३८

कंसाज्ञया राम-कृष्णौ मथुराम् आनेतुम् अक्रूरस्य नन्द-गोकुलं प्रति गमनं, तत्र राम-कृष्ण-द्वारा तस्य सत्कारश् च।

॥ १०.३८.१-२ ॥

श्री-शुक उवाच—

अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महा-मतिः ।

उषित्वा1 रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥

गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे ।

भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्ट-त्रिंशे यथा ध्यायन्न् अक्रूरो गोकुलं गतः ।

तथैव राम-कृष्णाभ्यां गृहं नीत्वा सुसत्कृतः ॥

प्रातः केशि-वधे वृत्ते द्वादश्यां निर्गते मुनौ ।

ततो व्योमे हतेऽक्रूरः सायं गोकुलम् आगमत् ॥

तद् एवं नारदेन कंस-वधादि-कार्ये विज्ञापिते श्री-कृष्णो मथुरां गन्तुम् उद्यतो वर्तते । तदाक्रूरो\ऽपि गोकुलम् आगमद् इत्य् आह—अक्रूरोऽपि इति ॥१-२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुसत्कृतो मानितः । वृत्ते जाते । मुनौ नारदे । ततो नारद-गमनोत्तरम् ॥ तद् एवं वाक्यालङ्कारेऽव्यय-द्वयम्, निदर्शने वा । तदा कृष्णो द्युति-समये । उद्यत उत्कण्ठितः । तां यस्यां रात्रौ न्ययुङ्क्त, ताम् इत्य् अर्थः । अक्रूरो\ऽपि इति अपि-शब्दः समुच्चये । समुच्चयश् च श्री-कृष्णस्य मथुरा-गमनोद्यमेनेति । यद् वा, अपि च-शब्दः केशि-गमन-समुच्चये उभयोः कंसादिष्टत्वात् । यस्यां रात्र्यां कंसेनादिष्टः, ताम्

तथा श्री-हरि-वंशे—निशि स्तिमित-मूकायां मथुरायां जनाधिपः [ह।वं। २.२२.७] इति । अत एवात्रापि पूर्वम् उक्त—प्रविवेश गृहं कंसः [भा।पु। १०.३६.४०] इत्य्-आदि । यच् च तत्रैवोक्तम्—

तस्मिन्न् एव मुहुर् ये तु मथुरायाः स निर्ययौ ।

प्रीतिमान् पुण्डरीकाक्षं द्रष्टुं दान-पतिः स्वयम् ॥ [ह।वं। २.२५.१०३]

इति तत्-कल्प-भेदाद् भिन्नम् । यद् वा, यादवैः सह कंसस्य बहुल-सङ्कथया प्रायो रात्रि-शेष एवोपसन्नेऽक्रूरं प्रति तस्य प्रेरणया तथैव पर्यवस्यतीति ।

महती भक्ति-रूपा मतिर् यस्य सः । तथा चैकादशीं रात्रीं भगवद्-अर्चन-कथा-कीर्तनादिभिर् जागरणेनैव उषित्वा पारणम् अकृत्वैव ययाव् इति विश्वनाथः ।

श्री-गोकुल-जन-वैक्लव्य-हेतुकं तद्-गमन-वर्णनम् अनिच्छुर् अपि केवल तद्-भक्ति-भागास्वादनम् अवलम्ब्यैव मुनिन्द्रोऽवर्णयत् । ज्ञातत्वेऽपि पुनर् नन्द- इति विशेषणं स्वय तद्-विशिष्टतयैव स्फूर्तेः ॥१॥

महामतित्वम् आह—गच्छन्न् इति । महा-भाग इति—बहुषु सत्सु कृष्णानयनार्थं तस्यैवाज्ञप्तत्वात् । परां प्रेम-रूपाम् । एतद् वक्ष्यमाणम् । एवम् इत्थम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

अक्रूराय नमस् तस्मै येन कंसोऽपि सेवितः ।

गोकुले गोप-गोप्य्-आढ्य-श्री-कृष्णैक-दिदृक्षया ॥

अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महा-मतिः ।

उषित्वा2 रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥

गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे ।

भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् ॥

कंसादि-हननाय महा-भागवतोत्तमेन श्री-नारदेनापि मधु-पुरी-प्रयाणाय भगवान् निवेदितः, अक्रूरोऽपि प्रययौ, अप्य्-अर्थेऽपि । यद् वा, त्व्-अर्थे -कारः, तां तु इति श्री-भगवतोऽनिच्छायाम् अपि मधु-पुरी-गमने भक्त-वर-द्वयाग्रहो मुख्यो हेतुः सूचितः, यस्यां रात्रौ कंसेनादिष्टस् ताम्, तथा च श्री-हरि-वंशे—निशि स्तिमित-मूकायां मथुरायां3 जनाधिप [ह।वं। २.२२.७] इति । अत एवात्रापि पूर्वम् उक्तम् प्रविवेश गृहं कंसः [भा।पु १०.३६.४०] इत्य्-आदि । मधु-नाम्ना माह-दैत्येन पूर्वम् अधिष्ठिततया तदीयत्वेन प्रसिद्धा । यद् वा, मधु-वंशोद्भवा मधवो यादवा एव, तेषां या पुरी तस्याम् उषित्वेति गोकुले प्राक् श्री-कृष्ण-दर्शनस्यैवापेक्षया, तच् च वनाद् आगमे सति विकाल एव घटेतेत्य् आचयेन । किं वा, वन-मध्ये रात्रौ गमनं वर्त्मा-ज्ञानादिना न सिध्योदित्याद्य् अभिप्रायेण । यच् च श्री-वैशम्पायनेनोक्तम्—

तस्मिन्न् एव मुहूर्ते तु मथुरायाः स निर्ययौ ।

प्रीतिमान् पुण्डरीकाक्षां द्रष्टुं दानपतिः स्वयम् ॥ [ह।वं। २.२२.१०३] इति ।

तच् च कल्प-भेदाद् भिन्नम् । यद् वा, यादव-वर्गैः सह कंसस्य बहुल-सङ्कथया प्रायो रात्रि-शेष एवोपसन्ने4 अक्रूरं प्रति तस्य प्रेरणया तथैव पर्यवश्यतीति दिक् । महा-मतिर् इति वक्ष्यमाण-मनो-रथाभिप्रायेण, रथं कंसोद्दिष्टम्, आस्थाय श्री-भगवद् आरोह्यत्वेन केवलं सारथितयाधिष्ठाय आश्रित्य् अत्य् अर्थः । प्रकर्षेण वक्ष्यमाणतत् तन्-मनो-रथ-सुखादिना ययौ, नन्दस्य गोकुलं सर्व-गोपावासं व्रजम् एव ।

यद् वा, उपनन्दादि-गोकुल-व्यवच्छेदार्थं नन्दस्येति विशेषणम्, तत्रैव श्री-भगवत्-सन्दर्शन-सम्भवात् । यद् वा, नन्दयतीति नन्दं यद्-गोकुलं तत् । श्लेषेण क्रौर्य-रहितोऽपि, महा-मतिर् अपि गोकुलात् श्री-कृष्णानयनार्थं बत प्रवृत्तः । अतो विपरीत एवेति श्री-वादरायणेः शोकोक्तिर् इति ॥१॥

कथं प्रययौ ? तद् आह—गच्छन्न् इत्य्-आदिना नृपेत्य् अन्तेन । गच्छन् सन् पथि एवं वक्ष्यमाण-प्रकारेण एतद् वक्ष्यमाणम् अचिन्तयत्, यतो महान् भागो भाग्यं यस्य सः, तत् कुतः ? भगवति निजाशेषैश्वर्य-प्रकटनपरे श्री-कृष्णे परमां भक्तिम्, उप समीपे अनायासत एव प्राप्तः, अग्नेरौष्ण्यवत् स्वभावत एव भक्तिमत्त्वात् । अम्बुजेक्षण इति विषयस्य इति विषयस्य परम-सौन्दर्यादिना परम-भक्त्य् उपगतिः सम्भाविता, अथवा स्वभावतो भक्त एव, अधुना च गोकुले गच्छन्, एवम् ईदृशीं परां भक्तिम् उपगतः सन्, अन्यत् समानम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

अक्रूराय नमस् तस्मै येन कंसोऽपि सेवितः ।

कुतोऽपि व्याजतो द्रष्टुं सेवितुं च निजेश्वरम् ॥

अक्रूर इति तैर् व्याख्यातम् । तत्रापि -शब्दः समुच्चयेऽभिप्रेतः । समुच्चयश् च श्री-कृष्णस्य मथुरा-गमनोद्यमेनेति । यद् वा, अपि च-शब्दः केशि-गमन-समुच्चये उभयोः कंसादिष्टत्वात् । यस्यां रात्रौ कंसेनादिष्टः, तां । तथा श्री-हरि-वंशे, निशि स्तिमित-मूकायां मथुरायां जनाधिप [ह।वं। २.२२.७] इति । अत एवात्रापि पूर्वम् उक्तं—प्रविवेश गृहं कंस [भा।पु। १०.३६.४०] इत्य्-आदि । यच् च तत्रैवोक्तं--

तस्मिन्न् एव मुहूर्ते तु मथुरायाः स निर्ययौ।

प्रीतिमान् पुण्डरीक्षं द्रष्टुं दानपतिः स्वयम् ॥ [ह।वं। २.२२.१०३] इति ।

तत् कल्प-भेदाद् भिन्नम् ।

यद् वा, यादव-वर्गैः सह कंसस्य बहुल-सङ्कथया प्रायो रात्रि-शेष एवोपसन्नेऽक्रूरं प्रति तस्य प्रेरणया तथैव पर्यवस्यतीति । महती भक्ति-रूपा मतिर् यस्य तादृशः सन्न् इति श्री-गोकुल-जन-वैक्लव्य-हेतुत्वेनारोचकं तत्-प्रस्थानं केवलं वर्णयितुम् अनिच्छुः, तद्-भक्ति-भागास्वादम् एवावलम्बते । प्रययौ प्रतस्थे । ज्ञातत्वेऽपि पुनर् नन्देति विशेषणं स्वस्य तद्-विशिष्टतयैव स्फूर्तेः ॥१॥

महामतित्वम् एवाह—गच्छन्न् इत्य्-आदिना नृप- [भा।पु। १०.३८.२४] इत्य्-अन्तेन । गच्छन्न् एव पथि परां भक्तिम् उपगतः सन्न् एव किं मया चरितम् इत्य्-आदि मनोरथ प्रकारैर् एतत् मयापि भगवान् द्रक्ष्यते इति मनोरथ-सामान्यम् अचिन्तयत् यतो महान् भागस् तादृशं श्री-कृष्ण-कृपा-रूपं भाग्यं यस्य सः भक्तेः परात्वे हेतुः भगवति निजाशेषैश्वर्य-प्रकटनपरे तथाम्बुजेक्षणे तादृशत्वोपलक्षणक-महामा-माधुर्य-प्रकटनपरे च श्री-कृष्णे तत्-तत् स्फूर्तेर् इत्य् अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टात्रिंशे व्यधात् कृष्णो यथाक्रूरो मनोरथान् ।

तथा तान् पूरयामास तदातिथ्यं च सोऽकरोत् ॥

कंसः फाल्गुन-कृष्णैकाद् अश्यां कृत्वैव मन्त्रणाम् ।

प्रेष्य केशिनम् अक्रूराम् आदिश्य प्राहिणोद् व्रजम् ॥

प्रातः केशि-वधो ऽक्रुर-प्रस्थानं नारद-स्तुतिः ।

अपराह्ने व्योम-वधोऽक्रुरः सायं व्रजेऽविशत् ॥

ताम् एकादश्या रात्रिं महा-मतिर् इति भगवत्-कथार्चनादिभिर् जागरणेनैवोषित्वा पारणम् अकृत्वैव ययौ ॥१-२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३ ॥

किं मयाचरितं भद्रं किं तप्तं परमं तपः ।

किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपिः सम्भावनायाम् । अर्हते योग्याय ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-भाग्यम् अभिनन्दन्न् आह—किम् इति । भद्रम् इति सामान्योक्तं विशिनष्टि—किं तप्तम् इत्य्-आदिना । [अर्हते] योग्याय विष्णु-भक्त्य्-आदि-गुण-सम्पन्नाय । यत् यतः भद्र-कर्मणां मध्ये किं मया भद्रं कृतं यद् यतः केशवं ब्रह्म-रुद्राभ्याम् अपि दुर्दर्शम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चिन्तितम् एवाह—किम् इत्य्-आदिना स्व-बन्धुषु [१०.३८.२३] इत्य् अन्तेन । किं कतमत्, एवम् अग्रेऽपि, भद्रं यज्ञादिसत्-कर्म, तपः सर्व-भूताभयदान-लक्साणम्, तच् च परमं निर्मान-निष्कामत्वादिना । यद् वा, तपश्चित्तैकाग्र्यं परमम्, श्री-भगवद् विषयकत्वात्, एवं परमम् इत्य् अस्य भद्रम् इत्य् अनेनाप्य् अन्वयः ।

ननु, तथापि विना महद् अनुग्रहेण नैतत् सिध्येद् इत्य् आशङ्क्य पक्षान्तरं चिन्तयति-किंवेति । वाथ अथवेत्य् अर्थः, अथेति माङ्गल्ये वा । अर्हते दानात् । किं वा, न दत्तम् । भद्रादीनां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । यद्-यस्मात् भद्रादेः, केशवम् आदि-पुरुषं केशि-हन्तारं वा द्रक्ष्यामि । तच् चाद्येति । अन्यत् तैर् व्याख्याम् ।

यद् वा, अपि निशितम् । यद् वा, मयेत्य् अनेनान्वयः । मयापि अत्यन्ताधमेनापीत्य् अर्थः । किम् इति वितर्के, किं कृतम् ? अपि तु कृतम् एवेति गम्यते, अन्यथानुपपत्ति-न्यायात् । तद् एव मनस्याह—यद् इति यतः, अपि तु न कृतम् एव यद्-यस्माद्-भद्रादेः, अतो द्रष्टुम् अनर्होऽहं कृतो द्रष्क्यामीत्य् अर्थः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाना सञ्चारि-भावैश् चिन्तितम् एवाह—किम् इत्य्-आदिना, स्व-बन्धुषु [१०.३८.२३] इत्य् अन्तेन । तत्र सवितर्कम् आह—किम् इति । किं कतमत् परमं भद्रं भगवत् पूजादीनां भद्र-कर्मणाम् अपि मध्ये परमम् एवं परमं तपो, भगवद्-व्रतानां मध्ये, वा समुच्चये अथ कार्त्स्न्ये, भद्रादीनां यथोत्तरं श्रेष्ठ्यम् ऊह्य । यद् यस्माद् भद्रादेः केशवं परम-दुर्दर्शानां ब्रह्म-रुद्रादीनाम् अपीश्वरं द्रक्ष्यामि, तच् चाद्येति । अन्यत् तैः ।

तत्र योग्याय महा-भागवतायेत्य् अर्थः । यद् पूज्याय, तस्माद् एवेत्य् अर्थः । ममापीत्य् अन्वयः गर्हितेनापि मयेत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सहर्ष-वितर्कम् आह—किम् इति । अपिः सम्भावनायाम् । अर्हते योग्याय ॥३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.४ ॥

ममैतद् दुर्लभं मन्य उत्तमः-श्लोक-दर्शनम् ।

विषयात्मनो यथा ब्रह्म- कीर्तनं शूद्र-जन्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्य कृष्णस्य दर्शनेऽसम्भवम् आशङ्क्य पुनः सम्भावयति—ममैतद् इति द्वयेन । विषयात्मनो विषयाविष्ट-चित्तस्य । शूद्राज् जन्म यस्य, तस्य ब्रह्म-कीर्तनं वेदोच्चारणं यथा इति ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् किं यद् उत्तमश्लोक-दर्शनम् इति । शूद्र-जन्मन इति—अश्रौत-जन्मत्वाच् छूद्रस्य । गायत्र्या ब्राह्मणम् असृजत् त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचिच् छूद्रम् इति । शूद्रस् तु वेदाक्षरोच्चरणाच् च शूद्रश् चाण्डालतां व्रजेत् इति स्मृतेः । शूद्रत्वाद् अपि पपतीत्य् आशयः । एतत् ईदृशं तत्-तद्-भद्राचरणादि-साध्यम् । यद् वा, आधुनिकम् उत्तम-श्लोक-दर्शनम् । यद् वा, स्वानुभव-मात्र-वेद्य-माहात्म्यता-विवक्षयादाव् एतद् इत्य् उक्तम् । उत्तमः स-साराख्य-तमो-निरसनः श्लोकः यशो यस्य, तस्य तस्य दर्शनं मम मत्-सम्बन्धे दुर्लभम् । साधन-बाहुल्यं यदि स्यात् तदापि जन्मान्तर एव लभ्यं मन्ये । कुतः ? विषयात्मनः प्रारब्ध-वशेन विषय-तादात्म्यं प्राप्तस्य । अनुरूपो दृष्टान्तो—यथा इति । शूद्र-जन्मन इति—साधन-बाहुल्ये सति विप्र-जन्मन्य् एव तत् स्यात् । कर्म-शूद्रस्य तु प्रायश्चित्त-विशेषेणेह जन्मन्य् अपि स्याद् इति ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विषयात्मनः शूद्र-जन्मनो यथा ब्रह्म-कीर्तनं ब्रह्म भागवतं ब्रह्म-सम्मितम् [भा।पु।१.३.४०] इति लिखितत्वात्, विषयात्मन इति वैष्णव-शूद्र-व्यावृत्ति-परम् ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाभिव्यञ्जयति—मम इति । एतद् उत्तम-श्लोक-दर्शनम् । यद् वा, निगूढत्वादि-माहात्म्य-विवक्षयादौ सामान्येनैतद् उक्त्वा पश्चान् निर्दिशति—उत्तमेति । उत्तमः सर्वोत्कृष्टः । यद् वा, उत्तमः संसाराख्य-तमो-निरसनः श्लोको यशस् तत्-कीर्तनादिकम् अपि यस्य, तस्य दर्शनं मम दुर्लभ-सम्भाव्यं मन्ये । कुतः ? विषयात्मनः । दुर्लभत्वे दृष्टान्तः--यथा इति । शूद्र-जन्मन इति शूद्र-जातेर् इत्य् अर्थः । सर्वेषाम् एव शूद्राणां वेद-पाठेऽनधिकारात् । न च वक्तव्यं विप्रवत् सत्-कर्मादि-युक्तः शूद्रः संगृहीतः, कर्म-शूद्रो विप्र-कुलजो व्यवच्छिन्न इति स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा [भा।पु १.४.२५] इत्य्-आदि-वचनात् तस्य स्वत एव तद्-अधिकाराद् इति ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनः स-दैन्यम् आह—मम इति । एतद् ईदृशं तत्-तद्-भद्राचरणादि साध्यं । यद् वा, आधुनिकम् उत्तमः-श्लोक-दर्शनं । यद् वा, स्वानुभाव-मात्रं वेद्य-माहात्म्यता-विवक्षया आदाव् एतद् इत्य् उक्त्वा वाग्-गोचरत्वे क्रियमाणे तु यत् किञ्चिद् एवोक्तं स्याद् इत्य् अब्य्हिप्रायेण पश्चात् तादृशानाम् अ-विशेषणेन साक्साड् अपि निर्दिशति उत्तमः संसाराख्य-तमो निरसनः श्लोकः यशोऽपि यस्य, तस्य दर्शनं मम मत्-सम्बन्धे दुर्लभं साधनं बाहुल्यं यदा स्यात्, तदापि जन्मान्तरं एव लभ्यं मन्ये । कुतः ? विषयात्मनः प्रारब्ध-वशेन विषय-तादात्म्यं प्राप्तस्य । अनुरूपो दृष्टान्तः--यथा इति । शूद्र-जन्मन इति । यथा तस्य तद् बहुल्ये सति विप्र-जन्मन्य् एव न स्यात्, तद्वत् कर्म-शूद्रस्य तु प्रायश्चित्त-विशेषेणेह जन्मन्य् अपि स्याद् इति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दुर्लभं साधन-बाहुल्यं यदि स्यात्, तदापि जन्मान्तर एव लभ्यं मन्ये । कुतः ? विषयात्मनः प्रारब्ध-वशेन विषय-तादात्म्यं प्राप्तस्य अनुरूपो दृष्टान्तो—यथा इति । शूद्र-जन्मन इति । यथा तद्-बाहुल्ये सति विप्र-जन्मन्य् एव तत् स्यात्, तद्वत् ॥४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मम एतद् दुर्लभम् इत्य्-आदि । विषयात्मनः शूद्र-जन्मनो यथा ब्रह्म-कीर्तनं ब्रह्म वेदस् तत्-स्वरूपं यच् छ्री-भागवतादि तत्-कीर्तनम् । विषयात्मन इति वैष्णव-शूद्र-व्यावृत्ति-परम्, तस्य वैष्णवत्वात् । कदाचिद् अयम् अनुरागाद् एव तत् पठति, तेन ममानुरागश् चेत् तथा भवति, तदा तद् अपि घटेत । अन्यथा शूद्र-जन्मन इत्य् एव सिद्धे विषयात्मन इति विशेषण-वैयर्थ्यम् ॥४.७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैन्याम्बुधौ निपतन्न् आह—मम कीदृशस्य? विषयात्मनः विषयाविष्टस्य शूद्र-जातेर् वेद-कीर्तनम् इव । उभयत्रैवानर्हत्वं ध्वनितम् ॥४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.५ ॥

मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् ।

ह्रियमाणः काल-नद्या क्वचित् तरति कश्चन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् वा, मैवं, किन्त्व् अधमस्य नीचस्यापि मम स्याद् एव । कुतः ? इत्य् अत आह—ह्रियमाणः काल-नद्या इति । अयं भावः—यथा नद्या ह्रियमाणानां तृणादीनां मध्ये किञ्चित् कदाचित् तरति कूलं प्राप्नोति, तथा कर्म-वशेन कालेन ह्रियमाणानां जीवानाम् अपि मध्ये कश्चित् तरेद् इति सम्भवतीति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षान्तरम् आह—यद् वा इति । मैवं, कृष्ण-दर्शनं मम भविष्यत्य् एव इत्य् आह—किन्त्व् इति । हेतुम् आशङ्कते—कुत इति । इत्य् अत इत्य् अत्र । अत्राशयम् आह—अयं भाव इति । किञ्चित् तृणादि तरति तटे लगति । कदाचिद् वाय्व्-आदि-विवर्तनादिनेत्य् अर्थः । कश्चिद् भगवद्-अनुगृहीतः । मति-धृतिभ्याम् आह—मैवम् इति । अधमस्य इति तत्-सन्दर्शनाखिल-साधन-राहित्यं तद् वैपरीत्यं चोक्तम् । तथाप्य् अच्युतस्य सद्-भजनाभावेऽपि कृपालुतादि-माहात्म्याच् च्युति-रहितस्य श्री-कृष्णस्य दर्शनं तन्-माहात्म्य-बलात् स्याद् एवेत्य् अर्थः । सम्भावनाया लिङ् । अत्र निदर्शनम्—तत्-तत्-कर्म-भोग-काल-प्रवाहेण संसार्यमाणेऽपि क्वचित् साङ्केत्य नामादि-निमित्ते सति कश्चनाजामिलादि-सदृशस् तरति तत्-कूलायमानं भगवन्तं प्राप्नोति । यथा कथञ्चित् तद्-अभिगमनादौ सति पूतनादि-सदृशो वा नदी-रूपकेण यथा तद् ध्रियमाणस् तृणादिर् अनुकूल-वातादि-निमित्ते सति तरति तद्वद् इति व्यञ्जितम् ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधमस्य इति तत्-सन्दर्शनाखिल-साधन-राहित्यं तद्-वैपरीत्यं चोक्तम् । तथाप्य् अच्युतस्य निरुपाधिकृपालुत्वादि-माहात्म्याच् च्युति-रहितस्य श्री-कृष्णस्य दर्शनं तन्-माहात्म्य-बलात् स्याद् एवेत्य् अर्थः । सम्भावनायां सप्तमी। अत्रानुरूपम् अर्थान्तरम् उपन्यस्यति—ह्रियमाण इति । पारवश्येन स्व-सामर्थ्य-राहित्यम् उक्तम् । क्वचित् कस्मिंश्चित् सत् तीर्थादौ काल-विशेषे वा कश्चन जनस् तरेत्, तच् च यथा केवलं श्री-भगवत्-कृपा-प्रभावेणैव, तथेदम् अपि सम्भवेद् इति भावः । एवं सन्दर्शनं सम्भाव्य ततश् च कार्यं प्रणामं विभाव्य तेन हि स्व-कृतार्था मन्यते ॥५॥


मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् ।

ह्रियमाणः काल-नद्या क्वचित् तरति कश्चन ॥

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मति-धृतिभ्याम् आह--मैवम् इति । अधमस्य इति तत्-सन्दर्शनाखिल-साधन-राहित्यं तद्-वैपरीत्यं चोक्तम् । तथाप्य् अच्युतस्य तद्-भजनाभासेऽपि कृपालुतादि-माहात्म्याच् च्युति-रहितस्य श्री-कृष्णस्य दर्शनं तन्-माहात्म्य-बलात् स्याद् एवेत्य् अर्थः । सम्भावनायां लिङ् । अत्र निदर्शनं चिन्तयति—तत्-तत्-कर्म-भोग-काल-प्रवाहेण संसार्यमाणोऽपि क्वचित् साङ्केत्य-नामादि-निमित्ते सति कश्चन अजामिलादि-सदृशस् तरति तत्-कूलायमानं श्री-भगवन्तं प्राप्नोति यथा कथञ्चित् तद्-अभिगमनादौ सति पूतनादि-सदृशे वा । नदी-रूपकेण यथा तद्-ध्रियामाणः तृणादिर् अनुकुल-वातादि-निमित्ते सति तरति, तद्वद् इति व्यञ्जितम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अच्युतस्य सद्-भजानाभावेऽपि कृपालुतादि-माहात्म्याच् च्युति-रहितस्य श्री-कृष्णस्य दर्शनं तन्-माहात्म्य-बलात् स्याद् एवेत्य् अर्थः । अत्र निदर्शने तत्-तत्-कर्म-भोग-काल-प्रवाहेण संसार्यमाणोऽपि क्वचित् साङ्केत्य-नामादि-निमित्ते सति कश्चन अजामिलादि-सदृशस् तरति, तत्-कूलायमानं भगवन्तं प्राप्नोति । यथा कथञ्चिद् अभिगमनादौ सति पूतनादि-सदृशो वा ॥५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मैवम् इति । मति-धृतिभ्यां दैन्यं सम्मर्द्याह—मम इति । स्याद् एव स्याद् अपीत्य् अर्थः ॥५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.६ ॥

ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः ।

यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽनया प्रवृत्त्यैव ममामङ्गलं ध्रुवं नष्टम् एवेति ज्ञायते । भवो जन्म च स-फलं जातम् इति । यद् यतो नमस्करिष्यामि ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः काल-वशेन तरण-सम्भवात् । अमङ्गलं सर्वोऽप्य् अन्तरायः । योगिभिर् अपि यद् ध्येयम् एव तन् नमस्ये साक्षात्कृत्य नमस्यामीत्य् अर्थः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद् वा, तद् अधुना तत्-कारुण्य-महिम्णा ममाधमत्वम् अपगतम् इत्य् आह—ममेति । अमङ्गलम् अशुभ-दृष्टं मुमुक्षादिना योगिभिर् ध्येयं हृदि चिन्त्यं यद् अङ्घ्रि-पङ्कजम्, तत् साक्षान् नमस्ये, तच् च भगवतो निजाशेषैश्वर्यं प्रकटयत इत्य् अर्थः । पङ्कजम् इत्य् एकत्वेऽपि द्वित्वं नित्य-युगलत्वात् सिध्येद् एवेति पूर्वम् उक्तम् एव । यद् वा, एक-वचनेन किञ्चिन् नमनम् एवाभिप्रेतम्, अमङ्गलं सत्यं नष्टम् एवेत्य् एतस्य ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं निश्चित्यैव स-गर्वम् आह—ममेति । अमङ्गलं तद्-दर्शने सर्वोऽप्य् अन्तरायः । यद् इति क्रमेणाविर्भावना श्री-भगवत्-कारुण्यस्यैव प्रभावेणेति भावः । योगिभिर् एव ध्येयम् एव च यद्-अङ्घ्रि-पङ्कजं तन् नमस्ये साक्षात्कृत्य नमस्यामीत्य् अर्थः । तच् च भगवतः निजाशेषैश्वर्यं प्रकटयतः श्री-कृष्णस्येत्य् अर्थः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं निश्चित्य स-गर्वम् आह—ममाद्य इति ॥६॥


॥ १०.३८.७ ॥

कंसो बताद्याकृत मेऽत्यनुग्रहं

द्रक्ष्येऽङ्घ्रि-पद्मं प्रहितोऽमुना हरेः ।

कृतावतारस्य दुरत्ययं तमः

पूर्वेऽतरन् यन्-नख-मण्डल-त्विषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमङ्गल-नाशे सूचकान्तरम् आह—कंस इति । बतेत्य् आश्चर्ये । अति-खलः कंसोऽपि ममात्यन्तम् अनुग्रहं कृतवान् । यतोऽमुना कंसेन प्रहितो हरेर् अङ्घ्रि-पद्मं द्रक्ष्ये द्रक्ष्यामीति । पूर्वेऽम्बरीषादयस् तमः संसारम् अतरंस् तीर्णाः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमङ्गल-नाशए सन्देहाभावम् आह—यतोऽनुग्रहात् । तेजसा तमस् तरणस्य नियतत्वाद् इति भावः । सम्भावितश्री भगवत् कारुण्यस्यैव लक्षणं सविस्मयम् आह—कंस इति । अनुग्रहं ममाभीष्टसाचिव्यम् । यन् नख-मण्डलत्विषा तत्-कान्त्या तत्-स्फूर्ति-मात्रेणैवातरन्, आस्तां तद्-भक्तिवार्तेति भावः । एतेन नराकृति-विग्रहस्य सनातनत्वं विग्रहान्तराणां तद् अन्तरर्भावश् च लभ्यते ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद् वा, सम्भावित-श्री-भगवत्-कारुण्यस्यैव लक्षणम् आह—कंस इति । हरेर् इत्य् अमङ्गल-हरणाद्य् अभिप्रायेण, तत्रापि कृतावतारस्येति भगवत्ता-प्रकटनम् अभिप्रेतम् । अतरन्न् इत्य् अनेन तमसः समुद्रत्वं ध्वनितम्, अत एव दुरत्य् अयं दुस्तरं यस्याङ्ग्रि-पद्मस्य नखानां मण्डलं समूहः । किं वा, नखस्यैकस्य मण्डलं बिम्बं तस्य त्विषा एक-कान्त्या ईषद्भक्त्येत्य् अर्थः, स वै मनः कृष्ण-पदारविन्दयोः [भा।पु ९.४.८] इत्य् आद्य् उक्त्याम्बरीषस्य तद् अनुगनाम् अपि श्री-कृष्ण-भक्तिर् एव वोद्धव्या, तेषां तद् एक-निष्ठत्वाभावे च सति, तत्रापि कृतावतारस्येति पश्चाद् योज्यम् ।

यद् वा, यदित्य् अस्य पूवेणान्वयः । कृतावतारस्य वामन-रामादि-रूपस्यापि नख-मण्डलत्विषा, अयञ्चावतारी साक्षाद् धरिर् एव, अतोऽस्याङ्ग्रि पद्मं यद्-द्रक्ष्य इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, तमोऽज्ञानं मुमुक्षादि-दुर्वासनामूलम् । पूर्वे वैष्णवा मुनयः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्भावित-श्री-भगवत्-कारुण्यस्यैव लक्साणं सविस्मयम् आह । कंस इति । तैर् व्याख्यातं तत्रापि-शब्दात् भगवत्-कारुण्यं विनोदं विना न सम्भवतीति भावः । अनुग्रहं ममाभीष्ट-साचिव्यम् इत्य् अर्थ इति । किं वा, हरेर् इत्य् अमङ्गल-हरणाभिप्रायेण कृतावतारस्येति तत्रापि सम्प्रति सकल-लोक-कृपार्थ-प्राकट्याभिप्रायेण । यस्याङ्घ्रि-पद्मस्य नख-मण्डलं तद् विम्वं तस्य स्विषा एकयापि कान्त्या तत्-स्फूर्ति-मात्रेणापि पूर्वे तद्-भक्त्यैवातरन् आसतां तावत् तेषां भजनान्तराणीति भावः । इति श्री-नराकृति-विग्रहस्य सनातनत्वं विग्रहान्तराणां तद् अन्तर्भावश् च लश्यते ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कंसेन भगवत्प्रातिकूल्य निर्दिष्टस्यापि ममात्यन्तमानुकूल्यं फलतो ऽभूदित्यःअ, कंस इति । वतेत्याश्चर्ये । खलो ऽपि कंसः अद्यात्यनुग्रहम् अकृत । यतो ऽमुना प्रहितः प्रेषितः । पूर्वे ऽम्बरीषादयः तमः संसारम् अतरन् तीर्णाः ॥७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।



॥ १०.३८.८ ॥**

यद् अर्चितं ब्रह्म-भवादिभिः सुरैः

श्रिया च देव्या मुनिभिः स-सात्वतैः ।

गो-चारणायानुचरैश् चरद् वने

यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्घ्रि-पद्मं विभावयति—यद् इति । ब्रह्मादिभिर् अर्चितम् इति परमैश्वर्यम् आह—श्रिया च इति सौभाग्यातिशयम् । मुनिभिर् भक्त-सहितैर् इति परम-पुरुषार्थत्वम् । गो-चारणाय इति कृपालुत्वम् । यद् गोपिकानाम् इति प्रेम-मात्र-सुलभत्वम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभावयति चिन्तयति । यद् अङ्घ्रि-पद्मं सर्व-जगत् कर्तुः पूज्यगत्वेन परमैश्वर्यम् । अतिसुन्दरता लक्ष्मीतोऽधिका न कुत्राप्य् अस्ति तत्-पूज्यत्वेन सौभाग्यस्याधिक्यं स्फुटम् एव । मुनिभिर् मनन-निष्टैर् जीवन्-मुक्तैर् मुमुक्षु-सहितैः तैः स्वर्गादिवद् अनपेक्ष्यत्वात् परम-पुरुषार्थता । कृपा-वशेन गवां तृणाद्य्-अशनार्थं तद्-अनुचरत् जाति-वर्णाश्रम-धर्माद्य्-अपोहेनापि गोपिकाभिः केवलं प्रेम्णैव तत्-स्पर्शानन्दम् अनुभूयत इत्य् अर्थः । यद् इति अत्र यच्-छब्धस्य वाक्यान्तिमत्वात् तच्-छब्दान् अपेक्षयैव योजना स्याद् इति पूर्वेण युग्मकं न कृतम् । तद् उक्तं काव्य-प्रकाशे—यच्-छब्दस् तूत्तर-वाक्य-पदार्थ-गतत्वेनोपपत्तेः सामर्थ्यात् पूर्व-वाक्यार्थ-गतस्य तच्-छब्दस्योपादानं नापेक्षते [का।प्र। ७.४ (उदाहरण १८७)] इति । ततश् च प्रपञ्चाधिकारिभिर् यद्-अङ्घ्रि-पद्मार्चितम् । मति-बुद्धि-पूजार्थेभ्यश् च इति वर्तमाने क्तः । क्तस्य च वर्तमाने इति षष्ठ्य्-अभावस् त्व् आर्षः । तैर् आगमोक्त-मार्गेण सदोपास्यमानम् इति ।

एतद् एव द्रढयितुं क्रमेण तच्-छिरस्पदैस् तद्-अधस्पदैर् अपि तादृग् उपास्यत्वम् आह—श्रिया इति वैकुण्ठ-परिकराणाम् उपलक्षणम् । मुनिभिर् इति प्रपञ्चस्थ-सर्व-भक्त-ग्राहकम् । तत्र मुनिभिः श्रुति-पुराणाद्य्-अनुसारिभिः । सिद्धैः साधकैश् च स-सात्वतैः पाञ्चरात्रिक-सहितैः । तत्-साहित्यम् अत्र तस्यावश्यकत्वाभिप्रायेण । तद् एव यस्योत्कर्ष-प्रतिपादनाय तद् इदं त्रयम् उक्तं । तस्य गोकुलस्य परमोत्कर्षं दर्शयति—गोचारणाय इत्य् अर्धेन । यत् तेषाम् आगम-मार्गेण ध्यात्वार्चितं, तद् एव स्वयं गोचारणाय अनुचरैश् चरद् भवति । तद् अप्य् आस्तां गोपिकानां कुच-निर्माल्य-रूपैः कुङ्कुमैर् अङ्कितं भवतीत्य् अहो परमाश्चर्यम् इति भावः । "आचितम्" इति पाठे व्याप्तम् इत्य् अर्थः । तद् एवं प्रायो देवर्षि-मुखाद् रास-श्रवणेन केवलं तत्-प्रेम-सुलभम् एव चिन्तितं, न तु रति-केलि-मय-विशेषम् इति तद्-दास्यभावेऽस्मिन् न रसाभासत्वं ।

किं वा, गोपिकानां तम् अतिबालं वात्सल्याद् वक्षसि लालयन्तीनां ज्यायसीनां कासाञ्चिद् इत्य् अर्थः । गोपिका अप्य् अत्रोपलक्षणम् एव गोपालादीनाम् इति ज्ञेयम् । सेयम् अस्य गोकुल-महिम-स्फूर्तिस् तद्-आभिमुख्य-प्रभावेणैवेति ध्येयम् ॥८॥ [अत्र विश्वनाथः]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ब्रह्म-भवादिभिः श्रिया च यद् अर्चितं तद् गोपीनां कुच-कुङ्कुमाचितम् इत्य् अहो गोपिकानां सौभाग्यम् इति ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निज-जन्म-साफल्य-प्रदर्शनार्थम् अङ्घ्रि-पद्मं वर्णयति—यद् इति । अर्चितं अर्च्यमानम् इत्य् अर्थः । यद् वा, अतीत-निर्देशोऽधुनात्र तेषां तद्-अर्चनाशक्तेः । आदि-शब्दाद् इन्द्र-चन्द्रादयः । देव्या इति ब्रह्मादि-देवानां परम-पूज्यया तत्-तत्-सम्पत्ति-प्रद-कृपा-कटाक्षया महा-विभूतिमय्या महा-लक्ष्म्या एकावतार-रूपयेत्य् अर्थः । मुनिभिर् आत्मारामैस् तस्यां श्रियाम् अप्य् अपेक्षा-रहितैः । सात्वत-सहितैर् इति मुनीनाम् अपि सात्वत-वर्ग-कृपयैव तत्-सङ्गत्य्-अर्चन-सिद्धेः । अनुचरैर् गोपैश् चार्चितं तद् अपि न सदा सर्वत्रेत्य् आह—गोचारणाय वने श्री-वृन्दारण्ये चरद् इति । कुच-कुङ्कुमेनाङ्कितं लाञ्छितं यथा स्यात्, तथा गोपिकानां गोपिकाभिर् अप्य् अर्चितम् । "आचितम्" इति पाठे व्याप्तम् इत्य् अर्थः । अतीत-निर्देशः सदार्चितत्वस्याभिप्रायेण ।

यद् वा, प्रिय-सखतया गोपानां पाद-पद्मार्चने तादृश-तात्पर्याभावाद् अर्चितम् इत्य् अत्र न योज्यम्, एवम् उत्तरत्रापि । इति गोपी-कुच-कुङ्कुमाङ्कितत्वेनाङ्घ्रि-पद्मस्य पर्वत उत्कर्ष-विशेष-विवक्षया यद् इत्य् अस्यान्ते पुनर् उक्तिः, इत्थं ब्रह्मादीनां यथोत्तरं श्रैष्ठ्यं द्रष्टव्यम् । तत्रादि-शब्द-गृहीता इन्द्रादयस् त्याज्या गौणत्वात्, अत एव तेषां साक्षाद् अनिर्देशः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ब्रह्मादिभिर् इति परम-देवतात्वं परमेश्वरत्वं च, श्रिया इति परम-विभूतिमयत्वं सौभाग्य-भरवत्त्वं च । मुनिभिर् इति परम-पुरुषार्थाधिक्यम्, सात्वतैर् इति आत्म-प्रदत्वेन परमौदार्यं भक्त्य्-एक-लभ्यत्वं च । गोचारणाय इति परम-सख्य-विशेषो विनोदित्वं च, यद् गोपिकानाम् इति परमं सौन्दर्यं वैदग्ध्यं प्रेम-विशेष-विस्तारकत्वं चोक्तम्, परं च श्री-भागवतामृतोत्तर-खण्डे विस्तार्य व्याख्यातम् एव ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनस् तस्याङ्घ्रि-द्वन्द्वस्य महिमाधिक्यम् अनुसन्दधानस् तादृशस्यापि प्रेम-वश्यत्व-गुणं स्मरन् तं च गोकुलस्यापि परमोत्कर्ष-व्यञ्जकतया पर्यवसाययन् स-चमत्कारम् आह--यद् इति । पूर्ववद् अत्र च यच्-छब्दस्य वाक्यान्तिमत्वात्-तच्छब्दान् अपेक्षयैव योजना स्याद् इति पूर्वेण युग्मकं न कृतं, तद् उक्तं काव्य-प्रकाशे—"यत्"-छब्दस् तूत्तर-वाक्य-पदार्थ-गतत्वेनोपपत्तेः सामर्थ्यात् पूर्व-वाक्यार्थ-गतस्य "तत्"-छब्दस्योपादानं नापेक्षते [का।प्र। ७.४ (उदाहरण १८७)] इति । ततश् च प्रपञ्चाधिकारिभिर् ब्रह्मादिभिः सुवैर् यद् अङ्घ्रि-पद्मम् अर्चितम् इति मति-बुद्धी त्या आदिना वर्तमाने क्तः । क्तस्य च वर्तमान इति षष्ठ्यावस्त्वार्थः । तैर् आगमोक्त-मार्गेण सदापास्यमानम् इति । तद् एवं ब्रह्मादि-कर्तृक-सदोपास्यत्वम् उक्त्वा तद् एव द्रढयितुं क्रमेण तच्-छिरस्पदैस् तद्-अधस्-पदैर् अपि तादृग् उपास्यत्वं दर्शयति । श्रिया च देव्येस्यादिना । श्रिया इति वैकुण्ठ-परिकराणाम् उपलक्षणम् । मुनिभिर् इति प्रपञ्चस्थ-सर्व-भक्त-ग्राहकम् । तत्र मुनिभिः श्रुति-पुराणाद्य्-अनुसारिभिः सिद्धैः साधकैश् च स-सात्वतैः पाञ्चरात्रिक-सहितैस् तत्-साहित्यम् अत्र तस्यावश्यकत्वाभिप्रायेण । तद् एवं यस्योत्कर्ष-प्रतिपादनाय च तद् इदं त्रयम् उक्तं । तस्य गोकुलस्य परमोत्कर्षं दर्शयति—गोचारणाय इत्य् अर्धेन । यत् तेषाम् आगम-मार्गेण ध्यात्वार्चितं, तद् एव स्वयं गोचारणाय अनुचरैर् चरद् भ्रमति, तद् अप्य् आस्तां गोपिकानां कुच-निर्माल्य-रूपैः कुङ्कुमैर् अङ्कितं भवतीत्य् अहो परमाश्चर्यम् इति भावः । "आचितम्" इति पाठे व्याप्तम् इत्य् अर्थः । तद् एवं प्रायो देवर्षि-मुखाद् रास-श्रवणेन केवलं तत्-प्रेम-सुलभम् एव चिन्तितं, न तु रति-केलि-विशेष-मयम् इति तद् दास्य-भावेऽस्मिन् न रसाभासत्वं ।

किं वा, गोपिकानां तम् अतिबालं वात्सल्याद् वक्षसि लालयन्तीनां ज्यायसीनां कासाञ्चिद् इत्य् अर्थः । गोपिका अप्य् अत्रोपलक्षणम् एव गोपालादीनाम् इति ज्ञेयम् । सेयम् अस्य गोकुल-महिम-स्फूर्तिस् तद्-आभिमुख्य-प्रभावेणैवेति ज्ञेयम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यद् अर्चितं ब्रह्म-भवादिभिर् इत्य्-आदि । यद् ब्रह्म-भवादिभिः सुरैः श्रिया च देव्या मुनिभिः सात्वता भागवतास् तत्-सहितैः । तच् छ्री-चरणारविन्दं गोपिकानां कुच-कुङ्कुमार्चितम् इत्य् अहो गोपिकानां सौभाग्यम् इति भावः ॥८.९॥


जीव-गोस्वामी (क्रम-सन्दर्भः १८८): अथायोग्य-विभाव-सङ्गत्याभासत्वम् उदाह्रियते । तत्रायोग्योद्दीपन-सङ्गत्या यथा यद्-अर्चितम् इत्य्-आदौ, यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् इति ।

अत्रानेन रहस्य-लीला-चिह्नेन दासानुसन्धानायोग्येन दास्य-भाव-मय आभास्यते । समाधानं च । अत्रास्य भक्ति-मात्र-सुलभत्व-चिन्तनेऽभिनिवेशः । न तु तादृश-लीला-विशेषानुसन्धाने । यथोक्तं टीकायाम्—यद् गोपिकानाम् इति प्रेम-मात्र-सुलभत्वम् इत्य् एतत् । ततोऽननुसन्धायैव तद्-विशेषं भक्ति-मात्रोद्वलकत्वेन निर्दिष्टत्वान् न दोष इति । एवं समर्हणं यत्र [भा।पु। १०.३८.१७] इत्य्-आदिकं व्याख्येयम् ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् अङ्घ्रि-पद्मः ब्रह्मादिभिर् अनुपहतैर् गन्ध-माल्यादिभिर् अर्चितं पूज्यत इत्य् अर्थः । “मति-बुद्धि-पूजार्थेभ्यश् च" इति वर्तमाने क्तः षष्ठ्य्-अभाव आर्यः । गो-चारणाय अनुचरैः सह चरत् गवां पश्चाच् चरद् इत्य् अर्थः । यस्यानुचरा ब्रह्मादयस् तद्-अङ्घ्रि-पद्मं गवाम् अनु चरं यस्यार्चका ब्रह्म-भवादयस् तद् गोपिकानां तु कुचोच्छिष्ट-कुङ्कुमास्वादकम् इत्य् उत्कर्ष-परमावधिः । “कुङ्कुमाचितम्" “कुङ्कुमार्चितम्" इति पाठ-द्वयम् । न च अत्राक्रूरेण दासेन स्व-प्रभोर् उज्ज्वल-रसास्वादनं रसाभासत्वाद् अनुचितम् इति वाच्यम्, वाक्यस्यास्य स्वगतत्वात् । स्वगतोक्त्या हि पित्रादयोऽपि हर्षात् पुत्रादीनां शृङ्गार-रसम् अनुमोदयन्तो दृष्टाः ॥८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.९ ॥

द्रक्ष्यामि नूनं सुकपोल-नासिकं

स्मितावलोकारुण-कञ्ज-लोचनम् ।

मुखं मुकुन्दस्य गुडालकावृतं

प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनोरथान्तरं करोति--द्रक्ष्यामि इति । शोभमानौ कपोलौ नासिका च यस्मिंस् तत् । स्मित-सहितोऽवलोको यस्मिन्, अरुण-कञ्जवल् लोचने यस्मिन्, तच् च तच् च मुखम् । गुडालकावृतं वक्र-केशावृतम् । तदानीम् एव शुभ-सूचकं दृष्ट्वातिहृष्यन्न् आह—प्रदक्षिणम् इति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽप्य् अधिकं मनोरथं करोतीत्य् आह—मनोरथान्तरम् इति । गुडा निविका अलकाः कुन्तलास् तैर् आवृतम् । यद् वा, गूडा अङ्गुलिकास् तद्वद् वक्राः । यद् वा, गुड इक्षु-विकारस् तद्वत् स्निग्धाः । गुड पिण्डेक्षुविकृतौ स्नुह्य् अङ्गुलिकयोर् गुडा इति यादवः । वै-शब्दाद् अन्येऽपि शुभ-सूचका भारद्वाजादयो ग्राह्याः । तद् उक्तम्—

भारद्वाजो मयूरश् च शुकश् च गरुडस् तथा ।

एतेषां दर्शनं पुण्यं गतौ वामे विशेषतः ॥

इति ज्योतिषे । इत्थं सहज-दास्येनादौ पादाब्ज-दर्शनं विभाव्य तत एव प्रेमोद्रेकेण लोभाच्-छ्री-मुख-दर्शनेऽपि मनोरथं करोति—द्रक्ष्यामीति । अत्र मृगा इति अयुग्म-वैशिष्ट्यार्थम् । कृष्ण-मृग-सहिताश् एति ज्ञेयम् । तद् उक्तं शकुन-तन्त्रे—

पुण्येन गत्या गवया अयुग्माः प्रदक्षिणं गौर-मृगाश् चरन्ति ।

समा न शस्ता न च वामयाताः कृष्णैर् विमिश्रा न भवन्ति दुष्टा ॥ इति ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं सहज-दास्येनादौ पादाब्ज-दर्शनं विभाव्य तत एव भक्त्य् उद्रेकेण लोभाच्छ्री-मौख-दर्शणेऽपि मनो-रथं करोति—द्रक्ष्यामीति । नूनं वितर्के निश्चये वा । मुकुन्दस्येति पूर्व-कृत-निरुक्त्या श्रीदन्तानां कुन्द-सादृश्येन स्मित-कृततदीषद् विकाशेन च श्री-मुखस्य श्री-सौन्दर्यम् एवाधिकं दर्शितम्, तद् दर्शनम् एव सन्निमित्त-दर्शनेन निश्चिनोति, मम प्रदक्षिणं यथा स्यात्-तथा, अमी इमे साक्षाद् इत्य् अर्थः । रथ-निर्घोषेण दूरवर्तित्वाद् अदः-शब्द-प्रयोगः । वै इति पाठे व्यक्तम् इत्य् अर्थः । यद् वा, हेतौ यस्माद् इत्य् अर्थः । मृगा इत्य् अविशेषेणोक्ता अपि अयुग्मा गौरा ज्ञेयाः, तथा च शाकुन-तन्त्रे—

पुण्येन गत्या गवयोर् अयुग्माः5

प्रदिक्षिणं गौर-मृगाः प्रयान्ति ।

समा न शस्ता न च वामयाताः

कृष्णैर् विमिश्रा न भवन्ति दुष्टाः ॥ इति ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं सहजदास्येनादौ पादाब्ज-दर्शनं विभाव्य तत एव प्रेमोद्रेकेण लोभात् श्री-मुख-दर्शनेऽपि मनोरथं करोति । द्रष्यामीति । नूनं निश्चये । मुकुन्दस्येति पूर्वकृत-निरुक्त्या श्रीदन्तानां कुन्द-सादृश्येन स्मित-कृततदींषद्विकाशेन च श्री-मुखस्य सौन्दर्यमेवाधिकं दर्शितं तन् निश्चये हेतुः मम प्रदक्षिणं यथा स्यात् तथामी साक्षाद् इत्य् अर्थः । रथ-निर्घोषेण दूरवर्तित्वाददःशब्द-प्रयोगः । वै इति पाठे व्यक्तम् इत्य् अर्थः । प्रदक्षिणम् इति । अत्र मृगा अयुग्म-वैशिष्ट्यार्थं कृष्ण-मृग-सहिताश्चेति ज्ञेयं तथा च शाकुन-तन्त्रे । पुण्येन गत्या गवयोर् अयुग्माः प्रदक्षिणं गौर-मृगाश्चरन्ति । समा न शस्ता न च वामयाताः कृष्णैर् मिश्रा न भवन्ति दुष्टाः इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुभशकुनं पश्यन्मनोरथसिद्धिं निश्चिनोति, द्रक्ष्यंईति । नूनं निश्चितमेव गुडालकावृतं कुटिलकुन्तलावृतं, यतः प्रदक्षिणम् इति ॥९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१० ॥

अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो

भारावताराय भुवो निजेच्छया ।

लावण्य-धाम्नो भवितोपलम्भनं

मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर् अप्य् अन्यच् चिन्तयति—अप्य् अद्येति । इयुषः प्राप्तवतः लावण्यस्य धामाश्रयस् तस्य विष्णोः । यद् वा, विष्णोर् लावण्य-युक्तं यद् धाम वपुः, तस्य । उपलम्भनं दर्शनं भविता भविष्यति । अपि यद्य् एवं स्यात्, तर्हि मह्यं मम दृशो लोचनस्य फलं न स्याद् इति , अपि तु स्याद् एवेत्य् अर्थः ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीम् अन्यत् ततोऽप्य् अधिकं स्मरतीत्य् आह—पुनर् इति । लावण्याधिकरणत्वोक्तिः शरीरे सङ्गच्छते न त्वा आत्मनीत्य स्वारस्याद् आह—यद् वा इति । यद्य् एवं स्याद् यदि दर्शनं स्यात् । इत्य् अर्थ इति—द्वौ नषौ प्रकृतार्थं गमयतः इति वामनोक्तेः । लुनाति छिनत्ति द्रष्टॄणां चेतो हरतीति लवणं सौन्दर्यं तद् एवाधिकं लावण्यम् इति लावण्यं त्व् अतिसौन्दर्ये छेदे मधुवने तथा इति निरुक्तेः ।

ननु, तद्-दर्शनम् असुरा अपि लभन्त एव । तत्र तवैव का भाग्य-श्लाघा ? इत्य् अत आह—अप्य् अद्य इति । अद्य निजेच्छयैव मनुजत्वम् अस्मद्-वैवस्वत-वंश-प्रादुर्भूतत्वं गतवतो विष्णोर् लावण्य-धाम्नः किम् उपलम्भनं यथार्थानुभवितेत्य् असुराणां दर्शन-मात्रं, न तु लावण्योपलम्भ इति भावः । फलं सार्थकत्वम्

अक्षण्वतां फलम् इदं न परं विदामः

सख्यः पशून् अनुविवेश यतो वयस्यैः ।

वक्रं व्रजेश-सुतयोर् अनु-वेणु-जुष्टं

यैर् वै निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ [भा।पु। १०.२१.७] इत्य् उक्तेः ।

अञ्जसा साक्षाद् एव, न तु छायादि-व्यवधानेनेति भावः । यद् वा, उपलम्भनं समीप-प्राप्तिः । दृशः फलं दर्शनम् अञ्जसा अनायासेन चक्षुर् उन्मील-मात्रेणैव न तु योगादि-साधन-बाहुल्येनेति भावः ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अप्य् अद्येत्य्-आदि । मनुजत्वम् ईयुषो मनुष्य-मात्रस्य भुव उत्पत्तेर् भारावहाराय निजेच्छया लावण्य-धाम्नः स्वभावेन लावण्यमय-विग्रहस्यास्य विष्णोर् व्यापकस्य उपलम्भनं दृशः फल-भूतं, तन् न स्यात् ? अपि तु स्याद् एव । अथवा, मनुजत्वम् ईयुषो मम दृशः फलं मह्यं महनीयं, मह-धातोः क्यप् ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना पुनर् अतिलोभोद्रेकेण सर्वाङ्ग-सन्दर्शने मनोरथं करोति—अपि इति । विष्णोर् व्यापकस्यापि मनुजत्वं मर्त्य-लोके मनुष्य-चेष्टाम् ईयुषः । यद् वा, अन्तर्यामित्वेन सर्वत्र प्रविश्य वर्तमानस्यापि नराकृत्या प्रकटीभूतस्येत्य् अर्थः । किम्-अर्थम् ? भुवो भारो दैत्य-मयस् तन्-मूल-पापादि-मयश् च । तस्य अवताराय उत्तारणाय, न च तथापि स्वातन्त्र्य-भङ्ग इत्य् आह—निजेच्छया इति ।

यद् वा, सोऽपि किम्-अर्थं निजानां भक्तानां श्री-ब्रह्मादीनाम् इच्छया स्व-भक्त-विनोदार्थम् इत्य् अर्थः । मनुजत्वाद् एव लावण्य-धाम्नःन न स्याद् इति निज-दैन्येनादाव् असम्भावितत्वान् निषिद्धम्, दृक्-फलं पश्चात् तद्-दर्शन-सम्भावनया साधयति—अञ्जसेति । तद्-अर्थं स्व-प्रयास-विशेषाभावात् । यद् वा, उत्तमम् इत्य् अर्थः । अन्य तैर् व्याख्यातम् ।

तत्र, अपि किम् इत्य् अस्य व्याख्यानम् । प्रदक्षिणं मे [९] इति पूर्व-दर्शनस्य सम्भावितत्वात् । अतोऽपि शब्दस्य यदीत्य् अर्थः कृतः । तथापि सन्देहार्थता निरसनार्थं यद्य् एवं स्याद् इति पृथग् व्याख्यातम् इति । अन्यथा मह्यं मां प्रत्युपलम्भनं स्पर्शः समीपे प्राप्तिर् वा यदि भविता, तदा दृशो भक्ति-माहात्म्यादि-ज्ञानस्य । अन्यत् समानम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् अतिलोभोद्रेकेण सर्वाङ्ग-दर्शने मनोरथं करोति—अपीति । अद्योपलम्भनं भविता इत्य् अर्थः । विष्णोः सर्व-व्यापकस्य परिपूर्णस्य स्वयं स्थित इत्य् अर्थः । तादृशस्यापि मनुजत्वम् ईयुषः लीला-माधुर्याय प्रसिद्ध-मनुज-साधारणां नित्याम् एव प्राप्तवतः । अयम् आत्मापहत-पाप्मा [छा।उ। ८.१५.१] इतिवन् निष्ठा-प्रयोगः । मनु-वंशे प्रादुर्भूतत्वं प्राप्तस्येति वा ।

न चात्र स्वातन्त्र्य-भङ्ग इत्य् आह—निजेच्छया इति, भक्तेच्छयेत्य् अर्थत्वेऽपि तद्-इच्छा-भक्तेच्छयोर् एकात्मकत्वात् तथैवार्थः । न केवलम् एवं लीला-माधुर्याणाम् एवाश्रयत्वं सौन्दर्याणाम् अपीत्य् आह—लावण्य-धाम्न इति । अन्यत् तैः ।

तत्र अपि-शब्दस्य [सम्भावनार्थत्वाद्यदीत्य्]{।मर्क्}-आदि व्याख्या । तर्हीति तर्ह्य् अत्यर्थं फलं सार्थकत्वम् । एव-कार इत ऊर्ध्वं तन् नास्तीति विवक्षया । तद् उक्तम् अक्षण्वतां फलम् इदम् [भा।पु। १०.२१.७] इत्य्-आदि तत्र चाञ्जसा साक्षात् स्वरूपेणैव, न तु छायादिवद् व्यवधानेन इति भावः । यद् वा, उपलम्भनं समीप-प्राप्तिः । दृशः फलं दर्शनम् अञ्जसा अनायासेन भविता इति न किन्तु चक्षुर्-उन्मीलन-मात्रेणैव भविता, न तु योगादि-साधन-बाहुल्येनेत्य् अर्थः । यद् वा, अपीति प्राकाश्ये तद् एवं कामयित्वा तत्-प्राप्तिं निर्धारयति । मह्यम् इति तद्-उपलम्भन-रूपं दृशः फलं मम न भविता इति न, अपि तु भवितैव पूर्व-निश्चयाद् इति भावः । अत्राप्य् अञ्जसा न भवितेति पूर्ववत् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु सर्वथा अन्योपलम्भनं भविता इत्य् अन्वयः । विष्णोः सर्व-व्यापकस्य परिपूर्णस्य स्वयं भगवत इत्य् अर्थः । तादृशस्यापि मनुजत्वम् ईयुषः लीला-माधुर्याय प्रसिद्ध-मनुज-साधारण्यं नित्यम् एव प्राप्तवतः । अयम् आत्मापहत-पाप्मा इत्य् आदौ क्त-प्रयोगवद् अत्र प्रयोगः । मनु-वंशे प्रादुर्भूतत्वं प्राप्तस्येति वा ॥१०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अप्य् अद्येत्य्-आदि । मनुजत्वम् ईयुषो मनुज-मात्रस्य भुव उत्पत्तेर् भारावताराय । भवनं भूर् जन्म तस्य भारावतारो मुक्तिस् तस्यैव निजेच्छयावतीर्णस्येत्य् अर्थः । यद् वा, तद्-अर्थम् एव विष्णोर् व्यापकस्य इतस् ततः प्रकट-लावण्य-धाम्नः श्री-कृष्णस्य दृशः फल-भूतम् उपलम्भनं तन् न स्यात् ? स्याद् एव । अञ्जसा सुखेन, मह्यं ममेत्य् अर्थः । अथवा, मनुजत्वम् ईयुषो मम लावण्य-धाम्नो विष्णोर् उपलम्भनं न न स्यात्, स्याद् एव । भुवो भारावताराय निजेच्छया अञ्जसा सुखेन दृग् दर्शनं यस्य भुवो भारापहरणार्थं यद् अवतीर्णः, तेन सर्वैर् एव सुखेन दृश्यत इति भावः । तेन ममापि दर्शनं भवत्य् एव । उपलम्भनं कीदृशम् ? मह्यं महनीयं फलं सर्व-पुरुषार्थानां पुण्यं फलम् इत्य् अर्थः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तद्-दर्शनम् असुसुरा अपि लभन्त एव तत्र तत्रैव का भाग्य-श्लाघेत्य् अत आह—अप्य् अद्य इति । निजेच्छयैव मनुजत्वम् अस्मद्-वैवस्वतम् अनु वंश-प्रादुर्भूतत्वं गतवतो विष्णोर् लावण्य-धाम्नः । किम् उपलम्भनं यथार्थानुभवो भविता ? इत्य् असुराणां दर्शन-मात्रं, न तु लावण्योपलम्भ इति भावः । ततश् च मम दृशः फलं न न स्यात्, अपि तु स्याद् एवेत्य् अर्थः ॥१०॥


भक्ति-रसामृत-सिन्धौ ३.२.९८-पद्यम् अपि द्रष्टव्यम् ।


॥ १०.३८.११ ॥

य ईक्षिताहं-रहितोऽप्य् असत्-सतोः

स्व-तेजसापास्त-तमो-भिदा-भ्रमः ।

स्व-माययात्मन् रचितैस् तद्-ईक्षया

प्राणाक्ष-धीभिः सदनेष्व् अभीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : य ईक्षितेत्य्-आदि-चतुर्भिः कलापकम् । तत्रैव शङ्का, नन्व् अस्मद् आदिवद् एव भोक्तृत्व-कर्तृत्वादि-धर्मैस् तत्र तत्र प्रतीयमानस्य कथं विष्णुत्वम् इतीमां शङ्कां श्लोक-त्रयेणापाकुर्वश् चतुर्थेन तम् अहं द्रक्ष्यामीति मनो-रथं करोति । तथा हि, य ईक्षितेति । असत् सतोः कार्य-कारणयोर् ईक्षितापीक्षण-मात्र-कर्ताप्य् अहं रहितोऽहङ्कार-हीनः । तथा अपास्त-तमो-भिदा-भ्रमः, तमः स्वाज्ञानं ततो भिदा भेदस् ततो भ्रमोऽभिनिवेशादिः, अपास्ता अपाकृतास् तम आदयो यस्मिन् सः । कुत एतत् तत्राह—स्व-तेजसा चिच्-छक्त्या नित्य-स्वरूप-साक्षात् कारेण । तथापि स्व-मायया स्वाधीनया मायया तद् ईक्षया तस्यैवेक्षया प्राणाक्षधीभिः सहितैर् आत्मन्नात्मनि स्वस्मिन्न् एव रचितैः जीवैः सदनेषु वृन्दावन-तरुषु गोपी-गृहेषु च लीलया कर्माणि कुर्वन् सक्तवद् अभीयते आभिमुख्येन प्रतीयते ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कालापकम् इति—

श्लोक एकेन युग्मं हि द्वाभ्यां वैशेषिकं त्रिभिः ।

कालापकं चतुर्भिः स्यात् कुलकं तु ततः परैः ॥ इति साहित्य-सन्दर्भोक्तेः ।

तत्र भगवति । एवं वक्ष्यमाणपरीत्या । शङ्काक्षेपोऽस्तीत्य् आह—नन्व् इति । तत तत्र युद्धादौ स्त्र्यादि-ग्रहणे च । अपाकुर्वन्न् इरस्यन् । तथाहि दर्शयति । तम् आद्यपास्तौ हेतुम् आशङ्क्य समाधत्ते—कुत इति । एतत् तम् आदि निरसनम् । तत्र आक्षेपे । यद्य् अपि स्वरूप-साक्षात्कारवान् सदैवास्ते तथापि तस्यैव भगवत ईक्षया ईक्षणेन स ऐक्षत एकोऽहं बहु स्याम् इति श्रुतेः । स्वस्मिन्वेव प्रकाषितै रज्जूरगवत् प्रदर्शितैर् जीवैः । एतेनाध्यास्तानाम् अधिष्ठानातिरेकेण सत्ताया अभावाद् वस्तुतः प्रतीति-कर्तृत्वम् एव न तेषां स्वयम् एवात्मनात्मानम् अपश्यद् इति । अयम् एवार्थो वतिना सक्तवद् इत्य् उक्तेनाभिधीयते लोकवत् तु लीलाकैवल्यम् इति न्यायोऽप्य् अत्रानुकूल एवेति । मनुष्यकृतेस् तस्य लावण्योपलम्भो नयनाभ्याम् एव, स च साम्प्रतं नन्दग्राम एव अन्तर्यामिणः परमेश्वरस्य तस्य त्व् अनुमानेनैवोपलम्भोऽस्मद् आदीनां सदा सर्वत्र वर्तत एवेत्य् आह—य इति । असत्सतोर् जीवस्याशुभशुभ-कर्मणोर् ईक्षिताहंहरितोऽप्य् अहं पश्यामीत्य् अहङ्कारहीनोऽपीत्य् अपिकारेण जीवो देहाहङ्कार-सहित एवेक्षिता, परमात्मा तु तद् देहाहङ्कार-रहित एव द्रष्टा उदासीनः सन् साक्षीत्य् अर्थः । नन्व् अहङ्कार-राहित्याभ्यां को विचारः ? देहस्थितश्चेत् तद्वर्ति-शोक-मोहादिभिर् युज्यत एव, न हि गृहे स्थित आसक्तोऽनासक्तो वा गृहवर्ति ध्वान्तमौष्ण्यं शैत्यं वा नानुभवेत् तत्राह—स्वतेजसा चिच्छक्त्यापास्तं तमोऽज्ञानं तत्-कृता भिदा भ्रमश् च येन सः । यो ह्य् अन्तर्यामी स्वीयया माययात्मनि जीवेऽधिकारेण रचिताः सृष्टा याः प्राणेन्द्रियधियस् ताभिस् तासां स्रष्टा स ईयतेऽनुमीयते, तथा तद् ईक्षया तासां प्राणादीनाम् ईक्षया प्रकाशेन च तासां प्रकाशकः स सदनेषु समष्टि-व्यष्टि-देहेष्व् अनुमीयते । तद् उक्तम् गुण-प्रकाशैर् अनुमीयते । तद् उक्तम् गुण-प्रकाशैर् अनुमीयते भवान् इति । तद् रूप-लावण्यानुभवो हि परम-भाग्य-फलम् एव ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : महनीयत्वम् एवाह—य ईक्षिताहम् एवेत्य् आदि । रचितैर् विलासैः, सदनेषु गोपीनां भवनेषु प्राणाक्ष्धीभिः प्राणैर् जीवनैर् अक्षैर् इन्द्रियैर् धीभिः सः सदनेषु अर्थात् तासाम् अभीयते अभिगच्छति, ईङ्-गतौ दैवादिको यः, अभीयते इति कर्म-प्रत्ययो वा । तम् अहम् ईक्षिता, तत्र कारणम् आह—तद् ईक्षया कथम्-भूतया ? सुष्ठु अमाययेति भावः । स्वतेजसा स्वसामर्थ्येन रहितो\ऽपि असत्सतोर् मध्ये निरस्ततमोभिदाभ्रमः सन् हे आत्मन् ! इति आत्मन एव सम्बोधनम् । यद् वा, तद् ईक्षया मोहं सद् असतोर् ईक्षिता भविष्यामीत्य् अर्थः । रचितैर् विलासैः विशेषणे तृतीया विलास-युक्तयेत्य् अर्थः । तद् ईक्षयेति लव्धो यः स सदनेषु ग्पी-गृहेषु अभीयते प्रत्यक्षी-क्रीयते । कैः ? प्राणैर् जीवनेनाक्षैर् इन्द्रियैर् धिया बुद्ध्या च ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईक्षिताप्य् अहंरहित इत्य् अनेन जीव-वैलक्षण्यम् उक्तम्, स्वतेजसेत्यादिना च, तच् च जीवन्मुक्तेभ्यो वैलक्षण्यार्थं तेषां चिच्छक्त्य् अभावात्, स्वमायया, प्राणाक्षधीभिः प्राणः सूत्रात्मा देह-धारकः । यद् वा, प्रान्ति पूरयन्ति सर्वम् इति प्राणाः पञ्च-महा-भूतानि विषयाश् च, अक्षाणि इन्द्रियाणि, धियोऽन्तःकरणानि ताभिः सह रचितैर् इति सपरिवाराणां जीवानां मायावृतत्वादात्मानुसारेण ईश्वरस्यापि तथैव मननात् सक्तवत् प्रतीतौ हेतुः । तत्र च तदीक्षयेति, मायायाः स्वतः सामर्थ्याभावेन, आत्मन्-रचितैर् इति तेषां तद् एकाधिष्ठानतया स्वतो यथार्थ-ज्ञान-राहित्यम् एवाभिप्रेतम्, अतः सक्तवत् प्रतीतिर् अत्यन्तम् इथ्यैवेति भावः—अलुप्त-ज्ञानाद्यैश्वर्यत्वाद् इति । अन्यत् तैर् व्याख्यातम् ।

अथ ननु, गोचारणायेत्य् आद्य् उक्त्या तादृशम् एव कथं द्रष्टुम् इच्छसि, न च कथम् अहङ्कारादि-रहितम् इत्य् आशङ्क्याह—य इति । ईक्षितापि सदसतोर् ब्रह्माण्ड-तत्-कारणयोर् अहं-रहितो ममेदम् इत्य् आद्यभिमानहीनोऽपि स्वतेजसापास् ततम्-आदिर् अपि श्री-नन्द-गृहादिषु सक्तवदेवाभीयतेऽनुभूयते जनैः । कैर् इत्य् अपेक्षायाम् आह—स्व-माययेत्य् आदि । स्व-शब्देन आत्म-शब्देन तच् छब्देन च स्वीयत्वेनानुगृहीतैर् जीवैर् इत्य् अर्थः । प्राणाक्षधीभिः सहेति, अन्यथा तादृश-प्रतीत्य् अभावेन तद् असेवया तासां वैयर्थ्यापत्तेः6

ननु, तस्योपलम्भनं परम-दुर्लभम् ? तत्राह—य इति । त्रिभिर् विशेषणैः सुदुर्लभत्वम् उक्तम्, तथापि निज-गृहेऽपि तदीक्षया तद् अनुसन्धानेन जीवैर् अभीयते अभितः प्राप्यते, किं पुनः श्री-नन्द-गृह इत्य् अर्थः । तत्र हेतुः—स्वमायया निज-कृपया आत्मन् आत्मनि भवारति-निमित्ते तत्-प्राप्त्य् अर्थः प्राणाक्षधीभिः कृत्वा रचितैः सृष्टैः ।

यद् वा, तस्य तया वा निजानुग्रह-सम्बलितया ईक्षया दृष्ट्या प्राणादिभिः सह रचितैः, अभि अभयं यथा स्यात्-तथा ईयते प्राप्यते । अनेन प्रियतया प्राप्तिर् अभिप्रेता, अन्यत् तथैव । अत एवोक्तं मोक्ष-धर्मे—

जायमानं हि पुरुषं पश्येद्यं मधुसूदनः ।

सात्त्विकः स तु विज्ञेयो भवेन्मोक्षार्थं निश्चितः ॥ इति ।

अस्यार्थः—पश्येत् कृपयावलोकयेत्, मोक्षस्यार्थः फलं भक्तिस् तस्मिन् निश्चितो दार्ढ्यं गत इति । यद् व, अहङ्कार-रहितोऽपि अपास्ततम-आदिर् अपि, स्वस्य तेजसा प्राभावेण कारुण्य-महिम्ना सदसतोः स्थूल-सूक्ष्मयोर् नीचोच्चयोर् वा ईक्षिता अवलोकत इति परम-कारुण्यम् उक्तम् । अतः स्वमायया तदीक्षयात्मन्-रचितैर् अत्यन्त-मायावशैर् अपि जीवैर् इत्य् अर्थः । प्राणादिभिस् तत्-तच् चेष्टया7 कृत्वा अभीयतेऽनुभूयते । तत्र प्राण-चेष्टा देह-चेष्टैव-विविध्स-परिचर्यात्मिका, इन्द्रिय-चेष्टा-दर्शनादि-रूपा देह-चेष्टैव—विविध-परिचर्यात्मिका, इन्द्रिय-चेष्टा—दर्शनादि-रूपा, धीचेष्टा—विश्वासाद्य् आत्मिका ज्ञेया । अन्यत् समानम् । अलम् अतिविस्तरेण ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ त्रिभिर् एव कुलकम् । स चावतीर्ण इत्य् अन्तेनान्वय परिप्राप्तेः तत्र य ईक्षितेति तैर् व्याह्यातम् । तत्र ननु, अस्मद् आदिवद् एवेत्यादिकं परमतमेवानूदितं पूर्वं श्री-भगवति दृढ-श्रद्धामयत्वेनोक्तत्वात् तथेक्षण-मात्रकर्ताप्य् अहंरहित इतीक्षण-मात्रं स करोति तदीक्षण-लब्ध-सामर्थाया मायाया एव सृष्ट्यादि-कर्तृकत्वम् इति भावः । तस्मिन् ईक्षणेऽप्य् अहङ्कार-रहित आवेश-शून्य इत्य् अर्थः । तद् एवम् आवेशाभावाज् जीववैलक्षण्यम् उक्तम् । स्वतेजसेत्यादिनान्येषाम् अपि तम आदिध्वंसकत्वाज् जीवन्मुक्तेभ्योऽपि । चिच्-छक्ति-शब्देन हि तृतीये योगमाया व्याख्या सा च श्री-सनकादौ निषिद्धेति ततश्-चिच्-छक्ति-स्वरूप-साक्षात्कारयोर् वियधिकरण्य एव तृतीया तस्यावृत्तित्वात् तस्य । प्रणाक्सधीभिः कर्मेन्द्रिय-ज्ञानेन्द्रियान्तःकरणैः । आत्मनि आत्मांशे ममैवांशो जीव-लोके जीव-भूतः सनातनः [१५.६] इति श्री-भगवद्-उपनिषद्-दृशा

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।

तासां विलक्षणो जीवः साक्सित्वेन विनिश्चितः ॥

इति श्री-भगवद्-वाक्यान्तरीत्या शुद्ध-जीवे जीवैः प्रमातृरूपैः अतः स्वेषां प्राणाद्यावृतवानुसारेण ईश्वरस्यापि तत्-प्रतीतिः । तत्र च तदीक्षयेति मायायाः स्वतः सामर्थ्याभावेन आत्मनि रचिर् इति च तेषां तद् एकाश्रयत्वे स्वतो यथार्थ-ज्ञान-भावोऽभिप्रेतः । वृन्दावन-तरुष्व् इत्य्-आदिकम् अभिशब्दस्वारस्येन ज्ञेयम् । तत्राभिमुख्येन सक्तवत्त्वं सक्तवत् तस्य प्रस्तुत-विषयत्वेन वृन्डवनेत्य् सादि तत्र च वति-प्रत्यये हेतुर् लीलयेति पुनः पुनर् इदम् अज्ञानम् अक्रूरस्य संशयानुच्छित्तेः । श्री-कृष्णस्य तत्-प्रेमासक्तत्वे निर्णीते ततो नयना-प्रवृत्तिः स्यात् ।

यद् वा, यः स्वाधीनया मायया आत्मनि देहे रचितैः कारिताध्यासैर् जीवैः सदनेषु चिच्छक्त्या अपास्तं तमो जीवस्येवाज्ञानं तत्-कृता भिदा भ्रमश् च येन । कैः प्रतीयते तत्राह । सदसतोरीक्षया याः प्राणक्षधियः कर्मेन्द्रिय-ज्ञानेन्द्रियान्तः करणानि तत्-तद् रूपतां प्राप्तास् ताभिर् एव ताम् ईक्षां विना ता स्वस्वकार्यक्षमा न भवन्तीति विचार्येत्य् अर्थः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु कथं तस्य तादृशं दौर्लभ्यं तल्लाभमाहात्म्यञ्च । यदि च तत्तर्हि कर्हि सौलभ्यं येन तवापि तादृशभाग्यश्लाघा स्यादित्य् अत्र विवृणेति । य ईक्षितेति चतुर्भिः । तत्राद्यद्वयं कौमुत्येनाह द्वाभ्याम् । दौर्लभ्यं तावदाह । य ईक्षितेति । अपीति समुच्चये । सदसतोरीक्षितापि तदावेशरहितो ऽपि । उभयत्र हेतुः स्वतेजसेति । ईक्षतेत्यादिरूपत्वेन सर्वगोचरस्वरूपो यः स्वमायया स्ववीक्षया चात्मनि रचितत्वेन स्वतः सामर्थ्यहीनैस्तं द्रष्टुमयोग्यैश् च जीवैः प्राणादिप्रवृत्तिलिङ्गेन सदनेषु तदधिष्ठानरूपेषु सर्व-भूतेषु अभीयते प्रतीयते । अनुमीयते मात्रं नतु दृश्यते यथोक्तं द्वितीये “भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर्बुद्ध्यादिभिद्रंष्टा लक्षणैरनुमापकै"र् इति एवं “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जग"द् इति उक्तदिशा तदंशस्यापि परमदौर्लभ्यं दर्शितम् ॥११.१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुष्याकृतेस् तस्य लावण्योपलम्भो नयनाभ्याम् एव स च साम्प्रतं नन्द-ग्राम एव अन्तर्यामिणः परमेश्वरस्य तस्य त्व् अनुमानेनैवोपलम्भोऽस्मद् आदीनां सदा सर्वत्र वर्तत एवेत्य् आह । य इति । असत् सतोः जीवस्याशुभ-शुभ-कर्मणोर् ईक्षिता अहं-रहितोऽप्य् अहं पश्यामीत्य् अहङ्कार-हीनोऽपीत्य् अपि-कारेण जीतो देहाहङ्कार-सहित एव ईक्षिता परमात्मा तु तद् देहाहङ्कार-रहित एव ईक्षिता द्रष्टा तदासीनः सन् साक्षीत्य् अर्थः ।

नन्व् अहङ्कार-राहित्य-साहित्याभ्यां को विचारः देह-स्थितश् चेत् तद् वृत्त्-शोक-मोहादिभिर् यज्यत एव न हि गृहे स्थित आसक्तोऽनासक्तो वा गृहवतिध्वान्तम् औष्ण्यं शैत्यं वा नानुभवेत् तत्राह स्व-तेजसा चिच्छक्त्या अपास्तं तमोऽज्ञानं तत् कृता भिदा भ्रमश् च येन सः यो ह्य् अन्तर्यामी स्वीयया आत्मनि जीवेऽधिकरणे रचिताः सृष्टा याः प्राणेन्द्रियधियस् ताभिस् तासां स्रष्टा स ईयते अनुमीयते यथा तद् ईक्षया तासां प्राणादीनाम् ईक्षया प्रकाशेण च तासां प्रकाशकः स सदनेषु समष्टि-देहेषु अनुमीयते यद् उक्तं गुण-प्रकाशैर् अनुमीयते भवान् इति तद् रूप-लावण्यानुभवो हि परम-भाग्य-फलम् एव यस्य सङ्कीर्तनान्य् अपि जगद् उद्धारकाणीत्य् आह । यस्येति । अखीलानि अखिलस्य वा अमीवानि पापानि घ्नन्तीत्य् अखिलाम्मीवहानि तैः शोभनानि मङ्गलानि येभ्यस् तैर् यस्य गुण-कर्म-जन्मभिर् विमिश्रा युक्ता वाचो वाक्यानि जगत् तद् वक्तृ-श्रोत्रात्मकं प्राणन्ति जीवयन्ति जीवयित्वा शुभन्ति कृपालुत्वं निर्मत्सरत्वादिभिर् अलङ्कारैः शोभयन्ति शोभयित्वा च पुनन्ति आविद्यक-दोषात् पवित्रयन्ति व्यतिरेकम् आह । या इति । तैर् गुण-कर्म-जन्मभिर् विरक्ता रहिता वाचः गुणालङ्कारादिमत्योऽपि शव-शोभनाः शवान् शोभयन्तीति ताः प्रथमञ्जीवतोऽपि तद् वक्तृ-श्रोत्रात्मकान् जनान् शवान् कुर्वन्ति तत उपमाद्य् अलङ्कारैर् अलङ्कारैर् इव शोभयन्तीति शव-शोभनाः सतां सम्मताः यद्यशः ॥११॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१२ ॥

यस्याखिलामीव-हभिः सु-मङ्गलैः

वाचो विमिश्रा गुण-कर्म-जन्मभिः ।

प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्

यास् तद्-विरक्ताः शव-शोभना मताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सर्वथाहङ्कारादि-रहितस्यात्मारामस्य लीलापि कुत इत्य् आशङ्क्य परानुग्रहार्थेत्य् आशयेनाह—यस्येति । अखिलान्य् अखिलस्य वा अमीवानि पापानि घ्नन्तीत्य् अखिलामीव-हानि तैः । तथा सु-मङ्गलैः शोभनानि मङ्गलानि येभ्यस् तैः । गुणाः करुणादयः कर्माणि जन्मानि च तैर् वेमिश्रा युक्ता वाचो जगत् प्राणन्ति जीवयन्ति, शुम्भन्ति शोभयन्ति, पुनन्ति पवित्रयन्ति । व्यतिरेकम् आह—या इति । तैर् विरक्ता रहितास् तास् तु स्व्-अलङ्कृता अपि वस्त्राद्य्-अलङ्कृत-शव-वच्-छोभमाना मताः सतां संमताः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लीलायाम् आक्षिपति—नन्व् इति । अखिलानीति कर्मधारये कस्येत्य् आकाङ्क्षोदयात् तत्-पुरुषम् आह—अखिलस्य वेति । वाचो भक्तानुकुम्पिन् मुरारे यशोदासूतो इत्य् एवं लक्षणाः । व्यतिरेकं गुण-कर्म-जन्ममिश्राभावम् आह । तैर् गुण-कर्म-जन्मभिः । ता वाचः । स्वलङ्कृताः उपमारूपमोत्प्र्क्षाद्य् आलङ्कारयुक्ता अपि । यथास्या मुखं सुन्दरम् इत्य् अर्थे वर्णनीये अस्या मुखं कमलम् इवेत्य् उपमा । एतन् मुखम् एतन् मुखम् इवेत्य् अन्वयः । मुख-कमलं रम्यम् इति रूपकम् । अस्या मुखे भ्रमरा अब्जमत्या पतन्तीति भ्रान्तिमद् अलङ्कारः । अस्या मुखे कृते धात्रा किं पद्मे न किम् इन्दुना इति आक्षेपः । एतन् मुखं किं तु कमलम् इत्य् अपह्नुतिः । मन्य एतन् मुखं कमलम् इत्य् उत्प्रेक्षा, एवम् अन्यद् अप्य् ऊह्यम् । यथा सुवस्त्राद्य् अलङ्कृतोऽपि शवो न शोभते तद्वत् । अत एवोक्तम्

न यद्-वचश् चित्रपदं हरेर् यशो

जगत् पवित्रं प्रगृणीत कर्हिचित् ।

तद् वायसं तीर्थम् उशन्ति मानसा

न यत्र हंसा निरमन्त्य् उशिक्क्षयाः ॥ इति प्रथमे ।

यस्य सङ्कीर्तनान्य् अपि यदुद्धारकाणीत्य् अःअ—यस्येति । अखिलानि अखिलस्य वामीवानि पापानिघ्नन्तीत्य् अखिलामीवहानि तैः, शोभनानि मङ्गलानि येभ्यस् तैर् यस्य गुण-कर्मविमिश्रा वाचो वाक्यानि जगत् तद् वक्तृश्रोत्रात्मकं प्राणन्ति जीवयन्ति, जीवयित्वा शुभन्ति कृपालुत्व-निर्मत्सरत्वादिभिर् अलङ्कारैः शोभयन्ति, शोभयित्वा च पुनन्ति आविद्यकदोषात् पवित्रयन्ति । तद् रहिता वाचो गुणालङ्कारादिमत्योऽपि शवाष्शोभयन्ति ताः । प्रथं जीवतोऽपि तद्वक्तृश्रोत्रात्मकाञ्जनाञ्छवान् कुर्वन्ति, तत उपमाद्यैर् अलङ्कारैर् इव शोभयन्तीति । तद् उक्तम्

जिह्वासती दार्दुरिकेव सूत

न चोपगायत्य् उरुगाय-गाथाः ।

बिले बतोरुक्रम-विक्रमान् ये

न शृण्वतः कर्ण-पुटे नरस्य ॥ इत्य्-आदि उक्तेः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमीवहभिर् इति सवासनाशेष-पाप-हन्तृत्वम् उक्तम् । तेनाखिल-दुःख-विनाशकत्वम् अपि तेषां सिद्धम् । महा-पुण्यजनकत्वं तेन परम-सुख-प्रदत्वं चाह—सुमङ्गलैर् इति । सु-शब्देन क्षयिष्णुत्वादिकं दर्शितम् । गुणादिभिर् विमिश्रा वाच इति स्वभावतः कथ्यमानासु बहु-विध-ग्राम्य-कथासु कवीनां काव्येषु वा कथञ्चिद् आपतितैर् भगवद्-गुणादिभिर् युक्ता अपि, किं पुनः केवल-गुणादि-कीर्तनात्मिका इत्य् अर्थः । तत्र च वि-शब्देन विकलतया योगेन च साकल्येनेति द्योत्यते, कर्माणि पूतना-वधादीनि, जन्मानि अवतार-रूपाणां जन्मस्वेवान्तर्भावः, जन्मानुरूपाकारादिमत्त्वात् प्रथमं प्राणन्ति । जीवताम् अपि गुणादि-शोभां विना मरण-सादृश्यम् एवेत्यत आह—शुम्भन्ति । तथापि दुर्वासनया मुमुक्षादिकया शोभा न स्याद् इत्य् अत आह—पुनन्ति, विविध-दुर्वासना-ध्वंसनेन शोधयन्ति जगद् इति अधिकारापेक्षा निरस्ता । वै समुच्चये, प्रसिद्धौ वा । सा चाजामिलोपाख्यानादौ ज्ञेया । विशेषेण रिक्ताः शून्या इति, यत्-किञ्चित्स्-अम्बन्धेनापि सत्यत्वं शोभनत्वम् अभिप्रेतम् । अन्यत् तैर् व्याख्यातम् ।

तत्र तैर् इति वाक्येन तेषाम् अपि मते विविक्ताः इत्य् एव वा पाठः, अन्यथा तेषु इत्य् एव वक्तुं युज्यते । किं च, राग-वैराग्यादि-धर्मश् चेतनानाम् एवेति वाक्षु स न सम्भवेद् एवेति । पक्षान्तरे चेदम्—अहो किं वक्तव्यम्, तत्-कारुण्य-महिम्ना जीवानां तादृशत्वं स्याद् इति कथञ्चित् तज् जन्मादि-सम्बन्धेनापि अचेतनाः प्राण-हीनाः प्रिया-रूपा वाचोऽपि सप्राणाः सर्वोत्कर्षवत्यो भवन्तीत्य् आह—यस्येति । प्राणन्ति सप्राणा भवन्ति, प्राणोऽहङ्कार-विशेषः, फलं वा, शुम्भन्ति अलङ्कार-रहिता अपि शोभन्ते, वै अपि, जगद् अपि पुनन्ति, शवा अपि शोभना याभ्यस् ताः, शवानां निष्प्राणत्वं शोभा-राहित्यम् अपावनत्वं च8 व्यक्तम् एव । तेभ्योऽपि भगवद्-गुणादि-राहित-वाचाम् अशोभनत्वम् अन्येषाम् अपि पापादि-जनकत्वेन जीवनादि-हरणाद् इति । अयं साधारणः सर्वत्र तस्य महिमा राजत एव ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् एव परमात्मत्वेन दुर्लभत्वम् उक्त्वा सर्व-मङ्गलार्थं कृतनाना-लीलावतारत्वेन सुलभस्यापि ये बहिर्मुखास् तान् निन्दति । यस्येति । गुणादिभिस् तत्-प्रतिपादकवाग्भिर् विमिश्रा इति मध्ये मध्येऽपि विशिष्टतया तद् उक्ता इत्य् अर्थः । तादृशो वाचो भस्त्राः किं न श्वसन्त्युतेति न्यायेन तद्-व्यतिरेके मृतप्रायत्वात् । प्रथमं तावत् सम्बन्ध-मात्रेण सफल-जीवनं कुर्वन्ति । ततश् च यस्यास्ति भक्ति-भगवत्य् अकिञ्चनेत्य् अनुसारेण तत्-तद्-गुण-प्रकाशेन शोभयन्ति । ततश् च मुमुक्षापर्यन्त-विविध-दुर्वासनाध्वंसनेन शोधयन्ति । अतस् तासां वाचान्तु सुतरां तत्-तद् भावं इति भावः । जगद् इत्य् अधिकारापेक्षा निरस्ता । वै प्रसिद्धौ । तत्-तद्-हेतुत्वेन गुणादीनां स्वभावानाह । अखिलेति । सुमङ्गलेति च सर्व-दुःख-नाशकैः सर्वोत्तम-गुण-प्रदैर् इत्य् अर्थः । विशेषेण रिक्ता शुन्या इति स्थानैक-द्वय-सम्बन्धेनापि तदाद्य् अभिप्रेतं शवेति सालङ्कारा अपि शवप्राया इत्य् अर्थः । शवस्य स्वतो व्यर्थ-स्थितत्वात् पुत्रोत्पादनाशक्त्या परस्यापि प्राण-प्रदत्वाभावात् तथा स्वतोऽशोभनत्वात् स्वधिष्ठानस्याप्य् अशोभा-हेतुत्वात् तथा स्वतोऽपवित्रत्वात् परस्याप्य् अपावनत्वाच् च तैर् इति निर्देशेन रहिता इति च व्याख्यानेन तेषाम् अपि मते विरक्ता इत्य् एव पाठो न तु विरिक्ता इति स पाठस् तु प्रायः सर्वत्र तेषु विरक्ता आसक्ता इत्य् अर्थः । अन्यत् तैः । तत्र लीलायाः परानुग्रहाद्य् अर्थत्वे यद्य् अपि पर-मत-प्रेमवत्सु व्रज-वासिषु तद् वैशिष्ट्यापत्या सक्तत्वम् अपि विशेषतः समायाति तथापि वैशिष्ट्य-ज्ञानात् पूर्ववत्-तद्-अज्ञानम् एवेति तथावतारितम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : महानीयत्वम् एव दर्शयति—य इक्षितोऽहम् इत्य्-आदि । योऽहं तद् ईक्षयैव ईक्षिता तद्-द्रष्टा भविष्यामीत्य् अर्थः । यतः स्वतेजसा स्वसामर्थ्येन रहितः । कीदृश्या तद् ईक्षया ? स्वमायया सुष्ठु अमायया तदीक्षया तद्-दर्शणेन तस्य निष्कैतघावलोकेन । तद् इति कस्य ? तद् आह—रचितैविलासैः सदनेषु गोपीनां भवनेषु प्राणाक्षधीतिः सह य ईषते, ईड्-गतौ दैवादिकः, गच्छतीत्य् अर्थः । प्राणैर् जीवनैर् अक्षिर् न्द्रियैर्धीभिबुद्धिभिः सह भवनेषु ईयते गम्यत इति वा कमसाधनम् । स्वतेजसो स्वसामर्थ्येन रहितोऽप्य् अयसत्सतोर्मध्ये निरस्तभिदाश्रमः सन्निति वा । तद् ईक्षयेत्यावत्तेनीयम् । असत् कारण सत् कार्यम् । हे आत्मन् ! हेमनः इत्य् आत्मन एव सम्बोधनम्, मनसा हस सङ्कथया । यद् वा, तदीक्षया योऽहं सदसतोरीक्षिता भविष्यामीत्य् अर्थः । कीदृश्या ? सुष्ठु अमाययेति पूर्ववत् । रचितैर् विलासैर् युक्तयेति विशषणे तृतीया । तदीक्षयेति तच्-छब्दसापेक्षो यच्-छब्दोऽध्याहार्यः । यः सदनेष्वीयते गम्यते गोपीनां गृहेषु लम्यत इत्य्-आदि पूर्ववत् । यद् गोपिकानां कुच-कुङ्कुमाचितम् [भा।पु १०.३८.८] इत्य् अत्र गोपिका-शब्द-श्रुत्या तत्-सम्बन्धित्वं भवनानां बहुत्वाच् च, अन्यथा भवनेष्व् इति बहुत्वं न घटते ॥१२.१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनुष्याकृतेस्तस्य लावण्योपलम्भो नयनाभ्याम् एव सच साम्प्रतं नन्दग्राम एव, अन्तर्यामिनः परमेश्वरस्य तस्य त्वनुमानेनैवोपलम्भो ऽस्मदादीनां सदा सर्वत्र वर्तत एवेत्य् आह—य इति । असत्सतोः जीवस्याशुभशुभकर्मणोरीक्षिता अहंरहितो ऽप्यहं पश्यामीत्यहङ्कारहीनो ऽपीत्यपिकारेण जीवो देहाहङ्कारसहित एव ईक्षिता परमात्मा तु तद्देहाहङ्काररहित एव ईक्षिता द्रष्टा तदासीनः सन् साक्षीत्य् अर्थः । नन्वहङ्कारराहित्यसाहित्याभ्यां को विचारः? देहस्थितश्चेत्तद्वर्तिशोकमोहादिभिर्युज्यत एव, नहि गृहे स्थित आसक्तो ऽनासक्तो वा गृहवर्तिध्वान्तमौष्ण्यं शैत्यं वा नानुभवेत्तत्र् आह—स्वतेजसा चिच्छक्त्या अपास्तं तमो ऽज्ञानं तत्कृता भिदा भ्रमश् च येन सः । यो ह्यन्तर्यामी स्वीयया मायया आत्मनि जीवे ऽधिकरणे रचिताः सृष्टा याः प्राणेन्द्रियधियस्ताभिस्तासां स्रष्टा स ईयते अनुमीयते । तथा तदीक्षया तासां प्राणादीनाम् ईक्षया प्रकाशेन च तासां प्रकाशकः स सदनेषु समष्टिदेहेषु अनुमीयते यदुक्तं (भा १०.२.३५) “गुणप्रकाशैरनुमीयते भवान्) इति । तद्रूपलावण्यानुभवो हि परमभाग्यफलमेव यस्य सङ्कीर्तनान्यपि जगदुद्धारकाणीत्य् आह—यस्येति । अखिलानि अखिलस्य वा अमीवानि पापानि घ्नन्तीत्यखिलामीवहानि तैः । शोभनानि मङ्गलानि येभ्यस्तैर्यस्य गुणकर्मजन्मभिर्विमिश्रा युक्ता वाचो वाक्यणि जगत्तद्वक्तृश्रोत्रात्मकं प्राणन्ति जीवयन्ति जीवयित्वा शुम्भन्ति कृपालुत्वनिर्मत्सरत्वादिभिरलङ्कारैः शोभयन्ति शोभयित्वा च पुनन्ति । आविद्यकदोषात् पवित्रयन्ति व्यतिरेकम् आह—य इति । तैर्गुणकर्मजन्मभिर्विरक्ता रहिता वाचः गुणालङ्कारादित्यो ऽपि शवशोभनाः शवान् शोभयन्तीति ताः । प्रथमं जीवतो ऽपि तद्वक्तृश्रोत्रात्मकान् जनान् शवान् कुर्वन्ति । तत उपमाद्यलङ्कारैर् इव शोभयन्तीति शवशोभनाः सतां सम्मताः यद्यशः ॥१२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१३ ॥

स चावतीर्णः किल सात्वतान्वये

स्व-सेतु-पालामर-वर्य-शर्म-कृत् ।

यशो वितन्वन् व्रज आस्त ईश्वरो

गायन्ति देवा यद् अशेष-मङ्गलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वयं रचितान् सेतून् वर्णाश्रम-धर्मान् पालयताम् अमर-वर्याणां सुख-कर्ता सन्न् अवतीर्णः । यद् यशः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्त्व् एवं प्रकृते किम् आगतं तत्राह—स चेति । स च भगवान् । किलेति प्रसिद्धम् । सोऽवतीर्ण इह किं मानम् इति चेद् आह—गायन्ति । देवा व्यासदेव-प्रभृतयः । गेय-सम्भवे गानं युक्तं सति कुड्ये चित्रम् इति न्यायेन । अशेषाणां सर्वेषां श्रोतृ-वक्तृ-प्रभृतीनां मङ्गलं श्रेयस्करम् । तद् एवं य ईक्षिता यस्य च नाना-गुण-कर्मणां तादृङ् माहात्म्यं स तु सोऽपि स्वयं सात्वतान्वयेऽवतर्णिः सन् व्रज आस्त इति सम्बन्धः । किलेति महत्सु शान्तेषु च प्रसिद्धिं प्रमाणयति । स्वसेतवो भगवद् धर्मादि-मर्यादाः । अमरवर्या ब्रह्म-रुद्राद्याः न केवलं तद् अवतादि-दर्शिनां तेषाम् एव शर्म-कृद् अपि त्व् अन्येषाम् अपीत्य् आह—यश इति । तद् एव प्रशंसति—यद्य् अशो देवाः सर्वाराध्या अपि गायन्ति यच् च परम-निकृष्ट-पर्यन्ताशेष-जीवानां माङ्गलम् इति । तत् तत्-कर्तृत्वं च नास्मादादिवत्-कर्म-पारवश्येन किं तु स्वातन्त्र्येणेत्य् आह—ईश्वरः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना चट्र भगवत्त्वा-प्रकटनेनातोऽपि विशिष्ट इत्य् आशयेनाह—स चेति । त्व् अर्थे चकारः । पूवतो विशेषाय तम् एव दर्शयति—यदुकुलेऽवतीर्ण इत्य्-आदिना । यद् वा, अप्य् अर्थे चकारः, सोऽपि, किलेति शास्त्रादि-प्रसिद्धिं प्रमाणयति—स्वसेत्विति । अन्यथामरवर्याणां दुःखेन निज-कृतमर्यादाभिदापत्तेर् इति भावः ।

यद् वा, स्वसेतुपालोऽमरवर्यो ब्रह्मा तस्य शर्मकृत्, तस्यैव प्रार्थनयावतीर्णत्वात्, तद् उक्तम् एव विखनसार्थितः [भा।पु १०.३१.४] इति । तथापि ब्रह्माण्ड-नायकस्य तस्य शर्म-कृत्वेन तत्रत्यानां सर्वेषाम् एव स्वतः शर्म सिध्योद् एव । विशेषेण तन्वन् पूर्वतोऽप्य् आधिक्येन विस्तारयन्, अशेष-भगवत्ता-प्रकटनात्, व्रज आस्ते वसतीति, अन्यत्र तादृश-यशो-विस्तारणा-सिद्धेः । ईश्वर इति निजाशेषैश्वर्य-प्रकटनाभिप्रायेण । यद् वा, ईश्वर इच्छा-मात्रेण कंसादि-वधतो भू-भार-रहरणेऽमरवर्य-शर्म-करणे च समर्थोऽपि व्रज आस्ते, किम् अर्थम् ? यशो वितन्वन् ।

यद् वा, ईश्वरो मादृशां प्रभुर् अपि व्रज एव यशो वितन्वन् आस्ते, अशेषाणि मङ्गलानि यस्मिन् यस्माद् वा । यद् वा, अशेषाणां विषयि-मुमुक्षु-मुक्त-भक्तादीनां मङ्गलम्, तच् च केषाञ्चित् साधनत्वेन केषाञ्चिच् च साध्यत्वेनेत्य् एवं यथा-यथं विवेचनीयम् । अतः कथञ्चिद् एव व्रजाद् आगच्छेद् इति । यद् वा, यशसोऽशेष-मङ्गलत्वेन देव-गेयतेन च देव-यादवादि-हितार्थम् आगमिष्यत्येवेति निगूढो भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं य ईक्षिता यस्य च नाना-गुण-कर्मणां तादृङ्माहात्म्यं स तु सोऽपि स्वयं सात्वतान्वयेऽवतीर्णः सन् व्रजे आस्त इत्य् अन्वयः । किलेति महत्सु शान्तेषु च प्रसिद्धं प्रमाणयति । स्वसेतवो भगवद्-धर्मादि-मर्यादाः अमरवर्याः ब्रह्म-रुद्रादयः । न केवलं तद् अवतारादि-दर्शिनां तेषाम् एव शर्मकृत् । अपि त्व् अन्येषाम् अपीत्य् आह । यश इति । तद् एव प्रशसति यद्-यशो देवाः सर्वाराध्या अपि गायन्ति । यच् च परम-तद्वत्-तद् अंशावतारस्यापि लाभ-माहात्म्यम् आह । यत्येति । निकृष्टपर्यन्ताशयजीवानां मङ्लम् इति । तत्-तत्-कर्तृत्वं च न त्व् अस्मदादिवत् कर्मपारवश्येन किन्तु स्वातन्त्र्येणेत्य् आह । ईश्वर इति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निगमयति । तं त्विति । तस्मान्महदेव मम भाग्यमिति भावः ॥१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृशिमतां चक्षुष्मतां महोत्सवस्वरूपं श्रियो विष्णुवक्षःस्थलस्थिताया अपि लक्ष्मा ईप्सितानां रतिरासविलासादीनाम् आस्पदं रूपं दधानं तमीश्वरं द्रक्ष्यामि, अत्रलिङ्गम्, उषसः प्रभातसमयाः सुदर्शनाः शुभसूचका वभूवुर् इत्य् अर्थः । बहुवचनेन ते वह्वीनां रात्रीणां ज्ञेयाः । अन्यथेदृशं फलं न स्याद् इति भावः ॥१३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१४ ॥

तं त्व् अद्य नूनं महतां गतिं गुरुं

त्रैलोक्य-कान्तं दृशिमन्-महोत्सवम् ।

रूपं दधानं श्रिय ईप्सितास्पदं

द्रक्ष्ये ममासन्न् उषसः सु-दर्शनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रै-लोक्ये एकम् एव कान्तम् । दृशिर् दृष्टिस् तद्वतां महान् उत्सवो यस्मात् । यद्वा महान् उत्सव एव । अत एव श्रिय ईप्सितम् आस्पदम् एवं-भूतं रूपं श्री-मूर्ति दधानं तम् ईश्वरं द्रक्ष्यामीति । अत्र लिङ्गम् । उषसः प्रभात-समयाः सु-दर्शनाः शुभ-दर्शनाः । सुखं प्रभाता रजन्यः शुभ-सूचिका बभूवुर् इत्य् अर्थः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-मानसं प्रति वक्ति—तं कृष्णम् । महतां गतिं महद्भिर्गम्यम् । एकम् एवेत्य् एव कारेणान्य् अत्र तादृश-सौन्दर्य-व्यवच्छेदो बोध्यते स्व-मूर्त्या लोक-लावण्य-निर्मुक्त्या इति वक्ष्यमाणत्वात्, परं पदं भूषण-भूषणाङ्गम् इत्य्-आद्य्-उक्तेश् च । पञ्चमी-बहुव्रीहिणोत्सव-हेतुत्वं प्रतीयते । पुत्र जन्मादिवन् न तूत्सव-रूपत्वम् इत्य् अस्वारस्यादाह—यद्वेति । उत्सवो मह उत्सकेः इति कोशाद् उत्सवो भद्र-हेतुर् इत्य् अर्थः । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः इति श्रुतेः । एवं-भूतं श्री-काङ्क्षितम् । अत्र दर्शने । लिङ्गं हेतुः । इत्य् अर्थ इति-प्रातः शुभशकुनादिभिर् ज्ञायतेऽवश्यं मे भगवद् दर्शनं भविष्यतीति भावः । नन्व् एवं साधारण्यञ्चेत् तस्मात् तव किं वैशिष्ट्यं तत्राह—तं त्विति । नूनं निश्चिये । तु शब्दः सर्वयादवादितोऽपि निज-भाग्य-विशिष्ट्य-विवक्षया । अहं त्वद्यैव त म्द्रक्ष्ये, महतां महा-भागवतानां गतिं गम्यं गुरुञ्चोपदेष्टारम् इति साध्य-साधनत्वम् उक्तम् । रूपं सौन्दर्यम् । एवं सामान्यत उक्त्वा श्री-कृष्ण-रूपे तस्मिन् विशेषम् आह—त्रैलोक्य [मध्ये मध्योऽर्धलोकः स च महा-वैकुण्ठ-पर्यन्तः सोऽपि महा-नारायण-पर्यन्तस् तस्माद् अपि] कान्तम् । अत एव स्व-सहितानां तादृशाम् अपि दृशिमतां महोत्सवम् । वक्ष्यते च महा-काल-पुरनाथेन श्री-भगवता द्विजात्मजा मे युवयो दिदृक्षुणा मयोपनीता इति । उक्तं च उद्धवेन विस्मापनं स्वस्य च इति । न केवलं स्वरूपरीयसाम् एव तादृशं तत्, अपि तु स्व-शक्तिवरीयस्या अपीति वदंस्तादृशसुभगतायां हेतुम् आह—सर्व-सौभाग्याश्रय-रूपायाः श्रियोऽपि ईप्सितम् ईप्सा तस्या आस्पदं न तु महा-नऋआयणादिवद् भोग्यम् अपीत्य् अर्थः । तद् उक्तम्—यद् वाञ्छया श्रीर् ललनाचरत् तपः इति । उषस इत्य् अनेन बह्व्यो रात्रयश् चिरं सुप्रभाताः सन्ति, अन्यथेदृशं फलं न स्याद् इत्य् अर्थः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद् वा, एवं यशसो माहात्म्यं प्रदर्शितम्, तादृशं यस्य यशस् तम् अद्य साक्षाद्-द्रक्ष्यामीत् यत्र9 तात्पर्यम् ऊह्यम्, तु-शब्दो वाक्यालङ्कारे । पूर्वोक्तार्थे चकारः । यद् वा, नूनम् अद्य द्रक्ष्यामि महतां श्री-ब्रह्मादीनां भागवतानां वा गतिं गम्यं गुरुं चोपदेष्टारम् इति साध्य-साधनत्वम् उक्तम् । एवं सामान्येनोक्त्वावतारेऽस्मिन् विशेषम् आह—त्रैलोक्येत्य् आदिना । यद् वा, महतां श्री-नन्दादीनाम्, दधानं प्रकटयन्तम्, अन्यत् तैर् व्याख्यातम् ।

तत्र दधानम् इत्य् अस्य प्रकटयन्तम् इति व्याख्यानं10 विशेषण-विशिष्टतया धारणस्य विशेषण एव तात्पर्येण दोषास्पर्शात्, एवम् अन्यत्राप्य् ऊह्यम् इति । अथवा त्रैलोक्यम् अपि कान्तं भवति यस्मात्, सौन्दर्य-समुद्रस्य यस्यांशांश-विभाग-मात्र-प्राप्तेरात्रिलोकीवर्ति सौन्दर्यं तद् इत्य् अर्थः ।

यद् वा, त्रैलोक्यस्य कं सुखं तस्यान्तो नाशो यस्मात् तद् रूप-दिदृक्षयापि त्रिलोकी-सुखे वैराग्योत्पत्तेः, न केवलं त्रिलोक्यन्तर्गत-विषय-सुख एव तेन वैराग्यं स्यात्, किन्तु मोक्ष-सुखेऽपीत्य् आह—दृशिर् आत्मानुभवस् तद्वतां महोत्सव-रूपं सौन्दर्यम्, अधुना भक्त-मनोहरत्वम् आह—श्रियो भक्त-वर्ग-पूज्याया महा-लक्ष्म्या अपि ईप्सितम् ईप्सा दृग्भ्यां साक्षाद् अनुभवितुम् इच्छा तस्या आस्पदम्, न तु दृश्यम् इत्य् अर्थः । उषस इति बहुत्वेन चिरं बह्वो रात्रयः सुप्रभाताः सन्तीति बोधयति ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं साधारण्यं चेत् तस्मात् तव किं वेष्ट्यं तत्रह । तं त्विति । नूनं निश्चये । तु-शब्दः सर्वयादवादितोऽपि निज-भाग्य-वैशिष्ट्य-विवक्षया अहन्त्वद्यैव तं द्रक्ष्ये महतां महा-भागवतानां गतिं गम्यं गुरुञ्चोपदेष्टारम् इति साध्य-साधनत्वम् उक्तं रूपं सौन्दर्यम् एवं सामान्यत उक्त्वा श्री-कृष्ण-रूपे तस्मिन् विशे;सम् आह । त्रैलोक्यम् अधो-मध्यार्ध्वलाकः स च महा-वैकुण्ठ-पर्यन्तः सोऽपि महा-नारायण-पर्यन्तः तस्माद् अपि कान्तम् । अत एव ख-सहितानां तादृशम् अपि दृशिमतां महोत्सवं वक्ष्यते च महा-कालपुरनाथेन श्री-भगवता । द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीता इति । उक्तं च श्री-मद् उद्धवेन विस्मानं स्वस्य चेति । न केवलं स्वरूपवरीयसाम् एव तादृशं तत् अपि तु स्व-शक्तिवरीयस्या अपीति वदन् तादृश-सुभगतायां हेतुर् माह सर्व-सौभाग्याश्ररूपायाः श्रियोऽपि ईप्सितम् ईप्सा तस्या आस्पदं न तु महा-नारायणादिवद् भोग्यम् अपीत्य् अर्थः । तद् उक्तं यद् वाञ्छया श्रीर् ललना इति । ऊषस इत्य् अनेन चिरं बह्वयो रात्रयः सुप्रभाताः सन्ति अन्यथेदृशं फलं न स्याद् इत्य् अर्थः । अथवा चतुःश्लोकीयम् एवं प्रसञ्जनीया ।

ननु, कथं तस्य तादृशं दौर्लभ्यं तल्-लाभ-माहात्म्यं च यदि च तत्-तर्हि कथं सौलभ्यं येन तवापि तादृश-भाग्याश्लाघा स्याद् इत्य् अत्र विवृणोति चतुर्भिः । तत्राद्यं द्वयं कैमुत्येनाह द्वाभ्यां दौर्लभ्यं तावद् आह । यद् इक्षितेति । अपीति समुच्चये । सदसतोरीक्षितापि तदावशेरहितोऽपि उभयत्र हेतुः स्वतेजसेति ईक्षितेत्य् आदि-रूपत्वे सर्वागोचर-स्वरूपो यः स्वमायया चात्मनि रचितत्वेन स्वः सर्व-सामर्थ्य-हीनैस् तं द्रष्टुमयोग्यैश् च जीवैः प्राणादि-प्रवृत्ति-लिङ्गेन सदनेषु तद् अधिष्ठान-रूपेषु सर्व-भूतेषु अभीयते प्रतीयतेऽनुभीयते मात्रं न तु दृश्यते । यथाक्तं द्वितीये । भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हिर् इति । एवं श्विष्टभ्याहम् इदं कृत्स्नम् इत्य् उक्तदिशा तद् अशस्यापि परम-दौर्लभ्यं दर्शितम् । तद्वत्-तद् अंशावतार-गणस्यापि लाभ-माहात्म्यम् आह । यस्येति । तथापि सौलभ्ये कारणम् आह चेति । निगमयति । तं निगमयति । तं त्विति । तस्मान् महद् एव मम भाग्यम् इति भावः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आभ्यां सह वर्त्तमानान् सखीन वनौकस एकान्तविहारेण सख्यातिशययुतान् इत्य् अर्थः ॥१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृशिमतां चक्षुष्मतां महोत्सव-स्वरूपं श्रियो विष्णु-वक्षः स्थल-स्थिताया अपि लक्ष्म्या ईप्सितानां रति-रासविलासादीनाम् आस्पदं रूपं तम् ईश्वरं द्रक्ष्यामि अत्र लिङ्गम् उषसः प्रभातस्-अमयाः सुदर्शनाः शुभ-सुचका बभूवुर् इत्य् अर्थः । बहु-वचनेन वह्नीनां रात्रीणां ज्ञेयाः अन्यथेदृशं फलं न स्याद् इति भावः ॥१४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१५ ॥

अथावरूढः सपदीशयो रथात्

प्रधान-पुंसोश् चरणं स्व-लब्धये ।

धिया धृतं योगिभिर् अप्य् अहं ध्रुवं

नमस्य आभ्यां च सखीन् वनौकसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अथ दर्शनानन्तरं सपदि तत् क्षणम् एव रथाद् अवतीर्णः सन् प्रधानयोः पुरुषयो राम-कृष्णयोश् चरणं योगिभिर् अप्य् आत्म-लाभाय केवलं धियैव धृतं साक्षाद् अहं नमस्यामि । आभ्यां सहानयोः सखीन् गोपांश् च नमस्यामीति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घृतं ध्यातं न तु दृष्टम् । आभ्यां राम-कृष्णाभ्यां सह । वनौकसः वृन्दावन-सकल-प्राणिनः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्ततया दर्शन-मात्रेणातृप्त्या मनो-रथान्तरं कुरुते—अथेति । चरणम् इत्य् एकत्वेऽपि द्वित्वसिद्ध्या तयोः प्रत्येकं चरणाव् इति गम्यत एव । यद् वा, द्वाभ्यां हस्ताभ्यां तयोर् एकैकं चरणं धृत्वा युग-पन्नम् अस्यामीत्य् अभिप्रियायेणैकत्वम्, भविष्ये वर्तमानात्यन्त-सामीप्य् अभिप्रायेण । अब्जादि-रूपका-प्रयोगः परम-लालसोऽदयेन केवलं तन् नमस्कार-मात्रापेक्षया तद्-गूणाद्य् अनपेक्षणात्, धियेति सप्तम्य् अर्थे तृतीया, चित्ते धृतम् इत्य् अर्थः । यद् वा, धारणयेति,

यद् वा, अन्याशेषतुच्छतादि-विचारेणेत्य् अर्थः । ततश् च धृतम् इति दार्ढ्येन चिन्तितम् इत्य् अर्थः, योगः समाधिः स्मरण-लक्षण-भक्ति-योगो वा, ततश् च स्वो बन्धुर् इत्य् एवं लव्धये बन्धुत्वेन प्राप्तम् इत्य् अर्थः । आभ्यां सह वर्तमानाम् सखीन् अनयोर् वयस्यान् । यद् वा, आभ्याम् अनयोः, किं पुनः सखीन् सर्वान् अपि गोकुल-वासिनो नमस्यामीत्य् आह—व्रजेति, व्रजौकसो व्रज-प्राणिनः, एवं पूर्वतो विशेषो ज्ञेयः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भक्ततया दर्शन-मात्रेणातृप्त्या मनोरथान्तरं कुरुते । अथेति । नमस्ये नमस्यामि इति वर्तमान-सामीप्ये लट् । धिया अभ्यासे यच्छता सुविचारेण । धृतं दार्ढर्येन चिन्तितं योगिभिर् आत्मारामैर् अपि किं पुनर् भक्तियोगिभिः । स्वस्य भगवतः प्राप्तये आभ्यां सह वर्तमानान् सखीन् अनयोर् वयस्यान् आभ्याम् अनयोर् इति वा ।

ननु, भवदीया यादवाश् च केचित् सखायो भविष्यन्ति कुतस् तेष्व् एवैतावानादरस्तत्राह । वनौकस्ः एकान्ते तेन सह विहारेण तेषाम् एव सख्यातिशयाद् इति भावः ।

यद् वा, किं पुनः सखीन् सर्वान् अपि वृन्दावन-प्राणिनो नमस्यामीत्य् आह । वनेति । एवं पूर्व-नमस्कारतो विशेषो ज्ञेयः । अन्यतैः । तत्रेति शब्दस्यैतावद् एव मम कृत्यम् इत्य् अर्थः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ दर्शनानन्तरमेव रथात् अवरूटः सपदि अवरोहणसमय एव प्रधानयोः श्रेष्ठयोः पुंसो रामकृष्णयोश्चरणं योगिभिरपि आत्मलाभाय केवलं धियैव धृतं, साक्षादहं नमस्यामि अभ्यां सहितान् सखींश् च नमस्यामि, वर्तमानसामीप्ये लट् । ततो वनौकसः सर्वान् व्रजवासिनो ऽपि ॥१५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१६ ॥

अप्य् अङ्घ्रि-मूले पतितस्य मे विभुः

शिरस्य् अधास्यन् निज-हस्त-पङ्कजम्11

दत्ताभयं काल-भुजङ्ग-रंहसा

प्रोद्वेजितानां शरणैषिणां नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च—अपि इति । अधास्यत् धास्यति । तद् विभावयति--दत्ताभयम् इति सार्धेन ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । अपि इति सम्भावनायाम् । काल-सर्प-वेगेन प्रोद्वेजितानां त्रस्तानाम् । तद् धस्त-पङ्कजम्विभावयति विवृणोति । विभुर् इति सर्व-व्यापित्वान् मन्-मनोरथं करिष्यत्य् एवेत्य् आह । नृणाम् इति षष्ठी चतुर्थ्य्-अर्थे ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अप्य् अङ्घ्रि-मूले पतितस्य इत्य् आदौ निज-हस्त-पल्लवम् इति निज-शब्दो\ऽसाधारण-परः । स तु स्वरूप-सिद्धः श्री-कृष्णाङ्ग-परः ॥१६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना भक्ति-विशेषोदयेन नमस्कारेणातृप्त्या कर-स्पर्शे मनोरथं करोति—अपि इति द्वाभ्यम् । अङ्घ्र्योर् मूले तले सन्निधौ वा । यद् वा, अङ्ग्रिर् एव मूलं सर्वार्थाश्रयः, तस्मिन् । विभुर् व्यापकोऽपि । यद् वा, जगद्-ईश्वरो मत्-प्रभुर् इति वा । निजम् असाधारणं हस्त-पङ्कजम् । निजत्वम् एव दर्शयति—दत्त- इत्य्-आदिना । अथवा, तत्-प्रिय-सखस्य कस्यचिद् गोपस्य हस्त-धारणेनापि मम कृतार्थता स्याद् एव, तथापि निजं किं धास्यति ? इत्य् अर्थः । काल एव भुजङ्गः, सर्व-ग्रासकत्वात्, तस्य रंहसा वेगेन प्रकर्षेण उद्वेजितानां नितरां भीषितानाम्, अत एव शरणैषिणां शरणम् इच्छतां सतां दत्ताभयम्, नृणां सर्वेषाम् एव जीवानाम् इत्य् अधिकारापेक्षा निरस्ता ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना भक्ति-विशेषोदयेन नमस्कारेणातृप्त्या कर-स्पर्शे मनोरथं करोति—अपि इति द्वाभ्याम् । अपि प्राकाश्ये । अङ्घ्र्योर् मूले तले । विभुः प्रभुः । निजं तादृशं तदीयं हस्त-पङ्कजं । तादृशत्वम् एव दर्शयति—दत्त- इत्य्-आदिना । यद्यपि तत्-प्रिय-सखस्य कस्यचिद् गोपस्य हस्त-धारणेनापि मम कृतार्थता स्याद् एव, तथापि निजं किं धास्यति ? इति भावः । काल एव भुजङ्गः प्राणि-संहारकत्वात् अलक्ष्य-गमन-हेतु-साधनत्वेऽपि शीघ्र-गामित्वाच् च । तस्य रंहसा अनुद्रवणेन उद्वेजितानाम् । अत एव शरणैषिणां सतां नृणां जीव-मात्राणां, चतुर्थ्यां षष्ठी, तेभ्यो दत्ताभयम् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अप्य् अङ्घ्रि- इत्य्-आदि । हस्त-पल्लवम् इत्य् एव सिद्धे निज-शब्दस्यायं भावः--अन्यान्य-लीलावन्तस् तु लीलावतारा एव, अयं तु स्व-स्वरूपः यथावतीर्णस् तथैव शाश्वतः, तेनास्याविकृतत्वान् निजत्वम् ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च—अपि इति । अधास्यत् धास्यति । हस्त-पङ्कजं विशिनष्टि--दत्ताभयम्नृणाम् इति चतुर्थ्य्-अर्थे षष्ठी ॥१६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१७ ॥

समर्हणं यत्र निधाय कौशिकस्

तथा बलिश् चाप जगत्-त्रयेन्द्रताम् ।

यद् वा12 विहारे व्रज-योषितां श्रमं

स्पर्शेन सौगन्धिक-गन्ध्य् अपानुदत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बलिना तावत् पद-त्रय-परिमित-भू-दान-समये तस्य हस्ते उदकं निहितम् । कौशिक इन्द्रस् तेनापि कदाचित् किञ्चिन् निहितम् इति ज्ञातव्यम् । मुमुक्षूणां संसार-भय-निवर्तकं स-कामानाम् अभ्युदय-प्रदं चेत्य् उक्तम्, अनुरक्तानां परम-सुखं चेत्य् आह—यद् वा, वा-शब्दो वितर्के । विहारे रास-क्रीडायाम् । सौगन्धिकस्य गन्ध इव गन्धो यस्य, तत् सौगन्धिक-गन्धि ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र हस्त-पङ्कजे । कौशिकत्वम् इन्द्रस्य यथा जातं, तद् धरि-वंशतोऽवसेयम् । निहितं स्थापितम् । दत्ताभयम् [१६] इत्य्-आदिना मुमुक्षूणां समर्हणम् इत्य्-आदिना सकामानाम् । अनुरक्तानां परम-प्रेमवताम् । सौगन्धिकं तु कह्लारम् इत्य् अमरः । यद् धस्त-पङ्कजम् । अपानुदन् निराकरोत् । सम्यग् अर्ह्यते पूज्यते येन तत् समर्हणं सङ्कल्पोदकम्, तच् च सार्वभौमावतारे पुरन्दरेण तस्य हस्ते जलं दत्तम् इति पुराणान्तरे । बलिना च वामनावतार इत्य् अष्टमे वर्णितम् एव । यच् च विहारे रास-क्रीडानन्तर-सम्प्रयोगे श्रमं विहार-श्रमोत्थ-स्वेदाम्बु मार्जयामास । तद् उक्तम्—

तासां रति-विहारेण श्रान्तानां वदनानि सः ।

प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [भा।पु। १०.३३.२१] इति ।

तेन तासां परम-माधुरी ध्वनिता । तत् किम्भूतं ? स्पर्शेन तासां मुख-स्पर्शेन सौगन्धिक-गन्धि मानस-सरोवर-कमलं सौगन्धिकम् इति पुराणान्तरे प्रसिद्धम् । इहापि पूर्ववत् स्व-स्वगतोक्तत्वान् न रसाभासः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अनिजत्वम् अवतारान्तर-परं तद् एव दर्शयन् निजानिजत्वे प्रपञ्चयति—समर्हणम् इत्य्-आदि । परस्पर-विपक्षाभ्यां कौशिक-बलिभ्याम् अपि तुल्यं प्राप्तम् इति भावः । तेन नास्य दुर्लभत्वम्, वामनावतारस्य हस्तस्यानिजत्वं दर्शितम् । संप्रति निजत्वं दर्शयति—यद् वा इत्य्-आदि । वा-शब्दः प्रसिद्धौ, यद् व्रज-योषितां विहारज-श्रमम् अपानुदत्, तद् एव निजं स्वरूप-सिद्धं । तत् किं भवाध्व-श्रमं हरिष्यति ? अतस् तस्य मच्-छिरसि स्पर्शो\ऽत्यसम्भावनीय एव ॥१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् अर्ह्यते पूज्यते येन, तत् समर्हणम्—पूजोपकरणम्, बलिश्जगत्-त्रयेन्द्रताम् आप इति बलिर् इन्द्रो भविष्यति [भा।पु। ८.१३.१२] इति वचन-प्रामाण्येन तन् निर्धारात् । तथा चोक्तं श्री-विष्णु-पुराणे—

यत्राम्बु विन्यस्य बलिर् मनोज्ञा

नवाप-भोगान् वसुधा-तलस्थः ।

तथामरत्वं त्रिदशाधिपत्यं

मन्वन्तरं पूर्णम् अपेत-शत्रुः ॥ [वि।पु। ५.१७.३१] इति ।

किं वा, पूर्व-कृत-विश्वजिद्-यज्ञ-प्राप्तेन्द्रत्वाभिप्रायेण, ततश् च तद्-यज्ञस्य भगवद्-अर्पणेन तच्-छ्री-हस्ते जलादि-समर्पण-निधानम् ऊह्यम् । वा-शब्द उताशेषोत्कर्ष-नैरपेक्ष्येणास्यैवोत्कर्षार्थः । व्रजस्य योषिताम् इति—प्रेम-विशेषेण तासाम् एव तद्-योग्यता दर्शिता, तत्र विहार इति विनादित्वम्, व्रज-योषिताम् इति प्रियतम-जणेषु प्रेम-विशेष-विस्तारित्वम्, श्रमम् इति वैदग्ध्यम्, स्पर्शेन इति सर्व-दुःख-हरत्वम्, सौगन्धिक-गन्धि इति परम-मनोहरत्वं चोक्तम् । अस्य विशेषणस्यान्तेऽत्रैव प्रयोगः—तासाम् एव तत् सम्यग् अनुभवनीयत्वात् । तच् च श्री-भगवतामृतोत्तर-खण्डे विस्तारितम् एवास्ति । अन्यत् तैर् व्याख्यातम्।

यद् वा, इन्द्रः शताश्वमेध-समर्पणं निधाय जगत्-त्रयेन्द्रताम् आप, तद्-अर्पणं विना सम्यक् फलासिद्धेः । बलिश् च तथानिर्वचनीयं द्वार-पालत्वादिना तद्-वशीकरणादिकम् आपेति योज्यम् । यद् वा, कौशिको विश्वामित्रः श्री-रघुनाथावतारे अस्त्र-मन्त्रं निजाश्रमे तं प्रत्यातिथ्येनान्नादिकं च समर्प्य तथा सुप्रसिद्धं तद्-भक्त्य्-आद्य्-आत्मकं माहात्म्यं प्राप्तः । बलिश् च निज-जगत्-त्रयेन्द्रतां पाद-त्रय-भू-दान-व्याजेन यत्र जलोत्सर्गेण निधाय तथा प्राप, -कारेण तथेत्य् अस्यात्रापि सम्बन्धाद् अर्थः स एव ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् अपि तद् एव हस्त-पङ्कजं विशिष्यन् स्व-मनोरथं प्रवलयति--समर्हणम् इति । सम्यग् अर्ह्यते पूज्यते येन, तत् समर्हणं दान-सङ्कल्पोदकं कौशिकस्य तन्-निधानं शतक्रत्व्-अनन्तर-समये ज्ञेयं, तत्काराश्रयत्वाद् इन्द्र-पदस्य । बलिश्जगत्-त्रयेन्द्रताम् आप इति प्रथमत एव फलस्यापूर्व-रूपत्वेनोदयात् । तथैवोक्तं श्री-विष्णु-पुराणे—

यत्राम्बु विन्यस्य बलिर् मनोज्ञान्

अवाप भोगान् वसुधा-तलस्थः ।

तथामरत्वं त्रिदशाधिपत्यं

मन्वन्तरं पूर्णम् अपेत-शत्रुः ॥ [वि।पु। ५.१७.३०] इति ।

अस्य निष्कामत्वं तु तच्-छिरसि श्री-त्रिविक्रम-चरण-धारणाद् अनन्तरम् एव ज्ञानं तथापीश्वरेच्छयैव श्री-प्रह्लादवत् तद्-अङ्गीकारः । तद् एवं पूर्वार्धे तस्य वदान्य-स्वभावत्वेन सकाम-भक्तेषु सर्व-समृद्धि-प्रदत्वम् उपालक्ष्य परमानन्द-स्वरूपत्वेन स्वैक-निष्ठेषु सर्व-दुःख-निवर्तकत्वम् उपलक्षयति । यद् वा इति वा शब्दो वितर्के । कस्माच्चिद् यत् किञ्चित् श्रुत्वा वितर्कयामीत्य् अर्थः । यद् एव हस्त-पङ्कजं सौगन्धिकेषु दिव्य-पङ्कज-विशेषेषु गन्धो गुण-लेशो यस्य तादृशां व्रज-योषितां कोटि-सङ्ख्यानां विहारे रासाख्य-नृत्य-क्रीडा विशेष-श्रमं पुनः पूनर् आवेशान् मूर्छा-पर्यन्तं । किं वा, होरिका-रूपे शङ्खचूडोपद्रवाद् रासेन मूर्च्छामयं स्पर्शेन तन्मात्रेण युगपद् अपानुदत् इत्य् अर्थः । ततः पूर्ववद् अत्रापि [शब्द-]{।मर्क्}स्व-रस-योग्यांश एव चिन्तितः । तत्र गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इति पद्य-द्वये यथा स्वामिभिर् व्याख्यातं तद्वद् एवं प्रायस् तद्-विधानाम् अभिप्राय इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्र हस्त-पङ्कजे सम्यक् अर्ह्यते पूज्यते येन तत् समर्हणं दान-सङ्कल्पोदकं निधाय कौशिकः पुरन्दरः बलिश् च जगत्-त्रयेन्द्रत्वम् अवाप । तच् च सार्वभौमावतारे पुरन्दरेण, वामनावतारे बलिना तस्य हस्ते उदकं दत्तम् । तत्र पुरन्दर इन्द्रत्वम् आप, बलिर् आप्स्यतीति बोद्धव्यम् । यत् हस्त-पङ्कजम्**। वा**-शब्दो वितर्के । विहारे रास-क्रीडानन्तर-संप्रयोगे । श्रमं विहार-श्रमोत्थ-प्रस्वेदाम्बु अपानुदत् मार्जयामास । यद् उक्तम्,

तासां रति-विहारेण श्रान्तानां वदनानि सः ।

प्रामृजत् करुणः प्रेम्णा सन्तमेनाङ्ग[-]{दिर्=“र्त्ल्”}पाणिना ॥ [भा।पु। १०.३३.२०] इति

तेन तस्य पाद-पङ्कजं ब्रह्माद्य्-अर्चितम् अपि यथा तासां कुचोच्छिष्ट-कुङ्कुम-धारकम् उक्तं तथा हस्त-पङ्कजम् अपीन्द्राद्य्-अर्हितं तासां श्रमाम्बु-मार्जकम् इत्य् अहो तासां परमोत्कर्ष-माधुरीति ध्वनिः । हस्त-पङ्कजम् अपि कीदृशम् ? स्पर्शेन तासां मुख-स्पर्शेन सौगन्धिक-गन्धि । मानस-सरोवर-कमलं सौगन्धिकम् इति पुराणान्तर-प्रसिद्धम् । स्वगतोक्तत्वात् पूर्ववद् अत्रापि न रसाभासः [भा।पु। १०.३८.८] ॥१७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१८ ॥

न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः

कंसस्य दूतः प्रहितोऽपि विश्व-दृक् ।

योऽन्तर् बहिश् चेतस एतद् ईहितं

क्षेत्र-ज्ञ ईक्षत्य् अमलेन चक्षुषा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं परमानुग्रहं सम्भाव्य पुनर् अप्य् असम्भवम् आशङ्क्य परिहरति—न मयीति । यद्यप्य् अहं कंसेन प्रहितोऽतस् तस्य दूतः, तथापि मयि अरेर् अयम् इति बुद्धिं नोपैष्यति न करिष्यतीत्य् अर्थः । यतो विश्व-दृक् सर्व-ज्ञः, अतो मम चेतसोऽन्तश्बहिश् च यद् ईहितं चेष्टितम् एतद् यः क्षेत्र-ज्ञोऽन्तर्यामी नित्य-ज्ञानेन ईक्षते । अयं भावः—चेतसो बहिर् एव कंसम् अनुवर्ते, अन्तस् तु कृष्णम् एव । तद् एतद् असौ हृदि स्थितो जानातीति । यद् वा, एतस्य जगत ईहितम् इति ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्भाव्य विचार्य । असम्भवं दर्शनादेर् मनस्य् एवाह । अथ वा, “किं प्रलापेन ? तव कंस-भृत्यत्वात् तत्-प्रहितत्वाच् च त्वय्य् अच्युतोऽरि-बुद्धिं करिष्यत्य् एव” इति मन्दाशङ्कां परिहरन्न् आह—न मयि इति । अतः कंस-प्रहितत्वात् । इत्य् अर्थ इति—धातूनाम् एकार्थत्वाद् एतिर् अत्र करणेऽर्थे बोध्य इत्य् आशयः । यतो यस्माद् धेतोर् अतो हेतोः । एतत् सङ्कल्प-लक्षणम् । क्षेत्रं श्री-गीतोक्त-लक्षणम्,

महा-भूतान्य् अहङ्कारो बुद्धि-ख्यक्तम् एव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥

इच्छा द्वेषः सुखं दुखं सम्वातश् चेतना धृतिः ।

एतत्-क्षेत्रम् [गीता १३.६-७]

इत्य् एवं-रूपं जानाति साक्षात् पश्यतीति क्षेत्रज्ञः । निजाभिप्रायम् आह—अयं भाव इति । पूर्व-व्याख्याने ममेहितम् इत्य् उक्तेर् भगवतः परिच्छिन्न-दर्शित्व-प्रतीतेर् अस्वारस्याद् आह—यद् वा इति ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अभयदानादीनाम् एषां यथोत्तरं श्रैष्ठ्यम् । अच्युतोऽलुप्त-ज्ञानैश्वर्य इत्य् अर्थः । अत एव विश्व-दृक् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ईदृशे तत्-परमानुग्रहे मम कंस-सेवकत्वेन योग्यता नास्तीत्य् आशङ्क्य तत् परिहरति—नेति । एतस्य जनस्य ममेहितम्, अन्यत् समानम्

यद् वा, क्षेत्रं श्री-मथुरा-लक्षणं राजत्वेन जानातीति क्षेत्रज्ञः कंसः, तस्मिन् यदेतस्येहितम् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथार्त-स्वभावेन चिन्ताम् अतिभ्याम् आह । न मयीति । अच्युतः अलुप्त-ज्ञानैश्वर्य इत्य् अर्थः । अत एव विश्व-दृक् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथार्त्तिस्वभावेन चिन्तामतिभ्यामाह । न मयीति । परेषाम् अपि । परेषाम् अपि पावनत्वात्तिर्थीयते न केवलमेतावदेव । अपि तु अतो देहाद्धेतोरस्य वीक्षणादिना तेषां कर्मात्मकबन्धश्चोच्छवसिति न तस्येत्यत्र सिद्धान्तः परमात्मसन्दर्भत्रिनवतितमवाक्यस्यावतारिकाप्रघट्टके दृश्यः देहं भृतां देहभृताम् ॥१८.३२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अनिजत्वं दर्शयति—समर्हणं यत्रेत्य् आदि । कैशिक इन्द्रः, बलिः प्रसिद्धः । इति लीलावतारान्तर-हस्तस्यानिजत्वं दर्शयित्वा पुनर् निज-हस्त-ल्पल्लवम् इति यत् प्रागुक्तम्, तद्-दर्शयति—यद्वेति व्रजयोषितां विहारे यन्निज-हस्त-पल्लवं तासांश्रममपानुदत् । कीदृशम् ? सौगन्धिक-गन्धीति । पूर्वोक्त-निज-हस्तपल्लवस्य निरुक्तिः पूर्वार्धेऽवतारान्तरस्येति निजत्वयोः प्रकटनम् ॥१८.२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि स्वस्मिन्ननुग्रहासम्भवमाशङ्क्य परिहरति, नेति । यद्यप्यहं कंसस्य दूतः प्रहितस्तेन प्रेषितो ऽपि भवामि, अरिबुद्धिम् अरेरयम् इति भावनां न न उपेष्यति न करिष्यतीत्य् अर्थः । यतो विश्वदृक् चेतसो ऽन्तर्बहिर्वर्तमान एतदीहितम् एतस्य सर्वजगतो ऽपीहितम् ईक्षते ॥१८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.१९ ॥

अप्य् अङ्घ्रि-मूलेऽवहितं कृताञ्जलिं

माम् ईक्षिता स-स्मितम् आर्द्रया दृशा ।

सपद्य् अपध्वस्त-समस्त-किल्बिषो

वोठा मुदं वीत-विशङ्क ऊर्जिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि यद्य् अङ्घ्रि-मूले चरणोपान्तेऽवहितं संयतं कृपामृतेनार्द्रया दृशा माम् ईक्षिता द्रक्ष्यति तर्हि सपद्य् एव विनष्टाखिल-कल्मषः परां मुदं वोढा प्राप्स्यामीति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतो नु अपि यद्य् अर्थ इत्य् आह—अपि यदि । ईक्षिता लुटः प्रथम-पुरुषैक-वचनम् । वीता गता विविधा शङ्का शत्रु-प्रेषितोऽयं नाग-सङ्गार्हः इत्य् एवम् आदिका यस्य स तथा । ऊर्जिताम् उद्रिक्ताम् । वोढेति वहते पूर्ववत् । सपदि तत्-क्षणम् एव ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किल्विष्यं कंस-सेवादि-लक्षणं मुमुक्षादि-दुर्वासना-लाक्षणं वा । वीता अपगता विविधा शङ्का यस्य तथा-भूतः सन्, अन्यत् तैर् व्याख्यातम् । यद् वा, इत्थम् अनुग्रहं सम्भाव्य, स च न केवलं शिरसि श्री-हस्त-धारण-मात्रेण, किन्तु सस्मित-कृपा-दृष्ट्यैवेत्य् अतृप्त्या तत्र मनो-रथं करोति । अपीति—अपि किम् अवहितम् अवधानेन स्थितम्, अन्यत् समानम् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किल्विषं कंस-सेवादि-लक्षणं वीता अपगता विविधा शङ्का यस्य तथा भूतः सन् । अन्यत् तैः । तत्र यदीति निश्चये । धत्ते पदं त्वम् अविता यदि विध्नमूर्घ्नीतिवत् । यद् वा, तद् एवं निश्चित्यातृप्ति-स्वभावेन मनोरथान्तरं करोति । अपीति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपि किम् अङ्घ्रि मूले अवहितं प्रणम्य संयतन्तं मां कृपामृतेनार्द्रया दृशा ईक्षिता ईक्षिष्यते, सपदि तत्क्षणादेव ऊर्जितां मुदं वोटा प्राप्स्यामि, तदैव वीतविशङ्कश् च मदन्तःकरणं परभुर्जानाति स्मेति निश्चेष्यामीत्य् अर्थः ॥१९॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२० ॥

सुहृत्तमं ज्ञातिम् अनन्य-दैवतं

दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् ।

आत्मा हि तीर्थी-क्रियते तदैव मे

बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ मां परिरप्स्यते आलिङ्गिष्यति । यदा तदैव मे आत्मा देहस् तीर्थी-क्रियतेऽति-पवित्री-करिष्यते । उच्छ्वसिति श्लथो भविष्यति । अतो देहात् ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दृष्टषनन्तरम् । तीर्थीक्रियते ज्ञान-योग्य-पात्री क्रियते इति वा भगवद् आलिङ्गने विनैवोप्रास्ति ज्ञान-योग्यो जात इति भावः । कर्मात्मकः संसृति-लक्षणः । अतो देहाद्-बन्धः, अतोङ्ग-सङ्गाद् वा । सुहृत्तमं श्रीवसुदेवादि-हितकारित्वात् । न केवलं सुहृत्तमतैव किन्तु ज्ञातिम् । ज्ञातित्वेऽपि सत्यनन्यदैषतम् ऐकान्तिक-दास्यवन्तम् । ततश् च तेन मे देहस् तीर्थी क्रियते तीर्थ करिष्यते, देहः पूतो भूत्वान्येषाम् अपि पावनो भविष्यति । अतः परिरम्भाद् धेतोः । उच्छ्वसिति उद्गतो भविष्यति ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेनाप्य् अतृप्त्या तत्र मनो-रथान्तरं करोति—सुहृत्तमम् इति । सुहृत्तमं परम-मित्रम्, श्री-वसुदेवादि-हितकारित्वात् । वृहद्भ्याम् इति गाढालिङ्गनम् अभिप्रेतम् । हि निश्चितम्, अतीर्थम् अपि तीथं क्रियत इति दैन्योक्तिः । एवकारेणान्य-नैरपेक्ष्यम् उक्तम् । कर्म-प्रारव्ध-लक्षणं तन्मयो बन्धो बन्धनम्, अन्यत् तैर् व्याख्यातम् ।

अत्र आत्मा देह इत्य् एव लिखनम्, असौ इति मूल-पाठाभावात् तथा आश्लेषात् कर्मात्मकः कर्ममयो बन्धश् चेति टीका गुज्जर-व्यास-रचिता ज्ञेया । तदैवेत्य् अस्याश्लेषाद् इति व्याख्यानुपपत्तेः । अतो देहाद् इति च तैर् व्याख्यातम् एव

एवम् अग्रे महीयसा श्री-कृष्णेनेत्य् आदिकम् अपि तद्रचितमोवोक्तम्, दुर्बोधार्थस्यैव तैर् व्याख्यानात् । इत्थम् अन्यद् अप्य् ऊह्यम्, तच् च पुरातन-पृथग्वर्ति-टीका-दृष्ट्या स्पष्टम् एव स्याद् इति । अथवा परिरप्स्यते किम् ? एवम् अग्रेऽपि । तीर्थी-क्रियते परम-पावनत्व-सम्पत्त्यान्येषाम् अपि संसारतारकः क्रियते, कर्म—श्री-भगवत्-परिचर्या-लक्षणम्, तदात्मकस् तद् रूपो बन्धो निर्वन्धो नित्यकृत्यत्वेन नियमः, उच्छ्वसिति प्रफुल्लो भवति वर्धत इत्य् अर्थः । अन्यत् समानम् । अतः परिरम्भाद् इति वा ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेनाप्यतृप्त्या मनोरथान्तरं करोति । सुहृत्तमम् इति । सुहृत्तमं परम-मित्रं श्री-वसुदेवादि-हितकारित्वात् । बृहद्भ्याम् इति गाढालिङ्गनम् अभिप्रेतं निश्चितम् । अतीर्थम् अपि तीर्थं क्रियते तत्-परिरम्भणेनेति । शेषः । इति दैन्योक्तिः । एवकारेणान्यनैरपेक्ष्यम् उक्तं कर्म प्रारब्ध-लक्षणं तन्मयो बन्धो बन्धनम् । अन्यत् तैः । तत्र आत्मा देह इत्य् एव लेखनं युक्तम् । असाव् इति मूलपाठाभावात् । अथवा परेषाम् अपि पावनत्वात् तीर्थी क्रियते न केवलम् एतावत् अपित्वतो देहाद् धेतोर् अस्य वीक्षणादिनां तेषां कर्मात्मक-बन्धश्चोच्छ्वसिति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिरप्स्यते आलिङ्गिष्यति । तत्र हेतुः, सुहृत्तमम् न केवलं सौहार्दातिशय एव, किन्तु ज्ञातिं ज्ञातित्वे ऽपि सत्यनन्यदैवतम् ऐकान्तिकदास्यवन्तम् । ततश् च तेन मे आत्मा अयं देहः तीर्थीक्रियते तीर्थं करिष्यते, देहः पूतो भुत्वा ऽन्येषाम् अपि पावनो भविस्यतीत्य् अर्थः । अतस्तत्परिरम्भादेव हेतोर्बन्धश् च उच्छ्वसिति उद्ग्रथितो भविष्यतीत्य् अर्थः ॥२०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२१ ॥

लब्ध्वाङ्ग-सङ्गं प्रणतं कृताञ्जलिं

मां वक्ष्यतेऽक्रूर ततेत्य् उरुश्रवाः ।

तदा वयं जन्म-भृतो महीयसा

नैवादृतो यो धिग् अमुष्य जन्म तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत जन्म-भृतः सफल-जन्मानः । अन्यथा तज् जन्मैव न भवतीत्य् आह—महीयसा श्री-कृष्णेन योऽनादृतोऽमुष्य तस्य जन्तोस् तज् जन्म धिक् ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्यते विस्तार्यते वंशोऽनेनेति ततः, तनोतेः क्त-प्रत्ययेऽनुनासिक-लोपेन रूप-सिद्धेः । ततोऽनुकम्प्यते जनके इति मेदिन्युक्तेर् जनक-भ्रातृत्वान्मयि तत-शब्द उपचर्यते । भगवद्-द्यृनुकम्ष्यत्वाद् वा मां ततेति वक्ष्यते । तत एव तात इत्य् अभिप्रेत्य् एवोक्तम्—भो कीर्तिनिरुतातेति । महीयसातिपूज्यतमेन । यः पुमान् । अमुष्य पुंसः । तज्-जन्म यस्मिञ्जन्मनि नादृत इत्य् अर्थः । उरु महत् श्रवः पाधिकृपाकरत्वादि-लाक्षणा यस्य सः । महीयसा सर्व-पूज्यतमेन भगवता प्रेम-सम्भाषणादिना न सम्मानितः । अमुष्य तादृशस्य । तन् महत् तमानादृतम् । यद् वा, परमापकृष्टत्वेनानिर्वचनीयम् । यद् वा, सञ्जात्यादिनोत्कृष्टम् अपि । यद् वा, महीयसा कृपादि-गुण-महत्तमेन तत्-सेवकेन केनचिद् अपि । किं पुनस् तेन सर्व-कृपालु-गुण-मूर्धन्यमणिनेर्थः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनरप्य् अतृप्त्या मनोरथान्तरं करोति—लव्धेति । अङ्ग-सङ्गः परिरम्भ-लक्षणः, प्रणतम् इति अङ्ग-सङ्ग-लव्ध्या हर्षेण पुनः कृत-प्रणामम् इत्य् अर्थः । किं च, कृताञ्जलिं वक्ष्यते यदा किम् इति, तथा वक्ष्यति परम-कृपालुत्वादित्य् आह—उरु महत् श्रवः कीर्तिर् निरुपाधिकृपाकरत्वादि-लक्षणा यस्य सः । तदा वयं जन-भृत इत्य् अनेनास्य मनोरथस्य सर्वतो महत्त्वम् अभिप्रेतम्—प्रेम-सम्भाषणेनैव परमानन्द-सिद्धेः । एवं कृतानां तत् तन्मनोरथानां यथोत्तरं श्रैष्ठ्यं द्रष्टव्यम् । महीयसा श्री-भगवतानादृतः सम्भाषणादिना न सम्मानितः, एवकारेण कदाचित् कथञ्चिद् अप्य् आदरेण सफल-जन्मता सूच्यते । अमुष्येति परोक्षोक्तिस् तादृशस्य तत्र दूरवर्तित्वाभिप्रायेण, तत् महत्तमानादृतम्, अमुष्येत्य् उक्तेऽपि तद् इत्य् उक्तिर् अनादर-दार्ढ्य-बोधनार्था ।

यद् वा, परमापकृष्टत्वेनानिर्वचनीयम् इत्य् अर्थः । यद् व, सज्जात्यादिनोत्कृष्टम् अपि । अन्यत् तैर् व्याख्यातम् । तत्र जनोर् इति महत्तमानादृततया अशेष-गुण-हीनताभिप्रायेणेति । अथवा महीयसा तत्-सेवकेन केनचिद् अपि, किं पुनस् तेनेत्य् अर्थः । अन्यत् समानम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् अप्य् अतृप्त्या मनोरथान्तरं करोति । लब्धेति । प्रणतम् इति । अङ्ग-सङ्ग-लब्ध्या हर्षेण पुनः कृत-प्रणामम् इत्य् अर्थः । किं च । कृताञ्जलिं तद्ध्रुवत्वं प्रेम-वैक्लव्येन वक्ष्यते यदा किम् इति तथा वक्ष्यति परम-कृपालुत्वादित्य् आह । उरु महत् श्रवः कीर्तिर्निरुपाधि कृपाकरत्वादि-लक्षणा यस्य सः । तदा वयं जन्मतृत इत्य् अनेनास्य मनोरथस्य सर्वतो महत्त्वम् अभिप्रेतं प्रेम-भाषणेनैव परमानन्द-सिद्धेः । एवं कृतानान्तु मनोरथानाम् उत्तरोत्तरं श्रैष्ट्यं महीयसा श्री-भगवता नादृतः सम्भाषणादिना न सन्मानितः एवकारेण कदाचित् सुखं कदाप्य् आदरेण सफल-जन्मता सूच्यते । अमुष्येति परोक्षोक्तिस् तादृशस्य तद्-दूरवर्तित्वाभिप्रायेण तन्-महत्तमानादृतम् अमुष्येत्य् उक्तेऽपि तद् इत्य् उक्तिर् अनादरदार्ढ्यबोधनार्था ।

यद् वा, परमापकृष्ट्वेनानिर्वचनीयम् इत्य् अर्थः । यद् वा, साजातादिनोत्कृष्टम् अपि । अन्यत् तैः । तत्र ज्न्तोर् इति महत्तमानादृततया अशेष-गुण-हीनताभिप्रायेणेति अथवा । महीयसा कृपादि-गुण-महत्तमेन तत्-सेवकेन केनचिद् अपि किं पुनस् तेन सर्वकृपालुगुणमूर्धन्य-मणिनेत्य् अर्थः । अन्यत् समानम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदेति । हे तात, इति तदा जन्मभृतः सफलजन्मानः अन्यथा जन्मनोवैयर्थ्यम् इत्य् आह—महीयसा महत्तरलोकेन ॥२१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२२ ॥

न तस्य कश्चिद् दयितः सुहृत्तमो

न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।

तथापि भक्तान् भजते यथा तथा

सुर-द्रुमो यद्वद् उपाश्रितोऽर्थ-दः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सुहृद्-आदिषु परिष्वङ्ग-संप्रश्नादयो जीव-धर्माः कथम् ईश्वरे सङ्गच्छन्ते ? अत आह—न तस्येति । दयितः प्रियः, तद्-विपरीतोऽप्रियः, सुहृत्तमो हिततमः, तद्-विपरीतो द्वेष्यः । एतत्-सर्व-व्यतिरिक्त उपेक्ष्य इति । दयितादयो न सन्तीति सत्यं, तथापि भक्तान् भजते, तत्र यथा ये भक्तास् तांस् तथ भजते, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति भगवद्-वचनात् । अविषमत्वेऽपि भक्तेभ्य एव फलं ददातीत्य् अत्र दृष्टान्तः, यद्वत् सुर-द्रुम इति ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रानीश्वरताम् आशङ्कते—नन्व् इति । अतो\ऽत्र । तस्मात् प्रियाद् विपरीतः । एतस्माद् दयितादि-चतुष्काद्य्-अतिरिक्तो भिन्नः । इति सत्यम्—दयितत्वाद्य्-अभावस् तत्र सत्यं विद्यते\ऽपि । तत्र दयितत्वादिमत्सु । यथा दयितत्वादि--रूपेण । तान् दयितत्वादि-मतः । तथा दयितत्ववन्तं दयितत्वेन, द्वेष्यं द्वेष्यत्व--रूपेण । तथा च श्री-गीतासु । इत्य् अत्रतस्मिन् विषये । यद्वद् यथा सुर-द्रुमः कल्प-तरुः । न हि कल्प-द्रुमस्य केनापि साकं राग-द्वेषादि, तथापि फलं तु सेवायैव ददातितिवद् भगवान् अपीति भावः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न तस्येति । एवम् अपि उपेक्ष्यो\ऽपि, वा-शब्दः क्षणे । दयितादयो न सन्ति, जगदीश्वरस्य सर्वेष्व् एव साम्यात् । यद्यप्य् तैर् व्याख्य्कृतान् भजत एव जनान् भजते तन्-मनोरथं पूरयति, आश्रितानां सर्वेषाम् एवाविशेषेणेष्ट-प्रदानेन, अनाश्रितानां च तद्-अदानेनापि यथा तस्य वैषम्यं न स्यात्, तथा भक्तानाम् एव मनोरथ-पूरणेन श्री-भगवतो\ऽपीत्य् अर्थः । भक्तेर् एव तत्-फलत्वात् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, यथा लोके यथावत् भजते, यद्वत् सुर-द्रुमस् तथेति योज्यम् । यद् वा, यथा तथा येन केनापि प्रकारेणेत्य् अर्थः । अन्यत् समानम् । यद् वा, यथा लोके सख्याचरणादिना दयितो भवेत् तादृशः कश्चिद् दयितो नास्ति, तथोपकारादिना प्राकृत-जन्मादिना वा यथा सुहृत्तमस् तादृशश् च नास्ति, किन्तु स्वभावत एव नित्यं दयितः सुहृत्तमश् च वर्तत इत्य् अर्थः ।\

तर्हि दयितादीनाम् अभावे उपेक्ष्यो\ऽस्तु ? नेत्य् आह, उपेक्ष्यो\ऽपि नास्ति । सहज-परम-दयामयत्वेन सर्व-जीव-हिताचरण-परत्वात् । अप्रियादीनां सत्तात्यन्त-निरसनार्थं पुनर् न चेति प्रयुक्तम् । भक्तान् यथा कथञ्चित् सख्यादिना भजतो\ऽपि लोकान् भजते, अतो भक्तेषु प्रीत्य्-अनाचरणादिना\ऽप्रियादिष्व् अप्रीत्य्-आदिकम् अपि कुर्याद् इति ज्ञेयम् । सुर-द्रुमो\ऽप्य् आश्रित-प्रार्थनया तथैवाचरेत्, अतः प्राकृत-सेवकस्यापि द्वेष्य-कंसाश्रितस्यापि मम मनोरथं पूरयिष्यत्य् एवेति भावः ।

अथवा दयितादयो न सन्तिति न, अपि तु सन्त्य् एवेत्य् अर्थः । द्वाभ्यां नषाभ्यां प्रकृत्य्-अर्थ-गमनात् । च-काराद्य्-अव्यय-त्रयस्य अप्रिय इत्य्-आदिभिस् त्रिभिः प्रत्येकं सम्बन्धः, तथेत्य् अव्ययं तस्माद् इत्य् अर्थः । अपि-शब्दस्य यथा तथेत्य् अनेनान्वयः । सुर-द्रुमो यद्वद् उपाश्रितो\ऽर्थदः, तद्वत् किम् ? काक्वा, अपि तु नैवेत्य् अर्थः । किन्तु यथा तथापि निज-निबन्धातिक्रमादिनापि भजते । तथा च भगवद्-गीतासु—ये यथा मां [गीता ४.११] इत्य्-आदि ।

अस्यार्थः—ये यथा मां प्रपद्यन्ते तांस् तथैव भजामि किम् ? काक्वा, अपि तु नैवेत्य् अर्थः । तर्हि कथं भजसीत्य् अपेक्षायाम् आह—यथा सर्वे मनुष्याः सर्वेशो मम वर्त्म भक्ति-मार्गम् अनुवर्तन्ते, तथा भजामि, भजनाद् अप्य् अधिक-फल-प्रदानाद् इति ।\

यद् वा, दयितः सुहृत्तमश् च नास्तीति दैन्येनात्मानम् उद्दिश्यैवोक्तम् । तस्य प्रियतां विना च न जन्म-साफलम् इत्य् आशङ्क्य पुनर् आह—न चाप्रिय इति । सर्व एव तस्य प्रिय इत्य् अर्थः । अत एव न च द्वेष्यो नाप्य् उपेक्ष्यो\ऽपीत्य् अर्थः ।\

ननु तर्हि कथं कंसं हन्यात् ? कथं वा तादृशानां मनोरथं न परिपूरयेद् इत्य् आशङ्क्याह—तथापीति । हितार्थम् एव कंसादीन् हन्यात् मनोरथश् च भक्तानाम् एव परिपूरयेत्, न त्व् अन्येषाम् इति भावः । अन्यत् समानम् ।

यद् वा, दयित एकान्त-भक्तो जनः, सुहृत्तमः परमोत्तम-बन्धुश् च नास्ति किम् ? अपि त्व् अस्त्य् एव । तत्र दयितो वैकुण्ठे श्री-गरुडादिर् महा-लक्ष्म्य्-आदिर् वा, गोकुले च श्रीदामादिः श्री-राधा-देव्य्-आदिर् वा, सुहृत्तमश् च कश्यपादिः श्री-नन्दादिर् वा, एवम् अग्रे\ऽप्य् ऊह्यम् । अत आधुनिक-सकामे यद् भजने तस्य न काप्य् अपेक्षा, तथा दुष्टादि-सङ्गेनाप्रियत्वादिकं च भवेद् एवेत्य् अर्थः । तथापि दुष्ट-सङ्गे यथा तथा भक्तान् अपि भजते, तस्य भक्ति-मात्र-प्रियत्वात् । यथा तथा भजनेनापीष्ट-सिद्धौ दृष्टान्तः—सुरेति । अतो दुष्ट-सङ्गिनो\ऽपि मम भजनाभासेनापि कृपयिष्यत्व् एवेति भावः । अलम् अतिविस्तरेण ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न तस्येति । तैर् व्याख्यातम् । तत्र कथम् ईश्वर इत्य् आप्त-कामत्वादिना प्रियाद्य्-अभावाद् इति भावः । प्रियः स-गुणेन प्रीति-विषयः, तद्-विपरीतः स्व-दोषेणाप्रीति-विषयः, पर-गुण-दोषयोर् आवेशाभावात् । तौ द्वौ न हित उपकारतः प्रत्युपकार-विषयः, तद्-विपरीतस् त्व् अपकारतो द्वेष-विषयः, तस्मिन्न् अपकारादि-निमित्तासम्भवात्, तौ च न सर्वस्य तद्-एकात्मत्वात् । उपेक्ष्यो\ऽपि न इति सत्यम् इति नष्-द्वयान्वयायोह्यं ।

मूले च-कारः सुहृत्तमादि-त्रये\ऽप्य् अन्वितः, पुनर् न-कारः पूर्व-निषिद्ध-विरोधित्वात् प्राप्तस्य प्रियादि-त्रयस्य निषेध-निर्धारणार्थः । एव-कारस् तु भक्ताद् इत्य् अनेनान्वितः भक्तेभ्य एवेति व्याख्यास्यमानत्वात्, अत्रानुपयुक्तत्वाच् च । वा-शब्दस् तद्-गुण-द्वय-व्यतिरिक्तस्योपेक्षस्यापि समुच्चये । तथा हि, तस्य कश्चिद् एको\ऽपि दयितः सुहृत्तमश् च न, नैवाप्रियश् च द्वेष्यश् च । उपेक्ष्यो नाम यः स च नेत्य् अर्थः ।

यद्यप्य् एवं प्रीत्य्-आदि-विषयो न, तथापि भक्तान् एव भजते । यद्यपि चाप्रीत्य्-आदि-विषयो न, तथाप्य् अभक्तान् न भजत इत्य् अर्थः । तत्र च यथा यादृश-भावनादिना ये भक्तास् तांस् तथा तादृश-प्रादुर्भावादिनेति वशता-प्राप्तिर् अप्य् अभिप्रेता । तद् उक्तं श्री-वैकुण्ठ-देवेन—

अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।

साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ [भा।पु। ९.४.६३]

इति भक्ति-सम्बन्धेनैवेति कृपादयो भवति, कृपया च वशीभूय सुहृत्तमम् [भा।पु। १०.३८.२०] इत्य्-आदि-पूर्वोक्त-सुहृत्तमत्व-ज्ञातित्व-परिरम्भित्वादिकम् अपि प्राप्नोति, न मय्य् उपैष्यति[भा।पु। १०.३८.१८] इत्य्-आदि पूर्वोक्त-विद्वेषि-द्वेष्टृत्वम् अपीति सिद्धान्तः । तथोक्तं श्री-भगवद्-गीतास्व् एव—

समो ऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति।

तत्रत्यं मयि त इत्य्-आदिकं श्री-वैकुण्ठ-देवेन विवृतं—

साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।

मद् अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [भा।पु। ९.४.६८] इति ।

ईश्वरस्य सतो भक्त-कृपा-स-भावे तु दोषः पूर्वम् एव दर्शितः । एवम् एव च वैषम्य-नैर्घृण्ये परिहृते स्यातां, प्राकृत-गुण-दोषैस् तच्-चित्तास्पर्शात् । भक्त्या तत्-तत्-स्पर्शाद् इति विशेष-विचारस् तु श्री-भागवत-सन्दर्भस्य परमात्म-सन्दर्भे [§९३] ज्ञेयः ।

दृष्टान्तो\ऽपि तथा तस्मात् पश्यन्ति पादपास् तस्मात् शृण्वन्ति पादपा [म।भा। १२.१७७.१२-१३]13 इति भारतीय-न्यायेन कल्प-वृक्षे तु देवत्वांश-सद्-भावेन सुतरां सज्ञानत्वे बुद्धि-पूर्वक-प्रवृत्तेः अबुद्धि-पूर्वकत्वे तु पूर्व-प्रकरण-प्राप्त-परिष्वङ्गादि-द्वारक-तत्-कृपालुताभिप्रायासिद्धिः स्यात् । कल्प-वृक्षेणापि तत्-कृपैक-प्रार्थकेभ्यस् तद्-वरो\ऽपि देय इति सर्वं समञ्जसम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तस्य परमेश्वरत्वात् सर्वत्र साम्यम् एव सम्भवेत् । एकं च त्वं स्वस्मिन् तत्-सुहृत्तमत्वादिकं किं सम्भावयसीति? तत्राह—न तस्येति । अथापि भक्तान् भजत इति ।

समो ऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति तद्-उक्तेः ।

तत्रापि यथा तथेति । ये यथा भक्तास् तांस् तथा भजते । ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति तद्-वचनात् । यद्वत् सुरद्रुम इति । आश्रयण-तारतम्येन फल-दान-तारतम्यम् । अनाश्रितेभ्यः फलाप्रदानं च तद् अपि सुर-द्रुमस्य यथा न वैषम्यं, तथा तस्य भगवतो ऽपि । किं च, सुर्द्रुमस्याश्रिताधीनत्वं तथा नास्ति यथा भगवतो भक्ताधीनत्वम्, अतो भक्ति-सम्बन्धेन तस्य सौहार्द-द्वेषोपेक्षा अपि दृष्टा एव, यथाम्बरीषादौ सौहार्दं, तद्-द्वेष्टृ-दुर्वासः-प्रभृतौ द्वेषोपेक्षे च दृष्टे एवेति ॥२२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२३ ॥

किं चाग्रजो मावनतं यदूत्तमः

स्मयन् परिष्वज्य गृहीतम् अञ्जलौ ।

गृहं प्रवेष्याप्त-समस्त-सत्कृतं

सम्प्रक्ष्यते कंस-कृतं स्व-बन्धुषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यो मयाञ्जलिः करिष्यते तस्मिन्न् एवाञ्जलौ गृहीतं माम् । आप्तानि समस्तान्य् अर्घादि-सत्-कृतानि येन तं माम् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीं बलदेव-विषयिणीं चिन्तां कुरुते-किं च इति । स्मयन्नह्ये मां पितृव्यं सन्नमतीति मन्दस्मितं कुर्वन् स्वबन्धुषु सम्प्रक्ष्यतेऽनुयोक्ष्यते । स्वबन्धुषु वसुदेवादिषु ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगतो नन्द-नन्दनत्वेन स्वस्य मननात् गोप-गोपीषु परमासक्त्या स्वस्मिंस् तादृशम् अनुग्रहमसम्भाव्य श्री-बलदेवस्य सुव्यक्तेन श्री-वसुदेव-नन्दनत्वेन स्वसम्बन्धं मत्वा तस्यानुग्रहे मनोरथं कुरुते—किं वेति । वा—शब्दः श्री-कृष्णानुग्रहस्य दुर्लभताभिप्रायेण । अग्रज इति ज्येष्ठ-सम्माननपरः, पश्चात् सोऽपि तमेवानुसरिष्यतीति गूढो भावः । अवधानेन नतम्, यदूत्तम इति श्रीवसुदेवात्मजत्वेन तस्य प्रसिद्धत्वात् । स्मयन् स्मयमान इति मनः-प्रसादापेक्षयोक्तम्, गृहं प्रविश्येति अग्रजत्वेन तस्य गृह-कृत्यापेक्षत्वात्, ततश् चातिथ्येनाप्त-समस्त-सत्-कृतं सन्तं स्वस्य बन्धुषु श्री-वसुदेवादिषु कंसस्य कृतं चेष्टितं किं सम्यक् प्रक्ष्यति, यदूत्तमत्वात् । तथा सति तेन समं सम्मन्त्र्य श्री-कृष्णमितो नेतुं शक्ष्यामीति गूढो भावः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः श्री-वासुदेवादि-परम-भक्त-सम्बन्धेन मय्य् अपि सुहृत्तमादिभावं श्री-कृष्णः करिष्यत्य् एव इति सम्भाव्य लब्धाश्वासो मनोरथान्तरं कुरुते किं वेति किम् इति सम्भावनायां वा समुच्चये अग्रजश् च किम् इत्य् अर्थः । यदूत्तम इति । सुहृत्तमत्वं ज्ञातिवद् अभिप्रायः अञ्जलावेव ग्रहणं च सङ्काचेनैव कृते तस्मिन्न् इति भावः । अग्रज इति स्वयम् अञ्जलि-ग्रहण गृह-प्रवेशेनादौ हेतुः स्मयन् स्मयगान इति मनः प्रसादापेक्षयोक्तम् अत एवातिथ्येनाप्त-समस्तसत्कृतम् इति तत्परिणामापेक्षया अस्य बन्धुषु श्री-वसुदेवादिषु कंसस्य कृतं चेष्टितम् इति तस्यापि विशेषापेक्षया तथा सति तेनानुकूलीकृतेन श्री-कृष्णम् इति आनेतुं शक्ष्यामीति चाभिप्रेतम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याग्रजो बलदेवः । मा माम् अङ्जलौ मत्कृटञ्जलौ स्वदक्षिणहस्तेन गृहीतं मामाकृष्य गृहमेकान्तसंलापार्थं प्रवेश्य । सत्कृतं सत्कारः ॥२३॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२४ ॥

श्री-शुक उवाच—

इति सञ्चिन्तयन् कृष्णं श्वफल्क-तनयोऽध्वनि ।

रथेन गोकुलं प्राप्तः सूर्यश् चास्त-गिरिं नृप ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स तु मार्गम् अपि न वेद तथापि रथेन प्राप्त इति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । सूर्यश्चास्तगिरिम् इति—प्रातश्चलितो मथुरातोऽल्पे मार्गे भगवद्-ध्यानावेशित-चेतस्त्वाद् अश्वरश्मिसञ्चालनादिकं न सस्मारेति भावः । नृपालनादि-व्यग्राणाम् एतद् दौर्लम्यम् आह—नृपेति सम्बोधयन्न् इति भावः । सूर्यश्चास्तगिरिम् इति सहोपमा । सा चास्तगिरिणा सूर्यस्येव गोकुल-महसा तस्यावृतत्वं ध्वनयति ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति उक्त-प्रकार्ण कृष्णम् अध्वनि सम्यक् चिन्तयन्, श्वफल्कतनय इति मुनि-पुत्रत्वेन तद्-य्ग्यतोक्ता । यद् व, तादृश-कार्ये प्रवृत्तत्वात् तन् नाम नोक्तम्, रथेनेति तैर् व्याख्यातम् ।

यद् वा, रथेन सहैव श्री-भगवतस् तदारोहणाद्य् अर्थम्, अन्यथा रथारूढतया तस्य तत्र प्रवेशानुपपत्तेः सूर्यश् चास्तगिरिं प्राप्त इति सायंकाले गोधूलि-संज्ञक-सल्लग्ने इत्य् अर्थः । तथा चोक्तं श्री-वैशम्पायनेन अथास्तं गच्छति तदा मन्द-रश्मौ दिवाकरे [ह।वं। २.२४.१] इति, श्री-पराशरेण च—किञ्चित् सूर्ये विराजति [वि।पु। ५.१७.१९] इति । यद्यपि श्री-मधु-पुरीतो वायव्य-कोणे क्रोशत्रयोदशकान्तरे व्रजान्ते सुप्रसिद्धं नन्दीश्वराख्यं श्री-नन्द-गृहं रथ-वेगेन मध्याह्न एव गतं स्यात्, तथापि सायम् एव तत्र तस्य गमनं सल्-लग्नापेक्षया । किं वा, दीर्घ-मनोरथाभिनिवेशेनाश्वानाम् अ-प्रेरणादिना स्वच्छन्द-मन्द-गमनाद् इति ज्ञेयम् । हे नृपते ! शोक-सन्तप्तं राजानं स्वस्थयति । यद् वा, स्वयम् एव शोकेन सम्बोधयति ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रथेनेति तैर् व्याख्यातम् अत एवानतिदूरेऽप्य् अध्वनि विलम्बो जातः रथम् आरुहैव श्री-भगवत्-समीप-पर्यन्त-गमनं सूर्यश्चास्तगिरिं प्राप्त इति सहोपमा सा चास्तगिरिणा सूर्यस्येव गोकुल-महसा तस्यावृतत्वं ध्वनयति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२५ ॥

पदानि तस्याखिल-लोक-पाल-

किरीट-जुष्टामल-पाद-रेणोः ।

ददर्श गोष्ठे क्षिति-कौतुकानि

विलक्षितान्य् अब्ज-यवाङ्कुशाद्यैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अखिलैर् लोक-पालैः किरीटेषु जुष्टा अमलाः पाद-रेणवो यस्य, तस्य । क्षिति-कौतुकानि क्षितेर् अलङ्कार-रूपाणि ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य श्री-कृष्णस्य । पदानि पादतल-चिह्नानि । विलक्षितानि विलक्षणत्वेन ज्ञापितानि । अलङ्कारेऽपि कौतुकम् इति कोशान्तरात् ननु, रथोपर्यासीनेन सायं गोधुलि-कृतान्धकारे बहुल-गोप-गण-पदावृतानि तस्य पदानि कथं दृष्टानि तथाह—क्षितीति । क्षितेः कौतुकम् उत्सवो येभ्यस् तानीति । निजालङ्कारत्वेन तयैव सुव्यक्ततया रक्षणात् । तत्र च भक्त-जन-दृष्टौ स्वतः स्फूरणाद् इति भावः ।

ननु, तस्यैव तानीति कथं विज्ञातं ? तत्राह—अब्जाद्यैर् विलक्षितानि असाधारणानि ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य कृष्णस्य पदानि, गोष्ठे तत्-समीपे व्रज-बहिः-प्रदेशे ददर्श, अचिराद् एव श्री-भगवतो वनाद् गोष्ठान्तः प्रवेशात् । तस्य चालभ्यलाभोऽभूद् इत्य् आशयेनाह—अखिलेति । तत्र किरीट-जुष्टेति परम-भक्ति-नम्रतया दूराद् एव प्राप्तिः सूचिता । अमलः सुन्दरः सुन्दरः । किं वा, न तिष्ठति मलः संसार-लक्षणो मुमुक्षादि-दुर्वासनालक्षणो वा येभ्यः इत्य् अमलत्वं किरीट-जुष्टत्वे हेतुः ।

ननु, रथोपर्यासीनेन सायं गोधुलिकृतान्धकारे बहुल-गोप-गणावृतस्य तस्य पदानि कथं दृष्टानि ? तत्राह—क्षितीति । धरण्या परमोत्सव--रूपेण परिस्फुरणाद् इति भावः ।

ननु, तस्यैव तानीति कथं विज्ञातम् ? तत्राह—अब्जाद्यैर् विलक्षितानि विशेषेण चिह्नितान्य् असाधारणानि वा, आद्य-शब्देन ध्वज-वज्रादीनि । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अखिलानां लोकानां पालो ब्रह्मा, तस्य किरीटैर् जुष्ठाः श्री-वृन्दावनेऽनुग्रहान्तरम् एव सेविता अमल-पादरेणवओ यस्य, तद् उक्तम् एव स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मम् [भा।पु १०.१३.६२] इति । यद् वा, अखिलैर् लोक-पालैर् ब्रह्म-शिवादिभिः किरीटेषु जुष्टः कथञ्चित् प्राप्य क्रमेण सेवेतोऽवल-पाद-रेणुर् एको यस्येति परम-दुलभत्वम् उक्तम् । तस्य रेणुश्रेणीमयाति पदानि साक्षाद् ददर्शेति तेभ्योऽप्य् अस्य परम-भाग्यम् उक्तम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोष्ठे तत्-समीपे ददर्श अचिराद् एव श्री-भगवतो गोष्ठान्तः-प्रवेशात् पदानां माहात्म्यम् आह—अखिलेति । तत्र न तिष्ठति मनः संसारादि-लक्षणो येभ्य इत्य् अमलत्वं किरीट-जुष्टत्वे हेतुः । ननु रथोपर्य् आसीनेन सायं गो-धूलि-कृतान्धकारे बहुल-गोपण-पदावृतानि तस्य पदाणि कथं दृष्टानि ? तत्राह—क्षितीति । क्षितेः कौतुकम् उत्सवो येभ्यस् तानीति । तथैव निजालङ्कारत्वेन सुव्यक्ततया रक्षणात् तत्र च भक्त-जन-दृष्टौ स्वतः परिस्फुरणाद् इति भावः । ननु तस्यैव तानीति कथं विज्ञातं तत्राह—अब्जाद्यैर् विलक्षितानि विशेषेण निरूपितानि असाधारणानि वा ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदानि पद-चिह्णानि । क्षितेः कौतुकं सविस्मयसौभाग्यं यतः ॥२५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२६ ॥

तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः

प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः ।

रथाद् अवस्कन्द्य स तेष्व् अचेष्टत

प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-दर्शनेन तेषां पदानां दर्शनेन य आह्लादः, तेन विवृद्धः सम्भ्रमो यस्य सः । प्रेम्णा ऊर्ध्वानि रोमाणि यस्य सः । अश्रूणां कलाभिर् लेशैर् आकुले ईक्षणे यस्य सः । अवस्कन्द्य अवप्लुत्य तेषु पदेषु सोऽक्रूरः अचेष्टत व्यलुठत् । अहो इति दुर्लभतां भावयन्॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां पदानां दर्शनेन । सम्भ्रमोऽत्र भक्त्य्-उद्रेक-निमित्त-व्यापार-विशेषः । सम्भ्रमः कर्तव्यतानुसन्धानाभावः । अश्रूणां कला कलनम् अतिक्षरणं तेन आकुले ईक्षणे यस्य सः । “अहो भाग्यं दुर्लभ-लाभो ममायम्” इति स-गद्गदं ब्रुवन् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्भ्रम आवेग इति कर्तव्यतानुसन्धानाभावः, अत एवाचेष्टत प्रेम्णेत्य् अस्य यथापेक्ष्यं सर्वैर् अप्य् अन्वयः, तेनैव पुलकाश्र्व्-आदि-सम्पत्तेः, तत्रोर्ध-शब्देन रोमाञ्चस्यातिरेकः, कला-कुलेक्षणत्वेनाश्रुणोऽपि ज्ञेयः । प्रभोर् जगदीश्वरस्य मत्-स्वामिनो वा, अमूनीति इमानि । अन्यत् तैर् व्याख्यातम् । यद् वा, कला बिन्दवो धारापाते वा, कलि-हली काम-धेनू इति वचनात्, इति वदन् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्भ्रम आवेग इति कर्तव्यतानुसन्धानाभावः । अत एवाचेष्टत प्रेम्णेत्य् अस्य यथापेक्षं सर्वैर् अप्य् अन्वयः । प्रभोः परमेश्वरस्य । अमूनि इमानि । अन्यत् तैः । तत्र अहो इति प्रभोर् इत्य्-आदिकस्य सर्वस्यैवोपलक्षणार्थम् इति-शब्दस्य सर्वान्वयित्वात् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अश्रूणां कला कलनम् अतिक्षरणं, कलि-हली काम-धेनू, अवस्कन्द्य सहसैवावप्लुत्य अक्रूरः तेषु पदेषु अचेष्तत स-रोदनम् अलुठत्, “अहो भाग्यं दुर्लभ-लाभो ममायम्” इति स-गद्गदं ब्रुवन् ॥२६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२७ ॥

देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् ।

सन्देशाद् यो हरेर् लिङ्ग-दर्शन-श्रवणादिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किम्-अर्थम् एवं व्यलुठत् ? नास्ति प्रेम-संरम्भे फलोद्देश इत्य् आह—देहं-भृताम् इति । देह-भाजाम् एतावान् एव पुरुषार्थः । कंसस्य सन्देशाद् आरभ्य हरेः लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य वर्णित इति । सन्देश आद्यो यस्यार्थस्य स यावान् अक्रूरस्य जात इति वा ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रजो-लोठने किं प्रयोजनम् इत्य् आक्षिपति—नन्व् इति । प्रेम-सम्भ्रमे प्रेमावेशे फलोद्देशः फलम् उद्दिश्य प्रवृत्तिर् भवतीति । पद-विभागम् उपेक्ष्यैक-पदस्य लघुत्वाद् आह बहुव्रीहिणा । मतुब्-अन्तेन मतुब्-अन्तस्यान्वयो वा, तुल्यालि-निवेश-न्यायेन वा । सन्देशः परम् उद्दिश्य निज-वृत्त-कथनम् । मथुरातो यात्राम् आरभ्य नन्द-व्रजे प्रवेश-पर्यन्तम् अक्रूरस्य मनो-वाक्-काय-चेष्टितं वर्णयित्वा तद् एव दृष्टान्तीकृत्य सिद्धान्त-सारम् आह—देहम् इति । देहम् इति द्वितीया आर्षी । अलुक्-समासे प्रथमा-द्वितीययोर् अग्रहणात् । तच् च प्रयोगाद् दर्शनात् तत्रोदाहरणाभावाच् चेति ध्येयम् ।

देह-धारिणाम् इयान् एतावान् एव पुरुषार्थः । कंसस्य सन्देशाद् आरभ्य हरेर् लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य वर्णितः । यथा हरेर् लिङ्गं पद-चिह्नं दृष्ट्वा अक्रूरस् तत्रैव धूलौ लुलोठ । तथाक्रूरो राज-मन्त्री राज्ञोऽत्यादरणीयः, कथं गोचारकस्य पद-धूलौ लोठामीति दम्भं हित्वैव, मद्-दूतोऽपि भूत्वा मच्-छत्रोः कृष्णस्य पद-धूलौ लोठतीत्य् उपजापकपितात् कंसाद् भयं हित्वा, कुपित-कंस-विनाश्येषु गृह-कलत्रादिषु च शुचं शोकं हित्वैव लुलोठ । यथा तथैव वयं पण्डितत्वाद् अभिजातत्वाद् ऐश्वर्यवत्त्वाच् च श्रेष्ठाः कथं सर्व-लोकानादृत-कुचैलाकिञ्चन-निकृष्ट-वैष्णव-धूलौ पतताम् इति दम्भं, स्वजन-निन्दनाद् भयं, तत्-तत्-त्यागाच् छोकं च हित्वा हरेर् लिङ्गं वैष्णवं दृष्ट्वा तच्-चरण-धूलौ पतेयुः ?

यद् वा, हित्वेत्य्-आदिकं देह-भृत्स्व् एव योग्यं, न त्व् अक्रूरे प्रेम-विह्वल इति । यथा हरेर् नारदादि-मुखाद् यशः-श्रवणेन स्मरणेन चाक्रूरो यथा दास्य-रसानुकूलान् मनोरथान् चकार, तथैव कदा हरिं परिचरिष्यामः ? अपि किं तं द्रक्ष्यामः ? इत्य्-आदि-मनोरथान् कुर्युर् इति ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दम्भं व्याजं, शुचं शोकं “मया किं कृतं” पश्चात् तापम् । “कोऽपि मां निन्दिष्यति” इति भियम्हित्वा वर्तमानस्य जनस्येयान् एवार्थः, यः खलु अक्रूरस्याभूत् ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अक्रूरस्य श्री-भगवत्-पदेषु तथा-विलुण्ठन-कथनेन भक्त्य्-उद्रेकाद् आह14—देहम् इति, देह-धारिणाम् इति, अन्यथा देह-धारणे वैफल्यम् इति भावः । दम्भादिकं हित्वा इति स्वरूप-निरूपण-मात्रम्, प्रेम-सम्भ्रमे स्वत एव तत्-तद्-अभावात्, तत्र दम्भः कापट्यम्, शुच इष्ट-वियोगतः, भीर् दुष्टतः, तेषां सत्त्वे विलुठनाद्य्-असिद्ध्या तत्-तत्-त्याग उक्तः । यद् वा, हित्वेत्य् उपदेशः, यद्यपि दम्भादिनाप्य् अर्थः सिध्येद् व, तथापि प्रेम-सम्पत्त्यापेक्षया तत्-तत्-त्यागोऽभिहितः । हरेर् इति मनो-हरणाभिप्रायेण, लिङ्गं किञ्चिच्-चिह्नम् । आदि-शब्दात् स्मरण-कीर्तनादि । अन्यत् तैर् व्याख्यातम् ।

यद् वा, सन्देशे वाचिकं दौत्य-कर्मणापीत्य् अर्थः । अन्यत् समानम्

यद् वा, इयान् प्रेम्णा भूमौ विलुण्ठनात्मक एवार्थः । कथम्-भूतः सन्देशः ? सङ्कीर्तनं यथा प्रभोर् अमूनि [२६] इत्य्-आदिकम् अक्रूर-कृतः, स एवाद्य आदौ भवो यस्मिन् जय जय श्री-कृष्ण इत्य्-आदि-पूर्वक इत्य् अर्थः, यद् व, तत्-प्रधान इत्य् अर्थः । लिङ्गं श्री-मूर्त्य्-आदि, तथापि स एवार्थः, केवलं प्रेम-मयत्वात् कीर्तनस्य प्राधान्यम् अपेक्षितम् इति भेदः, पश्चाच् च गोकुलाभ्यन्तरे रथ-नयनार्थं रथं पुनर् आरूढ इति ज्ञेयम्, रथात् तूर्णम् अवप्लुत्य [भ।पु। १०.३८.३४] इति वक्ष्यमाणत्वात् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी ) : अक्रूरस्य श्री-भगवत् पदेषु तथा विलुठन-कथनेन भक्त्य्-उद्रेकात् तं प्रशंसति—देहं भृतां देह-धारिणाम् अन्यथा देह-धारण-वैफल्यम् इति भावः । अन्यत् तैः ।

किं च, दम्भादिकं हित्वा योऽयं जात इति योजनिकयैवं गम्यते, यथाक्रूरस्यात्र दम्भो नासीत्, न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युत [भा।पु। १०.३८.१८] इत्य्-आदि-चिन्तनात् । अथान्तः-सुखान्तर-तात्पर्य-लक्षणो यदि दम्भो न स्यात्, यथा च कंस-प्रतापितो यो बन्धु-वर्गस् तत्-प्रतापयितव्यश् च यः, तस्य तस्य हेतोर् निज-कुल-रक्षावतीर्ण-श्री-कृष्ण-पुरतो व्यञ्जनीयः शोको भीश् च तादृशावेशे हेतुर् नासीत्, तद्-दर्शनाह्लाद- [भा।पु। १०.३८.२६] इत्य्-आद्य्-उक्तेः प्रेम-विभिन्न-धैर्य इति तृतीयोक्तेश् च । तथा यदि निज-दुःख-हानि-तात्पर्यं न स्याद् इति लिङ्गम् अनुभव-हेतुः भियं शुचम् इति पाठो बहुत्र । अथ गोकुलाभ्यन्तरे रथ-नयनार्थे पुनर् आरूढ इति ज्ञेयं, रथात् तुर्णम् अवप्लुत्य [भा।पु। १०.३८.३४] इति वक्ष्यमाणत्वात् ॥२७॥


प्रीति-सन्दर्भः (६९) : तद् एवं प्रीतेर् लक्षणं चित्त-द्रवस् तस्य च श्री-रोमहर्षादिकम् । कथञ्चिज्-जातेऽपि चित्त-द्रवे रोमहर्षादिके वा न चेद् आशय-शुद्धिस् तदापि न भक्तेः सम्यग्-आविर्भाव इति ज्ञापितम् । आशय-शुद्धिर् नाम चान्य-तात्पर्य-परित्यागः प्रीति-तात्पर्यं च । अत एव अनिमित्ता स्वाभाविकी [भा।पु। ३.२५.२३] च इति तद्-विशेषणम् । यथाहाक्रूरम् उद्दिश्य—देहं-भृताम् इति । टीका च— ननु किम् अर्थम् एवं व्यलुठत् ? नास्ति प्रेम-संरम्भे फलोद्देश इत्य् आह—देहं-भृताम् इति । देह-भाजाम् एतावान् एव पुरुषार्थः। कंसस्य सन्देशाद् आरभ्य हरेः लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य वर्णितः इत्य् एषा ।

अत्र दम्भं शुचं भयं हित्वा योऽयं जात इति योजनिकया चैवं गम्यते—यथाक्रूरस्य तत्र दम्भो नासीत्, न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः [भा।पु। १०.३८.१८] इत्य्-आदि-चिन्तनात्, तथान्तः-सुखान्तर-तात्पर्य-लक्षणो यदि दम्भो न स्यात् । यथा च कंस-प्रतापितो यो बन्धु-वर्गः, तत्-प्रतापयितव्यश् च यः, तस्य तस्य हेतोर् निज-कुल-रक्षावतीर्ण-श्री-कृष्ण-पुरतो व्यञ्जितः शोको भीश् च तादृशावेशे हेतुर् नासीत्, तद्-दर्शनाह्लाद- [भा।पु। १०.३८.२६] इत्य्-आद्य्-उक्तेः, प्रेम-विभिन्न-धैर्यः [भा।पु। ३.१.३२] इत्य्-आद्य्-उक्तेश् च, तथा यदि निज-दुःख-हानि-तात्पर्यं न स्यात्, तदाक्रूरस्य योऽयं प्रेमावेशो जातः, स इयान् एतावान् अपि देहिनाम् अर्थः परम-पुरुषार्थः स्यात्, किम् उत ततोऽपि भूयान् इति ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : देहं-भृताम् इत्य्-आदि । दम्भं व्याजम् । शुचं शोकम् । भियम् भयं हित्वा स्थितानां देहं भृतां प्राणिनाम् इयान् एव अर्थः पुरुषार्थः । एतावान् एव पुरुषार्थः, योऽक्रूरस्याभूद् इत्य् आह—सन्देशाद् इति । सन्देश-मात्रात् कंसस्याज्ञया कृष्णानयन-रूपो यः सन्देशः, तस्मात् हरेर् लिङ्गं पद-चिह्नादि, ततः परं दर्शनम्, ततः परं स्पर्शनम् । तद्-आदि-भियोऽक्रूरस्याभूद् इति । यद् वा, सन्देशाद् इति ल्यब्-लोपे पञ्चमी कंस-सन्देशं हित्वा, स तु काम्यो न भवति ॥२७.३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मथुरातो यात्राम् आरभ्य नन्द-व्रज-प्रवेश-पर्यन्तम् अक्रूरस्य मनो-वाक्-काय-चेष्टितं वर्णयित्वा तद् एव दृष्टान्तीकृत्य सिद्धान्त-सारम् आह—देहं भृताम् इति । द्वीतीया आर्षी देह-धारिणाम् इयान् एतावान् एव पुरुषार्थः, कंसस्य सन्देशाद् आरभ्य हरेर् लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य वर्णितः, यथा हरेर् लिङ्गं पद-चिह्नं दृष्ट्वा अक्रूरस् तत्रैव धूलौ लुलोठ, तत्र “अहम् अक्रूरो राज-मन्त्री राज्ञोऽस्यादरणीयः, कथं गोचारकस्य पद-धूलौ लुठामि” इति दम्भं हित्वैव, “मद्-दूतोऽपि भूत्वा मच्-छत्रोः पद-धूलौ लुठति” इत्य् उपजाप-कुपितात् कंसात् भयं हित्वा, कुपित-कंस-विनाश्येषु शुचं गृह-कलत्रादिषु शोकं हित्वैव लुलोठ, तथा तत्रैव “वयं पण्डितत्वाद् अभिजातत्वाद् ऐश्यर्यवत्वाच् च श्रेष्ठाः, कथं सर्व-लोकानादृत-कुचेलाकिञ्चन-निकृष्ट-वैष्णव-चरण-धूलौ पतामः” इति दम्भं, स्व-जन-निन्दनाद् भयं, तत्-तत्-त्यागाच् छोकं च हित्वा हरेर् लिङ्गं वैष्णवं दृष्ट्वा तच्-चरण-धूलौ पतेयुः ।

यद् वा, हित्वेत्य्-आदिकं देह-भृत्स्व् एव योग्यं, न त्व् अक्रूरे प्रेम-विह्वले इति । यथा हरेर् नारदादि-मुखाद् यशः-श्रवणेन स्मरणेन चाक्रूरो यथा दास्य-रसानुकूलान् मनोरथांश् चकार, तथैव कदा हरिं परिचरिष्यामः ? अपि किं तं द्रक्ष्यामः ?” इत्य्-आदि-मनोरथान् कुर्युर् इति ॥२७॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२८ ॥

ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ ।

पीत-नीलाम्बर-धरौ शरद्-अम्बुरुहेक्षणौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः कृष्णं रामं च ददर्श । गावो दुह्यन्तेऽस्मिन्न् इति गो-दोहनं तत्-स्थानं गतौ प्राप्तौ ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो\ऽङ्घ्रि-रजो-लोठनोत्तरम् । गो-दोहनं क्रियां वा । प्रथमं दूरतो वस्त्र-दर्शनात् तद् एवादौ वर्णयति—पीत-नील- इति । ततस् तडिद्-आदिभ्योऽपि प्रकाश-बहुलत्वेन नेत्र-दर्शनात् तयोर् एव वर्णनम् ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ददर्श कृष्णम् इति तस्यादौ निर्देशः, तस्मिन् भक्ति-विशेषेण । किं वा, प्रभाव-विशेषेण तस्यैवादौ दर्शन-सम्पत्तेः, व्रजे पवावासस्थान-मध्ये, तत्र गोदोहन-स्थानं गतौ, तत्रापि वत्स-वर्ग-मध्ये ददर्श इति श्री-पराशरः-वैशम्पायनौ तथा च विष्णु-पुराणे—

स ददर्श तदा तत्र कृष्णम् आदोहने गवाम् ।

वत्स-मध्ये गतं फुल्ल-नीलोत्पल-दल-च्छविम् ॥ [वि।पु। ५.१७.२०] इति,

श्री-हरि-वंशे च—

प्रविशन्न् एव च द्वारि ददर्श दोहने गवाम् ।

वत्स-मध्ये स्थितं कृष्णं स-वत्सम् इव गो-वृषम् ॥ [ह।वं। २.२५.१६,१७] इति ।

तच् च गोपैर् दुह्यमानाभिर् गोभिः समं वत्सानां सम्मेलनार्थं ज्ञेयम्

अथाग्रे गमनानुक्रमेणाक्रुरेण यथा तौ दृष्टौ, तद् अनुसारेण द्वाव् अपि यथोक्त-क्रमं विशिनष्टि—पीतेति सार्ध-पञ्चभिः । तत्रादौ वस्त्र-परिस्फूर्या पीतेति परिधानम् आह, तच् चोपलक्षणम्, अन्यान्यपि स्वर्णालङ्करणानि ज्ञेयानि, तानि चङ्रे कनकाचितौ [३३] इति सूचितान्य् एव, ततः श्री-लोचन-परिस्फूर्त्या शरद् इति तद् आह । तेनोपलक्षितम् अन्यद् अप्य् अङ्ग-सौष्ठवं द्रष्टव्यम् ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ददर्शेति षट्कं । प्रथमतः श्री-कृष्णं ददर्श अक्रूरस्य भक्ति-विशेषेण तस्य प्रभाव-विशेषेण च । व्रजे गवाम् आवास-मध्ये कीदृशौ तौ गोदोहन-स्थानं गतौ ? तत्रापि वत्स-वर्ग-मध्ये ददर्शेति श्री-पराशर-वैशम्पायनौ तथा च श्री-विष्णु-पुराणे

स ददर्श तदा तत्र कृष्णम् आदोहने गवाम् ।

वत्स-मध्ये गतं फुल्ल-नीलोत्पल-दल-च्छविम् ॥ [वि।पु। ५.१७.१९]

इति श्री-हरि-वंशे च,

प्रविशन्न् एव च द्वारि ददर्श दोहने गवाम् ।

वत्स-मध्ये स्थितं कृष्णं सवतम् इव गो-वृषम् ॥

ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ ।

पीत-नीलाम्बर-धरौ शरद्-अम्बुरुहेक्षणौ ॥ [ह।वं। २.२५.१६]

इति तच् च गोपैर् दुह्यमानाभिर् गोभिः समं वत्सानां संमेलनार्थं ज्ञेयम् ।

ताव् एव यथा-निर्देशं वर्णयति—पीतेति सार्ध-पञ्चभिः । तत्र दूराद् एव वस्त्र-दर्शनं तद् एव तयोर् आत्मनि यः कृपावलोकः, तत् स्वभावेनान्तर्-बहिर्-इन्द्रियाकर्षणात् तारा-तडिद्-आदितोऽपि परम-कान्ति-कन्दली-तुन्दिलानां लोचनानाम् आलोचनम् । तत्र तु रक्तिमादिना व्यक्तं व्यक्ती-भूतस्य कैशोरस्यानुभवः अथ सर्वानुभवाय जातेन चापलेन प्रथमं वर्ण-निर्वर्णनं ततो महा-शोभोपलम्भः ततः पश्चाद् गवादि-सम्भालनार्थं समुत्थापितयोर् भुर्जयोर् अवलोकनं ततः परम-सुखेन तेन श्री-मुख-निभालनं ततः किञ्चिन् निकटी-भूय पश्यता तेन सर्वाङ्ग-सौन्दर्य-पर्यालोलनं ततो बालौ किशोराव् अपि द्विरद-विक्रमाव् इति महौजःसहोवलागमः ॥२८.२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गावो दुह्यन्तेऽस्मिन्न् इति गो-दोहनं, तत् स्थानं गतौ प्राप्तौ । यद् वा, गवां दोहनं कर्म-प्राप्तौ गा दुहन्ताव् इत्य् अर्थः । सानुक्रोशे सानुकम्पे स-स्मिते च ईक्षणे ययोस् तौ प्रधान-भूतौ पुरुषौ जगति अवतीर्णौ । अर्थेषु भारावतार-रूपेषु प्रयोजनेषु मध्ये स्वांशः स्वः स्वो यो भागः, तेन हेतुना । यथा अघ-बकादीन् कृष्णो जघान । धेनुक-प्रलम्बादीन् रामो जघान । यथा च चाणुर-कंसादीन् कृष्णः । मुष्टिक-द्विविदादीन् रामो हनिष्यतीति ॥२८.३४॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.२९ ॥

किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।

सुमुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किशोराव् अनाप्त-यौवनौ । किशोरोऽश्व-शिशौ सूर्ये वयसि यौवनाग्रिमे इति धरणिः । ततः किञ्चिच् चलने सति व्यक्तीभूत-कैशोरस्य ततो वर्णस्य तत्र शोभोपलम्भात् तद् वर्णनम् । ततो गवां सम्भालनार्थम् उत्थापित-भूजावलोकनं, ततः श्री-मुख-निभालनं, ततः किञ्चिन् निकटीभूय पश्यता तेन सर्वाङ्ग-सौन्दर्यावलोकनं, ततो बालौ किशोराव् अपि महा-बलत्वेन द्विरद-विक्रमौ मत्त-गजवच् चलन्तौ ददर्श ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च किशोराव् इति वयः, श्यामल-श्वेताव् इति वर्णः, श्रियो विविध-शोभाया निकेताव् इति लावण्यादि, बृहद्भुजाव् इति वीर्यवत्त्वम्, सुमुखाव् इति मनोहरत्वम् । यद् वा, श्रियो वक्षसा निकेताव् इति वक्षः, बृहद्भुजाव् इति भुजौ, सुमुखाव् इति श्री-मुखम् एवोक्तम् । अनुक्तम् अन्यत् संगृह्नाति—सुन्दर-वराव् इति । पराक्रमम् आह—बाल- इति । बाल-गजोपमा कैशोर-मात्राभिप्रायेण, विक्रमवत्त्व-दर्शनं च सुदृप्तत्वादि-दर्शनाद् इति ज्ञेयम् । एवम् अन्यद् अप्य् ऊह्यम् । यद् वा, विक्रमः पाद-विन्यासः, बाल-द्विरदोपमा गति-चाञ्चल्य-विवक्षया ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३० ॥

ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् ।

शोभयन्तौ महात्मानौ सानुक्रोश-स्मितेक्षणौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुक्रोशोऽनुकम्पा तद्-विलसित-स्मित-युक्तम् ईक्षणं ययोस् तौ ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महात्मानौ पुरुषौ ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाह—ध्वजेति । अङ्ग्रिभिस् तच् चिह्नर् इत्य् अर्थः । किं वा, प्रत्येकं द्वाभ्याम् इत्य् एवं चतुर्भिः । पादाब्जैर् व्रजं शोभयन्ताव् इति लिलयेतस् ततः परिभ्रमन्ताव् इत्य् अर्थः । यद् वा, मण्डयन्तौ इति गवाम् दोहनं गतौ गा दुहन्ताव् इत्य् अर्थो निरस्तः । अत एव श्री-विष्णु-पुराणे तुङ्ग-रक्त-नखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् [वि।पु। ५.१७.२२] इति, श्री-हरि-वंशे भुवि पद्भ्यां व्यवस्थितः [ह।वं। २.२५.२५] इति । गुणान् आह—महात्मानौ सर्व-सद्-गुणवन्ताव् इत्य् अर्थः । तत्र मुखं कारुण्यं सूचयति—सानुक्रोशेति । एतेन माधुर्यम् अप्य् उक्तम् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो भगवल्-लक्षणालक्षणम् । अङ्घ्रिभिर् इति बहुत्वं द्वयोश् चतुष्टयत्वात् ततो अद्भुत-माधुरीभिर् विश्वेषाम् अपि स्तम्भात् स्थगित-गतिना तेन पुनर् अपि कृपा-दृष्टि-वृष्टि-लाभः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३१ ॥

उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।

पुण्य-गन्धानुलिप्ताङ्गौ स्नातौ विरज-वाससौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उदारा रुचिरा क्रीडा ययोस् तौ । स्रग्विणौ रत्न-स्रग्भिर् अलङ्कृतौ ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उदारा महती ख्याता चातुर्य-विशिष्टा वा रुचिरा द्रष्टृचेतो हरा । उदारो महति ख्याते दक्षिणे दान-शौडके इति शाश्वतः । वन-मालायाः पृथग् उपादानाद् रत्न-स्रग्भिर् इत्य् उक्तम् । पुण्यः सुरभिर् गन्धो यस्य तुलसी-दारुपटीरादेः स पुण्य-गन्धस् तेन नास्ति प्रियोऽनुलेपोऽन्यो हरेस् तुलसिजो यथा इति हरि-भक्ति-चन्द्रदये । उदार-रुचिरा महा-मनोहरा क्रीडा गवाह्वनरोधनादिषु विलास-हासादि-रूपा ययोस् तौ । कृपया निज-माधुरीं दर्शयितुं तम् अदृष्ट्वैव स्थितयोर् अनयोः क्रीडायां कौतुकावेशः । तत्र च वेश-विशेषाणां प्रत्येक-निशामनम् इति क्रमेण वर्णनम् । स्रग् विणौ ह्रस्व-मध्यमाला-धारिणौ । वन-मालिनौ दीर्घ-मालाधारिणौ । विरजं वासो ययोस् तौ । विरज इत्य् अकारान्तो रज-शब्दः अर्थाः पाद-रजोपमाः इति प्रयोगात् । स्रग्वीत्यादिकं तु स्नानानन्तरम् एव गृहात् तत्रागमाद् इति ज्ञेयम् ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लिलाम् आह—उदारा सर्वतो विलक्षणा सर्वार्थ-प्रदा वा रुचिरा च क्रीडा वेणु-वादन-गवाह्वानादि-लक्षणा ययोस् तौ । वेशम् आह—स्रग्विणाव् इति । पञ्चभिर् विशेषणैः स्रग्-रत्म-माला शिरोवेष्टन-पुष्प-माला वा । आपाद-लम्बि-वन-मालेतरा माला, पुण्यो दिव्यो गन्धः, यथा-शोभं पीत-नीलादि-वर्णः, श्री-खण्ड-सहघृष्ट-कुङ्कुमाद्य् अनुलेपस् तेन भक्तिच्छेद-रूपेणानुलिप्ताङ्गौ । स्नाताव् इति गृहे मातृभ्यां गोरजोऽपसरणाद्य् अर्थं पुनः स्नपनात्, अत एव विरजे विरजसी वाससी ययोस् तौ, विरजेति अर्थाः पादरजोपमा इत्य्-आदि-प्रयोगाद्-कारान्तस्यापि रज-शब्दस्य वृत्तेः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत उदऋअ-रुचिरा महा-मनोहरा क्रीडा गवाह्वानरोधनादिषु विलास-हासादिरूपा ययोस् ताव् इति कृपया सम्यग् इव निज-माधुरीं दर्शयितुं तम-दृष्ट्वैव स्थितयोर् अनयोश् च क्रीडायां कौतुकावेशः तत्र च वेश-विचेषाणां प्रत्येक-निशामनम् इति यथा-क्रमम् एव वर्णनं स्रग् विणौ ह्रस्व-मध्यमादि-मालाधरौ वन-मालिनौ दीर्घ-मालाधरौ विरजा-व् इत्यकारान्तो रज-शब्दः अर्थाः पादरजोपमा इति प्रयोगात् स्रग् वित्वादिकं गृहात् स्नानाद्य् अनन्तरम् एवात्रागमनात् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३२ ॥

प्रधान-पुरुषाव् आद्यौ जगद्-धेतू जगत्-पती ।

अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रधान-भूतौ पुरुषौ, प्रकृति-पुरुषात्मकौ वा । कुतः ? आद्यौ । तद् अपि कुतः ? जगद्-धेतू । अत एव जगत् पती । विपरीतो वा चतुर्णां पदानां हेतु-हेतुमद् भावः । जगत्य्-अर्थे पृथिव्या भारापनयनाय स्वांशेन मूर्ति-भेदेन बल-केशवौ सन्ताव् अवतीर्णौ ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अप्रसिद्धेः प्रसिद्धिर् बलीयसी इति न्यायेनाह—प्रकृति-पुरुषात्मकौ वा । बलदेवस्य शेषावतारत्वेन प्रकृतित्वं ज्ञेयम् । तच् च यस्याद्य आसीद् गुण-विग्रहो महान् [५.१७.२१] इत्य्-आदिना, महान् अहं वैकृत-तामसेन्द्रियाः सृजाम सर्वे यद्-अनुग्रहाद् इदम् [५.१७.२२] इत्य् अनेन पञ्चम-स्कन्धेऽवसेयम् । तत्राशङ्कते—कुत इति । तद् अपि आद्यत्वम् अपि । अत एव जगद्-धेतुत्वाद् एव, उत्पादकस्य प्रायो रक्षकत्व-दर्शनात् । वैपरीत्ये विनिगमनाविरहात् तद् अप्य् अस्त्व् इत्य् आह—विपरीतो वा इति । जगत्-पतित्वं कुतः ? यतो जगद् धेतू। तद् अपि कुतः ? यत आद्यौ । तद् अपि कुतः ? यतः प्रधान-पुरुषाव् इति ।

स्वांशेन निजैश्वर्येण मायया वा । कृष्णस्य सर्वापेक्षया प्रधानत्वं, रामस्य त्व् अस्यापेक्षया स्वांशेन स्वाविर्भाव-भेदेन हेतुना । यथाघ-बकादीन् कृष्णो, धेनुक-प्रलम्बादींश् च रामो जघानेति । यथा चाणूर-कंसादीन् कृष्णो, मुष्टिक-द्विविदादीन् नाम इत्य् उभाव् एव जगती-क्षेमायावतीर्णाव् इति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वांशेन बल-केशवौ इति जगत्य्-अर्थे स्वांश-नामिनौ प्रभू च तौ राम-केशवौ चेति तथा । अथवा, बल-केशवाव् इति विशेष्य-पदयोर् विशेषण-पदानि व्यतिक्रमेणैव निर्दिष्टानि, श्यामल-श्वेतौ यथा मारकतः शैलो रौप्यश् च कनकाचितौ इति पौर्वापर्य-विपर्ययः, तथात्रापि, कीदृशौ ? जगत्य् अर्थे स्वांशेनावतीर्णौ स्वां स्वरूपं च अंशश् च द्वन्द्वैकत्वान् नपुंसकम् एकवचनं च । कृष्णः स्वरूपेणावतीर्णः, बलो\ऽंशेनेति विपर्ययेण विशेषणम् ॥३२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : माहात्मम् आह—प्रधानेति । स्वाम्शेनेति एक एव भगवान् द्विधावतीर्णाव् इत्य् अर्थः । इति तयोर् द्वित्वापेक्षयैव सर्वत्र द्विवचनान्त-प्रयोगः, अन्यथा जगत्-पती इत्य् आदे आदावेकस्यैव जगत्-पतित्वादिना द्वित्वानुपपत्तिः, भू-भार-हरण-सामार्थ्यम् अन्वर्थेन तत् तन् नाम्नैव बोधयति-बलेति । तत्र बलाधिक्याद् वलं विदुः [भा।पु १०.८.१२] इति तस्य वलिष्ठता, केशि-हननाच् च केशवत्वेन तस्यापि सा सुप्रसिद्धैवेति बलस्यादाव् अत्र निर्देशोऽवतरण-क्रमापेक्षया, अन्यत् तैर् व्याख्यातम् ।

यद् वा, जगत्य् अर्थे निज-प्रेम-भक्ति-विस्तारणेन जगतो हितार्थम् इत्य् अर्थः । अत एव स्वानां श्री-गरुडादीनाम् अंशेन, जातावेकत्वम्, अंशैः श्रीदामादिभिः सह, अन्यत् समानम् । ततश् च प्रथम-स्कन्ध-तृतीयाद्यायोक्तानुसारेणावतार-द्वय-विवक्षया द्वित्वं ज्ञेयम् ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तस्य माधुर्यानुभव-चमत्कार-जाते तद्-भाबानुसारेण पारमैश्वर्यानुभव-चमत्कारोऽअपि जात इत्य् आह—प्रधानेति । कृष्णस्य सर्वापेक्षया प्रधानत्वं रामस्यान्यापेक्षयेति स्वांशेनेति स्वाबिर्भाव-भेदेनेत्य् अर्थः । अत एव जगत्-पती इति द्वित्वम । बलेति बलाधिक्य-स्फुर्तेः, केशवेति साम्प्रतं केशिइहन्तृत्व-स्फुर्तेः, कंस-मरणे निश्चयं बोधयति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रधान-पुरुषावाद्याव् इत्य्-आदि । स्वांशेन बलकेशवौ स्वांशानां निजानां सर्वेषाम् अंशानां इनौ प्रभू च तौ बल-केशवाव् इति तथा । अथ बल-केशवाव् इति विशेष्यपदस्य विशेषणानि, यथा किशोरौ श्यामलश्वेतौ, यथा मारकतः शैलो रौप्यश् च कनकाचिताव् इऽति व्यतिक्रमेण निर्दिष्टानि, तथात्रापि जगत्यर्थे स्वांशेन स्वं स्व-स्वरूपम् अंशश् च द्वन्दैक्यम् । कृष्णः स्वेन स्व-रूपेण बलो अंशेन कृष्णस्यैवांशेनेति व्यतिक्रम-निर्देशः ॥३२.४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३३ ॥

दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।

यथा मारकतः शैलो रौप्यश् च कनकाचितौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-प्रभया विगत-तिमिता दिशः कुर्वाणौ कनकाचितौ सुवर्ण-व्याप्ताव् इति सालङ्कारयोः शैलसादृश्यार्थम् उक्तम् ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मारकतः श्याम-मणिस् तच्छैलोपमः कृष्णः । रूप्य रजतं तत्-समो रामः । ननु, कृष्ण-प्रभाया अन्धकार-निरासकता न सम्भवति तत्-तुल्यत्व-दर्शनाद् इति चेत्कश्चिन् मन्दो वदेत् तं प्रत्य् आह यदेतदादित्यस्य परं कृष्णं रूपम् इह श्रुतौ, आकृष्णेन रजसा वर्तमानः इति श्रुतौ च, रवि-तेजः कृष्णम् एव यथा तमोऽपहं तथैवात्राप्य् अनुसन्धेयम् । नेत्रेऽपि कृष्ण-वर्णैव कणीनिका प्रकाशिकास्तीत्य् आबाल-गोपाल-प्रसिद्धेः ।

ननु, दूरतस् तद्-विशेषः कथं दृष्टः, उच्यते—महातेजस्वित्वाद् इति । यतः क्रमः रात्र्यंशे जातेऽपि विशेषतो विद्योतेताम् इत्य् आह—दिश इति शैल-दृष्टान्तोऽन्य-सवयस्कापेक्षया । तथा च विश्णु-पुराणे प्रांशुम् उत्तङ्गवाह्वंसम् [वि।पु। ५.१७.२५] इत्य्-आदि । योजना चेयं वथा मारकतश् चैलौ रौप्यश् च कनकाचितौ भवतस् तथा तौ ददर्शेति ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, रथोपरि दूरे वर्तमानेन कथं विरज-वासस् त्वादिकं दृष्टम् ? तयोः सहज-दीप्त्यैव तत्-तत्-प्रकाशनादित्य् आह—दिश इति । अनेन परम-सुतेजस्वितोक्ता । राजन्न् इति अक्रूर-महा-भाग्यत आश्चर्येण सम्बोधनम् । यद् वा, शैल इत्य् अनेनास्यान्वयः, राजमान इत्य् अर्थः, अन्यथा सादृश्याभावेन दृष्टान्तानुपपत्तिः, अत एव एकत्वेन निर्दिष्टस्यापि शैलस्यानाश्रित-द्वित्वापेक्षया कनकाचिताव् इति विशेषणम् अन्यथा सालङ्कारयोस् तयोः केवल-मारकत-रौप्य-शैलाभ्याम् उपमानुपपत्तिर् इति, तच् च तैर् व्याख्यातम् एव ।

शैल-दृष्टान्तेन तयोर् आकारस्य वृहत्तापि ध्वनिता । अत एव श्री-हरि-वंशे तत्-प्रसङ्ग एव पर्वत-प्रवराकृतिः [ह।वं। २.२५.२०] इति, श्री-विष्णु-पुराणेऽपि श्री-बलदेवम् उद्दिश्य, प्रांशुम् उत्तङ्गवाह्वंसम् [वि।पु। ५.१७.२५] इत्य्-आदि । सा च स्वभावत एवान्यजनापेक्षया दुरभिभवत्वेन वा । किं वा, सादृश्यातिशयेन दुरतिक्रमत्वेन वा । किं वा, कंसादि-हनन-सामर्थ्य-बोधनार्थं तस्मिन्न् एव तथैव परिस्फुर्त्येति, अन्यथा क्व चटिसुकुमाराङ्गौ [भा।पु १०.४४.८] इत्य्-आदि-पुरस्त्री-गण-शोकानुपपत्तिः, न च वक्तव्यं स्नेह-विशेषेण तासु तादृशयोर् अपि तथैव स्फूर्तेर् इति श्री-भागवते कुत्राप्य् अन्यत्र बृहद् आकाराश्रवणात्, तथात्यन्त-वैषम्येण व्रज-जनादिभिः सह क्रीडा-शोभा-हानेश्चेति दिक् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, दूरतस् तद् विशेषः कथं दृष्टः उच्यते महा-तेजस्वित्वाद् इति यतः क्रमशः रात्र्य् अंशे जातेऽपि विशेषतो व्यद्योतेताम् इत्य् आह । दिश इति । शैल-दृष्टान्तोऽन्यस-वयस्कापेक्षया बृहत्त्वादेः स्तन-शैलादिवत् तथा च श्री-विष्णु-पुराणे प्रांशुमुत्तुङ्गवाह्वं शमित्य्-आदि योजनाचेयं यथा मारकतः शैलो रौप्यश् च कनकाचितौ भवतः । तथा तौ ददर्शेति बृहत् तया सवर्णतया तथा सौवर्णालङ्कारतया चेति भावः । किं कुर्वन्ताव् इत्य् अत्राह । दिश इति । एवम् एव तैः सूचितं कनकेति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा मारकतः शैलो रौप्यश् च कनकाचितौ भवतः तया तौ ददर्शेत्यन्वयः । बृहत्तया सर्वात्मतया सुवर्णालङ्कारतया चेति भावः । किं कुर्वन्ताव् इत्य् अत्राह । दिश इति ॥३३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३४ ॥

रथात् तूर्णम् अवप्लुत्य सोऽक्रूरः स्नेह-विह्वलः ।

पपात चरणोपान्ते दण्ड-वद् राम-कृष्णयोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तूर्णं दर्शन-सम-कालम् एव । अपप्लुत्य अवरुह्य । अयं भावः—दूरतः प्रथम-दर्शने यद् रथान् नावप्लुतः, तत्र स्नेह-वैकल्यम् एव हेतुः । “भूमौ रथे वा स्थितोऽहम्” इत्य् अनुसन्धानाभावात्, तद् अभिमुख-गामि-तुरगेण रथेन तदीय-रूपाकृष्ट-दृष्टि-मनसः स्वस्यानुकूल्यालाभाच् च । अथ निकटागतो यद् अवप्लुतस् तत्रापि तद् एव हेतुः । दूर-स्वभावस् तद् आत्मन ईषद् ऊर्ध्व-स्थितेर् न स्फूटम् अवगतासीत्, निकटात् तु स्फुटम् अवगतातस् तद्-अनुसन्धानाद् आदराकर्षणे जाते इति । तथा पितृव्यता-व्यवहारेण योग्यतायाम् अपि प्रणामे यथा-विधि तद्-अविधाने हेतुर् दुर्गम्य इति ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स चिरं गोकुले तौ दिदृक्षुः कृत-तत्-तन्-मनोरथो वा, चरणानाम् उपान्ते ईषत् समीपे दण्डवत् पपातेति प्रणाम-रीत्य्-अभावो दर्शितः । तत्र हेतुः—प्रेम्णा विह्वल इति । रामस्यादौ निर्देशः—अक्रूर-समागमेच्छयाभिमुखम् आगतयोस् तयोर् ज्येष्ठत्वाद् अग्रे श्री-बलदेवस्यावस्थानात् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स तथा निकटागतोऽक्रूरो रथात् तूर्णम् अवप्लुत्य अवाक् प्लुत्य पतित्वा राम-कृस्णयोः समान-स्थितयोश् चरण-समीपे दण्डवत् पपात कतिचित् पदानि पद्भ्याम् एवागत्येति शेषः । तत्र सर्वत्र हेतुः स्नेह-विह्वलः दास्य्स-भावोचित-प्रेम-विशेष-मोहित इति । अयं भावः--दूरतः प्रथम-दर्शने यन् नाप्लुतस् तत्र स्नेह-वैकल्यम् एव हेतुः । भूमौ रथे वा स्थितोऽहम् इत्य् अनुसन्धानाभावात् । तद् अभिमुखं द्रुत-गामि-तुरगेण रथेन तदीय-रूपाकृष्ट-दृप्ति-मनसः स्वस्यानुकूल्य-लाभाच् च । अथ निकटागतो यद् वप्लुतस् त्रापि तद् एव हेतुः । दूर-स्वभावतस् तद् आत्मन ईषद् ऊर्ध्व-स्थितेर् न स्फुटम् अवगतासीत् निकटात् तु स्पुटम् अवगता । अतस् तद् अनुसन्धानाद् आदराकार्षणे जाते इति । तथा पितृव्यता-व्यवहारेण योग्यतायाम् अपि प्रणामे यथा-विधि तद् अविधाने च हेतुर् गम्य इति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.३८.३५ ॥

भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः ।

पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप15

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-दर्शनाह्लादेन यद् बाष्पं, तेन पर्याकुले ईक्षणे यस्य सः । पुलकैर् आचितं व्याप्तम् अङ्गं यस्य सः । स्वख्याने “अक्रूरोऽहं नमस्करोमि” इति कथने नाशक्नोत् ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आह्लादोऽन्यानन्दः । पुलकै रोमाञ्चैः ।

पुलको मणि-दोषेऽश्म-भेदे कृमि-विशेषके ।

रोमाञ्चे हरिताले गन्धर्वे हस्त्य्-अन्न-पिण्डके ॥ इति धरणिः ।

स्नेह-विह्वलत्वं स-हेतुकम् अभिव्यञ्जयति--भागवद् इति । पर्याकुले सम्यक् द्रष्टुम् अपि नाशकद् इति सूचितम् । उत् उच्चैर् गतः कण्ठस् तद्-भवः स्वरो यस्य, स उत्कण्ठः, तस्य भाव औत्कण्ठ्यं, तस्मात् सन्न-कण्ठत्वाद् इत्य् अर्थः । स्वाख्यानेऽपि नाशकत्, किं पुनः प्रसङ्गापादन इति भावः ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेम-विह्वलत्वेन दण्डवत्-पात-मात्रम् एव सहेतुकम् अभिव्यञ्जयति—भगवद् इति । अनेन तस्य प्रेम-विस्तरः सूचितः । अत एव पर्याकुलेति बाष्पस्यातिरेको ध्वनितः । इति सम्यक् द्रष्टुम् अपि नाशक्नोद् इति सूचितम् । आचित- इति पुलकातिरेक उक्त एव, औत्कण्ठ्यात् प्रेम-वैवश्याद् इत्य् अर्थः । स्वाख्यानेऽपि नाशकत्, किं पुनः प्रणामाष्टाङ्गत्वादि-सम्पादन इत्य् अर्थः । हि निश्चितम् । “नाशकन् नृप” इति पाठेऽपि तथैवार्थः । तत्र नृप इति पुनर् अप्य् अक्रूरस्य भाग्य-विशेषं दर्शयन् । किं वा, तत्-प्रेमोद्रेक-श्रवणात् प्रेम-विवशं राजानं स्वस्थयन् सम्बोधयति ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्नेह-विह्वलत्वम् एव सहेतुकम् अभिव्यञ्जयति--भगवद् इति । पर्याकुल- इति सम्यग् द्रष्टुम् अपि नाशकद् इति सूचितम् । उत् उद्गतः उच्चैर् गतः कण्ठस् तद्-भवः स्वरो यस्य स उत्कण्ठस् तस्य भावः औत्कण्ठ्यं, तस्मात् सन्न-कण्ठत्वाद् इत्य् अर्थः । स्वाख्यानेऽपि नाशकत्, किं पुनर् अप्रसङ्गत्वादि-सम्पादन इत्य् अर्थः । “नाशकन् नृप” इति बहुत्र पाठेऽपि तथैवोह्यम् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वाख्याने “अक्रूरो ऽहं नमस्करोमि” इति स्व-कथनेऽपि न शशाक ॥३५॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३६ ॥

भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कित-पाणिना ।

परिरेभेऽभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य अक्रूरोऽयम् एतद्-अर्थम् आगत इति ज्ञात्वा कंस-हनन-सामर्थ्यं द्योतयन्न् इव रथाङ्गेन चक्रेण अङ्कितो यः पाणिः, तेन अभ्युपाकृष्य तम् आलिङ्गितवान् ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अक्रूरम् । रथाङ्ग-पदेन निशातन-द्योतकेन बलाधिक्यं द्योतितम् । अभ्युपाकृष्य समीपम् आनीय । प्रीतस् तद्-भक्त्य्-अवबोधनेन । भगवान् इति सार्वज्ञ्यं परम-कारुण्यादिकं चाह । अभिप्रेत्य ज्ञात्वा । रथाङ्ग- इत्य् उपलक्षणम् । तद् उक्तं पराशरेण,

सोऽप्य् एनं ध्वज-वज्राब्ज-कृत-चिह्नेन पाणिना ।

संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ [वि।पु। ५.१८.२] इति ।

प्रीतः सन् परिरेभे, न तु पितृव्य-व्यवहारेण । तद् अमनने हेतुः—प्रणत-वत्सल इति । तदीयदास्यमय-भक्ति-विशेषवशः, ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्य्-आदेः ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् इति सार्वज्ञ्यं परम-कारुण्षादिकं च दर्शितम् । रथाङ्गाङ्कित-पाणित्वस्य सामर्थ्य-विशेषे तात्पर्यम्, तथोक्तं श्री-पराशरेण—

सोऽप्य् एनं ध्वज-वज्राब्ज-कृत-चिह्नेन पाणिना ।

संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ [वि।पु। ५.१८.२] इति,

प्रीतः सन् परिरेभे । तत्र हेतुः—प्रणत-वत्सल इति । भक्त-वातल्येनैव प्रीतिः, न तु तद् आगमन-प्रयोजनादिनेति भावः । अयं च द्वयोश् चरणोपान्ते पतितस्यापि तस्य श्री-भगवता प्राक् परिरम्भणे हेतुर् अपि ज्ञेयः । अन्यत् तैर् व्याख्यातम् । यद् व, अभिप्रेत्य तस्य हृद्यं मनोरथं ज्ञात्वा तत एव प्रीतस् तं परिरेभे ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् इति सार्वज्ञ्यं परम-कारुण्यादिकं च दर्शितम् अभिप्रेत्य सर्वज्ञोऽपि लीलया श्रुतेनाकारेणाक्रूरोऽयम् इति सम्भाव्य रथाङ्गाङ्गितत्वेन भगवल् लक्षणं व्यज्य तत् स्पर्शेणाक्रूरस्य भाग्य-माहात्म्यं दर्शयति । रथाङ्गेत्य् उपलक्षणं यथोक्तं श्री-पराशरेण सोऽप्य् एनं ध्वज-वज्राब्जकृत-चिह्नेन पाणिना । स्ंस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वज इति प्रीतः सन् परिरेभे न तु पितृव्य-व्यवहारेण नमस्कृतवान् तत्र प्रीतत्वेऽपि पितृव्य-व्यवहाराम् अनेनेऽपि हेतुः । प्रणत-वत्सल इति । तदीय-दास्य-भक्ति-विशेष इत्य् अर्थः । ये यथा माम् इत्य् आदेः श्री-कृष्णेन प्राक् परिरम्भेऽप्य् अयम् एव हेतुः अन्यत् तैः तत्र इवेत्य् उत्प्रेक्षायां ततो वस्तुतो द्योतनार्थं नोपाकर्षत् किन्तु प्रीत्यैवेत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अभिप्रेत्य लक्षणादिना लोक-रीत्या वितर्क्य ॥३६.३७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिप्रेत्य अक्रूरो ऽयम् एतद्-अर्थम् आगत इति ज्ञात्वा रथाङ्गाङ्कितेन चक्र-चिह्नाङ्कितेन पाणिना तम् अभ्युपाकृष्य स्व-निकटम् आकृष्य आकर्षणेन कंस-हनन-सामर्थ्यं ज्ञापयन्न् इवेति भावः ॥३६॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३७ ॥

सङ्कर्षणश् च प्रणतम् उपगुह्य महा-मनाः ।

गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाणी अञ्जलि--रूपेण संहिताव् एव गृहीत्वा ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाणी अनयद् इह प्रकृति-भावः । सानुज इति अग्रजत्व-व्यवहारेणातिथ्यकरणे तस्यैव मुख्यत्वात् । गृहं श्री-नन्द-गृहम् । श्री-रामस्यापि स्व-गृहत्वेनैवाभिमानात् । पाणिना स्वदक्षिणेन । पाणी अञ्जलि-भूतौ । गृहीत्वेति गृहीतम् अञ्जलौ इति तन्-मनोरथात् ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्कर्षण इति । यदूनाम् अपृथग्-भावात् [भा।पु १०.८.१२] इत्य् उक्तस्य यदुभिः सह तद्-अभेदस्य । किं वा, श्री-कृष्णवद् आकर्षणस्याभिप्रायेण । प्रणतम् इति पुरैव कृत-प्रमाणामात् । किं वा, तद् अनुग्रह-प्राप्तये पुनस् तं प्रति पृथक् प्रणामात् । महामना इति वक्ष्यमाणातिथ्यादौ परमौदार्यात् । किं वा, श्रीमाननुजोऽयं भक्त-वात्सल्येन विवशो वृत्तः, तातश् च श्री-नन्दोऽद्य स-परिवारोऽप्रसन्न-मनाः शोकार्त इव गृहान्तर्वर्तते, अतो मया विनाद्य अस्यातिथ्यार्थं व्रज-महार्ति-हेतु-तद् वार्तादि-सङ्गोपनाद् इति, सानुजः इत्य् आतिथ्ये श्री-कृष्णस्य गौणत्वात् । किं वा, विवशस्य तस्याप्य् आनयनाद्, गृहं श्री-नन्दस्यैव—श्री-यशोदा-रोहिण्योर् एकत्रैव निवासात् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षण इति । यदूनाम् अपृथग् भावादित्य् उक्तौचित्याभिप्रायेण महत् श्री-कृष्ण-भक्तेषु वात्सल्यादि-गुणैः सर्वत उत्कृष्टं मनो यस्य स इति पूर्ववद् धेतुः सानुज इत्य् अग्रजत्व-व्यवहारेण तस्यातिथ्यकरणे मुख्यत्वात् गृहं श्रीमन् नन्द-गृहे श्री-रामस्यापि स्व-गृहत्वेनैवाभिमानात् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाणिना स्व-दक्षिणेन, पाणी अञ्जलिभूतौ गृहीत्वेति गृहीतम् अञ्जलाव् इति तथैव तन्-मनोरथात् ॥३७.३८॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.३८ ॥

पृष्ट्वाथ स्व्-आगतं तस्मै निवेद्य च वरासनम् ।

प्रक्षाल्य विधि-वत् पादौ मधु-पर्कार्हणम् आहरत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु-पर्क एवार्हणं तस्मिन् वा यद् उचितम् अर्हणम् आहरत् । आनीय समर्पितवान् इत्य् अर्थः ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मधुपर्कं घृतक्षुद्रदधिभिः सम्भवेन् मुनेः इत्य्-आदि-पुराणात् । तत्-तद्-द्रव्यमानीय मधुपर्कं कृत्वार्चयद् इति भावः । पूर्व-व्याख्यानेऽर्हपदं व्यर्थ ज्ञात्वा व्याख्यान्तरं कृतवान् इति ध्येयम् । वरं श्रेष्ठं रत्नादिमयम् । प्रक्षाल्य पादाव् इत्य् अत्र तद् अप्रत्याख्याने हेतुः—आदृतः सादरः । तथादरपरिपाटीभिः स्वमाधुरी व्यञ्जिता यथाक्रूरोऽपि तद् ऐश्वर्यादिकं विस्मृत्य तद् इच्छानुसारी बभूवेति भावः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ गृहानयनानन्तरम्, वरं श्रेष्ठं रत्नादिमयमासनम्, विधिवद् इति यथा-विधि तथेत्य् अर्थः, इदन्तु सर्वैर् अपि योज्यम्, अग्रेऽप्य् अनुवर्त्यम्, तत् तद् विधिश् च स्मृत्यादौ प्रसिद्ध एव ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वरं श्रेष्ठं रत्नादिमयम् आसनं विधिवत् यथाविधीत्य् अर्थः इदं सर्वत्र योज्यं प्रक्षाल्य पादाव् इत्य् अत्र तद् अप्रत्याख्याने हेतुः आदृतः सादरः तथादरपरिपाटीभिः स्व-माधुरी-व्यञ्जिता यथाक्रूरोऽपि तद् ऐश्वर्यादिकं विस्मृत्य तद् इच्छैकानुसारी बभूवेति भावः । एवं सम्वाह्य पाद-सम्वाहनं कृत्वेति च उभयत्र ण्यन्तत्वं वा ॥३८-३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रक्षाल्य विधिवत् पादाव् इत्य् अत्र हेतुः आदृतः सादरः तथादरपरिपाटीभिः स्वमाधुरीव्यञ्जिता यथाक्रूरो ऽपि तदैश्वर्य्यादिकं विस्मृत्य तदिच्छैकानुसरि बभूवेति भावह् ॥३८.४३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी), बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्**।**


॥ १०.३८.३९ ॥

निवेद्य गां चातिथये संवाह्य श्रान्तम् आदृतः ।

अन्नं बहु-गणं मेध्यं श्रद्धयोपाहरद् विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गां गो-शब्दोपलक्षितां वासार्थ-भूमिम् । पानीयादि दुग्धार्थं धेनुं वा । सम्बाह्य पाद-सेवां कृत्वा । बहु-गुणं षड्सयुक्तं पायसं वा । विभुःः स्वयं भगवान् । किं च, गोनि-वेदनं किम् अर्थम् इति प्रश्ने न त्व् एवामांषोऽर्थः स्यात् इति श्रुतेः तु-शब्दः पक्षव्यावृतौ अर्घोऽर्चनममांसः पश्वालम्भन-वर्जितो नैव भवेत् । अत्र यद्य् अलभेद् यद्य् उत्सिसृक्षेत् इत्य् अनेन सूत्रेण गवालम्भस्य विकल्पं विधाय न त्वेवामांसोऽर्घः इत्य् अनेनार्घ-मात्रे गवालम्भनं नियमेन विधत्ते । तथा तद्-द्वयोः स्मृत्यतर-विरोधेनाप्रामाण्ये प्राप्ते व्यवस्थाम् आह—अधि-यज्ञम् अधिविवाहं कुरुते इत्य् एवं ब्रूयात् । अधियज्ञं यज्ञे । अधि-विवाहं विवाहे । कुरुते विदधाति । गवालम्भनपाप्मानं हिनोमि इत्य् अस्यान्ते इत्य् एवं ब्रूयात् । अन्यत्र पाप्मा हतः पाप्मानं हन्मीति वा विकल्पः । यद्य् अप्य् एवं मधुपर्के तद् यथैवादो मनुष्यराज आगतेऽस्मिन् वार्हत्य् उक्षाणं वेहतं वा क्षदन्ते इति श्रुतेर्वेहतं वन्ध्या गां क्षदन्ते हिंसन्ति इति गवालम्भो विहितस् तथाप्य् अस्वर्ग्यत्वाल् लोक-विद्विष्टत्वाच् च मा गामनागामद् इति वधिष्ठ इति श्रुतेः,

अश्वालम्भं गवालम्भं सन्न्यासं पलपैतृकम् ।

देवराच् च सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् ॥

इति स्मृतेश् च, कलौ न विधेयः ।

अत्रोपविष्टं कार्ष्णि तं शास्त्रतः प्रत्यपूजयत् ।

पाद्यं निवेद्य प्रथमम् अर्घं गां च न्यवेदयत् ॥

स च तां मन्त्रवत् पूजां प्रत्यगृह्नाद्य् अथाविधि ।

प्रति-गृह्य तु तां पूजां जनकाद्द्विजसत्तमः ॥

गां चैव समनुज्ञाय

इति मोक्ष-धर्मेषु भारतोक्तेर् गां धेनुं समनुज्ञाय तृणादनार्थं सम्यग् आज्ञां दत्त्वान्यां पूजां प्रत्यगृह्नाद् इति टीकोक्तेश् च कलौ न विधेयः । अस्वर्ग्यं लोकविद्द्विष्टं धर्मम् अप्य् आचरेन्नहि इति याज्ञवल्क्य-स्मृतिषु निषेध-दर्शनात् । अर्घ्याश् च षड्र्घ्या भवन्ति इति श्रुतेः षडेव अर्घ्या अर्घार्हाः । के ते आचार्य ऋत्विग्विवाह्यो राजा प्रियः स्नातकः इति श्रुतेः । आचार्य उपनय-पूर्वकं वेदाध्यापकः । ऋत्विक् शौतस्मार्तादि-कर्मार्थं वृतो ब्रह्मादिः । विवाह्यो वरः । राजा अभिषेकादि-गुणवान् प्रजापालनेऽधिकृतः क्षत्रियः । प्रिय उत्कृष्ट-जातिः समान-जातिर् वा सखा । स्नातको ब्रह्म-चर्यात् समावृत्तः । आचर्यस्यार्घ्यो नान्यस्य । तथा च मनुः

तं प्रतीतं स्व-धर्मेण ब्रह्मदायहरं पितुः ।

स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥ इति ।

ब्रह्म वेदः स एव दायस् तं हरतीति तथा । प्रतीतिं—प्रतिसंवत्सरम् आगतानाचार्यादीनर्घेण पूजयेयुर् नार्वागित्य् अलं प्रपञ्चेन । तथा चाक्रूरस्य प्रियत्वाद् अर्घ्यत्वम् । तत्र गोप्रदर्शनम् एव योग्यं न त्वालम्भो याज्ञवल्क्येन यज्ञोद्वाहयोर् अपि कलौ निषिद्धत्वाद् यज्ञ-विवाहाभ्याम् अन्यत्रा-विहितत्वाच् च । एवं सम्वाह्य पाद-सम्वाहनं कृत्वा उभयत्र ण्यन्तत्वं वा ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्वाह्य पादयोः सम्बाहनं कृत्वा, नन्वक्रेण तत् कथं कारितम् ? तत्राह—आदृतः सादर आतिथ्ये प्रीतिमानित्य् अर्थः । तस्य प्रीत्य् अपेक्षया तेन सोढम् इति भावः । बहु-गुणं मेध्यं चेति प्रायो गोरसमयत्वात्, उपाहरत् समीपे निविश्य परिवेशन-पूर्वकं सम्र्पितवान् इत्य् अर्थः । श्रद्धयेति पुनः पुनर् आग्रहेण परिवेशनं मधुर-वाचा भोजनार्थं प्रार्थनादिकं च बोधयति । विभुस् तत्र तत्र समर्थ इति तत्-तत्-सम्पूणता सूचिता ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निवेद्य गाम् इति पाद्याद्युपचारेषु गौरियं दृश्यतां तवेति नयनेन्द्रियसुखदानार्थं सुन्दरगवोपस्थानमप्येको मङ्गलोपचारः मेध्यम् इति द्वादशीपारणविहितम् इत्य् अर्थः । अस्य दिनस्य द्वादशीत्वं परश्वश्चतुर्दश्यां भूतराजपूजायां कंसमारणात् । न रात्रौ पारणं कुर्याद् इति नियमातिक्रमः कृष्णगृहान्नप्राप्तिलोभात् ॥३९.४०॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.४० ॥

तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।

मुख-वासैर् गन्ध-माल्यैः परां प्रीतिं व्यधात् पुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मै अक्रूराय । मुखवासैः कर्पूर-ताम्बूलैः । पुनर् मुखवासादिदानान्ते ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव प्रीत्या भुक्तवते, षष्ठ्य् अर्थे चतुर्थी, राम इति तथा तद् रमणात्, परम-धर्मो वैष्णव-धर्म-लक्षणस् तद्वित्, अतिथिं तत्रापि पारणायां तत्रापि वैष्णवं प्रत्येवम् एवम् एव व्यवहर्तव्यम् इति लोके प्रवर्तयन्न् इत्य् अर्थः । अतः पुनर् अपि परमां प्रीतिं सम्पादितवान् ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रीत्या भुक्तवते षष्ठ्याश् चतुर्थी परम-धर्मेण वैष्णव-धर्मेण अतिथिं तत्रापि द्वादशी-पारणायां तत्रापि वैष्णवं प्रत्य् एवम् एव व्यवहर्तव्यम् इति लोकैः प्रवर्तयन्न् इत्य् अर्थः । अत पुनर् अपि परमां प्रीतिं व्यधात् तस्य दिनस्य द्वादशीत्वं परश् चतुर् दश्यां भूत-राज-पूजायां कंस-राज-मारणात् पारणायाः प्रातर् अकरणन्तु भगवद् दिदृक्षया न रात्रौ पारणं कुर्याद् इति नियमातिक्रमस् तु साक्षाद् भगवद् गृहान्न् अप्राप्तेः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.४१ ॥

पप्रच्छ सत्-कृतं नन्दः कथं स्थ निरनुग्रहे ।

कंसे जीवति दाशार्ह सौन-पाला इवावयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-कृतं संमानितम् । निरनुग्रहे क्रूरे । कथं केन प्रकारेण स्थ जीवथेत्य् अर्थः । सौनः पशु-घाती स एव पालको येषाम् अवीनां मेषाणां त इव तत् तुल्या इत्य् अर्थः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—जीवनस्यैव सत्तापदार्थत्वात् प्राणधारणानुकूलो व्यापारः सर्तेति तल्-लक्षणाद् इति तात्पर्यम् । सूनायुताधिक-पशुहनन-स्थानं, तत्र तिष्ठतीति सौनः । इत्य् अथ इति—सौनपाले जीवति यथा मेष-जीवनं दुर्घट तथा भवताम् अपीत्य् अर्थः । अविर्नाथे रवौ मेषे शैले मूषिक-कम्बले इति मेदिनी । हेदाशार्हेति कंसस्य यदूकुल-द्वेष्टृत्वेन तस्यापि ततो भयं सूचयति । सूनावृत्त्या चरतीति सौनः, सूना पशुमारणं जीवघातस्थानम् इति यावत् । एतेन न जाने कस्मिंश्चिद् दिने युष्मान् एव हरिष्यतीति भयं सूचितम् ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं जेष्ठ-पुत्रेण सत्-कृतं सन्तम्, हे दाशार्हेति कंसस्य यदुकुल-द्वेष्टृत्वेन तस्यापि ततो भयं सूचयति, शौनपालत्वेन मेषाणां शौने जीवति सति यथावश्यम् एव विनाशः, तथा कंसे राजनि जीवति युष्माकम् अपि जीवन-रक्षो नास्ति । तत्र चपि दृष्टान्तेन यादवानां बलाद्य् अभावतो हननस्य सुकरताभिप्रेता । निरनुग्रह इत्य् अनेन च शौनाद् अपि तस्य दुष्टता व्यर्थम् एव, यदु-वर्ग-द्रोहात्, अतोऽसौ हन्तुं योग्य एवेति भावः ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं ज्येष्ठ-पुत्रेण सत्कृतं सन्तं हे दाशार्हति कंसस्य यदुकुल-द्वेष्टृत्वेन तस्यापि ततो भयं सूचयति शूना हत्या तया चरतीति शौनः पश्चादिघाती ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं स्थ जीवथेत्य् अर्थः । शौनः पशुघाती स एव पालको येषां ते अवयः मेषा इवेति न जाने कस्मिंश्चन दिने युष्मान् हनिष्यतीत्येवेति भयम् इति भावः ॥४१॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.४२ ॥

योऽवधीत् स्व-स्वसुस् तोकान् क्रोशन्त्या असु-तृप् खलः ।

किं नु स्वित् तत्-प्रजानां वः कुशलं विमृशामहे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरनुग्रहताम् आह—योऽवधीद् इति । तोकान् तोकानि । असु-तृप् असून् एव तर्पयति यः । अतः खलः । तस्य कंसस्य प्रजानाम् । हे अक्रूर, येषां जीवन-मात्रम् अपि दुर्लभं तेषां वः किं नु कुशलं विचारयाम इति ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यः कंसः । स्व-स्वसुर्देवक्याः । तोकं पुत्रे सुतायां च इति मेदिनि । अतोऽसुतर्पकत्वात् । न स्विद् इति निपातद् वयं वितर्के । तोकान् बालापत्यानि, तत्रापि स्वसुः, तत्रापि क्रोशन्त्या इति निर्दयत्वं महा-दुष्टत्वं चोक्तम् । तच् च केवलम् आत्म-देह-रक्षार्थम् एवेत्य् आह—असुतृविति । तद् अपि तेषु मिथ्या-दोषारोपाद् इत्य् आह—खल इति । तस्य प्रजानाम् अधीनानां किं कतत् कुशलम् । कुशलाभावे निश्चितेऽपि कथं कुशलं पृच्छाम इति भावः ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वस्य स्वसुर् इति सम्बन्धस्य नैकट्यं भागिनेय-हननायोग्यत्वं च दर्शितम्, तत्रापि तोकान् बालापत्यानि । पुंस्त्वम् आर्षम् । तत्रापि क्रोशन्त्या इति निर्दयत्वं महा-दुष्टत्वं च, तच् च केवलम् आत्म-देह-रक्षार्थम् एवेत्य् आह—असुतृव् इति । तद् अपि तेषु निरपराधेषु मिथ्या-दोषारोपाद् इत्य् आह—खल इति । तस्य प्रजानाम् अधीनानाम् इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्य स्वसुर् इति सम्बन्धस्य नैकट्यं भागिनेयं हननायोग्यत्वं च दर्शितं तत्रापि तोकान् बालापत्यानि तत्रापि क्रोशन्त्य इति निर्दयत्वं महा-दुष्टत्वं च तच् च केवलम् आत्म-देह-रक्षार्थम् एवेत्य् आह । असुतृविति । तद् अपि तेषु निरपराधेषु मिथ्या दोषारोपादित्य् आह । खल इति । तस्य प्राजानाम् अधीनानाम् इत्य् अर्थः । नु सम्बोधने स्वित् वितर्के किं कतमत् कुशलम् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तोकान् तोकान्यपत्यानि । किं कुश्लम् इति कुशलाभावे निश्चिते ऽपि कथं कुशलं पृच्छाम इति भावः । हे इति सम्बोधने ॥४२॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.३८.४३ ॥

इत्थं सूनृतया वाचा नन्देन सु-सभाजितः ।

अक्रूरः परिपृष्टेन जहाव् अध्व-परिश्रमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधुरया वाचा इत्थं सत्-कृतः । तथैव वाचा परिपृष्टेन प्रश्नेन । अध्व-परिश्रमं संसार-श्रमम् ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अध्वा संसार-मार्गयोः इति धरनिः । भगवद् दर्शनम् एव संसार-परिश्रम-हानौ हेतुर् न तु नन्द-प्रश्नादिः । इमम् एवाध्यायार्थं श्रुतिर् अप्य् आह—देवानां दूतः पुरुधः प्रसूतो नागान् नो वोचतु सर्वतात इत्य्-आदिः । सुदासुगः पितु मां अस्तु पन्थाः इति । उद्रायो अस्था सदनं पुरुक्षोः इत्य् अक्रूर-मनोरथो वर्णितः । अक्रूरागमनम् आह—देवानां कंसं हेतु-कामानां वागाद्य् अभिमानिनाम् अअग्न्यादीनाम् अहं दूतोऽस्मि कृष्णं प्रति गन्तुं प्रस्थितोऽस्मि । पुरुधः बहु-प्रकारैः प्रसूतो निसृष्टः कंसेन नोऽस्मान् प्रति अनागान् निष्पापान् सर्वताता सर्वस्य विस्तारकर्ता हरिः वोचतु वदतु । अस्माभिः सह सम्भाषणां करोतु । तथा पन्था अपि सदा सुगः सुगमः पितुम् आनन्नवानस् तु मार्गेऽप्य् अन्तरायो मा भूद् इत्य् अर्थः । पुरुक्षोर् बहूनां क्षयकर्तुः सदनं गृहमेश्या प्राशुयाम् । उद्राय उत्कटसम्पद इति श्रुतिपदानाम् अर्थः । अध्वनि मार्गे परितः श्रमः न मय्युपैष्यत्य् अरिबुद्धिम् अच्युतः इति पूर्वोक्तरीत्या श्री-व्रजेश्वरादिमनः-प्रसादे सन्देहात्मको यो मनःखेदस् तम् अपि जहाव् इत्य् अर्थः ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स कंस-पीडित-बन्धु-वर्गकः, श्री-भगवन् नयनार्थागमनापराधेनान्तर् भीतोऽपि वा । पाठान्तरे—सु शोभनं सभाजितः सम्मानितः सन् संसार-परिश्रमम् अपि जहौ, किम् उत वर्त्म परिश्रान्तिम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम्।

यद् वा, नन्दस्यैव विशेषणम्, परिपृष्टेनेति—अक्रूरेण कुशलं परिपृष्टो यस् तेनेत्य् अर्थः, अन्योऽन्यं साधूनां कुशल-प्रश्नात् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थम् इति तैर् व्याख्यातं तत्राध्व-शब्देन संसार-वचन-मध्य-परिश्रमाभावेन वर्णितत्वात् । यद् वाध्वनि परिश्रमम् इति न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युत इति पूर्वोक्तरीत्या श्री-व्रजेश्वरादि-मनः-प्रसादे तु सन्देहात्मको यो मनःखेद आसीत् तम् अपि जहाव् इत्य् अर्थः ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूनृतया मधुरया वाचा यत् परिपृष्टं प्रश्नस् तेन सभाजितः जहौ तत्याज ॥४३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टत्रिंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥


बलदेव-विद्यभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धेऽक्रूरागमनं

नामाष्टात्रिंशोऽध्यायः ।

॥ १०.३८ ॥

(१०.३९)


  1. उद्यतो (?) ↩︎

  2. उद्यतो (?) ↩︎

  3. मधुपुर्यां ↩︎

  4. एवोपपन्ने ↩︎

  5. गमयोर् अयुग्माः ↩︎

  6. वैपरीत्यापत्तेः ↩︎

  7. स्वतश् चेष्टया ↩︎

  8. अपवित्रत्वं च ↩︎

  9. साक्षाद्-वक्ष्यामीत्य् अत्र ↩︎

  10. प्रकटयन्तम् इत्यव्याख्यानं ↩︎

  11. -हस्त-पल्लवम् ↩︎

  12. यच् च ↩︎

  13. वाय्व्-अग्न्य्-अशनि-निष्पेषैः फल-पुष्पं विशीर्यते ।

    श्रोत्रेण गृह्यते शब्दस् तस्माच् छृण्वन्ति पादपाः ॥

    वल्ली वेष्टयते वृक्षं सर्वतश् चैव गच्छति ।

    न ह्य् अदृष्टेश् च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः ॥

    पुण्यापुण्यैस् तथा गन्धैर् धूपैश् च विविधैर् अपि ।

    अरोगाः पुष्पिताः सन्ति तस्माज् जिघ्रन्ति पादपाः ॥ ↩︎

  14. भक्त्य् उद्रेकम् आह ↩︎

  15. स्वाख्यानेऽपि नाशकत् ↩︎