श्री-कृष्ण-बलरामयोर् मथुरां प्रति प्रस्थानं विरह-कातर-गोपीनां करुणोद्गारः, कालिन्द्याम् अक्रूर-कर्तृकं भगवद्-धाम-दर्शनं च ।
॥ १०.३९.१-२ ॥
श्री-शुक उवाच—
सुखोपविष्टः पर्यङ्के राम-कृष्णोरु-मानितः ।
लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥
किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने ।
तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
नव-त्रिंशे पुरीं गच्छत्य् अच्युते गोपिकोक्तयः ।
अक्रूरेणाथ कालिन्द्यां विष्णु-लोकस्य दर्शनम् ॥
भक्तानां मनोरथाः सत्या भवन्तीति द्योतयन्न् आह—सुखोपविष्ट इति । राम-कृष्णाभ्याम् उरु अधिकं मानितः ॥१.३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ गोपिकोक्तेर् अनन्तरम् । दर्शनं कृतम् इति शेषः । सत्यं मे भक्त-चिन्तितम् इत्य् आह—भक्तानाम् इति । मनोरथान् गोचारणायानुचरद् वने [भा।पु। १०.३८.८] इत्य् आरभ्य, किं चाग्रजो मावनतम् [भा।पु। १०.३८.२३] इत्य् अन्तान् यान् । सो\ऽक्रूरः । चकार दध्यौ । कृष् अत्र ध्याने करणार्थत्वात् । तद् उक्तं यादवेन—करणं कारणे काले साधने\ऽनुव्रतादिषु । स्पष्टाद्य्-उच्चारणाभेदे ध्यान-पद्मासनादिषु ॥ इति ॥१॥
ननु मुख्य-मनोरथो मोक्षः, स त्व् अनेन नो लब्धः संसारानिवृत्तेर् इत्य् अत्राह—किम् इति । तत्-परा मुख्य-भागवतास् तत्-प्रसादम् अन्तरेणान्यन् नाकाङ्क्षन्ति इति भावः । नन्व् अन्यान् सार्ष्ट्य्-आदीनाम् इति कथं न प्रार्थितवान् ? तत्राह—किम् अलभ्यम् इति । तत्-परास् तद्-भक्त्य्-एक-निष्ठाः । किञ्चन भक्ति-व्यतिरिक्तम् । राजन्न् इति—श्री-कृष्ण-भक्त्यां देदीप्यमानत्वात् तुभ्यम् इदं श्रावयामि इति भावः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
या लीला मज्जयेत् सद्यो जगच् छोकार्णवेऽखिलम् ।
तद्-व्याख्यानेऽपि योऽयं मां प्रेरयेत् सोऽत्र मे गतिः ॥
पर्यङ्के सुखम् उपविष्टः इत्य् आतिथ्य-परिपूर्ति-दर्शिता, तावत्-पर्यन्तम् एवातिथेः सम्मान्यत्वात्, राम-कृष्णाभ्याम् उरु-मानितः सन् लेभ इति सर्व-मनोरथ-लब्धेस् तद्-द्वय-कृत-परिरम्भणाद्य्-उरु-सम्मानन्-रूपत्वात् । उरु-शब्देन कृत-मनोरथेभ्योऽप्य् अधिक-प्राप्तिर् उक्ता । सा चोक्तैव—भगवांस् तम् अभिप्रेत्य [भा।पु। १०.३८.३६] इत्य्-आदिना । वक्ष्यते च तात [भा।पु। १०.३९.४] इत्य्-आदिना । तथा वाञ्छितस्य श्री-बलदेव-प्रष्टव्यस्य श्री-भगवत्तैव स्वयं पृष्टत्वात्।
यद् वा, सुखोपवेशानन्तरं पुनर् अप्य् अधिकं वस्त्रालङ्कारादिना सम्माननं ताभ्यां कृतम् इति बोद्धव्यम् । अन्यत् समानम् । रामस्यादौ निर्देश आतिथ्येनोरु-मानने तस्यैवात्र प्राधान्यात् । ह हर्षे, स्फुटं लेभे इति वा ॥१॥
गोकुलाच् छ्री-कृष्ण-नयनार्थम् आगतस्य अक्रूरस्य दुर्घट-मनोरथानां परिपूर्त्या स्वस्य व्रज-जनतयाभिमानात् तस्मिन् जातेन मात्सर्येणैवाह—किम् इति । श्रियोऽखिल-विभूतीनाम् ईश्वर्या महा-लक्ष्म्या निकेतने स्थान इति सर्व-विभूति-निलयत्वात्, सद्-गुण-गण-मयत्वं चोक्तम् । तत्रापि भगवति निजाशेषैश्वर्य-प्रकटके, तत्रापि प्रसन्ने सति किं कतमत् त्रैगुण्य-विषयं सिद्ध्यादिकं तृतीयं वा मोक्ष-सुखं, पञ्चमं भक्ति-सुखं वा अलभ्यं भवति ? अपि तु सर्वम् एव सुलभं स्याद् इत्य् अर्थः । अतो, गृहं प्रवेश्याप्त-समस्त-सत्-कृतम् [भा।पु। १०.३८.२३] इति यत् तेन वाञ्छितम्, तत्-सिद्धौ किम् आश्चर्यम् ? इति भावः । तत्-पराः श्री-भगवद्-एक-निष्ठाः किञ्चित् तादृशं भगवद्-व्यतिरिक्तं नाभितो वाञ्छन्ति, सकामत्वेन तथा विविधेच्छया स्वातन्त्र्येण च तत्परत्व-हानेः, अभि-शब्दस्यावाञ्छन-सम्यक्त्वे तात्पर्यम् ।\
यद् वा, अभि अभयं यथा स्यात्, तत्परता-हानि-भयान् नैव वाञ्छन्तीत्य् अर्थः । "नहि" इति पाठे हि निश्चितम् । हे राजन्न् इति त्वयेदं ज्ञायत एव इति भावः ।
अथवा नन्व् अक्रूरेण यदु-कुल-द्रोग्धृ-सुदुष्ट-कंस-हनने कथं मनोरथो न कृतः ? सोऽपि तदानीम् एव सिध्येद् इत्य् आशङ्क्याह—किम् इति । श्रियो वक्षसा निकेतन इति परमं प्रिय-जन-वश्यत्वम् उक्तम् । अतो यद्यपि किञ्चिद् अप्य् अलभ्यं नास्ति, सोऽपि तत्-प्रभावः सद्य एव हतः स्यात्, तथाप्य् एकान्तिनः किञ्चिद् अन्यन् न वाञ्छन्ति, किन्तु तम् एवाभिवाञ्छन्तीत्य् अर्थः । अतो भगवद्-दर्शनादीनाम् अपि तत्-परतायाम् एव पर्यवसानात् तान्य् एव तेन वाञ्छितानि, न त्व् अन्यद् इति भावः ।
यद् वा, अवाञ्छ्यमानम् अपि दुर्लभम् अपि परमार्थ-सुखं तत्-परत्वाभिज्ञेन श्री-भगवतैव देयम् इत्य् अभिवाञ्छन्ति ।
यद् वा, ननु श्री-नन्द-किशोरालिङ्गनादिकं श्रियोऽपि सुदुर्लभं कथम् अक्रूरस्य सिद्धम् ? तत्राह—किम् इति । श्रियः सर्व-शोभायाः स्थाने । किं वा, बहुल-तप-आदिना श्रिया लक्ष्म्याप्य् आश्रित इति परम-सेव्यत्वम् उक्तम् । तथापि प्रसन्ने सति, अतस् तत्-परा अपि तथा तेनोक्तेन प्रकारेण । किं च, किम् अपि न न वाञ्छन्ति, द्वयोर् नषोः प्रकृत्य्-अर्थ-गमकत्वाद् वाञ्छन्त्य् एवेत्य् अर्थः । तत्-परत्वेनैव तादृश-मनोरथानाम् उत्पत्तेः सम्पत्तेश् चेति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
या सद्यो लीलयेल् लीला लोकं शोक-महार्णवे ।
तद्-व्यापारोऽपि यः स्वैरम् ईरयेन् मां स मे गतिः ॥
सुखेति । अयम् अर्थः—ततः श्री-नन्दे तम् आनन्द्य नक्तं कृत्याय स्वान्तर्-गृहं प्रविष्टे सति श्री-राम-कृष्ण-निदेशेन सेवक-पर्यर्पित-पर्यङ्के सुखम् असङ्कोचम् उपविष्टः पुनः श्री-राम-कृष्णाभ्यां ताम्बूल-गन्ध-पुष्प-जल-व्यजन-सेवकादि-समाधानेन ऊरु-मानितश् च। ततः सर्वान् मनोरथान् लेभे । तयोर् अपि स्वान्तर्-गृहं प्रविष्टयोः सम्भ्रमे गते सति क्रमेण तत्-तत्-प्राप्ति-भावनया पूर्णम् आत्मानं मेने । तेषाम् अनवच्छेदं वारयति—पथि इति । ह स्फुटम्, एकान्त-भक्ति-योग्यत्वेन प्रसिद्धं यथा स्यात् तथा इत्य् अर्थः । तद् उक्तं देहं भृताम् [भा।पु। १०.३८.१२] इत्य्-आदि । तत्र दर्शनस्य सिद्धिः ददर्श कृष्णम् [भा।पु। १०.३८.२८] इत्य्-आदिना, दर्शिता नमस्कारस्य—रथात् तूर्णम् [भ।पु। १०.३८.३४] इति । तत्रैव हस्त-पङ्कज-धारणस्य कृपेक्षणस्य च ज्ञेया कृष्ण-कर्तृक-तद्-आलिङ्गनस्य भगवांस् तद् [भा।पु। १०.३८.३६] इति तत्-कर्तृकतातेति सम्बोधनस्य त्व् अग्रे भाविताया निश्चितत्वात् । श्री-सङ्कर्षणेन कंस-कृते स्व-बन्धु-वर्ग-दुःख-प्रश्नस्य च तेनाञ्जलि-ग्रहण-पूर्वक-गृह-नयनाद्य्-आतिथ्य-करणस्य तु सङ्कर्षणश् चेति ॥१॥
नन्व् अन्यान् धर्मार्थादि-मनोरथान् कथं न चकार ? तत्राह—किम् इति । भगवत्त्वाद् एव श्रियः प्रेयसी-रूपाया हृदि रेखा-रूपायाश् च निकेतने आश्रये । किञ्चन इति पूर्वम् उद्दिष्टं भगवत्-प्रसादमय-तत्-तत्-प्रकारं विना यत् किञ्चिद् अन्यद् इत्य् अर्थः । देहं-भृताम् इयान् अर्थ [भा।पु। १०.३८.२७] इत्य्-आदेः । हे राजन् ! इति त्वयेदं ज्ञायत एवेति भावः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : लेभे मनोरथान् सर्वान् इति केषाञ्चित् प्राप्तत्वेन वर्णितत्वात्, केषाञ्चित् तद्-उपलक्षितत्वेन सूचितत्वात्, केषाञ्चित् प्राप्तव्येन निश्चितत्वाद् इति ॥१॥
नन्व् अन्यान् सार्ष्ट्य्-आदीन् अपि कथं न प्रार्थितवान् ? तत्राह—किम् अलभ्यम् इति । तत्-परास् तद्-अभक्त्य्-एक-निष्ठाः । किञ्चन भक्ति-व्यतिरिक्तम् ॥२.१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नव-त्रिंशे पुरीं याति प्रिये गोप्योऽतिविह्वलाः ।
विलेपुर् यमुना-मग्नोऽक्रूरो वैकुण्ठम् ऐक्षत ॥
ननु कथम् अक्रूरेण केवलं कृष्ण-दर्शन-स्पर्शनादाव् एव मनोरथाः कृताः, न तु पारमेष्ठ्य-सायुज्यादौ ? तत्राह—किम् अलभ्यम् इति ॥१-२॥
॥ १०.३९.३ ॥
सायन्तनाशनं कृत्वा भगवान् देवकी-सुतः ।
सुहृत्सु वृत्तं1 कंसस्य पप्रच्छान्यच् चिकीर्षितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सायन्तनाशनं रात्रि-भोजनम् । सायं प्रातर् द्विजातीनां भोजनं श्रुति-चोदितम् इति याज्ञवल्क्योक्तेः । सुहृत्सु वसुदेवादिषु । वृत्तं वर्तनम्, वृत्तं वर्तन-च्छन्दसोः इति धरणिः ।
सायन्तनाशनं कृत्वा इति । द्वादश्याम् अपि द्विर्-भोजनम् उपानयात् । प्राग् न विरुद्धम् इति धर्म-शास्त्रात् । देवकी-सुत इति तद्-भावम् आत्मनो व्यञ्जयन्न् इत्य् अर्थः । अत एव सुहृत्सु यादवेषु वृत्तिं वर्तमानां चेष्टां तथान्यच् चिकीर्षितम् अध्यवसीयमाना भाविनी चेष्टा, ताम् अपि पप्रच्छ । "वृत्तम्" इति पाठेऽतीतां चेष्टाम् । यद् वा, अन्यत् तन्-मारण-लक्षणम् चिकीर्षितं स्वयं कर्तुम् इष्टम् इत्य् अर्थः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सायन्तनाशनं कृत्वेति । द्वादश्याम् अपि द्विर्-भोजनम् साक्षाद् भगवत्त्वेन तथा लौकिक-व्यवहारापेक्षायाम् अपि ब्रह्मचर्यानन्तरम् एव धर्माचरणाधिकाऋएणोपवासस्याप्य् अभावात् । यच् चोक्तम्—अष्ट-वर्षाधिको बालः इत्य्-आदि । तच् च सर्व-धर्मे ब्राह्मणस्यैव प्राधान्येन तम् अधिकार्यैव तस्य ह्य् अष्टम-वर्ष एवोपनयन-विधानात् । सुहृत्सु श्री-वसुदेवादि-यादव-वर्गेषु वृत्तिं वर्तनम् । कंसः कथं वर्ततेत्य् एवं पप्रच्छ । यतो देवकी-सुतस् तद्-गर्भाज् जातः ।
विशेषतो भगवान् भक्त-वात्सल्यादि-प्रकटन-पर इत्य् अर्थः । किं च, सुहृत्स्व् एव सामान्यतो वा तस्य चिकीर्षितं सम्प्रति कर्तुम् इष्टम् अन्यद् अपि पप्रच्छ । मातुः स्नेहेन भक्त-वात्सल्येन च कंस-जिघांसया तद्-दोष-ख्यापनार्थं तत्-तत्-प्रश्न इति भावः । यद् वा, भगवान् सर्वज्ञोऽपि पप्रच्छ । कुतः ? देवकी-सुत इति मनुष्य-लीलां दर्शयन्न् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सायन्तनाशनं कृत्वेति । द्वादश्याम् अपि द्विर्-भोजनम् उपानयात् । पूर्वं सम्यग् धर्म-नियम इति न मर्यादा-विरुद्धम् । देवकी-सुत इति तद्-भावम् आत्मनो व्यञ्जयन्न् इत्य् अर्थः । अत एव सुहृत्सु यादवेषु वृत्तिं वर्तमानां चेष्टां, वृत्तम् इति पाठे त्व् अतीतां । तथा अन्यद् यच् चिकीर्षितम् अध्यवसीयमाना भाविनी चेष्टा, तद् अपि पप्रच्छ ।
यद् वा, पाठ-द्वयेऽपि चेष्टा-मात्रं यतोऽन्यत् तन्-मारण-लक्षं चिकीर्षितं, स्वयं कर्तुम् इष्टम् इत्य् अर्थः । ततश् च तद्-दोष-स्थापनायैव तत्-प्रश्न इति भावः । अत्र यद्यपि तद्-अग्रज-कर्तृकत्वेनैव तेन तत्-प्रश्नः पूर्वं भावितः, तथापि निजानुजाङ्गीकारापेक्षया क्षणं तूष्णीं स्थितस्याग्रजस्य प्रतिनिधीयमानानुज-वचनम् अग्रजस्यैव प्रतिपन्नम् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.४ ॥
श्री-भगवान् उवाच—
तात सौम्यागतः कच्चित् स्वागतं भद्रम् अस्तु वः ।
अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे तात ! हे सौम्य ! स्वागतं यथा तथा आगतः । स्व-ज्ञाति-बन्धूनाम्, स्वे सुहृदः, ज्ञातयः स-पिण्डाः, बन्धवोऽस-पिण्डाः सम्बन्धिनः, तेषाम् अपि किम् अनमीवम् अपापम् अदुःखं सुखम् इति यावत् । अनामयम् आरोग्यम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वागतं शुभागमनम् । सपिण्डा सप्त-पुरुषावधयः । अनमीवम् अस्तीति शेषः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे तातेति पितृव्यतया गौरवेण सम्बोधनम् । तेन च ज्ञातित्वम् हे सौम्येति च साधुत्वं बोधयति । इतोऽस्मन्-नयनेऽक्रूर-कर्मणि निमित्ते तवागमनम् अयुक्तम् इति गूढो भावः । आगताः इति तथा वः इति च बहुत्वं गौरवाद् एव । भद्रं क्षेमस् तु वो युष्माकम् इत्य् आशीः, प्रश्ने सदाचारानुसारात् । किं वा, दैन्येनागतस्य तस्य समाश्वासनार्थम् । अनमीवम् अनामयम् इति द्वाभ्यां क्रमेण बाह्यान्तर-दुःखाभाव-प्रश्नः । अन्यत् तैर् व्याख्यातम् एव ।
आगत इत्य् असम्भाव्यस्य तत्र तद्-आगमनस्य सिद्ध्या तद्-अनुमोदनेन तं सन्तोषयति । एतद् एवाग्रे व्यञ्जयिष्यति—दिष्ट्येति । अत एव कञ्चित् स्वागतम् । किं सुखेनागतम् इति प्रश्नः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे तातेति पितृव्यतया पितृ-तुल्यत्वं । हे सौम्येति साधुतया तत्रापि गौरवातिशयो व्यञ्जितः । अत एव आगता इति बहुत्वं व इति च आगत इत्य् एक-वचनान्त-पाठो बहुत्र । भद्रं क्षेमम् अस्तु युष्माकम् इत्य् आशीः-प्रश्ने सदाचारानुसारात् । किं वा, दैन्येनागतस्य तस्य समाश्वासनार्थम् अनमीव अनामयम् इति द्वाभ्यां क्रमेण सामान्य-विशेष-दुःखाभाव-प्रश्नः । अन्यत् तैः ।
यद् वा, आगता इत्य् असम्भाव्यस्य तत्र तद्-आगमनस्य सिद्ध्या तद्-अनुमोदनेन तं सन्तोषयति। एतद् एवाग्रेऽभिव्यञ्जयिष्यति । दिष्ट्या इत्य् अत्र कच्चित् स्वागतं किं सुखेनागतम् इति प्रश्नः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वे सुहृदः ज्ञातयः सपिण्डाः बन्धवोऽसपिण्डाः, तेषां किम् अनमीवं पापाभावः ? अनामयम् आरोग्यं च ? ॥४॥
॥ १०.३९.५ ॥
किं नु नः कुशलं पृच्छे एधमाने कुलामये ।
कंसे मातुल-नाम्न्य् अङ्ग स्वानां नस् तत्-प्रजासु च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्रश्नोऽपि मम नातिसङ्गत इत्य् आह—किं न्व् इति । अङ्ग हे अक्रूर ! पृच्छे पृच्छामि । नोऽस्माकं कुलस्यामये रोगे नो मातुल इति नाम यस्य, तस्मिन् । नः स्वानां ज्ञातीनाम् । तस्य प्रजासु च ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं प्रश्नोऽनमीवादि-प्रश्नः । तस्य कंसस्य । अनामयस्य विशेषतः प्रश्ने स्व-तात्पर्यं दर्शयति—तद्-अनुपहृतिर् एवानामयतया पृष्टेति भावः । नाम-मात्रेणैव मातुले, वस्तुतस् तु आमये यतोऽसौ नागन्तुकः । न त्व् एकस्य किन्तु सर्वस्यैव कुलस्य इत्य् अतस् तन्-नाशनम् एवोचितम् । तथाप्य् एतावन्तं कालं मातुल-नाम्नैवोपेक्षितम् इति भावः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुलामये एधमान इति नित्यम् एवान्तर-बाह्य-दुःख-हेतुत्वम् उक्तम्, नाम-मात्रेणैव मातुले, वस्तुतस् तु आमये, अतस् तद्-वधो नानुचित इति । तथा एतावत्-कालं मातुल-नाम्नैवासाव् उपेक्षितोऽस्तीति च सूचयति । तस्य प्रजासु प्रजानाम् । यद् वा, तद्-अनुजादिषु च एधमानेषु ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुलामय इति अनामयस्य विशेषतः प्रश्ने स्व-तात्पर्यं दर्शयति तद्-अनुपहतिर् एवानामयतया पृष्टेति भावः । नाम-मात्रेणैव मातुले, वस्तुतस् त्व् आमये यतोऽसौ न आगन्तुकः न त्व् एकस्य, किन्तु सर्वस्यैव कुलस्येत्य् अतस् तन्-नाशनम् एवोचितम् । तथाप्य् एतावन्तं कालं मातुल-नाम्नैवासाव् उपेक्षित इति भावः । तस्य प्रजासु प्रजानां च । यद् वा, तद्-अनुजादि-रूपासु च एधमानासु ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुशल-प्रश्नोऽपि नातिसङ्गच्छत इत्य् आह—किन्त्व् इति । अङ्ग ! हे अक्रूर ! पृच्छे पृच्छामि । नः कुलामये अस्मत्-कुलस्य रोग-रूपे कंसे नः स्वानाम् अस्मज्-ज्ञातीनाम् ॥५॥
॥ १०.३९.६ ॥
अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः ।
यद्-धेतोः पुत्र-मरणं यद्-धेतोर् बन्धनं तयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मद् अस्मन्-निमित्तम् । वृजिनं दुःखम् । आर्ययोर् निरपराधयोः । यद्-धेतोर् योऽहम् एव हेतुस् तस्मात् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रश्नोत्तरम् अनुतप्तः सन्न् आह—अस्मद् इति । हेतौ पञ्चमी । वृजिनं दुःख-पापयोः इति विश्वः । आर्यः शिष्टे निरागसि । वर्णाश्रमोक्त-धर्माग्र्ये श्रेष्ठे वणिक्-संहतौ इति धरणिः । तयोः पित्रोः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-हेतुकं पित्रोर् दुःखम् अनुस्मृत्य अनुतप्यमान आह—अहो इति खेदे । अस्मद् इति बहुत्वं श्री-बल-रामाद्य्-अपेक्षया । किं वा, आत्मनो वृजिन-हेतुतायां गौरव-विवक्षया । वृजिनम् एव निर्दिशति—यद्-धेतोर् इति । अस्य पुनर् उक्तिर् आत्मैक-हेतुता-विवक्षया । अत एतस्माद् इत्य् उक्तेऽपि योऽहम् इति तैर् व्याख्यातम् । एतच् च सर्वम् अक्रूराश्वासनार्थं श्री-मधु-पुरी-गमन-हेतूत्थापनम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्मद् इति पञ्चमी हेतौ । बहुत्वम् एकत्वे, अस्मदो द्वयोश् च इति स्मरणात् । यद्-धेतोर् इति पौनरुक्त्यम् अनुताप-स्वभावेनात्मैक-हेतुता-विवक्षया च ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मत् अस्मत्तः मत्तः पुत्रात् वृजिनं दुःखं तद् एव किम् ? तत्राह—योऽहम् एव हेतुः, तस्मात् ॥६॥
॥ १०.३९.७ ॥
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् ।
सञ्जातं वर्ण्यतां तात तवागमन-कारणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे सौम्य ! स्वानां वो दर्शनम् अद्य मम सञ्जातं, तद्-दिष्ट्या भद्रम् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मह्यं मम । तद् एवं सति यद् अद्य वो दर्शनं सम्यग् ऐकान्तिकं जातं, तद्-दिष्ट्या । कीदृशानां वः ? स्वानां कंसस्य परजातस्वाद-स्निग्धत्वाच् च भोज-राजत्वेऽपि ममैव ज्ञातीनां मदीय-धन-रूपाणां वेत्य् अर्थः । सर्वनामत्वाभावस् तु स्वोऽर्थ-ज्ञात्य्-अन्य-वाच्य् अपि इत्य् उक्तेः । कीदृशं दर्शनं ? काङ्क्षितम् । ततस् तावत्-प्रियत्वेनैव यद्य् एकस्याप्य् आत्मीयस्य तत्रत्यस्य दर्शनं भवेत्, तदा तन्-मारण-युक्तिः सिद्ध्येद् इत्य् अभिप्रायेणेति भावः । अत्रैतावती विवक्षा—अत्रत्या माता-पित्रादयस् तत्रत्येभ्योऽपि परम-स्निग्धा इति तद्-अनुमतिं विना तत्र गन्तुं न शक्नोमि । तथाप्रकटेष्व् अपि तेषु महापराधेषूपेक्षितस्य मातुल-नाम्नस् तस्य सहसा जिघांसया अभिगमने तम् एव कारणी-कर्तुम् इच्छामि । तस्माद् अपि तादृशोऽपेक्षितः कश्चिद् आयाति ततस् तद्-अनुरोधेन तेषाम् अनुमतिं लेभे, तेन सह युक्त्वा च तस्यैव तत्-कारणम् उद्भावयामि, तदैव तन्-मारणं नीति-पदवीम् आरोहतीति । अतो हे तात ! तवागमन-कारणं तावद् वर्ण्यताम् । तस्मिन् ज्ञाते सत्य् आयति चिन्तां करिष्याम इति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि कथं तयोर् दुःखं ज्ञात्वाप्य् एतावन्तं कालम् उपेक्षसे ? विना कस्याप्य् आत्मीयतरस्य प्रेरणयेतो गन्तुं न शक्यत इत्य् आशयेनाह—दिष्ट्या इति । काङ्क्षितं कंस-वधाय तत्र गन्तुं चिरम् अभीष्टम् इदं तद्-आश्वासन-मात्रम्, वः इति बहुत्वं गौरवेणैव । सौम्य ! हे क्रूरेतरेति गौरवेण, साक्षाद् अग्राह्यस्याक्रूर-नाम्नः सङ्केतेन ग्रहणात्, साधुत्व-विवक्षया वा तद्-अभिप्रायः पुरोक्त एव। हे तात ! इति पुनर् अपि सम्बोधनम् । तव गौरवेण तत् साधयिष्यामीति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं सति यद् अद्य वो दर्शनं सम्यग् ऐकान्तिकं जातं, तद् दिष्ट्या । कीदृशानां ? स्वानां कंसस्य पर-जातत्वाद् अस्निग्धत्वाच् च भोज-राजत्वेऽपि ममैव ज्ञातीनाम् इत्य् अर्थः । मदीय-धन-रूपाणाम् इति वा । यद् वा, आर्षम् सर्व-नामत्वं स्वेषाम् आत्मीयानाम् इत्य् अर्थो वा । कीदृशं दर्शनं ? काङ्क्षितं ततस् तावत् प्रियत्वेनैव यदि तत्रत्यस्यैकस्यात्मीयस्य दर्शनं भवेत्, तदा तन्-मारण-युक्तिः सिद्ध्यतीत्य् अभिप्रायेणेति भावः । अत्रैतावती विवक्षा अत्रत्या माता-पित्रादयस् तत्र तेभ्योऽपि परम-स्निग्धा इति तद्-अनुमतिं विना तत्र गन्तुं न शक्नोमि । तथा प्रकटेष्व् अपि तेषु महापराधेषु उपेक्षितस्य मातुल-नाम्नस् तस्य सहसा जिघांसयाभिगमने तम् एव कारणीकर्तुम् इच्छामि । तस्माद् यदि तादृशोऽपेक्षितः कश्चिद् आयाति, ततस् तद्-अनुरोधेन तेषाम् अनुमतिं लेभे, तेन सह युक्त्वा च तस्यैव तत्-कारणत्वम् उद्भावयामि, तद् एव तन्-मारणं नीति-पदवीम् आरोहतीति । अतो हे तात ! तवागमन-कारणं तावद् वर्ण्यतां, तस्मिन् ज्ञाते सत्य् आयतीं चिन्तां करिष्याम इति भावः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काङ्क्षितम् इति । यद् एव कारणीकृत्य तत्र गत्वा कंसं हनिष्यामीति भावः ॥७॥
॥ १०.३९.८ ॥
श्री-शुक उवाच—
पृष्टो भगवता2 सर्वं वर्णयामास माधवः ।
वैरानुबन्धं यदुषु वसुदेव-वधोद्यमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : माधवो मधोर् वंशजः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : माधवोऽक्रूरः । वैरस्य प्रकृतस्य अनुबन्धम् अनुवर्तनं, वैरेणानुबन्धं सतत-दोष-भावं वा,
अनुबन्धो दोष-भावे प्रकृत्य्-आदि-विनश्वरे । > मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ इति यादवः ।
भगवते भगवन्तं ज्ञापयितुम् इत्य् अर्थः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति श्री-भागवतः प्रश्नेनाशेषं वृत्तं सङ्क्षेपेणावर्णयद् इत्य् आह—द्वाभ्यां पृष्ट इति । अनेन तद्-वर्णनेऽवसरोऽसङ्कोचश् च दर्शितः । किं च, भगवते भक्त-वात्सल्यादि-निजाशेष-गुण-प्रकटन-परायेत्य् अर्थः । अत एकान्त-भक्त-यदु-कुल-हितार्थं तस्मिन् तत्-तद्-वर्णनम्, तथा माधवो मधु-वंशोद्भव इति तस्यापि तद् उचितम् एवेति भावः । श्लेषेण मधु-सम्बन्धि-भ्रमरो यथा सारग्राही, तथा सारतया किञ्चित् किञ्चिद् अकथयद् इत्य् अर्थः । तद् एवाह—वैर- इति सार्धेन । यदुषु सामान्यतो वैरस्यानुबन्धम् आरम्भं निर्बन्धेन चरणं वा, वसुदेवस्य वधे कंसस्य उद्यमम्, तन्-नामाग्रहणं दुष्टत्वेनाग्राह्यत्वात्, एवम् अग्रेऽपि ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पृष्ट इति युग्मकम् । भगवत इति भगवन्तं ज्ञापयितुम् इत्य् अर्थः । तादर्थ्ये चतुर्थी । तन्-मारणं तद्-अभीष्टम् इति । तद्-अर्थम् एव वर्णयामास न स्वार्थम् इत्य् अर्थः । "भगवता" इति पाठः क्वचित् । यतो मधु-वंशजः स्व-पक्षत्वाद् इत्य् अर्थः । सर्वं किम् ? इत्य् अपेक्षायाम् आह—वैर- इति सार्धेन वैरानुबन्धं तत्-सातत्यम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथः- माधवो मधु-वंश-भवो यः ॥८॥
॥ १०.३९.९ ॥
यत्-सन्देशो यद्-अर्थं वा दूतः सम्प्रेषितः स्वयम् ।
यद् उक्तं नारदेनास्य स्व-जन्मानकदुन्दुभेः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यो धनुर्-मख-च्छद्मा सन्देशो यस्य । तद्-अर्थं चाणूरादिभिर् घातनार्थम् । अस्य कृष्णस्य पुरतो वर्णयामास । स्व-जन्म कृष्ण-जन्म । आनकदुन्दुभेः सकाशात् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयम् अक्रूरः । प्रेषितः कंसेनेति शेषः । किं तद् उक्तम् ? तत्राह—स्व-जन्म इति ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वयम् अक्रूरः । नन्व् एतावन्तं कालम् एवम् अकृत्वा कुतोऽधुना कर्तुम् आरभतेत्य् अपेक्षायाम् आह—यद् उक्तम् इति । अन्यत् तैर् व्याख्यातम् । यद् वा, यद्-अर्थम् इति गोकुलान् मधुपुर्यां भार्तृ-पित्र्-आदि-सहितस्य तस्य नयनार्थम् इति, अस्य कंसस्य तं प्रति यद् उक्तम् एतच् चाक्रूर-वचनं परमार्ति-हेतुत्वात् श्री-बादरायणिना संक्षेपेणोक्तम् । श्री-वैशम्पायेन च विस्तरेण वर्णितम् । तथा च हरि-वंशे—
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै । > यास्यन्ति च व्रजाः सर्वे गोपालाः स-परिग्रहाः ॥ > कंसाज्ञया समुचितं करम् आदाय वार्षिकम् । > समृद्धस् तस्य कंसस्य भविष्यति धनुर्-महः । > तद् द्रक्ष्यथः समृद्धं च स्वजनैश् च समेष्यथः । > पितरं वसुदेवं च सततं दुःख-भाजनम् । > दीनं पुत्र-वध-श्रान्तं युवाम् अथ समेष्यथः । > सततं पीड्यमानं च कंसेनाशुभ-बुद्धिना । > देशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् । > कंसस्य भय-सन्त्रस्तं भवद्भ्यां च विना कृतम् । > दह्यमानं दिवा-रात्रौ सोत्कण्ठेनान्तरात्मना । > तां च द्रक्ष्यसि गोविन्द पुत्रैर् अमृदितस्तनीम् । > देवकीं देव-सङ्काशां सीदन्तीं विहत-प्रभाम् । > पुत्र-शोकेन शुष्यन्तीं त्वद्-दर्शन-परायणाम् । > वियोग-शोक-सन्तप्तां विवत्साम् इव सौरभीम् । > उपपूतेक्षणां दीनां नित्यं मलिन-वाससम् । > स्वर्-भानुवद् अनुग्रस्तां शशाङ्कस्य प्रभाम् इव । > त्वद्-दर्शन-परां नित्यं तवागमन-काङ्क्षिणीम् । > त्वत्-प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् । > तत्-प्रभावेष्व् अकुशलां त्वया बाल्ये वियोजिताम् । > अरूपज्ञां तव विभो वक्त्रस्यास्येन्दु-वर्चसः । > यदि त्वां जनयित्वा सा देवकी परितप्यते । > अपत्यार्थो नु कस् तस्या वरं ह्य् एवानपत्यता ।[ह।वं। २.२६.२-१३]
किं च,
त्वम् तु शक्र-समः पुत्रो यस्यास् त्व् असदृशो गुणैः । > परेषाम् अप्य् अभयदो न सा शोचितुम् अर्हति । > वृद्धौ तवाद्य पितरौ पर-भृत्यत्वम् आगतौ । > भर्त्सितौ त्वत्-कृते नित्यं कंसेनाशुभ-बुद्धिना । > यदि ते देवकी मान्या पृथिवीवात्म-धारिणी । > तां शोक-सलिले मग्नाम् उत्तारयितुम् अर्हसि । > त्वं च वृद्धं प्रिय-सुतं वसुदेवं सुखोचितम् । > पुत्र-योगेन संयोज्य कृष्ण धर्मम् अवाप्स्यसि । > यथा नागः सुदुर्वृत्तो दमितो यमुना-ह्रदे । > विमूलश् च कृतः शैलो यथा वै भूधरस् त्वया । > दर्पोत्सिक्तश् च बलवान् अरिष्टोऽपि निपातितः । > पर-प्राण-हरः केशी दुष्टात्मा च हयो हतः । > एतेनैव प्रयत्नेन वृद्धाव् उद्धत्य दुःखितौ । > यथा धर्मम् अवाप्नोति तत् कृष्ण परिचिन्त्यताम् । > निर्भर्त्स्यमानो यैर् दृष्टः पिता ते कंस-संसदि । > ते सर्वे चक्षुर् अश्रूणि नेत्रैर् दुःखान्विता भृशम् । > गर्भाव् अकृन्तनादीनि दुःखानि सुबहून्य् अपि । > माता ते देवकी कृष्ण कंसस्य सहते वश ॥ [ह।वं। २.२६.१६-२३] > इत्य्-आदि ।
एतच् च सर्वं श्री-भगवतोऽत्यन्तानुकम्पा-जननार्थं ज्ञेयम् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यत्-सन्देशः स्वयम् आत्मना अक्रूरो दूतस् तेन सम्प्रेषितो यद्-अर्थं वा तत्-सन्देशं तम् अर्थं च वर्णयामास, सम्प्रति वैर-सातत्यादौ हेतुः यद् उक्तम् इति तच् चेति पूर्ववत् । अन्यत् तैः । तत्र सन्देशो हरि-वंशानुसारेण वाच्यः—नन्द-गोपैर् इत्य्-आदिकः पूर्वोक्त एव ज्ञेयः । यद्-अर्थम् इति यश् चाणूरादिभिर् घातनम् एवार्थो यत्र तादृशं यथा स्यात् तथा प्रेषित इति योज्यम् । अन्यश् चाक्रूरस्य श्री-कृष्णावेदन-वाक्यं श्री-वैशम्पायनेनोक्तं—
स्व-पुरीं मथुरां तात गमिष्यामः सुखाय वै । > यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः । > कंसाज्ञया समुचितं करम् आदाय वार्षिकम् । > समृद्धस् तस्य कंसस्य भविष्यति धनुर् महः । > तद् द्रक्ष्यथः समृद्धं च स्वजनैश् च समेष्यथः । > पितरं वसुदेवं च सततं दुःख-भाजनम् । > दीनं पुत्र-वध-श्रान्तं युवाम् अथ समेष्यथः । > सततं पीड्यमानं च कंसेनाशुभ-बुद्धिना । > दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् । > कंसस्य भय-सन्त्रस्तं भवद्भ्यां च विना कृतम् । > दह्यमानं दिवा-रात्रौ सोत्कण्ठेनान्तरात्मना । > तां च द्रक्ष्यसि गोविन्द पुत्रैर् अमृदितस्तनीम् । > देवकीं देव-सङ्काशां सीदन्तीं विहत-प्रभाम् । > पुत्र-शोकेन शुष्यन्तीं त्वद्-दर्शन-परायणाम् । > वियोग-शोक-सन्तप्तां विवत्साम् इव सौरभीम् । > उपपूतेक्षणां दीनां नित्यं मलिन-वाससम् । > स्वर्-भानुवद् अनुग्रस्तां शशाङ्कस्य प्रभाम् इव । > त्वद्-दर्शन-परां नित्यं तवागमन-काङ्क्षिणीम् । > त्वत्-प्रवृत्तेन शोकेन सीन्दन्तीं वै तपस्विनीम् । > तत्-प्रभावेष्व् अकुशलां त्वया बाल्ये वियोजिताम् । > अरूपज्ञां तव विभो वक्त्रस्यास्येन्दु-वर्चसः । > यदि त्वां जनयित्वा सा देवकी परितप्यते । > अपत्यार्थो नु कस् तस्या वरं ह्य् एवानुपत्यता । [ह।वं। २.२६.२-१३]
किं च,
त्वम् तु शक्र-समः पुत्रो यस्याः स्व-सदृशो गुणैः । > परेषाम् अप्य् अभयदो न सा शोचितुम् अर्हति । > वृद्धौ तवाद्य पितरौ पर-भृत्यत्वम् आगतौ । > भर्त्स्येते त्वत्-कृते तेन कंसेनाशुभ-बुद्धिना । > यदि ते देवकी मान्या पृथिवीवात्म-धारिणी । > तां शोक-सलिले मग्नाम् उत्तारयितुम् अर्हसि । > तं च वृद्धं प्रिय-सुतं वसुदेवं सुखोचितम् । > पुत्र-योगेन संयोज्य कृष्ण धर्मम् अवाप्स्यसि । > यथा नागः सुदुर्वृत्तो दमितो यमुना-ह्रदे । > विमूलश् च कृतः शैलो यथा वै भूधरस् त्वया । > दर्पोत्सिक्तश् च बलवान् आविष्टोऽपि निपातितः । > पर-प्राण-हरः केशी दुष्टात्मा च हयो हतः । > एतेनैव प्रयत्नेन वृद्धाव् उद्धृत्य दुःखितौ । > यथा धर्मम् अवाप्नोति तत् कृष्ण परिचिन्त्यताम् । > निर्मत्स्यमानो यैर् दृष्टः पिता ते कंस-संसदि । > ते सर्वे चक्षुर् अश्रूणि नेत्रैर् दुःखान्विता भृशम् । > गर्भाव् अकृन्तनादीनि दुःखानि च बहून्य् अपि । > माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ॥ [ह।वं। २.२६.१६-२३] > इत्य्-आदि ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः): न व्याख्यातम्**।**
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धनुर्-मख-च्छद्मा सन्देशो यस्य यद्-अर्थं चाणूरादिभिर् घातनार्थम् ॥९॥
॥ १०.३९.१० ॥
श्रुत्वाक्रूर-वचः कृष्णो बलश् च पर-वीर-हा ।
प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विजज्ञतुर् विशेषेण ज्ञापयामासतुः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परेषु शत्रुषु वीरः कंसस् तद्-ध्र्ता, परश् चासौ वीरश् चेति वा । वैशम्पायनोक्तम् अपि वाक्य-जातम् अत्रानुसन्धेयम्—
मथुरां स्व-पूरीं तात यास्यामः स्व-सुखाय वै । > गमिष्यन्ति व्रजाः सर्वे गोपालाः स-परिग्रहाः ॥ > कंसाज्ञया समुचितं करम् आदाय वार्षिकम् । > समृद्धस् तस्य कंसस्य भविष्यति धनुर् महः ॥ > तद्-द्रक्ष्यथः समृद्धं च स्वजनैश् च समेष्यथः । > पितरं वसुदेवं च सततं दुःख-भाजनम् ॥ > दीनं पुत्र-वध-श्रान्तं युवाम् अथ समेष्यथः । > सततं पीड्यमानं च कंसेनाश्रुत-बुद्धिना ॥ > देशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् । > कंसस्य भय-सन्त्रस्तं भवद्भ्यां च विना कृतम् ॥ > दह्यमानं दिवा-रात्रौ सोत्कण्ठेनान्तरात्मना । > तां च द्रक्ष्यसि गोविन्द पुत्रैर् अमृदित-स्तनीम् ॥ > देवकीं देव-सङ्काशां सीदन्ती विगत-प्रभाम् । > पुत्र-शोकेन शुष्यन्ती त्वद्-दर्शन-परायणाम् ॥ > वियोग-शोक-सन्तप्तां विवत्साम् इव सौरभीम् । > उपप्लुतेक्षणां दीनां नित्यं मलिन-वाससम् ॥ > सर्भानुवदन-ग्रस्तां शशाङ्कस्य प्रभाम् इव । > त्वद्-दशन-परां नित्यं तवागमन-काङ्क्षिणीम् ॥ > त्वत्-प्रवृत्तेन शोकेन सीदन्ती वै तपस्विनीम् । > त्वत्-प्रभावेष्व् अकुशलां त्वया बाल्ये वियोजिताम् ॥ > अरूपज्ञां तव विभो वक्रस्यास्येन्दु-वर्चसः ॥ > यदि त्वां जनयित्वा सा देवकी परितप्यते । > अपत्यार्थो नु कस् तस्या वरम् एवानपत्यता ॥ > त्वं तु शक्र-समो यस्याः पुत्रः स्व-सदृशो गुणैः । > परेषाम् अप्य् अभयदो न सा शोचितुम् अर्हति ॥ > वृद्धौ तवाद्य पितरौ पर-भृत्यत्वम् आगतौ । > भर्त्स्येते त्वत्-कृते तेन कंसेनाशुभ-बुद्धिना ॥ > यदि ते देवकी मान्या पृथिवी वात्म-धारिणी । > तां शोक-सलिले मग्नाम् उत्तारयितुम् अर्हसि ॥ > तं च वृद्धं प्रिय-सुतं वसुदेवं सुखोचितम् । > पुत्र-योगेन संयोज्य कृष्ण धर्मम् अवाप्स्यसि ॥ > यथा नागः सुदुर्वृत्तो दमितो यमुना-ह्रदे । > विमूलश् च कृत-शैलो यथा वै भूधरस् त्वया ॥ > दर्पोत्सिक्तश् च बलवान् अरिष्टोऽपि निपातितः । > पर-प्राण-हरः केशी दुष्टात्मा च हयो हतः ॥ > एतेनैव प्रयत्नेन वृद्धाव् उद्धृत्य दुःखितौ । > यथा धर्मम् अवाप्नोषि तत् कृष्ण परिचिन्त्यताम् ॥ > निर्भत्स्यमानो यैर् दृष्टः पिता ते कंस-संसदि । > ते सर्व चक्षुर् अश्रुभिर् नेत्रैर् अभ्युत्थिता भृशम् ॥ > गर्भावकृतं तनादीनि दुःखानि च बहूनि च । > माता ते देवकी कृष्ण कंसस्य सहते वशे ॥ [ह।वं। २.२६। २-१३, > १६-२३] इत्य्-आदि ।
प्रहस्य इति । स्व-मृत्युम् अपि निमन्त्र्य स्वान्तिकम् आनेतुम् उपक्रमते युष्माकं राजेत्य् अर्थ-द्योतकोऽयं प्रहासः । राजादिष्टं धनुर्-मख-निमन्त्रणं विज्ञापयामासतुर् न तु रहस्यम् । विज्ञापने हेतुः—पर-वीरहा इति । पर उत्कृष्टो वीरः कंसस् तद्-धननार्थम् एवेति भावः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परः शत्रुर् यो वीरो महा-विक्रमः । किं वा, परेषु वीरस् तं हन्तीति । तथा सः । अत एव प्रहस्य हेलयैव कंस-हनन-सामर्थ्ये विराजमानेऽप्य् अक्रूरस्य स-स्नेह-सभय-दैन्य-वचनात् कंसादिष्टम् उत्सवार्थं पुर्यां सोपायन-गमनम् एव, न त्व् अक्रूरोक्तं पितृ-मातृ-दुःखं श्री-नारदोक्ताद् अन्यत् किञ्चिद् इत्य् अर्थः । पितृ-दुःख-हेतुत्वात् विज्ञापने हेतुः—पितरम् इति ।
किं च, राज्ञा इति राजाज्ञायास् तादृश्यास् तद् एव वक्तुम् उचितत्वात् । यद् वा, क्रूरं दारुणं वचः श्रुत्वापि च श्री-नन्दाश्वासनार्थं प्रहस्य, यतः पितरं स्नेह-परवशम् इत्य् अर्थः । विज्ञापने प्रयोजनं—पर-वीरहा इति । कंस-हननार्थम् इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रुत्वा प्रहस्य इति । प्रहस्य पितरं विजज्ञतुर् इति चान्वयः । पूर्वत्र स्वामीष्ट-लाभात् उत्तरत्रावज्ञा-ज्ञापनेन तच्-छङ्का-सङ्कोचनायेति ज्ञेयम्, यतः परः शत्रुर् यो वीरो महा-विक्रमः, तं हन्ति इति । यथा स विज्ञापने हेतुः--पितरम् इति। अत एव राज्ञादिष्टम् एव, न त्व् अक्रूरोक्तम् अन्यद् अपीत्य् अर्थः । किं च, राज्ञेति राजाज्ञायास् तादृश्यास् तथैव वक्तुम् उचितत्वात् । यद् वा, उत्तरत्र प्रहस्य इत्य् अत्र हेतुः—पितरं स्नेह-परवशम् इत्य् अर्थः । विज्ञापने प्रयोजनं--पर-वीरहा इति, कंस-हननार्थम् इत्य् अर्थः । विजज्ञतुर् इत्य् अन्तर्-भूत-ण्य्-अर्थः । विज्ञापनं पितृ-सन्निधानम् आगत्येति ज्ञेयम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रहस्य इति । स्व-मृत्युम् अपि निमन्त्र्य स्वान्तिकम् आनेतुम् उपक्रमते युष्माकं राजेत्य् अर्थस्य द्योतकोऽयं प्रहासः । राज्ञादिष्टां धनुर्-मखोत्सव-निमन्त्रणं विज्ञापयामासुर् न तु रहस्यम् ॥१०॥
॥ १०.३९.११ ॥
गोपान् समादिशत् सोऽपि गृह्यतां सर्व-गो-रसः ।
उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सोऽपि नन्दो गोपान् समादिशत् । तद् एव दर्शयति—गृह्यताम् इत्य्-आदिना । गो-रसः क्षीरादिः । उपायनान्य् उत्तम-वस्तूनि ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वे गोरसाः क्षीराज्य-दध्य्-आदि-रूपा यत्र समूहे स तथा । यद् वा, सर्वगः सर्वत्रगः रसः सुवर्णादिः । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्य् आस्वादने हेम्नि शृङ्गारादौ ध्वनाव् अपि ॥ इति यादवः । यद् वा, सर्वगः सर्व-व्यापी रसः कृष्णः, रसो वै सः, यं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति श्रुतेः । कंसेन गृह्यताम् अस्मद्-देशाधीशत्वाद् दुष्कर्मत्वेऽपि तस्य मोक्षो भवत्व् इत्य् अभिप्रायः । उत्तम-वस्तूनि रत्नादि-रूपाणि नवनीतादीनि वा ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सोऽपि इति । श्री-वल्लवेन्द्रस् तत्रासम्मतो नाभूत् । किन्तु समादिशद् इति श्री-बादरायणेः शोकोक्ताव् अपि-शब्दः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सोऽपि इति । स्व-पुत्र-पालन-व्यग्रत्वेन प्रसिद्धः श्री-नन्दोऽपीत्य् अर्थः । इन्द्र-मख-भङ्गवत् तस्यैव विज्ञापन-मोहनतया पर-वशी-भूयेति भावः । एवं सर्वेषाम् अपि विप्रतिपत्तिर् न जातेति ज्ञेयम् । श्लेषेण श्री-वल्लवेन्द्रोऽपि बत तत्रासंमतो नाभूत्, किन्तु समादिशद् इति श्री-बादरायणेर् व्रज-योषिद्-भाव-भय-शोष-व्यञ्जना ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सोऽपि स्व-पुत्र-पालन-व्यग्रत्वेन प्रसिद्धः श्री-नन्दोऽपीत्य् अर्थः । इन्द्रमख-भङ्गवत् तस्यैव विज्ञापन-मोहनतया परवशीभूयेति भावः ॥११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोऽपि नन्दः ॥११॥
॥ १०.३९.१२ ॥
यास्यामः श्वो मधु-पुरीं दास्यामो नृपते रसान् ।
द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल ।
एवम् आघोषयत् क्षत्त्रा नन्द-गोपः स्व-गोकुले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रसान् घृतादीन् । शब्द-च्छलेनेदं सूचयति, अचिकित्स्यस्य रोगस्य चिकित्सार्थं रसान् दास्याम इति । क्षत्त्रा व्रज-रक्षाधिकृतेन । आघोषयत् सर्वतो घोषितवान् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शब्द-च्छलेन श्लेषेण । एक-शब्दस्य अनेकार्थता-विशिष्टस्य प्रकृत-भिन्नाभिन्नार्थ-सूचनं श्लेषः । अचिकित्स्यस्यानिवर्त्यस्य रोगस्य कंसस्य । तत्रैव भगवताण्य् आमय-शब्दः प्रयुक्तः, एधमाने कुलामये [१०.३९.५] इति । चिकित्सार्थं निवृत्त्य्-अर्थम् । रसान् विषवन् मारक-स्वभावान् श्री-कृष्ण-बलदेव-रूपान् । बहुत्वं पूजायाम् । पर्व उत्सवं, पक्ष-सन्धाव् उत्सवे च ग्रथौ पर्व विदुर् बुधाः इति दत्तः । जानपदा लोकाः, भवेज् जनपदो जानपदोऽपि जन-देशयोः इति मेदिनी । क्षत्ता शूद्राक्षत्रियजे प्रतीहारे च सारथौ । भुजिष्यात नयेऽपि स्यान् नियुक्ते वेधसि पुमान् ॥ इति च । जानपदा इति सर्व-जनपद-वासिनो यान्तीत्य् अतोऽस्माकम् एव तत्र का विप्रतिपत्तिर् इति भावः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मधुपुरीम् इति श्लेषेण तत्र सुखम् एव, न तु किम् अपि दुःखम् इत्य्-आदिकं गोपानाम् आश्वासनार्थं, किलान्तस् तु प्रलोभन-मात्रम् इत्य् अर्थः । नन्दश् चासौ गोपश् च गां पृथ्वीं व्रज-लक्षणं पातीति राजेत्य् अर्थः । अयम् अघोषणे हेतुः । श्लेषेण गोपायति रक्षतीति गोपः । सोऽपि यो गोकुल-रक्षिता, स एव यदि तथा करोति स्म, तदा को बत तद् रक्षेत् ? इति भावः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यास्याम इति पद्यस्यैवम् इत्य् अर्धेन । शृङ्खला यान्ति जानपदा इत्य् अभयोक्तिः । किल प्रसिद्धौ ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रसान् घृतादीन् नृपतेः करान् जानपदा इति सर्व-जनपद-वासिनश् च यान्ति इत्य् अतोऽस्माकम् अत्र का विप्रतिपत्तिर् इति भावः । क्षत्त्रा व्रज-नगर-रक्षाधिकारिणा ॥१२॥
॥ १०.३९.१३ ॥
गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् ।
राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताः कृष्णैक-जीवना गोप्यस् तत् तदाक्रूरम् आगतम् उपश्रुत्य इति ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यथिता जात-पीडाः । उपश्रुत्य कस्यापि कुतश्चिन् मुखाच् छ्रुत्वा साक्षात् तासु कस्यापि कथानाशक्तेः । तां स्वभाव-सिद्ध-प्रेयसी-भावाः । तत् आघोषण-मात्रं श्रुत्वा भृशं व्यथिताः । अन्यास् तु साधन-सिद्ध-प्रेयसी-भावास् तौ नेतुम् आगतम् अक्रूरम् उपश्रुत्य भृशं व्यथिता इति योज्यम् । किन्तु तासाम् अपीयं व्यथा तद्-विरह-भीत्यैव जाता तत्र गतस्व तस्यानिष्टाशङ्कया तु न जाता तासां मुकुन्द [१०.३९.२४] इत्य्-आदि वक्ष्यमाणात् । तद्-गमने परम-धीर-श्रीमन्-नन्दोपनन्दादि-सर्व-वृन्द-सम्मतिर् एव तत्र कारणम् अन्यथा सद्य एव तासाम् अन्तर्धानं स्याद् इति लीला-शक्तिर् एव तादृश-स्फूर्तिम् अरौत्सीद् इति ज्ञेयम् । विरह-भीतिर् अपि न सार्व-कालिकी तत्रासार्व-कालिक-स्थिति-निश्चयेन । नन्द-सूनुर् इति—श्रीमन् नन्द-सूनुत्वेनैव निश्चेष्यमाणत्वात् । तासां मुकुन्द इत्य्-आदिकस्याशङ्कामय मात्रत्वात् । अन्यथा तथापि प्राग् उक्तम् एव स्यात् । आशा-मात्राजीवातुत्वात् प्रोषित-प्रेयसीनाम् एवम् अपि तादृश्य् अवस्था परमानुराग-स्वभावेनैव ज्ञेया ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपश्रुत्य समीपे एव श्रुत्वा आघोषणात् । किं वा, परस्परया श्रुत्वा साक्षात् तासु कस्यापि तत्-कथनाशक्तेः । भृशम् अत्यर्थं व्यथिताः परम-दुःखान्त्य-काष्ठाम् अपि मरणं मेनिरे इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, तद् अघोषणं श्रुत्वा प्रथमं व्यथिताः, पश्चाद् राम-कृष्णेत्य्-आदिकं श्रुत्वा भृशं व्यथिता इति योज्यम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपश्रुत्य कस्यापि कुतश्चित् कथयतो मुखाच् छ्रुत्वा साक्षात् तासु कस्यापि तत्-कथनाशक्तेः भृशम् अत्यर्थं दुःखिताः परम-दुःखात्मकम् अपि मरणं सुखं मेनिरे इत्य् अर्थः । अन्यत् तैः । यद् वा, ताः स्वभाव-सिद्ध-प्रेयसी-भावाः तत् आघोषण-मात्रं श्रुत्वा भृशं व्यथिताः, अन्यास् तु साधन-सिद्ध-प्रेयसी-भावास् तौ नेतुम् आगतम् अक्रूरम् उपश्रुत्य भृशं व्यथिता इति योज्यं, किन्तु तासाम् अपीयं व्यथा तद्-विरह-भीत्यैव जाता । तत्र गतस्य तस्यानिष्ठ-शङ्कया तु न जाता । तासां मुकुन्द इत्य्-आदि वक्ष्यमाणात् । तद्-गमेन परम-धीर-श्रीमन्-नन्दोपनन्दादि-सर्व-वृद्ध-वृन्द-सम्मतिर् एव तत्र कारणम् अन्यथा सद्य एव तासाम् अन्तर्धानं स्याद् इति । लीला-शक्तिर् एव तादृश-स्फूर्तिम् अरौत्सीद् इति ज्ञेयम् । विरह-भीतिर् अपि न सार्वकालिकी तत्रासार्वकालिक-स्थिति-निश्चयेन नन्द-सूनुर् इति श्रीमन्-नन्दनन्दनत्वेनैव निश्चेष्यमाणत्वात् । तासां मुकुन्द इत्य्-आदिकस्याशङ्कामय-मात्रत्वात् । अन्यथा तथापि प्राग्-उक्तम् एव स्यात् । आशा-मात्र-जीवातुत्वात् प्रोषित-प्रेयसीनाम् एवम् अपि तादृश्य् अवस्था परमानुराग-स्वभावेनैव ज्ञेया ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् तदा ताः प्रसिद्धाः कृष्णैक-जीवना गोप्यः अक्रूरम् आगतम् उपश्रुत्य ॥१३॥
॥ १०.३९.१४ ॥
काश्चित् तत्-कृत-हृत्-ताप- श्वास-म्लान-मुख-श्रियः ।
स्रंसद्-दुकूल-वलय- केश-ग्रन्थ्यश् च काश्चन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यथा-लिङ्गान्य् आह पञ्चभिः—काश्चिद् इति । तेन श्रवणेन कृतो यो हृत्-तापः, तेन यः श्वासः, तेन म्लाना मुख-श्रीर् यासां ता बभूवुर् इति । दुकूलानि च वलयानि च केश-ग्रन्थयश् च, स्रंसन्तो दुकूलादयो यासां तथा-भूताः काश्चन बभूवुर् इति ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुकूलं श्लक्ष्य-वस्त्रे स्यात् क्षौमे च इति मेदिनी । तत्र रास-दर्शित-प्रेम-तारतम्येनासाम् उत्तरोत्तरम् अवस्था-वैशिष्ट्यम् आह—काश्चिद् इति त्रिभिः । यद्यप्य् अत्र पूर्वोक्ताया व्यथाया लिङ्ग-वर्णनम् इति तद् उपश्रुतिकृतत्वं स्वत एव लभ्यते, तथापि तत्-कृतेत्य् अधिक-प्रयोगस् तद्-अवस्थायाः तद्-उपश्रवणस्य स्वरूप-मात्रेणैव न तु अन्याश् च तद् अनुध्याने [१०.३९.१५] इत्य्-आद्य्-आद्यर्थानुसन्धानार्थ-काल-लव-विलब-जात-तद्-अनुध्यानादि-कार्य-द्वारेति बोधयति । स्रंसद् इत्य् अर्थे तु कार्यादि-निर्देशात् ता सहयोगाच् च तत्-कृतेत्य् एवान्वितं गम्यम् । श्रवण-मात्र-जन्यत्वाद् अत्र च तत्र चार्थ-सन्धानानन्तराण्य् अपि कैमुत्येन गम्यानीति । एवं सति प्रथम-द्वयम् उत्तमं प्रायो नित्य-सिद्धं च, स्वाभाविक-हार्दात् । उत्तरं कनिष्ठं प्रायः साधन-सिद्धं च, तादृशत्वाभावट् । अत्र च प्रथमे द्वये उत्तरोत्तरं श्रैष्ठ्यम् उत्तरे तु न्यूनत्वम् इति ज्ञेयम् । अथ क्रमेण व्याख्यायते—तत्रैकासां भद्रादीनां सहसा श्वास-वैवर्ण्यं प्राह—काश्चिद् इत्य् अर्थेन । श्वासेन म्लानाः सद्यो विवर्णीभूता मुख-श्रियस् तिलकादयोऽपि । किं पुनर् वर्णा यासां ताः । तत्-कृत-हृत्-तापादि-परपरत्रापि गम्यं पूर्व-पूर्वावस्थाश् च । अथ कासाञ्चिच् छ्यामलादीनां सहसा कार्श्यम् अप्य् आह—स्रंसद् इति ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : काश्चिद् इति पति-पुत्रादिमत्यः, यासां छायाभिः मन्यमानाः स्व-पार्श्वस्थानं स्वान् स्वान् दारान् व्रजौकसः [भा।पु।१०.३३.३७] इति तास् तद्-गृह-वर्तिन्यो\ऽपि तत् तत्-सम्बन्ध-रहिता एवेति व्रजस्थिता एव । अन्याश् चेति कुमार्यो वृन्दावन-वासिन्य एवेति, तद् अनुध्यान-निवृत्ताशेष-वृत्तयः सत्य इमं लोकं नाभ्यजानन्, इमम् इति मथुरातः कंस-प्रहितः कश्चिद् अक्रूराख्यः श्री-कृष्णं नेतुम् आगतः । श्री-कृष्णः स-भ्रातृ-बन्धुस् तत्र गन्ता, मद्-विधास् तद् विरहेण दूयमानास् तिष्ठाम इति वर्तमानं लोकं लोक-व्यवहारं नाजानन् । तद् अज्ञानानन्तरं किम्-भूता बभूवुर् इत्य् आह—आत्म-लोकं गता इव । इव-शब्दस्यायम् एवार्थः—आत्म-लोकं नित्य-सिद्धं श्री-वृन्दावनं निरन्तरं स्फुरता श्री-कृष्णेन सहैव ता नित्य-सिद्धे श्री-वृन्दावने स्थिताः । बृहद्-ध्यानादौ या अद्यापि ध्यायन्ते पूज्यन्ते च । अयं तु भगवतो महिमा, नैष तर्कादि-गोचरः ॥१४-१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र वर्ग-भेदेन भाव-भेदाद् अवस्था-भेदम् आह—काश्चिद् इति त्रिभिः । तत्-कृतेत्य् अस्य समासान्तर्-वर्तमानस्याप्य् अग्रे सर्वत्राकर्षः, तेनैव तत्-तद्-अवस्थोद्भूतेः । यद्यपि पूर्वोक्त-व्यथा-लिङ्गस्य वर्णनात् तद्-उपश्रुति-कृतत्वं स्वतः प्राप्यत एव, तथापि तत्-कृतेत्य् अधिक-प्रयोगस् तद्-अवस्थायां तद्-उपश्रवण-मात्रैक-हेतुता-विवक्षया सहज-मुख-श्रियो म्लानि-हेतुत्वेन हृत्-तापस्यौत्कट्यं ध्वनितं, दुकूलादीनां स्रंसश् च सद्य एव भावि-विरह-दुःख-भरेण कार्श्यापत्तेः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र रास-दर्शित-प्रेम-तारतम्येन्षाम् उत्तरोत्तरम् अवस्था-वैशिष्ट्यम् आह—काश्चिद् इति त्रिभिः । यद्यप्य् अत्र पूर्वोक्ताया एव व्यथाया लिङ्ग-वर्णनम् इति । तद् उपश्रुति-कृतत्वं स्वत एव लभ्यते, तथापि तत्-कृतेत्य् अधिक-प्रयोगस् तद्-अवस्थायां तद्-उपश्रवणस्य स्वरूप-मात्रेणैव न त्व् अन्याश् च । तद्-अनुध्यानेत्य्-आदि अर्थानुसन्धानार्थ-काल-लव-विलम्ब-जात-तद्-अनुध्यानादि-कार्य-द्वारेति बोधयति । स्रंसद् इत्य् अर्धे तु कार्श्यादि-निर्देशात् तत् सहयोगाच् च तत्-कृतेत्य् एवान्वितं गम्यम् इति श्रवण-मात्र-जन्यत्वाद् अत्र च तत्र चार्थानुसन्धानानन्तराण्य् कैमुत्येन गम्यानीति । एवं सति प्रथम-द्वयम् उत्तमं प्रायोनित्य-सिद्धं च स्वाभाविक-हार्दात् उत्तरं कनिष्ठं प्रायः साधन-सिद्धं च तादृशत्वाभावात् । अत्र च प्रथमे द्वये उत्तरोत्तरं श्रैष्ठ्यम् उत्तरे तु न्यूनत्वम् इति ज्ञेयम् । अथ क्रमेण व्याख्यायते । तत्रैकासां भद्रादीनां सहसा श्वास-वैवर्ण्ये आह काश्चिद् इत्य् अर्धेन श्वासेन म्लानाः सद्यो विवर्णीभूताः मुख-श्रियस् तिलकादयोऽपि किं पुनर् वर्णा यासां ताः तत्-कृत-हृत्-तापादि-पर-परत्रापि गम्यं पूर्व-पूर्वावस्थाश् च । अथ कासाञ्चित् श्यामलादीनां सहसा कार्श्यम् अप्य् आह—स्रंसद् इति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : काश्चित् तत्-कृत-हृत्-तापेत्य् आदि । काश्चित् पतिमत्यः । तासां तद्-विरह-व्यथानुभूतेस् तथात्वम् । अथ काश्चिद् इति याभिः सह विप्रलम्भ-लीला करणीयत्वेनाङ्गीकर्तव्येति भगवत इच्छा-विशेषो जातः, ता इत्य् अर्थः । शृङ्गारस्य द्वैविध्ये विप्रलम्भस्यापि रसनीयत्वात् ॥१४ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यथा-लिङ्गानि पञ्चभिर् वर्णयंस् तासु भद्रादीनां श्वास-वैवर्ण्ये आह—काश्चिद् इति । तेन श्रवणेन कृतो यः सन्तापस् तस्माच् च यः श्वासस् तेन म्लाना मुख-श्रीर् यासां ताः । श्यामालादीनां सहसा कार्श्यम् अप्य् आह—स्रंसद् इति ॥१४॥
॥ १०.३९.१५ ॥
अन्याश् च तद्-अनुध्यान- निवृत्ताशेष-वृत्तयः ।
नाभ्यजानन्न् इमं लोकम् आत्म-लोकं गता इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य श्री-कृष्णस्यानुध्यानेन निवृत्ता अशेषाश् चक्षुर्-आदि-वृत्तयो यासां ता इमं लोकं देहम् अपि न जानन्ति स्म मुक्ता इवेति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्म-लोकं मोक्षम् । चन्द्रावल्यादीनां प्रणयम् अप्य् आह—तस्यानुसन्धानेन ध्यानधारया निवृत्ता अशेषाश् चक्षुरादि-वृत्तयो यासां ताः । यद् वा, श्री-कृष्णस्य गमनेऽनुसन्धानम्—कथम् असौ यास्यति, कथं वा तत्र स्थास्यति, कथं वयं जीवेम इत्य्-आदि लक्षणा निरन्तराचिन्ता, तेन निवृत्ताशेष वृत्तयः । इमं लोकं देह-दैहिक-पदार्थं सर्वम् एव आत्म-लोकं परमात्म-स्वरूपं प्राप्ता इवेति देहाद्य् अज्ञान-मात्रे दृष्टान्तः, न त्वास्वादांशेऽपि, काच-काञ्चनयोर् इव ब्रह्मास्वाद-प्रेमास्वादयोस् तुल्यत्वानौचित्यात् ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्म-लोकं स्व-स्वरूपं प्राप्ता जीवन्मुक्ता इवेति देहाज्ञा-मात्रे दृष्टान्तः । अभि-शब्देन तेभ्योऽपि विशेषः सूचितः । तेषु बाधितत्वेन तस्य स्फूर्तेः । आसु च सर्वथा विस्मरणात् । अन्यत् तैर् व्याख्यातम् । यद् वा, तस्य गोकुलान् मधुपुर्यां श्री-कृष्ण-गमनस्यानुध्यानं—“कथम् असौ यास्यति ? कथं तत्र स्थास्यति ? कथं च जयं जीवेम ?” इत्य्-आदि लक्षणा निरन्तर-चिन्ता, तेन निवृत्ताशेष-वृत्तयः । इमं साक्षाद् वर्तमानम् अपि लोकं देह-दैहिकं सर्वम् एव ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ चन्द्रावल्य्-आदीनां कासाञ्चिद् अर्थानुसन्धाने विच्छेद-भीत्या तद्-आवेशान्तरं प्रणयम् आह । अन्याश् चेति । पूर्वासाम् अप्य् अनुध्याने सद्य एतद् उक्तं वैशिष्ट्यार्थम् आत्म-लोकं स्व-स्वरूपं प्राप्ता जीवन्मुक्ता इवेति देहाज्ञान-मात्रे दृष्टान्तः । अन्यत् तैः । यद् वा, तस्य श्री-कृष्ण-गमनस्यानुध्यानं कथम् असौ यास्यति कथं वा तत्र स्थास्यति कथं च जयं जीवेम इत्य्-आदि लक्षणा निरन्तर-चिन्ता तेन निवृत्ताशेष-वृत्तयः इमं साक्षाद् वर्तमानम् अपि लोकं देह-दैहिकं सर्वम् एव ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्याश् च इत्य्-आदि । अन्याः कुमारिकाः । अथवा, याभिः सह नित्य-संयोग-लीला करणीयत्वेनाङ्गीकर्तव्येतीच्छा-विशेषो जातस् ताः । तद्वद् ध्यानं तत्-स्फूर्तिः साक्षात्कार इति यावत् । तेन निवृत्ता अशेषा वृत्तिर् यासाम् । केवलं भगवत्-साक्षात्कार-मात्र-वृत्तय इति यावत् । तावल्-लोकं नाभ्यजानन् । इमं लोकम् इति वर्तमान-लोक-चरितम् । तच् च मथुरातः कंस-प्रहितः कश्चनाक्रूर-नामा श्री-कृष्णं नेतुम् आगतः । श्री-कृष्णः स भ्रातृ-बन्धुस् तत्र गमिष्यतीत्य् आदि । तद्-अज्ञानानन्तरं किम्भूता बभूवुर् इत्य् आह—आत्म-लोकं गता इव । इव-शब्द एवार्थः । आत्म-लोकं नित्य-सिद्धं वृन्दावनम् एव । निरन्तरं तत्र विराजमानेन श्री-कृष्णेन सहैव स्थिता इत्य् अर्थः । आभौमांश-वृन्दावनं ह्य् आत्म-लोकः । स च तदानीं भौमेन सह समएवत आसीत् । यद् वा, आत्मा श्री-कृष्णो लोक्यते दृश्यते यस्मिन् परं स्पर्शनम् । तद्-आदिभिर् योऽक्रूरस्याभूद् इति । यद् वा, सन्देशाद् इति ल्यब्-लोपे पञ्चमी । कंस-सन्देशं हित्वा, स तु काम्यो न भवति ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चन्द्रावल्य्-आदीनां प्रणयम् अप्य् आह—तस्यानुध्यानेन ध्यान-धारया निवृता अशेषाश् चक्षुर्-आदि-वृत्तयो यासां ताः । इमं लोकं देह-दैहिक-पदार्थं सर्वम् एव आत्म-लोकं परमात्म-स्वरूपं प्राप्ता इवेति देहाद्य्-अज्ञान-मात्रेण दृष्टान्तः । न त्व् आस्वादांशेऽपि । काच-काञ्चनयोर् इव ब्रह्मास्वाद-प्रेमास्वादयोस् तुल्यत्वानौचित्यात् ॥१५॥
॥ १०.३९.१६ ॥
स्मरन्त्यश् चापराः शौरेर् अनुराग-स्मितेरिताः ।
हृदि-स्पृशश् चित्र-पदा गिरः सम्मुमुहुः स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपराः स्त्रियः शौरेर् गिरः स्मरन्त्यः संमुमुहुः । कथं-भूताः ? अनुरागेण यत् स्मितं तेनेरिताः । हृदि स्पृशन्तीति हृदि-स्पृशो मनोज्ञाः । चित्राणि पदानि यासु ताः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईरिताः वर्णिताः श्री-राधादीनां प्रणयातिशयम् आह—स्मरन्त्य इति । शौरेर् इति—सम्प्रति शूरापत्यताभिमता यो गन्तुकामस् तस्येति तासां पक्षपातिनः श्री-शुकस्य प्रणयेर्ष्योक्तिः । अनुराग-व्यञ्जकं यत् स्मितं तेन रिताः । चित्राणि विस्मयजन कानि यासु ता गिरः न पारयेऽहं निरवद्य-संयुजाम् [भा।पु। १०.३२.२२] इत्य्-आदि वाक्यानि स्मरन्त्यः सम्यग् एव मुमुहुः । पूर्वास् तद्-रूपस्यैव ध्यान-धारयैव मुमुहुः, एतास् तु तद्-वाचोऽपि स्मरणेनापि सम्यग् एव मुमुहुर् इति पूर्वतः प्रेम-वैशिष्ट्यवत्यो ज्ञेयाः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अपरास् तद्-भिन्नास् त्व् एवं चक्रुर् इत्य् आह—स्मरन्त्य इत्य्-आदि ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शौरेर् इति । निज-भगवत्ता-प्रकटनार्थं शूर-वंशेऽवतीर्णस्येत्य् अर्थः । शौरिर् अत्र व्रजेश्वरः, शूर-पितुः पौत्रत्वेन शूरस्य भ्रातुः पुत्रतया पुत्र-तुल्यत्वात् । तथा हि श्री-माध्वाचार्यैर् ब्रह्म-वाक्यत्वेन लिखितम्—
तस्मै वरः स मया सन्निसृष्टः > स चास नन्दाख्य उतास्य भार्या । > नाम्ना यशोदा स च शूर-तात > सुतस्य वैश्या प्रभवोऽथ गोपः ॥ इति ।
तेन च रूप-गुण-लीला-विशेषमयत्वं सूचितम् । अत एव हृदि-स्पृश इति मनसः सुख-कारित्वम् । तत्र हेतुः—अनुरागेति । प्रेम-रसार्द्रत्वेनार्थतः फलतश् च परमोत्कृष्टत्वात् श्रवण-सुख-कारित्वं च वदन बन्धवर्णनादिनाप्य् उत्कर्षम् आह—चित्राणि यमकानुप्रास-विन्यासादि-लक्षणानि अद्भुतानि पदानि यासु ताः । सं-शब्देन मोहस्य दीर्घतान्त्य-दशा-सदृशता वाभिप्रेता । स्त्रिय इति सहज-प्रेम कोमल-हृदयस्थित् सद्यस् तादृशावस्था-योग्यताम् । किं वा, तादृश-दुःखायोग्यतां बोधयति—काश्चिद् इत्य्-आदिना । वर्गशः पृथग्-उक्तानाम् आसाम् अवस्था-तारतम्येन किञ्चित् तारतम्यं कल्प्यम् । ततश् च ताः काश्चित् कनिष्ठाः, काश्चिन् मध्यमाः, काश्चिद् उत्तमाः । काचिद् एका सा तु या सर्वोत्तमेति भेदेन । किं वा, मुनि-रूपा-श्रुति-रूपा-देवी-रूपा नित्य-प्रियाद् इति मृदु-मुग्धाः स्रंसद्-दुकूलेति प्रखर-मुग्धाः तद्-अनुध्यानेति मृदु-प्रौढाः, स्मरन्त्य इति प्रखर-प्रौढाः । यद् वा, काश्चिद् अविवाहिता बाला । किं वा, विवाहिता अपि बाला एव । काश्चिद् विवाहिताः प्रौढाः । काश्चिच् च श्री-भगवद्-एक-निष्ठाः कृत-कात्यायनी-व्रताः । तासु च काश्चिद् अकृत-विवाहा एव । काश्चिच् च हेतुना केनापि जात-व्याज-विवाहा इत्य् एवं चतुर्-विधानां क्रमेण पूर्ववद् अवस्था ज्ञेयेति दिक् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ राधादीनां प्रणयातिशयम् अप्य् आह—स्मरन्त्य इति । शौरेर् इति च । सम्प्रति शूरापत्यताम् अभिमत्य यो गन्तुकामस् तस्येत्य् अर्थ इति तासां पक्षपातेन श्री-शुकस्य प्रणयेर्ष्योक्तिः । अनुरागेण इत्य् अनुराग-व्यञ्जक-स्वरेण विलासेन च हृदि-स्पृश इत्य् अर्थेन चित्र-पदा इति शब्देन गिरां सौष्ठवम् उक्तं चित्राणि यमकानुप्रासादि-लक्षणानि अद्भुतानि पदानि यासु ताः इत्य् अमूभिः सह श्री-भगवतः प्रणय-विशेषो दर्शितः । अत एव संमुमुहुः महाघातादिनाप्य् अप्रतिकार्यत्वेनातिशयितं मोहं प्रापुः स्त्रिय इति तत्र स्वेन न सुतराम् अप्रतिकार्यत्वं दर्शितम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राधादीनां तु प्रणयातिशयम् आह—स्मरन्त्य इति । शौरेर् इति । सम्प्रति शूरापत्यत्वम् अभिमत्य यो गन्तुकामस् तस्येति तासां पक्षपातिनः श्री-शुकस्य प्रणयेर्ष्योक्तिः । अनुराग-व्यञ्जकं यत् स्मितं, तेन ईरिताः चित्राणि विस्मय-जनकानि पदानि यासु ता गिरः—न पारयेऽहं निरवद्य-संयुजाम् [१०.३२.२२] इत्य्-आदि-वाक्यानि स्मरन्त्यः सम्यग् एव मुमुहुः । पूर्वास् तद्-रूपस्यैव ध्यान-धारयैव मुमुहुः । एतास् तु तद्-वाचोऽपि स्मरणेनापि सम्यग् एव मुमुहुर् इति पूर्वतः प्रेम-वैशिष्ट्यवत्यो ज्ञेयाः ॥१६॥
॥ १०.३९.१७ ॥
गतिं सुललितां चेष्टां स्निग्ध-हासावलोकनम् ।
शोकापहानि नर्माणि प्रोद्दाम-चरितानि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गतिं यात्राम् । चेष्टाम् अङ्गादि-चालन-रूपाम् । नर्माणि हास्य-वचांसि । एवं मूर्च्छादि-सञ्चारि-ग्रस्ता एव रात्रिं गमयित्वा पुनः पुनः किं सञ्जातम् ? इति । शङ्का-सञ्चारि-संस्कार-प्राबल्येन लब्ध-बाह्यानुसन्धानाः परमोत्कण्ठया प्रातर् व्रज-राज-पुर-द्वार एवागता भावि-विरहत्त्वेन साम्यात् सर्वः संहता विलेपुर् इत्य् आह—गतिम् इति ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना विरह-साम्येन सर्वः संहत्य रुदत्यो विलेपुर् इत्य् आह—गतिम् इति द्वाभ्याम् । सुललितां मत्त-गजेन्द्र-गमनाद् अपि परम-सुन्दरीम्, अस्य परेणाप्य् अन्वयः । उपलक्षणम् एतद् अन्यस्या अपि देह-चेष्टायाः । चेष्टां पूतना-वधादि-कर्म इति पराक्रमः । अयम् अपि देह-चेष्टा-भेद एव । यद् वा, कारुण्यादि-प्रकटनम् इति गुणः । स्निग्धं सरसं हास-युक्तम् अवलोकनं चेति माधुर्य-रूपम् । शोकः प्रेम-स्वाभाविकातृप्त्यानुतापः । पद्य्-आदि-भयेन शोचनं वा । तम् अपघन्ति दूरतो नाशयन्तीति तथा तानि नर्माणि परिहास-वाक्यानि प्रोद्दामानि परमोद्भटानि चरितानि रास-क्रीडादीनि । च-काराच् छौकापहानीत्य् अस्यात्रापि सम्बन्धः । एवं क्रमेण गुण-रूप-वाग्-लीलानां मधुर-महिमोक्तः । मुकुन्दस्य परमानन्द-प्रदेस्यति गत्य्-आदीनाम् अपि तादृशत्वम् अभिप्रेतम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनश् च किं जातम् ? इति शङ्का-संस्कार-प्राबल्येन लब्ध-बाह्याः परमोत्कण्ठया श्री-व्रजेश्वर-पुर-द्वार एवागताः समान-दुःखत्वेन सर्वाः संहत्य क्रन्दन्त्यो विलेपुर् इत्य् आह—गतिम् इति द्वाभ्याम् । गतिं व्रज-प्रवेश-निर्गमनादि-समयेषु स्वयम् उत्कण्ठाभिर् मुहुर् दृष्टां तत्रैव चेष्टां सखीभिः सह नाना-विलास-रूपां, तत्र चात्मनः प्रति निगूढ-सस्नेह-हासावलोकनं त्रयाणाम् एव विशेषणं सुलिलिताम् इति स्निघ्देत्य् अत्र तु लिङ्ग-व्यत्ययः । तत्र सु-शब्दार्थस्य परां कोटिं ता ये ये जानन्तीति नासौ व्याख्यातुं शक्यते । एवं लब्धेऽपि स्निग्ध-हासावलोकने तद्-अङ्ग-सङ्ग-प्राप्ताव् अविश्वस्तेषु स्वेषु तद्-अनुताप-हारीणि नर्माणि तत्-प्राप्ति-व्यञ्जक-परिहास-भङ्गी । ततो नर्मणैव सङ्केतिते कुञ्जादौ प्रोद्दाम-चरितानि गाढानुरागोद्भट-सौरत-लीलाश् च ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं मूर्च्छादि-सञ्चारि-ग्रस्ता एव रात्रिं गमयित्वा पुनश् च किं जातम् इति शङ्का-सञ्चारि-संस्कार-प्राबल्येन लभ-बाह्यानुसन्धानाः परमोत्कण्ठया प्रातर् व्रज-राज-पुर-द्वार एव आगता भावि-विरहवत्त्वेन साम्यात् सर्वाः संहत्य विलेपुर् इत्य् आह—गतिम् इति । निमेष-विरहतोऽपि भीताः सम्प्रति तु भाविना महा-विरहेण विह्वलाः सङ्घशः समेताः यूथैर् यूथैः सङ्गत्य मिलिताः ॥१७॥
॥ १०.३९.१८ ॥
चिन्तयन्त्यो मुकुन्दस्य भीता विरह-कातराः ।
समेताः सङ्घशः प्रोचुर् अश्रु-मुख्योऽच्युताशयाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विरहेण कातरा विह्वलाः । अच्युते आशयश् चित्तं यासां ताः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्घशः सङ्घीभूय । समेता युताः । निमेष-विरहतोऽपि भीताः सम्प्रति भाविना महा-विरहेण विह्वलाः सङ्घशः समेता यूथैर् यूथैः सङ्गता मिलिताः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वभावेनैव विरहतो भीताः । अधुना चोपसन्नेन तेन कातराः । सङ्घश इति पूर्व-वर्गशः स्व-स्व-स्थाने पृथक् पृथक् स्थिता अप्य् अधुना सर्वाः समूहत्वेन मिलिताः सत्यः प्रकर्षेण काष्ठ-पाषाणादीनाम् अपि भेदकतया करुण-स्वरेणोचुः । अश्रूणि मुखेषु यासां, अत्यन्तं रुदत्य इत्य् अर्थः । किम्-अर्थम् ? अच्युते दीन-वात्सल्यादि-माहात्म्याच् च्युति-रहिते श्री-कृष्णे आशयो यासां, अस्माकम् आर्ति-रोदनेन दीन-वात्सल्यात् कदाचिद् असौ निवर्तत वेत्य् एतद्-अर्थम् इत्य् अर्थः ।
यद् वा, ननु यात्रायां मङ्गल-ज्ञानम् एवोचितम्, न च शोक-रोदनम् ? तत्राह—अच्युत-हृत-चित्तत्वेन विवेकापग्माद् इत्य् अर्थः । यद् वा, चिन्तयन्त्य इति वर्तमान-निर्देशेन चिन्तनाविच्छिन्नतोक्ता । तत्र हेतुः—अच्युतो मुकुन्दात् तद्-गत्य्-आदिभ्यो वा न च्युतो न स्खलित आशयो यासां ताः । यद् वा, चिन्तनादौ सर्वत्रापि हेतुर् अयम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चिन्तयन्त्यो हन्त तत् तद् अस्माकं सम्प्रति विच्छिन्नम् इति सानुतापं भावयन्त्यः । अत एवाश्रुभिर् लिप्तं मुख-खण्डम् एव तुण्डं यासां तद्-विधाः सत्यः यतः स्वभावेनैव निमेष-व्यवहितेऽपि भीता अधुनातूपसन्नेन महा-विरहेण विह्वलाः । तत्र सर्वत्र हेतुः—अच्युते स्थितः तन्मयत्वात् स एव वा आशयो यासां ताः । अच्युतेति तेनापि तद्-अपरित्यागापेक्षया । सङ्घशः मिलनेऽप्य् अवान्तर-सङ्घ-भेदात् प्रकर्षेण शोक-प्रकर्षत्वेनोचुः ।
अत्र सर्वासाम् अप्य् एक-वचन-स्फूर्तिस् तदानीम् इति तद्-आत्मक-हृदयता-प्राप्तेः । कदाचिद् अखिल-मुख्या वाक्यं शृण्वतीनाम् अन्यासां तन्-मात्रस्यानुमोदनेनोपचाराद् अनुकरणात् पूरणाच् च । एतच् च तासां परिदेवनं प्रादोषिक-घोषणाम् आरभ्य तत्-प्रस्थान-पर्यन्तं ज्ञेयम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.१९ ॥
गोप्य ऊचुः—
अहो विधातस् तव न क्वचिद् दया
संयोज्य मैत्र्या प्रणयेन देहिनः ।
तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं
विक्रीडितं तेऽर्भक-चेष्टितं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-सङ्गतिं विधाय विघट्टयतीति विधातारं प्रत्येकम् आक्रोशन्त्य आहुः—अहो इति । मैत्र्या हिताचरणेन । प्रणयेन स्नेहेन च अकृतार्थान् अप्राप्त-भोगान् अपि तान् वियुनङ्क्षि वियोजयसि । तस्मान् न तव दया । बालिशोऽपि त्वम् इत्य् आहुः—अपार्थकम् इति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विघट्टयति वियोजयति । बालिशोऽज्ञो बालो वा, बालिशश् च शिशौ मूर्खे इति मेदिनी । अपार्थकं निष्फलम् । कथं ? यथेति । अर्भक-चेष्टितं बालाङ्ग-चालनादि ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्णस्य सङ्गताव् इव विच्छेदेऽपि कम् अप्य् अन्य-हेतुम् अनालोचयन्त्यो जगत्-कर्तारम् श्री-ब्रह्माणम् एव च्+++ । तत्र हेतुं मन्वानास् तम् एवाक्रोशन्त्य आहुः—अहो इति त्रिभिः । अहो आर्ति-सम्बोधने खेद एव वा । हे विधातर् इति सर्वस्वम् एव विदधासीति भावः । अतः सर्वेष्व् अपि जीवेषु दयां कर्तुम् अर्हस्य् अपि तव कस्मिंश्चिद् अपि दया नास्ति ।
विधातृत्वम् एव दर्शयन् निर्दयत्वं च दर्शयति—संयोज्य इत्य्-आदिना । देहिनो देहाभिमान-वशेनेतस् ततो वर्तमानान् अपि जीवान् अकस्माद् अन्योऽन्यं मैत्र्या प्रणयेन च संयोज्य इति विधातृत्वं दर्शितम् । एवं श्री-कृष्ण-सङ्गतौ निज-गुणादि-राहित्यं सूचितम् ।
तत्र मैत्र्याः कदाचिद् असिद्ध्या संयोग-भङ्गः स्याद् इत्य् आशङ्क्य प्रणयेनेति कारणान्तरम् उक्तम् । तत्र समुच्चयार्थ-च-कारस्याप्रयोगः प्रणयस्य संयोगे प्राधान्य-विवक्षया । अप्य्-अर्थे च-कारः । संयोज्यापि अकृतार्थान् अपि वियोजयसि, विविध-चेष्टितम् अपार्थकं व्यर्थम् एव। केन हेतुना ? किम्-अर्थं कान् संयोजयसि अकृतार्थान् अपि पश्चात् केन हेतुना किम्-अर्थं वा वियोजयसि ? इति तत्-तद्-धेतु-प्रयोजनयोर् अभावात् । हेतौ प्रयोजने च सति संयोजितानाम् अकस्माद् वियोजनम् अयुक्तम् एवेति भावः । अपार्थकत्वे दृष्टान्तः—तच्-चेष्टितं यथा हेतुं प्रयोजनं च विना केवलं मौढ्याद् एव तद्वद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम्
यद् वा, दया नास्तीत्य् अत्र हेतुः—हे विधातर् इत्य् एव । सर्वत्रैव साम्यौचित्येऽपि उच्च-नीच-सुखि-दुःख्य्-आदि-सृष्टेः । एवं निर्दयत्वम् उक्त्वा मौढ्यम् आहुः—संयोज्येति । अपार्थकम् एव वियोजयसि, तेन च तव प्रयोजनाभावात् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्ण-सङ्गताव् इव विच्छेदेऽपि कम् अप्य् अन्य-हेतुम् अनालोचयन्त्यो विधातारम् एव । तत्र हेतुं मन्वानास् तम् एवाक्रोशन्त्य आहुः—अहो इति त्रिभिः । अहो खेदे । हे विधातर् इति सर्वं त्वम् एव विदधासीति भावः । अतः सर्वेष्व् अपि जीवेषु दयां कर्तुम् अर्हस्य् अपि तव कस्मिंश्चिद् दया नास्ति ।
विधातृत्वम् एव दर्शयन्त्यो निर्दयत्वं च दर्शयन्ति—संयोज्य इत्य्-आदिना । देहिनः देहाभिमान-वशेनेतस् ततो वर्तमानान् अपि जीवान् अकस्माद् अन्योऽन्यं मैत्र्यापि केवलं तथा प्रणयेन च संयोज्य इति विधातृत्वं दर्शितम् । एवं श्री-कृष्ण-सङ्गतौ निज-गुणादि-राहित्यं सूचितम् । अप्य्-अर्थे च-कारः । संयोज्यापि अकृतार्थान् अपि पश्चात् केन हेतुना किम्-अर्थं वा वियोजयसीति नावगच्छाम इत्य् अर्थः । हेतौ प्रयोजने च सति संयोजितानाम् अकस्माद् वियोजनम् अयुक्तम् एवेति भावः । अपार्थकत्वे दृष्टान्तः—अर्भके चेष्टितं यथा हेतुं प्रयोजनं च विना केवलं मौढ्याद् एव तद्वद् इत्य् अर्थः । अन्यत् तैः ।
तत्र हिताचरणेन तत्-कृत-प्रीत्या स्नेहेन सम्बन्धादि-कृत-प्रीत्येत्य् अर्थः । यद् वा, स्वयं मैत्र्योपलक्षितः सन् प्रणयेन मिथो विश्रब्ध-प्रेम्णा सह संयोज्येति योज्यम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्य सङ्गस्य सङ्गताव् इव विच्छेदेऽपि कम् अप्य् अन्यं हेतुम् अनालोचयन्त्यो विधातारम् एव दूषयन्ति—अहो इति । हे विधातर् अहो आश्चर्यं तवाप्य् एवम् अन्याय इति भावः । कोऽसौ ? तव क्वचिद् अपि न दयेत्य् एष एव ।
ननु, कथम् एवं निश्चिनुध्वे ? तत्राहुः—मैत्र्या सख्येन यः प्रकृष्टो नयः मनः-प्राण-बुद्ध्यादीनां परस्पर-प्रापणं तेन देहिनः संयोज्य तांश् च अकृतार्थान् अप्राप्त-तद्-भोगान् एव वियुनङ्क्षि वियोजयसि । एवार्थे च-कारः । न च त्वद्-वियोजनात् तव किञ्चित् प्रयोजनम् अस्तीत्य् आहुः—अपगतोऽर्थः फलं यतस् तत् । अतस् तव चेष्टितम् अर्भक-चेष्टितं यथेति । त्वम् अतिबालिश एवेति भावः ॥१९ ॥
॥ १०.३९.२० ॥
यस् त्वं प्रदर्श्यासित-कुन्तलावृतं
मुकुन्द-वक्त्रं सुकपोलम् उन्नसम् ।
शोकापनोद-स्मित-लेश-सुन्दरं
करोषि पारोक्ष्यम् असाधु ते कृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विगर्हितं तवेदं कर्मेत्य् आहुः—यस् त्वम् इति । शोकम् अपनुदतीति शोकापनोदः, स चासौ स्मित-लेशश् च गूढ-हासः[,]{दिर्=“र्त्ल्”} तेन सुन्दरं मुकुन्दस्य वक्त्रं सकृत् प्रदर्श्य पुनस् तस्य पारोक्ष्यम् अदृश्यतां करोषि, अतस् तव कृतं कर्म्[अ अ]{दिर्=“र्त्ल्”}साधु, निन्द्यम् इत्य् अर्थः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निन्द्यत्वम् आह—विगर्हितम् इति । अदृश्यतां चक्षुर्-अविषयत्वम् । इत्य् अर्थ इति——न ह्य् एतत् साध्व्-आचार इति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्भक-चेष्टित-दर्शनेन मौढ्यम् आयातम् एव । प्रकर्षेण साक्षाद् यथायथं तद्-रसानुभव-पूर्वकं दर्शयित्वा असितैः कुन्तलैर् अलकैर् आवृतं श्री-ललाटोपरि-भागे भ्रमरवन्-निपातेन व्याप्तम् इत्य् ऊर्ध्व-भागस्य शोभा, सुकपोलम् इति पार्श्व-द्वयस्य उन्नसम् इति मध्यस्य, शोभेति मधुर-स्मितेन विकसद्-अधर-बिम्ब-तद्-आरुण्य-च्छुरित-श्रीमद्-दन्त-पङ्क्ति-माधुर्याभ्याम् अन्तर्-भागस्यापि सूचितैव । सा च मुखे कुन्दानि यस्येति मुकुन्द-पद-निरुक्त्या श्री-दन्त-शोभा-सूचनेन समर्थिता । शोकश् चार्तानां सर्वेषाम् ।
किं वा, अतृप्त्यात्मनो दौर्भाग्य-मननाद् अस्वातन्त्र्याद् वा । यद् वा, मु मुक्ति-सुखम् अपि, कु कुत्सितं यस्मिन् तत् । मोक्ष-सुखाधिक-प्रेम-सुखं ददाद् इति निरुक्त्या तद्-वक्त्रस्य अपि तादृशत्वम् एवाभिप्रेतम् । अत ईदृशस्य तद्-वक्त्रस्य परोक्षताचरणात् तव कर्म असाध्व् एव । अत एव श्री-विष्णु-पुराणे,
सारं समस्त-गोष्ठस्य विधिना हरता हरिम् । > प्रहृतं गोप-योषित्सु निघृणेन दुरात्मना ॥ [वि।पु। ५.१८.१६] इति > ।
अन्यत् तैर् व्याख्यातम् । तद् वा, पूर्व-श्लोके सामान्य एवोक्त्वाधुना तद् एव दर्शयन् निर्दयत्वादिकम् एव प्रपञ्चयति—य इति । पारोक्ष्यं परोक्ष-वर्ति । अतस् तव कर्म असाध्व् एव । अन्यत् समानम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवतु वा सामान्यतस् तव तादृशं चरितं विशेषतस् त्व् इदं गर्हितम् इत्य् आहुः—यस् त्वम् इति । प्रकर्षेण रसानुभव-पूर्वं दर्शयित्वा असितैः कुन्तलैः कुटिलालकैर् आवृतं श्री-ललाटोपरि-भागे भ्रमरवन् निपातेन व्याप्तम् इत्य् ऊर्ध्व-भागस्य शोभा सुकपोलम् इति पार्श्व-द्वयस्य उन्नसम् इति मध्यस्य शोभेति मधुर-स्मितेन विकसद्-अधर-बिम्ब-तद्-आरुण्य-च्छुरित-श्रीमद्-दन्त-पङ्क्ति-माधुर्याभ्याम् अन्तर्-भागस्यापि सूचिता शोकश् चार्तानां सर्वेषां तत ईदृशस्य तद्-वक्त्रस्य परोक्षताचरणात् तव कर्म असाध्व् एव । अत एव श्री-विष्णु-पुराणे,
सारं समस्त-गोष्ठस्य विधिना हरता हरिम् । > प्रहृतं गोप-योषित्सु निघृणेन दुरात्मना ॥ [वि।पु। ५.१८.१६] इति > ।
अन्यत् तैः ।
यद् वा, यस् त्वं मुकुन्दस्य सर्व-दुःख-मोचकत्वेन तन्-नाम-धेयस्य वक्त्रं प्रकर्षेण दर्शयित्वा पारोक्ष्यं करोषि, तस्य ते तव कृतम् असाध्व् एव । चातुर्वर्ण्यम् इत्य्-आदिवत् स्वार्थे ष्यष् । आस्तां तावन् मैत्री-प्रणय-पूर्वक-तदीय-संयोगस्य वियोजनं नाम तद्-दर्शन-मात्रस्यापि गर्हितं किम् उत तत्-प्रकृष्ट-दर्शनस्येत्य् अर्थः । प्रकर्षम् एव दर्शयन्ति—असितेत्य्-आदि विशेषणैः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-पितामहस्य मम नार्भक-तुल्यत्वम् इति चेत्, तर्हि त्वं लोकानाम् अभद्र-कारीत्य् आहुः—यो विधातापि भूत्वा त्वं मुकुन्द-वक्त्रं शोकस्यापनोदो यस्मात्, तेन स्मित-लेशेन सुन्दरं प्रदर्श्य तस्य पारोक्ष्यम् अदृश्यत्वं करोष्य् अतस् तव कृतं कर्म असाधु अभद्रं निन्द्यम् इत्य् अर्थः ॥२०॥
॥ १०.३९.२१ ॥
क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश्
चक्षुर् हि दत्तं हरसे बताज्ञवत् ।
येनैक-देशेऽखिल-सर्ग-सौष्ठवं
त्वदीयम् अद्राक्ष्म वयं मधु-द्विषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, दत्तापहारित्वेनातिक्रूरस् त्वम् इत्य् आहुः—क्रूरस् त्वम् इति । नन्व् अक्रूरो हरति, नाहम् इति चेद् अत आहुः—अक्रूर-समाख्ययेति । न ह्य् एवं कर्तुम् अन्यः प्रभवति, अतो नामान्तरेण स्म ध्रुवं त्वम् एवागतोऽसि । कृष्णं हरामि, न युष्मच्-चक्षुर् इति चेत्, न । येन त्वद्-दत्तेन चक्षुषा मधुद्विष एक-देशे नेत्र-वक्त्रादौ त्वदीयं समग्रं सृष्टि-नैपुण्यम् अद्राक्ष्म दृष्टवत्यो वयं, तच् चक्षुः । अयं भावः—मम सर्वं रहस्य्[अ]{दिर्=“र्त्ल्”}ं अ[स्]{दिर्=“र्त्ल्”}माभिर् ज्ञातम् इत्य् अमर्षेणेव कृष्णं वियोजयन्न् अस्मान् अन्धी-करोषीति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यत् ततोऽप्य् अधिकम् आह—किं च इति । स्वस्य क्रूरताम् अपानुदन्न् आशङ्कते—नन्व् इति । यतोऽन्योऽप्रभुः । अतो हेतोः । नामान्तरेण अक्रूर-नाम्ना । भङ्ग्य्-अन्तरेणाह—कृष्णम् इति । तत्राहुः—न इति । अत्र ब्रह्मण आशयं प्रकटयन्त्य आहुः—अयं भावः । रहस्यं गुह्यं गोपीभिर् अभिज्ञातम् इत्य् अमर्षेण कोपेन । इव-शब्देन वस्तुतः कोपाभावं बोधयति निज-कल्पितत्वात् । क्रूरो भयङ्करे सौरे नृशंसे कठिनोष्णयोः इति हलायुधः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव । त्वम् एव हरसि । बत खेदे । तथा श्री-विष्णु-पुराणेऽपि—
अहो गोपी-जनस्यास्य दर्शयित्वा महा-निधिम् । > उद्धृतान्य् अद्य नेत्राणि विधात्राकरुणात्मना ॥ [वि।पु। ५.१८.२८] इति > ।
अज्ञवद् इति विधातृत्वेन सर्वज्ञोऽपि त्वं दत्तापहाराद् अज्ञ-तुल्य एवासीत्य् अर्थः । कथं चक्षुर् हृतम् ? तद् आहुः—येनेति । त्वदीयम् अखिल-सर्ग-सौष्ठवम् अद्राक्ष्म इति । त्वदीय- सौन्दर्यामृतार्णव-कणांशांश-विभाग-प्राप्त्या काम-देवादीनां परम-सौन्दर्य-सम्पत्तेः । अतो विषय-हरणेन चक्षुषोऽन्यत्राप्रवृत्तेर् आन्ध्यापत्त्या चक्षुष एव साक्षात् हरणं सिद्धम् । मध्व्-आदि-दैत्यस् तं द्वेष्टि हन्तीति तथा तस्येति महा-बलिष्ठतया दृप्तत्वेन सौन्दर्य-विशेषः सूचितः ।
यद् वा, मध्व् इव मधु क्षुद्र-विषय-सुखम् । किं वा, चतुर्-वर्ग-सार-भूतं मोक्षं द्वेष्टीति । तथा तस्य यद् अपेक्षया विषय-सुखं मोक्षासुखं वा निरस्तं भवतीति परमानन्द-घन-मूर्तित्वं, तेन च तद्-एक-देशस्यापि तादृशत्वम् एवाभिप्रेतम् इति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि एव । त्वम् एव करोषि । बत खेदे । तथा श्री-विष्णु-पुराणेऽपि—
अहो गोपी-जनस्यास्य दर्शयित्वा महा-निधिम् । > उद्धृतान्य्3 अद्य नेत्राणि विधात्राकरुणात्मना ॥ [वि।पु। > ५.१८.२८] इति ।
यथाज्ञः पापापापम् अजानन् जनो दत्तम् अपि हरति तद्वद् इत्य् अर्थः । किन्तु त्वं सर्वज्ञोऽपि अज्ञायस इति परम-दुःख-दान-मात्र-तात्पर्यत्वेन ततोऽपि पाप-विशिष्टम् इति भावः
कथं चक्षुर् हृतम् ? तत्राहुः—येनेति । त्वदीयम् अखिल-सर्ग-सौष्ठवं मधुद्विष एक-देशेऽद्राक्ष्म इति तदीय-नेत्र-वक्त्रादि-सौन्दर्यामृतार्णव-कलांशांश एव पद्म-चन्द्रादि-सौन्दर्यं पर्याप्तम् अपश्याम इत्य् अर्थः । अतोऽनभिरुचेर् अन्यत्राप्रवर्तमानस्य तन्-मात्र-विषयस्य चक्षुषस् तद्-धरणेन चक्षुष एव हरणं, तत्र मधुद्विष इति योग्य-पदोपादानं नारायण-समो गुणैः [भा।पु। १०.८.१९] इति वाक्यात् सर्वातिशयि-गुण-शालित्वेनैव तत्-पर्यायस्येत्य् अर्थः ।
यद् वा, मध्व् इव मधु तद्-इतर-सर्व-प्राकृत-वाञ्छनीयं तस्मै द्वेष्टि तदीयानां तद् धरतीति तस्येति । यद् वा, मधुपुरी-पतित्वात् तत्-सम-शीलत्वाच् च कंस एव मधु, तद्-द्विष इति तं हत्वा तद्-राज्ये लब्धे पुनर् अत्रागमनं दुर्लभम् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।३९.९
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अक्रूरः कृष्णं पुरीं नयति नाहम् इति चेत्, तत्राहुः—क्रूरस् त्वं विपरीत-लक्षणया अक्रूरस्य समाख्यया नाम्ना न ह्य् एवं कर्तुम् अन्यः शक्नोतीति भावः । तथा दत्तापहारित्वेनापि क्रूरोऽपीत्य् आहुः । त्वयैव दत्तं चक्षुस् त्वम् एव हरसे, यथाज्ञः पुण्य-पापे अजानन् दत्तम् अपि हरति, तद्वत् । कृष्णं हरामि न युष्मच्-चक्सूर् इति चेत्, तत्र कृष्ण-हरणाद् एवास्माकम् आन्ध्याच् चक्षुर्-हरणम् इत्य् आहुः । येन चक्षुषा मधुद्विषः कृष्णस्य एक-देशे वक्त्र-नेत्रादौ त्वदीयम् अखिल-सृष्टेः सौष्ठवम् अद्राक्ष्म, तेन किम् अन्यत् पश्यामः ? अतोऽन्धा एव भविष्यामः ॥२१॥
॥ १०.३९.२२ ॥
न नन्द-सूनुः क्षण-भङ्ग-सौहृदः
समीक्षते नः स्व-कृतातुरा बत ।
विहाय गेहान् स्व-जनान् सुतान् पतींस्
तद्-दास्यम् अद्धोपगता नव-प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विधातारं विहाय परस्परम् ऊचुः—न नन्द-सूनुर् इति । बत्[अ]{दिर्=“र्त्ल्”} [इ]{दिर्=“र्त्ल्”}ति खेदे । क्षण-भङ्गम् अस्थिरं सौहृदं यस्य सः । गृहादीन् विहाय्[अ]{दिर्=“र्त्ल्”} [अ]{दिर्=“र्त्ल्”}द्धा साक्षात् तस्यैव दास्यम् उपगताः स्व-कृतातुरास् तत्-कृतेनैव स्मितादिना पर-वशा अपि नोऽस्मान् न समीक्षते । नवं नवं प्रियं यस्य सः । अत एनं निवारयाम इति भावः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णं क्षणीकृत्यान्योन्यम् आहुः—नेति । नन्द-सूनुर् इति साभिप्रायोक्तिः । अतो नव-प्रियत्वात् । इति भाव इति—नूतन-स्त्री-सङ्ग-रसिकः पुनर् अस्मान् प्राग् अनुभूताः प्रति नागमिष्यतीत्य् आशयः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नष आदौ निर्देशो निषेधस्य गौरवेण । नन्द-सूनुरि इति वल्लवेन्द्र-कुमारत्वेनास्मत्-समीक्षण-योग्योऽपीत्य् अर्थः । न समीक्षते प्रयाण-समये नावलोकयिष्यत्य् अपि । किं वा, पुर्यां गतः सन्न् आपेक्षिष्यत इत्य् अर्थः । तत्र हेतुः—क्षण-भङ्ग-सौहृद इति ।
नन्व् एवं तर्हि तत्रत्यान् अप्य् उपेक्ष्य चिराद् अस्मान् अपेक्षिष्यते ? तत्राहुः—नव प्रिय इति । बहुशोऽनुभूतत्वेन पुरातन्यो वयम् उपेक्षितव्या एवेति भावः । यद् वा, दुःख-वृद्धि-शङ्कया गोपीषु दृष्टिम् अनर्पयन्तं कृष्णं दृष्ट्वाहुः—नेति । विधातारं किं निन्दामः, नन्दसूनुर् एवास्मान् न समीक्षते, न पश्यति, नन्दसूनुतया तत्-स्वभावेनैव समीक्षा-योग्यता सूचिता ।
अधुना निज-भावेनापि ताम् आहुः—विहायेति । गेहादीनां यथोत्तरं श्रेष्ठम् ऊह्यम् । अद्धा साक्षात् स्व-देहार्पणादिना दासीत्वम् उप सामीप्येन प्राप्ता इति दास्य-विशेषः सूचितः । तद्-उपगताव् एव हेतुः—स्व-कृतातुरा इति । अन्यत् तैर् व्याख्यातम् ।\
अथवा, ननु युष्माकं प्रियतमोऽयं स्वयम् एव प्रयाति, तत्र मम् को दोष इत्य् आशङ्क्य विधातारम् एवाहुः—नन्द-सूनुर् अयं क्षण-भङ्ग-सौहृदो न भवति । तत्र हेतुः—नन्द-सूनुर् इति । किं च, अनन्य-गतिकत्वाद् अस्माकम् उपेक्षां नैव कुर्याद् इत्य् आहुः—बत रे विधातः ! नोऽस्मान् अपेक्षत एव । तत्र हेतुः—स्व-कृतातुरा इति । किं च, विहायेति तद्-अनिर्वचनीयं दास्यम् । अन्यथा कृतज्ञतापत्तिर् इति भावः । नव-प्रियोऽपि । अन्यत् समानम् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उदासीनं विधातारं किं निन्दामः ? परम् आत्मीयोऽस्मज्-जीवनैक-हेतुः श्री-नन्द-सूनुर् एव तथा-विध इत्य् आहुः—नेति । नन्द-सूनुर् वल्लवेन्द्र-कुमारत्वेनाप्य् अस्मत्-समीक्षण-योग्यः किं पुनर् अस्माभिस् तादृश-प्रेम-बन्धेन सोऽपीत्य् अर्थः । न समीक्षते नापेक्षते । अपृष्ट्वैव दूर-प्रस्थानोद्यमात् समीक्षिष्यत इति च व्याख्यानेऽपि सम्प्रत्य् अपेक्षाया अदर्शनाद् इति भावः । अतो दृढ-सौहृदत्वेन ज्ञातत्वेऽपि क्षण-भङ्ग-सौहृद एवासौ न समीक्षायां हेतु-विशेषम् आहुः—विहायेति । गेहादीनां यथोत्तरं श्रेष्ठम् ऊह्यम् । अद्धा साक्षात् स्व-देहार्पणादिना दासीत्वम् उप सामीप्येन प्राप्ता इति दास्य-विशेषः सूचितः । तद्-उपगताव् एव हेतुः—स्व-कृतातुरा इति । तैर् व्याख्यातम् ।\
यद् वा, सम्प्रति समीक्षायां विशेषतो हेत्व्-अन्तरम् आहुः—स्व-कृतेन परित्यागेनातुरा रोगेणैव पीडिताः । न केवलं न समीक्षते, किं च, नव-प्रियोऽसौ सर्वान् व्रज-जनान् विहाय अक्रूरेण समम् आत्मीयतां व्यज्य गमन-दर्शनान् नव-प्रिय एवासौ सम्प्रति माधुरीभिर् एव प्रीतिं विधास्यतीत्य् अर्थः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न समीक्षते नापेक्षते ॥२२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्तास्मत्-प्रेमास्पदत्वाद् अस्मज्-जीवनैक-हेतुः कृष्ण एवास्मान् उपेक्षते विधातारं किम् इति दूषयाम इत्य् आहुः—नेति । अतिप्रबलः प्रेमा कथम् अनेन छिन्न इत्य् अत आहुः—क्षण-मात्रेणैव भङ्गो यस्य तथा-भूतं सौहृदं यस्य सः । सौहृदं नैवम् अन्य्ः कर्तुं शक्नोतीति भावः । हन्त हन्त स्वस्य कृते आतुराः प्राणान्तिम-दशापन्ना अप्य् अस्मान् न सम्यग् ईक्षतेऽपि एता रुदित्वा म्रियन्तां नाम, अहं तु मथुरां गत्वा सुखं लभे इत्य् अस्य निश्चय इति भावः । वयं तु विहायेत्य्-आदि यद् दास्यार्थं पत्य्-आदीन् अप्य् अत्यजाम, सोऽस्मांस् त्यजति । तत्र हेतुः—न वा एव प्रिया यस्य सः । वयम् अधुना पुरातन्योऽभूम यतस् तस्माद् इति भावः । तस्माद् वयम् अनेनोभय-लोकत एव भ्रंशित इति ध्वनिः ॥२२॥
॥ १०.३९.२३ ॥
सुखं प्रभाता रजनीयम् आशिषः
सत्या बभूवुः पुर-योषितां ध्रुवम् ।
याः संप्रविष्टस्य मुखं व्रजस्-पतेः
पास्यन्त्य् अपाङ्गोत्कलित-स्मितासवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सेर्ष्यम् ऊचुः—सुखं प्रभातेति । व्रजस्पतेः श्री-कृष्णस्य मुखं पास्यन्त्य् आदरेण द्रक्ष्यन्ति । कथं-भूतम् ? अपाङ्गेन नेत्र-प्रान्तेनोत्कलितम् उज्जृम्भितं स्मितम् एवासवो रसो यस्मिंस् तत् । यद् वा, अपाङ्गोत्कलित-स्मितेनासव-रूपं यन् मुखम् । ततश् च पानं मुख्यम् एव सम्भावयन्ति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सेर्ष्यं क्षान्ति-रहितम् । व्रजस्पतेर् इह पति-शब्दस्य छान्दसः सुट् । मुखस्य पानासम्भवाद् अर्थान्तरम् आह—यद् वेति । रूपकेण मुखम् आसवी-क्रियते, ततश् च मुखस्यायं स्वरूपत्वाद् आसवस्य पानं सम्भवत्य् एव । आसवोऽमृत-मद्ययोः इति धरणिः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आशिषो विप्राशीर्-वादाः । दीर्घ-मनोरथा वा सत्याः सफलाः सम्यक् गोप-वेशादिना पुर्य्-अन्तः प्रविष्टस्य व्रजस्पतेर् इति व्रज-जनानाम् एव दृश्यम् इति भावः । अपाङ्गेति सभाव-निरीक्षण-मधुर-स्मित-युक्तत्वम् उक्तम् । अन्यत् तैर् व्याख्यातम् । यद् वा, अपाङ्गेति क्रिया-विशेषणं, तेन च तासां भाव-विशेषेण सौभाग्यम् अभिप्रेतम् । अत एव विष्णु-पुराणे—
सुप्रभाताद्य रजनी मथुरा-वासि-योषिताम् । > पास्यन्त्य् अच्युत-वक्त्राब्जं यासां नेत्रालि-पङ्क्तयः ॥ [वि।पु। > ५.१८.२४] इति ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव सेर्ष्यम् ऊचुः पञ्चभिः । विप्राद्य्-आशीर्-वादाः दीर्घ-मनोरथा वा सत्याः सफलाः सम्यक् पुर्य्-अन्तः प्रविष्टस्य व्रजस्पतेर् इति व्रज-जनानाम् एव दृश्यम् इति भावः । सुड् अत्रार्षः । पास्यन्ति नेत्र-रसनया स्वादयिष्यन्ति । अत एव श्री-विष्णु-पुराणे—
सुप्रभाताद्य रजनी मथुरा-वासि-योषिताम् । > यासाम् अच्युत-वक्त्राब्जे याति नेत्रालि-भोग्यताम् ॥ [वि।पु। ५.१८.२४] > इति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त ! किम् अद्भुतम् इदम् अस्माकं दुरदृष्टं मथुराङ्गनानां शुभादृष्टं युगपद् एव फलति स्मेत्य् आहुः—सुखम् इति । इयं रजनी पुर-योषितां सुप्रभाता व्रज-योषितां तु दुष्प्रभाता । तासाम् आशिषो विप्रादि-दत्ताः दीर्घतर-मनोरथा वा सत्याः सफलला अस्माकं तु नष्टा बभूवुः । व्रजस्पतेः कृष्णस्य सुड् आर्षः । अपाङ्गे नेत्रान्ते उत्कलित-स्मितम् उत्कृष्टो रस-व्यञ्जिकाः कलाः सञ्जाता यस्य तद् उत्कलितं स्मितम् एव रहस्येङ्गितम् आसवो मादको रसो यत्र तन्-मुखं पास्यन्ति स्वापाङ्ग-रसनाभिर् आस्वादयिष्यन्ति कुल-धर्म-लज्जा-भयादिकं सहसैव त्यक्त्वा अस्येङ्गितम् अङ्गीकरिष्यन्तीत्य् अर्थः । ततश् च समुचित-समये सम्यक् प्रकारेणान्य-जनालक्षिततया प्रविष्टस्य मुखम् अपि साक्षात् पास्यन्ति ॥२३॥
॥ १०.३९.२४ ॥
तासां मुकुन्दो मधु-मञ्जु-भाषितैर्
गृहीत-चित्तः परवान् मनस्व्य् अपि ।
कथं पुनर् नः प्रतियास्यतेऽबला
ग्राम्याः स-लज्ज-स्मित-विभ्रमैर् भ्रमन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु द्वित्राणि दिनानि तथा भवतु नाम, तथाप्य् अस्मत् स्नेहाकृष्टः पित्रादिभिश् च परावर्तित आगमिष्यतीत्य् आशङ्क्याहुः—हे अबलाः, तासां मधु-वन्-मञ्जुभिर् भाषितैर् वशी-कृत-चित्तस् तथा तासां सलज्ज-स्मितैर् विभ्रमैर् भ्रमन् परवान् पित्रादि-पर-तन्त्रोऽपि । यद् वा, व्रजे परेऽन्ये बन्धवः सन्ति यस्य । तथा मनस्वी धीरोऽपि ग्राम्या अविदग्धा नः कथं प्रतियास्यते प्रत्येष्यति, न कथञ्चिद् इत्य् अर्थः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्योन्यम् आशङ्क्य समादधत इत्य् आहुः—नन्व् इति । तथा भवतु पुराङ्गनानां सुप्रभाता रजनी भवतु । नामेति वाक्यालङ्कारे । पित्रादिभिर् नन्दाद्यैः । तासां मथुराङ्गनानाम् । मधुवत् पुष्परसवत् । मञ्जुभिः श्रुति-मनोहरैर् वाक्यैः । विभ्रमैर् विलासैः । मनोज्ञं मञ्जु-मञ्जुलम् इत्य् अमरः । न हि नन्दादय एव तत्-सम्बन्धिनः किं त्व् अन्येऽपीत्य् आहुः—यद् वेति । अन्ये वसुदेव-प्रभृतयः । ग्राम्या ग्राम-भवाः । अविदग्धाश् चातुर्य-हीनाः । ग्राम्यं स्त्री-करणे क्लीबेऽश्लील-प्राकृतयोस् त्रिषु इति मेदिनी । इत्य् अर्थ इति— चतुर-स्त्री-प्राप्तौ को मूढाम् आद्रियत इति भावः । परवांस् तु पराधीनो निघ्नः परवशः स्मृतः इति हलायुधः । यद् वा, अबलाः सुरत-धार्ष्ट्य-हीनाः । ग्राम्या अश्लील-लीलाः । मथुराङ्गनास् त्व् अग्राम्या नित्य-सुरत-कर्मोपेताः । समुद्रोर्मिवद् उन्नम्य भ्रू-विलासेन सुन्दरि । निद्रितं मदनं या तु बोधयेत् सा वराङ्गना ॥ इति कामन्दकोक्तः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुकुन्दं परमानन्दं ददत् सन्न् इत्य् अर्थः । अबलास् तत्-प्राप्तौ सर्व-शक्ति-हीना इति भावः । भ्रमण-चापल्यं लभमानो भ्रान्तो भवन्न् इति वा । तथा च तत्रैव,
मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति । > नागर-स्त्री-कलालापः मधु श्रोत्रेण पास्यति ॥१४॥ > विलासि-वाक्य-जातेषु नागरीणां कृतास्पदम् । > चित्तम् अस्य कथं ग्राम्यः गोप-गोपीषु यास्यति ॥१५॥ > सारं समस्त-गोष्ठस्य विधिना हरता हरिम् । > प्रहृतं गोप-योषित्सु निघृणेन दुरात्मना ॥१६॥ > भाव-गर्भ-स्मितं वाक्यं विलास-ललिता गतिः । > नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव तु ॥१७॥ > ग्राम्यो हरिर् अयं तासां विलास-निगडैर् यतः । > भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ [वि।पु। > ५.१८.१४-१८] इति ।
अन्यत् तैर् व्याख्यातम् । यद् वा, परवान् गृहीत-चित्तत्वाद् एव तत्-पराधीनः सन्न् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भ्रमन् सर्वं विस्मरन् । अन्यत् तैः । परवान् गृहीत-चित्तत्वाद् एव तत्-पराधीनः सन्न् इत्य् अर्थः । तथा च तत्रैव,
मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति । > नागर-स्त्री-कलालापः मधु श्रोत्रेण पास्यति ॥१४॥ > विलासि-वाक्य-जातेषु नागरीणां कृतास्पदम् । > चित्तम् अस्य कथं ग्राम्यः गोप-गोपीषु यास्यति ॥१५॥ > सारं समस्त-गोष्ठस्य विधिना हरता हरिम् । > प्रहृतं गोप-योषित्सु निघृणेन दुरात्मना ॥१६॥ > भाव-गर्भ-स्मितं वाक्यं विलास-ललिता गतिः । > नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव तु ॥१७॥ > ग्राम्यो हरिर् अयं तासां विलास-निगडैर् यतः । > भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ [वि।पु। > ५.१८.१४-१८] इति ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु द्वित्राणि दिनानि तथा भवतु नाम, तथाप्य् अस्मत्-स्नेहाकृष्टः पित्रादिभिश् च परावर्तित आगमिष्यतीति चेद् भो मुग्धा न जानीथ तत्त्वं, शृणुतेत्य् आहुः । तासां मधुतोऽपि मञ्जुभिर् अतिमधुरैर् भाषितैर् गृहीत-चित्त आकृष्टा-मनाह् । अत एव परवांस् तद्-अधीनः सन् मनस्व्य् अपि धीरोऽपि हे अबलाः! तादृश-कला-लावण्य-बल-हीनाः कथं ग्राम्या अस्मान् प्रत्यायास्यति । ननु तद् अपि पित्रादीन् लोक-धर्मयोर् अपि वर्त्मानुस्मृत्य विवेक-बलाद् आयास्यत्य् एवेत्य् अतो विशिंषन्ति—तासां सलज्ज-स्मितैर् विभ्रमैर् मदनावेश-सूचक-चेष्टितैश् च भ्रमन् भ्रान्तिं प्राप्नुवन् अयम् अहो सर्वं विस्मरिष्यत्य् एवेति भावः ॥२४॥
॥ १०.३९.२५ ॥
अद्य ध्रुवं तत्र दृशो भविष्यते
दाशार्ह-भोजान्धक-वृष्णि-सात्वताम् ।
महोत्सवः श्री-रमणं गुणास्पदं
द्रक्ष्यन्ति ये चाध्वनि देवकी-सुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अस्मद्-उत्सव-भाजोऽन्य एवाद्य भविष्यन्तीत्य् आहुः—अद्येति । तत्र पुरे दाशार्हादीनां दृशो दृष्टेर् महान् उत्सवो भविष्यते भविष्यति । ये देवकी-सुतं द्रक्ष्यन्ति । तथा ये चाध्वनि गच्छन्तं द्रक्ष्यन्ति तेषाम् अपि दृशो भविष्यतीति । यद् वा, दृश इति द्वितीया । तेषां दृशो नेत्राणि महोत्सवो भविष्यते प्राप्स्यति । प्राप्त्य्-अर्थस्य भवतेर् आत्मनेपदित्वात् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-ग्राह्यस्यान्यत्र-गत्या शोचन्त्य आहुः—किं चेति । आर्षत्वाश्रयणेन आत्मनेपद-स्वीकारस्यागतिकत्वाद् आह—यद् वेति ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दाशार्हादयो यादव-कुल-भेदाः । यद्यपि तत्र कुकुरादयोऽन्येऽपि बहवः सन्ति, तथापि प्राधान्यापेक्षयैते निर्दिष्टाः । श्रियं लक्ष्मीं रमयति । यद् वा, श्रिया निज-विचित्र-शोभया जगद् रमयतीति तथा तम् इति परम-सौन्दर्यं वेषादिकं चोक्तम् । गुणास्पदम् इति कृपावलोक-मधुर-लीलादिकम् । देवकी-सुतम् इति तत् तेन दाशार्हादीनां विशेषोत्पत्तेः । यद् वा, देवकी श्री-यशोदेति पूर्वम् एवोक्तम् । तेन माधुर्य-विशेषः सूचितः । ये चाध्वनि वर्तमानाः पथिकास् तद्-वासिनोऽपि लोकाः । तथा च तत्रैव,
धन्यास् ते पथि ये कृष्णम् इतो यान्तम् अवारिताः । > उद्वहिष्यन्ति पश्यन्तः स्व-देहं पुलकाञ्चितम् ॥२५॥ > मथुरा-नगरी-पौरः नयनानां महोत्सवः । > गोविन्द-वदनालोकाद् अतीवाद्य भविष्यति ॥२६॥ > को नु स्वप्नः सभाग्याभिर् दृष्टस् ताभिर् अधोक्षजम् । > विस्तारि-कान्त-नयना या द्रक्ष्यन्त्य् अनिवारितम् ॥ [वि।पु। > ५.१८.२५-२७] इति ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणानां गुण-जातीनां सर्वास्पदम् आश्रयं यद् आश्रयेणैव ते सिद्ध्यन्ति तम् इत्य् अर्थः । किं बहुना, सर्व-गुण-सम्पत्ति-हेतु-विष्णु-प्रियां श्रियं लक्ष्मीम् अपि रमयितुं जात-रतिं कर्तुं शीलं यस्य तम् इति प्रौढि-वाक्यं देवकी-सुतम् इति प्राग् अयं वासुदेवस्य इत्य्-आदि तत्-पुरोहित-वाक्येन स च सा च तत्-पुत्रत्वम् एवाभिमस्यत इति । यद् वा, देवकी श्री-यशोदेति पूर्वम् एवोक्तम् । ये चाध्वनि वर्तमानाः पथिकास् तद्-वासिनोऽपि लोकाः । तथा च,
धन्यास् ते पथि ये कृष्णम् इतो यान्तम् अवारिताः । > उद्वहिष्यन्ति पश्यन्तः स्व-देहं पुलकाञ्चितम् ॥२५॥ > मथुरा-नगरी-पौरः नयनानां महोत्सवः । > गोविन्द-वदनालोकाद् अतीवाद्य भविष्यति ॥२६॥ > को नु स्वप्नः सभाग्याभिर् दृष्टस् ताभिर् अधोक्षजम् । > विस्तारि-कान्त-नयना या द्रक्ष्यन्त्य् अनिवारितम् ॥ [वि।पु। > ५.१८.२५-२७] इति ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवकी-सुतम् इति । प्राग् अयं वसुदेवस्य [भा।पु। १०.८.१४] इत्य्-आदि तत्-पुरोहित-वाक्येन । स च सा च तस्मिन् पुत्रत्वम् एवाभिमंस्यत इत्य् अभिप्रायेण ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, व्रजस्थानाम् आनन्दं पुर-स्थाः प्राप्स्यन्तीत्य् आहुः—अद्येति । दृश इति जात्यैकत्वं दाशार्हादीनां दृशां महोत्सवो भविष्यति । ये चाध्वनि द्रक्ष्यन्ति दृशाम् आत्मनेपदम् आर्षम् । यद् वा, दृश इति द्वितीया, तेषां दृशो दृष्टीर् महोत्सवो भविष्यते प्राप्स्यति प्राप्त्य्-अर्थकोऽयं भवतिर् आत्मनेपदी ॥२५॥
॥ १०.३९.२६ ॥
मैतद्-विधस्याकरुणस्य नाम भूद्
अक्रूर इत्य् एतद् अतीव दारुणः ।
योऽसाव् अनाश्वास्य सुदुःखितं जनं
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अक्रूरं शपन्त्य आहुः—मैतद् विधस्य इति । एषा विधा विधानं कर्म यस्य । अत एव निष्कृपस्य अक्रूर इति शोभनं नाम मा भूत् । तत्र हेतुः, अतीव दारुण इत्य्-आदि । प्रियात् प्राणाद् अपि प्रियतरं कृष्णम् अध्वनः पारम् अस्मद्-दृग्-अगोचरत्वाद् अति-दूरं देशं नेष्यति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीम् अक्रूर-नामानर्थकम् इत्य् अभिप्रेत्यैवोक्तम्—
अक्रूर ते नामनि निश्चयेन > बली बहु-व्रीह-समास एव । > अस्माकम् आत्मानम् अनु यतस् त्वं > कृतान्तवन् नेतुम् उपागतोऽसि ॥ इति ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति-शब्देनैव एवम् इत्य् अस्योक्तार्थत्वाद् इत्य् एवम् इति तैर् न लिखितम्, लेखक-भ्रमो वा । अतीव-दारुणः परम-क्रूरः कुतः ? तद् आहुः—य इति । असाव् इति दूर-वर्तित्वाद् दारुणत्वेऽनिर्वचनीयत्वाद् वा । यद् वा, असाव् अयम् इत्य् अर्थः । इति नयनस्य तदाध्वम् उक्तम् । अनाश्वास्य "पुनर् एष मया समानीय युष्मासु समर्पणीयः" इति वचसापि । किं वा, श्री-कृष्ण-द्वारावधि-दिन-निर्णयादिनासान्त्वयित्वा । अतोऽचिराद् अस्मिन् स्त्री-वधो भावीति सु-शब्दाभिप्रायः । जनम् इति सामान्येनोक्तिर् औद्धत्य-परिहाराय । किं वा, परमार्त्या निर्विण्णत्वाद् आत्मनि परमौदासीन्येनेति । अतोऽतिक्रूर एव । तथा च तत्रैव—
किं न वेत्ति नृशंसोऽयम् अनुराग-परं जनम् । > येनेमम् अक्षराह्लादं नयत्य् अन्यत्र नो हरिम् ॥ [वि।पु। ५.१८.२०] > इति ।
अतः परमस्य क्रूर इत्य् एव नाम युक्तम् इति भावः । अन्यत् तैर् व्याख्यातम्
यद् वा, एवम् अनेन श्री-कृष्ण-नयन-प्रकारेणातीव-दारुणः । तद् एवाह—य इति । यद् वा, एवम् इत्य् अस्य नेष्यतीत्य् अनेनान्वयः । अनेन सहसा कंसाज्ञया तन् निकट-प्रापणादि-प्रकारेणेति ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति-शब्देनैव एतद् इत्य् अस्यार्थस्योक्तत्वात् । इत्य् एतद् इति तैर् न लिखितम् । यद् वा, इत्य् एतत् इत्य् एवम् इत्य्-आदि प्रयोग-दर्शनाद् गो-वलीवर्द-न्यायेन पौनरुक्त्य-दोषो ज्ञेयः । अतीव दारुणः परम-क्रूरः कुतः ? तद् आहुः—य इति । असाव् इति दारुणत्वेनानिर्वचनीयत्वं सूचितम् । यद् वा, असाव् अयम् इत्य् अर्थः । प्रत्यक्ष-स्थितोऽपीति । अनाश्वास्य "पुनर् एष मया समानीय युष्मासु समर्पणीयः" इति वचसापि जनम् इति सामान्येनोक्तेस् तन्-मात्रस्याप्य् आश्वास उचितः । किम् उताबला-रूपस्येत्य् अर्थः । अतोऽचिराद् अस्मिन् स्त्री-वधो भावीति सु-शब्दाभिप्रायः । अतोऽतीव क्रूर एव । तथा च तत्रैव—
किं न वेत्ति नृशंसोऽयम् अनुराग-परं जनम् । > येनेमम् अक्षराह्लादं नयत्य् अन्यत्र नो हरिम् ॥ [वि।पु। ५.१८.२०] > इति ।
अतः परमस्य क्रूरस्य क्रूर इत्य् एव नाम युक्तम् इति भावः । अन्यत् तैः ।
यद् वा, अक्रूर इति नाम मा भूद् एव इत्य् एवम् एतत्-प्रकारम् अन्यन् नामापि मा भूद् इत्य् अर्थः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्रूरं शपन्त्य आहुः—एतद्-विधस्य एतादृशस्य । यद् वा, एषा विधा विधानं कर्म यस्य । अत एव निष्करुणस्य अक्रूर इत्य् एतन् नाम माभूत्, न युज्यत इत्य् अर्थः । तत्र हेतुः—अतीव- इति । तस्माद् अतः परम् अयं क्रूर इति नाम्नाभिधेय इति भावः । "पुनर् एष मया समानीय युष्मासु समर्पणीयः" इति वचसापि जनं व्रजस्थम् एकम् अपि जनम् अनाश्वास्य सुदुःखितम् इति सु-शब्देन मरिष्यतां व्रज-जनानां वध-पातकम् अयम् एव प्राप्स्यतीति दारुण द्योतितम् । प्रियात् प्राणाद् अपि प्रियं कृष्णम् अध्वनोऽस्मद्-गम्यस्य पारं दूर-देशम् इत्य् अर्थः ॥२६॥
॥ १०.३९.२७ ॥
अनार्द्र-धीर् एष समास्थितो रथं
तम् अन्व् अमी च त्वरयन्ति दुर्मदाः ।
गोपा अनोभिः स्थविरैर् उपेक्षितं
दैवं च नोऽद्य प्रतिकूलम् ईहते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो धिग् अस्मज्-जीवितम् इत्य् आहुः—अनार्द्र-धीर् इति । अनार्द्रा कठिन धीर् यस्य स तावद् एष कृष्णो रथम् अधिरूढः अस्याविनयम् आलक्ष्य स्थविरैश् चोपेक्षितम् । ते न निवारितवन्त इत्य् अर्थः । किं च, दैवं चेति । अयं भावः—यदि दैवम् अस्माकम् अनुकूलं भवेत्, तर्हि विघ्नैः कश्चिद् एषां मध्ये प्रतिहन्येत । अकस्माद् वज्र-पातो वा भवेत् । अन्यद्वा किञ्चिद् अनिष्टं स्यात्, न तु तत् किञ्चिद् अस्तीति ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मानं निन्दन्त्य आहुः—अहो इति । अस्य कृष्णस्य । अविनयं धार्ष्ट्यम् । स्थविरैः वृद्धैः । इत्य् अर्थ इति— वृद्धा अपि धृष्ट-सम्बन्धेन धृष्टा एव जाता इति भावः । न हि वृद्धानां दोष इत्य् आहुः—किं चेति । अयं भाव इति । एतेषां गोपानाम् । अन्यत् आमयादि-रूपम् । तत् अनिष्टम् । किञ्चित्कम् अपि । सर्वम् एतद् दैव-प्रातिकूल्याज् जातम् । प्रतिकूले नृणां दैवे सरले वक्रता भवेत् इत्य् उक्तेर् इति भावः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो कंस-दूतोऽयं क्रूर एव, परम-कृपा-कोमल-चित्तः श्री-व्रजेन्द्र-नन्दनोऽप्य् अद्यास्मान् प्रति परम-कठिनोऽभूद् इति परमार्त्याहुः—अनार्द्र-धीर् इति । यतो रथं सम्यग् आस्थितः, उपरि नीडम् आरूढः, तं रथम् अनु पश्चात् । किं वा, श्री-कृष्णम् अनुवर्तन्ते ये तेऽमी गोपाः अनोभिः कृत्वा शीघ्र-शकट-योजनादिना । यद् वा, तैः सह वर्तमानास् तान्य् आरूढा इत्य् अर्थः । त्वरयन्ति गमने त्वरां कुर्वन्ति । यद् वा, तम् एवानु अनुक्षणं गन्तुं त्वरयन्ति, यतो दुर्मदाः महा-मत्ताः, अन्यथा विचारः सम्भवेत् । एतत् तासां व्यथादिकं परिदेवनादिकं च प्रादोषिक-घोषणाश्रवणाद् आरभ्य प्रातः कृष्ण-प्रस्थानावधि ज्ञेयम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो कंस-दूतोऽयं क्रूर एव परम-कृपा-कोमल-चित्तः श्री-नन्दनन्दनोऽप्य् अस्मान् प्रति परम-कठिनोऽभूद् इति परमार्त्याहुः—अनार्द्र-धीर् इति । यतो रथं सम्यग् अवस्थित उपरि नीडम् आरूढः, तं रथम् अनु पश्चात् । किं वा, श्री-कृष्णम् अनुवर्तन्ते ये तेऽमी गोपाः श्रीदामादयः अनोभिः कृत्वा शीघ्रं शकट-योजनादिना । यद् वा, तैः सह वर्तमानास् तान्य् आरूढा इत्य् अर्थः । त्वरयन्ति गमने त्वरां कुर्वन्ति । यद् वा, तम् एवानु अनुक्षणं गन्तुं त्वरयन्ति यतो दुर्मदाः महामत्ताः अन्यथा विचार-सम्भवात् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो अत्रागत्याक्रूरेण दुष्टा मत्ततैवाजनिष्ट । अत्रानागमिष्यतः कृष्णस्य विरहेण स्वयं यन् मरिष्यन्ति, तद् अपि नानुसन्दधत्ते इति भावः । स्थविरैर् वृद्धैर् अपि निषेधम् अकुर्वद्भिर् उपेक्षितं स्व-जीवितम् इति शेषः । किं च, दैवं चेति । अयं भावः—यदि दैवम् अस्माकम् अनुकूलम् अभविष्यत्, तदा विघ्नैः किञ्चिद् एषाम् उपद्रवम् उदपादयिष्यतेति । तस्माद् आयुर् एव व्रजस्थानाम् अतः परं नास्तीति निश्चिनुम इति भावः ॥२७॥
॥ १०.३९.२८ ॥
निवारयामः समुपेत्य माधवं
किं नोऽकरिष्यन् कुल-वृद्ध-बान्धवाः ।
मुकुन्द-सङ्गान् निमिषार्ध-दुस्त्यजाद्
दैवेन विध्वंसित-दीन-चेतसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परस्परं संमन्त्र्य साहसम् अधिरुह्याहुः—निवारयाम इति । अकरिष्यन् करिष्यन्ति । निमिषार्ध-दुस्त्यजान् मुकुन्द-सङ्गाद् विध्वंसितानि वियोजितान्य् अत एव दीनानि चेतांसि यासाम् । एवं-भूतानाम् अस्माकं न मृत्योर् अपि भयम् इत्य् अर्थः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साहसम् उत्तर-कालम् अनालोच्य कर्म-करणम् । अत एव विमुक्तत्वाद् एव । एवं-भूतानां कृष्ण-वियुक्तानाम् । इत्य् अर्थ इति— मृत्यु-भयं हि जीवतां भवति तत् त्व् अस्माकम् आत्म-भूतेन कृष्णेन रहितानां मृत-प्रायाणां नास्तीति । अपि-शब्दात् कुल-सम्बन्धिनां तु तद्-दूरापास्तम् इति भावः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् लज्जादिकम् अपहाय साहसम् अवलम्ब्य, उप समीपे गत्वा नितरां श्री-हस्त-वस्त्र-धारणादिना निवारयामो वारयामेति । किं वा, वारयामैव । माधवं मधु-वंशोद्भवम् । अतो यदु-कुल-रक्षार्थं प्रयान्तम् अपीति भावः । यद् वा, मधुना मधुर-रसेन क्रीडा-परम् इति परम-सौन्दर्य-वैदग्ध्यादि-सद्-गुण-गण-निलयत्वादिकम् अभिप्रेतम् ।
अयं निवारणे हेतुः—कुलस्य वृद्धा धर्म-प्रवर्तका बान्धवाश् च स्नेहादि-बद्धाः पत्य्-आदयो नोऽस्माकं किं करिष्यन्ति ? अपि तु न किम् अपीत्य् अर्थः ।
ननु परित्यक्ष्यन्ति सास्तिं वा मयि करिष्यन्ति ? तत्राहुः—मुकुन्देति । परमानन्द-प्रदत्वं परम-सौन्दर्यं वाभिप्रेतम् । निमिषार्धम् अत्यल्प-कालम् अपि दुस्त्यजात् त्यक्तुम् अशक्याद् इत्य् अर्थः । दैवेनेति निजादृष्टेन विधातृ-कृतत्वेन वापरिहार्यत्वम् अभिप्रेतम् ।
चेतसां विध्वंसितत्वं पुनः प्रात्प्य्-आशापगमात् । अत एव दीनेति । अन्यत् तैर् व्याख्यातम् एव ।
यद् वा, विध्वंसिताश् च ताः, अत एव दीन-चेतसश् चेति । तथा तासां निमिषार्ध-दुस्त्यजाद् इति । अन्यथा चिर-विरहेण मरणात् कुल-वृद्धादिभिः सह स्वत एव सम्बन्धो न स्थातैवेति । जीवने च मुकुन्द-सङ्गापेक्षया परम-हेयैर् अतितुच्छैः किं तैर् इति भावः ।
ननु वृद्धापनादरेणेहामुत्र च दुष्कीर्त्यादि-भयम् । तत्राहुः—दैवेनेति । मुकुन्द-सङ्ग-विध्वंसनेन यद् दैन्यं, ततोऽधिकं तत्-तुल्यं वा । न किम् अप्य् अन्यद् इति तच्-चिन्तयालम् इति भावः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सोऽयम् अस्माभिर् बाल्यम् आरभ्यानन्य-वृत्तिना मनसा वृत इति स चाप्य् अस्मांस् तथैवाङ्गीकृतवान् इति पतिर् एव स्यात् । ततः सम्प्रत्य् अस्मान् परित्यज्य व्रजन्न् असौ कथं निवारणीय कस्य वा तु सङ्कोच इत्य् आशयेनाहुः—निवारयाम् इति । सम्यक् लज्जादिकम् अपहाय साहसम् आलम्ब्य उप समीपे गत्वा श्री-हस्त-धारणादिना माधवं निवारयामः शीघ्रम् एव निवारयिष्यामः ।
ननु पित्राद्य्-अनुमतिं विना कथं स्वातन्त्र्येण वृतोऽसौ ? तत्राप्य् आहुः—माधवम् इति । नूनं लक्ष्म्यापि निगूढम् अयं वृतोऽस्तीति सदाचार-प्रश्नेनायं दोष इति भावः । स्थापयिष्यते चेदम् एवं ब्रुवाणा इत्य् आदौ ।
ननु कुल-वृद्धादयस् त्व् इदम् औद्धत्यं दृष्ट्वा शान्तिं करिष्यन्ति ? तत्राहुः—किं न इति । कुलस्य वृद्धा धर्म-प्रवर्तका बान्धवाः स्नेहादि-बद्धाः पत्य्-आदयश् च धार्ष्ट्यं दर्शनेन निश्चित-रहस्य-वृत्तान्ता अपि नोऽस्माकं किं करिष्यन्ति यतो दैवेनापरिहारेण निजादृष्टेन हेतुना यो मुकुन्द-सङ्गस् तत्-प्रथम-दर्शनादिस् तेनैव विध्वंसितानि देह-गेहाद्य्-आसक्तितो विचालितानि तथा यथा मनो-रथं तद् अप्राप्त्या दीनानि च चेतांसि यासां तासाम् ।
नन्व् अतो दैवेन तद्-वियोजनम् अधुना भद्रम् एव कृतम् ? तर्ह्य् अधुनापि तत्-सङ्गाग्रहस् त्यज्यताम् । तत्र सभयम् आहुः—निमेषेति । यद् वा, युष्माकं ते किञ्चिद् अपि न करिष्यन्ति ? तत्राहुः—मुकुन्देति । मुकुन्दस्य सानुरागेण कुल-वृद्धा देव्यो मोचकत्वात् तन्-नाम्नस् तस्य माधवस्य सङ्गाद् दैवेन विध्वंसितः । अत एव दीन-चेतसः यास् तासाम् अस्माकं कीदृशान् मुकुन्द-सङ्गान् निमिषार्धेऽपि दुस्त्यजत्वेन पूर्वम् अस्माभिर् अनुभूताद् इत्य् अर्थः । अयं भावः—यद्य् असौ निवृत्तः स्यात् तस्य यदि तैस् त्यज्येमहि, तदा वन-देव्य इव वृन्दावनैकशरणा भूत्वा तं सुखम् एव निषेधेमहि । यदि दण्ड्येमहि निरुध्येमहि च, तदापि तन्-निवृत्तिं दृष्ट्वैव म्रियेमहीति सुखम् एव यदि न निवृत्तः स्यात् तदोत्सर्ग-सिद्धम् एव मरणं स्याद् इति न किम् अपि ते कुर्युस् ततो निवारयाम एवेति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : माधवं लक्ष्म्या अपि पतिभाव-हेतु-गुण-वृन्दम् इत्य् अर्थः ॥२८.३३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परस्परं संमन्त्र्य साहसम् अधिरुह्याहुः—निवारयामः सम्यग् उपेत्य् वस्त्र-हस्ताकर्षणादिना । भोः प्राणैक-वल्लभ ! रथाद् अवतरावतर ! त्वं स्त्री-वध-कोटीं मा गृहाणेति वाग्भिर् अपि निवर्तयामः । ननु कुल-वधूनाम् अस्माकम् एतावद् अतिधार्ष्ट्यं दृष्ट्वा लोका हसिष्यन्ति रहस्यम् उद्घाटितम् आलक्ष्य बन्धवोऽपि त्यक्ष्यन्ति । तत्राहुः—किं नोऽकरिष्यन् करिष्यन्ति । कीदृशानां निमिषार्धम् अपि व्याप्य त्यक्तुम् अशक्यात् मुकुन्दस्य सङ्गाद् दैवेन विध्वंसिता वियोजिता । अत एव दीन-चेतसश् च यास् तासाम् अस्माकम् । अयं भावः—यद्य् असौ निवृत्तः स्यात्, तदा यदि बन्धुभिस् त्यज्येमहि, तदा वन-देव्य इव वृन्दावने स्थास्याम इत्य् अभीष्ट-सिद्धिर् एव यदि वा दण्डयेमहि रुध्येमहि वा, तदाप्य् एक-ग्राम-स्थिति-ज्ञानेन सखी-जन-चातुर्य-प्रापितैतन्-निर्माल्य-माल्य-चर्चितादिना च सुखम् एव जीवामः । यदि चासौ नैव निवृत्तः स्यात्, तदोत्सर्ग-सिद्धं मरणम् अस्माकम् अस्त्य् एवेति ॥२८॥
॥ १०.३९.२९ ॥
यस्यानुराग-ललित-स्मित-वल्गु-मन्त्र-
लीलावलोक-परिरम्भण-रास-गोष्ठ्याम् ।
नीताः स्म नः क्षणम् इव क्षणदा विना तं
गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इतोऽपि कारणाद् अवश्यं साहसम् एवावलम्बनीयम् इत्य् आहुः—हे गोप्यः !यस्यललितं स्मितं च, वल्गु मन्त्रश् च, लीलावलोकश् च, परिरम्भणं चानुरागेणैतानि यस्यां रास-गोष्ठ्यां रास-क्रीडा-सभायां नोऽस्माभिः क्षणदा रात्रयः क्षणम् इव नीताः,तम् अमुं कृष्णं विना दुरन्तं तमो विरह-दुःखं कथं नु अतितरेम? न कथञ्चिद् इत्य् अर्थः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽपि वक्ष्यमाणाद् अपि । क्षणं निद्रावसरं सुरतोत्सवं वा ददतीति क्षणदाः, क्षणः कालांश-व्यापार-पर्वोत्सव-हानिषु इति धरणिः । इत्य् अर्थ इति— प्रिय-विरहे क्षणम् अपि युगशतम् इव तर्तुम् अशक्यं भवतीति भावः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्यप्य् अनुरागेणैव ललित-स्मितादीनि प्रायो जायन्ते, तथापि अनुरागेति प्रयोगो रास-क्रीडानां प्रेमाधिक्य-विवक्षया तत्र वल्गु-मन्त्रो मधुर-रहस्य-संकेत-वार्ता, लीलावलोकः सविभ्रम-क्षण-मोक्षः । स्म निश्चये । नु खेदे । अतितरेमेति तमसः समुद्रत्वं ध्वन्यते । तत्रापि दुरन्तम् इति परम-महत्त्वम् । तत्रापि हे गोप्य इति प्रेम-कोमलानां तासां परम-दुस्तरत्वम् अभिप्रेतम् । अत एव तत्-तरणस्य दुष्करत्वेनाति-शब्दः । अन्यत् तैर् व्याख्यातम् ।
पक्षान्तरे—ननु दैव-कृत-दुःखं धैर्यतो विचारेण सोढुम् एव युज्यते ? तत्राहुः—यस्येति । यथा रास-क्रीडा-सुखेन बह्व्योऽपि रात्रयः क्षणा इव भवन्ति, तथा तद्-विरह-दुःखेन क्षणोऽपि युग-शतम् इव स्यात्, अतस् तत् सह्यं न स्याद् इति भावः । अनुराग-कृत-ललित-स्मितादीनां तत्-सङ्गत्या परमानन्द-प्रदानाम् अपि तद्-विरहेण तत्-तत्-स्मरण-विशेषेणार्ति-भरोत्पादकत्वात् । अन्यत् समानम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ निवारणार्थम् उद्यता अपि बहु-विरुद्ध-सङ्घट्टे तस्मिन् स्वेषां प्रवेशम् अदृष्ट्वा सभयम् आहुः—यस्येति । रासोपलक्षणत्वेन लीलान्तरम् अपि ज्ञेयम् । वल्गु-मन्त्रः मधुर-रहस्य-सङ्केत-वार्ता । स्म विस्मये । नु वितर्के । तरणस्य दुष्करत्वेनाति-शब्दः यथा रास-क्रीडा-सुखेन बह्व्योऽपि रात्रयः क्षण इव भवन्ति स्म, तथा तद्-विरह-दुःखेन क्षणोऽपि युग-शतम् इव स्यात्, अतस् तत् सह्यं न स्याद् इति भावः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इतोऽपि कारणान् निवारयाम एवेत्य् आहुः—यस्यानुरागेणैव ललित-स्मितादीनि यस्यां तत्रैव वल्गु-मन्त्रो रहस्य-सङ्केत-वार्ता । रास-गोष्ठ्यां रासोपलक्षित-क्रीडा-मात्र-सभायां नोऽस्माभिः क्षणदा रात्रयः क्षणम् इव नीताः । तं कृष्णं विना दुरन्तम् अदृष्ट-पारं तमो विरहान्धकार-दुःख-समुद्रं नु निश्चितं कथम् अतितरेम । यथास्य सङ्ग-सुखेन बह्व्योऽपि रात्रयः क्षण इवाभुवंस् तथैव विरह-दुःखेन क्षणोऽप्य् अस्माकं युग-सहस्रं सदा भवत्य् एव, किन्तु बह्वी रात्रीर् आगामिनीर् गमयितुं कथं प्रभविष्याम इत्य् अर्थः ॥२९॥
॥ १०.३९.३० ॥
योऽह्नः क्षये व्रजम् अनन्त-सखः परीतो
गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् ।
वेणुं क्वणन् स्मित-कटाक्ष-निरीक्षणेन
चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, आस्तां तावत् तमोऽतितरणं, जीवनम् एव कथं स्याद् ? इत्य् आहुः—य इति । अह्नः क्षये दिनावसाने खुर-रजोभिश् छुरिता धूसरा अलकाः स्रजश् च यस्य, स व्रजं विशन्स्मितेन यत् कटाक्ष-निरीक्षणं, तेन नश् चित्तं क्षिणोति हरति । अमुं कृष्णं विना कथं भवेम जीवेम ? ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जीवनेऽपि ससन्देहा आहुः—किं चेत्य् आदि । आस्तां तिष्ठतु । छुरिता व्याप्ताः, छुरितं व्यापने छेदे इति निरुक्तेः । न कथम् अपीत्य् अर्थः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनन्तः शुभ्र-वर्णः शेषावतारः श्री-बलदेवस् तस्य सखा तत्-सहित इत्य् अर्थः । अतः स्नेहान् मिथः संलग्नताधिक-शोभा च सूचिता । गोपैर् वयस्यैः परितो वेष्टितः । अह्नः क्षय इत्य्-आदिकं स्वरूप-कथनम् अपि शोभा-विशेषं बोधयति, तत्र च क्षणोऽपाङ्ग-दर्शनम् इत्य् अभिधानात्, स्वत एव निरीक्षण-प्रयोगः प्रायो निरीक्षणस्य क्षणात्मता-बोधनार्थम् ।
यद् वा, क्षणोऽपाङ्ग-कूणनम् । निरीक्षणं स्तनाद्य्-अवलोकनं चित्तं क्षिणोति, प्रेमोद्रेकेण सम्मोहयति । नु खेदे । पक्षान्तरे च । अतोऽद्य सायम् एवात्रत्याः सर्वे वयं मरिष्याम इति भावः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनन्तः सङ्कर्षणतया तद्-एक-नामत्वात् शुभ्र-वर्णत्वेन सारूप्याद् अनन्त-बलत्वाच् च व्रजे कृष्ण-नामान्तरवत् तथा प्रसिद्धः श्री-बलदेवस् तस्य सखा तत्-सहित इत्य् अर्थः । गोपैर् वयस्यैः परितो वेष्टितः स्मितं मन्द-हासः क्षणेऽपाङ्ग-दर्शनं तत्-प्रधानं निरीक्षणं वक्षोजादि-निभालनं तेन चित्तं क्षिणोति प्रेमोद्रेकेण सम्मोहयति न आशङ्कायाम् अतोऽद्य स्वयम् एवात्रत्या मरिष्याम इति भावः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चाद्यैव सायं मरिष्याम इत्य् आहुर्—य इति । अह्नः क्षये दिनावसाने अनन्तस्य रामस्य सखा व्रजं विशन् क्वणयन् निरीक्षणं वक्षोजादि-निभालनं, तेन चित्तं क्षिणोति सम्मोहयति । अमुं कृष्णम् ऋते कथं भवेम जीवेम ? इति । अद्य सायं तत् तद् यदि न भविष्यति, तदा का खलु जीवितं धारयितुं पारयिष्यति इति भावः ॥३०॥
॥ १०.३९.३१ ॥
श्री-शुक उवाच—
एवं ब्रुवाणा विरहातुरा भृशं
व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः ।
विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविन्द दामोदर माधवेति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्णे विषक्तानि मानसानि यासाम् । सु-स्वरम् उच्चैः ।
क्रूरम् अक्रूरतः श्रुत्वा कंसं कंस-निषूदनः ।
गोपी-मनोरथारामः स-रामः स्व-पुरं ययौ ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । गोविन्देत्य् अनेन दीन-दयालुता । दामोदरेत्य् अनेन भक्तायत्तता । माधवेत्य् अनेन मधोः क्षत्रियत्वेन तद्-वंश्यत्वात् क्रौर्यं वा स्त्रीषु कृपालुता च ध्वनितेति भावः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं भृशं ब्रुवाना इत्य् अन्यद् अपि तादृशम् ऊचुर् इति ज्ञेयम् । तत्र हेतुः—विरहेणातुरा विवशाः । तत्रापि हेतुः—व्रज-स्त्रियः सहज-प्रेम-रसमय्य इत्य् अर्थः । अत एव कृष्णे विषक्तानि प्रेम्णा सक्तानि मानसानि यासां ताः । अत एव लज्जां हित्वा सुस्वरं करुणोच्च-स्वरेण रुरुदुः । स्म प्रसिद्धौ खेदे वा ।
कथं रुरुदुः ? हे गोविन्द ! हे दामोदर ! हे माधव ! इत्य् एवम् । तत्र गोविन्देति गोकुलेन्द्र-स्मरणम्, त्वां विना गोकुलम् इदं सर्वं क्षणाद् एव विनङ्क्ष्यतीति भावः । दामोदरेति भक्त-वात्सल्य-प्रदर्शकं मधुर-लीला-स्मरणं तादृश-भक्त-वात्सल्य-मयस्यास्मत्-परित्यागो नोचित इति भावः । माधवेति परम-सौन्दर्य-वैदग्ध्यादि-स्मरणम् । ईदृशस्य तव विच्छेदे कथं जीवेम, मरणे च हा पुनर् न द्रष्टव्योऽसीत्य् एषा दिक् । च-कारोऽनुक्तानाम् अन्येषाम् अपि करुण-परिदेवितानां समुच्चये । तथा रोदने हेतुः—कृष्णेत्य्-आदि । तद्-आसक्त-चित्तत्वात् तन्-नाम-व्यतिरिक्तोच्चारणाशक्तेः । स्वभावतश् च तथैव परिस्फूर्तेर् इति भावः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ भृशं विरहातुरत्वेन विशेष-विलाप-शक्त्या शोकोद्दीपक-तन्-नाम-विशेषैर् एव विलेपुर् इत्य् आह । एवम् ईदृशं भृशं ब्रुवाना इत्य् अन्यद् अपि तादृशम् ऊचुर् इति ज्ञेयम् । तत्र हेतुर् विरहेणातुरा विवशाः । तत्रापि हेतुः—व्रज-स्त्रियः सहज-प्रेम-रसमयत्वेन प्रसिद्धा इत्य् अर्थः । अत एव कृष्णे विषक्तानि प्रेम्णा सक्तानि मानसानि यासां ताः । अत एव लज्जां हित्वा सुस्वरं करुणोच्च-स्वरेण रुरुदुः । स्म पाद-पूरणे । तच् च प्रेमार्तेर् अशक्त्या कथं रुरुदुः ? हे गोविन्द ! दामोदर ! माधव ! इति । एवम् अत्र गोविन्देति गोकुलेन्द्र-स्मरणात् त्वां विना गोकुलम् इदं सर्वं क्षणाद् एव विनङ्क्ष्यतीति सूचयन्ति । दामोदरेति नाम श्री-व्रजेश्वर्याः स्व-कृतानुताप-स्मारकं ततस् त्वां विना तस्यास् तस्य स्मरणेन सम्प्रति कीदृग् अवस्था भविष्यतीति व्यञ्जयन्ति । माधवेति जयति तेऽधिकं जन्मना व्रज इत्य् अनेन सततम् उरसि सौम्या श्रीर् वधूः साकमास् ते इत्य् अनेन च निज-सम्भावनानुसारेण तया श्री-नारायण-प्रियस्यापि गूढं वृत इति परम-सन्-नायकस् त्वं योग्यम् एवास्मन्-महानुराग-विषयो जात इति स्मरणेन हन्त कथम् अस्माकम् अधुना काल-क्षेपणं भविष्यतीति ज्ञापयन्ति मा नाम्नीं नारायण-प्रियाम् अपि धुनोति भाव-विशेषेण कम्पयतीति निरुक्तिश् चात्र प्रस्तुतोपयोगिनीं ज्ञेया ईदृशस्यापि तव विच्छेदे वयं वा कथं जीवेम मरणे च हा पुनर् द्रष्टव्यो नासीद् इति ध्वनयन्ति । च-कारोऽनुक्तानाम् अन्येषाम् अपि नाम-मय-करुण-परिदेवितानां समुच्चये ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं विलप्य कृष्णं रथाद् अवतारयितुं संहता एव यदा गन्तुं प्रवृत्तास् तदोरु-स्तम्भादि-विघ्न-वशाद् असामर्थ्ये सति केवलं रुरुदुर् एवेत्य् आह—एवम् इति । विरह-पीडया आतुराः एकम् अपि पदं गन्तुं स्पष्टाक्षरतया वक्तुं चासमर्थाः । हे गोविन्द इत्य् अनेनास्माकं गा मनश्-चक्षुर्-आदीन्द्रिय-वृत्ति-गवीः परः-सहस्रा विन्द लभस्व, त्वत्-सङ्ग एव गच्छन्तीर् एताः कृपया गृहाण स्वीय-मनो-वृषभेन्द्रेण सह सङ्गमय्य रक्ष न तूपेक्षस्व देहास् त्व् अस्माकं त्वत्-सङ्गायोग्यत्वाद् दुर्भगा अत्रैव पञ्चत्वं प्राप्स्यन्ति । यदि त्वं नागमिष्यसीति विज्ञापना । किं च, स्त्री-वधान् जिघृक्षसि चेद् गृहाण यस्याः प्रेम्णा दाम-बन्धनम् अपि स्वीकृतवान् अभूस् तां मातरं श्री-व्रजेश्वरीं मा जहि । यदि परश्वस् त्वं नायास्यसि, तदा सा सर्वथा मरिष्यतीति । मातृ-हत्यां तु मा गृहाणेति । हे दामोदरेति पदेन विज्ञापना । हे माधवेति त्वम् अस्माकं मा खलु धवः किन्तु सखा भवसि । यदि धवोऽभविष्यस् तदा अस्मासु तव स्वत्त्व-सम्भवात् स्व-वस्तूनां पालने ज्वालने वा नैवातिदोषं प्राप्स्यः, किन्तु वयं पर-द्रव्याणि भवामोऽतोऽस्मन्-नाश-निबन्धनं दोषं माङ्गीकृथा इति विज्ञापना द्योतिता ॥३१॥
॥ १०.३९.३२ ॥
स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ ।
अक्रूरश् चोदयाम् आस कृत-मैत्रादिको रथम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्रीणाम् इति । ता अनादृत्य कृत-मैत्रादिको मैत्रं मित्र-दैवतं सन्ध्योपासनं तद् आदि-कर्म कृतं येन सः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपी-मनोरथानाम् एवारामो निवासः सन् स्व-पुरं मथुरां मथुरां मथुरायाः स्वीयावासत्वात्, मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भा।पु। १०.१.२८] इत्य् उक्तेः स्व-पुरत्वम् इति । अनाश्वासितास् ता रुरुदुर् इत्य् आह—स्त्रीणाम् इति । ताः साक्षाच् छ्रुति-रूपाः । नित्रदैवतं सूर्य-रूपतयोपदिष्टं ब्रह्म यत्र गायत्री-मन्त्रे तज्-जपाग्र्यं कर्म । यद् वा, कृत-सूर्य-मण्डलाधिष्ठित-नारायणोपासनः,
ध्येयः सदा संवृति-मण्डल-मध्य[-]{दिर्=“र्त्ल्”}वर्ती > नारायणः सरसिजासन-सन्निविष्टिः । > केयूरवान् मकर-कुण्डलवान् किरीटी > हारी हिरण्मय-वपुर् धृत-शङ्ख-चक्रः ॥ इति स्मृतेः ।
यश् चासाव् आदित्ये इत्य्-आदि-श्रुतेश् च । आदि-पदात् स्तव-पाठादि-ग्रहः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेत्य् आनन्तर्यं, अप्य्-अर्थे वा । एवम् उक्त-प्रकारेण रुदतीर् अपि स्त्रियोऽनादृत्येति अक्रूरस्यापराधो ध्वनितः । स्वतः सर्वैर् एवानुकम्प्यानां तत्रापि तादृश-श्री-कृष्ण-प्रेम्णा तथा रुदतीनां व्रज-स्त्रीणां श्री-कृष्ण-द्वारा स्वयम् एवानुनयं विना प्रस्थापनात् । अतः प्राग् उक्तं—योऽसाव् अनाश्वास्य [भा।पु। १०.३९.२६] इति । श्री-विष्णु-पुराणेऽपि—
अक्रूरः क्रूर-हृदयः शीघ्रं प्रेरयते हयान् । > एवम् आर्तासु योषित्सु न घृणा तस्य4 जायते ॥ [वि।पु। ५.१८.३०] > इति ।
अत एव भाव-विशेष-पराः श्री-वैष्णवाः केचिद् एतद् अपराध-फलम् अक्रूरस्याग्रे वक्ष्यमाण-स्यमन्तक-प्रसङ्गे मन्यन्त इति । तच् च तत्रैव विस्तारयितव्यम् । सूर्य उदित एवेति सल्लग्नाद्य्-अपेक्षया । किं वा, निशि नयनेन चौर्यापत्त्या भाविनो गोपीनाम् अधिकतर-शोकस्य परिहारार्थम् । यद् वा, विरहार्ति-भरेण तासां रथाग्रे पतन-सम्भावनया रक्षार्थम् । अन्यथा रात्रौ सम्यग्-दर्शनाभावतो रथेन तासां निपातनाद् इति दिक् ।
कथं द्वाभ्यां भ्रातृभ्यां ताभ्याम् आरूढम् इति, अनार्द्रधीर् एष समास्थितो रथम् [भा।पु। १०.३९.२७] इति पूर्व-सूचनयाग्रे वक्ष्यमाणानुसारेण च बोद्धव्यम् । साक्षाद् अत्र तद्-अनुक्तिर् विरहार्ति-विशेषस्योदय-भयात् । तेनैव वा वाक्-स्तम्भात् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण रुदतीर् अपि स्त्रियोऽनादृत्येति अक्रूरस्यापराधो ध्वनितः स्वतः सर्वैर् एवानुकम्प्यानां तत्रापि तादृश-श्री-कृष्ण-प्रेम्णां तथा रुदतीनां व्रज-स्त्रीणां कथम् अपि सान्त्वनम् अनपेक्ष्य प्रस्थानात् । अतस् ताभिर् अपि तद्-अपराधं मत्वा प्राग् उक्तं— योऽसाव् अनाश्वास्य [भा।पु। १०.३९.२६] इति । श्री-विष्णु-पुराणेऽपि—
अक्रूरः क्रूर-हृदयः शीघ्रं प्रेरयते हयान् । > एवम् आर्तासु योषित्सु न घृणा तस्य5 जायते ॥ [वि।पु। ५.१८.३०] > इति ।
अत एव श्री-गोकुल-महि-ज्ञास् तु तद्-अपराधस्य फलम् अक्रूरस्य वक्ष्यमाणे स्यमन्तक-प्रसङ्गे मन्यन्ते सूर्य उदित एवेति सल्लग्नाद्य्-अपेक्षया रथं भ्रातृभ्यां ताभ्याम् इति शेषः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्त्रीणाम् इत्य् अनादरे षष्ठी । भो मातरः ! क्षमध्वं पराधीनस्य राज-सेवकस्य ममापराधम् एषोऽहम् एव कृष्णम् आनीय समर्पयिष्यामीत्य् आश्वासनाकरणम् एवानादरः । अत एतद् अनादर-लक्षणापराध-फलम् अक्रूरस्य स्यमन्तक-प्रसङ्गे कृष्ण-विच्छेद-दुःखं द्वारका-त्यागं दुर्यशो वाराणसी-वासं च भावक-भक्त-विशेषाः केचिन् मन्यन्ते कृतं मैत्रं मित्र-दैवत्यं दैहिकं तदादिकं स्नान-सन्ध्योपासनादिकं कर्म येन सः । अत्र गोपी-विलापाद् विनिमग्न-सम्पूर्ण-चेतस्त्वाद् एव मुनिना तात्कालिक-व्रजेश्वरी-विलापावर्णनम् इति वैष्णव-तोषिणी धनुर्-महोत्सव-दर्शन-सोत्कण्ठा-मना बालकोऽयं स्व-पित्रा सहैव याति यथा-समयं पित्रैव भोजयिष्यमाणः पितुर् अङ्ग एव सुखं शयिष्यमाण एक-दिनं तत्र स्थित्वा परश्वः पुनः स्व-पित्रा सहैवायास्यति । कात्र चिन्तेति पुरन्ध्रीभिर् गोपैश् च नन्दादिभिश् च मुहुर् आश्वासितायास् तस्यास् तदानातिशोक इत्य् अन्ये प्राहुः ॥३२-३३॥
॥ १०.३९.३३ ॥
गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः ।
आदायोपायनं भूरि कुम्भान् गो-रस-सम्भृतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वसज्जन्त अन्वगच्छन् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । ततो व्रजात् । तं रथम् । अन्वषज्जन्त पश्चाद् अगच्छन् । नाना-शङ्काकुल-चित्तत्वात् । आद्य-पदेन सनन्दादयः । तत इत्य् अनेन सूचिते विलम्बे हेतुः—उपायनं रत्नाद्य्-उत्तम-द्रव्यम् । कुम्भांश् चेति यात्रा-मङ्गलम् अपि सूचितम् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं रथम् अन्वसज्जन्त, अत्यन्त-संलग्नतया पश्चाद् अगच्छन्न् इत्य् अर्थः, विविध-शङ्काद्य्-आकुल-चित्तत्वात् । आद्य-शब्देन उपनन्द-सन्नन्दादयो वृद्ध-मुख्याः श्रीदामादयश् च श्री-भगवत्-सहचराः । ततोऽक्रूरेण रथ-चोदनानतरम् इति । गोपीनाम् ईदृशार्ति-रोदनेन श्री-कृष्णः कदाचिद् एव न प्रयायाद् इति प्रयाणे शिथिल-चित्तानां श्रीदामादीनां तद्-रथ-चोदनानन्तरम् एव तत्-प्रयाणे निश्चयाद् इत्य् अर्थः । उपायनं रत्नाद्य्-उत्तम-द्रव्यम् । गोरसैर् घृतादिभिः सम्यग्-भूतान् पूरितान् कुम्भांश् च । यद् वा, भूर्य्-उपायनम् एव निर्दिशति—कुम्भान् इति । शकटैर् एवादाय दुष्ट-कंसस्य प्रीत्य्-उत्पादनार्थम् । एवं यात्रा-मङ्गलम् अपि सूचितम् । घृतादि-पूर्ण-घट-दर्शनात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं रथम् अन्वसज्जन्त पश्चाद् अगच्छन् विविध-शङ्काद्य्-आकुल-चित्तत्वात् आद्य-शब्देन सन्नन्दादयश् च तत इत्य् अनेन सूचिते विलम्बे हेतुः—उपायनं रत्नाद्य्-उत्तम-द्रव्यं कुम्बांश् च । एवं यात्रा-मङ्गलम् अपि सूचितम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.३४ ॥
गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः ।
प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुरञ्जिताः परावृत्य निरीक्षणादिभिः किञ्चिद् आनन्दिताः । प्रत्यादेशं प्रत्याख्यानम् ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रत्याख्यानं तिष्ठन्तु नायान्त्व् इति गमन-निषेध-रूपम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्व्-अर्थे च-कारो भिन्नोपक्रमे । सह गच्छतां गोपानां प्रसङ्गतो विरहिणीनां तासां प्रसङ्गस्य पराभिन्नत्वात् । अनुव्रज्येत्य् अत्र हेतुः—दयितं प्राणेभ्योऽपि प्रियम् इत्य् अर्थः । अन्यथा प्राणाः स्वयम् एव सद्यस् तम् अनुगच्छेयुर् इति भावः । किं च, कृष्णं परमाकर्षकम् अनुरञ्जिता इति तैर् व्याख्यातम् एव । तत्र महार्ति-रोदनासहिष्णुतया सहसा रथाद् अवप्लुत्यालिङ्गनादिना ता अनुरञ्जिताः । पुनश् च रथ आरूढ इति बोद्धव्यम् । प्रत्यादेशं प्रत्याख्यानं निवर्तध्वम् इति स्वेषाम् अनुगमन-निवारणम् । यद् वा, गमने वैमुख्येनाक्रूर-वचनादि-खण्डनं निवर्तनम् एवेति । यद् वा, दूतादि-द्वारा अवधि-करणार्थं निज-विज्ञप्ति-वाक्यस्य प्रतिवचनम् इत्य् अर्थः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रत्यादेशं गमने वैमुख्येनाक्रूर-वचनादि-खण्डनम् । यद् वा, दूतादि-द्वारावधि-करणार्थ-निज-विज्ञप्ति-वाक्यस्य प्रतिवचनम् इत्य् अर्थः । अवतस्थिरे दूरतस् तद्-दृष्टि-विषये परमोच्च-देशे सावधानतया स्थिता इत्य् अर्थः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रत्यादेशं प्रत्युत्तरम् ॥३४.३६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुरञ्जिताः कृष्णेन रथस्थेनैव पश्चिमाभिमुखीभूय स्व-प्रेयसीनां निर्गच्छतः प्राणान् आलक्ष्य—भोः प्राणैक-वल्लभा मा खिद्यत एषोऽहम् एतान् वञ्चयित्वा युष्मत्-सन्निधिम् एष्यामीत्य् अर्थ-द्योतकेन निरीक्षणेन किञ्चिद् आनन्दिताः । ततश् चोर्वादि-जाड्ये किञ्चिन् निवृत्ते सति । गोप्यश् चेति यथा गोपा आनन्देन रथम् अनुव्रजन्ति स्म, तथा गोप्यश् च दयितम् अनुव्रज्य प्रत्यादेशं [दूतादि-द्वारावधिकरणार्थ-निज-विज्ञप्ति-वाक्यस्य प्रतिवचनं] काङ्क्षन्त्यश् चावतस्थिरे । नयन-कृतम् आश्वासं यथा प्रापुस् तथा वचन-कृतम् अपि तम् अभिलषण्त्य इत्य् अर्थः । [दूरतस् तद् दृष्टि-विषये परमोच्चे देशे सावधानतया स्थिता इत्य् अर्थः] ॥३४॥
॥ १०.३९.३५ ॥
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तप्यतीः सन्तप्यमानाः । आयास्ये शीघ्रम् आगमिष्यामीति दूत-वाक्यैः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गोपीः । तथोक्त-प्रकारेण । पाठान्तरे सम्प्रेष्यैः प्रेषितुं योग्यैः—भवतीर् ध्यायन्न् एव कञ्चित् कालं तत्र स्थास्य इत्य् एवं-रूपैः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि स्वस्य भगवतः प्रस्थाने सति विषये वा तथा अनिर्वचनीय-प्रकारेण तप्यतीस् तापं प्राप्नुवतीर् वीक्ष्य प्रेम-सहितैर् विविध-शपथादि-पूर्वकैर् इत्य् अर्थः । यदूत्तमः—निज-कारुण्याद्य्-अशेष-गुण-विस्तारणार्थं यदु-कुलेऽवतीर्ण इति तद्-योग्यतां दर्शयति । यद् वा, यदु-वंश्य-श्रेष्ठत्वात् । "यदूनां रक्षार्थम् एव केवलं यामि, तत्-सम्पादनानन्तरं चाहम् आगत-प्रायः" इत्य्-आदि-रूपैर् इत्य् अर्थः । एतच् च दन्तवक्रं हत्वा श्री-भगवता गोकुले गतम् इति स्व-वचः सत्यता-करणं पाद्मोत्तर-खण्डे कथितम् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केचित् तु यद् एवं व्याचक्षते दूत-द्वारक-सन्देश-स्वरूपैर् आयास्यामि, न तु स्वयम् इति तद् असत् । इति-शब्दस्य सर्वान्ते निर्देशाभावात् तद्-अप्रतिपत्तेः । सन्देश-मात्रागमने प्रत्युत तासां परम-क्षोभापत्तेः, आगमिष्यत्य् अदीर्घेन कालेन व्रजम् अच्युत [१०.४६.३४] इत्य् अनेन परमाप्त-दूतस्य श्रीमद्-उद्धवस्य वाक्येन तद्-उच्छित्तेः ।० दौत्यकैर् गोप्यतया वारं वारं बहुभिर् दूत-वचनैः स-प्रेमैर् विविध-शपथादि-पूर्वकं स्नेह-मयैः, न तु सच्छलैर् इत्य् अर्थः । यदूत्तम इति—सम्प्रति तन्-नामाभिमत्यैव तद्-रक्षा-निश्चयात् । गमने हेतुः—आयास्ये इति । वर्तमान-सामीप्ये वर्तमानवद् वा इति तत्र लृट्-प्रयोगोऽपि । तच् च दन्तवक्त्र-वधानन्तरं सिद्धम् इति पाद्मोत्तर-खण्डं मूल-स्वारस्यं च तत्रैवोदाहरिष्यते ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तप्यतीः सन्तप्यमानाः । यदूनां पालने प्रवृत्तमतित्वात् यदूत्तमःदौत्यकैर् दूत-वाक्यैः कर्मणि ष्यष् बहु-वचनेन यथा तासां प्रबोधो भवति, तथा बहु-प्रकारैस् तद्-विश्वासोत्पादक-शपथ-शत-सहितैर् इत्य् अर्थः । क-प्रत्ययेनानुकम्पा- व्यञ्जकैः । स-प्रेमैः स-प्रेमभिर् इति यथा, "यूयं मां विना विभिन्न-धैर्यास् तथैवाहम् अपि विदीर्ण-हृदय एव पराधीन एव भवतीनां स्मित-मधुर-क्षण-माध्वीकं त्रि-जगद्-अतिदुर्लभं स्व-धी-रसनया लिहन्न् एव जीवन् पुरीं यामि । यद्य् अहं पर-श्वो नागमिष्यामि, तदा यूयम् अहं च युगपद् एव प्राणान् धर्तुं न प्रभविष्यामः।" यद् वा, "परमायुः प्राबल्याद् आशा-बन्धाच् च जीविष्यामः, तद् अपि तज् जीवनं मरण-कोटितोऽप्य् अतिकष्टम्" इत्य्-आदि प्रेमामृत-म्रक्षितैर् इत्य् अर्थः ॥३५॥
॥ १०.३९.३६ ॥
यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्णम् अनु प्रस्थापिता आत्मानश् चित्तानि याभिस् ताः लेख्य-मय-पुत्रिका इव निश्चलाः ॥३६.३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि तासां सद्यः प्रायः प्राण-रक्षैव केवलम् अभूत्, न च शान्तिर् वृत्तेत्य् आशयेनाह—यावद् इति । यद् वा, तावद् उपलक्षिता उपलक्षण-मात्रत्वेन स्थिताः । न तु साक्षाज् जीवन् निज-रूपेणेत्य् अर्थः । आलक्ष्यते किञ्चिल् लक्षणेनेषद् दृश्यत इत्य् अर्थः । विकल्पे च-कारः । तावत् तं रथं रेणुं वा अनु पश्चात् प्रस्थापितात्मानः । अत एव निश्चेष्टतया लेख्यानीवोपलक्षिता लोकैः समीपे ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथापि तासां सद्यः प्रायः प्राण-रक्षैवाभूत्, न तु शान्तिर् इत्य् आह—यावद् इति । आलक्ष्यते किञ्चिल् लक्षणेनेषद् दृश्यत इत्य् अर्थः । तावत् तं रथं रेणुं चानु पश्चात् प्रस्थापितात्मानः, उपलक्षिता लोकैः समीपे दृष्टाः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आलक्ष्यते किञ्चिल् लक्षणेनेषद् दृश्यते इत्य् अर्थः । गच्छन्तं कान्तम् अनु प्रस्थापिता आत्मानो मनांसि याभिस् ताः । अत एव लेख्यानि चित्राणीव उप समीपेऽपि लक्षिता लोकैर् दृष्टाः ॥३६॥
॥ १०.३९.३७ ॥
ता निराशा निववृतुर् गोविन्द-विनिवर्तने ।
विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रिय-चेष्टितं कृष्ण-लीलां प्रगायन्त्यो विशोकाः सत्यः । यद् वा, विशिष्ट-शोकाः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दस्य गोकुलेन्द्रस्यापि विशेषेण गोकुलान्तः-प्रवेशादिना निवर्तने परावृत्तौ निराशाः, प्रिय-जन-परवशस्य पर-दुःखासहिष्णोस् तस्य निवृत्तौ कृताशानाम् अपि चिरं तस्यानिवृत्त्या तदानीं तद्-आशापगमात् ।
ननु कथं ताभिः प्राणाधारिताः ? इत्य् अपेक्षायाम् आह—विशोका इति । प्रियस्य श्री-कृष्णस्य चेष्टितं पूतना-वधादि-कर्म । किं वा, प्रियं चेष्टितं रास-क्रीडादि गायन्त्यो विश्लोकाः, अपगतोत्तापा गतान्य-शोचना वा । अहनी दिवा नक्तं च निन्युः । तच्-चेष्टित-गानस्य प्राण-रक्षा-हेतुत्वाद् इत्य् अर्थः । यद् वा, विविध-शोकाः सत्य एव । तत्र हेतु-विशेषः—गायन्त्य इति । प्रिय-चेष्टित-गानेन विरह-तापस्य विशेषतो वर्धनात् । यद् वा, ताः सर्वा गायन्त्यो\ऽपि विशोकाः सत्यो\ऽहनी निन्युः ।
किं वा, काक्वा काश्चिच् च न निन्युर् इत्य् अर्थः । तत्र हेतुः—गोविन्द-विनिवर्तने निराशा इत्य् एव । तद् विशेषस् तु श्री-बादरायणिना परमार्ति-हेतुत्वाद् अप्रकाशितो\ऽपि लीला-स्तोत्राद् अपि विज्ञेयः6 ।
यद् वा, तच्-चेष्टित-गानेन तत्-तल्-लीलाविष्टत्वात् साक्षाद् इव प्रियस्यानुभवेन विशोकाः । नित्य-लीलानुसारेण केचिद् वैष्णवा एव व्याचक्षते—ननु गो-गोपिका-सङ्गे यत्र क्रीडति कंसहा इत्य्-आदि पाद्म-पाताल-खण्डादि-वचनेभ्यस् तथा कैश्चिन् महा-भागवतैः श्री-बिल्वमङ्गलादिभिर् अद्यापि श्री-वृन्दावने तत्-तल्-लीला-दर्शनात्, कथं तस्य सर्वात्मना व्रज-त्यागः सम्भवेत् ? सत्यं, कृतासौ प्रकट-लीलाया अनुसारेण सार्वत्रिकी व्याख्या । इयं लीला सर्व-पुराणादिषु मुनिभिर् व्यक्ततया भण्यते । या खलु नित्य-लीला सा परम-निगूढा, तेनैषा श्री-भगवन्-मतानुसारिभिर् मुनिभिः प्रायो निह्नूयते, किन्तु कैश्चिन् महा-भागवतैः क्वचित् परोक्ष-वादेन क्वचिद् अतिसंक्षेपेणैव मनाक् सूच्यते । यथा दशमे\ऽत्रैवाग्रे—
पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग- > गूढः पुराण-पुरुषो वन-चित्र-माल्यः > गाः पालयन् सह-बलः क्वणयंश् च वेणुं > विक्रीडयाञ्चति ॥॥। [१०.४४.१३]
इत्य्-आदौ वर्तमान-निर्देशात् पुर-स्त्री-मुखेन सूचनम् । अत एकस्यैव भगवतः प्रकाश-भेदेनेदम् अविरुद्धम्, तेनैकेन प्रकाशेन कृष्णः सदा वृन्दावने विहरत एव । तथा च रुद्र-यामले—
द्विभुजः सर्वदा सो\ऽस्ति न कदाचिच् चतुर्भुजः । > गोप्यैकया युतस् तत्र परिक्रीडति नित्यदा ॥
एकया मुख्यया गोप्या श्री-राधया, ललितादीनां सम्भवे\ऽपि प्राधान्याभिप्रायेण गोप्येत्य् उक्तम् । तत्र वृन्दावने नित्यदा नित्यम् एव । तथा, वृन्दावने परित्यज्य स क्वचिन् नैव गच्छति इति पूर्वम् एव लिखितम् । तेन प्रकाशान्तरेण तु पुरीं प्रस्थित इति । अतः सर्व एवे श्री-भगवत्-प्रिय-जना व्रज-वासि-प्रभृतयो\ऽपि लीला-द्वये प्रकाश-भेदेन द्विधा वर्तन्ते, यथा द्वारवत्याम् एक एवोद्धवः श्री-नारदेनानेकत्र दृष्ट इति ।
ततश् चायम् अर्थः—प्रकट-लीलानुसारिण्यो व्रज-देव्यो गोविन्द-विनिवर्तने निराशा सत्यो निववृतुर् निवृत्ताः । एताः प्रत्य् एव श्रीमद्-उद्धवेन श्री-कृष्ण-सन्देशो वक्ष्यते, ता एव प्रकाशान्तरेण नित्य-लीलानुसारिण्यः । प्रिय-चेष्टितं प्रियं चेष्टितं च तदीयं रास-क्रीडादौ साक्षाद् एव गायन्त्यो विशोकाः शोकानभिज्ञाः परमानन्दे निमग्ना इति यावत् । अहनी रात्रिन्दिवं निन्युर् इति । पुनः प्रकट-लीलाम् एव कथयन्, तासाम् [१०.३२.२] इति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो गोविन्दस्य विशेषेण मथुरा-गमनोन्मुख्यं विनैव निवर्तने निराशाः किन्तु तत आगमन एव साशाः सद्यो निवृत्ता इत्य् अर्थः । आयास्य इति तेनोक्तत्वात् तथैवाह । प्रियस्य श्री-कृष्णस्य चेष्टितं तस्मान् मच्-छरणं गोष्ठम् इत्य्-आदि-लक्षणं तत्-तत्-प्रतिपालकं चरितम् आयास्य इत्य् अस्य प्रमाण-रूपं गायन्त्यो विशोका आशा-च्छेद-जातेन कर्म-पर्यन्त-भेदकेन प्रिय-विच्छेदं जानन्त्यस् तद्-दुःखाशङ्का-लक्षणेन शोकेन रहिताः सद्योऽहनी निन्युर् अदर्शन-दुःखातिशयं विषह्य गमयामासुः । अन्यथा क्षणम् अपि नागमिष्यन्न् इत्य् अर्थः । यथैव स्वयं श्री-भगवता वक्ष्यते—
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । > प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भा।पु। > १०.४६.६] इति ।
श्रीमद्-उद्धवेन च—
गायन्ति ते विशद-कर्म गृहेषु देव्यो > राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च । > गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः > पित्रोश् च लब्ध-शरणो मुनयो वयं च ॥ [भा।पु। १०.७१.९] > इत्य्-आदि ।
अहनी रात्र्य्-अहनी इत्य् अर्थः । तद्-विशेषस्-तु लीला-स्तोत्रादौ वर्णितः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गोविन्दस्य विशेषेण मथुरा-गमनं विनैव वर्तने निर्शाः किन्तु आगमन एव साशाः सत्यः निवृत्ता इत्य् अर्थः । अत एव विशोकाः पूर्वापेक्षया शोक-रहिता अपि प्रिय-चेष्टितम् एव गायन्त्योऽहनी निन्युर् इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोविन्दस्य विनिवर्तने निराशास् तास् ततः स्थानान् निववृतुः । स्वयम् एवासौ सर्वान् वञ्चयित्वा निवर्तिष्यत इति वा आशा आसीत् सा नष्टेत्य् अर्थः । विशिष्ट-शोकवत्य एव अहनी द्वे निन्युः । अहनी इत्य् आर्षम् । अहानीत्य् अर्थ इत्य् एके ॥३७॥
॥ १०.३९.३८ ॥
भगवान् अपि सम्प्राप्तो रामाक्रूर-युतो नृप ।
रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपि-शब्देन गोप-गणोऽपि । कालिन्दीं कलिन्द-गिरि-सम्भूताम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तासाम् इव श्री-कृष्णस्यापि परमार्तिर् जातेत्य् आह—भगवान् अपीति । यथा ताः तथा सो\ऽपीत्य् अपि-शब्दार्थः । तद् एव बोधयति—रामेणाक्रूरेण च युत इति ताभ्यां विविध-प्रबोधनादिना पार्श्व-द्वय-व्याज-धारणादिना च संयुक्ताव् इत्य् अर्थः । सम्यक् तत्-क्षणाद् एवान्तः-प्रवेशेन कालिन्दी प्राप्तः । तत्र हेतुः—वायु-वेगो यस्य तेन रथेनेति सहज-परम-जविनाम् अपि अश्वानाम् अक्रूरेण प्रयत्नतो मुहुः कशाघातैर् आशु प्रेरणात् कालिन्दी-प्राप्तिश् च मध्याह्ने इति बोद्धव्यम् ।
गच्छन्तो जवनाश्वेन रथेन यमुना-तटम् । > प्राप्ता मध्याह्न-समये रामाक्रूर-जनार्दनाः ॥ [वि।पु। ५.१८.३३] > इति पराशरोक्तेः ।
यद्यपि श्री-नन्द-गृहतः प्रसिद्धं श्री-यमुना-तटाक्रूर-तीर्थं क्रोश-द्वादश-मात्रान्तरे वर्तते, तथापि वायुवेगेन रथेन मध्याह्ने तत्-सम्प्राप्तिः श्री-गोपी-गणादीनां परिसान्त्वनेन, तथा मृतवत् पथि निपतितानां गोपीनां गवादीनां च वञ्चनाय वक्रातिवक्र-विविध-परिभ्रम-गत्या रथ-निःसारणेन च बहुल-कालात्ययाद् इति ।
हे नृपेति परम-शोकार्तं राजानं स्वस्थयति । यद् वा, स्वयम् एव शोकार्त्या सम्बोधयति । अघम् अपराधं नाशयतीति तथा ताम् इति श्री-गोपी-विषयकापराध-भयेनाक्रूरसय् तच्-छोधनार्थं स्नानाद्य्-अभिप्रायेणोक्तम् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तासाम् इव प्रिय-जन-प्रेमार्द्रता-स्वभावेन सकल-श्रुति-स्मृति-गीतस्य श्री-कृष्णस्यापि आर्तिर् जातैव, किन्तु गाम्भीर्येणैव गोपिता दौत्यकैर् इति बहु-वचनेन तद्-आवेश-सूचनात् । गमनं त्व् आवश्यकार्य-विशेषार्थम् एवेत्य् आह—भगवान् अपीति ।
सोऽपि तद्-दुःख-दर्शनाक्षमतया वायु-वेगेन तद्वत् शीघ्रतया चालितेन रथेन कालिन्दीम् अनन् तीर्थ-प्रदेशावच्छिन्नां सम्यक् प्राप्तः कीदृशीम् अघानि अङ्घोदुःख-व्यसनानि नाशयतीति तां निज-विरह-ताप-नाशिनीं सा भवेद् इति बुद्ध्येवेत्य् अर्थः ।
ननु तद् अदुःखं न तत्र स्पष्टं दृष्टम् ? तत्राह—रामेति । तत्-सङ्कोचान् निगूहितम् इति भावः।
ननु तर्हि व्याजेनापि कथं न निवृत्तः ? तत्राप्य् आह—रामेति । श्री-वसुदेवादि-त्राणाग्राहिणा तद्-युगल-सङ्गेन तस्यापि तद्-आवश्यक-कर्तव्यता भगवद्-उद्दीपनाद् इति भावः । कालिन्दी प्राप्तिश् चेयं मध्याह्नं तथा च श्री-विष्णु-पुराणे—
गच्छन्तो जवनाश्वेन रथेन यमुना-तटम् । > प्राप्ता मध्याह्न-समये रामाक्रूर-जनार्दनाः ॥ [वि।पु। ५.१८.३३] > इति ।
अत एवान्ये तत्-सङ्गेन गन्तुं न शक्ताः । तत्र तदानीं नन्दीश्वर-गिरि-सन्निहितः श्री-नन्द-निलय इति प्रसिद्धाव् अपि । यद्यपि तादृश-वेतस्य रथस्य तावान् विलम्बा न सम्भवति, तथाप्य् असौ मुहुर् दुतादि-द्वारा श्री-गोपिका-सान्त्वन-बाहुल्येन वृक्षावृततया रथ-गमने कौटिल्येन च ज्ञेयः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तासाम् इव लीला-रसाविष्टस्य श्री-कृष्णस्यापि दुःखं जातम् एव, किन्तु गोपितम् । तथापि गमनम् आवश्यक-कार्य-विशेषार्थम् एवेत्य् आह—भगवान् अपीति । सोऽपि तद्-दुःख-दर्शनाक्षमः सन् वायु-वेगेन तच्-छीघ्रतया चालितेन रथेन कालिन्दीं सम्प्राप्तः अघ-सङ्घानि दुःख-व्यसनानि नाशयतीति तां निज-विरज-ताप-नाशिनी सा भवेद् इति बुद्ध्येत्य् अर्थः । तत्-तद्-दुःखं न तत्र स्पष्टं तत्राह—रामेति । ताभ्यां सङ्कोचान् निगृहीतम् इति भावः ॥३८.४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.३९ ॥
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणि-प्रभम् ।
वृक्ष-षण्डम् उपव्रज्य स-रामो रथम् आविशत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वृक्षाणां षण्डं समूहम् उपव्रज्य ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कालिन्द्याम् । मृष्टम् अतिपूतम् । मणेर् दिन-मणेः । प्रभवत्य् उद्भवतीति तथा । एक-देश-न्यायोऽत्र बोध्यः । एक-देशस् त्व् आदिमोऽन्तिमो वातोऽत्रान्त्यक-देशो गृहीतः । निशम्य भानु-नन्दिनी इतिवत् । यथा वृषभानु-नन्दिन्या राधायां शिवेन भानु-नन्दिनीत्य् उक्तं तद्वद् इहापि श्याम-मणि-सदृशम् वा ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तस्यां कालिन्द्यां । उपस्पृश्य रथाद् अवतीर्य भगवान् आदाव् आचमनं कृत्वा श्री-गोप्य्-आदि-विरहोद्गताश्रु-लाला-धारादि-शोधनार्थम् । पीत्वेति वर्त्म-श्रमात् । किं वा, प्रिय-जन-प्रेम-वशतया तद्-विरह-तापेन सन्तापितस्य परिशोषितस्य चात्मनो\ऽनुसन्तर्पणार्थम् । मणिवत् प्रभा कान्तिर् यस्येति स्वच्छत्वं गाम्भीर्यं चोक्तम् । तेन शैत्यं सूचितम् । स-राम इति तस्यापि सर्वं तादृशत्वं सूचितम् । रथम् आविशत् पुनर् आरुह्य माध्याह्निक-ताप-वञ्चनार्थं रथ-नीडान्तः प्रविवेशेत्य् अर्थः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपस्पृश्य आचम्य । आविशत् आरुरोह ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.४० ॥
अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि ।
कालिन्द्या ह्रदम् आगत्य स्नानं विधिवद् आचरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शत्रुभ्यः शङ्कितः सन् रथोपरि निवेश्य ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । शत्रुभ्यः कंसानुयायिभ्यः । अधो-गतौ मा गृह्णीयुर् इति शङ्कितः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताव् उपामन्त्र्य स्पृष्ट्वा अनुज्ञाम् आदायेत्य् अर्थः । निवेश्य उपवेश्य । तद्-अभिप्रायस् तैर् व्यञ्जित एव । यद् वा, व्रजे गमन-शङ्कया निवेश्य कालिन्द्या ह्रद-गमनं तत्-तीर्थम् इति ख्यातम् । विधिर् यथा तथेत्य् अर्थः । विधिश् चादौ तीर्थ-प्रणामाचमनादि-लक्षणः पद्म-पुराणे यमुना-माहात्म्यादौ प्रसिद्धः । श्री-भगवद्-भक्ति-विलासे लिखित एव ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो श्री-व्रज-देवी-मनः-क्षोभात् किल तदाप्य् अक्रूरस्य तन्-निज-परम-मधुर-वैभवावगाहिता यथा ब्रह्मादेर् जाता, तथा न जातेत्य् आह—अक्रूर इति त्रिभिः । ताव् उपामन्त्र्य अनुज्ञाप्य रथापराति सुखोपवेशार्थं कालिन्द्या ह्रदम् अनन्त-तीर्थं तीरम् इति क्वचित् पाठः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रथोपरि निवेश्येति सुखोपवेशार्थं शत्रुवः शङ्कया वा ॥४०॥
॥ १०.३९.४१ ॥
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।
ताव् एव ददृशेऽक्रूरो राम-कृष्णौ समन्वितौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म वेदं जपन् । एव-शब्दः प्रतिबिम्ब-व्यावृत्त्य्-अर्थः ।
क्वेमौ बालौ क्व तौ मल्लाविति शङ्कित-चेतसे ।
अक्रूराय जले रूपम् अत्याश्चर्यं व्यदर्शयत् ॥४१.४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् कालिन्दी-ह्रदे । ब्रह्म अघ-मर्षण-सूक्तम् । तस्यैव निमज्ज्य जप-विधेः वेदं वा । तौ राम-कृष्णाव् एव । पद्यम्—इमौ राम-कृष्णौ । तौ चाणूर-मुष्टिकौ । यद्यप्य् अन्ये\ऽपि तत्र मल्लाः सन्ति, तथापि तयोः प्रधानत्वात् तच्-छब्देन तौ गृहीतौ । ताभ्याम् एवादौ तयोर् युद्धस्य प्रवृत्तत्वाद् वा । अत्याश्चर्यम् अदृष्ट-पूर्वम् ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निमज्ज्य जले\ऽवतीर्य । अघमर्षण इति केचित् । सनातनं नित्यम् इति तज्-जपस्याप्य् आवश्यकताभिप्रेता । अत एव जपन् । यद् वा, वेद-मातृ-रूपाया गायत्र्या सर्वाद्यत्वात् । यद् वा, सनातनो भगवान् श्री-नारायणस् तद्-उत्पन्नत्वेन तत्-तुल्यत्वात् सनातनम् इति । तथा चोक्तं षष्ठे—वेदो नारायणः साक्षात् स्वयम्भुर् इति शुश्रुम [६.१.४०] इति । यद् वा, सनातनं ब्रह्म श्री-भगवन्तम् एवेत्य् अर्थः । याव् उपामन्त्रितौ रथोपरि निवेशितौ च, ताव् एव समन्वितौ एकत्रैव वर्तमानौ । यद् वा, आधाराधेय-भावेनान्यो\ऽन्य-मिलितौ, तस्मिन् सलिल एव ददर्श ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सनातनम् इति विशेषणम् । तत्र भक्ति-विशेषे कारणं समन्वितौ पूर्ववद् एकत्रैव वर्तमानौ ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.४२ ॥
तौ रथ-स्थौ कथम् इह सुताव् आनकदुन्दुभेः ।
तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽक्रूरः । व्याचष्टाद्राक्षीत् । स्यन्दने रथे । इह जले ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह जले कथं स्तः ? आनकदुन्दुभेर् वसुदेवस्य सुताव् इति, श्री-भगवत्-परित्यागेन स्नानस्य बहुमतत्वाद् उत्पन्नेनापराधेन, ततश् चानकदुन्दुभिर् इति मनुष्यतापेक्षया तन्-नाम-मात्र-ग्रहणम् । अन्यथा वसुदेवस्येत्य् उक्ते\ऽपि नाम-साम्न्याद् वासुदेवत्वेन भगवत्त्व-स्पर्शः स्यात् । स्वित् किं न स्तः, न वर्तेते । उन्मज्ज्य जलाद् उत्तीर्य ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताव् इति युग्मकम् । इह जले इतीति एतद् विचिन्त्येत्य् अर्थः । तत्रापि स्यन्दनेऽपि यथा-पूर्वम् आसीनौ व्यचष्टेति पूर्वेणान्वयः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.४३ ॥
तत्रापि च यथा-पूर्वम् आसीनौ पुनर् एव सः ।
न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि रथे\ऽपि । व्यचष्टेति क्रिया-पदम् अपि आकृष्यते\ऽत्र । सो\ऽक्रूरः । पुनर् न्यमज्जत् । तयोः राम-कृष्णयोः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र स्यन्दने\ऽपि । च एव । यथापूर्वम् आसीनाव् एव । सो\ऽक्रूरो व्यचष्ट अपश्यद् इति पूर्वेणान्वयः । एव अपि पुनर् अपि । सो\ऽक्रूरो न्यमज्जत्, जले\ऽवततार । किम्-अर्थम्? मे मां प्रति सलिले यत् तयोर् दर्शनं तत् किं मृषा, तत्-तत्त्व-ज्ञानार्थम् इत्य् अर्थः । भूयो निमज्ज्येति शेषः । तत्रापि तस्मिन्न् अपि निमज्जने अहीश्वरम् अद्राक्षीत्, न तु कृष्ण-रामौ । पूर्वं यथा दृष्टौ तथेत्य् अर्थः । यद् वा, भूय इति पूर्व-दर्शनम् अपि वक्ष्यमाण-प्रकारेणैवेति बोधयति । ततश् च परम-वैलक्षण्ये\ऽपि तयोर् आनकदुन्दुभि-सुतत्वेन ज्ञानं कथञ्चित् सादृश्यात् । किं वा, भगवत्-कृपया तथैव प्रत्यभिज्ञोत्पत्तेः । अत एवोक्तं श्री-पराशरेण—बल-कृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः [वि।पु। ५.१८.४३] इति ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च पुनर् एव पुनश् चाक्रूरो न्यमज्जत् । तत्र हेतुर् दर्शनम् इति । मे मम कर्तृ-भूतस्य तयोः कर्म-भूतयोः सलिले यद् दर्शनं तत् किं मृषेतीति शब्देनान्वयः ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.४४ ॥
भूयस् तत्रापि सोऽद्राक्षीत् स्तूयमानम् अहीश्वरम् ।
सिद्ध-चारण-गन्धर्वैर् असुरैर् नत-कन्धरैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धादिभिः स्तूयमानम् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रापि कालिन्दी-जले\ऽपि । भूयः पुनः । असुरैः असुषु प्राणेषु रतैर् यत्न-परैः । प्राणेष्व् इन्द्रियेषु च । असवः परिकीर्त्यन्ते इति । रतं गुह्य-प्रयत्ने च मैथुने क्रीडने\ऽपि च इति धरणिः । जितेन्द्रियैः प्राणायाम-परैर् वा । बल्य्-आदिभिर् वा ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहीश्वरं शेषम् इति महा-सर्पाकारं सेवक-रूपैर् अहि-गणैर् बहुधा परिचर्यमाणम् इति बोधयैत् । तथा चोक्तं तेनैव—वृतं वासुकि-डिम्भौघैर् महद्भिः पवनाशिभिः [वि।पु। ५.१८.३७] इति । सिद्धैः सनत्कुमारादिभिः पाताल-वासिभिर् वा कपिलादिभिः । गन्धर्व-पतिभिर् विश्वावसु-प्रभृतिभिर् गान-विद्या-शिक्षणार्थं तद्-इच्छतां गतैः । किं वा, तत्रत्यैर् एव तत्-सेवकैर् गान-कुशलैर् गन्धर्व-श्रेष्ठैः । भुजग इति पाठः सुगम एव । असुरैर् तेषां पाताल-वासित्वेन शेषाधीनत्वात् । नत-कन्धरैर् इति सर्वेषाम् एव विशेषणं, तेन परम-भक्तिः सूचिता ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवांस् तु स्वीयं परम-मधुरं वैभवम् अनवगाहमानं तं प्रति निजांश-लक्षणं श्री-विष्णुम् एवानुभावितवान् इत्य् आह—भूय इत्य्-आदि त्रिभिः । अत्र भूय इति युग्मकम् । भूयस् तत्रापि । तत्रैव ह्रदेऽहीश्वरम् अद्राक्षीत् । न तु पूर्वववत् कृष्ण-रामौ सिद्धैः स्व-शिष्य-रूपैः सनकादिभिः भुजङ्ग-पतयो विवृताः । वैष्णवे—वृतं वासुकि-डिम्भौघैर् महद्भिः पवनाशिभिः [वि।पु। ५.१८.३७] इति । असुरैः प्रह्लाद-प्रभृतिभिः । नतेति सर्वेषां विशेषणम् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
स्व-मन्त्र-ध्येय-रूपाद् अप्य् अद्भुतं रूपम् ईक्षितम् ।
व्रजे\ऽक्रूरेण तत्रैव निष्ठाम् अप्य् आप चेतसः ॥
तां च्यावयन् व्रज-वधू-मन्त्र-हेतोः पुरातनीम् ।
निष्ठाम् एवापयन् कृष्णो वैकुण्ठं तम् अदर्शयत् ॥
द्वितीय-मज्जने तु तं स्वांशं श्री-विष्णुं तन्-मन्त्रोपास्य-दैवतं दर्शयंस् तत्रैव तन्-मनो-निष्ठां धारयितुं तत्-परिकरान् आनख-शिखं तद्-रूपम् अपि साक्षाद् अनुभावयामास मद्-अभीष्ट-देवो वैकुण्ठनाथ एव वसुदेव-गृहे\ऽवतीर्ण इति ज्ञापयामास च—भूय इति त्रयोदशभिः ॥४४॥
॥ १०.३९.४५ ॥
सहस्र-शिरसं देवं सहस्र-फण-मौलिनम् ।
नीलाम्बरं विस-श्वेतं शृङ्गैः श्वेतम् इव स्थितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्रं शिरांसि यस्य तम् । सहस्र-फणेषु मौलयो यस्य सन्तीति तथा तम् । नीले अम्बरे यस्य तम् । विसवत्-कमल-नालवत् श्वेतम् । शृङ्गैः शिखरैः श्वेतं कैलासम् इव स्थितम् ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवं शेषम् । मौलनम् इति ब्रीह्यादित्वादिनिः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा इत्य् अत्र ब्रह्मणो लोकं वैकुण्ठम् इति स्वामि-व्याख्यानात् । वैकुण्ठेऽपि यथा शेषः इति भागवतामृत-वाक्याच् च जलेऽक्रूरो वैकुण्ठमेवापश्यद् इति प्राहुः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवं जगत्-पूज्यं तमो\ऽधिष्ठातृत्वेन तामसैक-सेव्यत्वं निरस्तम् । मौलिनम् इति व्रीह्य्-आदित्वाद् इनिः । सहस्रं फणा मौलयश् च किरीटानि शिरःसु यस्य, श्वेताद्रिं इवेति आकारस्य बृहत्त्वं ध्वनितम् । तत्र शिरः स्थानीयानि शृङ्गाणि तत्रत्यानि च रथ्नानि मौलि-स्थानीयानि ज्ञेयानि ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवं जगत्-पूज्यं मौलिनम् इति व्रीह्य्-आदित्वाद् इनिः । सहस्रं फणा मौलयश् च किरीटानि विद्यन्ते यस्मिन् श्वेतं श्वेताद्रिं कैलासम् इत्य् अर्थः । टीकायां कमल-कन्दस्य मृणाले तात्पर्यम् ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र द्वाभ्यां बलदेवांशं शेषं वर्णयति । सहस्रं फणा मौलयः किराटानि च विद्यन्ते यस्य तम् । ब्रीह्य्-आदित्वाद् इनिः । शृङ्गैः शिखरः श्वेतं कैलासम् इव, ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो\ऽध्यगात् पुरा [१०.२८.१६] इत्य् अत्र ब्रह्मणो लोकं वैकुण्ठम् इति स्वामि-व्याख्यानात् । वैकुण्ठे\ऽपि यथा शेष [ल।भा। १.१९] इति भागवतामृत-वाक्याच् च जले\ऽक्रूरो वैकुण्ठम् एवापश्यद् इति प्राहुः ॥४५॥
॥ १०.३९.४६ ॥
तस्योत्सङ्गे घन-श्यामं पीत-कौशेय-वाससम् ।
पुरुषं चतुर्-भुजं शान्तं पद्म-पत्रारुणेक्षणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्योत्सङ्गे कुण्डली-कृत-देहार्धे । विलोक्येत्य् एकादशेन श्लोकेनान्वयः ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य शेषस्य । कृष्णस्यांशं नारायणं वर्णयति—तस्येति । पुरुषं ब्रह्माण्डान्तर्यामिणो रूप-विशेषम् । स्पष्टयिष्यते च, नतो\ऽस्म्य् अहं त्वाम् [१०.४०.१] इत्य्-आदिना । शान्तं घोरत्वाद्य्-अभावेन मनो-नयनानन्दकम् ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वस्तुतस् तु श्री-कृष्ण-चन्द्रे गान्दिनेयस्य नारायणत्वेनैव ज्ञानम्, न तु तद् अतिरिक्तत्वेन, श्री-नारायणो\ऽप्य् अस्य वैभवम् इति ज्ञापयितुं कालिन्दी-ह्रदे स्व-वैभवं दर्शयति—तस्योत्सङ्ग इत्य्-आदि बहुभिः । विप्रतिपत्त्यभावान् न बहूद्यते ॥४६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ द्वादशकं तस्याहीश्वरस्योत्सङ्गे तदानीं लीलया सुखम् आसीनम् इति ज्ञेयम् ।
तस्योत्सङ्गे घन-श्यामं श्रीवत्साच्छादितोरसम् । > पीताम्बर-धरं विष्णुं सूपविष्टं ददर्श ह ॥ [ह।वं। २.२७.५८]
इति श्री-वैशम्पायनोक्तेः । अत एव कुण्डलीकृतेति । तैर् व्याख्यातम् । तद्--रूपेण दर्शनं च [१०.३८.२२], प्रधान-पुरुषाव् आद्यौ इत्य्-आद्य्-उक्त्या पूर्वं द्वयोर् अपि साम्येन दृष्टयो अधुना कृपा-विशेषेण गुण-प्रधानता-बोधनार्थम् । यद् वा, जगद्-आदि-कारण-श्री-नारायण-रूपत्वेन तस्मिन् माहात्म्य-विशेष-प्रदर्शनार्थम् इति । पुरुषं पुरुषाकारम् । शान्तं घोरत्वाद्य्-अभावेन मनो-नयनानन्दकरम् इत्य् अर्थः । पद्म-पत्रवत् प्रान्ते\ऽरुणे ईक्षणे यस्य तम् ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्याहीश्वरस्योत्सङ्गे सुखासीनम् इति ज्ञेयम् ।
तस्योत्सङ्गे घन-श्यामं श्रीवत्साच्छादितोरसम् । > पीताम्बर-धरं विष्णुं सूपविष्टं ददर्श ह ॥ [ह।वं। २.२७.५८]
इति श्री-वैशम्पायनोक्तेः । अत एव कुण्डलीकृतेति । तैर् व्याख्यातम् ।
पुरुषं ब्रह्माण्डान्तर्यामिणो रूप-विशेषं स्पष्टयिष्यते च, नतोऽस्म्य् अहं त्वाम् [भा।पु। १०.४०.१] इत्य्-आदिना । शान्तं घोरत्वाद्य्-अभावेन मनो-नयनानन्द-करम् इत्य् अर्थः । पद्म-पत्रवत् प्रान्ते अरुणे ईक्षणे यस्य तम् ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषं ब्रह्माण्डान्तर्यामि-रूपम् । स्पष्टयिष्यते च । नतोऽस्म्य् अहं त्वाम् इत्य्-आदि । सत्त्वं धैर्यम् ॥४६.५७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : श्री-नारायणोऽपि श्री-कृष्णस्य वैभवम् इति विज्ञापयितुं कालिन्दीहृदे तद् एवाक्रूराय दर्शयति—तस्योत्सङ्गे घन-श्यामम् [ह।वं। २.२७.५८] इत्य्-आदि बहूभिः । वस्तुत इदम् एव श्री-नारायण-रूपं यद्य् एनं दर्शयितुं शक्यते, तत् तस्य वैभवम् इति दर्शयित्वा जले वपुर् इति कृष्णस्येवं हेतु-कर्तृत्वम् ॥४६.५७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्यांशं नारायणं वर्णयति । तस्य उत्सङ्गे कुण्डली-कृत-देहार्धं विलोक्येत्य् एकादशेन श्लोकेनान्वयः ॥४६.४७॥
॥ १०.३९.४७ ॥
चारु-प्रसन्न-वदनं चारु-हास-निरीक्षणम् ।
सुभ्रून्नसं चारु-कर्णं सुकपोलारुणाधरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शोभने भ्रुवौ यस्य, उन्नता नासिका यस्य तं च तं च । शोभनौ कपोलौ यस्य, अरुणाव् अधरौ यस्य तं च तं च ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चारु रम्यं प्रसन्नं विशदं वदनं मुखं यस्य तम् । चारु-हासेन युतं निरीक्षणं यस्य तम् । मध्यम-पद-लोपी समासः । चारु-हासः स्मितम् । यद् वा, चारुणी हास-निरीक्षिते यस्येति ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वस्तुतस् तु श्री-कृष्ण-चन्द्रे गान्दिनेयस्य नारायणत्वेनैव ज्ञानम्, न तु तद्-अतिरिक्तत्वेन, श्री-नारायणो\ऽपास्य वैभवम् इति ज्ञापयितुं कालिन्दी-ह्रदे स्व-वैभवं दर्शयति—तस्योत्सङ्ग इत्य्-आदि बहुभिः । विप्रतिपत्त्य्-अभावान् न बहूद्यते ॥४७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चारु सुन्दरं प्रसन्नं च वदनं यस्य तम् । प्रसन्नताम् एव दर्शयति—चारु हासेन निरीक्षणम् । यद् वा, चारुणी हास-निरीक्षणे यस्य तम् । चारु-शब्दस्य च पुनः पुनर् उक्तिस् तत्-तद्-विशेषस्यानिर्वाच्यत्वात् ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चारु-सु-शब्दयोर् मुहुर् उक्तिर् यदा यद् अदृश्यत तदा तस्यैवातिशयस् तेनान्वभूयतेति बोधनाय ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्यांशं नारायणं वर्णयति । तस्य उत्सङ्गे कुण्डली-कृत-देहार्धं विलोक्येत्य् एकादशेन श्लोकेनान्वयः ॥४७॥
॥ १०.३९.४८ ॥
प्रलम्ब-पीवर-भुजं तुङ्गांसोरः-स्थल-श्रियम् ।
कम्बु-कण्ठं निम्न-नाभिं वलिमत्-पल्लवोदरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुङ्गावंसौ यस्य, उरः-स्थले श्रीर् यस्य तं च तं च । वलिमत्-पल्लवोदरं वलयस् तिर्यङ् निम्न-रेखा यस्य सन्ति तद् वलिमत् तच् च तत् पल्लव-वद् अश्वत्थ-दल-सदृशम् उदरं यस्य तम् ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पल्लव आकाषस् तद्वद् उदरं यस्येति । पल्लवो\ऽस्त्री किशलये विस्तृताकाशयोर् अपि इति वैजयन्ती । अनन्ताण्ड-कोटि-निवेशन-क्षमम् उदरं यस्येति भावः ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्र-शब्देन भुजानां सुवृत्तत्वम् अपि सूचितम् एव । श्रीर् लक्ष्मीः शोभा वा । कम्बुवत् त्रिरेखाङ्कितः कण्ठो यस्य तम् ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीर् अत्र रेखा-रूपा । प्रेयसी तत्-सखी-रूपे त्व् अग्रे वक्ष्यते च । कम्बुवत् त्रि-रेख-कण्ठम् ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुङ्गांसम् उरः-स्थल-श्रियं चेति द्वयोः कर्मधारयेणैक-पदं वलयस् तिर्यङ्गिम्ना रेखाः सन्ति यस्य तत् बलिमत् तच् च पल्लववत् अश्वत्थ-दल-सदृशम् उदरं यस्य तत् ॥४८॥
॥ १०.३९.४९ ॥
बृहत्-कटि-तट-श्रोणि- करभोरु-द्वयान्वितम् ।
चारु-जानु-युगं चारु- जङ्घा-युगल-संयुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कटि-तटं च श्रोणिश् च करभ-सदृशम् ऊरु-द्वयं च, बृहच् च तत् कटि-तट-श्रोणि-करभोरु-द्वयं च तेनान्वितम् । यद् वा, बृहद्भ्यां कटि-तट-श्रोणिभ्यां करभोरु-द्वयेन शन्वितम् ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : करभवन् निम्नोन्नतम् अरोमकं चारु-द्वयम् । कटि-तटं काञ्ची-पदम् । पूर्व-समासे श्रोणि-कट-पदयोः स्थिते\ऽपि द्वित्वे सामान्याभिप्रायेणैकत्वम् आश्रित्य कृत-विग्रहत्वात् किञ्चिद् अस्वारस्यं मत्वा द्वि-वचनान्ताभ्यां विगृह्णाति—यद् वेति । कटिर् एव तटं विस्तीर्णत्वात् । श्रोणिर् अत्र तद्-अग्र-भागस् तयोर् बृहत्त्वं स्थौल्यम् । मणिबन्धाद् आकनिष्ठं करस्य करभो बहिः इत्य् अमरः ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कटिर् एव तटं विस्तीर्णत्वात् । श्रोणिर् जघनं, तयोर् बृहत्त्वं स्थौल्यं, मणि-बन्धाद् आकनिष्ठं करस्य करभो बहिः इत्य् अमरः । अन्वितम् इति संयुतम् इत्य्-आदि च सौन्दर्यातिशयाभिप्रायेणोक्ति-परिपाटी-विशेषः, न त्व् अत्र समवायः संयोगश् च ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कटिर् एव तटं विस्तीर्णत्वात् श्रोणिर् अत्र तद्-अग्र-भागः । तयोर् बृहत्त्वं स्थौल्यं, मणि-बन्धाद् आकनिष्ठं करस्य करभो बहिः । उरु-द्वयस्य तत् सादृश्यं यथायथं स्थूलत्वेन क्रम-निम्नत्वेन च अन्वित-संयुतादि-पदं तत् सौन्दर्यातिशय-व्यञ्जनायापूर्वम् इत्य् अर्थः । तत् तद् व्यञ्जयति ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृहद्भयां कटितट-श्रोणिभ्यां करभ-सदृशोरुद्वये न च अन्वितं कटितटं नितम्बं श्रोणिः कटिः श्रोणिः ककुद्वती मणिबन्धाकादाकनिष्टं करस्य करभो बहिर् इत्य् अमरः ॥४९॥
॥ १०.३९.५० ॥
तुङ्ग-गुल्फारुण-नख- व्रात-दीधितिभिर् वृतम् ।
नवाङ्गुल्य्-अङ्गुष्ठ-दलैर् विलसत्-पाद-पङ्कजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुङ्गावीषद् उन्नतौ गुल्फाव् अरुण-नख-वृआताश् च तेषां दीधितिभिः । तथा नवाः कोमला अङ्गुल्योऽङ्गुष्ठौ च तान्य् एव दलानि तैश् च विलसच् छोभमानं पाद-पङ्कजं यस्य तम् ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्रातः समूहः । दीधितिभिः किरणैः ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे नृपेति भक्त-जन-जीवन-घन-श्री-पादाब्ज-वर्णनेन प्रहर्षोदयात् तत्-स्मरण-विशेषाद् वा । नव-शब्देन सौकुमार्यं तले च नव-दलवद् आरुण्यं ध्वन्यते । अतो नवेति दल-विशेषणं वा । एवं श्री-मुखम् आरभ्य श्री-पादाब्जान्तं वर्णितम्, तत्रानुक्तान्य् अपि श्रीमद्-अङ्गानि तत्र तत्रैवान्तर्-भूतानि द्रष्टव्यानि । तत्र च वदनस्य चारुतया ललाट-चिबुकादीनाम् अपि चारुत्वम् । तथा हासस्य चारुतया दन्तानां कुन्दतो\ऽपि चारुत्वं सूचितम् एव । भुजानां प्रलम्बतया करा अपि गृहीता एव, एवम् अन्यद् अप्य् ऊह्यम् । तत्र चाधारानन्तरं भुजानाम् उरः-स्थलानन्तरं च कण्ठस्येत्य् उक्त-क्रमेण वर्णनं, सौन्दर्य-विशेषेणादौ तस्मिंस् तस्मिन्न् एवाङ्गे तस्य दृष्टि-पाताभिप्रायेणेति । एवम् अग्रे\ऽप्य् ऊह्यम् ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नव-शब्देन सौकुमार्यम् । तेन च नव-दलवद् आरुण्यं लक्ष्यते । नवानि यान्य् अङ्गुल्य्-आदि-रूपाणि दलानि, तैर् इति वैपरीत्येन रूपकं चातिशयितार्थम् । तत्र क्वचिद् व्युत्क्रमेण वर्णनेन तद् दृष्टेस् तथैव भ्रमणं बोधयित्वा लोभाकुलता बोध्यते ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुङ्ग-गुल्फेति गुल्फस्य तुङ्गता ईषं मात्रैव व्याख्येया अतिसौकुमार्यात् नवा अङ्गुल्यः अङ्गुष्ठौ च त एव दलानि तैः शोभमाने पाद-पङ्कजे यस्य तं पृथग् भावैर् इति पार्षदेः स्वामित्वेन सनकाद्यैर् ब्रह्मात्वेन ब्रह्माद्यैः परमेश्वरत्वेन मरीच्याद्यैः प्रजापतित्वेन प्रह्लादाद्यैर् इष्टदैवतत्वेन तत्र वसुर् उपरिचरः अत्र पार्षदाः पूर्वाद्य् अष्टस्व् अपि दिक्षु सनकाद्याः पश्चात् ब्रह्माद्या दक्षिणे भागे मरीच्याद्या वामे प्रह्लादाद्याः संमुखे नारदः संमुखार्धे एते च सर्व एव नित्याः प्रापञ्चिक ब्रह्माद्या एतद्-ब्रह्मादि-विभूतयो ज्ञेयाः यद् उक्तं पाद्मोत्तर-खण्डे
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः । > ते वै प्राकृतना केऽस्मिन्न् अनित्यास्त्रि-दिवेश्वराः ॥ इति। [प।पु]
श्रियेति श्यादयः स्वरूप-भूताः तत्र श्रीर् ऐश्वर्यं पुष्टिर् बलं गीर् ज्ञानं कान्तिः श्री कीर्तिर् यशः तुष्टिर् वैराग्यम् इति षड्-भग-शब्द-वाच्याः शक्त्यः इला भू-शक्तिः सन्धिन्याख्या अन्तरङ्गा यस्या विभूरिः पृथ्वी ऊर्जा लीला शक्तिर् अन्तरङ्गा यस्या विभूतिर् भू-लोकस्था तुलसी विद्याविद्ये जीवानां मुखि-संसृति-हेतू वहिरङ्गे शक्तिर् महालक्ष्मीर् ह्लादिन्य् अन्तरङ्गा माया विद्य-विद्ययोर् मूल-भूता बहिरङ्ग चकारात् तद् अधीना जीव-शखिस् तटस्था एताभिनितरां सेवितं ॥५०.५७॥
॥ १०.३९.५१-५२ ॥
सुमहार्ह-मणि-व्रात- किरीट-कटकाङ्गदैः ।
कटि-सूत्र-ब्रह्म-सूत्र- हार-नूपुर-कुण्डलैः ॥
भ्राजमानं पद्म-करं शङ्ख-चक्र-गदा-धरम् ।
श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुमहार्हा मणि-व्राता येषु तैः किरीटादिभिः ॥५१.५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुमहार्हाः अमूल्याः । कटि-सूत्रं काञ्ची । ब्रह्म-सूत्रम् उपवीतम् । अधुना भूषणादिकम् आह—सुमहार्हेति । सुमहार्हं परम-श्रेष्ठत्वं कटि-सूत्रादीनां ज्ञेयम् ॥५१॥
पद्मः करे यस्य तम् । पद्मस्य पृथग्-उक्तिर् अनायुधत्वात् । कर-सम्बन्धेनोक्तिर् अन्यत्राङ्गे\ऽपि तद्-धारण-सम्भवात् ॥५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना भूषणादिकम् आह—सुमहार्हेति द्वाभ्याम् । सुमहार्ह-शब्देनामूल्यत्वं परम-दिव्यत्वादिकम् उक्तम् । ब्रह्म-सूत्रं यज्ञोपवीतं, कटि-सूत्रादीनाम् अपि सुमहार्ह-मणि-व्रातमयत्वादिकं यथा-यथं द्रष्टव्यम् । तादृश-किरीटादिभिर् भ्राजमानं शोभमानम् । यद् वा, तैस् तैर् विशिष्टं स्वभावत एव सूर्य-कोटिवद् विराजमानम् इत्य् अर्थः । पद्मं करे दक्षिणाधस् तले यस्य तम् । शङ्ख्यादीन् धरतीति तथा तम् इति तेषाम् आयुध-मुख्यत्वेन धारणे तात्पर्यात् । पद्मस्य च लीलार्थं गृहीतत्वेन धारणे तात्पर्याभावान् न तथोक्तम् । एवं दक्षिनाधः कर-क्रमेण वाम-गत्या चतुः-करेषु चतुर्-आयुधानि ज्ञेयानि । तस्मिंश् चतुर्भुजत्वाभिव्यञ्जनाभिप्रायस् तैर् व्यञ्जित एव । यद् वा, साक्षाद् विद्योतमानं श्री-भगवन्तं तं परित्यज्य स्नानाद्य्-अर्थं गतस्य तस्यान्याशेषोपेक्षया तस्मिन्न् एवैकान्तिता-सम्पत्तय इति ॥५१-५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना भूषणादिकम् आह—सुमहार्हेति द्वाभ्याम् । सुमहार्ह-शब्देन परम-श्रेष्ठत्वं कटि-सूत्रेत्य्-आदीनाम् अपि सुमहार्हत्वादिकत्वं ज्ञेयम् । तादृश-किरीटादिभिर् भ्राजमानम् । यद् वा, तैस् तैर् विशिष्टं स्वभावतस् तु सूर्य-कोटिवद् भ्राजमानं पद्मस्य पृथग् उक्ति अनायुधत्वात् । कर-सम्बन्धेनोक्तिर् अन्यत्राप्य् अङ्गे तद्-धारण-सम्भवात् ॥५१-५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.५३ ॥
सुनन्द-नन्द-प्रमुखैः पार्षदैः सनकादिभिः ।
सुरेशैर् ब्रह्म-रुद्राद्यैर् नवभिश् च द्विजोत्तमैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृथक् पृथक् भावोऽभिप्रायो येषां तैः । तत्र पार्षदैः स्वामीति स्तूयमानम् । सनकादिभिर् ब्रह्मेति । ब्रह्माद्यैर् महेश्वर इति । मरीच्य्-आदिभिर् द्विजोत्तमैः परः प्रजापतिर् इति । वसुर् उपरि-चरः । प्रह्राद-नारद-वसवः प्रमुखा मुख्या येषां तैः । परं दैवतम् इति च । श्रेष्ठैर् वचोभिः । पृथग् भावैर् वचोभिर् इति वा ॥५३.५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पार्षदैर् अनुचरैः नवभिर् नव-सङ्ख्याकैः । तत्र पार्षदैः सुनन्दाद्यैः । सम्भवत्वाद् वचसाम् अपि विशेषणम् । अत आह-वचोभिर् इति, वेति । परिवारान् आह—सुनन्देति । तत्र पार्षदाः सेवकत्वात् सर्वान्तरङ्गाः । सनकाद्या भक्तत्वेऽपि सेवांशराहित्येन ततो बहिरङ्गाः । किष्कामत्वेन भगवत् स्वरूपानुभवित्वेन चान्येऽभ्योऽन्तरङ्गाः । ब्रह्माद्येषु ब्रह्म-रुद्रयोर् वस्तुतस् तु तद्-गुणत्वेऽपि जगद् अधिकारांशाभिमानाभासद्भावेन ततो बहिरङ्गता-दर्शकत्वम् । अन्ये तु बहिरङ्गा एव । मरीचिर् अत्र्य् अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर् वसिष्ठो दक्षश् च इति नव-प्रजापतयो ब्रह्माद्य् अपेक्षया न्यून-ज्ञानादित्वेन बहिरङ्गा एव । प्रह्लादादयस् तु तत्-तन्महा-गुणत्वेऽपि सर्व-तत्-तत्-परिवार-सहितस्य तस्य दैनोपासिकाभिमानितया बहिर् एव प्रायस् स्तिष्ठन्तीति सर्व-बहिर् गणिताः । एषां दिङ्नियमश्चागमानुसारात् । यथा पार्षदाः पूर्वाद्य् अष्टस्व् अपि दिक्षु, सनकाद्याः पश्चात्, ब्रह्माद्याः ऊर्ध्वादि-यथास्वदिक्षु, देवस्य दक्षिणे भागे वा । मरीच्याद्या वामे, प्राह्लादादयः सम्मुखे, नारदस् तु सम्मुखोऽर्ध्व इति । एते च नित्यावरण-रूपत्वात् प्रापञ्चिकानाम् अपीशा ज्ञेयाः । यथोक्तं पाद्मोत्तर-खण्डे
नित्याः सर्वे परं धाम्नि ये चान्ये च दिवौकसः । > ते वै प्राकृतनाकेऽस्मिन्न् अनित्यास्त्रिदशेश्वराः ॥
तेह नाकं महिमानः सचन्ते इति श्रुतिर् इति । तत्र श्रेष्ठैर् इत्य् अमलात्मभिर् इत्य् अस्यार्थः । अविद्यमानं मलं दोषो यत्रेति । पृथग् भावैर् इति वचो-विशेषणम् एव कृतं तथापि वक्तृष्व् एव तात्पर्यम् । अमलात्मभिर् इति परिवारस्य विशेषणम् । तेन च सर्वेषाम् अभिप्रायाणां युक्ततमत्वं व्यक्तम् ॥५३.५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना परिवारान् आह—सुनन्देति त्रिभिः । तत्र पार्षदाः पुरतः सनकादयो मुनयः, पश्चात् ब्रह्मादयो देव-श्रेष्ठाः, दक्षिणे मरीचिर् अत्र्य् अङ्गिरसौ पुलस्तः पुलहः क्रतुः । भृगुर् वशिष्ठो दक्षश् च इति नव प्रजापतयः, वामे नारदः, उपरिष्टात् प्रह्लाद्-बस्वादयः, श्री-पादाब्ज-द्वयान्ति इत्य् एवम् आवरण-रूपा ज्ञेयाः, प्रथमेन प्रमुख-शब्देन श्री-गरुडादयः, द्वितीयेन च श्री-ध्रुवाम्बरीषादयः, अन्ये च व्यक्तार्था एव । वचसां बहुत्वं बहुल-वक्तृतया । किं वा, बहुत्वाद्य् अपेक्षया7, अमलो विशुद्ध आत्मा चित्तं येषां तैर् इति सर्वेषाम् एव तेषाम् अभिप्रायस्य युक्तत्वम् उक्तम् । यद् वा, न तिष्ठति मलो भक्ति-प्रत्यूह-रूपो यस्मात् सः, अमलः श्री-कृष्णस् तस्मिन्नेवात्मा येषाम् इति तत् तच् छब्देन कृष्णस्यैवाभिधेयत्वात् सर्वं सङ्गतम् एवेति भावः । अन्यत् तैर् व्याख्यातम् ।
तत्र पृथग्-भावैर् इति विशेषणं वचोभिर् इत्य् अस्य वैयर्थ्यपरिहारार्थम् इति । अथवा कृष्णेति नारायणेत्यादि-कीर्तनैः सर्वैर् एव स्तूयते, केवलं तत्र तत्राभिप्राय एव पृथग् इत्य् अर्थः । तत्र कृष्णः सच्चिदानन्द-घन-मूर्तिर् भगवान् राम-रमण इति पार्षदानाम् , परब्रह्मेति सनकादीनाम्, जगच् चित्ताकर्षक-माहात्म्यः परमेश्वर इति ब्रह्मादीनाम्, यज्ञादि-पुण्य-कृष्युत्पादको धर्म-मूर्तिर् इति द्विरोत्तमानाम् , श्याम-सुन्दर इति श्री-प्रह्लादस्य, यादवेन्द्र इति श्री-नारदस्य, गोकुलोत्सव इति वसोः, एवम् अन्यद् अप्य् ऊह्यम् । इत्थं च सामग्र्यतो वचसाम् उत्कर्ष8म् उक्त्वा पद-वर्णादिभिर् अप्य् आह-अमल आत्मा स्वरूपं येषां तैर् इति ॥५३.५५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परिवारान् आह—सुनन्देति त्रिभिः । तत्र पार्षदाः सेवकत्वात् सर्वान्तरङ्गाः सनकाद्या भक्तत्वेऽपि सेवांश-राहित्येन ततो बहिरङ्गा निष्कामत्वेन भगवत्-स्वरूपानुभवित्वेन चान्येभ्योऽन्तरङ्गाः ब्रह्माद्येषु ब्रह्म-रुद्रयोर् वस्तुतस् तु तद्-गुणत्वेऽपि जगद्-अधिकारांशाभिमानाभास-सद्-भावेन ततो बहिरङ्गता-दर्शकत्वम् । अन्ये तु बहिरङ्गा एव मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुर् भृगुर् वशिष्टो दक्षश् चेति नव प्रजापतयो ब्रह्माद्य्-अपेक्षया न्यून-ज्ञानादित्वेन बहिरङ्गा एव । प्रह्लादादयस् तत्-तन्-महा-गुणत्वेऽपि सर्व-तत्-तत्-परिवार-सहितस्य तस्य दैन्येनोपासकाभिमानितया बहिर् एव प्रायस् तिष्ठन्तीति सर्व-बहिर्-गणिताः । एषां दिङ्-नियमश् चागमानुसारात्, यथा पार्षदाः पूर्वाद्य्-अष्टस्व् अपि दिक्षु सनकाद्याः, पश्चात् ब्रह्माद्याः ऊर्ध्वादि-यथा-स्वं दश-दिक्षु देवस्य दक्षिण-भागे वा मरीच्य्-आद्या वामे प्रह्लादादयः सम्मुखे नारदस् तु सम्मुखोर्ध्व इति । एते च नित्यावरण-रूपत्वात् प्रापञ्चिकानाम् ईश-रूपा ज्ञेयाः । यथोक्तं पाद्मोत्तर-खण्डे—
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥६५॥ > ते वै प्राकृत-लोकेऽस्मिन्न् अनित्यास् त्रिदशेश्वराः । > ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥६६॥ [प।पु। > ६.२२८.६५-६६] इति ।
अन्यत् तैः । तत्र श्रेष्ठैर् इत्य् अमलात्मभिर् इत्य् अस्यार्थः—अविद्यमानं मलं दोषो यत्रेति । पक्षे पृथग् भावैर् इति वचो-विशेषणम् एव कृतं, तथापि वक्तृष्व् एव तात्पर्यम् । अथामलात्मभिर् इति परिवारस्य विशेषणं तेन च सर्वेषाम् एवाभिप्रायाणां युक्ततमत्वं व्यक्तम् ॥५३-५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.५४ ॥
प्रह्राद-नारद-वसु- प्रमुखैर् भागवतोत्तमैः ।
स्तूयमानं पृथग्-भावैर् वचोभिर् अमलात्मभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.३९.५५ ॥
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया ।
विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्याविद्ये जीवानां मुक्ति-संसृति-हेतू । माया तयोः कारणम् । शक्तिर् ह्रादिनी संविज्-ज्ञानम् । आभिरन्याभिश् च निषेवितम् ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोर् विद्याविद्ययोः । आभिः श्रुयादिभिः । अयाभिर् विमलोत्कर्षिणी-ज्ञान-क्रिया-योगाप्रह्वीसत्यानुग्रहेशानाभिश् च । आवरण--रूपेण वर्तमानाः शक्तीर् आह—श्रियेति । तत्र श्रीर् ऐश्वर्यम् । पुष्टिर् बलम् । गीर् ज्ञानम् । कान्तिः श्रीः । कीर्तिर् यशः । तुष्टिर् वैराग्यम् इति षट् भाग-शब्द-वाच्याः शक्तयः । इला भू-शक्तिः सन्धिन्याख्या अन्तरङ्गा, यस्या विभूतिः पृथ्वी । ऊर्जा लीला-शक्तिर् अन्तरङ्गा, यस्या विभूतिस् तु लोकस्था तुलसी । विद्या-विद्ये जीवानां मृक्ति-संसृति-हेतू बहिरङ्गे, शक्तिर् महा-लक्ष्मीह्रादिन्यन्तरङ्गा । माया विद्याविद्ययोर् मूलभूता बहिरङ्गा, चकारात् तद् अधीना जीव-शक्तिस् तटस्था, एताभिर् नितरां सेवितम् ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आवरण--रूपेण वर्तमानाः शक्तीर् आह—श्रियेति, लक्ष्मीरुरःस्थले पूर्वम् उक्तैव, इयं सर्व-सम्पदधिष्ठात्री विभूतिमयी श्रीः, एवं पुष्ट्यादयोऽपि तत्-तद् अधिष्ठात्र्यो ज्ञेयाः, तत्र पुष्टिः शारीरी, तुष्टिर् मानसी, गीः सामान्य-वाक्, इलास्तुत्यादि-विशेषात्मिका, उर्जा इन्द्रिय-शक्तिः—एताः परिचारिका द्वादश, पूर्वादि-चतुर्दिक्षु क्रमेण त्रिशो वर्तमाना ज्ञेयाः । अतो नितरां ताम्बुलार्पण-चामरान्दोलनादिना सेवितं सेव्यमानम् ॥५५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आवरण--रूपेण च वर्तमानाः शक्तीर् आह—श्रियेति । तैर् व्याख्यातम् । तत्र ह्लादिनी स्वरूपानन्दानुभाविनी संवित् चिद्-रूपा स्वरूप-भूत-महा-शक्तिः, सैव हि शक्ति-शब्दस्य प्रथम-प्रवृत्ति-हेतुर् मायातिरिक्ता च तया महा-लक्ष्म्याख्यया तद्-अन्तरङ्ग्या निषेवितं तया तत्-स्पर्शात् । तद् उक्तं—ह्लादिन्या संविद्-आश्लिष्टः सच्चिदानन्द ईश्वरः इति संविद् इत्य् अस्यान्ते ज्ञानम् इत्य् अधिका टीका केनचिद् बुद्ध्वैव कल्पितेति लक्ष्यते मायया च बहिरङया निषेवितं च-शब्देन गौणता-व्यक्तेस् तया तद्-अस्पर्शात्, तद् उक्तं श्री-विष्णु-पुराणे—
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । > ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६८] > इति ।
तथा द्वितीये च—
विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया । > विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [भा।पु। २.५.१३] > इत्य्-आदि ।
अनयोर् एव मूर्ति-भेदाः श्रयादयः प्रापञ्चिकाप्रापञ्चिक-भेदेन द्विविधत्वात् तासां जात्या त्व् एकत्वं विवक्षितम् तत्र श्रीः सम्पदः सम्पादयित्री पुष्टिः शरीरस्य गीर् वाचः कान्तिः शोभायाः कीर्तिर् यशसः तुष्टिर् अन्तःकरणस्य इला भुवः ऊर्जा लीलायाः विद्या यथार्थ-ज्ञानस्य अविद्या तद्-अज्ञानस्य तच् च क्वचित् तत्-र्प्रेम्णापि भवतीति ह्लादिनी वृत्तिर् अपि । एतद् उपलक्षणत्वेनान्या अपि ज्ञेयाः । तद् उक्तं पाद्मोत्तर-खण्डे एव—
एवं परं पदं नित्यैर् मुक्तैर् भोग-परायणैः । > दिव्याभिर् महिषीभिश् च राजते विभुर् ईश्वरः ॥ [प।पु। > ६.२२८.६५-६६] इति ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.५६ ॥
विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः ।
हृष्यत्-तनूरुहो भाव- परिक्लिन्नात्म-लोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विलोक्य सुभृशं प्रीतोऽस्मत् कृष्णोऽसाव् एवं-भूतः परमेश्वर इति ज्ञात्वेति ॥५६.५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हृष्यन्ति प्रादुर्भूतानि तनूरुहाणि रोमाणि यस्य स तथा । भावेन परप्रेम्णा परिक्लिन्ने आनन्दाश्रुजल-स्नाते लोचने यस्य सः । परिक्लिन्नं द्रवीभूत आत्मा चित्तं लोचने च यस्येति वा ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुष्ठु भृशम् अत्यर्थं च वा । प्रीतः स्वामिनः परमैश्वर्य-दर्शनेन भक्तानां हर्ष-विशेषोदयात् । यद् वा, स्वस्मिन् नैश्वर्य-प्रकटनेन यदु-कुल-रक्षार्थम् अप्य् अश्वर्य-प्रकटनात्9, भक्त्या गाढादरेण विशेषेण भावेन वा । परम-भक्ति-युत-लक्षणम् आह—हृष्यद् इत्य्-आदिना । भावेन प्रेम्णा परितः क्ल्̥इन्न आर्द्रतां गत आत्मा मन, अत एव लोचने च यस्य तम् । यद्य् अपि तत्-प्रयोगः परिक्लिन्नतातिरेकाविच्छेदादि-बोधनार्थम्, अत एव परिशब्दः, तथापि सत्त्वं धैर्यम् आलम्ब्यास्तौषीत्, यतः सात्वतो भक्तो यादव इति वा, तेन च भक्त-श्रेष्ठता सुच्यते ॥५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विलोक्येति । तैर् व्याख्यातम् । तत्राध्याहारेण व्याचष्टे—अस्मत्-कृष्णोऽसाव् इत्य्-आदि । यथोक्तं वैष्णवे—बल-कृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः [वि।पु। ५.१८.४३] इति तस्यानुभव एतावान् एव विचारस् त्व् अधिको भविष्यति अद्भुतानीह यावन्तीत्य्-आदि द्वाभ्याम् ॥५६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३९.५७ ॥
गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सात्वतोऽक्रूरः । सत्त्वं धैर्य व्यवसायम् इति यावत्, आत्मभावं वा ।
सत्त्वं गुणे पिशाचासौ बले द्रव्य-स्वभावयोः । > आत्मत्वे व्यवसायासु चित्तेष्व् अस्त्री तु जन्तुषु ॥ इति मेदिनी ।
सत्त्वं धैर्यम् । रुद्ध-कण्ठत्वेन शनैर् एव अहो अक्रूर-भाग्यम् इति विमृशंस् तं नृपं प्रत्य् आह मुनीन्द्रः—हे भारतेति । भरत-वंश्यैर् भवद्भिर् अपि बहुशोऽसावनुभूत एवेति भावः ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सत्त्वाबलम्बन-लक्षणम् आह—प्रणम्येत्य् आदिना । अन्यथा प्रेम-विवशस् तेन स्तुतेः प्रणामादेश् चासम्भवात्, अवहितस् तद् एकाग्रचित्तः सन्, शनैर् इति सत्त्वालम्बन-स्वभावात् । यद् वा, प्रेमोद्रेकेण वाष्परुध्यमानकण्ठत्वात् ॥५७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्त्वं धैर्यं रुद्ध-कण्ठत्वेन शनैर् एव ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति षारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकोनचत्वारिंशोऽयं दशमेऽजनि सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
पूर्वार्धेऽक्रूर-प्रतियाते एकोनचत्वारिंशोऽध्यायः ।
(१०.४०)