३७

केशि-वधः, नारद-कृतं भगवत्-स्तवनं निलायन-क्रीडायां व्योमासुर-वधश् च ।

॥ १०.३७.१ ॥

श्री-शुक उवाच—

केशी तु कंस-प्रहितः खुरैर् महीं

महा-हयो निर्जरयन् मनो-जवः ।

सटावधूताभ्र-विमान-सङ्कुलं

कुर्वन् नभो हेषित-भीषिताखिलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्त-त्रिंशे हते केशिन्य्- अच्युतो भावि-कर्मभिः ।

नारदेन स्तुतः क्रीडन् व्योमासुरम् अथावधीत् ॥

वृषवेषासुरं यद्वत् केशिनं हय-वेषिणम् ।

कंस-प्राण-सखं हत्वा कंसं व्यसुम् इवाकरोत् ॥

केशी त्व् इति । प्रथम-श्लोकेन य एवं-भूतः केशीत्य् अनूद्य तं भगवान् उपाह्वयद् इति द्वितीयेनान्वयः । महा-हयः सन् महीं निर्जरयन् श्लथयन् विदारयन्न् इत्य् अर्थः । सटाभिः केसरैर् अवधूतानीतस् ततः क्षिप्तान्य् अभ्राणि विमानानि च तैः सङ्कीर्णं नभः कुर्वन् । हेषितैर् अश्व-जाति-शब्दैर् भीषितम् अखिलं विश्वं येन सः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भावि-कर्मभिर् अप्रे करिष्यमाण-कर्मभिः । अथ केशि-वधानन्तरम् । यद् वद्यथा वृषासुरं तद् बद्ध्यवेषिणाम् इत्य् अन्वयः । व्यसुम् इव मृतक-समम् । अनूद्य वर्णयित्वा । इत्य् अर्थ इति—यद्य् अपि निरुपपदो जॄ-धातुः समृद्ध्यर्थेऽस्ति निर्जरा देवाः इत्य्-आदिवत् तथाप्य् अनेकार्थत्वाद् विदारणेऽपीत्य् आशयः । हेषा ह्रेषाश्व-शब्दे द्वे इति नाम-रत्नाकरे केशि-सञ्ज्ञान्वर्थताम् आह—सटेत्य्-आदि ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दोऽरिष्टतोऽस्य विशेषं सूचयति । तम् एवं दर्शयति—कंसेत्य् आदि-विशेषणैः । स्वत एव महा-दुष्टः, पुनश् च दुष्टतार्थं कंसेन तत्र प्रहित इत्य् अर्थः । निःशेषेण जरयन् चूर्णयन्, मनसो जव इव जवो यस्य सः । केशीति संज्ञाया अन्वर्थतां दर्शयति—सटेति ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केशी तु नन्द-व्रजं जगामेति शेषः । संज्ञाया अन्वर्थतां दर्शयति । सटेति ॥१॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्तत्रिंशो केशिवधो भावि लीलोक्तिभिः स्तुतिः

नारदेन हरेश्चौर्य- क्रीडा व्यंअवधो ऽप्यभूत्

केशी तु यः कंस प्रहितस्तं भगवानुपाह्वयद् इति द्वितीये नान्वयः यद्वा नन्दव्रजं जगामेति शेषो देयः निर्जरयन् खुराघातैर्महीं निःशेषेण जीर्णां कुर्वन्, सटाभिः केशरैरवधूतानि कम्पितानि अभ्राणि विमानानि च तैः सङ्कुलं व्याप्तं नभः कुर्वन् । हेयितमश्वजातिशब्दः ॥१॥


॥ १०.३७.२ ॥

विशाल-नेत्रो विकटास्य-कोटरो

बृहद्-गलो नील-महाम्बुदोपमः ।

दुराशयः कंसहितं चिकीर्षुर्

व्रजं स नन्दस्य जगाम कम्पयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-धेषितैर् स्तैरतिनिष्ठुरैर् हेषितैः । बालैः पुच्छ-लोमभिर् विघूर्णिताः परिभ्रामिता अम्बुदा येन तम् । आजौ सङ्ग्रामार्थम् । आत्मानं कृष्णम् । अग्रणीः पुरतो निर्गतः सन्न् उपाह्वयत् स्व-समीपम् आजुहाव । स च केशी तन् निशम्य मृगेन्द्र-वन् नादम् अकरोत् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं केशिनम् । अग्रणीः कृष्णो ज्ञेयः । स्व-गोकुलं निजव्रजम् । तच् च श्री-वैशम्पायनेनोक्तम्—

नृ-शब्दानुसरः क्रुद्धः स कचादिद् दिनागमे ।

जगाम घोष-सम्वासं नोदितः काल-धर्मणा ।

तं दृष्ट्वा दुद्रुवुर् गोपाः स्त्रियश् च शिशुभिः सहः । इत्य्-आदि ।

किम्भूतं स्व-गोकुलम्—तत् अनिर्वचनीय-प्रेमास्पदम् इत्य् अर्थः । यद् वा—तस्य केशिन इव हेषितैर् इति समस्तम् एव । तत्राग्रणीर् इति भीतान् गोष्ठ-जनान् पृष्ठीकृत्य यमुना-मार्गे निर्गतः सन् स्वसमौपं प्रत्याजुहावेत्य् अर्थः । श्री-गोविन्द-स्थानम् उत्तरेण यमुना-घट्ट-विशेषस्य केशिघट्ट-तीर्थत्वेन प्रसिद्धः । तथा च वाराहे गङ्गा-शत-गुणं पुण्या यत्र केशी निपातितः इति । अत्र विवरणं श्री-विष्णु-पुराणे—

त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तदा वचः ।

सतोयजलद्ध्वानगम्भीरम् इदम् उक्तवान् ॥

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।

भवद्भिर् गोपजातीयैर् वीर्य विलोप्यते किम्

अनेनाल्पसारेण हेषिताटोपकारिणा ।

दैतेयवलबाहेन बलिना दुष्टवाजिना । इति ।

श्री-हरि-वंशे च—

तम् आपतन्तं संप्रेक्ष्य केशिनं हयदानवम् ।

प्रत्युज्जगाम गोविन्दस् तोयदः शशिनं यथा ॥

केशिनस् तु तम् अभासे दृष्ट्वा कृष्णम् अवस्थितम् ।

मनुष्य-बुद्धयो गोपाः कृष्णम् ऊचुर्हितैषिणः ॥

कृष्ण तात न खल्वेष सहसा ते हयाधमः ।

उपसर्प्यो भवान् बालः पापश्चैष दुरासदः ॥

एष कण्षस्य सहजः प्राणस् तात बहिश् चरः ।

उत्तमश् च हर्येद्राणां दानवोऽप्रतिमो युधि ।

त्रासनः सर्व-देवानां तुरङ्गाणां महाबलः ।

अवध्यः सर्व-भूतानां प्रथमः पाप-कर्मणाम् ॥ इति ।

तत्र शशिनम् इत्य् उक्तेः केशिनः शुक्ल-पक्ष एव वधो ज्ञेयः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वगोकुलं निज-व्रजम् । यद् वा, स्वस्य गवां कुलं तत्-सहचारित्वेन गोपा अपि ग्राह्याः । एवं श्री-वृन्दावनान्तर् गोचारण-समये प्रातः केशी समागत इति ज्ञेयम् । अतस् तत्र यमुना-तीरे श्री-गोविन्द-देवाद् उत्तरतस् तद्-वधः सङ्गत एव, अत एव वक्ष्यतेऽपि [२५श।श्लो] भगवान् अपि गोविन्दः इत्य्-आदि । यच् च श्री-वैशम्पायनेनोक्तम् हरि-वंशे—

नृ-शब्दानुसरः क्रुद्धः स कदाचिद् दिनागमे ।

जगाम घोष-संवासं नोदितः काल-धर्मणा ।

तं दृष्ट्वा दुद्रुवुर् गोपाः स्त्रियश् च शिचुभिः सह ॥ इत्य्-आदि,

तच् च कल्प-भेद-कल्पनया व्यवस्थापनीयम् । यद् वा, तन्मते गमनं तस्य तत्रैव मारणं चाग्रेऽभिगतेन भगवता तत्र यमुना-तीर एवेति ज्ञेयम्, गङ्गा-शत-गुणाः1 प्रोक्ता यत्र केशी निपातितः इति श्री-वाराहोक्तात् तत्रैव तद्-वध-प्रसिद्धेः । स्व-शब्देन गोकुलस्यावश्यपरिपाल्यत्वं सूचितम्, यतो भगवान् तत्र निजाशेषैश्वर्य-प्रकटकः । यद् वा, स्वज्ञातयो गोपा गोकुलानि च, द्वन्द्वैक्यम्, तैर् हेषितैर् अपि त्रासयन्तम् । यद् वा, तस्यैव हेषितैर् उपाह्वयत्, आत्मानमाजौ मृगयन्तम् इति तुच्छ-बुद्ध्या तेनान्येनोपद्रुता इति ज्ञेयम्, अग्रणीर् गोपानां ब्य्हयम् अत्यन्तं दृष्ट्वा तानाश्वासितुम्, व्यादायेत्य् अस्य पृष्ठतः कृत्वा पुरतो बहिर् निगतः सन् । तथा च श्री-विष्णु-पुराणे—

त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तदा वचः ।

सतोयजलदध्वानगम्भीरम् इदम् उक्तवान् ॥

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।

भवद्भिर् गोप-जातीयैर् वीरवीर्यं विलोप्यते ॥

किम् अनेनाल्पसारेण हेषिताटोपकारिणा ।

दैतेयवलवाह्येन वल्गता2 दुष्टवाजिना ॥ इति ।

श्री-हरि-वंशे—

तमापतन्तं सम्प्रेक्ष्य केशिनं हयदानवम् ।

प्रत्युज्जगाम गोविन्दस् तोयदः शशिनं यथा ॥

केशिनस् तु तमभ्यासे दृष्ट्वा कृष्णम् अवस्थितम् ।

मनुष्य-बुद्धयो गोपाः कृष्णम् ऊचुहितैषिणः ॥

कृष्ण तात न खल्वेष सहसा ते हयाधमः ।

उपसर्प्यो भवान् बालः पापश्चैव दुरासदः ॥

एष कंसस्य सहजः प्राणस् तात बहिश् च ।

उत्तमश् च हयेन्द्राणां दानवोऽप्रतिमो युधि ॥

त्रासनः सर्व-देवानां तुरगाणां महावलः ।

अवध्यः सर्व-भूतानां प्रथमः पाप-कर्मणाम् ॥ इति ।

तत्र शशिनम् इत्य् उक्तेः केशिनः शुभ्र-वर्णो ज्ञेयः, विशेषेण नादं चक्रे । कीदृशम् ? तम् आह—मृगेन्द्रेति । अन्यत् तैर् व्याख्यातम् एव । यद् वा, स महावलो भगवान् व्यनदच् च । अन्यत् समानम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-गोकुलं निज-व्रजं त्रासयन्तम् । तच् च श्री-वैशम्पायनेनोक्तं

नृ-शब्दानुसरः क्रुद्धः स कदाचिद् दिनागमे ।

जगाम घोष-सम्वासं नोदितः काल-धर्मणा ।

तं दृष्ट्वा दुद्रुवुर् गोपाः स्त्रियश् च शिशुभिः सहेत्य् । आदि ।

कथम्-भूतं स्व-गोकुलं तत् तादृश-प्रेमास्पदम् इत्य् अर्थः । यद् वा, तस्य केशिन इव हेषितैर् इति समस्तम् एव । तैस् तम् उपह्वयद् इत्य् अन्वयः । तत्राग्रणीर् इति भीतान् गोष्ठ-जनान् पृष्ठीकृत्य यमुना-मार्गतः सन् स्व-समीपं प्रत्याजुहावेत्य् अर्थः । श्री-गोविन्द-स्थानम् उत्तरेण यमुना-घट्ट-विशेषस्य केशि-गट्ट-तीर्थत्वेन प्रसिद्धेः तथा च वाराहे यमुना-माहात्म्ये । गङ्गा-शत-गुणं पुन्या यत्र केशी निपातित इति । अत्र विवरणं श्री-विष्णु-पुराणे । त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तदा वचः । सतोय-जलद-ध्वानगभीरम् इदम् उक्तवाम् । अलं त्रासेन गोपालाः ! केशिनः किं भयातुरैः । भवद् भिर् गोप-जातीयैर् वीरवीर्यं विलोप्यते किम् अनेनाल्पसारेण हेषिताटोपकारिणा । दैतेयवलवाह्येन वलिना दुष्टवाजिनेति । श्री-हरि-वंशे च –

तमापतन्तं संप्रेक्ष्य केशिनं हयदानवम् ।

प्रत्युज् जगाम गोविन्दस् तोयदः शशिनं यथा ॥

केशिनस् तु तम् अभ्यासे दृष्टा कृष्णम् अवस्थितम् ।

मनुष्य-बुद्धयो गोपाः कृष्णम् ऊचुर् हितैषिणः ॥

कृष्ण तात न खल्व् एष सहसा ते हयाधामः ।

उपसर्प्यो भवान वलः पापश् चैष दुरासदः ॥

एष कंसस्य सहजः प्राणस् तात बहिश् चरः ।

उत्तमश् च हयेन्द्राणां दानवाप्रतिमो युधि ॥

त्रासनः सर्व-देवानां तुरङ्गानां महा-बलः ।

अव यः सर्व-भूतानां प्रथमः पाप-कर्मणाम् इति ॥

तत्र शशिनम् इत्य् उक्तेः केशिनः शुक्ल एव वर्णो ज्ञेयः ॥२॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बालाः पुच्छ-लोमानि स केशी च व्यनदत् ॥२॥


॥ १०.३७.३ ॥

तं त्रासयन्तं भगवान् स्व-गोकुलं

तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् ।

आत्मानम् आजौ मृगयन्तम् अग्र-णीर्

उपाह्वयत् स व्यनदन् मृगेन्द्र-वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः केशी तं कृष्णं दृष्ट्वा मुखेन खं पिबन्न् इव मुखं विवृत्याभिमुखः सन्न् अभिजगाम । किं च अत्य्-अमर्षणोऽति-कुपितोऽत्यन्तम् असहमानो वा । प्रत्यक् यद्भ्यां जघान । दुरासदोऽन्यैर् अभिभवितुम् अशक्यः । दुरत्ययः उद्यतः सन् दुरतिक्रमः । अत्र हेतुः, चण्ड-जवश् चण्डस् तीव्रो जवो वेगो धावनं यस्य ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो नादानन्तरम् । न केवलम् अभ्याजगामेवेत्य् आह—किं च इति । निर्बलस्यातिकोपेन किम् इत्य् आह । अत्यन्तेपि । प्रत्यक् पद्भ्यां पश्चिम-पद्भ्याम् । अत्र दुरत्ययत्वे । अरविन्दलोचनम् इति । प्रफुल्ल-पद्माभस्मेरनेत्रोन्मीलनेन वीक्षणाद् इति सावज्ञत्वम् उक्तम् । यद् वा, श्री-बादरायणेस् तन् निन्दोक्तिर् इयम् । तादृश-सुन्दर-सुकुमाराङ्गे दृष्ट्वेऽपि तद्-दुष्टभावान अपगमात् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जघान हन्तुं प्रवृत्तः, अरविन्द-लोचनम् इति प्रफुल्ल-पद्माभ-श्री-नेत्रोन्मीलनेन निरीक्षणाद् इति साद्वधानत्वं सावज्ञतुं चोक्तम् । यद् वा, श्री-वादरायणेः शोकोक्तिर् इयम्, तादृश-सुन्दर-सुकुमाराङ्गे दृष्टेऽपि पद्भ्यां हननात् । अन्यत् तैर् व्याख्यातम् ।

तत्र दृष्ट्वेति व्याख्यानान् निशाम्येति पाठो द्रष्टव्यः । मुखेन संपिवन्निवेत्य् अस्यैव व्याख्या, मुखं विवृत्येति—व्यादायेत्य् अधिकं लेख-भ्रमात् । निशम्येति पाठ-निश्चये तु, तत् आह्वानम्, तं नादं वा श्रुत्वेत्य् अर्थः । दुरासदो दुर्ग्रहः, यतश् चण्डजवः, अत एव दुरत्ययो दुरभिभव इति ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जघान हन्तुं प्रवृक्तः अरविन्द-लोचनाम् इति प्रफुल्ल-पद्माभस्मेर-नेत्रोन्मीलनेन वीक्षणाद् इति सावज्ञत्वम् उक्तम् । यद् वा, श्री-वादरायनेस् तन् निन्दोक्तिर् इयं तादृश-सुन्दर-सुकुमाराङ्गे दृष्टेऽपि तद् दुष्ट-भावान् अपगमात् । निशम्य निशाम्य दृष्ट्वेत्य् अर्थः । दुरासदो दुर्ग्रहः । यतश् चण्डजव अत एव दुरत्ययः दुरभिभव इति ॥३॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स केशी तं श्रीकृष्णं निशाम्य दृष्ट्वा दुरासदः अन्यैर्निकटम् अपि गन्तुमशक्यः दुरत्ययः कुतः पुनरतिक्रमितुं शक्य इत्य् अर्थः ॥३॥


॥ १०.३७.४ ॥

स तं निशाम्याभिमुखो मुखेन खं

पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः ।

जघान पद्भ्याम् अरविन्द-लोचनं

दुरासदश् चण्ड-जवो दुरत्ययः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् धननं वञ्चयित्वा तं च हननाय प्रसारितयोः पादयोर् हस्ताभ्यां गृहीत्वा परिविध्य भ्रामयित्वा व्यवस्थितस् तथैव स्थितो बभूव ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् असुरम् । सावज्ञं सावमानं क्रिया-विशेषणं वा । तथैव यथा-पूर्वम् ॥ अधोक्षज इन्द्रिय-ज्ञानाविषयो यः स कथं तत्-पादघात-विषयः स्यात् इत्य् अहो तस्य मूढतेति भावः । रूषा स्व-गोकुल-त्रासजनक्रुधा । यद् वा, अरुषा लीलयैव ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं तादृशम् अपि, अधोक्षज इति इन्द्रिय-ज्ञानाविषयो यः स कथं तत्-पादघा-विषयः स्याद् इति भावः । अत एव वञ्चयित्वा रुषा स्व-गोकुल-त्रासनतः । यद् वा, अकार-प्रश्लेषेण—अरुषा लीलयैवेत्य् अर्थः । प्रगृह्य प्रग्रह--रूपेण गृहीत्वा, इति दुर्माचकत्वम् उक्तम् । उत्सृज्य प्रक्षिप्य पश्चाद्भाग-ग्रहणेनावज्ञयोत्सर्जने दृष्टान्तः—यथेति, ततश् च केशी मुमोहेति ज्ञेयम् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं तादृशम् अपि । अधोक्षज इन्द्रिय-ज्ञान-विषयो यः स कथं तत् पाद-घात-विषयः स्याद् इत्य् अहो तस्य मूढतेति भावः । अत एव वञ्चयित्वा । रूषा स्व-गोकुल-त्रासनतः यद् वा, अकार-प्रश्लेषेण अरुषा लीलयैवेत्य् अर्थः । उत्सृज्य प्रक्षिप्य ततश् च केशी मुमुहे इति ज्ञेयम् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् हननं वञ्चयित्वा तं दोर्भ्यां स्वहस्ताभ्यां हस्तं प्रसारितयोः पदयोः प्रगृह्य परिविध्य भ्रामयित्वा विशेषेण स्वस्थान एवावस्थितः ॥४॥


॥ १०.३७.५ ॥

तद् वञ्चयित्वा तम् अधोक्षजो रुषा

प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।

सावज्ञम् उत्सृज्य धनुः-शतान्तरे

यथोरगं तार्क्ष्य-सुतो व्यवस्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यादाय मुखं प्रसार्य वेगेन हरिं प्रत्य् आद्रवत् । सोऽपि हरिर् हसन्न् उत्तरं सव्यं भुजम् । निर्मयत्वे दृष्टान्तः, यथोरगं बिल इति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सोऽसुरः । सव्यं वामम् । बिले छिद्रे । सञ्ज्ञा चेतना । स हरिर् अपि । स्मयमान इति—किमरे ग्रसितुम् आयासि ग्रसेति वामाङ्गुष्ठं दर्शयित्वा । उत्तरं माम भुजम् । यथेति—मूषिकं घातयितुं मूषिक-बिले यथा कश्चिद् उरगं प्रवेश्यति तथैव केशि-प्राण-घातार्थं तस्य वक्रे इति । उरगश् च सस्पृहम् अकष्टम् एव तत्र प्रविशति तथैव भुजोऽपि प्रविवेश ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स महा-दुष्टः, उत्सृष्टोऽपीति वा पुनरापतत् धावन्न् अभिगतः । हरिं स्वप्राण-हरं भगवन्तं स्मयमान इति कौतुकेनानायासेन च प्रवेशनं सूचयति । अनायास-प्रवेशने दृष्टान्तः—यथेति ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स महा-दुष्टः उत्सृष्टोऽपीति वा यथेति कश्चिद् उरगं तत् क्रीडा-कौतुकी तद् अनिष्ट-शङ्का-रहितः केशि-प्राण-स्थानीय-मूषिक-विलं प्रवेशयति तद् वद् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सञ्ज्ञा चेतना, व्यादाय मुखं प्रसार्य हरिं प्रत्यापतदाद्रवत् । स हरिरपि स्मयमान इति “किमरे ग्रसितुमायासि ग्रसे"ति वामाङ्गुष्टं दर्शयित्वा उत्तरं वामं भुजं यथेति मूयक घातयितुं मूयकविलेयथा क्श्चिदुरगं प्रवेशयति, तथैवकेशिप्राणघातार्थं तस्य वक्त्रे इति । उरगश् च सम्पृहमकष्टमेव यथा तत्र प्रविशति तथैव भुजो ऽपि प्रविवेश ॥५॥


॥ १०.३७.६ ॥

सः लब्ध-संज्ञः पुनर् उत्थितो रुषा

व्यादाय केशी तरसापतद् धरिम् ।

सोऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन्

प्रवेशयाम् आस यथोरगं बिले ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किं तद् आह—दन्ता इति । चर्वणाय भगवद्-भुजं स्पृशन्तीति तथा ते व्यादानेन ये विवृताः । अयो लोहं स्पृशन्तीति स्पृशः । यद्वा तप्त-मयम् अति-तप्तं लोहादि स्पृशन्तो यथेति । आमयो जलोदरम् ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भुज-प्रवेशात् । किं किं जातम् । यद् आह—यज् जातं तद् वक्ति—व्यादानेन प्रसारणेन ये दन्ता विवृत्ताः प्रकिटतास् ते । तप्तमयस् स्पृश इति त्रिपदं भिन्नं क्लिष्टान्वयं विसृज्यार्थातरम् आह—यद् वेति । अत्र मयडन्तः पाठो न तु सान्तः । तद् देह-गतोऽसुर-देह-प्रविष्टः । जलोदर-ग्रहणम् उदरवृद्धिद्योतनाय । हन्त-हन्त दंष्ट्राकराले तस्य वक्रविवरे नीलोत्पल-मृणाल-सुकुमारस् तस्य भुजः कथं प्रविवेशेति शङ्काकुलं राजानं तत्त्वम् आह—दन्ता इति । चवर्णाय भगवद्-भूजं स्पृशतीति तथा ते दन्ता निपेतुः निर्मूलतया पेतुः । दशनैर् मूल-ल्निर्मुक्तैः इति हरिवंशोक्तेः । तप्तम् अयः लोहं स्पृशन्तीति स्पृशः पदार्था यथा । अय इति कर्मणि षष्ठ्य् अभावः अधायि रामोद्मुत्तभम् ? इतिवत् तद् अर्हम् इति निर्देशात् । नीलोत्पल-सुकुमार-शीतलम् अपि तद्भुजम् अतिसन्तप्त-वज्र-निर्मितम् इव केशी स्वदन्तैः स्पृष्ट्वामन्यतेति भावः । पित्तेन दूने रसने सितापि तिक्तायते इति न्यायात् । ववृधेऽघासुरवद्वृद्धिर् ज्ञेया ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नितरां निर्मूलतया पेतुः, तथा च श्री-हरि-वंशे दशनैर् मूल-निर्मुक्तैः [ह।वं। २.२४.३७] इति । भगवतः सर्वैश्वर्य-युक्तस्य भुज-स्पृश इति भुजस्याविकृतत्वं स्पर्श-मात्रेणैव दन्तानां पतनं चाभिप्रेतम् । ते वज्रोपमा महा-स्थूलाः, तथा च श्री-विष्णु-पुराणे सिताभ्रावयवा इव [वि।पु। ५.१६.१०] इति, तप्तमयः, भावे क्तः, तन्मयं द्रव्यं लेहादि स्पृशन्तीति तथा ते, अतितप्त-लोहादि-स्पर्श-मात्रेण हि दन्तानां सद्यो निपात-प्रसिद्धेः । महात्मनोऽपरिच्छिन्न-मूर्तेर् इति तद् वाहोः संवृद्धौ नाद्भुतत्वम् इति भावः ।

यद् वा, अकारा-प्रश्लेषेण कैशोरे तद् अनुरूप-सूक्ष्म-मूर्त्तेर् अपि सम्यक् प्राणादि-मार्ग-सम्रोधनेन ववृधे । हि निश्चितम्, तच् च नान्यैलक्षितम् इति । तद् देहगत इत्य् अनेन बोधितम् एव, यथामय इति देहनाशकान्तरीण-महारोग-विवृद्धि-मात्रापेक्षया दृष्टान्तः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नितरां निर्मूलतया पेतुः । तथा च श्री-हरि-वंशे । दशनैर् मूल-निर्मुक्तैर् इति । भगवतः सर्वैश्वर्य-युक्तस्य भुज-स्पृश इति भुजस्याविकृतत्वं स्पर्श-मात्रेणैव दन्तानां पतनं चभिप्रेतं ते वज्रोपमा महा-स्थूला तथा च श्री-विष्णु-पुराणे सिताम्रावयवा इवेति । अयं इति कर्मणि षष्ठ्य् अभावो धायैर् आमोदम् उत्तमम् इति भट्टि-काव्यवत् तद् अर्हनिर्देशात् । तप्तम् इति विशेषणात् तु न समस्तं पक्षे तप्तं तापः भावे क्तः । तन्मयं द्रव्यं लोहादि स्पृशन्तीति तथा ते । अति-तप्त-लोहादि-स्पर्शमात्रेण दन्तानां सद्यो निपात-दर्शनात् । वैकल्पिक-विसर्ग-लोपाद् उभयत्र निर्विसर्गत्वं युक्तम् । महात्मनः अपरिछिन्न-मूर्त इति तद् वाहोर्वृद्धिर् नाम तावद् देश-प्राकट्यम् एव तत तत्र शैघ्र्यम् अपि नाद-भुतम् इति भावः । सम्यक् प्राणादि-मार्ग-संनिरोधेन ववृधे हि निश्चितं तच् च नान्यैर् लक्षितम् इति तद् देहत इत्य् अनेन बोधितं एकांशे दृष्टान्त यथामय इति । तद् विधेषु दुःख-रूपत्वेन भानात् । नाशनाय सहसान्तरङ्गेषु युद्धेश् च ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथामय इति । तत्र दुःखदता-मात्रांशे अन्तरङ्गेषु वर्धमानतांश-मात्रे च दृष्टान्तः दिव्य-ज्ञानत्वात् ॥६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त दंष्ट्राकराले तस्य वक्त्रविवये नीलोत्पलमृणालसुकुमारस्तस्य भुजः कथं प्रविवेशेति शङ्काकुलं राजानं तत्त्वम् आह—दन्ता इति । चर्वणाय भगवद्भुजं स्पृशन्तीति तथा ते दन्ता निपेतुः निर्मूलतया पेतुः तप्तमयः लोहं स्पृशन्तीति स्पृशः पदार्थ यथा अय इति कर्मणि षष्ठ्यभावो धारैरामोदमुत्तमम् इति निर्देशात् । नीलोत्पलसुकुमारशीतलम् अपि तद्भुजमतिसन्तप्तवज्रनिर्मितम् इव केशी स्वदन्तैः स्पृष्ट्वा अमन्यतेति भावः । “पित्तेन दूरे रसने सितापि तक्तायते” इति न्यायात् ववृधे इति वृद्धिरघासुरवध इव व्याख्येया आमयो जलोदरम् ॥६॥


॥ १०.३७.७ ॥

दन्ता निपेतुर् भगवद्-भुज-स्पृशस्

ते केशिनस् तप्तम् अयः स्पृशो यथा ।

बाहुश् च तद्-देह-गतो महात्मनो

यथामयः संववृधे उपेक्षितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लेण्डं पुरीषम् उत्सृजन् ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स दैत्यः । विक्षिपन्न् इतस् ततश् चालयन् । परिवृत्ते बहिर् निर्गते लोचने यस्य स तथा लेण्डं बद्ध-पुरीषे स्यात् इति धरणिः । क्वचित् "लम्बम्" इति पाठः । तुरगस्य शकृल् लम्बं लम्बा प्राकार-कोशयोः इति हलायुधोक्तेः । सोऽपि सम्यक् । यावता तद् देहो विदारितः स्यात् तावद् ववृध इत्य् उक्तं—समेधमानेनेति । तद् देह-विदारणेनैव तन् मृत्योर् विहितत्वात् ।

यत् त्वया पाटितं देहं भुजेनानत-पर्वणा ।

एषोऽस्य मृत्युर् अह्नाय विहितो विश्व-योनिना ॥ इति हरि-वंशे नारदोक्तेः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् एधमानेनेति । यावता तद् देहो विदारितः स्यात् तावत् तस्याभिप्रायेण तद् देह-विदारणेनैव तन्मृत्योविहितत्वात् । तथा च श्री-हरि-वंशे नारद-वाक्यम्—

यत् त्वया पाटितं देहं भुजेनायत-पर्वणा ।

एषोऽस्य मृत्युर् अन्ताय3 विहितो विश्व-योनिना ॥ [ह।वं। २.२४.६४] इति ।

कृष्णस्य नराकृति-पर-ब्रह्मणो बाहुनेति वाहोर् अपि तादृशत्वात् । निरुद्धो वायुः श्वास-लक्षणो यस्य सः, निरुद्ध-वायुत्वेन तद् आह—चरणानित्य्-आदिना ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् एधमानेनेति । यावता तद् देहो विदारितः स्यात् तावत् तस्याभिप्रायेण तद् देह-विदारणेनैव तन्-मृत्योर् विहितत्वात् । तथा च श्री-हरि-वंशे नारद-वाक्यम्—

यत् त्वया पाटितं देहं भुजेनायत-पर्वणा ।

एषोऽस्य मृत्युर् अन्ताय4 विहितो विश्व-योनिना ॥ [ह।वं। २.२४.६४] इति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लेण्डं पुरीयम् ॥७॥


॥ १०.३७.८ ॥

समेधमानेन स कृष्ण-बाहुना

निरुद्ध-वायुश् चरणांश् च विक्षिपन् ।

प्रस्विन्न-गात्रः परिवृत्त-लोचनः

पपात लण्डं विसृजन् क्षितौ व्यसुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्कटिका-फलं हि पद्वं साद्यन्तं विदीर्णं भवति तद्वद् विदीर्णात् तस्य देहात् । व्यसोर् विगत-प्राणात् । अविस्मितो गर्व-रहितः । अयत्नेन हतोऽरिर् येन सः ॥८॥

कंसाय कृष्णम् आदिश्य तद्-रहस्यादि-पैशुनैः ।

कंस-घातादि कृष्णस्य कार्यम् आवेदयन् मुनिः ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्कटयेन कर्कटिका ककन्धूलता कर्कटी, भाषायाम् ककडि इति प्रसिद्धा तत् फलं सदृशात् । यद् वा, कर्कटी मत्स्य-जाति-भेदस्त्री तस्याः फलं गर्भस् तत्-सदृशात् । सा प्रसवे यथा स्वयं म्रियते जठरस्फुटनात् तथा भुजापकर्षणात् सोऽसुरो मृत इत्य् अर्थः । कर्कटो विहगे राशौ कुलीरे शाल्मली-फले इति कोशाच् छात्मली-फलम् अपि पक्वं सत् विदीर्यत इति तद् देहतोऽसुर-शरीरात् । उत्स्मयैस्मितैः । दिविषदो देवाः । आदितेया दिविषदः इत्य् अमरः । केशी-वधम् आह श्रुतिः—

न ता अर्वा रेणुककाटो अश्नुते ।

न संस्कृतत्रम् उपयन्ति ता अभि ।

उरुगायम् उभयं तस्य ता अनु ।

गावो मर्त्यस्य विचरन्ति यज्वनः । इति ।

अर्थस् तु—ता गा अर्वा अश्वरूप्य् असुरः । रेणुककटति अतिशयेन वर्षति तेन वावृणोति विश्वम् इति रेणुककाटः कटे-वर्षावरणयोः इत्य् अस्माद् यङ्लुकि घष् । नाश्नुते न व्याप्तोति । संस्कृतः संस्कारो दाहच्छेदनौषधपानादिस् तेन त्रायते इति संस्कृतत्रो वैद्यस् तं प्रत्य् अपि ताः गावः नाभ्युपयन्ति निर्बाधितत्वात् । यतस् ता गावः मर्त्यस्य यज्वनः नन्दादेः सम्बन्धिन्योऽभयं उरुगायं महाकीर्तिमनुलक्ष्यीकृत्य चरन्तीति मन्त्रार्थः । कर्कटिका-फलोपमादित्य् अत्र विशेषः श्री-विष्णु-पुराणे—

द्विपाद-पृष्ठ-पृष्ठार्ध-श्रवणैकाक्षिनासिके ।

केशिनस् ते द्विधाभूते शकले च विरेजतुः ॥ [वि।पु। ५.१६.१५] इति ।

अयत्नहतारिकोऽप्य् अविस्मितः अहम् एवं कर्तेति विस्मयात्मक-गर्व-रहितः । यद् वा, तादृश-दुष्ट-महा-भीषण-वधेऽप्य् अविगतस्मितः अश्रमेणैव लीलयैव मारणात् । तद् उक्तं श्री-पराशरेण—अनायस् ततनुः स्वस्थो हसंस्थितः इति । हतारिर् उत्स्मयैः इति पाठे सुरिअर् इत्य् अध्याहार्यम् । एतद्-अनन्तरं श्री-पराशरः

ततो गोपाश् च गोप्यश् च हते केशिनी विस्मिताः ।

तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनो रमम् ॥ इति ।

वैशम्पायनश् च—

तं हन्त दृष्ट्वा गोपा गोपस्त्रियस् तथा ।

बभूवुर् मुदिताः सर्वे हतविघ्ना हतक्लमाः ॥

दामोदरं तु श्रीमन्तं यथा-स्थानं यथावयः ।

अभ्यनन्दन् प्रियैर् वाक्यैः पूजयन्तः पुनः पुनः ॥ इति ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कर्कटिका-फलोपमादित्य् अत्र विशेषः श्री-विष्णु-पुराणे—

द्विपाद-पुच्छ-पृष्ठार्ध-श्रवणैकाक्षिनासिके ।

केशिनस् ते द्विधाभूते शकले च विरेजतुः ॥ [वि।पु। ५.१६.१५] इति,

भुजमपाकृष्य विदीर्ण-पृष्ठ-द्वारा निःसार्य अपह्नुत-वृद्धितया वाकृष्य, महा-भुज इति भुजस्य केशि-देहान्तर्वृद्ध्य् अभिप्रायेण स्वभावेनैव वा, एवं स्वत एव तस्यापरिच्छिन्नता अतः सूक्ष्मत्वेऽपि स्थूलता, स्थूलत्वेऽपि सूक्ष्मता, वैष्णव-सिद्धान्त-प्रसिद्धेः, वृद्धेर् उक्तिस् तु बहिर् दृष्ट्यैवेति भावः । अयत्न-हतारिकोऽप्य् अविस्मितो गर्व-रहितः,

यद् वा, तादृश-दुष्ट-महा-भूषण-वधेऽप्य् अविगतस्मितः, अश्रमेण लीलयैव मारणात्, तद् एवाह—अयत्नेति । तथा चोक्तं श्री-पराशरेण अनायस् ततनुः स्वस्थो हसंस् तत्रैव संस्थितः [वि।पु। ५.१६.१६] इति । ततश् च देवा अपि निर्भयाः सन्तो नितरां हृष्टा इत्य् आह—सुरैर् इति । प्रसून-वर्षैर् वर्षद्भिर् इति प्रसून-वर्षाणि बहुशः कुर्वद्भिर् इत्य् अर्थः ।

यद् वा, प्रसूनानि वर्षन्तीति तथा तैर्वर्षद्भिः, अन्येषाम् अपि कामान् बहुशो ददद्भिर् इत्य् अर्थः, केशि-वधेनैव वरदातृत्व-सिद्धेः । अतो गोपादीन् प्रति, प्रहर्ष-वशेण विचित्रवरा दत्ता इति ज्ञेयम्, अत एवोक्तम् सुशोभनं रान्ति इति, सुरास् तैः इति, हतारिरुच्छ्रियैः इत्य् अपि पाठः इच्छ्रिया देवाः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कर्कटिका-फलोपमादित्य् अत्र विशेषः श्री-विष्णु-पुराणे । द्विपाद-पुच्छ-पृष्टार्ध-शरवणैकाषि नासिके । केशिनस् ते द्विधा भूते शकले च विरेजतुर् इति । अयत्नहतारिकोऽप्य् अविस्मितः । अहम् एवं कर्तेति विस्मयात्मक-गर्व-रहितः । यद् वा, तादृश-दुष्ट-महा-भीषण-वधेऽपि अविगतस्मितः । अश्रमेण लीलयैव मारणात् । तद् एवाह । अयत्नेति तथा चोक्तं श्री-पराशरेण । अनायस् ततनुः स्वस्थो हसंस् तत्रैव संस्थित इति प्रसून-वर्षैः कृत्वा वर्षदभिर् इति प्रसून-वर्षाणि बहुशः कुर्वद्भिर् इत्य् अर्थः । हतारिरुत्समयैर् इति पाठे सुरैर् इत्य् अध्याहाय्याहार्यम् । एतद्-अनन्तरं च श्री-पराशरः ततो गोपाश् च गोप्यश् च हते केशिनि विस्मिताः । तुष्टुवुः पुण्डरीकाक्षम् अनुराग-मनोरमम् इति । वैशम्पायनश् च । तं हतं केशिनं दृष्ट्वा गोपा गोप-स्त्रियस् तथा । बभुवुर्-मुदिताः सर्वे हत-विघ्ना हत-क्लमाः । दामोदरन्तु श्री-मन्तं यथा-स्थानं यथावयः । अध्यनन्दन् प्रियैर् वाक्यैः पूजयन्तः पुनः पुनर् इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्कटिकाफलं हि पक्वमतिविदीर्णं स्यात्तत्तुल्यात् । अविस्मितः तादृशमहासुरहननेनापि विशिष्टगर्वरहितः । यतो ऽयत्नेन प्रयासाभावेनैव हतोहरिर्येन सः । प्रसूनानि वर्षद्भिः श्रमापनोदनार्थं जलकणापि वर्षद्भिः ॥८॥


॥ १०.३७.९ ॥

तद्-देहतः कर्कटिका-फलोपमाद्

व्यसोर् अपाकृष्य भुजं महा-भुजः ।

अविस्मितोऽयत्न-हतारिकः सुरैः

प्रसून-वर्षैर् वर्षद्भिर् ईडितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदाह—देवर्षिर् इत्य्-आदिना । न चायं सूचकः किन्तु सर्व-सुहृद् इत्य् आह—भागवत-प्रवर इति ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वृत्तान्तान्तर-सूचनाय श्लोकम् आह—तस्य कृष्णस्य रहस्यादीनां गोपनादीनां पैशुनैः सूचनैः यशोदायाः सुतां कन्याम् इत्य् आद्य् उक्त-लक्षणैः । कृष्णं तन् मृत्युम् आदिश्य पुनः कृष्णस्य कृष्णाय ।*। तद् वृत्तम् । सूचकः पिशुनः । किन्तु अपि तु । भागवतेषु प्रवरो मुख्यः । व्रज-लीलां समाप्य स्वं लीलां दर्शय माथुरीम् । इत्य् आवेदयितुं तत्र देवर्षिस् तुष्टुवे प्रभुम् ।*। भागवतानां प्रकृष्टो वरो मनोरथ-सिद्धिर् यस्मात् सः । अक्लिष्टेनाक्लेशेन करम केशिवधादिकं यस्य तम् ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

भगवद्-भक्त्यादि-गुरुं महा-भागवतोत्तमम् ।

देवर्षिं नारदं वन्दे सदा कृष्णैक-वल्लभम्5

देवर्षिर् इति देवकार्यपरत्वं बोधयति । अत एव उप समीपे सङ्गत्य मिलित्वा । यद् वा, सम्यग् अन्यैर् अलक्षितत्वेन गत्वा, भाष्यस्य रहस्यत्वा, अत एव रहसि निर्जनेऽभाषत, तथापि तं प्रत्यसूया नैव कार्येत्य् आशयेणाह—भागवतेषु प्रवरः परम-श्रेष्ठो भगवद् धर्मादि-गुरुत्वाद्-भक्त्येकरसिकत्वाच् चेति सूचकत्वादि-दोषो निरस्तः । देव-यादवादि-भक्त-वर्ग-प्रतिपालनार्थम् एव तथाकरोद् इति भावः । तन् नामाग्रहणं गौरवात्, हे नृपेति असूयाविष्ट-चित्तं श्री-परीक्षितं प्रसादयति, यथा सर्व-प्रजारक्षार्थं भवादृशो महाराजस्य प्रयासस् तथा सर्व-भक्त-सुखार्थं तस्यापीति भावः ।

ननु, तथापि महा-दुष्ट-मल्लादिसमेत-कंसस्य साक्षाच्छ्री-भगवतो नायनम् अनुचितम्, तत्राह—अक्लिष्टानि क्लेश-रहितानि कर्माणि पूतना-वधादीनि । यद् वा, सद्य एव साक्षात्, कृतम् अक्लिष्टं केशि-वध-लक्षणं कर्म यस्य तमनायासेनैव कंसादीन् हरिष्य्सतीति, तत्र कापि शङ्का न सम्भवेद् एवेति भावः ।

ननु, तथापि स्वच्छन्द-गोकुल-क्रीडा-महा-रस-सिन्धौ निमग्नं तं ततो निःसारयितुम् असौ नार्हः, तत्राह—कृष्णं सर्वानन्द-प्रदं यादवादीन् प्रत्यप्यवश्यं सुखं तेन देयम् इति, तथा सर्वानन्द-प्रदत्वाद् एव व्रजेऽपि तस्य नित्य-लीला सिध्येदेवेति भावः । रहसीति केशि-पतनाश्चर्य-सन्दर्शनाय सङ्घशः सहचर-वर्गाणां किञ्चिद्-दूरे गमनात् । किं वा, गोकुल-परमर्तिजन-विज्ञापकस्य श्री-नारदस्यागमनं ज्ञात्वा प्राग् एव श्री-भगवता विचित्र-व्याजेन तेषां दूरे प्रस्थापनात् । श्री-पराशर-वैशम्पायनमते चाकाशस्थोऽन्तर्हितोऽसाववदद् इति, तत्र श्री-वैशम्पयनेनोक्तम्—

नारदस्य वचः श्रुत्वा देव-सङ्गीतयोनिनः ।

गोपाः कृष्णं समानीय विविशुर् व्रजम् एव तु ॥ [ह।वं। २.२४.७५,७६] इति ।

अत्र च कल्प-भेद-व्यवस्थैव गतिः, यथा श्री-हरि-वंशेऽरिष्ट-वधानन्तरं कंसस्य यादवान् प्रति सकपट-प्रोत्साहन-वाक्यम्, श्री-वसुदेवं प्रति च निन्दनम्6, तथा कंसं प्रति साक्षात् तैर् धिक्कारः, अन्धकस्य च वाक्य-जातम् इति । एवम् अन्यद् अप्य् ऊह्यम् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

कृष्ण-भक्तेर् आदि-गुरुं महा-भागवत्तोत्तमम् ।

देवर्षि नारदं वन्दे कृष्ण-लीला-प्रवर्तकम् ॥

भाष्यस्य रहस्यत्वाद् रहस्य-भाषत । अन्यत् तैः । तत्र सर्व-सुहृद् इति व्रजेऽपि सेना-सहित-कंस-जरासन्धाद्य् आगमन-भय-निवर्तनाय तथा-चरणात् । कंसादेर् अपि मुक्ति-पर्यवसायकत्वात् । यद् वा, दिव्य-ज्ञानत्वात् देवश् चासौ ऋषिश् चेति श्री-गोपाल-मन्त्र-गण-द्रष्टा च इति परमान्त-रङ्गत्वं सूचितम् । भागवत-प्रवर इति । भगवतो लीलाधिकार-नियुक्त-भक्तेषु श्रेष्ठः । ततस् तत् सप्मादनार्थं तस्य तथा चेष्टा रहस्यागत्य निवेदनं च युज्यत एवेति भावः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देवश्चासौ ऋषिः श्रीगोपालमन्त्रगणद्रष्टा चेति सर्वलीलातत्त्वतदनुक्रमाङ्गत्वं विवक्षिते परमान्तरङ्गत्वञ्च सूचितं भागवतप्रवर्त इति भगवतो लीलाधिकारनियुक्तभक्तेषु श्रेष्ठः । ततस्तत्सम्पादना तस्य कंसादौ तत्तत्कथनं तस्य रहस्यागत्य निवेदनञ्च यज्यते इति भावः ॥९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजलीलां समाप्य स्वं लीलां दर्शय माथुरीम् । इत्यावेदयितुं तत्र देवर्षिस्तुष्टुवे प्रभुम् । भागवतप्रवर इति मथुरास्थानाम् अपि भागवतानां प्रकृष्टो वरो मनोरथसिद्धिर्यस्मात् सः । अक्लिष्टेन अक्लेशेनैव कर्म केशिवधादिकं यस्य तम् ॥९॥


॥ १०.३७.१० ॥

देवर्षिर् उपसङ्गम्य भागवत-प्रवरो नृप ।

कृष्णम् अक्लिष्ट-कर्माणं रहस्य् एतद् अभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्मद्-रहस्यं वैरिणि कंसे सूचितवन् इति मा शङ्कीर् इत्य् आह—कृष्ण कृष्णेत्य्-आदिना । अयं भावः, त्वम् ईश्वरो भू-भार-दैत्य-संहारायवतीर्णोऽसि, अतस् तद्-अनुरुपाचरणेन विश्वं परिपालयेति । तत्र त्वयि तवद् भय-शङ्कैव नास्तीत्य् आह—अप्रमेयात्मन्न् अपरिच्छिन्न-रूप । योगेशाचिन्त्य-प्रभव । जगद्-ईश्वर विश्व-नियन्तः । वासुदेव सर्व-भूतेषु वर्तमान । अखिलावास सर्वस्याश्रय । संप्रति सात्वतां प्रवर श्रेष्ठ । प्रभो सर्व-शक्ते ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-कृष्णेत्य् आदिना कथं शङ्कावारणं स्याद् अत आह—अयं भाव इति, अयम् अत्राभिप्रायः । यतो दैत्य-संहारायावतीर्णोऽतो हेतोः तद् अनुरूपाचरणेन यथा भू-भारापहारस् तद् अनुकूल-व्यापारेण । तत्र भू-भार-संहारे । भयं तु परिच्छन्न-देहादेर् एव न त्व् आत्मन इत्य् अर्थः । सर्व-भूतेष्व् अखिल-जीवेषु । सात्वतानां यदूनाम् । केचित् तु—अप्रमेयात्मन्न् इत्य् उक्तेः अङ्गुष्ठ-मात्रः पुरुषः इति श्रुतेः का गतिस् तत्राह-योगेशेति । योगिनां योग-विषयत्वेन स्वेच्छा-विग्रह-ग्रहणेन तद् उपपत्तेः । योगस्य वायु-विषयत्वम् इति मन्दाशङ्कां निरस्यन्न् आह—जगदीश्वरेति । आत्मन एष प्राणः श्रद्धा खं वायुः इत्य्-आदि श्रुतेर् वायोर् जगद् अन्तपातित्वेन तद् ईशत्वं न पृथग् वक्तव्यम् इत्य् अर्थः । कृष्ण-शब्दस्यापि बर्ह्वर्थत्वात् को ग्राह्यस् तत्राह—वासुदेवेति । बहुवाची तत्राह—अखिलावासेति । तथाप्य् अखिलावासत्वम् आकाशादीनाम् अपि तत्राह—सात्वत-प्रवरा अप्य् अनेकेऽक्रूरादयः सन्तीति ज्ञात्वैव । यतो भवत् प्रसादेन भवतस् तत्त्वं लीआनुक्रमं च जानाम् ईति ज्ञापयन्न् आह—कृष्ण-कृष्णेत्य् एकादशभिः । कृष्ण-कृष्णेत्य् आनन्देन । भगवंस् तव नाम-सङ्कीर्तनकृद्भक्ताभासो नारदोऽस्मीत्य् आत्मानं स्मारयति । निज-क्लेश-कर्षकत्वात् त्वम् एव सर्व-सुखं दातुं समर्थ इति भावः । वीप्सा परमादरे । अप्रमेयः प्रमातुम् अशक्यः आत्मा मनो यस्येत्य् अतः परं व्रज एव विराजमानो व्रज-स्थानपित्रादीनानन्दयिष्यसि मथुरां यास्यं तत्रत्यानेवेत्य् अतः कस्त्वन् मनो वेदयितुं क्रमतः इति भावः । किं च—योगेश योग मायाधीश्वरत्वाद् उभयत्रापि विराजस्वेति भावः । जगदीश्वरेति—जगत् कार्यं भारावतारानम् अपि कर्तव्यम् इति भावः । वासुदेवेति—नन्दस्य पुत्रत्वेन प्रसिद्धिम् अकार्षीर् एव, इदानीं वसुदेवस्यापि तद्-भाग्यं प्रकटयेति भावः । अत एवाखिलावासेति, अखिलांस्त्वद् भक्तान् कंसभय-विच्युतानानीय माथुरायां वासयेति भावः । यस् त्वं सात्वतां यादवानां प्रवरः । यद् वा, प्रकृष्टो वरो मनोरथो यस्य, सिद्धि-स्वरूपोऽसि । प्रभो त्वं सकलं कर्तुं शक्नोषि ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण कृष्णेति वीप्सा, तन् नाम्नो जिह्वाकर्षण-स्वभावत्वात्7, भक्ति-विशेषाद् वा, आद्यस्य परम-ब्रह्म-घन-मूर्तेर् इति, द्वितीयस्य च निजाशेष-भगवत्ता-प्रकटन-परस्येत्य् अर्थः । तत् तद् एव दर्शयति—अप्रमेयात्मन्न् इत्य्-आदिना । तत्रादौ परब्रह्म-घन-मूर्तेर् ऐश्वर्यं त्रिभिः, ततो भगवत्ता-प्रकटनं नवभिर् इति विवेचनीयम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, भागवत-वर्ग-पूज्य-श्री-भगवन् माता-पितृ-देवकी-वसुदेव-वन्धन-दुःख-हेतुत्वेनात्मनोऽपराधम् अत्यन्तं मत्वा महद् अपराधातिभीतः शरणागतत्वेन प्रपद्या पराधं क्षणयितुं भगवन्तं निवेदयति—कृष्णेत्य् आदिना । तत्र च न वक्तव्यम् इदं परब्रह्माहं पुत्रः ? तथा जगताम् एवेश्वरोऽहम् इति सर्वेऽपि जीवा मद्-भृत्यास् तत्र को नाम विशेष इति, यतः कृष्णः परब्रह्म-घन-मूर्तिर् अपि त्वं कृष्णो निजाशेष-भगवत्ता-प्रकटनपरः, अत एव8 पित्रादि-भक्ति-विशेषापेक्षापि घटेतैव, अन्यथा भगवत्ता-प्रकटनासिद्धिर् इति भावः । एवम् अग्रेऽपि यथा-सङ्ख्यं विरोधालङ्कारतया सर्वं व्याख्येयम् । तथाहि—यद्य् अपि हे अप्रमेयात्मन् ! सर्व-व्यापक-मूर्ते ! तथापि वासुदेव, हे वसुदेव-नन्दन ! यद्य् अपि योगेश आत्माराम ! तथापि वासुदेव, हे वसुदेव-नन्दन ! यद्य् अपि योगेश आत्मा-राम ! तथापि अखिला सम्पूर्ण-शुद्ध-सत्त्व-रूपा सर्वथान्यूना वा श्री-देवकी, तस्यां वासः सैव वासो वा यस्य सः, हे देवकी-गर्भ-रत्नेति साक्षात् तन् नामानुक्तिर् गौरवेण, यद्य् अपि जगदीश्वर ! तथापि सात्वतां सात्वतानां यादवानां प्रवराः शूरोग्रसेनादयस् तेषाम् एव प्रभो ! यद् वा, हे प्रवर परम-श्रेष्ठेति ।

ननु, सर्वम् एतद् विरुद्धत्वाद् असम्भवम् इव ? सत्यम्, तवैश्वर्येण दुर्घटम् अपि सर्वं सुघटम् एवेत्य् आशयेनाह—प्रभो हे अचिन्त्यानन्तैश्वर्येत्य् अर्थः । एतद् एव हीश्वरत्वं नामेति भावः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मया यत् कंसं प्रति सूचितं तद् भवदीय-तादृश-लिलावसरं ज्ञात्वैव यतो भवत् प्रसादेन भवतस् तत्त्वं लीलानुक्रमश् च जानाम् ईति ज्ञापयन्न् आह । कृष्न कृष्नेत्य् एकादशभिः । तत्र तत्त्वं तावद् आह त्रिभिः । तत्रैव कृष्णेति युग्मकम् । तत्र च श्री-कृष्न-रूपत्वम् एव मूलम् इत्य् आशयेन प्रथमं तन् नाम्ना सम्बोधयति कृष्णेति वीप्सा तन् निर्धारणाय । परम-मधुरस्व-लिलाविष्टस्य तस्य तेनैवात्मन्यवधानं स्याद् इत्य् एतद् अर्थाय च । मूल-रूपत्वम् एव स्पष्टयन् श्री-कृष्णस्य स्वरूप-लक्षणम् आह । अप्रभेयात्मन् ! सर्वातीतत्वेनणन्येन चप्रमेयः सर्वापरिच्छेद्यः । स्वस्यापि विस्मापक आत्मा स्वयं भगवद् रूपं स्वरूपं यस्य हे तथा-भूत ! तटस्थ-लक्षणान्य् आह । हे योगापरपर्यायया योगमायया पूर्ण-स्वरूप-शक्त्या ईशन-लील अत एव हे प्रापञ्चिकाप्रापञ्चिक-कृत्स्न-स्थेश्वर ! अत एव हे तत्र तत्र सर्वत्र विभूत्वाद् वसन् विराजमान ! अत एव हे तत् तद् आश्रय ! तत्र स्पष्टमवे श्री-कृष्नत्वं व्यञ्जयन् तदीयपरिवाराणां तादृश-लीलानां च नित्य् अत्वम् अपि स्पष्टयति । सात्वतां क्षत्रिय-रूपाणां गोप-रूपाणां च सात्वतां मध्ये प्रवर श्रेष्ठ ! जातौ निर्धारणे षष्ठी । तत् परिवारक तादृश-लीलत्वेनैव सर्वदा विराजमानेत्य् अर्थः । जयति जननिवास इत्य् आदेः तथा नित्य् अत्वे हेतुः हे प्रभो ! कालादीनाम् अप्य् उपरिप्रभवनशीलेति कृष्णादि-पदैर् अनुपम-श्याम-सुन्द्रत्वादिना तन् नाम प्रसिद्धासमोर्ध्व-स्वरूप-वैभव यादव-गोप-परिकर तद् उचित-लीलत्वं तव तत्त्वम् इति विज्ञापितम् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मया यत् कंसं प्रति सूचितं तद्भवदीयतादृशलीलावसरं ज्ञात्वैव यतो भगवत्प्रसादेन भगवतस्तत्त्वं लीलानुक्रमञ्च जानाम् ईति विज्ञापयन्नाह । कृष्ण कृष्णेत्येकादशभिः ॥१०.१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं कृष्ण कृष्णेत्यानन्देन भगवत्स्तवनामसङ्कीर्तनकृद्भक्ताभासो नारदो ऽस्मीत्यात्मानं स्मारयति । अप्रमेयः प्रमातुमशक्य आत्मा मनो यस्येत्यतः परं व्रजे एव विराजमानो व्रजस्थान् पित्रादीनानन्दयिष्यसि मथुरां यास्यंस्तत्रत्यान् वेति कस्त्वन्मनो वेदयितुं क्षमत इति भावः, किं च, योगेश योगमायाधीश्वरत्वादुभयत्रापि विराजस्वेवेति भावः । जगदीश्वर इति जगत्कार्यं भारावतरणम् अपि कर्तव्यम् इति भावः । वासुदेवेति नन्दस्य पुत्रत्वेन स्वस्य प्रसिद्धिमकार्षीरेव, इदानीं वसुदेवस्यापि तद्भाग्यं प्रकटयेति भावः । अत एवाखिलावासः अखिलांस्त्वद्भक्तान् कंसभयाद्विच्युतानानीय मथुराय;म् वासयेत्य् अर्थः । यस् त्वं सात्वतां यादवानां प्रवरः । यद् वा, प्रकृष्टो वरो मनोरथो यस्य सिद्धिस्वरूपो ऽसि । प्रभो! त्वं सर्वं कर्तुं शक्नोषि । ननु, मे यथेच्छा तथा करोमि करिष्यामिच, तत्र त्वं किमेवं विशेषं निवेदयसि? तत्र् आह—त्वमात्मा ममान्तर्यामी त्वमेव मां निवेदयितुं प्रेरयसि, तत्राहं किं करोमीति भावः । न केवलं ममैव, अपि तु सर्व-भूतानां अन्तश्चित्ते तिष्ठसि । एधसां काष्ठानाम् अन्तर्ज्योतिर् इव गूटः । किं च, गुहाशयः यथा त्वं नन्द-पुत्र-रूपेण गोवर्धन-गुहायां शेषे, तथैवान्तःकरण-गुहायामन्तर्यामि-रूपेण शेषे, साक्षी तत्र शयानो ऽपि सर्वं साक्षात् पश्यसि । अत्र हेतुं, महापुरुषः, अप्रतिहत-योग-बल इत्य् अर्थः । किं च, महापुरुषा ईशितव्या अपि भवन्ति, त्वस्त्वीश्वरः सर्वनियन्ता ॥१०॥


॥ १०.३७.११ ॥

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्-ईश्वर ।

वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् एवं-रूपोऽहम् इति चेद् अत आह—त्वम् आत्मेति । न हि त्वं जीव-वत् परिच्छिन्नः किन्तु सर्व-भूतानाम् आन्तर एकोऽनुस्यूत आत्मा । अन्तर् अनुस्यूतत्वे दृष्टान्तः, एधसां काष्ठानाम् अन्तर् ज्योतिर् इवेति । भूतेषु स्थितोऽपि तैर् न दृश्यस इत्य् आह—गूढ इति । अत्र हेतवः, गुहाशयो बुद्धेर् अप्य् आन्तरः । किं च साक्षी । न हि साक्षी दृश्यत इत्य् अर्थः । अपि च महा-पुरुषः । अतः परिच्छिन्न-मतिभिर् न ज्ञायस इत्य् अर्थः । तर्हि सर्वान्तरत्वे किं प्रमाणम् अत आह—ईश्वर इति । न हीश्वरं विना पर-तन्त्राणां जीवानां प्रवृत्तिर् घटत इत्य् अर्थः ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवत आक्षेपम् आशङ्क्य समाधत्ते—कथम् इत्य्-आदिना । परिच्छिन्नो मित-देशवर्ती । अपि तु आन्तरोऽन्तस्थः । तैर् भूतैः । अत्र गूढत्वे । अन्यद् आह—किं च इति । इत्य् अर्थ इति—साक्षिणोऽदृश्यत्वे साक्षित्वम् एव व्यापद्येत साक्षाद्-द्रष्टेति साक्षी इति निरुक्तेः, साक्षाद् द्रष्टरि सञ्ज्ञायाम् इति पाणिन्युक्तेश् च । न केवलं साक्षीत्वाद् एव गूढ इत्य् आह-अपि चेति । अतो महा-पुरुषः सर्वाधिष्ठानम् । अतो महा-पुरुषत्वाद् एव । परिच्छिन्नम् अतिभिर् अल्प-बुद्धिभिः । इत्य् अर्थ इति—ल्पुरुषस्यैव दुर्ज्ञेयत्वान् महा-पुरुष-ज्ञानं तु दूरापास् तम् इत्य् अर्थः । तर्हि ज्ञानाविषयत्वे । ईश्वरं नियन्तरम् । इत्य् अर्थ इति ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति । भ्रामयन् सर्व भूतानि इत्य्-आदि स्मृतेः, केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि इति स्मृतेश् च

ननु, मे यथेच्छा तथा करोमि करिष्यामि च तत्र त्वं किम् एवं विशेषं निवेदयसि, तत्राह—त्वम् आत्मा ममान्तर्यामी, त्वम् एव मां निवेदयितुं प्रेयसि । तत्रहं किं करोमीति भावः । न केवलं ममैव अपि तु सर्व-भूतानाम् अन्तश्चित्ते तिष्ठसि । एधसां काष्ठानाम् अन्तर्ज्योतिर् इव गूढः । किं च, गुहाशयः यथा नन्द-पुत्र--रूपेण गोवर्धन-गुहायां शेषे तथैवान्तर्यामि-रूपेणान्तःकरण-गुहायां शेषे । साक्षी—तत्र शयानोऽपि सर्वं साक्षात् पश्यसि । तत्र हेतुः—महा-पुरुषोऽप्रतिहतयोगबल इत्य् अर्थः । किन्तु महा-पुरुषा ईशितव्या अपि भवन्ति त्वन् त्व् ईश्वरः सर्व-नियन्ता ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उक्तम् एवाविरोधं दृष्टान्तेन साधयति—त्वम् इति । सर्व-जीवानाम् आत्मा परमात्माप्य् एकः, द्वौ सुपर्णौ इत्य्-आदि-वचन-प्रमाण्येन प्रतिजीवम् एकः, परमात्मेति बहुलोऽपि एक एवेत्य् अर्थः । अन्यथानैश्वर्य-प्रसङ्गात्, तच् च वेदान्तादौ स्पष्टम् एव, तत्र दृष्टान्तः-ज्योतिर् इति, यथा काष्ठ-भेदेन ज्योतिषो नानात्वं प्रतीयते, एकस्य एकस्य प्रज्वालनादिनान्यस्य प्रज्वालनाद्य-सिद्धेः । वस्तुतस् तु एकम् एव तत्र तत्र स्थितस्यापि भेद-राहित्यात् तद्वद् इति, अतो गूढो दृश्योऽपि त्वं गुहाशयः श्री-गोवर्धन-गुहायां सुखशायी, साक्षी असङ्गोऽपि महा-पुरुषः सहस्र-शीर्षादि--रूपेण महा-विभूतिमान् ।

यद् वा, आत्म-प्रदो भक्त-वश्यो वा पुरुषोत्तमः, तच् च सर्वं सम्भवेद् एवेति पूर्ववद् आह—ईश्वर इति । पुनस् तथैवोक्तिस् तेनैकेनैव सिद्धान्तेनाशेष-विरोधानां सुखं-परिहार्यत्वात्, एवम् अग्रेऽपि ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सम्बोधनेनैव तस्य निज-तत्त्वं दर्शयित्वा स्वांशतत्त्वम् अपि विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगद् इत्य् अनुसारेण दर्शयति त्वम् इति द्वाभ्याम् । सर्व-भूतानां प्रापञ्चिक-स्थावर-जङ्गमानाम् एकस्त्वम् आत्मा । परमात्मा तृतीयं सर्व-भूतस्थम् इत्य् उक्तेः । महा-पुरुषो महत् स्रष्टा च । एकन्तु महतः स्रष्ट्रित्य् उक्तेः । ईश्वरो ब्रह्माण्डण्तर्यामी च । द्वितीयं त्वण्ड-संस्थितम् इत्य् उक्तेः । एधसाम् इति सर्वत्र स्थितस्यापि ज्योतिषो यथा तेष्व् एकांशेन स्थितिस् तेष्व् एव झटित्य् उपलब्धिश् च तद् वद् इत्य् अर्थः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३७.१२ ॥

त्वम् आत्मा सर्व-भूतानाम् एको ज्योतिर् इवैधसाम् ।

गूढो गुहा-शयः साक्षी महा-पुरुष ईश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहम् ईश्वरोऽन्यत्-सर्वम् ईशितव्यम् इत्य् एतद् एव कुत इत्य् अत आह—आत्मनेति । साधनान्तर-निरपेक्ष एवात्माश्रयः स्व-तन्त्रः मायया शक्त्या भवान् गुणान् ससृजे सृष्टवान् । तैः सृष्टैर् गुणैर् इदं विश्वं सृजसि अत्सि संहरसि अवसि पालयसि । ननु सृष्ट्य्-आदि-क्रिया पट्कारक-साध्यैव दृष्टेत्य् आह—सत्य-सङ्कल्प इति । न हि सङ्कल्पैक-साध्ये बहिः साधनापेक्षेति भावः । अतस् त्वम् ईश्वर इत्य् उपसंहारः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् भगवद् आक्षेपं समाधत्ते—अहम् इत्य्-आदिना । पुनर् आशङ्कते—नन्व् इति । षट्कारक-साध्या कर्तृ-कर्म-करान-सम्प्रदानापादानाधिकरण-रूप-षट्-कारक-निष्पाद्यैव । इति भाव इति—साधनापेक्षत्वे जीवत्वं स्याद् इत्य् आशयः । अतः सत्य-सङ्कल्पत्वाद् एव । इत्य् उपसाम्हार इति पर्यवसानम् । यदि त्वम् अस्मान् अस्मद्-बुद्ध्यादिकं च नास्रक्ष्यस् तदाहम् अप्य् एवं नावेदयिष्यम् इत्य् आह—आत्मनेति गुणान् महद् आदीन् यदि त्वं सृष्टवान् एव तदान्ये जनास् त्वत् प्रेरिता एव स्वस्वकृत्यं कर्तुं चेष्टन्ते तथैवाहम् अप्य् अद्य त्वामेतन्निवेदयितुं चेष्ट इति भावः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, यद्य् अपि सत्त्वादि-गुणैः सर्वेषाम् एव जगतां यथा-कालं पालनादिकं त्वम् एव कुरुषे, तथाप्य् अधुना विशेषेण साधूनां च परिपालनाय अत्रावतीर्णोऽसीत्य् आह—आत्मनेति द्वाभ्यम् । आत्मनेति स्वातन्त्र्यम्, आत्माश्रय इति माया-सम्बन्ध-राहित्यम्, सत्य-सङ्कल्प इतीच्छामात्रेण सृष्ट्यादि-शक्तिर् उक्ता । तथापि भवान् सृष्ट्य् अर्थं गुणान् असृजत्, तच् च मायया कृत्वेत्य् एवमद्भुतो विनोदो ज्ञेयः ।

किं च, सृजसि पश्चाद् अवसि, तथापि संहरसि । यद् वा, आत्मनात्माश्रयः [भा।पु १०.७४.२१] इति सृष्टानां सर्व-जीवानां स्वतो भगवद् आत्मीयतोक्ता । सत्य-सङ्कल्प इति च सङ्कल्प-मात्रेण दुष्ट-विनाशादौ शक्तोऽपि दैत्यादीनां विनाशायावतीर्णोऽसीति वक्ष्यमाणाभि-प्रायेण एतादृशो दुस्तर्को विनोदोऽपि तवैश्वर्यात् सङ्गच्छेतैवेत्य् आह—ईश्वर इति । अवसीत्य् अस्य पश्चाद् उक्तिः, संप्रति भक्ति-प्रवर्तनेन पालनापेक्षया । किं वा, स्वभावतो भगवतः पालकत्वात् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र मुख्यत्वेन प्रस्तुतोपयोगित्वेन च महा-पुरुष-कार्यं दर्शयति । आत्मनेति । तैर् व्याख्यातं । तत्र मायया ससृज इति साधनान्तरापेक्षम् आशङ्क्य व्याचष्टे शक्त्येति सापि तस्यैव शक्तिर् इति न दण्डादिवत्त्वम् इति भावः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वं यद्यस्मानस्मद्बुद्ध्यादिकं सर्वमिदं जगच्च नाश्रक्ष्यस्तदा अहमप्येवं न न्यवेदयिष्यम् इत्य् आह—आत्मनेति । आत्माश्रयः स्वतन्त्रः आत्मना आत्मरूपया शक्त्या भवान् गुणान् महदादीन् ससृजे । तेनेदं त्वं यदि सृष्टवानेव, तदान्ये जगज्जनास्त्वत्प्रेरिताः स्वस्वकृत्यार्थं चेष्टन्ते तथैवाहमप्यन्य त्वामेतन्निवेदयितुमेकं चेष्टे इति भावः ॥१२॥


॥ १०.३७.१३ ॥

आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् ।

तैर् इदं सत्य-सङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—स त्वम् इति । भू-धर-भूतानां भुवं धरन्तीति भू-धरा राजानस् तद्-रूपाणाम् ॥१३.१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रस्तुतं प्रकृतम् । प्रमथा रुद्र-गणास् तेषां अपि बाणासुर-युद्धे नाशनात् । प्रमथाः स्युः परिषदाः इत्य् अमरः । अधुना लिलाम् अनुक्रामन्नवतारे कारणम् आह—स त्वम् इति । दैत्यानां स्व-भक्ति-विरुद्धानाम् । साधूनां स्व-भक्ति-प्रवर्तकानाम् । पाठान्तरे सेतूनां स्व-भक्ति-मर्यादानाम् । प्रमथा राज-रूपाः काशिराजादय एव । यद् वा, बाणासुर सहाय्यार्थम् आगतरुद्रेण युद्धे साक्षाद् एव प्रमथा रुद्र-पार्षदा ग्राह्याः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स ईदृग् असाधुसाधुमय-जगत् सृष्ट्यादिकरोऽपि त्वम्, राज-रूपाः प्रमथाः काशिराजादयः, वि-शब्दोऽत्यन्ताभाव-लक्षण-मोक्षाभिप्रायेण । अतस् त्वद्रक्ष्यसाधुवर-वन्धनेन मम महापराधो जात एवेति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् उभय-रूपं दर्शयित्वा लीलाम् अनुक्रामन् निज-रूपावतारे कारणम् आह । स त्वम् इति । तादृशोऽपि त्वं दैत्यादीनां स्व-भक्ति-विरुद्धानां साधूनां स्व-भक्ति-प्रवर्तकानां पाठान्तरे सेतूनां स्व-भक्ति-मर्यादानां राज-रूपाः प्रमथाः काशि-राजादयः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव निवेदनरूपं राजानस्तद्रूपाणाम् ॥१३॥


॥ १०.३७.१४ ॥

स त्वं भू-धर-भूतानां दैत्य-प्रमथ-रक्षसाम् ।

अवतीर्णो विनाशाय साधूनां रक्षणाय च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं केशी । लीलयाश्रमेणैव । यस्य केशिनः । अनिमिषा देवाः सुर-मत्स्याव् अनिमिषौ इति यादवः । तत्र पुतनादयो ये हतास्तेऽपि दुष्टा एव किं त्वयं परम-दुर्मार इत्य् आह—दिष्ट्येति । अयम् अधुना साक्षाद् एवेत्य् अर्थः । अतस् त्वं केशव-नामा भविष्यसीति शेषः ।

यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन ।

तस्मात् केशव-नाम त्वं लोके गेयो भविष्यसि ॥ [वि।पु। ५.१६.२७] इति विष्णु-पुराणोक्तेः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वन्त्वपराधम् अगृह्नन् मादृशां हितम् अकरोः करिष्यसि चेत्य् आह—दिष्ट्येत्य् अष्टभिः । अयम् अधुना साक्षाद् एवेत्य् अर्थः । लीलयैव ते त्वया नितरां हतो मोक्ष-दानेन पुनर् आवृत्ति-शङ्का-निवृत्तेः । एतद् दिष्ट्या भ्रदं जातम्, अतोऽन्येऽपि चानूरादयो लिलयैव हन्तव्या इति भावः । महा-दुष्टत्वम् एव दर्शयति-यस्येति । हेषितैर् अपि सम्यक् त्रस्ताः सन्तः, अनिमिषा अमरत्वात् काल-भय-रहिता अपीत्य् अर्थः ।

यद् वा, तद् आगमनं शङ्कमानाः सद् एतस् ततः एकदृष्ट्या निरीक्षमाणा अन्वर्थ-संज्ञका जाता इत्य् अर्थः । अतस् त्वं केशव-नाम भवितासीति शेषः । तथा च श्री-विष्णु-पुराणे—

यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन ।

तस्मात् केशव-नामा त्वं लोके गेयो भविष्यसि ॥ [वि।पु। ५.१६.२७] इति,

एवं श्री-हरि-वंशेऽपि अत्र च स्पष्टं तद् अनुक्तिः, सुप्रसिद्धत्वात् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र पूतनादयो ये विनाशितास् तेऽपि दुष्टा एव किन्त्व् अयं परम-दुर्मार इत्य् आह । दिष्ट्येति । अयम् अधुना साक्षाद् एवेत्य् अर्थः । अतस्वं केशव नामा भवितासीति शेषः । तथा च तेनोक्तं श्री-विष्णु-पुराणे । यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्दन ! तस्मात् केशव-नामा त्वं लोके गेयो भविष्यसीति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिष्ट्या लोकानां भाग्येन ॥१४॥


॥ १०.३७.१५ ॥

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।

यस्य हेषित-सन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परश्वोऽहनीति । अद्यैवाक्रूर एष्यति, श्वो मथुरां गन्तासि, पर-श्वश् चाणूरादींश् च त्वया निहतान् द्रक्ष्यामीति सिद्धवन् निर्देशो विज्ञपन-प्रकार-विशेषः ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योगबलेन भाविनोऽर्थान् वक्ति-चाणूरम् इत्य्-आदि । ते त्वया निहतान् । सिद्धवत्सञ्जातवत् । निर्देशः कथनम् । कर्तुर् उत्साहवर्धकत्वने बोधन-नैपुण्यम् इत्य् अर्थः । स्वस्य तल् लीलाभिज्ञतां विवृन् भविष्यं विवृणोति-चाणूरम् इत्य्-आदि । अप्य् अर्थ चकाराः सर्वैः सह योज्याः, तैश् च चाणूरादीनाम् अवश्य-बध्यत्वं सूचितम् । मल्लानन्यान्कङ्कन्यग्रोधादींश् च । हे विभो प्रभो त्वं सर्वं कर्तुं समर्थोऽसीति भावः । विभुप्रभू च पर्यायौ ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्य् अर्थे चकाराः सर्वैः सह योज्याः, तैश् च चाणूरादीनाम् अवश्यवध्यत्वं सूचितम् । द्रक्ष्य एवेत्य् अन्वयः । तच् च विज्ञापन-चातुर्यम् एव, यद्य् अपि शल-तोषलकौ द्वावेवान्यौ मल्लौ हतौ, तथापि मल्लानन्यांश् चेति बहुत्वं मल्लाचार्यादीनां भङ्गेन मरण-तुल्यत्वात् । किं वा, महा-मात्रादीनाम् अपि परम-वलिष्ठत्वेन मल्लेश्व् एव गणनात्, ते त्वया ।

ननु, एकदैव बहूनां तेषां वधोऽसम्भाव्यः ? तत्राह—प्रभो हे सर्वं कर्तुं समर्थेति । यद् वा, अतित्वरया कथं तत् कर्तव्यम् ? तत्राह—प्रभो हे यादवादीनां मादृशाम् ईश्वरं ! भक्त-हितार्थम् इत्य् अर्थः, वक्ष्यमाण-चाणूरादि-वध-क्रमस्यातिक्रम उपकृति-कथन-मात्रेण क्रमे तात्पर्याभावात् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ स्वस्य तल् लीलानुक्रमाभिज्ञतातिशयं विज्ञापयन् भविष्यं विवृणोति । चानूरम् इत्य्-आदिभिः । अप्य् अर्थे चकाराः सर्वैः सह योज्या तैश् च चानूरादीनाम् अवश्यं वध्यत्वं सूचितम् । द्रक्ष्ये द्रक्ष्यामि मल्लान् इति बहुत्वं कङ्कन्यग्रोधादीन् अपि विप्रो ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मल्लानिति बहुत्वं कङ्कन्यग्रोधादीनाम् अपि तदन्तः पाताय ते त्वया ॥१५.२०॥



जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-पूर्व-दृष्टत्वद् अवतार-लीला-क्रमम् अहम् एवं जानाम् ईत्य् आह । चाणूरम् इति ॥१५॥


॥ १०.३७.१६ ॥

चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् ।

कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यानु तद्-अनन्तरम् । शङ्खादीनाम् । शङ्खः पञ्च-जनः । वधं द्रक्ष्यामीति शेषः । भावि-निर्देश-मात्रम् एतत्, न त्व् आनन्तर्यं विवक्षितम् ॥१६.१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आनन्तर्यं क्रमो नात्र हनने ज्ञेयम् इति ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्येति तैर् व्याख्यातम्, तत्र वधम् इति शेषः । इति लिखितेऽपि द्रक्ष्य इति पूर्वेण द्रक्ष्यामीति परेण वान्वयो भवेद् एव, तथापि द्रक्ष्यामीति लिखनं सुख-बोधार्थम् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्येति पञ्चकम् । शङ्कदीनां वधम् इति शेषः । इत्य् आदीनां द्रक्स्षाम्य् अहं तानीति वक्ष्यमाणेनान्वयः । वीराः क्षत्रियेषु शूराः तत् कन्यानां हे वीरेति वा । प्रायः स्व-वीर्येणैवोद्वहनात् अत एवाह वीर्यं पराक्रमः तद् एव शुल्कम् आदि शब्देन कन्या-भक्त्यादि । तद् एव लक्षणं प्रकारो यस्य तं तत्र क्वचित् समुदितं क्वचित् तु केवल-भक्तिः यथा कालिन्द्यादेर् इति ज्ञेयं पापात् विप्र-गोहरण-जातात् शापाद् इति पाठस् तु श्री-शुक-सम्मतः । अग्रे शापा-कथनात् । तत्र द्वारकायाम् इति यथार्थं पूर्वत्र परत्र च योज्यम् इति द्वारका-प्रयाणम् अपि सूचितं हे जगत् पते ! इति तत्रेन्द्राद्य् आगमनेन साक्षाद् गरुडारोहणादिना च तादृशैश्वर्य-प्रकाशनात् ॥१६-१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शङ्खः पञ्च-जनः । भावि निर्देश-मात्रम् एतत् नत्वानन्तर्य-मात्रं विवक्षितम् ॥१६.१७॥


॥ १०.३७.१७ ॥

तस्यानु शङ्ख-यवन- मुराणां नरकस्य च ।

पारिजातापहरणम् इन्द्रस्य च पराजयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वीर्य-शुल्कादीत्य् अत्रादिना लक्ष्यवेधादि-ग्रहः । लक्षणं चिह्वनं लक्षणं नाम्नि चिह्ने च इति मेदिनी । पापादज्ञातविप्रधनापहार-लक्षणात् । वीराः क्षत्रियास् तेषां कन्यानाम् । यद् वा, हे वीरेति । त्वं वीरत्वात् सर्वं करिष्यसीति भावः । वीर्य पराक्रमः तद् एव शुल्कं मूल्यम्, आदि-पदात् कन्यानां भक्त्यादिकं च लक्षणं प्रकारो यस्योद्वाहस्य तम् । तत्र क्वचित् समुदितं क्वचित् तु केवल-भक्तिर् एव यथा कालिन्द्यादेर् इति ज्ञेयम् । पापात् विप्रगोहरणजात् । द्वारकायाम् इत्य् उक्तेर् द्वारका-निर्माण-प्रयाणम् अपि सूचितम् । तत्र कर्तव्यं च यथार्हं पूर्वत्र परत्र च योज्यम् । जगत्पते इति-तत्रेन्द्राद्यागमनेन गरुडारोहणादिना तादृशैश्वर्य-प्रकाशनाद् इति भावः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीराः क्षत्रियाः, तेषु शूरा वा, तेषां कन्यानाम् , हे वीरेति वा, प्रायः स्व-वीर्येणैवोद्वहनात्, अत एवाह—वीर्यं पराक्रमः, हरणं जयादि-लक्षणन्तद् एव शुल्कं कन्यार्थ-देय-द्रव्यम् । आदि-शब्देन कन्या-भक्त्यादि यथा कालिन्द्यादेः, तद् एव लक्षणं प्रकारो यस्य तम् । पापाद् अज्ञान-कृत-विप्र-गोहरणजात्, शापात् इति पाठश् चिन्त्यः । अग्रे तत्-प्रसङ्गे विप्र-शापा-श्रवणात् । तच् चान्यत्र मुन्य्-अन्तरोदितम् एव । द्वारकायाम् इत्य् अत्र विशेषोक्तिस् तत्रत्य-कूपतस् तद् उद्धरणाभिप्रायेणेति द्वारका-प्रयाणम् अपि सूचितम् । हे जगत्-पते इति तत्रेन्द्राद्य् आगमनेन साक्षाद्-गरुडारोहणादिना च निजैश्वर्य-प्रकाशनात् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वपूर्वदृष्टत्वदवतारलीलाक्रममहमेवं जानंईत्य् आह—चाणुरम् इति । शङ्ख्यः पक्षजनः । भावि-निर्देशमात्रमेतत्, न त्वानस्तर्यमात्रं विवक्षितम् ॥१७॥


॥ १०.३७.१८ ॥

उद्वाहं वीर-कन्यानां वीर्य-शुल्कादि-लक्षणम् ।

नृगस्य मोक्षणं शापाद् द्वारकायां जगत्-पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भार्यया जाम्बवत्या सह । स्व-धामतो महा-काल-पुरात् ॥१८.१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्राह्मणस्य द्वारकावासिनः । यद् वा, अवन्तीवासिनो गुरोः सान्दीपनेः । तत्र स्व-शब्दः स्वीयपरः, स्वीयस्य यमस्य धामतः । ब्राह्मणस्येति चतुर्थथे षष्ठी । ब्राह्मणस्येह सम्प्रदानाभावस्तु तस्यैव स्वत्वात् । स्वधामत इति—अनावृत्ति-स्थानाद् अपीति परम-स्वातन्त्र्यं दर्शितम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वधामत इति महा-काल-पुरगमनेन स्व-स्वरूपोपलव्ध्या मोक्ष-प्राप्तेर् अपीत्य् अर्थः । तच् च श्री-भागवतामृतोत्त-खणे विवृतम् । अत्र चाग्रे तत्-प्रसङ्गेऽभिव्यञ्जनीयम् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृत-पुत्राणां प्रदानं ब्राह्मणस्येति सम्प्रदानत्वाभावस् तस्यैव स्वत्वात् । उपादानम् इति क्वचित् पाठः । स्व-धामतस् तद् विशेषात् अनावृत्ति-स्थानाद् अपीत्य् अर्थः । इति परम-स्वातन्त्रयं दर्शितं पश्चात् पौण्ड्रक-वधानन्तरम् ॥१८-१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भार्यया जाम्बवत्या सह । स्वधामतो महाकालपुरात् ॥१८॥


॥ १०.३७.१९ ॥

स्यमन्तकस्य च मणेर् आदानं सह भार्यया ।

मृत-पुत्र-प्रदानं च ब्राह्मणस्य स्व-धामतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पौन्द्रकस्य मिथ्या-वासुदेवस्य । महाक्रतौ युधिष्ठिर-राजसूये । पश्चात् पौन्ड्रक-वधानन्तरम् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चात् पौण्ड्रक-वधानन्तरम्, महाक्रतौ श्री-युधिष्ठिर-राजसूये, चैद्यस्य शिशुपालस्य च निधनम् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३७.२० ॥

पौण्ड्रकस्य वधं पश्चात् काशि-पुर्याश् च दीपनम् ।

दन्तवक्रस्य निधनं चैद्यस्य च महा-क्रतौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वारकाम् आवसन् द्वारकायां वसन् । कर्ता करिष्यति ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भुवि गेयानीत्य् उक्त्या वीर्याणां संसार-निवृत्त्य् अर्थम् एव कृतत्वं सूचयति । यानि एकेनैव युगपद्-बह्वीनां बहुधा विवाहादीनि श्रीदामानुग्रहादीनि तानि चाहं द्रक्ष्यामि । अत एकैकादशे—

गोविन्द भुज-गुप्तायां द्वारकायां कुरूद्वह ।

अवात्सीन् नारदोऽभीक्ष्णं कृष्णोपासन-लालसः ॥ इति ।

अहो भाग्य-माहात्म्यं मम, अहो कारुण्य-माहात्म्यं तवेति भावः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विर्याण्य् अद्भुत-कर्माणि, अत एव कविभिः श्रीन्यासादिभिर् भुवि गेयानि गातुं योग्यानि गास्यमानानि वा, एकेनैव युगपद् वह्वीनां बहुधा विवाहादीनि श्री-दामानुग्रहादीनि तानि चाहं द्रक्ष्यामि अत एवैकादशे ।

गोविन्द-भुज-गुप्तायां द्वारकायां कुरुद्वह ।

अवात्सीन् नारदोऽभीक्ष्णं कृषोपासन-लालस इति ॥

अहो भाग्य-माहात्म्यं मम अहो कारुण्य-माहात्म्यं तव चेति भावः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यानि एकेनैव युगपद् वह्वीनां बहुधा विवाहादीनि श्री-दामानुग्रहादीनि तानि चाहं द्रक्ष्यामि अत एवैकादशे ।

गोविन्द-भुज-गुप्तायां द्वारकायां कुरुद्वह ।

अवात्सीन् नारदोऽभीक्ष्णं कृषोपासन-लालस इति ॥

अहो भाग्य-माहात्म्यं मम अहो कारुण्य-माहात्म्यं तव चेति भावः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३७.२१ ॥

यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् ।

कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुष्य विश्वस्य भूभारस्य वा ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृतत्वाद्भूभारस्य चेति । अक्षौहिणीनाम् अष्टादशानाम् । अर्जुन-सारथेर् इत्य् अनेन भारत-युद्ध इति ध्वनितम् । अमुष्येति षष्ठी आर्षी । निधनं निधन-रूपं चरितम् इति शेषः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथेति युद्धादुपरते सतीत्य् अर्थः, यद् व, भिन्नोपक्रम एव पूर्वतो लिला-विशेषात् तम् एवाह—काल-रूपस्यापि । अतोऽमुष्य क्षययिष्णोर् इच्छा-मात्रेण संहार-समर्थस्यापि । वै-प्रसिद्धौ ।

यद् वा, अपि, अमुष्य कालस्यापि क्षपयिष्णोः प्रेरण-शीलस्यापि अर्जुन-सारथेः सत कर्तरि षष्ठी इति परमवश्यत्वं दर्शितम्, अतोऽर्जुनादीनाम् अपि परम-पूज्ययोः श्री-वसुदेव-देवक्योर्हि बन्धनेन9 मम महापराधो जात एवेति तात्पर्यम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत् तत् सर्वानन्तरम् अर्जुन-सारथितया सतस्ते तव सम्बन्धे तत्र तत् सम्बन्ध-मात्रेणैवेत्य् अर्थः । तच् च त्वयि नाश्चर्यम् इत्य् आह । कालेति । अमुष्येत्य् आदौ विश्वम् इत्य् अर्थः । काल-रूपस्य सतो विश्वम् अपि क्षपयिष्णोस् तन् नाशनसमर्थस्येत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमुष्य विश्वस्य । षष्ठी आर्षी । निधनं निधनरूपं ते चरितम् इति शेषः ॥२१॥


॥ १०.३७.२२ ॥

अथ ते काल-रूपस्य क्षपयिष्णोर् अमुष्य वै ।

अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुन-सारथेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमुष्य विश्वस्य भूभारस्य वा ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । अत एव ज्ञान-मूर्तित्वाद् एव । अर्थाः प्राप्तकामता श्रुत्युक्ता । योगिजीवसाम्यताम् आदायाशङ्कते—नन्व् इति । अतोऽत्र । अतो निवृत्त-गुण-प्रवाहत्वात् । यद् वा, स्वतेजसा स्व-प्रभावेण, योगिजीवादीनां तु भगवत् प्रसादावाप्त-योगादिभिः संसृत्यभावो न तु स्व-रभावेणेति विशेषः । चिच्छक्त्या सदा ब्रह्माहम् अस्मीति निष्ठयेति बोध्यम् । स्वामि-व्याख्याने तेजो बले प्रभावे च इति यादवः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशुद्धेति । तैर् व्याख्यातं तत्र केवलेति न चक्षुषा गृह्यते रूपम् अस्य यमेवैष वृणुते तेन लभ्यस् तस्यैष आत्मा वृणुते तनुं स्वाम् इति श्रुतेः । स्व प्रकाशत्वेन केवल-ज्ञान-रूपा तस्य च ज्ञानस्य बहु-मूर्तित्वेऽपि एकस्या मुख्याया मूर्ते रंशित्वादेका मूर्तिर् यस्य तं तद् उक्तमक्-रूपेण बहु-मूर्त्येकभूर्तिकम् इति । एकेति वि-शब्दस्यार्थः विशिष्टाभिधायित्वेनासाधारणता तादृश-निगमनात् । अत एवेति यतो मूर्तेर् अपि केवलं ज्ञान-रूपत्वम् अखण्डत्वं च तद् अनुभव-सिद्धम् । अतः सर्वं स्वरूपत्वं स्वरूपं चट्मा आत्मा च सर्वभयः सर्वश् च ज्ञानाश्रयत्वेनैव भासत इति । यत आत्मत्वम् अत एव परमानन्द-रूपेणैव स्थितिः । निरुपाधि-परम-प्रेमास्पद-रूपत्वात् । यतस् तथात्वम् अत स्वरूप एव सर्वार्थ-प्राप्तिः । आनन्दानुगत्यैव सर्वस्यार्थत्वात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्तीति को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्याद् इति श्रुतेर् इत्य् अर्थः । अत एव तस्य नाना-रूपादिर् अर्थः स्वरूपत एव प्राप्त इति ज्ञानस्यैव मूर्तित्वं युक्तम् एवानुब्य्हूत म्तेनेति भावः । एवम् अप्राप्त-कामत्वेऽपि वाञ्छा नित्य-प्राप्तस्यापि लीलायाम् अप्रप्राप्तत्व-सम्पादन-पूर्वक-प्राप्त्य् अर्था तस्याश् चामोघत्वं तादृशासम्भवकारित्वात् । सा च मायिकी न भवेद् इति व्याचष्टे नन्व् इत्य्-आदिना । अतस् तद् रूपादीनाम् अप्य् अमायिकत्वम् अवधारितम् । अत एव भगवन्तमीमहीति भगवान् एव निजालम्बनतया निगमितो न तु निर्विशेष-ब्रह्मेति । यद् वा, लोक-प्रसिद्ध-विज्ञानम् अतीतम् इति तत् सम्बन्धाभावाद् विशेषेण शुद्धं विज्ञानम् आनन्दं ब्रह्मेति प्रसिद्दं ब्रह्माख्यम् आनन्दात्मकं यद् विज्ञानं तद् रूपो यो घनो-मूर्तस् तल् लक्षणं भगवन्तम् ईमहि शरणं यामि ।

ननु, विज्ञानस्य कथं कर-चरणाद्य् आकारमय-मूर्तित्वं कथम् वा भगवत्त्वम् इत्य् आशङ्क्य श्रुति-प्रसिद्धस्य तस्य तत् प्रसिद्धत्वेनैव तादृशं वैलक्षण्यम् आह । स्व-संस्थयेति । परास्य शक्तिर् विविधैव श्रूयते इति न चक्षुषा गृहात वमस्येति श्रुत्या व्यञ्जितया तत् तद् व्यञ्जकस् रूप-शक्त्या सम्यग् आप्तस् तत् तद् रूपः सर्वओऽय् अर्थो येन तं तथाप्य् अमोघ-वाञ्छितम् इच्छा-शक्त्या तत् तत् प्रकाशनाप्रकाशन-समर्थः ।

नन्व्, अपरा मायाख्या शक्तिर् अपि मम विद्यत इति श्रूयते—मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति श्रुतेः । ततस् तद् दोषेणाप्य् अहं स्पृष्टो भवेयम् इत्य् आशङ्क्याह स्वतेजसेति । स्व-तेजसा स्वरूप-शक्ति-प्रभावेणेति दिक् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अमुष्य क्षपयिष्णोर् विश्वम् अपि नाशयितुं समर्थस्येत्य् अर्थः ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कार्यं निवेद्य भगवन्तं प्रणमति द्वाभ्याम् । विशुद्धं विज्ञानमनुभवस्वरूपं यद्ब्रह्म तदेव घनं सान्द्रीभूतं त्वामीश्वरं ईमहि, शरणं व्रजेम, प्रणमामेति वा । स्वीयया संस्थय सम्यक्प्रकारेण लीलापरिकरादि विशिष्टरा स्थित्या सार्वकालिक्य सम्यगाप्ता भवन्ति, सर्वार्थाः सर्वविधभक्त-मनोरथा यस्मात्तम् । अत एवामोघम् व्यर्थं वाञ्छितं स्वभक्तमनोरथनिष्पादनलक्षणं यस्य तम् । स्वस्य स्वीरानां वा तेजसा नित्यं प्रतिदिनमेव निवृत्तो गुणप्रवाहो यस्मात्तम् ॥२२॥


॥ १०.३७.२३-२४ ॥

विशुद्ध-विज्ञान-घनं स्व-संस्थया

समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् ॥

स्व-तेजसा नित्य-निवृत्त-माया-

गुण-प्रवाहं भगवन्तम् ईमहि ॥

त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया

विनिर्मिताशेष-विशेष-कल्पनम् ।

क्रीडार्थम् अभ्यात्त-मनुष्य-विग्रहं

नतोऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं विज्ञाप्य कृताभिनन्दनं भगवन्तं नमस्यति द्वयेन—विशुद्ध-विज्ञान-घनम् इति केवलं ज्ञानैक-मूर्तिम् । अत एव स्व-संस्थया स्वरूप-सम्यक्-स्थित्यैव परमानन्द-रूपया सम्यग् आप्ताः सर्वेऽर्था येन तम् । आप्त-कामतोक्ता सत्य-सङ्कल्पताम् आह—अमोघ-वाञ्छितम् इति ॥२३.२४॥

ननु वाञ्छा चेद् अस्ति, तर्हि दुर्निवारा संसृतिः ? अत आह—स्व-तेजसा इति । चेच् छक्त्या नित्य-निवृत्तो माया-कार्य-रूपो गुण-प्रवाहो यस्मात् तम् । अतो भगवन्तं निरतिशयैश्वर्यम् ईमहि शरणं व्रजेमेति ॥२३॥

ननु त्रि-काल-ज्ञस् त्वं कथं मत्-प्रपञ्चं न जानासि ? जानासि चेत् कथम् अगुण-प्रवहं ब्रवीषि ? तत्राह—त्वाम् इति । ईश्वरम् अन्यस्य वशयितारं स्वाश्रयम् अन्यस्यावशम् अत आत्म-मायया आत्माधीनया मायया विनिर्मिता अशेष-विशेषा महद्-आद्या यादवादि-रूपा वा कल्पना येन तं धुर्यं श्रेष्ठं नतोऽस्मीति ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईमहि न तु जानीम इत्य् अत्राशङ्कते—नन्व् इति । मत्-प्रपञ्चं भगवन् माया-प्रभावम् । अगुण-प्रवाहस्य दृष्टत्वात् । तत्र ज्ञान-ज्ञाने । अतोऽनन्याधीनत्वात् । अशेषाः सर्वे । विशेषा भेदाः । धुर्यो मुख्ये बलिर्वदे समर्थे इति धरणिः ॥२३॥

एवम् इत्थम् । यदुपतिं गोपेशम् । तस्य कृष्णस्य दर्शनेनोत्सवो यस्य सः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : क्रीडार्थम् अभ्यात्तेत्य्-आदि ।क्रीडार्थं कौतुकार्थम् । अभ्यात्तो गृहीतो मनुष्यैर् मनुष्य-रूपैः कंसादिभिर् दुर्योधनादिभिर् वा विग्रहो युद्ध-लीला य्३ तं त्वाम् ईश्वरम् आश्रये, स्वानां भक्तानाम् आश्रयम् ॥२४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदूनां पतिम् इति तेषाम् अवश्य-रक्ष्यत्वम् उक्तम्, तत्रापि कृष्णं भक्त-वात्सल्याकृष्ट-चित्तम् अतस् तेषाम् अर्थे तस्य तादृश-विज्ञापनेन तं प्रति तस्यासूयादिकं न जातम् इति भावः । भागवत-प्रवर इत्य् उक्तार्थम् एव पुनर् उक्तिस् तस्मिन् राज्ञोऽसूयासन्निवृत्तये । यद् वा, प्रणिपत्य साक्षाङ्गं प्रणम्येत्य् अत्र हेतुः—भगवतेति । एवं यदुपतिम् अपि कृष्णं गोकुल-महोत्सवम् इति पूर्वोक्तानुसारेण प्रणिपत्य् अत्र हेत्वन्तरं वा ज्ञेयम् । तस्य कृष्णस्य दर्शनमेवोत्सवो यस्य, सोऽपि ययौ । कुतः ? अभितोऽनुज्ञातः कृष्णेन प्रस्थापितः सन् ।

यद् वा, अभि अभयं यथा स्यात्, उक्त-प्रकारेण विप्रस्यात्मनः कृष्णं प्रति नमस्कारे तस्माद् भयम् अकुर्वन्न् इत्य् अर्थः ।

ननु, भगवद् भक्ति-महा-रसिकोऽसौ प्रयत्नेन तं प्रार्थ्य तत्रैव कथं नावसत् ? तत्राह—मुनिः । अधुनात्र निवासतः श्री-कृष्णस्यात्रत्य-तत्-प्रियतमानां च स्वच्छन्द-सुख-क्रीडा-विघ्नेन ममापराध एव स्याद् इति जानन्न् इत्य् अर्थः । यद् व, श्वो मधुपुरीं यास्यतोऽस्य सङ्गत्या मद्-गमने10 मत्-प्रेरणयैवास्य तत्र गमनं मत्वा, नूनं व्रज-जना मां शप्स्यन्तीति विचारयन्न् इत्य् अर्थः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वाम् इति च तैर् व्याख्यातं तत्र ब्रवीषीति निषिध्यमानत्वेनेति शेषः । यद् वा, शुद्ध-वैकुण्ठादि-लक्षणे मत् प्रपञ्चे जाते तत्र माया-निषेधोऽप्य् अयुक्तः सूर्य-मण्डले तमो-निषेधवद् इत्य् अभिप्रायेणाक्षिपति नन्व् इति । तत्र सिद्धान्त-भाग आत्माधीनयेति न शुद्धे स निषिध्येत किम् उत मायिक-प्रपञ्च या तव लीला तस्याम् एव । यतः प्रकृतिक्षोभात् पूर्वत्वेन शुद्धापि तवेक्षण-लीला प्रकृतिम् उपधाय भवति तथा स्वयं भगवत् सम्बन्धि-रूपत्वेन शुद्धैवैषा स्वान्तरङ्गपरिकरस्य तव जन्मादि-लीला तद् इतर-पूर्वापर-यदु-वंशम् उपधायेति भावः । यदुप्रभृतीनां श्रेष्ठम् इति यथा तव तच् छ्रष्ठत्वं तथा तद् अन्तरङ्गानां तेषाम् अपि तद् वंश्यत्वम् इति भावः । वृष्णि-सात्वतानां पृथग् उक्तिः श्रैष्ठ्यापेक्षयेति ।

ननु तादृशस्य मम मायिक-प्रपञ्चेऽभिव्यक्तिः किम् अर्थं तथाह । क्रीडार्थम् अभि प्रपञ्च-गत-भक्ताभि-मुख्येन आत्त आनौतो मनुष्य-विग्रहे नराकृतिपरब्रह्माख्यो येन तं यद् वा, तादृश-विहारार्थम् अङ्गीकृतं मनुष्य-जातीय-युद्धं येन तम् । अभ्यार्तेति पाठे स एवार्थः । अद्येति त्वद् अवता-समय इत्य् अर्थः । अथवा उपक्रमानुसारेण उपसंहरन्नमस्यति विशुद्धेति द्वयेन । तत्र त्वामीस्वरम् इत्य्-आदिकम् अर्धं पूर्ववत् तद् अंशतत्त्वपरम् ईश्वरं पुरुष-रूपं स्वयन्तु क्रीडार्थाम् इत्य्-आदि । अन्यत् पूर्ववद् इति ॥२३॥

यदुपतिम् इति । तदापि श्री-गोकुल-त्यागान् इच्छया साक्षान् न किञ्चिद् अङ्गीकृतवान् किन्तु यदुपतित्व-व्यञ्चक-लक्षण-विशेषेणैव तत् तद् अङ्गीकृतवन् इव यतस् तम् इत्य् अर्थः । प्रणिपत्य साष्टाङ्गं प्रणम्येत्य् अत्र हेतुः भागवतेति अतो भगवदभिप्रायं जानन् द्वारकादौ तु तादृश-लोक-सङ्घट्टे तन् मर्यादां दर्शयति तस्मिन्न् अन्यथाप्य् आचरतीति भावः । तस्य कृष्णस्य दर्शनम् एवोत्सवो यस्य सोऽपि यया । कुतोऽभितोऽनुज्ञातः कृष्णेन प्रस्थापितः सन् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विशुद्धेति द्वयम् ॥२३॥



जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वाम् ईश्वरं स्वाश्रयम् इत्य्-आदि । त्वां नतोऽस्मीत्य् अनुषङ्गः । कीदृशं ? ईश्वरं सर्वैश्वर्य-युक्तं मूर्तेणं, स्वस्य मूर्तेणस्य ब्रह्मण आश्रयम् । तथा च हयशीर्ष-पञ्चरात्रे—

आनन्दो द्विविधः प्रोक्तो मूर्तामूर्त-प्रभेदतः ।

अमूर्तस्याश्रयो मूर्तो भगवान् अच्युतो मतः ॥इति ।

आत्म-मायया विनिर्मितम् अशेष-विशेषं कल्याणं येन । क्रीडार्थं कौतुकार्थम् । अभ्यात्तो गृहीतो मनुष्यैर् मनुष्य-रूपैर् असुरैः कंसादिभिः सह विग्रहो युद्धं येन तम् ॥२४.३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं-विधोऽन्यः को ऽपि नास्तीत्य् आह—त्वम् इति । ईश्वरं अन्यस्य वशयितारम्, स्वाश्रयं न कस्याप्य् आश्रितम् अतो ऽन्यस्यावश्यं एतदेवान्यानधीनमैश्वर्यम् आह—आत्माधीनया मायया विनिर्मितं अशेयविशेषकल्पनं विश्व येन तम् । किं च, क्रीडैव अर्थः स्वप्रयोजनं यस्य तम् । अद्य तु आत्तो गृहीतो मनुष्यैः कंसादिभिः सह विग्रहः कंस प्राणतुल्यकेशिवधहेतुकम् शात्रवं येन तं “अभ्यात्ते"ति च पाठः । एषापि तवैकाक्रीडेति भावः । यतो यदुवृष्णिसात्वतां सवन्धुनां धुरं रक्षणपोषणादिभारं वहसीति तम् ॥२३.२४॥


॥ १०.३७.२५ ॥

श्री-शुक उवाच—

एवं यदु-पतिं कृष्णं भागवत-प्रवरो मुनिः ।

प्रणिपत्याभ्यनुज्ञातो ययौ तद्-दर्शनोत्सवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान् अपीत्य् अत्रापिना तद् दर्शनोत्सव एव तस्याद्भुतश्रावकत्वाद् इति भावः । पालैर् गोपैः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुनिर् ययौ, भगवान् अपि पशून् अपालयद् इत्य् उक्त-समुच्चयेऽपि-शब्दः । यद् वा, भक्त-वत्सलोऽसौ निज-भक्ति-लालसं तं कथं तत्र नारक्षद् इत्य् अपेक्षायाम् आह—भगवान् अपि पालैर् गोपैः सह पशूनेवापालयद् इति, यतो गोविन्दो गोकुलेन्द्रः, किं च व्रजस्यैव सुखम् आवहत्य् अविच्छेदेन प्रापयतीति तथा सः, अतस् तैः सह तत्-तत्-क्रीडा-विशेष-सुसिद्धये तस्य तत्र रक्षणं न युक्तम् इत्य् अपि-शब्दार्थः ।

यद् वा, उक्त-न्यायेन व्रज-जनेषु तस्यागः-शङ्कया तं नारक्षत्, भक्त-वात्सल्याद् एव, तदेवाह—भगवान् गोविन्द इति । आहव इति महा-वलिष्ठत्वादिकं सूचितम् । प्रीतैः केशि-वधेन प्रहृष्टैर् इति विचित्र-मधुर-स्तुतिः कृतेति सूचितम् ।

तथा चोक्तं श्री-पराशरेण—

ततो गोप्यश् च गोपाश् च हते केशिनि विस्मिताः ।

तुष्टुवुः पुण्डरीकाक्षम् अनुराग-मनोरमम् ॥ [वि।पु। ५.१६.१७] इति,

श्री-वैशम्पायनेन च हरि-वंशे—

तं हतं केशिनं दृष्ट्वा गोपा गोप-स्त्रियस् तथा ।

बभूवुर् मुदिताः सर्वे हत-विघ्ना गतक्लमाः ॥

दामोदरन्तु श्रीमन्तं यथा-स्थानं यथावयः ।

अभ्यनन्दन् प्रियैर् वाक्यैः पूजयन्तः पुनः पुनः ॥ इति ।

तत्र गोप्य इति गोप-स्त्रिय इति च तयोर् मते व्रजान्तिक एव केशिवधात् तत्र यद्य् अपि श्री-नारदात् प्राग् एव तेषां स्तुतिर् घटते, तथाप्य् अत्र पश्चात् तत्-सूचनम् । परम-गुरु-श्री-नारदस्य गौरवाच् छ्रीवादरायणिना तत्-स्तुतेर् आदाव् उक्तेः । किं वा, सद्यः श्री-नारदागमनापेक्षया श्री-भगवता गोपानाम् इतस् त्वरया प्रेषणात् तदानीं तेषां स्तुतावशक्तेः ।

यद् वा, हेलया तद्-वधेनाद्भुतत्वाभावात् स्तुतिस् तैर् व्यक्तं न कृतैवेति । व्रज-स्लुखावः इत्य् अनेन तादृश-श्री-नारद-विज्ञापनेनापि तस्य मधुपुरी-जिगमिषा न जातेत्य् अपि सूचितम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुनिर् ययौ भगवान् अपि पशून् अपालयद् इत्य् अपि-शब्दऋथः । यतो गोविन्दः तस्मिन् गते सति प्रकृत-गोकुलेन्द्रत्वोचित-लिलाम् एवानुमोदमान इत्य् अर्थः । तत्र हत्वेति नारद-सम्बादात् पूर्वस्याप्य् अनुवादः । आहव इति तस्यान्येन युद्धे घात्यत्वम् अनभिप्रेत्य महा-बलिष्ठत्वादिकं सूचितम् । अत प्रतितैर् गतताद् विषयकभयैः पालैस् तत् सङ्गेन गोपालकैः सह पशूनबालयत् । व्रजान् निर्गच्छन्तं तम् अनुगतानां व्रज-जनानां च सुखावहो जातः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३७.२६ ॥

भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे ।

पशून् अपालयत् पालैः प्रीतैर् व्रज-सुखावहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नारदेन व्योम-वधो न दृष्टः, तत् कथं व्योम-वध-प्रसक्तिर् इति तत्रोच्यते, प्रातर् एव केशि-वधानन्तरं नारदेनोक्तम् अङ्गी-कृत्य पुनस् तथैव पशून् पालयता व्योमो हतः । यद्वा व्योम-वधः पूर्वम् एव वृत्तोऽपि वेष-धारि-वध-प्रसङ्गाद् अत्रोच्यत इति द्रष्टव्यम् । केचित् पुनः शङ्खचूड-वधात् पूर्वम् एव पठन्ति च । तम् आह—एकदेति ॥२६.२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्नस् तद् दिन एव । तथैव पूर्ववत् । ननु, व्योम प्रेषणाद्य् अश्रुतेर् अत्र तद्वधः प्रकृतासङ्गत इव भातीत्य् अत आह—यद्वेति । द्रष्टव्यं ज्ञेयम् । केचित् तु पूर्वं रास-लोलोत्तरम् इत्य् अर्थः । तं व्योम-वधम् । ते गोपाः । अद्रिसानुषु गोवर्धन-प्रस्थेषु । चोरपालापदेशतः वयं पशूंश्चोरयिष्यामो वयं पालयिष्याम इत्य् अपदेशेन छन्नमनसा । व्याजेनेति यावत् । अपदेशः पुमाल् लक्ष्ये निमित्त-व्याजयोर् अपि इति मेदिनी । निलायनं निलीन-कर्म । व्योमवधस्य श्री-नारदानुक्तत्वात् तद्-दिने तद्-वधे एकदेत्य् उक्तेर् असङ्गतत्वात् तादृश-लीलायाः कौमारान्त एव योग्यत्वाच् च । अत वृषमयात्मजात् इति गोपिका-वाक्यं च सङ्गच्छते । वृषात्मजो वत्सो मयात्मजो वत्सो मयात्मजो व्योमासुर इति पूर्व-व्याख्यानात् । निलायनं नाम चोरितस्य तिरोधापनं, तद् रूपां क्रीडाम् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकदेति तैर् व्याख्यातम् । तत्र च व्योम-वधस्य श्री-नारदेनानुक्तत्वात् । यद् वा, तद् दिन एव तद् वधे एकदेत्य् उक्तेर् असङ्गतत्वात् तथा11 व्याख्यातम् इति ते केशि-वध-प्रीताः श्री-कृष्णादयो वा निलायनं नाम चोरितस्य वृक्ष-मूलादौ तिरस्करणं तद् रूपां क्रीडां ताम् एवाह—चौरेति । चौराः पालाश् च रक्षकास् तेषाम् अपदेशतोऽभिनयान् मेषायितानाम् अत्रानुक्तिस् तेषां मेषायिततया तत्-क्रीडायां चेष्टा-विशेष-राहित्येनाप्राधान्यात् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदेति तैर् व्याख्यातं तत्र यद्वेति व्योम-वधस्य श्री-मुनीन्द्रेणानुक्तत्वात् तद् दिन एव तद्वये एक-देव्युक्तेर् असङ्गतत्वात् तादृश लीलायाः कौमारान्त एव योग्यत्वाच् च अतो वृषमयात्मजाद् इति गोपिका-वाक्यं च सङ्गच्छते वृषात्मजो वत्सो मयात्मजो व्योमासुर इति पूर्व-व्याख्यानात् । निलायनं नाम चोरितस्य तिरोधापनं तद् रूपां ताम् एवाह । चौरेति । चौराः पालाश् च रक्षकास् तेषाम् अपदेशतः अभिनयात् तद् द्वयेन मेषापदेशिनाम् अपि ग्रहणम् । सम्बन्धि-शब्दत्वात् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निलायनं चोरितवस्तुतिरोधापनम् । अपदेशो ऽभिनयः ॥२६॥


॥ १०.३७.२७ ॥

एकदा ते पशून् पालाश् चारयन्तोऽद्रि-सानुषु ।

चक्रुर् निलायन-क्रीडाश् चोर-पालापदेशतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र क्रीडायाम् । मेषायिता मेघवद् वर्तमानाः । अकुतोभया इति—चोरयितव्याश् चोरयितारः पालकाश् चैतत्त्रयं वयं सखाय एवेति विश्वासात् ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-क्रीडा-प्रकारम् एव प्रपञ्चयति—तत्रेति । तस्यां क्रीडायां तेषु मध्ये वा, मेषायिता इति मेषाणां वधेऽपि क्रोशनाद्य् अभावेन12 सुख-चौर्यत्वात् तत्राद्रिसानुषु विजह्रुः, यतोऽकुतोभयाः, न कुतश् चिद् अपि भयं येषाम्, श्री-भगवत्-प्रभावेण दैत्यादिभ्यो भयाभावात् । यद् वा, श्री-वृन्दावनान्तर् वर्तिमहादैत्यकेश्यादि-वधेनाशेषभय-निवृत्तेः । अयं च तेषु व्योमस्य प्रवेशे हेतुर् अप्य् ऊह्यः, तेषां निःशङ्कत्वेन क्रीदापरतया तेषु सुख-प्रवेश-सिद्धेः । यद् वा, कालादि-भयस्याप्य् अभावात् श्री-भगवद् विच्छेदादि-शङ्का-राहित्याद् वा, । हे नृपेति, तत्त्वया बुध्यत एव, यथा सद्राजतः प्रजानाम् अकुतोभयत्वम् इति भावः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तस्यां क्रीडायाम् । मेषायित्वा इति । मेषाणां वधेऽपि क्रोशनाद्य् अभावेन सुख-चौर्यत्वात् तत्राद्रिसानुषु विजह्नुः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकुतोभया इति । चोरयितव्याश्चोरयितावश् च पालकाश्चैते त्रयो वयं सखाय एवेति विश्वासात् ॥२७॥


॥ १०.३७.२८ ॥

तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप ।

मेषायिताश् च तत्रैके विजह्रुर् अकुतो-भयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मेषायितान् मेष-वद्-आचरितान् स्वयं चोर-वद्-आचरितः सन्न् अपो-वाहापकृष्य निनाय ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपकृष्य बलात्कारेण गृहीत्वा । अपोवाह चोरयामास ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मयो नाम दैत्य-मुखो महा-मायाविषु प्रसिद्धः, तस्य पुत्रः, अतो महा-मायः । यद् वा, तस्माद् अपि मायित्वाधिक्यात्, अतो गोपाल-वेश-धृक् अत एव तैर् न परिचित इति भावः । यद् वा, श्री-भगवता कथम् असौ तत्-क्रीडायां स्वीकृत इत्य् अपेक्षायाम् आह—गोपालेति । भक्त-वेशेनापि तद् अनुग्राह्यत्वाद् इति भावः । प्रायो बहून् सर्वान् एव, चतुःपञ्चानाम् एवावशिष्टत्वात् ।

यद् वा, प्रकृष्टोऽयो गतिर् भक्त्यादि-प्रदर्शन-रूपो यस्य सः, अयम् अपि तदानीं तेन तस्यापेक्षायां हेतुर् ऊह्यः । किं वा, अत एव गोपा विश्वस्याक्रोशनादिकं न चक्रुर् इति भावः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रायो बहून् सर्वान् एव चतुःपञ्चानाम् एवावशिष्टत्वात् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपोवाह चोरयामास ॥२८॥


॥ १०.३७.२९ ॥

मय-पुत्रो महा-मायो व्योमो गोपाल-वेष-धृक् ।

मेषायितान् अपोवाह प्रायश् चोरायितो बहून् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पिदधे छादितवान् ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गिरिदर्या पर्वत-गुहायाम् । विनिक्षिप्य विशेषेण दूरतोऽन्तःप्रदे शप्रवेशनेन नितरां क्षिप्त्वा ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशेषेण दूरतोऽन्तः प्रदेश-प्रवेशनेन नितरां क्षिप्त्वा । यद् वा, विनयेन न्यासतया रक्षित्वा, अन्यथा तैस् तस्य दुष्टत्व-वितर्कणेन तेषां तेन निक्षेपणाशक्तेः । नीतान् इति बहुत्वम् एकदैव बहूनां नयनात् । तत्र सामर्थ्यं दर्शयति—महासुर इति, मायित्वाद् इत्य् अर्थः, ततश् च चत्वारः पञ्च वावशेषिता मेषायिता एवेति गोपा बभूवुर् इति शेषः, सन्धिरार्षः ।

यद् वा, चतुःपञ्चा अवशेषिता येषां तथा-भूता बभूवुः, ते च मेषायिता एवेति तेषाम् एव चौर्येण नेयत्वात्, अन्यथा-नन्तानां गोपानां तेनैकेनाचिरान्नयनासम्भवात् ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशेषेण दूरतोऽन्तः प्रवेश-प्रवेशनेन नितरां क्षिप्त्वा ततश् च चत्वऋअः पञ्च वा ते चतुःपञ्चा अवशेषिता बभूवुः । अर्थान् मेषायित-गोआ एव । सन्धिर् आर्षः । वशेषिता इति वा । वतंस इति वत् । यद् वा, चतुःपञ्चा अवशेषिता येषां तथा-भूता बभूवुः तावत् पर्यन्तं तद् अज्ञानं च स्वचोरकृतापहारभ्रमात् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुःपञ्च मेषायिताः सखायः ॥२९॥


॥ १०.३७.३० ॥

गिरि-दर्यां विनिक्षिप्य नीतं नीतं महासुरः ।

शिलया पिदधे द्वारं चतुः-पञ्चावशेषिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शरण-द आश्रय-प्रदः । हरिः सिंह इव ॥३०.३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य व्योमस्य । तत्-कर्म बालमयनतत्पिधान-रूपं कर्म । वृकम् ईहामृगं कोकस्त्वीहामृगो वृकः इत्य् अमरात् । सतां भक्त-मात्राणाम् । शरणदः शरण-रूपम् आत्मानं दाता किम् उत तत्-तत्-सत्तमगण-दुर्लभ-भागधेयानां तेषाम् इत्य् अर्थः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् महाद् आरुणम्, शरणदः सताम् इति गोपाल-वेश-धरस्यापि ग्रहणे हेतुः, अन्यथा सत्तमानां गोपानां रक्षणासिद्धिः, ओजसा वेगेन जग्राह । तत्रैव दृष्टान्तः—वृकम् इति, वृकोपमानस्य दृष्टत्वात् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तन् महा-दारुणं कर्म तस्य विज्ञाय सतां भक्त-मात्राणां शरणदः शरण-रूपम् आत्मानं दता । किम् उत तत् तत् सत्तम-गण-दुर्लभ-भागधेयानां तेषाम् इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरिः सिंहः ॥३०॥


॥ १०.३७.३१ ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।

गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः व्योमः । ग्रहणेन कृष्ण-कर-पीडनेनातुरः । बाल्यपि आत्मानं मोक्तुम् इच्छन्न् अपि निजं रूपम् आस्थायापि नाशक्नोत् ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स व्योमः, गिरीन्द्रेण सदृशम् इति स्थौल्य-कठिन्यादिकम् उक्तम् । वल्यपि नाशक्नोद्-यतो ग्रहणेनैव आतुरो विवशः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वल्य् अपि आत्मानं मोक्तुम् इच्छन्न् अपि निजं रूपम् आस्थायापि नाशक्त्नोत् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।



॥ १०.३७.३२ ॥

स निजं रूपम् आस्थाय गिरीन्द्र-सदृशं बली ।

इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पशु-मारं पशु-मारो यथा भवति तथा । अनिःश्वासम् इत्य् अर्थः ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं व्योमम् । इत्य् अर्थ इति-यज्ञे हि पशुः अथ हृदयम् अद्यति इत्य्-आदि मन्त्रैर् हृदयादिषु निष्पीड्य निःश्वास-रहित एव मार्यत इति भावः । पश्यतां हर्षेण पश्यत्सु दिवीति तदानीम् अप्य् आशङ्कया स्थित्वेत्य् अर्थः । पशुमारममारयत् यज्ञियं पशुम् इव श्वासरोधेनामारयत् । उपमाने कर्मणि च इति णमुल् । ण्यन्तस्य म्रियतेर् अप्रयोगाश् च । इदम् अप्य् अनुरूपम् एव तस्यां क्रीडायां चोर-दण्डस्यापि क्षणिकतनुकरण-रूपत्वात् तेनापि गोपानां श्वासरोधनाश् च । अच्युत इति तद् दृशसमुचित-लीलातोऽचलनाभिप्रायेण ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दोर्भ्यां निगृह्य नितरां गृहीत्वा, तन् निग्रहं कृत्वा वा, पश्यतां हर्षेण पश्यत्व् इत्य् अर्थः । दिवीति तदानीम् अपि शङ्कयान्तर्धानेन स्थित्वेत्य् अर्थः । पशुमारममारयत् पशुम् इवामारयत्, उपमाने णमुल् । कण्ठ-मुख-निष्पीडनादिना श्वष-मार्ग-निरोधेन यथा पशवो याज्ञिकैर् मार्यन्ते तथेत्य् अर्थः । इदम् अपि तत् क्रीडानुरूपम् एव, महा-चौरस्य तथैव दुर्निग्रहोपपत्तेः । अच्युत इति तथापि तद् एकस्थानतोऽचलनाभिप्रायेण ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्यतां हर्षेण पश्यत्सु इत्य् अर्थः । दिवीति तदानीम् अपि शङ्क्यान्तर्धानेन स्थित्वेत्य् अर्थः । पशुमारम् अमारयत् यज्ञियं पशुम् इव श्वासरोधेनामारयत् । उपमाने कर्मणि च इति णमुल ण्यन्तस्य म्रियतेर् अनुप्रयोगश् च । इदम् अप्य् अनुरूपम् एव तस्यां क्रीडायां चोर-दण्डस्यापि क्षणिक-तद् अनुकरण-रूपत्वात् तेनापि गोपानाम् उच्छ्वासरोधनाच् च अच्युत इति तादृश-समुचित-लीलातोऽचलनाभिप्रायेण ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पशुमारं यज्ञिषं पशुम् इव श्वास-रोधेनामारयत् । तेनापि गुहा-द्वार-निरोधाद् इति भावः । “उपमाने कर्मणि च इति णमूल् ण्यन्तस्य म्रियतेर् अनु प्रयोगः ॥३२.३३॥


॥ १०.३७.३३ ॥

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा मही-तले ।

पश्यतां दिवि देवानां पशु-मारम् अमारयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पशु-मारं पशु-मारो यथा भवति तथा । अनिःश्वासम् इत्य् अर्थः ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-गोकुलम् इत्य् अनेन स्वीयत् स्वेन गृहीतं गोकुल, गोकुलोपलक्षितं वृन्दावनम् । प्रविवेश बहिर् लीलाम् आच्छाद्य नित्य-लीलां स्वीचकारेति । अतः परं नन्द-नन्दन-लीला वृन्दावन-निकुञ्जादिषु रहस्य भविष्यति प्रत्यक्षान्तर्धास्यतीति ध्वनितम् इति ज्ञेयं श्री-हरि-प्रियैः । कृच्छ्रतो गुहारूपात् कृच्छ्र-स्थानान् निःसार्य, अत एव गोपैर् देवैश् च स्तूयमानः, अत एव प्रकर्षण । विवेश स्वस्य गोकुलम् इत्य् आगामि-लीला-स्मरण-शङ्कया स्व-चित्तं समादधाति—नायन्तीनास् तत्-परित्यागो भविष्यतीत्य् अभिप्रायात् ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृच्छ्रतो गुहा-रूपाद्-दुःख-स्थानान् निःसार्य, अत एव अनुगैर् गोपैर् दैवैश् च स्तूयमानः, अत एव प्रकर्षेण । किं वा, श्री-गोप्य्-आदि-समागम--रूपेण विवेश अविशत्, स्वस्य गोकुलम् इति तदानीम् अपि तस्य तज्-जिहासा-राहित्यं सूचयति ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृच्छ्रतः गुहारूपात् दुःख-स्थानान् निःसार्य अत एवानु गैर्गोपैर् देवैश् च स्तूयमानः । अत एव प्रकर्षेण विवेश । स्वस्य गोकुलम् इति आगामि-लिला-स्मरण-शङ्कया । स्व-चित्तं समादधाति नात्यर्न्धानस् तत् परित्यागो भविष्यतीत्य् अभिप्रायात् । तथात्वम् अग्रतो व्यञ्जयिष्यति । सूरैर् गोपैर् इति बहुत्र पाठे सुरैः स्तूयमानोऽपि गोत्रैः सह स्व-गोकुलम् एवेति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम्

सप्तत्रिंशोऽत्र दशमे सङ्गतः सङ्गतः सताम्


॥ १०.३७.३४ ॥

गुहा-पिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।

स्तूयमानः सुरैर् गोपैः प्रविवेश स्व-गोकुलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भुवि गोपैः स्तूयमानः, उपरि वैमानिकैर् देवैर् इति ॥३४॥


अन्येन केनापि न व्याख्यातम्।

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धेऽक्रूर प्रेषणं

नाम सप्तत्रिंशोऽध्यायः ।

॥ १०.३७ ॥


(१०.३८)


  1. तस्याः शत-गुणाः ↩︎

  2. वलिना ↩︎

  3. मृत्युरह्नाय ↩︎

  4. मृत्युरह्नाय ↩︎

  5. कृष्ण-लीला-प्रवर्तकम् ↩︎

  6. निवेदनम् ↩︎

  7. जिह्वाकर्षक-स्वभावत्वात् ↩︎

  8. अतस् तव ↩︎

  9. द्विर्बन्धनेन ↩︎

  10. सङ्गत्याम् अस्य गमने ↩︎

  11. एकदेत्य् उक्त्वे रसान्तरत्वात् तथा ↩︎

  12. क्रमणाद्य् अभावेन ↩︎