्-तद् उपासनार्थ तत्-तद् अधिष्ठानेषु तत्-तद्-गुण-प्रवर्तकत्वेन तत्-तद् उत्तमत्वेन वर्तमानं यजन्तीत्य् अर्थः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्धा साक्षाद् इति महा-पुरुषादि-रूपेणोपासनात्, अत एव साधवः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कोऽपि य जानाति चेत् कथं योगादि-फलं सिद्ध्यति यतः फलम् अत उपपत्तेः इति न्यायेन बन्धको भव-पाशेनेत्य् आदि प्रामाण्येन च त एव सर्वं फलं स्यात् किम् उत मुक्तिः तत्र शुभ-फल-प्राप्तिश् च तस्य प्रसादेन प्रसादश्चोपासनयैव उपासना च ज्ञानेनैवेति उच्च्यते अन्तर्यामिणि तस्मिन्न् एव सर्वोपासना-वाक्य-तात्पर्य-पर्यवसानात् सर्वत्रैवोपास्यत्वभावस् तस्य स्याद् इति तज् ज्ञान-पुर्विकायाम् इव तद् अज्ञान-पूर्विकायाम् अप्य् उपासनायां तस्माद् एव तत् सिद्ध्यति मिथ्यैव तु भावो यजमान-देवतान्तरयोर् इत्य् अभिप्रेत्य साधारण्येन तथा विज्ञापयति । यद् वा, यथैवं कारण-वाक्यानां त्वय्य् एव तात्पर्यं तथोपासना-वाक्यानाम् अपीत्य् आह। त्वम् इति अद्धा साक्षाद् इति महा-पुरुष-रूपेणोपासनात् अत एव साधवः अन्येभ्यः श्रेष्ठाः अन्यत् तैः तत्र साक्षाद् अगोचरत्वेऽपि भजनस्य साक्षाद् विषयत्वाभावेऽपीत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा कारण-वाक्यानां त्वय्येव तात्पर्यं तथोपासना-वाक्यानाम् अपीत्याह—त्वाम् इति ॥४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यद्यपि त्वां को ऽपि न वेद, तथापि सर्वफलप्रदास्त्वत्तएव फलप्राप्तिमन्तो ऽपि नानोपास्यानुपासीना अपि लोका वस्तुतस्त्वामेवोपासते इति ब्रुवन् साङ्ख्यमार्गयोगमार्गञ्च प्रथमम् आह—त्वां योगिन इति । अध्यात्माधिभूताधिदैव-साक्षिणं महापुरुषमन्तर्यामि स्वरूपमीश्वरञ्च यजन्ति ॥४॥


॥ १०.४०.५ ॥

त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।
यजन्ते विततैर् यज्ञैर् नाना-रूपामराख्यया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं साङ्ख्य-योगावेकी-कृत्योक्तौ, त्रयी-मार्गं कर्म-ज्ञान-भेदेन दर्शयति—त्रय्या चेति श्लोक-द्वयेन । वैतानिकाः कर्म-योगिनस् त्वां वै त्वाम् एव यजन्ते । ननु ते इन्द्र-वरुण-वाय्व्-आदीन् यजन्ते, नतु माम् इत्य् अत आह—नाना वज्र-हस्तादीनि रूपाणि येषां ते येऽमरास् तेषाम् आख्यया नाम्ना त्वाम् एव यजन्त इति । अयं भावः—ऐन्द्र-वारुणादि-सूक्तैर् इन्द्रादयः सर्वैश्वर्येण प्राकाश्यन्ते न च सर्वेश्वरा बहवः सम्भवन्ति, अतो नाम-भेदेन त्वाम् एव यजन्त इति । तथा च श्रुतिः—स प्रथमः स प्रकृतिर् विश्व-कर्मा, स प्रथमो मित्रा-वरुणोऽग्निः, स प्रथमो बृहस्पतिश् चिकित्वान्, तस्मा इन्द्राय हविर् आजुहोतिइति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवम् इत्थम् । साङ्ख्य-योगाव् इति—साङ्ख्यास् तु साध्यात्मादि-रूपं, योगिनस् तु महा-पुरुष-रूपम् ईश्वरं मन्यन्ते, तद् उभावेकीकृत्य तत्-तच् छास्त्र-विषयावुक्तौ । त्रयी वेदत्रयी । वेतानिका याज्ञिकाः । अस्त्रीवितानमूल्लोचे विस्ताराध्वरयोः क्षणे इति हलायुधः । द्विजा जैमिन्यादयो ब्राह्मणाः । पुनराक्षिप्य समाधत्ते—नन्व् इत्य्-आदिना । अत्राशयम् आह—अयं भाव इति । सर्वैश्वर्येण परमैश्वर्येण यतो बहवः सर्वेश्वरा न सन्त्यतो हेतोः । अत्र प्रमाणम् आह—तथा चेति । प्रथमेन कारणेन सह वर्तते सप्रथमः । प्रकृत्या मूलकारणेन सहेति सप्रकृतिः, विश्वकर्मादि-रूपः सर्वो देव-समूहः कारण-सहितः । यद् वा, प्रथम-शब्देनोपादान-कारणं ग्राह्यं, प्रकृति-शब्देन निमित्त-कारणं च, वैपरीत्येन वा ज्ञेयम् । यद् वा, प्रथमः आदिर् विश्वकर्मादिर् मित्रावरुणादिः स एव ।

यद् वा, प्रकृत्या प्रधानेन सह विश्वकर्मापि स एवादिः । चिकित्सतीति चिकित्वान् । छान्दसः सलोपः । अश्विनी-कुराम-रूपः तस्मैः सर्थदेव-रूपायेन्द्राय भगवते । इन्द्रो मायाभिः पुरुष ईयते इत्य् अत्रेद्रशब्दो ब्रह्म-वाचको दृष्ट इति । शुक्ल-यजुर्वेदे वाजसनेयिनस्तु सा प्रथमा संस्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो अग्निः स प्रथमो वृहस्पतिश् चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोत स्वाहा इति पठन्ति । अस्यार्थः—सा संस्कृतिः सोम-संस्कारः । किम्भूता संस्कृति-विश्ववारा । सर्वर्त्विगादिभिर् वरणीयेत्य् अर्थः । प्रथमा मुख्या । सा प्रथमः परमेश्वरः वरुणः आपो ज्योति रसोऽमृतम् इति श्रुति-प्रतिपादित-जल-रूपः, मित्रः सूर्य-रूपः, अग्निर् अग्निरूपः, स चिकित्वान् ज्ञान-स्वरूपः, वृहस्पतिर् वेदस्य पतिः, प्रथमः सर्वेषाम् आद्यः । तस्मा इन्द्राय परमेश्वराय सुतं सोमं स्वाहाकारेणाजुहोत होमं कुरुतेत्य् अर्थः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्विजा इति तेषाम् एव त्रय्याम् अधिकारात् । विततैर् बहुधा विस्तारितैः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रय्येति तैर् व्याख्यातं यद् वा, त्रय्या कर्म-काण्डमय्या एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं कामकामा लभन्ते इत्य् आदेः च-कारेण गौणतं व्यज्यात्रासाक्षात् त्वं व्यनक्ति विततैर् बहुधा विस्तारितैः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्रय्या कर्म-काण्ड-मय्या ॥५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्ममार्गम् आह—त्रय्या चेति द्वाभ्याम् । वैतानिकाः कर्म-योगिनः त्वां वै त्वाम् एव यजन्ते । ननु, ते इन्द्र-वरुणादीन् यजन्ते, न तु माम् इत्य् अत प्राह नाना-वज्र-हस्तादीनि रुपाणि येषां ते । ये अमरास् तेषाम् आख्यया नाम्ना त्वाम् एव यजन्ते । अयं भावः— ऐन्द्र-वारुणादि-सूक्तैर् इन्द्रादयः सर्वैश्वर्येण प्रकाश्यन्ते, न च सर्वेश्वरा बहवः सम्भवन्ति । तस्मान् नाम-भेदेन त्वाम् एव यजन्त इति । तथा च श्रुतिः—स प्रथमः स प्रकृतिः विश्वकर्मा प्रथमो मित्रावरुणोऽग्निः स प्रथमो बृहस्पतिश् चिकित्वांस् तस्मा इन्द्राय हविर् आजुहोति इति ॥५॥


॥ १०.४०.६ ॥

एके त्वाखिल-कर्माणि सन्न्यस्योपशमं गताः ।
ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञान-यज्ञेन समाधिना ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रवृत्ति-मार्गोपास्तिप्रकारम् उक्त्वा निवृत्ति-मार्गोपास्ति-प्रकारम् आह—सन्न्यस्य कर्म-फलासङ्गं त्यक्त्वा । उपशमं शान्तिम् । ज्ञान-विग्रहं ज्ञानैक-स्वरूपम् ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपशमं चित्त-स्थैर्यं गताः, अतो ज्ञानिनः समाधिपराः सन्तश् चिद्-घन-मूर्तिं त्वाम् एवोपासते, एवम् अध्यात्म-विदः सन्न्यासिनः परिहृताः, तेषाम् आत्मन एवोपासनात् ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एके ततः श्रेष्ठा ब्रह्म-काण्डविद उपशमं धैर्यं गताः अतो ज्ञानिनो निर्णित-परमार्थाः सन्तः ज्ञान-विग्रहं चिन्मात्राकारं चिद्-घन-मूर्तिं भगवद् आख्यं व श्लोक-द्वयेन वेद-मार्ग उक्तः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एके ब्रह्म-काण्ड-विदः ज्ञान-विग्रहं चिन्-मात्राकारं ब्रह्माख्यं चिद्-घन-मूर्ति भगवद्-आख्यं वा । श्लोक-द्वयेन वेद-मार्ग उक्तः ॥६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-मार्गम् आह—एके इति । ज्ञान-यज्ञेन समाधिना ज्ञान-विग्रहं ज्ञान-स्वरूपम् । यद् वा, ज्ञानस्यैव विशेषतो ग्रहो ग्रहणम् आस्वादनं यतस् तत् ब्रह्मेत्य् अर्थः ॥६॥


॥ १०.४०.७ ॥

अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।
यजन्ति त्वन्-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : साङ्ख्य-योग-त्रयी-मार्गा उक्ताः, वैष्णव-शैव-मार्गावाह् द्वयेन, अन्ये चेति । संस्कृतात्मानो वैष्णव-शैवदी-क्षया दीक्षिताः सन्तः ते त्वयाभिहितेन पञ्च-रात्रादि-विधिना त्वन्-मयास् त्वन्-मयत्वेनात्मनं चिन्तयन्तस् त्वद्-एक-प्रधाना इति वा । वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-भेदेन बहु-मूर्तिं नारायण-रूपेणैक-मूर्तिकं च त्वाम् एव यजन्ति ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथात्म-चिन्तनं दुर्लभं मत्वाह—त्वद्-एक-प्रधानाव् इति । यद् वा, त्वं मयः सर्वोत्तमो येषाम् इति त्वन्-मयाः, मयः सर्वोत्तमो दैत्य-शिल्पिन्य् उष्ट्रेऽपि कथ्यते इति । अभिहितेन पञ्चधा कथितेन । विधिना कालेन, विधी तु दैव-कालौ च इति यादवः । पञ्च काल-परायणैः इत्य् उक्तेः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : बहु-मूर्त्य्-एक-मूर्तिकम् । बह्व्यो मूर्तयो यस्य यस्माद् वा स तथा श्री-नारायणः, सोऽपि एका मूर्तिर् यस्य । यद् वा, ततोऽपि एका प्रधान-भूता श्री-कृष्ण-रूपा मूर्तिर् यस्य । एतन् नानावताराणां [भा।पु। १.३.५] इत्य्-आदि पूर्वोक्तत्वात् श्री-नारायणस्य तथात्वे बहु-मूर्तित्वम् ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते त्वयाभिहितेनोक्तेनेति परम-प्रामाण्यं, तेन अतो मान्यत्वं चोत्कम् । अत एव त्वन्-मयाः सदा बहिर् अन्तश् च त्वत्-स्फूर्तिमन्तः सन्तः, इत्य् एषां सर्वतः श्रैष्ठ्यम् अभिप्रेतम् । बह्वो वासुदेवादयो मत्स्यादयश् च मूर्तयो यस्य, एका श्री-नारायण-रूपा मूर्तिर् यस्य तं च तं च । यद् वा, बहु-मूर्तिम् अप्य् एक-मूर्तिकम् इति वासुदेवादीनां नानात्वेऽप्य् ऐक्यम् अभिप्रेतम् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्ये चेति । च-कारात् पूर्व-साम्यं बोधयति । ते त्वयाभिहितेनोक्तेन इति पञ्चरात्रस्य परम-प्रामाण्यं तेन सर्वतो मान्यत्वं चोक्तम् । तथैव दर्शयिष्यते मोक्ष-धर्म-वाक्येन । अत एव संस्कृतात्मनः शैवादि-दीक्षितान् अतिक्रम्य गुण-विशेष-युक्त-चित्ताः । अत एव त्वन्-मयास् त्वत्-प्रचुराः सदा बहिर् अन्तश् च त्वत्-स्फूर्तिमन्त इत्य् अर्थः । बह्व्यो वासुदेवादयो मत्स्यादयश् च मूर्तयो यस्य एका परम-व्योमाधिप-महा-नारायण-रूपा मूर्तिर् यस्य तं च तं च । यद् वा, बहु-मूर्तिकम् अप्य् एक-मूर्तिकम् इति तत्-तन्-मूर्तीनां नानात्वेऽप्य् एकत्वम् अभिप्रेतम् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : संस्कृतात्मानः पाञ्चरात्रिक-दीक्षया पाशुपतादि-दीक्षाम् अतिक्रम्य गुण-विशेष-युक्त-चित्ताः ॥७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्ये चेत्य्-आदि । बहु-मूर्त्य्-एक-मूर्तिकम् इति बह्व्यो मूर्तयो यस्मात् स बहु-मूर्तिः श्री-नारायणः । स एव एका प्रधाना मूर्तिर् यस्य सः, तथा तं श्री-कृष्णम् इत्य् अर्थः ॥७.३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैष्णव-मार्गम् आह—अन्ये इति । संस्कृतात्मान इत्य् एतद् अन्योपासका असंस्कृत-मनस इति लभ्यते विधिना पञ्चरात्र-दृष्टेन त्वयाभिहितेनेति, पञ्चरात्रस्य सर्वस्य वक्ता तु भगवान् स्वयम् इति स्मृतेः । तस्य परम-प्रामाण्यात् सर्वतो मान्यत्वं द्योतितम् । अन्तर् बहिस् त्वदीय-स्फूर्तिमत्त्वात् त्वन्-मयाः बहु-मूर्तिकम् अप्य् एक-मूर्तिकम् इति तन्-मूर्तीनां चिन्-मयीनां नानात्वेऽप्य् ऐक्यम् अभिप्रेतम् । एको वशी सर्वगः कृष्ण ईड्यः, एकोऽपि सन् यो बहुधा विभाति [गो।ता।उ। १।] इति श्रुतेः ॥७॥


॥ १०.४०.८ ॥

त्वाम् एवान्ये शिवोक्तेन मार्गेण शिव-रूपिणम् ।
बह्व्-आचार्य-विभेदेन भगवन्तं ऊपासते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : बह्व्-आचार्य-विभेदेनेति नाना-भेद-शैव-पाशुपतादि-मार्गेण ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बह्वाचार्यविभेदेन दधीच्यादि-बह्वाचार्य-भेदेन शौवपाशुपतादि-मार्गेण । शैव-मार्गम् आह । त्वाम् एवेत्य् एवकारः पूर्वतो न्यूनताम् आह । राजैव युवराज इतिवत् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एव-शब्दः श्री-भगवता सह श्री-शिवस्याभेदाभिप्रायेण, अत एव भगवन्तम् इति ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वाम् एवेत्य् एव शब्देन पर्वतो न्यूनत्वं बोधयति राजैवायं युवराज इति वत् अत्र भगवन्तम् उपासत इति भागवान् समुपागत इति पाठ-द्वयम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वाम् एवेत्येव-कारेण न्यूनत्वं बोधयति, राजैव युवराज इतिवत् ॥८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शैव-मार्गम् आह—त्वाम् एवेत्य् एव-कारः पूर्वतो न्यूनत्वं बोधयति राजैवायं युवराज इतिवत् बह्व्-आचार्य-विभेदेन शैव-पाशुपतादि-नाना--रूपेण भगवन्तम् उपासते । भगवान् समुपासते इति पाठ-द्वयम् ॥८॥


॥ १०.४०.९ ॥

सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् ।
येऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : येऽपि क्षुद्र-देवता-भक्तास् तेऽपि त्वाम् एव यजन्तीत्य् आह—सर्व एवेति । हे सर्व-देव-मय ! नन्व् एते परस्पर-देवताधिक्षेप-कलह-व्याकुल-चित्ताः कथम् एकम् एव यजन्तीत्य् उच्यते ? तत्राह—यद्यप्य् अन्य-धिय इति । बुद्धि-मात्र-भेदो न वस्तु-भेद इत्य् अर्थः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षुद्र-देवता पञ्च-देव-भिन्नाः । सर्व-देव-मय !

शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः । > माम् एव प्राप्नुवन्तीह वर्षापः सागरं यथा ॥ इति पाद्मोक्तेः ।

किं च, एकोऽहं पञ्चधा जातः क्रीडया नामभिः किल इति पञ्चधेत्य् उपलक्षणं सर्व-देवानाम् । किं च,

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् ईहते ।

तस्य तस्याचलां श्रद्धां ताम् एव विदधात्य् अहम् ॥

स तया श्रद्धया युक्तस् तस्याराधनम् ईहते ।

लभते च ततः कामान् मयैव विहितान् हि तान् ॥ [गीता ७.२३-२४]

इति गीता-सूक्तेः परमेश्वर एव तत्-तद्-रूपेणोपास्यते । स एव तत्-तद्-देवतान्तर्यामि--रूपेण फलं ददातीत्य् अर्थः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ये क्षुद्र-नाना-देवता-भक्तास् तेऽपि सर्वे त्वाम् एवोपासते । तत्र हेतुम् आह—हे सर्व-देवमयेति । किं च, ईश्वरं तत्-तद् एवतानाम् अपि प्रभुं सेवक-सेवया तत्-स्वामिनः स्वत एव सेवा-सिद्धेः । यद् वा, सर्व-देवमयो य ईश्वरस् तम् इति हिरण्य-गर्भादिभ्यो विशेष उक्तः, तेषाम् ईश्वरत्वेऽपि सर्व-देवमयत्वाभावात् । हे प्रभो इति तवैव सर्वैश्वर्य-युक्तत्वात् । एवं षड्-विधा उक्ताः । तेष्व् आदौ योग-कर्म-ज्ञान-भेदेन त्रिविधाः । अथ दीक्षा-भेदेन च त्रिविधा वैष्णव-शैव-क्षौद्राः । अन्यत् सर्वं तैर् व्याख्यातम् ।

पक्षान्तरे त्वन् निज-रूपाज्ञानाद् एव बहु-विध--रूपेण त्वां जीवा भजन्तीत्य् आह—त्वाम् इत्य्-आदि-पञ्चभिः । अर्थः स एव, तथापि त्वत्-प्रभावेण तेषां तत्-तद्-उपासनम् अपि त्वद्-भक्ताव् एव परम्परया पर्यवस्यतीत्य् आह—सर्व एवेति । नाना-देवतानां बहु-विध-पूज्यानां भक्ता उपासका अपि । यद् वा, किं वक्तव्यं तेषां हिरण्य-गर्भादि-भजनं तद्-भजने पर्यवस्यतीति । क्षुद्र-देवता-भजनम् अपि पर्यवस्यतीत्य् आह—सर्व एवेति । अन्यत् समानम् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं तत्-तद्-विशेष-निर्देशेनेत्य् आह—सर्व इति । अत्र “येऽप्य् अन्य-देवता-“इति स्वामि-सम्मतः पाठः । अन्य-पदस्य क्षुद्र-पदेन व्याख्यानात् नानेति क्वचित् पाठः । अन्यस्मिन् इन्द्रादाव् एव, न तु त्वयि धीर् येषां तथा-भूता यद्यपि तथापि त्वय्य् एव पर्यवसानात् सर्व एव त्वां यजन्ति । तत्र हेतुः—सर्व एव देवा अधिष्ठानतया प्राचूर्येण विद्यन्ते, यत्रेति सर्व-देवमय ईश्वरोऽन्तर्यामी, तं च अधिष्ठान-पूजा अधिष्ठात्रादाव् एव पर्यवस्यति, किन्त्व् अन्याधीनत्वेन तात्त्विकं फलं न स्याद् इति भावः । तद् उक्तं श्री-भगवद्-गीतासु—

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । > तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥ > अहं सर्वस्य यज्ञस्य भोक्ता च प्रभुर् एव च । > न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ > देवा देव-यजो यन्ति॥। [गीता ९.२३।-२५] इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व एव व्याख्या ॥९.११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं ऊक्त-लक्षणा योगि-कर्मि-प्रभृतय उपासकाः सर्वे । ननु केचित् पृष्टा वयं शिवम् अर्चयामः, वयं सूर्यं, वयं गणेशम् इत्य् आद्य् आचक्षते ? तत्राह—येऽपीति । ननु ते कादाचित्कीम् अपि स्मृतिं मयि न कुर्वन्ति ? तत्राह—यद्यपीति ॥९॥


॥ १०.४०.१० ॥

यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयोऽन्ततः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् सर्वे मार्गास् त्वय्य् एव पर्यवस्यन्तीति सदृष्टान्तम् आह—यथेति । अद्रेः सकाशात् सर्वतः प्रभवन्ति या नद्यस् ताः पुनः पर्जन्येनापूरिता बहु-स्रोतसः सत्यः सर्वतः सिन्धुम् एव विशन्ति यथा, तद्वद् एता गतयो मार्गा अन्ततस् त्वाम् एव विशन्तीति ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्रेर् गिरेः । पर्जन्येन गर्जन् मेघेनापूरिताः । गतयो मार्गाः—पूजा-मार्गाः, पुरुषार्थ-साधनानि शास्त्राणि वा प्रस्थान-भेदेन भिन्नानि । अन्ततस् तात्पर्यवृत्त्या, अन्ततः पूजावसाने ब्रह्मार्पण-बुद्ध्यावसिता वेत्य् अर्थः । अथ प्रस्थान-भेदेन यथा सर्व-शास्त्राणि सर्वे मार्गाश् च त्वयि पर्यवस्यन्ति तथा दर्शयति त्वां योगिनः ।*। इत्य् आरभ्य तद् वत्त्वां गतयोऽन्ततः इत्य् अन्तसप्त-श्लोकोक्त-प्रकारेण । प्रथमं त्रयोशब्देन वेदत्रयवाचिना तद् उपलक्षिता अष्टादश विद्या अप्य् अत्र विवक्षिताः । तत्रर्ग्यजुःसामार्थवभेदेन वेदाश्चत्वारः

शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । > चन्दसां लक्षणञ्चैव षड्ङ्गो वेद उच्यते ॥ इति षडङ्गानि,

पुराण-न्याय-मीमांशा-धर्मस्त्राणि चेति चत्वार्युपाङ्गानि । तत्रोप-पुराणानाम् अन्तर्भावः, वैशेशिषिकस्य न्यायनये, वेदान्तस्य मीमांषायां, महाभारत-रामायणयोः साङ्ख्य-पातञ्जल-पाशुपत-वैष्णवादीनां च धर्म-शास्त्रे, मिलित्वा चतुर्दश विद्याः । तथोक्तम्

पुराणन्याय-मीमांसा-धर्म-शास्त्राङ्ग-मिश्रिताः । > वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति ।

एता एव चतुर्भिर् उपवेदैः सहिता अष्टादश विद्या भवन्ति । ते च—आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थशास्त्रं च । ता एता अस्टादश विद्यास्त्रयी-सञ्जादिनोपन्यस्ता अन्यथा न्यूनता-प्रसङ्गात् । सर्वेषां चास्तिकानाम् एतावन्त्य् एव धर्म-प्रस्थानानि, अन्येषाम् अप्य् एक-देशिनाम् एष्व् एवान्तर्भावात् ।

ननु, नास्तिकानाम् अपि प्रस्थानानि सन्ति तान्य् एतेष्व् अन्तर्भावात् पृथग् गणितुम् उचितानि । तथाहि—

१।शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् ।

२।क्षणिक-विज्ञान-वादेनापरं योगाचाराणम् ।

३।ज्ञानाकारानुमेयक्षणिक-बाह्यार्थ-वादेनापरं सौत्रान्तिकानाम् ।

४।प्रत्यक्ष-क्साणिक-बाह्यार्थवादेनापरं वैभाषिकानाम् ।

इति सौगतानां प्रथान चतुष्टयम् ।

१।तथा देहात्मवादेनकं प्रथानं चार्वाकाणाम् ।

२।एवं देहातिरिक्त-देह-परिमाणात्मवादेन द्वीतीयं प्रथानं दिगम्बराणाम् ।

एवं मिलित्वा षट् प्रस्थानानि कस्मान्नोच्यन्ते । सत्यम् । वेद-बाह्यत्वात् तेषां म्लेच्छादि-प्रस्थानवत् परम्परयापि पुरुषार्थनुपयोगाद् उपेक्षणीयत्वम् एव । इह च साक्षात् परम्परया वा परमार्थ-योगिनां वेदोपकरणानाम् एव प्रस्थानानां भेदो दर्शितः, ततो न न्यूनत्व-शङ्कावकाशः । अथ सङ्क्षेपेणैषां प्रस्थानानां स्वरूप-भेद-हेतुः प्रयोजन-भेद उच्यते बालानां व्युत्पत्तये । तत्र धर्म-प्रतिपादकम् अपौरुषेयं वाक्यं वेदः । स च मन्त्र-ब्राह्मणात्मकः । तत्र मन्त्रा अनुष्ठानकारकभूत-द्रव्य-देवता-प्रकाशकाः । तेऽपि त्रिविधा ऋग्-यजुः साम-भेदेन । तत्र पादबद्धगायत्र्यादिच्छन्दो-विशिष्टा ऋचः अग्निमीले पुरोहितम् इत्य्-आदिकाः । ता एव गीति-विशिष्टाः सामानि । तद् उभय-विलक्षणानि यजूंषि । अग्निदग्नीन्विहरन्तु इत्य्-आदि-सम्बोधन-रूपा निगदमन्त्रा अपि यजुर् अन्तर्गता एव । तद् एवं निरूपिता मन्त्राः ।

ब्राह्मणम् अपि त्रिविधं—विधि-रूपम् अर्थवाद-रूपं तद् उभय-विलक्षणं च । तत्र शाब्दीभावना विधिः इति भाट्टाः । नियोगो विधिः इति प्रभाकरः । इष्ट-साधनता विधिः इति सर्वे तार्किकाः । विधिर् अपि चतुर्विधः, उत्पत्त्य् अधिका-विनियोग-प्रयोग-भेदात् । तत्र कर्म-स्वरूप-मात्र-प्रतिपादको विधिर् उत्पत्तिविधिः आग्नेयोष्टाकपालो भवति इत्य्-आदिः । सेतिकर्तव्यताकस्य करणस्य यागादेः फलं सम्बन्ध-बोधको विधिर् अधिकार-विधिः दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत् इत्य्-आदिः । अङ्ग-सम्बन्धको विधिर् निय्गविधिः ब्रहीभिर् यजेत्, समिधो यजति इत्य्-आदिः । साङ्ग-प्रधान-कर्म-प्रयोगैक्य-बोधकः पूर्वोक्त-विधित्रय मेलन-रूपः प्रयोग-विधिः । स च श्रुत इत्येके । कल्प्य इत्य् अपरे । कर्म-स्वरूपं च द्विविधं गुण-कर्मार्थ-कर्म-भेदात् । तत्र क्रतु-कारकाण्याश्रित्य विहितं गुण-कर्म । तद् अपि चतुर्विधम्, उत्पत्त्याप्तिविकृति-संस्कृति-भेदात् । तत्र वसन्ते ब्राह्मणोग्नीनादधीत, यूपं तक्षति इत्य् आदावाधानतक्षणादिना संस्कार-विशेष-विशिष्टाग्नियूपादेर् उत्पत्तिः । स्वाधायोऽध्येतव्यः, गां पयो दोग्धि इत्य् आदावध्ययन-दोहादिना विद्यमानस्यैव स्वाध्यायपयः प्रभृतेः प्राप्तिः ।

सोममभिषुणोति, ब्रीहीन-वहन्ति, आज्यं विलापयति इत्य् आदाव् अभिषवाभिघात-विलापनैः सोमदीनां विकारः । व्रीहीन् प्रेक्षति, प्रत्यवेक्षते इत्य्-आदि प्रोक्षणावेक्षणादिभिर् व्रीह्यादि-द्रव्याणां संस्कार एव । एतच् चतुष्टयं चाङ्गम् एव । तथा क्रतु-कारकाण्य् अनाश्रित्य विहितम् अर्थकम् । तच् च द्वि-दिधम्—अङ्गं प्रधानं च । तत्रान्यार्थम् अङ्गम्, अनन्यार्थं प्रधानम् । अङ्गम् अपि द्विविधं—सन्निपत्योपकारकम् आराद् उपकारकं च । तत्र प्रधान-स्वरूप-निर्वाहकं प्रथमं, फशोपकारकं द्वितीयम् एव । सम्पूर्णाङ्ग-सम्पादको विधिः प्रकृतिः, विकलाङ्ग-सम्पादको विधिर् विकृतिः, तद् उभय-विलक्षणो विधिर्दर्विहोमः । एवम् अन्यद् अप्य् ऊह्यम् । तद् एवं निरूपितो विधि भागः । प्राशस्यविन्दान्यतर-लक्षणया विधिशेषभूतं वाक्यम् अर्थवादः ।

स च त्रिविधः—गुणवादोऽनुवादो भूतार्थवादश् च । तत्र प्रमाणान्तर-विरुद्धार्थ-बोधको गुणवादः आदित्यो यूपः इत्य्-आदिः । प्रमाणान्तर-प्राप्तार्थ-बोधकोऽनुवादः अग्नि-हिमस्य भेषजम् इत्य्-आदिः । प्रमाणान्तर-बाध-तत्-प्राप्ति-रहितार्थ-बोधको भूतार्थवादः इन्द्रो वृत्राय वज्रमुदयच्छत् इत्य्-आदिः । तद् उक्तम्

विरोधे गुणवादः स्याद् अनुवादोऽवधारिते । > भूतार्थवादस् तद्-धानादर्थवादस्त्रिधा मतः ॥ इति ।

तत्र विविधानाम् अर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम्, तच् च बाधित-विषयत्वाज् ज्ञातज्ञापकत्वाच् च न गुणवादानुवादयोः । भूतार्थवादस्य तु स्वार्थतात्पर्य-रहितस्याप्य् ओत्सर्गिकं प्रामाण्यं न विहन्यते । तद् एवं निरुपितोऽर्थवाद-भागः । विध्य् अर्थवादोभय-विलक्षणं तु वेदान्त-वाक्यम्, तच् चाज्ञातज्ञापकत्वेऽप्य् अनुष्ठानाप्रतिपादकत्वान् न विधिः । स्वतः पुरुषार्थ-परमानन्द-ज्ञानात्मके ब्रह्मणि स्वार्थे चोपक्रमोपसंहारादि-षड्विध-तात्पर्य-लिङ्गवत्तया स्वतः प्रमाण-भूतं सर्वान् अपि विधीनन्तःकरण-शुद्धि-द्वारा स्वशेषतामापादयन् परशेषत्वाभावाच् च नार्थवादः । तस्माद् उभय-विलक्साणम् एव वेदान्त-वाक्यम्, तच् च क्वचिद् अज्ञात-ज्ञापकत्वेन विधिर् इति व्यपदिश्यते । विधिपद-रहित-प्रमाण-वाक्यत्वेन क्वचिद्-भूतार्थवाद इति व्यवह्रियत इति न दोषः । तद् एव निरूपितं त्रिविधं ब्राह्मणम् ।

एवं च कर्म-काण्ड-गण-काण्ड-ब्रह्म-काण्डात्मको वेदो धर्मार्थ-काम-मोक्ष-हेतुः । स च प्रयोगत्रयेण निर्वाहार्थमृग्य-युःसामभेदेन भिन्नः । तत्र हौत्र-प्रयोग ऋग्वेदेन आध्वर्वव-प्रयोगो यजुर्वेदेन, औद्गात्र-प्रयोगः सामवेदेन । ब्रह्म-यजमान-प्रयोगौ तन्त्रान्तर्भूतौ । अर्थव-देवस् तु—यज्ञानुपयुक्तः शान्तिक-पौष्टिकाभिचारिकादि-कर्म-प्रतिपादकत्वेनात्यन्त-विलक्षण एव । एवं प्रवचन-भेदात्प्रतिवेदं भिन्ना भूयस्य शाखाः । एवं च कर्म-काण्डे व्यापार-भेदेऽपि सर्वासां वेद-शाखानाम् एक-रूपत्वम् एव । ब्रह्म-काण्ड इत्य्-आदिः चतुर्णां वेदानां प्रयोग-भेदेन प्रयोजन-भेद उक्तः । अथाङ्गानाम् उच्युते । तत्र शिक्षाया उदात्तानुदात्त-स्वरित-ह्रस्व-दीर्घप्लुतादि-विशिष्ट-स्वर-व्यञ्जनात्मक-वर्णोच्चारण-विशेष-ज्ञानं प्रयोजनम्, तद् अभावे मन्त्राणाम् अनर्थफलत्वात् । तथा चोक्तम्

मन्त्रो हीनः सरतो वर्णतो वा मिथ्या प्रयुक्तो न तम् अर्थम् आह ।

स वाग् वज्रो यजमानं हिनस्ति यथेन्द्र-शत्रुः स्वरतोऽपराधात् । इति


तत्र सर्व-वेद-सढरणी शिक्षा अथ शिक्षां प्रवक्ष्यामि इति पञ्च-खण्डात्मिका प्रकाशिता । प्रतिवेदशाखं च भिन्नाः प्रातिशाख्य-सञ्ज्ञिता अन्यैर् एव मुनिभिः प्रदर्शिताः । एवं वैदिक-पद-साधुत्वज्ञानेनोहादिकं व्याकरण-प्रयोजनम् । तच् च वृद्धिरादैच् इत्य् आद्याष्टाध्यायात्मकं महेश्वर-प्रसादेन प्राणिनिनैव प्रकाशितम्, तत्र कान्यायनेन मुनिना पाणिनीय-सूत्रेषु वार्तिकं चिरचितम्, तद् वार्तिकोपरि च भगवता पतञ्जलिना महा-भाष्यम् आरचितम् । तद् एतत् त्रिमुनि-व्याकरणं वेदाङ्गं माहेश्वरम् इत्य् आख्यायते । कौमारादि-व्याकरणानि तु न वेदाङ्गानि, किन्तु लौकि-प्रयोग-मात्र-ज्ञानार्थानीत्यवगन्तव्यम् ।

एवं शिक्षा-व्याकरणाभ्यां वर्णोच्चारणे पद-साधुत्वे च ज्ञाते वैदिक-मन्त्र-पदार्थ-ज्ञानापेक्षायां तद् अर्थं भगवता यास्केन समाम्नातो व्याख्यातव्य इत्य्-आदित्रयोदशाध्यायात्मकं निरुक्तम् आचरितम् । तत्र च नामाख्यात-निपातोपसर्ग-भेदेन चतुर्विधं पदजातंनिरूप्य वैदिक-पदानाम् अर्थः प्रदर्शितः । मन्त्राणां चानुष्ठेयार्थ-प्रकाशन-द्वारेणैव करणत्वात् पदार्थ-ज्ञानाधीनत्वाच् च वाक्यार्थ-ज्ञानस्य मत्रस्थ-पदार्थं ज्ञानाय निरुक्तम् अप्य् अपेक्षणीयम्, अन्यथानुष्ठानासम्भवात् । सूल्येन जर्फरीदूना इत्य् आदीनाम् अतिदुरूहत्वात् प्रकारान्तरेणार्थ-ज्ञानस्यासम्भावनीयत्वाच् च । एवं निघण्टु-कोशा वैदिक-द्रव्य-देवतात्मक-पदार्थं पर्याय-शब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टु-सञ्ज्ञकः पञ्चाध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः । अन्येऽप्य् अमर-हेम-चन्द्रादि-प्रणीताः कोशाः सर्वे निघण्टुरूपत्वेन निरुक्तान्तर्भूता एव द्रष्टव्याः ।

एवमृग्मन्त्राणां पादबद्धानुष्टुप्-छन्दो-विशेष-विशिष्टत्वात् तद् अज्ञाने च निन्दा-श्रवणे छदोविशिष्ट-निमित्तानुष्ठान-विशेष-विधानाश् च छन्दो-ज्ञानाकाङ्क्षायां तत्-प्रकाशनाय धी श्री स्त्री म् इत्य् अध्यायाष्तात्मिका छन्दो-विचितिर् भगवता पिङ्गलेनैव रचिता । तत्रापि अलौकिकम् इत्य् अन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुवृहती-पङ्क्तित्त्रिष्टुब्जगती-छन्दांसि सप्तावातरभेदानि निरूपितानि । अथ औलिकम् इत्य् आरभ्याधाय-पञ्चकेन पुराणेतिहासादाव् उपयोगीनि लौकिकानि चन्दांसि प्रसङ्गान् निरूपितानि ।

व्याकरणे लौकिक-पद-निरूपणवत् । एवं वैदिक-कर्म-दर्शादिकाल-ज्ञानाय ज्योतिष भगवतादित्येन गर्गादिभिश् च प्रणीतं बहु-विधं गणितहोरासंहितादि-रूप-स्कन्धत्रयात्मकम् इति । एवं शाखान्तरीय-गुणोपसंहारेण वैदिकानुष्ठान-क्रम-विशेष-ज्ञापनाय कल्प-सूत्राणि । तानि च प्रयोगत्रय-भेदात् त्रिविधानि । तत्र हौत्रप्रयोग-प्रतिपादकान्याश्वलायन-सङ्ख्यायनादि-प्रणीतानि, आध्वयवप्रयोग-प्रतिपादकानि बौधायनापस्तम्बकात्यायनादि-प्रणीतानि, औद्गात्रप्रयोग-प्रतिपादकानि तु शाण्ड्यायनत्रय्यारुण्यादिभिः प्रणीतानि । एव निरूपितः षण्णाम् अङ्गानां प्रयोजन-भेदः ।

चतुर्णाम् उपाङ्गानाम् अधुणोच्यते । तत्र सर्ग-प्रतिसर्ग मन्वतर-वंशानुचरित-प्रतिपादकानि भगवता बादरायणेन प्रणीतानि पूराणि । तानि च ब्राह्म१। पाद्मं २। वैष्णवं ३। शैवं ४। भागवतं ५। नारदीयं ६। मार्कण्डेयं ७। आग्नेयं ८ भविष्यं ९। ब्रह्मवैवर्तं १०। लैङ्गं ११। वाराहं १२। स्कन्दं १३। वामनं १४। कौर्मं १५। मात्स्य १६। गारुडं १७। ब्रह्माण्डं १८। चेत्य् अष्टादश । एवम् उपपुराण्यनेकप्रकाराणि द्रष्टव्यापि । न्याय आन्बीक्षिकी-पञ्चाध्यायी गौतमेन प्रणीता, प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धातावयवतर्क-विपर्ययवाद-जल्प-वितण्डा-हेत्वाभासच्छल-जाति-निग्रहस्थानानां षोडश-पदार्थानाम् उद्देश-लणपरीक्षादिभिस् तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकं शास्त्र कणादेन प्रणीतम्, द्रव्य-गुण-कर्म-सामान्य-विशेषण-समवायानां षण्णां भाव-पदार्थानाम् अभावसप्तमानां साधर्म्य-वैधर्म्याभ्यां व्युत्पादनं तस्य प्रयोजनं, तद् अपि न्याय-पदेनोक्तम् ।

एवं मीमांसापि द्विविधा-दर्म-मीमांसा शारीरक-मीमांसा च । तत्र द्वादशाध्यायी धर्म-मीमांसा अथातो धर्म-जिज्ञासा इत्य् आरभ्य अन्वाहार्यं च दर्शनात् इत्य् अन्ता जैमिनिना प्रोक्ता । तत्र धर्म-प्रमाणं धर्म-भेदः शेष-शेषिभावश् च क्रत्वर्थ-पुरुषार्थ-भेदेन प्रयुक्ति-विशेषः श्रुत्य् अर्थ-पठनादि-भेदः क्रम-भेदोऽधिकार-विशेषः सामान्यातिदेशो विशेषाति-देश ऊहो बाधस् तत्र प्रसङ्गाश्चोत क्रमेण द्वादशानाम् अध्यायानाम् अर्थः । तथ सङ्कर्षान-काण्डम् अध्याय-चतुष्टयात्मकं जौमिनिना प्रणीतम् । तच् च देवता-काण्ड-सङ्ज्ञया प्रसिद्धम् अप्य् औपासनादि-कर्म-प्रतिपादकत्वाकर्म-काण्डान्तर्गतम् एव ।

तथा चतुरध्यायी शारीरक-मीमांसा अथातो ब्रह्माजिज्ञासा इत्य्-आदि अनावृत्तिः शब्दात् इत्य् अतो जीव-ब्रह्मैकत्व-साक्षात्कार-हेतु-श्रवणाख्य-विचार-प्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बादरायणेन कृता । तत्र सर्वेषाम् एव वेदान्त-वाक्यानां साक्षात्परम्परया वा प्रत्यग् अभिन्नाद्वितीये ब्रह्मणि तात्पर्यम् इति समन्वयः प्रथमाध्यायेन दर्शितः । तत्र प्रथम पादे स्पष्ट-ब्रह्म-लिङ्ग-युक्तानि वाक्यानि विचारितानि । द्वितीय-पदे, अस्पट-ब्रह्म-लिङ्ग-युक्तान्य् औपास्य-ब्रह्म-विषयानि । तृतीय-पादे, स्पष्ट-ब्रह्म-लिङ्गानि ज्ञेय-ब्रह्म-विषयानि । एवं पादत्रयेण वाक्य-विचारः समापितः । चतुर्थ-पादे तु, प्रधान-विषयत्वेन सन्दिह्यमानान्य् अव्यक्तादिपदानि चिन्तितानि [१]

एवं वेदान्तानाम् अद्वये ब्रह्मणि सिद्धे समन्वये तत्र सभावित-स्मृतिर्कादि-विराध आशक्य तत्परिहारः क्रियत इत्य् अविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्य् अपादे, सङ्ख-योग-कणाद-स्मृतिभिः साङ्ख्यादि-प्रयुक्तेश् च तर्कैर्विरोधो वेदान्तस्-अमन्वयस्य पारहृतः । द्वितीय-पादे, सङ्ख्यादिमतानां दुष्टत्वं प्रतिपादितं, स्वपक्षस्थापन-परपक्ष-निराकरण-रूप-पर्वद्वयात्मकत्वाद् विचारस्य । तृतीयपादे, महा-भूत-सृष्ट्यादि-श्रुतीनां परस्पर-विरोधः पूर्व-भागेन परिहृतः, उत्तर-भागेन तु जीव-विषयाणाम् । चतुर्थ-पादे, इन्द्रियावषयश्रुतीनां विरोध-परिहारः [२]

तृतीयाध्याये साधन-निरूपणम् । तत्र प्रथम-पादे, जीवस्य परलोक-गमनागमनेन वैराग्य निरूपितम् । द्वितीय-पादे, पूर्व-भागेन त्वं पदार्थो निरूपितः, उत्तर-भागेन तत्-पदार्थः । तृतीय-पादे, निर्गुणे ब्रह्मणि नाना-शाखा-पठित-गुणोपसंहारः कृतः, प्रसङ्गात् सगुण-विद्यासु शाखान्तरीय-गुणोपसंहारो निरूपितः । चतुर्थ-पादे, निर्गुण-ब्रह्म-विद्याया बहिर् अगसाधनान्याश्रम-यज्ञादीन् यन्तरङ्ग-साधनानि शम-दम-निदिध्यासनादीनि निरूपितानि [३]

चतुर्थाध्याये सगुण-निर्गुण-विद्ययोः फल-निर्णयः कृतः । तत्र प्रथम-पादे, श्रवणाद्य् आवृत्त्या निर्गुणं ब्रह्म उपासनावृत्त्या स गुणं वा ब्रह्म साक्षात्कृत्य जीवतः पाप-पुण्यालेपलक्षणा जीवन् मुक्तिर् अभिहिता । द्वितीय-पादे, म्रियमाणस्योत्क्रान्त-प्रकारश्चिन्तितः । तृतीय-पादे, सगुण-ब्रह्म-विदो मृतस्योत्तर-मार्गोऽभिहितः । चतुर्थ-पादे, पूर्व-भागेन निर्गुण-ब्रह्मविदो विदेह-कैवल्य-प्राप्तिर् उक्ता, उत्तरभागेन सगुण-ब्रह्मविदो ब्रह्म-लोक-गमन-स्थितिर् उक्ता [४]

इदम् एव शास्राणां मूर्धन्य शास्त्रान्तर सर्वम् अस्यैव शेषीभूतम् इतीदम् एव मुमुक्षुभिर् आदरणीयं श्री-शङ्कर-भगवत् पादोदित-प्रकारेणेति रहस्यम् । एवं धर्म शास्त्राणि—मनुयाज्ञवल्क्य-विष्णुयमाङ्गिरोवअषिष्ठ-दक्षशतातप-पराशर-गोतम-शङ्खलिखितहारीतापस्तम्बोशनोव्यासकात्यायन-बृहस्पति-देवल-नारद-पैठीनसि-प्रभृतिभिः कृतानि वर्णाश्रम-धर्म-विशेषाणां विभागेन प्रतिषादकानि । एवं व्यासकृतं महा-भारतं, वाल्मीमिकृतं रामायणं धर्म-शास्त्र एवान्तर्भूतम् इतिहासत्वेन प्रसिद्धम् । एवं सर्व-देव-साधरणं मन्त्र-शास्त्रम् अपि धर्म-शास्त्र एवान्तर्भूतम् । साङ्ख्यादीनां धर्म-शास्त्रान्तभावेऽपी स्व-शब्देनैवोपादानात् पृथग् एव सङ्गतिर् वाच्या । अथ वेद-चतुष्तयस्य क्रमेण चत्वार उपवेदाः । तत्रायुर् वेदस्याष्टौ स्थानानि भवन्ति—सूत्रं १। शारीरम् २। ऐन्द्रियं ३। चिकित्सा ४। निदानं ५। विमानं ६। कल्पः ७। प्रसिद्धि ८ श्चेति ब्रह्म-प्रजातत्यश्विधन्वन्तरीन्द्र-भरद्वाजात्रेयाग्निवेशादिभिर् उपदिष्टश्वरकेण सङ्क्षिप्तस् तत्रैव सुश्रुतेन पञ्च-प्रस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वाग्भटादिभिर् अपि बहुधेति न शास्त्र-भेदः । काम-शास्त्रमप्य् आयुर्वेदान्तर्गतम् एवे सुश्रुतेन वाजीकरणाख्य-काम-शास्त्राभिधानात् । तत्र वात्स्यायनेन चिकित्सा-शास्त्रस्य च रोग-तत्-साधन-रोग-निवृत्ति-तत्-साधन-ज्ञानं प्रयोजनम् । एवं धनुर्वेदः पाद-चतुष्टयात्मको विश्वा मित्र-प्रणितः तत्र-प्रथमा दीक्षापादः १। द्वीइतीय सङ्ग्रह-पादः २। तृतीयः सिद्ध-पादः ३। चतुर्थः प्रयोग-पादः ४ ।

तत्र प्रथमे पादे धनुर्लक्षणम् अधिकारिनिरूपण च कृतम् । तत्र धनुः-शब्दश्चापे निरूढोऽपि चतुर्विधेध्यायुधेषु वर्तते । तच् चतुर्विधं—मुक्तम् अमुक्तं मुक्तामुक्तं मन्त्रमुक्तं च । तत्र मुक्तं चक्रादि, अमुक्तं खड्गादि, मुक्तामुक्तं शल्यावान्तर-भेदादि, मन्त्र-मुक्तं शरादि तत्र मुक्तम् अस्त्रम् उच्यते, तद् अमुक्तं शस्त्रम् इत्य् उच्यते, तद् अपि ब्राह्म-वैष्णव-पाशुपत-प्राजापत्याग्नेयादि-भेदाद् अनेकविधम् । एवं साधिदैवतेषु समन्त्रेषु चतुर्विधायुधेषु येषाम् अधिकारः क्षत्रियकुनाराणां तद् अनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथतुरगगजारूढाः, दीक्षाभिषकेसन्नहन-मङ्गल-करणादिकं च-सर्वम् अपि प्रथमे पादे निश्चितम् १ । सर्वेषां शास्त्र-विशेषाणाम् आचार्यस्य च लक्षण-पूर्वक-सङ्ग्रह प्रकारो दर्शितो द्विती-पादे २ । गुरु-सम्प्रदाय-सिद्धानां शस्त्र-विशेषाणां पुनः-पुनर् अभ्यासो मन्त्र-देवतासिद्धिकरणम् अपि निरूपितं तृथीय-पादे ३ । एवं देवतार्चनाभ्यासादिभिः सिद्धानाम् अस्त्र-विशेषाणां प्रयोगश् चतुर्थ-पादे निरूपितः ४ ।

क्षत्रियाणां स्वधर्माचरणं युद्धं, दुष्टदस्युचौरादिभ्यः प्रजा-पालनं च धनुर्वेदस्य प्रयोजनम् । एवं गान्धर्व-शास्त्रं भरतेन प्रणीतम् । तत्र नृत्य-गीत-वाद्य-भ्देन बहु-विधोऽर्थः प्रपञ्चितः । देवताराधननिर् विकल्पक-समाध्यादि-सिद्धिश् च गान्धर्व-दन्दस्य प्रयोजनम् । एवम् एव रस-शास्त्रां च बहु-विधं भरतेनैव प्रणीतं रसरीति-शब्दालङ्कार-नायक-नायिकादि-वर्णन-रूपम् । नीति-शास्त्रम् अश्व-शास्त्रं शिल्पि-शास्त्रं सूपकरण-शास्त्रं चतुःषष्टि-कला-शास्त्रञ्चेति नानाम् उनिभिः प्रणीतानि । तस्य च सर्वस्य लौकिक-तत्-तत्-प्रयोजन-भेदो द्रष्टव्यः । एवम् अष्टादश-विद्यास्त्रयी-शब्दैनोक्ताः तथा साङ्ख्य-शास्त्रं भगवता कपिलेन प्रणीतम् । तत्र त्रिविध-दुःखात्यन्त-निवृत्तिर् अत्यन्त-पुरुषार्थ इति षडध्यायम् ।

तत्र प्रथेऽध्याये विषया निरूपिताः [१] द्वितीयेऽध्याये प्रधान-कार्याणि [२] तृतीयेऽध्याये विषयेभ्यो वैराग्यम् [३] चतुर्थेऽध्याये विरक्तानां पिङ्गलाकुररादीनाम् आख्यायिका [४] पञ्चमेऽध्याये परपक्षनिर्जयः [५] षष्ठे सर्वार्थ-सङ्क्षेपः [६] प्रकृति-पुरुष-विवेक-ज्ञानं शाख्य-शास्त्र-प्रयोजनम् । तथा योग-शास्त्रं भगवता पतञ्जलिना प्रपञ्चितम् अथ योगानुशासनम् इत्य्-आदि पाद-चतुष्टयात्मकम् । तत्र प्रथम-पादे, चित्त-वृत्ति-निरोधात्मकः समाधिः, अभ्याअ-वैराग्य-रूपं च तत्-साधनं निरूपितम् [१] द्वितीयपादे, विक्षिप्त-चित्तस्य समाधि-सिद्ध्य् अर्थं यम-नियमासन-प्राणायाम-प्रत्याहार-धारणाध्यान-समाधयोऽस्टाङ्गानि निरूषितानि [२] तृतीय-पादे, योगविभूतयः [३] चतुर्थ-पादे कैवल्यम् [४] इति तस्य विजातीय-प्रत्ययस्यैव निरोध-द्वारेण निदिध्यासन-सिद्धिः प्रयोजनम् । तथा पाशुपतं शास्त्रं भगवता पशुपतिना पशुपाश-विमोक्षणा अथात पाशुपतं योग-विधिं व्याख्यास्यामः इत्य्-आदि-पञ्चाध्यायैर् विवेचितम् । तत्राध्याय-पञ्चकेनापि कार्य-रूपो जीवः पशुः, कारणं पशुपतिरीश्वरो, योगः पशुपतौ चित्त समाधानं, विधिर्भस्मना त्रिषवण-स्नानादि निरूपितो, दुःखान्त-सञ्जको मोक्षश् च प्रयोजनम् । अत एव कार्य-कारण-योग-विधि-धुःखान्ता इत्य् आख्यायन्ते । एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् । तत्र वासुदेव-सङ्कर्षण-प्रद्युम्नादि-निरुद्धाश् चत्वारः पदार्था निरूपिताः । भगवान् वासुदेवः परमेश्वरः सर्व-कारणं तस्माद् उत्पद्यते, सङ्कर्षणाख्यो जीवस् तस्मान् मनः प्रद्युम्नस् तस्माद् अनिरुद्धोऽहङ्कारः । सर्वे वैते भगवतो वासुदेवस्यांशभूतास् तद् अभिन्ना एवेति भगवतो वासुदेवस्य मनोवाक् काय-वृत्तिभिर् अभिध्यानं कृत्वा कृतकृत्यो भवतीति निरूपितम् । एवं वैष्णवं मन्त्र-शास्त्रम् अखिलम् अपि पञ्चरात्रान्तर् गतम् एव ।

वामागमस् तु शास्त्रबाह्य एव । तद् एवं दर्शितः प्रस्थान-भेदः । सर्वेषां सङ्क्षेपेण त्रिविध एव प्रस्थान-भेदः । तत्रारम्भवाद एकः [१] परिणामवादो द्वितीयः [२] विवर्तवादस् तृतीयः [३] पऋथिवाप्य् अतैर्जसवायवीयाश् चतुर्विधाः परमाणवो व्द्यणुकादिक्रमेण ब्रह्माण्ड-पर्यन्त जगद् आरभतेऽसदेव कार्य कारण-व्यापाराद् उत्पद्यत इति तार्किकाणां प्रथमः । मीमांसकानां च सत्त्व-रजस् तमोगुणात्मकं प्रधानम् एव महद् अहङ्कारादि-क्रमेण परिणमते, पूर्वम् अपि सूक्ष्म--रूपेण सदैव कार्यं कारण-व्यापारेणाभिव्यज्यते इति द्वीय-पक्षः साख्य-योग-पाशुपतानाम् । ब्रह्मणः परिणामो जगद् इति वैष्णवाः । स्व-प्रकाश-परमानन्दाद्वितीयं ब्रह्म स्वमायावशान् मिथ्यैव जगदाकारेण कल्प्यत इति तृतीय-पक्षो ब्रह्मवादिनां, सर्वेषां प्रस्थान-कर्तॄणां च । विवर्तवादे पर्यवसानेनाद्वितीये परमेश्वर एव वेदान्त प्रतिपाद्ये तात्पर्यं न हि ते मुनयो भ्रान्ताः सर्वज्ञत्वात् ताषाम् । किन्तु बहिर् विसाय एव प्रवणानाम् आपाततः परस-पुरुषार्थे प्रवेशो न सम्भवतीति नास्तिक्य-निवारणायः तैः प्रस्थान-भेदा दर्शिताः । तत्र तेषां तात्पर्यम् अबुद्ध्वा वेद-विरुद्धेऽप्य् अर्थे तेषां तात्पर्यम् उत्प्रेक्षमाणास् तत्-तन्मतम् एवोपादेयत्वेन गृह्नन्तो जना ऋजुकुटिलनानापथजुषो भवन्तीति न सर्वेषाम् ऋजु-मार्ग एव प्रवेशो न वा पर्यवसानेऽपि परमेश्वर-प्राप्तिर् अन्तःकरण-शुद्धिवशेन पश्चाद् ऋजु-मार्गाश्रयणाद् एव तत्-प्राप्तिः ।

ऋजुः-मार्गस् तु भागवत-धर्माश्रयणम् एव

यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । > धावन्निमील्य नेत्रे न स्खलेन् न पतेद् इह ॥

इत्य् उक्ते तथा च सर्वेषां मार्गाणां साक्षात् परम्परया वा त्वम् एव प्राप्यः । सरितामृजुकुटिल-नाना-पथजुषां यथा सागर एव गम्यतस् तद्वद् इति भावः । ऋजुपथजुषां गङ्गा-नर्मदादीनां साक्षाद् एवं समुद्रो गम्यः । कुटिल-पथजुषां यमुना-सरय्वादीनां गङ्गाद्वारा समुद्र एव गम्यः । एवं वेदान्त-वाक्य-श्रवणादि-निष्ठानां साक्षात् त्वं गम्योऽन्येषां तु साङ्ख्यानुयायिनां तार्किकाणां च चतुर्विंशति-तत्त्व-द्रव्यादि-सप्त-पदार्थ-विविक्तात्मज्ञानेन । मीमांसा-धर्म-शास्त्रेतिहास-पुराणानुयायिनां तु तत्-तच् छास्त्रोदित-कर्मानुष्ठायिनामन्तःकरण-शुद्धिद्वारा काम-शास्त्रानुयायिनां तु विषयानुभव-विरक्तानां वैराग्य-द्वारा । आयुर्वेदस्य तु तपो-यज्ञार्चनादिष्वारोग्यस्यैव योग्यत्वेन तत्-सम्पादन-द्वारा । धनुर्वेदस्य तु तपो-यज्यार्चनादिष्व् आरोग्यस्यैव योग्यत्वेन तत्-सम्पादन-द्वारा । धनुर्वेदस्य निज-धर्मत्वात् क्षत्रियाणामन्तःकरण-शोधन-द्वारा । शिल्पनीत्यादि-विद्यानुयायिनाम् अपि यथा-कथञ्चिद् अन्तःकरण-शुद्धि-द्वारैव । शैव-शास्त्र-सौरगाणपत्यादीनां तु गीतोक्त-द्वारा परम्परया वैष्णवानां तु नन्द-नन्दन-रूपे त्वयि परानुराग-रूपाद्वैत-निष्ठानां साक्षाद् एव त्वं गम्योऽपि तेऽपि माम् एव कौन्तेय भजन्त्यविधि-पूर्वकम् इत्य् आद्य् उक्तेः ।

गान्धर्ववेदानुयायिनां तु स्वर-ब्रह्म-निष्ठानां त्वयि चेत एकीभाव-सम्पादन-द्वारा । साहित्य-निष्ठानाम् अप्य् उज्ज्वल-नीलमण्य् उक्त-प्रकारेण त्वम् एव गम्योऽसि । किं बहुना एतद् अभिप्रेत्यैव शिव-रहस्ये महिम्नाख्यस्तवे पुष्पदन्तेनोक्तम्

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णम् इति > प्रभिन्ने प्रस्धाने परमिदमदः पथ्यम् इति च । > रुचीनां वैचित्र्यादृजु-कुटिल-नाना-पथजुषां > नृणाम् एको गम्यस्त्वम् असि पयसामर्णव इव ॥ इति ।

अत्राद्रिस्थानीयो वेदः, पर्जन्य-स्थानीया मुनयः । अन्तत इति दृष्टान्ते गमनस्य पर्यवसाने सति दार्ष्टान्तिके विचारस्येति व्याख्येयम् । तथा च मोक्ष-धर्मे नारायणीयोपाख्याने

साङ्ख्य-योगं पञ्चरात्रं वेदाः पाशुपतं तथा । > ज्ञानान्येतानि राजर्षे विद्धि नाना मतानि वै ॥ > साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । > हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ॥ > अपान्तरतमाश्चैव वेदाचार्यः स उच्यते । > प्राचीन-गर्भ्यं तमृषि प्रवदन्तीति केचन ॥ > उमापतिर् भूतपतिः तपतिः श्री-कण्ठो ब्रह्मणः सुतः । > उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः ॥ > पञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान् स्वयम् । > सर्वेष्व् एव नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ॥ > यथागमं यथा-ज्ञानं निष्ठा नारायणः प्रभुः । > न चैनम् एवं जानन्ति तेऽमी भूता विशाम्पते ॥ > तम् एव शास्त्र-कर्तारं प्रवदन्ति मनीषिणः । > निष्ठां नऋआयणमृषिं नान्योऽस्तीति वचो मम ॥ > निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । > ससंशयाद् धेतुवलान् न ह्य् आवसति माधवः ॥ > पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । > एअकान्त भावोपगतास् ते स्हरिं प्रविशन्ति वै ॥ > साङ्ख्यं च योगाश् च सनातनोऽत्र वेदां च सर्वं निखिलोऽपि राजन् । > सर्वैः समस्तैर् ऋषिभिर् निरुक्तो नारायणो विश्वम् इदं पुराणम् ॥ > इति ।

अपान्तरतमा इति श्री कृष्ण-द्वैपायनस्यैव पूर्व-जन्म नामेति तत्रैवोक्तम् । सर्वेष्व् एवेति तत्र तत्र नारायणवत् परमोपादेय-गुणत्वेनानुक्तेस् तेषां तद् आकाङ्क्षासम्भवाद् इति भावः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्रि-प्रभवत्वेनाद्रीणां बाहुल्याद् बाहुल्यम्, तारतम्यात् तारतम्यं च, तत्रापि पर्जन्यापूरितत्वेन बहु-स्रोतस् त्वया प्रत्येकं विशन्ति । विभो ! हे सर्व-व्यापकेति सर्व-गतीनां प्रवेश-योग्यता दर्शिता । अन्ततः पर्यवसानतः काश्चित् साक्षात्, काश्चित् परम्परयेत्य् अर्थः, त्वदीयत्वेन यजनम् अपि त्वय्य् एव पर्यवसानात् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्राद्रि-स्थानीयो वेदः पर्जन्य-स्थानीया मुनयो ज्ञेयाः अन्तत इति दृष्टान्ते गमनस्य पर्यवसाने सति दार्ष्टान्तिके विचारस्येति व्याख्येयं तथा च मोक्ष-धर्मे नारायणीपाख्याने साङ्ख्यं योगः पञ्च-रात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे ! विद्धि नानाम् अतानि च ।

साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । > हिरण्य-गर्भो योगस्य वेत्ता नान्यः पुरातनः । > अपान्तरतमाश्चैव चेदाचार्यः स उच्यते । > प्राचीन-गर्भं तमृषिं प्रवदन्तीह केचन । > उमापतिर् भूत-पतिः श्री-कण्ठो ब्रह्मणः सुतः । > उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः । > पञ्च-रात्रस्य कृत्स्नस्य वक्ता तु भगवान् स्वयम् । > सर्वेष्व् एव नृप-श्रेष्ठ ! ज्ञानेष्व् एतेषु दृष्यते । > यथागमं यथा-ज्ञानं निष्ठा नारायणः प्रभुः । > न चैनम् एवं जानन्ति तमोभूता विशाम्पते ! । > तम् एव शास्त्र-कर्तारः प्रवदन्ति मनीषिणः । > निष्ठां नारायणम् ऋषिं नान्योऽस्तीति वचो मम । > निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । > ससंशयाद् धेतुवलान्न् अध्यावसति माधवः । > पञ्च-रात्र-विदो ये तु थाक्रमपरा नृप ! > एकान्त-भवोपगतास् ते हरि प्रविशन्ति वै । > साङ्ख्यं च योगश् च सनातनोऽत्र वेदाश् च सर्वे निखिलेन राजन् ! । > सर्वैः समस्तैर् ऋषिभिर् निरुक्तो नारायणो विश्वम् इदं पुराणम् ।

इति अपान्तरतमा इति श्री-कृष्न-द्वैपायनस्यैव पूर्व-जन्मनाम् एति तत्रैवोक्तं सर्वेष्व् एवेति तत्र तत्र नारायणवत् परमोपादेय-गुणत्वेनानुक्तेस् तेषां तद् आकाङ्क्षा सम्भवाद् इति भावः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि माम् एवार्चयन्ति, तर्हि ते माम् एव प्राप्नुयुः ? मैवम् । तेषाम् अर्चना एव त्वां प्राप्नुवन्ति, न तु ते अर्चकाः । यद् उक्तं त्वयैव—

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । > तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥ > अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । > न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ > यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः । > भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम् ॥ [गीता ९.२३।-२४] > इति ।

अतोऽहम् अपि दृष्टान्तेन तथैव वच्मीत्य् आह—यथेति । अद्रिभ्यः सकाशात् प्रकर्षेण भवन्तीति ताः अद्रिभिर् जनिता इत्य् अर्थः । पर्जन्येन मेघेनापूरिता इति अद्रिषु पर्जन्य-वृष्टानि जलान्य् एवेतस् तत एकीभूय नद्यो भवन्ति, ताश् च नद्यः सर्वतः प्रसृत्य अन्ततः सिन्धुं विशन्तीति अद्रि-जनिता नद्य एव यथा सिन्धुं प्राप्नुवन्ति, न तु नदी-जनका अद्रयस् तथैव गतयो गम्यन्ते आभिर् इति मार्ग-भूता अर्चना एव त्वां प्राप्नुन्वन्ति, न त्व् अर्चकास् ते तथैव सर्व-दैवाधिष्ठातृत्वात्, अधिष्ठान-पूजा अधिष्ठातर्य् एव पर्यवस्यतीति न्यायात्, सर्व-देव-पूजापि त्वत्-पूजैवेति भावः । अत्र पर्जन्य-स्थानीयो वेदः पर्जन्यो हि सिन्धु-जलमयत्वात् सिन्धोर् उद्भूतः वेदोऽपि त्वत्त उद्भूतस् तद्-उक्ता नाना-पूजन-विधय एव जलानि तत्राधिकारिण एवाद्रयस् तत्-कृता नाना-देवेश-पूजा एव नाना-देश-नद्यस् ता नद्यो यथा नाना-देशेभ्यः निःसृत्य सिन्धुम् एव गच्छन्ति, तथैव पूजा अपि देवेभ्यो निःसृत्य विष्णुम् ॥१०॥


॥ १०.४०.११ ॥

सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः ।
तेषु हि प्राकृताः प्रोता आ-ब्रह्म-स्थावरादयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुम् आह—सत्त्वम् इति । भवतः शक्तिर् या प्रकृतिस् तस्याः सत्त्वादयो गुणा अतः प्राकृताः प्रकृति-कारोपाधयो ब्रह्म-पर्यन्ताः स्थावरादयो जीवाः स्वोपाधि-द्वारा तेषु गुणेषु प्रोताः प्रविष्टास् ते च प्रकृतौ सा च त्वयीति । अतः क्रमेणोपाधि-लयात् सर्वेऽपि त्वाम् एव विशन्तीति । यद्वा भवतः प्रकृतेर् गुणेषु प्रोता ब्रह्मादयो भवद् व्यतिरिक्ता न सन्ति, अतस् त्वम् एव सर्व-देव-मय इति ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-मार्ग-प्रप्यत्वे हेतुम् आह—भवतस् तव । अतः प्रकृति-कार्यत्वात् । प्रकृति-कार्यं सत्त्वादि । स्वोपाधिद्वारा सत्त्वादि-निज-निजोआधिद्वारा । तेषु सत्त्वादिषु स प्रकृतिः । यत इत्थं क्रमोऽतो हेतोः । क्रमेण साङ्ख्योक्त-क्रमेण । साङ्ख्य-प्रक्रियाश्रवणे श्रमं वीक्ष्यर्जुं पन्थानम् आह—यद् वेति । शक्ति-शक्तिमतोर् अभेदोपचाराद् इति । यतस् त्वव्द्यतिरिक्ता न सन्त्यतो हेतोः ।

ननु, तर्ह्य् एवं विविच्य सर्वे माम् एव किन्नोपासते तत्राह—सत्त्वम् इति । तेषु गुणेषु हि निश्चितं ब्रह्म-पर्यन्ता जीवाः सर्वेऽपि मायया मोह्यन्ते तर्हि ते कथं त्वां भजन्ताम् इति भावः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सत्त्वादि-क्रमेणोक्तिः पूर्वोक्त-सात्त्विकाद्य् उपासक-क्रमाणुसारेण । यद् वा, देव-नृतिर् यगात्मस्व् इति वक्ष्यमाण-सात्त्विकादि-क्रमापेक्षया । हि एव, तेषु गुणेष्व् एव । प्रता ग्रथिताः, यतः प्राकृताः प्रकृति-सम्बन्धिनः । तत्र ब्रह्मणोऽपि2 स्थावराणां चादिता-प्राकृतत्वे तस्य गौणतायाः स्थावराणां च प्रधानताया विवक्षया, यद्य् अपि सृष्ट्य् अर्थं श्री-भगवान् ब्रह्मा सन् प्रकटो भवतीति श्री-विष्णु-पुराणादि-मतेन भगवद् अवतार-विशेषो ब्रह्मा, तथापि प्राकृतेषु तस्योक्तिः स्कन्द-पुराणादि-दृष्ट्या क्वचिन् महा-कल्पे गते जिवस्यापि कस्यचिद्-ब्रह्म पद-प्राप्तेर् अभिप्रायेणेति । अन्यत् तैर् व्याख्यातम् एव ।

यद् वा, ननु, तर्हि सर्वेऽपि साक्स्;अन् माम् एव कथं कथं न सेवन्ते, त्वन् माया-मोहितत्वादित्य् आह—सत्त्वम् इति । आब्रह्म-स्थावरादय इत्य् उच्च-नीचानां सर्वेषाम् अपि माया-मोहितत्वम् उक्तम् ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु विचारस्य पर्यवसाने सत्य् एव ते मार्गा मयि विशन्तीति कथम् उक्तं कथम्वा प्रथमत एव न विशन्तीति तत्राह । सत्त्वम् इति । तैर् व्याख्यातं तत्र पूर्वार्धे क्रमेण देवता-परित्यागो ज्ञेयः वैदिक-मार्गस्य चित्त-शोधक-स्वभावत्वात् उत्तार्धे ईश्व इति योज्यं तद् एवं माया-मोहितत्वाद् एव साक्षात्त्वां न भजन्तीति भावः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्ह्य् एवं विविच्य सर्वे ऽपि किं माम् एव नोपासते तत्र् आह—सत्त्वम् इति । तेषु गुणेषु हि निश्चितं प्राकृता जीवाः प्रोताः ग्रथिताः । आब्रह्मेति ब्रह्म-पर्यन्ता अपि जीवा यदि मायया मोह्यन्ते तर्हि सर्वे मनुजास् त्वां कथं भजन्ताम् ? इति भावः ॥११॥


॥ १०.४०.१२ ॥

तुभ्यं नमस् ते त्व् अविषक्त-दृष्टये

सर्वात्मने सर्व-धियां च साक्षिणे ।

गुण-प्रवाहोऽयम् अविद्यया कृतः

प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भवतः प्रकृतेर् इति वदन् ममापि प्रकृति-सम्बन्धं ब्रवीषि । ततश् च तेषां मम चको विशेषः स्याद् इत्य् आशङ्क्य विशेषम् आह—तुभ्यम् इति । अविभक्त-दृष्टयेऽलिप्त-बुद्धये । कुतः ? सर्वात्मने स्व-व्यतिरिक्ताभावाद् अविषक्त-दृष्टित्वम् इत्य् अर्थः । किं च सर्व-धियां साक्षिणे । सर्व-बुद्धि-साक्षित्वान् न क्वापि बुद्धि-लेप इत्य् अर्थः । इतरे तु संसरन्तीत्य् आह—गुण-प्रवाह इति । देव-नृ-तिर्यं च आत्मानो येषां तेषु देवादि-शरीराभिमानिष्व् इत्य् अर्थः । त्वद् अविद्यया कृतोऽयं गुण-प्रवाहः प्रवर्तते, अतो महान् विशेष इत्य् अर्थः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राकृत-पदार्थेष्व् अवस्थितस्य हरेस् ततो विशिष्ट-महिमा-सम्भवम् आलोच्याशङ्कते—नन्व् इति । ततः प्रकृति-सम्बन्धात् । तेषां प्राकृतानाम् । अलिप्त-बुद्धित्वे हेतुम् आशङ्कते—कुत इति । इत्य् अर्थ इति—दृष्टेर् आसङ्गो हि निज-भिन्ने भवति न त्व् अभिन्ने इति भावः । न हि केवलम् अलिप्त-बुद्धित्वम् एव, किं त्वतोऽप्य् आधिक्यम् इत्य् आह—किं च इति । इत्य् अर्थः इति –न हि साक्षी साक्ष्यधर्मेण युज्यते पूर्ववद् इति तात्पर्यम् । इतरे त्वद् विमुखाः । इत्य् अर्थः इत्य्—अभिमान एव शरीरादिषु संसृति हेतुर् इत्य् अर्थः । त्वद् अविद्यया स्वात्मभूतस्य तवाज्ञानेन गुणानां रजआदीनां प्रवाह उत्पत्ति-स्थित्य् अन्तरूपः । यतस् त्वम् अविषक्त-बुद्ध्यादिरत इतरेभ्यस् तव महान् भेद इत्य् अर्थः । इतरे त्व् अविद्यया संसृतिभाजिनः सदा निज-ज्ञानानन्ददवतस् तव कुतः संसृति-सम्बन्ध इति भावः । त्वन्तु तेषु पूर्ववद् उदासीनन्तिष्ठसीति विचार्य स्वयं भीतः सम्प्रपद्यमान आह—तुभ्यम् इत्य् अर्धेन । त इत्य् अस्याविद्ययेत्य् अनेनान्वयः । अत एव तैर् व्याख्यातम्—त्वद् अविद्यया कुतोऽयम् इति । यद् वा, यत् तुभ्यं नमो नमस्कारः तत् ते तुभ्यम् इति त्वाम् एव प्रसादयितुम् इत्य् अर्थः क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति विधानात् तु शब्दो भिन्नोपक्रमे प्राकृतेभ्योऽन्त्यन्तभेदात् । अस्तु इति पाठे स्पष्ट एव द्वितीयोऽर्थः । अविषक्त-दृष्टये दृष्ट्वापि तेष्व् अनासक्तायेत्य् अर्थः । तत्र हेतुः—सर्वात्मने सर्व-भूत [मूल] स्वरूपत्वात् सर्वेषां सर्व-प्रवर्तकस्य कथम् अन्यत्रादरः स्याद्येन विरक्तिः स्याद् इति भावः । नन्वादराभावेऽपि द्रष्टारं दृश्य गुणस्य सङ्क्रमः स्याद् एव तत्राह—सर्वधियां सर्वासाक्षिणे साक्षिमात्रत्वान् न तव तेष्व् आसक्तिर् इति भावः ।

ननु, तेषां त्वय्य् एव पर्यवसानतो विचारे सति त्वदौदासीन्ये कथं सिद्धिः स्यात् तत्राप्य् आह—सर्वाधियां चेति । तेषां तदा त्वदाभिमुख्ये जाते भक्तत्वं जातम् इति तद् अभिज्ञस्त्वं न तेषूदासीनो भवसीति भावः ।

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः । > ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥

इति श्री-भगवद् गीतात एवेति भावः । तादृश-विचारात् पूर्वावस्थायां का वार्ता तत्राहार्धेन—गुणेति ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते इत्य् अस्याविद्ययेत्य् अनेनान्वयः । अत एव तैर् व्याख्यातम् । त्वद्-अविद्या-कृतोऽयम् इति, तुभ्यम् इत्य् अत्र तस्मै इति पाठे वा । तु-शब्दो भिन्नोपक्रमे, प्राकृतेभ्योऽत्यन्त-भेदात् । अस्तु इति पाठे भक्त्या नमस्कारस्य स्थैर्य-प्रार्थनम् । सर्वात्मता तद्-अंशत्वेन जीवानाम् अभेदात् । यद् वा, सर्वस्यात्मने चेतयित्रे इति तत्-स्वभावतो जीवेभ्यो विशेष उक्तः । अधुना जीव-स्वभावाद् अपि विशेषम् आह—गुण-प्रवाह इति । संसारः—अयं साक्षात् सर्वैर् अनुभूयमानः, असकृत् प्रवर्तते पुनः पुनर् आवृत्त्या आयाति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ननु, कुतोऽहम् एव भजनीयो न त्व् अन्यः ? इत्य् अपेक्षायां माहात्म्यं वर्णयन् प्रणमति—तुभ्यम् इति । अविषक्ता भक्तापराधादावलग्ना दृष्टिर् यस्य, बहुशः कृतानाम् अप्य् अपराधानां मर्षणात् सर्वस्यात्मने परमात्मने इति परम-प्रियत्वं परमेशरत्वं चोक्तम् । सर्वधियां च साक्षिणे इति कथञ्चिन् मनसि कृतं स्मरणम् अपि जानासीति कृतज्ञत्वं सुसेव्यत्वादिकं च । परे च त्वद् अज्ञानेन नित्य-दुःखिनो भजन-योग्या न भवन्तीत्य् आह—गुणेति । अर्थः स एव । ततश् च देव-शब्देन हिरण्य-गर्भ-शिव-व्यतिरिक्ता देवा ग्राह्याः, तयोर् भगवद् भक्तत्वात् । यद् वा, तव गुण-प्रवाहः कारुण्यादि-गुण-परस्म्परा, अविद्यया युक्तेष्व् अपि देवादिषु, अन्यत् समानम् । इति भजनीयता-मुख्य-कारणं कारुण्यादिकम् उक्तम् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, विचारस्य पर्यवसाने सत्य् एव ते मार्गा मयि विशन्तीति कथम् उक्तं कथम् वा प्रथमत एव न विशन्तीति तत्राह । सत्त्वम् इति । तैर् व्याख्यातं तत्र पूर्वार्धे क्रमेण देवतापरित्यागो ज्ञेयः वैदिक-मार्गस्य चित्त-शोधक-स्वभावत्वात् उत्तरार्धे ईश्वर इति योज्यं तद् एवं माया-मोहितत्वाद् एव साक्षात् त्वां न भजन्तीति भावः । त्वन्तु तेषु पूर्ववद् उदासीनस् तिष्ठसीति विचार्य स्वयं भीतः सन् प्रपन्नमान आह । तुभ्यम् इत्य् अर्धेन । ते इत्य् अस्याविद्ययेत्य् अनेनान्वयः अत एव तैर् व्याख्यातं त्व् अविद्याकृतोऽयम् इति । यद् वा, यत् तुभ्यं नमो नमस्कारः तत् ते तुभ्यम् इति त्वाम् एव प्रसादयितुम् इत्य् अर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिन इति विधानात् तु-शद्बो भिन्नोपक्रमो प्राकृतेभ्यऽत्यन्त-भेदात् अस्त्विति पाठे स्पष्ट एव द्वितीयोऽर्थः अविषक्त-दृष्टये दृष्ट्वापि तेष्व् अनासक्तायेत्य् अर्थः । तत्र हेतुः सर्वात्मने सर्व-मूल-स्वरूपत्वात् सर्वेषां सर्व-प्रवर्तकस्य कथम् अन्यत्रादरः स्यात् येन विरक्तिः स्याद् इति भावः । नन्वादराभावेऽपि द्रष्टृ-दृश्य-गुणस्य संक्रमः स्याद् एव तत्राह । सर्वधियां सर्व-साक्षिणे साक्षि-मात्रत्वान् न तव तेष्वासक्तिर् इति भावः ।

ननु, तेषां त्वय्य् एव पर्यवसानतो विचारे सति त्वदौदासीन्ये कथं सिद्धिः स्यात् तत्राप्य् आह । सर्वधियां चेति । तेषां तदा त्वदाभिमुख्ये जाते भक्तत्वं जातम् इति तद् अभिज्ञस् त्वं न तेपूदासीनो भवसीति भावः ।

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः । > ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥

इति श्री-भगवद् गीतात एवेति भावः । ननु, तादृश-विचारात् पूर्वावस्थायां तेषां का वार्ता तत्राह सार्देन गुणेति ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तेऽविद्ययेत्य् अन्वयः । त्वद्-विषयेणाज्ञानेनेत्य् अर्थः ॥१२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते त्वां प्राप्तुं तुभ्यं मम नमोऽस्तु । तव तु स्व-भक्तेभ्यो ऽन्येषूपासकेषु दृष्टिर् न रज्यतीत्य् आह—तुभ्यम् इति । अविषक्त-दृष्टये कथं तर्हि सर्व-देव-पूजां त्वं प्राप्नोषीति ब्रूषे; यो हि येभ्यः पूजां प्राप्नोति स तेष्व् अनुरज्यत्य् एवेत्यत आह—सर्वात्मने सर्वाधिष्ठातृत्वाद् एव तत्-तत्-पूजां प्राप्नोषि, न तु तस्यां तव काचिद् अपेक्षास्ति तेऽपि त्वां न पूजयन्ति कुतस् तव तेष्व् आसक्तिर् इति भावः । अतः साक्षिणे इति साक्षी त्वं सर्वत्रोदासीन एवेति भावः ।

ननु, तर्हि ते देवा एव स्व-स्वोपासकास् तान् उद्धरन्तु ? तत्राह—गुणेति । असकृत् निरन्तरं देव-नृ-तिर्यञ्च आत्मानो येषां तेषु देवादि-शरीराभिमानिष्व् इत्य् अर्थः । तत्-तद्-उपास्या देवा अपि स्वयं गुण-प्रवाह-पतिताः, कथं स्वोपासकांस् तान् उद्धरन्त्व् इति भावः ॥१२॥


॥ १०.४०.१३ ॥

अग्निर् मुखं तेऽवनिर् अङ्घ्रिर् ईक्षणं

सूर्यो नभो नाभिर् अथो दिशः श्रुतिः ।

द्यौः कं सुरेन्द्रास् तव बाहवोऽर्णवाः

कुक्षिर् मरुत् प्राण-बलं प्रकल्पितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वात्मन इत्य् अनेनोक्तं स-गुणं स्तौति—अग्निर् मुखम् इति द्वाभ्याम् । अग्न्य्-आदीन् अनूद्येश्वरावयवता विधीयते । योऽयम् अग्निः स तु तव मुखम् इत्य्-आदि-वचन-व्यक्त्या । ईक्षणं चक्षुः । श्रुतिः श्रवणेन्द्रियम् । कं मूर्धा । प्राणश् च बलं च तत् ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नानादेवतानाम् अभिः कृतं यजनादि मद् विषयं कथं स्याद् इत्य् आक्षेपे सर्वेषां त्वद् उद्भवत्वेन त्वद् अशत्वाद् अङ्गार्चनेऽङ्ग्य् अर्चनवत्स्याद् इति हेतोर् हरेः सर्वात्मत्वं सगुणस्य स्फुटयति—अनूद्योच्चार्य । त्वन् मुखाज् जातोऽग्निस् तव मुखम् । मुखाद् अग्निर् अजायत इत्य्-आदि-श्रुतेः । किं च, वैराज-रूपस्य तव तेते देवा अङ्गान्येवेत्य् अतोऽपि तत्-तद्-देवपूजा तवैव पूजेत्य् आह—अग्निर् इति त्रिभिः । तत्राद्यं द्वयं युग्मम् । मुखं मुख-शक्त्यंशाघिष्ठानम् इत्य् अर्थः । एवम् अन्यद् अपि ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-देवमयेश्वरम् इत्य् उक्तम् । तत्र सर्व-देवमयत्वं दर्शयति—अग्निर् इति द्वाभ्याम् । मुखाद् अग्निर् अजायत इत्य्-आदि-वचनतो यद्य् अपि भेदः प्रतीयते, तथापि अग्निस् ते मुखम् इत्य्-आदिकं नित्य-सर्व-देवमयता-विवक्षया कार्य-कारणयोर् अभेदोपचारात् । अत एवोक्तम्—कल्पितम् इति । नभ आदीनां देवतात्व-प्रसिद्ध्यभावेऽपि श्री-भगवद् अङ्गतया कल्पनेन तत् तद् अधिष्ठातृ-कारण-देवतात्वं सिद्धम् एव ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वमयत्वेन सर्वमयेश्वरत्वं दर्शयति । अग्निर् इति त्रिभिः । तत्राद्यं द्वयं युग्मकं मुखं मुख-शक्त्य् अंशाधिष्ठानम् इत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वमयत्वेन सर्व-देव-मयेश्वरत्वं दर्शयति—अग्निर् इति त्रिभिः । मुखं मुख-शक्त्य्-अंशाधिष्ठानम् इत्य् अर्थः । एवम् अन्यद् अपि ॥१३.१६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, वैराज-रूपस्य तव ते ते देवा अङ्गान्य् एवातो ऽपि तत्-तद्-देव-पूजा तवैव पूजेत्य् आह—अग्निर् इति । कं शिरः ॥१३॥


॥ १०.४०.१४ ॥

रोमाणि वृक्षौषधयः शिरोरुहा

मेघाः परस्यास्थि-नखानि तेऽद्रयः ।

निमेषणं रात्र्य्-अहनी प्रजापतिर्

मेड्ह्रस् तु वृष्टिस् तव वीर्यम् इष्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्रयः परस्य तेऽस्थि-नखानि ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परस्य तवेति योज्यम् । निमेषणं नुकुलीभावो रात्रिः, एक-सम्बन्धि-ज्ञानम् अपरसम्बन्धिस्मारम् इति न्यायेन निमेषण-पदेनोन्मोषोऽपि स्मार्यते घट-घटत्वयोर् एकतरोच्चारणेऽपरस्य स्मरणं जायत एवेतिवत् । उन्मेष उत्फुल्लता, अहरित्य् अर्थः । प्रजापतिर् दक्षः । वीर्यं रेतः । अत एवाभेदेनाप्य् उपासनं विधीयते । परस्य तेभ्योऽन्यस्य निज--रूपेण पृथग् वर्तमानस्येत्य् अभेदेनोक्तेभ्योऽपि भेदो दर्शितः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, कथम् एवं सम्भवेत् ? तत्राह—परस्येति, परमेश्वरत्वादित्य् अर्थः । यद् वा, परस्य तेभ्योऽन्यस्य निज--रूपेण पृथग्-वर्तमानस्येत्य् अभेदेनोक्तानाम् अपि भेदो दर्शितः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अन्यद् अपि अत एवाभेदेनोपासनं विधीयते परस्य तेभ्योऽन्यस्य निज--रूपेण पृथग् वर्तमानस्येति अभेदेनोक्तेभ्योऽपि भेदो दर्शितः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च वैराज-रूपस्य तव ते ते देवा अङ्गान्येवातोऽपि तत् तद् देव-पूजा तवैव पूजेत्य् आह । अग्निर् इति । कं शिरः ॥१४॥


॥ १०.४०.१५ ॥

त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता

लोकाः स-पाला बहु-जीव-सङ्कुलाः ।

यथा जले सञ्जिहते जलौकसोऽप्य्

उदुम्बरे वा मशका मनो-मये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् एतावत्, किन्तु सर्वोऽप्य् अयं प्रपञ्चस् त्वद्-अवयव-भूत एवेति वदन्न् एवं सत्य् अपि प्रपञ्चस्य षट् जन्मादयो विकारास् त्वयि न प्रसज्जन्ते, तस्य त्वयि कल्पितत्वाद् इत्य् आह—त्वयीति । अव्ययात्मनि पुरुषे पूर्णे लोकादयः सञ्जिहते प्रचरन्ति हे अव्ययात्मन्न् इति वा । क्थं-भूते त्वयि । मनो-मये मनः प्रधाने मनो-वृत्ति-व्यङ्ग्ये—दृश्यते त्वग्र्यया बुद्ध्या, मनसैवानुद्रष्टव्यःइत्य्-आदि-श्रुतेः । जले यथा जलौकसः सूक्ष्म-प्राण्य्-अण्ड-राशयो यथा चोदुम्बरान्तः-केसरेषु मशकाः परस्पर-वार्तानभिज्ञाः, एवम् अनन्तानि ब्रह्माण्डानि त्वयि सञ्चरन्तीत्य् अर्थः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वात्मत्वम् उपसंहरति—न केवलम् इति । एवं सत्य् अपि प्रपञ्चावयववत्त्वेऽपि । तस्य प्रपञ्चस्य । न हि रज्जु-कल्पिताहेर् विषं रज्जावायातीति भावः । अव्ययात्मन्न् इति परमे व्योमन् इतिवल् लुप्त-सप्तमीकम् । निर्व्यपाये इत्य् अर्थः । लोकादय इहादिना पालग्रहः । बहुभिर् अण्डजोद्भिज्ज-स्वेदज-जरायुजैर् जीवैः सङ्कुलाः व्याप्ताः । ऋजु-मार्गेण सिद्ध्यतोऽर्थस्य इति न्यायम् आश्रिताह—हे अव्ययात्मन्न् इति वेति । अग्र्यया तपोयागादिकरणेन शुद्धया । मनस्राप्य् उपासमया सङ्स्कृतेन । जलोकसो वारिवासिनः । उदुम्बरे जनु-फले उदुम्बरो जन्तु-फलो यज्ञाङ्गो हेम-दुग्धकः इत्य् अमरः । मशकाः पिपीलिका-विशेषाः । एवम् उदुम्बरस्थम् अशकवत् । इत्य् अर्थ इति-अनन्तान्तर्गतानि ब्रह्माण्डण्यप्य् अनन्तान्येवेत्य् अर्थः । तद् एवं विराज-रूपत्वेन स्तुत्वानन्त-ब्रह्माण्ड-कऋअण-महा-हिरण्य-गर्भत्वेन स्तौति—त्वयीति । हे अव्ययात्मन् सर्व-कारणत्वेऽप्य् अचिन्त्य-शक्तित्वेन निविकार-पुरुषे महा-हिरण्य-गर्भ-रूपे मनोमये मन-आद्यन्तः-करणमय-षोडश-कले त्वयि लोकाः सपाल बहु-जीव-सङ्कुलाः चरन्तीति । तत्र लोका ब्रह्माण्डानि, सञ्चरन्ति यथा-क्रमं सृष्टि-प्रलययोर् बहिरन्तर्भवन्ति, पाला ब्रह्मादयोऽधिकारान् अधिकारयोर् आरोहन्ति पतन्ति च, अन्ये जीवा अत्रामुत्र गतागतं कुर्वन्तीत्य् अर्थः । तत्र ब्रह्माण्डानां सञ्चरणे दृष्टान्तः—यथा जल इति, पालादीनाम् उदम्बरे वेति । उदुम्बरम् अत्र ब्रह्माण्ड-स्थानीयम् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मनोमय इति मनसिव विभाव्यत्वम् उक्तम्, अन्यत् तैर् व्यञ्जितम् । यद् वा, अधुनेश्वरत्वम् आह—त्वयीति । अव्ययात्मन् हे अक्षय-स्वभावेति मीनादीनां सञ्चारणे3 जलादेर् इव व्ययो निरस्तः, यतः पुरुषे पूर्णे लोकाश् चतुर्दश-भूवनानि, पाला ब्रह्मादयस् तत्-सहिताः । यद् वा, लोका बहुभिर् जीवैः सङ्कुला व्याप्ताः प्रकल्पिताः । तन्मयया त्वयैव वा सृष्टाः, अतस् त्वय् एव सम्यग्जिहते परिभ्रमन्ति । सं-शब्देन तत्रासङ्कोचादिकम् उक्तम् । सर्वस्मिन् जले सद सर्वेषां जलौकसां सुख-सञ्चाराभावम् आशङ्क्य पक्षान्तरम् आह—स्मशका इति । मनोमये चिन्ता-मात्रेण मनस्याविर्भवतीति पूर्वोक्त-सुसेव्यत्वम् एव दर्शितम् । यद् वा, मनोमय-मूर्ति-रूपेऽपि त्वयि तादृश-रूपस्याप्य् अचिन्त्य-प्रभावत्वात्, किं पुनः स्वयं साक्षान् निज-रूप इत्य् अर्थः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं विराज-रूपत्वेन स्तुत्वानन्त-ब्रह्माण्ड-कारण-महा-हिरण्य-गर्भत्वेन स्तौति । त्वयीति । हे अव्ययात्मन् ! सर्व-कारणत्वेऽप्य् अचिन्त्य-शक्त्या निविकार ! पुरुषे महा-हिण्य-गर्भ-रूपे मनोमये मन आद्यन्तःकरणमय-षोडश-कले त्वयि लोकाः सपाल बहु-जीव-सङ्कुलाः सञ्चरन्तीति तत्र लोकाः ब्रह्माण्डानि सञ्चरन्ति यथा-क्रमं सृष्टि-प्रलयोर् बहिरन्तर् भवन्ति पाला ब्रह्मादयः अधिकारान् अधिकारयोर् आरोहन्ति पतन्ति च । अन्ये जीवा अत्रामुत्रागतागतं कुर्वन्तीत्य् अर्थः । तत्र ब्रह्माण्डानां सञ्चरणे दृष्टान्तः यथा जल इति पालादीनाम् उदुम्बरे वेति उदुम्बरम् अत्र ब्रह्माण्ड-स्थानीयम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं चेत् तर्हि देव-याजिनो\ऽपि मद्-याजिन एव, यान्ति मद्-याजिनो\ऽपि माम्[गीता ९.२४] इति मद्-उक्तेः । कथं ते मां न प्राप्नुवन्ति ? तत्राह—त्वयि पुरुषे वैराज-रूपे लोका भूर्-आदयः प्रकल्पिताः पाला इन्द्रादि-देवास् तत्-सहिताः सञ्जिहते प्रचलन्ति । वा इवार्थे । यथा च उडुम्बर-फले मशकाः सूक्ष्म-कीटाः असङ्ख्याः । त्वयि कीदृशे ? मनो-मये मन-आद्य्-अखिल-तत्त्व-मये मायिकत्वान् नश्वरे इत्य् अर्थः । हे अव्ययात्मन् ! नव्येति न नश्यति आत्मा देहो यस्य, हे सच्-चिद्-आनन्द-विग्रह इत्य् अर्थः । तेनानश्वराणि सच्-चिद्-आनन्द-मयानि रूपाण्य् एव तव स्वरूपाणि तानि यजन्त एव तद्-याजिन उच्यन्ते । वैराज-रूपं तु तव मायिकं रूपं नश्वरः, न तु त्वत्-स्वरूपम् अतस् तद्-अङ्ग-भूत-देव-याजिनो न तद्-याजिनः । अतः साधुक्तं यान्ति देव-व्रता देवान्[गीता ९.२४] इत्य्-आदीति द्योतितम् ॥१५॥


॥ १०.४०.१६ ॥

यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।
तैर् आमृष्ट-शुचो लोका मुदा गायन्ति ते यशः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् एवं-भूतं तव स्वरूपं दुरवगाहम् इति त्वद्-अवतार-कथामृतम् एव सन्तः सेवन्त इत्य् आह—यानि यानीति । आमृष्टा परिमार्जिता शुक् येषां ते ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मात्त्वम् अनन्तस् तस्माद् धेतोः । एवं-भूतं सर्व-प्रपञ्चाधारम् । दुरवगाहं दुर्ज्ञेयम् । इति हेतोः । ते परिहृत-दुःखा लोकाः । हीति प्राग् विद्यमानान्य् एव रूपाणि विभर्षि नाविद्यमानानीत्य् आह—भृताम् एव बिभर्तीशो ह्य् अवतारतनुं सदा इति पुराणान्तरात् ।

ननु, तर्हि कानि मम स्वरूपभूतानि रूपाणि तत्राह—यानीति । क्रीडानानि अब्धिसन्तरण-मधुकैटभ-हननादीनि तद् अर्थं विभषि नित्य-सिद्धान्य् एव गृह्नासि । गृहीत्वा लोकान् कृपया दर्शयसीत्य् अर्थः । अतस् तैर् एवाराधितैर् आमृष्टाः परिमार्जिताः शुचः आविद्यक-शोक-मोहादयो मला यैस् ते । रूपाणि विभर्षित्य् अवताराणां तदीयत्वाभिप्रायेण लोकाः सर्व इत्य् अधिकारापेक्षा निरस्ता । मुदा गायन्तीति तद् गानस्य स्वतः पुरुषार्थताभिप्रेता । यद् वा, पूर्वं यद् अन्य-साधारण्येन वैष्णवानाम् उपषनत्वम् उक्तं तत्र च बहुमूर्त्येकमूतिकम् [श्लो।७] इति यद् विशिष्य ता मूर्तयो नोक्तास् तत्र सन्तोषाभावात् प्रपञ्चयति—यानीति ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम्-भूतस्य त्वत्-स्वरूपस्य ज्ञानं दुर्घटम्, तेन फल-विशेषोऽपि न दृश्यते । त्वद् अवतार-लीला-गानाच् च सर्व-शोक-निवृत्तिः परमानन्द-लव्धिश्चेत् आह—यानीति । तथा च श्री-ब्रह्मणोक्तम् ज्ञाने प्रयासम् [भा।पु १०.१४.३] इत्य्-आदि, वीप्सया सर्वेषाम् एव रूपाणां शोक-मार्जनादिना परम-सेव्यत्वम् उक्तम् । रूपाणि विभर्षीत्य् अवताराणां सर्वेषां तदीयत्वाभिप्रायेण, लोकाः सर्वे जना इत्य् अधिकारापेक्षा निरस्ता । ते यश इत्य् अवतारित्वेन तैः सहाभेदात् तेषां यशसा तस्यैव यशः-सिद्धेः । मुदा गायन्तीति तद्-गानस्य स्वतफ़्ः परम-पुरुषार्थताभिप्रेता, संसार-शोकापगमेऽपि तद्-गानात् । यद् वा, अन्ये च संस्कृतात्मानः [भ।पु १०.४.७] इत्य् अनेन यत् साधारण्येन वैष्णवानाम् उपासनम् उक्तम्, तत्र च बहु-मूर्त्य्-एक-मूर्तिकम् [भ।पु १०.४.७] इति यदुक्तम्, तत्र सामान्येनोक्त्या सन्तोषाभावाद् विशेषतो वदन् तद् एव प्रपञ्चयति—यानीति । अर्थः स एव ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम्-भुतस्य तत् स्वरूपस्य ज्ञानं दुर्घटं तेन सुख-विशेषोऽपि न दृष्यते तद् अवतार-लीलानां दर्शनात् । श्रवणादाव् अपि सर्वेषां सर्व-शोक-निवृत्तिः परमानन्दश् च जायते ततस् ते ता एव गायन्तीत्य् आह । यानीति । तथा च ब्रह्माणोक्तम् । ज्ञाने प्रयासम् इत्य्-आदि । वीप्सायां सर्वेषाम् एव रूपाणां शोक-मार्जनादिना परम-सेव्यत्वम् उक्तं रूपाणि बिभर्षीत्य् अवताराणां सर्वेषां तदीयत्वाभिप्रायेण । लोकाः सर्वे इत्य् अधिकारापेक्षा निरस्ता । मुदा गायन्तीति तद् गानस्य स्वतः पुरुषार्थताभिप्रेता । यद् वा, पूर्वं यद् अन्य-साधारण्येन वैष्णवानाम् उपासनत्वम् उक्तम् । तत्र च बहु-मूर्त्येकमूर्तिकम् इति यद् विशिष्य ता मूर्तयो नोक्तास् तत्र सन्तोषाभावात् प्रपञ्चयति । यानीति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि कानि मम स्वरूप-भूतनि रूपाणि ? इत्य् अत आह—यानीति । क्रीडनानि अब्धि-सन्तरण-मधु-कैटभ-हननादीनि तद्-अर्थं विभर्षि नित्य-सिद्धान्य् एव गृह्नासि, गृहीत्वा लोकान् कृपया दर्शयसीत्य् अर्थः । अतस् तैर् आराधितैर् आमृष्टाः परिमार्जिताः शुचः आविद्यक-शोक-मोहादयो मला यैस् ते ॥१६॥


॥ १०.४०.१७ ॥

नमः कारण-मत्स्याय प्रलयाब्धि-चराय च ।
हयशीर्ष्णे नमस् तुभ्यं मधु-कैटभ-मृत्यवे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः स्वयम् अप्य् अवतारान् नमस्यति, नम इति । हयशीर्षे हयग्रीवाय । मधु-कैटभयोर् मृत्यवे हन्त्रे ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः सर्व-लोक-गीतम् अवतार-कथामृतमतो हेतोः । स्वयम् अक्रूरः । नमस्यति नमस्कारं करोतीत्य् अर्थः । कारणमत्स्याय मन्वाद्यवनं निमित्तीकृत्य मत्स्यपुर्धतवत इत्य् अर्थः । मन्दः दैत्य-दर्प स्यति नाशयतीति मत्स्य इत्य् अन्वर्थताम् आह । मत्स्यानां जल-जीवनत्वाद् आह—प्रलयेत्यादि । किं च, प्रलयाब्धि-विदारणम् अप्य् अन्यस्याशक्त्यम् इतीश्वरताम् अप्य् आह –च । चेति वक्ष्यमाण-समुच्चये । कारणमत्स्याय सर्वकारण-रूप-मत्स्याय, तद् रूपस्य नित्य् अत्वादिकम् अभिप्रेतम् । यद् वा, कारणेन सत्य-वरतोपदेशादिना मत्स्यायेति कारणत्वम् अग्रेऽपि ज्ञेयम् ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कारणेन सत्य-व्रतानुग्रहेण । यद् वा, कारण-रूपाय मत्स्यायेति तद् रूपस्य नित्य् अत्वादिकम् अभिप्रेतम्, एवं समासान्तः-प्रविष्टोऽप्य् अयं कारण-शब्दोऽग्रेऽप्य् अनुवर्त्यः, च-कारात् सत्य-व्रतं प्रति तद् तद् उपदेशादि, तुभ्यम् इत्य् अस्य पूर्वेण परेणाप्य् अन्वयः, एवम् अग्रेऽपि, तत्-तद्--रूपेण तं प्रत्य् एव नमस्कारात् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-कारण-रूपाय मत्स्यायेति तद् रूपस्य नित्य् अत्वादिकम् अभिप्रेतम् । एव कारणत्वम् अग्रेऽपि ज्ञेयं चकारात् सत्य-व्रतोपदेशादिकारणेन । एवम् अन्येऽपि चकारा योज्याः । तुभ्यम् इत्य् अत्र च योज्यम् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-कारण-रूपाय मत्स्याय ॥१७.२१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तान्य् एव कानि ? इत्य् आकाङ्क्षायाम् आह—नम इति षड्भिः । सर्व-कारण-रूपायेति तद्-रूपस्य नित्य् अत्वादिकम् अभिप्रेतं एवं कारणत्वम् अग्रे\ऽपि ज्ञेयम् । प्रलयाब्धि-चरायेति तत्रेतस् ततश् चलनम् एव क्रीडनम् । एवम् अग्रे मधु-कैटभ-हननादीन्य् एव क्रीडनानि ज्ञेयानि ॥१७॥


॥ १०.४०.१८ ॥

अकूपाराय बृहते नमो मन्दर-धारिणे ।
क्षित्य्-उद्धार-विहाराय नमः शूकर-मूर्तये ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अकूपाराय कूर्माय । क्षित्य्-उद्धारो विहारो यस्य तस्मै ॥१८.१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुं भूमिं तद् अवयव-भूतं गिरिं वा पिपर्ति बिभर्तीति कूपारः । पृषोदरादित्वात् पूर्वपदस्य दीर्घः धातूनाम् अकेकार्थत्वाद् भरणेऽपि पृधातुर् अस्तीति । न कूपारो यस्मात् सोऽकूपारस् तस्मै अकूपारोऽब्धिकच्छपे इति हलायुधः । अब्धिश् च कच्छपश्चेति समाहारद्वन्द्वः । बृहते नित्य-वृद्धाय । शुभं सुखं वा करोति पृथ्व्युद्धृत्य् असुर-नाशाभ्याम् इति शू [सू] करः पृषोदरादित्वात् । तालव्या अपि दन्त्याश् च शम्ब-शब्दर-शूकराः इति द्विरूपकोशात् । अकूपारः समुद्रे स्यात् कूर्मराजेऽपि कीर्तीतः इति विश्वः ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अकूपारः समुद्रे स्यात् कुर्म-राजेऽपि कीर्तितः इति विश्वः । बृहते इति योजन-लक्ष-विस्तारात्, क्षित्य् उद्धारेति लीलया तद् उद्धार उक्तः । शूकरवन् मूर्तिर् आकृतिर् एव यस्येति मत्स्यादिभ्योऽस्यैश्वर्य-विशेष-प्रकटनं सूचितम्, तच् च लीलया पृथ्वी-समुद्धार-निज-भक्ति-श्री-मथुरा-माहात्म्यादि-कथन-विश्वक्षोभण-महार्णव-क्रीडादिना वाराह-कालिका-पुराणादौ प्रसिद्धम् एव, एवम् अग्रेऽपि ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अकूपारः समुद्रे स्यात् कूर्म-राजेऽपि कीर्तित इति विश्वः । वृहत इति । योजन-लक्ष-विस्तारात् । शूकरस्य मूर्तिर् इव मूर्तिर् यस्येति प्राकृत-शूकरत्वं निरतस्तम् अप्राकृत-तद् आकारत्वेनैव च तत् संज्ञत्वं विहितम् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकूपाराय कूर्माय, अकूपारः समुद्रे स्यात् कूर्म-राजे ऽपि कीर्तितः इति विश्वः ॥१८॥


॥ १०.४०.१९ ॥

नमस् तेऽद्भुत-सिंहाय साधु-लोक-भयापह ।
वामनाय नमस् तुभ्यं क्रान्त-त्रिभुवनाय च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अद्भुतोदृष्ट-पूर्वः, सिंहो नरत्वघिशिष्टमृगेन्द्रस् तद् रूपाय । साधुलोकस्य देवदिजनस्य भयम् असुर-निमित्तकम् अपहन्तीति तथा । क्रान्तं पादेर्मितं भूवनत्रयं येन तस्मै ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्भुतः—अर्धनराकारत्वेनालौलिको यः सिंहस् तस्मै नृसिंहायेत्य् अर्थः । साधु-लोकानां सर्वेषां शिष्टानां भयाय भय-निवर्तकाय, चकाराद् असाधुनाशनादि, भयापहेति पाठः स्पष्ट एव । क्रान्तानि त्रिभिः पदैर् आक्रान्तानि त्रिभुवनानि येन तस्मै, च-काराच् छ्रीबल्यनुग्रहोऽपि ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा भूतत्वेऽपि हे साधु-लोक-भयापह ! ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.४०.२० ॥

नमो भृगूणां पतये दृप्त-क्षत्र-वन-च्छिदे ।
नमस् ते रघु-वर्याय रावणान्तकराय च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भृगूणां पतये परशुरामाय ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रघुषु तद् अपत्येषु वर्याय वरीतुम् अर्हाय । कुठारायुधत्वद् वन-रूपकम्, तेन तेषां तत्र किञ्चिद् अपि कर्तुम् अक्षमत्वं व्यञ्जितम् ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भृगूणां पतये, भृगु-कुल-जातत्वात्, एवम् अग्रेऽपि । दृप्तं दर्पेणामर्यादं विप्र-कुलातिक्रमाद् यत् क्षत्रं क्षत्रिय-जातिस् तद् एव वनं बहुलत्वात् तच् छिनत्तीति तथा तस्मै इति परश्वायुधत्वम्, दृष्टत्वेन सर्वेषां क्षत्रियाणां बहुशो हननं च सूचितम् । रावणस्यान्तकणत्वेन कुम्भ-कर्णादि-तद् अनुगानां वधोऽपि सूचित एव, च-काराद् आर्ष-धर्म-प्रदर्शनादि ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुठारायुधत्वाद् वन-रूपकं तेन तेषां तत्र किञ्चिद् अपि कर्तुं प्रक्षमत्वाम् व्यञ्जितम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.४०.२१ ॥

नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुर्-व्यूह--रूपेण प्रणमति, नमस् ते वासुदेवायेति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृष्टं द्युम्नं बलं यस्य तस्मै । न निरुद्ध्यते भक्तिं विनेत्य् अनिरुद्धः । प्रद्युम्नानिरुद्धयोस् तदानाम् अनीविर्भूतयोर् अपि तापन्यादावेषां चतुर्व्यूहानां नित्य् अताश्रवणात् तयोश्चतुर्व्यूहान्तःपातित्वेन युक्तम् एव प्रणमनम् इति ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नमस् ते वासुदेवायेत्य्-आदि तद्-अभिन्नत्वेन स्तौति ॥२१.३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नमस्त इति, तैर् व्याख्यातम् एव । तत्र श्री-कृष्णस्यावतारितया तम् अत्रानुक्त्वा श्री-बलदेवस्यैवावतारेषु गण्यत्वाद् अत्र क्रम-प्राप्ते तन् नमस्करणे श्री-वासुदेवादि-चतुर्व्यूह-नमस्कार-समाधानार्थं सङ्कर्षणं रामं चतुर्व्यू--रूपेण प्रणमतीति लिखितम् । तत्र च सङ्कर्षणम् इति श्री-सङ्कर्षण-रामयोर् अभेदात्, सङ्कर्षणायेति रामस्यैवोक्तत्वाद् इति । अथवा यथाक्रमम् आदौ श्री-बलदेवं ततो भक्त्या भाविनम् अपि श्री-कृष्णस्य पुत्रं श्री-प्रद्युम्नम्, पौत्रं चानिरुद्धं प्रणमति—नम इति । वसुदेव-नन्दनाय सङ्कर्षणाय नम इति चतुर्व्यूह-सङ्कर्षणोप् व्यावर्तितः । नम इत्य् अस्य प्रद्युम्नायेत्य् अनेनान्वयः । मिम्वा श्री-कृष्णाग्रजत्वेन भक्त्या श्री-सङ्कर्षणाय नमो नम इत्य् एषां त्रयाणां मुख्य-प्रयोजनम् आह—सात्वतां सात्वतानां यादवानां सर्व-भक्तानां वा पतये परिपालकाय, तेषां सुखार्थम् एव तत्-तद् रूपेण तत्-तल् लीला-विस्तारणात्, अत एवोक्तं पाद्मे श्री-भगवतैव—मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इति ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नमस्त इति । तैर् व्याख्यातं तत्र सङ्कर्षणम् इत्य् आदेर् अयम् अर्थः । क्रम-प्राप्तस् तावद् अत्र श्री-बलराम इति सङ्कर्षान-शब्देन स एवोच्यते स च श्री-कृष्ण-लक्षण-वासुदेवादि-चतुर्व्यूहान्तःपाती ततस् तद् अन्तः पातितयैव तं प्रणमन् तान् सर्वान् एव प्रणमतीति तापन्यादाव् एषां नित्य् अत्व-श्रवणात् तदानीम् अनाविर्भूतयोर् अपि प्रद्युम्नादिकयोर् नमस्कारस् तां श्रुतिं प्रमाणयति । सात्वतां पतय इति । सर्वेषाम् एव विशेषणम् सद् वंश्यानाम् अपि स्तुत्य् अर्थं तृतीय-नमः-शब्दः प्रद्युम्नेऽपि योज्यः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.४०.२२ ॥

नमो बुद्धाय शुद्धाय दैत्य-दानव-मोहिने ।
म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमस् ते कल्कि-रूपिणे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुद्धाय दैत्य-च्छलनार्थं वेद-विरुद्ध-वादित्वेऽप्य् अताभिप्रायय । कलिं कृन्तति छिनत्ति, कालयति वा कल्किः । पृषादरादित्वात् कलेः कलादेशो डि-प्रत्ययः । शुद्धाय वेद-विरुद्ध-शास्त्र-प्रवर्तकत्वेऽपि निर्दोषाय । तत्र हेतुः—म्लेच्छेति । म्लेच्छा एव प्रायेण सादृश्येन क्षत्राणि क्सात्रिया राज्य-कारित्वेन तत् तुल्या इत्य् अर्थः । तेषां हन्त्रे । कल्को दम्भः सोऽस्यास्ति म्लेच्छ-वशित्वेन कल्कि तादृशं रूपम् अस्येति तस्मै । यद् वा, कलि करितुं हिंसितुं शीलम् अस्येति कल्किः । औणादिको डिः क्लेरिकारलोपश् च । स एव रूपं स्वरूपं यस्यास्ति तस्मै ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शुद्धायेति वेद-विरुद्ध-शास्त्र-प्रवर्तकत्वेऽपि पवित्राय । यद् वा, अहिंसा-प्रशंसनादिना परम-शुद्धत्वात्, दैत्यादिति-सुताः, दानवाश् च दनु-पुत्रास् तान् मोहयितुं शीलम् अस्येति तथा तस्मै । वैदिक-यज्ञादि-धर्मतः पाषण्ड-धर्मे तेषां प्रवर्तनाद् इति तद् अवतार-प्रयोजनम् उक्तम् । म्लेच्छाः परमान्त्यज-जाति-विशेषाः प्राया बहुला, यस्मिन् तत् क्षत्रं क्षत्रिय-जातिः, सर्वे क्षत्रिया इत्य् अर्थः, तस्य हन्त्रे, कल्किनो दुष्टा म्लेच्छास् तेषाम् इव रूपं वेशस् तद्-धते, कल्य्-अन्ते विप्रादीनाम् अपि सर्वेषां म्लेच्छ-रूपत्वात् । कलि-रूपिणे इति पाप-पापि-वर्ग-संहार-पूर्वक-सत्य-युगादि-प्रवर्तनेनैश्वर्य-विशेषात् । एवम् अवताराणां प्रत्येकं रूप-लीले दर्शिते । यद्य् अपि श्री-कपिल-र्षभादयोऽन्येऽपि बहवोऽवताराः सन्ति, तथापि मुख्यत्वेन प्रसिद्धत्वाद् एते निर्दिष्टाः ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शुद्धाय वेद-विरुद्ध-शात्र-प्रवर्तकत्वेऽपि निर्षोषायैव । तत्र हेतुर् दैत्येति । म्लेच्छा एव प्रायेण सादृश्येन क्षत्राणि क्षत्रियाः । राज्यकारित्वात् तत् तुल्या इत्य् अर्थः । तेषां हन्त्रे कल्को दम्भः म्लेच्छवेशित्वेन सोऽस्यास्तीति तादृशं रूपं यस्य तन् नाम्ने ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : म्लेच्छा एव प्रायेण सादृश्येन क्षत्राणि क्षत्रियाः राज्यकारित्वात्तत्तुल्या इत्य् अर्थः तेषां हन्त्रे ॥२२.२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुद्धाय वेद-विरुद्ध-शास्त्र-प्रवर्तकत्वेऽपि निर्दोषाय ॥२२॥


॥ १०.४०.२३ ॥

भगवन् जीव-लोकोऽयं मोहितस् तव मायया ।
अहं ममेत्य् असद्-ग्राहो भ्राम्यते कर्म-वर्त्मसु ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स्तुत्वा बन्ध-मोक्षं प्रार्थयितुम् आह—भगवन्न् इति । असति देहादौ ग्राह आग्रहो यस्य सः, असन् ग्राहो यस्येति वा ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । बन्धाद् अविद्यालक्षणान् मोक्षं तन् निवृत्ति-लक्षणम् । ग्राह आग्रहो हठः । व्यधिकरण-समासापेक्षया समानाधिकरण-समासस्य सुग्रह त्वाद् आह—असन्न् इत्य्-आदि । असन्नहन्ताममतालक्साणो ग्राहो ग्रहः

ग्रहोनुग्रह-निबन्ध-ग्रहणेषु रणोद्यमे । > सूर्यादौ पूतनादौ च सैहिकेयोपरागयोः ॥ > ग्राहो ग्रहेवहारे च इति मेदिनी ।

ग्राह-शब्दो ग्रह-पद-वाच्योऽस्तीत्य् अर्थः । हे भगवन्न् इति सर्वं कर्तुं समर्थत्वान् मद् अभीष्टम् अपि सम्पादयेति द्योतनम् एव सम्बुद्ध्य् अभिप्रायः । त्वया लोकोद्धारार्थम् अवतारेषु कृतेश्व् अपि ये महापराध-संस्कारवन्तस्ते त्वन् मायामोहितास् त्वद् भक्तिं विहायान्यत्र प्रवर्तन्त इति शोचयन्न् आह-भगवन्न् इति ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं त्वया लोकोद्धारार्थम् अतारेषु कृतेष्व् अपि त्वन् मायया सर्वे लोका मोहितास् त्वद् भक्तिं विहायान्य् अत्र प्रवर्तन्त इति शोचन्न् आह—भगवन्न् इति । हे परम-कृपालो, इति कृपां जनयति । यद् वा, हे दुर्वितर्क्य-लीलेति तत्-तद् रूप-लिलाभिर् लोकोद्धारार्थं व्यग्रस्यापि लोक-मोहक-माया-प्रसारणाज् जीव-लोकः सर्वोऽपि जीव इत्य् अर्थः । अयम् इति माया-मोहित्वादेः प्रत्यक्षतां दर्शयति—अहम् इति देहे, ममेति पुत्रादौ, असन् दुष्टोऽविवेक-कृतत्वात् त्वद् भक्त्यानु-कुल-वैराग्य-प्रति-कूलत्वाद् वा, ग्राह आग्रहो यस्य तथा-भूतः सन्, कर्म-मार्गेष्व् एव भ्राम्यते मुहुर् आवृत्या प्रवर्तते, न तु त्वद् भक्ताव् इत्य् अर्थः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं त्वया लोकोद्वारार्थम् अवतारेषु कृतेष्व् अपि ये महापराध-संस्कारवन्तस् ते तु त्वन् मायया मोहितास् त्वद् भक्तिं विहायान्य् अत्र प्रवर्तन्ते इति शोचन्न् आह । भगवन्न् इति । हे मायातिरस्कार-षड्गुणैश्वर्य ! इति निवेदने हेतुर् अयं कर्म-मार्गेष्व् एव भ्राम्यते मुहुवृत्तात्या प्रवर्त्यते न तु त्वद् भक्ताव् इत्य् अर्थः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं स्तुत्वा दुःखं विज्ञापयति—भगवन्न् इति । भ्राम्यते माययैव ॥२३॥


॥ १०.४०.२४ ॥

अहं चात्मात्मजागार- दारार्थ-स्वजनादिषु ।
भ्रमामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् अयं लोकोऽहम् अपि तथैवेत्य् आह—अहं चेति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोकवृत्तं स्वस्मिन्न् अप्य् आरोप्याह-न केवलम् इत्य्-आदिना । आत्मा देहः । अर्थो हिरण्यादिः । आदिना पश्वादि-ग्रहः । स्वप्न-कल्पेषु स्वप्न-तुल्येषु । प्रभो इति भ्रान्तिवारणे सामर्थ्यं सूचयन्न् आह ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वद् भक्तौ प्रवृत्तोऽप्य् अहं नूनं तादृग् अपराधि-सङ्ग-दोषात् पुनर् लव्धच्छिद्रया त्वन् माययावरणाद्-गृहाद्य् आसक्तिं हातुं न श्क्नोमीत्य् आह—अहं चेति । अप्य् अर्थे चकारः । मयिकत्वात् स्वप्न-तुल्येष्व् अपि सत्याधिया एते सत्याः इति बुद्ध्या भ्रमामि, तेष्व् एव पुनः पुनर् आसक्त्या प्रवर्ते । किं वा, भ्रान्तो भवामीत्य् अर्थः । यतो मुढो विवेक-रहितः, आत्मा हेदः, स्वजना ज्ञातयः सम्बन्धिनश् च, आदि-शब्दाद् दास-दासी-पशु-क्षेत्रादयः, तच् च युक्तम् एवेत्य् आह-विभो ! हे मायया जगद् व्यापकेति ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् भक्तौ प्रवृत्तोऽहं नूनं तादृग् अपराधि-सङ्ग-दोषात् पूनर् लब्धच्छिद्रया त्वन् माययावरणाद् गृहाद्य् असक्तिं हातुं न शक्त्नोमीत्य् आह । अहं चेति । अप्य् अर्थः चकार आत्मा हेहः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.४०.२५ ॥

अनित्यानात्म-दुःखेषु विपर्यय-मतिर् ह्य् अहम् ।
द्वन्द्वारामस् तमो-विष्टो न जाने त्वात्मनः प्रियम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मूढत्वम् एव प्रकटयति, विपर्यय-मतिर् इति । अनित्ये कर्म-फले नित्यम् इति, अनात्मनि देहे आत्मेति, दुःख-रूपे गृहादौ सुखम् इति विपरीत-मतिर् इत्य् अर्थः । द्वन्द्वेषु सुख-दुःखादिष्व् आरमति क्रीडतीति तथा सः । ननु दुःखे कुतो रतिस् तत्राह—तमो-विष्टस् तमसा व्याप्तोऽत आत्मनः प्रियं प्रेमास्पदं त्वा त्वां न जान इत्य् अर्थः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—विपरीत-बुद्धीनृते नेत्थं भातीत्य् आशयः । द्वन्द्वेष्व् एकैकस्य ग्राह्यत्वेन रतिस् सम्भन्त्य् अपि न द्वितीयेष्व् इत्य् आशयेनाशङ्कते—नन्व् इति । तमसाज्ञानेन तमोऽज्ञानम् इहोच्यते इत्य् उक्तेः । अतस् तमोव्याप्तत्वात् । इत्य् अर्थ इति—तमोव्याप्तानां विना प्रकाशं वस्त्वलाभस्य प्रथितत्वाद् इति भावः । आत्मन एव साक्षात् प्रियं परमात्मत्वात्, न तु पुत्रादिवद् देहादि-सम्बन्धेनेत्य् अर्थः । अतो देहादिभ्योऽपि प्रियतमत्वेन ज्ञान-योग्यतोक्ता तथापि न जाने नानुभवामि ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनित्यादिषु विपरीत-बुद्धिः सन् द्वन्द्वा-रामः, हि निश्चितम्, त्वा त्वाम् आत्मन एव साक्षात् प्रियम्, न तु पुत्रादिवद् देहादि-सम्बन्धेनेत्य् अर्थः । इति देहादिभ्योऽपि प्रियतमत्वेन ज्ञान-योग्यतोक्ता, तथा न जाने । अन्यत् तैर्व्याख्यातम् ।

यद् वा, तेन परमानर्थः स्याद् इत्य् आह—अनित्येति, विशेषण-त्रयस्य यथा-क्रमं तत्र हेतुःता, आत्मनोऽपि सकाशात् प्रियम् इत्य् एवं त्वां न जाने, अन्यथा देहादिष्व् आसक्त्य् असम्भवात् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनित्यादिषु विपरीत-बुद्धिः सन् द्वन्द्वारामः । हि निश्चितं त्वा त्वाम् आत्मन एव साक्षात् प्रियं परमात्मत्वात् न तु पुत्रादिवद् देहादि-सम्बन्धेनेत्य् अर्थः । इति देहादिभ्योऽपि प्रियतमत्वेन ज्ञान-योग्यतोक्ता तथापि न जाने नानुभवामि ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनित्ये कर्म-फले नित्यम् इति अनात्मनि देहे आत्मेति दुःख-रूपे गृहादौ सुखम् इति विपरीत-मतिर् इत्य् अर्थः । द्वन्द्वेषु सुख-दुःखादिषु आरमतीति सः । यतस् तमसाविष्टः व्याप्तः आत्मनः प्रियं प्रेमास्पदं त्वां न जाने ॥२५॥


॥ १०.४०.२६ ॥

यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्-उद्भवैः ।
अभ्येति मृग-तृष्णां वै तद्वत् त्वाहं पराङ्-मुखः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव स-दृष्टान्तम् आह—यथेति । तस्माज् जलाद् उद्भवन्तीति तद्-उद्भवानि तृणादीनि, तैः । तथा माया-च्छन्नं त्वा त्वाम् अहं हित्वा पराङ्-मुखो देहाभिमुखो वर्त इति ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अज्ञानाविष्टस्य वस्त्व् अज्ञानं तद् एवपदार्थः । आदिना शैवालादि-ग्रहः । तथा जलवत् । मृग्न्यते इति मृगा विषयास् तेषु तृष्णामभेमीत्य् अर्थः । देहादावभिमुखोऽभिनिविष्टः । तद् उद्भवैः सारसशैलावादिभिर् अपि सुज्ञेयत्वम् अपि सूचितम् । दार्ष्टान्तिकेऽपि तत्-तत्-प्रभाव-माधुर्य-युक्तत्वेन स्वाज्ञानेन मायाच्छन्नत्वेन प्रतीतं त्वाम् इति ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अबुधोऽविवेकी, जलं समीपे वर्तमानम् अपि तद् उद्भविर् यव-शैबालादिभिर् इति सुज्ञेयत्वम् अपि सूचितम् । दार्ष्टान्तिकेऽप्य् अहङ्कारादि-प्रवर्तकत्वेन वृन्दावने पशू-पालत्वेन वा श्री-भगवतः सुज्ञेयत्वम् ऊह्यम्, अभ्येति दूरतो याति, वै प्रसिद्धौ, हरिणादिषु तथा दृष्टेः, हित्वाहं त्वाम् इत्य् एव पाठः । तथेति तैर् व्याख्यानात् ।

पाठान्तरे तु सिद्धे त्वा त्वां हित्वेत्य् अन्वयः । तद्वद् इत्य् अस्य तथेति तेषां व्याख्या मन्तव्या । अन्यत् तैर् व्याख्यातम् । यद् वा, तादृशत्वद् अज्ञानेनैव विषयासक्तिः स्याद् इत्य् आशयेनाह—यथेति । पराङ्मुखो देहाद्य् आसक्तोऽस्मीत्य् अर्थः । अन्यत् समानम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अबुधः अविवेकी तद् उद्भवैः सरसशैवालादिभिर् इति सुज्ञेयत्वम् अपि सूचितं दार्ष्टातिकेऽपि तत् तत् प्रभाव-माधुर्य-युक्तत्वेन अभ्येति दूरतो याति वै प्रसिद्धौ हि त्वां ताम् इत्य् एव पाठः तथेति टीकातः तद् वत्त्वाहम् इति पाठे तु सिद्धे त्वा त्वां हिफ़्त्वेत्य् अन्वयः तथेति टीका तु तद् वद् इत्य् अस्य मन्तव्या ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-दृष्टान्तम् आह—यथेति । तस्माज् जलाद् उद्भवतीति तद्-उद्भवानि तृणादीनि, तैः । तथा स्वाज्ञानेन मायाच्छन्नत्वेन प्रतीतं त्वा त्वां हित्वा पराङ्मुखः देहाद्य्-अभिमुखो वर्ते ॥२६॥


॥ १०.४०.२७ ॥

नोत्सहेऽहं कृपण-धीः काम-कर्म-हतं मनः ।

रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं जानतः कुतो विषयाभिमुखता ? तत्राह—नोत्सह इति । कृपणा विषय-वासना-युक्ता धीर् यस्य सः । अत एव काम-कर्मभ्यां हतं क्षुभितम् इन्द्रियैश् च बलिभिर् विषय-संयुक्तैर् इतस् तत आकृष्यमाणं मनो रोद्धुं नियन्तुं न शक्नोमीति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अज्ञानाम् एतद् अस्तु ज्ञस्य तवैतन् न सङ्गच्छत इत्य् आशङ्कते—नन्व् इति । एवं जानतो विज्ञस्य । तत्राक्षेपे । अत एव कृपण-बुद्धित्वाद् एव । कामो विषयाभिलाषः । कर्मादृष्टम् । कामः पूर्व-वासना तत्-प्रेरितेन कर्मणा हतम् । प्रकर्षेण मन्थद्भिर् ऐहिक-विषय-संयुक्तत्वाद् अतिबलिष्ठैः रोद्धुं नोत्सहे तथा मे धियः कार्पण्यं यथा तादृशं मनो र्द्धुमुत्साहोऽपि न जायते इत्य् अर्थः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहं त्वद् भक्तोऽपि । यद् वा, एवं जानन्न् अहम् अपि, कामो भोगेच्छा, कर्म तत्-कारणम्, इतस् ततः सर्वत्र रूप-रसादिषु ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कामः पूर्व-वासना तत् प्रेरितेन कर्मणा हतं ततोऽप्यैहिक-विषयाणां संयुक्तत्वात् प्राथिभिः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कामेन भोगेच्छया क्वचित् कर्मणा केवल-प्रारब्धाख्येनापि ॥२७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रमाथिभिः प्रकर्षेण मथ्नद्भिर् बलिष्ठैर् अक्षैर् इन्द्रियैर् आकृष्यमाणं मनो रोद्धुं नोत्सहे इति तथा मे धियः कार्पण्यं यथा तादृशं मनो रोद्धुं ऊत्साहोऽपि न जायत इत्य् अर्थः ॥२७॥


॥ १०.४०.२८ ॥

सोऽहं तवाङ्घ्र्य्-उपगतोऽस्म्य् असतां दुरापं

तच् चाप्य् अहं भवद्-अनुग्रह ईश मन्ये ।

पुंसो भवेद् यर्हि संसरणापवर्गस्

त्वय्य् अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् अस्वतन्त्रो यः सोऽहं तवाङ्घ्रिं उपगतः शरणं प्राप्तः । नन्व् इन्द्रिय-परतन्त्रस्यैतद् अपि कुतस् तत्राह—तच् चापीति । हे ईश अन्तर्यामिन्, त्वद्-अङ्घ्र्य्-उपगमनं चासतां दुरापम्, अतो भवतोऽनुग्रह एवेत्य् अहं मन्ये । अनुग्रहे सतीति वा । ननु सतां सेवयेदं भवतीति किं मद्-अनुग्रहेणेत्य् अत आह—पुंस इति । जीवस्य संसारस्यापवर्गः समाप्तिर् यदा त्वत्-कृपया भवेत् सम्भावनास्पदं भवति, हे अब्ज-नाभ, तदा सद्-उपासना संपद्यते, तयैव त्वयि मतिर् भवेत् त्वत्-कृपां विना न सत्-सेवा, नत्रान् त्वन्-मतिः, नतमां मुक्तिर् इत्य् अर्थः ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवम् इत्थम् । अस्वतन्त्र इन्द्रियादि-परतन्त्रः । अत्राशङ्कते—नन्व् इति । एतद् अपि मद्-अङ्घ्र्य्-उपगमनम् अपि । तत्राक्षेपे । असताम् अशात्राचाराणाम् । यतोऽसतां तवाङ्घ्रुपगमनं दुरापमतो हेतोः । सम्भवत्वात् सप्तम्य् अपीत्य् आह—अनुग्रहे सतीति । पुनर् अत्राशङ्कते—नन्व् इति । तया सद् उपासनया । इत्य् अर्थ इति—परम्परया त्वत्-कृपैव मोक्ष-हेतुर् इति भावः । नतरां नतमाम् इह किमेत्तिङ्व्ययघादाम्ब-द्रव-प्रकर्षे इति तरप्-तमब्-अन्ताद् आमुः । अस्मीति शरणागतस्य दार्ढ्यं नित्य् अत्वं चाभिप्रैति । हे ईश अन्तर्यामितयाधुना त्वयैव तत्र प्रेरणाद् इत्य् अर्थः असताम् इन्द्रिय-परतन्त्राणाम् । अनुग्रहे हेतुः—अब्जनाभेति । लोकानुग्रहायैव लोक-पद्मं निज-नाभौ वहसीति भावः । अन्यत् तैः


तत्र तद्-उपासना तद्-भक्तानां सेवा । सम्पद्यते साध्वी भवति । त्वन्-मतिस् त्वज्-ज्ञानम् । मुक्तिर् भक्तेर् आनुषङ्गिकी, सापि न तु सा किम् उत स्वयं भक्तिर् इत्य् अर्थ इति ज्ञेयम् । यदा—तज् ज्ञानं तु मम दूरतम् अम् इत्य् आह—पुंस इति । अङ्घ्रीत्य् अत्र सुपां सुलुक् इत्य् डिनामो लुक् । तथाविधानां मादृशां दुरापं तवाङ्घ्रिं यद् उपगतोऽस्मि समीपं प्राप्तवान् अस्मि । तच् चाप्य् अहम् इत्य्-आदि पुनण्-पुनर् अहं-शब्दः केचिन् निज-भजनादिकं कारणं वदन्तु तद् अनुग्रहम् एवेति व्यनक्ति । अहो अस्तु तावत् त्वद् अङ्घ्रि-समीप-प्राप्तिर् अन्यथा त्वयि मतिर् अपि दुरापेत्य् आह—पुंस इति । यर्हि विचारणे सति उत्तमयोपासनया त्वद् आराधनेन सतां चोपासनया संसारापवर्तस् तद् वासनाक्षयः स्याद् एव तया त्वयि मतिर् भक्तिः स्फ़्यान् नान्यद् एति ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्मीति शरणागतत्व् अस्य दार्ढ्यं नित्य् अत्वं चभिप्रैति । असतां देहाद्य् आसक्तानां विषय-पराणां वा, ईशेत्यन्तर्यामितयाधुना त्वयैव तत्र प्रेरणादित्य् अर्थः । अयम् अनुग्रहे हेतुः । अब्जनाभेति शेषासनादि-नारायण--रूपेण दृष्टत्वात् । यद् वा, संसारापवर्ग-हेतुत्वेन कृपालुत्वम् उक्तम्, जगद् विधातृ-श्री-ब्रह्म-योनि-लोक-पद्म-द्वारा जीवानां हितार्थम् एव जगत्-सृष्टि-प्रवर्तनाद्-भवच् छब्द-प्रयोगोऽनुग्रह-गौरवाभिप्रायेण, भक्ति-विशेषात् । यद् वा, तवेत्य् अनुवर्तत एव भवन् नित्यं जायमानो वर्धमानो वा योऽनुग्रहस् तस्मिन् । अन्यत् तैर् व्याख्यातम् ।

तत्र नतमां मुक्तिर् इति भक्तस्यापि तस्य मुक्तौ तात्पर्यं बोधयति, तच् च गृहे कंसादि-सङ्गेनाति-दुःख-लव्ध्या निर्विण्णत्वेन । किं वा, श्री-गोपी-कृतावज्ञयैवेति ज्ञेयम् । तच् च लोकानां महद् अपराध-परिहार-शिक्षार्थम् एवेति, अथवा स विचित्र-संसार-दुःखादिभूतोऽहं तन् निवृत्तये तवाङ्घ्रिम् उपगतोऽस्मि । ईश हे परम-स्वतन्त्र ! भवद् अनुग्रहे च हेतुनानुसन्धेयः स्याद् इति भावः ।

ननु, मुक्तिम् इच्छसि, न च कथं मयि प्रीतिम् ? तत्राह-पुंस इति । यर्हि पुंसो मुखिः स्यात् तदैव सतां त्वद् भक्तानां सेवया त्वयि मतिः प्रेम-हेतुर् मनो-वृत्तिस् त्वद् भक्त्यादि-माहात्म्य-ज्ञानं वा भवेद् इत्य् अर्थः । यद् वा, स मनो रोद्धुम् अशक्तोऽयं तद्-रोधनार्थं तवाङ्घ्रिम् उपगतोऽस्मि ।

ननु, तद् रोद्धुम् एव कथं मद् अङ्घ्रिम् उपगच्छसि, न च कथं मयि तद् अभिनिवेशयितुम् इत्य् अत आह—पुंस इति । अर्थः स एव । संसाराकुलोऽहम् अधुना न तत्-प्रर्थनायोग्योऽस्मीति भावः । यद् वा, तत् तु भवद् अनुग्रहे सत्य् एव मन्ये । किं तद् आह—पुंस इति । मुक्तौ सत्याम् एव सद् उपासनया त्वयि मतिः स्यात् इति यत् । अन्यत् समानम् ।

अतोऽधुना भवद् अनुग्रहाभावात् तथा प्रार्थयितुं नार्हयामीति भावः । यद् वा, नन्व् इत्थं दृश्यमानैतद् आदि-नारायण-रूपेणैव स्तुत्वा शरणं यादि, न च कथं मम द्वि-भूज-गोकुलोत्सव-निज--रूपेण स्तुत्वेत्य् अत्राह—पुंसो यदा संसार-ध्वंसः स्यात्, तदाब्जनाभस्य श्री-नारायणस्य सत्या इत्तमया उपासनया त्वयि श्री-गोकुलोत्सवे मतिर् भवेद् इति यत् तद् असतां मादृशां दुरापम् अपि भवतः श्री-नन्द-नन्दनस्यानुग्रहे सत्य् एव भवतीति मन्ये, न त्व् अन्यथेति श्री-नारायणस्य सद् उपासनां विना अतो नारायणोपासनां विना त्वयि मतिर् न स्यात् अतो नारायणोपासनाया दुर्लभतोक्ता, अनयापि साधन-भूतया साध्यायास् तन्मतेस् तु सुदुर्लभता दर्शितेति भवद् अनुग्रहाद्य् अभात् कथं मया तन् निज4 रूपादि-वर्णनेन श्री-ब्रह्मवत् स्तोतुं न शक्नोमीति भावः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्मीति शरण-गतत्वस्य दाढ्यं नित्य् अत्वं चाभिप्रैति असताम् इन्द्रिय-परतन्त्राणां हे ईशेति अन्तर्यामितयाधुना त्वयैव तत्र तत् प्ररणादित्य् अर्थः । अयम् अनुग्रे हेतुः अञ्जेनाभेति लोकानुग्रहेणैव लोक-पद्मं निज-ल्नाभौ वहसीति भावः । अन्यत् तैः तत्र सद् उपासना तद् भक्तानां सेवा सम्पद्यते सङ्गी-भवति त्वन् मतिस् त्वज् ज्ञानं मुक्तिर् भक्तेर् आनुषङ्गिकी सापि न तमां किम् उत स्वयं भक्तिर् इत्य् अर्थः इति ज्ञयं यद् वा, त्वज् ज्ञानं तु मम परम-दुरतम् इत्य् आह । पुंस इति । अथवा स तथा-विधोऽप्य् अहम् अङ्घ्रीत्य् अत्र सुपां सुलुग् इत्य्-आदिना अमो लुक् असतां तथा-विधानं मादृशां दुरापं तवाङ्घ्रिं यद् उपगतोऽस्मि समीपे प्राप्तवान् अस्मि तच् चाप्य् अहम् इत्य्-आदि । अत्र पुनर् अहं शब्दः केचिन् निज-भजनादिकं कारणं वदन्तु अहं तु त्वद् अनुग्रहम् एवेति व्यनक्ति अहो अस्तु तावत् त्वद् अङ्घ्रि-समीप-प्राप्तिर् अन्यथा त्वयि मतिर् अपि दुरापेत्य् आह । पुंस इति । विचारेण यहि चिरेण सत्या उत्तमया उपासनया त्वद् आराधनेन सतां चोपासनया संसारापवर्गस् तद् वासनाक्षयः स्यात् तदैव तया त्वयि मतिर् भक्तिः स्यान् नान्यद् एति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सो ऽहम् इति । तथा-विध-कृपण-धीरप्य् अहम् ।ननु सन्-मतिं विना मद्-अनुग्रहोऽपि कथं स्यात् ? तत्राह—पुंस इति । पुन्सः यर्हि संसाराणाम् अपवर्गः स्यात् सर्वज्ञैर्भावित्वेन सम्भाव्यते, तर्हि सद्-उपासनया त्वयि मतिः स्याद् इत्य् अर्थः,भवापवर्गो भ्रमतो यदा भवेद्[भा।पु। ] इत्यादेः । तस्मादत्र ममापि सद्-उपासनैव निदानम् इतिभावः ॥२८.३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोऽहं तथाभूतोऽप्य् अहं तवाङ्घ्रिं ऊपगतः शरणं प्राप्तोऽस्मि । तच् च त्वद्-अङ्घ्र्य्-उपगमनम् असद्भिर् जनैर् दुरापम् ।भवद्-अनुग्रह एव भवद्-अनुग्रहे सत्य् अपि सम्भवेद् इत्य् अहं मन्ये जानाम् इ । मद्-अनुग्रह एव कदा स्यात् ? तत्राह हे अब्ज-नाभ ! सद्-उपासनया हेतुना यर्हि त्वयि मतिः स्यात् । सद्-उपासनैव कदा स्यात् ? तत्राह पुंसो यर्हि संसरणस्य संसारस्य अपवर्गः अन्त-कालः स्यात् । संसारान्त-काल एव कदा स्यात् ? इति चेत्, यदा यादृच्छिकी सत्-कृपा स्याद् इति ज्ञेयम् । तेनादौ यादृच्छिकी सत्-कृपा ततः संसार-नाशारम्भस्, ततः सद्-उपासना, ततः कृष्णे मतिर् इति क्रमः । शास्त्रारम्भ एव सत्यम् इत्य्-आदिना प्राक् प्रदर्शित उक्तो भवति ॥२८॥


॥ १०.४०.२९ ॥

नमो विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे ।
पुरुषेश-प्रधानाय ब्रह्मणेऽनन्त-शक्तये ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पादयोः पतन् प्रार्थयते, नम इति द्वयेन । विज्ञणम् एव मात्रा मूर्तिर् यस्य तस्मै । अत एव सर्व-प्रत्यय-हेतवे समस्त-ज्ञान-कारणाय । किं च पुरुषस्य ये ईशाः सुख-दुःखादि-प्रापकाः काल-कर्म-स्वभावादयस् तेषां प्रधानाय नियन्त्रे । कुतः ? ब्रह्मणे परिपूर्णाय । किं च अनन्त-शक्तये अनन्ताः शक्तयो यस्य । यद्वा अनन्त मायाख्या शक्तिर् यस्य तस्मै । अथवा प्रधानं प्रकृतिः पुरुषस् तत् प्रवर्तकः, ईशः काल एतत् त्रितयात्मने ब्रह्मणे । वक्ष्यति च भगवान्—

प्रकृतिर् ह्य् अस्योपादानमाधारः पुरुषः परः । > सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ इति ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वयेन युग्म-श्लोकेन ।

मात्रा परिच्छदे देशे प्रवृत्तौ कर्ण-भूषणे । > अक्षरावयवे माने मूर्तौ काल-विशेषके ॥

इति अत एव विज्ञान-मूर्तित्वाद् एव । अन्यद् अप्य् आह—किं चेति । तत्र हेतुम् आशङ्कते –कुत इति । परिपूर्णस्य सर्वं नियन्तृत्वं स्फुमेवेति न केवलं परिपूर्ण-रूप एवेत्य् आह—किं च इति । अनन्ता अमिताः । शक्तयः सामर्थ्यानि । बहु-शक्ति-कल्पनापेक्षया सर्व-व्यवहार-साधिकैकशक्ति-कल्पना वरीयसी वहुवनचर-सिंहाश्रयणन्यायेनेत्य् आह—यद् वेति । अन्तता ज्ञानमृते नान्तो यस्याः सानन्ता । पुरुषेशेत्य् आदि-पदस्य पूर्व व्याख्याने क्लिष्ट-कल्पनाम् अपेक्ष्य प्रसिद्धार्थम् आह—अथ वेति । वक्ष्यति एकादशे भगवान् उद्धवाय प्रकृतिः इतीममर्थम् । पादयोः पतन्नात्मानं निवेदयति—नम इति । विज्ञानस्य मद् अनुभवस्य मात्रा परिमाणं यतस् तस्मै । यावन्तं स्वविषकम् अनुभवं ददासि तावद् एव त्वाम् अनुभवामीत्य् अर्थः । अन्य-विषयक-ज्ञानानाम् अपि त्वम् एव हेतुर् इत्य् आह—सर्वेति । यतः पुरुषेति पुरुषोऽन्तर्यामी तद् रूपेण कर्मादिषु प्रेरयसि, ईश ईश्वरस् तद् रूपेण कर्मादि-फलं ददासि, प्रधानं माया तद् रूपेण विषयेषु त्वम् एव बध्नासि, ब्रह्म-ज्ञाकैक-स्वरूपं तद् रूपेण स्फुरितं सत् तस्माद् वन्धान् मोचयसि च, अनन्त-शक्तिर् भगवांस् तद् रूपेण स्वस्मिन् भक्ति प्रदाय कृतार्थयसि च ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतद्-आदिकं सर्वं त्वं स्वयं जानास्य् एव, किम् अहं विज्ञापयानीति वदन् स्तोत्रम् उपसंहरन् समर्पयंश् च प्रणमति—नम इति द्वाभ्याम् । विज्ञान-मात्राय ज्ञान-घन-मूर्तये, पुरुषेति कालादि-नियन्तृत्वेन पुरुषादि-त्रय-रूपत्वेन वा, परमेश्वरत्वात् सर्वज्ञत्वं सिद्धम् एव । अन्यत् स्पष्टम् एव ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद् आदिकं सर्वं जानास्य् एव तत् तत् प्रतीकोरेऽपि परम-समर्थोऽसीति किं विज्ञापयानीति सकाकु प्रणमन्न् आत्मानं समर्पयति । नम इति द्वाभ्याम् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पादयोः पतन् आत्मानं निवेदयति द्वाभ्यां—नम इति । विज्ञानस्य मद्-अनुभवस्य मात्रा परिमाणं यतस् तस्मै यावन्तं स्व-विषयकम् अनुभवं ददासि तावद् एव त्वाम् अनुभवामीत्य् अर्थः । अन्य-विषयक-ज्ञानानाम् अपि त्वम् एव हेतुर् इत्य् आह—सर्वेति । यतः पुरुषेति पुरुषो ऽन्तर्यामी तद्--रूपेण कर्मादिषु प्रेरयसि ईश ईश्वरस् तद्--रूपेण कर्मादि-फलं ददाति प्रधानं माया तद्--रूपेण विषयेषु त्वम् एव बध्नासि । ब्रह्म-ज्ञानैक-स्वरूपं तद्--रूपेण स्फुरितं सत् तस्माद् बन्धान् मोचयसि च । अनन्त-शक्तिर् भगवान् तद्--रूपेण स्वस्मिन् भक्तिं प्रदाय कृतार्थयसि च ॥२९॥


॥ १०.४०.३० ॥

नमस् ते वासुदेवाय सर्व-भूत-क्षयाय च ।
हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-प्रत्यय-हेतुत्वम् अभिव्यञ्जयं स्तौति, नमस् त इति । वासुदेवाय चित्ताधिष्ठात्रे । सर्व-भूत-क्षयाय । क्षय आश्रयः । अहङ्कारश् च प्राणिनाम् आश्रयः । ततश् चाहङ्काराधिष्ठात्रे सङ्कर्षणायेत्य् अर्थः । हृषीकेशेति बुद्धि-मनसोर् अधिष्ठात्रोः प्रद्युम्नानिरुद्धयोर् एकी-कृत्य ग्रहणम् । शरणागतं मां पाहीति प्रार्थना ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिव्यञ्जयन् प्रकटयन् अहङ्कारम् आश्रित्यैव सर्वे व्यवहरन्तीति प्रसिद्धम् । ततश्चाहङ्कारस्याश्रयत्वाद् एव । इत्य् अर्थ इति—अहम् इत्य् अभिमान-लक्षणं सङ्कर्ष इत्य् आचक्षत इत्य् उक्तेर् अयम् अर्थः । इयम् अक्रूर स्तुतिर् मरुद्-रूपेण कृष्णस्य श्रुतौ प्रसिद्धा । तथा च श्रुतिः सप्त-सप्त शाकित एकम् एका शता ददुः यमुनायाम् अधि श्रुतमुद्राधो गव्यं मृजेति राधो अश्वं मृजे इति । एतद् अर्थस्तु—अघमर्यणकाले भगवन्तं दृष्ट्वाक्रूरस् तद् देवतां मरुतं स्तौति-सप्त-सप्तैकौनपञ्चाशत् शाकिनः शक्नुवन्ति य इति, वा शक्नुवन्त्येतैर् इति शाकिनः शक्तिमन्तः, शक्तिप्रदा वा मरुतः । एकम् एका प्रत्येकम् । शता शतम् ऐश्वर्यं भवति इति यास्कः । ऐश्वर्याणि ददुः । यतो मया श्रुतम् एषास्य परमा सम्पत् इति वेद-शिरोभ्य आकर्णितम् । राधो धनं सूत्रान्तर्यामि-रूपं यमुनायाम् अधि मध्ये, मृजे मृगयामि पश्यामीत्य् अर्थः । तद् एव राध उत ऊर्ध्व गव्यं गोषु सूर्य-रश्मिषु स्थितं मृजे तथाश्वमश्ववति रथे स्थितं तद् एवातिमृजे अधो भूलोकेऽपि पश्यामीत्य् अर्थः । वासुदेवायेति । हे वसुदेव-नन्दन भवान् एव मम सेव्योऽस्तु न तु दुष्टभूपतिर् इति भावः । सर्व-भूतानां क्षयाय निवासाय । स्वस्मिन् मां वासय न तु गृहान्ध कूप इति भावः । हृषीकेशेति—मम मन-आदीन्द्रियाणि भवान् एव गृह्नातु न तु कलत्र-पुत्रादिर् इति भावः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वासुदेवत्वादिना चित्ताद्य्-अधिष्ठातृत्वाद् यथा त्वया प्रवर्तितस् तथा प्रवृत्तोऽस्मीति स्तोत्रादि-समर्पणं च वृत्तम् एवेति, न च वक्तव्यं गृह-स्थानां विषयासक्तानां संसारान् मनः-क्षोभाद् अपि वा रक्षणम् अशक्यम् इति सर्व-सामर्थ्यवत्त्वाद् इत्य् आह—हे प्रभो इति । एवं यादवतया श्री-ब्रह्मणोऽपि सकाशाद् अनुग्रह-विशेष-पात्रेण परम-भक्तेनाप्य् अनेन श्री-चतुर्मुखवद्-व्रज-जनादि-माहात्म्य-वर्णनेनास्तवनं श्री-गोपी-विषयकापराधेन भक्ति-ह्रासात् । किं वा, तत्-स्मरणेन श्री-भगवतः प्रिय-जन-प्रेम-परवशस्य तद् विरहार्तस्यार्ति-भरोदय-भयाच् च ।

तस्मै चैतन्य-देवाय मनो भगवते मुहुः ।

जदं नर्तयते योऽयं हासयन् बहुधा बुधान् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वासुदेवाय सर्व-कारण-रूपाय सर्व-भूतक्षयाय प्रलयाश्रयाय हे हृषीकेश ! स्थिताव् अपि सर्वान्तर्यामिन्न् इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासुदेवायेति । हे वसुदेव-नन्दन ! भवान् एव मम सेव्यो भवतु, न तु दुष्ट-भूपतिर् इति भावः । सर्व-भूतानां क्षमाय निवासायेति स्वस्मिन्न् एव मां वासय न तु गृहान्ध-कूपे इति भावः । हृषीकेशेति मम मन-आदीन्द्रियाणि भवान् एव गृह्नातु, न तु कलत्र-पुत्रादिर् इति भावः ॥३०॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धेऽक्रूर-स्तुतिर्

नाम चत्वारिंशोऽध्यायः ।

॥ ११.४० ॥

(१०.४१)


  1. हेतुत्वादिकम् अपि ↩︎

  2. ब्रह्मणोऽन्तता ↩︎

  3. सञ्चारेण ↩︎

  4. तत्-तन् निज ↩︎