३५

युग्म-गीतम्—गोचारणाय वनं गतस्य भगवतो गोपी-जन-कृतं गुण-गानम् ।

॥ १०.३५.१ ॥

श्री-शुक उवाच—

गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः ।

कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् इति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

पञ्चत्रिंशे वनं याते कृष्णे गोकुल-योषितः ।

युग्म-श्लोकानुगीतेन निन्युर् दुःखेन वासरान् ॥

एवं रात्रिषु श्री-कृष्णेन स्वैरम् अभिरमितानां दिवा तद्-विरहितानां गोपीनाम् अनुगीतेन दिन-निस्तार-प्रकारम् आह—गोप्य इति । दुःखेन कृच्छ्रेण ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दुःखेन कृच्छ्रेण निन्युः व्यतीयुः ॥*॥ एवं रासादिना । दिवा दिने । तद्-विरहितानां कृष्ण-विरह-युतानाम् । अनुगीतेन मुहुर् मुहुर् गानेन । गोप्य इति—तं श्री-कृष्णं। अनु पश्चात् । द्रुतं गतं चेतो यासां ताः । प्रगायन्त्यः प्रकृष्टं गानं भक्ति-लक्षणम् इति ध्येयम् ।

[विश्वनाथः] अथ वेणु-गीताध्यायः ।

पञ्चत्रिंशे वेणु-गीतं द्वादश-श्लोक-युग्मतः [।]{दिर्=“र्त्ल्”} > वर्ण्यते यत् प्रियाः पीत्वा विरहिण्योऽनयन्दिनम् ॥*॥ > सम्भोग-शैत्यं ज्यौत्स्नीषु विच्छेदौष्ण्यं दिनेष्व् अदात् । > प्रेमा ताभ्यः स्वपुष्ट्य् अर्थं स्वयं तद्-द्वितयात्मकः > ।[।]{दिर्=“र्त्ल्”}*।[।]{दिर्=“र्त्ल्”}

एवं रात्रिषु गोप्यः स्व-कान्तेन सह लब्धाङ्ग-सङ्गाः स-नृत्य-गीत-नर्माधरामृतादिकं पिबन्त्यः सम्भोग-रस-निमग्ना बभूवुर् इत्य् उक्तम् । इदानीं दिनेषु तेन सह लब्ध-मनो-मात्र-सङ्गास् तद्-वेणु-गानाम् ऋत-मात्रं पिबन्त्यो विप्रलम्भ-रस-निमग्ना बभूवुर् इत्य् आह—तं वनं गच्छन्तम् अनुलक्ष्यीकृत्य द्रुतानि वेगेन सह चलितानि चेतांसि यासां ताः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदानीं श्री-कृष्ण-प्रणयिणीनां गोपीनाम् उत्कण्ठम् आह—गोप्य इत्य्-आदि । गोचारणार्थं कृष्णे वनं याते सति निन्युर् दुःखेन वासरान् इति सुखेन रात्रीर् निन्युर् नेष्यन्तीत्य् आक्षिप्यते ॥१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एवं श्री-व्रजेन्द्र-विशेओरेण रात्रिषु राज-क्रीडादिना बहुधा रमितानां तासां दिवसेषु तद् विरहेण महद् दुःखं सम्भाव्यत एव, उक्तं च श्री-पराशरेण—

स तथा सह गोपीभी रराम मधुसूदनः । > यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥ [वि।पु। ५.१३.५७] > इति,

अतस् तद्-दुःखं बत ताभिः कथं निस्तीर्णम् इत्य् अपेक्षायाम् हस्—गोप्य इति । प्रकृत्यैव तद् विरहासहा अपि कृष्णे परमानन्द-घन-मूर्तौ परमाकर्षके वन् वनं याते दिवा श्री-वृन्दावनं प्रयाते सति, अत एव तं कृष्णम् अनु पश्चात् संलग्नतया वेगेन द्रुतं गतं चेतो यासां ताः, अत एव कृष्णस्य लीला मुहुर् नव-नव-वेशादिना वन्यक्रीडाः प्रकर्षकतया गायन्त्यस् तत्र तम् अनुद्रुत-चेतस् त्वेन गृह-कृत्याद्य् उपरतिर् दर्शिता । कृष्णस्येति तल् लीलानाम् अपि तादृशत्वम् अभिप्रेतम्, अत एव दुःखेन शिष्टान् अपि निन्युर्गमयामासुः, तथा चान्ते वक्ष्यते एवं व्रज-स्थियः [भा।पु १०.३५.२६] इति । एवं तासां दिन-नयन-हेतुत्वेन तल् लीला-प्रगानस्य माहात्म्यं दर्शितम्, यद् व, दुःखेन कृच्छ्रेणैव निन्युस् ताभिस् तद्-विरहस्य सुदुःसहत्वात्, तत्रापि तल् लीला-प्रगानात्, यतो गोप्यस् तद् एक-प्रिया इत्य् अर्थः, एतद् अनुसारेण एवम् इत्य् अस्यार्थोऽग्रे व्यक्त एव भावी ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं श्री-व्रजेन्द्र-कुमारेण रात्रिषु रास-क्रीडादिना बहुधा रमितानां तासां दिवसेषु तद्-विरहेषु महद्-दुःखं सम्भाव्यत एव । उक्तं श्री-पराशरेण—

स तथा सह गोपीभी रराम मधुसूदनः । > यथाब्द-कोटो-प्रतिमः क्षणस् तेन विनाभवत् ॥ [वि।पु। ५.१३.५७] > इति,

अतस् तावद् दुःखं बत ताभिः कथं निस्तीर्णम् इत्य् अपेक्षायां तादृश-रजनी-वर्ग-सम्भोगं पोषयितुं दिन-वर्ग-गतं विप्रलम्भं वर्णयन् तत्-काल-क्षेपण-हेतुं दर्शयति गोप्य इति । तम् अनु तेन सह द्रुतं वेगेन गतं चेतो यासां ताः । तं लक्षीकृत्य श्लथित-हृदया इति वा तत्र तम् अनुद्रुत-चेतस्त्वेन गृह्य-कृत्याद्य्-उपरतिर् दर्शिता ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नाना-सभा-गतानां श्री-गोपीनां वाक्य-सङ्ग्रहोऽध्यायोऽयम् । अतः क्वचित् व्रज-देवय इति क्वचित् तव सूनुर् अनघे तव वत्स इति च सम्बोधनेन भेदो दृश्यते। सङ्ग्रहस् तु प्रातर् आदि सायं पर्यन्त-लीला-क्रमेण ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ योग-माया-बलेन छाया--रूपेण स्थिता अपि या गोपिकास् ता अपि यासां छाया । तासाम् एव प्रकृत्याकृती एव जगृहुः । यास् तु अच्छाया-रूपाह् प्रकृतास् ता अपि गोप-गृहान् हित्वा भगवद्-आलये नित्य-सिद्धत्वेन स्थिता इति विदुः । अतो दीनान्तरेष्व् अपि पूर्व-पूर्व-दिनवद् गाश् चारणार्थं वनं गते भगवति श्री-कृष्णे गाढानुरागाकृष्ट-हृदयतयाथान्योन्यं तद्-गुणान् कीर्तयन्ति । तथा रासानन्तरं सुस्था अपि तास् तच्-छाया-रूपा अपि गोप-गृहस्था यद् वर्णयन्ति, तद् आह—गोप्य इत्य्-आदि । वासरान् एव दुःखेन निन्युर् न तु रात्रीः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

पञ्च-त्रिंशे वेणु-गीतं द्वादश-श्लोक-युग्मतः ।

वर्ण्यते यति-प्रियाः पीत्वा विरहिण्योऽनयन् दिनम् ॥

सम्भोग-शैत्यं ज्योत्स्नीषु विच्छेदौष्ण्यं दिनेष्व् अदात् ।

प्रेम ताभ्यः स्व-पुष्ट्य्-अर्थं स्वयं तद्-द्वितयात्मकः ॥

एवं रात्रिषु गोप्यः स्व-कान्तेन सह लब्धाङ्ग-सङ्गा नृत्य-गीत-नर्माधरामृतादिकं प्रिबन्त्यः सम्भोग-रस-निमग्ना बभूवुर् इत्य् उक्तम् । इदानीं दिनेषु तेन सह लब्ध-मनो मात्र-सङ्गास् तद्-वेणु-गानाम् ऋतं मात्रं पिबन्त्यो विप्रलम्भ-रस-निमग्ना बभूवुर् इत्य् आह । गोप्य इति । तं वनं गच्छन्तम् अनुलक्षीकृत्य द्रुतानि वेगेन तेन सह चलितानि चेतांसि यासां ताः ॥१॥


॥ १०.३५.२-३ ॥

गोप्य ऊचुः—

वाम-बाहु-कृत-वाम-कपोल-

वल्गित-भ्रूर् अधरार्पित-वेनुम् ।

कोमलाङ्गुलीभिर् आश्रित-मार्गं

गोप्य ईरयति यत्र मुकुन्दः ॥

व्योम-यान-वनिताः सह सिद्धैर्

विस्मितास् तद् उपधार्य सलज्जाः ।

काम-मार्गन-समर्पित-चित्ताः

कश्मलं ययुर् अपस्मृत-नीव्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वाम-बाहु-कृत-वाम-कपोल इत्य्-आदीनि द्वादश-युगलानि । हे गोप्यः ! वाम-बाहौ तन्-मूले कृतोऽर्पितः वामः कपोलो येन सः । वल्गिते नर्तिते भ्रुवौ यस्य येन वा स वल्गित-भ्रूर् मुकुन्दः अधरेऽर्पितं वेणुं कोमलाङ्गुलीभिर् आश्रिता मार्गाः सप्त-स्वर-च्छिद्राणि यस्य तं, यत्र यदा ईरयति वादयति तदा व्योम-यानानां सिद्धानां वनिताः सिद्धैः स्व-पतिभिः सह वर्तमाना अपि तत् वेण्व्-ईरणम् उपधार्य आकर्ण्य प्रथमं विस्मिताः ततः काम-मार्गणेभ्यः समर्पिताणि चित्तानि याभिस् ताः, तत् पर-वशा इत्य् अर्थः । सलज्जाः सत्यः कश्मलं मोहं ययुः । अत्र लिङ्गम् अपस्मृता विस्मृता नीव्यो याभिर् इति । अत एवं-भूतस्य श्री-कृष्णस्य विरहं कथं सहाम ? इति सर्वत्र वाक्य-शेषः ॥२-३॥


वाम-बाहु-कृत-वाम-कपोल-

वल्गित-भ्रूर् अधरार्पित-वेनुम् ।

कोमलाङ्गुलीभिर् आश्रित-मार्गं

गोप्य ईरयति यत्र मुकुन्दः ॥

व्योम-यान-वनिताः सह सिद्धैर्

विस्मितास् तद् उपधार्य सलज्जाः ।

काम-मार्गन-समर्पित-चित्ताः

कश्मलं ययुर् अपस्मृत-नीव्यः ॥

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकैकया द्वौ द्वौ श्लोकाव् [अम्]{।मर्क्} याः प्रति गीताव् इति द्वादश युगलानि चतुर्विंशति-श्लोकाः । हे गोप्यः ! इति शृणुतेति शेषः । मुकुन्द इति भक्तेर् मोक्सदत्वं सूचयन्त्य आहुः ।*। पूर्व-श्लोके यदेत्य् उक्तस् तदेति लभ्यते । व्योम-यानं विमानं, तत्रस्था वनिता व्योम-यान-वनिताः । व्योम्नि नभसि यानं गतिर् येषां ते व्योम-याना देवास् तेषां वा । सिद्धो देव-योनि-विशेषः । गुह्यकः सिद्धो भूतोऽमी देव-योनयः इत्य् अमरः । [ततः]{।मर्क्} विस्मयानन्तरम् । काम-मार्गणेभ्यः स्मर-बाणेभ्यः । मार्गणो याचके शरे इति मेदिनी । इत्य् अर्थ इति—काम-पारवश्यात् तेन स्वाधीन-वस्तु-ग्रहणवत् तासां चित्तानि गृहीतानीति भावः । अत्र मोहे । लिङ्गं ज्ञापकम् । नीवी कटि-वस्त्र-ग्रान्थिः । मुच्यमान-वस्त्र-ग्रन्थि-स्मरण-रहिता इत्य् अर्थः । यत एतादृशः कृष्णोऽतो हेतोः । एवं-भूतस्य वेणु-वादन-मोहित-देवाङ्गनस्य । सर्वत्र युगलेषु । वृन्दावने गाः सञ्चार्य तत्रत्य-तरुवल्ली-मृग-खगादीन्नक्ततन-स्वविरह-खिन्नानाश्वासयन् स्वागमनमावेदयितुं यदा वेणुना कृष्णः सञ्जगौ तदा तदाकर्णनेनोद्दीप्तभावा गोप्यः स्व-स्वपूयस्थाः सखीः प्रत्याहुः—वामेत्य् आदि-द्वादश-युगलानि । हे गोप्यः वाम-बाहु-मूले कृतोऽर्पितो वाम-कपोलो येन सः । गीतस्यारोहावरोहयोर् गमकमयीकरणं तेनव प्रकारेण सम्भवेत् । तथैव वाम-जङ्घोपरि दक्षिण-गङ्घाधस् तटन्यादोऽपि ज्ञेयः । तेन त्रिभङ्ग-ललितस् तिर्यग् ग्रीवस् त्रैलोक्य-मोहन इति नामत्रयं प्रकटी-बभूवेति भावः । वल्गिते नर्तिते भ्रुवौ यनेति सुबलादीन् पुर स्थितान् गान-सौष्ठवेऽवधापयितुम् इति भावः । ह्रस्वत्वम् आर्षम् । अधरेऽर्पितो न्यस्तो दत्तो वा यो वेणुस् तम् । यत्र यद् एरयति । कीदृशम्—कोमलाभिर् अन्यजनां गापेक्षया सुकुमाराभिः अकर्म-कठिनौ हस्तौ इति सामुद्रिकास् स्वाङ्गापेक्षया त्वीष-त्कठिनाभिर् अङ्गुलीभिर् आश्रिता मार्गाः सप्त-स्वर-च्छिद्राणि यस्य तम् । तदा व्योम-यानानां सिद्धानां वनिताः सिद्धैः स्व-पतिभिः सहिता अपि प्रथमं तद्-वेण्व्-ईरणम् अवधार्य आकर्ण्य विस्मिताः अहो वेणु-नादस्यैतावन् मोहवत्वम् अननुभूतचरं, यतोऽस्मान् साध्वीर् अपि मोहयति, अस्मान् पुरुषान् अपि स्त्री-भाव-युक्तीकृत्य मोहयतीति प्रथमं विस्मय-युक्तास् ततश् च सिद्धैः सलज्जाः—अस्मद्-व्यभिचारम् अस्मत् पतयो वितर्केयुर् इति तथैवास्मत् पुस्त्वविपर्ययमत्-पत्न्यो वितर्केयुर् इति स्व-स्व-पतिभ्यः सकाशात् स्व-स्व-पत्नीभ्यश् च सकाशाल् लज्जायुक्ता अभूवन् । ततश् च सिद्धेः सहैव कामस्य मार्गणेभ्यः समर्पितानि दत्तानि याभिस्ताः । आयातान् श्री-कृष्ण-विषयक-काम-शरान् आलक्ष्य-भोः श्री-कृष्ण-कामा-शराः युष्मभ्यम् एतान्यस्मच् चित्तानि दत्तानि, एतानि शीघ्रं विद्धीकुरुत अस्माभिः पातिव्रत्याय जलाञ्जलिर् दत्तः, कृष्णोऽस्माभिः सह कृपया रमताम् इति । तस्माभिर् अपि स्वपुं स्वं देवत्वं च त्यक्तं कृष्णोस्मान् सद्य एव स्वयोवगबलेन गोप-स्त्रीकृत्यास्माभिस् सह रमताम् इति समर्पित-पदव्यङ्ग्यं ज्ञेयम् । ततश् च सिद्धैः सहैव कश्मलं काम-शर-पीडया मोहं मूर्छा ययुः प्रापुः । कश्मलस्यानुभावम् आह—अपस्मृता न स्मृताः स्खलिता अपि नीव्यो याभिस् ताः । सिद्धैस् तु सहैव शिथिल-वस्त्र-बन्ध-केशबधादिका बभूवुर् इत्य् अर्थः । समासान्ताभाव आर्षः । अकस्माद् दैवीनां देवानां च यद्येतादृशावस्थास् तर्हि वयं मानुष्यस् तत्रापि गोप्यस् तत्राप्य् एक-नगरस्थास् तत्रापि लब्धाङ्ग-सङ्गाः कथं तं विना स्थास्यामस्तद् उत्तिष्ठत सख्य एतान् दघमुखान् पश्यतोऽपि पतिश्वशुरादींस्तिरकृत्य केनचिन् मिषेण वृन्दावनं प्रविश्य प्राण-प्रेष्ठेन सार्द्ध विलसाम इति ध्वनिः प्रतियुगलान्तमेवानुवर्तनीयः ॥२.३॥


कैवल्य-दीपिका : अथ द्वाविंश-श्लोकैः प्रवासम् आह—वाम-बाहुर् इति । अत्र चैकादश-युगलानां प्राग्वच् च वर्ण-त्रिवर्ग-निर्वाहः । प्रवासत्वे तु गोप्यः—

गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः ।

कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ [१०.३५.१] इति गमकम् ।

इदं चरण-भ्रमणैर् लक्षितं स्वागताख्यं छन्दः । वाम-बाहौ कृतो निहितो वामः कपोलो येन । वल्गिते किञ्चिद् उच्चलिते भ्रुवौ यस्य स तथा । कोमलाभिर् अङ्गुलीभिर् आश्रिताः स्पष्टा मार्गाः । षड्जादि-स्वर-व्यञ्जकानि स्थानानि यस्मिन् वेणौ तम् । तत्र यदा ईडयति वादयति । हे गोप्यः ! अत्राद्य पादयोर् व-कारः आदिः कृत इति चित्रम् ॥

व्योम- इति । तदा व्योम-यान-वनिताः खेचर-स्त्रियः । तद् वेणु-वादन-कामस्य मार्गणाः सम्मोहनादयः पञ्च-शराः, तेषां समर्पितम् । तद्-वशीभूतं चित्तं यासाम् । कश्मलं मोहः । अपस्मृता शिथिलीभूता नीवी यासां ताः । अत एव वेणु-गीतोद्दीपन-स्वभावस्य नीवी-श्लथत्वेन प्रकटितत्वात् सलज्जः । अत्राद्ययोर् व-कारः, अन्त्ययोः क-कारः ॥२-३॥ [मु।फ। १२.४०-४१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वाम-बाहुर् इत्य्-आदि । प्रथमतो वेणु-वादन-लीला एव वर्णयन्ति द्वाभ्याम् । एवं द्वादशभिर् युग्मकैर् द्वादश रतयो बोद्धव्याः । हे गोप्यः ! अथवा, गोप्ये गोपनीये स्थने अतिनिभृते यत्र यदा वेणुम् ईरयति, तदा कश्मलं ययुर् इत्य् उत्तरेणान्वयः । कीदृशः ? वाम-बाहौ कृता बाम-बाहुना परिरव्धा वाम-कपोला राधा येन, श्री-कृष्णस्य गण्ड-प्रतिबिम्बेन वामो मनोहरः कपोलो यस्याः सा तथा । वल्गिता भ्रूर् यस्य भ्रू-भङ्ग-गतां पश्यन् हृद्-गतां वा कथं प्रकाशयन्, वस्तुतस् तु वाम-बाहौ कृतो वाम-कपोल इति यथाश्रुतोर् अथो नाति-ललितः—ग्रीवा-भङ्गस्य व्यथाजनकत्वात् ॥२॥

व्योम-यान-वनिता इति । कीदृश्यः ? ताः सह सिद्धैः विस्मिता अपस्मृत-नीव्यः सत्यः कश्मलं ययुः । सह-सिद्धैर् इत्य् अस्यायं भावः—तथाविधं लावण्यं दृष्ट्वा सिद्धानाम् अपि मनोरथ-गम्ये भोग्यत्वे वनिता-सजातीये कश्मलम् आसीत् । तेषाम् अपि तद्-भावेन काम-मऋगण-समर्पित-चित्तत्वम् इति भावः । अतः स्व-वनिताः प्रत्यसूया नाभूद् इत्य् अर्थः । सलज्जा इति रमितानां पति-सङ्कोचेन तेषां सजातीय-भाव—परित्याजेन—इत्य् अद्भुतं महद् इति विस्मयो भावः ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

जयन्ति व्रज-देव्यस्ता यासां गीतार्थम् ईप्सति ।

अज्ञोऽपि यासां माहात्म्य-प्रपत्त्येकवलादयम् ॥

अत्र स्वतन्त्राणां बह्वीनां वक्तृत्वात् सर्वत्र वक्तृ-भेद एव कल्प्यः, तत्र च स्व-स्वरुच्यनुसारेण किं वा, कथञ्चित् साक्षात् तत्-तद् अनुभवेनैव तथा तथोक्तिर् ऊह्या । ततश् च वर्गशः स्व-स्व-स्थाने स्थितासु मध्ये श्री-व्रजेश्वरी-निकटे वर्तमानानां तत्-सम्बोधनेनाग्रे विविधेत्य् आद्य् उक्तिर् ज्ञेया, तत्रापि सतां सन्तोषायैक-वाक्यतया यथा-भक्ति सङ्गतिर् दर्श्यते । तत्र गृहान् निःसरणम् आरभ्य तत्रागमनावधि-क्रमेण श्री-भगवतो वन्य-क्रीडा गायन्त्यस् तत्र चादौ प्रातर् वन-गमनार्थं तेन बहिर् वेणावीरिते सति सिद्ध-वनितानां सायं गृहं प्रविष्टं तम् अपश्यन्तीनां तद् दिदृक्षया नोक्तम्, व्योम्नि स्थितानां तद् वाद्यस्य तद् वादन-मुद्रया तदीय-सौन्दर्य-लीला-विशेषस्य च तासां व्योम-यानत्वाद् अनावृतत्वेन प्राग् एवानुभवात् तासाम् एव प्रेम-मोहम् आहुः—वामेति युगलेन ।

वाम-बाहु-कृत-वाम-कपोलत्वेन श्री-ग्रीवाया ईषत् परिवर्तनं तिर्यक्त्वं च तथा वक्रोर्धावलोकनं तथा वेनु-वादनेऽभि-निवेशस् तथा सुप्रसिद्ध-त्रिभङ्ग्य् अनुसारेण श्री-वाम-जङ्घापरि श्री-दक्षिण-जङ्घान्तस्य न्यासश् च ज्ञेयः । अधरोऽर्पितो न्यस्तो यस्मिन् दत्तो वन् यस्मै तं च वेणुञ्चेति समासः, सदा तस्य तत्-संयोगाभिप्रायेण विम्वादि-रूपकाप्रयोगः । आरुण्य-माधुर्यादि-गुणान् अपेक्षयापि तत्-सम्बन्ध-मात्रेणैव वेणु-वाद्यस्य मोहनत्व-बोधनाय । किं वा, सदा वेणु-संसर्गेण तस्मिन्न् ईर्ष्योदयात् । कोमलेति कैशोरे स्वभावतः श्रीमद् अङ्गानाम् अनुद्भिन्नकाठिन्यस्य सौन्दर्यस्यैव वन् विवक्षया, न तु, केवलं मृदुलत्वाभिप्रायेणैव अकर्म-कठिनौ हस्तौ पादौ चाध्वनि कोमलौ इति सत्-पुरुष-लक्षणे हस्तयोः सहज-काठिन्यस्यैवोक्तेः,

यद् वा, वेण्वीरणस्य मधुर-मन्दत्व-विवक्षया । यद् वन्, मुष्टिनैव शङ्ख-चूड-शिरो हृत्वा दुष्टेषु कठिनतरयोर् अपि प्रिय-जनेषु तेषु कोमलतयैव परिस्फूर्तेर् इति \ एवं सहज-महा-सौन्दर्यमयस्यापि तस्य वेणु-वादने मुद्रा-विशेषेण सौन्दर्य-विशेषो दर्शितः, तेन वेणु-वाद्यस्य महा-मोहनत्वम् एवाभिप्रेतम्, श्लेषेणोक्तम् इदम् । अधरार्पणेन वेणोस् तद् अमृत-पानतः सौभाग्यभरं मत्वा प्रेम-रस-कोमलाभिः सतीभिर् अङ्गुलिभिस् तस्य मार्गम् अश्रित इति, हे गोप्य इति परम-विदग्धाभिस् तत्तत्त्वं युस्माभिर् एव वोद्धुं शक्यते, न त्वन्यैर् जनैर् इति भावः । ईरणे प्रयोजनम्—मुकुन्दो जगतां परमानन्दं ददद् इत्य् अर्थः । यत्र यदेति वक्ष्यमाण-मोह-प्राप्तौ तदात्वं तत्-काल-जातत्वं तस्यां वेण्वीर् अणैक-हेतुत्वञ्चावश्यकत्वादिकम् अप्य् अभिप्रेतम् । एवम् अग्रेऽपि ॥२॥

व्योम-यानं विमानं तद् वनिताः, यद् वन्, व्योम्ना यानं गमनम्, यद् वन्, व्योम्नि यानानि विमानानि येषां सिद्धानां तेषां वनिताः, यासां वनितानां ता इति वन्, इति तासां श्री-भगवन् निकटत्वं श्री-वृन्दावन-भूववर्तित्वादिकं च निरस्तम् । केवलम् उपरि दूरवर्तित्वम् एवाभिप्रेतम्, तथापि सिद्धा देव-विशेषा जीवन् मुक्ता वन्, क्रमेण मुक्ति-पदारोहका इति तेषां भक्ति-रसाभावः सूचितः, तैर् अपि सह विस्मिताः, अपूर्वत्वात्, तादृशानां पतीनां महतां वन् साक्षात्-कम-मार्गण-समर्तित-चित्तत्वात् सलज्जा लज्जिताः, पश्चाद् धैर्य-हान्या कश्मलं ययुः । अन्यत् तैर् व्याख्यातम् । यद् वन्, सिद्धैः सहेति सिद्धानाम् अपि तादृशत्वम् उक्तम्, तद् रस-ह्रहणे स्त्री-णाम् एव भाव-विशेषेण प्राधान्यम् एषां च गौणत्वात् साहित्येन निर्देशः, उपधार्य श्रवण-द्वारा हृदयेऽभि-निवेश्येत्य् अर्थः

प्रथं विस्मितास् ततः कामोदयेनापस्मृतनीव्यो विश्लथी-भूत-नीविकाः, ततः सलज्जाः, ततश् च कामोद्रेकेण कमस्य सम्मोहनादि-पञ्च-शरेभ्यः सम्यग् अर्पितं मरण-भयादिनोपहारीकृतं निज-धन-तुल्यं चित्तं याभिस् ताः, नितरां तद् वशी-भूत-चित्ता इत्य् अर्थः । कुत्रापि निभृतं गोपयितुं योग्या इत्य् अर्थः । एवम् अनेन युगलेन रूप-लीलादेर् वेणु-नादस्य च परम-मोहनत्वम् उक्तम् । यद्य् अपि तेन तेन सर्वेषाम् एव मोहः सम्भवेत्, तथापि विशेषेण सिद्ध-वनितानाम् एवात्र तद् उक्तिः । वाम-बाहु-कृत-वाम-कपोलत्वेन प्रायो वक्रोर्ध-दृष्टि-भङ्ग्या तासां स्व-विषयक-तद् दृष्टिमननेन तादृश-भावोदये प्राधान्याभिप्रायेण । एवम् अग्रेऽपि । तत्र तत्र तेषां प्राधान्या पेक्षयैव तत्-तद् उक्तिरूह्या, तद्-विशेषश् च तत्र तत्रैव व्यक्तो भावी । तत्र युग्म-श्लोकेनैव सर्वत्रान्वयः, श्री-कृष्णस्यात्मनश्चान्योन्यं सम्मिलनेनैवाभीष्ट-परिपूर्त्तिः स्याद् इत्य् अभिप्रायेण । तत्र च प्राय एकेनादौ रूप-लीलादेर् वर्णनम्, अन्येन च वेणुनाद-कृतस्य, तद् अपि स्वतन्त्रस्यापि तस्य मिथः सङ्गत्यैव माधुर्य-विशेषः स्याद् इत्य् आशयेनेति दिक । अत्रापि सर्वत्र पूर्ववच् चित्र-वर्ण-विन्यासो विचार्यः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

जयति व्रज-देवीनाम् अपूर्वा महिमावली ।

यद् आलम्ब-लवाद् एव तद्-गीतिः व्याचिकीर्षति ॥

अथ परः कोटीनां यूथश एकैकशश् च भिन्नानुभव-भावानाम् एकस्यां सभायां दुर्घट-युगपत् सर्व-समावेशानाम् अत एव व्रज-देव्य इति तव सुतः सतीति नाना-सम्बोधनीय-जनानां प्रतिदिन-लीला-सामान्य-वर्णन-पराणां संक्षेपेण वाक्य-सङ्ग्रहोऽयम् अध्याय इति यद्यपि स मिथो वाक्य-सङ्गतिर् अपेक्षा तथापि श्रीमता कवीन्द्रेण प्रातर् आदि तत्-तल्-लीला क्रमत एव तत्-सङ्ग्रहः कृत इति क्वचित् द्वित्रादिकम् अपि युगलम् एक सभागतम् इति च सङ्गतिः कर्तव्या । तत्र प्रति नियत युगलतया वर्णनं प्रति युगलं च लीला । तत्-पोष्य-जनयोः पूर्वापरी-भावेनेत्य् अत्रैवम् अभिप्रयन्ति । यद्यपि श्री-कृष्ण-लीलैव केवल-पुरुषार्थः । तत्-पोष्य-जनस् तु तद्-अनुगततयैव, तथापि तद्-युगलतां विना न सुख-लाभ इत्य् अहो कष्टम् अस्माकम् एव तादृश्यां लीलायां प्रवेशो नास्तीति । तद् एवं गृहान् निःसरणम् आरभ्य तत्रागमनावधि श्री-भगवतो वन्य-क्रीडाः कदाचित् काश्चन काश्च्चिद् अनुभूय यथा-स्वं यथानुभवं गायन्त्यस् तत्र चादौ प्रातर् बहिर्भूय वन-वर्त्मनि तेन वेणाव् ईरिते सति सिद्ध-वनितानां सायं गृहं प्रविष्टं तम् अपश्यन्तीनां तद्-दिदृक्षया नक्तं व्योम्नि स्थितानां तद्-वाद्यस्य तद्-वादन-मुद्रया तदीय-सौन्दर्य-लीला-विशेषस्य च तासां व्योम-यानत्वाद् अनावृतत्वेन प्राग् एवानुभवात् श्री-भगवतश् च वाम-बाहु-कृत-वाम-कपोलत्वेन प्रायो वक्रोर्ध्व-दृष्टि-भङ्गितया स्व-विषयक-तद्-दृष्टि-मननाच् च प्राधान्यतस् तासाम् एव प्रेम-मोहम् आहुः—वामेति युगलेन ।

वाम-शब्दस्यार्थान्तरेण मनोहरता व्यञ्जनात् स एव प्रयुक्तो न सव्यादि-शब्दः । वाम-बाहु-कृत-वाम-कपोलत्वेन श्री-ग्रीवाया ईषत्-परिवर्तनं तिर्यक्त्वं च तया वक्रोर्ध्वावलोकनं तथा वेणु-वादनेऽभिनिवेशस् तथा सुप्रसिध-त्रिभङ्ग्यानुसारेण श्री-वामजङ्घोपरि श्री-दक्षिण-जङ्घास् तस्य न्यासश् च ज्ञेयः । वल्गित-भ्रूर् इति ह्रस्वत्वम् आर्षम् । दीर्घोऽपि पाठः क्वचित् । अधरेऽर्पितो यो वेणुस् तम् । यद् वा, अधरोऽर्पितो न्यस्तो यस्मिन् दत्तो वा यस्मै स चासौ वेणुश् चेति विग्रहस् तम् । सदा तस्य संयोगाभिप्रायेण । इदं च निष्ठायाः पूर्व-निपाताभावार्थम् आहिताग्न्य्-आदौ पठनीयम् । बिम्बादि-रूपकाप्रयोग आरुण्य-माधुर्य-गुणास्फूर्ताव् अपि तत्-सम्बन्ध-मात्रेणैव वेणु-वाद्यस्य मोहनत्व-बोधनाय । किं वा, सदा वेणु-संसर्गेण तस्मिन्न् ईर्ष्योदयात् । अकर्म कठिनौ हस्तौ पादौ चाध्वनि कोमलाव् इति महा-पुरुष-लक्षणत्वेऽपि कोमलेति प्रयोगः स्नेहेन । अन्याङ्गापेक्षिक-काठिन्यांशम् अनपेक्ष्य वस्त्व्-अन्तरापेक्षिक-कोमल्यांश-स्फूर्तेः । तथा मात्सर्येण तस्यातिकठिन-मुरली-स्पर्शानौचित्याभिप्रायात् । अतोऽस्मासु कोमलाङ्गिष्व् एव तत्-स्पर्शोऽपि युक्त इति गूढोऽभिप्रायः । एवं सहज-महा-सौन्दर्य-मयस्यापि तस्य वेणु-वादने मुद्रा-विशेषेण सौन्दर्य-विशेषो दर्शितः । तेन च वेणु-वाद्यस्य महा-मोहनत्वम् एवाभिप्रेतम् ।

हे गोप्य इति परम-विदग्धाभिस् तत्-तत्त्वं युष्माभिर् एव बोद्धुं शक्यते न त्व् अन्यैर् जनैर् इति भावः । यत्र यदेति वक्ष्यमाण-मोह-प्राप्तौ त्वत्-काल-जात्वं तस्यां वेण्वीरणैक-हेतुत्वं च आवश्यकत्वादिकम् अप्य् अभिप्रेतम् । एवम् अग्रेऽपि । व्योम-यानं विमानं तद्-वनिता देव्यः । सिद्धैस् तद्-यानैर् देवैर् इत्य् अर्थह् । अपूर्वत्वात् तैर् अपि सह विस्मिता बभूवुः अतस् तैः स्वपतिभिर् महद्भिश् च सह वर्तमाना अपि काम-मार्गणैः कर्तृभिः समर्प्तितं चित्तम्, अर्थात् कृष्णाय यासां तथा-भूता बभूवुः । ततः स-लज्जा बभूवुः । एवं लज्जावत्योऽपि तन्-मार्गणेन मोह-पर्यन्तां दशां प्रापुः । यत्रापस्मृता स्खलिता अतिविस्मृता नीव्यो याभिस् तादृश्यो बभूवुर् इत्य् अर्थः । अन्यत् तैः ।

यद् वा, विस्मयानन्तरं स्त्री-स्वभावेन कामोदयात् सलज्जा बभूवुः ततश् च काम-मार्गणैः समर्पितं बलाद् आपस्मृत-नीविकाश् चापि बभूवुर् इत्य् अर्थः । अतो यत्र देव्योऽपि मुह्यन्ति तत्र का वयम् ? इति भावः ॥२-३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रादौ वन-वर्त्मनि वेणोर् ईरिते व्योम-यान-वनितानां सर्वोपरि वर्तमानत्वेन प्रथमम् अनुभवन्तीनां मोहम् आहुः—वामेति युगलेन । कोमलेनेति प्रयोगः स्नेहेन ईरयति गातुं प्रेरयति ॥२-३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वाम-बाहु-कृतेनेत्य् आदिना प्रथमतो वेणु-वादन-लीलां वर्णयन्ति द्वाभ्याम् । हे गोप्यः ! अथवा, गोप्ये रहस्य् अतिनिर्जन-स्थल इति यावत्, तेनायं वेणु-नादः सङ्केत-परः श्री-राधिकोक्तिः । अथवा, तत्-सखीनाम् एव पूर्वानुभूत-वेणु-कथानुकरणम् । तथा हि, वाम-बाहौ कृता वाम-बाहुना श्लिष्टा वाम-कपोला राधा येन । अत एव वल्गिता चञ्चला भ्रूर् यस्य, भावितत्वात् । अतो गोप्ये रहसि यत्रेत्य् अस्य विशेषणम् । तदा व्योम-यान-वनिताः कश्मलं मोहं ययुर् इति परेणान्वयः । व्योम-चरत्वाद् गोप्येऽपि स्थले तास् तथाविधं पश्यन्तीति भावः । पूर्वं तद् उपधार्य स-लज्जाः, पश्चात् काम-मार्गण-समर्पित-चित्ता अपस्मृत-नीव्योऽपस्मृत=नीवि-मोक्षाः कश्मलं यौर् इत्य् अर्थः । अथवा, सह-सिद्धैर् इति पति-साहित्ये सलज्जत्वम् । एवं द्वादशभिर् युग्मकैर् द्वादश-वक्त्र्यो बोद्धव्याः ॥२-३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृन्दावने गाः सञ्चार्य तत्रत्य-तरु-वल्लि-खग-मृगादीन् नक्तन्तन-स्व-विरह-खिन्नान् आश्वासयन् स्वागमनम् आवेदयितुं यदा वेणुना कृष्णः सञ्जगौ तदा तद्-आकर्णनेनोद्दीप्त-भावा गोप्यः स्व-स्व-यूथ-स्थाः सखीः प्रत्याहुः—वामेत्य् आदि द्वादश-युगलानि । हे गोप्यः ! वाम-बाहौ वाम-बाहु-मूले कृतः अर्पितः वाम-कपोलो येन सः । गीतस्यारोहावरोहयोर् गम-कमयी-करणं तेनैव प्रकारेण सम्भवेत् । तथैव वाम-जङ्घोपरि दक्षिण-जङ्घाधस् तटन्यासोऽपि ज्ञेयः । तेन त्रिभङ्ग-ललितस् तिर्यग्-ग्रीवस् त्रैलोक्य-मोहन इति नाम त्रयं प्रकटी-बभूवेति भावः । वल्गिते नर्तिते ध्रुवौ येनेति सुबलादीन् पुरस्थितान् गान-सौष्ठवे अवधापयितुम् इति भावः । ह्रस्वत्वम् आर्षम् । अधरेऽर्पितो न्यस्तोऽधराय दत्तो वा यो वेणुस् तं, यत्र यदा ईरयति । कीदृशम् ? कोमलाभिर् अन्य-जनाङ्गापेक्षया सुकुमाराभिः । अकर्म-कठिनौ हस्तौ इति सामुद्रिकात् स्वाङ्गापेक्षया त्व् ईषत् कठिनाभिर् अङ्गुलीभिर् आश्रिताः मार्गाः सप्त-स्वर-च्छिद्राणि यस्य तम् । तदा व्योम-यानानां सिद्धानां वनिताः सिद्धैः स्व-पतिभिः सहिता अपि प्रथमं तद्-वेण्व्-ईरणम् उपधार्य आकर्ण्य विस्मिताः । अहो! वेणु-नादस्यैतावन् मोहनत्वम् अनुभूत-चरं यतोऽस्मान् साध्वीर् अपि मोहयति । अस्मान् पुरुषान् अपि स्त्री-भाव-युक्तीकृत्य मोहयतीति । श्री-कृष्ण-विषयक-काम-शरान् आलक्ष्य, भोः श्री-कृष्ण-काम-शराः । युष्मभ्यम् एतान्य् अस्मच्-चित्तानि दत्तानि, एतानि शीघ्रं विद्धीकुरुतः अस्माभिः पातिव्रत्याय जलाञ्जलिर् दत्तः । कृष्णोऽस्माभिः सह कृपया रमताम् इति । तथा अस्माभिर् अपि स्व-पुंस्त्वं देवत्वं च त्यक्तम् । कृष्णोऽस्मान् सद्य एव स्व-योगेन गोप-स्त्री-कृत्यास्माभिः सह रमताम् इति । समर्पित-पदव्य्-अङ्गं ज्ञेयम् ।

ततश् च सिद्धैः सहैव कश्मलं काम-शर-पीडया मोहं मूर्च्छां ययुः प्रापुः । कश्मलस्यानुभावं सहैवम् आहुः । अपस्मृता न स्मृता स्खलिता अपि नीव्यो याभिस् ताः । सिद्धैस् तैः सहैव शिथिलित-वस्त्र-बन्ध-केश-बन्धादिका बभूवुर् इत्य् अर्थः । समासान्तर्भाव आर्षः । अकस्माद् देवीनां देवानां चापि यद्य् एतादृश्य् अवस्था तर्हि वयं मानुष्यस् तत्रापि गोप्यस् तत्राप्य् एक-नगर-स्थास् तत्रापि लब्धाङ्ग-सङ्गाः कथं तं विनास्थास्यामस् तद् उत्तिष्ठत सख्यः । एतान् दग्ध-मुखान् पश्यतोऽपि पति-श्वशुरादींस् तिरस्कृत्य केनचिन् मिषेण वृन्दावनं प्रविश्य प्राण-प्रेष्ठेन सार्धं विलसाम इति ध्वनिः । प्रति-युगलान्त एवानुवर्तनीयः ॥२-३॥


॥ १०.३५.४-५ ॥

हन्त चित्रम् अबलाः शृणुतेदं

हार-हास उरसि स्थिर-विद्युत् ।

नन्द-सूनुर् अयम् आर्त-जनानां

नर्मदो यर्हि कूजित-वेणुः ॥

वृन्दशो व्रज-वृषा मृग-गावो

वेणु-वाद्य-हृत-चेतस आरात् ।

दन्त-दष्ट-कवला धृत-कर्णा

निद्रिता लिखित-चित्रम् इवासन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हन्त हे अबलाः ! इदं चित्रं शृणुतहार-हासो हारवद् विशदो हासो यस्य सः । यद् वा, वेणु-वादनेनाधो-वदनेन हसतो हारेषु स्फुरन् हास्यो यस्य सः । यद् वा, हारवद् वक्षसि शोभमानो हास्यो यस्य सः । यद् वा, हाराणां हास इव विशदा स्फूर्तिर् यस्मिन् । उरसीति उरसि स्थिरा विद्युद् इव लक्ष्मीर् यस्य सः । यर्हि यदा कूजित-वेणुर् नादित-वेणुर् भवति, तदा व्रजे वृषा मृगा गावश्वेणु-वाद्येन हृतानि चेतांसि येषां ते । आरात् दूराद् एव दन्तैर् दष्टाः कवला ग्रासा यैः, ते धृता उत्तम्भिताः कर्णा यैस् ते निद्रिता इव लिखितं चित्रम् इव चासन् । अविदुषाम् तिरश्चाम् इदम् अतिचित्रम् इत्य् अर्थः ॥४-५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [यु १] हन्त इति हर्षे । हारवन् मुक्तावलिवद् विशदः श्वेतो हासो यस्य स तथा, हारो मुक्तावलौ युधि इति मेदिनी । विशद-श्वेत-पाण्डुराः इत्य् अमरः । हासस्य वस्तुतोऽमूर्तत्वात् तत्र विशदत्वारोपणम् अनुचितम् इव मत्वाह—यद् वा इति । कदाचिन् मुक्तावल्य्-असत्त्वे विशेषण-वैय्यर्थ्यं मत्वाह—वक्षसि । हास्यावसरे दन्त-दीधिति-पुण्ज एव हारवद् भातीत्य् अर्थः । सम्भवत्वाद् उरो-विशेषणं शोभनम् इदम् इति मत्वाह— यद् वा इति ॥ हाराणां हास इवेत्य् उत्प्रेक्षैव हार-दीप्तेर् हासत्वेनोत्प्रेक्षणात् । एवम् एव विद्युतो लक्ष्मीत्वेनोत्प्रेक्षणम् एव । अयम् इत्य् उक्तिर् बुद्धि-सन्निहितत्वात् । आत्म-विरह्आर्तानां नर्मदः परिहासदः । आनन्द-जनकः इत्य् अर्थः । द्रव-केलि-परीहासाः क्रीडा खेला च नर्म च इत्य् अमरः ।*। वृन्द-वृन्दम् इति वृन्दशः । इह सङ्ख्यैक-वचनाच् च वीप्सायाम् इति शस् । एकैक-वृन्देन पृथक् पृथक् स्थिता इत्य् अर्थः । अविदूषाम् अल्प-ज्ञानताम् इत्य् अर्थः । इहाल्पार्थेन नषा समासो न त्व् अभार्थकेन तेषाम् अप्य् आहार-मैथुनादि-ज्ञान-दर्शनात् । इदं ग्रास-स्थिति-पूर्वकं वेणु-नाद-श्रवणम् । इत्य् अर्थ इति—किञ्चिज् ज्ञानवतां यदीयं दशा तर्हि किम् अस्माकं विशेष-ज्ञानवतीनाम् अनवधाने वक्तव्यम् ? इति भावः । देव-वनितानां विदग्ध-प्रवराणां का वार्ता ? मूढ-जनानाम् अपि मोहं शृणुतेत्य् अन्या आहुः—हन्त चित्रम् इत्य् अद्भुताद् अप्य् अद्भुतम् इत्य् अर्थः । हे अबला इति स्त्रीणां युष्माकं पातिव्रत्य-बलं कृष्णेन प्रथमत एवापहृतम् इति भावः । हाराणां बलाकानाम् इव हासः प्रकाशो यत्र तथा-भूतः । उरसि मेघोपमा स्थिता विद्युत् तत्रत्य् अलक्ष्मी रेखैव यस्य सः । तेन बलाका-विद्युद्-भूषित-कृष्ण-वक्षो-मेघेनैव भवतीनां पातिव्रत्यनिदाघो ध्वंसित इति भावः । अत एवायम् आर्तजनानां युष्माकं नर्म सर्व-लोक-कतृकम् उपहासं ददातीति सः कदा यर्हि कूजित-वेणुर् भवति तद् एत्य् अर्थः । वेणु-नाद-मात्रेण शिथिल-नीवीकबरीकाः प्राप्तोन्मादाः सर्व-लोक-हासास्पदीभूता भवत्यो भवन्तीति भावः । युष्माकं मानुषीणां का वार्ता तिर्यग् जातयोऽपि वेणुनादेन मूर्छिताः क्रियन्त इत्य् आहुः—वृन्दशः । प्रतियूथम् इत्य् अर्थः । व्रजस्था वृषा व्रजस्था मृगा गावश्दन्तैर् दष्टाः कवलास् तृण-ग्रासा यैस् त इति तृणेषु दन्तैर् दष्टेषु सत्सु तन्-निगलनात् पूर्वम् एवारब्धेन वेणु-नादेनैव बलात् कर्ण-मार्गैर् एव देहान्तः प्रविष्टं, न तु मुख-मार्गेण तृण-ग्रासा देहान्तः प्रविष्टाः । अत एव धृता उत्तम्भिताः कर्णा यैस् ते । ततश् ते तेन हृतानि येषां त इत्य् अत एव सर्वेन्द्रिय-व्यापाराभावान् निद्रिता इव, तत एव तृण-ग्रासास् ते दन्त-दष्टत्वस्यानपगमाद् भुव्य् अपि नो पतिता इति भावः । ततश् च प्रबलीभूतेन जाड्य-सञ्चारिणा जनिते तस्यातिशये सति मूर्छायां च सत्यां श्वासस्यापि प्राय-स्तब्धीभावाल् लिखित-चित्रम् इव इत्य् उपमान्तरं दत्तम् । तत्रापि लिखितेत्य् उत्कीर्ण-चित्राद् अपि लिखित-चित्रस्य चमत्कारित्वातिशय-विवक्षयोक्तम् । केनाप्य् अद्भुत-चित्रकारेणाकाश-पट्टे लिखितानि चित्राणीति विस्मय-रसो ध्वनितः ॥४.५॥


कैवल्य-दीपिका- हन्त इति । हन्त चित्रम् । हे अबलाः ! शृणुतेदं हारवद् विशदो हासो यस्य । विशदाद्य्-उद्द्युतिर् यस्याः सा विद्युल् लक्ष्मीः उरसि स्थिरा यस्य । आमूर्ध्व-मस्तकात् स्वाङ्गाद् अकामे इत्य् अलुक् । नर्म कौतुकम् । यर्हि यदा कूजित-वेणुः वेणुं कूजयति । अत्राद्ययोर् ह-कारः, अन्त्ययोर् न-कारः ॥

वृन्दश इति । वाद्यं वादनम् । भावे कृत्यः । आराद् निकटे । दन्तैर् दष्टा न तु निगीर्णाः कवला यैः । धृत-कर्णा वेणु-गीते दत्तावधानाः । निद्रिता इति तारकादित्वादि तच् । निद्रितानाम् अपि किञ्चिच् चलनम् उपलभ्यते, अत्र तु तद् अपि नास्तीति वक्तुम् उद्यमान्तरं लिखित-ग्रहणम् । स्मितं भ्रम-निवृत्त्य्-अर्थम् । अत्राद्ययोर् व-कारः ॥४-५॥ [मु।फ। १२.४२-४३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सख्यः ! इदं नातिचित्रम्, एतास् तु स्त्री-स्वभावेन तल् लावण्याकृष्टतया कश्मलं प्राप्नुर्युनाम्, इदं तु चित्रम् इत्य् अन्या आहुः—हन्त इत्य्-आदि द्वाभ्याम् । हे अबलाः ! बलं स्वातन्त्र्यं तन् न विद्यते यासां तास् तथा, अत इदं शृणुत । हन्त आश्चर्ये । इदं चित्रं यर्ह्य् अयं कूजित-वेणुस् तदा व्रज-वृषा मृग-गावो दन्त-दष्ट-कवला धृत-कर्णा निद्रिता लिखित-चित्रम् इवासन्—इति यत् । कीदृशः ? हारस्य हासो यस्य तस्मिन्न् उरसि स्थिर-विद्युत् स्थिरा विद्युद् इव विद्युच् छ्रीर् यस्य, आर्त-जनानाम् अस्माकं वेणु-ध्वनिनैव नर्मदः परिहास-कारी, अतो यस्य वेणु-ध्वनितं श्रुत्वा पशवो\ऽपि चित्र-प्राया भवन्ति, तस्य वेणु-नाद-कृत-नर्म-श्रवणेनापि सर्व-व्यापारम् अस्माकम् आस्ते इति धिग् अस्मान् । ग्लानि-खेद-विषाद-मति-स्मृतीनां शावल्यम् ॥४-५॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.११८] अधुना गवां तद्-अनुवर्तिनां च वृषाणां तत्-सह-चरितानां च मृगाणां पशु-जातित्वाद् एकत्रैव परमं माहात्म्यम् । पूर्ववद् दिवा-विरह-ताप-शान्तये काश्चिद् गोप्य आहुः—वृन्दशः [भा।पु। १०.३५.५] इति ।

भोः सख्यः ! इदम् अतिचित्रं शृणुत । व्रजस्य सर्व एव वृषा मृगा गावश् च कृष्णस्य वेणु-वाद्येन हृतानि चेतांसि येषां तथा-भूताः सन्तः । आरात् ततस् ततः आगत्य कृष्णस्य समीपे तिष्ठन्तः, तत्र तत्र दूर एव वर्तमाना वा, हृत-चेतस्तया दन्तैः केवलं दष्टा न तु भक्षिता भ्रंशिता वा कवला घास-ग्रासा यैः, तथा तच्-छ्रवण-रसेन धृता उत्तम्भिताः कर्णा यैः, तथा-भूताः सन्तः । निद्रिता इव लिखित-चित्रम् इव आसन् प्रेम-मोहेन क्रिया-ज्ञान-शून्या बभूवुर् इत्य् अर्थः ।

यद् वा, दूराद् एव वेणोर् गीत-रागादि-भङ्गी-रहितं प्रथमं नाद-मात्रं श्रुत्वा हृत-चेतसः परम-व्याकुलाः सन्तः । तद्-विशेष-श्रवणेन च श्री-कृष्ण-विच्छेदक-मरण-भयम् आशङ्क्यमानास् तद्-अश्रवणायाग्र-पादाभ्यां बलाद् धृता आच्छादित-रन्ध्रीकृताः कर्णाः, यैः । पुनश् च तद्-वादन-निवर्तनाय यत्नात् कथञ्चित् कृष्ण-पार्श्वम् आगत्य दन्त-दष्ट-कवलाः कवलवद् दशन-गृहीत-तृणा इत्य् अर्थः पश्चान् निद्रिता लिखित-चित्रम् इवासन् । तद्-रूप-दर्शनेन मुहुर् वेणु-वाद्य-श्रवणेन च प्रादुर्भूत-परम-प्रेम्णा मोहिता इव मृता इव च बभूवुर् इत्य् अर्थः । चित्रम् इत्य् एकत्वाम् जाताव् एकत्वात् । किं वा, प्रेम-मोहेन परस्परम् अवष्टभ्य संकीर्णतयावस्थित्या सर्वेषाम् एकीभावात् अत्रापि पूर्व-श्लोकवत् तात्पर्यम् ऊह्यम् ॥११८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो वनान्तिकं गच्छतस् तस्य विरहार्तानां पश्चात् प्रयान्तीनां श्री-गोपीनां गृहेषु प्रेषणार्थम्, तथा रात्रि-विच्छेद-दुःखितानां सह-चराणां ग्राम्य-वन्य-पश्व्-आदीनां च सन्तोषणार्थम्, वेणु-कूजनेन व्रज-जनानुग्रहाद् व्रज-सम्बन्ध-विशेषवतां वृषादीनां प्रहर्षेण मोहम् आहुः—हन्त इति युगलेन । हन्त—आश्चार्य-सम्बोधने, चित्रम् अद्भुतम् । हे अबलाः ! इति तच्-छ्रवणेन प्रेम-विह्वलतयेन्द्रियादि-शक्ति-राहित्याभिप्रायेण । गौर-वर्ण-चाञ्चल्यादिना विद्युद् इव लक्ष्मीः, विद्युच्-छब्देन वक्षसो मेघत्वं ध्वन्यते । [अभूत्पमा]{।मर्क्} ज्ञेया, मेघे यदि विद्युत् स्थिरा स्यात्, तदा यथा तस्य शोभा तथा लक्ष्म्या तद् उरस इति शोभा-विशेष एव तस्याभिप्रेतः ।

यद् वा, लक्ष्मी-स्वरूपम् अपि तद् उरसि पीत-सूक्ष्म-रेखा ताभिस् तद्-अज्ञानाद् विद्युद्-रूपत्वेनैव वर्णिता । नन्दयति जगद् इति नन्दः, तस्य सूनुर् इति पितृ-स्वभावेनाप्य् आनन्दकत्वम् उक्तम् । अयम् इति अधुनैव यो गृहान् निर्गतः स इत्य् अर्थः । इति वेणु-कूजनस्य निकट-वर्तमानत्वं चाभिप्रेतम् । यद् वा, नन्द-सूनुर् इति स्वभावत एव व्रज-जनानन्दकत्वम्, अयम् इति तस्य साक्षात् सर्वैर् अनुभूयमानत्वं चोक्तम् । अत एव आर्तानां जनानां रात्रौ जाताद् विच्छेदात् सहचराणां ग्रामारण्य-पशु-पक्ष्य्-आदीनां च निज-वन-प्रयाण-विज्ञापनेन दिवसे उपसन्नत्वाच् च श्री-गोपीनाम् अपि समाश्वासनेन नर्म ददातीति सः, सुखं दातुम् इत्य् अर्थः । कुजितेत्य् अतीत-निर्देशो वृषादीनां दूर-वर्तित्वेन सद्योऽश्रवणात्, वाम-बाहु-कृतेत्य्-आदिकम् अत्रापि यथापेक्षम् अनुवर्त्यम्, प्रायस् तथैव तद्-वादनात् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, हन्त हर्षे खेदे वा । हारो मनोहरो हासो यस्य सः ।

यद् वा, यस्मिन्न् उरसि, अत एव उरसि स्थिता नित्यं विद्यमाना विद्युत् विशिष्टा द्युत् द्युतिर् यस्याः सा लक्ष्मीर् यस्य सोऽपि, कूजनं कूजस् तद्-युक्तो वेणुर् यस्य तथा-भूतो यदा भवति तस्यार्तजन-सुखेच्छया यदा स्वयम् एव वेणुर् नदतीत्य् अर्थः । अन्यत् समानम् ।

एवम् अन्यार्थम् एव वेणु-वाद्यं तत्र च शब्द-मात्रम् एव, न तु विशेषतो गीतादीत्य् अभिप्रेतम् । एवम् अग्रेऽपि । तथापि व्रजे ये वृषादयस् ते सर्व एवेत्य् अर्थः । तत्र मृगाः कृष्ण-साराः, वत्सतराणां वृषेषु वत्सतरीणां च गोष्व् अन्तर्भावः । नूतन-वत्साश् च मातृभ्यो दूरतोऽन्यत्रैव चरन्ति, केचिच्चाति-कोमल व्रजान्त-निरुद्धा वर्तन्त इति ते तेन निर्दिष्टाः । यद्य् अपि महिष्यादयो ग्राम्याः शूकरादयश् च वन्याः परेऽपि बहवः पशवः सन्ति, तेऽपि वेणु-वाद्येन तादृशा एव भवन्ति, तथापि वृषादीनाम् एव निर्देशः, तेषु श्री-कृष्णस्य स्नेह-विशेषात् । अत एव व्रजे पशु-सहचरत्वेन मृगाणां व्रजवर्ति-मध्य एव निर्देशः ।

यद् वा, [प्रधानबतया]{।मर्क्} ते तत्रोपलक्षणत्वेनोक्ताः, अन्येऽपि स्वतो द्रष्टव्या एव । तत्र वृषादीनां हृत-चेतस् त्व् आदौ यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । तत्र वृषेभ्यो मृगाणां श्रैष्ठ्यम्, गान-रसिकत्वादि-बुद्धि-विशेषापेक्षयेति दिक् । सहचराश् च गोपा नोक्ताः, तेषां सदा सर्वथैव परमानन्दोदयात्, वाद्यं वादनं भावे कृत्यं तेनैव हृत-चेतसः, रूप दर्शनाब्न् अपेक्षयापि केवलं वेणु-वाद्येनैव हृत-चेतस्त्व-विवक्षया । किं वा, हृत-चेतस्त्वे तदा वेणु-वाद्यस्य प्राधान्यापेक्षया, अत एव पुनर् वेणु-वाद्यस्य प्रयोगः । दन्तैर् दर्ष्टा एव शब्दान्तरोत्थान-भयाद् इव चर्विताः, यथा हृत-चेतस् त्वेन न गीर्णा नापि त्यक्त्याः कवलास् तृण-ग्रासा यैर् धृतास् तद् वाद्य-श्रवणायैवोत्तन्तिताः कर्णा यैः, निद्रितानाम् अपि किञ्चिच् चलनादिकम् अस्तीति तत्-परिहारार्थं दृष्टान्तरम् आहुः—लिखित- इति । पटादौ लिखितं वृषादीनां चित्रम् इव, अद्भुतार्थत्वस्य व्यावृत्त्य्-अर्थं लिखितेति विशेषाणम्, एकत्वं च जात्य् अपेक्षया । अन्यत् तैर् व्याख्यातम् ।

हन्त चित्रम् अबलाः शृणुतेदं हार-हास उरसि स्थिर-विद्युत् ।

नन्द-सूनुर् अयम् आर्त-जनानां नर्मदो यर्हि कूजित-वेणुः ॥

वृन्दशो व्रज-वृषा मृग-गावो वेणु-वाद्य-हृत-चेतस आरात् ।

दन्त-दष्ट-कवला धृत-कर्णा निद्रिता लिखित-चित्रम् इवासन् ॥

यद् वा, सकृद्-दूराद् वेणु-वाद्येनैव हृत-चेतसः परम-व्याकुलाः पुनस् तद् विशेष-श्रवणेन श्री-कृष्ण-विच्छेदकम् अरणभयाद् इव तदश्रवणाय कथञ्चिद् अग्रपादाभ्यां धृता मुद्रिताः कर्णा यैस् तथाभूताः सन्तः, प्रयत्नात् तद् अन्तिकम् एत्य तद् वाद्योपरमार्थं दन्त-दष्टकवलास् तद्-धृत्या मिषेण दन्तैर् गृहीत-तृणाः, पश्चात् तद्-रूप-दर्शनेन मुहुर् वाद्य-श्रवणेन च प्रेमभरोदयान् मोहिता इव बभूवुर् इत्य् अर्थः । एवं पूर्वोक्त-सिद्ध-स्त्री-भावतोऽप्य् एष विशेष ऊह्यः ॥४.५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो वनान्तिकं गच्छन् सर्व-गोपो-पाल-सङ्कलनार्थं वन्य-मृगादि-हर्षणाय स्वानुव्रज्याकर-श्री-गोपादीनां ससान्त्वन-गृह-निर्वर्तनाय चवेणुम् अवाअयत्, तत्रास् ताम् अन्येषां वार्ता चित्रमद्भुतम् । हे अबला ! इति तच्-छ्रवणेन प्रेम-विह्वलतयेन्द्रियादि-शक्तिराहित्याभिप्रायेण । अत एव शृणुतेत्य् अवधापयन्ति । स्थिर-विद्युद् इति वक्षस्थां रेखा-रूपां लक्ष्मीम् एवोत्प्रेक्षन्ते । प्रसिद्धत्वात् तु नानुवदन्ति । तत्र स्थिरेति चित्रत्वे कारणम् । विद्युत् त्वेनोरसश् च घनत्वं व्यञ्जयन्ति । तस्याश् च नायिकात्वम् आशङ्क्य तत्रापि स्थिरत्वं विभाव्य मात्सर्यम् । तथापि विद्युद्धन-सहो-योगेन हार-हासयोर् वलाकात्वं तादृश-घनत्वेन तापहारित्वं च । अत एव नन्दयति जगद् इति नन्दस् तस्य सूनुर् इति स्वभावेनानन्दकत्वम् उक्तम् । अत एवार्त्त-जनानां गवादीनां मृगादीनां चानन्द-दाता अयम् इत्य् अधुनैव यो गृहन् निर्गतः स इत्य् अर्थः । साक्षात् सर्वैर् अनुभूयमान इति वा । कूजितेत्य् आदि कर्मणि क्तः । अन्यत् तैः । यद् व । हारो मनोररो हादो यस्य सः । यद् व । यस्मिन्न् उरसि । अन्यत् समानम् । व्रजे ये निरुध्य पाल्यमानाः शकट-वाहो वृषास् ते, मृगाः कृष्ण-साराः तत् सम्बन्धेन गावो वनगामिन्यस् तद् उपलक्षणत्वेनान्येऽपि तत् तज् जातयो दन्तैर् दष्टा एव हृत-चेतस् त्वेन न गीर्णा न चर्विता नपि त्यक्ताः कवलष् तृण-ग्रासा यैः अत एव हृत-चेतस् त्वेनेत्य् अत्र तस्या मुरल्याः शब्दान्तरोत्थान-भयेनेत्य् उत्प्रेक्ष्यम् । दन्तैस् तृण-धारणे मोह-भयान् मार्गायेति तन् निवेदन-व्यञ्जना च । निद्रितानाम् अपि किञ्चिच् चलनादिकम् अप्य् अस्तीति तत् परिहारार्थं दृष्टान्तान्तरम् आह । लिखितेति । पटादौ लिखितं वृषादीनां चित्रम् इव । लिखित-ग्रहणं लिखित-चित्रस्योत्कीर्ण-चित्राच् चमत्कारकरत्वापेक्षया । एकत्वं सङ्घटेनैकताम् इव गता इत्य् अपेक्षया ॥४.५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततो वनान्तिकं गच्छन् गो-गोप-सङ्कलनार्थं वेणुम् अवादयत् तत्रास्ताम् अन्येषां वार्ता, पशवोऽपि मुमुहुर् इत्य् आहुः—हन्त इति युगलेन । स्थिर-विद्युद् इति वक्षः-स्थां रेखा-रूपैर् लक्ष्मीम् एवोत्प्रेक्षन्ते । प्रसिद्धत्वात् तु नानुवदन्ति व्रजे ये निरुद्धाः पाल्यमाना वृषास् ते तत्-तत्-सम्बन्धेनान्येऽपि ज्ञेयाः । निद्रितानां किञ्चिच्-चलनादिकम् अप्य् अस्तीति दृष्टान्तान्तरं--लिखिता इति । लिखित-ग्रहणं चोत्कीर्ण-चित्राच् चमत्कारित्वापेक्षया । एकत्वं च एकीभावापेक्षया ॥४-५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथान्या ऊचुः—हन्तेत्य् आदि द्वाभ्याम् । हे अबलाः ! इदं शृणुत । किं तत् ? इत्य् आह—चित्रं व्योम-यान-वनितानां स्त्री-स्वभावात् तन् नातिचित्रम् । वृषादीनां पशुत्वाद् यद् ईदृशं वै वश्यम् । तत् तु चित्रम् एवेत्य् अर्थः । कीदृशः ? हारस्य हासो यत्र तस्मिन्न् उरसि स्थिरा विद्युद् इव श्रीर् यस्य । आर्त-जनानाम् अस्माकं वेणु-ध्वनिनैव नर्मदः । तद् अस्माभिर् एव बुध्यते । नान्यैर् इति भावः । अतो यस्य वेणु-ध्वनिना पशवोऽप्य् एवं-भूताः । तस्य वेणु-नाद-कृत-नर्म-श्रवणेनापि गृहे वयं तिष्ठाम, अहो नः परम-काठिन्यम् इति निर्वेदः ॥४-५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-वनितानां विदग्ध-प्रवराणां का वार्ता ? मूढ-जन्तूनाम् अपि मोहं शृणुतेत्य् अन्या आहुः । हन्त चित्रम् अत्यद्भुताद् अप्य् अद्भुतम् इदम् इत्य् अर्थः । हे अबलाः ! स्त्रीणां युष्माकं पातिव्रत्य-बलं कृष्णेन प्रथमत एवापहृतम् इति भावः । हाराणां वलाकानाम् इव हासः प्रकाशो यत्र तथा-भूते उरसि मेघोपमे स्थिरा विद्युत्-तत्रत्य-लक्ष्मी-रेखैव यस्य सः । तेन वलाका-विद्युद्-भूषित-कृष्ण-वक्षो-मेघेनैव भवतीनां पातिव्रत्य-निदाघो ध्वंसित इति भावः । अत एवायम् आर्त-जनानां युष्माकं नर्म सर्व-लोक-कर्तृकम् उपहासं ददातीति । सः कदा यर्हि कूजित-वेणुर् भवति तदेत्य् अर्थः । वेणु-नाद-श्रवण-मात्रेण शिथिल-नीवी-कवरीकाः प्राप्तोन्मादाः सर्व-लोक-हास्यास्पदीभूता भवत्यो भवतीति भावः । युष्माकं मानुषीणां का वार्ता ? तिर्यग्-जातयोऽपि वेणु-नादेन मूर्च्छिताः क्रियते इत्य् आहुः । वृन्दशः प्रति-यूथम् इत्य् अर्थः । व्रज-स्थाः वृषा वनस्था मृगा गावश् च दन्तैर् दष्टाः कवलास् तृण-ग्रासा यैस् ते इति तृणेषु दन्तैर् दष्टेषु सत्सु तन् निगिलनात् पूर्वम् एव आरब्धेन वेणु-वाद्येनैव बलात् कर्ण-मार्गैर् एव देहान्तः प्रविष्टं, न तु मुख-मार्गेण तृन-ग्रासा देहान्तः प्रविष्टा । अत एव धृता उत्तम्भिताः कर्णा यैस् ते । ततश् च तेन हृतानि चित्तानि येषां ते । इत्य् अत एव सर्वेन्द्रिय-व्यापाराभावान् निद्रिता इव । तत एव तृण-ग्रासास् ते दन्त-दष्टत्वस्यानपगमाद् भूमाव् अपि न पतिता इति भावः । ततश् च प्रबली-भूतेन जाड्यसञ्चारिणा जनिते स्तम्भातिशये सति मूर्च्छायां च सत्यां श्वासस्यापि प्राय-स्तब्धीभावाल् लिखित-चित्रम् इवेत्य् उपमान्तरं दत्तम् । तत्रापि लिखितेत्य् उत्कीर्ण-चित्राद् अपि लिखित-चित्रस्य चमत्कारत्वातिशय-विवक्षयोक्तं केनाप्य् अद्भुत-चित्र-कारेणाकाश-पटे लिखितानि चित्राणीति विस्मय-रसो ध्वनितः ॥४-५॥


॥ १०.३५.६-७॥

बर्हिण-स्तवक-धातु-पलाशैर्

बद्ध-मल्ल-परिबर्ह-विडम्बः ।

कर्हिचित् स-बल आलि स-गोपैर्

गाः समाह्वयति यत्र मुकुन्दः ॥

तर्हि भग्न-गतयः सरितो वै

तत्-पदाम्बुज-रजोऽनिल-नीतम् ।

स्पृहयतीर् वयम् इवाबहु-पुण्याः

प्रेम-वेपित-भुजाः स्तिमितापः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अचेतनासु सरित्सु तद् अतीव चित्रम् इत्य् आहुः—हे आलि हे सखि ! बर्हिणो मयूरस्य स्तवकाः पुच्छानि धातुर् गैरिक-रागः पलाशानि पल्लवास् तैर् बद्धश् चासौ मल्लानां परिबर्हः परिकरस् तं विडम्बयति अनुकरोति तथा स मुकुन्दः गोपैः सह वेणुनेत्य् उपरितनम् अत्रापि ज्ञातव्यं यत्र यदा गाः समाह्वयति । तर्हि तद्-ध्वनि-श्रवणात् अनिलेन नीतं तस्य पदाम्बुज-रजः स्पृहयन्त्य इव भग्न-गतयः सरितो वै निश्चितं वयम् इव ता अप्य् अबहु-पुण्या यतो न प्राप्नुवन्ति । केवलं प्रेम्णा वेपिताः कम्पिताः भुजास् तरङ्गा यासां ताः स्तिमिता निश्चला अपो यासां ता गोप्योऽपि लोचनयोः स्तिमित-जला भवन्ति ॥६-७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽप्य् अधिकम् आहुः—किं च इति । तत् वेणु-नादाकर्णनम् । उपरितनं श्लोकेऽत्रापठितम् अप्य् अष्टम-श्लोके पठितम् । अत्रापि षष्ठ-श्लोकेऽपि । सबलो बलदेव-सहितः ।*। यतः अबहुपुण्यत्वात् । सरति चलन्तीति सरित इति सरिच्-छब्दार्थ-हानिः स्तिमिताप इत्य् अनेनोक्तात्र । वृष-मृगादीनां चेतनानां का वार्ता अचेतनानाम् अपि वेणु-श्रवण-हेतुकं स्तम्भं शृणुतेत्य् अन्या आहुः—बर्हिणस्य मयूरस्य स्तबकाः पिच्छानि । यद् वा, बर्हिण-शब्देनैव बर्हिण-पिच्छनि लक्षितानि च स्तबकाः पुष्प-गुच्छाश् च । धातवो गैरिकादयश् च, पलाशानि पल्लवाश् च, तैर् बद्धो यो मल्लानां परिबर्हः परिकस् तं विडम्बयत्य् अनुकरोति स्वभावत उपहसति वा सः । बलदेव-सहितः स मुकुन्दो गोपैर् युक्तः गाः हिही कालिन्दि गङ्गे सरस्वतीति तासां नामभिर् यत्र यद् आह्वयति । तर्हि सरितो यमुनामास-सङ्गा-सरस्वत्याद्याः सरितोऽन्याश् च व्रजस्था अचेतना अपि चेतनां प्राप्य हन्त-हन्ताहो अस्माकं भाग्यं यतस् स्नानावगाहनाद्य् अर्थम् अस्मान् आह्वयति तद् इदं स्वतीक्ष्ण-प्रवाहेण तटं भित्त्वा याम इति कृष्ण-पार्श्वं यियासवोऽपि भग्न-गतयोऽत्यानन्द-जाड्येन स्वाभाविक-गतेर् अपि स्तम्भाव् विगत-प्रवाहा एव भवन्तीति शेषः । श्लेषेण कृष्णाङ्ग-सङ्ग-सुखा-प्राप्त्य् अभावाद् अन्य-नदीकृतोपहासाच् च ऐहिकी गतिर् भग्ना, पतिव्रत्यलोपाल् लौकिकी च गतिर् नष्टा । अहो तासाम् अभाग्यम् इति भावः । किञ्चिद् भाग्यं चाहुः—तस्य पदाम्बुज-रजः अनिल-नीतम् अनुकूलवातानीतं स्पृहयन्त्यः प्राप्यापि तृप्त्य् अभावाद् एव पुनः-पुनर् इच्छन्तीत्य् अर्थः । अतो वयम् इव कृष्ण-सङ्गाद्य् अप्राप्ति-प्राप्तिभ्याम् अबहुपुण्या नाप्य् अपुण्या, अल्प-पुण्या, इत्य् अर्थः । प्रेम्णा वेपिता भुजास् तरङ्गा यासां ताः अस्माकम् अपि भुजाः प्रेम्णा कम्पन्ते स्तिमिता जाड्येन कठिनीभूयापि पुनर् आद्रीभूता आपो यासां ताः । वयम् अपि नेत्रयोस्तिमितजला जलैस्तिमिता भवामः । आहिताग्न्यादिः । समासान्ताभाव आर्षः । एवं वयम् अपि पति-भ्रात्रादिभिः कृष्णाभिसारवारणाद् भग्नगतयः लोकोपहासात् पतिव्रत्य-लोपाच्चैहिकपार-लौकिक-गति-रहिताश् च तद् अङ्ग-सौरभ्य-स्पृहावत्यश् च ॥६.७॥


कैवल्य-दीपिका : बर्हिण इति । बर्हिणो मयूरा विद्यन्ते स्वामितया येषां, तानि बर्हिणानि मयूर-पिच्छानि । अर्श आदित्वाच् अच् । स्तवकाः पुष्प-गुच्छाः । धातु-मनः-शिलादि । पलाशं पत्रं तैर् बद्धो रचितः । मल्ल-परिबर्हाणां मल्लोपकरणानां विडम्बानुकारो येन । कर्हिचित् कदाचित् । एवं विचित्रम् इत्य् अर्थः । आलि वयस्यः । बलो बलभद्रः । अत्रादययोर् व-कारः ॥

तर्हि इति । तर्हि तदानीम् । भग्न-गतयः सञ्जात-जाड्यं सञ्चारि-भावत्वात् । तस्य मुकुन्दस्य । अनिलेन द्रुतीभूतेन नीतम् प्रापितम् । वै-शब्द उत्प्रेक्षायाम् । निष्कारणा नदी-वृत्तिः स-कारणत्वेनोत्प्रेक्ष्यते । उत्प्रेक्षायां भगवतः सरितां च भर्तृ-पत्नी । संव्यवहारम् आरोप्य व्यङ्ग्यः । स्पृहयतीः स्पृहयन्त्यः । रजः स्पृहयतीर् इति द्वितीया-निर्देशो रजस ईप्सिततमत्व-विवक्षया । अन्यया हि स्पृहेर् ईप्सित [पा। १.३.१३] इति पाद-रजः स्पृहयामो, न तु प्राप्नुमः । अबहु-पुण्यत्वात् तथैता इति । स्पृहा-मात्रे स्व-दृष्टान्तो, न त्व् अप्राप्ता, नदीभिः प्राप्तत्वात् । गोपीभिर् अपि बहुशः प्राप्तत्वेऽपि क्षणं विप्रलम्भासहत्वाद् अप्राप्त-बुद्धिः । प्रेम्णा वेपिता विनम्रीभूताः भुजोर्मि-रूपा यासां ताः । स्तिमिता निश्चलाः आभ्यां कम्प-स्तम्भो शृङ्गारानुभावाव् उक्तौ । अत्राद्ययोस् त-कारः ॥६-७॥ [मु।फ। १२.४४-४५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एषां वृषादीनां च यत् किञ्चित् ज्ञानम् अस्ति, तेन तथाभाव एषां नाति-चित्रः । इदं त्व् अतिचित्रम् इत्य् अन्या आहः—बर्हिण इत्य्-आदि द्वाभ्याम् । हे आलीत्य् एकवचनं केवल-नर्म-सखी-परत्व-सूचकम्—रहस्य-कथायास् तथास्वभावात् । रहस्य-कथा चेयम्—सर्वा एव तस्य वेणु-ध्वनि-महिमानम् एव वर्णयन्ति, न तु तस्य केवल-स्वर-सौभाग्यस्य । हे आलि ! त्वम् एव कथयामि, न कुत्रापि प्रकाशनीयम् । मुरली-नादस्य माधुर्यं तत्-स्वर-सौभाग्यत एवेति जानीयाः । यस्य गवाम् आह्वान-ध्वनि-मात्रेणैव नद्यो\ऽपि भग्न-वेगा भवन्तीत्य् आहुः—गाः समाह्वयति यत्र मुकुन्दः, यत्र यदा गा समाह्वयति, अस्तु तावत् यदा गायतीति । सरितो भङ्ग-गतयो भवन्ति, अनिल-नीतम् अपि तत्-पाद-रजः स्पृहयन्ति, अवहुपुण्या इव वयम् इव । अयम् अर्त्रः—वन-गमने\ऽनुकुलेनानिलेन तत्-पद-रजो नास्माकम् अभिमुखम् आनीयते । तस्य पुरत एव तद्-याति । अतस् ता अपि यवम् इव न लभन्ते, पार्श्वस्थितत्वात् । अतो भङ्गगतयो भवन्ति, गतिः प्रवाहः, वयन्तु कुल-मर्यादाम् अद्यापि न भञ्जयाम इत्य् अहो धिग् अस्मान् इति ग्लानि-दैन्ययोः साङ्कर्यम् ॥६.७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो वनान्तः-प्रविष्टस्य तस्य वन्य-भूषणैर् भूषितस्य गवादि-प्रथम-जल-पानाद्य् अपेक्षया नदीनाम् अन्तिकं गतस्य नट-वर-तुल्य-मल्ल-वेशेन तत्र च गो-समाह्वानार्थं वेणु-वाद्य-विशेषेण तासाम् अपि भाव-विशेषोदयेन मोहम् आहुः—वर्हिणेति युगलेन । कर्हिचित् कदाचिद् इति सदा श्री-बलभद्रेण गोपैश् च सह गवाम् अनाह्वानात्, किन्तु तेषां श्रवण-सुखार्थं स्वयम् एव तद् आह्वानात्,

यद् वा, अस्य-पूर्वेणान्वयः, मल्ल-वेशस्य कादाचिकत्वात्, ततश् च तत्-तत्-सहितस्यापि गो-समाह्वानेन सरितां भावोदयात् तद् एक-निष्ठता-राहित्येन तत् तस्माद् धार्ष्ट्येन च ताः प्रत्युपहास इव ज्ञेयः ।

यद् वा, सवलोऽपि गोपैः सहापि, किम् उत एकाकी स्वयम् इत्य् अर्थः । तत् तत्-साहित्येन तद् आह्वानस्य सङ्कीर्णतया माधुर्य-विशेषास्फूर्त्यापीति भावः । यद् वा, तेन भक्त-वात्सल्य-विशेष-प्रकटनान् माधुर्यभरोदयोऽभिप्रेतः, स मुरली-वदनो वेणु-वाद्य-विशारदः सम्यक् तत्-तद्-विचित्र-नामभिर् बहुधा प्रीत्या आह्वयति । मुखे कुन्दान्य् एव कुन्द-तुल्या वा दन्ता यस्येति मुकुन्दः, इति वेणुना समाह्वाने दन्त-रुचि-विकासेन परम-सौन्दर्यं ध्वनितम् । आलि हे सखीति सरितां तादृश-भावे विश्वासार्थम् । यद् वा, सख्येनैव स्वसादृश्यतस् तत् कथ्यत इति भावः

यद् वा, प्रेमार्तां श्री-राधा-देवीं प्रति प्रेमार्ति-वार्ता-प्रतिपादनार्थं श्री-ललितादीनां विशेषतः सम्बोधनम् इदम्, सरितः सदाप्रवाहवत्योऽपीत्य् अर्थः । यद् वा, यदा हे गङ्गे ! हे यमुने ! हे सरस्वत्य् आद्याश् च माथुर-नद्यः, तदा सरितः मानस-गङ्गा-यमुना-सरस्वत्याद्याश् च माथुर-नद्यः, भग्नगतय इति श्लेषेण निज-परि-समुद्रानुसरण-भङ्गेन1 लोक-द्वयोपेक्षोक्ता । रजो-लाभ-योग्यताम् आहुः—अनिलेन नीतं प्रापितं रज एवकम् अपि स्मृहयन्त्यः, दूराद् दास्य-मात्रम् इच्छन्त इत्य् अर्थः । रज इति स्मृहेश् चतुर्थ्याम् अपि द्वितीया, रजस ईप्सिततमत्व-विवक्षया, वयम् इवाबहु-पुण्या इति बहुशस् तत्-प्राप्ताव् अप्य् अतृप्तेः, तथा निज-भावानुसारेण तासाम् अपि स्व-सादृश्यमननाच् च । यद्य् अपि प्र्म्णैव भग्न-गतित्वादिकं सर्वम्, तथापि प्र्म्णा वेपित-भूजा इति वेपनस्य विशेष-विवक्षया । अन्यत् तैर् व्याख्यातम् ।

यद् वा, बर्हिणो मयूरा विद्यन्ते स्वामितया येषां तानि बर्हिणानि मयूर-विच्छानि, अर्श-आदित्वाद् च, स्तवकाः पुष्प-गुच्छाः, पलाशानि पत्राणि, वै उत्प्रेक्षायाम् । स्पृहयन्त इव, इति नदीनां तस्मिन् भाव-विशेषो ध्वनितः । तत्र चानिलेन दूत--रूपेण नीतम् इति, तथा भग्न-गतय इति जाड्यं सञ्चारि-भावः । प्रेमेत्यादि-विशेषणाभ्यां च कम्प-स्तम्भौ शृङ्गारानुभावाव् इत्य् ऊह्यम् ।

यद् वा, भग्नगतय इति स्तम्भः, प्रेमेति कम्पः, स्तिमितेति चेष्टादि-राहित्य-लक्षणो मोहः, अथवा प्रेम स्पृहयन्त्योऽपि । कथम्-भूतम् ? तत्-पादाम्बुज-रजसोऽनिलेन नीतं दूरात् किञ्चित् तत्-सम्बन्धि-प्रसाद-गन्ध-प्राप्तितम् अपीत्य् अर्थः । अन्यत् समानम् । एवं प्रेम-स्पृहयाप्य् अचेतन-जल-प्रवाहमयीषु तादृश-भावोदयात् पूर्वतो विशेषोऽत्र द्रष्टव्यः । यद्य् अपि तादृशीनां तासां तादृश-भाव-कारणं तद् रूप-दर्शन-वेणु-नाद-श्रवणादिकं न सम्भवेत्, तथा तद् रूपादि-प्रभावेणैव सर्वम् उपपद्येतैवेति दिक् ॥६.७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो वनान्तःप्रविष्टस्य मल्ल-वेशोचित-वन्य-भूषणैर् भूषितस्यगवादि-जल-पानाद्य् अपेक्षया विदूर-नदीक-सरोवरमय-देश-गतस्य गोसमाह्वनार्थ-वेणुवाद्य-विशेषान् नदीनाम् अपिभाव-विशेष्दोदयेन मोहं सम्भावयन्ति । बर्हिण इति । स वेणु-वाद्य-विशारदो मुकुन्दः कर्हिचिद् गवां प्रथमं पान-समये यत्र यदा सम्यक् प्रीति-पूर्वकं तत् तद् विचित्र-नामभिर् आह्वयति अप्रधान एव सहार्थे तृतीया विधानात् । श्री-कृष्णनाद-पोषणार्थ एव श्री-बलादीनां नादो बोध्यते तेन सरितां श्री-कृष्ण-निष्ठ एव भावोद् बोधो व्यज्यते । संहत्य नादश् च तासां सर्वासाम् एव दूरगत्वात् अत एव गा इति बहुत्वं ततो दूरश्रवणात् सरित इति च वक्ष्यते । आलि ! हे सखीति सरितां तादृश-भावो विश्वासार्थम् । यद् वा, सख्येनैव स्व-सादृश्यं कथ्यत इति भावः । अन्यत् तैः । अथवा बर्हिण-शब्देन कथञ्चिद् वर्हम् एवोच्यते । स्तबकाः पुष्प-गुच्छाः पलाशाः कोमल-पत्राणि । यदा हे गङ्गे हे यमुने हे सरस्वतीति गङ्गादि-नाम्नीर् गाः समाह्वयतीति मधुरतम-स्वकण्ठेनैवाह्वयतीति विशेषो ज्ञेयः । तदा सरितो माथुर्यो मानस-गङ्गा-यमुना-सरस्वत्याद्याः प्रकारान्तरेप्रप्त्य-योग्यता मननेनानिल-मात्र-प्रापितं रज एकम् अपि स्पृहयन्यो लक्ष्यन्ते स्पृहेर् ईप्सित इति सम्प्रदानत्वेऽपि रजसः कर्मत्वं कर्तुर् ईप्सिततमं कर्मे ति स्मरणाद् ईप्सिततमत्व-विवक्षयया । यतस् तत् स्पृहाहेतो स्तब्ध-प्रवाहतया भग्न-गतयो लक्ष्यन्ते । सरित इत्य् अन्वर्थतया सतत-प्रवाहवत्योऽपीत्य् अर्थः । भग्न-गतय इति श्लेषेण निज-परि-समुद्रानुसरण-भङ्गेन लोक-द्वयोपेक्षोका । अतस् तादृश्योऽतस् तद् अप्राप्त्या वयम् इवाबहु-पुण्या अप्रचुर-शुभादृष्टा एव लक्ष्यन्ते अस्माकम् इव तासाम् इव तासाम् अपि श्री-कृष्ण-क्रीडाश्रय-सजातीफ़्य-विजातीय-गण-भेदासंख्यत्वेन विरलावसरत्वाद् इति भावः । किन्तु केवलं प्रथमतः प्रेम्णा तद् रजः प्राप्तीच्छया वेपिता भुजाः प्रसारितकरा इव तरङ्गा यासां तादृश्यो लक्ष्यन्ते । पश्चात् स्मितापो निस्तरङ्गतया स्तब्ध-समस्त-चेष्टाश् च लक्ष्यन्ते इत्य् अर्थः । अन्यत् तैः । तत्र गोपीनां लोचनयोः स्तिमित-जलत्वं सदा सार्द्रत्वात् । यद् वा, सरित्स्व् अपाम् अङ्गत्वात् स्व-पक्षे स्तिमिताङ्गा इत्य् अर्थः । तद् एतावानुत्प्रेक्षाक्रमः । वस्तु-क्रमस् तु प्रथमं तादृश-शब्द-स्पर्शस् ततः प्रवाह-स्तम्भस् ततस् तरङ्गमावशेष-चलनत्वं ततस् तद् राहित्यम् अपीति । किञ्चित् प्रेक्षाक्रम एवं ज्ञेयः । प्रथमं तच् छ्रवणं ततो गति-भङ्गः ततस् तद् वादकालिङ्गनेच्छया भुज-कम्पः ततस् तद् अप्राप्ति-दुःखेन स्तम्भः ततस् तादृश-रजो-मात्र-स्पृहेति । तद् एवं तथा तथा-भूता अपि तन् मात्रं स्पृहयन्त्य एव लक्ष्यन्ते न तु प्राप्तवत्यः अनिलानुकूल्यात् सुलभत्वात् । यतो वयम् इवाबहु-पुण्या इत्य् अन्वयो ज्ञेयः । तद् एवम् अचेतनानाम् अप्य् एवं वार्ता को वा नामास्माकं दोष इति भावः ॥६.७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततो वनान्तः प्रविष्टस्य तस्य वन्य-भूषणैर् भूषितस्य गवादि प्रथम-जल-पानाद्य्-अपेक्षया विदूर-नदीक-सरोवर-मय-देश-गतस्य गो-समाह्वानार्थ-वेणु-वाद्य-विशेषात् नदीनाम् अपि भाव-विशेषोदयेन मोहं सम्भावयन्ति बर्हिणेति युग्मकेन । अप्रधान एव सहार्थ-तृतीया विधानात् । श्री-कृष्ण-नाद-पोषणार्थ एव श्री-बलदेवादीनां नादो बुद्ध्यते । तेन च सरितां श्री-कृष्ण-निष्ठ एव भावोद्बोधो ज्ञाप्यः । तदा सरितः पर्कारान्तर-प्राप्त्य्-अयोग्यता-मननानिलमात्र-प्रापितं व्रज एकम् अपि स्पृहयन्त्यो लक्ष्यन्ते । यतस् तत् स्व-प्रवाहतया भग्न-गतयो लक्ष्यन्ते । ततस् तादृश्योऽपि तद्-अप्राप्त्या वयम् इवाबहु-पुण्या अप्रचुर-शुभादृष्ट्या एव लक्ष्यन्ते । अस्माकम् इव तासाम् अपि श्री-कृष्ण-क्रीडाश्रय-सजातीय-विजातीय-गण-भेदासङ्ख्यत्वेन विरलावसराद् इति भावः । किन्तु केवलं प्रथमतः तद्-रजः-प्राप्तीच्छया वेपिता भुजाः प्रसारित-करा इव तरङ्गा यासां तादृश्यो लक्ष्यन्ते । पश्चात् तिमितापो निस्तरङ्ग-मात्रावशेष-चलनत्वं ततस् तद्-राहित्यम् अपीति ॥६-७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथान्या ऊचुः—हे सखि ! वृषादीनां तावत् सङ्गीत-श्रवणेन सुखं जायते । तथा च—

शिशुर् वेत्ति पशुर् वेत्ति वेत्ति गीत-रसं फणी ।

हरिर् वेत्ति हरो वेत्ति नारदो वेत्ति नापरः ॥

इति दिशा । इदं त्व् अतिचित्रं यत् सरितोऽपि भग्न-गतयः स्युर् इत्य् आहुः । बर्हिण इत्य्-आदि द्वाभ्याम् । आलीत्य् एक-वचनं केवल-नर्म-सखीत्व-सूचनार्थम् । रहस्य-कथायास् तथात्वात् । रहस्यं त्व् इदम्—सर्वा एव तस्य वेणु-ध्वनि-महिमानम् एव प्रथयन्ति । न तु केवल-स्वर-सौभाग्यम् । मुरली-नादतोऽपि तस्य स्वर-सौभाग्यम् अतिमधुरम् इति यच् छ्रुत्वा अचेतना अपि सरितो वयम् इव तत्-पादाम्बुज-रजः स्पृहयन्त्यः स्तिमितापो भवन्तीत्य् अर्थः । गाः समाह्वयतीति गवाम् आह्वान-स्वरस्यैवं महिमा, अस्तु तावत् तद्-गानस्य । अनिल-नीतम् इत्य् अनुकूलेन मरुता तत्-पद-रजः पुरः पुरो नीयते । तेन पार्श्व-स्थितत्वात् ताभिर् न लभ्यते । केवलं स्पृहा-विषयम् एव तद् भवति । यथास्माकं तेन वयम् इवाबहुपुण्याः । इति दैन्यम् ॥६-७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृष-मृगादीनां चेतनानां का वार्ता, अचेतनानाम् अपि वेणु-श्रवण-हेतुकं स्तम्भं शृणुतेत्य् अन्या आहुः—बर्हिणस्य मयूरस्य स्तवकाः पिच्छानि । यद् वा, बर्हिण-शब्देनैव बर्हिणः पिच्छानि लक्षितानि च, स्तवकाः पुष्प-गुच्छाश् च धातवो गैरिकादयश् च पलाशानि पल्लवाश् च । तैर् बद्धो यो मल्लाप्नां परिबर्हः परिकरस् तं विडम्बयति अनुकरोति, स्व-शोभया उपहसतीति वा सः बलदेव-सहितः स मुकुन्दः गोपैर् युक्तः । गाः हिही कालिनिदि गङ्गे, सरस्वतीति तासां नामभिर् यत्र यदा आह्वयति, तर्हि सरितो यमुना मानस-गङ्गा सरवस्त्य्-आद्याः सरितो अन्याश् च व्रजस्था अचेतना अपि चेतनां प्राप्य हन्त हन्ताहो अस्माकं भाग्यं यतः स्नानावगाहनाद्य्-अर्थम् अस्मान् आह्वयति । तद् इतः स्व-तीक्ष्ण-प्रवाह एव भवन्तीति शेषः । श्लेषेण कृष्णाङ्ग-सङ्ग-सुख-प्राप्त्य्-अभावाद् अनन्य-नदी-कृतोपहासाच् च ऐहिकी गतिर् भग्ना पातिव्रत्य-लोपात् पारलौकिकी च गतिर् नष्टा । अहो तासाम् अभाग्यम् इति भावः । किञ्चिद् भाग्यं चाहुः—तस्य पदाम्बुज-रजः अनिल-नीतम् अनुकूल-पवनेनानीतं स्पृहयन्त्यः प्राप्यापि तृप्त्य्-अभावाद् एव पुनः पुनर् इच्छन्तीत्य् अर्थः । अतो वयम् इव कृष्ण-सङ्गाद्य्-अप्राप्ति-प्राप्तिभ्याम् अबहु-पुण्या नाप्य् अपुण्या अल्प-पुण्या इत्य् अर्थः । प्रेम्णा वेपिता भुजास् तरङ्गा यासां ताः । अस्माकम् अपि भुजाः प्रेम्णा कम्पन्ते । स्तिमिता जाड्येन कठिनीभूयापि पुनर् आर्द्रीभूता आपो यासां ताः । वयम् अपि नेत्रयोः स्तिमित-जला जलैः स्तिमिता भवाम आहिताग्न्य्-आदिः । समासान्ताभाव आर्षः । एवं वयम् अपि पति-भ्रातादिभिः कृष्णाभिसार-वारणात् भग्न-गतयः । लोकोपहासात् पातिव्रत्य-लोपाच् च ऐहिक-पारलौकिक-गति-रहिताश् च तद्-अङ्ग-सौरभ्य-स्पृहावत्यश् च ॥६-७॥


॥ १०.३५.८-९ ॥

अनुचरैः समनुवर्णित-वीर्य

आदि-पुरुष इवाचल-भूतिः ।

वन-चरो गिरि-तटेषु चरन्तीर्

वेणुनाह्वयति गाः स यदा हि ॥

वन-लतास् तरव आत्मनि विष्णुं

व्यञ्जयन्त्य इव पुष्प-फलाढ्याः ।

प्रणत-भार-विटपा मधु-धाराः

प्रेम-हृष्ट-तनवो ववृषुः स्म ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्थावरेष्व् अप्य् अतिचित्रं दृश्यत इत्य् आहुः—अनुचरैर् गोपैर् देवैर् वा मुग्धानां वाक्यम् आदि-पुरुष इवेति अचल-भूतिर् निश्चल-श्रीः । वेणुना तत्-तन्-नाम्नां गानेन । तदा प्रणता भारेण विटपाः शाखा यासां ताः वन-गता लता स्वस्मिन् विष्णुं प्रकाशमानं सूचयन्त्य इव मधु-धारा ववृषुः स्मेति विस्मये तरवश् च तथा तत्-पतीनाम् अपि तथैवानन्द इति भावः । एतानि विष्णु-भक्ति-लक्षणानि ॥८-९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुग्धानां मूढानां साक्षाद् आदि-पुरुषत्वात् तस्यात्र् एव शब्द-प्रयोगोऽयुक्त एवेति भावः । केचित् तु अनुचरैः सनकाद्यैः । अचलभूतिः स्थिर-श्रीः भूतिः श्री-जन्म-भस्मसु इति यादवः । वनचरो जलशायी । गिरिर्वायुस् तस्य तटवद् विशदे मुखे वर्तमाना गा वेद-वाणी-राह्वयति । तथा च—सनकादिस्तुतजलशायी आदि-पुरुषो यथा श्रुतीराह्वयति वायु-मुखेन तथा कृष्णोऽपीति पक्षः सुबोध एव । तत्र चरन्तीस् तृणं भक्ष्न्तीः ।*। तथा मधुधारा ववृषुः स्म । तत्-पतीनां लतापतीनां वृक्षाणाम् अपि । तथैव लतावत् । इति भाव इति—पत्नीनाम् आनन्दं दृष्ट्वा स्वयम् अप्य् आनन्दिता बभूवुर् इत्य् आशयः । एतानि प्रणति रोमाञ्चानन्दाश्रुपातादीनि ।

कथं विना रोम-हर्षं द्रवता चेतसा विना । > विनानन्दाश्रुकलया शुद्धेद् भक्त्या विनाशयः ॥ इत्य् आद्य् उक्तेः ।

पक्षे, तरवः संसार-तरणशीलास् तीर्ण-संसारा मुमुक्षवो मुक्ता वा । आत्मनि हृदये स्थितं विष्णुं व्यञ्जयन्तो अपरोक्षीकुर्वत इव ज्ञान-पुष्पेण जीवन्-मुक्त्यवस्थाफलेनाएध्याः । प्रणतस्य भारो भरणं येषां ते पिटपा भुजा येषां ते, मूर्ध्नि धृताञ्जलिपुटा इत्य् अर्थः । अत एव भक्त्य् उद्रेकेण रोमाञ्चित-गात्राः वनेऽरण्ये रता निवृत्ति-धर्मम् अनुतिष्ठन्तः । यद् वा, वने भासि-ग्रीष्मे पञ्चाग्नि-ज्वालासेवायां, वर्षर्तौ वने कानने, हिमर्तौ वने कण्ठ-दघ्न-जले वसन्तः । वनं भास्यप्सु कानने इति यादवः । मधुधारा आनन्दम्बुसन्ततीः ससृजुः, तत्-स्वभावा बभूवुर् इत्य् अर्थः । धारास् त्यागेम्बुसन्तत्यां सैन्याग्रेऽश्वगतिष्व् अपि इति यादवः । सर्गः स्वभाव-विर्मोक्ष इत्य् अमरः । इह वनचर-शब्द-सामर्थ्यान् मत्स्य-कुर्म-वराहादि-विषयेऽप्य् एतौ श्लोकौ शब्द-शक्ति-विशारदैर् ज्ञेयौ । ग्रन्थ-विस्तरभियोपरम्यत इति । नदीनाम् अनादि-सिद्धानाम् अचेतनत्वेऽपि देवतारूपाणां का वार्ता, श्वःपरश्वोदृष्ट-जन्मनाम् अतिनिकृष्टानाम् अपि जडानां रसिकतां क्षेणुश्रवण-हेतुकां पश्यतेत्य् अन्या आहुः—अनुचरैर् गोपैः । आदि-पुरुषो नारायण इव निश्चलश्रीः तद् अपि वनचरः वन्य-जीवेश्व् अनुरागाद् इति भावः । तदा गृहस्थ-वैष्णवाः सस्त्रीकाः संकीर्तन-श्रवणेन यथा भाववन्तो भूत्वा प्रणमन्ति तथैव वनलताः स्त्रियस् तरवस् तत्-पतय आत्मनि मनसि स्फुरन्तं विष्णुं व्यञ्जयन्त्यो ज्ञापयन्त्य इवाश्रुतुल्या मधुनो मकरन्दस्य धाराः ससृजुर् मुमुचुः । ववृषुः इति पाठेश्रूणामाधिक्यम् । पुष्पेण हर्ष-सञ्चारिणा फलेन रतिस्थायिना च विराजमानाः, प्रणता भारेण विटपाः शाखा यासाम् इत्य् अनुभावः प्रणामः । प्रेम्णा हृष्टा रोम-हर्ष-युक्तास् तनवो येषां ते इति रोमाञ्चः ॥८.९॥


कैवल्य-दीपिका : अनुचरैर् इति । भूतिर् ऐश्वर्यम् । कृष्णः । अत्राद्ययोर् अ-वर्णाः, अन्त्ययोर् वः ॥ चिरम् अनुशीलानां स्वस्मिन् अभिव्यक्तिम् आह—वन-लता इति । भारेण प्रणताः प्रणत-भाराः ते विटपा येषाम् । मधु-धारा क्षीर-धाराः मिषाद् आनन्दाश्रूणीत्य् अर्थः । हृष्ट-तनव उद्भिन्नत्वच्कात् । अत्राद्ययोर् व-कारः, अन्त्ययोः प्रः ॥८-९॥ [मु।फ। १२.४६-४७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्यास् तत् संवादेन तमेवार्थं द्रढयन्त्य आहुः—अनुचरैर् इत्य्-आदि-द्वाभ्याम् । स यदा केवलेन वचसा गाः समाह्वयति, तदैवं जातम्, यदा तु वेणुना गाः समाह्वयति, तदैवं किं तत् ? वन-लतास् तरवश् च प्रेम-हृष्ट-तनवः सन्तो मधुधारा ववृषुः स्म । वर्तमानायाम् अतीत-कालः । स्म आश्चर्ये, मधु-धारा अस्र-धारा इव लताश् च तरवश् चेति पति-सहिता एव जात-विकारा बभूवुः, नैताः पतयो\ऽभ्यसूयन्ति, वयन्तु न तथेत्य् अहो नो दोर्भाग्यम् इति दैन्य-विषादौ ॥८-९॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.११२] अधुना मेघादिभ्यो\ऽधिकं स-चेतनानां माहात्म्यम् । तत्र दिवा विरह-दुःख-सागर-निमग्नानां तत्-तरणार्थं श्री-भगवतो दिवा-वन-विहारं गायन्तीनां गोपीनां काश्चिद् ऊचुः—वनलता [भा।पु। १०.३५.९] इति ।

वेणुना आह्वयति गाः स यदा हि [भा।पु। १०.३५.८] इति पूर्व-श्लोके गतम् अस्ति । अतो\ऽयम् अर्थः—अन्यार्थम् अपि श्री-कृष्ण-वेणु-नादे प्रादुर्भूते सत्य् एव वनेषु श्री-वृन्दावनादिषु या लतास् ताः सर्वा एवानन्दाश्रु-धारा-रूपा मधु-धारा ववृषुर् वर्षन्ति । स्मेति विस्मये व्यक्तम् इति वा ।

किं कुर्वत्यः ? विष्णुं विविध--रूपेण व्यापकतया सर्वत्र वर्तमानम् अपि आत्मनि स्वस्मिन् बहिर् अन्तश् च भक्ति-वश्यतया श्री-नन्द-किशोर--रूपेण सदा स्थितं परम-निधिवद् अत्यन्त-रहस्यत्वेन यत्नान् निगृह्यमानम् अपि प्रेम-वैवश्याव्यञ्जयन्त्य इव सूचयन्त्य इव ।

तत्र लक्षणानि निर्दिशन्तः पद-त्रयेण लता विशिंषन्ति । अत्र पुष्प-फलाढ्या इति बहिर्-अक्षय-सम्पत्तिः । प्रणतेति—विनय-लक्षण-प्रणामेन धर्म-ज्ञानादि-कारण-गुण-भाव-सम्पत् । प्रेमेति—चान्तर्-आर्द्रतया स्थूल-सूक्ष्म-तनु-द्वय-सम्बन्धि-हर्ष-विकार-रूपा परम-भक्ति-सम्पद्-युक्ता ।

अहो ! तद्-भर्तारो\ऽपि तथैवेत्य् आहुः—तरव इति । अत्र लिङ्ग-विपरिणामेन व्यञ्जयन्त इति ज्ञेयम् । अन्यद् अखिलं समानम् । लतानां प्राधान्येन प्रथमं निर्देशः स्त्रीत्वाभिप्रायेण स्व-साम्यापेक्षया एतद् उक्तं भवति—यथा श्री-कृष्ण-भक्त-जनाः पुष्प-तुल्यैः रूप-जाति-धनैश्वर्यादिभिः फल-तुल्यैश् च पुत्रादिभिर् युक्ताः । यद् वा, पुष्प-तुल्यार्थ-वाद-बहुलैर् वेदैर् वेदाध्ययन-तद्-उक्त-कर्माचरणादिभिः, तथा तत्-फलैर् ऐहिकामुष्मिक-सुख-भोग्यैश् च सम्पन्नाः, तथापि प्रणता नम्रतां गता विनय-लज्जादि-सद्गुणैर् विटपाः परिवारा अपि, किम् उत स्वयं येषां तथा-भूताः आत्मनि सदा बहिर् अन्तःस्थितं मातृ-जारवद् यत्नाद् गोप्यमानम् अपि श्री-विष्णुं सदान्तर्-बहिर्-अशेष-करण-व्यापकतया देदीप्यमानं भगवन्तम् अत एव सङ्गोपन-सामर्थ्यासम्भवात् प्रकाशयन्तस् तद्-गीत-श्रवण-प्रेम-भरेण स्वेद-कम्प-पुलकादि-हर्ष-विकाराचित-शरीराः सन्तः आनन्दाश्रु-धारा मुञ्चन्तीति ।

एवम् अत्र इव इति परम-गुह्यत्वात् स्वयम् अप्रकाश्यम् अपि प्रेम-पारवश्येन तद्-विकार-संवरणाशक्तेः सूचयन्त इवेत्य् अर्थः । ईदृशानां च श्लोकानां दिन-दुःख-निस्तारोपाय-हेतुत्वाद् धर्ष एव कल्पनीयः, न तु पूर्ववन् निजाभाग्यादि-दुःखम् । यथोक्तं तद्-अध्याय-शेषे—

एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः । > रेमिरे\ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥ [भा।पु। > १०.३५.२६] इति ।

अस्यार्थः—एवं विरह-दुःखेनापि । नु अहो कृष्ण-लीला एव गायन्त्यःतस्मिन् चित्तं चेतना यासां ताः । तस्मिन्न् एव मनः सङ्कल्प-रूपं यासां ताः । अत एव महान् उदय उत्सवो यासां ताः । अहःस्व् अपि रेमिरे सुखिन्यो बभूवुर् इति ।

ततश् च तद्-अध्यायस्यैवारम्भे—

गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । > कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ [भा।पु। > १०.३५.१]

इत्य् अत्र दुःखेन विरह-पीडया विशिष्टान् अपि वासरान् निन्युः, सुखेन गमयामासुर् इत्य् अर्थः। यदि च तासां प्रेम-परिपाक-स्वभाव-दृष्ट्या दुःखेन कृच्छ्रेणेव निन्युर् इत्य् अर्थः । ततश् च यस्य वेणु-नाद-श्रवणेन लतादीनाम् ईदृशो भावः, तस्य विरहं वयं कथं सहाम इति सर्वत्र वाक्य-शेषः स्वामि-टीकानुसारेण कल्पनीयः ।

ततश् च एवं व्रज-स्त्रियः [भा।पु। १०.३५.२६] इति श्लोकस्यायम् अर्थः—कृष्णस्य परमानन्द-घन-मूर्तेर् लीलास् तत्-सदृशीर् एव प्रगायन्त्यो\ऽपि रेमिरे किं ? काकूक्त्या नैव । तत्र हेतुः—महान् उदयः प्रेमाविर्भावो यासाम् । यद् वा, महा-शब्देन भद्र-मङ्गलादिवद्-विपरीत-लक्षणया प्रेम तस्य उदयो यासु तत्-प्रेमाग्नि-दग्धानां सुख-लेशस्यापि कथम् अप्य् उदयासम्भवात् । अन्यत् समानम् इति ॥११२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो घर्मागमे निच्छायं सरित्कच्छं परित्यज्य घनवनोच्च-प्रदेशं हर्षात् तृण-चरण-क्रमेणाग्रतो दूरम् अदृश्य-स्थानं गतानां गवां वेणुना समाह्वानात् । तत्रास् तां स्व-स्वाधिष्ठात्री--रूपेण परम-देवीनां नदीनां वार्ता, तत्रत्यानां जङ्गम-जातीनाम् अहो लतादीनां स्थावराणाम् अपि भाव-विशेषोदयम् आहुः—अन्विति युगलेन । अनुचरैः सदा सङ्गे चरद्भिर् गोपैः सम्यक् सह विहारादि-स्वविषयक-कारुण्य-विशेष-प्रदर्शनादिब्ना अनुगवाह्वानान्तरं निरन्तरं वा वर्णितानि वीर्यानि अद्भुत-चरितानि यस्य स आदि-पुरुषः श्री-नारायणो यथा तथा चल-श्रीर् अपि, इति तस्य वनचरत्वादिना परम-विनोदित्वादिकम् उक्तम् । यद् वा, भूतिः सौन्दर्यम्, वनचरो वनेषु चरन्न् इत्य् अर्थः, इति गवाम् अदृश्यता सूचिता, तथा गिरि-तटेषु विषम-प्रदेशेषु चरन्तीर् इति परिश्रान्तिश् च, अत एव वेणुन् आह्वयति स गोप-चूडामणिस् तद् आह्वान्-निपुणः, हि एव, वने या लतास् ताः सर्वा अपीत्य् अर्थः । श्लेषेण वन्यत्वाद्-वैदग्ध्यादि-राहित्यम् उक्तम्, तरवश् च, अत्रापि लिङ्गव्यत्ययेन व्यञ्जयन्त इति वोद्धव्यम् ।

यद् वा, हे मालति ! हे मल्लिके ! हे वासन्ति ! हे युथिके ! इति मलत्यादिलतानान्मीर् गा यद आह्वयति, तदा वल-लता मालत्याद्यास् तत्-संसर्गेण तरवश् च मथु-धाराः ससृजुः, विष्णुम् इति, व्यापकत्वेन प्रवेशन-शीलत्वेन चात्मनि वर्तमानम् इवेत्युप्रेक्षायाम्, गोप्यत्वेन तत्त्वतो व्यञ्जनायोग्यत्वात्, पुष्पैः फलैश् चाढ्याः सम्पन्ना इति वाह्य-सम्पत्, विष्णु-स्थिति-बाह्य-लक्षणम् । यद् वा, तैस् तैर् आढ्याः अपि धनादि-स्थानीय-पुष्पादि-सम्पत्त्या विष्णु-स्थितेर् विशेषतश् च तत्-तद्-भावस्य योग्या अपीत्य् अर्थः, प्रणत-भार-विटपा इत्य् अत्र विष्णु-व्यक्ति-लक्षणम्, हस्त-सदृशानां शखानां पूजोपकरण-द्रव्यभारेण नम्रत्वम् । किं वा, प्रणामेन दूडाग्र-वर्ग-रूप-प्रवाल-विस्ताराणां नम्रत्वं प्रेम्णा हृष्टतनव उद्भिन्नत्वच् इत्य् अर्थः । यद्य् अपि मधु-धारादिकम् अपि प्रेम्णैव, तथापि प्रेम-हृष्टतनव इति लतादीनां स्वभावतोऽपि कदाचित् तत् सम्भवेत्, हृष्टतनुत्वं च परम-विलक्षण-प्रेम्णैव स्याद् इत्य् अभिप्रायेण ववृषुः, निरन्तरं बहुशो मुञ्चन् । ससृजुः इति पाठे अपूर्वत्वेन प्रवर्तयामासुर् इत्य् अर्थः । अत्र च वीर्य-समनुवर्णनेन गोपैर् निज-सङ्गित्वादिना स्वविषयक-तदीय-कारुण्यभरे वर्णिते वन-गिरिवर्तिन्यो लतादयो मात्सर्येण तद् असहमाना एव स्वविषयकम् अपि तत्-कारुण्यभरं दर्शयन्त्यस् तादृश्यो बभुवुर् इति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, कथं समनुवर्णित-वीर्यः ? तद् आहु—आदि-पुरुष इव श्री-नारायण-सादृश्येनापि, किं पुनर् गोकुलोत्सवत्वादिनेत्य् अर्थः, आदि-पुरुषः, तद् वर्णने हेतुः-अचला भूतिर् लक्ष्मीर् ऐश्वर्य-रूप-वैभवम् एव वा यस्येति, इवेति तत्त्वतः परम-निधिवद् अत्यन्त-गोप्यत्वेन सम्यग् अव्यञ्जनात् लतानाम् आदौ निर्देशः, स्त्रीत्वेनात्मन इव तासां तादृश-भावे प्राधान्य-विवक्षया । अन्यत् समानम् ।

यद् वा, मधुनो धारा यासु तथा-भूताः सत्यः प्रेम ववृषुः तदानीन्तनेषु आधुनिकेषु च लोकेषु स्ववृत्तान्तेन भगवत्-प्रेम विस्तारयामासुर् इत्य् अर्थः । एतद् उक्तं भवति—यथा श्री-कृष्ण-भक्ताः पुष्प-तुल्यै रूप-जाति-धनैश्वर्यादिभिः, फल-तुल्यश् च प्लूत्रादिभिर् युक्ताः । किं वा, पुष्प-तुल्यार्थवाद-बहुल-वेदैस् तद् अध्ययन्-तद् उक्त-कर्माचरणादिभिः, तथा फलैर् ऐहिकामुष्मिक-सुख-भागैः सम्पन्ना अपि प्रणता विनयादि-सद्-गौणैर् नम्रतां गता विटपाः परिवारा अपि तेषां तथा-भूताः, श्री-विष्णौं सदान्तर्-बहिर् अशेष-करण-व्यापकतयात्मनि देदीप्यमानं भगवन्तं प्रयत्नाद्-गोप्यमानम् अपि तद्-गीतादि-श्रवणेन प्रेमभरोदयतः सम्बरणाशक्त्या प्रकाशयन्तः पुलकाचिता आनन्दाश्रु मुञ्चन्ति । द्वितीय-पक्षे—आनन्दाश्रु-व्याप्ता यथा लोकेषु प्रेम विस्तारयन्ति, तद् वद् इति । इवेति तथापि सङ्गोपनाभिप्रायेण ॥८.९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो गाः पालयित्वा स्वयम् अपि च पीत्वा ताभिः सह सुतरु-च्छायां पर्वत-भूमिम् अवगाह्य दत्त-स्वाच्छन्द्यास् ताश् चारयंस् तत्र निज-चरित-मयं सखि-गीतं शृण्वन्न् अवधानेन दूरगतास् ताः स्वयम् एव वेणुनाजुहाव यत्र च तत्रास्तां स्व-स्वाधिष्ठातृ--रूपेण परम-देवीनां नदीनां वार्ता तथान्येषां तत्रत्यानां जङ्गम-जातीनाम् अहो स्थावर-जातीनाम् अप्य् एतादृशत्वम् इत्य् आहुः—अन्व् इति । अनुचरैः सदा सङ्गिभिर् गोपैर् इति प्रणय-विशेषो दर्शितः । अत एव समिति सम्यक्तया सर्वांशतः प्रेम-विशेषतश् चात्तम् अप्रकारेणेत्य् अर्थः । अन्व् इत्य् अनुक्रमेण व्यञ्जित-माता-पित्रादि-स्नेहानुबन्धेन जन्मादि-लीला-प्रबन्धेनेत्य् अर्थः । यद् वा, सह भावेन सर्वैर् मिलित्वा इत्य् अर्थः । यद् वा, तत्-समीप-वर्तित्वेन प्रत्येक-स्व-स्व-वैदग्धी-ज्ञापन-पूर्वकत्वेनेत्य् अर्थः । तादृशतया वर्णितं स कौतुकं रस-भावालङ्कार-गान-तालाभिनयनादि-प्राचुर्येण प्रस्तुतं वीर्यं तत्-तत्-प्रभाव-मयं चरितं यस्य सः । असाधारण एव चासाव् इत्य् आहुः आदीति । यद् वा, आदि-पुरुषः आदि-नारायणो यथा तथैवाचल-श्रीर् अपि वनचर इत्य्-आदिनान्वयः । तेन च परम-विनोदित्वादिकम् उक्तम् ।

दृष्टान्तश् च तादृशत्व-निश्चयार्थः । सर्वोत्तमायाम् अपि तस्यैवादि-पुरुषतायाम् इव शब्द-प्रयोगस् तासां तादृश-केवल-तन्-माधुर्य-मय-भाव-विशेष-स्वभाव-विशेष-स्वभावेनाननुसन्धानात् । अचल-श्रीत्व-निर्देशस् तु तस्य च्युति-रहितोदित्व-रासमोर्ध्व-स्वाभाविक-तत्-तत्-सम्पद्-अनुभवात् । एतद्-अचल-भूतित्वम् एवोत्तरोत्तरं दर्शयिष्यते । वनचरः वनेषु चरन्न् इत्य् अर्थः । इति गवाम् अदृश्यता सूचिता । वस्तुतस् तु नित्य-वृन्दावन-विहार्य् एव सन्न् अचल-विभूतिर् इत्य् अर्थः । गिरि-तटेषु विषम-प्रदेशेषु चरन्तीर् इति परिश्रान्तिः सूचिता । अत एव वेणु-नादेनैव समाह्वयति स गोप-चूडामणिर् विचित्र-तद्-आह्वान-चतुर इत्य् अर्थः । हि एव यदैव वनेति सप्तम्या लुक् छान्दसः । तदा वने यावत्यो लतास् ताः सर्वा अपीत्य् अर्थः । श्लेषेण वन्यत्वात् तत्रापि लतात्वाद् वैदग्ध्यादि-रहिता अपीत्य् उक्तम् । तथा वने यावन्तस् तरवस् तावन्तश् च । तत्र लिङ्ग-व्यत्ययेन व्यञ्जयन्त इति बोद्धव्यम् । लतानाम् आदौ निर्देशः स्त्रीत्वेन स्व-तुल्य-भाव-प्राधान्य-विवक्षया । विष्णुम् इति सर्वत्र स्फुरद्-रूपत्वाद् व्यापकत्वेन प्रवेश-शीलत्वेन वा वर्तमानतया श्री-कृष्णम् इत्य् अर्थः । तम् आत्मनि स्फुरन्तं व्यञ्जयन्त्यो बोधयन्त्य इवेति भाव-परवश-चेष्टयैव व्यञ्जनेन स्वयम् एव । दृष्टान्त-गर्भ-श्लेषेण विष्णुं श्री-नारायणम् इव तम् इत्य् अर्थः । दृष्टान्त-व्यञ्जना च आदि-पुरुष इवेत्य् उक्तः स्पष्टीकरणाय । तत्र दृष्टान्त-पक्षे लता-तरवः स्त्री-पुरुष-जातयः पुष्प-फलाढ्याः । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना इति । सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा इति च प्रमाणेन सर्व-साधन-साध्य-सम्पन्नाः । तथापि प्रणत-भार-विटपा नेमुर् निरीक्ष्य परितृप्त-दृशो मुदा कैर् इति चतुःसनादिवन् नम्राः । मधु-धारा अश्रूणि दार्ष्टान्तिक-पक्षे लता-तरुत्वादि मिषेण तत्-तद्-रूपा इत्य् अर्थः ।

तत्राङ्कुरोद्भेद-मिषेण हृष्ट-तनवः । तत् तच् चास्पन्दनं गतिमतां पुलकस् तरूणाम् इत्य्-आदिभिः श्री-गोकुले प्रसिद्धम् एव प्रेम-व्याप्येति पक्ष-द्वयेऽपि सर्वत्र सम्बन्धनीयम् । समास-प्रविष्टस्यापि वा प्रेम-शब्दस्यार्थ-वशाद् अन्यत्र सम्बन्धः । ववृषुर् निरन्तरं बहुशोऽमुञ्चन् ससृजुर् इति सार्वत्रिक-मूल-पाठे अपूर्वत्वेन प्रवर्तयामासुः । यद् वा, मधुनो धारा यासु तथा-भूताः सत्यः प्रेम ससृजुः । सार्वदिकेषु च लोकेषु स्व-वृत्तास् तेन श्री-कृष्ण-प्रेम-विस्तारयामासुर् इत्य् अर्थः । तद् एवम् उभयत्र विष्णुत्वं तद्-व्यक्ति-चिह्नानि च व्याख्यातानि ॥८-९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततस् तरु-च्छायां परेति भूमिम् अवगाह्य सखि-गीतं शृण्वन् अनवधानेन दूरगा गाः स्वयम् एव वेणुनाह्वयामास तत्र तत्र स्थावर-जातीनाम् अप्य् एतादृशत्वम् इत्य् आहुः—अन्व् इति । वने या लतास् ताः सर्वा आपीत्य् अर्थः । प्रेम-व्याप्य विष्णुम् इति सर्वत्र स्फुरद्-रूपत्वात् व्यापकतया श्री-कृष्णम् इत्य् अर्थः । दृष्टान्त-गर्भ-श्लेषेण विष्णुं श्री-नारायणम् इवेत्य् अर्थः । दृष्टान्त-व्यञ्जनया च आदि-पुरुष इवेत्य् उक्त-स्पष्टीकरणाय । तत्र दृष्टान्त-पक्षे लता-तरवः स्त्री-पुरुष-जातयः पुष्प-फलाढ्याः सर्व-साधन-सम्पन्ना अपि प्रणत-भार-विटपाः श्री-चतुःसनादिवत् नम्रा एव बभूवुः । मधु-धारा अश्रूणि ॥८-९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यास् तत्-संवादेन तम् एवार्थं द्रढयन्त्य आहुर् अनुचरैर् इति द्वाभ्याम् । स यदा केवलेन वचसा गाः समाह्वयति । तदैव सरिताम् अपि वैवश्यम् । यदा तु वेणुना गा आह्वयति, तदैवम् इत्य् आशयः । वन-लतास् तरवश् च प्रेम-हृष्ट-तनवः सन्तो मधु-धारा ववृषुः स्म । वर्तमानायाम् अतीत-निर्देशः । स्म आश्चर्ये । मधु-धारा अश्रु-धारा इवेति भावः । आत्मनि चित्ते विष्णुं व्यञ्जयन्त्य इव आत्म-स्थिते हि विष्णौ प्रेम-हृष्ट-तनुत्वं सम्भवति । पुष्पं साधनम् । फलं साध्यं तद्-उभयाढ्यता च भवतीति भावः । तरवो लताश् चेति पति-साहित्येनैव तथात्वं दृश्यते । न त्व् अस्माकं तथेति दैन्यम् एव ॥८-९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नदीनाम् अनादि-सिद्धानाम् अचेतनत्वेऽपि देवता-रूपाणां का वार्ता । श्वः परश्वोऽदृष्ट-जन्मनाम् अतिनिकृष्टानाम् अपि जडानां रसिकतां वेणु-श्रवण-हेतुकां पश्यतेत्य् अन्या आहुः । अनुचरैर् गोपैः । आदि-पुरुषो नारायण इव निश्चल-श्रीः । तद् अपि वनचरः वन्य-जीवेष्व् अनुरागाद् इति भावः । तदा गृहस्थ-वैष्णवाः सस्त्रीका यथा सङ्कीर्तन-श्रवणेन भाववन्तो भूत्वा प्रणमन्ति तथैव वन-लताः स्त्रियः तरवस् तत्-पतयः । आत्मनि मनसि विष्णुं स्फुरन्तं व्यञ्जयन्त्यः ज्ञापयन्त्य इव अश्रु-तुल्या मधुनो मकरन्दस्य धाराः ससृजुर् मुमुचुः । ववृषुर् इति पाठे अश्रूणाम् आधिक्यम् । पुष्प-फलाढ्याः पुष्पेण हर्ष-सञ्चारिणा फलेन रति-स्थायिना च विराजमानाः । प्रणता भारेण विटपाः शाखा यासाम् इत्य् अनुभावः । प्रणामः प्रेम्णा हृष्टा रोमहर्ष-युक्तास् तनवो येषां ते इति रोमाञ्चः ॥८-९॥


॥ १०.३५.१०-११॥

दर्शनीय-तिलको वन-माला-

दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।

अलि-कुलैर् अलघु-गीतम् अभीष्टम्

आद्रियन् यर्हि सन्धित-वेणुः ॥

सरसि सारस-हंस-विहङ्गाश्

चारु-गीत-हृत-चेतस एत्य ।

हरिम् उपासत ते यत-चित्ता

हन्त मीलित-दृशो धृत-मौनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च सरसि कमल-वनेषु विहरतां पक्षिणाम् अप्य् आकर्षणं तद् गीतं किं पुनर् अन्येषाम् इत्य् आहुः । दर्शनीय-तिलक इति दर्शनीयस् तिलको यस्य सः । दर्शनीयानां सुन्दराणां मध्ये मुख्य इति वा वन-मालासु या दिव्य-गन्धा तुलसी तस्या मधुना मत्तैर् अलि-कुलैः अलघु उच्चैर् अभीष्टम् अनुकूलं गीतम् आदिर्यन् आदरेण गृह्णन् यर्हि अधरे सन्धित-वेणुर् भवति तर्हि सरसि-सारसा-हंसाः । अन्ये च विहङ्गाः चारुना गीतेन हृत-चेतस एत्य् आगत्य हरिम् उपासत अभजन्त तत्-समीपे उपविविशुर् वा हन्तेति विषादे ॥१०-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अग्यद् अद्भुतम् आहुः—किं चेति । तद् गीतं कृष्ण-वेणु-गीतम् । तिलको भल्लाकृति-पुण्ड्र-विशेषः । तद् उक्तम्—

नासाग्रात् केश-पर्यन्तम् ऊर्ध्व-पुण्ड्रम् उदाहृतम् । > अधो भल्लाकृति-युतं कृष्ण-धार्यम् अतिस्फुटम् ॥ इति > वैष्णव-शास्त्रे ।

दर्शनीय-तिलकास् त्व् अन्येऽपि सन्तीत्य् अरुच्याह—दर्शनीयानाम् इति । तिलको द्रुम-भेदाश्व-रोगेषु तिलकालवो । सौवर्चले प्रधाने च विवरणे च विशेरणे च विशेषके । इति हलधरः ।

अन्ये च चक्रवाक-प्लव-कारण्डवादयः । हृत-चेतस आकृष्ट-बुद्धयः । यत-चित्ता एकाग्र-मनसः । मीलित-दृशोऽर्धोन्मीलित-नेत्राः । धृत-मौनास् त्यक्त-निज-रावाः । ततः सरसः । उपआसन-पदस्योभयार्थत्वाद् आह—सत्-समीप इति । गृहारामाणाम् इव तरु-लतानां वैष्णवताम् उक्त्वा आत्मारामाणाम् इव हंस-सारसादीनां वेणु-श्रवण-हेतुकां विष्णूपासनाम् आहुः—दर्शनीयं द्रष्टुम् अहं तिलकं गैरिकादि-मयं यस्य सः । दर्शनीयेष्व् अतिसुन्दरेषु मध्ये तिलक-तुल्य इति वा । वन-मालासु पञ्च-वर्ण-पुष्य-पत्रमयीषु दिव्य-गन्धा या तुलसी तस्य मधुना मत्तैर् अलिकुलैः, मत्तत्वाद् एवासङ्कुचद्भिः । अलघु-गीतम् उच्चैर् गीतम् ।

ननु च कमल-मालती-नाग-केशरादि-पुष्पाण्य् एव लोकाः सुसौरभत्वेन ख्यापयन्ति, न तु सर्वतो माहात्म्येनाधिकाम् अपि तुलसीम् । उच्यते—तुलस्या गन्धः कश्चित् प्राकृत-लोकैर् ग्राह्योऽत्यल्पतर एव, अप्राकृत-लोकैस् तु ततोऽधिकः । भगवन्-मालाधिकारि-भृङ्गैस् तु ततोऽप्य् अधिकोऽत्यसाधारणः । सर्वाधिकतमस् तु भगवन्-नासिकैक-मात्र-वेद्य एव अन्यत्र योगमाययावरणात् । तद् उक्तं वैकुण्ठ-वर्णने—गन्धेऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस् तपः सुमनसो बहु मानयन्ति [भा।पु। ३.१५.१९] इति ।

अभीष्टम् इति—वेणु-गाणारम्भे केन स्वरेण गेयम् इति सति तदैव मिलितानां भ्रमराणां हुङ्कारे वृत्ते साधु साधु भ्रमर एष एव स्वरो गृह्यते इत्य् आद्रियन् सम्मानयन् यर्हि अधरे सन्धित-वेणुः सम्यग्-धृत-वेणुर् भवति, सन्धाने सन्धा सा जाता अस्येति सन्धित इतच्-प्रत्ययान्तः । तदा हरिम् एत्य सरसः सकाशात् हरि-समीपम् आगत्य तम् उपासत दर्शन-श्रवण-मननैर् अभजन् । मीलित-दृश इति दृङ्-मीलनं रसास्वादानुभावः ॥१०-११॥


कैवल्य-दीपिका : दर्शनीय- इति । वन-मालायां या दिव्य-गन्धा तुलसी, तस्या मधुना परिमलेन मत्तैर् भ्रमरैर् अलघु दीर्घं यद् गीतं, तद् आद्रियन् तस्यादरं कुर्वन् । यर्हि यदा सन्धितः अधरेण कृत-सन्धानो वेणुर् येन स तथा । अत्राद्ययोर् दः, अन्त्ययो रेफः ॥ सरसि इति । हन्त हे सखि ! आद्ययोर् सः, अन्त्ययोर् हः ॥१०-११॥ [मु।फ। १२.४८-४९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सख्यः ! न केवलं सरितो भग्न-गतयः पाद-रजो वाञ्छन्ति, न केवलं वन-लतास् तरवश् च आत्मनि विष्णुं व्यञ्जयन्तो मधु-धारा वर्षन्ति, पश्य पश्य, सारसादीनाम् उपासनाम् इत्य् अन्या आहुः—सरसीत्य् आदि द्वाभ्याम् । यत-चित्ता अहो वादि-विमुखा अन्तर् विस्मये मीलित-दृशः कृत-धान्या धृतमौना निःशब्दाः सन्तो हरिम् उपासते, एते किल सिद्धा एव, यतो भवन्ति तूष्णीं परम् एत्य निर्वृताः [भा।पु। ११.३.३२] इत्य्-आदि । एतैः सहको\ऽस्य सम्बन्धस् तथाप्य् एते तियञ्चो\ऽपि सिद्धाः, अस्माभिः सह को न वा सम्बन्धः, तथापि वयम् ईदृश्य इति निर्वेदः ॥१०.११॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.११४] अधुना कीटेभ्यः श्रेष्ठानां पक्षिणां तत्रापि जल-चारिणां सदा समीप-वर्तिता-राहित्याद् आदौ माहात्म्यम् । पूर्ववद् दिवा विरह-दुःख-शान्तये भगवल्-लीलां गायन्तीनां गोपीनां काश्चिद् आहुः—सरसीति [भा।पु। १०.३५.११]।

भोः सख्यः दूरतरे मृष्ट-जल-कमल-वनादि-विचित्र-मनोहर-भोग-सामग्री-युते सरसि स्थिताः ते निरन्तर-विहार-पराः संख्यातीताः सारसा हंसाश् च अन्ये\ऽपि विहङ्गाः जल-पक्षिणः श्री-कृष्ण-वेणोश् चारुणा गीतेन हृत-चेतसः सन्तः प्रथमं मोहेन इतस् ततो भ्रमन्तः, पश्चात् तस्मिन्न् एव सरसि एत्य आगत्य हरिम् उपासत अभजन्त । उपासना-लक्षणान्य् आहुः—यत-चित्ता इत्य्-आदिना पद-त्रयेणान्य-विषयक-मानसिक-कायिक-वाचिकाखिल-व्यापारोपरमेण तद्-एक-निष्ठता बोध्यते । तत्र दृग्भ्यां सर्वाङ्गाणाम् उपलक्षणम् । धृत-मौना इत्य् अनेन च वाग्-इन्द्रिय-नियमेनान्येषाम् अपीन्द्रियाणां नियमनं ज्ञेयम्, वाग्-इन्द्रियेण सर्वेन्द्रियाणाम् उपलक्षणात् । यद् वा, तत आगत्य हरिं स्व-मनोहरम् उप तत्-समीपे आसत उपविविशुः । ततश् च ते परमानन्द प्राप्ता इति वदन्त्यस् तल्-लक्षणानि निर्दिदिशुः—यतेतिहन्तेति हर्षे विस्मये वा ।

यद् वा, विषादे च ततश् चायम् अर्थः—हृत-चेतस्त्वेनागत्य तत्-समीप-वर्तिनः सन्तः शान्ति-सुखेन यत-चित्तादयो बभूवुः । किम् ? काकूक्त्यापि तु नैव किन्तु अन्तर्-बहिर्-विकार-जातैर् विपरीता एवाभवन्न् इति व्याख्येयम् । यद् वा, मीलित-दृश इत्य् अत्रैव काकुः । अनयोर् अ-कार-विश्लेषः ततश् च ते तद्-उपासन-जनित-विचित्र-मनो-विकारैर् असंयत-चित्तास् तद्-रूप-दर्शनाशक्त्या\ऽमीलित-दृशः सहज-निमेष-रहिता दृष्टयः । अधृत-मौनाश् च नाम-सङ्कीर्तनादि-परा धैर्यादि-हान्य जाता इत्य् अर्थः । अथवा, किं कल्पनागौरवेन ?

उपासनानन्तरं च ते प्रेम-मूर्च्छां प्रापुर् इत्य् अभिप्रेत्य तल्-लक्षणानि निर्दिशति—यतेत्य्-आदिना यत-चित्ता लीनान्तःकरणाः । अत्रेदं तात्पर्यम् ऊह्यम्—भिन्न-जातीयानां तत्र चाकाश-चारिणां, तत्रापि पुंसां, तत्रापि च दूर-सरो-विहारादि-पराणाम् ईदृशम् आकर्षणं बलात् तत्-सङ्गमापादकं तद्-वेणु-गीतम् अपि च परम-प्रेमाविर्भावकं सहज-धैर्य-शान्ति-हारकं विचित्र-विकार-विस्तारकं परम-मोहनं च तदीयोपासनं जातं सदा गोपीनां तद्-एक-गतीनाम् अस्माकं किं नाम निर्वक्तुं शक्यम् इति ॥११४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवं पूर्वं मल्ल-वेश-प्राप्तत्वेन मल्ल-लीला सूचिता । ततश् च गान्-श्रवणेन भ्रमणम् । सम्प्रति तु वेशान्तरादि-वर्णनेनेदं लभ्यते । ततः परिश्रान्त आसन्ने मध्याह्ने क्वचिन् महा-सरसि स्नात्वा द्रुत-रचित-तिलक-वनमाला-मात्र मल्ल-वन्य-वेश-पूर्वकं तैः सह तत् कालोप-युक्त-वन्य-भोजन-पूर्वकं च प्रथितोच्च-देशे महा-तरु-तल-शिलाग्राम् उपविश्य गो-सम्भालनाय प्रस्थापितेषु सखिषु नूतन-वन-मालाकृष्ट-भ्रमर-मात्र-परिवारतया कृत-तद-अवधानः सन्न् एवं वेणु-वाद्य-विनोदेनारमत इति वर्णयन्त्यस् तत्र चास्तां सर्वत्र विश्वस्तानां स्थावराणां वार्ता तद्-विपरीतानां पक्षिणाम् अपि श्रूयताम् इत्य् आहुः—दर्शनीयेति । दर्शनीयः सर्वदैव द्रष्टुं योग्यः । सन्तत-मनोहरो गैरिकादिमयस् तिलको यस्य सः । दिव्याति-दिव्य-पुष्प-गण-वन-मालायाम् अपि दिव्यः सर्वोत्तमो गन्धो यस्याः सा । तुलसीत्य् अलि-कुलानाम् आकर्षणे हेतुः । अत एव तन्-मधुनोऽपि तादृशत्वं दर्शितम् । यद् अस्य च अलि-कुलैर् इत्य् अत्यन्त-सङ्कीर्णताशङ्क्य परिहाराय पर्यायेणैव तत् सान्निध्यं बोद्धव्यम् । बलिभिर् दुर्बलानाम् अपसारणात् । मत्तत्वाद् एव अलघु तस्माद् एव वैशिष्ट्यं च ज्ञेयम् । अभीष्टम् इति स्व-जात्य्-अनुसारेण ते यद् यद् गायन्ति तद् एव तस्य परम-कौतुकत्वाद् अनुकूलम् इत्य् अर्थः ।

यद् वा, तेषां श्री-वृन्दावन-सम्बन्धिनाम् अलौकिकत्वात् तस्य यदा यदा यद् यद् अभीष्टं तदा तदा तत् तद् एव विचित्र-रागेण गायन्तीति तथोक्तम् । अत्र चाभीष्टम् इति स-प्रणयेर्ष्यम् । सन्त्य् एव विचित्राणि तद्-अभीष्टानि किन्त्व् अस्मत्-सम्बन्धं विनेति भावः । अभीष्टत्वाद् एवाद्रियन् । यर्हि सन्धित-वेणुर् इति यदा तदीय-स्व-रोचित-तद्-गानारम्भ-मात्रम् इत्य् अर्थः । तदैव सरसि तस्मिन् स्थिता ये ते सर्वेऽपीत्य् अर्थः । विहङ्गाश् चक्रवाकादय एत्य तद्-गीताभिमुखम् आगत्य हरिं मनोहर-स्वभावतया तथा प्रसिद्धं श्री-कृष्णम् उपलक्षीकृत्यासत । तेऽनन्ताः सुख-विहार-परा अपि ।

यद् वा, परम-भाग-धेयाः । तत्र तेषाम् आनन्द-मूर्च्छाम् आहुर् यत-चित्ता इत्य्-आदिना हन्त खेदे तथा निजाभीष्ट-लाभात् विस्मये वा । हरिम् इति पूर्ववद् दृष्टान्त-गर्भं श्लेषः । ततः पक्षे हरिं विष्णुम् उपासत अभजन्त उपासना लक्षणं यतेत्य् आदि ॥१०-११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं पूर्वं मल्ल-वेश-प्राप्तत्वेन मल्ल-लीला सूचिता । ततश् च गान्-श्रवणेन भ्रमणम् । सम्प्रति तु वेशान्तरादि-वर्णनेनेदं लभ्यते । ततः परिश्रान्त आसन्ने मध्याह्ने क्वचिन् महा-सरसि स्नात्वा द्रुत-रचित-तिलक-वनमाला-मात्र मल्ल-वन्य-वेश-पूर्वकं तैः सह तत् कालोप-युक्त-वन्य-भोजन-पूर्वकं च प्रथितोच्च-देशे महा-तरु-तल-शिलाग्राम् उपविश्य गो-सम्भालनाय प्रस्थापितेषु सखिषु नूतन-वन-मालाकृष्ट-भ्रमर-मात्र-परिवारतया कृत-तद-अवधानः सन्न् एवं वेणु-वाद्य-विनोदेनारमत इति वर्णयन्त्यस् तत्र चास्तां सर्वत्र विश्वस्तानां स्थावराणां वार्ता तद्-विपरीतानां पक्षिणाम् अपि श्रूयताम् इत्य् आहुः—दर्शनीयेति । दर्शनीयः सर्वदैव द्रष्टुं योग्यः । सन्तत-मनोहरो गैरिकादिमयस् तिलको यस्य सः । दिव्याति-दिव्य-पुष्प-गण-वन-मालायाम् अपि दिव्यः सर्वोत्तमो गन्धो यस्याः सा । तुलसीत्य् अलि-कुलानाम् आकर्षणे हेतुः । अत एव तन्-मधुनोऽपि तादृशत्वं दर्शितम् । यद् अस्य च अलि-कुलैर् इत्य् अत्यन्त-सङ्कीर्णताशङ्क्य परिहाराय पर्यायेणैव तत् सान्निध्यं बोद्धव्यम् । बलिभिर् दुर्बलानाम् अपसारणात् । मत्तत्वाद् एव अलघु तस्माद् एव वैशिष्ट्यं च ज्ञेयम् । अभीष्टम् इति स्व-जात्य्-अनुसारेण ते यद् यद् गायन्ति तद् एव तस्य परम-कौतुकत्वाद् अनुकूलम् इत्य् अर्थः ।

यद् वा, तेषां श्री-वृन्दावन-सम्बन्धिनाम् अलौकिकत्वात् तस्य यदा यदा यद् यद् अभीष्टं तदा तदा तत् तद् एव विचित्र-रागेण गायन्तीति तथोक्तम् । अत्र चाभीष्टम् इति स-प्रणयेर्ष्यम् । सन्त्य् एव विचित्राणि तद्-अभीष्टानि किन्त्व् अस्मत्-सम्बन्धं विनेति भावः । अभीष्टत्वाद् एवाद्रियन् । यर्हि सन्धित-वेणुर् इति यदा तदीय-स्व-रोचित-तद्-गानारम्भ-मात्रम् इत्य् अर्थः । तदैव सरसि तस्मिन् स्थिता ये ते सर्वेऽपीत्य् अर्थः । विहङ्गाश् चक्रवाकादय एत्य तद्-गीताभिमुखम् आगत्य हरिं मनोहर-स्वभावतया तथा प्रसिद्धं श्री-कृष्णम् उपलक्षीकृत्यासत । तेऽनन्ताः सुख-विहार-परा अपि ।

यद् वा, परम-भाग-धेयाः । तत्र तेषाम् आनन्द-मूर्च्छाम् आहुर् यत-चित्ता इत्य्-आदिना हन्त खेदे तथा निजाभीष्ट-लाभात् विस्मये वा । हरिम् इति पूर्ववद् दृष्टान्त-गर्भं श्लेषः । ततः पक्षे हरिं विष्णुम् उपासत अभजन्त उपासना लक्षणं यतेत्य् आदि ॥१०-११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत आसन्ने मध्याह्ने क्वचिन् महा-सरसि स्नात्वा तिलक-वन-माला-मात्र-वेश-पूर्वकं महा-वेश-पूर्वकं महा-तरु-तल-शिलायाम् उपविश्य गो-सम्भालनाय प्रस्थापितेषु सखिष्व् एकाकितया कृत-भ्रमर-गानावधानः सन्न् एवं वेणु-वाद्य-विनोदेन रमत इति वर्णयन्त्यस् तत्र चास्तां सर्वत्र विशस्तानां स्थावराणां वार्ता तद्-विपरीतानां पक्षिणाम् अपि श्रूयताम् इत्य् आहुः । दर्शनीयेति युगलेन अलि-कुलानां पर्यायेणैव तत्-सान्निध्यं ज्ञेयम् । बलिभिर् दुर्बलानाम् अपसारणात् । अभीष्टम् इति परम-कौतुकित्वात् तस्य अलौकिकत्वाद् वा तेषां हरिम् इति पूर्ववत् दृष्टान्त-गर्भः श्लेषः । ततः पक्षे हरिं विष्णुम् उपासत उपासना-लक्षणं यतेत्य् आदि ॥१०.११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! न केवलं वन-लतास् तरवश् च प्रेमाविष्टाः सारसादीनाम् अपि सौभाग्यं पश्यतेत्य् अन्या आहुः—दर्शनीयेति द्वाभ्याम् । दर्शनीयेति केवलं दर्शनीयं, न तु विशिष्य-वचनीयं तिलकं यस्य सन्धितो गदितो वेणुर् येन सः । अलि-कुलैर् गीतम् आद्रियत् सादरम् अभिनन्दन् । कुतः ? अभीष्टं वेणु-नादानुकरणेन सम-श्रुति स्वर-मूर्च्छनादिवत् तयामनोऽनुकूलम् । सारसादयः कीदृशाः ? यत-चित्ता आहारादि-मुखाः । हन्त विस्मये । मीलित-दृशः कृत-ध्यानाः । वेणु-नाद-श्रवणाद् अनिकट-वर्तित्वे ध्यानम् । धृत-मौनास् तूष्णीकाः सिद्धत्वाद् भवन्ति, तूष्णीं परम् एत्य निर्वृताः इत्य् उक्तेः। एते परम-भागवता एव, न तिर्यञ्च इति मतिः ॥१०.११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहारामाणाम् इव तरु-लतानां वैष्णवताम् उक्त्वा आत्मारामाणाम् इव हंस-सारसादीनां वेणु-श्रवण-हेतुकां विष्णूपासनाम् आहुः । दर्शनीयं द्रष्टुम् अर्हं तिलकं गैरिकादि-मयं यस्य सः । दर्शनीयेष्व् अतिसुन्दरेषु मध्ये तिलक-तुल्य इति वा । वन-मालासु पञ्च-वर्ण-पत्र-पुष्प-मयीषु दिव्य-गन्धा या तुलसी तस्या मधुना मत्तैर् अलिकुलैर् मत्तत्वाद् एवासङ्कुचद्भिर् अलघु-गीतम् उच्चैर् गीतम् ।

ननु च कमल-मालती-नाग-केशरादि-पुष्पाण्य् एव लोकाः सुसौरभत्वेन ख्यापयन्ति । न तु सर्वतो माहात्म्येनाधिकां तुलसीम् । उच्यते तुलस्या गन्धः कश्चित् प्रातर् लौकिकर् ग्राह्योऽत्यल्पतर एव अप्राकृत-लोकैस् तु ततोऽधिकः । भगवद्-वन-मालाधिकारि-भृङ्गैस् तु ततोऽप्य् अधिकः । अत्यसाधारणः सर्वाधिकतमस् तु भगवन्-नासिकैक-मात्र-वेद्य एव । अन्यत्र योग-मायया आवरणात् । यद् उक्तं वैकुण्ठ-वर्णने गन्धोऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस् तपः सुमनसो बहुम् आनयन्तीति । अभीष्टम् इति । वेणु-गानारम्भे केन स्वरेण गेयम् इति विचारे सति तदैव मिलितानां भ्रमराणां झङ्कारे वृत्ते साधु साधु भ्रमर एष एव सरो गृह्यत इति आद्रियन् संमानयन् यर्हि अधरे सन्धित-वेणुः सम्यग्-धृत-वेणुर् भवति । सन्धानं सन्धासा सञ्जाता यस्येति सन्धितः इतच्-प्रत्ययान्तः । तदा हरिम् एत्य सरसः सकाशात् हरि-समीपम् आगत्य तम् उपासत दर्शन-श्रवण-मननैर् अभजन् । मीलित-दृश इति दृङ्-मीलनं रसास्वादानुभावः ॥१०.११॥


॥ १०.३५.१२-१३ ॥

सह-बलः स्रग्-अवतंस-विलासः

सानुषु क्षिति-भृतो व्रज-देव्यः ।

हर्षयन् यर्हि वेणु-रवेण

जात-हर्ष उपरम्भति विश्वम् ॥

महद्-अतिक्रमण-शङ्कित-चेता

मन्द-मन्दम् अनुगर्जति मेघः ।

सुहृदम् अभ्यवर्षत् सुमनोभिश्

छायया च विदधत् प्रतपत्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मेघोऽपि हरिं दृष्ट्वा सेवते इत्य् आहुः सह-बल इति । हे व्रज-देव्यो गोप्यः सह-बलः सह-रामः श्री-कृष्णः स्रग्भिर् निर्मिताभ्याम् अवतंसाभ्यां कर्ण-भूषणाभ्यां विलासो यस्य सः । यद् वा, मुक्ता-फल-स्रग्-आपीडेन विलासो यस्य सः । क्षिति-भृतः सानुषु गिरेस् तटेषु वर्तमानः स्वयं जात-हर्षो विश्वं हर्षयन् यदा वेणु-रवेण उपरम्भति निनादयति नादेनापूरयतीत्य् अर्थः । तदा मेघो महतः श्री-कृष्णस्यातिक्रमेण शङ्कितं चेतो यस्य सः । न पुनर् अन्यतो याति न चोच्चैर् गर्जति किन्तु तत्रैव स्थितः सन् वेणु-रवम् अनु मन्द-मन्दं गर्जतीति । किं च, विश्वार्ति-हरण-साम्यात् सुहृदं श्री-कृष्णं सुमनोभिर् अभ्यवर्षत् । अदृश्यैर् देवैः क्रियमाणं कुसुम-वर्षं मेघं कल्पयित्वोक्तस् तुषारो वा कुसुमतया कल्पितः । स एव वा देवता-रूपोऽभ्यवर्षद् इति । प्रतपाद् आतपात् त्रायत इति प्रतपत्रं छत्रं तच्-छायया कुर्वन्न् इति ॥१२.१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आहुः—मेघ इति । स्रग्भिः पुष्पैः । अप्राप्त-रत्नैर् विशेषतः पुष्पालङ्कारा ध्रियन्ते कृष्णस् तु न तादृश इत्य् आहु—यद् वेति । मुक्ताफलानां स्रग्भिः पङ्किभिः कृतेनापीडेन मुकुटेन विलासो लीला यस्येति स्रक् पुष्पे पुष्पमालायां रज्वालि-रचनासु च इति निरुक्तेः । अवतंसो न स्त्रियां स्यात् कर्णपुरे च शेखरे इति मेदिनी । विलासो हार-भेदे स्याल् लीलायाम् अपि पुंस्ययम् इति मेदिनी । स्वयं जात-हर्षः स्वाभाविकानन्दवान्, न तु भूषण-वस्त्रादि-धारणजानन्द इत्य् अर्थः । उपाद्रम्भतेः परस्मैपदम् आर्षम् । इत्य् अर्थ इति-धातूनाम् अनेकार्थत्वान् निनादेऽपीति भावः ।*। पुरतोऽग्रे किं तु अपि तु । तत्रैव यत्र कृष्ण इत्य् अर्थः । न केवलं स्थित इत्य् आह—किं च इति । मेघो हि वर्षणेन तापदुर्भिक्षादिनाशकरत्वाज् जगदार्तिहरः, श्री-कृष्णस् तु दुष्ट-नाशकत्वेन तथेति साम्यम् । कुसुमतया स्पर्श-साम्येन कल्पिदः । स एव मेघ एव, काम-रूपत्वान् मेघानाम् जानाम् इ त्वां प्रकृति-पुरुषं काम-रूपं मघोनः इति कालि-दासोक्तेः । विपुर्वो धा करोत्य् अर्थे इति व्याड्युक्तेर् विदधत् कुर्वन्न् इत्य् अर्थः । भूमिष्ठानाम् आनन्दम् अनुवर्ण्याकाशस्थानां जडानाम् अपि वेणु-नाद-हेतुकं तं वर्णयति-सहबलः सहचर-सैन्य-सहितः । स्रग्भिश्चूडा-वक्षःस्थलवर्तिनीभिः, अवन्तसाभ्यां कर्णवर्तिनीभ्यां च विलासः शोभा यस्य सः । सानुषु गिरोर् नितम्बेषु स्थितः स्वयं वेणु-रवेण जाता-हर्षो विश्वं यर्हषन् हर्षयितुं यदा उपरम्भति । रलयोर् ऐक्याद् अन्तर्भावितण्यर्थत्वाच् च वेणु-रवम् उपलम्भयत्यास्वादयतीत्य् अर्थः । अत्र कृष्णस्य गिरि-नितम्बबर्ति-मेघत्वे स्रगवतंसानां बलाकात्वं, पीताम्बरस्य विद्युत्त्वं, वेणु-रवस्य वृष्यमाण-सुधा-रसासारत्वं गम्यम् । तदा मेघ आकाशस्थो महद् अतिक्रमेण महतः सतः सकाशाद् अतिश्रेष्ठस्य कृष्णमेघस्यातिक्रमणशङ्कित-चित्तः मन्दमन्दम् अनुगर्जति, वेणु-रवस्यानुकूल्येनैव प्रतिकूलो नेत्य् अर्थः । सुहृदं विश्वार्तिहरण-कर्म-वर्ण-साम्याम्यात् सखायम् । सुमनोभिः सूक्ष्म-पुष्प-तुल्यैर् हिमकणैः, अभि परितः सूर्यातपनिवृत्त्य् अर्थम् अवर्षत् ॥१२.१३॥


कैवल्य-दीपिका : सह इति । स्रग्-अवतंसाभ्यां मूल-कर्णपूराभ्यां विलासः शोभा यस्य स तथा । हे व्रज-देव्यः ! वेणु-रवेण विश्वम् हर्षयन् जात-हर्षो यर्हि स्वयम् उपरम्भति आनन्देन स्वयं शब्दं करोति । आद्ययोः सः ॥

महद् इति । महत्-शब्देनास्य शब्दस् तिरस्कृतो माभूत् इति शङ्का । अतो मन्दं मन्दं गर्जतिअनु तच्-छब्दितानन्तरं सुहृदं कृष्णम् । सुमनोभिः पुष्पैः प्रतपत्रम् छत्रम् । आद्ययोर् मः, अन्त्ययोः सः ॥१२-१३॥ [मु।फ। १२.५०-५१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोवर्धन-निकट-वासिन्यो गोवर्धन-कन्दरायां कृत-सङ्केतत्वेन कृत-विलासाः काश्चिद् आहुः—सह-बल इत्य्-आदि द्वाभ्याम् । हे व्रज-देव्यः ! इदन्त्व् अतिरहस्यम् इत्य् आक्षेप-लभ्यम् । यर्हि यदा वेणु-रवेण जात-हर्षः स्वयं विश्वम् अपि हर्षयन् बलं बलात्कारस् तेन सह वर्तमानः सह-बल उपरम्भति परिरभते, तदा क्रीडाश्रम-हानये मेघ-सुमनोभिर् जल-शीकर-रूपैः पुष्पैः सुहृदं बर्ण-सामान्यान् मित्रम् अभ्यवर्षत् सिषेच । न केवलं सिषेच, छायया प्रतपत्रं छत्रं च विदधत् विधत्ते, आख्यात-प्रतिरूपकः कृत्-प्रत्ययः । न केवलं तथा तथैव करोति, मन्द-मन्दम् अनुगर्जति वेणु-नादम् अनुकरोतीति भावः । विश्वं मादृशं सर्वं गोपी-जनं प्राप्योपरम्भतीत्य् उपरम्भः परिरम्भः स इवाचरतीति लुप्ता वीर्वा आलिङ्गनम् इव भवतीत्य् आलिङ्गनातिरेके तात्पर्यम् । कुतः प्रत-पत्रादिकं विधत्तेः तत्राहुः—महद् अतिक्रमण-शङ्कित-चेताः, महतः सर्वेश्वरस्यास्यातिक्रमणम् आतपादिना परिभवस् तत्र शङ्कितं शाङ्का-युक्तं चेतो यस्य । यद् वा, तद् उपरि वर्तमानत्वात् तद् अतिक्रमे शङ्कित-चेता अपि प्रतपत्रं विदधद्-भक्तेर् अपि स्नेहस्याधिक्यं वस्तु व्रज-देव्य इति गोवर्धन-दूरस्थ-व्रज-वासिनीः प्रति सोत्प्रासपरम् । यथा वयम् अभिज्ञाः, न तथा यूयम् इति सानुषु क्षिति-भृत इति व्रज-देव्य इति शब्दद्योत्यं रहस्यम् ॥१२.१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च मध्याह्ने गिरिसानुषु प्रयातस्य पूर्व-वेश-परित्यागेन स्वीकृत-विचित्र-मालामय-वेश्य तेषु प्रहर्षेण वेणु-वादनं जगद् आनन्दनं परम-मधुरं निज-गर्जनाद् अप्य् अधिकं ज्ञात्वा तेनैव विश्वोपकारं च मत्वा सुहृत् तया प्रहृष्टो मघो बहुधा तम-सेवतेत्य् आहुः—सहेति युगलेन । श्री-बलभद्रेण सहित इति विश्वोपरम्भणार्थं वेणु-नादाधिक्या । किं वा, बलं सामर्थं तद् युक्तः सन् किञ्चिद्-बलं प्रकाश्येत्य् अर्थः, विलासं क्रीडा शोभा वेति हर्षे कारणम्, किं च, क्षितिं विभर्ति रक्षति पुष्णाति वेति क्षितिभृत् श्री-गोवर्धनस् तस्य, जातावेकत्वं वा, तस्य तत्-समीपवर्तिनाम् अन्येषाम् अपि, सानुषु इति वेणु-रवस्य तले2 प्रति-शब्दोदयेनाधिक्यं दर्शितम् । क्षिति-भूत इति—तत्-सानुषु तादृश-वेणु-वादनात् तस्यान्वर्थ-संज्ञत्वम् अप्य् अभिप्रेतम् । हे व्रज-देव्य इति व्रज-देव्य इति व्रज-मध्ये इति व्रज-मध्ये व्रजस्यापि वा पूज्या यूयम् एवेति ।

यद् वा, व्रज-देवः श्री-कृष्णस् तस्य प्रिया इति तत्त्वतो युष्मद् अर्थम् एवेति भावः । यद् वा, व्रजे क्रीडापरा यूयं तत्-तद् वन-क्रीडा-सौभाग्य-हीना इति भावः । विश्वं हर्षयन्न् इत्य् अत्र हेतुः—जात-हर्षः प्रादुर्भूता-नन्द-विशेष इति, अतो मेघोऽपि प्रहषेणोच्चैर् गर्जितुम् इच्छन्न् अपि महतः श्री-कृष्णस्यातिक्रमः, तद् उपर्यवस्थानात् । किं वा, निजोच्चशब्देन तद् वेणुर् अवाच्छादनाद् अपराधस् तस्मिन् शङ्कित-चेतास् ततश् च परिश्रान्तं मत्वा तम् आप्याययाम् आसेत्य् आहुः—सुहृदं सखायम्, तद् वर्णाद्य् अनुकारात् । किं वा, अपराधेऽपि सु शोभनं हृद्-यस्य तम् ।

यद् वा, विश्व-हर्षणेन निरुपाधि-हितकारिणम् अस्माकं सुहृदम् इति वा, अत एवाभितोऽर्वषद्-व्यापयामासेत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, स्रग्भिर् अवतंसौ मौलिर् विलाश् च विचित्राभरण-क्रीडा-यस्य, सानुषु स्थितः सन् अतः क्षिति-भृतः श्री-गोवर्धनाद्रिन् हर्षयन् महद् अतिक्रमण-शङ्कितचेता इव मन्दं मन्दम् अनुगर्जति, इत्य् अन्तर्भूतोप्रेक्षार्थो ज्ञेयः, वस्तुतस् तु वेणु-रवेण तस्य विश्वोपरम्भणेच्छाम् अनुसृत्य वेणुर् अवस्याधिक्यार्थम् इव तत्-सम्मिलनेन तन्नादानन्तरं गर्जतीति ।

यद् वा, हर्षेण श्री-गोवर्धनादीनाम् उपर्यागतो महतां तेषाम् अतिक्रम उल्लङ्घनम् आक्रमणं वा । किं वा, महतो वेणोर् अतिक्रमस् तस्माच्छङ्कित-चेताः । अन्यत् समानम् ।

मन्द-मन्दम् इत्य् अभ्यवर्षदित्यनेनाप्य् अन्वयः, श्लेषेण—सुमनोभिर् अतिशोभन-मनोवृत्तिभिच्छायया च निज-देहेन मन्द-मन्द-गर्जनाच् च, वाचापीत्य् एवं त्रिधा सेवा पूर्ववद् ऊह्या ॥१२.१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च मध्याह्ने सखिभिर् आनीतैः स्रग्-अवतंसादि-विचित्र-वेशैर् विलसन् गवानुरोधेन निश्छायेष्व् अपि गिरेः सम-भू-भागेषु भ्रमन् मेघ-च्छायेच्छया मल्लार-रागं गायन् श्री-बलादि-सखिभ्ः प्रतिध्वनि-भृद्-गिरि-सानुभिस् तत्-तत्-प्रतिध्वनि-भृद्-विश्वेन च कृतानुगानस् तत्-सदृश-तद्-इच्छया सानु स्वल्पाकर्षण-प्रयोगात् तावन्-मात्र-मेघागमनेन मन्द-मात्र-गर्जन-जनित-वाद्यस् तत् तुमुल-शब्देन स्वयम् अपि हृष्टो विश्वम् अपि हर्षयन् । अत एव मेघाच्छन्न-देव्य्-आदिभिः कृत-पुष्प-वृष्टिस् तच्-छायायां विक्रीडति स्म । तद् एतल्-लीला-स्फूर्ति-युक्तानां तासाम् अभिप्रायेणावतारिकेयम् । अहो आस्तां पृथक् पृथक् तद्-उल्लेखो विश्वस्याप्य् आनन्दो दृश्यतां तत्र चान्येषां का वार्ता । दूर-स्था-चेतन-चल-स्वभावस्य मेघस्यापीति वर्णयन्त्यस् तद्-रूप-गुण-चेष्टाभिः श्री-कृष्णेन सह सौहृद्यम् एव सम्भावयन्ति सह-बल इति । श्री-बलभद्रेण सहित इत्य् उपलक्षणं सख्यन्तराणाम् । सखि-सैन्येन सहित इति वा ।

विलासो विनोदः । क्षिति-भृतः प्राधान्येन श्री-गोवर्धनस्य कदाचिद् अन्यस्यापि । सानुषु सम-भू-भागेषु तत्र यौगिकार्थस् तु तत्-प्रशंसा-सूचकः । अस्यैव क्षिति-भृत्त्वं युक्तम् इति भावः । हे व्रज-देव्यः परम-दिव्य-गण-स्पृहणीय-सौभाग्यस्य व्रज-जनस्यापि मध्ये देव्यो दिव्यत्वेनाभिमता इत्य् अर्थः । अतः परम-वैदग्धी च सूचिता । अतस् तद्-वेणु-गान-तत्त्वं युष्माभिर् एवावधार्यत इति भावः । तद् एवं स-परिकरस्य तस्य विश्वस्यापि परम-हर्षे सति नूनं मेघ्योऽपि प्रहर्षेणोच्चैर् गर्जितुम् इच्छन्न् अपि महतः श्री-कृष्णस्यातिक्रमेण निजोच्च-शब्देन तद्-वेणु-रवाच्छादनापराधस् तस्मिन् शङ्कित-चेताः सन्न् अनुकूलतया तद्-गान-पोषायेत्य् अर्थः । मन्द-मन्दं गर्जति परिश्रान्तं च मत्वा तम् अप्य् आययतीत्य् आहुः । सुहृदं तद्-वर्णाद्य्-अनुकारात् । सखायं श्री-कृष्णम् अभि लक्षीकृत्य सुमनोभिः करण-भूतैर् अभ्यवर्षत् अभ्यषिञ्चद् इत्य् अर्थो वा । गर्जनस्य वर्तमान-प्रयोगेन पौनः-पुन्यम् । वृष्टेर् अतीत-प्रयोगेण सुहृत्त्वं बोध्यते । किं कुर्वन् छायया तद्-उपरि च्छत्रं विदधत् छायां कुर्वता स्व-वपुषेत्य् अर्थः । अन्यत् तैः । तत्र स्रग्भिर् इति प्रथमार्थे खण्डित-नाना-वर्ण-पुष्प-दल-रचितान्तर् अन्तः सूक्ष्म-सूक्ष्मतर-सूक्ष्मतम-मण्डल-मयीभिः श्रेणिभिर् इत्य् अर्थः । निनादयतीति शब्दार्थस्य रभेर् अन्तर्भूतन्य्-अर्थताङ्गीकारः । परस्मैपदं नुम् चार्षः ।

यद् वा, स्रग्भिर् अवतंसाभ्यां च कर्ण-पूराभ्यां विलासो यस्य । यद् वा, स्रग्भिर् अवतंसो मौलि-विलासश् च विविध-क्रीडा यस्य सः । उपरम्भति रभ राभस्य इत्य् अस्मात् कौतुकी भवतीत्य् अर्थः । परस्मैपदं नुं चार्षः । मन्द-मन्दम् इत्य् अस्यावर्षद् इत्य् अनेनाप्य् अन्वयः । श्लेषेण सुमनोभिर् इति शोभन-मनो-वृत्तिभिश् छायया च निज-देहेन मन्द-मन्द-गर्जनाच् च वाचापीत्य् एव त्रिधा सेवाप्य् उत्प्रेक्षा ॥१२.१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च मध्याह्ने सखिभिर् आनीतैः स्रग्-अवतंसादिभिर् विलसन् गवानुरोधेन निश्छायेष्व् अपि गिरि-तटेषु भ्रमन् मेघ-च्छायेच्छया मल्लार-रागं श्री-बलादि-सखिभ्ः प्रतिध्वनि-भृद्-गिरि-सानुभिस् तत्-प्रतिध्वनि-भृद्-विश्वेन च कृतानुगानस् तत्-सदृशस् तद्-इच्छया सानु स्वल्प-कर्षण-प्रयोगात् तावन्-मात्र-मेघागमनेन मन्द-मात्र-गर्जन-जनित-वाद्यस् तत् तुमुल-शब्देन स्वयम् अपि हृष्टो विश्वम् अपि हर्षयन् । अत एव मेघाच्छन्न-देवादिभिः कृत-पुष्प-वृष्टिस् तच्-छायायां विक्रीडति स्म । तद् एतल्-लीला-स्फूर्ति-युक्तानां तासाम् अभिप्रायेणावतारिकेयम् । अहो आस्तां पृथक् पृथक् तद्-उल्लेखो विश्वस्याप्य् आनन्दो दृश्यतां तत्र चान्येषां का वार्ता । दूर-स्थाचेतन-चल-स्वभावस्य मेघस्यापि श्रूयताम् इति वर्णयन्त्यस् तद्-रूप-गुण-चेष्टाभिः श्री-कृष्णे सौहृद्यम् एव सम्भावयन्ति । सह-बल इति युगलेन श्री-बलभद्रादिभिः सहित इत्य् अर्थः । महतः श्री-कृष्णस्यातिक्रमः तद्-वेणु-रवाच्छादनापराधस् तस्मिन् शङ्कित-चेताः सन् सुहृदं तद्-वर्णाद्य्-अनुकारात् । सखायं श्री-कृष्णम् उपरम्भति रभ राभस्य इत्य् अस्मात् कौतुकी भवतीत्य् अर्थः ॥१२.१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्या गोवर्धन-निकट-वासिन्यो गोवर्धन-कन्दराकृत-सङ्गेतत्वेन प्राकृत-विलासाः काश्चिद् आहुः—सहबल इतिद्वाभ्याम् । हे व्रज-देव्यः ! यर्हि यदा वेणुरवेण स्वयं जातहर्षो विश्वम् अपि स्थिर-जङ्गमं हर्षयन् सहबलः बलं बलात्कारस् तेन सह वर्तमानः सबलो बलवान् इति यावत्, उपरम्भति परिरम्भते, तदा क्रीडाश्रुमहानये मेघः सुमनोभिर् जलशीकररूपैः पुष्पैः सुहृदं भिन्नम्, वर्णसामान्यात् अभ्यवर्षत् सिषेच । न केवलं सिषेच छायया प्रतपत्रम्, आतपत्रं च विदधत् विधत्ते, आख्यात-प्रतिरूपक-कृत-प्रत्ययः । न केवलं तथा, मन्दं मन्दम् अनुगर्जति, वेणुनादम् अनुकरोतीत्य् अर्थः । अथवा, महद् अतिक्रमण-शङ्क्यैवनुगर्जति । महतः श्री-कृष्णस्यातिक्रमणम् उपरिवर्तनं, तेन शङ्कितं चेतो यस्य । अयं भावः—स्नेहेनातपक्रम-निरासार्थम् उपरिवर्तमान आतपत्रं विधत्ते । अथवोपरिवर्तमानत्वेन कोपोऽपि तस्य भवति, तेन स स्वयम् एव मन्दं मन्दं गर्जति । यद्य् अपि ममायम् अपराधस् तथापि छायां करिष्याम्य् एव । एष ममापराधः क्षन्तव्य एवेति शब्दायते । कुत्रेत्य् आह—सानुष्व् इत्य्-आदि । क्षितिभृतो गोवर्धनस्य उपरम्भति परिरभत इत्य् अत्रेर्षा ॥१२.१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूमिष्ठानाम् आनन्दम् अनुवर्ण्य आकाश-स्थानां जडानाम् अपि वेणु-नाद-हेतुकं तं वर्णयन्ति । सह-बलः सहचर-सैन्य-सहितः । स्रग्भिश् चूडा-वक्ष-स्थल-वर्तिनीभिर् अवतंसाभ्यां कर्ण-वर्तिनीभ्यां च विलासः शोभा यस्य सः । सानुषु गिरेर् नितम्बेषु स्थितः स्वयं वेणु-रवेण जात-हर्षः विश्वं हर्षयन् हर्षयितुं यदा उपरम्भति र-लयोर् ऐक्याद् अन्तर्भावित-ण्य्-अर्थत्वाच् च वेणु-रवम् उपलम्भयत्य् आश्वादयतीत्य् अर्थः । अत्र कृष्णस्य गिरि-नितम्ब-वर्ति-मेघत्वे श्रग्-अवतंसानां बलाकात्वं पीताम्बरस्य विदुत्त्वं वेणु-रवस्य वृष्यमाण-सुधा-रसासारत्वं गम्यम् । तदा मेघ आकाशस्थः महद्-अतिक्रमेण महतः सतः सकाशाद् अतिश्रेष्ठस्य कृष्ण-मेघस्यातिक्रमेण शङ्कित-चित्तः । मन्द-मन्दम् अनुगर्जति वेणु-रवस्यानुकूल्येनैव प्रातिकूल्येनेत्य् अर्थः । सुहृदं विश्वार्ति-हरण-कर्म-वर्णादि-साम्यात् सखायं सुमनोभिः सूक्ष्म-पुष्प-तुल्यैर् हिम-कणैः । अभि परितः सूर्यातपताप-निवृत्त्य्-अर्थम् अभ्यवर्षत् । प्रतपाद् आतपात् त्रायत इति प्रतपत्रं स्व-च्छायया कुर्वन् ॥१२.१३॥


॥ १०.३५.१४-१५ ॥

विविध-गोप-चरणेषु विदग्धो

वेणु-वाद्य उरुधा निज-शिक्षाः ।

तव सुतः सति यदाधर-बिम्बे

दत्त-वेणुर् अनयत् स्वर-जातीः ॥

सवनशस् तद् उपधार्य सुरेशाः

शक्र-शर्व-परमेष्ठि-पुरोगाः ।

कवय आनत-कन्धर-चित्ताः

कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, महद् एतद् आश्चर्यम् इत्य् आहुः--विविधेति । हे सति यशोदे ! तव सुतः नाना-गोप-क्रीडासु निपुणो वेणु-वाद्य-विषये निजैव शिक्षा यासु, ताः स्वोत्प्रेक्षिताः, न त्व् अन्यतः श्रुता इत्य् अर्थः । स्वर-जातीः निषाद-र्षभादि-स्वरालाप-भेदान् अनयत् उन्नीतवान् यदा, तदा सुरेशाः तत् ताः स्वर-जातीः सवनशः मन्त्र-मध्य-तार-भेदेन यतो पीत-ध्वनिर् आगतः, तत आनता कन्धरा चित्तं च येषां, ते उपधार्य सम्यग् आकर्ण्य कवयः कोविदा अपि, तेन निश्चितं तत्त्वं तद्-भेदो यैः कश्मलं मोहं ययुः ॥१४-१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपि च अन्यच् च । स्वेनैवोत्प्रेक्षिताः कल्पिताः । इत्य् अर्थ इति—एतस्यैव सर्व-शास्त्र-योनित्वम्, शास्त्र-योनित्वात् [वे।सू। १.१.३] इति न्यायात् ।

यद् वा, विविधानां गवां गीत-शब्दानां पतयो गन्धर्वाः, तेषां चरणेषु गीत-गतिषु विदग्धः समर्थः ।

यद् वा, विविधानां स्व-स्व-जाति-स्वभाव-चेष्टासु नना-विधानां गोपानां चरणेषु कर्मसु विदग्धः कुशलः ।

यद् वा, विविधो गोपो रक्षणं तस्य चरणेषु तत्-तद्-आपद्-रक्षण-विधिषु विदग्ध इत्य् अर्थः ।*। मन्दो गम्भीरे तारोऽत्युच्चैस् त्रयस् त्रिषु इत्य् अमरः । यतो यत्र । ततस् तत्र । कोविदा अपि गान-पारज्ञा अपि । तद्-भेदो गान-भेदः । कस्मिन् स्वरे को रागो भैरव-श्रीराग-हिन्दोल-मालकौशिक-मेघमल्लार-दीपकादिष्व् अन्यतमः । का वा शाबरी-गुर्जरी-ललित-ठोदी-गन्धा-विलावल-सिन्धु-जयवन्ती-गौरी कल्याण-कर्णाट-पर्जदेशासोरठ-शोणी-विहागादिष्व् अन्यतमा गीयत इति । तत् तत्त्वं न विदुः अपूर्व-गान-श्रवणात् तन्-निश्चयं कर्तुं न शेकुर् इति भावः ।

[विश्वनाथः] अथापराह्ने काश्चन गोप्य आगमिष्यतः स्व-प्रेयसश् चिर-दर्शन-सिद्ध्य्-अर्थं विचारित-युक्तयः केनचिन् मिषेण व्रजेश्वरी-सदनं गताः । तत्र च विविध-वृद्धा-युवति-बालिकाभिः सम्भूय विस्तार्यमाणाः स्व-सुत-गुण-कर्म-प्रभाव-कथाः शृण्वन्तीं स्वयं च कथयन्तीं सुत-विरह-विह्वला तां स्व-स्व-मनश् च समाश्वासयितुं तां सम्बोध्य वेणु-गान-गुण-प्रभावं वर्णयन्ति—विविधेति ।

हे सति श्री-यशोदे ! विविधं गोपानां चरणान्य् आचरणानि गवां कालतो दोहन-वशीकरणादीनि, तेषु विदग्धस् तव सुतः अधर-बिम्बे दत्त-वेणुः सन् यदा स्वाराणां षड्जादीनां जातीर् अष्टादश-मुख्याः अन्याः सहस्रशो वा अनयत् उन्नीतवान् । कीदृशीः ? वेणु-वाद्य-विषये उरुधा बहु-प्रकारा निजात् स्वस्माद् एव, न तु परस्मात् कस्माच्चिद् अपि शिक्षा यासु ताः । सवनशः समये समये तत्-स्वर-जात्य्-उन्नयनम् उपधार्य शक्र-शर्व-परमेष्ठिनः पुरोगा मुख्या येषां, ते शक्रोपेन्द्राग्नि-यमादयः, शर्व-कात्यायनी-स्कन्द-गणेशादयः, ब्रह्म-चतुःसन-नारदादयश् च कवयो गान-तालादि-सृष्टि-कर्तारोऽपि आनता कन्धराश् चित्तानि च येषाम् इति गान-माधुर्य-स्वादानुभावः न निश्चितं रागस्य तालस्य तान-स्वरादीनां च तत्त्वं स्वरूपं यैस् ते । ततश् चाज्ञानाद् वेणु-माधुर्याच् च मोहं प्रापुः । अहो जगदीश्वरा यत्र मुमुहुः, तत्र जगदीशितव्यानाम् अन्येषां मोहे को विचारः ? इत्य् आश्चर्ये । जगन्-मोहनोऽयं तव सुतोऽभूद् इति भावः ॥१४-१५॥


कैवल्य-दीपिका : विविध- इति । चरणं चर्या क्रीडेत्य् अर्थः । वाद्यं वादनम् । उरुधा बहुधा । हे सति यशोदे ! तव सुतो यदा स्वर-जातीः षड्जादि-प्रभेदान् अनयद् उद्भावितवान् । निजा स्व-प्रज्ञोत्प्रेक्षिता शिक्षा-सम्प्रदायो यासु स्वर-जातिषु । आद्ययोर् वः ॥

सवनश इति अनुसन्दधत् । तत् तथा-विधं गीतम् । शर्वो रुद्रः । आनता कन्धरा चित्तं च येषाम् । चित्त-पूर्वकं प्रणेमुर् इत्य् अर्थः । कश्मलं मोहः । कस्य स्वरस्यायं प्रभेदो गीयत इति निश्चयाभावान् मोहः । आद्ययोः शः । अन्त्ययोः कः ॥१४-१५॥ [मु।फ। १२.५२-५३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : आधुनिक-क्षण-परिचय-विसाध्वसाभिर् भवतीभिर् एव, नाना-कौशल-धुरन्धराभिः कौतुक-वशान् नाना-विधेषु यमुना-पारावारादि-करण-दधि-भार-वाहनादि-नाना-धार्ष्ट्य-सूचक-चेष्टा-ग्राहणेन मम स्तनन्धयो नित्यम् एव चपलीक्रियते इति यशोदया प्राग्-आक्षिप्ताः काश्चित् संप्रति विप्रलम्भ-शृङ्गारस्योन्माद-दशायां तद् एवानुस्मृत्य यशोदां पुनः स्थिताम् इवोद्भावयन्त्य आहुः—विविध-गोप-चरणेष्व् इत्य्-आदि द्वाभ्याम् ।

हे सति ! शुद्धे अकुटिले यशोदे ! तव सुतः खलु विविध-गोप-चरणेषु ग्राम्यैर् ग्राम्यैश्वर्याचरणेषु वर्त्मनि सलिले च घट्ट-पालादि-लीला-विलासेषु यमुना-नाविकत्वादिषु च विहारेषु ग्राम्येषु स्वयम् एव विदग्धः, केनापि न शिक्षितः । तत्र वेणु-वादन-विनोद एव प्रमाणम्, यथा वेणु-वाद्ये विदग्धः । तत्र स्वयं विदग्धतां प्रपञ्चयन्ति—यदा उरुधा उरु-प्रकारा निजा आत्मीया शिक्षा यासु ताः स्वर-जातीः स्वराणां षड्जादीनाम् आन्ध्री-प्रभृतीर् जातीः, तदा कवयः सङ्गीत-कर्तारो मुनयो\ऽप्य् अनिश्चित-तत्त्वाः सन्तः कश्मलं ययुः । यासां स्वर-जातीनाम्—

कफादि-दूषिते कण्ठे तासां व्यक्तिर् न जायते । > अतो वीणाद्यं वक्ष्ये चलं चाचलम् एव च ॥

इति भूरि-ग्रामाध्यक्षो गोपस् तस्य घट्ट-पाल-कर-ग्रहणादि-विविध-ग्रामैश्वर्य-चेष्टावत् तस्यापि तथा-विध-ग्राम्य-लीला ऊह्याः । यद् वा, गोप्यन्त इति गोपा गोपनीया इति यावत् तानि चरणानि चरितानि तासु गोपनीया इति यावत् तानि चरणानि चरितानि तासु गोप्य-लीलास्व् इत्य् अर्थः ॥१४.१५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रगायन्त्योऽकस्मात् तत्रागतां तां श्री-व्रजेश्वरीं । किं वा, ईदृश-प्रगानेन तस्याः सर्वातिशायितां मनसि कृत्वा सम्बोध्य गोप्य उत्कर्षं वर्णयन्त्यः सर्व-सम्पत्तिमतां परमाभिज्ञानाम् अपि श्री-ब्रह्मादीनाम् अपूर्वानुभूतेन गोप-क्रीडा-विशेषेण वेणु-वाद्येन च मोहम् आहुः--विविधेति युगलेन ।

विविधानि गोपानां चरणान्य् आचरणानि क्रीडाः, तेषु विदग्धः, अतोऽधर-बिम्बे दत्त-वेणुः सन् यदा स्वर-जातीर् आनयत्, गोपानाम् एव वेणु-वादनेन रसिकत्वात्, अत एवोक्तं श्री-पराशरेण गोप-वेणु-प्रवादकौ [वि।पु। ५.६.४८] इत्य्-आदि, तत्रापि गोप-दूडा-मणित्वेन निज-शिक्षा असाधरणतया स्वयम् एव प्रवर्तिता इत्य् अर्थः । तद् वेणु-वादनं च गोप-क्रीडा-वैदग्ध्या कदाचित् कृतं किं वा, मध्याह्ने विश्व-हर्षणार्थं विश्वपरिपूरकं यत् कृतम् इति, अधर-विबे दत्तेत्य् अनेन तत्-परम-मधुरत्वं मोहनत्वं च ध्वनितम्, तत्र मातरं प्रति पुत्रोत्कर्ष-वर्णने निज-भावं सङ्गोप्य तत्-सन्तोषार्थम् इव रूपकं प्रयुक्तम् ।

हे सति ! जगत्-पूज्ये ! अतस् तत् सुतस्य तादृशत्वं युक्तम् एवेति भावः । उपधार्य स्व-स्व-स्थान एव स्थित्वाकर्ण्य, सुरेशा इति गन्धर्वादि-द्वारा गीतादि-सम्पत्तिर् दर्शिता, शक्रादीनां त्रयाणां सुरेशत्वादौ यथोत्तरं श्रैष्ठ्यम् । तत्र शर्वाद् अपि परमेष्ठिनस् तज्-जनकत्वात्, पुरोग-शब्देन अन्ये लोक-पालाः श्री-गरुडादि-पार्षदा वा । चित्तस्यानतत्वं तत्-प्रवणत्वम्, कश्मलं मोहं प्राप्ताः, तस्य स्वरस्यायं प्रभेदो गीयत इति निश्चयाभावात् । किं वा, मोहन-वेणु-नाद-स्वभावाद् एव । अन्यत् तैर् व्याख्यातम् ।

यद् वा, वेणु-वाद्ये उरुधा स्वर-जातीर् अनयद् इत्य् अन्वयः । कथम् ? अधर-बिम्बे दत्त-वेणुः सन् सवनशोऽनुकालम् उपधार्य तद्-अन्तिकम् आगत्य श्रुत्वेत्य् अर्थः । तादृश-युक्तिस् तासां तत्-तद्-दर्शनादि-सम्भावनया तस्यां श्री-व्रजेश्वर्या विश्वासात् । सुरेशा इति सर्वज्ञान-विभूत्य्-आदिमत्त्वम् उक्तम् । कवयश् च योगीश्वराः श्री-सनकादयः । आनत-कन्धर-चित्ता इति स्व-स्व-स्थानाद् आगत्य श्री-कृष्णं दृष्ट्वा तं प्राग् भक्त्या प्रणतवन्तः सन्त इत्य् अर्थः ।

यद् वा, न निश्चितं चित्ते दृढतया धर्तुं न शक्तं तत्त्वम् आत्म-स्वरूपादिकं यैः, मोहन-वेणु वाद्येन हृत-चित्तत्वात् । यद् वा, न निश्चितं ब्रह्मैव तत्त्वम् । किं वा, वेणु-वाद्यम् एवैतत् तत्त्वम् इति न निर्णेतुं शक्तं यैः, वेणु-वाद्यस्य तादृश-परमानन्द-रसमयत्वात् । किं वा, ब्रह्मानन्दाद् अपि वेणु-वाद्यस्य माहात्म्येन तद्-विस्मरणात् । यद् वा, न निश्चितं तत्त्वम् किम्भूत-माधुरीमयं शुषिर-गीतम् इदम् ? किं वा, अन्यः परम-चमत्कार-कारी तावद् अपूर्वः कर्ण-ग्राह्यः कोऽपि विषयः ? किं वा, महा-मोहनः कोऽप्य् एष मन्त्र उल्लसतीति वेणु-गीतस्य याथार्थ्यं तैस् तथा-भूताः सन्तः पश्चात् कश्मलं ययुः, तद्-एक-लीन-चित्तत्वात् सर्वं विसस्मरुर् इत्य् अर्थः । अन्यत् समानम् ॥१४-१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् एकान्त-गोष्ठीं संगृह्य गोष्ठे श्री-गोष्ठेश्वरी-गोष्ठी-गतापि गोष्ठी तल्-लीला-क्रम-प्राप्ततया संगृह्यते । तत्रापि विविध-प्रकार-विशेषेण तत् कथाम् एव ताः कुर्वन्तीति विवक्षया । तत्रोत्क्रान्ते मध्याह्ने पुत्रागमन-विलम्ब-शङ्कया तां खिद्यमानां तद्-विलम्ब-हेतूपन्यास-पूर्वक-गोपनीय-रस-निबद्धेन निखिल-परमाश्चर्य-वैदग्धी-मय-तत्-क्रीडाभिनिवेष-वर्णनेन प्रोत्साहयन्त्यः सान्त्वयन्ति। निगूढं तु स्वेषाम् अपि झटिति तद्-आगमनेच्छया तद्-द्वारा तद्-अभिनिवेशं वारयितुम् अतिप्रयन्ति साधारण-जनवत् स्पष्ट-तद्-वार्ता-कथनेन निज-भाव-गूहनम् अपि कुर्वन्ति—विविधेति । विविध-गोपाचरणेषु विदग्ध इति सामान्यतस् तैर् एव सर्व-मनोहर इत्य् अर्थः । तत्र च अधर-बिम्बे दत्त-वेणुस् तेनातिविराजमानः सन्न् इत्य् अर्थः ।

यदा विश्व-हर्षणादि-समये स्वर-जातीर् उत्थापितवान्, तत्रापि वेण्व् इत्य्-आदि लक्षणाः उरुधा निजैव शिक्षा यासु ताः तादृशीश् च । ताः वेणु-वाद्य इति पार्ष्णिकोऽन्वयः । अन्योन्य-स्वरादाव् अपि निज-शिक्सामयत्वे वेणु-वाद्यत्वाधिक्यम् इति दर्शितम् । यद् वा, स्वर-जातीः कथम्-भूताः ? निज-शिक्षाः । पुनः कथं-भूताः ? वेणु-वाद्य उरुधा, तत्र तु नाना-प्रकाराः । तत्रापि पूर्ववत् ।

हे सति ! जगत् पूज्ये ! अतस् त्वत्-सुतस्यापि तादृशत्वं युक्तम् एवेति भावः । उपधार्य श्रुत्वेति स्व-स्व-स्थानाद् एव श्रवणं लभ्यते । ततश् च तस्य फल-रूपत्वेऽपि सर्व-व्यापकत्वं बोधिते, तथैव निज-शिक्षा-विशेषात् सुरेशा गन्धर्वादि-द्वारा गीतादि-श्रवण-सम्पत्तिमन्तोऽपि स्वयं कवयोऽपि शक्र-पुरोगास् तत्-सहित-लोक-पालादयो देव-जातयः, शर्व-पुरोगास् तत्-सहित-देवी-स्कन्द-गणेशादयस् तद्-गणाः, परमेष्ठि-पुरोगास् तत्-सहित-चतुःसन-नारद-सप्तर्षि-प्रजापति-गणादयः । क्रमस् तु शक्रादीनां बहिर्-इन्द्रियेण प्रथमत एव तच्-छ्रवणात् । शर्वस्य कैलासस्थत्वेऽप्य् अन्तर्-निष्ठत्वे तद्-अनन्तरम् एव । परमेष्ठिनस् तु दविष्ठत्वेन तद्-अनन्तरम् एवेति । चित्तस्य आनतत्वं तच्-छ्रवणत्वम् एकस्य स्वरस्यायं प्रभेदो गीयते इति निश्चयाभावात् । वेणु-नाद-माधुर्याच् च कश्मलं ययुः । अन्यत् तैः ।

अथवा, स्वरान् जातीश्सवनशः अनुकुलं वारं वारम् अपि श्रुत्वेत्य् अर्थः । यद् वा, न निश्चितं तत्त्वं किम् अद्भुत-माधुरीमयम् इदं ? किं वा, अन्यः परम-चमत्कार-कारी तावद् अपूर्वः कर्ण-ग्राह्यः कोऽपि विषयः ? किं वा, महा-मोहनः कोऽप्य् एष मन्त्र उल्लसतीति वेणु-गीतस्य याथार्थ्यं यैः तथा-भूताः सन्तः पश्चात् कश्मलं ययुः तद्-एक-लीन-चित्तत्वात् सर्वं विसस्मरुर् इत्य् अर्थः । अन्यत् समानम् ॥१४-१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् एकान्त-गोष्ठीं संगृह्य गोष्ठे श्री-गोष्ठेश्वरी-गोष्ठी-गतापि तल्-लीला-क्रम-प्राप्ततया संगृह्यते । तत्रापि विशेषेण तत्-कथाम् एव ताः कुर्वन्तीति विवक्षया । तत्रोत्क्रान्ते मध्याह्ने पुत्रागमन-विलम्ब-शङ्कया तां खिद्यमानां तद्-विलम्ब-हेतूपन्यास-पूर्वक-गोपनीय-रस-निबद्धेन निखिल-परमाश्चर्य-वैदग्धी-मय-तत्-क्रीडाभिनिवेष-वर्णनेन प्रोत्साहयन्त्यः सान्त्वयन्ति—विविधेति युगलेन । उपधार्य श्रुत्वेति कल-रूपस्यापि तस्य सर्व-व्यापकत्वं बोधितम् । तथैव निज-शिक्षा-विशेषात् ॥१४-१५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आधूलि-खेलन-परिचय-विसाध्वसाभिर् भवतीभिर् एव नाना-कला-कौशल-धुरन्धराभिः कौतुक-वशान् नाना-विधेषु यमुना-पारावार-करण-दधि-भार-वहनादि-नाना-चपल-चेष्टा-ग्राहणेन मम तनयो नित्यम् एव तरलीक्रियते इति श्री-व्रजेश्वर्या बहुशः प्राग्-आक्षिप्ताः काश्चित् सम्प्रति विप्रलम्भ-दशायाम् उन्मादम् आपन्नास् ताम् एव पुर-स्थिताम् एव जानन्त्य आहुः—विविध गोप-चरणेष्व् इत्य्-आदि द्वाभ्याम् ।

हे सति ! शुद्धे अकुटिले व्रजेश्वरि ! तव सुतः विविध-गोप-चरणेषु गोप-क्रीडासु विदग्धः स्वयम् एव निपुणः, न केनाप्य् असौ शिक्षितः । अथवा, गोपो ग्रामेषु भूरिषु, बहु-ग्रामाधिकारी गोपः । स यथा क्वचिद् वर्त्मनि सलिले च पारावारे घट्ट-पालादि चेष्टां कुर्वन् परोपद्रवं करोति, तथायम् अपि गव्यादिषु दान-क्रियां कुर्वन् अस्मान् कदर्थयति । अतोऽयं तथा-विधेषु गोप-चरणेषु स्वयम् एव विदग्ध इत्य् अर्थः ।

तत्र वेणु-नाद एव प्रमाणम् । यथा वेणु-वाद्ये विदग्धः स्वयम् उरुधा बहु-प्रकारा निजा आत्मीया शिक्षा यासु, ताः स्वर-जातीः, न तु कस्यापि तत्रोपदेशः । स्वर-जातीः स्वराणां षड्जादीनां जाती रान्ध्री प्रभृतीर् अनयत् नयति, वर्तमानेऽतीत-विवक्षायां काल-विपरिणामः । तदा कवयः सङ्गीत-कर्तारो ब्रह्मादयोऽप्य् अनिश्चित-तत्त्वाः सन्तः कश्मलं मोहं ययुः—"किम् इदम् ?" इति तत्त्वं न ज्ञातवन्तः । य एवं वेणु-वाद्ये निज-शिक्षां प्रकटयति—तस्य गोप-चरणेषु विविधेषु यद् वैदग्ध्यं तत् केनोपदेष्टव्यम् इति मद्-विधाः प्रति वृथासूयां मा कार्षीर् इति वाक्यार्थः । इति उन्मादः ॥१४.१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथापराह्ने काश्चन गोप्य आगमिष्यतः स्व-प्रेयसश् चिर-दर्शन-सिद्ध्य्-अर्थं विचारित-युक्तयः केनचिन् मिषेण व्रजेश्वरी-सदनं गताः । तत्र च विविध-वृद्धा-युवति-युवति-बालिकाभिः सम्भूय विस्तार्यमाणाः स्व-सुत-गुण-कर्म-प्रभाव-कथाः शृण्वन्तीं स्वयं च कथयन्तीं सुत-विरह-विह्वलां तां स्व-स्व-मनश् च समाश्वासयितुं तां सम्बोध्य वेणु-गान-गुण-प्रभावं वर्णयन्ति—विविध- इति ।

हे सति ! श्री-यशोदे ! विविधं गोपानां चरणान्य् आचरणानि गवां कालेन दोहन-वशीकरणादीनि, तेषु विदग्धः तव सुतः अधर-बिम्बे दत्त-वेणुः सन् यदा स्वराणां षड्जादीनां जातीर् अष्टादश-मुख्याः अन्याः सहस्रशो वा अनयत् उन्नीतवान् । कीदृशीः ? वेणु-वाद्य-विषये उरुधा बहु-प्रकारा निजात् स्वस्माद् एव, न तु परस्मात् कस्माच्चिद् अपि, शिक्षा यासु ताः । सवनशः समये तत्-स्वर-जात्य्-उन्नयनम् उपधार्य शक्र-शर्व-परमेष्ठिनः पुरोगा मुख्या येषां ते । शक्रोपेन्द्राग्नि-यमादयः । शर्व-कात्यायनी-स्कन्द-गणेशादयः । ब्रह्म-चतुःसन-नारदादयश् च । कवयः गान-तालादि-सृष्टि-कर्तारोऽपि । आनताः कन्धराश् चित्तानि च येषाम् इति गान-माधुर्यास्वादानुभावः । न निश्चितं रागस्य तालस्य तानस्य स्वरादीनाम् च तत्त्वं स्वरूपं यैस् ते, ततश् चाज्ञानाद् वेणु-माधुर्याच् च मोहं प्रापुः । “अहो जगद्-ईश्वरो यत्र मुमुहुस् तत्र जगद्-ईशितव्यानाम् अन्येषां मोहे को विचारः ?” इति आश्चर्ये। जगन्-मोहनोऽयं तव सुतोऽभूद् इति भावः ॥१४-१५॥


॥ १०.३५.१६-१७॥

निज-पदाब्ज-दलैर् ध्वज-वज्र-

नीरजाङ्कुश-विचित्र-ललामैः ।

व्रज-भुवः शमयन् खुर-तोदं

वर्ष्म-धुर्य-गतिर् ईडित-वेणुः ॥

व्रजति तेन वयं स-विलास-

वीक्षणार्पित-मनोभव-वेगाः ।

कुज-गतिं गमिता न विदामः

कश्मलेन कवरं वसनं वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्माकं तु मोहं किं ब्रूमः ? इत्य् आहुः—निज-पदाब्ज-दलैर् इति । ध्वजादीनि विचित्राणि ललामानि चिह्नानि येषां तैः, निजानि पदान्य् एवाब्ज-दलानि तैः, व्रज-भुवः खुर-तोदं खुराक्रमण-व्यथां शमयन् वर्ष्मणा देहेन धुर्यो गजस् तद्वद् गतिर् यस्य स कृष्नो वादित-वेणुः सन् यद् व्रजति, तेन निमित्तेन स-विलास-वीक्षणेनार्पितो मनो-भव-वेगो यासु ता वयम् । कुजा वृक्षास् तेषां गतिं गमिताः सत्यो [कश्मलेन] मोहेन न विदामः कबरं वा वसनं वा इति ॥१६.१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आह—अस्माकम् इति । ललामोऽस्त्री ध्वजे श्रेष्ठे भूषायां पुण्ड्र-चिह्नयोः इति यादवः । यद् वा, निजानि नित्यानि पदानि पदाङ्का एव अब्जानि, तेषां दलैर् इतस् ततः स्थापनैः । तेन निमित्तेन वर्ष्म-धुर्यवद् गमन--रूपेण हेतुना स-विलास-वीक्षणेन विभ्रमोपेत-दृष्ट्या वेग उद्रेक-लक्षण-संस्कारः कौ भूमौ जायते इति कुजो वृक्षः । “व्रज-गतिम्” इति पाठे तु ब्राह्मे मुहूर्ते रासान्ते कृष्णेन प्रेषिता इत्य् अर्थः । मोहेन मनोऽनवस्था-लक्षणेन कवरं केश-पाशं वसनं कट्यादि-धृतम् ॥१६.१७॥


कैवल्य-दीपिका : निज- इति । दलैर् अवयवैः । नीरजं पद्मम् । ध्वजादयो विचित्राणि ललामानि चिह्नानि येषाम् । खुर-तोदं खुर-व्यथाम् । वर्ष्मणा देहेन धुर्यः श्रेष्ठो गज इति यावत् तद्वद् गतिर् यस्य स तथा । आद्ययोर् नः, अन्त्ययोर् वः ॥

व्रजति इति । यद् व्रजति, तेन इत्य् अर्थः । स-विलासं स-शोभं यद् वीक्षणम्, तेन अर्पितो मनोभव-वेगो यासाम् । कुज-गतिं गमिता द्रुमवद् जडीभूताः । कवरं केश-पाशम् । आद्ययोर् वः, अन्त्ययोः कः ॥१६-१७॥ [मु।फ। १२.५४-५५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्र चाकस्मात् श्री-व्रजेश्वरीं प्रति तद्-उक्तेः काल-क्रमो नापेक्ष्यः । किं वा, उक्त-न्यायेन माध्याह्निक-तद्-वेणु-रवानुसाराद् अत्रापि स द्रष्टव्यः । अधुना प्रसङ्गात् परमार्त्या निज-मोहम् अप्य् आहुः—निजेति युगलेन ।

निज-शब्देन पादुकादि-व्यवधानं निरस्तम् । बहुत्वं पदानां बाहुल्यात् । अब्ज-दल-रूपकं चाग्र-विस्तीर्ण-पश्चात्-सङ्कुचिताब्जान्तर्-दलाकारुण्य-मार्दवादि-सादृश्यात् । तलैः इति पाठः केषाञ्चिन् मतः । ततश् च गौरवेण पद-बाहुल्याभिप्रायेणैव वा बहुत्वम् । निजत्वाद् एव ध्वजादीनि विचित्राणि अद्भुतान्य् असाधारणानि ललामानि लक्षणानि येषु तैः । शङ्ख्य-चक्रयोर् अनुक्तिर् असाधारण-श्री-विष्णु-चिह्नयोस् तयोः सुप्रसिद्धत्वात् । व्रज-भुवः श्री-गोवर्धन-वृन्दावनादि-गो-प्रचार-भूमेः गवादि-खुराक्रमण-व्यथां शमयन्न् इति पादाब्ज-स्पर्शस्य स्वभावत एव सर्व-ताप-हरत्वात् । विशेषतऽच् च खुर-क्षोदाद्य्-आच्छादक-ध्वजादि-चिह्न-सुन्दर-पदानाम् उदयात् सर्व-ताप-हरत्वात् । अत एव वर्ष्म-धुर्य-गतिः गजेन्द्रवच् छनैः शनैर् लीलया चलन्न् इत्य् अर्थः । यत ईरित-वेणुः शीघ्र-गमने सम्यग्-वेणु-वादनासम्पत्तेः । यद्यपि तासां मोहनार्थम् एव तत् तत्, तथापिइ धार्ष्ट्य-परिहारार्थं । किं वा, अतृप्तत्वेन तद्-अमननात् तथा नोक्तम् । भुवस् तोदस् तु खुर-चिह्नोदयेन केवलं क्षत-सादृश्यात्, न तु तत्त्वतः, पशूनां तेषां भगवदीयत्वात् ।

यद् वा, धेनुकारिष्टादि-खुराणि ज्ञेयानि । व्रजति व्रजाद् वनं प्रयाति । यद् वा, चलति इतस् ततो भ्रमतीत्य् अर्थः । तेन निमित्तेन यत् सविलासं स-शोभं स-लीलं वा । वीक्षणम् अस्मासु तत्र तत्र वा दृष्टिः । तेनार्पितोऽन्तर्-निहितो मनो-भवस्य वेगो यासु ताः इति स्वतोऽप्रतिकार्यत्वम् उक्तम् । तथा अन्य-हेतुकस्यापि तद्-वीक्षणस्य काम-वेगार्पकत्वेन महा-मोहनत्वं च सूचितम् । एवं क्रमेण सौन्दर्य-लीला-माधुर्यम् उद्दिष्टाः । अतः कुजानां वृक्षाणां गतिं स्थावरत्वं जाड्यम् इत्य् अर्थः । गमिता प्रापिताः सत्यः ।

यद् वा, कुज-गति-गमित्वेनेत्य् एको हेतुः । विशेषतश् च स-विलासेत्य् अन्यः । यद् वा, तेनेति कुज-गति-गमित्वे स-विलासेति न विदाम इत्य् अत्र हेतुर् विवेचनीयः । तस्य व्रजने नास्माकम् अगत्वं वैदग्ध्या च मुग्धत्वम् इति कारण-वैपरीत्येन तस्य परमं मोहनत्वं निज-दैन्यं च दर्शितम् । कवरम् उक्तम् अपि वसनं स्खलद् अपि न विद्मः । वा समुच्चये । अप्य्-अर्थे एव वा । यद्यपि मोहेन सर्वेषाम् एव देह-दैहिकानाम् अवेदनं स्यात्, तथापि विशेषतः कवर-वसनयोर् उक्तिर् अङ्गनानां तयोस् तत्रापि वस्त्रस्यावश्यम् एवानुसन्धेयत्वात् ।

युगलेऽस्मिन् पूर्व-युगलेष्व् इव प्रतिश्लोकं वाक्य-समाप्ति-निर्वाह-परित्यागेन द्वाभ्याम् एव वाक्यैक्यम् । केवलं व्रजनाद् एव जाड्यम् । तच् च सङ्गमाद् एवेत्य् आद्य्-अभिप्रायेण अः अन्यत् तैर् व्याख्यातम् ॥

तत्र गृह-कृत्यार्थं किं वा, पुत्रोत्कर्ष-श्रुत्या द्वि-गुणित-तद्-विच्छेद-दुःखात् तस्यां निर्गतायाम् । श्री-यशोदा-गमन-पक्षे च निजाशङ्कायां निरस्तायाम् उक्त-ब्रह्मादि-मोह-प्रसङ्गात् । परमार्त्या पूर्ववन् मिथो निज-मोहम् एवोचुर् इति ज्ञेयम् । विचित्रेत्य् अनेनान्यानि च विविधानि यव-चक्रादीनि चिह्नान्य् उच्यन्ते, ध्वजादिभिर् ललामैः सुन्दरैः कुज-गतिं गमिताः स्तब्धतां प्रापिताः । पश्चाच् च मोहेन न विद्मः । अन्यत् तथैव ॥१६.१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तद्-अनन्तर-जात-लीला-मयी गोपनीय-रस-निबद्धा पुनर् एका काचिद् एकान्त-गोष्ठी संगृह्यते । तत्र तादृश-नाना-तत्-कथाश्रयेण लङ्घितेऽपि तृतीये यामे नागते श्री-भगवति काश्चिद् उत्कण्ठित-चित्ता गोपिकाः गोपावृत्ति-समये तद्-अन्वेषणार्थं पुष्पावचयादि-मिषेण कदाचिद् गच्छन्ति च वन-मध्यम् । तत्र दृष्टं दिनान्तरे प्रसुवन्ति च तद् एवम् अवतारिका—अहो ! प्राण-सख्यः ! तत्र चान्येषाम् अस्तु मोह-कथा स्फुटम् अस्माकम् एव श्रूयताम् इति भाव-वैवश्येनाहुः—निजेति ।

निज-शब्देनासाधारणत्वं व्यज्यते । बहुत्वं गौरवेण प्रतिन्यासम् अपूर्व-रूपत्व-विवक्षया वा निजत्वाद् एव ध्वजादीनि विचित्राणि अद्भुतानि ललामानि येषु तैः । यद् वा, ध्वजादिभिर् विचित्रैः ललामैश् च सुन्दरैः उपलक्षणानि चैतानि प्रसिद्धानां चक्रादीनाम् अनतिप्रसिद्धानाम् अष्टकोणादीनां च व्रज-भुवः व्रज-सम्बन्धि-गो-प्रचार-भूमेः लक्षणया तद्-गत-तृणादीनाम् इत्य् अर्थः । गवादि-खुराक्रमण-व्यथां शमयन्न् इति गवां पश्चात् पश्चाद् गच्छतो भगवतः पदाब्ज-स्पर्श-स्वभावत एव सद्यस् तृणाद्य्-अङ्कुरोत्पत्तेः । अत एवासङ्ख्य-धेनु-वृन्द-नित्य-चारण-समावेशः स्यात् ।

तत्र विलासम् आहुः—वर्ष्म-धुर्य-गतिः गजेन्द्रवच् छनैः शनैर् लीलया चलन्न् इत्य् अर्थः । यत ईरित-वेणुः शीघ्र-गमने सम्यग्-वेणु-वादनासम्पत्तेः । यद्यपि स्वाभाविकम् एव तस्य तत् तथापि विलास-विशेषेण विशिष्टम् अपि स्याद् इति तथोक्तम् । ततोऽस्मद्-दृष्टि-विषये त्व् अधिकम् एव तथा चरितम् इति व्यञ्जितं व्रजति इतस् ततो भ्रमतीत्य् अर्थः । ३ कारण-भूतेन यत् स-विलासं स-लीलं वीक्षणम् अस्मासु तत्र तत्र च दृष्टिः, तेनार्पितोऽन्तर्-निहितो मनो-भवस्य वेगो यासु ताः इति स्वतोऽतिकातर्यत्वम् उक्तम् । कुज-गतिं स्थावरत्वं जाड्यम् इत्य् अर्थः । गमिता प्रापिताः ।

यद् वा, तेनेति कुज-गति-गमित्वे स-विलासे सति न विदाम इत्य् अत्र हेतुर् विवेचनीयः । तस्य व्रज-जनेनास्माकम् अगत्वं वैदग्ध्या च मुग्धत्वम् इति कारण-वैपरीत्येनाद्भुतत्वं ततस् तस्य परमं मोहनत्वं स्वेषां दैन्यं च दर्शितम् कवरं वसनं वा न विद्मः स्खलितम् इति शेषः । तद् अनुक्तिर् लज्जया कवरम् इति कियत वसनम् अपीत्य् अर्थः । वा समुच्चये । टीकायाम् अपि तथैव ॥१६.१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तद्-अनन्तर-जात-लीला-मयी गोपनीय-रस-निबद्धा पुनर् एका काचिद् एकान्त-गोष्ठी सङ्गृह्यते । तत्र तादृश-नाना-तत्-कथाश्रयेण लङ्घितेऽपि तृतीये यामे नागते श्री-कृष्णे काश्चिद् उत्कण्ठित-चित्ता गो-परावृत्ति-समये तद्-अन्वेषणार्थं पुष्पावचयादि-मिषेण काश्चिद् गच्छन्ति च वन-मध्यम् । तत्र दृष्टं दिनान्तरे प्रस्तुवन्ति च । तद् एवम् अवतारिका । अहो प्राण-सख्यस् तत्र तत्र चान्येषाम् अस्तु मोह-कथा । स्फुटम् अस्माकम् एव श्रूयताम् इति भाव-वैवश्येनाहुः—निजेति युगलेन ।

निजेत्य् असाधारणत्वं व्यज्यते । बहुत्वं गौरवेण प्रतिन्यासम् अपूर्व-रूपत्व-विवक्षया। दलैर् इति क्वचिद् व्रज-भुवस् तत्-सम्बन्धि-भूमेर् लक्षणया तद्-गत-तृणादीनाम् इत्य् अर्थः । गवादि-खुर-तोदं शमयन्न् इति गवां पश्चाद् गच्छतः श्री-कृष्णस्य पदाब्ज-स्पर्श-स्वभावत एव सद्यस् तृणाद्य्-अङ्कुरोत्पत्तेः । अत एवासङ्ख्य-धेनु-वृन्द-नित्य-चारण-समावेशः स्यात् ॥१६.१७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! यद्य् एवं तस्य वेणु-वाद्य-कौशलं न स्यात्, तदा कथम् अस्माकम् ईदृग् अवस्था स्यात् ? इत्य् अपरा आहुः—निज-पदाब्जेत्य्-आदि द्वाभ्याम् । दलैर् इति बहु-माने बहुत्वम् । ध्वज-वज्रादीनि विचित्राणि ललामानि येषां तैः । वर्ष्म-धूर्यो हस्ती तद्वद् गतिर् यस्य यदेडित-वेणु वादित-वेणुस् तदा वयं कुज-गति-वृक्षवज् जाड्यं गमिताः सत्यः कश्मलेन कवरं वसनं वा स्खलितम् अस्खलितं वा न विदाम इत्य् अर्थः ॥१६-१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथान्य-यूथ-स्थाः स्व-सखीः प्रति वेणु-हेतुकं स्व-मोहम् एवाहुः । निज-पदान्य् एव अब्ज-दलानि तैः । कीदृशैः ? ध्वजादीनि विचित्राणि ललामानि चिह्नानि येषां तैः । गोष्ठ-गमन-समये अग्रतो गतानां गवां खुर-तोदं खुराक्रमण-व्यथां व्रज-भुवः शमयन् । तद्-उपरि स्व-चरणाब्ज-न्यासेन शमयितुं यदा वर्ष्मणा देहेन धुर्यो गजस् तद्वद् गतिर् यस्य स कृष्णो व्रजति, तदा तेन कृष्णेन स-विलास-सवीक्षणेनैवार्पितो मनोभव-वेगो यासु ता वयं कुजा वृक्षास् तेषाम् इव गतिं गमिताः प्रापिताः सत्यो मोहेन कवरं वसनं वा न विदामः । तयोः स्खलनं न जानीम इत्य् अर्थः । तेन व्रज-भुवः खुर-तोदं चरणाम्बुज-न्यासेन शमयामास । व्रज-सुभ्रुवां तु मनसिज-तोदं नयनाम्बुज-न्यासेनोत्पादयामास इत्य् एवम् एवास्माकं ललाटम् इति द्योतितम् ॥१६.१७॥


॥ १०.३५.१८-१९॥

मणि-धरः क्वचिद् आगणयन् गा

मालया दयित-गन्ध-तुलस्याः ।

प्रणयिनोऽनुचरस्य कदांसे

प्रक्षिपन् भुजम् अगायत यत्र ॥

क्वणित-वेणु-रव-वञ्चित-चित्ताः

कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।

गुण-गणार्णम् अनुगत्य हरिण्यो

गोपिका इव विमुक्त-गृहाशाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च मणि-धरो मणीन् ग्रथितान् गो-गणनार्थं धरतीति मणि-धरः । क्वचिद् देशे एतैर् मणिभिर् गा आसमन्ताद् गणयन् । तथा दयित-गन्धा या तुलसी तस्या मालया सह वर्तमानः । प्रणयिनः प्रियस्यानुचरस्यांसे भुजं प्रक्षिपन् । यत्र यदा कदाचिद् अगायत ।

तदा क्वणित-वेणु-रवेण वञ्चितान्य् अपहृतानि चित्तानि यासां ताः कृष्णस्य हरिणस्य गृहिण्यो भार्याः गुण-गणार्णं गुण-गण-समुद्रं कृष्णम् अनुगत्य प्राप्य ताः कृष्णम् एवान्वसतान्वासत । न न्यवर्तन्तेत्य् अर्थः । कुतः ? यतो विमुक्ता गृहाशा याभिस् ता गोपिका इव ता अपि ह्य् एवम् एवान्वासतेति ॥१८.१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आहुः—किं च इति । तथा विशेषणान्तरम् आह—अंसे भुज-शिरसि । प्रतिक्षिपन् निदधानः । यद् वा, मणिधरः कौस्तुभधरः

मणिः स्त्री-ंसयो रश्मजातौ मुक्तादिकेषु च । > कण्ठ-देशस्तनेऽजाया लिङ्गाग्रलिजरेऽपि च ॥ इति मेदिनी ॥१८॥

अन्वसतेह दीर्घाभावस् त्व् आर्षः । इत्य् अर्थः इति—किञ्चिद्-गुणवान् अपि लोके न त्यज्यते किम् उत गुण-गणाब्धिर् इत्य् आशयः । तत्र हेतुम् आशङ्क्य समादधिरे—कुत इति । यतो हेतोर् गृहाश त्यक्तातो हेतोः कृष्णम् उपासत, त्यक्त-सर्व-परिग्रहैर् एव कृष्ण उपास्यत इति भावः । गोष्ठ स्थानां स्वेषां मोहनम् इव वनस्थानां मृगीणां वेणु-हेतुकं मोहनम् आहुः—मणिधरः गो-गण-सङ्ख्यानमणि मालाधरः । शुक्ल-रक्त-श्याम-पीतानां चतुर्णां वर्णानां प्रत्येकं पञ्च-विंशति-प्रभेदैः शतं वर्णा भवन्ति । तथैव चित्रितत्व-चन्दन-तिलकत्वादि वर्णैर् मृदङ्गमुखत्वाद्याकारैर्श्चान्येऽप्य् अष्ट प्रभेदा भवन्ति । ततश् च तत्-तद् वर्णाकारैर् अष्टोत्तर-शतमणि गोलकेर् गोगणनार्थं श्री-कृष्णेन गोजपमालैका कृतास्ति, तां मालां गृहीत्वैवासङ्ख्यानाम् अपि गवाम् अष्टोत्तरशतं यूथान् पृथक् पृथग् वर्णान् गणयति । तथाहि—हिही धवरीत्य् आह्वानेन धवरीत्य् आह्वनेन धवलीयूथो यथा तथैव हंसी चन्दनी गङ्गे मुक्ते इत्य् आह्वानेन, तत्-प्रभेदाश् चतुर्विंशतिर् अन्येऽपि यूथा आयान्ति । कुङ्कुमी सरस्वरीत्य् आदि-सञ्ज्ञा, श्मामला धूमला-यमुनेत्य् आदिसञ्ज्ञा, पीता पिङ्गला हरितालिकेत्य् आदि-सञ्ज्ञा, चित्रिता चित्र-तिलका दीर्घ-तिलका तिर्यक्तिलकेत्य् आदि-सञ्ज्ञा, मृदङ्ग-मुखी सिंह-मुखीत्यादि-सञ्ज्ञाश् च स्व-स्व-नामभिर् आहूता आयान्त्यतो वनाद् गोष्ठगमनसमये काश्चनापि गावो विस्मृता भवेयुर् इत्य् एकैकमणि-गोलकावर्तनेन गा गणयन् दयित-गन्धा तुलसी तस्या मालया सह वर्तमानः प्रणयिनः प्रियस्यानुचरस्य स्कन्धे भूजं प्रक्षिपन् यदागायत । तदा वेणो रवेण वञ्चितान्यपहृतानि चित्तानि यासां ताः, कृष्णस्य गृहिण्यो हरिण्यः कृष्णम् अन्वसत । अन्ववर्तन्तेत्य् अर्थः । यतो गुण-गणार्णवं गुण-समुद्रं कृष्णम् अनुगत्य प्राप्य तद्-गुणानास्वाद्य् एत्य् अर्थः । विमुक्ता गृहाशा याभिस्ताः गोपिका इव वयम् अप्य् एवंवृत्ता भवामः ॥१९॥


कैवल्य-दीपिका : मणि- इति । मणयः काच-घटितादयः । दयितो गन्धो यस्याः तुलस्याः, तस्या मालया विशिष्टः । प्रणयिनः प्रियस्य कदा कर्ह्य् अपि । आद्ययोर् मः, अन्त्ययोर् प्र-शब्दः ॥

क्वणित- इति । कृष्णम् अन्वसत अनुगता आसन् । कृष्णस्य मृगस्य हरेश् च गृहिण्यःगुण-गणस्य अर्णम् अर्णवम् । गोपिका इव हरिण्यो विरह-पाण्डराः । आद्ययोः कः, अन्त्ययोर् गः ॥१८-१९॥ [मु।फ। १२.५६-५७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे सख्यः ! वयम् एव तस्य प्रिया इति गर्वम् उद्वहामः । पश्यत हरि-लीलायाम् अनुरागम् इत्य् अन्या आहुः—मणि-मय इत्य्-आदि द्वाभ्याम् । मणि-धरः कौस्तुभ-धारी । एतास् तु कृष्ण-गृहिण्य इति नाम्नैवात्मानं तोषयन्ति, वयं तु न तथा । हे गोपि ! एता विमुक्त-गृहाशाः । का इव ? वयम् इव न हि न हि वयम् अद्यापि गृहे तिष्ठामः । एतास् तु वन एव एतेन सर्वथास्मद्-अधिकानुरक्ता एता इति दैन्यम् ॥१८.१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो बत गोपिकानाम् अस्माकं तद् एक-गतीनां तैर् मोहो युक्त एव, पशु-स्त्रीणाम् अपि दूरतस् तस्य सौरभ्येण गीतेन च मोहोऽभूद् इत्य् आशयेन । किं वा, प्रकृतम् अनुसृत्य अपराह्ने आसान्न-गृहागमन-समये स्वीकृत-वेषान्तरस्य गवाम् आगमनार्थं वेणु-गानेनैणीनाम् अपि मोहः किमुतास्माकं गोपीनाम् इत्य् आहुः—मणीति युगलेन । मणयः—मौक्तिकादय, आगणयन्न् इति व्रजं प्रति निवर्तनेनावश्यं सम्भालनात्, गा गो-जातीर् धेनु-वृषादीन् इत्य् अर्थः ।

अन्य-पशु-वर्ग-सद्भावेऽपि गवां गणनं तेषु स्नेह-विशेषेण, यद्य् अपि कृष्णवत्-सैर-सङ्ख्यातैः [भा।पु १ओ।१२.३] इति पूर्वोक्तेः, पृथक् चार्यमाणानां वत्सानाम् अप्य् आनन्त्येन गवाम् अन्येषां पशूनां परमानन्त्येन गणना न सम्भवेत्, तथापि यूथादि-भेदेन गणना कल्प्या ।

यद् वा, गवाम् असङ्ख्यत्वेऽपि तद्गणनं तत्-सम्भालनं गोपानाम् आवश्यकम् इति हि व्यवहारं, दयित-गन्धत्वेन तुलस्या मालया पत्रादिभिर् निर्मितया सदा विशिष्ट इत्य् अर्थः, पशूनां घ्राण-वेदित्वेन दूरात् तद्-घ्राणेन हरिणीनाम् आगमने कारणम् एकम् उक्तम् । किं च, अनुचरस्यांसे भूजः वामं प्रक्षिपन्न् इति लीलावस्थानं स्नेहादिकं च दर्शितम्, प्रणयिणः इति वेणुना गाने प्रायस् त्रि-भङ्गी-ललित-मुद्रया श्री-वाम-बाहुना तत्-कण्ठ्परिवेष्टनतो गाढालिङ्गन-सम्पत्तेः, अतः स एव प्रेम-युक्तः सौभाग्यवान्, न तु वयम् इति भावः । क्वनित-वेणु-रवेति वक्ष्यमाणत्वाद् वेणु-नैवागायद् इति सिद्धम् एव । क्वणितेति विशेषणेन सदा सहज-नादमयत्वं तथा रवेत्य् अनेन च केवलं सकृद् ईषद् वादनम् एवाभिप्रेतम्, न च विचित्र-मधुर-स्वर-गानदिकम् अपेक्षितम्, तथापि सहज-माधुर्यमयत्वात् तद्-रवोऽपि गीते पर्यवस्यत्येवेत्य् उक्तम्—अगायतेति ।

यद् वा, श्री-मुखेनैव यद अगायत्, तदा गानानन्तरं रस-विशेषेण क्वणितो वादितो यो वेणुस् तस्य रवेण वञ्चित-चित्ताः, वञ्चितेति श्लेषेण प्रतारणं सूचितम्, अन्यथा तादृश-मोहनान्तिके तथास्थित्य् अनुपपत्तिः, कृष्ण-गृहिण्यः पति-सहिता अपीत्य् अर्थः, तत्-परित्यागेन कृष्णम् एव अन्वसत अनुगता आसन्न् इत्य् अर्थः । तत्र हेतुः—गुण-गणार्णम् इति । विशेषतच् चानुगम्य प्राप्य अनुसृत्येति वा, कृष्ण-गृहिण्य इति श्लेषेण ता अपि कृष्णस्य भार्यात्वं प्राप्ता इति नर्म । किं वा, आत्मनस् तासां च स्वभावस्यैक्य-विवक्षया विशेषेण स्नेहादि-परित्यागेन समूलतया मुक्ता गृहेषु गृह-तत्-सम्बन्धिषु आशा वाञ्छापि याभिस् ताः ।

यद् वा, विमुक्ता गृहा आशश्चाशनं याभिः, यथा वयं तस्य वेश-लीला-वेणु-गीतादि-मोहितास् तमनन्त-गुणम् अनुसृत्य ततोऽत्यल्प-गुण-निज-पतिपरित्यागेन तस्य भार्यात्वं प्राप्ता विमुक्त-देह-गेह-तत्-सम्बन्धि-पुत्र-धनाद्याशाः सत्यो हरिण्यस् तद्-विरह-पाण्डुरास्तमेवानुवर्तामहे, तद्वद् इति, वयम् इत्य् अनुक्त्वा गोपिका इत्य् उक्तं तज्जातित्वेनैव तद् एक-स्वभाव-प्रसिद्धेः । यद् वा, वयम् इत्य् उक्तेः सकाशाद् अपि गोपिका इत्य् अस्य रस-विशेष-पोषित्वात्, श्लेषेण—गोपयन्तीति गोपिका देह-रक्षणपराः, अन्यथा तद् विरहेण जीवनानुपपत्तिर् इति भावः । यद् वा, अनुगम्यास् तेनैवानुसर्तुं योग्या अपि हरिण्यः । अयं भावः—एतादृशं तस्य वेशादि-मोहनत्वं येनानुसर्तारम् अपि स्वयम् एवानुसरन्तीति । एतद् अप्य् आत्मभावाभिप्रायेणैव । अन्यत् समानम् ॥१८.१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा पराह्ने स्वीकृत-वेशान्तरो गृहागमनाय मुहुर् वेणु-गानेन गाः समाहरति गणयति च । अहो बत तत्र मृग्याप्याक्रियन्ते किम् उत वयं गोप्य इत्य् आहुः । मणीति । मणि-माला-धारी सन् गा आगणयन् जगौ क्रमशस् तत् तद् यूथ-मुख्य-मुख्याया नाम वेणुना गायतिस्म तास् तथैव स्व-स्व-यूथेनागतास् तत् तद् वर्णादि-सङ्केती-कृत-तन् मणि-मालया गणयति स्म चेत्य् अर्थः । यद्य् अपि कृष्णवत् सैर-संख्यातैर् इति पूर्वोक्तं तथापि यूथेशादि गणनाभिप्रायेणैवेदम् उक्तं तद् बुद्धि-प्रावीण्याभिप्रायेण वा । उपर्युपरि बुद्धीनां चरन्तीश्वर-बुद्धय इति न्यायेन दयित-गन्धत्वेन तुलस्या मालया पत्रादि-निर्मितया सदा विशिष्ट इत्य् अर्थः ।

यद् वा, भ्रमर-गानं मालायां प्रकल्प्य सापत्न्येन सेर्ष्यम् आहुः । तथा सहागायतेति तस्या धार्ष्ट्यं व्यञ्जितङ्किकुर्वन्न् अगायत किञ्चिन् नीच-भूमिकास्थितस्य अनुचरस्यांसे भुजं वामं दक्षिणम् एव वा कूर्परोर्ध्व-भागं प्रक्षिपन् लीलया विन्यसन् । अतः स एव प्रेम-युक्त-सौभाग्यवान् न तु वयम् इति भावः । क्वणित-वेणु-रवेति वक्ष्यमाणत्वाद् वेणु-नैवागायद् इति सिद्धं क्वणितेति विशेषणेन क्वणन-विशेषेण वादितो यो वेणुस् तस्य रवेण वञ्चितानि प्रलम्भतानि तत् पूर्वकम् अपहृतानि चित्तानि यासां ताः कृष्ण-गृहिण्यः कृष्णेति देश-पावन-पतिका अपीत्य् अर्थः । गृहिण्य इति मानुष-जातिवत् पत्युः परम-प्रेयस्योऽपीत्य् अर्थः । कृष्णम् अन्वसत तत् परित्यागेन कृष्णम् एवाश्रिता इत्य् अर्थः । तत्र हेतुः गुण-गणाणम् इति कृष्ण-गृहिण्य इति श्लेषेणापि कृष्णस्य भार्यात्वं प्राप्ता नर्म । विमुक्तेति तैर् व्याख्यातम्


यद् वा, विमुक्ता गृहाः आशाश् शाशनं याभिताः गृहं पत्यादि-परिकरः वयम् इत्य् अनुक्त्वा गोपिका इत्य् उक्तं गोपिका जातित्वेनैव तद् एक-स्वभाव-सिद्धेः तद् अभावेऽपि तासाम् इस्यभिप्रायेण । यद् वा, वयम् इत्य् उक्तेर् अपि गोपिका इत्य् अस्य रस-विशेषपोषकत्वं परोक्ष-वचनात् ॥१८.१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथापराह्णे स्वीकृत-वेशान्तरो गृहागमनाय मुहुर् वेणु-गानेन गाः समाहरति गणयति च । अहो बत तत्र मृग्योऽप्य् आकृष्यन्ते किम् उत वयं गोप्य इत्य् आहुः—मणीति युगलेन । मणि-माला-धारी सन् ॥१८.१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! वयम् एव तत्रानुरक्ताः । एवं-विधं तद्-वेणु-रवाकर्णन-जनित-कश्मलत्वाद् इति मा गर्वं कुरुध्वम् । पश्यत हरिणीनां तत्रानुरागम् इत्य् आहुः—मणि-धर इत्य्-आदि द्वाभ्याम् । मणि-धरः कौस्तुभ-धारी । यद् वा, गो-गणनेन तत्-सङ्ख्या-सङ्केतितान् हार-सम्बन्धिनीन् मणीन् धरतीति तथा । प्रणयिनोऽनुचरस्य प्रिय-सखस्य सुबलादेः । कदा कस्मिन्न् अपि समयेऽगायत वेणुनेति शेषः । एतास् तु कृष्ण-गृहिण्य इति नाम्नैवात्मानं तोषयन्ति । अस्माकं तु तथा नाम न केचिद् अपि वदन्ति । एता विमुक्त-गृहाशाः । वन-स्थितत्वात् । वयं त्व् अद्यापि गृहे वर्तामहे । गोपिका इव कृष्णम् अन्वसत, अन्वासतेत्य् अर्थः । न का इव ? अपि तु स्वयम् इव, अत्रोदाहरणाभावः । अथवा, गोपिका इवान्वसत । अपि तु विमुक्त-गृहाशा एताः, गोपिकास् तु न तथेति विशेषः । यतो गोपिका वयम् अद्यापि गृह एव वर्तामह इति दैन्यम् ॥१८.१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोष्ठ-स्थानां स्वेषां मोहम् इव वन-स्थानां मृगीणां वेणु-हेतुकं मोहम् आहुः । मणि-धरः गो-गणन-सङ्ख्यान-मणि-माला-धरः । शुक्ल-रक्त-श्याम-पीतानां चतुर्णां वर्णानां प्रत्येकं पञ्चविंशति-प्रभेदैः शतं वर्णा भवन्ति । तथैव चित्रितत्व-चन्दनतिलकत्वादि-वर्णैर् मृदङ्ग-मुखत्वाद्य्-आकारैश् चान्येऽप्य् अष्ट-प्रभेदा भवन्ति । ततश् च तत्-तद्-वर्णाकारैर् अष्टोत्तर-शत-मणि-गोलकैर् गो-गणनार्थं कृष्णेन गो-जप-मालैका कृतास्ति, तां मालां गृहीत्वैवासङ्ख्यानाम् अपि गवाम् अष्टोत्तर-शतं यूथान् पृथक् पृथक् वर्णान् गणयति । तथा हि—हि ही धवलीत्य् आह्वानेन धवली-यूथो यथा आयाति, तथैव हंसी चन्दनी गङ्गे मुक्ते इत्य्-आह्वानेन तत्-प्रभेदाश् चतुर्विंशतिर् अन्येऽपि यूथा आयान्ति । एवम् अरुणी कुङ्कुमी सरस्वतीत्य्-आदि संज्ञा श्यामला धूमला यमुनेत्य्-आदि सम्ज्ञाः पीता पिङ्गला हरितालिकेत्य्-आदि संज्ञाः चित्रिता चित्र-तिलका दीर्घ-तिलका तिर्यक्तिलेत्य्-आदि संज्ञाः मृदङ्ग-मुखी सिंह-मुखीत्य्-आदि संज्ञाश् च स्व-स्व-नामभिर् आहूता आयान्त्य् अतो वनाद् गोष्ठ-गमन-समये काश्चनापि गावो विस्मृता मा भवेयुर् इत्य् एकैक-मणि-गोलकावर्तनेन गा गणयन् दयित-गन्धा तुलसी तस्या मालया सह वर्तमानः । प्रणयिनः प्रियस्यानुचरस्य स्कन्धे भुजं प्रक्षिपन् यदा अगायत, तदा क्वनितस्य वेणो रवेण वञ्चितान्य् अपहृतानि चित्तानि यासां ताः कृष्णस्य कृष्ण-सारस्य गृहिण्यो हरिण्यः कृष्णम् अन्वसत अन्वासत अन्ववर्तन्त इत्य् अर्थः । यतो गुण-गणार्णं गुण-समुद्रं कृष्णम् अनुगम्य प्राप्य तद्-गुणान् आस्वाद्येत्य् अर्थः । विमुक्ता गृहाशा याभिस् ता गोपिका इव व्यम् अप्य् एवं वृत्ता भवामः ॥१८.१९॥


॥ १०.३५.२०-२१॥

कुन्द-दाम-कृत-कौतुक-वेषो

गोप-गोधन-वृतो यमुनायाम् ।

नन्द-सूनुर् अनघे तव वत्सो

नर्मदः प्रणयिणां विजहार ॥

मन्द-वायुर् उपवात्य् अनुकूलं

मानयन् मलयज-स्पर्शेन ।

वन्दिनस् तम् उपदेव-गणा ये

वाद्य-गीत-बलिभिः परिवव्रुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं वृन्दावन-प्रदेशेषु क्रीडित्वा सायाह्ने गो-धनानि परावर्त्य यमुनायां क्रीडतस् तस्य सौभाग्यम् अनुवर्णयन्ति, कुन्द-दाम-कृत-कौतुक-वेष इति । गोपीनाम् उत्सवाय कुन्द-दामभिः कृतः कौतुकेनोत्सवेन वेषोऽलङ्कारो येन सः । हे अनघे यशोदे, तव वत्सः पुत्रो नन्द-सूनुः कृष्णः । यद्व सहैव बह्व्यः कथयन्त्यः काश्चित् तव वत्स इति काश्चिन् नन्द-सूनुर् इति चाहुः—नर्म-दो हर्ष-दः सन् यदा विजहार क्रीडति स्म ।

तदा मलयज-स्पर्शेन मलयजस्य चन्दनस्येव सुरभिः शीतश् च यः स्पर्शस् तेन तं कृष्णं मानयन्न् अनुकूलं यथा तथोपवटि वीजयति । यद् वा, मलयजो दक्षिणो वयुः । यद्वा मलयजस्य कृष्णेन स्वङ्गेऽनुलिप्तस्य स्पर्शेन मानयन्न् इति । किं च,वन्दिन इव स्तावकाः सन्तो गन्धर्वादि-गणा वाद्य-गीत-पुष्प-वर्षादिभिः परिवव्रुः परित उपासत ॥२०.२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवं तद् एत्थम् । केचित् तु विवाहे यद् वरकरे पूग-पीत-सर्षषादियुतं सूत्रं बध्यते तत्–कौतुकं, तत्-सम्बन्धी वेषो वैवाह्यवेषो यस्य स तथा ।

कौतुकं त्व अभिलासे स्याद् उत्सवे नर्म-हर्षयोः । > तथा परम्परायातमङ्गले च कुतूहल । > विवाह-सूत्र-गीतादि-भोगयोर् अपि न द्वयोः ॥ इति मेदिनी ॥

तव वत्स इत्य् अनेनैव सुतत्व-सिद्धौ नन्द-सूनुर् इति महामुनेः कथं वसुदेवात्मजत्वभ्रान्तिवारणायैव, नन्दाद्यशोदायां साक्षाज् जात इति तत्त्वाबोधाय चेति । नेयमेकोक्तिः पुनर् उक्ति-दोषाद् वदन्त्या भ्रान्ति-सम्भावना-कल्पनाच् चात आह—यद् वेति । हर्षदः लीलावचनेनानन्ददः ।*। उपमान-गर्भ-समासापेक्षया तद्-रहित एव स साधुः । अक्के चेन् मधु विन्देत किम् अर्थं पर्वत व्रजेत् इति न्यायेनात आह—यद् वेति । मलयस्-अम्बन्धी वायुः स्वभावत एव सुगन्धिशीलो भवतीति पुनर् उक्ति-दोष-वायुद्वयसम्बन्ध-कल्पनाच् चास्वारस्य-प्रतीतेर् अर्थान्तरम् आह—यद् वेति । न केवलं वायुर् एवापास्त किन्त्वन्येऽपीत्य् आह—किं च इति । स्तावका मङ्गल-पाठकाः । गन्धर्वादीहादिना चारण-विद्याधरादयो ग्राह्याः । पुष्पादीत्य् अत्रोक्तादिनाभिनयादि-ग्रहः । तं कृष्णम् । परिरत्रोपार्थे उपसर्गाणाम् अप्य् अनेकार्यत्वात् । अथ व्रजेश्वरी-सदनं गता गोप्यस् तम् अपराह्ने स्व-पुत्रागमन-विलम्बेन विक्षुभ्यन्तीं तद् विलम्बकारणोक्त्या सान्त्वयन्ति—कुन्ददामेति युगलत्रयेण । वैष्णव-तोषणी—यनुयां पर्यटन् श्रमोपशान्त्य् अर्थं तत्र स्नात्वा तत्-तट् उपविश्य कौतुक-व्यञ्जक वेशं परमोत्कण्ठया मेलिष्यतः स्वबन्धून् सुखायेतुं कृत्वा यदा विजहार पाद-विहरणं चकार तदा मन्द-वायुरुपवातीत्य् अन्वयः । प्रणयिनां वयस्यानां नर्मदः परस्परं हासोपहास द्यति खण्डयति ददाति चेत् अर्थः । अनथ इति—तव प्राक्तनम् अर्वाचीनं वा किम् अप्य् अघं नास्ति यतः पुत्रानिष्टं स्यात् तत् किम् इति किञ्चिद् विलम्ब-मात्रेणैवासुरादि-हेतुकं । तद् अनिष्टं शङ्कस इति भावः । यतो नन्दस्य पुण्यवच् छिरोमणित्वेन प्रसिद्धस्य सूनुः, तव च महा-पुण्य-यशस्वित्वेनेव यशोदाया वत्सो महावात्सल्पपात्रीभूतः पुत्रः, लोके हि माता-पित्रोर् अभाग्येनैव बालस्यानिष्टं भवेद् अतो न कृष्णस्य किम् अप्य् अनिष्टामति भावः । तद् विलम्बस्य कारणं वयं बालकानां मुखेम्य एव श्रुत्वा जानीमस् तच् छण्व् इत्य् आह—मन्देति । मलयजस्य मलय-पर्वतात् पन्नचन्दन वृक्षस्य स्पर्शेन सौगन्ध्यं शैत्यं च गृहीत्वा तयोर् भारेण द्रुतं चलितम् असमर्थो वायुः कृष्णं मानयन्ननुकूलं यथा स्यात्-तथोपवाति । वन्दिनस् तावका ये उपदेवगणा गन्धर्वादयस् तेऽपि स्व-स्वगुणान् दर्शयन्तो वाद्यादिभिः परिवव्रु रावृण्वन् । अत एव तत् तद् अनुमादन-हेतुको विलम्बो जायते एव गुणिज्ञो रमते इति न्यायात् । न चात्र खेदः समुचितः । त्वपुत्रं ते यद् एवं सम्मानयन्ति तत् तवैव भाग्यम् इति भावः ॥२०.२१॥


कैवल्य-दीपिका : कुन्द- इति । दाम माला । हे अनवद्ये [अनघे] यशोदे ! यदा विजहार, तदा मलयजस्य चन्दनस्य स्पर्शेन विशिष्टो वायुर् उप समीपे वातिउपदेवा विद्याधरादयः । वाद्यादिभिर् विशिष्टाः । प्रथमे अन्त्ययोर् न-कारः, द्वितीये आद्ययोर् मः । अन्त्ययोर् वयोर् ऐक्याद् वः ॥२०-२१॥ [मु।फ। १२.५८-५९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्द-यशोदयोर् भाग्य-वशाद् एवास्मद्-विधानां दृग्-गोचरोऽयम् इति मनसि कृत्वा ताव् एव स्तुवन्त्यो वत्सला ऊचुः—कुन्द-दामेत्य्-आदि द्वाभ्याम् । हे नन्द ! तव सूनुः । अनघे यशोदे । तव वत्सो वात्सल्य-पात्र एकदा यमुनायां विजहार तदैवम् इत्य् उत्तरेणान्वयः । यद् वा, हे अनघे पुण्यवति राधे ! तव नर्मदो नन्द-सूनुर् यदा यमुनायां विजहारेति राधा-सखीनाम् एवोक्तिः । नर्मदत्वम् आह—प्रणयिनां मध्ये तव वत्सः—वत्सम् आचष्ट इति तथा उरो वत्सं च वक्षश् चेति वत्सयतीति वत्स, अचि असिके वा रूपम् । वत्सो नर्मद इत्य् एकं वा पदम् । वत्से वक्षसि उः सीवनं यस्य तथा-विधं यन् नर्म, तद् ददातीति तथा, यन् नर्म वक्षसि प्रविशति तद् इत्य् अर्थः हासः ॥२०.२१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ क्षणाद् आश्वस्य पुनः पुत्रोत्कर्ष-शुश्रुषया तत्रागतां श्री-व्रजेश्वरीम् । यद् वा, पुत्र-विच्छेदार्तां पुत्रागमन-वार्तया स्व-स्थयितुं ताम् अभिगम्याहुः—कुन्देति युगलेन । कौतुकं क्रीडोत्सवम्, वेषोऽवतंसाङ्गदाद्य् अलङ्कारः, एवं पूर्ववेष-परित्यागेन वेषान्तरं ज्ञेयम् । गोपैर् गोधनैश् च वृत इति विकाले गृहागमने गोपानां सर्व-दिन-क्रीडापरिश्रान्त्याद्य् उपशमार्थं गवां चान्तिम-जल-पानार्थम् इति तासां तादृश-परिपाल्यतापेक्षयोक्तम्, धनेति श्लेषेण गोपा गावश्चैव तस्य धनानि, न त्व् अन्ये एतादृशा जना इति भावः । नन्द-सूनुस् तव वत्सः इति द्वयोर् अपि तयोर् हर्षार्थम्, तत्र तव वत्स इति तस्या अधिक-वात्सल्यम् अभिप्रेतम् । हे अनघे ! इति हे सर्व-क्लेशान् अभिज्ञे ! किं वा, न विद्यते अघं दुःखं यस्याः सकाशाद् अन्येषाम् अपीति त्वत्-स्नेहभरेणैव, काले तस्यागमनात् त्वत्तोऽस्माकम् अपि दुःखं विनष्टम् इति भावः । एतच् च प्रेमभर-स्वाभाविक-दैन्येन यमुनाया जले तीरे वा विजहार । तत्र हेतुः—प्रणयः स्नेह-विशेषस् तद्वतां सहचराणां नर्मदः सन्न् इति त्वरित-दर्शन-विघ्नकारित्वेन व्रज-प्रवेश विलम्बे हेतवः, सहचरा इतीर्यया भेदं जनयन्ति । अनुकूलं प्रियं यथा भवति । मन्देति—अत्यन्त-संयुक्ताभिप्रायेण समस्ततया विशेषणम् । क्लिन्नानाम् अपि तासाम् उत्सवार्थम् एव धारणं ज्ञेयम् ।

मलयजो दक्षिण-वायुर् इति विसर्ग-लोपे पृथक् पदम् इति मान्द्यं शौगन्ध्यं शैत्यञ्चेति गुण-त्रयम् । तम् इति कर्मपद-सम्बन्धात्, उपवातीत्यस्य वीजयतीर्त्य् अर्थः । उपदेवा विद्याधरादयस् तेषां ये गणास्ते सर्व एवेत्य् अर्थः । वन्दिन इति—गीत-द्वारा स्तावकत्वापेक्षया मूलोक्त-वाद्य-गीतादि-क्रमोल्लङ्घनेन गानपर-गन्धर्वाणाम् आदौ लेखः


यद् वा, मूल एव गीत-वाद्येति पाठ इति । अथवा कौतुकं हर्षः, वेषश्छन्दः, श्याम-जलायां श्री-यमुनायां विहारार्थं पूर्व-वेश-परित्यागेन शुभ्र-कुन्द-माला-वेश-स्वीकारः । नन्दयतीति नन्दश् चासौ सृनुश् च वत्सः, नव-प्रसूताया धेनेर् इव तवात्यन्त-स्नेह-विषय इत्य् अर्थः । उप समीपे बाति, मलयजस्य चन्दनस्य स्पर्शेनेति दक्षिणत्वं सौरभ्यं चोक्तम्, तेन च वसन्तः कालो बोध्यते, तस्मिन्न् अपि कुन्द-पुष्पाणि सर्वर्त्वाश्रय-श्री-वृन्दावन-स्वाभावाद् एव ।

यद् वा, दक्षिण-वायोर् अतिशैत्योष्णत्वेन क्रीडायाम् अपेक्षत्वाद् रास-क्रीडायां राका-चन्द्र इव सदा तस्योदयो ज्ञेयः । अत एव वासरान् निन्युर् इति सार्वकालिकदिनानाम् एव तादृश प्रगानेन नयनम् अपि सुसङ्गच्छेतेति दिक । ये वन्दिनो जाति-विशेषा गोकुल-स्थिता अग्रेऽभिगताः, ये च देव-गणा वाद्यादिभिर् विशिष्टास्ते सर्वे तं परिवव्रुः, स्व-स्वसेवया वेष्टयित्वा स्थिता इत्य् अर्थः । तत्र वलयो गन्ध-पुष्प-वस्त्रालङ्कारादयः । अन्यत् समानम् ॥२०.२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ पुनर् व्रजेश्वरी-सभागतम् पूर्वोक्त-गो-समाहरणादि-सामयिक-लीलानन्तरं लीला-वर्णनं सङ्गृह्यते तं च समाहरणं द्वितीय-जल-पान-समय एव स्यात् इति व्यज्यते च । तादृशीं च लीलां स्वयम् अनुभूय कालातिकम् एणार्तां तन् मातरं तदागमन-वार्तया स्वस्थयितुम् अभिगम्य पूर्ववद् आहुः । कुन्देति युग्मक-त्रयेण । कुन्देति मन्देति च कार्तिक-सामोऽयम् इति लभ्यते वसन्ते कुन्दान् अर्हत्वात् हेमन्त-शिशिरयोर् वायोर् द्वेषां च । तत्र च तदीयेन सर्व-सुख-दलिलत्वेन सर्व-सेवा-सुख-पात्रत्वेन च तां स्वस्थयन्ति विलम्बे कारणम् अपि निवेदयन्ति । कुन्देति । यमुनायां विजहार तस्या जले स्न्नान-केलिं विधाय तीरे सविलासं चिक्रीडेत्य् अर्थः । कीडशः सन् विजहार तत्राहुः । कुन्द-दामेति । समस्त-दिन-भ्रमणश्रान्त्या स्नानस्यापेक्षत्वात् कुन्द-दाम्नां जल-क्लिन्नतायामरु-विप्रदत्वेन तत् पश्चाद् भव-योग्यत्वाच् च ।

तत्र सर्व-सुख-लिलात्वादिकं वदन्त्यो विलम्बे कारणम् अपि सूचयन्ति । गोपेत्य् अदिभिः तस्य च तादृशत्वं युवयोः पुत्रत्वाद् अनुरूपम् एवेत्य् अर्थः । सर्वानन्दकतया तन् नाम्ना प्रसिद्धस्य सूनुः । न विद्यते अघं दुःखं सर्वेषाम् अपि यतः हे तथा-भूते इति तथैव सर्वानन्दिन्यास् तव च वत्स इत्य् अर्थः । तत्र वत्स इति धेनूनां वत्स इव परम-सेन्ह-विषय इत्य् अर्थः । अतस्दव त्वत्य् अर्थं वैयग्र्यं युक्तम् एवेति भावः । गोपेति । जलादि-तृप्तया स्थगित-गमनैर् गोपैर् गोधनैश् चावृत इत्य् अर्थः । तत्रापि प्रणय सख्यमय-स्नेहस् तद् वतां नर्मदः सपरिहास-केलिभिः सुखद इत्य् अर्थः । कौतुकं क्रीडोत्सवो हर्षो वा । वशोऽवतंसाद्य् अलङ्कारः । एवं पूर्व-वेश-परित्यागे वेशान्तरं ज्ञेयम् । अनुकुलं प्रियम् । यद् वा, पृष्ठ-वायुत्वेन गमनानुकूलं यथा स्याद् इति सोऽपि तत्-स्वैरचारितायां सहाय इति भावः । अतो मन्द-पदं श्लिष्टम् अपि ज्ञेयम् । तम् इति कर्म-सम्बन्धात् उपवाति वीजयतीत्य् अर्थः ।

यद् वा, उप-समीपे वाति । यत्रादौ तत्रैव तादृशो वायुर् नान्यत्रेत्य् अर्थः । मानयन् पूजयन् मलयजेति तैर् व्याख्यातम् । अत मलयजो दक्षिणो वायुर् इति पक्षे वैकल्पिको विसर्ग-लोपः । शरदि तस्य च सद्भावात् तादृशानुकूल्याय तु सुतरां पृष्ठ-वायुत्व-पक्षे सोऽप्य् अनुकूलं यथा स्यात् तथैवोपवातीत्य् अर्थः । उपदेवा गण-देवा गन्धर्वादयो ये ते सर्वेऽपीत्य् अर्थः । वान्दन इति गीतेति च गीत-द्वारा स्तुतिर् बोध्यते । वलिवाद्ययोस् तु तद् अनुगतत्वम् । वलिर् अत्र दिव्य-वस्त्रालङ्कार-भोगादि-सामग्रीमयो ज्ञेयः । अतो गीत-प्राधान्यात् गन्धर्वादि-गणा इति तैर् अप्य् उक्तम् । परिवव्रुर् इति तेऽपि तद् आगमन-विलम्बं चक्रुर् इत्य् अर्थः । किन्तु वायोर् एषां च प्रस्थान-माङ्गलिकत्वात् शीघ्र-सुखागमनं भवेद् एवेति भावः ॥२०.२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ पुनर् व्रजेश्वरी-सभा-गतं पूर्वोक्त-गो-समाहरणादि सायिकं लीलानन्तरं लीला-वर्णनं सङ्गृह्यते । तच् च समाहरणं द्वितीय-जल-पान-समय एव स्याद् इति । व्यज्यते च तत्र तादृशीं च लीलां स्वयम् अनुभूय कालातिक्रमेणार्तां तन् मातरं तद्-आगमन-वार्तया स्वस्थयितुम् अभिगम्य पूर्ववद् आहुः—कुन्देति युगल-त्रयेण ।

तत्र च तदीयेन सर्व-सुखद-लीलात्वेन सर्व-सेवा-सुख-पात्रत्वेन च तां स्वस्थयन्ति विलम्बे कारणम् अपि विवेदयन्ति कुन्देति युगलेन । यमुनायां विजहार तस्या जले स्नान-केलिं विधाय तस्यास् तीरे स-विलासं चिक्रीडे इत्य् अर्थः । कुन्देति मन्देति च कार्तिक-मासो ऽयम् इति लक्ष्यते । वसन्ते कुन्दानर्हत्वात् हेमन्त-शिरयोर् वायोर् द्वेषाच् च ॥२०.२१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्द-यशोदयोर् भाग्य-वशाद् एवायम् अस्मादृशां दृग्-गोचर इति कृत्वा ताव् एव स्तुवन्त्यः काश्चिद् अन्या आहुः—कुन्द-दामेति द्वाभ्याम् । हे नन्द ! तव सूनुः। हे अनघे व्रजेश्वरि ! तव वत्सो यदा यमुनायां विजहार, तदा मन्द-वायुर् अनुकूलं यथा स्यात् तथा उप समीपे वाति, वन्दिनश् च तं परिबब्रुर् इत्य् उत्तरेणान्वयः । यद् वा, हे अनघे राधे ! नन्द-सूनुः श्री-कृष्णो यदा यमुनायां विजहार, तदैवम् इत्य् अर्थः । कीदृशः ? तव वत्सो नर्मदः, वत्सस्य वक्षस ऊः संवरणम् । तस्मिन् यन् नर्म परिहासस् तद् ददातीति तथा । उरो वत्सं च वक्षश् च इत्य् अमरः । वेष् संवरणे इत्य् अस्य क्विपि संप्रसारणे सिद्धम् । प्रणयिनां प्रणयि-जनानां गोपी-जनानां मध्ये इति निर्धारणे षष्ठीति श्री-राधां प्रति श्री-राधा-सख्य्-उक्तिः ॥२०.२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ व्रजेश्वरी-सदनं गता गोप्यस् ताम् अपराह्ने स्व-पुत्रागमन-विलम्बेन विक्षुभ्यन्तीं तद्-विलम्ब-कारणोक्त्या सान्त्वयन्ति । कुन्द-दामेति । युगल-त्रयेणेति वैष्णव-तोषणी । यमुनायां पर्यटन् श्रमोपशान्त्य्-अर्थं तत्र स्नात्वा तत्-तटे उपविश्य कौतुक-व्यञ्जकं वेशं परमोत्कण्ठया मिलिष्यतः स्व-बन्धून् सुखयितुं कृत्वा यदा विजहार पाद-विहरणं चकार, तदा मन्द-वायुर् उपवातीत्य् अन्वयः । प्रणयिनां वयस्यानां नर्मदः परस्परं हासोपहासं द्यति खण्डयति ददाति चेत्य् अर्थः । अनघे ! इति तव प्राक्तनम् अर्वाचीनं वा किम् अप्य् अघं नास्ति, यतः पुत्रानिष्टं स्यात् तत् किम् इति किञ्चिद् विलम्ब-मात्रेणैवासुरादि-हेतुकं तद् अनिष्टं शङ्कसे इति भावः । यतो नन्दस्य पुण्यवच् छिरोमणित्वेन प्रसिद्धस्य सूनुः । तव च महा-पुण्य-यशस्वित्वेनैव यशोदाया वत्सः महा-वात्सल्य-पात्री-भूतः पुत्रः । लोके हि माता-पित्रोर् अभाग्येनैव बालस्यानिष्टं भवेद् अतो न कृष्णस्य किम् अप्य् अनिष्टम् इति भावः । तद्-विलम्बस्य कारणं वयं बालकानां मुखेभ्य एव श्रुत्वा जानीमस् तत् शृण्व् इत्य् आहुः—मन्देति । मलयजस्य मलय-पर्वतोत्पन्न-चन्दन-वृक्षस्य स्पर्शेन सौगन्ध्यं शैत्यं च गृहीत्वा तयोर् भावेन द्रुतं चलितुम् असमर्थो वायुः कृष्णं मानयन् अनुकूलं यथा स्यात् तथ् उपवाति । वन्दिनस् तावका ये उपदेव-गणा गन्धर्वादयस् तेऽपि स्व-स्व-गुणान् दर्शयन्तो वाद्यादिभिः परिवव्रुर् आवृण्वन् । अत एव तत्-तद्-अनुमोदन-हेतुको विलम्बो जायत एव गुणिनि गुण-ज्ञो रमत इति न्यायात् । न चात्र खेदः समुचितः । त्वत्-पुत्रं ते यद् एवं सम्मानयन्त्य् एतत् तवैव भाग्यम् इति भावः ॥२०.२१॥


॥ १०.३५.२२-२३॥

वत्सलो व्रज-गवां यद् अग-ध्रो

वन्द्यमान-चरणः पथि वृद्धैः ।

कृत्स्न-गो-धनम् उपोह्य दिनान्ते

गीत-वेणुर् अनुगेडित-कीर्तिः ॥

उत्सवं श्रम-रुचापि दृशीनाम्

उन्नयन् खुर-रजश्-छुरित-स्रक् ।

दित्सयैति सुहृद्-आशिष एष

देवकी-जठर-भूर् उडु-राजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आयान्तम् आलोक्य हृष्यन्त्यः परस्परम् ऊचुः—वत्सलम् इति । व्रजस्य गवां च । यद्वा व्रजे निबद्धानां गवाम् अनुकम्प्यानाम् अस्मकम् इत्य् अर्थः । वत्सलो हित-कृत् । कुतः ? यद् यस्माद् अगध्रः अगं धरतीति गोवर्धनोद्धरणः । बहुशो रक्षणस्योपलक्षणम् एतत् । वृद्धैर् ब्रह्मादिभिः । पथि वन्द्यमान-चरण इति ते सेर्ष्यं सायं शीघ्रम् आगन्तुं न ददतीत्य् अर्थः । उपोह्य एकी-कृत्य-गीत-युक्तो वेणुर् यस्य सः ।

श्रम-युक्तयापि कान्त्या नेत्राणां हर्षम् उन्नयन् उच्चैः प्रापयन् । खुर-रजोभिश् छुरिता व्याप्ताः स्रजो यस्य । सुहृदाम् अस्माकम् आशिषो मनो-रथस्य दित्सया दातुम् इच्छया देवक्य जठरे भवतीति तथा स एवोडु-राजश् चन्द्रो निर्वृति-हेतुत्वेन स एष एतीति ॥२२.२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्रज-शब्देन गोपाः ग्राह्याः तास्थ्यात् ताच्छब्द्यम् इति न्यायेन । ते च तात्-पार्श्वे एव सन्ति तथा गावोऽपि तद् वात्सल्यार्थन्नायान्तीति शोभनं न प्रतिभातीत्य् अत आह—यद् वेति । व्रजे गोकुले निबद्धानां बद्धवद्-गृहे स्थितानाम् । गो-शब्दोऽत्रानुकम्प्ये । यथा गावोऽनुकम्पार्हास् तथा वयम् अपीत्य् अभिप्रेत्योक्तम् अस्माकम् इत्य् अर्थ इत्य् आशयोऽत्र ध्येयः । वत्सलत्वे हेतुम् आशङ्क्य समादधते—कुत इत्य्-आदिना । बहुश इति—बहुवारम् इत्य् अर्थः । तेन दावाग्नि-पूतनादिभ्योऽपि रक्षणम् उपलक्ष्यत इति । ते च ब्रह्मादयः । इत्य् अर्थ इति—तत्-कृत-पूजनेन विलम्बत्वादित्य् आभिप्रायः ॥२२॥

सुहृदाम् अनिमित्त-बन्धूनाम् । सः चन्द्रः । एषः कृष्णः । उडुराज इहोडुराज इवेति लुप्लोपमा बोध्यः । उडुराजोऽपि व्रजगवाम् अध्वपशूनां पथिकानां च वत्सलः—वत्सं वर्षं सामर्थ्यात् कामोद्रेक लाति तदातीति तथा वत्सः पुत्रादि-वर्षयोः । तर्णके नोरसि क्लीबम् इति मेदिनी । गोष्टाध्वनिवहा व्रजाः इत्य् अमरः । अगेनोदयाचलेन ध्रियते इत्यगध्रः, अगान् वृक्षान् धरति पुष्णातीति वागध्रः । वृद्धैः सप्तर्षिभिः । पथि व्योम-मार्गे । दिनान्ते रात्रौ । कृत्स्न-गोधनं समस्त-कलासमे धितचन्द्रिकाख्यम् उपोह्य परिपूर्य गति-वेणुः कावभिर् वर्णित-वंशः वेणु-शब्दः त्वक् सारपरोऽपि लक्षित-लक्षणयान्वयम् आह । अनुगैरोहिण्यादि-नक्षत्रैर् ईडित-कीर्तिः परिकृत-गणनः । श्रमं रविकिरणजं लुञ्चति छिनत्तीति श्रमलुक् तेन रलयोर् ऐक्यम् अत्र । तीरीया हेतौ । लुञ्च अपनयने इत्थं सुधीभिर् ज्ञेयम् । न तु तर्हि कौतुक-लोलुपो मत् पुत्रो विलम्बमानः सन्ध्यासमाप्ताव् अपि नैष्यति ततश् चाहं मरिष्याम्य् एवेति तत्र तदीय-शीघ्र-गमने हेतुम् उपन्यस्य तामाश्वसयन्त्य आहुः—वत्सल इति । व्रज-गवां व्रजे निबद्धानां वृषाणां वत्सलस् तेषां स्वविरहदुःखम् अनुस्मृत्य गन्धर्वादीन् अप्य् अवमत्य शीघ्रमायास्यत्य् एवेत्य् अर्थः । टजभाव आर्षः । न च गोचारकस्य तस्य गवां दर्शन-स्पर्शन-गात्र-कण्डूयनघास-प्रदानादि-कौतुकात् स्वतोऽतिनिकृष्ट-गायक-गन्धर्वादि-गान-कौतुकं चित्ताकर्षकं वाच्यम् इत्य् आहुः—यद्य् अस्माद् अगध्रः येषां गवां रक्षणार्थम् अगङ्गोवर्धनम् अपि धृतवान् । अतस् तेषु महान् स्वाभाविक एव स्नेहः, गन्धर्वादिषु तु गुणोपाधिकोऽपि प्रीतिलेशो न तस्यास्तीति भावः ।

ननु, यद्य् एवम् अभविष्यत् तदैतावत्क्षणपर्यन्तं गृहम् आगमिष्यद् एवेति तत्र विलम्बे पुनर् अपि हेतुम् उपन्यस्यन्ति—वृद्धैर् ब्रह्म-रुद्रादिभिः पथि-पथि वन्द्यमानौ चरणौ यस्य सः । वेणु-गानाकृष्टैः स्व-स्वभवनाद् आगत्य निकटे नभसि स्थितैः सर्वम् एव दिनं कृष्णं दृष्ट्वा लब्धानन्दैः सम्प्रति गोष्ठागमन-समये स्व-स्व-भवनगमनोन् मखैर् नभसो भुवम् अवतीर्य ब्रह्म-रुद्रेन्द्रादिभिः प्रत्येकम् एव त्वत् पुत्रानुग्रहम् अर्थयितुं चरणौ वन्द्येते तेनात्र किं कर्तव्यम् इति तेषाम् अनुरोध एव विलम्बाधिक्ये हेतुर् इति ध्वनिः । त्वत् पुत्रस्य चरणौ ब्रह्मादयोऽपि वन्धन्त इति स्वभाग्यं किं न पश्यसि, किम् इति खिद्यसीत्य् अनुध्वनिः । तर्हि भो व्रज-बालिकाः शीघ्रम् अट्टालिकाः शीघ्रम् अट्टालिका-पृष्ठम् आरुह्य पश्यत कियदूरे वत्स आयातीति तया साश्रुगद् गदमुक्ताः सर्वोर्ध्वलभीं शीघ्रम् आरुह्योच्चैर् आहुः—कृत्स्नेति । एष कृष्णः सुहृदां स्व-बन्धूनाम् आशिषो मनोरथस्य दित्सया एतीत्य् अन्वयः उपोह्यैकीकृत्य । गीत-युक्तो वेणुर् यस्य सः । श्रमेण या रुक् शोभा तयापि दृशीनाम् उत्सवमानन्दम् उन्नयन्नुच्चैः प्रापयन् । खुर-रजश्छुरिता व्याप्ता स्रग्यम्येति स्वसङ्गिनीः सखीः प्रत्यपाङ्ग-भङ्ग्या श्री-यशोदाद्य् अलक्षितं किम् अप्य् उक्तम् । अत्र स्रज्येव खुर-रजोनिर्देशाद् अन्यत्र रजो ल्नास्तीति लभ्यते । तच् च सखिभिर् मुहुर् निजोत्तरीयेण रजसोऽपसारितस्त्वात् स्रजि तु रजस्थस्य प्रविश्य स्थितत्वाद् अपसारणयत्ने दलभङ्गः स्यात् । मणिनापीयं माला यन् न दूरीक्रियते दशधृत-वस्त्र-सम्पुटस्था नवीनाप्य् अन्या यन् न परिधीयते तस्माद् इयं माला यया प्रियया स्वहस्तेन संग्रथ्य सखी-द्वारा दत्ता तां प्रियाम् एव स्वकण्ठ-धृताम् एनां दर्शयितुं कृष्णस्य यत्न इति । देवकी यशोदा तस्या जठरम् एव क्षीरधिस् तस्मिन् भवतीति सः । द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च इति गणोद्देश-दीपिका-धृतादि-पुराण-वाक्यात् । उडुराजश् चन्द्रः ॥२२.२३॥


कैवल्य-दीपिका : वत्सल इति । यद् यदा एष सुहृद्-आशिषो दित्सया एति, तदा खुर-रजसा च्छुरित-स्रग् भवति । अगो गोवर्धनः । उपोह्य निर्वर्त्य । श्रम-रुचा श्रम-शोभयापि दृशीनाम् उत्सवम् उन्नयन् प्रापयन् । उडु-राजश् चन्द्रमाः । प्रथम आद्ययोर् उः, द्वितीय आद्ययोर् द-कारः । अन्त्ययोर् दः । मद-विघूर्णितेति श्लोक-द्वयं बलभद्र-विषयत्वाद् अत्र नोक्तम् ॥२२-२३॥ [मु।फ। १२.६०-६१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतावद्भिर् अनुरागालापैस् तासां दिवसे याते सायंकाले सति वनात् प्रति-निवर्तमानं श्री-कृष्णं विश्राव्य काश्चिद् आहुः—वत्सल इति द्वाभ्याम् । दिनान्त इति गतो\ऽस्तमर्कः इत्य्-आदिवत् बहु-व्यञ्जनापरम् । वन्द्यमान-चरणः पथि सिद्धैर् इत्य् आक्रोश-परम्, वृद्धानां ब्रह्मादीनां पथि चरण-ग्रहण-सेवया शीघ्रम् आजिगमिषुर् अपि तथा न श्क्नोतीत्य् अर्थः । देवकी-जठरभूर् इति सन्निकृष्ट-सम्बन्ध-विशेष-स्थगन-सूचनम्, तथा सति गोपत्वेन भ्रातृत्वादि-सम्बन्धः स्थगितो भवति । दृशीनां दृशि चक्षुषि ईनां लक्ष्मीणां दृक्-श्रियाम् इत्य् अर्थः । उत्सवं श्रम-रुचापि उन्नयन् । औत्सुक्य-गर्वयोः ॥२२.२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चोतकण्ठाभिर् अट्टालिकादिकम् आरुह्य तद् एव दर्शयन्ति । वत्सल इति । तत्र चागमनं वर्णयितुं प्रथमं परमोल्लासेनासाधारणीं तत् कृपाम् एव तत्रहेतुं व्यञ्चयन्ति । वत्सलो व्रज-गवाम् इति । तत्रोदाहरणम् आहुः । यद् इति । यद् यस्मात् परम-कोमलोऽप्य् असु तद् अर्थं पर्वतम् अपि धरतीत्य् अर्थः । अत्र वर्तमान प्रयोफ़्गश्चात्यन्त-कृतज्ञतया कृतः सदातनत्वेनैव तत् स्फूर्तेः । यद् एवं तद् विरहेऽपि तद् वद् एव निजामार्ति रक्षां च व्यञ्जयन्ति । अथागमनं वर्णयन्ति वन्द्यैत्यादिना । तत्र वृद्धैः पथिः वन्द्यमान-चरण इति व्रजान्तः प्रवेशे तेषां तद् अप्राप्यत्वात् । अत एव वन्द्यमानेति वर्तमान-निर्देशेन । वन्दनाद् अनिवृत्तिर् बोध्यते । अत सङ्कोचेन तद् अनिच्छायाम् अपि तैस् तत् क्रियत इति व्यक्तम् । अहो एतादृश-गुण-ज्यायस् त्वम् इति भावः । गोधनोपवहनार्थं व्रज-वर्तिषु निजागमन-मङ्गल-विज्ञापनार्थं च गीत-वेणुः तदीय-रागतालानुसारेण तद् गान-सम्बन्धिषु तदीयानुगान-भङ्ग्यैवानुगैर् गोपैर् ईडिता कीर्तिः पूतना-मोक्षादि-रूपा एतद् दिन-क्रीडात्मिका वा यस्य सः श्रमस् तज् जनित-प्रस्वेदादिस् तद् आश्रययापि सहज शोभयेत्य् अर्थः ।

यद् वा, श्रमेण यारुक् शोभा तयापि दृशीनां दृङ्मात्राणां किमुतास्मदीयानाम् इत्य् अर्थः । तत्र तादृश-शोभा-निदर्शनं गवाम् खुर-रजोभिः परागैर् इवच्छुरिता कुर्वुरिता स्रक् माला यस्य सः स्रज्येव रजोनिर् देशाद् अन्यत्र रजो नास्तीति लभ्यते । तच् च सखिभिर् मुहुर् अङ्गतो विजोत्तारीयेण रजस्यपसारितेऽपि तस्यां तस्य प्रविश्य स्थितत्वात् । परमान्तरङ्ग-प्रिय-जन-दत्तायास् तस्या दलादि-भङ्ग-शङ्कया तेनैव तन् निवारितत्वाद् वा । दूरतोऽपि रज-आदीनां निर्देशस् त्व् अनुमानन-प्रेमवलतो निकटात् स्फूरणेन वा । पूर्व-व्यञ्जितम् आगमने कृपाया एव कारणं साक्षाद् अप्य् आहुः । दित्सयेति । अन्यथा श्री-वृन्दावने पूर्व-पूर्व-वर्णितानुसारेण किं वा, सुखं तस्य नास्तीति भावः । सुहृदाम् इति सामान्योक्तिर् दृशीनाम् इतिवत् । एषः इत्य् अङ्ल्या निर्दिशन्तिः । देवकी-शब्देनात्र श्री-यशोदैव सादरं प्रस्तूयते । व्रज-राजत्वात् देव एव देवकः श्री-नन्दस् तत् पत्नी देवकीति तस्या एव एव सान्त्वनायां प्रवृत्तेर् मातृतया मतत्वात् तवसुतः सतीति नन्द-सूनुर् अयम् आर्तजनानाम् इति पूर्व-सम्वादाच च । मात्रन्तरसूचने तु प्रत्युत तद् विरोधापत्तेः । सभान्तर-वाक्येऽप्य् आदासीन्यापत्तेश् च । अतस् तस्यास् तद् अप्य् एकं नामेति वा लभ्यते । नाभेर् असावृषभ आस सुदेविसूनुर् इत्य् अत्र मेरु-देव्या एव सुदेवीति संज्ञावत् । उक्तं च द्वे नाम्नो नन्द-भार्याया यशोदा देवकीति चेति । उडु-राजः दिनतापहरणादि-साम्यात् । उडुस्थानीयाश् चात्र सखायो ज्ञेयाः ईति श्री-कृष्ण-जन्म-स्थानत्वेन देवकी-जठरस्य विशुद्ध-सत्त्वमयत्वेन परम-शुभ्रत्वात् क्षीर-समुद्रत्वं ध्वनितम् ॥२२.२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च पुत्रोपभोग-सम्पादनार्थं तस्याम् आसक्तायां पूर्ववद् अन्योन्यम् ऊचुः—वत्सलः इति युगलेन । वृद्धैः पथि वन्द्यमान-चरण इति व्रजान्तः-प्रवेशे तेषां तद् अप्राप्यत्वात्, अत एव वन्द्यमानेति वर्तमान-निर्देशेन वन्दनाद् अनिवृत्तिर् बोध्यते3, यतो एतावत्-पर्यन्तं पूर्वोक्तं सर्वं स्वयं श्री-कृष्णेन तत्-सहचरैर् वा कैश्चित् कदाचिद् वणित-दिनान्तर-क्रीडानुसारात् । किं वा, कथञ्चित् तत्-तद् अवसरे तत्र गमनेन साक्षाद् दर्शनाद् एवेत्य् ऊह्यम्, दिनान्तत्वात् कृत्स्नम् एव गो-रूपं धनम् उपोह्य, धनम् इति—दिवसे तत्-पालनासक्तत्वात् प्रेमेर्ष्ययोक्तम्, तद् उपोहनार्थं व्रजवर्तिषु च निजागमन-मङ्गल-विज्ञापनार्थं गीत-वेणुः । किं च, अनुगैर् गोपैर् ईडिता कीर्तिः पूतना-मोचनादि-रूपा तद् दिन-क्रीडात्मिका वा यस्य सः,

यद् वा, दिने गोपीभिर् इव रात्रि-विरह-दुःख-निस्तारार्थम् अनुगैर् ईडिता प्रीत्या सङ्कीर्तयितुम् आरव्धा कीर्तिर् यस्य सः । दृशीनाम् इति—सामान्यतः4 सार्वकीणां किम्व स्वकीयानाम् एव, ततश् च धार्ष्ट्यपरिहाराय व्यक्ततयानुक्तिर् ज्ञेया । श्रम-रुक् च श्री-मुख-प्रस्विन्नताधर-विम्वा-शुष्कतादि-रूपा वोद्धव्या, गो-व्यतिरिक्तानां महिष्यादीनाम् अपि पशूनां खुर-रजोभिश् छुरितत्वसम्भवेऽपि गवाम् एवेति वोद्धव्यम्, तासाम् एव निकटवर्तित्वात् । तद् रजसाम् एव मङ्गलत्वेन ग्राह्यत्वाच् च, अत एव स्पष्टत्वात् तासाम् अनिर्देशः, उपलक्षणम् एतत् । अलकादीनाम् अपि रजश्छुरितत्वं ज्ञेयम् ।

सुहृदाम् इति—सामान्येनोक्तिर् दृशीनाम् इतिवत्, एष इति निकटागतत्वाद् अङ्गुल्यादिना दर्शयन्ति, देवकी-जठरभूर् इति । केवलं तस्यां जन्म-मात्रम्, पालनाद् ध्रुव-पुत्रस् तु श्री-यशोदाया एवेति सूचितम् । किं वा, देवकी यशोदैवेति पूर्वम् उक्तम् । उदूराजो दिनतापहरणादि-साम्याद् इति श्री-कृष्ण-चन्द्र-जन्मास्थानत्वेन देवकी-जठरस्य विशुद्ध-सत्त्वमयत्वेन परम-शुभ्रत्वात् क्षीर-समुद्रत्वं ध्वनितम् । अन्यत् तैर् व्याख्यातम् ।

यद् व, ये गावः शाकटिक-वृषा नव्यवत्साश् च तेषां सर्वेषाम् एव वत्सलः परम-स्निग्धः, अत एव दिनान्ते, कृत्स्नं गोधनं ताः सर्वा एव धनत्वेन प्रयत्नाद् उपोह्य निवर्त्य वन्दिषु स्तुति-पाठेकेष्व् अपि न विद्यते मानं परिमितिर् यस्य, तादृशं चरणम् आचरणं सच् चरितं यस्य । पथि वृद्धैः श्री-नन्दादिभिर् अग्रेऽभिगतैः सह वर्तमानः


यद् वा, ज्ञान-वृद्धैः कैश्चिद्-गोपैः पुरोहितैर् वा वन्द्यमानं प्रशस्यमानं चरणं वन्यक्रीडा यस्य सः, श्रमेणापि या रुक् शोभा तयेत्य् अर्थः । सुहृत् प्रियः सर्वेषाम् अस्माकम् एव वा । एवम् आशिषोऽपीति, उडूनां नक्षत्राणां राजेति तारास्थानीयानाम् अस्माकं प्रभुर् इति । किं वा, सखि-वर्गवेष्टित इत्य् अभिप्रायेण दृष्टान्तेऽपि यथा-कथञ्चित् सर्वम् एव सङ्गतम्, तच् च श्री-चित्सुखे न व्याख्यातम् एव ॥२२.२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् चोत्कण्ठाभिर् अट्टालिकादिम् आरुह्य तद् एव दर्शयन्ति—वत्सल इति युग्मेन । देवकी-शब्देनात्र श्री-यशोदैष सादरं प्रस्तूयते । व्रज-राजत्वात् देव एव देवकः श्री-नन्दः, तस्य पत्नी देवकीति । तस्या एव सान्त्वनायां प्रवृत्तेः मातृतया ममत्वात् अभिमतत्वाच् च । मात्रन्तर-सूचने तु प्रत्युत तद्-विरोधापत्तेः । सभान्तर-वाक्ये ऽप्य् औदासीन्यापत्तेः ॥२२.२३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! उपदेव-गणास् तं वाद्य-गीत-गतिभिः परिबब्रुर् इति यद् उक्तम् । तत् किम् इति चित्रम् । ब्रह्मादिभिर् अपि चरण-वन्दनं तस्य क्रियत इत्य् एव चित्रम् इति अन्या आहुः—वत्सले व्रज-गवाम् इत्य्-आदि द्वाभ्याम् । अगध्रो गोवर्धन-धरः । व्रज-गवां व्रज-स्थानां गवां वत्सलो दिनान्ते सुहृदाशिषः सुहृदाम् अस्माकम् आशिषः सुखस्य दित्सया यदा एति तदा वृद्धैर् ब्रह्मादिभिः पथि वन्द्यमान-चरणः, न तु वन्दित-चरणः । वन्द्यमानत्वेन श्रद्धा-भक्ति-मत्तया पुनः पुनर् वन्द्यत इत्य् अर्थः । तेन शीघ्रम् आजिगमिषुर् अपि विलम्बते । अतोऽस्माकं तद् वन्दनं प्रतिकूलम् एवेति । वृद्धैर् इति सासूय-कथनम् । देवकी-जठर-भूर् इति सम्बन्ध-स्थगन-परम् । उडु-राज इति दिनान्तोदयः । सोऽपि सुहृदां कुमुदिनीनां सुख-दित्सयैवोदेति । अगध्रोऽपि उदय-पर्वत-स्थत्वात् कृत्स्न-गोधनं सकल-रश्मि-रूपं धनम् अपोह्य गृहीत्वेति यथायथं श्लेष ऊह्यः ॥२२.२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि कौतुक-लोलुपो मत्-पुत्रो विलम्बमानः सन्ध्या-समाप्ताव् अपि नैवेष्यति । ततश् चाहं मरिष्याम्य् एवेति । तत्र तदीय-शीघ्रागमने हेतुम् उपन्यस्य ताम् आश्वासयन्त्य आहुर्—वत्सल इति । व्रज-गवां व्रजे निबद्धानां वृषाणां वत्सलस् तेषां स्व-विरह-दुःखम् अनुस्मृत्य गन्धर्वादीन् अप्य् अवमत्य शीघ्रम् आयास्यत्य् एवेत्य् अर्थः । टज्-अभाव आर्षः । न च गो-चारकस्य तस्य गवां दर्शन-स्पर्शन-गात्र-कण्डूयन-घास-प्रदानादि-कौतुकात् स्वतोऽतिनिकृष्ट-गायकं गन्धवादि-गान-कौतुकं चित्ताकर्षकं वाच्यम् इत्य् आहुः । यद्य् अस्माद् अगध्रः येषां गवां रक्षणार्थम् अङ्ग गोवर्धनम् अपि धृतवान् । अतस् तेषु महान् स्वाभाविक एव स्नेहः । गन्धर्वादिषु तु गुणोपाधिकोऽपि प्रीति-लेशो न तस्यास्तीति भावः ।

ननु यद्य् एवम् अभविष्यत् तदा एतावत् क्षण-पर्यन्तं गृहम् आगमिष्यद् एवेति । तत्र विलम्बे पुनर् अपि हेतुम् उपन्यस्यन्ति वृद्धैर् ब्रह्म-रुद्रादिभिः पथ् पथि वन्द्यमानौ चरणौ यस्य सः । वेणु-गानाकृष्टैः स्व-स्व-भवनाद् आगत्य निकट-नभसि स्थितैः सर्वम् एव दिनं कृष्णं दृष्ट्वा लब्धानन्दैः सम्प्रति गोष्ठागमन-समये स्व-स्व-भवन-गमनोन्मुखैर् नभसो भुवम् अवतीर्य ब्रह्म-रुद्रादिभिः प्रत्येकम् एव त्वत्-पुत्रस्यानुग्रहम् अर्थयितुं चरणौ वन्द्येते, तेनात्र किम् कर्तव्यम् इति तेषाम् अनुरोध एवविलम्बाधिक्ये हेतुर् इति ध्वनिः । त्वत्-पुत्रस्य चरणौ ब्रह्मादयोऽपि वन्दन्ते इति स्व-भाग्यं किं न पश्यसि किम् इति खिद्यसीत्य् अनुध्वनिः ।

तर्हि भो व्रज-बालिकाः ! शीघ्रम् अट्टालिका-पृष्ठम् आरुह्य पश्यत कियद् दूरे वत्स आयातीति तया साश्रु-गद्गदम् उक्ताः सर्वोर्ध्व-वलभीं शीघ्रम् आरुह्योच्चैर् आहुः—कृत्स्नेति । एष कृष्णः सुहृदां स्व-बन्धूनाम् आशिषो मनोरथस्य दित्सया एतीत्य् अन्वयः । उपोह्य एकीकृत्य गीत-युक्तो वेणुर् यस्य सः । श्रमेण या रुक् शोभा, तथापि दृशीनां लोक-नेत्राणाम् उत्सवम् आनन्दम् उन्नयन् उच्चैः प्रापयन् । खुर-रजश् छुरिता व्याप्ता स्रक् यस्येति । स्व-सङ्गिनीः सखीः प्रत्यपाङ्ग-भङ्ग्या श्री-यशोदाद्य्-अलक्षितं किम् अप्य् उक्तम् ।

अत्र स्रज्य् एव खुर-रजानिर्देशाद् अन्यत्र रजो नास्तीति लभ्यते । तच् च सखिभिर् मुहुर् निजोत्तरीयेण रजसोऽपसारितत्वात् स्रजि तु रजस् तस्य प्रविश्य स्थितत्वात् अपसारण-यत्ने दल-भङ्गः स्यात् । मणिनापीयं माला । यन् न दूरीक्रियते दास-धृत-वस्त्र-सम्पुटस्था नवीनापि अन्या यन् न परिधीयते तस्माद् इयं माला यया प्रियया स्व-हस्तेन सङ्ग्रथ्य सखी-द्वारा दत्ता ता प्रियाम् एव स्व-कण्ठ-धृताम् एनां दर्शयितुं कृष्णस्य यत्न इति देवकी श्री-यशोदा तस्या जठरम् एव क्षीर-समुद्रस् तस्मिन् भवतीति सः । द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति चेति गणोद्देश-दीपिका-धृतादि-पुराण-वाक्यात् । उडुराजश् चन्द्रः ॥२२.२३॥


॥ १०.३५.२४-२५ ॥

मद-विघूर्णित-लोचन ईषत्

मानदः स्व-सुहृदां वन-माली ।

बदर-पाण्डु-वदनो मृदु-गण्डं

मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥

यदु-पतिर् द्विरद-राज-विहारो

यामिनी-पतिर् इवैष दिनान्ते ।

मुदित-वक्त्र उपयाति दुरन्तं

मोचयन् व्रज-गवां दिन-तापम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

मानवो वदरः सिन्धुः शशिनस् तु त्रि-नामकम् ।

यो वेद मुच्यते रागैर् विष्णु-नाम्नेव संसृतेः ॥ इति स्कान्दे ॥२४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिसम्भ्रमेण काश्चित् समीपम् आयान्तं कथयन्ति--मद-विघूर्णित इति । ईषन् मदेन विघूर्णिते विह्वलिते लोचने यस्य सः । बदर-पाण्डु-वदनः ईषत्-पक्व-बदरवत् पाण्डवं वदनं यस्य सः । अत्र हेतुः--कनक-कुण्डलयोर् लक्ष्म्या कान्त्या मृदु-गण्डौ यस्मिन् तद् वदनं मण्डयन्न् इति । यद् वा, मृदु कोमलं गण्ड-स्थलं शोभयन्न् इति ।

यदु-पतिर् इति देवकी-जठर-भूर् इति च प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१९] इत्य्-आदि-गर्ग-वाक्य-प्रसिद्ध्योक्तम् । यद् वा, सख उदेयिवान् सात्वतां कुल [भा।पु। १०.३१.४]5 इतिवत् ज्ञात्वा काश्चिद् वदन्तीति । गजेन्द्र-गतिश् चन्द्र इव प्रसन्न-वक्त्रःव्रज-गवाम् अस्माकम् अनन्तं दिन-तापं शमयन्न् उपयाति एष समीपम् आयातीति ॥२४.२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिसम्भ्रमेण सहसा । अत्र पाण्डुरत्वे । गण्डौ कपोलौ । इन्द्र-निलमणि-दर्पण-सदृशयोः कनक-कुण्डल-प्रभा[न्येन]{।मर्क्} बदर इव वदनं यस्य भातीति भावः । समासापेक्षया भिन्नं भिन्नं पदं शोभनं, झटित्य् अर्थावबोधकत्वाद् अत आह—कोमलम् इति ।*। यद् वा, अथवा । वस्तुतस् तु पूर्वोक्त-रीत्या गोपानां यदुत्वं, यशोदाया देवकीत्वं च साधितम् एव । विजयाह्वजेन पाठान्तरं कल्पयित्वा बलदेव-पक्षे योजना कृता, सा च कृष्ण-लीलानुगायतीः [भा।पु। १०.३५.२६] इत्य् अनेन विरोत्स्यतीति ।

चन्द्र-पक्षे मदे आनन्द-करे विघूर्णित इतस् ततः प्रसृतः लोचनः प्रकाशो यस्य स तथा । लुच् प्रकाशेऽपि । स्व-सुहृदां स्त्रीणां मानदः, अभिमान-खण्डनः । वनानां भासां दीप्तीनां माला अस्यास्तीति वनमालीबदरो बृहस्पतिः, पाण्डुः शुक्रः, तयोर् इव वदनं वचनं यस्य स तथा । व्रज-गवाम् इति व्याख्या तत् । इदानीं नगर-प्रान्त-पर्यन्तम् आगतस् तत्रापि किञ्चिद् विलम्बस्य कारणं शृण्व् इत्य् आहुः—मद- इति ।

मदेन पित्रादि-दर्शनोत्थेनानन्देन प्रेयसी-जन-दर्शनोत्थ-काम-मत्ततया च विघूर्णिते विह्वले लोचने यस्य सः । प्रथमार्थो वात्सल्य-रस-परिकरैः, द्वितीयार्थो मधुर-रस-परिकरैस् तत्रत्यैर् बुध्यत इत्य् एवम् अग्रेऽपि ज्ञेयम् । स्व-सुहृदां पुरोहितादि-मातुलादि-भ्रात्र्-आदि-दासादि-ताम्बूलिकादीनां यथोचितम् आशीर्वादादि-कृताम् । ईषन् मानदः राज-पुत्रत्वाद् अल्प-वयस्त्वेनानधिगतनीति शास्त्रत्वाच् च । ईषन्-मात्रं यथोचितं शिरो-नमनादिकं मानं ददातीति सः । इत्य् अयम् अपि विलम्ब-हेतुर् इति भावः ।

पक्षे, स्व-सुहृदां प्रेयसीनां चन्द्रशालिकाद्य् आरुह्य हसितापाङ्ग-नीलोत्पलैः पूजयन्तीनाम् ईषद् अन्य-जनालक्षितं मानम् अभीष्ट-दान-व्यञ्जकैः कटाक्षैर् ददातीति सः । वन-पर्यटन-श्रमेण क्षुत्-पिपासाभ्यां च ईषत्-पक्व-बदरवत् पाण्डुं वदनं यस्य सः । पक्षे, स्वाभीष्ट-प्रेयसी-विरहानुभावोऽयं वदने पान्डिमा । मृदु-गण्डं मृदू गण्डौ कनक-कुण्डलयोश् चलयोर् लक्ष्म्या कान्त्या मण्डयन्यदुपतिर् इति—गोपानां यादवत्वस्य पूर्वं प्रतिपादितत्वात् । द्विरद-राज-विहारो गजेन्द्र-तुल्य-मन्द-गमनः । मुदित-वक्त्रः प्रफुल्लित-मुखः । उपयाति निकटम् आयाति । व्रज-गवां व्रजस्थ-जन-नेत्राणाम् ॥२४.२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतावति कथने समीपम् आगतं तं निरूपयन्त्यः शान्तोद्वेगाः काश्चिद् आहुः—मद-विघूर्णित- इत्य् आदि-द्वाभ्याम् । मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपज इत्य् अभियुक्ताः । तेन घूर्णिते लोचने यस्य । कीदृशः ? ईषत् ईर् लक्ष्मीः, तस्यां सीदतीति तथा । स्व-सुहृदां मानदः कनक-कुण्डल-लाक्ष्म्या बदर-पाण्डु-वदनो यदुपतिर् इति पूर्ववत् सम्बन्ध-स्थ-गन-सूचनम् । व्रज-गवाम् इति स्वात्म-परम्, व्रजस्थ-गो-रूपाणाम् अस्माकम् इत्य् अर्थः । दिन-तापम् इति रात्रि-तापो नास्त्य् एवेत्य् अर्थः । औत्सुक्य-दैन्य-हर्ष-विस्मयादीनाम् ॥२४.२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईषद् इत्य् अस्य विघूर्णित- इत्य् अनेन सम्बन्धः, मदो हर्षो मत्तता वा, स च स्वभावत एव, विशेषतश् च श्री-गोपी-गण-दर्शनाद् विज्ञेयः । तेन मनाग् विविधतया घूर्णिते लोचने यस्येति श्री-नेत्रयोः सौन्दर्य-विशेष उक्तः । स्वस्य सुहृदां माता-पित्रादीनां मानं पादाभिवन्दन-सम्मानं ददातीति तथा सः । यद् वा, स्वं स्वयं स एव सुहृद् यासां, तासां गोपीनां परितो विलोकनादिना मद-विघूर्णित-लोचनः, तेनैव वा मानं ददद् इत्य् अर्थः ।

यद् वा, मानं चिरं गोपैः सह क्रीडया सत्वरानागमनेन मानिनीत्वं द्यति खण्डयतीति तथा सः ।

वनमाली इति पूर्वोक्त-गोप-गोषूत्सवार्थं6 कुन्द-दामानुसारेण कुन्दैर् एवापादलम्बिकात्वेन रचितया वन-मालया युक्त इति ज्ञेयम् । मृद्व् इति—कैशोर-स्वभावेन श्मश्र्व्-आद्य्-अनुद्गमेन सुकोमल-कान्तित्वात् । मण्डयन्न् इति—स्वभावत एव कुण्डलयोर् गण्डाभ्यां संयोगात्, विशेषतश् च गजेन्द्र-गत्या मन्द-मन्द-चलनेनाधिक-सम्पर्कात् । यदुपतिर् इति यदुभ्यो व्रज-जन7 विषयकोऽनुग्रह-विशेषो ध्वनितः ।

यद् वा, यदुपतिर् इति-यदवो गोपा इति स्कान्द-मथुरा-खण्डे उक्तत्वात्, तेषां पतिर् इति पूर्ववत् गुण-प्रकटनम् एवाभिप्रेतम्, तद् अर्थम् एव तत्-कुलेऽवतीर्णत्वात् । मुदित-वक्त्र इति—लीलास्मित-निरीक्षणादिकम्, तेन च भाव-विशेषोदयं च सूचयति, अत एव दूरं तम् अपरिच्छिन्नम् अपि तापं मोचयन् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, वनमालि पत्र-पुष्पमय-मालावान् इति वन्य-वेशेन शोभा वा भरो दर्शितः । बर्ह-मौलि-कुण्डलोपरि-न्यस्त-गुञ्जा-प्रालम्बादि-वन्य-वेशोऽपि पूर्वोक्तानुसारेणोह्यः । एवं पूर्व-वेश-परित्यागेन वेशान्तरं ज्ञेयम् ।

ईषन् मानद इति सम्बन्धः, तदानीं समग्र-मनोरथापूरणात् । वदरवत् पाण्डु-वदन इति निज-भावानुसारेण तस्यापि विरह-मननात् तथा दृष्टेः । किं वा, याथार्थ्येणैव जात-विरह-स्वभावात् । गण्डं मण्डयन्न् इति—गजेन्द्र-गति-स्वभावाद् एव । लक्ष्म्या इति श्लेषेण गण्ड-चुम्बनात् कुण्डलयोर् लक्ष्मीत्वं ध्वनितम् । व्रज-गवां व्रज-सम्बन्धिन्यो या गावः, तासाम् एव दिन-तापं वत्सैः सह सम्मेलनेन मोचयन्, न त्व् अस्माकम् इति प्रेमातृप्त्य्-उक्तिः। यामिनी-पतिश् चन्द्रो यथा दिनान्ते उदेति, यामिनी-पतित्वेन दिने तद्-विरहेण यथा यामिन्या लयः, तस्य च तद्-विरहेण म्लानतादि, तथेति श्लेषार्थः । चन्द्रोऽपि यदुपतिस् तद्-वंश-प्रवर्तकत्वात् । द्विरद-राज-विहारश् च मन्द-मन्दम् उपयातिमुदित-वक्त्रश् च प्रसन्न-पूर्ण-मण्डलत्वात् । यद् वा, मुदितानि लोकानां वक्त्राणि यस्मात् सः, दिन-तापापनोदनात् । व्रजन्तीति व्रजाः जङ्गमाः प्राणिनः, तेषां गावश् चक्षुंषि, तासां दिनजं तापं मोचयन्न् इति । अन्यत् समानम् ॥२४.२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईषद् इत्य् अस्य विशुद्ध-सत्त्वमयत्वेन विघूर्णित- इत्य् अनेन सम्बन्धः । मदो हर्ष-कृत-चित्त-विकारः । स च स्वभावत एव, विशेषतश् च नव-यौवनात्, ततोऽपि विशेषतः प्रेयसी-जन-दर्शनाद् विज्ञेयः । एवं बहुष्व् अपि व्यङ्ग्येषु तत्-सभायां तत्-तद्-उपलब्धिस् तु स्व-स्व-वासनानुसारेणैवेति न रस-साङ्कर्य-दोषः । तेन मदेन मनाक् विविधतया घूर्णिते लोचने यस्येति श्री-नेत्रयो विलास-विशेष उक्तः । व्रज-प्रवेश-समयेऽभिगच्छतां स्वस्य सुहृदां तेभ्यो मानं प्रणामालिङ्गन-सस्मित-सम्भाषण-प्रणयावलोक-नर्मावलोक-कृपावलोकादि-लक्षणं यथोचितं ददातीति, तथा सः । वनमाली इति पूर्वोक्त-कुन्द-दामानुसारेण कुन्दैर् एवापाद-लम्बिकात्वेन रचितया मालया युक्त इति ज्ञेयम् । मृद्व् इति कैशोर-स्वभावेन सुकोमल-कान्तित्वात् । मण्डयन्न् इति स्वभावत एव कुण्डलयोर् गण्डभ्यां संयोगात् । विशेषतश् च गजेन्द्र-गत्या मन्द-मन्द-चलनेन मुहुर् उपसर्पणापसर्पणाभ्यां शोभा-विशेषात् ।

यदु-पतिर् इति पूर्व-दर्शित-स्कान्दोक्त्य्-अनुसारात् यादवेष्व् अपि सर्वेषु भवन्तो मम वल्लभा इति यदु-पुराद् व्रजम् आगतस्य श्री-रामस्य गोपान् प्रति हरि-वंश-प्रसिद्ध-वचने निर्धारण-सप्तमी-निर्देशाच् च यदूनां गोपानां पतिर् इति । सर्वस्यापि गोकुलस्य परमाश्रयत्वेन परम-प्रेमास्पदत्वं दर्शितं । मुदित-वक्त्र इति उपयाति इति च दुरन्तम् अपरिच्छिन्नम् अपि तद्-अनिष्टाशङ्का-हेतुकं तद्-विच्छेद-हेतुकं च व्रज-गवां तापं विमोचयन्, तत एव परमम् आनन्दं च ददातीति ज्ञेयम् । अन्यत् तैः ।

तत्र व्रज-गवाम् अस्माकम् इति व्रजस्यास्मद्-विशिष्टस्य तज्- जनस्य गवां च शकटादीनां व्रज-स्थानाम् इत्य् अस्मत्-संवलितत्वाद् अस्माकम् एवेत्य् अर्थः । यद् वा, व्रजस्य गवां नेत्राणां--स्वर्गेषु पशु-वाग् वज्रदिङ् नेत्र घृणि-भूजले लक्ष्य-दृष्ट्यां स्त्रियां पुंसि गौर् इति नानार्थ-वर्गात् । बदरवत् पाण्डु-वदन इति निज-भावानुसारेण तस्यापि स्व-विरह-दुःख-निश्चयात् तथा दृष्टेः, भावान्तरवज्-जने तु श्रम-वैवर्ण्य-व्यञ्जनात्, यामिनी-पतिश् चन्द्रो यथा दिनान्ते उदेति, तथेति युग्मकानि पूर्णानि ॥२४-२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एव दिनान्तागमन-सौभाग्यं वर्णयन्त्योऽन्या उपसंहरन्ति--मद-विघूर्णित- इत्य्-आदि-द्वाभ्याम् । वनमाली दिनान्ते उपैति इति सम्बन्धः । मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः । तेन ईषद् घूर्णिते लोचने यस्य । स्व-सुहृदां मानदःकनक-कुण्डल-लक्ष्म्या मृदु-गण्डं कोमल-गण्डं मण्डयन् । अत एव वदर-पाण्डु-वदनः । उभयतः कनक-कुण्डल-त्विषां प्रतिबिम्बेन तथात्वम् । यदुपतिः ज्ञातीनां वो दिदृक्षया [भा।पु। १.११.५] इति भगवद्-उक्तेर् गोपाश् च यदवः । अथवा, पूर्ववत् सम्बन्ध-स्थ-गन-परम् । व्रज-गवां गो-प्रायाणाम् अस्माकं दुरन्तं दिन-कृतं तापं मोचयन् । अन्योऽपि यामिनी-पतिर् दिन-ताप-मोचको भवतीति ॥२४.२५॥


मद-विघूर्णित-लोचन ईषत् मानदः स्व-सुहृदां वन-माली । बदर-पाण्डु-वदनो मृदु-गण्डं मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ यदु-पतिर् द्विरद-राज-विहारो यामिनी-पतिर् इवैष दिनान्ते । मुदित-वक्त्र उपयाति दुरन्तं मोचयन् व्रज-गवां दिन-तापम् ॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं तु नगर-प्रान्त-पर्यन्तम् आगतः। तत्रापि किञ्चिद् विलम्बस्य कारणं शृण्व् इत्य् आहुः—मदेन पित्रादि-दर्शनोत्थानन्देन प्रेयसी-जन-दर्शनोत्थ-काम-मत्ततया च विघूर्णिते विह्वले लोचने यस्य सः । प्रथमोऽर्थो वात्सल्य-रस-परिकरैः, द्वितीयोऽर्थो मधुर-रस-परिकरैस् तत्रत्यैर् बुध्यते इत्य् एवम् अग्रेऽपि ज्ञेयम् । स्व-सुहृदां पुरोहितादि-मातुलादि-भ्रात्रादि-दासादि-ताम्बूलिकादीणां यथोचितम् आशीर्वादादि-कृताम् ईषन्-मानदः राजपुत्रत्वाद् अल्प-वयस्त्वेनानधिगत-नीति-शास्त्रत्वाच् च ईषन्-मात्रं यथोचितं शिरो-नमनादिकं मानं ददातीति सः । इत्य् अयम् अपि विलम्ब-हेतुर् इति भावः ।

पक्षे, स्व-सुहृदां प्रेयसीनां चन्द्र-शालिकाद्य् आरुह्य हसितापाङ्ग-नीलोत्पलैः पूजयन्तीनाम् ईषद् अन्य-जनालक्षितं मानम् अभीष्ट-दान-व्यञ्जकैः कटाक्षैर् ददातीति सः । वन-पथ-पर्यटन-भ्रमणेन क्षुत्-पिपासाभ्यां च ईषत्-पक्व-बदरवत् पाण्डु-वदनं यस्य सः । पक्षे, स्वाभीष्ट-प्रेयसी-विरहानुभावोऽयं वदने पाण्डिमा । मृदु-गण्डं मृदु-गण्डो कनक-कुण्डलयोश् चञ्चलयोः कान्त्या मण्डयन्यदुपतिर् इति गोपानां यादवत्वस्य प्रतिपादित-पूर्वत्वात् । द्विरद-राज-विहारो गजेन्द्र-तुल्य-मन्द-गमनः । मुदित-वक्त्रः प्रफुल्लित-मुखः । उपयाति निकटम् आयाति । व्रज-गवां व्रजस्थ-जन-नेत्राणाम् ॥२४.२५॥


॥ १०.३५.२६ ॥

श्री-शुक उवाच

एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः ।

रेमिरेऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं विरह-दुःखेनापि नु अहो कृष्ण-लीला एव गायन्त्यः तस्मिन् चित्तं चेतना जीवितं यासां ताः । तस्मिन्न् एव मनः संकल्प-रूपं यासां ताः । अत एव महान् उदय उत्सवो यासां ताः । अहःस्व् अपि रेमिरे ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चिन्त्यते सञ्ज्ञायते इन्द्रिय-प्रवर्तकत्वेनेति चित्तम् चिती—सञ्ज्ञाने अतः क्त-प्रत्यये इडभावः ईदित्त्वात् । तस्मिन् श्री-कृष्णे । अतो भगवन् मनस्त्वाद् एव । महान् वक्तुम् अशक्यः अहस् स्वपीहापिना रात्रि-क्रीडापि बोधितेति । नु भो राजन् । गायतीर् गयन्त्यः । तस्मिन् श्री-कृष्ण एव चित्त यासां ताः । तस्य श्री-कृष्णस्यापि मनो यासु ता इत्य् अतः श्री-कृष्ण-तत्-प्रियाणां परस्पर-विषयाश्रयत्वात् परस्परमनो ग्रहणम् अतः प्रतिक्षणमनिशस्मरणात् । रेमिर इति विप्रलम्भ-प्रेम्णो दुःखमयत्वेन तदाविष्टजन-प्रतीतत्वेऽपि परम-सुखमयत्वं प्रेक्षावत्प्रतीतमस्त्यतः प्रेम्णः पुरुषार्थ-चूडामणित्वं व्यञ्जितम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरत्य् एवम् इति व्रजस्थिता अपि स्त्रियः । हे राजन्न् इति तासां विरह-गीते प्रेम्ना मुह्यन्तं राजानं सुस्थयति अहःसु तद्वद् विरह-मयेष्व् अपि रेमिरे जात-निर्वृति-प्राया बभूवुः । अत्र हेतवः तच्-चित्ता इत्य् आद्याः । तस्य परमानन्द-घन-स्वभावत्वाद् इति भावः । अन्यत् तैः । यद् वा, एवम् उक्त-प्रकारेणेति तत्रेदृश-लीलान्तर-गानम् अपि बोध्यते । तच्-चित्तत्व-तन्-मनस्कत्व-तद्-गानैस् तद्-एक-गत-ज्ञानेच्छा प्रयत्नत्वम् उक्तम् । महान् तद्-आविर्भाव-रूपत्वात् सर्वतोऽप्य् उत्कृष्ट उदयः सत्-कर्म-सिद्धिर् यासां ताः । तद् एवम् उत्तरोत्तरम् आविर्भाव-वैशिष्ट्येन रमणस्यापि वैशिष्ट्यं ज्ञेयम् । तत्र वत्सल इत्य्-आदिषु साक्षाद् आविर्भावात् साक्षाद् एव रमणं तत्राप्य् उत्तरोत्तर-तारतम्यम् इति पूर्वत्र तु विरहेष्व् अपि रमणं निजालम्बनस्य मनः स्फुरितत्वाद् अंशेन भवत्य् एवेति सर्वत्र रेमिरे इति श्लिष्टम् एव ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपसंहरति—एवम् इति । व्रजे स्थिता अपि स्त्रियः । हे राजन्न् इति तासां विरह-गीतया प्रेम्णा मूह्यन्तं राजानं स्वस्थयति—कृष्णस्य परमानन्द-घन-मूतेर् लीला इति तल् लीलानाम् अपि पूर्ववत् तादृशत्वम् एवाभिप्रेतम्, अहःसु तद् विरह-समयेष्व् अपि रेमिरे सुखिन्यो बभूवुः । तत्र हेतवः—तच् चित्ता इत्य् आद्यः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, एवम् उक्त-प्रकारेण ईदृशीर् इति वा, ततश् चान्या अपि तादृशीर् लीलाः प्रगायन्ति स्मेति बोध्यव्यम् । तच् चित्तत्वेन तन् मनस्कत्वेन च सदा प्रेमार्ता एव, विशेषतश् च तल् लीलागानेन महान् महान् उदयः साक्षाद् इव कृष्णस्याविर्भावो यासां ताः, ततश् च तद् आगमन-गानं तस्य रूप-लीलादि-गान-क्रमेण चित्तावेशेन दिनान्ते परोक्षत्वेऽपि साक्षाद् इव तस्य्साविर्भावात्, सायं च स्वतस् तद् दर्शन-सुखं भवेद् एवेति । दिनार्ति-निस्तार-प्रकार-कथनेऽत्र तन्नोक्तम् इति ।

यद् वा, दिनं गानेनैव सदा निन्युः । अत एवादाव् उक्तम्—कृछ्रेणेति । साहं च साक्षात् तद् दर्शनेन सुखिन्यो बभूवुर् इति विवेचनीयम् । ततश् च एवम् उक्त-प्रकारेण गायन्त्यस् तथा महान् साक्षाद् दर्शनोत्सवो यासां तथा-भूताश् च सत्य इत्य् अर्थः । अत एव तैर् अपि व्याख्यातम्—आयान्तम् आलोक्येति श्री-कृष्णं प्राप्तं दृष्ट्वेति च । अन्यत् समानम् ।

एवं पूर्वाह्नादि-भेदेन तत्राप्य् अवान्तर-भेद-क्रमेण त्रिषु कालेषु प्रत्येकं त्रीणीत्य् एवं नव-युगलानि, अकस्माच् छ्री-यशोदां प्रति विविधेत्य् आदि-युगलम् एकम्, तत्-प्रसङ्गाच् च निजावस्था-वर्णने युगलम् एकम् इत्य् एवम् एकत्राहुः—सर्वान्ते च समीपागमन-हर्षेण युगलम् एकम् अधिकम् इत्य् एवं द्वादश-युगलैस् तल् लीला गानं विवेचनीयम् ॥२६॥

गोकुलोत्सव-लीलायाः समाप्तौ सद्रसाम्बुधेः ।

अन्यत्र कः प्रवर्तेत विना निज-दुराग्रहम् ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : रेमिरे जात-निर्वृति-प्राया बभूवुः । अत्र हेतवः—तच्-चित्ता इत्य् आद्यास् तस्य परमानन्द-घन-स्वभावत्वात् ॥२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो राजन् ! गायतीः गायन्त्यः । तस्मिन् श्री-कृष्ण एव चित्तं चेतो यासां ताः । तस्य श्री-कृष्णस्यापि मनो यासु ता इत्य् अतः कृष्ण-तत्-प्रियाणां परस्पर-विषयाश्रयत्वात् परस्पर-मनो-ग्रहणम् अतः प्रतिक्षणम् अनिश-रमणात् रेमिरे इति विप्रलम्भ-प्रेम्णो दुःखमयत्वेन तद्-आविष्ट-जन-प्रतीतत्वेऽपि परम-सुखमयत्वं प्रेक्षावत् प्रतीतम् अस्त्य् अतः प्रेम्णः पुरुषार्थ-चूडामणित्वं व्यञ्जितम् ॥२६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चत्रिंशोऽपि दशमे सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यां

संहितायां वैयासिक्यां दशम-स्कन्धे वृन्दावन-क्रीडायां

युगल-गीत-वर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥

॥३५॥


(१०.३६)


  1. तरङ्गेण ↩︎

  2. तत्र ↩︎

  3. बोधयते ↩︎

  4. सामान्यतः इति क,ख-करलिप्योर् नास्ति ↩︎

  5. न खलु गोपिका-नन्दनो भवान् अखिल-देहिनाम् अन्तरात्म-दृक् ।

    विखनसार्थितो विश्व-गुप्तये सख उदेयिवान् सात्वतां कुले ॥ ↩︎

  6. गोप्युत्सवार्थं ↩︎

  7. व्रज-गण ↩︎