३४

अजगर-मुखान् नन्दस्य मोचनम्, अजगरस्य पूर्व-विद्याधर-स्वरूप-प्राप्तिः ।

॥ १०.३४.१-२ ॥

श्री-शुक उवाच—

एकदा देव-यात्रायां गोपाला जात-कौतुकाः ।

अनोभिर् अनडुद्-युक्तैः प्रययुस् ते\ऽम्बिका-वनम् ॥

तत्र स्नात्वा सरस्वत्यां देवं पशु-पतिं प्रभुम्1

आनर्चुर् अर्हणैर् भक्त्या देवीं च नृपते \ऽम्बिकाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुस्त्रिंशेऽहिना ग्रस्तं नन्दं हरिर् अमूमुचत् ।

विद्याध्रं चाङ्गिरः-शापाच् छङ्खचूडं तथावधीत् ॥

रासापदेशतः कामं किङ्करी-कृत्य कामतः ।

अनुगृह्णन् वशं निन्ये तथा विद्याधराधिपम् ॥

तद् एवं कामानुग्रह-मुखेन काम-जयं प्रतिपाद्य तथैव विद्याधर-जयं प्रतिपादयितुं तत् प्रसङ्गं दर्शयति—एकदा इति ॥१.२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहिना सर्पेण । अमूमुचत् मोचयामास । विद्याम् अन्तर्धाविर्भावादि-लक्षणां धरतीति तथा तम् । मूल-विभुजादित्वाद् धरतेः कः । शङ्खचूडं यक्षम् । रासापदेशतः रास-लीला-च्छलेन । कामतः स्वेच्छया । विद्याधराधिपं कामंअनुगृह्नन्न् इत्य् अन्वयः । तद् एवम् इह तच्-छब्दो वाक्यालङ्कार एव । कामस्यानुग्रहाय मुखं प्रारम्भो यस्य वृत्तस्य, तत् कामानुग्रह-मुखं, तेन

ये ये हताश् चक्र-धरेण विष्णुना त्रैलोक्य-नाथेन जनार्दनेन । > ते ते गता विष्णु-पुरीं नरेन्द्राः क्रोधोऽपि देवस्य वरेण तुल्यः ॥

इत्य् उक्त-दिशा, मोघा याच्ञा वरम् अधिगुणे इत्य् उक्त-दिशा च भगवत्-कृत-काम-जयोऽपि कामानुग्रह एव । तथैव विद्याधरानुग्रह-मुखेन तत्-सङ्गं विद्याधर-मेलनम् ।

एकदा रासानन्तरं फाल्गुन-शिवरात्रौ । अनोभिः शकटैः । गोवर्धन-मखवत् कृष्ण-कौतुक-मूलत्वेन तीर्थे दानार्थं बहुल-द्रस्य नयनार्थम् अम्बिकावनम् । मथुरा-दिग्-विभागे वायव्ये सरस्वती-तीरस्थं शिवोमा-मूर्ति-भूषितम् ॥१॥

तत्र वने । पशूनां जीवानां पतिं,

ब्रह्माद्याः स्थावरान्ताश् च देव-देवस्य सूलिनः । > पशवः परिकीर्त्यन्ते संसार-वश-वर्तिनः । > तेषां पतित्वाद् देवेशः शिवः पशुपतिः स्मृतः ॥ > मल-मायादिभिः पाशैः स बध्नाति पशून् पतिः । > स एव मोचकस् तेषां भक्त्या सम्यग् उपासितः ॥ > ब्रह्मादि-स्तम्ब-पर्यन्तान् पशून् बद्ध्वा महेश्वरः । > पाशैर् एतैः पतिर् देवः कार्यं कारयति स्वकम् ॥ इति शैवोक्तेः ।

देवीम् अम्बिकाम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ऐश्वर्य-संवलित-लौकिक-लीलायाः प्रसङ्गात् तादृशीम् एवान्यां वदन् गोपानां साक्षाद् आश्चर्य-दर्शनेन सर्वथा श्री-भगवति तेषां भक्ति-विवृद्धिं दर्शयितुं प्रसङ्गान्तरम् आरभते—एकदा इति । कैशोर एव कस्मिंश्चित् समये तत्रापि युक्त्या शिव-रात्रौ, कार्तिके इति केचित् । देवस्य श्री-शिवस्य यात्रायां जातं कौतुकम् औत्सुक्यं येषां ते इति केवलं कौतुकेनैव प्रयाणम्, न तु केनचित् कामादिनेत्य् अर्थः । यतो गोपालाः कौतुक-शीला इत्य् अर्थः ।

यद् वा, गोपालाः श्री-भगवद्-एक-निष्ठा अपि अनडुद्भिर् महा-वृषभैर् युक्तैर् अनोभिर् इति स्वभावतो गोपानां शकटैर् एव गमनाद् विशेषतश् च तीर्थे दानार्थ-बहुल-द्रव्य-नयनात्, अत एव प्रकार्षेण ययुःअम्बिका-वनं श्री-मथुरा-पुर-पश्चिम-दिग्-भागे **सरस्वती-**तीरस्थं श्री-शिवोमा-मूर्ति-विभूषितं तद्-दैवत्यम् । गुर्जर-देशे सिद्ध-पुरस्य नातिदूरवर्ति-तीर्थम् अम्बिका-वनम् इति केचित् ॥१॥

तत्र वने । देवं पूज्यं श्री-विष्णु-वैष्णवैक-प्रियत्वात्, विशेषतः पशूनां पतिं पालकम् । किं च, प्रभुं श्री-भगवद्-भक्ति-प्रदाने समर्थम् । अत एव अर्हणैर् विविधोपचारैर् भक्त्या पूजयामासुः । च-कारेणाम्बिकाया अपि तादृशत्वं समुच्चीयते । हे नृपते ! इति कौतुक-शीलानां कौतुकाचरण-वृत्तं राजत्वाद् भगवता ज्ञायते एव । किं वा, वैष्णवानाम् अपि श्री-भगवद्-भक्त्य्-अर्थं तत्-तत्-पूजा-वृत्तं भगवता पाल्यत एवेति ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ रास-लीला-प्रसङ्गात् तादृशीं शङ्खचूड-वधावसानाम् अन्यां लीलां दर्शयितुं तयोर् मध्ये जातत्वेन क्रम-प्राप्तं तत्-प्रभाव-दर्शनमयत्वेन तादृश-लीला-प्रतिकूल-जन-स्तम्भकतया तद्-उपयुक्तं च लीलान्तरम् आह—एकदा इति तद्-रासानन्तरं फाल्गुने शिव-रात्रौ देवस्य श्री-शिवस्य यात्रायां जातं कौतुकम् औत्सुक्यं येषां ते । तद् एतच् च गोवर्धन-मखवत् श्री-कृष्न-कौतुक-मूलत्वेनैव च ज्ञेयम्, अनन्याश्रय-मनस्त्वात् तेषां ।

यद् वा, ते गोपाः गोपालेन श्री-कृष्नेन हेतुना आ सम्यक् जात-कौतुकाः । अत्र श्री-कृष्नस्य तु निज-प्रेयसीभिः सह स्वच्छन्द-लीलायां निगूढोऽभिप्रायो गम्यः । अतः पूर्व-लीला-समानत्वं चास्य ज्ञेयम् । अनडुद्भिर् इति प्रसिद्धार्थस्यापि निर्देशस् त्व् अनो वहति अनडवान् इति निरुक्तेर् विशेष-विवक्षया सा चानायास-गमनस्य अनोर्-निर्देशश् च तीर्थे दानार्थं बहुल-द्रव्य-नयनस्य, अत एव प्रकर्षेण ययुःअम्बिकावनं श्री-मथुरा-पुर-वायव्य दिग्-विभागे सरस्वती-तीरस्थं श्री-शिवोमा-मूर्ति-विभूषितं तद्-दैवत्यम् । यद् वा, गुर्जर-देशे सिद्ध-पुरस्य नातिदूरवर्ति-तीर्थम् अम्बिका-वनं, तस्यैवाति-प्रसिद्धत्वात्॥१॥

देवं पूज्यं श्री-विष्नु-वैष्णवैक-प्रियत्वात् । प्रभुं श्री-भगवद्-भक्त्य्-आदि-प्रदान-समर्थं । "विभुम्" इति क्वचित् पाठः । अत एव अर्हणैर् विविधोपचारैः । -कारेणाम्बिकाया अपि तादृशत्वं समुच्चीयते । हे नृपते ! इति रास-लीलाविष्टं तम् अवधापयति ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एकदा शिव-रात्रौ अम्बिका-वनं गुर्ज्जर-देशे सिद्ध-पुर-निकटे प्रसिद्धम् ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

चतुस्-त्रिंशेनन्द-पाद-ग्रासि सर्पं स्पृशन् हरिः ।

उद्दधार मणिं शङ्खचूडं जग्राह तद्-वधात् ॥

शारदीं रास-लीलां वर्णयित्वा वासन्तीं होलिका-गान-लीलां वर्णयिष्यन् प्रथमं शिव-रात्रि-यात्रायाम् आह । एकदा फाल्गुन-कृष्णा-चतुर्दश्याम् अम्बिका-वनं मथुरा-वायव्य-दिग्-विभागे सरस्वती-तीरस्थं श्री-शिवोमा-मूर्ति-भूषितम् इत्य् एके, गुर्जर-देशस्थं सिद्ध-पुर-निकट-स्थ-तीर्थम् इत्य् अन्ये प्राहुः ॥१॥


॥ १०.३४.३ ॥

गावो हिरण्यं वासांसि मधु मध्व्-अन्नम् आदृताः ।

ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गावो गाः । मधु मधुरम् । मध्व्-अन्नं मधुना सहितम् अन्नम् ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवः पार्वती-नाथः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गाव इति प्रथमान्तत्वं छान्दसम् । यद् वा, वो युष्माकं सम्राजाम् इव यत् हिरण्यादि तद् इत्य् अर्थः । आदृता देवालयस्थैर् देव-सेवकैः सम्मानिता आदर-युक्ता वा, सर्वे श्री-नन्दादयः प्रत्येकम् एवेत्य् अर्थः । देवः श्री-शिवः श्री-विष्णुः श्री-कृष्ण एव वा, प्रेम-भरेण सदा तत्-प्रीत्य्-एकापेक्षकत्वात् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेषां स-कौतुकत्वेऽपि धर्मार्थ-निष्ठत्वम् आह—गाव इति द्वाभ्यां । आदृताः तद् एवालय-सेवकैः सम्मानिताः आदर-युक्ता वा सर्वे श्री-नन्दादयः प्रत्येकम् एवेत्य् अर्थः । देवः श्री-शिवः श्री-विष्णुर् वा वैष्णव-विष्णु-प्रीतिर् एव वैष्णवानां प्रयोजनम् इति । तच् च विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय चेतिवत् ज्ञेयम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गावो गाः । मधु शिवाभिषेकावशिष्टं मधु-सहितानाम् ॥३॥


॥ १०.३४.४ ॥

ऊषुः सरस्वती-तीरे जलं प्राश्य यत-व्रताः ।

रजनीं तां महा-भागा नन्द-सुनन्दकादयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जल-मात्रं प्राश्य उपोषितास् तां निशां तत्र ऊषुर् न्यवसन् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सरस्वती-तीरे । ताम् या तत्र-गतानाम् आगता इत्य् अर्थः । सुनन्दः श्री-नन्दनुजः, सञ्ज्ञायां कन् । अतस् तद्-अग्रजस्योपनन्दस्य गोष्ठ एव स्थितिर् अवधार्यते । योग्यता च तस्य ज्ञान-वयो\ऽधिक्यात् ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राश्य प्राशन-मात्रं कृत्वा, यतो यतं संयमेन गृहीतं व्रतं यैः । एतच् च श्री-शिव-तीर्थाद्य्-अपेक्षया तीर्थ-यात्रापेक्षयैव वा, महान् भावो भाग्यं प्राप्यांशो वा येषाम् इति श्री-भगवद्-भक्त्य्-अपेक्षया श्री-शिवार्चनं युक्तम् एवेति भावः । सुनन्दो नन्दस्य कनीयान् भ्राता, संज्ञायां कः । ज्येष्ठोऽप्य् उपनन्दो गमन-प्रसङ्गे नोक्तः, मन्त्री रक्षार्थं व्रजे स्थित इति ज्ञेयम् । आदि-शब्दाद् अन्येऽपि वृद्धाः, तद्-यात्रायां वृद्धानाम् एव प्राधान्यात् ते वृद्धा निर्दिष्टाः, न च श्री-भगवान् तद्-वयस्या वा, तेषां प्रायो बाल्ये व्रताद्य्-अनादरात् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राश्य प्राशन-मात्रं कृत्वा । तत्र हेतुः--यतं संयमेन गृहीतं व्रतं यैः । रजनीं शिव-रात्रिं तस्यास् तत्-प्रधानत्वात् । सुनन्दः श्री-नन्दानुजः संज्ञाया कन् । अतस् तद्-अग्रजस्योपनन्दस्य गोष्ठ एव स्थितिर् बुध्यते । योग्यता च तस्यैव ज्ञान-वयोऽधिकत्वात् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुनन्दो नन्दानुजः संज्ञायां कन् ॥४॥


॥ १०.३४.५ ॥

कश्चिन् महान् अहिस् तस्मिन् विपिने\ऽतिबुभुक्षितः ।

यदृच्छयागतो नन्दं शयानम् उरगो\ऽग्रसीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महान् अहिर् अजगरः । उरग उरसा गच्छन्न् इत्य् अलक्षितत्वम् उक्तम् । अग्रसीत् जग्रास ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कश्चित् अनिर्दिष्ट-नामा । यदृच्छया केनापि भाग्योदयेन । उरग इत्य् अलक्षितागमनः । यात्रिक-लोक-शून्यत्वाद् विपिन इति । किम्-अर्थम् आगत्य जग्रास ? तद् आह—अतिबुभुक्षितःशयानं स्वीकृत-निद्रम् । पूर्वस्यां रात्रौ जागरणोपवासादिना श्रान्तेर् निर्भर-निद्राणम् इति भावः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कश्चिद् इति अन्याजगरतो विशिष्ट इत्य् अर्थः । तच् चाग्रे व्यक्तं भावि, इति तस्य निजोद्धार-कृत्येऽनुसन्धान-सद्भावः सूचितः । अतिबुभुक्षितः चिरं भक्ष्याप्राप्तेः । अत एव तस्मिन् विपिने यदृच्छया केनापि भाग्योदयेन आगतः सन् । किं वा, तत्र वर्तमान एव यदृच्छया श्री-नन्दान्तिकम् आगतः सन् अग्रसीच् चरणयोर् ग्रसितुं प्रवृत्तः ।

ननु, अहिं दृष्ट्वा कथं स न पलायत ? तत्राह—शयानं पथ-श्रान्त्यादिना निद्राणम् ।

ननु, श्री-नन्दं दृष्ट्वा कथम् असौ न बिभेति स्म ? तत्राह—शयानं वस्त्राद्य्-आवृतत्वेन भूमि-शय्यायं निश्चेष्टतया वर्तमानम् इत्य् अर्थः । यदृच्छया इति सर्वत्रैव मुख्यो हेतुः, निजोद्धारार्थं परमार्त्या श्री-नन्दं सपाद-ग्रहम् आश्रित इति तत्त्वार्थः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तत्र रजनी-वृत्तम् आह--कश्चिद् इति । कश्चिद् विलक्षण इत्य् अर्थः । यदृच्छया केनापि भाग्योदयेन । शयानम् उरग इति पद-द्वयम् ज्ञाने हेतुः । तत्र शयानम् इति पूर्वस्यां रात्रौ जगरणोपवासादीना श्रान्तेर् निर्भर-निद्राणम् इत्य् अर्थः । उरगा-गमनं च यात्रिक-लोकापगमेन निर्जन-प्रायत्वात् अग्रसीत् चरणयोर् ग्रसितुं प्रवृत्तः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महान् अजगरः । उरसा गच्छतीत्य् उरग इत्य् अलक्षितत्व-ज्ञापनार्थं विशेषणम् ॥५॥


॥ १०.३४.६ ॥

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् ।

सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स नन्दः । वीप्सा त्रासात् । कृष्ण क्लेश-कर्षक ! तात इति स्नेहात् । तथा मे मृति-त्रासो नास्ति किं तु त्वद् वियोगाद् एव यथेति भावः । महा-नित्य-प्रतिकार्यता-बोधकः । प्रकर्षेण आपन्नं विपद्-ग्रस्तम्, वृद्धत्वेन पाल्यत्वात्, शरणागतं वा ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ग्रस्तो ग्रस्यमानः ग्रस्तः, एवं वीप्सा त्रासात् स्नेह-भराद् वा । महान् इत्य् आत्मना दुष्प्रतिकार्यत्वम् उक्तम्, श्लेषेण विद्याधर-श्रेष्ठतया वैष्णवत्वं सूचितम् । तात इति स्नेह-भराद् एव, अतो मे मरणाद् दुःखं नास्ति, किन्तु तद्-वियोगाद् एवेति भावः । अतः प्रपन्नं भक्तं शरणागतं वेति विनयेनार्ति-भरेण वा, परितः सर्व-मङ्गलतया मोचय अस्मत्-सुख-त्याजनेन सर्वाङ्गानिराकृत्यतया मोचयेत्य् अर्थः, अन्यथा अजगर-ग्रस्ताङ्ग-रक्षानुद्भवात् । अत एव तत्रैव मोचयिष्यते ।

श्लेषेण, तात ! त्वत्-पितरं मां प्रपन्नम् एतं शापाद् विमोचय, ततश् च ममापि स्वत एव परिमोचनं सिध्येद् इति ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ग्रस्तः पदयोर् एव । वीप्सा त्रासात् । तात इति स्नेह-भरात् अतो मे मरणात् त्रासो नास्ति, किन्तु त्वद्-वियोगाद् एवेति भावः । त्रासाद् एवाह प्रपन्नं शरणागतं वृद्धत्वेन पुत्रस्य तव पालनीय-वृन्द-गतं व परि सर्वतो भावेन तव मम कस्यचिद् अन्यस्य च क्लेशं विनैव मोचय महा-नित्यात्मना दुष्प्रतिकार्यत्वं । तस्य शीघ्रागमन-प्रार्थनं च निवेद्यते । इदं च कालिय-दमनादि-दृष्ट्येति ज्ञेयम् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चुक्रोश इति । अनेन सर्व-दुर्गाणि [भा।पु। १०.८.१६] इति गर्गोक्तिम् अनुस्मृत्य इति भावः ॥६॥


॥ १०.३४.७ ॥

तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः ।

ग्रस्तं च दृष्ट्वा सम्भ्रान्ताः2 सर्पं विव्यधुर् उल्मुकैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विव्यधुस् ताडयामासुः । उल्मुकैर् ज्वलत्-काष्ठैः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य नन्दस्य । आक्रन्दितम् अर्ति-शब्दम् । साहसा शीघ्रम् ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आक्रन्दितं करुण-दीर्घ-स्वरम् आक्रोशनम् एव वा । गोपाला इति तद्-एक-परत्वं दर्शितम्, तस्य वल्लवेन्द्रत्वात् । अत एव सहसा सहसेत्य् अस्य पूर्वेणैवान्वयः । अकस्मात् श्रुत्वा । च-काराभ्यां श्रवण-दर्शनयोः प्राधान्येन द्वयोर् अप्य् एक-कालीनत्वं, तेन च तेषां सावधानत्वं बोधितम् । सुखं तन्-मोचनादिकं सर्वम् एव कर्तुं समर्थानाम् अपि केवलम् उल्मुकैर् एव । व्यधने हेतुः—सम्भ्रान्ताः सम्भ्रमाकुला इति ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आक्रन्दितं करुण-दीर्घ-स्वरं । -काराभ्यां श्रवण-दर्शनयोः प्राधान्येन द्वयोर् अप्य् एक-कालीनत्वं । तेन च तेषां सावधानत्वं बोधितम् । अजगरस्य ग्रस्तापरित्याग-स्वभावाशङ्कया परम-दुःसहैर् विशेषतस् तिर्यग्-जाति-भीषणैर् उल्मुकैर् एव विव्यधुः हस्ताभ्यां ध्रियमाणैस् तैस् तद्-अवराङ्गे ताडयामासुः संभ्रान्तास् त्वरान्विताः । पाठान्तरे "विभ्रान्ताः" उद्विग्नाः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उल्मुकैर् ज्वलत्-काष्ठैः ॥७॥


॥ १०.३४.८ ॥

अलातैर् दह्यमानो\ऽपि नामुञ्चत् तम् उरङ्गमः ।

तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अलातैर् एवोल्मुकैः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अलातैः उल्मुकैः, तेषाम् एव तिर्यग् योनि-भीषणत्वात् । तं नन्दम् । तं सर्पम् । अभ्येत्य आगत्य सङ्कोचेन वृद्ध-सङ्गाद् दूरे वयस्य-वर्गात् सम्भ्रमेण पितृ-सन्निधौ प्राप्य पाद-स्पर्श-मात्रेणैव नन्दं सर्पाकारं चामुञ्चत्भगवान् अचिन्त्य-शक्तिस् तयैव सर्वं कर्तुं समर्थः सैरन्ध्री-वायकादिषु दृष्टत्वात्, पाद-स्पर्शस् तु सम्भ्रमाद् एवेति ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पदा वाम-श्री-चरणाग्रेण अस्पृशत् । अब्जत्वादि-रूपकाप्रयोगः शितलत्व-कोमलत्वादि-गुण-नैरपेक्ष्येण केवलम् ईषत्-स्पर्श-मात्र-विवक्षया। एवम् अग्रेऽपि । दर्शन-मात्रेण शुभानुध्यान-मात्रेणैव वा अजगराच् छ्री-नन्दस्य, तस्य च ब्रह्म-शापाद् विमुक्तिः स्यात्, तथापि श्री-पदाब्जेन स्पर्शनं कोप-पूर्वक-पाद-प्रहर-च्छलेन, वस्तुतश् च श्री-नन्द-पाद-ग्रहण-भक्ति-दृष्ट्या कारुण्येन निज-भक्ति-प्रदानार्थम् इति ज्ञेयम् । तच् चाग्रे व्यक्तं भावि । अभ्येत्य अभिमुखम् आगत्येति सङ्कोचतो वृद्धानां परित्यागेन निज-वयस्य-वर्ग-सङ्गे दूरे वासात् । भगवान् निजैश्वर्यं प्रकटयन्न् इत्य् अर्थः ।

ननु, गूढैश्वर्यत्वम् एव तत्रोचितम्, तत्राह—सात्वतां भक्तानां पतिः पालकः, श्री-नन्दस्य रक्षार्थं स्नेहातिशयात् तन् नापेक्षितम् इति भावः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कोचाद् बद्धानां सङ्ग-परित्यागेन निज-वयस्य वर्ग-सङ्गे दूरे वासात् तद्-अनन्तरम् एव अभ्येत्य पितृ-स्नेहमय-लीलावेशेन सम्भ्रमाद् आभिमुख्येनागत्य तं दीर्घ-पुच्छं पदास्पृशद् एव, न तु जघान । स्पृष्टस्य तातस्य स्वयं पादेन स्पर्शस्याप्य् अनौचित्येन बुद्धि-पूर्वकत्वाभावात् । प्रकारान्तरतोऽपि तच्-छाप-विमोचन-सामर्थ्यात् ब्रह्म-दण्डाद् विमुक्तोऽहं सद्यस् तेऽच्युत-दर्शनाद् इति वक्ष्यमाणाच् च अबुद्धि-पूर्वकत्वेऽपि तत्-तत्-सम्बोधनासिद्धौ हेतुर् भगवान् स्वभावत एव सर्व-शक्त्य्-आश्रयः । अथ सात्वतां पतिः सर्व-भक्त-पालकश् चेति । तद् एवं पूतनायाः सद्-वेष-ग्रहणवत् यथा कथञ्चिद् भक्त्या तद्-अस्पर्शोऽपि तत्-पाद-स्पर्श-फल-पर्यवसान इति बोधितम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्पृशन् न तु जघान । स्पृष्टस्य जनकस्य तस्य स्वयं स्वयं पाद-स्पर्शानौचित्येन बुद्धि-पूर्वकत्वाभावात् ॥८.१५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अलातैस् तैर् एव ॥८॥


॥ १०.३४.९ ॥

स वै भगवतः श्रीमत्- पाद-स्पर्श-हताशुभः ।

भेजे सर्प-वपुर् हित्वा रूपं विद्याधरार्चितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विद्याधरेष्व् अर्चितं पूजितम् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः सर्पः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सोऽजगरः । वै प्रसिद्धम् एवैतद् इत्य् अर्थः । भगवतः कारुण्याद्य्-अशेष-निज-गुणात् प्रकटयतः श्रीमतः सर्व-सल्-लक्षण-शोभा-युक्तस्य पादस्य स्पर्शेन हतान्य् अशुभानि बहुल-जन्म-सञ्चिताशेष-पापानि । किं वा, अशुभं कथञ्चिद् अप्य् अप्रतिकार्यं महद्-अपराध-लक्षणं यस्य सः । अत एव पुनर्-उक्ततयैव श्रीमत्-पाद-स्पर्शस्य साक्षान्-निर्देशः । तत्र श्रीमद् इति रूप-विशेष-सम्पादन-हेतुतया विद्याधरेषु तैर् वा अर्चितं सुदुर्लभम् इत्य् अर्थः । इति पूर्वतोऽपि रूप-विशेष-प्राप्तिः सूचिता ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्धम् एवैतद् इत्य् अर्थः । भगवतोऽशेष-निज-प्रभावान् प्रकटयतः श्रीमतः सर्व-माधुर्य-सम्पत्ति-युक्तस्य पादस्य स्पर्शेन तत्-स्वभावेन हतान्य् अशुभानि महद्-अपराध-लक्षणान्तानि बहु-जन्म-सञ्चितान्य् अशेष-पापानि यस्य सः । अत्र श्रीमद् इति कैमुत्य-व्यञ्जकम् अत एव गौरवेण श्रीमत्-पाद-स्पर्शेत्य् एव पुनर् उक्तम् । न तु तत्-स्पर्श इति मात्रम् । अत एवेदम् अपि न चित्रम् इत्य् आह—भेज इति । विद्याधरेषु तैर् वा अर्चितं सुदुर्लभम् इत्य् अर्थः । इति पूर्वोऽपि रूप-विशेष-प्राप्तिः सूचिता । अन्यत् तैः ।

अथवा श्लोक-द्वयम् एवं युज्यते । अलातैर् हन्यमानोऽपि य उरङ्गमस् तं श्री-नन्दं नामुञ्चत् तम् अभ्येत्य पदास्पृशद् इति । तेन स्पर्श-मात्रेणासाव् उरङ्गमस् तम् अमुञ्चद् इत्य् अवगम्यते । "प्रविश पिण्डीम्" इत्य् अत्रैवाकाङ्क्षा-लब्धत्वात् । भगवान् सात्वतां पतिर् इति पद-द्वयस्य सामर्थ्यात् । अन्यथा तथा परित्यज्य विद्याधरतां प्राप्ते तस्मिन् श्री-भगवतः पृच्छायाम् अयोग्यत्वाच् च । अन्यथा सोऽजगर कीदृग् आसीत् ? तत्राह—स वै इति । सर्प-वपुः सर्पाकारं रूपम् अप्य् आकारम् एव । तव हेतुः--श्रीमद् इति अशुभम् एव तस्य हतं, न तु वपुर् इति । तेनैव वपुषा विद्याधराकारं भेजे इत्य् अर्थः । अत्र चाचिन्त्य-शक्तिर् एव हेतुर् इत्य् आह--भगवतः । श्रीमद् इति वायक-सैरिन्ध्र्य्-आदिषु तथा दर्शनाद् इति भावः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्म-दण्डाद् इति तन्-मात्रेण सर्प-देहाध्यासनाच् च विवक्षया स वै भगवत इति तु तद्-देह-नाशादि-विवक्षया ॥१६.१९॥


बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विद्याधरार्चितम् इति तस्य विद्याधर-श्रेष्ठत्वात् ॥९॥


॥ १०.३४.१० ॥

तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् ।

दीप्यमानेन वपुषा पुरुषं हेम-मालिनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपेष्व् आत्मन ऐश्वर्यं प्रकाशयितुम् अविद्वान् इव तम् अपृच्छत्दीप्यमानेन वपुषा समवस्थितम् ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं त्यक्त-सर्प-वपुषं देव-विशेषम् ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृषिकेशः सर्वेन्द्रिय-प्रवर्तकत्वेन सर्वज्ञोऽपीत्य् अर्थः । प्रणतं कृत-प्राणामं सम्यग् बद्धाञ्जलित्वादिना अवस्थितं वपुषा विशिष्टं पुरुषं पुरुषाकारं सत्-पुरुष-लक्षण-युक्तम् इति वा, हेम-स्रग्-युक्तम् । यद् वा, हेम्नो माला पङ्क्तिस् तद्वन्तं सौवर्ण-किरीट-कुण्डलादि-दिव्य-भूषण-भूषितम् इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृषिकेशः सर्वेन्द्रिय-प्रवर्तकत्वेन सर्वज्ञो\ऽपीत्य् अर्थः । प्रणतं कृत-प्रणामं सम्यक् बद्धाञ्जलित्वादिना अवस्थितं दीप्यमानेन वपुषा उपलक्षितं पुरुषं पुरुषाकारं हेम-स्रग्-युक्तम् । यद् वा, हेम्नो माला पङ्क्तिः तद्वन् तं सौवर्ण-किरीट-कुण्डलादि-दिव्य-भूषण-विभूषितम् इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् अपृच्छद् इति । बहु-ग्राम-नगरेभ्य आगतान् यात्रिकान् अपि लोकान् ब्राह्मणान् आदरतो भीषयितुम् इति भावः । अत एव हृषीकेशस् तत्रत्य-जनान् सर्वान् एव सुदर्शनोक्ताव् एकाग्री-कारयन् ॥१०॥


॥ १०.३४.११ ॥

को भवान् परया लक्ष्म्या रोचते\ऽद्भुत-दर्शनः ।

कथं जुगुप्सिताम् एतां गतिं वा प्रापितो\ऽवशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यः परया शोभया प्रकाशते भवान् क इति ॥११.१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतां सर्प-रूपाम् । जुगुप्सितां गर्हिताम् । गतिं दशां--गतिः स्त्री मार्ग-दशयोर् ज्ञाने यात्राभ्युपाययोः । नाडी-व्रण-सरण्योश् च इति मेदिनी । वेति पक्षान्तरे । अवशः कर्म-वशतः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शुभं सुन्दरं सुखकरं वा दर्शनं दृश्यत इति रूपं सन्दर्शनम् एव वा यस्य स भवान् कः ? कथं कस्माद् धेतोर् वा एताम् आजगरीं गतिं योनिं प्रापितः ? केन कथं केन प्रकारेणेत्य् एतद् एव वा कर्तृ । अवशो बलाद् इत्य् अर्थः । अन्यथा एतादृशस्य ईदृश-गत्य्-असम्भवट्, तद्वद् इति शेषः । प्रश्नाभिप्रायस् तैर् व्यञ्जित एव । तत्र च गोपेष्व् आत्मैश्वर्य-प्रकाशनं स्नेह-विशेष-दार्ढ्यार्थम् एवेति । एवं पूर्वापर-प्रसङ्गयोः सुश्लिष्टतोह्या । यद् वा, तेषां परम-सुन्दराणां गोपानां श्री-मधुपुर्यादि-गमनेन तपः-कार्श्याद् विरूपेषु मुनिषु कदाचिद् अपराधम् आशङ्क्य तन्-निरसनाय पृष्टम् इति ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शुभं सुन्दरं दर्शनं रूपं यस्य स भवान् । "अद्भुत-दर्शनः" इति वा पाठः । कथं कस्माद् धेतोर् वा एताम् आजगरीं गतिं प्रापितः, केनेति शेषः । अवशः इच्छा-रहितः । वश कान्तौ बलाद् इत्य् अर्थः । अन्यथा एतादृशस्यैतादृश-गत्य् असन् भवाद् इति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रापित इति । केन इति शेषः ॥११॥


॥ १०.३४.१२ ॥

सर्प उवाच—

अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः ।

श्रिया स्वरूप-सम्पत्त्या विमानेनाचरन् दिशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रुतः प्रसिद्धः । श्रिया दीप्त्या । स्वरूप-सम्पत्त्या स्व-पूर्व-देहावाप्ति-लक्षणया । अग्रिमेण ग्राह-समिति-क्रिया-पदेनान्वयः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कशिद् एक इति विनयेन, श्लेषेण सर्व-श्रेष्ठ इत्य् अर्थः । सुशोभनं दर्शनं रूपं यस्येत्य् अन्वर्थ-संज्ञाभिप्रेता, श्रुतो विश्रुतः, श्रिया शोभया, स्वस्य रूपेण सौन्दर्येण, सम्पत्त्या च विभूत्या । यद् वा, स्वस्य रूपेण सम्पत्तिः सम्पन्नता यस्यास् तया श्रिया विशिष्टः, पूर्वेणैवान्वयः । दिशोऽचरम्, इतस् ततः क्रीडया भ्रमन्न् आसम् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तत् स्पर्श-प्रभावेण तस्य भक्तिर् अप्य् उत्पन्नेति तद् वाक्य-द्वारा व्यञ्जयितुम् आह । सर्प उवाचेति । अत्र च सर्पता-निर्देशः पूर्वंवच् छरीराभेदापेक्षया । कश्चिद् इति विनयेन श्रुतः संज्ञातः स्वस्य रूपेण सम्पत्तिः सम्पन्नता यस्यास् तया श्रिया शोभया विशिष्टः । दिशोचरम् इतस् ततः क्रीदाया भ्रमन्नासम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रुतः विख्यातत्वात् । सर्व-लोकैर् एव । दिशोऽचरम् इतस् ततः क्रीडया भ्रमन् आसम् ॥१२॥


॥ १०.३४.१३ ॥

ऋषीन् विरूपाङ्गिरसः प्राहसं रूप-दर्पितः ।

तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राहसम् उपहसितवान् अस्मि । प्रलब्धैर् उपहसितैः । मदीयेनैव पापेन निमित्तेन ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैः ऋषिभिः । विरूपान् सौन्दर्य-रहितान् । अङ्गिरसः अङ्गिरसो वंश्यान् । सौन्दर्ये च स्वभावे च रूप-शब्दं प्रचक्षते इति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विरूपान् स्वभावत एव विकृताकारान्, विशेषतश् च तपसा कार्श्य-मालिन्य-धमनि सन्तति-व्याप्तान् इत्य् अर्थः । अङ्गिरसस् तद्-वंश्यान्, रूपेणैव दर्पितो जनित-गर्वः, प्रलब्धैर् इति उपहास-भरैर् व्याप्तिर् अभिप्रेता, तथापि न क्रुद्धैः सद्भिर् इति भावः । किं च, स्वेन पाप्मना इति तेषां दोषः परिहृतः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विरूपान् विकृताकारान् तपसा च कार्श्यादि-व्याप्तान् इत्य् अर्थः । अङ्गिरसस् तद्-वंश्यान् । प्रलम्भे हेतुः--स्वेन एव पाप्मना इति । यद् वा, तैर् यत् प्रापितस् तत् स्वेनैव पाप्मनेति तेषां दोषः परिहृतः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रलब्धैर् उपहसितैर् मदीयेन एव पापेन निमित्तेन ॥१३॥


॥ १०.३४.१४ ॥

शापो मे\ऽनुग्रहायैव कृतस् तैः करुणात्मभिः ।

यद् अहं लोक-गुरुणा पदा स्पृष्टो हताशुभः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यतः शापात् ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तैः अङ्गिरोभिः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं नाम वक्तव्यो महतां प्रभावः, येन मम दुष्कृतम् अपि परम-सुकृततां नीतम् इत्य् आशयेनाह—शाप इति । करुणात्मभिः कृपा-शीलैः, इत्य् अपराधाग्रहणं दीनोद्धार-व्यग्रत्वं च दर्शितम् । एतेन श्री-मथुरा-मण्डले जन्म वासं च लभस्व, तत्-प्रभावेण तत्र श्री-कृष्ण-पादाब्ज-स्पर्शात् ते परम-मङ्गलं भावीति तैर् उक्तम् इति ज्ञेयम् ।

अन्यथा तस्य तस्य तादृश-भाग्यासिद्धिः, अतोऽनुग्रहायैव शापः कृतःलोक-गुरुणा जगदीश्वरेण भवता इति सुदुर्लभत्वम् उक्तम् । तत्रापि पदा श्री-चरणेन । यद् वा, लोकेषु सर्व-जीवेषु सर्व-भुवनेषु वा मध्ये गुरुणा श्रेष्ठेन । किं वा, तेषां परम-पूज्येन पदा, तवेत्य्-आद्य-निर्देशः परम-गौरवादिना स्पृष्टत्वाद् एव दर्शनाद् एव वा हताशुभः । यद् वा, अ-कार-प्रश्लेषेण अहताशुभोऽप्य् अहम् इति दैन्यात् पाशान् निःशेषेण मुक्तः सन् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो किं नाम वक्तव्यो महतां प्रभावो येन मम दुष्कृतम् अपि परम-सुकृततां नीतम् इत्य् आशयेनाह--शाप इति । करुणात्मभिर् इत्य् अपराधाग्रहणं दीनोद्धार-व्यग्रत्वं च दर्शितम् । एतेन तत्र श्री-कृष्ण**-पादाब्ज-स्पर्शात्** ते परम-मङ्गलं भावीति तैर् उक्तम् इति ज्ञेयम् । अतोऽनुग्रहायैव शापः कृतःलोक-गुरुणा जगदीश्वरेण भवतेति सुदुर्लभत्वम् उक्तम् । तत्रापि पदा श्री-चरणेन "पाद" इति क्वचित् पाठः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् यतः शापात् ॥१४॥


॥ १०.३४.१५ ॥

तं त्वाहं भव-भीतानां प्रपन्नानां भयापहम् ।

आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शाद् अमीवहन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वा त्वां आपृच्छे स्वं लोकं गन्तुम् अनुज्ञां याचे । हे अमीवहन् ! दुःख-नाशन ! ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं त्रैलोक्य-ग्रहम् । अमीवं पाप-दुःखयोः इति कोशात् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं दीन-बन्धुं परम-निस्तारकं त्वा त्वाम् आपृच्छे । ननु, स्व-लोकं गन्तुम् अनुज्ञां याचसे, कथं न मोक्षम् ? इत्य् आह—भव- इति, भवाद् भीतत्वेन प्रपन्नानाम् अपि भयम् अपहरति, दूरतो नाशयतीति तथा तम्, अतो जात्यैव सात्त्विकत्वेन त्वद्-भक्तानाम् अस्माकं कुतः संसार-भयम् ? प्रत्युत वाद्यादिना सहज-त्वत्-सेवया मोक्षाद् अपि सुख-विशेशः सम्पद्येतैवेति भावः । न चेतः प्रभृति परं किञ्चिद् अपि दुःखं महद् अपराधो वा शङ्क्येत इत्य् आह—पाद-स्पर्शाद् इति । अनेन अमीवस्य स-मूल-सर्व-परिकर-णाशोऽभिप्रेतः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, स्व-लोकं गन्तुम् अनुज्ञां याचसे कथं न मोक्षम् ? इत्य् अत्राह—भव- इति । भव-भीतत्वेन प्रपन्नानां मनसापि शरणागतानां तद् भयापहम् । अस्माकं तु साक्षात् प्राप्त-परम-भक्ति-निदान-पाद-स्पर्शानां स्वत एव स इति भावः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आपृच्छे स्व-लोकं गन्तुम् अनुज्ञां याचे । अमीव-हन् ! दुःख-हन्तः ! ॥१५॥


॥ १०.३४.१६ ॥

प्रपन्नो\ऽस्मि महा-योगिन् महा-पुरुष सत्-पते ।

अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुजानीहि अनुज्ञां देहि ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किन्तु यत्र कुत्रापि स्थितौ त्वत्-प्रेम-भजनम् एव याच इत्य् आशयेनाह—प्रपन्न इति । त्वाम् आश्रितोऽहं प्रपन्नोऽस्मि इति पाथेऽपि स एवार्थः ।

ननु, तत् सुदुर्लभम् इति चेत् तत्राह—महा-योगिन् ! हे अनन्ताचिन्त्यैश्वर्य-युक्त ! कुतः ? महा-पुरुष ! हे परमेश्वर ! त्वत्-प्राभावान् किञ्चिद् दुर्लभम् इत्य् अर्थः । विशेषतश् च हे सतां पते ! भक्तानां पालक ! यद् वा, संश् चासौ पतिश् चेति हे पालकोत्तम ! तत्रापि कृष्ण ! हे अशेषैश्वर्य-प्रकटनायावतीर्ण ! भगवन् ! अतः प्रपन्न-मनोरथ-परिपूरणं तवोचितम् एवेति भावः ।

अथवा प्रपन्नानां भयापहम् [१०.३४.१५] इत्य् उक्तम् । तत्रात्मनः प्रपत्तिम् अनालोच्य स्तुवन् प्रपद्यते—प्रपन्न इति । प्रपत्तेर् हेतवः—महा-योगिन् ! इत्य् आदयः, अतोऽधुना माम् अनुजानीहि मल्-लोक-गमनायाज्ञां देहि ।

नन्व् अत्रैव निज-सेवया स्थीयताम्, तत्राह—कृष्ण ! नराकार-पर-ब्रह्मन् ! इति मम देवत्वेन विसदृशत्वाद् अत्र स्थातुं योग्यता नास्तीति भावः । किं च, स लोकोऽपि त्वदीय एवेत्य् आह—हे सर्व-लोकेश्वर ! इति । किं च, ईश्वरेण त्वया दत्तं कर्म-फलम् अवश्यम् एव भोक्तुम् अपेक्षय इति । किं वा, कर्म-फल-दात्रान्तर्यामिणा त्वया तत्रैव प्रेर्योऽहं । तत्र किं कर्तुं शक्नुयाम् ? इत्य् आह—हे ईश्वर ! इति । यद् वा, सर्वेषां लोकेश्वराणां ब्रह्मादीनाम् अपीश्वर इतीन्द्र-भृत्योऽहं त्वद्-अन्तिकेऽत्र स्थातुं नार्हामीति भावः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किन्तु यत्र कुत्रापि स्थितौ त्वत्-प्रपत्तिर् एव ममाभीष्टेत्य् आह—प्रपन्न इति । "त्वाम् आश्रितोऽस्मि प्रपन्नोऽहम्" इति पाठेऽपि स एवार्थः ।

ननु, सा सुदुर्लभेति चेत्, तत्राह—महा-योगिन् ! हे अनन्ताचिन्त्यैश्वर्य-युक्त ! कुतः ? महा-पुरुष ! हे परमेश्वर ! त्वत्-प्रभावान् न किञ्चिद् दुर्लभम् इत्य् अर्थः । विशेषतश् च हे सतां पते ! पालक ! ततोऽङ्गिरसाम् अङ्गीकारम् अङ्गीकुर्या एवेति भावः । तत्रापि हे कृष्ण ! हे पूतनादीनाम् अपि भक्त-पद-प्रद ! इत्य् अर्थः । अतः प्रपन्न-मनोरथ-परिपूरणं तवोचितम् एवेति भावः । "देव" इति पाठे हे विचित्र-क्रीडा-कौतुक-प्रधान ! एतादृशाधमोद्धरणम् अपि तव क्रीडासु योग्यम् इति भावः । अतः कृतार्थत्वाद् अधुना माम् अनुजानीहि मल्-लोक-गमनायाज्ञाम् एव देहि ।

ननु, मत् प्रपत्तीच्छा-लोकान्तर-गमनेच्छा चेति विरुद्धम् इत्य् आशङ्क्य स लोकोऽपि त्वदीय एवेत्य् आह--हे सर्व-लोकेश्वर ! इति । किं च, कर्म फल-दात्रान्तर्यामिणा त्वया तथैव प्रेर्योऽहं तत्र किं कर्तुं शक्नुयाम् ? इत्य् आह—हे ईश्वर ! इति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


प्रपन्नो\ऽस्मि महा-योगिन् महा-पुरुष सत्-पते ।

अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर ॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे महा-योगिन् ! क्वाहम् अधुनैव महा-खल-सर्पस् त्वत्-पितरम् अग्रसम् । क्वाहम् अकस्माद् अधुनैव लब्ध-सद्-विवेकस् त्वां स्तौमीत्य् अचिन्त्यं तव योगैश्वर्यम् इति भावः । महा-पुरुषाणां श्रीमन्-नन्दादीनां साधूनां पते इति सर्प-देहान् माम् अमोचयः स्वीयान् एतांश् चापालय इत्य् अपारं तव कृपा-वैभवम् इति भावः । अनु अनुचरम् एव मां जानीहि ॥१६॥


॥ १०.३४.१७ ॥

ब्रह्म-दण्डाद् विमुक्तो\ऽहं सद्यस् ते\ऽच्युत दर्शनात् ।

यन्-नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च ॥

सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्म-दण्डात् ब्रह्म-शापात् । गृह्नन्न् उच्चरन् । तस्य अखिल-पावन-कर्तुः । यदि पदा स्पृष्टः पूतो भवेत्, तर्हि भूयः पुनः किं वक्तव्यम् ? इति कैमुत्यं सूचितम् । सार्धेनान्वयः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्वन्-माहात्म्यं चाधुना मयैव विशेषतोऽनुभूतम् इत्य् आह—ब्रह्म इति, अनेन दुष्परिहरत्वम् उक्तम् । अच्युत ! भोः कथम् अपि कस्माच्चिन् माहात्म्याच् च्युति-रहित ! किं वा, हे गोकुल-कृत-स्थिर-वास ! तव दर्शनाद् एव सद्यो विशेषेण उत्कृष्ट-प्रकारेण मुक्तोऽहम्, वि-शब्दार्थः पूर्वम् उद्दिष्ट इति पादाब्ज-स्पर्शात् प्राग् एव विमुक्तिर् ज्ञेया, तथापि पादाब्जेन स्पर्शनं भक्ति-विशेष-सम्पादक-सद्-बुद्ध्य्-आदि-विस्तारणार्थम् इत्य् उक्तम् एव । "विनिर्मुक्तम्" इति श्री-चित्-सुख-सम्मत-पाठः, विशेषतश् च तवैतन्-माहात्म्यं त्वद्-भक्तानां श्री-ब्रह्मादीनाम् अग्रे गत्वा कीर्तयेयम् इत्य् एतद् अर्थम् अनुजानीहीति भावः ॥

किं च, त्वत्-पादाब्जेन साक्षात् स्पृष्टोऽहं स्व-लोक-वर्तिनोऽन्यान् गत्वा स्पर्शेन कृतार्थयामीत्य् आशयेनाह—यन्-नाम इति । नामैकम् अपि गृह्नन् उच्चारयन्न् अपि, इति तत्र श्रद्धाद्य्-अपेक्षा निरस्ता । गृह्नन्न् इति वर्तमानत्वेन सम्पूर्णतापेक्षा । अखिलान् इति अधिकाराद्य्-अपेक्षा, सद्य इति कालापेक्षा च, श्रोतॄन् इति केवल-प्राप्तिर् एवाभिप्रेता, अप्य् अर्थ एव, आत्मानम् अपीति दृष्टान्तत्वेन ज्ञेयम् । ततश् च श्रवण-कीर्तनयोर् अविशेषोक्त्या माहात्म्य-विशेषः सूचितः । -कारेण तत्-तत्-सम्बन्धिनोऽपि, तस्य ते पदा स्पृष्टः सन् भूयोऽधिकं यथा स्यात् तथा सर्वान् एव तान् । हि निश्चितं पुनाति इति किं वक्तव्यम् इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वन्-माहात्म्यं चाधुना मयैव विशेषतोऽनुभूतम् इत्य् आह—ब्रह्म- इत्य् अर्धकेन । दर्शन-मात्रेण सर्पाकाराध्यासो गतः चरण-स्पर्शेन तु सर्वाकारतैव विद्याधराकारतां प्रापेति भावः । "विनिर्मुक्तम्" इति श्री-चित्सुख-सम्मतः पाठः । तत्र पूर्वेणान्वयः । किं च, त्वत्-पादाब्जेन साक्षात् स्पृष्टोऽहं स्व-लोक-वर्तिनोऽन्यान् गत्वा स्व-स्पर्शेन कृतार्थयिष्यामि किम् उतात्मानम् इत्य् आशयेनाह—यन्-नाम इति । नामैकम् अपि गृह्णन् उच्चारयन्न् अपीति श्रद्धाद्य्-अपेक्षा निरस्ता । गृह्नन्न् इति वर्तमानत्वेन सम्पूर्णत्वापेक्षा, अखिलान् इति अधिकाराद्य्-अपेक्षा, सद्य इति कालापेक्षा च, श्रोतॄन् इति केवल-श्रवण-प्राप्तिर् एवाभिप्रेता । इवार्थे एव, आत्मानम् इवेति दृष्टान्तत्वेन श्रवण-कीर्तनयोर् अविशेषोक्त्या माहात्म्य-विशेषः सूचितः । -कारेण तत्-तत्-सम्बन्धिनोऽपि तस्य पदा स्पृष्टः सन् भूयोऽधिकं यथा स्यात् तथा सर्वान् एव तान् हि निश्चितं पुनाति इति किं वक्तव्यम् इत्य् अर्थः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दर्शनाद् एव विमुक्तः किम् उत पदा स्पृष्टःनाम एकम् अपि गृह्णन् यः कोऽपि किम् उताहं दर्शन-स्पर्शवान् अपि ॥१७॥


॥ १०.३४.१८ ॥

इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च ।

सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थं सम्श्लाघ्य । दाशार्हं श्री-कृष्णम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति उक्त-प्रकारक-विज्ञापनेनानुज्ञाप्य "मौनं सम्मति-लक्षणम्" इति न्यायेन, विशेषतश् च सर्व-लोक-हितार्थः । अत एवोक्तं दाशार्हम् इति, वस्तुतस् तु समुद्र-कोटी-गम्भीरत्वादि-निजैश्वर्य-विशेष-प्रकटन-परस्य, अत एव तादृश-स्तुति-प्रणति-पर-श्री-चतुर्मुखं प्रत्य् अप्य् अकृत-संलापस्य मे क एतं प्रति तद् अवकाशः, प्रश्नश् च केवलं श्री-गोपानां हितार्थम् एव कृत इत्य् अभिवन्द्याष्टाङ्गं प्रणम्य, -काराच् छ्री-नन्दादीन् अपि । सुदर्शन इति सौन्दर्य-विशेष-सम्पत्तेः । किं वा, साक्षाच् छ्री-नन्द-नन्दन-सन्दर्शनेन सुदृष्टि-सिद्धेः । ततश् च सुशोभनं दर्शनं दृष्टिर् यस्येत्य् अर्थः । अत एव कृच्छ्राद् दुःसह-तद्-विरह-दुःखेनैव दिवं यातः, नन्दश् च तन्-मोचनाद् एवानायासेन तस्मान् मोचितः । यद् वा, कृच्छ्रात् सर्प-कवलन-दुःखात्, श्री-नन्दश् च मोचितः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुज्ञाप्य "मौनं सम्मति-लक्षणम्" इति न्यायेन पाद-स्पर्श-प्रभाव-मात्रतः सर्प-कवल-शैथिल्यापादनेन कृच्छ्राद् अपादानात् श्री-नन्दश्मोचितः श्री-कृष्णेनेति पूर्व-सूचितार्थ एवात्र स्पष्टी-क्रियते उभयोर् अपि मङ्गलं कृतम् इति बोधनाय अत एव -शब्दश् च । तम् अमोचयित्वा विद्याधरेण सङ्कथनं न युक्तम् इति ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


॥ १०.३४.१९ ॥

निशाम्य कृष्णस्य तद् आत्म-वैभवं

व्रजौकसो विस्मित-चेतसस् ततः ।

समाप्य तस्मिन् नियमं पुनर् व्रजं

नृपाययुस् तत् कथयन्त आदृताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् विद्याधर-वर्णितम् । आत्मनः स्वस्य वैभवं स्वाभाविकैश्वर्यम् । तस्मिन् श्री-कृष्ण एव । नियमं व्रतादि--नियमो मन्त्रणायां च प्रतिज्ञा-निश्चये व्रते इति मेदिनी । समाप्य समर्प्य एतस्मिन् नार्चिते सर्वेऽर्चिताः स्युः सर्व-मूलत्वात् । मूले सिक्ते शाखादि-सेकवत् । विस्मित-चेतस इति "अहो अयम् एव साक्षात् परमेश्वरः, यथा गर्ग-मुखात् प्रथमं श्रुतं । तथैव वरुणाद् अपि तद् एवाधुना विद्याधरेणाष्व् उक्तम् । अतो वयम् अप्य् एतत्-सम्बन्धेन धन्या एव" इ ति चिन्तितवन्तः । ततः अम्बिका-वनात् । तत् कृष्ण-वैभवम् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् सुदर्शनेनोक्तम् आत्म-वैभवं स्वरूप-वैभवम् । यद् वा, आत्मन आत्मीयम् असाधारणं निजं वा, तदीयताभिमानेन तदीय-सर्वस्य आत्मीयत्वेनैव मननात्, यद् वैभवं माहात्म्यं तन् निशाम्य विस्मित-चेतसः सन्तः । यद् वा, तत् सुदर्शन-मुखान् निःसृतम्, यतो व्रजौकसस् तत्-प्रेम-भर-विवशतया पूर्वापरानुसन्धानाशक्ता इत्य् अर्थः । यद् वा, अ-कार-प्रश्लेषेण निशम्याप्य् अविस्मित-चेतसः, सदा बहुधा साक्षात् तन्-महा-वैभवावल्य्-अनुभवात्, ततः सुदर्शन-यानानन्तरं तस्मिन् वने नियमं व्रतं त्रिरात्र-तीर्थ-वासात्मकं समाप्य पारणां कृत्वा । नृप ! इति हर्षेण सम्बोधनम् ।

यद् वा, भवादृशा यथा नॄन् पान्ति, तथा तेऽपि तत्-कथनेन सर्व-लोकान् अरक्षन्न् इति भावः । आययुर् इति श्री-माथुर-व्रज-भूमेर् उत्तरस्यां दिशि क्रोश-सप्ततितमीये गङ्गातीरे श्री-वादरायणेस् तथा कथनाद्-व्रजस्य तस्याग्नेय्यां तद् वनम् इति बोधयति । यद् वा, भाव-विशेषेण तस्यात्मनो व्रज-वर्तित्वाभिमानात्, गुर्जर-देशस्थाम्बिका-वनाद् आययुर् इति केचित् । तद् अनुभूतं तत्रत्य-वृत्तं वैभवम् एव वा । आदृताः श्री-कृष्णेन श्री-नन्देन वा सम्मानिताः । किं वा, सादराः, ततः इति भक्ति-विशेषो विवृद्ध इवेति भावः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्म-वैभवं स्वरूप-वैभवं कुतोऽपि विद्यादि प्राप्त्यैव नर-लोकात् । विस्मये हेतुः--व्रजौकसः तत् प्रेम-भर-विवशतया मुहुर् दृष्टम् अपि तादृशत्वम् अनुसन्धातुम् अशक्या इत्य् अर्थः । नियमं शिव-रात्र-तीर्थ-वासात्मकम् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विस्मित-चेतस इति । "अहो योऽयम् अस्माकं बाल्य एवास्मान् विना क्षण-मात्रम् अपि न निर्वृणोति, स एव कृष्णः किं परमेश्वरः ? एवं चेद् एतत् पित्रादयो वयम् अपि महा-पुरुषा एव भवामेति । धन्यो गर्गमुनिर् येन प्रथमत एवास्य नारायण-साम्यम् उक्तम् । तथैव वरुणस्यास्य च विद्याधरस्य मुखाद् अश्रौष्म" इति भावः ॥१९॥


॥ १०.३४.२० ॥

कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः ।

विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अहि-देहं निहत्यैवं प्राग् उन्मत्तं सुदर्शनम् ।

तद्वद् उन्मादिनं कृष्णं शङ्खचूडम् अताडयत् ॥

तत्-प्रसङ्गम् आह—कदाचिद् इति ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कथान्तरम् आह—कदाचिद् इति । अथ नन्द-मोचनोत्तरम् । कदाचित् कालान्तरे ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कदाचिद् अथ गोविन्दअथ एतस्य रास-विलासस्यानन्तरं कदाचिद् गोविन्दः कदाचिद् रामश् च विजह्रतुः । एकयोक्त्या द्वि-वचनम्, न तु कालस्यैकत्वे स्थलस्यैकत्वे च, कदाचित् सूर्यः कदाचित् चन्द्रस् तमांसि नाशयत । किम्-भूतौ ? व्रज-योषितां मध्यगौ । गोविन्दः स्व-परिग्रहाणां मध्यगः रामश् च स्व-परिग्रहाणाम् इत्य् अत्राप्य् एकयोक्त्या द्विवचनम् । एवम् उत्तरम् उत्तरत्रापि ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पितरं प्रति स्नेह-विशेष-प्राकट्यं कृत्वा व्रजं प्रति प्राकट्यं चाकरोद् इत्य् आह—कदाचिद् इत्य्-आदिना यावत्-समाप्ति । अथ श्री-नन्द-मोचनानन्तरं कदाचिद् वसन्ते3 गोविन्दो गोप-चूडामणित्वेन रसिक-शिरोमणिर् इत्य् अर्थः, रमयति सुखयति तथा प्रेयसीः प्रति सख-विशेषेण कृष्णम् इति रामः, इति व्रजे सख्यस्यैव प्राधान्यम्, न त्व् अग्रजत्वस्य, अतः सुख-विशेषार्थ-प्रयोजन-विशेषार्थं च तस्य तत्र नयनम् इति सूचितम् । तच् चाग्रे व्यक्तं भावि, अत एव तस्य गौणत्वात् पश्चान् निर्देशः, अन्वाचये -कारः । अद्भुतोऽलौकिको विक्रमश् चरितं यस्य सः । इदं द्वयोर् अपि विशेषणम् । यद् वा, रामस्यैव विशेषणम्, शङ्खचूड-वधाय दूरगे कृष्णे व्रज-सुन्दरीणां रक्षाकरणात्।

ननु, ताः कथं तत्र समागताः ? इत्य् अपेक्षायाम् आह—मध्यगौ ज्योत्स्नोज्ज्वल-वसन्त-रात्र्यां पुष्पाहरणाद्य्-अर्थम् उपवनोपमे श्री-वृन्दावने संहत्य गतानां व्रज-योषितां सहसा मध्यं गतौ सन्ताव् इति ।

ननु, तथापि कुतस् तास् तत्र स्थिताः ? तत्राह—व्रज-योषिताम् इति । व्रज-योषित्त्वम् एवात्रापि हेतुः, श्री-कृष्ण-प्रेम-भर-विशेषस् त्व् आसाम् इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ क्रम-प्राप्तं देव-योनि-मुक्ति-दान-रूपत्वेनात्मीय-रक्षा-रूपत्वेन च पूर्व-लीला-सदृशं पूर्व-विवक्षितं लीलान्तरम् आह--कदाचिद् इत्य्-आदिना यावत् समाप्तिः । अथ तच्-छिव-रात्र्य्-अनन्तरं कदाचित् होलिका पूर्णिमायाम् । गोविन्दः श्री-गोकुल-युवराजः रमयति क्रीडयति कृष्णम् इति राम इति निरुक्त्या तदानीं सख्यांशस्यैवोदयो ध्वनितः जन्मारभ्य विहारात् । बाल्यावशेषाच् च । व्रजे तद्-अंशस्यैव प्राचुर्य-दर्शनं राजधान्याम् एवाग्रजत्वांशस्येति । अत्रास्यगौणता विवक्षया पश्चान् निर्देशश् -कारात् तद्-उपलक्षितत्वेन सखायोऽपि ज्ञेयाः । मध्य-देशादौ तथैव होरिका-क्रीडा-व्यवहारात् । भविष्योत्तर-शास्त्राच् च । राज-सूयावभृथे चेत्थम् एव क्रीडा वर्णयिष्यते । वने व्रज-सन्निहिते इति ज्ञेयम् । अद्भुतः अलौकिकः विक्रमः प्रभावो यस्य स इति द्वयोर् अपि विशेषणम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कदाचित् होरिका-पूर्णिमायां रामश् इत्य् उपलक्षणं सख्यायश् च । तथैव मध्य-देशाचारात् भविष्योत्तर-पुराणाच् च । अत एव सम्प्रमत्तवद् इत्य् अत्रापि न दोषः ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं श्री-कृष्णस्य रामम् उक्त्वा सङ्कर्षणस्यापि यत् किञ्चित् कथयन् श्री-गोविन्दस्यापि पुनः पुनर् अपि रास-क्रीडा जातेत्य् अपि बोधयति—कदाचिद् इत्य्-आदि । अथ उक्त-रास-क्रीडानन्तरं गोविन्दः कदाचित् रामः कदाचित् व्रज-योषितां मध्य-गौ भूत्वा वने रात्र्यां विजह्रतुः । एकयोक्त्या द्वि-वचनं क्रियाया एव, न तु कर्त्रोः । तेन काल-भेदः, ज्ञान-भेदः, करण-भेदश् च । यथा कदाचित् सूर्य कदाचिच् चन्द्रश् च तमो नाशयत इति नैक-कालीनत्वं नैक-स्थानत्वं च नैक-करणत्वं च, किन्तु समासेन द्वयोस् तमो-नाशक-निरुक्तिस् तथेहापि । व्रज-योषितश् च व्रज-योषितश् चेत्य् एक-शेषः । तेन च तासां कृष्ण-परिग्रहत्वेन राम-परिग्रहत्वेन च वैजात्य-भाजां मध्यगौ । गोविन्दः स्व-परिग्रहाणां मध्यगः, रामश् च स्व-परिग्रहाणाम् इत्य् अत्रापि एकयोक्त्यैव विशेषणस्य दितं, न तु साहचर्य-व्यञ्जकम् । तस्माद् इह विशेषण-द्वित्वं नैक-जातीय-गोपीनां मध्य-वर्तित्वाभिध्यायकं, अपि तु विजातीयानाम् एवेति । एवम् उत्तरापि ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदाचिच् छिव-रात्रि-व्रतानन्तरं रात्र्यां चन्द्रिका-बहुलायाम् । व्रज-योषितां मध्यगाव् इति होलिका-क्रीडायां तथैव व्यवहार इति वैष्णव-तोषणी ॥२०॥


॥ १०.३४.२१ ॥

उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः ।

स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजो-\ऽम्बरौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विरजो-ऽम्बराव् इति विरजसी निर्मले अम्बरे ययोस् तौ ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपगीयमानौ होलिकोचित-गीतिभिर् वर्ण्यमानौ। तत्र हेतुः—बद्धं सौहृदयैर् इति । एतेन रामस्यापि पृथक् प्रेयसी-गणो लक्ष्यते । तद् व्यञ्जितम् गोप्यो\ऽन्तरेण भुजयोर् अपि यत् स्पृहा श्रीः इति । सर्वमेलस् तु होलिकावसर-सङ्घर्षाद् एवेति ज्ञेयम् । ललितं चेतो-हरम् ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्री-जनैर् बद्ध-सौहृदैर् इति—काश्चिद् गोविन्दे बद्ध-सौहृदाः, काश्चिद् रामे या बद्ध-सौहृदाः, तास् तु सुर-योषितः सम्भवन्त्व् अमर-स्त्रियः [भा।पु।१०.१.२३] इति तद्-अन्तर्गता एव काश्चिद् एता इति बोद्धव्यम् ॥२२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विहारम् एवाह—उप- इति त्रिभिः । स्त्रिय एव जना लोकास् तैर् इति स्त्री-जातीनां प्रायः सुर-गानाभिप्रायेण, विशेषतस् तासां गान-कौशलम् तद् एव ध्रुतम् उन्निन्ये तस्यै मानं च वह्वादात् [भा।पु १०.३३.९] इत्य्-आदिनोक्तम् एव, अत एव ललितं यथा स्यात् तथा समीप एव । यद् वा, तयोर् उपगायनत्वेन किं वा, कृष्ण-चरितोपकरणत्वेन बलदेव-चरित-गानाद् द्वाव् एव गीयमानौ ।

ननु, तद् अग्रजस्य साक्षात् कथम् उपगानम् ? तत्राह—बद्धं कृष्णे निविडतया दृढं कृतं सौहृदं यैः, श्री-कृष्ण-सौहृदानि चैवं स्याद् इत्य् अर्थः । यद् वा, श्री-कृष्णेनैव बद्धं सौहृदं प्रेम-शृङ्खला येषु तैः, तत्-प्रीत्या ललित-गान-मात्रे दोषाभावाद् इति भावः । स्वलङ्कृतानि सुष्ठु विचित्रालङ्कार-भूषितानि अनुलिप्तानि च यथा-शोभं गन्ध-चन्दनादि-चर्चितान्य् आङ्गानि ययोस् तौ, स्रक् अम्वरं च निज निजं रात्रौ यथा-शोभम् एव वा ज्ञेयम् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विहारम् एवाह । उपेति त्रिकेण । ललितं गान-नर्मादि-परिपाटीभिर् मनोहरं यथा स्यात् तथा उपगीयमानौ होरिकोचित-गितिभिर् वर्ण्यमानौ । तत्र हेतुः बद्धं सौहृदं इदं यैर् इति । एतेन श्री-रामस्यापि पृथक् प्रेयसी-गणो लक्ष्यते । तद् व्यञ्जितं गोप्यन्तरेण भुजयोर् अपि यत् स्पृहा श्रीर् इति । अत एव गोप्यस् तद् गीतम् आकर्ण्येति द्वयर् अपि गीतस्य तादृश-मोह-हेतुत्वं वक्ष्यते । सर्वमेलनं तु होरिकावसर-सङ्घर्षाद् इति ज्ञेयम् अतो मिथोऽननुसन्धानम् अपि ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बद्ध-सौहृदैर् इति । श्री-रामस्यापि पृथक् प्रेयसी-गणो लक्ष्यते । सर्व-मेलनं तु होरिका-पर्वत एव ॥२१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपगीयमानाव् इत्य्-आदि । एकयोक्त्या द्वि-वचनम् । स्त्री-जनैर् इत्य् अत्रापि विजातीयत्वं पूर्ववद् अनुसन्धेयम् । न तु एकदा, न तु सजातीयैः, स्त्री-जनैर् बद्ध-सौहृदैर् इति विशेषणाद् वैजात्यम् । कृष्ण-परिग्रहाः कृष्णं प्रति बद्ध-सौहृदाः, एवं राम-परिग्रहाश् च रामं प्रति ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३४.२२ ॥

निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् ।

मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, निशा-प्रवेशं सत्-कुर्वन्तौ । उदित उडुपस् तारकाश् च यस्मिंस् तत् । मल्लिका-गन्धेन मत्ता अलयो यस्मिंस् तत् ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुमुद-वायुना जुष्टम् इत्य् अन्वयस् तु विप्रकीर्ण-जटाच्छन्नं रौरवेणाजिनेन च इतिवद् अवसेयः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुमुदानां वायुना इति रात्रौ विकसतां तेषां सम्बन्धेन वायोः शैत्यं सौरभ्यं च जुष्टम् इति मान्द्यम् अप्य् ऊह्यम् । यद्य् अपि श्री-वृन्दावनेऽन्यान्य् अपि विचित्राणि पुष्पाणि सन्ति, तथापि मल्लिका-कुमुदयोर् अत्रोक्तिः, पूर्ववन् निशि विकाश-विशेषाभिप्रायेण ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उदित- इति । शिशिरान्ते हिम-कुज्झटिकापगमाद् अतिशयेन प्राकट्यात् । मल्लिका- इति वसन्त-प्रवेशात् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निशा-मुखं निशारम्भं सत्-कुर्वन्तौ । उदित उडुपस् तारका च यत्र तत् । कुन्द-वायुना युक्तं युगपद् एकदैव स्वर-मण्डलानां मूर्च्छितं मूर्च्छनाम् अनिबद्धत्वात् कल्पयितुम् अशक्यम् अपि शक्यम् इव कल्पयन्तौ ॥२२.२३॥


॥ १०.३४.२३ ॥

जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् ।

तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिबद्धत्वाद् अन्यैर् युगपत् कल्पयितुम् अशक्यम् अपि तौ स्वर-मण्डलस्य मूर्च्छितं युगपत् कल्पयन्तौमनः-श्रवणयोर् मङ्गलं यथा भवति तथा जगतुर् अगायताम् इति ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनिबद्धत्वात् अन्योन्यं भिन्नत्वात् क्रम-युक्ताः स्वरा यत्र मूर्च्छना साभिधीयते इति सङ्गीत-रत्नाकरोक्तेः । अन्यैः राम-कृष्णेतरैः । स्वराणां निषादादीनां सप्तानां मण्डलस्य एकीभावस्य वा वृत्ति-लक्षणस्य मूर्च्छितं मूर्च्छनाम् एकविंशति धम् । कदा ? एकस्मिन् क्षणे । तथा च भरतः—सप्त-स्वरस् त्रयो ग्रामा मूर्च्छना एक-विंशतिः इति,

क्रमात् स्वराणां सप्तानाम् आरोहश् चावरोहणम् । > मूर्च्छनेत्य् उच्यते ग्राम-त्रये ता एक-विंशतिः ॥ इति > सङ्गीत-सारोक्तेश् च ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मङ्गलं सुखावहम्, स्वराणां मण्डलं समूहस् तस्य मुर्च्छितं मूर्च्छनाम्, तल्-लक्षणं चोक्तं सङ्गीत-सारे—

क्रमात् स्वराणां सप्तानाम् आरोहश् चावरोहणम् । > मूर्च्छनेत्य् उच्यते प्रामत्रये ता एक-विंशति ॥ इति ।

एवं जगच्-चमत्कार-कारि-गान-विशेष-कुशलाभिः श्री-गोपीभिः सह-तादृशयोस् तयोर् गान-मय एव विहारः, न त्व् अन्य-विध इति दर्शितम्, तत्र च गानं सर्वथा समाभ्यां द्वाभ्याम् एवोत्तमं सिध्यति, ततश् च तासाम् अप्य् आनन्द-विशेषः सम्पद्यत इति । एतद्-अर्थं तथा सङ्गीत-विद्यापारगाणां तासां सङ्गे शेषावतारकत्वाद् गान-विद्याचार्यस्य श्री-रामस्य तत्-सुख-विशेषानुभवार्थं च तस्य तस्य तत्र तत्र स्नेह-विशेषेण नयनम् इति प्रयोजनम् एकम् । अन्यच् चाग्रे व्यक्तं भावि ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मङ्गलं सुखावहम् । स्वराणां मण्डलं समूहः, तस्य मूर्च्छनां तल्-लक्षणं चोक्तं सङ्गीत-सारे ।

क्रमात् स्वराणां सप्तानाम् आरोहश् चावरोहणम् ।

मूर्च्छनेत्य् उच्यते ग्राम-त्रये ता एकविंशतिः ॥ इति ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३४.२४ ॥

गोप्यस् तद्-गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप ।

स्रंसद्-दुकूलम् आत्मानं स्रस्त-केश-स्रजं ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मूर्च्छितास् तद्-गीत-लीन-चित्ताः । स्रंसद् भ्रश्यद् दुकूलं यस्मात् तम् आत्मानं देहम् । स्रस्ताः केशेभ्यः स्रजो यस्य तं च । ततो नाविदन् ॥२४.२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-गीतं ताभ्यां राम-कृष्णाभ्यां गीतं युगपन् मूर्च्छितम्ततो गान-श्रवणात् ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उभय-कृईडा समासेनोक्ता, गोप्यस् तद्-गीतम् इत्य् अत्र तत्-तत्-सम्बन्धिन्यो गोप्यस् तद्-गीतं तस्य तस्य गीतम् इत्य् एक-शेषः, न त्व् एक-रूपा नैक-कालीनाः ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोप्यः परम-विदग्धा इत्य् अर्थः । अतस् तस्य कृष्णस्य गीतम्, ततस् तद्-गीताकर्णनात् पश्चाद् इति निज-धैर्य-रक्षार्थं प्रयत्नाचरणेन किञ्चिद् विलम्बापत्तेः । यद् वा, ततस् तस्माद् गीताद् एवेत्य् अन्य-निरपेक्षस्य तस्यैव मोहनत्वम् अभिप्रेतम् । हे नृप ! इति तद् भवतावकल्यत एवेति तासां धैर्य-हानौ नानौचित्यम् इति भावः ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोप्यो यथा-स्वं तयोः प्रेयस्यः तद्-गीतं तयोर् गीतम् आकर्ण्य मूर्च्छिता बभूवुः । ततो हेतोः आत्मानं न स्रंसद्-दुकूलम् अविदन्, न च स्रस्त-केशस् स्रजम् अविदन् नाविदुर् इत्य् अर्थः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गोप्य इत्य्-आदि । तस्य तस्य गीतं तद्-गीतम् । गोप्यो राम-सङ्गिन्यः कृष्ण-सङ्गिन्यश् च । राम-गीतम् आकर्ण्य राम-प्रिया आत्मानं नाविदन् कृष्ण-गीतम् आकर्ण्य कृष्ण-प्रिया इत्य् अर्थः । कीदृशम् ? स्रंसद्-दुकूल-वलयं स्रंसमान-वस्त्राभरणम् इत्य् अत एव साहचर्य-विहारो न रस्यः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोप्यो यथा-स्वं तयोः प्रेयस्यः । आत्मानं देहं स्रंसद्-दुकूलं केशेभ्यः स्रजो यस्य तं नाविदन् नानुसन्दधुः ॥२४॥


॥ १०.३४.२५ ॥

एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् ।

शङ्खचूड इति ख्यातो धनदानुचरो \ऽभ्यगात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना तासां गीतैस् तयोर् अपि मोहस् तत्राधिकोऽजनीति सूचयन्न् आह—एवम् इति । तासां गीत-कौशलेन स्वैरं निरङ्कुशं परस्परं विशेषेण क्रीडतोः सतोर् अनुजाग्रजयोः, अत एव संप्रमत्तवत्, बति-प्रत्ययेन तत्त्वतः सम्यक् प्रमत्ततां निरस्यते । विक्रीडनम् एवाह—गायतोर् इति । गानस्य स्वैरता-हृत-मनस्त्वेन विशृङ्खलता


याद् वा, संप्रमत्तवद् इति **शङ्खचूड-**मत्य्-अनुसारेण तल्-लक्षणम्, स्वैरं विक्रीडतोर् इति, अथवा तासां गाने लीन-चित्ततया संप्रमत्तवद् गायतोश् च सतोः, सं-शब्देन च मोहस् ताभ्योऽपि विशेषः सूचित एव । तत्र कृष्णस्य मोहस् तासां गीत-जन्य-भा-विशेषेण, बलदेवस्य तु गीत-माधुर्यातिशयेनैव, वतिस् तु विचित्र-वासनकानां मुनीनां साक्षाद् ईश्वरस्य तादृशत्व-कथनेन सङ्कोचाद् इति, अत एव तदानीम् अभ्ययाद् अभिमुखम् एवागतः, शङ्ख इव शङ्खस् तद्-आकार-बृहद्-रत्नं चूडायां यस्येत्य् अन्वर्थ-संज्ञा । अत एव ख्यातः प्रसिद्ध इति प्रकट-निज-रूपेणैवाभ्ययाद् इति च सूचितम् ।

ननु, तद् रत्नं कुतस् तेन प्राप्तम्, कतमो वासाव् इत्य् अपेक्षायाम् आह—धनद इति । सेवया प्रसन्नेन कुवेरेण दत्तं जात्या यक्षादीनां मध्येऽन्यतरश् च स इत्य् अर्थः । अत एव धनदेति तस्याप्य् अन्वर्थ-संज्ञत्वम् अभिप्रेतम् ।

यद् वा, तेन ध-रक्षायां नियुक्तेनानेन चोरयित्वा तद् रत्नं गृहीतम्, अतो गुह्यकत्वात् कुवेरस्य सेवकोऽपि । अकार-प्रश्लेषेण—न धनदम् अनुचरति सेवत इति तथा सः, अतो देव-पक्षपरित्यागेन दैत्यपक्षत्व-प्राप्त्या कंसस्य भृत्यतां गत इति ज्ञेयम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इति । होरिकोचितम् एवं विक्रीडतोर् गायतोश् च । अत एव स्वैरं यथा स्यात्, तथा सम्प्रमत्तवच् चेति । भविष्योत्तर-विधिना तथा लोक-व्यावहारात्। वति-प्रत्ययाद् अन्यो जनो यथा तथैवेत्य् अर्थः । सं-शब्दात् तु प्रेममय-तद्-गीतादि-माधुर्येण तत्रापि विशेषत इत्य् अर्थः । अभ्यायाद् अभ्यगाद् इति पाठ-द्वयम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथाखण्ड-परमानन्दस्य भगवत एवानन्द-लीला निराबाधा इति प्राग् दर्शितम् । पश्चाद् अपि तस्या निराबाधत्वं दर्शयितुं तद्-इतरस्य न तथेति दर्शयति—एवं विक्रीडतोर् इत्य्-आदि । एवम् उक्त-प्रकारेण क्वचित् कृष्णो विहरति, क्वचिद् राम इति प्रकारेण विहरतोस् तयोः स्वतः स्वैरं गायतोश् च सतोः शङ्खचूडो धनदानुचरः सङ्कर्षणस्य अभिमुखम् अयात् प्राप्तः । धनं ज्ञानं द्यतीति धनाहङ्कारः तम् अनुचरति अधिष्ठातृत्वेन वर्तते, अनु पूर्वात् चरेः क्विपि कृते धनदानुचर इति व्यञ्जनान्ता प्रकृतिः, ततः षष्ठ्य्-अन्तं पदम् । कीदृशस्य ? प्रमत्तवत् ख्यातः कथयतः, ख्या प्रकथन इति शत्र्-अन्तस्य षष्ठगं रूपम्—वारुणी-पानेन विह्वलोक्तेः । अथवा, ख्यातः प्रकथयतः स्व-प्रमदा-जनैः समं कथयतो रामस्य अति सम्मुखमयाद् इत्य् अर्थः ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३४.२६ ॥

तयोर् निरीक्षतो राजंस् तन्-नाथं प्रमदा-जनम् ।

क्रोशन्तं कालयामास दिश्य् उदीच्याम् अशङ्कितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरीक्षतोर् निरीक्षमाणयोः तौ नाथौ यस्य तं प्रमदा-जनं कालयामास हठात् प्रेरयामास ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निरीक्षतोर् निरीक्षमाणयोः । तौ नाथौ यस्य तं प्रमदा-जनं कालयामास हठात् प्रेरयामास ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभियानाद् एव निरीक्षमाणयोः, अनादरे षष्ठी । हे राजन्न् इति । तस्य दुर्बुद्धि-वैभवाश् चर्येण परमार्त्या वा सम्बोधनम्, राजमानः सन्न् इति वा संप्रमत्त-सादृश्येन, अत एव अशङ्कितो निर्भयः सन् प्रमदा-जनं स्त्री-लोकम् इति मार्दवेन तत्-कालनं न दुःशकम् इति भावः । एक-वचनाच् छ्री-ललित-माधव-नातकोक्तानुसारेण कंस-प्रेरणया श्री-राधा-देवीम् एकाम् एवेति बोद्धव्यम् । ततश् च वक्ष्यमाणं [२९श।श्लो] मा भैष्ट इति, [३१श।श्लो] स्त्रियः इति च बहुत्वं गौरवेण, ततश् च जन-शब्दाद् अपि सर्वा गोपीर् इत्य् अर्थः, विशेषेण प्रकृष्टो मदो गीतादिना प्रेम-मत्तता यासाम् इति तासाम् अप्य् अनवहितत्वं सूचितम् ॥२६॥

सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रोशन्तम् उच्चैर् आर्त-स्वरेण कृष्णं रामं चाह्वयन्तम् । इदम् एवाभिव्यञ्जयिष्यते—कालयामास बलेन बहुल-च्छलेन च दूरतश् चालयामास, उदीच्यां दिशीति गुह्यकानां तस्यां निवासेन प्राग् आत्म-गृहेनयनार्थम् । यद् वा, श्री-गोवर्धन-पूर्वदिग्-भागे तयोः क्रीडनेन तस्माद् उत्तरस्यां मधुपुर्यां कंसान्तिके नयनार्थम् इति ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभियानाद् एव निरीक्षमाणयोः अनादरे षष्ठी यतोऽशङ्कितःउदीच्यां दिशाति गुह्यकानां तस्यां निवासेन एवं तासां पृथक् पङ्क्ति-स्थितत्वावगमाद् धोरिका-रीतिर् एव स्पष्टा ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तयोर् इत्य्-आदि । तयोः श्री-राम-कृष्णयोर् मध्ये निरीक्षतोः निरीक्षमाणस्य श्री-रामस्य तन्-नाथं स श्री-राम एव नाथो यस्य तं तथा-भूतं प्रमदा-जनम् उदीच्यां दिशि कालयामास चालयामास । क्रोशन्तं "राम राम एषोऽस्मान् कालयति, त्रायस्व" इति क्रोशन्तम् । अशङ्कित इति कृष्णस्य दूरस्थत्वं व्यज्यते । तस्मिन् सन्निहिते शङ्काया अवश्यम्भावित्वम् ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निरीक्षमाणयोर् इत्य् अनादरे षष्ठी क्रोशन्तं "हे राम हे कृष्ण अस्मांस् त्रायस्व" इति स-क्रन्दनं फूत्कुर्वन्तम् । कालयामास महा-यष्टि-घूर्णनेन भीषयित्वा उदीचीं दिशं प्रति विद्रावयामासेति । तेन स्पर्शस् तासां नाभूद् इति ज्ञेयम् । यथा गा इत्य् अग्रिम-श्लोकोक्तेः ॥२६॥


॥ १०.३४.२७ ॥

क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् ।

यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दस्युना व्याघ्रेण ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दस्युना व्याघ्रेण ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तयोर् निरीक्षतो राजन्न् इति वक्तव्ये कृष्णस्य दूरस्थात्वाद् अग्रे क्रोशनम् । एतेनैव पृथक्त्वं क्रीडा-स्थानयोः, अशङ्कित इति कृष्णं दूरस्थं मत्वा अशङ्कितः, सर्वज्ञः सर्वदर्शी स च ष्री-कृष्णः क्रोशन-समकालम् एव समागतः पश्चान् मिलित्वा भ्रातरौ अन्वधावताम् ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्रोशन्तम् उच्चैर् आर्त-स्वरेण कृष्णं रामं चाह्वयन्तम् । इदम् एवाभिव्यञ्जयिष्यते—कालयामास बलेन बहुल-च्छलेन च दूरतश् चालयामास, उदीच्यां दिशीति गुह्यकानां तस्यां निवासेन प्राग् आत्म-गृहेनयनार्थम् । यद् वा, श्री-गोवर्धन-पूर्वदिग्-भागे तयोः क्रीडनेन तस्माद् उत्तरस्यां मधुपुर्यां कंसान्तिके नयनार्थम् इति ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-परिग्रहं नित्यात्मीयत्वेनाङ्गीकृतम् इत्य् अवश्य-रक्ष्यत्वं तद् अर्थं परम-वैयग्र्यादिकं च ध्वनितम् । भ्रातराव् इति मिथः स्नेहादिना तत्रैकम् अत्यादिकं सूचितम् । एकेनानेकासां कालेन तत् पालकान;म् व्यग्रत्वेन दृष्टान्तः यथा दस्युना हठाद् अपहरता चोरेण ग्रस्ता विद्राव्यात्मसात् कृता । गा विलोक्य गोपी धावन्ति तद् वद् इत्य् अर्थः । एतेनास्पर्शोऽपि व्यञ्जितः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनः प्रमदा-जनो दूरस्थं कृष्णं चाजुहावेत्य् आह—क्रोशन्तम् इत्य्-आदि । कृष्ण रामेति विपर्ययाह्वानेन कृष्णस्य भिन्न-स्थान-स्थितत्वं व्यज्यते, दूरस्थ एवादौ आहूयते । आह्वानं सम-कालम् एव स्व-परिग्रहैः सह विहारं त्यक्त्वापि सर्वज्ञः सर्व-व्यापी भगवान् तत आगत्य बलदेवेन सह मिलित्वान्वधावताम् इत्य् आह—भ्रातराव् इत्य्-आदि । प्रमदा-जनम् अन्वधावतां, प्रमदाः प्रकृष्ट-मत्ताः वारुणी सह-पानात् । अत एव बलदेव-सम्बन्धिनाम् इत्य् अर्थः । श्लोक-द्वयेनैवान्वयः । कीदृशम् ? स्व-परिग्रहं सुष्ठु अपरिग्रहोऽस्पर्शो यासु । अर्था शङ्खचूडस्य वाचैव कालयामास, न तु स्पर्शनेन । तत्र दृष्टान्तः दस्युना ग्रस्तो गतः । यथा भ्रात्रा सह गृहस्थो धावति, तथा दस्युना अग्रस्ताः, ईषद्-अर्थे नष् । कियद् दूरं चालितः । ग्रस्त-शब्दो लाक्षणिकः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दस्युना चौरेण ग्रस्ता आत्म-सात् कर्तुं विद्राव्य स्व-देशं प्रति चालिताः ॥२७॥


॥ १०.३४.२८ ॥

मा भैष्टेत्य् अभय-रावौ शाल-हस्तौ तरस्विनौ ।

आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मा भैष्ट भयं न प्राप्नुतेत्य् अभय-वचौ ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मा भैष्ट भयं मा प्राप्नुतेत्य् अभयवाचौ ॥२८.३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे कृष्ण हे रामेत्य् एतत् क्रोशन्तम् उच्चैः कीर्तयन्तम् । यद् वा, इत्य् एवं तावाह्वयन्तम् इत्य् अर्थः । क्रोशनेनैव विशेषेण लोकयित्वेति विवक्षया । किं वा, क्रोशनस्याविच्छेदापेक्षया, अत एव वर्तमान-निर्देशोऽपीति । स्वपरिग्रहं निज-प्रिय-जनम् इत्य् अवश्य-रक्ष्यत्वम्, तद् अर्थं परम-वैयग्र्यादिकं च ध्वनितम्, भ्रातराव् इति मिथः मिथः स्नेहादिना तत्रैकम् अत्यादिकं सूचितम् ।

अनु तत्-पश्चाद् अधावताम्, यथा दस्युना व्याग्रेण ग्रस्ता दन्दैर् गृहीता गा गोपाग्र्यतरत्वाद् धावन्तं केचिद् अन्यत्रत्या वा धावन्ति, तद्वद् इत्य् अनुधावनेऽत्यन्तवेगोऽभिप्रेतः, अन्यथा एवानर्थापत्तेः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तरसा जवेन त्वरितं यथा स्यात् तथा । यद् वा, त्वरा युक्तं गुह्यकाधमम् आसेद् अतुर्निकटे गतौ ॥२८॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३४.२९ ॥

स वीक्ष्य ताव् अनुप्राप्तौ काल-मृत्यू इवोद्विजन् ।

विसृज्य स्त्री-जनं मूढः प्राद्रवज् जीवितेच्छया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सः शङ्खचूडः । तौ राम-कृष्णौ । कालो मृति-समयाभिमानी देवस् तन् नामातिबलोऽसुरो वा । मृत्युर्यमः । उद्विजन् बिभ्यत् ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति—ईदृश एष वा अभयो भय-निरसन एव, न त्वतिसम्भ्रमाद् अन्यपर आरावः प्रत्याक्रोशनं ययोस् तौ, तं महा-दुष्टं स्त्री-जन-कालनकम् आसेदतुर् निकटे गतौ । शालहस् तयोर् अपि त्वरितासादने हेतुः—बलिनाव् इति, वक्ष्यमाण-तत्-प्रद्रवण-हेतुत्वेन वा, गुह्यकेष्व् अधमम्, पूर्वम् अपि विविध-दुष्टताचरणात् ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालः प्रेरकः मृत्युश् च तत् प्रेर्यस् ताव् इति यथा-क्रमम् अनुरूपो दृष्टान्तः । मूढः प्रद्रवणेऽपि जीवनासम्भवात् स्व-वधे स्वयम् एव प्रवृत्तेश् च । यद् व । कृत्यं किम् अप्य् अजानन्न् इत्य् अर्थः ॥२९॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-मृत्यु कालः प्रेरकः मृत्युः प्रेर्यस्ताविव शीघ्रं जहीति रामः प्रेरकः अयम् अहम् इमं हन्मीति कृष्णः प्रेर्यस्तौ ॥२९॥


॥ १०.३४.३० ॥

तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति ।

जिहीर्षुस् तच्-छिरो-रत्नं तस्थौ रक्षन् स्त्रियो बलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं गुह्यकम् । तस्य शाङ्खचूडस्य । शिरोरन्तं चूडामणिम् । चूडामणि-हरणान्तम् एव तज् जीवनम् इति जनन्नेव तं जहारेति तत्त्वम् ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तौ श्री-कृष्ण-रामौ अनु पश्चाद् एव प्राप्तौ वीक्ष्येति संप्रमत्तमत्या तयोर् आगमन-शङ्काराहित्येऽपि महाभयान् मुहुः पश्चाद् अवलोकनात् । कालः प्रेरकः, मृत्युश् च तत्-प्रेर्ष्यस्ताव् इति यथा-क्रमम् अनुरूपो दृष्टान्तः, परमानन्द-घन-मूर्त्योर् अपि तयोस् तस्मिन् दुष्ट-बुद्धौ भयेन तथैव परिस्फूर्तेः, एतच् चाग्रे रङ्ग-स्थले मल्लानाम् अशनिः [भा।पु १०.४३.१७] इत्य्-आदिना व्यक्तं भावि, अत एवोद् विजन् उच्चैर् विभ्यर्विभ्यन् निभृतं प्राद्रवद्-वेगेन पलायत । किम् अर्थम् ? जीवितस्यैव, न तु यश-आदेर् इच्छया, युद्धाद्य् अकरणेन केवल-प्रद्रवणात्, यतो मूढः, प्रद्रवणेऽपि जीवितनाशाद्य् अदर्शनात् स्व-वधे स्वयम् एव प्रवृत्तेश् च । यद् वा, कृत्यं किम् अप्य् अजानन्न् इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, शाल-प्रक्षेपेण दूरत एव तमधमं किं न हन्यात् तत्राह । जिहीर्षुर् इति । मृतस्य सतः स्पर्शायोग्यत्वेन तस्य जीवत एव रत्न-ग्रहेच्छयेत्य् अर्थः । श्री-रामाय तद् दानेच्छया तु तस्यैव मुख्य-प्रयोजनतया निर्देशः । यद् वा, तन् मणि-सङ्ग-पर्यन्तं तज् जीवन-निबन्धात् तज् जिहीषा ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तच्-छिरो-रत्न-जिहीर्षा तत्-पर्यन्तं तज्-जीवित-नियमाद् इति तर्क्यते ॥३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-मृत्यू कालः प्रेरकः मृत्युः प्रेर्यस् ताव् इव शीघ्रं जहीति रामः प्रेरकः अयम् अहम् इमं हन्मीति कृष्णः प्रेर्यस् तौ ॥३०॥


॥ १०.३४.३१ ॥

अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः ।

जहार मुष्टिनैवाङ्ग सह-चूडा-मणिं विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शिरसा सह चूडामणिं जगारेत्य् अर्थः ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अविदूरे समीपे । इव-शब्देन किञ्चिद् दूरम् । तस्य यक्षस्य मुष्टिना मुष्टिर् द्वयोः पले बद्ध-पानौ त्सरौ च इति मेदिनी । [तिय् अर्थ इति । सहादियोगे तृतीयया भाव्यमतः शिर इति तृतीयार्थे द्वीतीया बोध्यार्षत्वात्] ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दो गोकुलेन्द्र इति तासां मोचनार्थं तस्य च दुष्टस्य वधार्थं क्रोधेनानुधावनं युक्तम् एवेति भावः ।

ननु, लोष्ट्रादि-प्रहारेण दूरत एव तम् अधमं किं न हन्यात् ? तत्राह—जीहीर्षुर् इति । मृतस्य सतस् तस्य स्पर्शनायोग्यत्वेन तस्य जीवत एव रत्न-ग्रहणेच्छयेत्य् अर्थः । यत्र स्त्रियस् तेन विसृष्टास् तत्रैव तस्थौ, अनुजेच्छातिक्रमणाशक्तेः । दुष्टतो रक्षणे सामर्थ्यं दर्शयति—बल इति । यद् व, तस्यापि तद् वधादौ सामर्थ्यं बोधयति, तथापि तस्य स्थितौ प्रयोजनम्, स्त्रियो रक्षन्न् इति तद् आनयने मुख्यं प्रयोजनम् ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अविदूर इव अतिदूरेऽपि किञ्चिद् दूर इवाभिमुखं गत्वा वेगेन पलायमानस्य पृष्ठे हनना-योग्यत्वात् पलायमानस्यापि तस्य वधो युक्त इत्य् आह । दूरात्मनः दस्योर् इत्य् अर्थः । मुष्टिनैव न तु शालेन न चापायान्तरेण तत्रापि तेनैकेनैवेति प्रयासाभाव उक्तः । यतो विभुर् ईश्वरः । अन्यत् तैः । तत्र शिर इति तृतीयायाश् छान्धसो लुक् । यद् वा, शिरश् चूडामणिं च सह एकदैव जहार ॥३१॥



जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्त्रियो विद्रावण-श्रान्तास् तत्रैव स्थिरीकृत्य आश्वास्य तस्थौ । अतिदूरेऽपि तत्र अविदूर इवाभ्येत्येत्य् अर्थः ॥३१॥


॥ १०.३४.३२ ॥

शङ्खचूडं निहत्यैवं मणिम् आदाय भास्वरम् ।

अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तप्रकारेण । भास्वरं देदीप्यमानम् । पश्यन्तीनाम् इति—मह्यमेषोतिसुभगायै दास्यतीत्य् एवं प्रत्येकं चिन्तयन्तीनां तासां मत्सराभावार्थं कस्यैचिद् अप्य् अदत्त्वा श्री-रामे स्वरक्षणात् प्रेमाणं च ज्ञात्वा श्री-रामायैवादात् । स च सर्वज्ञत्वाच् छ्री-कृष्णाभीप्सित-देश एव तं न्यधाद् इति ज्ञेयम् ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अग्रजाद् अदाद् इत्य् अस्यायं भावः—तस्य परिग्रहाणां कलनेन सो\ऽत्यन्तं विमना आसीत् । तस्यैव वैमनस्यस्योपशमनाय पश्यन्तीनां च तद्-योषिताम् अग्रे साक्षादग्रजायैवाददात् । च-कारेण तस्येत्य् अक्षिप्यते ॥३२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अविदूर इव, अतिदूरेऽपि निकट इवाभिमुखं गत्वा वेगेन पलायमानस्य पृष्ठे हननायोग्यत्वात् । यद् वा, अभितः प्राप्य पृष्ठतोऽपि तस्य वधो न युक्त इत्य् आह—दूरात्मनः इति स्त्रीजन-कालनात् । एवकारेण केवलम् एक-मुष्टिनैवेति प्रयासाभाव उक्तः, यतो विभुर् ईश्वरः । अङ्ग हर्ष-सम्बोधने । अन्यत् तैर् व्याख्यातम् । यद् वा, शिरः चूडामणिं च सह एकदैव जहार । एवम् उक्त-प्रकारेणेति हननेऽप्रयास एव दृढीकृतः । मण्य् अर्थम् एव हननम् इति च बोधयति ॥३२॥

नितरां हत्वेति नि-शब्दः, ध-प्राणयोर् द्वयोर् अपि हरणात् । भास्वरं स्वभावत एव महा-तेजस्विनम् इति निज-प्रियतमायै कस्यैचिद् एकस्यै निभृतं दातुं स्वयं ध्रियमाणम् अधुना दत्तं वा मया तयापि निह्नुत्य रक्षितुम् अशक्यम् इति भावः । अत एवाग्रजाय दत्तवान् । प्रीत्या पश्यन्तीनाम् इति, अहम् एवास्य प्रेयसीति प्रत्येकं सर्वासां मननान् मह्यम् एव दास्यतीति हर्षेण श्री-कृष्णं मणिम् एव वा निरीक्षमाणानां इत्य् अर्थः, अनादरे षष्टी । एकस्यै दत्तेऽन्यासामीर्यां सम्भव्य तत्-परिहारार्थं ता अनादृत्य तस्मा एवादाद् इति भावः । अत्र चाग्रजायेति मान्याय दत्ते सति कस्याश्चिद् अपि मात्सर्यं न भवितैवेति गूढोऽभिप्रायः । प्राण-प्रियतमायै श्री-राधिकायै मणिर् एषोऽवश्यम् अर्पयितुम् इष्यते, साक्षान् मया दत्ते च खलु मह्यम् असूया सम्भवेत्, अतोऽग्रजाय दत्तोऽप्य् अयं परमाभिज्ञेन मत्-प्रीत्येकापेक्षकेण तस्या एवानेन दातव्यः, ततो न रोषः कोऽपि शङ्केत, गुरौ च तासां कथप्य् असूया न सम्भवेदेवेति । एवं प्रीत्यैत्येतस्य पूर्वैणैवान्वयः । अथवा अन्योऽन्यम् ईर्ष्याद्य् अनुदयार्थं श्री-रामं प्रति तद्-दाने सर्वासाम् एव सम्मत्या हर्षेण सर्वास्व् एव तासु विलोकयन्तीषु सतीष्व् इत्य् अर्थः । अन्यथा तं प्रत्य् अपि तद् दानाशक्तेः, तथापि गूढ-भावः स एव, तथापि तत्र तन् नयने प्रयोजनान्तरम् । एवं श्री-बलदेवं प्रति बहुधा स्नेहो दर्शितः । अत एव तं प्रति तासां महा-गीत-विमोहनत्व-दर्शनाय निरीक्षमाणेनापि स्वयं तत्-सहितेन तेन दुष्ट-काल्यमानानां क्रोशन्तीनाम् अपि तासां क्षणम् असम्भालनम् । अन्यथा तद् असम्भवात्, अन्यस्येव श्री-कृष्ण-चरितस्यास्य सर्वेषां लज्जाकरत्वेन व्रजे तदानीं तद् अकथानाच् छ्री-नन्द-यशोदादिषु तत्-प्रशरो नोक्तः । यद् वा, ताभ्यां ताभिर् एव वा केनापि छलेनोक्तेऽपि तद्-वृत्ते तेषां बहुधा सतत-तन् माहात्म्यभरानुभवेनाश् चार्यमननाच् छ्रुतस्यापाश्रुतत्वे पर्यवसानाद् विशेषान्तराभावेन श्री-शुक-देवैः परं न किञ्चित् कथितम् ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नितरां हत्वेति नि-शब्दः सूक्ष्म-शरीरस्य नाशात् । पश्यन्तीनाम् इति सर्वासाम् आत्मनि सौभाग्यातिशयाभिमानात् । तथापि ता अनादृट्याग्रजाय अदाद् इति सर्वासां मात्सर्याभावाय तस्य मान्यत्वात् कृत-रक्षत्वाच् च । प्रत्युत सन्तोषायैव स्याद् इत्य् अभिप्रेत्येति भावः । प्रीत्येति तत् पालके तस्मिन् प्रीत्य् अतिशयोदयोऽयं सर्वास्व् एव तासु पर्यवस्यतीति भावः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अग्रजायेति । सर्वासाम् अपि तत्र प्रीतेः । प्रीत्येति विशेषतस् तासां रक्षणेनेत्य् अर्थः ॥३२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भ्रातराव् अन्वधावताम् एव, किन्तु कृष्ण एव तम् अवधीद् इत्य् आह—अग्रजायेत्य्-आदि । तं हत्वा तस्य शिरो-रत्नम् आदाय अग्रजाय बलदेवायाददात् पश्यन्तीनां योषितां बलदेव-योषिताम् ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पश्यन्तीनाम् इति । मह्यम् एवातिसुभगायै दास्यति मह्यम् एवात्यादरणीयायै दास्यतीत्य् एवं प्रत्येकम् उत्सुकानां तासां मद-मत्सरानुद्गमार्थं कस्यैचिद् अप्य् अदत्त्वा रामायादात् । स च महा-विज्ञः कृष्णाभीप्सित-स्थल एव तं मणिं न्यधाद् इति ज्ञेयम् ॥३२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमस्य त्रयस्त्रिंशः सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे शङ्खचूड-वधो

नाम चतुस्त्रिंशोऽध्यायः ।

॥ १०.३४ ॥


(१०.३५)


  1. विभुं ↩︎

  2. विभ्रान्ताः ↩︎

  3. छरचिद् वचन्त् शरदि वन् ↩︎