अरिष्टासुर-वधः, कंसस्याक्रूरं प्रति नन्द-गोकुल-गमनायादेशश् च ।
॥ १०.३६.१ ॥
श्री-बादरायणिर् उवाच—
अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः ।
महीं महा-ककुत्-कायः कम्पयन् खुर-विक्षताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षट्-त्रिंशे तु हतेऽरिष्टे नारदोक्त्या बलाच्युतौ ।
वसुदेव-सुतौ ज्ञात्वा कंसोऽक्रूरं समादिशत् ॥
गोपी-रासान्तरायान्तं शङ्खचूडं निहत्य सः ।
अहन् गोपी-महानन्दा- सहं दुष्टम् अरिष्टकम् ॥
एवं देव-गन्धर्वादि-गीत-नृत्य-वाद्य-कुसुम-वर्षादिभिः कृष्णं प्राप्तं दृष्ट्वा व्रजस्य परमोत्सवे वर्तमाने तद् विरुद्धार्थान्तराधिकारार्थम् अथ-शब्दः । तर्हि तदा । वृषभाकृतिर् असुरः । तं वर्णयति सार्ध-त्रयेण, महान्तौ ककुत्-कायौ यस्य । खुरैर् विदारितां महीं कम्पयन् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अरिष्टे वृषाकृति-दैत्ये ।*। रासस्यान्तरे मध्य आयातम् । स कृष्णः । गोपीनां महान्तम् आनन्दं न सहत इति तथा-भूतम् ।*। एवम् उक्तरीत्या । तद् विरुद्ध उत्सव-विरुद्धोऽर्थान्तराधिकारो गो-गोप-गोपीनां भयजनकारिष्टागमन-रूपस् तद् अर्थम् । तं दैत्यम् । ककुत्कायौ स्कन्धोऽर्ध्वभागदेहौ । तर्हीत्यस्य यत्-पदसापेक्षत्वात् प्रदोषे यदा कृष्णो रासार्थम् उद्यतोऽभूद् इति विष्णु-पुराण-दृष्ट्या शेषो देयः । तद् वाक्यम्—
प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने । > त्रसयन् भयदो गोष्टम् अरिष्टः समुपागतः ॥ इति ।
महद् उच्चं ककुत् पृष्ठाग्रशिखा यत्र तथा-भूतः कायो यस्य सः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
श्री-कृष्ण-पाद-पद्मैक-रजः-सम्बन्ध-मात्रतः ।
प्रेम्णा प्रहृष्यतो वन्दे महतोऽनुगताशयः ॥
अथ-शब्दार्थस् तैर् व्याख्यात एव, अथवा अरिष्ट-वधोपसादित-श्री-मधुपुरी-प्रयाण-प्रसङ्गस्य्स गोकुलानन्द-लीलया परम-विरुद्धत्वाद् अत्यन्त-भिन्नताभिप्रायेण । तर्हीति पूर्वोक्त प्रकारेण यदा श्री-कृष्णो गोष्टम् आगतस् तदानीं प्रदोष इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने । > त्रासयन् समदो गोष्ठम् अरिष्टः समुपागतः ॥ [वि।पु। ५.१४.१] > इति,
एवं श्री-हरि-वंशेऽपि—प्राय इति नित्यं दिन-विरहताप-निस्तारार्थं तल् लीला-गानस्य कस्मिंश्चिद् अन्त्य-प्रदोष इति ज्ञेयम् । गवादीनां सर्वेषाम् एवारिष्ट-रूपत्वाद् अरिष्ट-नामा । महा-ककुत्काय इति परमस्थौल्यादि-स्वाभावेन खुर-पातैर् एव विदारणात्, महीं पदा विलिखन्न् इति च महत्ततया युद्धोद्यमेन ॥१.२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथेति सार्ध-द्वयकं तर्हीति पूर्वोक्त-प्रकारेण यदा श्री-कृष्नो गोष्ठम् आगतस् तदानीं प्रदोष इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे । प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने । त्रासयन् समदो गोष्ठम् अरिष्टः समुपागत इति । एवं प्रायः श्री-हरि-वंशेऽपि इति नित्यम् एव ताभिर् लीला-गान-लब्ध-पराणाम् अह्नां कस्यचिद् अन्त्यस्य प्र्दोषे तत् पूर्वत एव भोजनादिकं विधाय रासार्थं शय्या-गृहन् निर्गत्य गोष्टाद् वहिर् निर्गते श्री-भगवतीति ज्ञेयम् । अतो व्रजस्य प मोत्सव इति सामान्यत एव तैर् व्याख्यातं गोष्ठम् इति गोष्ठ-निकटम् इत्य् अर्थः । खुर-विक्षताम् इत्य्-आदिकं युद्दोद्यत-महामत्त वृषभस्य स्वाभाविकम् एव तत्र खुर-विक्षताम् इति स्थौल्यादि-स्वभावेन खुर-पातैर् एव ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षट्त्रिंशे निहते ऽरिष्टे प्तरौ रामकृष्णयोः
ज्ञट्वा कंसो नारदात्तौ बद्धाक्रुरं सामादिशत्
तर्हीत्य् अस्य यत्-पद-सापेक्षत्वात् प्रदोषे यदा कृष्णो रासार्थम् उद्यतोऽभूद् इति विष्णु-पुराण-वाक्य-दृष्ट्या शेषो ज्ञेयः । तच् च वाक्यं यथा,
प्रदोषार्धे कदाचित् तु रासागक्ते जनार्दने ।
त्रासयन् समदो गोष्ठमरिष्टः समुपागतः ॥ [वि।पु। ५.१४.१] इति ।
अत एव रास-विरुद्धार्थ्[आस्तर्]{।मर्क्}आधिकारार्थम् अथ-शब्दः । महद् अत्युच्चं ककुत्-पृष्ठाग्र-शिखा यत्र, तथा-भूतः कायो यस्य सः । खुरैर् विकारितां महीं कम्पयन् ॥१॥
॥ १०.३६.२ ॥
रम्भमाणः खरतरं पदा च विलिखन् महीम् ।
उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रम्भमाणो वृषभ-जाति-शब्दं कुर्वन् । विलिखन् विदारयन् । उद्यम्य ऊर्ध्वं कृत्वा । वप्राणि तटान्य् उत्क्षिपन् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खरतरम् अतितीक्ष्णम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विदारणात् महीं पदा विलिखन्न् इति च मत्ततया युद्धोद्यमेन । अन्यत् तैः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खरतरं यथा स्यात् तथा विलिखंश् च । रम्भमाणः वृषभ-जाति-शब्दं कुर्वन् । वप्राणि प्राचीर-तटानि । शकृत् पुरीषम् ॥२.३॥
॥ १०.३६.३ ॥
किञ्चित् किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ।
यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किञ्चित् किञ्चिच् छकृन् मध्ये मध्ये ईषद्-ईषत्-पुरीषं मुञ्चन् तथा मूत्रयन् मूत्रम् उत्सृजन् । स्तब्ध-लोचनोऽनिमिष-लोचनः । यस्य ध्वनिना गवां नारीणां च ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य अरिष्टस्य । निर्ह्रादितेन गर्जितेन । निष्ठुरेण कठोरेण । भीतम् इव राजानम् आलक्ष्याश्वासयति—हे अङ्गेति । श्री-कृष्णस् तं मारयिष्यतीति मा त्रस्तो भवेति भावः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भयानकत्वम् आह—यस्येति । अङ्ग ! इति सभय-सम्बोधने । स्म प्रसिद्धौ । वै निश्चये ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र मूत्रम् उत्सृजन्न् इति मूत्रयन्न् इत्य् अस्य टीका ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३६.४ ॥
पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घना यस्य ककुद्य् अचल-शङ्कया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र, “आ-चतुर्थाद् भवेत् स्रावः पातः पञ्चम-षष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्यात्” इति विभागः । ककुदि गल-पृष्ठ-शृङ्गे ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पातस्रावयोः । आ चतुर्थाच् चतुर्थमास-पर्यन्तं गर्भपातस्य सावसञ्ज्ञा । अत षष्ठमासाद् ऊर्ध्वम् । यस्य अरिष्टस्य । अचलो नगः । निर्विशन्ति घना इति कूलं पिपतीषतीतिवद् अचेतनेऽपि निर्वेश-सम्भवात् । यद् वा, मेघाश्चतना एव देवता-रूपेण, इन्द्रः प्राचोदयत् क्रुद्धो मेघानां चान्त-कारिणां गणम् इत्य् उक्तेः ।
मेघा नद्योऽथ गिरयोऽचेतनाश् चेतना अपि । > द्विरूपा एव वर्तते सत्यम् एतद् द्विजोत्तमाः ।
श्रूयन्ते सर्व-शास्त्रेषु वर्ण्यमाना महर्षिभिः ॥ इति संहितोक्तेश् च ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महेति सूचितं स्थौल्यं दर्शयति—निर्विशन्तीति । विशेषश् चानः श्री-पराशरेणोक्तः—
सतोय-तोयदच्छायस्तीक्ष्ण-शृङ्गोऽर्क-लोचनः ॥ > लेलिहानः स-निष्पेषं जिह्वयौष्ठौ पुनः पुनः । > संरम्भाविद्ध-लाङ्गूलः कठिन-स्कन्ध-बन्धनः ॥ > उदग्र-ककुदाभोगः प्रमाणाद्-दुरतिक्रमः । > विण्-मूत्र-लिप्त-सर्वाङ्गो गवाम् उद्वेग-कारकः ॥ > प्रलम्ब-कण्ठोऽतिमुखस् तरु-घाताङ्किताननः । > सुदयंस् तापसानुग्रो वनान्य् अटति यः सदा ॥ [वि।पु। ५.१४.२-५] > इति ।
उत् उच्चैर् वीक्ष्य, अत्युच्चमहाकायतात्, अप्य् अर्थे चकारः । किं वक्तव्यं स्त्री-स्वभावाद् गोप्य इति गोपा अपि तत्रसुः, वृषत्वेनाप्रतिकार्यत्वात् । पशवः सुरभी-वृषादयो महिषादयोऽपि भीतास् तस्य सुदुष्टत्वात्, तच् चोक्तं श्री-वैशम्पायनेन हरि-वंशे—
युद्ध-सज्ज-विषाणाग्रो द्विषदृषभ-सूदनः ॥ > अरिष्टो नाम हि गवाम् अरिष्टो दारुणाकृतिः । > तैत्यो वृषभ--रूपेण गोकुलं1 परिधावति ॥ > पातयानो गवां गर्भान् धृष्टो गच्छत्य् अनार्तवम् । > भञ्जमानश् च चपलो गोष्ठं संप्रचचार ह ॥ > शृङ्ग-प्रहरणो रौद्रः प्रहरन् गोषु दुर्मदः । > गोष्ठे तु न रतिं लेभे विना युद्धेन गोवृषः ॥ [ह।वं। > २.२१.६-९] इत्य्-आदि ।
गोकुलं व्रजं सन्त्यज्योति प्रदोषेऽत्यज्यस्यापि व्रजस्य त्यागेन महा-भीतत्वं तेन दूरे द्रवणं च सूचितम् । अत एव हे राजन्न् इति विस्मयेन भयेनैव वा तादृश-भावोदयात् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भयानकत्वम् एवाह—यस्येति । सार्ध-द्वयकेन निर्ह्रादितेन वज्र-निस्पेषवद् धनिना । अङ्ग ! इति स-भयम् इव सम्बोधनं । स्म प्रसिद्धौ । वै निश्चये । महा इति सूचितं, स्थौल्यं दर्शयति । निर्विशन्ति इति अचले ककुदि च प्रवेशे बुद्धि-पूर्वकत्वम् उत्प्रेक्षत एव अचेतनत्वात् । उभयत्र घन-पथ-पर्यन्तोच्छ्रायस् तु विवक्षित इति विशेषश् चान्यः श्री-पराशरेणोक्तः । सतोय-तोयद-च्छायस् तीक्ष्ण-शृङ्गोऽर्क-लोचनः । लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः । संरम्भाविद्ध-लाङ्गुलः कठिन-स्कन्ध-बन्धनः । उदग्र-ककुदाभोगः प्रमाणाद् दुरतिक्रमः । विण्-मूत्र-लिप्त सर्वाङ्गो गवाम् उद्वेग-कारकः । प्रलम्ब-कण्ठोऽतिमुखस् तरुघाताङ्किताननः । सूदयंस् तापसानुग्रो वनान्यटति यः सदेति । उत् उच्चैर् वीक्ष्यात्य् उच्चतर महा-कायत्वात् । अप्य् अर्थे चकारः किंअ वक्तव्यं स्त्री-स्वभावाद् गोप्य इति गोपा अपि तत्रसुः पशवो भीताः तस्य सुदुष्टत्वात् । तच् चोक्तं श्री-वैशम्पायनेन ।
युद्ध-सज्ज-विषाणाग्रो द्विषद् वृषभ-सूदनः । > अरिष्टो नाम हि गवाम् अरिष्टो दारुणाकृतिः । > दैत्यो वृषभ--रूपेण गोकुलं परिधावति । > पातयाम्नो गवां गर्भान् धृष्टो गच्छत्य् अनार्तवम् । > भञ्जमानश् च चपलो गोष्ठं सम्प्रचचऋअ ह । > शृङ्ग-प्रहरणो रौद्रः प्रहरन् गोषु दुर्मदः । > गोष्ठं न रतिं लेभे विना युद्धेन गोवृष । इत्य्-आदि ।
एतावन्तं कालम् अत्रानागमनं तु कंसाननुमत्यैव इति लक्ष्यते । गोकुलं व्रजं सन्त्यज्येति प्रदोषे वाढम् अत्याज्यस्यापि व्रजस्य त्यागेन महाभीतत्वं तेन दूरे दूरे द्रवणं च सूचितं अत एव राजन्न् इति विस्मयेन तादृश-भावोदयाद् भयेनैव वा ॥४.५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्ह्रादितेन शब्देन । स्रवन्ति पतन्तीति आ चतुर्थात् भवे स्रावः पातः पञ्चम-षष्ठयोर् इति स्मृतिः ॥४.५॥
॥ १०.३६.५ ॥
तं तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः ।
पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गो-कुलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तीक्ष्णे शृङ्गाग्र यस्य तं वीक्ष्य ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अरिष्टम् । तत्रसुर् भीता आसन् । पुनर् अपि तथैव हे राजन्न् इति । भगवत् प्रभाव-ज्ञानेन राजमानस्त्वं कुतो गोकुल-वासिजन-भयं शङ्कस इति भावः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३६.६ ॥
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ।
भगवान् अपि तद् वीक्ष्य गो-कुलं भय-विद्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण कृष्ण रक्षेति ॥६.७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते गोकुल-वासिनः । कृष्ण कृष्ण इति सम्बोध्य सम्भ्रमत्वाद् रक्षेति क्रिया-विस्मृतिः । तत् तस्माद् गोकुलम् इत्य् अन्वयः । हे कृष्नेति भक्त-क्लेश-कर्षकत्वान् नः क्लेशम् अपाकुर्व् इति भावः । वीप्सा तु संस्रमे । गोविन्दं गोकुलेन्द्रतयाभिषिक्तम् । सर्वे इत्य् उक्तेः पशवोऽपि कृष्ण कृष्णेति प्रोचुः । उक्तं च सुरभि-गमने स्व-सन्तानैर् उपामन्त्र्य [१०.२७.१८] इति । गोवर्धन-रास-स्थलात् कोलाहल-श्रवणेनाभिसुखम् आयान्तं शरणं ययुर् इत्य् अर्थः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णेत्य् अर्धकम् । ते गोप्य्-आदय सर्व इत्य् अत्यन्त-भयाद् वनेऽपि स्वास्थ्यम् अलभमानाः पशवोऽपि निवृत्त्यागताः शरणं ययुः, शरणागतत्वेनान्तिकम् आयाता इति ज्ञेयम् । यतो गोविन्दं गोकुलेन्द्रम् । अन्यत् तैर् व्याख्यातम् । यद् वा, कृष्ण कृष्णेत्य् एतन् मात्रम् एवाक्रोशन्तः, त्रस्तत्वाद् रक्षेत्य्-आद्य् अन्योक्ताव् अप्य् अशक्तेः । यद् वा, शरण-यान-प्रकारम् एवाह—कृष्ण कृष्णेति ॥५॥
इत्थं ते निज-कृत्यं चक्रुः, श्री-गोविन्दोऽपि निजकृत्यं चकारेत्य् आह—भगवान् अपीति । अथेति पाठे अरिष्टागमनानन्तरं सद्य एवेत्य् अर्थः । भयेन विद्रुतं प्राग् इतस्ततो वेगेन गतम् । यद् वा, गवां कुलं भयेन दूरे गतम् एव गोप्यो गोपा गावश् चेत्यते सर्वे शरणं ययुः, वृष-रूपम् असुरम् इति तं तादृशं ज्ञात्वेत्य् अर्थः । अत उप समीपे आह्वायत् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णेत्य् अर्धकम् । ततो श्री-गोकुलेन्द्रतयाभिषिक्तं तम् एव शरणं ययुः । कोलाहल-श्रवणेन श्री-गोवर्धन-वष-स्थलाद् अभिमुखम् आयान्ते शरणतयोपसेदुः । अन्यत् तैः । यद् वा, कृष्ण-कृष्णेत्य् एतन् मात्रम् एव क्रोशन्तः त्रस्तत्वाद् द्रक्षेत्य् आद्यन्तोक्तावशक्तेः । इत्थन्ते निज-कृत्यं चक्रुः । श्री-गोविन्दोऽपि निज-कृत्यं चकारेत्य् आह । भगवान् अपीति । अथेति पाठे अरिष्टागमनानन्तरम् एव वा । तत् स्व-पाल्यमानं गोकुलं तत्रत्यानं सर्वान् एवेत्य् अर्थः । वृष-रूपम् असुरम् इति तं तादृशं ज्ञात्वेत्य् अर्थः । अत उप स्व-समीपे गोष्ठाद् दूर एवाह्वयत् । तत्र युद्धोपद्रवञ्चनार्थम् अत एव विवेश गोष्ठाम् इति वक्ष्यते ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-ग्रहणात् पशूनाम् अपि कृष्ण-कृष्णेत्य् उक्तिर् लभ्यते । उक्तं च सुरभि-गमने स्व-सन्तानैर् उपामन्त्र्य [भा।पु। १०.२७.१८] इति ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.३६.७ ॥
मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत् ।
गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आश्वास्य सान्त्वय्य । हे मन्द किं प्रयोजनम् । मन्द अल्पमते । पशूनां त्रसनात् त्रसितैः किं फलं न किम् अपीति भावः । यतोऽहम् एव दुष्कर्मणां शास्तातो मयि सति तैः किं प्रयोजनम् इति भावः ।
ननु, वृषभोऽहं कथं शासनीयस् तत्राह—हे असत्तमेति । कृत्रिमम् एव तव बृषस्वं तत्त्वतो दुष्टदैत्य एवेति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथम् ? तद् आह—सपालैर् इति । त्रासे पालानां गौणत्वम् एव, वीरत्वात्, पशूनाम् एव मुख्यत्वम् इति । मन्द अल्प-बुद्धे ! पशूनां त्रासनात् त्रासितैः किं स्यात् ? अपि तु न किम् अपि फलम् इत्य् अर्थः । कुतः ? तद् आह—मयीति शास्तरि नियन्तरि, दुष्टानां दुष्ट-कर्मणां दुरात्मनां दुष्ट-स्वभावानाम् अधुनैव मया त्वयि हते सर्व एवैते निर्भयाः सुखिनो भविष्यन्तीति भावः । त्वद् विधानाम् इति—त्वं शासनीय इति किं वक्तव्यम्, त्वद् दुष्टतानुकारका अपि शासनीया इत्य् अर्थः ।
ननु, वृष-रूपोऽहं कथं शासनीय इति चेत् तत्राह—हे असत्तमेति । तत्त्वतो महा-दैत्यो जगद् उपद्रावकः परम-दुष्टस् त्वं मया शासनीय एवेति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आह्वान-प्रकारम् अह । सपालैर् इति बुद्धि-बलाधिक्यात् त्रासे पालानां गौणत्वं तद् वैपरीत्यात् पशूनां मुख्यत्वम् इति तथोक्तं । गोपालैर् इति पाठः क्वचित् । मन्द अल्प-बुद्धे ! पशूनां त्रासनात् । त्रासितैः किं स्याद् अपितु न किम् अपि फलम् इत्य् अर्थः । कुतस् तद् आह । मयीति शास्तरि दण्डयितरि सति । पठान्तरे यतो बल-दर्पहाहं दुष्टानां दुष्ट-कर्मणां दुरात्मनां दुष्ट-स्वभावानाम् । अधुनैव मया त्वयि हते सर्व एवैते निर्भया भविष्यन्तीति भावः । त्वद् विधानाम् इति त्वं शासनोय इति किं वक्तव्यं त्वद् वद् दुष्टत्वानुकारका अपि शषनीया इत्य् अर्थः ।
ननु, वृष-रूपोऽहं शासनीय इति चेत् अतत्राह । असत्तमेति तत्त्वतो दुष्ट-दैत्य एव त्वम् असीत्य् अर्थः ॥७.८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पशुभिर् गोभिश् च । असत्तमेति वृष-रूपस्य तव वधे गो-वध-पापं न स्याद् इति भावः ॥७॥
॥ १०.३६.८ ॥
मयि शस्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ।
इत्य् आस्फोत्याच्युतोऽरिष्टं तल-शब्देन कोपयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवं वदन् । आस्फोट्य कर-तले बाहुम् आहत्य । तेन तल-शब्देन कोपयन् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वद् विधानां त्वत् समानाम् । त्वद् विधानां त्वत्-सदृशानां, किम् उत तवेति भावः । अच्युतस् तत्-स्थानाद् अचलितः । न चचाल ततः स्थानात् इति पराशरोक्तेः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सख्युः श्री-दाम्नोऽंसे भूजैव भोगः सुवृत्तत्व-पृथुत्वायतत्वादिना अहि-देहस् तं प्रसार्येति निर्भयत्वं सावज्ञत्वं च दर्शितम् । सख्युर् इति भाव-विशेषेण तत्-सख्य-भाग्याभिनन्दनात् । अन्यत् तैर् व्याख्यातम् । यद् वा, अच्युत इति तत्-स्थानाद् अविचलनाभिप्रायेण, तथा चोक्तं श्री-वैशम्पायनेन हरि-वंशे—न चचाल ततः स्थानाद् अवज्ञास्मित-लीलया [ह।वं। २.२१.१५] इति । हरिर् इति तादृशावस्थानेन मनोहरत्वात् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आस्फोट्य करतलेन वामबाहुमाहत्य तेन तलशब्देन स्वशौर्यद्योतकेनेत्य् अर्थः । सख्युः सुबलस्य स्कन्धे भुजा भुज एव भोगः सर्पदेहस्तं प्रषर्येति सावज्ञत्वं दर्शितम् ॥८॥
॥ १०.३६.९ ॥
सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः ।
सोऽप्य् एवं कोपितोऽरिष्टः खुरेणावनिम् उल्लिखन् ।
उद्यत्-पुच्छ-भ्रमन्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भुजा-भोगं भुजा भुजः स एव भोगः सर्प-देहस् तम् । सर्प-देहाकारं भुजम् इत्य् अर्थः । स्वयम् अच्युतः अन्यान् दुष्टान् हरतीति हरिः । उद्यता ऊर्ध्वं गच्छता पुच्छेन भ्रमन्तो मेघा यस्मिन् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—सर्प-देहवत् स्निग्धं पुष्टं वक्रीभवनशीलम् इत्य् अभिप्रायः । अच्युतः सर्वदैकस्वभावः । एवं तल-शब्दास्फोटनादिना । सख्युः सुबलस्य । श्रीदाम्न इति तोषिणी । सख्युर् अंसे भुज-स्थापनेन सावज्ञत्वं दर्शितम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अरिष्टम् अमङ्गलं साक्षात् तद् रूपताद् अरिष्ट इत्य् अन्येषां दुष्प्रति-कार्यत्वादिकं सूचितम्, उद्यता पुच्छेन भ्रमन्तस् तस्य स्पर्शाद् वाताद् वा इतस् ततो निपतन्तो मेघा यस्माद् इति पुच्छस्य कठिनता बहुल-दीर्घ-बलमयता च दर्शिता । कृष्णं क्रोधोत्पादनेन तस्याकर्षकम् । यद् वा, महा-वीर-दर्प-प्रकटनेन भूमौ श्री-पार्ष्णि-प्रहारेण तत्-कर्षणात् कृतम् अरिष्ट-कुण्डाख्यं तीर्थम्, तथा हि आदि-वाराहे—
घातयित्वा ततस् तस्मिन्न् अरिष्टं वृष-रूपिणम् । > कोपेन पार्ष्णिघातेन मह्यास् तीर्थं प्रवर्तिम् ॥
उपाद्रवत् समीपे वेगेनागमत् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सख्युः श्री-दाम्नोऽसे भुजैव भोगः सुवृत्तत्व-पृथुत्वायतत्वादिनाहि-देहस्तं प्रसार्येति सावज्ञत्वं दर्शितं । सख्युर् इति तस्यापि तादृशत्व-दर्शनाय भाव-विचेशेषेण तत् सख्य-भाग्याभिनन्दनाय च । अन्यत्तः । तत्राच्युत इति तत् स्थानाद् अविचलनाभिप्रायेण । तथा च श्री-वैशम्पायनः । तस्मात् स्थानान् न व्यचलत् कृष्णो गितिर् इवाचल इति । श्री-पराचारश् च । न चचाल ततः स्थानाद् अवज्ञास्मित लिलयेति । हरिर् इति तादृशावस्थानेन मनोहरणात् । उद्यता पुच्छेन चलन्तः तस्य स्पर्शाद् वाताद् वा इतस् ततो निपतन्तो मेघा यस्मात् उपद् द्रवत् समीपे वेगेनागमत् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्यता ऊर्ध्वं गच्छता पुच्छेन भ्रमन्तो मेघा यस्मात् सः ॥९॥
॥ १०.३६.१० ॥
अग्र-न्यस्त-विषाणाग्रः स्तब्धासृग्-लोचनोऽच्युतम् ।
कटाक्षिप्याद्रवत् तूर्णम् इन्द्र-मुक्तोऽशनिर् यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्रे न्यस्ते विषाणाग्रे येन सः । स्तब्धे असृक्-तुल्ये लोचने यस्य सः । कटाक्षिप्य कटाक्षेण तिर्यड् निरीक्ष्य ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न्यस्ते कृते । विषाणाग्र शृङ्गाग्रभागे । स्तब्धे स्तिमिते । कट-शब्दोऽत्रैकदेश-न्षयेन कटाक्षपरः । कटेन कटाक्षेणाक्षिप्य । इह समासस् त्व् आर्षः आक्षिप्येत्य् अनेन तियङ्-निरीक्षणं लक्ष्यते । अशनिर् व्रज्रम् । कटाशब्देन कटाक्ष एव बोध्य एकदेश-न्यायेन ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथम् ? तद् आह—अग्र इति । तूर्णं द्रवणे हिंस्रत्वे च दृष्टान्तः । इन्द्रेण मुक्तो वलात् प्रक्षिप्तोऽशनिर्यथेति ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं ? तदाह—अग्र इति । अत्र कटाक्ष-शब्दैक-देशेन कटा-शब्देन स एवोच्यते । कुटा-शब्देन गाङ्कुटादित्य्-आदि-सूत्र-लक्षित-पादवत् । ततः कटा कटाक्षेणाक्षिप्य तिर्यग् दृष्ट्या सन्तर्ज्येत्य् अर्थः । तूर्ण-द्रवणे परासह्यत्वे च दृष्टान्तः । इन्द्रेण मुक्तो वलात् प्रक्षिप्तोऽशनियथेति अच्युतम् इति तत्र तस्य वैयर्थ्यं बोधयति ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्तब्धे असृग्लोचने रक्तनेत्रे यस्य सः । कटा कटाक्षस्तया आक्षिप्य तिर्यग्दृष्ट्या सन्तर्ज्येत्य् अर्थः ॥१०॥
॥ १०.३६.११ ॥
गृहीत्वा शृङ्गयोस् तं वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रति-गजं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यपोवाह प्रतिलोमं व्यनुदत् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कृष्णः । तम् अरिष्टम् । प्रतिलोमम पृष्टतः । व्यनुदत् पातयामास ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै प्रसिद्धौ । स परम-विनोदशीलो भगवान् श्री-कृष्णः । विनोदम् एव दृष्टान्तेनाभिव्यञ्जयति—गजः प्रतिगजं स्वसदृशं गजं यथेति, अन्यथा सद्यो वध्यत्वात्, अत एवाग्रे वक्ष्यति अद्भुत-कर्मणा [१०.३६.१६] इति । ततश् च भूमौ निपपातेति ज्ञेयम्, अग्रे पुनर् उत्थानोक्तेः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्दौ स परम-विनोदशीलः विनादम् एव दृष्टान्तेनाभिव्यञ्जयति गजः । स्वप्रतिभट-गजं यथेति तद् योग्यम् एव बलम् आविष्कृत्येत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यपोवाह प्रतिलोमं व्यनुदत् ॥११॥
॥ १०.३६.१२ ॥
सोऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् ।
आपतत् स्विन्न-सर्वाङ्गो निःश्वसन् क्रोध-मूर्च्छितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपविद्धोऽपक्षिप्तः । आपतद् आद्रवत् । स्विन्नानि स्वेद-युक्तानि सर्वाङ्गानि यस्य सः । क्रोध-मूर्च्छितः क्रोधेन व्याप्तः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः असुरः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता कौतुकं दर्शयतेत्य् अर्थः, स्विन्न-सर्वाङ्गः, परिश्रान्तत्वात् क्रोध-मूर्छितत्वाद् एव वा ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्वरं स्यात् पाठान्तरे सत्वरः सन् क्रोधेन मूर्छिता विस्मृतात्मा स्विन्न-सर्वाङ्गः परिश्रान्तत्वात् क्रोधाद् एव वा ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपविद्धः अपक्षिप्तः ॥१२॥
॥ १०.३६.१३ ॥
तम् आपतन्तं स निगृह्य शृङ्गयोः
पदा समाक्रम्य निपात्य भू-तले ।
निष्पीडयाम् आस यथार्द्रम् अम्बरं
कृत्वा विषाणेन जघान सोऽपतत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्त्वा विषाणम् उत्पाट्य तेनैव जघान स चापतत् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् असुरम् । सः कृष्णः । अम्बरं वस्त्रम् । कृत्त्वा कृती-छेदने । विषाणम् इति शेषः । सः आसुरः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना दुष्टस्य तस्य वधं हर्षेण गायन्न् इवाह—तम् इति द्वाभ्याम् । कृत्वा विषाणम् उत्पाट्य । तथा च श्री-विष्णु-पुराणे उत्पाट्य शृङ्गम् एकं च तेनैवाताडयत् ततः [वि।पु। ५.१४.१२] इति । श्री-हरि-वंशे च—
शृङ्गं चास्य पुनः सव्यम् उत्पाट्य यम-दण्डवत् । > तेनैव प्राहरद् वक्त्रे स ममार वृषो हतः ॥ [ह।वं। २.२१.२१] > इति ।
अपतत् मृतः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना दुष्टस्य तस्य वधं हर्षेण गायन्न् इवाह । तम् इति द्वाभ्याम् । कृत्वा विषानम् उत्पाठ्य । तथा च श्री-विष्णु-पुराणे । उत्पाट्य शृङ्गम् एकं च तेन वाताडयत् तथा इति । श्री-हरि-वंशे च । शृङ्गञ्चास्य पुनः सव्यम् उत्पाट्य यम-दण्डवत् । तेनैव प्राहरद् वक्त्रं स ममार वृषो हत इति । अपतत् मृतः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शृङ्गयोर् निगृह्य नितरां गृहीत्वा आर्द्रम् अम्बरं कृत्वा यथा कश्चिन् निष्पीडयामास ततश् च विषाणेन उत्पाटितेन तं जघान ॥१३॥
॥ १०.३६.१४ ॥
असृग् वमन् मूत्र-शकृत् समुत्सृजन्
क्षिपंश् च पादान् अनवस्थितेक्षणः ।
जगाम कृच्छ्रं निरृतेर् अथ क्षयं
पुष्पैः किरन्तो हरिम् ईडिरे सुराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मूत्रं च शकृच् च मूत्र-शकृत् । एक-वद्-भावः । तद्-उभयं समुत्सृजन्न् इत्य् अर्थः । पादांश् च क्षिपन्न् इतस् ततश् चालयन् । अनवस्थितेक्षणः प्रचलित-नेत्रः कृच्छ्रं कष्टं जगाम । अथ निरृतेर् मृत्योः क्षयं निवासं जगाम । कृच्छ्रं यथा भवति तथा मृत इति वा ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—अतिपीडितस्य मल-मूत्रे निःसृते इति तात्पर्यम् । निर्गता ऋतिः कल्याणं निदा वा यस्मात् स ।
निऋऋतिः ऋतिः कल्याणावर्त्मनोः । > जुगुप्सा-स्पर्धयोः स्त्री स्यात् ॥ इति मेदिनी ।
निरृति स्याद् अलक्ष्म्यां स्त्री दिगीचादय मृत्युषु इति धरणिः । क्षयो रोगान्तरे वेश्म-कल्पान्तापचयेषु च इति मेदिनी । कर-द्वयापेक्षया क्रिया-विशेषणे लाघवं मत्वाह—कृच्छ्रं यथेति । निऋर्तेः क्षयं जगामेति मुनिन्द्रस्य कोपोक्तिर् एव । वस्तुतस् तु—ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट इत्य् आदाव् अस्यापि मोक्ष-श्रवणान् निऋर्तेर् मृत्योर् हेतोः क्षयं भगवन् निवासं गतः इत्य् एवार्थः ॥१४॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-प्रकारम् एवाह—असृग् इति, सम्यग् उत्सृजन् मुञ्चन्न् इति किञ्चित् किञ्चिच् छकृन् मुञ्चन्न् इति पूर्वोक्ताद् विशेषार्थम् । अथ तन्-मरणानन्तरम् एव सुरा ईडिरे इति तद्-भयेन सद्यस् तेषां तत्राशक्तेः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् प्रकारम् एवाह--असृग् इति । सम्यग् उत्सृजन् मुञ्चन्न् इति किञ्चित् किञ्चिच् छकृन् मुञ्चन्न् इति पूर्वोक्तात् विशेषार्थः । निरृतेः क्षयं जगामेति श्री-मुनीन्द्रस्य क्रोधमयम् एव वचनम् । वस्तुतस् तु ये च प्रलम्ब-खरद-दुर-केश्य् अरिष्टेत्य् आदावस्यापि मोक्ष-शरवणात् । विरृतैर् मृत्योर् हेतोः क्षयं भगवन् निवासं गत इत्य् एवार्थः । अथ तन् मरणानन्तरम् एव सुरा ईडिरे इति तद् भयेन सद्यस् तेषां तत्राक्तेः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृच्छ्रं कष्टं जगाम प्राप अथ निरृतेर् मृत्योः सकाशात् क्षयं वधं जगाम निरृतिर् एवागत्यं तं जघान न तु कृष्ण इत्य् उत्प्रेक्षा स तु सद्यो मुक्तिं प्राप पुष्पैः पुष्पाणि किरन्तः ॥१४॥
॥ १०.३६.१५ ॥
एवं ककुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।
विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नयनोत्सवो नयनानां मूर्तिमान् उत्सवः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं शृङ्गतादानादिना । ककुद्मिनं वृषासुरम् । निपातनात् कुदोग्मिनि-प्रत्ययः । स्वजातिभिर् देवैर् गोपैर् वा । जातिभिर् गोपैस् तेषाम् एवान्तरङ्गत्वात् । सबल इत्य् अरिष्ट-वधेऽनुज-स्नेहेन स्वक्रीडातस् तस्याप्य् आगमनात् । अत्र यद् धरि-वंशे—
स चोपद्रो वृषां हत्वा कान्त-चन्द्रे निशा-मुखे । > अरविन्दाभ-नयनः पुनर् एव रराम ह ॥ इति ।
तत्र गोष्ट-प्रवेशानन्तरं पुनर् निर्गम्येति भगवतस् तत्र राग-विशेषो दर्शितः । यच् चोक्तमादि-वाराहे श्री-गोवर्ध-परिक्रमे—
गङ्गायाश् चोत्तरं गत्वा देव-देवस्य चक्रिणः । > अरिष्टेन समं यत्र महद् युद्धं प्रवर्तितम् ॥ > घातयित्वा ततस् तस्मिन्न् अरिष्टं वृष-रूपिणम् । > कोपेन पाणि-घातेन मह्यास् तीर्थं प्रकल्पितम् ॥ > वृषभस्य वधो हतो आत्मनः शुद्धिम् इच्छता । > स्नातस् तत्र तदा कृष्णो वृषं हत्वा सगोपकः ॥ > राधां विपाप्मा प्रोवाच कथं भ्रद्रे भविष्यति । > वृषो हतो मया चायम् अरिष्ट पाप-सूचकः ॥ > तत्र राधा समाश्लिष्य कृष्णम् अक्लिष्टकारिणम् । > स्वनाम्ना विदितं कुण्डं कृतं तीर्थम् अदूरतः ॥ > राधा-कुण्डम् इति ख्यातं सर्व-पापहरं शुभम् । > अरिष्ट-राधा-कुण्डाभ्यां स्नानात् फलम् अवाप्नुते ॥ > राजसूयाश्वमेधाभ्यां नात्र कार्या विचारणा । > गोहत्या ब्रह्म-हत्या च पापं क्षिप्रं प्रणश्यति ॥
गङ्गायाः मानस-गङ्गायाः, चक्रिणः कर-चरणादि-गत-चक्रादि-महाभगअवल् लक्षणस्य देव-देवस्य दिव्याति-दिव्य-महैश्वर्य-माधुर्यस्य श्री-कृष्णस्येत्य् अर्थः । यत्र महद् युद्धं प्रवर्तितं प्रवृत्तम् । घातयित्वा कोपेन गोष्ठोपद्रव-हेतुक-कोप-विशेषेण यः पार्ष्णिघातस् तेन । पृथिव्याः तद् युद्ध-प्रपञ्च-शुश्रूषाम् आशङ्क्याह—वृषभस्येति । मम तल् लीला-कथनावेशे सति तीर्थ-माहात्म्य-कथनं न स्याद् इति भावः । वृषानुकर्तृवधात् शुद्धिं तद् अनुकरणम् इच्छता इच्छन्न् इत्य् अर्थः । महा-तीर्थम् इदं पातालात् समुत्थितम् इति व्याजेन स्वतीर्थम् अहिमदर्शनाय तत्र स्नातस्य । तद् एवं स्नानानन्तरं मूलानुसारेण गोष्ठं प्रविश्य द्वित्रिदण्डान् स्थित्वा श्री-हरिवंशानुसारेण पुनर् अपि रासाय वेनुवाद्यादि-सङ्केतेन राधादिभिः सह हतारिष्टे रासवर्त्मनि तत्र सर्वाभ्यः पृथग् गतस्य तां प्रति स नर्म-वचनम् आह—विपाप्मेति । तत् परिहासाशङ्कया विपाप्मत्वं व्यञ्जयन्न् इत्य् अर्थः । मम तावत् पापं नोत्पन्नम् एव प्रत्युत तीर्थ-निर्माण-पुण्येन कृत-कृत्यः सिद्ध-सर्वार्थोऽभूवम् एतादृश-तीर्थ-निर्माणाभावात्त्वं कथं भद्रे पुण्य-विषये भविष्यसीत्य् अर्थः । विपाप्मत्वम् एव व्यञ्जयति—वृषो वृषाकार-मात्रोऽरिष्ट-नामा पाप-सूचकः सुदुश्चारित्रेण निज-पापत्वेनासुरत्वम् एव यो व्यञ्जयतीत्य् अर्थः । लब्धचिन्तायाः श्री-राधायास् तु तन् मेलने स्नेह एवोदितवान् इत्य् आह—तत्रेति । तत्-प्रसङ्गे समाश्लिष्य स्वाभाविकीं लज्जाम् अपि त्यजन्ती सम्यग् आलिङ्ग्य ततस् तत्-सौदार्हेन स्वयम् अपि तत्र कुण्डं कृतवतीत्य् आह—स्वनाम्मेति । राधेति राधयेत्य् अर्थः । स्वयम् इति ज्ञेयम् । स्वयं कर्त्रीकत्वेनैव तत्-कुण्ड-तुल्यता-प्राप्तेः सखी-लक्ष-सहायत्वात् कुण्डस्य स्वल्प-प्रमाणत्वाच् च । अत एव समाश्लिष्य कृतम् इति तदैव करणं बोध्यते । तच् चारिष्ट-खुर-चूर्णितबहलमृदपसारणया प्रथममीषदेव पश्चात् तु विशालतेति ज्ञेयम् । अदूरतस् तत्-कुण्ड-युग्मतयेत्य् अर्थः । अधुनापि तथा श्री-गोवर्धनेशानकोणान्ते दृश्यत इति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोपीनां नयनोत्सव इति चक्षुस्फारतादिना परिहसनीयो\ऽहम् अधुना यदास्मान् प्रष्टुम् आयाति, तता न दास्यामः प्रष्टुम् इत्य् आशय-संसूचनार्थम् उत्सव-पदम् ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वजातिभिर् गोपैर् इति, वेदस् तवाद् अपि तेषां स्तवने सन्तुष्टिर् अभिप्रेता, गोष्ठं विवेशेत्य् अनेन गोष्ठाद् वहिररिष्ट-वधार्थं किञ्चिद् अग्रेऽभिगत इति । अतश् च अरिष्टो गोष्ठम् आगतः इति गोष्ठान्तिकम् आगच्छद् इति ज्ञेयम् । किं वा, कष्ट-कल्पनया अन्तः प्राविशद् इत्य् अर्थः । सवल इत्य् अरिष्ट-वधेऽनुज-स्नेहात् तेन सहैवावस्थानात्, नयनोत्सव इति तद् दर्शनं विना तासां कथम् अपि सुख-लेशस्याप्य् अनुदयात्, अतोऽरिष्ट-वधार्थं गतस्य तस्यादर्शनात् परमं दुःखं तद् वधानन्तरम् आगमनाच् च परम-सुखम् इति सूचितम् ।
यद् वा, अरिष्ट-वधेन परम-प्रीत्या दर्शन-विशेषान् नयनोत्सव इति । एवं तद्रात्राव् अपि रास-क्रीडा सिद्धेति गम्यते । तथा चोक्तं श्री-वैशम्पायनेन हरि-वंशे—
स चोपेन्द्रो वृषां हत्वा कान्त-चन्द्र निशामुखे । > अरविन्दाभनयनः पुनर् एव रराम ह ॥ [ह।वं। २.२१.१४] इति ।
ततश् च श्री-पार्ष्णि-प्रहाराज्जलोद्गमेनारिष्ट-कुण्डं नाम कुण्डम् एकं जातम् । पश्चाद्-वृषाभ-वधतः श्री-राधा-देव्या कृतेन नर्मणा तत्-सन्तोषार्थं कुण्डम् अन्यज्जगत्सेव्यं तया निष्पादितम्, श्री-भगवता च तन् नाम्ना ख्यापितम् इति विशेषः श्री-वराह-पुराणाद् विज्ञेयः । तत् कुण्ड-द्वयं चाधुनापि श्री-गोवर्धन-पूर्व-प्रान्ते विराजते ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-जातिभिर् गोपैर् इति तेषाम् एवान्तरङ्गत्वं विवक्षितम् । सवल इत्य् अरिष्ट-वधेऽनुज-स्नेहेन स्वक्रीडातस् तस्याप्य् आगमनात् । नयनोत्सव इति । स्वाभाविकत्वम् उक्तं तदानीन्तु महा-शत्रुं मारयित्वागतस्य तस्य वैशिष्ट्यं बोधयति । अत्र यद् उक्तं श्री-हरि-वंशे स चोपेन्द्रो वृषं हत्वा कान्त-चन्द्रे निशामुखे । अरविन्दाभ-नयनः पुनर् एव ररामहेति तत्र गोष्ठ-प्रवेशानन्तरं पुनर् निर्गम्येति ज्ञेयम् इति श्री-भगवतस् तत्र राग-विशेशो दर्शितः यच् चोक्तम् आदि-वाराहे श्री-गोवर्धन-परिक्रमे—
गङ्गायाश् चोत्तरं गत्वा देव-देवस्य चक्रिणः । > अरिष्टेन समं यत्र महद् युद्धं प्रवर्त्तितम् ॥ > घातयित्वा ततस् तस्मिन्न् अरिष्टं वृषा-रूपिणम् । > कोपेन पार्ष्णि-घातेन मह्यास् तीर्थं प्रकल्पितम् ॥ > वृषभस्य वधो ज्ञेय आत्मनः शुद्धिम् इच्छता । > स्नातस् तत्र तदा कृष्णो वृषां हत्वा स-गोपकः ॥ > विपाप्मा राधां प्रवाच कथं भद्रे भविष्यसि । > वृषो हतो मया चायम् अरिष्टः पप-सूचकः ॥ > तत्र राधा समाश्लिष्य कृष्णम् अक्लिष्टकारिणम् । > स्व-नाम्ना विदितं कुण्डं कृतं तीर्थम् अदूरतः ॥ > राधा-कुण्डम् इति ख्यातं सर्व-पाप-हरं शुभम् । > अरिष्ट-राधा-कुण्डाभ्यां स्नानात् फलम् अवाप्नुते ॥ > राज-सूयाश्वमेधाभ्यां नात्र कार्या विचारणा । > गोहत्या ब्रह्म-हत्या च पापं क्षिप्रं प्रणश्यतीति ॥
तत्रायम् अर्थः । गङ्गाया मानस-गङ्गायाः चक्रिणः कर-चरणादि-गत तदादि महा-भगवल् लक्षणस्य देव-देवस्य दिव्याति-दिव्यैश्वर्य-माधुर्यस्य श्री-कृष्णस्येत्य् अर्थः । यत्र महद् युद्धं प्रवर्तितं प्रवृत्तम् । घातयित्वा कोपेन गोष्ठोपद्रव-हेतुक-कोप-विशेषेण यः पार्ष्णि-घातस् तेन पृथिव्यास् तद् युद्ध-प्रपञ्च शुश्रुषाम् आशङ्क्याह वृषभस्येति मम तल् लिला-कथनोवेश सति तीर्थ-माहात्म्य-कथनं न स्याद् इति भावः । वृषानुकर्तृवधात् शुद्धिं तद् अनुकरणम् इच्छता इच्छन् इत्य् अर्थः । महा-तीर्थम् इदं पातालात् समुत्थितम् इति व्याजेन स्वतीर्थ-महिम-दर्शनाय तत्र तत्र स्नातश् च तद् एवं स्नानानन्तरं मूलानुसारेण गोष्ठं प्रविश्य द्वि-त्रि-दण्डान् स्थित्वा श्री-हरि-वंशानुसारेण पुनर् अपि रासाय वेणु-वाद्यादि-सङ्केतेन श्री-राधिकादिभिः सह हतारिष्टे रासवर्त्मनि तत्र सर्वाभ्यः पृथक् गतस्य तां प्रति सनर्म-वचनम् आह विपाप्मेति । तत् परिहासाशङ्कया विपाप्मत्वं व्यञ्जयन्न् इत्य् अर्थः । मम तावत् पापं नोत्पन्नम् एव प्रत्युत तीर्थ-निर्माण-पुण्येन कृत-कृत्यः सिद्ध-सर्वार्थोऽभूवम् । एतादृश तीर्थ-निर्माणाभावात् त्वं कथं भद्रे पुण्य-विषये भविष्यसीत्य् अर्थः । विपाप्मत्वम् एव व्यञ्जयति वृषो० वृषाकार-मात्रोऽरिष्ट-नामा पाप-सूचकः सुदुश्चारित्रेण निज-पापत्वेनासुरत्वम् एव यो व्यञ्जयतीत्य् अर्थः । लब्ध-चिन्तायाः श्री-राधायास् तु तन् मिलने स्नेह एवोदितवान् इत्य् आह—तत्रेति । तत् प्रसङ्गे समाश्लिष्य स्वाभाविकीं लज्जाम् अपि त्यजन्ती सम्यग् आलिङ्ग्य पतस् तत् सौहार्देन स्वयम् अपि तत्र कुण्डं कृतवतीत्य् आह स्वनाम्नेति राधेति राधयेत्य् अर्थः । स्वयम् इति ज्ञेयम् । स्वयं कत्राकत्वेनैव तत् कुण्ड-तुल्यता प्राप्तेः । सखी-लक्ष-सहायत्वात् कुण्डस्य स्वल्प-प्रमाणत्वाच् च । अत एव समाश्लिष्य कृतम् इति तदैव कारणं बोध्यते । तच् चारिष्ट-खुर-चूर्णित-बहुल-मृदपासारणया प्रथमम् ईशद् एव पश्चात् तु विशेषत इति ज्ञेयम् । अदूरतस् तत् कूण्ड-युग्मतयेत्य् अर्थः । अधुनापि तथा श्री-गोवर्धनेशान-कोणान्ते दृश्यत इति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अरिष्ट-वधान्ते राधा-कृष्णयोर् नर्म-संलाप-मयी तत्-कुण्डयोत्पत्ति-कथा पौराणिकी विंशत्या श्लोकैर् निबध्यते । यथा—
मास्मान् स्पृशाद्य वृषभार्दन हन्त मुग्धा > घोरोऽसुरोऽयम् अयि कृष्ण तद् अप्य् अयं गौः । > वृत्रो यथा द्विज इहास्त्व् अयि निष्कृतिः किं शुद्ध्येद् > भवांस् त्रिभुवन-स्थित-तीर्थ-कृच्छ्रात् ॥इ॥ > किं पर्यटामि भुवनान्य् अधुनैव सर्वा > आनीय तीर्थ-विततीः करवाणि तासु । > स्नानं विलोकयत तावद् इदं मुकुन्दः > प्रोच्यैव तत्र कृतवान्बत पार्ष्णि-घातम् ॥इइ॥ > पातालतो जलम् इदं किल भोगवत्या > आयातम् अत्र निखिला अपि तीर्थ-सङ्घाः । > आगच्छतेति भगवद्-वचसा त एत्य > तत्रैव रेजुर् अथ कृष्ण उवाच गोपीः ॥इइइ॥ > तीर्थानि पश्यत हरेर् वचसा तवैवं > नैव प्रतीम इति ता अथ तीर्थ-वर्याः । > प्रोचुः कृताञ्जलि-पुटा लवणाब्धिर् अस्मि > क्षीराब्धिर् अस्मि शृणुतामर-दीर्घिकास्मि ॥इव्॥ > शोणोऽपि सिन्धुर् अहम् अस्मि भवामि ताम्र- > पर्णी च पुष्करम् अहं च सरस्वती च । > गोदावरी रविसुता सरयूः प्रयागो > रेवास्मि पश्यत जलं कुरुत प्रतीतिम् ॥व्॥ > स्नात्वा ततो हरिर् अतिप्रजगल्भ एव शुद्धः > सरोऽप्य् अकरवं स्थित-सर्व-तीर्थम् । > युष्माभिर् आत्म-जनुषीह कृतो न धर्मः > कोऽपि क्षिताव् अथ सखीर् निजगाद राधा ॥वि॥ > कार्यं मयाप्य् अतिमनोहर-कुण्डम् एकं > तस्माद् यदध्वम् इति तद्-वचनेन ताभिः । > श्री-कृष्ण-कुण्ड-तट-पश्चिम-दिश्य् अमन्दो > गर्तः कृतो वृषभ-दैत्य-खुरैर् व्यलोकि ॥विइ॥ > तत्रार्द्र-मृण्-मृदुल-गोल-तटीः प्रति स्व- > हस्तोद्धृता अनतिदूर-गता विधाय । > दिव्यं सरः प्रकटितं घटिका-द्वयेन > ताभिर् विलोक्य सरसं स्मरते स्म कृष्णः ॥विइइ॥ > प्रोचे च तीर्थ-सलिलैः परिपूरयैतन् > मत्-कुण्डतः सरसिजाक्षि सहालिभिस् त्वम् । > राधा तदा न-न-न-नेति जगाद् यस्मात् > त्वत्-कुण्ड-नीरम् उरु-गो-वध-पातकाक्तम् ॥इx॥ > आहृत्य पुण्य-सलिलं शत-कोटि-कुम्भैः > सख्य्-अर्बुदेन स मानस-जाह्नवीतः । > एतत् सरः स्व-मधुना परिपूरयामि > तेनैव कीर्तिम् अतुलां तनवानि लोके ॥x॥ > कृष्णेङ्गितेन सहसित्य समस्त-तीर्थ- > सख्यस् तदीय-सरसो धृत-दिव्य-मूर्तिः । > तुष्टाव तत्र वृषभानु-सुतां प्रणम्य > भक्त्या कृताञ्जलि-पुटः स्रवद्-अस्र-धारः ॥xइ॥ > देवि त्वदीय-महिमानम् अवैत सर्व- > शास्त्रार्थ-विन् न च विधिर् न हरो न लक्ष्मीः । > किं त्व् एक एव पुरुषार्थ-शिरोमणिस् त्वत्- > प्रस्वेद-मार्जन-परः स्वयम् एव कृष्णः ॥xइइ॥ > यश् चारु-यावक-रसेन भवत्-पदाब्जम् > आरज्य नूपुरम् अहो निदधाति नित्यं । > प्राप्य त्वदीय-नयनाब्ज-तट-प्रसादं > स्वं मन्यते परम-धन्यतमं प्रहृष्यन् ॥xइइइ॥ > तस्याज्ञयैव सहसा वयम् आजगाम > तत्-पार्ष्णि-घात-कृत-कुञ्ज-वरे वसामः । > त्वं चेत् प्रसीदसि करोषि कृपा-कटाक्षं > तर्ह्य् एव तर्ष-विटपी फलितो भवेन् नः ॥xइव्॥ > श्रुत्वा स्तुतिं निखिल-तीर्थ-गणस्य तुष्टा > प्राह स्म तर्षमयि वेदयतेति राधा । > याम त्वदीय-सरसीं सफला भवाम > इत्य् एव नो वर इति प्रकटं तदोचुः ॥xव्॥ > आगच्छतेति वृषभानु-सुता स्मितास्या > प्रोवाच कान्त-वदनाब्ज-धृताक्षि-कोणा । > सख्योऽपितयः कृत-सम्मतयः सुखाब्धौ > मग्ना विरेजुर् अखिला स्थिर-जङ्गमाश् च ॥xवि॥ > प्राप्य प्रसादम् अथ ते वृषभानुजायाः > श्री-कृष्ण-कुण्ड-गत-तीर्थ-वराः प्रसह्य । > भित्त्वेव भित्तम् अतिवेगत एव राधा- > कुण्डं व्यधुः स्व-सलिलैः परिपूर्णं एव ॥xविइ॥ > प्रोचे हरिः प्रियतमे तव कुण्डम् एतन् > मत्-कुण्डतोऽपि महिमाधिकम् अस्तु लोके । > अत्रैव मे सलिल-केलिर् इहैव नित्यं > स्नानं यथा त्वम् असि तद्वद् इदं सरो मे ॥xविइइ॥ > राधाब्रवीद् अहम् अपि स्व-सखीभिर् एत्य > स्नास्याम्य् अरिष्ट-शत-मर्दनम् अस्तु तस्य । > योऽरिष्ट-मर्दन-सरस्य् उरु-भक्तिर् अत्र > स्नायाद् वसन् मम स एव महा-प्रियोऽस्तु ॥xइx॥ > रासोत्सवं प्रकुरुते स्म च तत्र रात्रौ > कृष्णाम्बुदः कृत-महा-रस-हर्ष-वर्षः । > श्री-राधिका-प्रवर-विद्युद्-अलङ्कृत-श्रीस् > त्रैलोक्य-मध्य-वितती-कृत-दिव्य-कीर्तिः ॥xx॥ इति ।
ककुद्मिनं वृषासुरम् ॥१५॥
॥ १०.३६.१६ ॥
अरिष्टे निहते दैत्ये कृष्णेनाद्भुत-कर्मणा ।
कंसायाथाह भगवान् नारदो देव-दर्शनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
कामं व्रजे वसन्तं तं कृष्णं तेन तु विस्मृतम् ।
नारदः स्मारयाम् आस कंसं दूत-गिर् एव तु ॥
तद् आह—अरिष्ट इति । देव-दर्शनो देवर्षिः । यद्वा एवं कथिते एवं भविष्यतीति साक्षाद् देव-वद्-दर्शनं ज्ञानं यस्य सः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कामं स्वेच्छया । यद् वा, कस्य कंसस्यामं रोगवत् तन् नाशकम् । तेन कंसेन । दूतस्य गिर् एव न तु स दूत इतीवेन ज्ञायते । कृतान्तोऽनन्तम् अस्मृतिम् इति पाठे कृतान्तः कालाप्य् यूनो हीनो यस्मात् तम् । पाठा अनन्तम् इयत्ताशून्यम् । किं भूतं कंसम्—न स्मृतिर् व्यवहाराकुलत्वाद् यस्य स तथा तम् इत्य् अर्थः ।*। कथान्तरद्योतनायायं श्लोकः । तत् नारदवृत्तम् । अथ अरिष्ट-हननोत्तरम् । पश्यति सर्वम् इति दर्शनः, देवश् चासौ दर्शनश्चेति वेद-दर्शन इत्य् अभिप्रेत्यैव स्वामि-चरणैर् उक्तम्—देवर्षिर् इति । देवर्षित्वे तु कर्दमादिवत् तपोज्ञानादि-निष्ठत्वम् एवायाति न तु देवकार्य-साधाकत्वम् अत आह—यद् वेति । देवानाम् इन्द्रादीनाम् इव दर्शनम् अतीन्द्रियं ज्ञानं यस्येति । यद् वा, देवस्य हरेर् दर्शनं यस्य । देवं हरिं दर्शयतीति वा । देवानां दर्शनं मतं यस्येति वा । एतेन नारदस्य देवकार्य-साधकत्वं ज्ञयते, न त्व् असुर-कार्य-कर्तृत्वम् इति । अरिष्ट इति । निहत इत्य् अतीत-निर्देशाद् अत्र चिराद् इति ज्ञेयम् । गोवर्धन-गतरासस्य वसन्त-मध्योद्भवत्वेन कंसवधस्य तु शिव-रात्रि-चतुर्दशी-गतत्वेन प्रसिद्धेः । गोष्ठे विषयेऽद्भुतकर्मणेति पूतना-वधाद्य् अरिष्टवधान्ताद्भूत-कर्मणा कंसं प्रति श्री-नारदेन कथनस्याभिप्रायेण देव-दर्शन इति तैर् व्याख्यातम् । अत्र प्रथमेऽर्थे पश्यतीति दर्शनो मन्त्र-दर्शीति ऋषि-वाचिता, द्वितीये प्रति-कल्पम् एव गोकुले प्रकट-लीलेयं यादव-पाण्डवादि-भक्त-गण-रक्षानुरोधेनैव तावद् एव नर-लीलेन भगवता क्रियते नाधिकेति सा समाप्तैव । संप्रति यादवाः परम-दुःखिनो देवाश्चोद्विग्ना अतः श्री-भगवता कंस-वधस्याविलम्बकार्यत्वं ज्ञातं, तस्माद् अवसरोऽयम् इति तथा कथयामि यथा कंसस् तम् अत्रानयेत् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोष्ठे विषये, अद्भुत-कर्मणेति तादृश-लीलया तद् धननात् । यद् वा, अद्भुतानि कर्माणि पूतना-वधादीनि यस्य, तेनेति तत्-तत्-कर्मणां कंसं प्रति नारदेन कथनस्याभिप्रायेण । अथ अरिष्ट-हननानन्तरम् एवेत्य् अर्थः, पूर्ववद् वा, देव-दर्शन इत्य् अधुना प्रायोऽभिव्यक्ततया गोकुल-लीलाः समाप्ताः, यादवाः परम-दुःखिनो देवाश्चोद् विग्नाः अतः कंसोऽवश्यम् एव वध्यः, तद् अवसरश्चायं जातः, तत्-तथा करोमि, यथा कंसः श्री-कृष्णमत्रानयेत्, ततश् चेमं स्वयम् असौ हनिष्यतीति विचार्येत्य् अर्थः । तत्र हेतुः—भगवान् सर्वज्ञ इति ।
यद् वा, ननु, भक्ति-रसिकोऽसौ श्री-गोकुल-वासिनाम् एव दुःखं कर्तुं नार्हतीत्य् आशङ्क्याह—भगवान् भगवद् अवतारत्वात् परम-भक्तत्वेन तत्-सादृश्याद् वा । अनेन2 व्रजे नित्य-विहारं सर्व-गोप्यम् अपि जानात्येवेत्य् अर्थः । अतस् तं प्रत्यसूया नोपयुक्तेति भावः । यद् वा, देवान् एव पश्यति स्वीयतयेति तथा सः, देवर्षित्वाद् देव-प्रयोजन-सिद्धये तथा-करोद् इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकृतम् अनुसरामः अरिष्ट इति सार्ध-द्वयकम् । निहत इत्य् अतीत-निर्देशाद् अत्र चिराद् इति ज्ञेयं गोवर्धन-गत-रासस्यास्य वसन्तम् अध्योद्भवत्वेन कंस-वधस्य तु शिव-रात्रि-चतुर्दशी-गततेन प्रसिद्धेः गोष्टे विषयेऽद्भुत-कर्मणेति पूतना-वधाद्य् अरिष्ट-वधान्तद्-भूत-कर्णा कंसं प्रति श्री-नारदेन कथनस्याभिप्रायेण । देव-दर्शन इति तैर् व्याख्यातम् अत्र प्रथमार्थे पश्यतीति दर्शनो मन्त्र-दर्शीति ऋषि-वाचिता । द्वितीये प्रति-कल्पम् एव गोकुले प्रकट-लीलेयं यादव-पाण्डवादि-भक्त-गण-रक्षानुरोधेनैव तावद् एव नर-लीलेन श्री-भगवता क्रियते नाधिकेति सा समाप्तैव । संप्रति यादवाः परम-दुःखिनो देवश्चोद्विग्नाः अतः श्री-भगवता कंस-वधस्याविलम्बकार्यत्वं जातम् । तस्मात् तद् अवसरोऽयम् इति तथा कथयामि यथा कंसस् तम् अत्रानयेत् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : विवेश गोष्ठं सबलो गोपीनां नयनोत्सव इत्य् अत्रोत्सव इति करिष्यमाण-परिहास सूचकम् । यदास्माकम् अभ्यर्णे समायाति, तदा मास्मान् स्प्राक्षीर्यतोऽयं वृषो अतस्त्वयेति । नयनस्फारतादिना तथाविधोत्सवो जात इति भावः ॥१.४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवः परमेश्वर इव पश्यति कृष्णलीलातत्त्वं जानातीति सः । व्रजलीलासमाप्तिमवधार्य माथुरीलीलामाविर्भावयितुं कंसद्वारैव कृष्ण मथुरामानेतुं मुक्त्युत्थापनविचक्षण इत्य् अर्थः । किमाहेत्यत आह—देवक्या अष्टमगर्भत्वेन प्रसिद्धां कन्यां यशोदायाः सुतामाह । यशोदायाः सुतत्वेन प्रसिद्धं कृष्णञ्च देव्यक्याः सुतमाह । नन्दसुतत्वेन प्रसिद्धं रामञ्च रोहिण्याः पुत्रम् आह ।
ननु, तौ वसुदेवसुतौ चेत् केन व्रजं प्रापितौ तत्र् आह—वसुदेवेनेत्यादि ॥१६.१७॥
॥ १०.३६.१७ ॥
यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च ।
रामं च रोहिणी-पुत्रं वसुदेवेन बिभ्यता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आप्तेनेव नारदेनोक्तम् आह—यशोदाया इति । देवक्या अष्टम-गर्भत्वेन प्रसिद्धां कन्यां यशोदायाः सुताम् आह—यशोदायः सुतत्वेन प्रसिद्धं कृष्णं देवक्याः सुतम् आह—रोहिणी-पुत्रं रामं च देवक्याः सप्तमं सुतम् आह—यद्वा नन्द-सुतत्वेन प्रसिद्धं रामं च वसुदेव-भार्याया रोहिण्याः पुत्रम् आह—तौ वसुदेव-सुतौ चेत् कथं व्रजं गतौ तत्राह—वसुदेवेनेति ॥१७.१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आप्तेन यथार्थ-वक्त्रा । अप्रसिद्धेः क्लिष्ट-कल्पनां मत्वाह—यद् वा, वसुदेव-सुतत्वे आक्षिपति—वसुदेवेति । तत्राक्षेप उत्तरम् आह । त्वत्त इति शेषः । ततश् चैनं स्वयम् एवासौ हनिष्यतीति श्री-कृष्ण-लीलाशैलीं देववद्-ब्रह्मादिवज् जानन्न् इति रामं रोहिण्याः पुत्रम् अपि देवक्या एवेति गर्ग-सङ्कर्षणम् अपि कथयामासेति ज्ञेयम् । बिभ्यता त्वत्त इति । भीरुत्वान् न तव वध्य इति भावः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णं च देवक्या एवेति रामं रोहिण्याः पुत्रं देवक्या अपीत्य् एव—शब्दार्थः । इति गर्भ-सङ्कर्षणम् अपि कथयामासेति ज्ञेयम् । विभ्यता त्वत्त इति भीरुत्वान् न तव वध्यः स्याद् इति भावः । स्वस्य मित्र इति परस्परं स्नेह-विशेषो बोधितः । वै प्रसिद्धम् एवैतत् सर्वं केवलं त्वम् एव मूढो न जानासीत्य् अर्थः, एतच् चाप्ततार्थम् उक्तम्, पुरुषा भृत्या हता इति लक्षणेन स्वोक्तं दृढीकृतम्, तथा कोपो महावलतया भयं च तस्य नितरां जनितम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चैव खयम् एवादौ हनिष्यतीति श्री-कृष्ण-लीलाशैली देववद् ब्रह्मादिवज् जानन्न् इत्य् अर्थः । रामं रोहिण्याः पुत्रम् अपि देवक्या एवेति गर्भ-सङ्कर्षणम् अपि कथयामासेति ज्ञेयम् । बिभ्यता त्वत्त इति भीरुत्वान् न तव वध्यः स्याद् इति भावः । स्वस्य मित्र इत्य् असाधारण-स्नेह-विशेषो बोधितः । स्वो ज्ञातिश् चासौ मित्रञ्चेति वा । वै प्रसिद्धम् एवैतत् सर्वं केवलं त्वम् एव मूढो न जानासीत्य् अर्थः एतञ्चाप्ततार्थम् उक्तम् । पुरुषा आप्तजना हता इति लक्षणेव स्वोक्तं दृढीकृतम् । तथा महा-बलत्व-सूचनया भयं च तस्य नितरां जनितम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३६.१८ ॥
न्यस्तौ स्व-मित्रे नन्दे वै याभ्यां ते पुरुषा हताः ।
निशम्य तद् भोज-पतिः कोपात् प्रचलितेन्द्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वस्य मित्रे विश्वसनीये सुहृदि । याभ्यां राम-कृष्णाभ्याम् । ते तव । पुरुषा नियोग-कारिणास् तृणावर्तादयः । तत् नारदोक्तम् । पुरुषा आप्तजनाः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भोज-पतिर् इति महैश्वर्यमत्त्वम् उक्तम्, श्लेषेण भुञ्जते बहुलम् इति भोजास् तेषु श्रेष्ठ इति बह्वाशित्वेनाल्पबुद्धिर् इति । अतः प्रचलितं क्षुभितम् इन्द्रियं मनो यस्य स इति विवेक-हानिर् उक्ता ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रचलितं क्षुभितम् इन्द्रियं मनो यस्य सः इति विवेक-हारिर् उक्ता ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असिमादत्तेति वसुदेवस्य परोक्षम् एव ॥१८॥
॥ १०.३६.१९ ॥
निशातम् असिम् आदत्त वसुदेव-जिघांसया ।
निवारितो नारदेन तत्-सुतौ मृत्युम् आत्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निवारित इति । हते वसुदेवे तौ पलायेताम् अतो बध्यताम् इति मन्त्रं वदता नारदेन निवारित इति ॥१९.२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ राम-कृष्णौ । अत हेतोः । पलायणाभावार्थम् इत्य् अर्थः । तत्-सुतौ वसुदेव-सुदेवसुतौ । भार्यया देवक्या वसुदेव-सुदेवसुतौ । भार्यया देवक्या वसुदेवम् इति शेषः । निवारित इति । हते पितरि तन् निवेशायावसर-प्रतीक्षाम् अपि कुर्वीयातां बद्धयोस् तु पित्रोर् मोचनार्थम् अद्यश्वो वागच्छेतां किञ्चाधुनातनीं जिघांसां तयोर् वसुदेवो न ज्ञापनीयस् तथा सति स्वमित्रं नन्दं प्रति तेनोक्तेः स सपुत्र एव पलायिष्यत इत्य् अतो वसुदेव-देवक्योर् वन्धनम् एवाधुना कृत्वा केनापि मिषेण राम-कृष्णौ मथुराम् आनीयेताम् इति मन्त्रं ददतेति ज्ञेयम् । न च वसुदेव-देवक्यौ बन्धयता नारदेन तयोर् विप्रियं कृतम् इति वाच्यम्, प्रत्यत प्रियम् एव कृतं परमोत्कण्ठाभ्यां ताभ्याम् आयत्यां स्व-पुत्र-मुख-दर्शन-लाभेन स मुनिराशीः शत-सम्प्रदान-पात्रीकरिष्यत एवेति मुनेस् तद् विषयकापराधो नाभूद् इति ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ववन्धेति—हते किल पलायिष्येते, बद्धे च पितरि तन् मोचनार्थम् अत्रागच्छेताम् इति श्री-नारद-मन्त्रणयैवेति ज्ञेयम्, सह भार्याया देवकी-सहितम्, एतच् चागमनेऽविलम्बार्थं परम-दुष्टत्वाद् एव वा ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बबन्धेति । हते किल पितरि तन् निवेशायावसर-प्रतीक्षापि कुर्वीयातां बद्धयोस् तु पित्रोर् मोचनार्थम् अत्राद्य श्वो वागच्छेताम् इति श्री-नारद-मन्त्रणयैवेति ज्ञेयम् । सह भार्यया देवकी-सहितम् एतच् चागमनाविलम्बार्थं परम-दुष्टत्वाद् एव व ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निवारित इति हते वसुदेवे तौ पलायेताम्, किञ्चाधुना तज्जिघांसाम् अपि वसुदेवो न ज्ञापनीयः । तथा सति स्वमित्रं नन्दं प्रति तेनोक्ते तद्वृत्तान्ते नन्दः सपुत्र एव पलायिष्यत इत्य् अतो वसुदेवदेवक्योर्बन्धनमेवाधुना कृत्वा केनापि मिषेण रामकृष्णौ मथुरामानीयेताम् इति मन्त्रं ददतेति ज्ञेयम् । नच वसुदेवदेवक्यौ बन्धयता नारदेन तयोर्विप्रियं कृतम् इति वाच्यम्, प्रत्युत प्रियमेव कृतम्, परमसोत्कण्ठाभ्यां ताभ्याम् आयत्यां स्वपुत्रमुखदर्शनानन्दलोभेन समुनिराशीःशत-सम्प्रदान-पात्रीकरिष्यत एवेति मुनेस् तद्-विषयकोऽपराधो नाभूद् इति ज्ञेयम् ॥१९॥
॥ १०.३६.२० ॥
ज्ञात्वा लोह-मयैः पाशैर् बबन्ध सह भार्यया ।
प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आभाष्य बहुधाक्त्वा । भवता मद्भृत्येषु पूज्येन यद्य् अप्य् अत्रभत् तत्रभवच् छब्दावेव पूज्येऽर्थे स्तस्तथापि क्वचित् केवलोऽपि प्रयुज्यते सर्वे सर्वार्थ वाचका इति न्यायम् आश्रित्येति ध्येयम् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रतियाते त्व् इति—केशि-प्रेषण-मन्त्र-भङ्ग-शङ्कया किं वा, तत्-प्रेषणस्यापि निवारण-शङ्कया आभाष्य—भो भ्रातर् महा-वीरेत्य् एवं सम्बोध्य दूतगिरा प्रचोदितः इति श्री-पराशर-वैशम्पायनयोर् मतम् । भवतेत्यादरात्, एवम् अग्रे भवद्भ्याम् इति च, गोकुल-रमणाद्रामः, मधु-वंशोद्भवत्वात् माधवश् च तौ । यद् वा, स्वसुहृत्परित्यागेन गोकुलम् एव रमयत इति रामौ यौ माधवौ इति दोष आरोपितः, मात्सर्येण तत्-तन्-नामनी न गृहीते च । यद् वा, तत्-तन् नामा प्रसिद्धत्वाद् अवज्ञया संज्ञैवोक्ता । एवम् अग्रेऽपि ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रतियाते त्व् इति । केशि-प्रेषणं मन्त्र-भङ्ग-शङ्कया किं व तत् प्रेरणस्यापि निवारणाशङ्कया आभाष्य भो भ्रातर् महा-वीरेत्य् एवं सम्बोध्य दूत-गिरा समादिश्येति श्री-पराशर-वैशम्पायनयोर् मतम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाग्देवी-मते हन्येतां प्राप्येतां तत्र लीयताम् इत्य् अर्थः ॥२०॥
॥ १०.३६.२१ ॥
प्रेषयाम् आस हन्येतां भवता राम-केशवौ ।
ततो मुष्टिक-चाणूर- शल-तोशलकादिकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः केशि-प्रेषणोत्तरम् । मुष्टिकादि-नाम्नो मल्लान् । हस्ति-पानाधोरणिकान् ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदि-शब्दाद् अन्ये मल्लाः कङ्कादयश् च भ्रातरः, सम्यक् सानुग्रहं निभृतम् आहूय ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मम निदर्शितो नारदेन ॥२१॥
॥ १०.३६.२२ ॥
अमात्यान् हस्तिपांश् चैव समाहूयाह भोज-राट् ।
भो भो निशम्यताम् एतद् वीर-चाणूर-मुष्टिकौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् वक्ष्यमाणम् । आसाते तिष्ठतः आनकदुन्दुभेर् इति—तज् जन्मवृत्तान्तेन नारदोक्तिर् एव प्रमाणितेति भावः । नारदोक्तिस् तु इमौ त्वां वधिष्यतः इति लक्षणा ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भो भो इत्य्-आदिकं परमावधानार्थम्, वीरेति प्रोत्साहनाय, किल निश्चितम्, श्री-नारदोक्तौ प्रामाण्यात्, आनकदुन्दुभिर् इति तज् जन्म-पूर्ववृत्तेन तद् एव प्रमाणितम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.३६.२३ ॥
नन्द-व्रजे किलासाते सुताव् आनकदुन्दुभेः ।
राम-कृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मह्यं मम निदर्शितो विधात्रा नारदेन वा ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् ताभ्याम् । विधातृ-दर्शितमृत्यु-ज्ञानं तु योगिनाम् एवात आह—नारदेन वेति । यद्य् अपि कंसेन वीर-पदेनान्येऽप्य् आमन्त्रितास् तथापि द्वयोर् नाम-ग्रहणात् तौ चाणूर-मुष्टिकौ गोकुलं, गन्तुं सज्जौ दृष्ट्वा कंसो वक्ति—इह मथुरायाम् । निदर्शितः कथितः । सम्प्राप्ताव् इति तत्र तस्य
स्थानं प्रधानं न बलं प्रधानं > स्थाने स्थितः कापुरुषोऽपि शूरः । > जानाम् इ नागेन्द्रं तव प्रभावं > कण्ठे स्थितो गर्जसि शङ्करस्य ॥
इत्य् उक्तेः स्व-स्थान-स्थितत्वेन नाशासम्भवोऽपीतीह प्राप्तौ हन्येताम् । गीर्-मते, प्राप्त्येताम् इति तत्र नीयताम् इत्य् अर्थः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् ताभ्यां सकाशात्, किल निश्चये, निदर्शितो लक्षणेनोक्त इत्य् अर्थः । यद् वा, किल वितर्के, नितरां दर्शितो ज्ञापितः । इह संप्राप्ताव् इति—तत्र तस्य स्थानवलेनानिष्टसाधने भवतोरशक्तेर् इति भावः । मल्ललीलयेति—अन्यथा सावधानत्वे तयोर् अनिष्टस्य दुःशकत्वाद् इति भावः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मम निर्दर्शितो नारदेन ॥२३॥
॥ १०.३६.२४ ॥
भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ल-लीलया ।
मञ्चाः क्रियन्तां विविधा मल्ल-रङ्ग-परिश्रिताः ।
पौरा जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रजं गन्तुम् उद्यतौ ताव् अह, भवद्भ्याम् इति । मञ्चा उत्तुङ्ग-स्तम्भाभिरचित-स्थानानि ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मल्ल-रङ्गस्य परितश्चिताश्चतुर्दिषु वेष्टन--रूपेण स्थिता इत्य् अर्थः । वस्तुतस् तु तयोः पलायन-निरोधार्थम् एव मञ्च-वृत्तिः कृता तेनेति ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् तद् वञ्चनार्थं मञ्चाद्य् उत्सव-सामग्री साध्यताम् इत्य् आह—मञ्चा इति । विविधा राजामात्यादि-योग्य-भेदेन बहु-प्रकाराः, विधिना इति पाठेऽपि स एवार्थः, मल्लानां रङ्ग-क्रीडा-स्थानम्, तस्य परितः श्रिताश् चातुर्दिक्षु वेष्टन--रूपेण स्थिता इत्य् अर्थः । किम् अर्थम् ? तद् आह—पौरा इति, पौराः पुरवर्तिनो जना जानपदाश् च देशवर्तिनः, स्वैरेण स्वच्छन्दतया, न तु वलाज्जिघांसया, संयुगं मल्ल-युद्धम्, इति पौरादीनां वञ्चन-प्रकार-प्रतिपादनम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तयोर् वञ्चनार्थम् उत्साह-वर्धनार्थं च । महोत्सव-प्रसिद्धिः क्रियताम् अन्यथा तौ पलायिष्येते इत्य् आह—मञ्चा इति ॥२४॥
॥ १०.३६.२५ ॥
महामात्र त्वया भद्र रङ्ग-द्वार्य् उपनीयताम् ।
द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहितौ शत्रू ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महा-मात्र हस्तिप महामात्रोति-विस्तारे हस्तिपे चावनौ स्त्रियाम् इति निरुक्ति-कोशे । रङ्कोक्तीराग-नृत्यायोधन-भूमित्र पुष्वथ इति कोशात् । कुवलयं भू-मण्डम् आपीडयतीति । यद् वा, कुवलयं कैरव-वनं, वा कुवलयं कैरवम् आपीडे शेखरे यस्य स तथा । हे भरेति । त्वं चतुर-शीरोमणिरसीति प्रोत्साहनाय सम्बुद्धिर् इयम् । ममाहिताव् इति—
ननु, तौ तु त्वद् भागिनेयावेवेति चेत् तत्रं तं हरिवंशीय-वृत्तान्तेन नारदाच्छ्रुतेन हस्तिपं कंसो बोधयामास । तच् च सौभपतिद्रुमिल-दानवाद् उग्रसेन-रूपधरात् तत्-पत्न्यां मज् जन्मेति नारदेन मह्यम् उक्तम् इति । अतस् तौ शत्रू मे, नाहं यादवः किन्तु दानव एव, तौ च दानवीरी एवेति तत्त्वम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वा, मल्लानां प्रियतमानां श्रमोत्पादनेन मत्त-हस्तिनैव सुखं तत् साध्यम् इत्य् आशयेनाह—महेति । भद्र ! हे चतुरेति प्रोत्साहयति । एतद् अर्थमेवास्मिन् स्वयम् अनेन श्री-नारदाच्छ्रतमात्म-जन्म सौभपति-द्रुमिलाख्य-दानवादुग्रसेनस्य रूप-धरात् तत्-पत्न्यां यथा-वृत्तं तत् कथितम्, तद् विशेषः श्री-हरि-वंशे वर्तत एव । रङ्गस्य द्वारि उप समीपे नीयताम्, प्रायो राज-बाहन-हस्तिनो द्वार्येव स्थापनरीतेः सङ्कट-स्थानत्वाद् इति गूढो दुष्ट-भावः । कुवलयं पृथ्वी-मण्डलम् आपीडो मुकुट-वल्लीलया शिरोन्यासो यस्य स इति महा-वलिष्ठत्वं ध्वनितम् । यद् वा, कुवलयं आ सम्यक् पीडयतीति तथा सः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो किं वा, मल्लानां प्रियतमानां श्रमोत्पादनेन मत्त-हस्तिनैव सुखं तत् साध्यम् इति बहिर् व्यञ्जयन्न् अन्तस् तु विभ्यदेवाह । महेति । भद्र ! हे चतुरेति प्रोत्साहयति एतद् अर्थम् एवास्मिन् स्वयम् अनेन श्री-नारदाच्छ्रुतम् आत्म-जन्म सौभपति द्रुमिलाख्य-दानवाद् उग्रसेनस्य रूपधरात् तत् पत्न्यां स्व-दुर्जन्म यथा वृत्तं तथा कथितं तद् विशेषः श्री-हरि-वंशे वर्तत एव । रङ्गस्य द्वार्युपसमीपे नीयतां प्रायो राज-वाहन-हस्तिनो द्वार्येव स्थापन-रीतेः सङ्कट-स्थानत्वाद् इति तु गूढो दुष्ट-भावः । वाग् देवी-मते जहीति पूर्ववत् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-मात्र ! हे हस्तिनियन्तः अहितौ शत्रू ॥२५॥
॥ १०.३६.२६ ॥
आरभ्यतां धनुर्-यागश् चतुर्दश्यां यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मीढुषे वरदाय ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धनुर् यागो धनुषोऽर्चाबलि-दानादिरूपः । भूतराजाय भैरव-विग्रह-धारिणे रुद्राय । मीढषे समर्थायाभीष्टदात्रे वा । न केवलं लौकिक एवोपायः कार्यः किन्तु दैवोऽपीत्य् आह—आरभ्यताम् इति । भूतराजाय भूतेश्वराय मथुरापालाय तस्य धनुषोऽपि दैवताय श्री-रुद्राय । मेहति सिञ्चति वरदानेन तर्पयति । निजार्चकम् इति तस्मै ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् इष्ट-देव-सेवयैवेदं सिध्यतीति मत्वा । यद् वा, तौ कुतोऽत्रागमिष्यत इत्य् अपेक्षायां धनुर् यागोत्सवे मल्ल-क्रीडा-दर्शन-व्याजेनानेयाव् इति मन्त्रम् आह—आरभ्यताम् इति । भूतराजाय भूतेश्वर-संज्ञाय मथुरापालाय श्री-रुद्राय कस्मैचिद्भूत-गण-श्रेष्ठाय वा ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केवलं लौकिक एवोपायः कर्तव्यः । किन्तु दैवोऽपि क्रियतां येन तन् मूलकोत्सवे मल्ल-क्रीडा-दर्शन-व्याजेन तावप्यानेयौ स्याताम् इत्य् आशयेनाह । आरभ्यताम् इति । भूत-राजाय भूतेश्वर-संज्ञाय मथुरा-पालाय तस्य धनुषोऽपि दैवताय श्री-रुद्राय मीदुषे । मेहति सिञ्चति वरदानेन तर्पयतीति तस्मै । इयम् अपि भयोक्तिर् एव ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ममाभ्युदयार्थं विशसन्तु च्छित्वा यच्छन्तु भूत-राजाय भूतेश्वराय मीढुषे वरदाय ॥२६॥
॥ १०.३६.२७ ॥
इत्य् आज्ञाप्यार्थ-तन्त्र-ज्ञ आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिं ततोऽक्रूरम् उवाच ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थ-तन्त्र-ज्ञोऽर्थ-सिद्धान्तम् एव जानातीति ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्थ-सिद्धान्तम् एवेत्य् अर्त्रैवकारेण धर्मादि-ज्ञान-राहित्यम् उक्तम् । तन्त्रं कुटुम्बकृत्ये स्यात् सिद्धान्ते चैषधोत्तमे । प्रधाने तन्तुवाये च शष्त्र-भेदे परिच्छदे । श्रुति-शाखान्तरे हेतुवुभयार्थ-प्रयोजके । इति कर्तव्यतायां च इति मेदिनी । ततः पाणि-ग्रहणानन्तरम् । अर्थो द्वितीय-पुरुषार्थस् तस्यैव तन्त्रं सिद्धान्तं जानाति न तु धर्म-मोक्षयोर् इत्य् असूच्यनेन । यदुपुङ्गवम् इति—सर्वेषां यदूनाम् आस्थास्पदमतोऽस्यैव योग्यता न तु केवलं मदीयानाम् इति । वस्तुतस् तु यदूनाम् एव हितकरः न तु तस्य, स्वस्य दानवमननाद् इति भावः । पाणिग्रहणं तु केवल-स्नेह-प्रदर्शनार्थं निजोक्ति-पालनार्थम् एवेति ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्थो द्वितीय-पुरुषार्थः, तत्र तन्त्रं सिद्धान्तः किं वा, तस्य शास्त्रम् एव, न तु धार्मादि-शस्त्रं जानातीति तथा सः, स्व-पाणिना तस्य पाणिं गृहीत्वेति स्नेह-प्रदर्शनार्थम् अवश्यम् आत्मोक्त-प्रतिपालनार्थं च । अत एव तत्र निजपरिवार-गोष्ठी-मध्ये, ह स्फुटम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्थो द्वितीय-पुरुषार्थः । तत्र तन्त्रं सिद्धान्तः । किं वा, तस्य शास्त्रम् एव न तु धर्मादि-शास्त्रं जानातीति तथा सः । यदु-पुङ्गवम् इति सर्वेषाम् एव यदूनाम् अयम् आस्थास्पदं ततोऽस्यैवात्र योग्यता न तु केवलमदीयानाम् इति तद् विचाराभिप्रायेणोक्तम् । गृहीत्वेति स्नेह-प्रदर्शनार्थम् अवश्यम् आत्मोक्त-प्रतिपालनऋथं च । अत एव तत्र तस्मिन्न् एव निज-परिवार-गोष्ठी-मध्ये तत इति पाठे स एवार्थः ह स्हुटम् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थ-तन्त्रं द्वितीय-पुरुषार्थस्यैव सिद्धान्तम्, न तु धर्म-मोक्षयोर् जानातीति सः ॥२७॥
॥ १०.३६.२८ ॥
भो भो दान-पते मह्यं क्रियतां मैत्रम् आदृतः ।
नान्यस् त्वत्तो हिततमो विद्यते भोज-वृष्णिषु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे दान-पते अक्रूर, मैत्रं मित्र-कृत्यं त्वया क्रियताम् । त्वत्तोऽन्य आदृतः सादरो हित-तमश् च न विद्यत इति ॥२८.३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दानपते अक्रूर-हस्ते काचिद् डानपतित्व-सम्पादिका रेखास्ति, तेन भावि-दान-पतित्वम् आलक्ष्यामन्त्रित इति प्रतीयते । यद् वा, कंसस्य दानाध्यक्ष एव स इति ज्ञेयम् । यद् वा, दानम् अस्ति येषां ते दाना उदाराः । मत्वर्थीयोऽच् । तेषां पते । भो-भो इत्य् आदरे वीप्सा । दानपते हे वदान्यवरेत्य् अर्थः । अतो मद् अर्थितम् अपि त्वयावश्यं सम्पाद्यम् इति भावः ।
ननु, भोजराज कुतो माम् एव प्रेयसि सर्व यादवास् त्व आज्ञाकारिणस् तत्राह-आदृत इत्य्-आदि । त्वत्तोऽन्यो नैपुण्येन कार्य-साधको न कोऽप्य् अस्तीत्य् अर्थः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भो भो इत्य् आदरे वीप्सा । दानपते ! वदान्यवरेत्य् अर्थः । अतो मद् अर्थितम् अपि त्वयावश्यं सम्पाद्यम् इति भावः । मह्यं मम मैत्रं मित्रकृत्यं हितम् इत्य् अर्थः
ननु, भोज-राज ! माम् एव कुतः प्रेरयसि, सर्वे यादवास् तवाज्ञाकारिणस् तत्राह—आदृत इत्य्-आदिना ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भो भो इत्य् आदरे वीप्सा दानपते ! हे वदण्यवरेत्य् अर्थः । अतो मद् अथितम् अपि त्वयावश्यं सम्पाद्यम् इति भावः । मद् अर्थं मित्रोचित-कृत्यं क्रियताम् । ननु, भोज-राज ! कुतो माम् एव प्रेयसि सर्वे यादवास् तवाज्ञाकारिणस् तत्राह । आदृत इत्य्-आदिना ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मां प्रसादयितुं मैत्रं मित्र-कृत्यम् ॥२८॥
॥ १०.३६.२९ ॥
अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तौ मे मृत्युर् नितरां सृष्टः । वैकुण्ठ-संश्रयैर् विष्णु-संश्रयैर् देवैः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वादृशो मद् धितकरो नास्ति अतो हेतोः । हे सौम्य प्रिय-दर्शन । मित्रत्वद्योतनायेयं सम्बुद्धिः । सौम्यो विप्रे सोमजीवसुन्दरे सोमदैवते इति यादवः । कार्येषु महत् तत्-साधयतीति तथा-भूतं त्वाम् इति सम्बन्धः । विष्णुं वामनम् । स्वार्थम् स्वर्गवाप्तिरूपम् । विभुः समर्थः । एतेन समर्थेनापि कञ्चिद्-द्वारोकृत्यैव कार्यं साध्यते इति सूचितम् । हे सोम्येति प्रोत्साहयति । निज-मित्रत्वेन सहज-शान्तवेन वाश्रितः शरणं गतः । किम् अर्थं—कार्यस्य गौरवं गुरुत्वाम् तत्-साधनं गुरु-प्रयोजनं साधयितुम् इत्य् अर्थः ।
ननु, त्वम् एव स्वयं सर्वार्थे शक्तः किं मयेति चेत् सत्यम्, समर्थस्यापि साहाय्येनैव कार्यं किल सन्सिद्ध्येद् इत्य् अत्र दृष्टान्तः—यथेति । विभुः समर्थोऽपि । द्वेषान्द्रिद्राद् अपि विष्णोर् न्यूनत्वं सूचितम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे सौम्येति प्रोत्साहनार्थम् । निज-मित्रत्वेन सहज-शान्तत्वेन वा आश्रितः शरणं गतोऽहम् । किम् अर्थम् ? कार्यस्य गौरवं गुरुत्वं तस्य साधनं गुरु-प्रयोजनं साधयितुम् इत्य् अर्थः । सप्तम्य् अन्त-पाठेऽपि स एवार्थः ।
ननु, त्वम् एव स्वयं सर्वार्थे शक्तः, किं मयेति चेत् सत्यम्, समर्थस्यापि साहाय्येनैव कार्यं किल संसिध्येद् इति दृष्टान्तेनाह-यथेति । विभुः समर्थोऽपि, इति द्वेषेणेन्द्राद् अपि विष्णोर् न्यूनत्वं सूचितम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे सौम्येति । प्रोत्साहनार्थं निज-मित्रत्वेन सहज-शान्तत्वेन वा आश्रितं शरणं गतोऽहम् । किम् अर्थं कायस्य गौरवं गुरुत्वं तस्य साधनं गुरु-प्रयोजनं साधयितुम् इत्य् अर्थः ।
ननु, त्वम् एव स्वयं सर्वार्थे शक्तः किं मयेति चेत् सत्यं समर्थस्यापि साहाय्येनैव कऋयं संसिध्येद् इति दृष्टान्तेनाह । यथेति । विभुः समर्थोऽपि इति द्वेषेणेन्द्राद् अपि विष्णोर् न्यूनत्वं सूचितम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कार्यं-गौरवेण गुरुतया साधयतीति तं ममात्र बन्धुषु मध्ये त्वतोऽन्यो नैपुण्येन कार्य-साधकः कोऽपि नास्तीत्य् अर्थः ॥२९॥
॥ १०.३६.३० ॥
गच्छ नन्द-व्रजं तत्र सुताव् आनकदुन्दुभेः ।
आसाते ताव् इहानेन रथेनानय मा चिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र नन्द-गोकुले । तौ वसुदेव-सुतौ । इह मथुरायाम् । तत्रैवासाते न तु पलायिताव् इति वक्तव्यम् इति भावः । अनेनेति तर्जन्य् आह—अधुनैवालङ्कृत्य स्थापितेनेत्य् अर्थः । निजयानदानेनानुग्रह-विशेषो दर्शितः । सुन्दराभिनवपरिष्कृतं सुरथं दृष्ट्वा बालकौ तौ सुखं स्वयम् एवारोक्ष्येते इति भावः । कंसोपमुक्तो रथो भगवद् आरोहणार्ह इत्य् अन्यो रथः श्री-भगवद् इच्छयैव तेनाज्ञप इति ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रोत्साह्य कार्यम् आह—गच्छेति । तत्रैवासाते इति, न तु पलाय्यान्यत्र गताव् इति वक्तव्यम् इति भावः । अनेनाधुना सुनिर्माय बहुधालङ्कृत्य च स्थापितेनेत्य् अर्थः । सुन्दराभिनव-सुपरिष्कृतं रथं दृष्ट्वा बालको तौ सुखं स्वयम् एवारोक्ष्येत इति भावः । वस्तुतस् तु श्री-भगवद् इच्छया पुरीनवप्रवेशसामग्री सा ज्ञेया । मा चिरम् अचिराद् एव ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एव प्रोत्साह्य कार्यम् आह—गच्छेति । तत्रैवासाते न तु प्रपलाय्यान्य् अत्र गताव् इति वक्तव्यम् इति भावः । अनेनाधुना सुनिर्माय बहुधालङ्कृत्यावस्थापितेनेत्य् अर्थः । इति निज-यान-दानेनानुग्रह-विशेषो दर्शितः । सुन्दराभिनव सुपारिस्कृत-रथं दृष्ट्वा बालकौ तौ सुखं स्वयम् एवारोक्ष्येते इति भावः ॥ वस्तुतस् तु श्री-भगवद् इच्छया पुरु-प्रवेश-सामग्री सा ज्ञेया माचिरम् अचिराद् एव ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेनेति तर्जन्या कम् अपि नवीनं विचित्रं रथं दर्शयति, बालकत्वान्नवीनं चित्रमालोक्य ताभ्याम् अत्रायातुं शीघ्रम् अयं रथ आरोक्ष्यते इति भावः कंसभुक्तो रथो भगवद्-आरोहणानर्ह इत्य् अनेन तत्र गत इति ज्ञेयम् ॥३०॥
॥ १०.३६.३१ ॥
निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठ-संश्रयैः ।
ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तौ मे मृत्युर् नितरां सृष्टः । वैकुण्ठ-संश्रयैर् विष्णु-संश्रयैर् देवैः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तौ वासुदेवौ । वैकुण्ठ-संश्रयैर् विष्ण्वाश्रितैः समं साधर्म् । अभ्युपायनम् उपाहारः स्याद् अभ्युपायनं सैन्यं उपहारे स्फुटाध्वनिः इति निरुक्तिः । वैकुण्ठ-संश्रयैर् इति । तैर् निसृष्टेन तेन मम किं स्याद् इति भावः । ताव् इति—एक-प्रयत्नत्वात् तयोर् इति भावः । नन्दाद्यैर् इति अन्यथा शङ्कया तौ नागमिष्यत इति भावः । तेषाम् अप्य् अनिष्टम् अत्र करिष्यामीति गूढोऽभिप्रायः । साम्युपायनैर् इति—घ्;र्तदध्यादि-सहितैः । एतच् च धनुर् याग-सत्यता-बोधनार्थम् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किम् अर्थम् ? तद् आह-निसृष्ट इति द्वाभ्याम् । किल निश्चितम् । वैकुण्ठ-संश्रयैर् इति—विष्णुम् आश्रित्य तद् द्वारा नितरां सृष्ट इत्य् अर्थः । यद् वा, ताव् एव मम मृत्युर् देवैर् निसृष्टः प्रेरितः, म्न्मृत्युरूपौ तौ देवैर् अत्र प्रेषिताव् इत्य् अर्थः, नन्दाद्यैः समम् इति, अन्यथा केवलत्वेन शङ्कया तौ नागमिष्यत इति भावः । तेषाम् अप्य् अनिष्टम् अत्र करिष्यामीति गूढो दुष्ट-भावः, साभ्युपायनैर् घृतदध्यादि-सहितैः, एतच् च धनुर्मख-सत्यताबोधनार्थम् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किम् अर्थं तद् आह । निसृष्ट इति द्वाभ्याम् । तयोर् एकतराद् इति शेषः । वैकुण्ठ-संश्रयैर् इति । तैर् निसृष्टेन तेन मम किं स्याद् इति भावः । तावनयेति एक-प्रयत्नत्वाद्-द्वयोर् इति भावः । अक्रूर-प्रवर्तनाथं तयोर् विष्णुत्वं त्वपह्नुतम् । नन्दाद्यैः समम् इति अन्यथा शङ्कया तौ नागम् इत्य् एते इति भावः । तेषाम् अप्य् अनिष्टम् अत्र करिष्यामीति गूढो दुष्ट-भावः । साभ्युपायनैर् घृत-ध्यादि-सहितैः एतच् च धनुर् मख-सत्यता-बोधनार्थम् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तौ मे मृत्युर्नितरां सृष्टः । वैकुण्ठो विष्णुस्तदाश्रितैः ॥३१॥
॥ १०.३६.३२ ॥
घातयिष्य इहानीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं ततस् तत्राह—घातयिष्य इति । काल-कल्पेन मृत्यु-तुल्येन वैद्युतोपमैर् अशनि-तुल्यैः ॥३२.३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आक्षिपति—किम् इति । ततस् तद् आनयनात् । किम् स्याद् इति । तत्र आक्षेपे । इह पुरे । ततो हस्तितः । वाग् देवीमते तु—यद् ईह मधुपुर्यामानीतौ भवतस् तदा स्वपराजयेन तयोर् द्वारान्तः प्रवेशोत् साहबर्धनाद् धस्तिनैव द्वारभूतेन घातयिष्ये रङ्गान्तः प्रापयिष्यामि । अतः काल-कल्पेन मल्लानां मम चेत्य् अर्थात् । ततस् तद्-अनन्तरं मुक्तौ स्वमुक्ति-निमित्तं पूर्वन् मल्लैर् एव द्वार-भूतैर् घातये स्वसमीपम् अपि प्रापयिष्यामि । अतो मम मुक्ति-हेतुत्वाद्-द्वैद्युतोपमैः क्रम-मुक्ति-मार्गनेतृभगवस् सम्बन्धिदिव्यपुरुषोपमैर् इति ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् च किम् अर्थम् ? तद् आह—घातयिष्य इति । कालकल्पेनेत्य् अपरिहार्यत्वं दर्शितम् । यदीति—मुक्तौ न भविष्यत एव, यदि वा कथञ्चिन् मुक्तौ भवेतां ततस् तद् एत्य् अर्थः । वैद्युतोपमैर् इत्य् अप्रतिकार्यत्वम् उक्तम् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च किम् अर्थं तद् आह । घातयिष्य इति । ततस् तदा । अन्यत् तैः । वाग्देवी-मते तु यदीह मधुपुर्यामानीतौ भवतस् तदा स्वपराजयेन तयोर् द्वारान्तः प्रवेशोत्साह-वर्धनत्वाधनत्वाद्धस्तिनैव द्वार-भूतेन घातयिष्ये रङ्गान्तः प्रापयिष्यामि । अतः काल-कल्पेन मल्लानां मम चेत्य् अर्थात् । ततस् तदनन्तरं मुक्तौ स्वमुक्ति-निमित्तं पूर्ववन् मल्लैर् एव द्वार-भूतैर् घातये स्व-समीपम् अपि प्रापयिष्यामि । अतो मम मुक्ति-हेतुत्वात् वैद्युतोपमैः क्रम-मुक्ति-मार्ग-नेतृ-भवत्-सम्बन्धि-दिव्य-पुरुषोपमैर् इति ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैद्युतोपमैर् अशनि-तुल्यैः ॥३२॥
॥ १०.३६.३३ ॥
तयोर् निहतयोस् तप्तान् वसुदेव-पुरोगमान् ।
तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयो राम-कृष्णयोः । तद्-बन्धूस् तयोर् ज्ञातीन् । ननु, तद्-बन्धुभ्यस् स्वानिष्टाच्छङ्के, तत्राह—तद् बन्धून् इति द्वाभ्याम् । ननु, तयोः पूर्वम् एव कथं न हनिष्यसि, तत्राह—तयो निहतयोः सतोर् अनुताप-तप्तान् एव सत इति कोपातिशयो दर्शितः । वाङ्मते तु कुक्तौ तयोः प्राप्तयोः सतोस् तद्-बन्धून् अपि प्राप्यामि । अव्यभिचाराद् इति भावः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तद् वन्धुभ्यस्तवात्मनश्चानिष्टाच्छङ्के, तत्राह—तयोर् इति द्वाभ्याम् । तप्तान् इति सुख-हननीयत्वम् उक्तम् ।
ननु, ते तवापि ज्ञातयस् तत्राह—तयोर् बन्धून् मित्राणीति । नितरां हरिष्यामि, धनानि प्राणांश् च हरिष्यामीत्य् अर्थः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कथं तयोः पूर्वम् एव न हनिष्यसि चेत् तत्राह । तयोर् निहतयोः सतोर् अनुतप्तान् एव सतः इति क्रोधातिशयो दर्शितः । वाग् देवी-मते तु मुक्तौ तयोः प्राप्तयोः सतोस् तद् बन्धून् अपि प्राप्स्यामि अव्यभिचाराद् इति भावः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोर् निहतयोः सतोः ॥३३॥
॥ १०.३६.३४ ॥
उग्रसेनं च पितरं स्थविरं राज्य-कामुकं ।
तद्-भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-भ्रातरं पितुः सहोदरम् । अन्ये यादवाः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्थविरम् अपि राज्यकामुकम्, ये चान्ये मद् वन्धूनां मध्ये मम विद्विषो मद् द्वेष्टारस्तान् हनिष्यामि ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्ये च तत् पक्षपातिनः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये चान्ये तांश् च ॥३४॥
॥ १०.३६.३५ ॥
ततश् चैषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धो मम गुरुर् द्विविदो दयितः सखा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नष्ट-कण्टका नष्ट-शत्रुः । ननु कतिपयासुहृद्-वधेन नष्ट-कण्टका कथं स्याद् ? इति तत्राह—जरासन्ध इति ॥३५.३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः ससुहृद् राम-कृष्णादिमरणोत्तरम् । मित्र अक्रूर । एष या बहुराजास् तीत्य् अर्थः । अत्राशङ्कते—नन्व् इति । जरासन्धादिसत्त्वे एषां वधेनापि नष्ट-कण्टका भूर् न भविष्यतीत्य् आशङ्काशयः । तत्र आशङ्कायाम् । गुरुः असुर एव, तस्याहं पुत्रोऽपि प्रिय इति भावः । दयितोऽतिप्रियः । नन्व् अहम् अपि भोजेषु किं तद्-बन्धुर् नेत्य् आह—हे मित्रेति । त्वं तु मम हितकारी अतस् त्वां प्रति पृथ्वीम् अपि विभजेऽहम् इति भावः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्वहम् अपि भोजस् तद् वन्धुर् इति चेन्नेत्य् आह—हे मित्रेति । त्वं मम हितकारी, अतस् त्वां प्रति पृथ्वीम् अपि विभजेयम् इति भावः । दयितः सखा प्रिय-सख इत्य् अर्थः । तस्य महा-वीरत्वेनान्येभ्यो विशेषाद् एवम् उक्तम् । सुरपक्षीयान् नृपान् पाण्डव-मत्स्य-पाञ्चालादीन् ॥३५.३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इत्य् अर्धेकं नन्वहम् अपि भोजेषु किं तद् बध्नुः नेत्य् आह । हे मित्रेति त्वन्तु मम हितकारी अतस् त्वां प्रति पृथ्विम् अपि बिभजेयम् इति भावः । जरेति सार्धकं सुरपक्षीयान् नृपान् कौरवादीन् वाग् एवी-मते तु महीं भोक्ष्ये इति मुक्तौ सर्वानन्दान्तर्भावात् ॥३५.३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कथं नष्ट कण्टका स्याज्जरासन्धादीनां विद्यमानत्वादेव? तत्र् आह—जरेति । गुरुः श्वशुरः ॥३५.३६॥
॥ १०.३६.३६ ॥
शम्बरो नरको बाणो मय्य् एव कृत-सौहृदाः ।
तैर् अहं सुर-पक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥
अन्यैर् न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैः जरासन्धादिभिः । सुरपक्षीयान् कौरवादि-वंश्यान् । सुरपक्षीयान् नृपान् कौरवादीन् । वाङ्मते तु—महीं भोक्ष्ये मुक्तौ सर्वानन्दान्तर्भावात् ॥३६॥
॥ १०.३६.३७ ॥
एतज् ज्ञात्वानय क्षिप्रं राम-कृष्णाव् इहार्भकौ ।
धनुर्-मख-निरीक्षार्थं द्रष्टुं यदु-पुर-श्रियम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदु-पुर-श्रियं द्रष्टुं चेति ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् मम वृत्तम् । तौ कथम् आनयिष्य इति चेत् तत्राह—धनुर् इति । यदु-पुरस्य मधुपुरस्य श्रियं छचिं वा द्रस्तुम् इति वेति शेषः । तत्-पार्श्वे धनुर् उत्सव-मधुरा-सौन्दर्य-वर्णने स्वयम् एवागमिष्यत इति भावः । अर्भकाव् इति-त्वया प्रतार्य तावानेतुं त्रैक्याव् इति भावः तत्-प्रकारं शिक्षयति—धनुर् इति । अन्येभ्यस् तत्राप्य् अर्बकेभ्यो यज्ञोत्सवपुरी-शोभा-दर्शनं नितरां रोचेतेति भावः । तथा च श्री-हरि-वंशे [ह।वं २.२२.८६-९३] इति [अग्रे द्रष्टव्यम्] ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्भकाव् इति—त्वया प्रतार्य तावानेतुं शक्याव् इति भावः । तत्-प्रकारं शिक्षयति—धनुर् इति । वन्येभ्यो यज्ञोत्सव-पुरीशोभा-दर्शनं नितरां रोचत एवेति भावः । तथा च श्री-हरि-वंशे—
वाच्यश् च नन्द-गोपो वै करमादाय वार्षिकम् । > शीघ्रम् आगच्छ नगरं गोपैः सर्वैः समन्वितः ॥ > कृष्ण-सङ्कर्षणौ चैव वसुदेव-सुतावुभौ । > द्रष्टुम् इच्छति वै कंसः सभृत्यः सपुरोहितः ॥ > एतौ युद्ध-विदौ रङ्गे काल-निर्वाणयोधिनौ । > दृढौ च कृतिनौ चैव शृणोम्यव्याहतोद्यमौ3 ॥ > अस्माकम् अपि मल्लौ द्वौ सज्जौ युद्ध-कृतोत्सवौ । > ताभ्यां सह नियोत्स्येते तौ युद्ध-कुशलावुभौ ॥ > द्रष्टव्यौ च मयावश्यं बालौ तावम् अरोपमौ । > पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ ॥ > वक्तव्यं च व्रजे तस्मिन् समीपे व्रज-वासिनाम् । > राजा धनुर् मधं नाम कारयिष्यति वै सुखी ॥ > सन्निकृष्टे व्रजास् तत्र निवसन्तु यथा-सुखम् । > जनस्यामन्त्रितस्यार्थे यथा स्यात् सर्वम् अव्यवयम् ॥ > पयसः सर्पिषश् चैव दध्नो ध्युत्तरस्य च ।
यथा-काम-प्रदानाय भोज्याधिश्रयणाय च ॥ [ह।वं २.२२.८६-९३] इति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्भकाव् इति प्रतार्य ताव् आनेतुं शक्याव् इति भावः । तत्-प्रकारं शिक्षयति । धनुर् इति वन्येभ्यस् तत्राप्य् अर्तकेभ्यो यज्ञोत्सव-पुरीशाभा-दर्शनं नितरां रोचेतेति भावः तथा च श्री-हरि-वंशे—
वैश्यश् च नन्द-गोपो वै करम् आदाय वऋषिकम् । > शीघ्रम् आगच्छ नगरं गोपैः सर्वैः समन्वितः ॥ > कृष्ण-सङ्कर्षणौ चैव वसुदेव-सुताव् उभौ । > द्रष्टुम् इच्छति सङ्को वै स-भृत्यः स-पुरोहितः ॥ > एतौ युद्ध-विदौ रङ्गे काल-निर्वाण-योधिनौ । > दृढौ च कृतिनौ चैव शृणोम्य् अव्याहतोद्यमौ ॥ > अस्माकम् अपि मल्लौ द्वौ सज्जौ युद्ध-कृतोत्सवौ । > ताभ्यां सह नियोत्स्येते स्तौ युद्ध-कुशलाव् उभौ ॥ > द्रष्ट वौ च मयावश्यं बालौ ताव् अमरोपमौ । > पितृ-स्वसुः सुतौ मुख्यौ व्रज-वासौ वनेचरौ ॥ > वक्तव्यं च व्रजे तस्मिन् समीपे व्रज-वासिनाम् । > राजा धनुर् मखं नाम कारिष्यति वै सुखी ॥ > सन्निकृष्टे प्रजास् तत्र निवसन्तु यथा-सुखम् । > जनस्यामन्त्रितस्यार्थे यथा स्यात् सर्वम् अव्यम् ॥ > पयसः सर्पिषश् चैव दध्नो दध्युत्तरस्य च । > काम-प्रदानाय भोज्याधिश्रयणा चेति । [ह।वं २.२२.८६-९३] इति > ॥३७॥।३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदं रहस्य-तत्त्वं न वाच्यम्, वाच्यस् त्व् एतद् इत्य् आह—धनुर् इति ॥३७॥
॥ १०.३६.३८ ॥
श्री-अक्रूर उवाच—
राजन् मनीषितं सध्र्यक् तव स्वावद्य-मार्जनम् ।
सिद्ध्य्-असिद्ध्योः समं कुर्याद् दैवं हि फल-साधनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र स्व-मनीषितं विचारिताम् सध्र्यक् सम्यक् स्वावद्यं मरणं तन्-मार्जनम् । तथाऽप्य् एतावानभिनिवेशो न कार्य इति भविष्यत् सूचयन्न् आह—सिद्ध्य्-असिद्ध्योर् इति ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तव मनीषितम् इत्य् अन्वयः स्वस्यावद्यं स्वावद्यं न वदति यत्र तद् अवद्यम् । अवद्यं मृत्युपापेयाः इति व्यक्तिकारः । यद्य् अपि मृत्युर् वारणी यस् तथाप्य् अहम् अवश्यम् एतेन निधिना वारयिष्याम्य् एव कालम् एतावानियान्हठो न कार्य इति भविष्यत् तन् मरणम् । समं चेतः कुर्याद् इति चेत इति शेषः । फलं साधयतीति तथा । दैवं पूर्वादृष्टम् एव । यथा-दृष्टं फलं स्याद् इत्य् अर्थः । तच् छ्रुत्वा स्वीय-भगवद् दर्शनत-द्वारा तन् मारण-लक्षण-दीर्घ-स्वाभीष्ट-युगल-सिद्ध्याशया तत्-तद् अर्थम् एव स्वीयतदात्मीयतां प्रख्यापयितुम् इच्छया च तद् वाक्यं श्लाघते—राजन्न् इति द्वयेन । सम्यग् इह हेतुः । हे राजन्न् इति—रज्ञस् तव दण्डनीति-शास्त्रानुग मित्वाद् इति भावः ।
ननु, धार्मिकोऽयं कथं केवलां दण्ड-नीतिम् अनुमोदते ? तस्येदं वाक्यं कूटम् एवेत्य् आशङ्क्य स्वाशयं गोपयंस् तद्-अनुवादेनापि श्लाघते—कुर्याद् इति । विधिलिङाधर्म-शास्त्रमतेऽप्य् एतादृश-सङ्कट-प्रतीकारादौ प्रयतेतैवेत्य् अर्थः । तद् उपेक्षायाम् आत्म-हत्यादि-पापोपपत्तेः । किन्तु मनीषितस्य सिद्ध्य-सिद्ध्योः समो हर्ष-दुःख-रहित एव सन् कुर्याद् इति विशेषः । "समम्" इति पाठे क्रिया-विशेषणत्वं भावम् इति शेषं वा । हि यतो दैवम् अदृष्टम् एव फलं भद्रम् अभद्रं वा भावयति करोतीति तत् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्-अर्थम् एतावन्तं कालम् अस्य दुष्टस्याप्य् अनुकूलेन सता मया तोषितं तत्-फलम् इदं प्राप्तम्, अतोऽनेन मम तत्त्वतो हितम् एव कृतम् अतो मयाप्यस्य हितम् एव कर्तुं युज्यत इति । यद् वा, किञ्चिद् धितेऽनुक्ते सत्यौदास्यम् आशङ्क्य विश्वासम् अकृत्वा यदि मामयं न प्रस्थापयिष्यते, तर्हि मम दीर्घाशा न पूर्येतेति किञ्चिद् धितं वाच्यम् इत्य् आशयेनाह—राजन्न् इति द्वाभ्याम् । हे राजन् ! इति राज्यस्य राज-देहस्य च रक्षार्थम् इदम् उचितम् एवेति ।
यद् वा, इदं राज्ञो नीति-शास्त्रानुरूपम् एव, न तु कर्मादि-विचारेणेति भावः । सिद्धौ असिद्धौ च समः सन् कुर्यात् कर्माचरेत्, निज-मनो-रथे सिद्धेऽतिहृष्टो न स्याद् असिद्धे च नार्त इत्य् अर्थः । कुतः ? दैवं निजादृष्टम् एव फलं भावयति, तत् पुरुष-कारेण किं स्यात् ? इत्य् अर्थः । "समम्" इति पाठे क्रिया-विशेषणम् । समं भावम् इति वा शेषः । तथापि स एवार्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् छ्रुत्वा स्वीय-भगवद् दर्शनतद् द्वारा तन् मारण-लक्षण-दीर्घ स्वाभीष्ट-युगल-सिद्ध्याशया तत् तद् अर्थम् एव स्वीय तदात्मीयतां प्रख्यापयितुम् इच्छया च तद् उक्तं श्लाघते राजन्न् इति द्वयेन । सध्य्रग् इत्य् अत्र हेतुः—हे राजन् इति । राज्ञस् तव दण्ड-नीति-शास्त्रानुगामित्वाद् इत्य् अर्थः ।
ननु, धार्मिकोऽयं कथं केवलां दण्ड-नीतिम् अनुमोदते तस्माद् अस्येदं कूट-व्याक्यम् एवेत्य् आशङ्क्य स्वाभिप्रायं गोपयन् तद्-अनुवादेनापि श्लाघते कुर्यात् विधि-लिङा धर्म-शास्त्र-मतेऽप्य् एतादृश-सङ्कट-प्रतीकारादौ प्रयतेत एवेत्य् अर्थः । तद् उपेक्षायाम् आत्म-हत्यादि पापापत्तेः । किन्तु सिद्ध्य्-असिद्ध्योः समो हर्ष-दुःख-रहितः एव सन् कुर्याद् इति विशेषः । "समम्" इति पाठे क्रिया-विशेषणत्वं भावम् इति शेषो वा ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनीषितं सध्रक् सम्यक् स्वावद्यं मरणं तन्मार्जनम् । तदप्यत्र नीति-शास्त्र-विधिः शृन्व् इत्य् आह—सिद्ध्य्-असिद्ध्योर् इति । मनीषितस्य सिद्धाव् असिद्धौ च पुयान् समं भावम् इति शेषः । हि यतो दैवम् अदृष्टम् एव भद्रम् अभद्रं वा भावयति करोतीति तत् ॥३८॥
॥ १०.३६.३९ ॥
मनोरथान् करोत्य् उच्चैर् जनो दैव-हतान् अपि ।
युज्यते हर्ष-शोकाभ्यां तथाप्य् आज्ञां करोमि ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुष-कारस्य व्यभिचारम् आह—मनो-रथान् इति ॥३९.४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव दर्शयति—मनोरथान् इति । कदाचिद् धर्षेण युज्यते, मनोरथ-सिद्धेः, कदाचिच्छोकेन च युज्यते, तद् असिद्धेः, अतस् तत्र नैयत्यं नास्ति, फले दैवस्यैव प्राधान्यात्, तस्मात् तत्राभिनिवेशो न कार्य इति भावः । एवं दैवं पुरुष-कारेणातिक्रम्यत इति नीति-शास्त्रोक्तं परिहृतम्, श्लोकस्य पश्चान् निर्देशेन तव मनोरथासिद्ध्या शोक एव फलिष्यतीति गूढो भावः । अतस् तत्र यद्य् अपि यत्नः कर्तुं न युज्यते, तथापि तद् वशवर्तित्वात् तवाज्ञां करोमि करिष्यामीत्य् अर्थः । एवं तवाज्ञयैव तत्र प्रयामि, न तु स्वेच्चयेति तस्मिन् स्वाभिमत-सङ्गोपनार्थम् इति ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निवृत्त-धर्म-पराणाम् अस्माकं तु तद् अपि न कर्तव्यं किन्तु सर्व-देवमयस्य राज्ञस् त्वाज्ञैव क्रियत इति प्रकारान्तरेणापि स्वाभिप्रायं गोपयितुं तस्मिन् स्वभक्तिं दर्शयितुं चाह । मन इति । अपि शब्दात् किम् उत दैवोपकृतान् तस्मात् कृतेऽपि साम्य-भावेन यथावसरं हर्ष-शोकाभ्यां युज्यते एव न तु निवृत्तिवद् अधिकृतं सुखम् इत्य् अर्थः । यद्य् अपि एवम् अथापि ते तवाज्ञां करोमि करवाणीत्य् अर्थः । भाविसूचना चेयं स्वावद्य-मार्जनम् असुरत्व-खण्डनं मुक्ति-प्रापेः कुर्याद्भवान् इति शेषः हि यस्मड्-दैवं श्री-कृष्न-लाक्षण् ईश्वर एवात्र फल-दातृ न तत्र भवत् स्वाधीनत्वम् इति भावः । जनो भवादृशः यद्य् अप्य् एवम् ईश्वर एवात्र स्वयं कर्ता न मादृशस्यात्र किञ्चित् करत्वम् । अथापि तद् आनुकूल्य--रूपेण तद्-भक्त-जन-व्यवहारेणैव करोमीति । अत्रारिष्ट-वधानन्तरं कंसस्य पादवान् प्रति सकपट-प्रोत्साहन-वाक्यं श्री-वसुदेवं प्रति च निन्दनं तथा कंसं प्रति साक्षात् तैर् धिक्कारं अन्धकस्य चवाक्य-जातम् इति श्री-हरि-वंशमतम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्तुर्निकृष्टलोको नतु भवानिति प्रकटो ऽर्थः । वस्तुतस् तु त्वं जन्तुर् एव पशुनिर्विशेष इत्य् अर्थः । दैवहतान् अपिकाराद्दैवपालितान् मनोरथण् करोति तत्र दैवपालितेषु मनोरथेषु हर्यः । दैवहतेषु शोकः ताभ्यां जन्तुर्युज्यते युक्तो भवति । तथापि एवम् अपि तवाज्ञां करोमि, यतो भवांस् तु भाग्यवान् हर्षमेव प्राप्स्यतीति प्रकटो भावः । वस्तुतस् तु तथापि यद्यपि जन्तोमुमुर्षोस्तवाज्ञां कर्तुं न युज्यते, तद् अपि करोमि, तव राजत्वान्मम तु त्वत् प्रजात्वाद् इति भावः । यद् वा, अथापि तव मनोरथासिद्धावपि मम तु मनोरथः सेत्स्यत्येवेत्याज्ञां करोमीति ॥३९॥
॥ १०.३६.४० ॥
श्री-शुक उवाच—
एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विसृज्य सः ।
प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुषकारस्य पुरुषार्थस्य । व्यभिचारम् अनियत-फलत्वम् । मनोरथ-सिद्धौ हर्षस् तद्-भावे शोको विषादः । यद्य् अपि सिद्धिर् असिद्धिर् वा दैवाधीना तथापीति । निवृत्ति धर्मपराणाम् अस्माकं तु तद् अपि न कर्तव्यं किं तु सर्व-देवमयस्य राज्ञस् तवाज्ञयैव क्रियत इति प्रकारान्तरेणापि स्वाशयं गोपयितुं तस्मिन् स्वभक्तिं दर्शयितुं चाह—मनोरथेति । अपि-शब्दात् किम् उत दैवोपकृतात्, तस्मात् कृतेऽपि साम्य-भावेन यथावसरं हर्ष-शोकाभ्यां युज्यत एव, न तु निवृत्तिवद् अधिकृतं सुखम् इत्य् अर्थः । यद्य् अप्य् एवं तथापि ते तवाज्ञां करोमि करवाणीत्य् अर्थः । भाविसूचना चेयम् । स्वावद्यमार्जनम् असुरत्व-खण्डनं मुक्ति-प्राप्तेः । कुर्याद् भवान् इति शेषः । हि यस्माद् दैवं श्री-कृष्ण-लक्षण ईश्वर एवात्र फल-दातृ, न तत्र भवत् स्वाधीनत्वम् इति भावः । जनो भवादृशः ।
यद्य् अप्य् एवम् ईश्वर एवात्र स्वयं कर्ता न मादृशस्यात्र किञ्चित् करत्वं तथापि त्वद् आनुकूल्य--रूपेण तद् उक्तजन व्यवहारेणैव करोमीति । अत्रारिष्टवधानन्तरम् । कंसस्य यादवान् प्रति सकपट-प्रोत्साहन-वाक्यं, वसुदेवं प्रति च निन्दनं तथा कंसं प्रति धिक्कारः । अन्धकस्य वाक्यजातम् इति हरिवंशमतम् । एवम् उक्त-प्रकारेण । सः कंसः । श्रुताव् अपि वृषासुर-वधस् तथाहि—प्रनेमास्मिन्ददृशे सोमो अन्तर् गोपा नेमम् आविरस्था कृष्णोति स तिग्म-शृङ्गं वृषभं युयुत्सन्दुहस् तस्थौ बहुले बद्धो अन्तः इति । एतद् अर्थस् तु—अन्तर् गोपाः अन्तः स्थित्वा गोपायन्नन्तर्यामि नेमस्मिन्न् अर्धप्रपञ्चे स्थावरे सोमः सोमादि-रूपः ददृशे प्रकर्षेण दृष्टः । नेममर्ध-प्रपञ्चम् । अस्थाः अस्थिरं जङ्गममाविः कृष्णोति प्रकटी करोति । स तिग्मशृङ्गं वृषभं युयुत्सन् योद्धुम् इच्छन् । दृङ्मात्रेण भस्मीकर्तुं शक्तोऽपि लीलया तेन सह युयुतन् द्रुहः द्रोहं कृतवांस् तं ततवान् इत्य् अर्थः । ततश् च बहुले व्रजे । अतः रास-मण्डल-मध्ये बद्धः भक्त-जनेन प्रेम-पाशेन बद्धः संस्तस्थौ । क्रीडितुम् इति शेषः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चकाराभ्यां द्वयोर् अपि प्रयोजनयोः प्राधान्यं बोध्यते, निज-मन्त्रिष्विवाक्रुरेऽपि विश्वासोत्पत्त्या द्वयोः साम्यात् स दुर्मन्त्र-कुशल आसन्न-मरणः । चार्थे तथा-शब्दः, अतः स्वमित्यस्य गृहम् इत्य् अनेनाप्य् अन्वयः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-गृहम् अन्तः-पुरं स्वम् आलयं पुरम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षट्त्रिंशो दशमे ऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धेऽक्रूर प्रेषणं
नाम चतुस्त्रिंशोऽध्यायः ।
॥ १०.३६ ॥
(१०.३७)