३३ {#अथ-त्रयस्त्रिंशोध्यायः उन्नुम्बेरेद्}

महा-रास-वर्णनं परीक्षित्-कृत-शङ्कायाः शुक-द्वारा समाधानं च । {#महा-रास-वर्णनं-परीक्षित्-कृत-शङ्कायाः-शुक-द्वारा-समाधानं-च ।उन्नुम्बेरेद्}

॥ १०.३३.१ ॥

श्री-शुक उवाच—

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।

जहुर् विरहजं तापं तद् अङ्गोपचिताशिषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रयस्त्रिंशे ततो गोपी-मण्डली मध्यगो हरिः ।

प्रियास् ता रमयामास ह्रदिनी-वन-केलिभिः ॥

तत् तदा अङ्ग हे राजन् ! यद् वा, तस्य भगवतोऽङ्गेन वपुषा कर-चरणाद्य्-अवयवैर् वा उपचिताः समृद्धा आशिषो यासां1 ताः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो गोपी-श्लाघानन्तरम् । ताः कालिन्दी-तीरस्थाः । ह्रदिनी-केलिर् जल-क्रीडा । वन-केलिर् इत्य् उपलक्षणं स्थल-क्रीडादीनाम् इति ॥ तदा गोप्य्-आश्वासनानतरम् । क्लिष्ट-कल्पनापेक्षयाक्लिष्ट-मार्ग एव साधुर् इति मत्वाह—यद् वा इति । अङ्गं प्रतीकेऽवयवोपाय-देश-प्रियेषु च इति धरणिः । यद् वा, भगवतो विशेषणम् । तत्र तासाम् अङ्गेन इत्य् आदि-समासः॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :

जयति श्री-रास-लीला जगद्-एक-मनोहरा ।

यया श्री-गोप-नारीणां लक्ष्मीतो महिमाधिकः ॥

इत्थम् ईदृशीर् भगवतस् तादृश-वचनादिना निजाशेष-भगवतां प्रकटयतः । अतः सुपेशलाः परम-मनोहराः । विरहो भूतो भावी च तज्जं तापं जहुः । पूर्वम् उक्तस्याप्य् अस्यात्र पुनर्-उक्तिः । विरहेऽप्य् अपरित्यजनात् । तया विशेषतो निज-ऋणित्वादि-प्रतिपादनेनापुनर्-विच्छेदस्य मननाच् चाधुनैव सम्यक् ताप-त्याग-विवक्षया, यतो गोप्यः सहज-प्रेम-रस-परिप्लुत-चित्ता इत्य् अर्थः । किं च, तद्-अङ्ग- इति आलिङ्गन-कर-ग्रहणादिना सम्पन्न-मनोरथाः सत्य इत्य् अर्थः । यद् वा, भगवत एव विशेषणं सुपेशल-वाग्-हेतुत्वेन तासां गोपीनाम् अङ्गैर् उपचिताशिष इति ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :

रास-लीला जयत्य् एषा जगद्-एक-मनोहरा ।

यस्यां श्री-व्रज-देवीनां श्रीतोऽपि महिमा स्फुटः ॥

इत्थम् ईदृशीः सुपेशलाः परम-मनोहराः । विरहो भूतो भावी च तज्जं तापं जहुः विरहेऽप्य् अपरित्याग-श्रवणात्, तथा विशेषतोऽपि निज-ऋणित्वादि-प्रतिपादनेन च दवात् पुनर् विच्छेदेऽप्य् अत्यन्त-परित्याग-शङ्कापगमाच् च । अतः पूर्वम् उक्तस्याप्य् अत्र पुनर्-उक्तिर् अधुनैव सम्यक् ताप-परित्यागस्य विवक्षया । किं च, तद्-अङ्ग- इति आलिङ्गन-कर-ग्रहादिना सम्पन्न-मनोरथाः सत्यः । यद् वा, भगवत एव विशेषणं सुपेशल-वाग्-घेतुत्वेन तासां गोपीनाम् अङ्गैर् उपचिताशिष इति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विरहो भूतो भावी च, तज्जम् । विरहेऽप्य् अपरित्यजनान् निज-ऋणित्वाङ्गीकाराच् च ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तावतैव भगवद्-अनुनयेन तासां हृत्-तापो व्यरमद् इत्य् आह—इत्थम् इत्य्-आदि । सुपेशला सुस्निग्धाः तद्-अङ्गैः श्री-कृष्णाङ्गैर् उपचिता आशिषः सुखानि यासाम् । एवम् उक्त्वा युगपद् एव सर्वाः प्रत्येकम् आलिङ्गितवान् इति ध्वनिः ॥१॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) :

रासोपदेशतः कृष्णः स्व-माधुर्य-प्रकाशनैः ।

रसज्ञान् नन्दयन् जीयात् गोपी-मण्डल-मध्यगः ॥

इत्थं स्वस्य न्यूनतया ऋणित्व-प्रकाशनेन च गोपीनाम् उत्कर्ष-वर्णनेन सुपेशलाः मनोरञ्जन-करी भगवतो रसैश्वर्य-पूर्णस्य वाचः श्रुत्वा दत्तावधानत्वेनावर्ण्य गोप्यः श्री-कृष्णोक्ति-श्रवणज-सुखं गोपायन्त्य विरहजं भूत-भव्यं विरहजं तापं जहुः, तद्-वाक्य-विश्वासाद् इति । कीदृश्यः ? तस्य तस्य भगवतोऽङ्गैः कर-चरणाद्य्-अवयवैः आलिङ्गनादिषु स्पृष्टैर् उपचिताशिष उत्तरोत्तर-वर्धित-मनोरथाः । यथा स्वप्नेऽनुभूतं दुःखम् उत्थाने स्वत एव विनश्यति तद्वद् इति ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयस्त्रिंशे रास-लास्य-विहार-जल-केलयः ।

प्रश्नोत्तराण्य् अप्य् उक्तानि परीक्षिच्-छुकदेवयोः ॥

सुपेशलाः अति-मनोहराः तस्याङ्ग-स्पर्शादिना उपचिता आशिषः कामा यासां ताः । भगवत एव वा विशेषणम् । गोपी-गात्र-स्पर्श-जनित-सुखस्येत्य् अर्थः । तेन च प्रश्नोत्तर-समाप्तौ मान-शान्त्या तदा आलिङ्गन-चुम्बनादि-विलासा आसन्न् इति द्योतितम् ॥१॥


॥ १०.३३.२ ॥

तत्रारभत गोविन्दो रास-क्रीडाम् अनुव्रतैः ।

स्त्री-रत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्ध-बाहुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रास-क्रीडां रासो2 नाम बहु-नर्तकी-युक्तो नृत्य-विशेषः, तां क्रीडाम् । अन्योन्यम् आबद्धाः संग्रथिता बाहवो यैस् तैः सह ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कालिन्दी-तटे । गोविन्द इति गोपीनां श्रुत्य्-अवतारत्वाद् वा वेद-लक्षणा वाणी-रूपा गोपीर् विन्दति लभत इति गोविन्दः । गोपीभिः श्रुति-रूपाभिर् गोपीभिर् लभ्यत्वाद् वा । रास-क्रीडा इति । भक्ति-प्रसन्न-भगवत्-प्रीतिर् एवानन्दानुभवे कारणं नान्यत् साधनम् इति दर्शयितुं रास-क्रीडाम् आह—जक्षन् क्रीडन् नममाणः [छा।उ। ८.१२.३] इति श्रुतेः । साक्षाद् रास-लीलाम् एवाह श्रुतिः—

पद्या वस्ते पुरु-रूपा वपूंष्य् > ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा । > ऋतस्य सद्म वि चरामि विद्वान् म > महद् देवानाम् असुरत्वम् एकम् ॥ [ऋ।वे। ३.५५.१४] इति ।

अस्या अर्थः—पद्या योग्या कृष्ण-मूर्तिर् बहु-रूपा वपूंषि बहूनि वस्ते परिधत्ते । तस्याप्य् अन्योर्ध्वा गोपा सङ्ग-रहिता तस्थौ । मध्य इति शेषः । किं-भूता ? त्र्यविं त्रेधा-भूतां दृष्टिं रेरिहाणा गिलन्ती । रासे हि एकैकास्या गोप्या उभयतः कृष्ण-द्वयं पुरस्ताद् एकः, सा मूर्तिर् ऋतस्य धर्मस्य सद्म-भूता, ताम् अनुचिन्त्य वि चरामि त्वद्-वियुक्ता सती विद्वान् जानती [काय्]{।मर्क्} अवदत्—देवानां कृष्णेन वियोजयताम् असुरत्वं निर्दयत्वम् एकं मुख्यं महद् इति कृष्ण-तिरोधाने ज्ञेयम् इति भावः । रास-लक्षणा तु—

एकस्य पुंसो बह्वीभिः स्त्रीभिः क्रीडा तु मण्डलैः । > हल्लीसक-क्रीडनकं रास-क्रीडां विदुर् बुधाः ॥ इति ।

नारद-पुराणे तु—

पृथुं सुवृत्तं मसृणं वितस्ति-

मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।

आक्रम्य पद्भ्याम् इतरेतरैस् तु

हस्तैर् भ्रमो\ऽयं खलु रास-गोष्ठी ॥ [ना।पु। १.८०.११६] इत्य् उक्तम्


आगमे त्व् अस्येयं प्रक्रिया—पृथ्वी-कीलकोपरि मणि-हाटक-सम्बद्ध विशालं चक्रम्, तद्-उपर्य् अष्ट-दलं तत्-समानं कमलं चतुर्-अङ्गुलोन्नतम् । तद्-उपरि युगपद् आक्रमणेन कर्णिकायां स्थितेन परितो वल्लवी-मण्डले च सता श्री-कृष्णेन तद्-भ्रामण-पूर्वकं सम-काल-गानं विचित्र-नृत्यम् अनुष्ठितम् इति ।

विजयध्वजस् तु—नृत्यादिषु भरत-रीति-संज्ञेषु गातुम् उपक्रान्तेषु योधि-रसोल्लासो जायते, स रसस् तत्-सम्बन्धी रसो रासस् तद्-उद्रेकेण क्रीडा नृत्य-विशेषः इत्य् आह ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्र इत्य्-आदि । स्त्री-रत्नैर् इत्य् अस्य विशेषणानि—अनुव्रतैः अनुव्रतं व्रतं कात्यायनी-व्रतं येषां, तैः प्रीतैः प्रीणनं प्रस्तिया इतैः प्राप्तैः अन्यैश् च वंशी-नादाकृष्टैर् बहु-विधैर् गोपी-जनैर् अन्योन्यम् आबद्धाः सम्यक् बद्धा बाहवो यैर् इति । एका गोपी एकः कृष्ण इति प्रथमं न सङ्गच्छते, रत्नैर् इति सर्वासाम् एव तुल्यत्वात् ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव रास-क्रीडाम् आरभत, आसनं विहाय कर्तुं प्रवृत्तः । गोविन्द इति श्री-गोकुलेन्द्रतया तत्र निजाशेषैश्वर्य-विशेष-प्रकटनेन परम-पुरुषोत्तमता। स्त्री-रत्नैर् इति तासां च सर्व-स्त्री-वर्ग-श्रेष्ठता प्रोक्ता । इति रास-क्रीडायाः परम-सामग्री दर्शिता ।

ननु तस्य साक्षात् तासां नृत्यादौ लज्जा युज्यते ? तत्र इति ताम् एव प्रथयति । अनुव्रतैस् तद्-इच्छैकानुसारिभिस् तद्-अनुकूल-तत्-सदृश-कलाभिज्ञैर् इत्य् अर्थः । कुतः ? प्रीतैस् तद्-वाक्यादिना प्रहृष्टैः । यद् वा, तत्-प्रेम-भर-विशेषैर् इत्य् अर्थः । अतोऽनुव्रतैस् तद्-एकाधीनैः । अत एव अन्योन्यम् आबद्ध-बाहुभिःबाहवोऽत्र करा ज्ञेयाः, अन्यथा नृत्यादि-सौन्दर्यासम्पत्तिः । अन्योन्यत्वं च तासाम् एव, न तु तेन सहेति, तद्-बाहुभ्यां तासां प्रत्येकम् उभयतः कण्ठ-ग्रहणात् । एतच् च रास-क्रीडा-लक्षणं—

नटैर् गृहीत-कण्ठीनाम् अन्योन्यात्त-कर-श्रियाम् । > नर्तकीनां भवेद् रासो मण्डलीभूय नर्तनम् ॥ इति ।

अयम् अस्मन्-मण्डली-मध्येऽत्रैवास्ताम्, न च निःसरत्व् इति आबद्धेत्य् आ-शब्द-गूढाभिप्रायः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र इति । तद् एवं ताभिः सहात्मनः ऐकमत्ये सतीत्य् अर्थः । रास-क्रीडाम् आरभत परमाभिलषितानां तासां [लाभेत]{।मर्क्} पूर्वम् एव कर्तुम् ईप्सितां महोत्सव-रूपां तत् क्रीडां कर्तुं प्रवृत्तः । गोविन्द इति श्री-गोकुलेन्द्रतायां निजाशेषैश्वर्य-माधुर्यावशेष-प्रकटनेन परम-पुरुषोत्तमता, स्त्री-रत्नैर् इति तासां च सर्व-स्त्री-वर्ग-श्रेष्ठता प्रोक्ता । रत्नं स्व-जाति-श्रेष्ठेऽपि इति नानार्थ-वर्गात् । इति रास-क्रीडायां परम-सामग्री दर्शिता । अत एव प्रीतैस् तत्-प्रेम-भर-विशेषैः । अतोऽनुव्रतैस् तद्-एकाधीनैः । अत एव अन्योन्यम् आबद्ध-बाहुभिःबाहवोऽत्र करा ज्ञेयाः । अन्योन्यत्वं च तासाम् एव । न तु तेन सह तद्-बाहुभ्यां तासां प्रत्येकम् उभयतः कण्ठ-ग्रहणात् । एतद् धि रास-क्रीडा-लक्षणं—

नटैर् गृहीत-कण्ठीनाम् अन्योन्यात्त-कर-श्रियाम् ।

नर्तकीनां भवेद् रासो मण्डलीभूय नर्तनम् ॥ इति ।

"अयम् अस्मन्-मण्डली-मध्येऽत्रैवास्ताम्, न च निःसरतु" इति आबद्धेत्य् आ-शब्द-व्यञ्जितस् तासां गूढाभिप्रायः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं तत्र प्रसन्नाभिर् एव ताभिः समं पूर्वोक्त-लक्षणं रासम् आरब्धवान् इत्य् आह—तत्र इत्य्-आदि । स्त्री-रत्नैः स्त्रीषु मध्ये ईश्वर-रूपा लक्ष्मी-स्वरूपा याः, तासाम् अपि रत्नै रत्न-भूतैः, अनुगतं व्रतं येषां तैः, कुमारी-गणैश् च, प्रीतैः प्रीणनं प्रीः, तया इतैः प्राप्तैर् वेणु-नादाकृष्टैर् अन्यैश् च गोपाङ्गना-गणैश् च । कीदृशैः ? अन्योन्याबद्ध-बाहुभिः कुमारीभिः, कुमार्यस् तद्-इतराभिस् तद्-इतरा अन्योन्याबद्ध-बाहवः । अथवा, एका कुमारी एका तद्-इतरेति वैचित्र्य्-अर्थं तथा बद्धः । अथवा, मण्डल-द्वयम् अन्वितो मध्य-वर्ती सन्न् अनुगतः ॥२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं प्रस्तुतं रास-क्रीडा-विनोदं प्रकाशयन् स्व-प्रतिश्रुतम् अर्थं साधयति—तत्र इति । यत्रोपविष्टः सान्त्वनम् अकरोत्, तत्र पुलिने गोविन्दो गोकुलेन्द्रत्वं प्रकटयन् रास-क्रीडाम् आरभत प्रारब्धवान् । रासो नाम बहु-नर्तकी-नृत्य-विशेषः । रसस्याभिव्यक्तिर् यस्माद् इति वा सः रसोत्पत्त्य्-अर्थम् एव नृत्यं । रसस् तु मानसो धर्मः, शरीर-चेष्टा मनस्य् आविर्भवति । नृत्यस्य शरीर-कृति-साध्यत्वं नृत्यस्याविर्भवकत्वं । नित्य-सिद्धस्य मानस-भाव-रूप-रसस्याविर्भाव्यत्वम् । इक्षु-काण्डे पूर्व-सिद्धो रसः पीडनाद् आविर्भवति । तथा नृत्य-गीतादिना मधुर-रसस्याविर्भावः । अनेन रसस्यानादित्वं नित्यत्वं च सूचितम् ।

रस-साधकत्वम् आह—स्त्री-रत्नैर् अन्वित उत्तम-स्त्री-कदम्बैर् इति स्वाभाविक-काम-कला-कौशलं सूचितम् । अन्वित इति रस-विशेषोत्पत्तिश् च सूचिता । हरिद्रा-चूर्ण-संयोगवत् साहित्ये साम्यं सूचितम् । यदि तासु स्वाभाविक-कला-कौशलं स्यात्, तदा भगवत ऐश्वर्यान् निरोधो न स्यात् इति । किं च, भगवतोऽपि रसोत्पत्ताव् अशक्यत्वं स्यात् । न हि सिकता-समूहे तैलम् उत्पद्यते, अपि तु तिलेभ्य एवेति । अयम् अलौकिको रसोऽलौकिकेष्व् एवोत्पद्यते । एतास् तु त्रिलोकी-मध्य-जात-स्त्रीभ्यो विलक्षणा विधातृ-सृज्यत्वाभावात् । अत एवैतासां मधुर-रसाविर्भावत्व-योग्यता सूचिता ।

गोविन्द इति नायक-शिरोमणित्वं सूचितम् । एक-जातीय-विलक्षण-रसोत्पादकत्वेन सामर्थ्य-द्योतनार्थम् अन्वितत्वं, न हि विजातीयाद् रसोत्पत्तिर् इति कुत्रापि दृष्टं श्रुतं चेति । अत एव तद्-आलिङ्गन-चुम्बनादिना प्रीतैर् इति रसाधिकृतत्वं सूचितम् । प्रभु-सम्मानितानाम् अधिकृतनां कार्य-संसाधकत्वं भवतीति प्रसिद्धेः । तासां रास-क्रीडायाम् अभिनिवेशम् आह तावद् आदौ—अन्योन्याबद्ध-बाहुभिः । अन्योन्या आ समन्तात् बद्धा बाहवो याभिः, श्री-कृष्णस्य मध्य-नायकवन् मध्येऽवस्थितित्वाद् इति ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृत्य-गीत-चुम्बनालिङ्गनादीनां रसानां समूहो रासः, तन्-मयी या क्रीडा, ताम् अनुव्रतैस् तदानीं परस्परैकमत्येन स्वानुकूलैः । अन्योन्यम् आबद्धाः सङ्ग्रथिता बाहवो यैः, तैः सह ॥२॥


॥ १०.३३.३-४ ॥

रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः ।

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः ।

प्रविष्टेन गृहीतानां कण्ठे स्व-निकटं स्त्रियः ॥

यं मन्येरन् नभस् तावद् विमान-शत-सङ्कुलम् ।

दिवौकसां स-दाराणाम् औत्सुक्यापहृतात्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-साहित्यम् अभिनयेन दर्शयति—रासोत्सव इत्य् अक्षर-अवरुद्ध्प्रविष्टेन तेनैव कण्ठे गृहीतानाम् उभयत आलिङ्गितानाम् । कथंभूतेन ? यं सर्वाः स्त्रियः स्व-निकटं माम् एवाश्लिष्टवान् इति मन्येरंस् तेन एतद् अर्थं द्वयोर् द्वयोर् मध्ये प्रविष्टेनेत्य् अर्थः। नन्व् एकस्य कथं तथा प्रवेशः, सर्व-सन्निहितत्वे वा कुतः स्वैक-निकटत्वाभिमानस् तासाम् इत्य् अत उक्तं—योगेश्वरेणेति । अचिन्त्य-शक्तिनेत्य् अर्थः ॥३॥

तावत् तत्-क्षणम् एवौत्सुक्य-व्याप्त-मनसां स-स्त्रीकाणां देवानां विमान-शतैः सङ्कुलं सङ्कीर्णं नभो बभूव ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य तासां वा साहित्यम् । अभिनयेन रचनया । एतद्-अर्थं स्व-स्वोपकण्ठ-मननार्थम् । इत्य् अर्थ इति—अन्तरा-प्रदेशं विना स्व-स्व-निकट-मननं न सम्भवतीत्य् आशयः । तद्-असम्भवं मत्वा शङ्कते—नन्व् इति । इत्य् अर्थ इति—न तद् इहास्ति लोकेषु यद् योगेन न जायते इत्य्-उक्तेः । सर्व-वस्तु-सम्पादनं तु योगिनापि क्रियते, किम् उत योगेश्वर-श्री-कृष्ण-वैभवम् इति तात्पर्यम् । गोपी-मण्डलेति—प्रियाम् अङ्के निधाय वेणुं वादयन् तडिन्-मेवोपम एकः प्रकाशो मेढी-भूतो मध्ये विराजते यम् अपेक्ष्य मण्डलः स्याद् इति ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : द्वयोर् द्वयोर् मध्ये प्रविष्टेन कण्ठे गृहीतानाम् इत्य् अत्र भ्रमण-कौशलम् । तत्र योगेश्वरः कृष्णो हेतुः । अत एव स्व-निकटं यं मन्येरन् मेनिरे, न तु तद् वास्तवम्, योगेश्वर-मात्रस्यैव काय-व्यूह-करण-सामर्थ्यम् । तत् कृत्वा एकेनैव श्री-विग्रहेण यद्-व्यापकत्वं तद् एवाचिन्त्यम् ऐश्वर्यम्, तर्हि, कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः [भा।पु। १०.३३.१९] इति । कथं सङ्गच्छताम् ? सत्यम्, तत्रैव व्याख्या यावतीर् यावत प्रमाणा यावद्-आशाया वा तावत्-प्रमाणं तावद्-आश्रयम् इति वा कृत्वा । अतः कौशलम् एवाङ्गीकार्यम् ॥३-४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रासः परम-रस-कदम्ब-मय इति श्लेषार्थः । स एवोत्सवः क्रीडा-विशेषः सुख-विशेष-साधन-सार-समुच्चयो वा । कृष्णेन परमानन्द-घन-मूर्तिना हेतुना सम्यक् प्रवृत्त इति । सम्प्रवृत्तौ रासस्य कर्तृत्व-निर्देशेन प्राधान्योक्त्या सर्व-लीलानां नित्यत्वादिकेऽप्य् अस्य सर्वतो वैशिष्ट्यम् एवाभिप्रेतम् । सम्यक्त्वम् एव दर्शयति—गोपीनां मण्डलेन मण्डितः इति । तद्-विशेषश् चोक्तः श्री-पराशरेण—

रास-मण्डल-बद्धोऽपि कृष्ण-पार्श्वम् अनूद्गता । > गोपीजनो न चैवाभूद् एक-स्थान-स्थिरात्मना ॥ > हस्ते प्रगृह्य चैकैकां गोपिकां रास-मण्डलम् । > चकार च कर-स्पर्शं निमीलित-दृशं हरिः ॥ > ततः प्रववृते रम्या चलद्-वलय-निस्वनैः । > अनुयात-शरत्-काव्यः गेय-गीतिर् अनुक्रमात् ॥ [वि।पु। ५.१३.३२-३४] > इति ।

किं च, तासाम् इति तथा चोक्तं श्री-बिल्वमङ्गलेन—

अङ्गनाम् अङ्गनाम् अन्तरे माधवो > माधवं माधवं चान्तरेणाङ्गना । > इत्थम् आकल्पिते मण्डले मध्यगः > सञ्जगौ वेणुना देवकी-नन्दनः ॥ [कृ।क। २.३५] इति ।

एतद्-अनुसारेण सर्व-मध्ये मेधीभूतः शङ्कु-स्थानीय एको बोद्धव्यः, अन्यथा पार्श्व-द्वयस्य गोपी-द्वय-कण्ठ-ग्रहणेन वेणु-धारण-सिद्ध्या रास-महोत्सवे परम-मङ्गल-मधुर-मोहन-तद्-वाद्याभावापत्तिः, तद्-अभिप्रायेणैव वक्ष्यते—मध्ये मणीनां [भा।पु। १०.३३.६] इत्य्-आदि


स्त्रिय इति । स्त्रीषु सत्-पुरुषस्य तथैव कृत्यं युक्तम् इति बोधयति । अन्यथा वैषम्येण दोषापत्तिः सुख-भङ्गश् चेत्य् अर्थः । एकस्यैव तथा प्रवेशः सर्वासां च प्रत्येकं युगपत् कण्ठ-ग्रहणम्, तथापि तासां स्व-निकटत्व-मानः । तत्र च पार्श्व-द्वये वर्तमानस्याप्य् एकत्वेनैव मानः । तत् सर्वं च तत्-तल्-लक्षितम् इत्य्-आद्य् अशेषासमञ्जसं समादधद् आह—योगोऽचिन्त्याद्भुत-शक्ति-विशेषस् तस्येश्वरेणेति ।

द्यौर् आकाश ओको निवासी येषाम् इति स्वभावत एव व्योम्नि भ्रमताम् अकस्माद् रास-क्रीडा-दर्शनात् संहता तत्र तापिन् इत्य् अर्थः । अत एव विमान-शत-सङ्कुलं नभो बभूव । यद् वा, द्यौः स्वर्गस् ततश् च स्वर्गेऽपि तादृशोत्सवासद्-भावः, तेषां स्व-स्व-सेवाया वरोऽवसरोऽपि सूचितः । अत एवौत्सुक्येति । इत्य् असमयेऽप्य् आगमन-दोषः परिहृतः । अथवा एते खलु श्री-भगवत्-क्रीडाया आन्तरिक्षः परिकरा देव-विशेषा ज्ञेयाः । अत एवोक्तं—दिवौकसां तत्-क्रीडोपकरणत्वेन सदा सावधानं व्योम्न्य् एव वर्तमानानाम् इत्य् अर्थः । एवम् अयत्राप्य् ऊह्यम् ॥३-४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रासः परम-रस-कदम्ब-मय इति यौगिकार्थः । स एवोत्सवः क्रीड-विशेष-रूपः सुख-मयः पूर्वं कृष्णेन परमानन्द-घन-मूर्तिना निमित्तेन सम्यक् प्रवृत्तः । सम्यक्त्वम् एव दर्शयति—गोपीनां मण्डलेन मण्डितः इत्य् एवं तासां शोभा-हेतुत्वम् अधिकं दर्शितम् । तत्-प्रवर्तने तद्-विशेषश् चोक्तः श्री-पराशरेण—

रास-मण्डल-बद्धोऽपि कृष्ण-पार्श्वम् अनूद्गता ।

गोपीजनो न चैवाभूद् एक-स्थान-स्थिरात्मना ॥

हस्ते प्रगृह्य चैकैकां गोपिकां रास-मण्डलम् ।

चकार च कर-स्पर्शं निमीलित-दृशं हरिः ॥

ततः प्रववृते रम्या चलद्-वलय-निस्वनैः ।

अनुयात-शरत्-काव्यः गेय-गीतिर् अनुक्रमात् ॥ [वि।पु। ५.१३.३२-३४] इति


किं च, तासाम् इति द्वयोर् इत्य् उक्ते एकत्रैव मध्ये स्थितिर् बोध्यते । तन्-निवारणार्थं वीप्सा । अत एव मध्ये मणीनाम् इत्य् अत्र मध्ये इति सामान्यं वक्ष्यते कृष्णस्याप्य् उभयतः स्थितत्वेन दोर्भ्यां गृहीत-कण्ठ्य इति च । तथा चोक्तं श्री-बिल्वमङ्गलेन—

अङ्गनाम् अङ्गनाम् अन्तरे माधवो

माधवं माधवं चान्तरेणाङ्गना ।

इत्थम् आकल्पिते मण्डले मध्यगः

सञ्जगौ वेणुना देवकी-नन्दनः ॥ [कृ।क। २.३५] इति ।

व्यक्तीभविष्यति च क्रम-दीपिका-वचनेन—सुदृशाम् उभयोः पृथग्-अन्तरगं [क्र।दी। ५.५६] इत्य् अनेन । अत एव तत्-तद्-युग्म-पूजैव तत्र विहिता, न तु तत्-तत्-त्रिक-पूजेति ।

स्त्रिय इति । स्त्रीषु परमानुरागेण युगपद्-आत्म-सङ्गम् अभीप्सुषु सत् पुरुषस्य तथैव कृत्यं व्यक्तम् इति बोधयति । अन्यथा वैषम्येण दोषापत्तिः सुख-भङ्गश् चेत्य् अर्थः । यं स्व-निकटम् एव मयेरन्न् अमसतेत्य् अत्रेदं विवेचनीयम् । रास-महोत्सवोऽयं परस्पर-सुखार्थम् एव श्री-कृष्णेन प्रारब्धः । तस्माद् रासस्य सर्व-शोभा-दर्शनं श्री-गोपीनां सर्वासाम् एवावश्यापेक्ष्यम् इति तासाम् इदम् एव भानं योग्यम् । कयाचिन् नाट्य-विद्ययैवासौ बहुत्र भाति मया तु गृहीत एव । अन्यथा स्व-निकटम् एवापश्यन्न् इत्य् उच्येत किं च ताभिः प्रियस्य स्व-स्व-निकट एव स्थितिं मन्यमानाभिस् तस्य स्व-पार्श्व-द्वयेऽपि वर्तमानतातुलानन्द-ग्रस्त-बुद्धित्वेन विवेक्तुं शक्येति गम्यते । तस्मात् पूर्वत्र चात्र चानन्द-मोह एव मूलं कारणं ज्ञेयम् । अत्र चैकस्यैव तथा प्रवेशादिकं समादधद् आह—योगो योग-मायाचिन्त्याद्भुत-शक्ति-विशेषस् तस्येश्वरेणेति स्वाभाविकं तच्-छक्तित्वेनैव प्रेरणां विनापीच्छा-मात्रेण तत्-तद्-उदय इति व्यञ्जितं द्यौर् आकाश ओको निवासी येषाम् इति स्वभावत एव व्योम्नि भ्रमताम् अकस्माद् रास-क्रीडा-दर्शनात् संहतानाम् इत्य् अर्थः । अत एव विमान-शत-सङ्कुलं नभो बभूव । चन्द्र-दिशं परित्यज्य चन्द्रोपर्य् एव वा ज्ञेयम् । दिवौकसां ब्रह्म-रुद्रादीनाम् इति । स्वर्गादाव् अपि तादृशोत्सवासद्-भावः सूचितः । तत्रैवात्यौत्सुक्येति औत्सुक्यम् अत्र नृत्यांश एव, न तु रहस्य-विलासांशेऽपि दासत्वेनायोग्यत्वात् । तत एवाधुनेवागतत्वात् । अत एव योगमायया तेषां रहस्यं प्राप्ति-दृष्ट्य्-आच्छादनम् अपि ज्ञेयम् ॥३-४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : योगोऽचिन्त्य-शक्तिः ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्-प्रकारम् आह—रासोत्सव इत्य्-आदि । रास-नामा उत्सवो यत्र स तथा रास-लास्योचित-स्थल-विशेषः । सम्प्रवृत्तः प्रादुरासीत् । गोपीनां मण्डलेन मण्डलैर् वा मण्डितः । कृष्णेन च मण्डित इत्य् अन्वेतव्यः । अथ कृष्णेन सम्प्रवृत्तः, सम्प्रवर्तित इत्य् अर्थः । योगेश्वरेणाचिन्त्य-परमैश्वर्येण कण्ठे गृहीतानां तासां द्वयोर् द्वयोर् मध्ये प्रविष्टेन भ्रमण-कौशलेनातिवेगवता । अनेन योगेश्वरत्वं प्रकटितम् । अथवा, द्वयोर् मण्डलयोर् मध्ये द्वयोर् मण्डलयोर् मण्डल-द्वय-मध्य-वर्तिनीनां कण्ठे गृहीतानां तासां मध्ये प्रविष्टेन स्त्रियस् तं स्व-निकटं मन्येरन् । स्त्रिय इति मण्डल-द्वय-मध्य-वर्तिन्यः । एतद् एव योगेश्वरत्वम् । वस्तुतस् त्व् एक एव सर्व-निकटस्थः, न तु नानात्वेन । अत एव स्व-निकटं मन्येरन् मेनिरे, न तु नानात्वं वास्तवम्, योगेश्वर-मात्रस्यैव काय-व्यूह-करण-सामर्थ्यम्, तद् अकृत्वा एक एव यद् व्यापकत्वेन स्फुरति, त एवाचिन्त्य-परमैश्वर्यम् । तर्हि—कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः [भा।पु। १०.३३.१९] इति कथं सङ्गच्छताम् ? सत्यम् । अत्रैवं व्याख्या—यावतीर् यावत्-प्रमाणा यावद्-अवयवाशयवत्यस् तावन्तं कृत्वा ताव-प्रमाणत्वेन तावद्-आशयत्वेन स्फुरति । तदा नभस् तावत् सकलं नभ इत्य् अर्थः । यावत् तावच् च साकल्ये इत्य्-उक्तेः । सदाराणां दिवौकसां विमान-शत-सङ्कुलम् आसीद् इत्य् अर्थः । तद्-दर्शनार्थम् अत्यौत्सुक्य-भूता आत्मानो येषाम् ॥३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं स्वयम् आचितायां रास-क्रीडायाम् अभिनिवेशम् आह—अक्षर-चतुष्टयाधिक्येन सार्ध-श्लोकेनेति । रासः रसाविर्भावको नृत्य एवोत्सव-विशेषः सम्यक् प्रवृत्तः । तत्र हेतुम् आह—श्री-कृष्णेन मूर्तमता शृङ्गारेणेत्य् अर्थः । सम्यक्त्वं विशदयति—गोपी-मण्डल-मण्डितः । गोपी-मण्डलेन मण्डितो\ऽलङ्कृतः । यद् वा, गोपी-मण्डलं मण्डितं येनेति । तेन सदानन्द-रूपेण तासां मण्डलाकारेण स्थितानाम् उभयतः कण्ठे गृहीतानां द्वयोर् द्वयोर् इति । कृष्णोभयतः पार्श्व-द्वये स्थितत्वेन गृहीत-कण्ठत्वम् उच्यते । तद् उक्तं पराशरेणापि—

रास-मण्डल-बद्धोऽपि कृष्ण-पार्श्वम् अनूद्गता । > गोपीजनो न चैवाभूद् एक-स्थान-स्थिरात्मना ॥ > हस्ते प्रगृह्य चैकैकां गोपिकां रास-मण्डलम् । > चकार च कर-स्पर्शं निमीलित-दृशं हरिः ॥ > ततः प्रववृते रम्या चलद्-वलय-निस्वनैः । > अनुयात-शरत्-काव्यः गेय-गीतिर् अनुक्रमात् ॥ [वि।पु। ५.१३.३२-३४]

ननु द्वयोर् द्वयोर् मध्ये प्रविष्टेन उभयतः कण्ठालिङ्गितत्वेन च स्वरूप-बहुत्वं प्रतीयते इति चेत्, तत्राह—यं मन्येरन्न् इति । लिङ्गेन गोपी-दृष्ट्य्-अभिप्रायेण स्वरूप-बहुत्वम् इव प्र्तीयत इति । एतद्-अभिप्रायेण गोपी-मण्डल-मध्ये शङ्कु-स्थानीयः एक एव बोद्धव्यः । अन्यथा स्वरूप-बहुत्वे यं स्व-निकटं मन्येरन्न् इति स्वैक-निकटत्व-भान-कथनं न स्याद् इति । स्वरूपाणां बहुत्वेन मायिकत्वे तासां निष्कपट-भजनेन वै सादृश्याद् इति । सुख-भङ्ग-पर्यवसायि-रसाभासश् च भवेद् इति । अत एव आचार्यैः वाकरिष्यते—मध्ये मणीनां [भा।पु। १०.३३.७] इति यथा मध्ये\ऽनावृत्तिर् एक-वचनं च गोपी-दृष्ट्य्-अभिप्रायेणेति ।

ननु एकस्य कथं द्वयोर् द्वयोर् मध्ये प्रवेशो युगपत्-कण्ठ-ग्रहणं पार्श्व-द्वये\ऽपि एकत्व-भावः । स्व-सम्मुख-स्थितानां पार्श्व- द्वय-स्थितेन कृष्णेन गृहीत-कण्ठानां दर्शनेन कथं नेर्ष्यादयः ? तत्राह—योगेश्वरेणेति । अचिन्त्याद्भुत-शक्ति-विशेषो योगस् तस्येश्वरेण नियन्त्रा सर्व-सान्निहितत्वं कर्तुं समर्थेनेति । अग्रे वक्ष्यति—

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । > गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२]

यथा तत्रैकस्यैव वपुषो\ऽचिन्त्य-शक्तित्वं सर्वत्र पूर्णत्वं नारदेन प्रत्यक्षतो दृष्टम्, तथा तत्रापि स्वरूपैक्यं सर्व-सन्निहितत्वं च न चित्रम्, न हि भगवच्-छक्ति-योगमायाया अयम् अतिभार इति । योगमायाम् उपाश्रित इत्य् उक्तम् एव । अन्यथा तासाम् एक-स्वरूप-भजने निष्कपटे प्रेम्णि च सकपट-बहु-रूप-प्रदर्शनं न न्याय्यम् इति भावः ॥३॥

अत एवोक्तं—यं मन्येरन्न् इति । उक्तं च—

जगद् धन-मयं लुब्धाः कामुकाः कामिनी-मयम् । > नारायण-मयं धीराः पश्यन्ति परमार्थिनः ॥ इतिवत् ।

स्व-निकट-माने न चित्रम्, किं च यथा मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३८] इति । अत्र भगवतो\ऽचिन्त्य-शक्तेर् एव हेतुत्वं किम् उत तासां स्वैक-निकटत्व-माने इति । वपुषो\ऽद्भुतापरिच्छिन्नत्वे योगेश्वरेणेति हेतुः । अन्ये\ऽपि योगिनो भगवत्-प्रसादोचित-सामर्थ्याः सर्व-सन्निहिता भवन्ति । किम् उत भगवान्न् इति योगेश्वरे इति ।

रासोत्सव-प्रवृत्ते दिवौकसां विमान-शतम् इत्य् अर्थः । अन्येषां तत्राप्रवेशात् सदाराणां स्त्रीणाम् अपि दिदृक्षासम्भवात् । अत एवौत्सुक्येन कौतुकेनापहृतात्मनाम् आकृष्ट-चित्तानां च स्थितिर् उद्दीपकत्वेनोक्तम् इति । रासोत्सवं प्रतीक्ष्यमाणानां तेषां विमान-शतैः शत-शब्दस् त्व् असङ्ख्यात-वाची असङ्ख्यातैर् इत्य् अर्थः । तैः अङ्कुलं नभ आसीद् इति ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-साहित्य-प्रकारं दर्शयति—रासोत्सव इति । षड्-अक्षर-न्यून-सार्धेन । रास एव उत्सवः भक्त-जन-दृङ्-मनश्-चातकेभ्यः आनन्दामृत-प्रदायकः सम्यग् एव प्रवृत्तः । केन ? तासां मण्डल-रूपेणावस्थितानां गोपीनां द्वयोर् द्वयोर् मध्येन प्रविष्टेन कृष्णेन । अत्र सम्प्रवर्तित इत्य् अनुक्तेः स्वतन्त्र-कर्तृत्वं तस्मै रासायैव ददता स्वयं च करणत्वं भजता श्री-कृष्णेन स्वस्मात् सर्व-शक्तिभ्यश् च सर्व-लीलाभ्यश् च रासस्यैव महोत्कर्षः स्व-दत्तो व्यञ्जयामासे । अत एव लक्ष्मी-प्रभृतयोऽपि तं लब्धुम् उत्कण्ठस् त एव, न तु लभन्ते इति ज्ञेयम् । कथम्भूतानाम् ? तेनैव कण्ठे गृहीतानाम् उभयतः आलिङ्गितानाम् अत्राग्रिम श्लोके मध्ये मणीनां हैमानां महा-मारकतो यथा [भा।पु। १०.३३.७] इत्य् अत्र मध्ये इति पदेन मरकत इत्य् एक-वचनेन चात्र च श्लोके सता मिथो इत्य् अनुक्त्वा प्रविष्टेनेति पदेन च प्रयुक्तेन गोपी-मण्डल-मध्य-कर्णिका-भूत एवं कृष्णो मध्ये स्थितः सन्न् एव तथा-गति-लाघवं प्रकटयामास । यथा मण्डल-स्थानां गोपीनाम् अपि द्वयोर् द्वयोर् मध्ये प्रविष्टो नृत्यतिस्मेत्य् एक-परमाणु-मात्र-कालेनैव मध्य-प्रदेशाद् आगत्य मण्डलस्थास् त्रिशत-कोटि-गोपीः स-नृत्यं परिरभ्य पुनर् मध्य-प्रदेश गत एव बभूवेत्य् अलात-चक्राद् अपि तस्य गति-लाघवम् अधिकम् अभूद् इति ज्ञेयम् । यतो मण्डल-कर्णिका-गतत्वं तस्य तदानीं सर्वैर् दृष्टम् । एवम् एव—

अङ्गनाम् अङ्गनाम् अन्तरे माधवो > माधवं माधवं चान्तरेणाङ्गना । > इत्थम् आकल्पिते मण्डले मध्यगः > सञ्जगौ वेणुना देवकी-नन्दनः ॥ [कृ।क। २.३५]

इति श्री-बिल्वमङ्गल-महानुभाव-चरणैर् उक्तम् । तत्र हेतु-गर्भं विशिनष्टि—योगेश्वरेण निखिल-कला-निधित्वात् तद्-उपाय-महा-विज्ञेन । योगः सन्नहनोपाय-ध्यान-सङ्गति-युक्तिषु इत्य् अमरः ।

यद् वा, योगो योगमाया-दुर्घटना-पटीयसी महा-शक्तिस् तस्या ईश्वरेण । युगपत् सर्व-गोपीनाम् आश्लेषौत्सुक्यं तस्याभिज्ञाय सैव तावतः प्रकाशांस् तस्य प्रकटय्य समादधौ। अत्र द्वयोर् द्वयोर् मध्ये प्रविष्टेनेति वीप्सया एकैक-गोपी-मध्ये द्वि-द्वि-गोपी-मध्ये प्रवेशः सङ्गच्छते इति व्याचक्षते । तत्रैकैक-गोपी-मध्य-प्रवेशे व्याख्यायमाने योगमाया-पक्षे एकस्याः स्त्रियः स्कन्धयोः कृष्ण-प्रकाश-द्वयस्य भुज-स्पर्शानौचित्यं नाशङ्कनीयम् । योगमायैव तां तां प्रत्येकस्यैव प्रकाश-स्पर्श-भान-समर्पणात् । द्वि-द्वि-गोपी-व्याख्याने तु नैवासमञ्जसम् ॥३॥

यं श्री-कृष्णं स्त्रियं स्व-निकटं मन्येरन्, असौ मयाश्लिष्यन्न् एवात्रास्ति, तद् अपि यत् सर्वत्रायं दृश्यते, तद् इयं काचिद् अस्य नाट्य-विद्येत्य् अमंसतेत्य् अर्थः । अत्र मध्यगो देवकी-नन्दनः श्री-वृन्दावनेश्वर्या सहित एवेत्य् आहुः—तस्या एव सर्व-श्रैष्ठ्यात् रास-क्रीडादि-कारणम् इति तदीय-शत-नाम-स्तोत्र-दृष्टेः । तावत् तत्-क्षण एव विमान-शतैर् व्याप्तं नभो बभूव । केषाम् ? दिवौकसां ब्रह्मादीनाम् अत्रौसुक्याद् इति कृष्ण-नृत्यांश एव, न तु रसस्य विलासे । दासत्वेनायोग्यत्वात् तद्-दाराणां तु अनौचित्याभावात् सर्वत्रैव अत एव रासे दिवि पुंसां कृष्ण-दर्शनम् एव न गोपी-दर्शनं योगमायया आवरणाद् इति ज्ञेयम् ॥४॥


॥ १०.३३.५ ॥

ततो दुन्दुभयो नेदुर् निपेतुः पुण्य-वृष्टयः ।

जगुर् गन्धर्व-पतयः सस्त्रीकास् तद्-यशो\ऽमलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्य भगवतः श्री-कृष्णस्यामलं निर्मलं यशो जगुर् इति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो रासोत्सवोपक्रमानन्तरम् । तद्-यशः कृष्णस्य गोपीनां च यशः । अहो श्री-कृष्ण-वैभवम् अहो गोपी-भाग्यम् इत्य् एवं-रूपम् । पुष्प-वृष्टिस् तु रङ्ग-स्थली-मार्दवार्थेति ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तेभ्यो दिवौकसोभ्यः । किं वा, तद्-अनन्तरं स्वयम् एव नेदुर् दिव्यत्वान् महा-मङ्गलोत्सव-स्वभावाद् वा । एवम् अग्रेऽपि । आदौ दुदुभीनां नादो मङ्गलारम्भार्थं स्व-स्व-वर्ग्य-सम्मेलनार्थं च, नितरां पेतुः, नि-शब्देन वृष्टय इति बहुत्वेन च रङ्ग-स्थल्यां पुष्पास्तरणं किल जातम् इति बोध्यते । गन्धर्वाणां पत्यः श्रेष्ठाः । अन्यथा तादृश-नृत्य-योग्य-गानासिद्धिः । तेषां श्रेष्ठ्य-साफल्यासम्पत्तिश् च स्त्रीभिर् अप्सरोभिः स्व-पत्नीभिर् वा सहिता इति सर्वेषाम् एव तद्-एक-निष्ठतोक्ता । न तिष्ठति मलो यस्माद् इत्य् अमलम् इति तेषाम् अपि कामादि-दोषो निरस्तः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तेभ्यो दिवौकोभ्यः । किं वा, तद्-अनन्तरं स्वयम् एव नेदुः दिव्यत्वात् महा-मङ्गलोत्सव-स्वभावाच् च । एवम् अग्रे\ऽपि आदौ दुन्दुभीनां नादो मङ्गलार्थः स्व-स्व-वर्ग-सम्मेलनार्थश् च । नितरां पेतुः नि-शब्देन वृष्टयः इति बहुत्वेन च रङ्ग-स्थल्यां पुष्पास्तरणं किल जातम् इति बोध्यते । स्त्रीभिर् अप्सरोभिः सपत्नीभिश् च सहिता इति सर्वेषाम् एव तद्-एक-निष्ठतोक्ता न तिष्ठति मलो यस्माद् इत्य् अमलम् इति तेषाम् अपि तदानीं सर्व-दुर्वासना निरस्ता ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तेषाम् औत्सुक्यम् आह—ततो दुन्दुभय इत्य्-आदि ॥५॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तन्-मध्ये पुष्प-वृष्टि-गीत-वाद्याधिकारिणां प्रमत्तताम् आह—तत इति । ततो रास-प्रारम्भे जगन्-मङ्गल-सूचिका दुन्दुभयो नेदुः । नृत्योत्साहोद्दीपकाद् इवैश्वर्यादि-महा-नादं चक्रुर् इति । आधिकारिकैर् मोचिताः पुष्प-वृष्टयो निपेतुः । ताल-गति-समाप्ति-सम-कालम् एव नितरां नैरन्तर्येण पेतुः । गन्धर्व-पतयो गन्धर्व-मुख्या अधिकारिणः, तद्-यशो जगुः । सखी-सह्ञाः । अनेन श्री-कृष्ण-गाने गन्धर्व-गानस्य साहित्यं सहायित्वम् उद्दीपकत्वं च सूचितम् । गोपी-गाने तत् स्त्रीणां गानस्य साहित्यं सहायित्वम् उद्दीपकत्वं च सूचितम् । तद्-यशो तासां तस्य च यशः कीदृशम् ? अमलं कामादि-वासना-निरसन-समर्थम् । अत एव रासोत्सवादि-दर्शनेन विषय-वासना-निरासो\ऽपि सूचितः । तद्-दर्शनं न दोषायेति भावः । किं च तत्-कालोपयोगि-सजातीय-पदार्थ-पूर्व-प्रवेशस्य रसोद्दीपकत्वं न विजातीय-प्रवेशस्येति ध्वनितम् ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३३.६ ॥

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।

स-प्रियाणाम् अभूच् छब्दस् तुमुलो रास-मण्डले ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-प्रियाणां कृष्ण-सहितानाम् । तुमुलः सङ्कीर्णः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वलयः कण्ठ-रागे ना कङ्कणे पुं-नपुंसकम् इति मेदिनी । नूपुरः पाद-भूषणे किङ्किणी क्षुद्र-घण्टिका इति कोशः । तुमुलो रण-सङ्कीर्णे इति मेदिनी ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं देव-कृतोत्सवम् उक्त्वा रास-योग्यं वाद्य-गीतादि वक्तुम् आदौ वाद्यम् आह—वलयानाम् इति । किङ्किणीनां काञ्च्य्-आदि-वर्तिनीनां योषिताम् इति । स्त्रीत्वेन सामान्यत एव वलयादि-सद्-भावो, न तु रासार्थं भूषणत्वेन ग्रहणाद् इति बोध्यते । पूर्वं गृहेभ्यो निर्गमे तासां तद्-अपेक्षणात् । स-प्रियाणाम् इति तासां प्रीत्य्-अर्थं तावत्त्वम् इव गतस्य श्री-भगवतो\ऽपि तावद्-वलयादि-शब्दो\ऽभिप्रेतः । रासेन यन् मण्डलं मण्डली-बन्धः, किं वा, रसस्येदं रासं यन् मण्डलं तस्मिन् । यद् वा, रस-समूह इत्य् अर्थः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं देव-कृतोत्सवम् उक्त्वा रास-योग्यं वाद्य-गीतादि वक्तुम् आदौ वाद्यम् आह—वलयानाम् इति । किङ्किणीनां काञ्च्य्-आदि-वर्तिनीनां योषिताम् इति योषित्त्वेन स्वभावत एव वलयादि-सद्-भावः सूचितः । स-प्रियाणाम् इति । तासां प्रीत्य्-अर्थं तावत्तया प्रकाशमानस्य श्री-भगवतो\ऽपि तावद्-वलयादि-शब्दो\ऽभिप्रेतः । रासेन यन् मण्डलं मण्डली-बन्धस् तस्मिन् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ततस् तद्-वाक्द्यानुकारेण मण्डले इतस् ततो विचलन्तीनां सप्रियाणां तासां वलयादिभिः सम-तालः शब्दो बभूवेत्य् आह—वलयानाम् इत्य्-आदि । अन्योन्य-मिश्रत्वात् तुमुलः ॥६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् आकाश-स्थ-गन्धर्वादि-कृत-वाद्यादिकम् उक्त्वा गोपी-मण्डल-मध्य एवान्तरङ्गानि रसोपयोगी-विचित्र-वादित्राण्य् आह—वलयानाम् इति । योषितां गोपीनां वलयानां शब्दो\ऽभूत् । अनेन हस्ताभिनयादि-गत-भेदस्य वल-शब्दोत्पत्ति-जनकत्वं सूचितम् । नूपुराणाम् इति पाद-न्यास-गति-भेदस्य नूपुर-ध्वन्य्-उत्पादकत्वं सूचितम्। किङ्किणीनाम् इति कटि-चालन-भेदस्य किङ्किणी-ध्वन्य्-उत्पादकत्वं सूचितम् । अग्रे वक्षति च—पाद-न्यासैर् भुज-विधूतिभिः [भा।पु। १०.३३.८] इति । एवम् ऊर्ध्वाधो मध्य-मार्गेषु अन्तरङ्ग-वादित्र-शब्दस्य रस-विशेषोद्दीपकत्वं सूचितम् इति । स प्रियाणाम् इति प्रियस्योपसर्जनत्वं वलयादि-वाद्येषु तासाम् एव प्राधान्यात् । रास-मण्डल इति रसस्याभिव्यक्तिर् यस्माद् इति रास एतादृशे मण्डले गोपी-मण्डले । यद् वा, रसस्योदयो यस्मान् नृत्य-विशेषात् स रासस् तस्य मण्डले मण्डलाकारेण बन्धेन । यद् वा, रसानां समूहो रासस् तस्य मण्डले प्रदेश इति । तुमुल-रव-सङ्कीर्णः, अत एव कुञ्चिताक्ष-शब्दानां नृत्योपयोगित्वं तथा वत्तादि शब्दानां तत्र लयात् पृथक्त्वेनानुपलक्षत्वं यथा दूरस्थानाम् अन्येषां मतान्तर-भेद-ग्रहणं न भवति तथा तुमुलो बभूवेति ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-प्रियाणां स-कृष्णानाम् । अत्र च-कारेण तत्रानद्ध-शुषिर-तुमुलान्य् अपि सङ्गृहीतानि । एषां च-कारेणोक्तत्वाद् अप्राधान्याद् वलया दिवाद्यानाच्चादकत्वं ध्वनितम् ॥६॥


॥ १०.३३.७ ॥

तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः ।

मध्ये मणीनां हैमानां महा-मरकतो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-मरकतो नील-मणिर् इव हैमानां मणीनां मध्ये मध्ये ताभिः स्वर्ण-वर्णाभिर् आश्लिष्टाभिः शुशुभे । गोपी-दृष्ट्य्-अभिप्रायेण वा विनैव मध्य-पदावृत्तिम् एक-वचनम् ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र रास-क्रीडायाम् । ताभिः गोपीभिः । देवकी-सुतो यशोदा-नन्दनः । हैमानां हेम्न इमे हैमाः । इदमणि टि-लोपेन साधु । हेम-कारेण रचिताः । यद् वा, हैमा हिम-गिरि-सम्भूताः पीत-मणयः । गोपीनां दृष्ट्य्-अभिप्रायेण मध्ये इति पदम् आवर्तनीयम्, गोपीभिर् बहु-रूप-पद-नर्तनात् । सर्व-मध्य-कर्णिका-स्थस्यैकत्वान् मध्य-पदावृत्तिर् न कार्येत्य् आह—वा विनैवेति ।

देवकी-सुतः क्षत्रिय-जातिर् अपि भगवान् षड्-ऐश्वर्य-पूर्णोऽपि तत्र गोप-जाति-स्त्रीणां मध्येऽतिशुशुभे । इन्द्रनील-मणि-वर्णोऽपि कृष्णस् तासां गौर-कान्ति-मिश्रणान् मरकत-वर्णस् तत्रापि शोभा-वैलक्षण्यम् आलक्ष्य महच्-छब्दः प्रयुक्त इत्य् एके । मरकत-शब्दोऽयम् इन्द्रनील-मणि-वाचीत्य् अपरे । महा-मारकत इत्य् अपि पाठः ॥७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वैश्वर्य-शोभा-भर-सम्पन्नोऽपि तत्र रास-मण्डलेऽत्यन्तं शुशुभे स्वतोऽशेष-शोभा-चरम-काष्ठां गतस्यापि ताभिः शोभातिशयं पूर्ववद् दृष्टान्तेन साधयति—मध्य इति । हैमानां हेम-निर्मितानां हेम-वर्णानां वा, यथा महा-मरकत-मणेर् अपि हेम-मणि-मध्यवर्तितयैव शोभाधिका स्यात् । तथा तस्यापि प्रिया-जनाश्लेषेणैवाधिका शोभा स्याद् इत्य् अर्थः । तत्र हेतुः—देवकी-सुत इति भक्त-वात्सल्येन देवक्यां जातत्वात् । प्रिय-जन-विषयक-प्रेम-भर-विस्तारणेनैव शोभा-भर-सम्पत्तेर् इति भावः । देवकी यशोदेति पूर्वं लिखितम् एव । अन्यत् तैर् व्याख्यातम्


यद् वा, महा-मर्कत इत्य् एकत्वं वस्तुतो भगवत एकत्वस्य, किं वा, वेणु-वादनार्थं मध्य-वर्तिनोऽभिप्रायेण । अत्र केचिद् आहुः—सहजेन्द्र-नील-मणि-वर्णोऽप्य् असौ नृत्य-गति-कौशलेन युगपद् इव प्रत्येकं कण्ठ-ग्रहणादिना ताः सर्वा व्याप्य भ्रमणात्, तासां सुहेम-गैरीणां कान्ति-च्छटा-सम्पर्काद् अनतिश्यामल-मरकत-मणि-वर्णता-प्राप्त्या महा-मरकत इत्य् उक्तम् इति । ततश् च नृत्य-शक्ति-विशेष एव, न तु कोऽपि भगवता विशेष इति दिक् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवकी-सुतस् तत्तया भवत्सु विख्यातो भगवान् सर्वैश्वर्य-सर्व-शोभा-भर-सम्पन्नोऽपि तत्र तु रास-मण्डले ताभिर् अत्यन्तं शुशुभे । यद् वा, तत्र यशोदा-सुतत्वे अत्यन्तं शुशुभे, तत्रापि ताभिर् अत्यन्तं शुशुभे इत्य् अर्थः । तादृशस्यापि ताभिः शोभातिशयं दृष्टान्तेन साधयति—मध्ये इति । सामान्य-विवक्षयैकत्वम् । सर्वेषु मध्येष्व् इत्य् अर्थः । अतो मण्डल-मध्यस्थोऽप्य् एकः प्रकाशो ज्ञेयः । स एव हि श्री-राधिकां सङ्गे निधाय वेणु-वादन-पूर्वकं भ्रमन् सर्व-रास-मण्डलम् अत्यर्थं मण्डयति । तच् च क्रम-दीपिकाद्य्-उक्त-रासान्तरानुसारेण ज्ञेयम्—

इतरेतर-बद्ध-कर-प्रमदा- > गण-कल्पित-रास-विहार-विधौ । > मणि-शङ्कु-गम् अप्य् अमुनावपुषा > बहुधा विहित-स्वक-दिव्य-तनुम् ॥ > सुदृशाम् उभयोः पृथग्-अन्तरगं > दयिता-गण-बद्ध-भुज-द्वितयम् । [क्र।दी। ५.५५-५६]

इति मणि-शङ्कु-गतत्वम् अप्य् उक्त्वा तद् एव पुनर् विशेष्यं वर्ण्यते । मणि-निर्मित-मध्यग-शङ्कु-लसद्-विपुलारुण-पङ्कज-मध्यगम् इत्य्-आद्य् अनन्तरम् ।

तरुणी-कुच-युक्-परिरम्भ-मिलद्- > घुसृणारुण-वक्षसम् उक्ष-गतिम् । [क्र।दी। ५.६१] इति ।

तथैवोक्तं—मण्डले मध्यगः सञ्जगौ वेणुनेति । हैमानां हेम-विकाराणां मणीनां गोलोकतया, मणिवन् निर्मितानां महा-मारकत इत्य् अपि सामान्यतस् तथैक-वचनम् । मेघ-चक्र इति वक्ष्यमाणात् यथा महा-मरकत-मणेर् अपि हेम-मणि-मध्यवर्तितयैव शोभाधिका स्यात् । तथा तस्यापि प्रिया-जनाश्लेषेणैवाधिका शोभा स्याद् इत्य् अर्थः । अन्यत् तैः । तत्र महच्-छब्द-पूर्वः मरकत-शब्द इन्द्रनील-मणि-वाची ज्ञेयः ।

यद् वा, तासां सुहेम-गौरीणां कान्ति-च्छटा-सम्पर्काद् अनतिश्यामल-मरकत-मणि-वर्णता प्राप्त्या महा-मारकत इत्य् उक्तम् इति । ततश् च नृत्य-शक्ति-विशेष एव न तु कोऽपि भगवत्ता-विशेष इति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देवकी पूर्ववद् यशोदैव ॥७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उक्त-प्रकारस्य श्री-भगवत एक-विधत्वम् उपमालङ्कारेण द्योतयति—तत्रेत्य् आदि । अति अतिशयं शुशुभे । कुतः ? ताभिर् हेतु-भूताभिर् हैमानां मणीनां मध्ये महा-मारकतो नीलेन्द्र-मणिर् इति । एक-वचन-निर्देशान् न नाना-विधत्वम् ॥७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : नन्व् एवं नृत्यमानासु तासु मध्ये चेत् कृष्णस्योपसर्जनं तत् तर्हि शोभा न्यूनत्वं स्याद् इति आशङ्क्य पूर्व-शोभाधिक्यम् आह—तत्रेति । भगवान् अपि स्वैश्वर्यम् अवगणय्य तच् च रास-मण्डले ताभिर् यासाम् ऋङीवास्ते सुवर्ण-वर्णाभैर् इत्य् अधिकं शुशुभे । तासां संसर्गेण शोभादशनजं सुखं स्वयम् अनुभूतवान् । आत्मनेपदेन सूचितम् ऐश्वर्य-शोभात आधिक्यं न विवक्षितम्, किं तु प्रथमं बाहु-प्रसारेणेत्य् आदिना वन-विहार-शोभाभराधिक्यं सूचितम् । सजातीयाद् एवाधिक्यं सम्भवति, न विजातीयाद् इति नियमः । यद् वा, भग्वान् भगो भाग्यं तद्वान् । हेतु-गर्भ-विचेसणम् आह—देवकी-सुतः


द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च । > अतः सख्यम् अभूत् तस्या देवक्या शौरि-जायया ॥ इति ।

यशोदा-सुत इत्य् अर्थः । अतो वात्सल्येन लाल्यमानस्य तस्यातीव पुष्टत्वात् बह्वीषु रस-सञ्चारण-सामर्थ्यं द्योतितम् । यद् वा, विशेषण-द्वयेन धीर-लालित्य-धर्म-भाक्-गुण-युक्तत्वं सूच्यते । तद् उक्तं रसार्णवे—

पितृभ्यां गमितो\ऽत्यन्तं नैश्चिन्त्यं प्रेयसी-वशः । > विदग्धो नव-तारुण्यो धीर-लालित्य-धर्म-भाक् ॥3

नैश्चिन्त्येन हेतुना विलास-भरः सूचितः । तत्रानुरूपं दृष्टान्तम् आह—मध्ये मनीनाम् इति । हेम-निर्मितानाम् अङ्गुल्याकाराणां मणीनां मध्ये महा-मारकतो मध्ये नायक इव तादृशो\ऽपि उभयतः कण्टालिङ्गिताभिर् इति । भूषण-भूषितानां तासां सम्पन्नम् अन्तरेण शोभाभरासम्पादनाद् इति । केवलो मध्य-नायक-सुवर्ण-मणि-व्यतिरेकेण शोभते तद्वत्। एक-वचनेन स्वरूपैक्यं भगवतः अचिन्त्य-शक्तेर् इति सर्व-संनिहितत्वम् । मध्य इति पदेन मण्डल-मध्यस्थो\ऽप्य् एक एकः । यथा महा-मारकतस्य च्छटाः सुवर्ण-मणिषु मध्ये प्रविशन्ति अद्भुत-चमत्कारित्वेन शोभां विशेषयन्ति तद्वद् उन्नेयम् । आचार्यैर् अपि व्याकृतं गोपी-दृष्ट्य्-अभिप्रायेण स्वैक-निकटत्व-मानं मध्य-पदानावृत्तिर् एक-वचनं च। तथा चोक्तं क्रम-दीपिकायां,

मणि-निर्मित-मध्यग-शङ्कु-लसद्- > विपुलारुण-पङ्कज-मध्य-गतम् ॥ [क्र।दी। ५.५८]

इत्य् उपक्रम्य,

तरुणी-कुच-युक्-परिरम्भ-मिलद्- > घुसृणारुण-वक्षसम् उक्ष-गतिम् । [क्र।दी। ५.६२] इति ।

बिल्वमङ्गलोक्तिस् तु—

अङ्गनाम् अङ्गनाम् अन्तरे माधवो > माधवं माधवं चान्तरेणाङ्गना । > इत्थम् आकल्पिते मण्डले मध्यगः > सञ्जगौ वेणुना देवकी-नन्दनः ॥ [कृ।क। २.३५] इति ।

गोपी-दृष्ट्य्-अभिप्रायेण स्व-संनिहितत्वम् । क्रम-दीपिकोक्त-पङ्कज-मध्यगतम् इतिवत् । मण्डल-मध्य-स्थितिर् एकेन स्वरूपेणेति । यथाकाश-स्थितस्य चन्द्रस्य भुवि युगपत् सर्व-लोचन-गोचरत्वम् इति । तथा मनः समाधीयताम् इति । न च भगवता प्रवेश इति, किन्तु योगमायया एव सम्भवात् । अन्यथा रसाभास-प्रसङ्गात् । ऐश्वर्यस्य तु पूर्व एवोपेक्षितत्वात् । किं च, यथा प्राप्ति-लक्षणया सिद्ध्या योगिनां सर्वत्र प्रचारः सर्व-सन्निहितत्वात् । तर्काप्रतिष्ठानाद् इति व्यास-सूत्रम् । किं च, अतर्क्याः खलु ये भावाः न तांस् तर्केण योजयेत् इति धर्मेण त्व् अतर्क्य-परिच्छिन्नत्वं धर्माणाम् अपरिच्छिन्नत्वम् इति न किञ्चिद् असमञ्जसम् इति ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवकी-सुतः क्षत्रिय-जातिर् अपि भगवान् षड्-ऐश्वर्य-पूर्णोऽपि तत्र गोप-जाति-स्त्रीणां मध्ये अतिशुशुभे इन्द्रनील-मणि-वर्णोऽपि कृष्णस् तासां गौर-कान्ति-मिश्रणान् मरकत-वर्णस् तत्रापि शोभा-वैलक्षण्यम् आलक्ष्य महच्-छब्दः प्रयुक्त इत्य् एके । मरकत-शब्दोऽयम् इन्द्रनील-मणि-वाचीत्य् अपरे । महा-मारकत इत्य् अपि पाठः ॥७॥


॥ १०.३३.८ ॥

पाद-न्यासैर् भुज-विधूतिभिः सस्मितैर् भ्रूविलासैर्

भज्यन्-मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्ड-लोलैः ।

स्विद्यन् मुख्यः कवर-रशना-ग्रन्थयः कृष्ण-वध्वो

गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स यथा ताभिः शुशुभे, तथा ता अपि तेन विरेजुर् इत्य् आह—पाद-न्यासैर् इति । भुज-विधुतिभिः कर-चालनैर् भज्यमानैर् मध्यैश् चलद्भिः कुचैश् च पटैश् च । गण्ड-लोलैर् गण्डेषु चञ्चलैः । स्विद्यन् मुख्यः स्विद्यन्ति स्वेदम् उद्गिरन्ति मुखानि यासां ताः । कबरेषु रशनासु च ग्रन्थयो दृढा यासाम् । यद् वा, तेषु तासु चाग्रन्थयः, शिथिल-ग्रन्थय इत्य् अर्थः । तत्र नाना-मूर्तिः कृष्णो मेघ-चक्रम् इव, तास् तु बहु-विधास् तडित इव स्वेदस् तुषार इव, गीतं गर्जितम् एवेति यथा-सम्भवम् ऊह्यम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्योन्य-शोभातिशयम् आह—स यथेति । स कृष्णः । ताभिः गोपीभिः । ताः गोप्यः । तेन कृष्णेन । पादानां न्यासैर् वक्र-स्थानादि-विक्षेप-विशेषैः । अतिपरिश्रम-साध्ये कर्मणि दृढ-ग्रन्थीनाम् अपि विमोको भवतीत्य् अत आह—बद्ध्वेति । इत्य् अर्थ इति—इह नञ्-समासे यञ्-प्राशस्त्ये बोध्यः । शिथिल-ग्रन्थोऽप्रशस्त-ग्रन्थयोऽल्प-ग्रन्थतो वा—

तत्-सादृश्य-न-भावश् च तद्-अन्यत्वं तद्-अल्पता । > अप्राशस्त्यं विरोधश् च नञ्-अर्थाः षट् प्रकीर्तिताः ॥ इति > भर्तृहर्य्-उक्तेः ।

कवरी केश-विन्यासः इत्य् अमरः ॥ रशना काञ्चि-जिह्वयोः इति विश्वः । क्वचित् कवरं केश-जूटायाम् इत्य् अपि । तत्र दृष्टान्ते—मेघ-चक्रं मेघ-मण्डलम् । ताः गोप्यः । यथा-सम्भवं यथायथम् । कृष्ण-वध्व इत्य् अनेन कात्यायनी-व्रत-कर्त्र्यो गान्धर्व-विधिना विवाहिता एव ।

परस्परानुरोधेन कन्यायाश् च वरस्य च । > गान्धर्व इति सम्प्रोक्तो विवाहः सङ्गमे सति ॥ इति स्मृतेः ।

भगवति व्यभिचार-दोषो नायाति । परद्कीयासङ्गतेर् एव व्यभिचारत्वात् । कुत्रचित् तासां परकीयात्वेन कथनं तु शृङ्गारातिशयार्थम् । किं च, कान्ति-विशेष-द्योतना यैव तडित इति दृष्टान्तो, न तु पाद-न्यास-विशेष-द्योतनाय । तडिताम् अचेतनत्वात् । यद् वा, तडिताम् इव पाद-न्यासादौ शीघ्रयावर्तनादि-प्रकाशाय । तड्-आघाते चौरादिकात्, ताडेर् णि-लुक् च इत्य् औणादिक इति । धातूनाम् अनेकार्थत्वात् तटन्ति क्षिप्रं तिरोधानं गच्छन्तीति तडितः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पाद-न्यासैर् इत्य्-आदि । कृष्ण-वध्वो, न तु गोप-वध्वः । एतेनागूढा एव तथा ननृतुः । तं कृष्णम् एव गायन्त्यः मेघ-चक्रे तडित इव विरेजुः । मध्य-वर्तिनः श्री-कृष्णस्य नृत्य-विशेष-भ्रमण-कौशलेन चक्राकारस्य तेजः पटलस्य मेघ-चक्रत्वम्, तासां च मध्ये मध्ये कृष्ण-तेजसा छन्नत्वात् मध्ये मध्ये कृष्ण-तेजोऽपि पराभूय स्व-तेजसा द्योतमानत्वात् तडित्त्वम् । स्विद्यन्-मुख्यम् एतावत्य् अपि श्रमे खिन्नानि मुखान्य् एव, न तु सर्वाङ्गानि यासाम् । तथा कवर-रसनासु ग्रन्थयो यासाम्, न तु ग्रन्थि-शैथिल्यम् । शिक्षा-न्यास-प्रकटनेन परिश्रम-कृत-दोष-राहित्यं सरस्वती-रहस्यम् । पाद-न्यासैस् ताल-शृङ्गानुकारेण स-शब्दैर् भुवि पाद-घातैर् भुज-विधूतिर्भिर् गति-विशेष-निष्पादितेऐर् भुज-दोलैस् ताल-मूर्च्छनायां च मूर्च्छना व्यञ्जकैर् भुज-कम्पैर् वा । स-स्मितैर् भ्रू-विलासैः । भज्यन् मध्यैर् इति क्षीणतया नृत्यायासेन भजद्भिर् इव मध्यैः, लुप्तोत्प्रेक्षा । एतावत्य् अपि परिश्रमे निःश्वास-बाहुल्याभावात् चलैः कूटानां पटैर् इव, न तु चलैः कूटैः पटैश् च । गण्ड-लोलैः कुण्डलैर् गण्डेषु विष्वक्-तापिन् एव कुण्डलानां लोलता ग्रीवामुख-दोलानां लाघवं रहस्यम् । विशेषणे तृतीया ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं ताभिः सोऽधिकं शुशुभे, किन्तु तेन चात्र शुशुभिरे इत्य् आह—पादेति । पादानां न्यासा नृत्य-गत्या भूम्य्-आक्रमण-भङ्ग्यस् तैः । भुजानां हस्तानां विशेषेण धुतिभिर् हस्तक-भेदेन चालनैः । यद्यप्य् अन्योऽन्याबद्ध-बाहुत्वेन भुज-विधुतयो न सम्भवेयुः, तथापि अन्योन्याबद्धाभ्यां द्वाभ्यां संहत्यैव । किं वा, कदाचित् तद्-अर्थम् आबद्धत्व-परित्यागेनैव ।

यद् वा, अन्योन्याबद्धानाम् अपि भुजानां नृत्य-गति-भङ्ग्यैव ता बोद्धव्याः । एवम् अग्रेऽपि सर्वं तथैव ज्ञेयम् इति दिक् । स्मित-सहितैर् भ्रुवां विलासैस् तत्-तद्-रसाभिव्यञ्जक-नर्तन-चातुर्यैर् भव्यमानैः स्वभावतः कार्श्येन विशेषतश् च नृत्यार्थ-परिभ्रमणादिना भङ्गम् इव गच्छद्भिर् मध्य-भागैः पटाः कञ्चुकानि । किं वा, श्री-भगवद्-उत्थाने सति पुनः पुनः परिगृहीतानि निज-निजोत्तरीयाण्य् एव कृष्णस्य श्यामसुन्दरस्य वध्वस् तद्-आश्लिष्टा गौराङ्ग्यस् तद्-एकाश्रया इत्य् अर्थः । तच् च दृष्टान्तेनापि ध्वनितम् एव ।

किं वा कृष्णस्य वध्वः प्रिया इति तत्-सदृश-तत्-तद्-वैदग्ध्यादिकं तत्-प्रेम-मोहितत्वं च मुक्तम् एवेति भावः । अतस् तम् एव गायन्त्यः । तत्-प्रकारश् चोक्तः श्री-पराशरेण—

कृष्णः शरच्-चन्द्रमसं कौमुदी-कुमुदाकरम् । > जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥ [वि।पु। > ५.१३.३५]

इति विशेषेण रेजुर् अशोभन्त । तत्-प्रेम-भर-मौग्ध्य-नृत्यादि-वैदग्ध्ययोर् अन्योन्यं सम्मिलनेन तस्यैश्वर्य-लौकिकत्वयोर् ऐक्येनेव शोभा-भर-सम्पत्तेः । तडित इवेति दृष्टान्तेनान्योन्य-शोभया तस्यापि शोभा ध्वनितैव । चक्र इति नृत्य-गति-कौशलेन निज-शक्ति-विशेषेणैव वा नानात्वम् इव प्राप्तत्वात् । किं वा, मेघानां घटा-विवक्षया, अन्यथा सुश्यामत्वाद्य्-अभावेन शोभाद्य्-अभावः । तस्यातिशोभानन्तरं तासाम् अतिशोभा-वर्णनं सर्वथा परम-शोभा-चरम-काष्ठा-गतानाम् अपि रास-क्रीडया शोभा-विशेष-सम्पत्त्या परमाद्भुतत्वात् ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं ताभिः सोऽधिकं शुशुभे, किन्तु तेन ताश् च तथा शुशुभिरे इत्य् आह—पादेति । पादानां न्यासाः नृत्य-गीतिभिः भूम्याक्रमण-भङ्ग्यस् तैः । भुजानां हस्तानां विशेषेण धुतिभिः हस्तक-भेदेन चालनैः यद्यप्य् अन्योऽन्य-बद्ध-बाहुत्वेन भुज-विधुतयो न सम्भवेयुस् तथापि कदाचित् तद्-अर्थम् आबद्धत्व-परित्यागेनैव । स्मित-सहितैर् भ्रुवां विलासैस् तत्-तद्-रसाभिव्यञ्जक-नर्तन-चातुर्यैर् भव्यमानैः स्वभावतः कार्श्येन विशेषतश् च नृत्यार्थ-परिवर्तनादिना भङ्गम् इव गच्छद्भिर् मध्य-भागैः । किं वा, भज्यमानता भङ्गं कौटिल्यम् इति यावत् । कुटिलीभवन्-मध्य-भागैर् इत्य् अर्थः । सर्वत्र मुहुर् इति मन्तव्यम् । कुच-पटाः भगवद्-उत्थाने सति पुनः पुनः परिगृहीतानि निज-निजोत्तरीयाण्य् एव । अन्यत् तैः । अत्र ग्रन्थय इत्य् एव पद-च्छेदो योग्यो न त्व् अग्रन्थय इति ।

कृष्ण-वध्व इत्य्-आदिकं त्व् एवं व्याख्येयम् । तं कृष्णं गायन्त्यः ता दृष्टान्तयितव्य-वशात् कृष्णस्य तत्-तत्-प्रकाश-चक्रं विरेजुः । कुत्र का इव मेघ-चक्रे तडित इव । ननु मध्ये मणीनाम् इत्य्-आदि-प्रोक्त-दृष्टान्तो न घटते अदाम्पत्येन तत्-तद्-आगन्तुक-सम्बन्धात् न त्व् अयं स्वाभाविक-सम्बन्धाभावात् तद् एतद् आशङ्क्यानन्द-वैचित्र्येण रहस्यम् एव व्यनक्ति । कृष्ण-वध्व इति । तद्वद् अत्रापि स्वाभाविकाद् एव सम्बन्धाद् दाम्पत्यम् एवेति भावः । अत एव तासाम् अभ्यास-विशेषं विनापि तेषु तेषु गुणेषु परम एवोत्कर्षो वर्तते ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ नृत्य-गीत-वाद्य-बन्ध-तालादि-समेतं स्त्री-बहु-मण्डल-नृत्यं रास इति स्थिते मण्डलम् उक्तम् । बन्धो\ऽप्य् उक्तम् । वाद्यं च वलयानां [भा।पु। १०.३३.६] इत्य्-आदिना चोक्तम् । सम्प्रति ताल-गान-नृत्यानि दर्शयति पाद-न्यासैर् इत्य्-आदि । कृष्ण-वध्व इति गोप-वधूत्वं प्रसिद्धं वारयति । तं कृष्णं गायन्त्यो विजहुर् ननृतुर् इत्य् अर्थः । कुत्र का इव ? मेघ-चक्रे तडित इव । तडितो यथा मेघ-चक्रे नृत्यन्ति । मध्ये वर्तमानस्य भगवतो\ऽभितः प्रसृमराणां श्याम-महसां चक्रे मण्डल-मध्ये मण्डलाकारेण मण्डलाद् बहिर् भवितुम् अशक्ततया घनीभूते श्यामलिमनिमेघ-चक्रत्वारोपः । स च वाक्यार्धेन गम्यः प्रकरण-गम्यश् च—शब्देनानुपात्तत्वात् । पादानां न्यासैस् ताल-शब्दानुकारेण भुइव् स-शब्द-पाद-घातैर् भुज-विधूतिभिर् गति-विशेषेण भुज-दोलैर् मूर्च्छना काले ताल-त्यागानुकूल-भुज-कम्पैर् वा । अन्योन्याबद्ध-बाहुत्वे\ऽपि ताल-त्याग-समये भुजयोः कम्पनानन्तरं पुनर् बन्ध इति क्रमः । एवं-विध-नृत्येनापि मण्डलस्य भङ्गस् तिर्यक्ता वा भवतीति नानुसन्धेयम् । यथा स्थान-स्थिति-कौशलात् । भ्रुवां विलासैस् तालानुकृत्या भ्रुवां विक्षेपैः । कीदृशैः ? सस्मितैः स्मित-सहितैर्भज्यद्भिर् इव मध्यर् भज्यन् मध्यैर् गति-विशेष-ताल-त्याग-कालीन-तनु-लता-पूर्वार्ध-धुननेन भङ्गाशङ्कास्पदैर् मध्यैः, तावतायासेनापि चलैः कुचानाम् एव पटैः, न तु कुचैः । तथा तावतायासेनापि गण्ड-लोलैर् एव कुण्डलैः विशेषेण तृतीया । स्विद्यन्ति मुखान्य् एव यासाम्, न तु सर्वाङ्गानि, अश्रान्तत्वाद् वराङ्गनात्वाच् च । कवरेषु रसनासु ग्रन्थयो यासाम्, तथा विधायासेनाप्य् अशिथिलत्वात् । गायन्त्य इति गानानुकूलं वाद्यं वीणादिकम् अपि बोद्धव्यम्, योगमाया-सम्पाद्यमानत्वात् । यद्यप्य् एतच् छ्रद्धाङ्गिकम् एव नृत्यम्, तथापि वाद्यस्यावश्यकम् ।

अत्र भगवान् द्रष्टैव । गोप्यः समं भगवता ननृतुर् इति पश्चाद् एव सह-नृत्यम् । इदं तु मण्डल-नृत्यम् । तच् च द्विविधं—स्व-कर्तृक-भ्रमिकं पर-कर्तृक-भ्रमिकं चेति। आद्यं च द्विविधं—सव्यम् अपसव्यं च । द्वितीयं—चक्रोपधिकम् । तच् च प्रतिलोमम् अनुलोमम् । चक्रं चेद् वामतो भ्रमति, तदा दक्षिणतो नर्तक्यो भ्रमन्ति, तथा दक्षिणतश् चेच् चक्रम्, तदा वामतस् ता इति क्रमः । किन्तु तत्र भ्रमिश् चक्र-भ्रमित एक नृत्य तु यथा स्थानम् । अत्र तु भ्रमिश् च स्व-कर्तृक-नृत्यं चानियत-स्थानम् इति । यद् उक्तं—

स्थिरम् अस्थिरम् अप्य् एतद् द्विविधं रास-मण्डलम् । > स्थिरं स्थूल-विशेषस्थम् अस्थिरं चक्र-श्रयम् ॥ > स्थिरं भ्रमिः कर्तृ-गता भवेत् सव्यापसव्ययोः । > अस्थिरे चक्रजा सा च प्रतिलोम्यानुलोम्य-भाक् ॥ > यथा स्थान-स्थितं तत्र नृत्यं तद् भ्रमितः पुनः । > नाना स्थानम् इवाभाति नृत्य-कर्त्र्यश् च योषितः ॥ इति ॥८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं रसाधिकरणत्वेन तासाम् उत्कर्षं निरूप्य तस्याप्य् उत्कर्षं निरूपयन्ति । तथोक्तं—

शृङ्गारे नायिका श्रेष्ठा रसाधिकरणं यतः । > माधवत्वेन सौन्दर्य-वारिधि स परिच्छदः ॥ इति ।

इदानीं न केवलं ताभिः स शुशुभे, किं तु ता अपि तेन विरेजुर् इत्य् आह—पाद-न्यासैर् इति । पादानां चरणानां न्यासाः नृत्य-गीत-भेदास् तैर् भुजानां विधुतयः सर्वे हस्तकाभेदास् तैः ।

नन्व् अन्योन्या बद्ध-बाहुभिर् इत्य् उक्तेर् हस्तकादि-भेदः कथं सम्भवेत् ? तत्र समाधानं तत् स्थानापरित्यागेनैव हस्तक-भेद-सम्पत्तेर् इति भावः । यद् वा, अन्योन्या बद्ध-बाह्वानाम् एव नृत्य-विशेष-गति-भेदाद् एव विधुतयः कम्पायमाना बोद्धव्या इति । स-स्मितैः स्मित-सहितैः भ्रुवां विलासैर् नृत्य-गति-व्यञ्जकैर् ऊर्ध्वाधो-भाग-तिर्यक्-प्रसरण-रूपैः कृष्ण-मनो-रञ्जकैर् भज्यद्भिः पाद-न्यास-साहचर्यात् भङ्गम् इव प्राप्नुवद्भिः नृत्य-गति-वशात् कार्याच् च भङ्गस्योत्प्रेक्षेति । चलैः कुचैः पटैश् च चलेषु वा पटास् तैः । अनेन सर्वावयवानां रसाभिव्यञ्जकं सकम्पत्वम् उक्तम् । कुण्डलैर् गण्डेषु लोलैः, अनेन सर्वा एव शिरो-भेदा उक्ताः । स्विद्यन् मुख्यः स्विद्यन्ति मुखानि यासां ताः, अनेन रत्य्-आख्य-भावस्य सर्वाङ्ग-पूर्त्या स्वेद-रूपेण बहिर् गमनम् उक्तम् इति । कवरेषु रसनासु च पूर्व-दृढ-ग्रन्थय इदानीम् अग्रन्थयः सर्वावयव-व्याप्तेन रसेन शरीर-शैथिल्यात् केश-पाशे रसनायां शैथिल्यं जातम् इति भावः । कृष्ण-वध्व इत्य् अनेन तत्-साहचर्यात् नृत्य-गानाङ्गिक-भावोत्पत्ति-भरः सूचितस् तम् एव गायन्त्यः मानस-भावोच्छलेन गाने रसोद्रेकः सूचितः । स्व-कला-कौशलेन स्व-वैदग्ध्याभिव्यञ्जकैः नृत्य-गानादिभिः विशेषेण रेजुः ।

तत्र दृष्टान्तम् आह—मेघ-चक्रे तडित इव अलात-चक्रवद् भ्राम्यन् कृष्णो मेघ-चक्रम् इव लक्षितस् तास् तु बहुधा द्योतमाना तडित इव । तडितो हि बहु-कालं दर्शनार्हा न भवन्ति, एता अपि नृत्य-गान-विशेषवशाद् अचिर-प्रभा इव लक्षिताः । तडितो हि अचिर-दर्शना अपि मेघ-चक्रं शोभयन्ति, मेघ-चक्रेणापि तासां शोभा भवत्य् एव । एवं लाघव-शक्त्या सर्व-सन्निहितत्वेन परित आच्छादिता अपि केनचित् कान्ति-विशेषेण मध्ये मध्ये दर्शन-गोचरा भवन्ति । एवम् अन्योन्यं शोभा-भरः मध्ये सूचितः । चक्र इति नृत्य-गति-भेद-बन्धेन निज-लाघव-शक्त्या च नानत्वम् इव प्रतीतम् इति रास-क्रीडायां शोभा-वैशिष्ट्यं सूचितम् ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा ताभिः स शुशुभे, तथा तेन ता अपि शुशुभिरे इत्य् आह—पाद-न्यासैर् इति । पादानां न्यासाः गीत-रस-तालानुसारिण्यः पुनः पुनर् व्यक्तीकृत-विचित्र-नृत्य-गीतयस् तैः । भुज-विधुतिभिर् अन्योन्य-बद्धानाम् अपि भुजानां विचित्रैः कम्पनैः । किं च, अन्योन्याबद्ध-भुजतां त्यक्त्वा कदाचिद् अतिलाघवतो हस्तक-भेदेन कर-चालनैर् गीत-पदार्थाभिनयैः स्मित-हसितैर् भ्रुवां विविधैर् भेदैर् भङ्गिभिः । रसाभिनयार्थं स्व-स्व-कौशलावधापनार्थं च । भज्यन्-मध्यैः भज्यमानैः स्वभावतः कार्श्येन नृत्य-विवर्तनादिना च भङ्गिम् इव गच्छद्भिर् मध्य-भागैश् चलैः कुच-पटैः कञ्चुकोपरित-वस्त्रैर् भगवद्-उत्थानान्तरं पुनः प्रतिसङ्गृहीतैः । कृष्णस्य वध्वः भोग्याः स्त्रियः । वधूर् जाया स्नुषा स्त्री च इति नानार्थ-वर्गः । अत्र वधू-शब्दस्य भार्या-वाचकत्वे व्याख्यायमाने प्रकृतिम् अगन् किल यस्य गोप-वध्व इति भीष्मोक्त्या विरुद्ध्येत तेन न तथा व्याख्येयम् । कृष्णस्य श्यामल-सुन्दरस्य तद्-एकाश्लिष्टा गौराङ्ग्यस् तद्-एकाश्रयतमा तद्-एक-भोग्यतया च वध्व इव वध्व इति प्रकृत-वैष्णव-तोषणी ॥८॥


॥ १०.३३.९ ॥

उच्चैर् जगुर् नृत्यमाना रक्त-कण्ठ्यो रति-प्रियाः ।

कृष्णाभिमर्श-मुदिता यद् गीतेनेदम् आवृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नृत्यमाना नृत्यन्त्यः । रक्त-कण्ठ्यो नाना-रागैर् अनुरञ्जित-कण्ठ्यः । कृष्णस्याभिमर्शेन संस्पर्शेन मुदिताः । इदं विश्वम् ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काम-कलोद्बोधक-स्पर्श-विशेषोऽभिमर्षः । यद् वा, मानं कृष्ण-कृतं सम्मानं यासां ताः । आवृतम्, देव-साक्षिकत्वात् । यद् गीतेन यासां गानेन । रति-प्रिया रमणानुरागाः । नृत्यमाना नृत्यन्त्यः । यद् वा, नृत्येन मानः कृष्ण-कर्तृक आदरो यासां ताः । रक्त-कण्ठ्यः नाना-रागैर् अनुरञ्जित-कण्ठ्यः । रागाश् चोक्ताः सङ्गीत-सारे—

तावन्त एव रागाः स्युर् यावत्यो जीव-जातयः । > तेषु षोडश-साहस्री पुरा गोपी-कृता वरा ॥ इति ।

रतिः कृष्ण-कर्तृका प्रीतिर् एव प्रिया यासां ताः । कृष्णस्याभिमर्शेन स्पर्शादिना मुदिता इति नृत्यादि-श्रमानुद्गमः । यद् गीतेन यत् कर्तृकेण गीतेन तदानीम् इदं जगद् ब्रह्माण्डम् आवृतं व्याप्तम् आसीद् इत्य् अर्थः । यद् वा, यद् गीतेन यत् कर्मकेण गीतेनेति । अद्यापि जगद्-वर्तिभिर् लोकैर् या गीयन्त एवेत्य् अर्थः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद् गीतेनेदम् आवृतम् इत्य्-आदि । अयम् अर्थः—ताभिर् यद् गीतं तेन तेनैव सङ्गीत-शास्त्र-कारैर् नाना-प्रबन्धाः कृताः, तैर् एवेदं भुवन-त्रयम् आवृतम् इति । पुरं तादृशं नासीद् इति भावः । नृत्यमाना इति नृत्ये श्री-कृष्णाकृतं मानं पूजा यासां ताः ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च प्रहर्षोद्रेकेण तासां नृत्य-गीत-विवृद्धिम्, किं वा, नृत्यस्य प्राधान्यम् उक्त्वा गानस्याप्य् आह—उच्चैर् इति । नृत्यमाना इति । नर्तनेऽपि तादृश-गानात् तु कौशल-विशेषो दर्शितः । गानादि-प्रयोजन्म् आह—रतिः सुरतं प्रेम श्री-कृष्ण-प्रेम वा । सैव प्रिया यास् ताम् इति, न चोच्चैर् गानादिना तासां श्रमः शङ्कनीय इत्य् आह—कृष्णस्य चित्ताकर्षकस्य परमानन्द-घन-मूर्तेर् वा अभिमर्शेन मुदिता इति गीतस्योच्चैस् त्वं दर्शयति—यासां येन वा गीतेनावृतं व्याप्तम् ।

यद् वा, यस्य गीतादेर् गीतेन लोक-निबद्ध-गाथादिनावृतं तद्-एक-रस-मयम् अभूद् इत्य् अर्थः । इति तन्-माहात्म्यम् उक्तम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, नृत्येन मानः कृष्णेन सम्मानः । यद् वा, नृत्ये मानः कृष्णाद् अप्य् आधिक्येन गर्वो यासां ता रक्त-कण्ठ्यः प्रेम-स्निग्ध-कण्ठ्य इति गानस्य प्रेम-रसमयत्वेन परम-मधुरत्वम् उक्तम् । उच्चैर् गाने हेतुः—रतीति कृष्णेति च । यद् वा, उच्चैः श्री-कृष्णाद् अप्य् उच्चतया । तथा चोक्तं श्री-पराशरेण—

रास-गेयं जगौ कृष्णो यावत् तारतर-ध्वनिः । > साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः ॥ [वि।पु। ५.१३.५६] > इति ।

तत्र हेतुम् आह—रक्तेत्य् आदि-विशेषणैस् त्रिभिः । एषां यथा-क्रमं हेतु-हेतुमत्त्वम् ऊह्यम् । यद्यपि तासाम् अभिमर्शतस् तस्यापि प्रमोदात् तथैवोच्चैर् गानं सम्भवेत् । तथापि रास-गेयाप्य् अपेक्षया प्रेम-वैवश्येन तद्-उच्च-गीत-श्रवण-लालसेन वा न तादृक् सिध्येद् इति ज्ञेयम् । अन्यत् समानम् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च प्रहर्षोद्रेकेण तासां नृत्यस्य प्राधान्यं वर्णयित्वा गानस्याप्य् आह—उच्चैर् इति । नृत्यमाना इति नर्तनेऽपि तादृश-गानात् तु कौशल-विशेषो दर्शितः । गानादि-प्रयोजन्म् आह—रतिः श्री-कृष्ण-कर्तृका प्रीतिः, सैव प्रिया यासाम् । न चोच्चैर् गानादिना तासां श्रमः शङ्कनीय इत्य् आह—कृष्णस्याभिमर्शेन मुदिता इति अयम् अप्य् एको हेतुर् ज्ञेयः । गीतस्योच्चैस्त्वं दर्शयति—यासां गीतेनावृतं व्याप्तम् ।

यद् वा, यासां गीतेन स्वयम् उत्प्रेक्षित-राग-समूहेन इदं जगद् आवृतम्, तद्-अनुसारि-गान-परं जातम् इत्य् अर्थः । ताभिः कृताः षोडश-सहस्र-सङ्ख्या-रागा एव जगति विभक्ता इति सङ्गीत-शास्त्र-प्रसिद्धः । यथोक्तं सङ्गीत-सारे—

तावन्त एव रागाः स्युर् यावत्यो जीव-जातयः । > तेषु षोडश-साहस्री पुरा गोपी-कृता वरा ॥ इति ।

अन्यत् तैः ।

यद् वा, नृत्येन मानः श्री-कृष्ण-कृत-सम्मानो यासां ताः । रक्त-कण्ठ्यः प्रेम-स्निग्ध-कण्ठ्य इति परम-मधुरत्वम् उक्तम् । उच्चैर् गाने हेतुः—रतीति कृष्णेति च । यद् वा, उच्चैः श्री-कृष्ण-गानाद् अप्य् उच्चतया । तथा हेतुम् आह—रक्तत्यादिवित्रेषणैस् त्रिभिः । एषां यथेष्ट-हेतु-हेतुमत्त्वं ज्ञेयम् । एवं तत्रातिशुशुभे ताभिर् इत्य् अत्र तासां शोभावद् गानादि-गुणस्यापि परमोत्कर्षः सूचितः । उत्तरत्र तु स्पष्टम् एव ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यासां गीतेन स्वयम् उत्प्रेक्षित-राग-समूहेनेदं जगद् आवृतम् । तद् अनुसारि-गान-परं जातम् इत्य् अर्थः । ताभिः कृताः षोडश-सहस्र-सङ्ख्या रागा एव जगति विभक्ता इति सङ्गीत-शास्त्रात् ॥९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गायन्त्य इत्य् उक्तस्य गानस्य प्रकारम् आह—उच्चैर् इत्य्-आदि । नृत्ये मानः पूजा यासां ताः । रक्त-कण्ठाः सुकुमारत्वाद् अरुण-कण्ठाः रक्तं राग-कदम्बं जातित्वाद् एक-वचनं कण्ठे चासां तत्-काल-राग-परिवर्तन-सामर्थ्यवत्यः । रतिर् नृत्य-गीत-विषया श्रद्धा तस्याः प्रियाः कृष्णस्याभिमर्शः स्पर्शः, आश्लेष इति यावत् । तेन मुदिता गान-कौशलम् आलोक्य क्षणेक्षणे तद्-आलिङिता इत्य् अर्थः । एवम्भूताः सत्य उच्चैर् जगुर् नृत्यन्त्य एव । यद् यस्य तानस्य गीतेनेदं पूर्व-पूर्व-सङ्गीताचारैर् ब्रह्मादिभिः कृतं गीतम् आवृतम् आच्छन्नं तुच्छीबभूव । किं वा, यद् गीतेन विश्वम् इदम् आवृतम् । अतः परं नान्यद् गीयेत कैश्चिद् इत्य् अर्थः ॥९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं केवलं नृत्य-सम्भ्रमम् उक्त्वा नृत्य-कर्बुरिति-गानम् आह—उच्चैर् इति । नृत्यमाना नृत्यन्तः । यद् वा, नृत्ये मानोऽभिमानो यासां ताः । तासां नृत्यस्य सर्वोत्कृष्टत्वाद् उच्चैर् जगुः । ननु नृत्य-सम्भ्रमे गानासम्भवम् आशङ्क्योच्चैर् गाने हेतुम् आह—कृष्णाभिमर्श-मुदिता इति कृष्णस्य परमानन्द-रूपस्याभिमर्शनं करेण प्रोञ्छनादि-रूपोऽभिमर्शः स्पर्शस् तेन मुदिता इत्य् अयम् एव मुख्यो हेतुः । अनेन श्रमापनयनम् अप्य् उक्तम् । उच्चैर् इति उभयत्रापि सम्बध्यते । एवं नृत्य-गानस्य हि वैदग्ध्य-विशेष-प्रकटनम् उक्तम् । यद् वा, नृत्यमाना श्री-कृष्ण-नृत्याद् आधिक्येन गर्वो यासां ताः उच्चैर् इति पदस्य सापेक्षत्वं पूर्व-गानतोऽप्य् आधिक्यम् । अथवा श्री-कृष्णस्य गानाद् आधिक्य-विवक्षयोच्चैस् त्वम् इति । गानस्य वैशिष्ट्ये हेतुम् आह—रक्त-कण्ठ्यः । नाना-रागैर् अनुरञ्जित-कण्ठ्यः । अनेन श्री-कृष्णस्य मनोऽनुरञ्जकत्वं सूचितम् । यदा रतस्योच्चैस् त्वाधिकम् आह—श्री-कृष्णस्यापि स्तम्भेन तासाम् उच्चैर् गीते सामर्थ्याद् इति यद् गीतेनेति यासां गीतेनेदं विश्वम् आवृतम् आसीत् अयम् अभिप्रायः । कृष्णाभिमर्श-मुदिता इत्य् अत्र श्री-कृष्णेन कुचादि-गात्र-स्पर्शादिना तासु स्वानन्द-स्थापिते सति, अतः पूर्णानन्दत्वं सूचितम् इति । अत एव रमणावच्छिन्न-काले सर्वेषां जीवानां सुख-पूर्णत्वं जातम् इति भावः ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृत्यमाना नृत्यन्त्यः । यद् वा, नृत्येन मानः कृष्ण-कर्तृक आदरो यासां ताः । रक्त-कण्ठ्यः नाना-रागैर् अनुरञ्जित-कण्ठ्यः । रागाश् चोक्ताः सङ्गीत-सारे—

तावन्त एव रागाः स्युर् यावत्यो जीव-जातयः । > तेषु षोडश-साहस्री पुरा गोपी-कृता वरा ॥ इति ।

रतिः कृष्ण-कर्तृका प्रीतिर् एव प्रिया यासां ताः । कृष्णस्याभिमर्शेन स्पर्शादिना मुदिता इति नृत्यादि-श्रमानुद्गमः । यद् गीतेन यत् कर्तृकेण गीतेन तदानीम् इदं जगज्-जातम् आवृतं व्याप्तम् आसीद् इत्य् अर्थः । यद् वा, यद् गीतेन यत् कर्मकेण गीतेनेति । अद्यापि जगद्-वर्तिभिर् लोकैर् या गीयन्त एवेत्य् अर्थः ॥९॥


॥ १०.३३.१० ॥

काचित् समं मुकुन्देन स्वर-जातीर् अमिश्रिताः ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति ।

तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्देन सह स्वर-जातीः षड्जादि-स्वरालाप-गतीः । अमिश्रिताः कृष्णोन्नीताभिर् असङ्कीर्णाः । प्रीयमाणेन संमानिता तज्-जात्य्-उन्नयनम् एव ध्रुवं ध्रुवाख्यं ताल-विशेषं कृत्वा उन्निन्ये उन्नीतवती ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र सम-गानं तत्-प्रशंसार्थम् । मुकुन्देन तद्-गानानुसारेण गीतम् इति ज्ञेयम् । अन्यथा मुकुन्द-गान-सम-गानज्ञस् त्रिलोक्यां कोऽपि नास्ति तद्-विभूतिम् अन्तरेणेति भावः । ध्रुवं व्यक्त-वर्ण-गानेन प्लावनं वा । सार्धे नान्वयोऽत्र ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : काचित् समं मुकुन्देनेत्य् आदि । अमिश्रिताः शुद्धान् स्वरान् जातीश् च स्वराः षड्जादयः सरिगम-प्रभृतयः । उन्निन्येगायतः कृष्णस्य स्वरम् आच्छाद्य उच्चैर् निन्ये, अतितार-स्वरम् उन्नीतवती, तेन श्री-कृष्णेनापि प्रीयता सता साधु साध्व् इति पूजिता । कृष्णोऽपि ततो ध्रुव-नामानं गीत-विशेषं ततोऽपि उन्निन्ये उच्चैर् नीतवान् । तस्यै सह गायन्त्यै गीयतां गीयतां त्वत्-समा कापि गातुं न शक्नोतीति पूजयन् मानं बहु अदात् ॥१०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना पूर्ववत् तासु मुख्यानां प्रेम-चेष्टितानि पृथक्त्वेनाह—काचिद् इति सार्ध-पञ्चभिः । मुकुन्देन परमानन्द-प्रदेन समम् इति तादृशोन्नयने हेतुः । तथा तेन तस्य जगतोऽपि परमानन्द-प्रदत्वं ध्वनितम् । उन्निन्ये मूर्च्छयामास । यद् वा, अपूर्वाः कल्पयामास । ततश् च तेन मुकुन्देन पूजिता तेन समम् उन्नयनेप्य् अमिशिर्तत्वेनोन्नयनात् । कथं पूजिता ? तद् आह—साध्व् इति । वीप्सा हर्षेण, साधुत्व-दार्ढ्याय वा । वदतेति शेषः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अमिश्रिता विशुद्धाः । तथा च सङ्गीत-सागरे—

जातयोऽष्टादश प्रोक्तास् तासां लक्षणम् उच्यते । > शुद्धाः स्युर् जातयः सप्त ताः षड्जादि-स्वराभिधाः ॥ > ता एव विकृताः सत्यो जाता विकृत-संज्ञिताः ॥ इत्य्-आदि ।

किं च—

षाड्जार्षभी च गान्धारी मध्यमा पाञ्चमी तथा । > धैवती चाथ नैषादी शुद्धा एतास् तु जातयः ॥ इति ।

काचिद् इत्य् अनुवर्तत एव । बहु यथा स्यात् तथा इति पूर्वतोऽप्य् अस्याः सम्मानाधिक्यम् । तेन च गानेपि कौशलम् अधिकं सूचितम् ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना पूर्ववत् तासु मुख्यानां प्रेम-चेष्टितानि पृथक्त्वेनाह—काचिद् इति सार्ध-पञ्चभिः । मुकुन्देन समम् इति । तस्यापि तद्-अनुगत्वं विवक्षितम् । सह युक्तेऽप्रधान इति स्मरणात् । उन्निन्ये उत्कृष्टं कल्पयामास अमिश्रिताः संहत्य गानेऽपि विलक्षणत्वेन पृथग् अवगताः । ततश् च तेन मुकुन्देन पूजिता । कथं पूजिता ? तत्राह—साध्व् इति । वीप्सा हर्षेण साधुत्व-दार्ढ्याय वा वदतेति शेषः ॥

तद् एवेत्य् अर्धकम् । तद् एव तालानिबद्ध-केवल-राग-मयम् एव वा प्राथमिकत्वेन प्राप्तत्वाद् आदि-ताल-मयम् एव वा गीतं तत्-क्षणाद् एव ध्रुवं यति निःसार-सज्ञ-ताल-द्वयैकतरात्मकं ध्रुवं भोगाख्यावयव-द्वय-मात्र-युत-गीत-विशेषं रचयित्वा जगाव् इत्य् अर्थः । तस्यैव च मान-मदात् श्री-मुकुन्द इति शेषः । किं तु पूर्वतो बहु यथा स्यात् तथा इति । अन्यत् तैः ।

यद् वा, स्वरा मतमयूरादिवद् ध्वनयः षड्जादयः सप्त । तद् उक्तम्—

रञ्जकाः श्रोतृ-चित्तानां स्वराः सप्त-विधा मताः । > षड्ज-र्षभौ च गान्धारो मध्यमः पञ्चमस् तथा । > धैवतश् च निषादश् च सर्वे स्युः श्रुति-सम्भवाः । > मयूर-चातक-छाग-क्रौञ्च-कोकिल-दर्दुराः । > मातङ्गश् च क्रमेणाहुः स्वरान् एतान् सुदुर्गमान् ॥ इति ।

अथ जातयस् तत्र रागोत्पत्ति-हेतवः । तद् उक्तं—

रागस् तु जायते यस्या सा जातिर् अभिधीयते । > शुद्धा च विकृता चेति सा द्विधा परिकीर्तिता ॥ > शुद्धाः स्युर् जातयः सप्त ताः षड्जादि-भेदतः । > षड्ज-कैशिक्यादि-भेदाद् एकादश-विधा परा ॥

इति आदि-ग्रहणाद् आर्षभीत्य् आदयः षात् । षड्जो दिव्यो वेत्य् आदयश् च दश ज्ञेयाः । ता अमिश्रिताः स्वरजात्य्-अन्तरास्पृष्टाः । परम-प्रावीण्येन केवल-तत्-तज्-ज्ञानात् । तत्रापि उत् उत्कृष्टम् । निन्ये गृहीतवती जगाव् इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तासां गानम् आकर्ण्य स्वयम् अपि गातुम् उपचक्रमे । तत्र तत्-सदृशं गातुं सर्वासु विस्मितासु काचित् स-गर्वम् उपेत्य गायति स्मेति दर्शयति—काचित् समम् इत्य्-आदि । स्मरान् षड्जादीन् अमिश्रितान् स्व-स्व-श्रुतीअर-श्रुति-सम्भिन्नताभाववतः । एवं जातीः आन्ध्री-प्रभृतिर् जातीः, अमिश्रिताः पर-साङ्कर्याभाववतीर् उन्निन्ये । प्रीयता प्रीयमाणेन भगवता साधु साध्व् इति पूजिता । आत्मानं विनान्यैर् दुष्करम् इति ज्ञानोत्तरम् । तस्या स तथा शक्तिम् आलोक्य स-विस्मयं पूजनं कृतवान् इति भावः । अथ ता एव स्वरजा ध्रुव-गानोपयुक्ताः । कृत्वा भगवान् उन्निन्ये ततोऽप्य् उच्चतरं कृत्वापनीतवान् । सापि ततोऽप्य् उच्चतरं कृत्वापनीतवतीति दर्शयन्ती—तद् एवेति । तच्-छब्दोऽव्ययः । ता एव स्वर-जातीः, ध्रुवं ध्रुव इति गान-विशेषः कृत्वोन्निन्ये स इत्य् अध्याहार्यम् । तस्मै मानं च बह्व् अदात् । इति सापि ततोऽप्य् उच्चतमम् उन्नीतवतीत्य् अनुसन्धेयम् । कथम् अन्यथा बहु-मान-दानम् ॥१०॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं यूथ-मुख्यानां कासाञ्चित् पृथक् पृथक् चेष्टितानि तत् मध्ये कासाञ्चित् कृष्ण-चेष्टित-मिश्राण्य् आह—काचिद् इति । काचिद् यूथ-मुख्या मुकुन्देन समं मुकुन्दस्योपसर्जनत्वात् स्वानन्द-पूर्णा समर्थेन स्वर-जातीः षड्जादि-स्वरालाप-भेदान् अमिश्रिता कृष्णोद्गीताभिर् असङ्कीर्णा ।

यद् वा, असङ्कीर्णा अश्रुत-पूर्वा स्वर-जातीनाम् उन्नयनं तु सम-कालम् एव नादारम्भे पृथक् पृथक् उपलब्धः, अत एव मुकुन्देन समम् उन्निन्ये स्वरावसानम् अर्पितवती । यद् वा, मुकुन्देनामिश्रितानैकत्वं नीत्वा तस्याप्य् अशक्यत्वात् । स्वर-जाती राग-स्वर-भेदान् समम् एकदैवोन्निन्ये । तत्-स्वराणाम् अवसानं युगपद् नीतवती । अत एव साधु साध्व् इति तेन पूजिता । तज्-जात्य्-उन्नयनं तद्-उपदेशेन स्वयम् अपि चिकीर्षमाणेन प्रीयता तद्-उन्नयने प्रीतिम् आविष्कुर्वता । अनेन गाने वैदग्धी-विशेष-प्राकट्यं दर्शितम् ।

इदानीं श्री-कृष्ण-सम्माननेन ततोऽप्य् ढिक्येन गाने तत्-कौशलम् आह—तद् एवेति । तद् एव तज्-जात्य्-उन्नयनम् एव ध्रुवं निश्चलं यथा भवति तथा उन्निन्ये तं नादं ध्रुव-नादेनैक्यं निनाय । यद् वा, येन ध्रुव-तालेन सम-तालेन ध्रुवाख्येन तालेन तद्-उन्नयनं ततोऽपि स्वोत्प्रेक्षितं नादान्तम् अनयत् । तन्-नादे श्री-कृष्ण-मनसो निरुद्धत्वात् सात्त्विक-भावोदयेन च बहु मानं सम्माननं पूजनम् इत्य् अर्थः । अदात् प्रशशंसेत्य् अर्थः । यद् वा, कण्ठाद् उत्तार्य महा-धनं हारं प्रसादत्वेन दत्तवान् इति भावः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वर-जातीर् इति । स्वराः खलु—

षड् ऋषभौ च गान्धारा मध्यमः पञ्चमस् तथा । > धैवतश् च निषादश् च सर्वे स्युः श्रुति-सम्भवाः । > मयूर-चातक-छाग-क्रौञ्च-कोकिल-दर्दुराः । > मातङ्गश् च क्रमेणाहुः स्वरान् एतान् सुदुर्गमान् ॥

तेषां जातीर् अष्टादश । यद् उक्तम्—

रागस् तु जायते यस्या सा जातिर् अभिधीयते । > शुद्धा च विकृता चेति सा द्विधा परिकीर्तिता ॥ > शुद्धाः स्युर् जातयः सप्त ताः षड्जादि-स्वराभिधाः । > ता एव विकृताः सत्यो जाता विकृत-संज्ञया । > षाड्जार्षभी च गान्धारी मध्यमा पाञ्चमी तथा । > धैवती चाथ नैषादी शुद्धा एतास् तु जातयः ॥ इति ।

अभिक्षिताः कृष्णोन्नीताभिर् असङ्कीर्णाः । यद् वा, शुद्धा अपि जात्य्-अन्तरास्पृष्टाः । परम-प्रावीण्येन केवल-तत्-तद्-गानात् । तत्रापि उत्कृष्टं निन्ये । अतः परम-दुर्गेयानाम् अपि तासां तथा गानम् आलक्ष्य तेन कृष्णेन सा पूजिता स्वीय-पीतोत्तरीयादिभिः सम्मानितेति विशाखेयम् इति प्राज्ञः तत्-तज्-जात्य्-उन्नयनम् एव ध्रुवं ध्रुवाख्यं ताल-विशेषं कृत्वा उन्निन्ये उन्नीतवती तस्यै कृष्णो मानम् आदरं बहु-रत्न-माला-पदकोर्मिकाद्य्-अलङ्कारम् आदयं पूर्वतोऽप्य् अधिक-साद्गुण्याविष्कारवती ललिता । ततश् च +++यथोत्तरोत्कृष्ट-तादृश-गाने गोपीनाम् अप्रवृत्तिम् आलक्ष्य श्री-राधा स्वयम् अगायन्ती स्व-सख्यास् तस्या एव सर्व-साद्गुण्योत्कर्षे ज्ञापयामासेति ज्ञेयम् ॥१०॥


॥ १०.३३.११ ॥

काचिद् रास-परिश्रान्ता पार्श्व-स्थस्य गदाभृतः ।

जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं नृत्य-गीतादिना श्री-कृष्ण-संमानितानां तासाम् अतिप्रीति-विलसितं वृत्तम् आह—काचिद् इति । श्लथन्ति वलयानि मल्लिकाश् च यस्याः सा ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गदाभृत इति । ननु वनिताभिर् विलासावसरे गदाधरणस्य शृङ्गारापहारकत्वाद् वीर-रसत्वापत्तिर् जातेतीत्थं भ्रान्तानां भ्रान्त्य्-अनुपत्त्य्-अर्थम् आह—गदार्थं पार्वती-शिव-संवादेन । तथा हि—रास-लीलां विलोक्यागत्य शिवेन सा लीला पार्वत्यै वर्णिता । तत्र प्रसङ्गेनोक्तम्—“पार्श्व-स्थस्य गदाभृतः” इति । तत्र पार्वत्योक्तम्—“गदाभृत इति कथम् ?” तत्र शिवेनोक्तम्—“गदा-भृतो वेणु-भृतः” । तदा पार्वत्य् उवाच—

रणे सम्प्रेषिता शूरैः शत्रूंश् चूर्णयती भुवि । > शास्त्रेण सा गदा प्रोक्ता कथं वेणुर् गदा प्रभो ॥

शिव उवाच—

कीचकेषु समुत्पन्ना बहु-रन्ध्र-विभूषिता । > येन केन प्रकारेण माधवेनाधरे धृता ॥ > वेणुः सपन्ती-भावेन गदत्य् एवम् अहर्-निशम् । > अतो व्रज-स्तिर्यः सर्वाः संवदन्ति च तां गदाम् ॥

इति शिव-कृत-पाय्चाध्यायी-व्याख्याने । तदैव गोपीश्वरो जात इति प्रसिद्धेः । केचित् तु नट-वृन्दाधिपोचिता गदाकृतिर् यष्टिस् ताम् । तद् अपि न शोभनं प्रतिभाति । मम तु गदति वर्णात्मकं शब्दं निगदतीति गदा वंशी तां बिभर्तीति तथा तस्य । गद-व्यक्तायां वाचि इतीत्थं प्रतिभातीति । स्कन्धं भुज-शिरः ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : काचिद् रास-परिश्रान्तेत्य् आदि । कृष्णस्य स्कन्धं बाहुना जग्राह । आलस्यं श्लघयितुं तद्-अंसे कृतावसजनेति भावः । पार्श्वस्थस्येति स च तत्-पार्श्वं न जहाति । गदाभृत इति तेन बाहुना स च स्कन्धासक्त-गद इव बभौ । तयैव गदया काम-जयोऽपि जात इति सरस्वती-निर्यासः । करेण स च तद्-अग्रं दधारेति च ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पार्श्व-स्थस्येति शीघ्र-सुख-ग्रहणं बोधितम् । अन्यथा रासावेशेन स्खलनं सम्भवेत् । किं च, पार्श्व-स्थत्वेन तस्यापि तत्र सावधानत्वम्, तस्यां पूर्वतोऽपि भावाधिक्यं च ध्वनितम्, अतः परिश्रमादिकं तद्-अर्थं केवलं छलम् एव ज्ञेयम् । रास-श्रमेण कदाचिद् यष्टिम् एकां लीलया गदाम् इवावष्टभ्य बिभर्तीति गदा-भृतः । यद् वा, गदति व्यक्तम् एव गीतादिकं वदतीति गदा वंशी । तां धारयतः सखी-करं परित्यज्य तस्यैव स्कन्धं जग्राह । परिश्रान्ति-लक्षणं श्लथद् इति । तथा पराशरेणाप्य् उक्तम्—

परिवर्तन-श्रमेणैका चलद्-वलय-लापिनीम् । > ददौ बाहु-लतां स्कन्धे गोपी मधु-निघातिनः ॥ इति ।

मल्लिका-पुष्पाणां श्लघनं कवराद् बोद्धव्यम् ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं कासाञ्चित् गुणोत्कर्ष-प्राधान्येन तत्रापि तारतम्येन गानाद्य्-अनुभावकं प्रेम वर्णयित्वा कासाञ्चित् सम्भोग-प्राधान्येन वर्णयति । काचिद् रासेत्य् आदिना । तत्रापि कास्याश्चित् सौभाग्य-प्राधान्येनाहं काचिद् रासेति । पार्श्वस्थस्येति शीघ्र-सुख-ग्रहणं दर्शितम् । अन्यथा रासावेशेन स्खलनं सम्भवेत् । गदां नट-वृन्दाधिपत्य्-उचितां गदाकृतिं यष्टिं बिभर्ति इति । यद् वा, गदति वर्णात्मकं शब्दं निगदतीति गदा वंशी ताम् । तद्-उचितत्वेनापि बिभर्तीति गदाभृतं तस्य । अत एव मध्यस्थस्यापि नट-वृन्दाधिपति-स्थानीयोञं प्रकाशः परिश्रान्ति-लक्षणं श्लथद् इति श्रमेण नव-मल्लिकावद् विलुलिताङ्गायां श्लथन्तः परस्परं विच्छिद्य सङ्घट्टं कुर्वन्तो वलयाः, तथा श्लथन्त्यो गलन्त्यो मल्लिकाश् च कवरस्था यस्याः सा । तथा श्री-पराशरेणाप्य् उक्तं—

परिवर्तन-श्रमेणैका चलद्-वलय-लापिनीम् । > ददौ बाहु-लतां स्कन्धे गोपी मधु-निघातिनः ॥ इति ।

अत्र मल्लिकानां शिथिलता च ज्ञेया । शोभादि-दशानां मध्ये सोऽयं माधुर्य-नामानुभावो ज्ञेयः । यथोक्तं—माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [उ।नी। ११.१९] इति । एवम् अस्याः स्वाधीन-भर्तृकात्वं मध्य-स्थितत्वं दर्शितम् । तस्माद् श्री-राधिकेयम् । अतो निकट-पठिते गान-विद्यया तद् द्वय-सुख-कारिण्यौ तत्-सख्यौ श्री-ललिता-विशाखे भवेताम् । पूर्वस्यास् तादृश-चेष्टत्वेन वर्णनं स्वतन्त्र-नायिकात्व-व्यञ्जकम् । उत्तरयोर् गीतादि-गुणत्वेन वर्णनं साहायक-व्यञ्जकम् इति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काचित् । गदां गोपालनौचितां नट-वृन्दाधिपोचिताम् एव वा । गदाकृति-यष्टिं विभर्तीति गदाभृत् ॥११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं सङ्क्षेपेण प्रथम-रासं निर्वर्ण्य तत्-कृत-परिश्रमम् आप—काचिद् रासेत्य् आदि । पार्श्व-स्थस्येति सर्वस्या एवेति ज्ञेयम् । बाहुना जग्राहेति वामेन बाहुनेति मन्तव्यम् । गोदा वाक् । निगादो निगदो गदः इत्य्-उक्तेः । गदम् आबिभर्तीति तथा तस्य तया समं किम् अपि व्यक्तं कथयतो गायतो वा जग्राहेति पुनर् मया वक्तव्य इति प्रकार-ग्रहण-परः—प्रेम प्रश्रयेण सङ्कोचाभावात् । श्लथमानानि वलयानि मल्लिकाश् च कवरात् कवर्याश् च यस्याः सा तथा । वस्तुतस् तु रासोत्सवे शृङ्गारोऽङ्गी अद्भुतोऽङ्गम् । अथवा उत्साहो हि व्यभिचारि-भावः स्वातन्त्र्येण विभावादिभिः परिपुष्टो रसताम् आपन्नो भावाख्यो रसोऽङ्गम् । तत्र श्रमादयो व्यभिचारिणः ॥११॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं कासाञ्चिद् गुणोत्कर्षम् उक्त्वा कासाञ्चिद् पूर्वम् एव चिन्तितम् आलिङ्गनादि-सुखं वर्णयति काचिद् इति । यूथ-मुख्या सौभाग्य-भर-गर्विता स्वस्यैकस्मिन् पार्श्वे तस्य विद्यमानस्यैव लाघव-शक्तिमत्त्वात् । श्री-कृष्णस्य स्कन्धं स्व-बाहुना जग्राह । श्री-कृष्णांसे स्व-बाहुं स्थापितवतीत्य् अर्थः । कीदृशस्य गदा-भृत इति सामर्थ्य-द्योतिका श्री-शुकोक्तिः । यद् वा, गदं काम-ताप-रूप-रोगं न बिभर्ति,न पुष्णाति इति गदाभृतः, तस्य काम-ताप-निवर्तकस्येत्य् अर्थः । स्कन्ध-ग्रहणे हेतुम् आह—रास-परिश्रान्ता नृत्य-सम्भ्रमेण रसावेशात् श्रमः । अतः श्रमापनयन-द्वारा स्खलन-शङ्कया स्कन्ध-ग्रहणम् इति, अनेन स्वाधीन-पतिकात्वं सूचितम् । परिश्रम-लिङ्गम् आह—श्लथद् इति शिथिलीभवन्तो वलयाः श्लथन्त्यो मल्लिकाश् च कबरात् यस्याः सा । यद् वा, श्लतन्ती पुष्प-निर्मित-वलयेभ्यो मल्लिका यस्याः सा, यद् वा, श्लथन्ती वलयाकारा कबरान् मल्लिका यस्याः सा । अन्यथा मण्डल-परित्यागेन श्रमापनयने क्रियमाणो रासो भज्येत रस-वृद्धिर् अपि न भवेद् इति । अत एव मण्डलम् अपरित्यज्यता कृष्णेनापि स्व-स्कन्धार्पणं सम्भाव्यतेति । तद् उक्तं पराशरेण—

परिवृत्ता श्रमेणैका चलद्-वलय-तापिनी । > ददौ बाहुलतां स्कन्धे गोपी मधु-विघातिनः ॥ [वि।पु। ५.१३.५३] > इति ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साद्गुण्य-प्राधान्येन सख्यौ वर्णयित्वा सौभाग्य-प्राधान्येन सर्व-मुख्यतमां वर्णयति—काचिद् इति । गदाभृतः कृष्णस्य पक्षे गदनं गदा गदा गीतवत्योः सख्योर् गुण-तारतम्य-ज्ञान-कथा तां बिभर्ति धत्ते । पुष्यति वा तस्य स्कन्धं बाहुना दक्षिणेन जग्राह आललम्बे । श्लथन्तो वलयाः मल्लिकाश् च कवर-स्था यस्याः सा । स्वाधीन-कान्तत्वाद् इयं श्री-वृषभानु-कुमारी ॥११॥


॥ १०.३३.१२ ॥

तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् ।

चन्दनालिप्तम् आघ्राय4 हृष्ट-रोमा चुचुम्ब ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्पलस्य सौरभं यस्य, तं बाहुम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र रासे उत्पलेन तन्-मालया सुगन्धितम् इति वा। हृष्ट-रोमा जात-सात्त्विक-भावा । स्तम्भः स्वेदोऽथ रोमाञ्चः5 इत्य्-आद्य्-उक्तेः । चुचुम्ब इति कामाकुलितत्वं सूचितम् । अंस-गतं स्व-स्कन्धे स्थितम् । चन्दनालिप्तम् अपि उत्पलस्येव सौरभं यस्येति स्वाभाविकेन गात्रस्योत्पल-गन्धेनात्यधिकेन चन्दन-गन्धस्यावरणात् । पूर्वाध्यायोक्त-क्रिया-तुल्यत्वाद् इयं नूनं श्यामला ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णोऽपि श्रम-लीलया कस्याश्चिद् अंसे भुजं न्यस्तवान् इत्य् आह—तत्र इत्य्-आदि । तत्र समये एका स्वांस-गतं श्री-कृष्णस्य बाहुं चुचुम्ब । तस्याः श्रमस् तच्-चुम्बनेनैव गतः । उत्पल-सौरभम् इति स्वभाव-सौरभं चन्दनेनालिप्तम् एव, न तु तेन सुरभिं, स्वत एव सुरभित्वात् । स्वयं ममांसे बाहुर् न्यस्त इति सर्वापेक्षया स्वस्याः सौभाग्यातिशयं मत्वा हृष्टानि रोमाणि यस्याः ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एका गोपी अंस-गतं स्व-स्कन्ध-स्थितं स्वभावत एव उत्पल-पुष्पतोऽपि अधिकं सौरभं यस्य, विशेषतश् च चन्दनेन सम्यक् भक्ति-च्छेदादि-साधु-प्रकारेण लिप्तम् इति कामोद्दीपनं सूचितम् । स्पष्टम् । चुम्बने हेतुः—हृष्टा-रोमा इति प्रेम-वैवश्याद् इत्य् अर्थः । श्लेषेण रोमान्य् अपि हृष्टानि । तस्याश् च हर्षः किं वक्तव्य इत्य् अर्थः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ प्राक्तन-क्रिया-सादृश्येन नूनं श्री-श्यामला-विलासम् आह—तत्र इति । एका गोपी अंस-गतं स्व-स्कन्ध-स्थितं स्वभावत एव उत्पल-पुष्पतोऽपि अधिकं सौरभं यस्य इत्य् अर्थः । विशेषतश् चन्दनेन आ सम्यक् भक्ति-च्छेदादि-साधु-प्रकारेण लिप्तम् स्पष्टम् । चुम्बने हेतुः—हृष्टा-रोमा इति, प्रेम-वैवश्याद् इत्य् अर्थः । श्लेषेण रोमान्य् अपि हृष्टानि । तस्याश् च हर्षः किं वक्तव्य इत्य् अर्थः । अयं प्रागल्भ्योत्थानुभावः । यथोक्तं—निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता [उ।नी। ११.२१] इति ॥१२॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३१७) : सात्त्विकाः—तत्र इति । स्पष्टम् ॥१२॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३२२) : निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता [उ।नी। ११.२१] । सा च—तत्रैकांस- इत्य्-आदौ दर्शिता ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं कृष्णोऽपि श्रान्तः सन् कस्याश्चिद् अंसे नन्यासेत्य् आह—तत्र इत्य्-आदि । तत्र रासोत्सवे एका सौभाग्यवती अंस-गतं कृष्णस्य बाहुं चुचुम्बउत्पल-सौरभं स्वभावेन चन्दनालिप्तम् आरोपेण, अत आघ्राय घ्राणेन परीक्ष्य "किम् अयं चन्दनेन सुरभिः, किं स्वरूपेण ?" इति सन्दिग्धा । उत्पल-सौरभम् इति स्वरूपं सौरभम् अनुभूय, हृष्ट-रोमा चुचुम्ब इत्य् अर्थः । अतश् चन्दनालिप्तम् इति लिपि-प्रकृत्य्-अर्थ-महिमा । अत्र कृष्णस्यालस्यम्, अस्या उत्कण्ठा व्यभिचारिणौ ॥११-१२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : कस्याश्चिन् पूर्ण-मनोरथोपगतं चेष्टितं वक्तुं तस्या एव यूथ-मुख्याया विलास-विशेषम् आह—तत्र इति । तत्र रास-मण्डले एका काचिद् गोपी कृष्णस्य बाहुं स्वस्यांस-गतं, तेन करालिङ्गितत्वात् । उत्पलतो नीलोत्पलाद् अपि सौरभं यस्मिन् स्वाभाविकं सौरभम् इत्य् अर्थः । विशेषतश् चन्दनालिप्तं चन्दनेनासमन्तात् भक्ति-च्छेदेनालिप्तम् अनेन काम-ताप-निर्वापकत्वम् उक्तम् । आघ्राय भाव-विशेषेण घ्राणम् । अत एकान्त-प्रविष्ट-परिमला आनन्द-पूर्णा सती बाहुम् एव चुचुम्ब । ह इति हर्षे प्रसिद्धौ वा । पूर्णानन्दत्वे लक्षणम् इव विडम्बयन्ती चुम्बनम् अकरोद् इति तात्पर्यार्थः । उत्पल-सौरभम् इति विशेषेण स्वाभाविकं सौरभं चन्दनालिप्तम् इति विशेषेण कर्बूरितम्। अनयोः विवेचनायाघ्राण-तात्पर्यम्, अलौकिक-भाव-युक्तानां परम-विदग्धानां त्व् एतद् विवेचनं नान्यासाम् इति सूचितम् । आघ्राणं विवेक-धैर्य-नाशाय चुम्बनं वाप्यायनायालम् इति ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अंस-गतं स्व-स्कन्धे स्थितं चन्दनालिप्तम् अपि उत्पलस्य इव सौरभं यस्येति स्वाभाविकेन गात्रस्योत्पल-गन्धेनात्यधिकेन चन्दन-गन्धस्यावरणात् । पूर्वाध्यायोक्त-क्रिया-तुल्यत्वाद् इयं नूनं श्यामला ॥१२॥


॥ १०.३३.१३ ॥

कस्याश्चिन् नाट्य-विक्षिप्त-कुण्डल-त्विष-मण्डितम् ।

गण्डं गण्डे सन्दधत्या अदात् ताम्बूल-चर्वितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाट्येन नृत्येन विक्षिप्तयोश् चञ्चलयोः कुण्डलयोस्6 त्विषेण त्विषा मण्डितं गण्डं कपोलं तथा-भूते स्व-गण्डे सन्दधत्याः संयोजयन्त्याः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-गण्डे निज-कपोले,

गण्डः स्यात् पुंसि खड्गिनि । > ग्रह-योग-प्रभेदे च वीथ्य्-अङ्गे पिटकेऽपि च । > चिह्न-वीर-कपोलेषु हय-भूषण-बुद्बुदे ॥ इति मेदिनी ।

आदाद् इत्य् अनेन स्वस्मात् स्वानाम् अभेदो दर्शितोऽस्ति । भेदे तन् न सङ्गच्छत इति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : षष्ठी चतुर्थ्याम् । स्व-गण्डं श्री-कृष्ण-गण्डे । नाट्येति श्रम-व्याजेन सन्दधत्या इति भावः । प्रकर्षेण सम्मुखत्वाभावेऽपि तन्-मुख-प्रवेशनादि-चातुर्येणादात् ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम्बूल-चर्वितादान-साम्येन नूनं पूर्ववत् श्री-शैव्या-विलासम् आह—कस्याश्चिद् इति । स्व-गण्डं श्री-कृष्ण-गण्डे । नाट्येतिश्रम-व्याजेन सन्दधत्या इति भावः । प्रादात् तस्या मुखं स्व-मुख-सम्मुखं कुर्वन् प्रकर्षेणादाद् इत्य् अर्थः । अत्र दाने षष्ठी निगूढार्था आर्षी वा ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : काचिद् एकैव नृत्य-गीत-वाद्य-यौगपद्येनातिपरिश्रान्ता सती स्वयम् एव तत्-प्रतीकारम् अकरोद् इत्य् आह—नृत्यतीत्यादि । नृत्यती नृत्यन्ती । एवं गायन्ती । कूजन्-नूपुर-मेखलयोर् नाद एव वाद्यम् । श्रान्ता सती पार्श्वस्थाच्युतस्य हस्ताब्जं स्तनयोर् अधात् पार्श्वस्था वा । शिवं सुशीतलम् ॥१३॥

[———————————————————————————————————————]{।मर्क्}

[]{।मर्क्}

[जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत्र काचिन् निकटे नृत्यन्त्याः सख्या मुखे स्वयम् अपि वात्सल्यात् ताम्बूल-चर्वितं ददाव् इत्य् अन्योन्य-प्रीतिं कैमुत्क-न्यायेनाह—कस्याश्चिद् इत्य्-आदि । कस्याश्चित् प्रिय-सख्यास् ताम्बुल-चर्वितं काचित् प्रिय-सखी प्रादात् प्रकर्षेणाददौ । नाट्य-विक्षिप्तस्य कुण्डलस्य त्विषा मण्डित-स्व-गण्डे गण्डं सन्दधत्याः । अथवा, काचित् कस्याश्चित् प्राददौ प्रादात् । अथवा, कृष्ण एव कौतुक-वशात् कस्याश्चित् ताम्बूल-चर्वितं प्रादात्, प्रकर्षेण ददौ, आददौ वा । तदा कुण्डल-त्विष-मण्डिते गण्डे इति कृष्णस्यैव गाण्डे इति बोद्धव्यम् । तेन तस्यापि नाट्यम् अत्र बोद्धव्यम् । अथवा, कस्याश्चिद् गण्डे काचित् कृष्णो वा गण्डं प्रादात्, प्रकर्षेणाददौ वा । प्रीत्या गण्डेन गण्ड-स्पर्शनम् अभिनिन्ये । ताम्बूलस्य चर्वितं यत्र, अतस् ताम्बूल-चर्वणेन बहिर् उच्छूनम् इत्य् अर्थः ।]{।मर्क्}

[]{।मर्क्}

[अथ चुम्बनेनाधर-ताम्बूल-चर्वित-रागस् तत्र लग्न इति चुम्बन-पूर्वकं गण्डेन गण्ड-स्पर्शनम् इति भावः । अन्यथा गण्डे गण्ड-सन्धानेन ताम्बूल-चर्वितस्य दानादानयोर् एव दुष्करत्वान् नातिलल्तत्वम् । कीदृश्याः ? सन्दधत्याः सन्धानं संश्लेषं कुर्वत्याः । अथवा, ताम्बूल-चर्वितं सम्यग् दधत्या गण्डे गण्डं प्रादाद् इति पूर्ववद् द्विविधो\ऽर्थः । कृष्णेन च मह्यं देहीति गण्ड एव गण्ड-धारणं कृतम्, न तु तयापि दत्तस्याप्य् अग्रहीत् । कौतुक-मात्रम् इत्य् एकादशार्थाः ॥१३॥]{।मर्क्}


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं कस्याश्चिद् यूथ-मुख्याया रास-विलास-क्षुभ्यच्-चित्ताया वैवश्यं दृष्ट्वा ताम्बूल-चर्वित-दानेन रसं विवर्धयिषतः कृष्णस्य विलास-पूर्वकं चेष्टितम् आह—कस्याश्चिद् इति । काचिद् अञ्जलिना गृह्णत्-तन्वी ताम्बूल-चर्वितम् इत्य् अत्र पूर्वम् आस्वादिते तांबूल-चर्विते साभिलाषाया इति । कस्याश्चिद् इति । अत्र चतुर्थ्य्-अर्थं षष्ठी कस्मैचिद् इत्य् अर्थः । श्री-कृष्णस्य ताम्बूलं चर्वितं प्रशद्वेन लाघवं विवक्षितम् अदात् प्रददौ स्व-गण्डं स्व-कपोलं श्री-कृष्ण-गण्डे सन्दधत्याः संयोजयन्त्याः, अनेन ताम्बूल-चर्विते सापेक्षत्वं ग्रहणे लाघवं च सूचितम् । गण्डयोः संयोजन-ग्रहण-दाने च चातुरी-विशेषम् आह—सम्मुखत्वाभावेऽपि लाघवे च स्व-मुखं सम्मुखीकुर्वन् ददाव् इति । कीदृशं गण्डं नृत्येन विक्षिप्तस्य चञ्चलस्य त्विषेण त्विषा मण्डितम् । अनेन शिरश्-चालनं भेद-प्रदर्शनम् उक्तम् इति । रसावेशेन नृत्य-सम्भ्रमस्यापि च्युतिर् उक्ता । यद् वा, स्व-गण्डे श्री-कृष्ण-गण्डं सनधत्या स्व-प्रयत्नेन संयोजयन्त्याः स्व-गण्डोपरि कृष्ण-गण्डं स्थापयन्त्यास् ताम्बूल-चर्वितं तस्य आप्यायन-करं प्रादात् । अनेन स्वानुरागस्य सिद्धवत् कृत्वोक्तस्य ताम्बूल-चर्वित-रूपकेण दानम् उक्तम् । सिद्धस्य दाने साधन-प्रयासाभावोऽपि सूचितः । कीदृशं कृष्ण-गण्डं नाट्येन नृत्येन विक्षिप्तं चञ्चलं यत् कुण्डलं तस्य त्विषेन त्विषा मण्डितम् । अनेन ग्रहणे तस्या लाघव-शक्तिः दाने श्री-कृष्णस्येति ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाट्येन विक्षिप्तयोश् चञ्चलयोः कुण्डलयोस् त्विषा कान्तिर् यत्र स चासौ, अत एव मण्डितश् च तस्मिन् गण्डे कृष्ण-कपोले श्रम-व्याजेन गण्डं सन्दधत्यै कस्यैचित् ताम्बूल-चर्वितं प्रादात् । तस्या मुखं स्व-मुख-सम्मुखं कुर्वन् प्रकर्षेणादाद् इत्य् अर्थः । इयं पूर्वोक्त-साम्याच् छैव्या ॥१३॥


॥ १०.३३.१४ ॥

नृत्यती गायती काचित् कूजन् नूपुर-मेखला ।

पार्श्व-स्थाच्युत-हस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कूजती नूपुरे मेखला च यस्याः सा ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिवं सुख-करम् । अच्युतेति च्युति-राहित्यम् आह ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृत्यती नृत्यन्ती इयम् एका । गायती गायन्ती च परा । इति द्वे ज्ञेये । कूजद् इति नृत्ये गाने च परमावेशं बोधयति । पार्श्व-स्थस्याच्युतस्य निश्चयेन तत्-पार्श्व एव स्थितस्य भगवतो हस्त एवाब्जं ताप-हारित्वादिना तत् । श्रान्ता सती श्रम-निवृत्त्य्-अर्थम् इवेत्य् अर्थः । एतच् च पूर्वम् उक्तम् एव । शिवं स्वतः सुख-रूपम् । एवं मुख्याः सप्तोक्ताः । अष्टमी च—

काचित् परिलसद्7-बाहुः परिरभ्य चुचुम्ब तम् । > गोपी गीत-स्तुति-व्याजः निपुणा मधुसूदनम् ॥ [वि।पु। ५.१३.५४] इति > पराशरेणोक्तात्र ज्ञेया ।

यद् वा, नृत्यती गायतीत्य् एकैव । एवं षट् । तासां च पूर्ववद् यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । द्वे च मण्डल-मध्य-वर्तिनः पार्श्व-द्वये स्थिते श्री-राधा-ललिते नोक्ते । प्रायोऽत्र मण्डलस्यैवोक्तेः । यद् वा, पूर्व-व्याख्यानुसारेण सप्तैवोक्ता ज्ञेयाः । श्री-राधा-देव्यैवैका तस्य मण्डल-मध्य-वर्तिनः सव्य-पार्श्व-स्थात्र नोक्तेति दिक् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-हस्त-ग्रहणानुसारेण नूनं पूर्ववत् श्री-चन्द्रावली-विलासम् आह—नृत्यती नृत्यन्ती गायती गायन्ती च कूजद् इत्य् अत्र गानानुरूप-ताल-युक्तं कूजितं ज्ञेयम् । पार्श्व-स्थस्याच्युतस्य निश्चयत्वेन तत्-पार्श्व एव स्थितस्य भगवतो हस्त एवाब्जं ताप-हारित्वादिना तत् श्रान्ता सती श्रम-निवृत्त्य्-अर्थम् इवेत्य् अर्थः । शिवं स्वतः सुख-रूपम् । एवं मुख्याः षड् उक्ताः तथैव सप्तमी पद्मापि ज्ञेया । सारल्येन लक्षिता पूर्ववद् विष्णु-पुराणोक्ता भद्रा त्व् इयं स्फुट अष्टमी स्यात् । यथा—

काचित् परिलसद्8-बाहुः परिरभ्य चुचुम्ब तम् । > गोपी गीत-स्तुति-व्याजः निपुणा मधुसूदनम् ॥५४॥ [वि।पु। > ५.१३.५४] इति ।

श्री-जयदेव-चरणास् त्व् इमाम् एव वर्णना-विशेषेणसरस-चरितां साधयित्वा व्यञ्जयामास—

रासोल्लास-भरेण विभ्रम-भृताम् आभीर-वाम-भ्रुवाम् > अभ्यर्णं परिरभ्य निर्भरम् उरः प्रेमान्धया राधया । > साधु त्वद्-वदनं सुधा-मयम् इति व्याहृत्य गीत-स्तुति- > व्याजाद् उद्भट-चुम्बितः स्मित-मनोहारि हरिः पातु वः ॥ [गि।गो। > १.४९] इत्य्-आदिना ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ क्षणं विश्रम्य पुनर् विहारम् आरेभिरे इत्य् आह—गोप्य इत्य्-आदि । गोप्यः श्रियो गोपी-रूपा याः श्रियः शोभाः । एकान्त-वल्लभम् अतिदयितं कान्तं कमनीयम् अच्युतं लब्ध्वा तद्-दोर्भ्याम् अच्युत-भुजाभ्यां गृहीत-कण्ठ्यः सत्यस् तं गायन्त्यस् तत्-क्षण-कृतेन तद्-गुण-रूप-माधुर्य-वर्णन-गीत-पदेन नाना-रागादि-कौशलेन गायन्त्यो विजह्रिरे ननृतुर् इत्य् अर्थः ॥१४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अन्यस्याः कस्याश्चित् पूर्वं मनोरथ-चिन्तितं स्व-कुचोपरि श्री-कृष्ण-हस्त-स्थापनं तद् इदानीम् आह—नृत्यन्तीति । काचित् प्रिया नृत्यन्ती गायती च नृत्य-गानयोः परस्पर-विरोधेन साहचर्याभावेऽपि तस्या वैदग्धी-विशेष-प्राकट्यं सूचितं श्रम-जनकत्वम् अप्य् उक्तम् । कीदृशी ? कूजती नूपुरे मेखला च यस्याः सा । अनेन चरण-गति-भेदः कटि-चालन-भेदश् च सूचितः । किं च, नृत्य-गानयो रस-विशेष-जनकत्वे नूपुर-मेखला-रूप-वाद्य-भेदस्य साहाय्यं सूचितम् । अत एव श्रान्ता सती पार्श्वस्था स्वस्मिन् किञ्चिच् छैथिल्यम् आलक्ष्य शैथिल्य-निरसनम् अच्युतस्य विलास-च्युति-रहितस्य तयैव नृत्य-गानालिङ्गनादिना पोषितत्वात् शैत्य-हेतु-श्रम-निवारकं हस्ताब्जम् अन्योन्य-बाहु-मण्डलं बन्धं त्याजयित्वा स्तनयोर् अधात् स्थापितवती । कीदृशी शिवं सुख-रूपम् । अनेन नृत्य-गानोत्तर-वृद्धौ हस्त-स्पर्शस्य परम-हेतुत्वम् उक्तम् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृत्यती गायती हस्ताब्जम् अधाद् इत्य् का चन्द्रावली, हस्त-ग्रहण-साम्यात् । द्वितीया पद्मा, तदानीं चरणाब्जं स्तनयोर् अधात् । इदानीं हस्ताब्जं स्तनयोर् धत्ते स्मेति स्तन-ताप-निवृत्तेर् उभयथापि सिद्धेः । अष्टमी भद्रा तु अत्रानुकापि पूर्ववद् व ज्ञेया ॥१४॥


॥ १०.३३.१५ ॥

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।

गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अन्या अपि गोप्यो यथा-यथं नाना-विभ्रमैर् विजह्रुर् इत्य् आह—गोप्य इति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभ्रमैः विलासैः । एकान्त-वल्लभं निर्णीत-नियत-भर्तारम् । तद्-दोर्भ्यां कृष्ण-भुजाभ्याम् । तं कृष्णम् । विजह्रिरे क्रीडां चक्रुः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतं कस्माच्चिद् अपि रूप-गुणादि-माहात्म्याच् च्युति-रहितं सुस्थिरं वा, कान्तं रमणं लब्ध्वा । तस्य सुदुर्लभताम् आह—श्रिय एव, न त्व् अन्य-जनस्य, एकान्तेन एक-निष्ठया वल्लभम् । यद् वा, श्रियः कान्तम्, आत्मनश् चैकान्त-वल्लभम् । नितान्त-प्रेष्ठं लब्ध्वेति श्रियोऽपि सकाशात् तासां माहात्म्यम् अभिप्रेतम् । तद् एव दर्शयति—गृहीत- इति । तथा च गास्यते श्रीमद्-उद्धवेन—

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः > स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः । > रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- > लब्धाशिषां [भा।पु। १०.४७.६०] इत्य्-आदि ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युतं कस्माच्चिद् रूप-गुणादि-माहात्म्याच् च्युति-रहितम् । तस्य दुर्लभताम् आह—श्रियोऽपि एकान्तं वैकुण्ठ-नाथादितोऽप्य् अतिशयान् नितान्तं वल्लभम्, यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् [भा।पु। १०.१६.३६] इत्य् अनुसारेण प्रेम-विषयम्, न तु लब्धं, तं कान्तं रमणं लब्ध्वा

यद् वा, श्रियः कान्तं कामनास्पदम् एकान्त-वल्लभं स्वैक-निष्ठ-प्रियतमं लब्ध्वा, न केवलं लाभः, किन्तु स्वल्पम् अपि विश्लेषम् असहमानेन तेन स्व-दोर्भ्यां गृहीतः कण्ठो यासां, तादृश्य इत्य् अर्थः । अत एवातिप्रेमानन्देन तम् एव गायन्त्यो विजह्रिर इति । एवं श्रियोऽपि सकाशात् तासाम् अतिमाहात्म्यम् अभिव्यक्तम् । तथैव गास्यते श्रीमद्-उद्धवेन—

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः > स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः । > रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- > लब्धाशिषां य उदगाद् व्रज-सुन्दरीणाम् ॥ [भा।पु। १०.४७.६०] > इत्य्-आदि ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्या गोप्याः । यद् वा, श्रियोऽपि एकान्त-वैकुण्ठ-नाथादितोऽप्य् अतिशयात् प्रेम-विषयम्, न तु लब्धम् । तं कान्तं रमणं लब्ध्वा, न केवलं लाभः, किन्तु स्वल्पम् अपि विश्लेषम् असहमानेन तेन स्व-दोर्भ्यां गृहीतः कण्ठो यासां, तादृश्य इत्य् अर्थः ॥१५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ क्षणं विश्रम्य पुनर् विहारम् आरेभिरे इत्य् आह—गोप्य इत्य्-आदि । गोप्यः श्रियो गोपी-रूपा याः श्रियः शोभाः । एकान्त-वल्लभम् अतिदयितं कान्तं कमनीयम् अच्युतं लब्ध्वा तद्-दोर्भ्याम् अच्युत-भुजाभ्यां गृहीत-कण्ठ्यः सत्यस् तं गायन्त्यस् तत्-क्षण-कृतेन तद्-गुण-रूप-माधुर्य-वर्णन-गीत-पदेन नाना-रागादि-कौशलेन गायन्त्यो विजह्रिरे ननृतुर् इत्य् अर्थः ॥१५॥


गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।

गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥

नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं यूथ-मुख्यानां कासाञ्चित् पृथक् पृथक् चेष्टितम् उक्त्वा, अधुना सर्वासां सामान्यतः स्वरूप-कृतां लीलाम् आह—गोप्य इति । गोप्यः स्व-निष्ठं रसं परस्परम् अपि गोपायन्ति ताः, अच्युतं क्षणम् अपि विलास-च्युति-रहितम्, कान्तं रमणम् अन्तर् बहिश् च निजानन्द-दायिनम् इत्य् अर्थः । लब्ध्वा प्रेम्णा सुलभत्वेन प्राप्य ।

तस्य दुर्लभताम् आह—सर्वासां प्रेयसीनां परमावधि-रूपाया श्रिय एकान्त-वल्लभं परम-प्रेष्ठम् । यद् वा, एकान्ते अन्तः-पुर एव वल्लभम् । तत्रैव तस्या अधिकारो, न तु रास-गोष्ठ्याम् इति । यद् वा, श्रियः कान्तं कामना-विषयम् अपि एकान्ते कालिन्दी-पुलिने बन्धुम्, अर्थात् गोपीनाम् एवेति । यद् वा, एकान्तं वृन्दारण्य-प्रदेशादिकं वल्लभम् अतिप्रियं यस्येति वैकुण्ठादि सदोद्ग्राहम् इति प्रसिद्धेः ।

कीदृशं कृष्णम् ? श्रियो\ऽच्युतं तस्याम् अनाशक्तेः—यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् [भा।पु। १०.१६.३६] इत्य्-उक्तेः । अतश् च एवालभ्य-लाभत्वेन लब्ध्वा तम् एव गायन्त्यो विजह्रिरे, यथाभिलषितं चुम्बनालिङ्गनादि-विलास-भावैश् चक्रुर् इति । न केवलं तासाम् एवालभ्य-लाभत्वेनोत्कर्षः, किं तु तस्यापीत्य् आह—तद्-दोर्भ्याम् उभय-पार्श्व-स्थितस्य तस्य दोर्भ्यां गृहीतः कण्ठो यासां, ताः । दुर्लभत्वं कण्ठम् इत्य् एव सुवचं लब्ध्वा उभयतः कण्ठे नालिङ्गितवान् इत्य् अर्थः । अत एव गान-नृत्ययोर् अत्यावेशः सूचितः । तत्र विहारे तासां स्वातन्त्र्यं च निरूपितम् इति । उद्धवोऽपि तथैवाग्रे वक्ष्यति च—

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः > स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः । > रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- > लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा।पु। १०.४७.६०] > इत्य्-आदि ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अन्या अपि गोप्यः स्व-स्वभावानुसारिण्यो विजह्रुर् इत्य् आह—गोप्य इति । अत्र यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इति नागपत्नी-स्तुत्या, नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इत्य् उद्धवोक्त्या च, श्रीः प्रेक्ष्य कृष्ण-सौन्दर्यं तत्र लुब्धाचरत् तपः [ल।भा। १.५.३५१] इति भागवतामृतोत्थापित-पौराणिक-कथया च नारायण-कान्तायाः श्रियः कृष्ण-सङ्गासम्भवाद् एवं व्याख्येयम् । कान्तं कमनीयम् अच्युतं कृष्णम् एकान्त-वल्लभं लब्ध्वा विजह्रिरे । तद्-दोर्भ्यां कृष्ण-भुजाभ्यां गृहीताः कण्ठा यासां ताः । श्रियः श्रिय इवेत्य् अर्थः । सा यथा नारायण-वक्षो-गृहीत-गात्री एता गोप्योऽपि तथा कृष्ण-भुज-गृहीत-कण्ठा इत्य् अर्थः । यद् वा, नारायणेनैक्यात् कृष्णस्यापि श्री-वल्लभत ॥१५॥


॥ १०.३३.१६ ॥

कर्णोत्पलालक-विटङ्क-कपोल-घर्म-

वक्त्र-श्रियो वलय-नूपुर-घोष-वाद्यैः ।

गोप्यः समं भगवता ननृतुः स्व-केश-

स्रस्त-स्रजो भ्रमर-गायक-रास-गोष्ठ्याम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र वादकेषु गायकेषु गन्धर्व-किन्नरादिषु रसावेशेन मुह्यत्सु चान्याम् एव वाद्यादि-सम्पत्तिं दर्शयन् रास-संभ्रमम् आह—कर्णोत्पल- इति । कर्णोत्पलैश् च, आलक-विटङ्कैर् अलकालङ्कृतैः कपोलैश् च, घर्मैश्वक्त्रेषु श्रीः शोभा यासां, ताः । घोषाः किङ्किण्यः । वलय-नूपुर-घोषैर् वाद्यैर् वादित्रैः स्व-केशेभ्यः स्रस्ताः स्रजो यासां ताः । एतेन ताल-गति-सन्तुष्टाः केशाः स-शिरः-कम्पं पादेषु पुष्प-वृष्टिम् इवाकुर्वन्न् इत्य् उत्प्रेक्षितम् । भगवता सह ननृतुः । क्व ? भ्रमरा एव गायका यस्यां रास-सभायाम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र रासे । रास-सम्भ्रमः रासावेशः । स्रजः पुष्पाणि, तन्-माला वा, स्रग् माला-पुष्प-रज्जुषु इति धरणिः । एतेन स्व-केश- इत्य्-आद्य्-उक्तेन । उत्प्रेक्षितम् उत्प्रेक्षा-विषयतां नीतम् । उत्प्रेक्षा-लक्षणं तु कुवलयानन्दे—

सम्भावना स्याद् उत्प्रेक्षा वस्तु-हेतु-फलात्मना । > उक्तानुनुक्तास्पदाद् यत्र सिद्धासिद्धास्पदे परे ॥ इति ।

अन्य-धर्म-सम्बन्ध-निमित्तेनान्यस्यान्यात्मता-सम्भावनम् उत्प्रेक्षा । सा त्रिधा—कस्यचिद् वस्तुनो वस्त्व्-अन्तर्-आत्मना सम्भावनं वस्तूत्प्रेक्षा, सैव स्वरूपोत्प्रेक्षा,

अहेतोर् हेतुतया सम्भावनं हेतूत्प्रेक्ष, > अफलस्य फलतया सम्भावनं फलोत्प्रेक्षा ।

तत्राद्या वस्तूत्प्रेक्षा द्विधा—उक्त-विषयानुक्त-विषया चेति । परे हेतु-फलोत्प्रेक्षे अपि प्रत्येकं द्विविधे—सिद्ध-विषये असिद्ध-विषये च । तत्रोदाहरणं क्रमात्—

धूम-स्तोमं तमः शङ्के कोकी-विरह-शुष्मणाम् । > लिम्पन्तीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥9

अथ प्रदोषे विसृत्वर-तमसो नैल्य-दृष्टि-रोधत्वादि-धर्म-सम्बन्धेन गम्यमानेन निमित्तेन सद्यः प्रिय-विघटित-सर्व-देश-स्थ-कोकाङ्गना-हृद्-गत-प्रज्वलिष्यद्-विरहानल-धूम-स्तोमत्व-सम्भावनंस्वरूपोत्प्रेक्षा, तमसो विषयस्योपादानाद् उक्त-विषया तमो व्यापनस्य रोदो-गताखिल-वस्तु-सान्द्र-मलिनी-करणेन निमित्तेन तमः कर्तृक-लेपन-तादात्म्योत्प्रेक्षा । नभः कर्तृकाञ्जन-वर्षण-तादात्म्योत्प्रेक्षा चानुक्त-विषया वस्तूत्प्रेक्षा ।

रक्तं तवाङ्घ्रि-युगलं भुवि विक्षेपणाद् ध्रुवम् । > त्वन्-मुखाभेच्छय नूनं पद्मैर् वैरायते शशी ॥

चरणयोः सहजे रागे विक्षेपणम् अहेतुर् हेतुत्वेन सम्भावितं हेतूत्प्रेक्षा । विक्षेपणस्य च विषयस्य सत्त्वात् सिध-विषया । चन्द्र-पद्म-विरोधे सहजे कान्ता-मुख-कान्ति-कामना-हेतुर् असतां च हेतुत्वेन सम्भावितेत्य् असिद्ध-विषया हेतूत्प्रेक्सा ।

मध्यः किं कुचयोर् धृत्यैः बद्धः कनक-दामभिः । > प्रायोऽब्जं त्वत्-पदेनैक्यं प्राप्तुं तोये तपस्यति ॥

अत्र स्वाभाविक्या मध्य-कर्तृक-कुच-धृतेः कनक-दाम-बद्धत्वेनाध्यवसित-वलि-त्रय-शालिता फलत्वोत्प्रेक्षणं सिद्ध-विषया फलोत्प्रेक्षा । जलजस्य जले निजावस्थितेर् उदक-वास-तपस्त्वेनाध्यवसितायाः कान्ता-पद-सायुज्य-प्राप्तिर् न फलम् इति खपुष्पायमाणायास् तस्या फलेनोत्प्रेक्षणम् असिद्ध-विषया फलोत्प्रेक्षेति ।

तथा चेह वस्तूत्प्रेक्षोक्त-विषया ज्ञेया, विषयाणां कर्णोत्पलादीनाम् उक्तत्वाद् इति । कर्णोत्पलानि सौवर्णानि गोपिका-स्थानीयानि वर्ण-साम्यात् । अलकाः श्यामाश् चूर्ण-कुन्तलाः कृष्ण-स्थानीयाः, उभयोर् विटङ्कः परस्पराबद्ध-करानुकारः, कपोलेषु रङ्ग-स्थानीयेषु, धर्मश् च कालिन्दी-प्रवाह-स्थानीयः, तेन तेन वक्त्राणां श्री-विलक्षणा रास-मण्डल-शोभा यासां ता इति द्विविधा रास-लीला सञ्जातेति । भ्रमराणां गायकत्वं तु स्वयम् एव लिखितम् । विटङ्कः पक्षि-वासार्थ-कल्पितेऽलङ्कृतौ तथा इति कोशात् । गोष्ठी सभा-संलापयोः स्त्रियाम् इति मेदिनी ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथैव तासां माहात्म्यं दर्शयति—कर्ण- इति। तासां रासेन परमा शोभोक्ता । यद् वा, परिश्रान्तिः सूचिता । तथापि नृत्ये हेतुम् आह—भगवता निजाशेषैश्वर्य-सार-सर्वस्वं प्रकटयता समम् इति, तत्-साहित्यस्य परम-मोहनत्वात् । यतो गोप्यस् तद्-एक-प्रेम-वशा इत्य् अर्थः । तेन समम् इत्य् अनेन तासां तत्-सदृश-वैदग्ध्यादिकम् अपि सूचितम् । तथा तासाम् इव तस्यापि कर्णोत्पलादिकं सर्वं बोध्यते । अन्यत् तैर् व्याख्यातम् ।

तत्र वादकेष्व् इति दुन्दुभि-नादाभिप्रायेण किन्नरादिष्व् इति च दिवौकसाम् [१०.३३.४] इत्य् उक्तेस् तद्-अन्तर्गतत्व-सम्भावनम् इति । अथवोक्त-श्रीतोऽप्य् अधिक-माहात्म्यम् एव दर्शयति । किं वा, पूर्वं गन्धर्व-पति-गीतं निज-वलयादि-वाद्यं चोक्तम् । अधुना च तत् तद् विनैव नृत्यं चक्रुर् इत्य् आह—कर्ण- इति । अ-कार-प्रश्लेषेण न वलयादीनां वाद्यैर् अवलयादि-वाद्यैस् तद्-अभावेनापीत्य् अर्थः । चिरं रासावेशेन तत्-तत्-स्खलनाद्य्-आपत्तेः । तथा न विद्यते भ्रमरोऽपि गायको यस्यां रास-गोष्ठ्याम् । अत एव स्व-केश- इति केशाः पादानां पूजाम् अकुर्वन्न् इत्य् अर्थः। त च तैर् व्याख्यातम् एव । अन्यत् समानम् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव तासां माहात्म्यं दर्शयति—कर्ण- इति द्वाभ्याम् । कर्ण- इति तासां रासेन श्रमेऽपि परम-शोभा दर्शिता । तथापि नृत्ये हेतुम् आह—भगवता निजाशेष-माधुर्य-सार-सर्वस्वं प्रकटयता समम् इति । तत्-साहित्यस्य परमोल्लासकत्वात् । यतो गोप्यस् तद्-एक-प्रेम-वशत्वेन प्रसिद्धा इत्य् अर्थः । तेन समम् इत्य् अनेन तासां तत्-सदृश-वैदग्ध्यादिकम् अपि सूचितम् । तथा तासाम् इव तस्यापि कर्णोत्पल- इत्य्-आदिकं सर्वं बोध्यते । उत्पल-धारणं च सम्प्रति श्री-कृष्णे नैव कारितम् इति ज्ञेयम् ।

भ्रमर-गायक- इति । तत्-तद्-उचित-गान-समर्थत्वात् तेषाम् असाधारणत्वं व्यञ्जितम् । अन्यत् तैः।

तत्र वादकेष्व् इति दुन्दुभि-नादाभिप्रायेण तद् धि नादादिकं तेषां तन्-नृत्यानुकूलम् एवासीद् इति तत् सम्मतम् । किन्नरादिष्व् इति च दिवौकसाम् इत्य् उक्तेस् तद्-अन्तर्गतत्व-सम्भावनयेति । एवं तत्र तासां न काचिद् अन्यतो गीतादेर् अप्य् अपेक्षा, किं तु स्वानन्देनैव तेषां मध्ये मध्ये वादनादि-चेष्टित इति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इदानीं भगवता सह ननृतुर् इत्य् आह—कर्णोत्पल- इत्य्-आदि । गोप्यो भगवता समं ननृतुः । भगवान् यथा ननर्त, तथेत्य् अर्थः । सम-शब्दः सहार्थः सदृशार्थश् च । अर्थयोर् युगपद्-भासनात् । तत्र नृत्यं तावद् द्विविधं भवति—निर्गीतं सगीतं च । निर्गीतं केवल-वाद्य-मात्रेण मन्द-मन्देन स-तालेन मुख-कण्ठ-भ्रू-नेत्रादि-कम्पनेन शनैः शनैर् नृत्यम् । स-गीतं गीतार्थानुरूपं हस्तकादि-गति-विशेषवत् । अत्र प्रथमं निर्गीतम् एवेदं नृत्यम् इति । भ्रमर-गायका यत्रेति गीतान्तराभावः । कर्णोत्पलैश् च, आलक-विटङ्कैर् अलक-विभ्रमैश् च, तथा कपोल-घर्मैश् च वक्त्रेषु श्रीर् यासाम् । मुख-नेत्र-ग्रीवादि-दोलनेन चलद्भिः कर्णोत्पलैः, चलद्भिर् अलक-विटङ्कैः स्फुरद्भिः कपोल-घर्मैश् चेत्य् अर्थः । वलयानां नूपुराणां घोषा एव वाद्यानि तैर् अन्य-वाद्यैर् अपि तदाविरतम् एव । एतेन पूर्वं वाद्यान्तरम् अप्य् आसीद् इति मन्तव्यम् । तदा तु भ्रमर-गीत-वलयादि-वाद्याभ्याम् एव नृत्यम् इत्य् अर्थः । स्व-केशेषु स्रस्तं स्रंसनं यासां तथाभूता स्रजो यासां, तास् तथा स्व-केशेभ्यः स्रंसमान-स्रज इत्य् अर्थः । अर्ध-स्रंसमान-स्रक्त्वेन केशानां शोभातिशयः । स्व-शब्दो भगवद्-व्यतिरेकार्थः । तस्य तु केशेषु तथैव स्रग् वर्तत इति भावः ॥१५॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं तावत् तासां स्वातन्त्र्यम् उक्त्वा रास-रभस-जनितं शोभा-भरम् अभिनयेनाभिव्यञ्जयति—कर्णोत्पल- इति । गोप्यः भगवता समं ननृतुः, नृत्ये गोपीनां मुख्यत्वं भगवतो गौणत्वं तासां चरण-विन्यास-विशेषम् आलक्ष्य नृत्यमानत्वात् । भगवता इति गोपी-सभापतित्वेन रसैश्वर्य-व्यञ्जनया समम् इति । तत्-साहित्यं परम-शोभा-व्यञ्जकम् इति सूचितम् । यद् वा, समं सदृशं यथा भवति, तथेति सर्व-कला-कौशल-दर्शनेन सामरस्यं सूचितम् । रास-रभसे तासां श्रम-जनित-शोभा-विशेषम् आह—कर्ण- इति । कर्णयोर् भूषणत्वेन स्थिताभ्याम् अलकोत्पलादयः, तेषां विटङ्कौ आश्रयौ कपोलौ, ताभ्यां च—कपोल-पालिकायां च विटङ्कं पुन्नग-पुंसकम् इत्य् अभिधानात् । घर्मैः प्रस्वेद-बिन्दुभिश् च वक्त्रेषु श्रीः शोभा सम्पत् यासां ताः ।

अनेन तासां वक्त्र-शोभैव श्री-कृष्णस्य नृत्योद्दीपिका जाता । तस्य वलय-नूपुर-घोष-वाद्यैर् इति तासां नृत्योद्दीपकत्वं ध्वनितम् । वलयादि-वाद्यानाम् उभयत्रोद्दीपिकत्वं सूचितम् । श्रमस्य सूचकान्तरम् आह—स्व-केशेन स्व-केशेभ्यः स्रस्ता स्रजो यासां ताः । कुत्र ? इत्य् अपेक्षायां तत्राह—भ्रमरा एव गायका यस्यां रास-गोष्ठ्यां रास-सभायाम् ।

अयम् अभिप्रायः—पूर्वम् उक्तं—ततो दुन्दुभयो नेदुः [१०.३३.५] इति, वलयानां नूपुराणाम् इति, सदा गन्धर्वादीनां वाद्य-वादकानां च गानं वाद्य-वादनं च नृत्यानुकूलम् एवासीत् । वलयादीनां शब्द-साङ्कर्येऽपि वाद्यानां शब्दस्य तद्-अनुकूलत्वम् एव ताल-गति-समाप्तौ तेषां शब्दस्य साहचर्यात् । इदानीं लोक-शास्त्र-मर्यादातिक्रमेण नृत्ये प्रवृत्ते सति स्वर-ताल-राग-ग्राम-मूर्च्छना-ज्ञानाभावात् । गायकेषु वादकेषु चोपरतेषु सत्सु स्वयम् उत्प्रेक्षित-ताल-स्वर-भेदम् अनुगतानां वलयादि-वाद्यानाम् उद्दीपकत्वम् उक्तम् ।

यद् वा, देव-दुन्दुभ्य्-आदि-शब्दस्य एतस्मिन्न् एव लीनत्वान् न पृथक् श्रवणम् इति भावः । अन्यच् च ताल-गति-समाप्ति-शब्दस्याभिभाव्यत्वं वलयादि-शब्दस्याभिभावकत्वम् । अत एव वलयादि-शब्देभ्य उच्चैः श्रूयमाणत्वात् । मुख्य-दुन्दुभ्य्-आदि-शब्दस्यैतस्मिन्न् एव लीनत्वान् न पृथक् श्रवणम् इति भावः । अन्यच् च ताल-गति-समाप्ति-ज्ञानाभावात् पुष्प-वृष्टि-रूप-रतिः सूचिता । स्वर-ज्ञानाभावाद् गन्धर्वाणां गीतोपरतिः ।

भ्रमरास् तु माला-सम्बन्धिनः, अत एव गोपी-मण्डल-सहचराः । गोपीभिः सह तेषाम् अपि परिभ्रमणम् उक्तम्, वने भ्रमरा एवाधिकृताः । वाद्याधिकारे वलय-नूपुराद्या अधिकृता, पुष्प-वृष्टौ केशा एवाधिकृता इति स्वयम् उत्प्रेक्षितम् अलौकिकं रसैश्वर्यम् आविष्कृतम् इत्य् अधिकृतम् इत्य् अर्थः । किं च, वर्णयोर् उत्पलस्यायम् अमृत-सम्भ्रमे पतन-शङ्का-निरसनेन स्व-चातुर्य-प्रकाशनक-कपोलयोः पर-भाग-व्यञ्जनार्थम् इति भावः । अलका भ्रमरा इव रस-पातारस् तेषां विटङ्क-रूपैः कपोलौ तत्र घर्मो नृत्याभिनिवेशाज् जातं श्रम-जलं तैर् वक्त्रेषु श्रीः शोभ सम्पद् यासां ताः । कपोल-संलग्नैर् अलकैः मृगमद-पत्र-रचना कृता । श्रम-बिन्दुभिर् मुक्तानाम् इव रचना विशेषः कृत इति सर्वं तेनालौकिकम् एव सम्पादितम् इति भावः ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथक् पृथग् गान-नृत्यादि-साद्गुण्य-शोभान् उक्त्वा समुदित-नृत्य-जनित-वक्त्रादि-शोभां विवृणोति—कर्णोत्पलेषु । कर्ण-धृतोत्पलोपलक्षित-चक्रिका-कुण्डलेषु अलकानाम् अतिलौल्याद् विविधाष् टङ्का वेष्टनानि च कपोलेषु घर्म-बिन्दवश् च तैर् वक्त्रेषु श्रीः शोभा यासां ताः । टकि बन्धे । वलय-नूपुराद्य्-अलङ्काराणां घोषस् तुल्य-स्वरतया नादो येषु, तैर् वाद्यैः तत्रानद्ध-शुषिरैस् तत्-तद्-अधिष्ठातृ-देवताभिर् एव स्व-सफलीकरणार्थम् आगत्य वादित्रैः स्व-केशेभ्यः स्रस्ताः स्रजो यासां ताः । एतेन ताल-गति-सन्तुष्टाः केशाः स-शिरः-कम्पं पुष्प-वृष्टिम् इवाकुर्वन्न् इति श्री-स्वामि-चरणाः । भ्रमरा अपि गायका यस्यां, तस्यां रास-गोष्ठ्यां रास-सभायाम् ॥१६॥


॥ १०.३३.१७ ॥

एवं परिष्वाङ्ग-कराभिमर्श-

स्निग्धेक्षणोद्दाम-विलास-हासैः ।

रेमे रमेशो व्रज-सुन्दरीभिर्

यथार्भकः स्व-प्रतिबिम्ब-विभ्रमैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा गोप्यो नाना-विभ्रमैर् भगवता सह विजह्रुर् एवं भगवान् अपि स्व-विलासैस् ताभिः सह रेम इत्य् आह—एवम् इति । तद्-विलासानभिभूतस्यैव रतौ दृष्टान्तः—यथार्भक इति । स्व-प्रतिबिम्बैर् विभ्रमः क्रीडा यस्य, स इव । अनेनैतद् दर्शितम्—स्वीयम् एव सर्व-कला-कौशलं सौगन्ध्य-लावण्य-माधुर्यादि च तासु सञ्चार्य ताभिः सह रेमे, यथार्भकः स्व-प्रतिबिम्बैर् इति ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताभिः गोपीभिः । तासां विलासास् तद्-विलासास् तैर् अनभिभूतोऽतिरस्कृतः । विलासस् तु—

गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् । > तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [उ।नी। ११.३१]

इति भरतेनोक्तम्10 । अनेन दृष्टान्तेन एतद्-वृत्तं दर्शितम् । लावण्यं तु—

मुक्ता-फलेषु छायायास् तरलत्वम् इवान्तरा । > प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥ [उ।नी। ११.२८]

माधुर्यं तु—

यतश् चेतो नापयाति तन् माधुर्यम् इतीरितम् ॥

आदिना सौस्वर्य-ग्रहः । तासु गोपीषु । सञ्चार्य सम्प्रवेश्य । ताभिः गोपीभिः । अर्भको बालः। एतेनापि व्यभिचार-दोषः परास्तः । प्रतिबिम्बानां बिम्बाधीन-सत्ताकत्वेन, वस्तुतस् तद्-अविनाभावित्वात् तद्-अभिन्नत्वम् एव । तथा च, गोपीनां भगवत्-प्रतिबिम्बत्वेन अभिन्नत्वाद् बाल-लीलावत् तल्-लीलाप्य् अतर्क्यैवेति ।

एवं रास-नृत्यैर् एव कृष्णस्य सम्भोगान्य् अपि निर्वृतानीत्य् आह । परिष्वङ्ग आलिङ्गनम्, एकैकया सह युग्म-नृत्ये करेण अभिमर्शः स्पर्शः, स च नृत्य-गति-समाप्तौ स्व-दक्षिण-करेण प्रिया-वाम-वक्षोजे ताल-न्यास-रूपः, स्निग्धेक्षणं रहस्याङ्गेषु स-प्रेमावलोकनम्। उद्दाम-विलासः पारितोषिक-प्रदान-मिषाच् चुम्बनादिः । हासस् तु तत्-तत्-प्राप्त्य्-अनन्तरं मुखोल्लासः परिहासो वा तैः ।

रमेशः रमायां लक्ष्म्याम् ऐश्वर्यं प्रकटयन् व्रज-सुन्दरीभिः सह रेमे, न तु रमयेत्य् अर्थः । यथार्भको मुग्धः, तथैव तासु प्रेमाधीनत्वान् मौग्ध्यम् एव दधन्, न तु रमायाम् इवैश्वर्यम् इत्य् अर्थः ।

ननु, परः-सहस्राभिस् ताभिः कथम् एकः संरेमे ? तत्राह—स्वस्य प्रतिबिम्बं प्रतिस्वरूपम् एव विभ्रमो विलासो यस्य सः ।

प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् । > आदायान्तरधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भा।पु। ३.२.११]

इत्य् अत्र बिम्ब-शब्देन यथा स्वरूपम् उच्यते, तथैवात्रापि । एकैकया प्रियया सह एकैक-स्वरूपो रेमे इत्य् अर्थः । तासां ह्लादिनी-शक्तित्वेन स्वरूप-भूतत्वात् । स्व-प्रतिच्छवितानौचित्याद् व्याख्यान्तरं नेष्टम् ॥१७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परिष्वङ्गह् गोपीनाम् आश्लेषः । कराभिमर्शस् तासां करालम्बनम् । यद् वा, स्व-करेण तासाम् अभिमर्शः स्तनादि-स्पर्शनम् । स्निग्धेक्षणं तन्-मुखादीनां सरस-निरीक्षणम् । उद्दाम-विलासो नीवी-श्लथनादिः । हासश् च भावोद्रेक-विलसित-स्मितम् । रमाया ईशः प्रभुर् अपि व्रज-सुन्दरीभिर् एव रेमे, न तु तया । यद् वा, रमाया ईशः स्वामीति स्वामित्वेन तस्यास् तादृश-रत्य्-अयोग्यता, व्रज-सुन्दरीभिर् इति तासाम् एव तद्-योग्यताभिप्रेता । लक्ष्मीतोऽपि भाव-वैदग्ध्यादि-विशेषात् तम् एव दर्शयन् श्री-भगवतस् तासां च मिथः साम्यं दृष्टान्तेनाह—यथा इति । यथा प्रतिबिम्बेन सह अर्भकस्य क्वापि वैसादृश्यं नास्ति, तथा ताभिः सह कृष्णस्येत्य् अर्थः । क्रीडा-परोऽर्भको यादृशं हस्त-चालनादिकं कुरुते, तादृशं तच्-छायापि, यथा छाया कुर्यात्, सोऽपि पुनस् तथैवानुकरोति, अर्भकत्वात् । एवं श्री-भगवान् यथा रेमे, ता अपि तथैव रेमिरे । ता यथा रेमिरे, सोऽपि तथैव रेमे इत्य् अर्थः । अनेन श्री-भगवद्-रतेर् अपि शोभा सूचिता, वैषम्ये तद्-असम्पत्तेर् इति दिक् । तथा तासाम् इव तस्यापि प्रेम-विकारोऽभिप्रेतः । स चोक्तः श्री-पराशरेण—

गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ । > पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ ॥ [वि।पु। ५.१३.५५] > इति ।

अन्यत् तैर् व्याख्यातम् ।

यद् वा, प्रतिबिम्बेन विभ्रमो विलासो यस्य सोऽर्भको यथा तद्-एक-निष्ठः सन्न् अन्यत् किम् अप्य् अजानन् रमते, तथायम् अपि ।

यद् वा, एवम् उक्त-प्रकारेण व्रज-सुन्दरीभिः सर्वे परिष्वङ्गादयः, तैस् ताभिर् एव सह रेमे, सोऽपि तादृशान् एव परिष्वङ्गादीन् अकरोद् इति दृष्टान्तेनाह—यथा इति । अन्यत् समानम्


एवं तासां परिष्वङ्गादिभिर् एव तस्य रतिः । स्वयं च तेन तासां तद्-अनुकरणम् इति स्वस्माद् अपि तासां महिमा दर्शितः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इति तैर् व्याख्यातम् । तत्रावतारिका दृष्टान्त-बलाद् एव प्रतिपन्ना । यथार्भक इत्य्-आदिका स एवेत्य् अन्त-व्याख्या चास्या एवानुगता । उभयत्रापि प्रतिबिम्ब-स्थानीयानां श्री-गोपीनाम् अर्भक-स्थानीयस्य श्री-भगवतश् च मुहुः परस्परम् अनुकरणात् । तत्र च श्री-भगवत एवार्भकस्येव विलासाय स्वयं प्रवृत्तिः, तत्-प्रवर्तनं तदीय-विलास-विशेषश् च लभ्यते । ततस् तद्-विलासानभिभूतस्यैव रतौ दृष्टान्त इतीदं त्व् आगन्तुकम् इव लक्ष्यते । यत् त्व् अनेनैतद् दर्शितम् इत्य्-आदिकं व्याख्यातम् । तत्र च ता एव तद्-गुण-प्रकाशिका इति प्रतिपद्यते । यथार्भकः प्रतिबिम्ब-द्वारत एव स्वीय-मुख-माधुर्यम् अनुभवति, न तु स्वतः, तथा श्री-भगवान् अपि तादृश-निज-प्रेयसी-द्वारत एवेति हि गम्यते तासां प्रेम-मयम् उदयं विना तद्-अनुदयात् ।

यद् वा, रमाया ईशः प्रभुर् अपि व्रज-सुन्दरीभिर् एव रेमे । ननु, तयेति ततोऽपि तासां प्रेम-गुण-सौन्दर्यम् अधिकम् अभिप्रेतम् । यद् वा, रमाया ईशः प्रभुर् एव, न तु रमणः । व्रज-सुन्दरीभिस् तु रेमे, तथापि तथैवाभिप्रेतम् । तद् अपि रमणम् असाधारणम् एवेति स-चमत्कारम् आह—एवम् इति । तत्र परिष्वङ्गस् तासाम् आश्लेषः, कराभिमर्शस् तासां करालम्बनम्, स्निग्धेक्षणं तन्-मुखादीनां सरसावलोकनम्, उद्दाम-विलासः स्तन-स्पर्शनादिः, हासश् च भावोद्रेक-विलसित-स्मितं तैः ।

एवं तस्य तासाम् अपि सर्वोपरि-चर-गुणत्वेन परस्परं साम्यम् आसक्तिं च दृष्टान्तेन व्यञ्जयति । यथा इति—कश्चिद् अर्भकस् तद्-वयः-स्वभावेनात्यन्त-क्रीडासक्तः स्व-प्रतिबिम्बे विभ्रमो विलासो यस्य, तादृशश् च यथा स्व-तुल्याभिस् ताभिः स्व-प्रतिमूर्तिभी रमते, तथासौ प्रेम-वशता-स्वभावेन तन्-मय-क्रीडासक्तः सन् स्वरूप-शक्तित्वेन स्व-प्रतिमूर्तित्वात् प्रतिबिम्ब-स्थानीयाभिस् ताभी रेमे । अत एव तत्-सदृशत्वाभिप्रायेण पूर्वम् अपि गोप-वध्व इत्य् अनुक्त्वा कृष्ण-वध्व [१०.३३.८] इत्य् एवोक्तम् । तथा च ब्रह्म-संहितायाम्—

आनन्द-चिन्मय-रस-प्रतिभाविताभिस् > ताभिर् य एव निज-रूपतया कलाभिः । > गोलोक एव निवसत्य् अखिलात्म-भूतो > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३७] इति ।

अत्र च यथार्भको यादृशं मुख-चालनादिकं कुरुते, तादृशं तत्-प्रतिबिम्ब-मूर्तयोऽपि यादृशं, तास् तादृशम् एव क्रीडा-कौतुकित्वात् सोऽप्य् एवं श्री-कृष्णश् च श्री-गोप्यश् च परस्परम् आसक्तत्वाद् अनुचक्रुर् इति ज्ञेयम् । अनेन तासाम् इव तस्याप्य् अत्र स्निग्ध-शब्द-व्यञ्जित-स्नेह-विकारो दर्शितः । स च सात्त्विकोऽप्य् उक्तः श्री-पराशरेण—

गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ । > पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ ॥ [वि।पु। ५.१३.५५] > इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : रमाया ईशः प्रभुर् अपि व्रज-सुन्दरीभिर् एव रेमे, न तु तया । यद् वा, रमाया ईशः प्रभुर् एव, न तु रमणः, व्रज-सुन्दरीभिस् तु रेमे एव ॥१७॥


एवं परिष्वाङ्ग-कराभिमर्श-

स्निग्धेक्षणोद्दाम-विलास-हासैः ।

रेमे रमेशो व्रज-सुन्दरीभिर्

यथार्भकः स्व-प्रतिबिम्ब-विभ्रमैः ॥

जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : समं ननृतुः [१०.३३.१६] इति समं शब्दस्य सादृश्यार्थं स्पष्टयति—एवम् इत्य्-आदि । एवम् अनेन प्रकारेण ये परिष्वङ्गादयस् तै रमेशो रेमे । काभिः ? व्रज-सुन्दरीभिः सह, साहित्येन ताश् च रेमिर इत्य् आयातम् । तेन परिष्वङ्गादयस् तस्य च तासां चेत्य् उभय-कर्तृकत्वम् एव । तेषां तस्मिन् परिष्वजने ताः परिष्वजन्ते, तासु परिष्वजमानासु स च परिष्वजत इत्य् एवम्-आदि-प्रकारः । एवं कराभिमर्शादिषु च ।

तत्र दृष्टान्तः—यथार्भकः, अर्भक इव । कीदृशोऽर्भकः ? स्व-प्रतिबिम्बेषु स्व-प्रतिच्छायासु विविधो भ्रमो यस्य स तथा । अयं भावः—अर्भकः स्वयं यथा चेष्टते, तथा चेष्टमानायां प्रतिच्छायायां विविधं भ्राम्यति । “मत्-सदृशः कोऽयम् ? अहं यथा करोमि, तथैवायं करोति” इति । किं वा, “ह्य् अयं यथा करोति, तथैवाहं करोमि” इति भ्रान्तः स्तब्धो भवति । तथायम् अपि सान्द्रानन्द-स्तब्धो भवति, ता अपि स्तब्धा भवन्तीत्य् अर्थः।

अथवा, स्व-प्रतिबिम्बे भ्रमो विलासो यस्य, स तथा स्व-च्छायया यथार्भकः खेलति, तथा।

यद् वा, व्रज-सुन्दरीभिः सह प्रतिबिम्ब-विभ्रमः सन् यथार्भकोऽर्भक इव स्तब्धो भूत्वा रेम इति । अयं भावः—साहित्यात् तस्य तासां च स्व-प्रतिबिम्बस् तासु तस्मिंश् च स्वच्छ-भावाल् लग्नः, तत्र विभ्रमो विशिष्ट-भ्रमो यस्य स, तथा । पुर्वं ता अपि तथा कृष्णस्य प्रतिबिम्बे तासु लग्ने, तम् आलोक्य “किम् अहं नाना भूत्वा प्रत्येकम् आसां तनुषु लग्नः ? किं वामी मत्-प्रतिबिम्बाः ?” इति भ्रमो भवति । तासाम् अपि प्रतिबिम्बे कृष्णो लग्ने तासां च भ्रमो भवतीत्य् उभयोर् एवार्भक-सादृश्येन भ्रान्तिमत्त्वं व्यङ्ग्यम् । सहार्थ-तृतीयायां विशिष्ट-वैशिष्ट्येनान्वयात् । यथा पुत्रेण स्थूलो गोमांश् च देवदत्त इत्य् उभयोर् एव स्थौल्यं गोमत्वं चेति ॥१७॥


जीव-गोस्वामी (प्रीति-सन्दर्भः २९९) : अत्र रमेश इत्य् अनेन तस्य रमा-वशीकारित्वं दर्शितम् । परिष्वङ्ग- इत्य्-आदिना तत्रापि स्निग्धेक्षण- इत्य्-आदिना, रेमे इत्य् अनेन च तासां प्रेम्णा तस्य वश्यत्वं व्यक्तम् । दृष्टान्तेन तु तदा तस्य तासां च अर्भक-प्रतिबिम्बयोर् इव गान-नृत्यादि-विलासेषु एक-चेष्टतापत्ति-सूचनया मिथः परम-प्रेमासक्तिर् दर्शिता ।


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं सर्व-लीलोपसंहारं वक्तुं प्रस्तुतस्य श्री-कृष्ण-विलासस्य प्राधान्यम् आह—एवम् इति । लक्ष्मीतोऽपि तासां सौभाग्यातिशयं वर्णयति । एवं पूर्वोक्त-प्रकारेण परिष्वङ्गम् आलिङ्गनम् । ततः कराभिमर्शं कुचादि-स्पर्शः । स्निग्धेक्षणं भाव-व्यञ्जकं तत्-तद्-अवयवानाम् अवलोकनम् । उद्दामोऽत्यूर्जितो विलासः । तद् उक्तं रसार्णवे—

वृषभस्येव गम्भीरो गतिर् धारं च दर्शनम् ।

स-स्मितं च वचो यत्र स विलास इतीरितः ॥ [र।सु। १.२१७]

हासश् च चातुरक्षिके दर्शने भाव-गर्भे हासैर् एतैः ।

यद् वा, व्रज-सुन्दरीणां परिष्वङ्गादिभिः तत्र परिष्वङ्गो नृत्य-विशेषेण प्रसादत्वेन साधु साध्व् इति प्रशंसन-पूर्वकम् आलिङ्गनं तद्-अनन्तरं करयोर् अभिमर्शः, स्व-कराभ्यां वैदग्धी-विशेषेण संमर्दनम् । स्निग्धेक्षणं च भ्रू-नर्तनादि-भाव-विशेषास्वादकम् ईक्षणम् । उद्दामो निरर्गलो विलासः । तद् उक्तं रसार्णवे—

प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् । > तात्कालिको विशेषो यः स विलास इतीरितः ॥ [र।सु। १.२०१]

परिष्वङ्गादि-हेतुको हास एतैः करण-भूतै रमेशोऽपि श्रीपतित्वम् अवगणय्य रमायां तादृश-भावान् आकलनात् व्रज-सुन्दरीभिः सह रेमे । सामरस्य दृष्टान्तेनाह—यथार्भक इति । अर्भकस् त्व् अनुद्देश्य-क्रिया-कारी स्वभावत एव हस्त-मुखादि-विकारादि-क्रियां कुरुते । तादृशीं क्रियां स्व-प्रतिबिम्बे यत् पश्यति तदा तेन सह विभ्रमं करोति तद्वत् । अर्भको हि यावत् करोति तावद् एव तस्य प्रतिम्बम् अपि करोति । सर्वथा वै सादृश्याभावे दृष्टान्तः । पूर्वं बिम्बे कृतिः, पश्चात् प्रतिबिम्बे कृतिर् भवति । यथा च, बिम्ब-प्रतिबिम्बयोर् एक-रूपत्वं धर्मेण न तु स्वरूपेण दृश्यते च स्वरूप-भेदः । अत एव बाल आदर्शे प्रतिफलितम् आत्मानं न जानाति, किं तु द्वितीयम् एव तस्य च यथा प्रतिबिम्ब-दर्शनेनोत्साहाधिक्यं क्रीडाभिनिवेशश् च भवति । तथात्रापि बिम्ब-स्थानीयः श्री-कृष्णः प्रतिबिम्ब-रूपाभिस् ताभिः सह स्वीयैः परिष्वङ्गादिभिस् तासाम् उद्दीपकैः करणै रेमे।

अयम् अर्थः—पूर्वं श्री-कृष्णे विलासोदयः पश्चात् तद्-अनुसारेण तासु विलासोदय इति । तद् आचार्यैर् व्याकृतं—स्वीयम् एव कला-कौशलं तासु सञ्चार्य भगवांस् ताभिः सह रेमे इति । तस्यायम् अभिप्रायः—कृष्ण-विलासोदये तासां विलासो, न तु तासु कला-कौशलाद्य भव इति अन्यथा रसाभासापत्तेर् इति । अर्भक-दृष्टान्तस् तु कृति-साम्ये, न तु मिथ्यात्वे । अन्यथा गोपी-प्रतीतेः सोपाधिकत्वं स्यात् । वस्तुतस् तु, यथा श्री-कृष्णः सच्-चिद्-आनन्द-घनस्, तथा ता अपि सच्चिदानन्द-स्वरूपा एव विजातीयत्वे रमा-रति-शैथिल्येन तासु रमा-सम्भवात् ।

यद् वा, रमेशोऽपि सर्व-कला-कौशल-युक्तोऽपि औपपत्य-सुखम् अधिकम् इति ज्ञात्वा व्रज-सुन्दरीभिः सह रेमे । कीदृशः ? स्व-प्रतिबिम्ब-विभ्रमः । स्वस्य यत् प्रतिबिम्बं स्वच्छेषु मुकुर-स्थानीयेषु गोपीनां गण्डेषु प्रतिफलितं बिम्बम्, तेन लावण्य-पुञ्जवता विभ्रमो विलासो यस्य ।

यद् वा, विविधो भ्रमो यस्य तासां गण्डेषु प्रतिफलित-बिम्ब-बहुत्वम् आलक्ष्य भ्रमो यस्य—एकस्य मम कथं बहु-रूपत्वम् ? इति । तासां विलासाभिभूतस्य स्वरूपस्याननुसन्धानात् इति ।

यद् वा, स्वस्मिन् तासां बिम्बं कराङ्गुली-नखादिषु प्रतिफलितं तेन विभ्रमः सम्भ्रमो यस्य—नृत्यमाना एताः कथम् अत्रागताः ? इत्य्-आदरातिशयेन पश्यत एव । यथा व्रज-सुन्दरीभिः सह परिष्वङ्गादिभिः रेमे तथैव तासां प्रतिबिम्बैः सह परिष्वङ्गादिभिः रेमे । यथार्भकः स्व-प्रतिबिम्बेन सह प्रश्न-हास्य-हस्त-स्पर्शादिना विहरति ।

यद् वा, सुष्ठु अप्रतिनिरुपमेषु गोपी-बिम्बेषु विगतो भ्रमो यस्य, गोपी-स्वरूपेषु निरुपम-सौन्दर्य-निश्चयात् । रमायां सौन्दर्य-विलासादिकं लोके च मन्दम् इव लक्ष्यं व्रज-सुन्दरीभिः सह रेमे । अयम् अभिप्रायः—रमा तु स्वांशैः सुरेन्द्र-दितिजेन्द्रादि-लोकेषु प्रविशति । एतासां नान्यत्र प्रवेशोऽनन्यत्वेन मदीय-व्रज एव तिष्ठन्ति । अत एवैतासु मया प्रीत्य्-अतिशयः सम्भावनीय इति भ्रमाभावः सूचितम् । स्वस्यापि नित्यं व्रज-प्रियत्वाद् इति । तथा चोक्तं ब्रह्म-संहितायाम्—

आनन्द-चिन्मय-रस-प्रतिभाविताभिस् > ताभिर् य एव निज-रूपतया कलाभिः । > गोलोक एव निवसत्य् अखिलात्म-भूतो > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३७] इति ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं रास-नृत्याङ्गैर् एव कृष्णस्य सम्भोगाङ्गान्य् अपि निर्वृत्तणीत्य् आह—परिष्वङ्ग आलिङ्गनम् एकैकया सह युग्म-नृत्ये करेणाभिमर्शः स्पर्शः, स च नृत्य-गति-समाप्तौ स्व-दक्षिण-करेण प्रिया-वाम-वक्षोजे ताल-न्यास-रूपः । स्निग्धेक्षणं रहस्याङ्गेषु स-प्रेमावलोकनम् । उद्दाम-विलासः पारितोषिक-प्रदान-मिषाच् चुम्बनादिः । हासस् तत्-तत्-प्राप्त्य्-अनन्तरं मुखोल्लासः परिहासो वा तैः । रमेशो रमायां लक्ष्म्याम् ऐश्वर्यं प्रकटयन् व्रज-सुन्दरीभिः सह रेमे, न तु रमयेत्य् अर्थः । यथार्भको मुग्धस् तथैव तासु प्रेमाधीनत्वान् मौग्ध्यम् एव दधन्, न तु रमायाम् इवैश्वर्यम् इत्य् अर्थः ।

ननु, परः-सहस्राभिस् ताभिः कथम् एकः स रेमे ? तत्राह—स्वस्य प्रतिबिम्बं प्रतिस्वरूपम् एव विभ्रमो विलासो यस्य सः ।

प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् । > आदायान्तरधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भा।पु। ३.२.११]

इत्य् अत्र बिम्ब-शब्देन यथा स्वरूपम् उच्यते, तथैवात्रापि एकैकया प्रियया सह एकैक-स्वरूपो रेमे इत्य् अर्थः । तासां ह्लादिनी-शक्तित्वेन स्वरूप-भूतत्वात् । स्व-प्रतिच्छवि-त्वानौचित्यात् व्याख्यान्तरं नेष्टम् ॥१७॥


॥ १०.३३.१८ ॥

तद्-अङ्ग-सङ्ग-प्रमुद्-आकुलेन्द्रियाः11

केशान् दुकूलं कुच-पट्टिकां वा ।

नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो

विस्रस्त-मालाभरणाः कुरूद्वह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तास् तु भगवद्-विलासैर् आकुला बभूवुर् इत्य् आह—तद्-अङ्ग- इति । तस्य अङ्ग-सङ्गेन प्रकृष्टा मुत् प्रीति, तया आकुलान्य् अवशानि इन्द्रियाणि यासां ताः । विश्लथ-बन्धान् केशादीन् अञ्जसा12 प्रतिव्योढुं यथा-पूर्वं धर्तुं नालं न समर्था बभूवुः । विस्रस्ता माला आभरणानि च यासां ताः ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गोप्यः । तस्य कृष्णस्य । अङ्ग-सङ्गेन शरीर-सम्पर्केण । तया मुदा । विस्रस्ता विश्लथाःकुरूद्वह इति सम्बुद्ध्या भक्त्या कृष्णे वशीभवतीति पश्य त्वम् अपि शुद्ध-कुरु-वंशोद्भूतत्वाद् भक्तिं कृष्णम् आयत्ता-कर्तुं कुर्व् इत्य् अभिमुखीकरोति । यद् वा, शुद्ध-वंशोद्भूतत्वात् तुभ्यम् इमां रहस्य-लीलां ब्रवीमीत्य् आशयः । ततश् च ता भगवद्-विलासैर् आनन्द-विह्वला बभूवुर् इत्य् आह—तद्-अङ्ग- इति । प्रकृष्टा मुत् आनन्दः, तया आकुलेन्द्रियाःकुच-पट्टिकां कञ्चुलिकाम् । प्रतिव्योढुं व्योढुम् । नालं न समर्थाः॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च तासाम् अत्यन्तानन्दोऽजनीत्य् आह—तद्-अङ्ग- इति । तस्याङ्गैः सङ्ग आलिङ्गनादिना मिलनम् अङ्ग-सङ्गःआकुलेन्द्रियता-लक्षणम् आह—केशान् इत्य्-आदिना । दुकूलं परिधान-कौशेय-वस्त्रं । कुच-पट्टिकाम् उत्तरीयं कञ्चुकं वा, तद् द्वयम् एव वा । व्रज-स्त्रिय इति प्रेम-भर-विशेषतया तादृशत्वं तासाम् उचितम् एवेति भावः । एवं तासाम् आनन्दाधिक्यं सिद्धम् एव । अत एव प्र-शब्दः । तच् च भवता अवबुध्यत इत्य् आशयेन । यद् वा, गोपीनां परम-कृतार्थतया तत्-सदृश-भावस्य तस्यापि तया कुरु-कुलस्य परम-भाग्यं मत्वा सम्बोधयति—हे कुरूद्वह ! इति ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तासाम् अत्यन्तानन्द-वैवश्येनैव रास-विरामोऽजनीत्य् आह—तद्-अङ्ग- इति । तद्-अङ्ग-सङ्गैः क्रमेण प्रकर्षं प्राप्ता या मुत् हर्षः तया आकुलेन्द्रियाः । आकुलेन्द्रियता-लक्षणम् आह—केशान् इत्य्-आदिना । दुकूलं परिधानीय क्षौम-वस्त्रं । कुच-पट्टिकां कञ्चुक-स्थानीयम् उत्तरीयम् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं विहारे तासां पुनः प्रेमावेशम् आह—तद्-अङ्ग-सङ्ग- इत्य्-आदि । तद्-अङ्ग-सङ्गेन या प्रकृष्टा मुद्, तया आकुलानीन्द्रियाणि यासाम् । केशान् दुकूलादीनि स्रंसमानान्य् अपि प्रतिव्योढुं नालम् असमर्था इत्य् अर्थः । अत्र प्रेमावेशोऽङ्गी, श्रमोऽङ्गम् ॥१८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं रस-पराकाष्ठां निरूप्य प्राप्ते सति इति इतः परं वृद्धम् अदृष्ट्वा पुनर् वृद्धिं गमयितुं तासु शैथिल्यं कारितवान् इत्य् आह—तद्-अङ्ग- इति । तस्याङ्ग-सङ्गालिङ्गनादिना सर्वावयव-स्पर्शः, तेन प्रकृष्टा मुत् अवधि-भूत आनन्दः, तेन आकुलानीन्द्रियाणि यासां ताः । तासां सर्वासाम् अतिकर्तव्यता-शून्यत्वं जातम् इति भावः । केशान् इति आकुलता-चिह्नम् आह—केशान् कवरान्, दुकूलं तद्-उपरितनीयं परिहितं च कुच-पट्टिकां कुचोपरि उत्तरीयायान्तम् अञ्जः सामस्त्येन यथा-पूर्वं प्रतिव्योढुं धर्तुं, यथा-स्थानं प्रापयितुम् इत्य् अर्थः, नालं न समर्था जाता इति । व्रज-स्त्रिय इति चातुर्य-विशेषानभिज्ञत्वेन स्वातन्त्र्याभावोऽभिप्रेतः । आकुलेन्द्रियत्वे श्रमस्यापि हेतुम् आह—विस्रस्ता स्थान-च्युता मालाभरणानि च यासां ताः ।

यद् वा, विस्रस्ता मालास् त्रुटिता सूत्र-शेषा एव ईषद् इव बिभ्रतीति ताः रास-क्रीडा-श्रम-सुखेन बहिर्-वृत्ति-शून्यं राजानम् अवधारयति—कुरूद्वह इति ।

अयं भावः—स्व-प्रतिबिम्ब-विभ्रम [१०.३३.१७] इति यद् उक्तं, तस्यायम् अर्थः—पूर्वं बिम्बे क्रिया, ततः प्रतिबिम्बेऽपि । एवं श्री-कृष्णे क्रीडोपयोगिनी क्रिया, तद्-अनुसारेण व्रज-देवीषु। इदानीं तासां विलासाभिभूते कृष्णे क्रियोपरतिः, तदा तु तासु क्रियोपरतिः, यथा बिम्बस्य क्रिया-राहित्ये प्रतिबिम्बस्यापि क्रिया-राहित्यं भवत्य् एव । तथाप्य् उन्नेयं विस्रस्त-मालाभरणा जाता इति समञ्जसम् ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ता भगवद्-विलासैर् आनन्द-विह्वला बभूवुर् इत्य् आह—तद्-अङ्ग- इति । प्रकृष्टा मुत् आनन्दः, तया आकुलेन्द्रियाःकुच-पट्टिकां कञ्चुलिकाम् । प्रतिव्योढुं व्योढुं । नालं न समर्थाः ॥१८॥


॥ १०.३३.१९ ॥

कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खेचर-स्त्रियः ।

कामार्दिताः13 शशङ्कश् च सगणो विस्मितो14ऽभवत् ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं ता एवाकुलेन्द्रियाः किन्तु देव्योऽपीत्य् आह—कृष्ण-विक्रीडितम् इति । किं च शशाङ्कश् चेति । अनेनैतत् सूचितम्—शशाङ्केन विस्मितेन गतौ विस्मृतायाम् । ततः प्राक्तनाः सर्वेऽपि ग्रहास् तत्र तत्रैव तस्थुः । ततश् चातिदीर्घासु रात्रिषु यथा-सुखं विजह्रुर् इति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथान्तं तद् अद्भुतम् आह—न केवलम् इति । ता एव गोप्य एव । किन्तु अपि तु । देव्यो देवाङ्गना अपि । न केवलं देव्य एव, किन्तु देवा अपीत्य् आह—किं चेति । शशाङ्कश् चिह्नं यस्य, वाहनत्वात् । स-गणो रोहिण्य्-आदि-भ-गण-सहितः । अनेन शशाङ्क-विस्मय-कथनेन । एतत् वृत्तम् । गतौ नक्षत्र-सञ्चार-रूपायाम् । ततः शशाङ्कात् । प्राक्तनाः प्राक्तन-र्क्ष-राश्य्-आदिषु वर्तमानाः । सर्वेऽपि ग्रहा भौमादयः । तत्र तत्रैव यत्र यत्र राश्यादौ स्थिता इति । ततश् च ग्रह-गति-विस्मृतेर् ग्रहाणां चलनाभावाद् रात्रीणां दीर्घत्वम् । ग्रह-गत्यैव रात्र्य्-आदेः समाप्ति-दर्शनात् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य परमानन्द-घन-मूर्तेर् जगच्-चिताकर्षकस्य वा, विशेषेण पूर्व-पूर्वतोऽसाधार्ण्येन क्रीडितं क्रीडाम् । विशेषतः साक्षात्-सेवादि-द्वारा वा । प्रीत्या ईक्षित्वा । कृष्णेत्य् अनेन तद् विक्रीडितस्यापि तादृशत्वम् एवाभिप्रेतम् । खेचरा देवादयस् तेषां स्त्रियः सर्वा अपि कामेन भगवद्-विषयकेनार्दिताः पीडिताः सत्यः । विशेषेण सर्व-विस्मरणादिना अमुह्यन् । श्री-कृष्णाप्राप्तौ निज-योग्यत्वायोग्यत्वादि-विचार-रहिता अभवन् । दशा-विशेषं वा प्रापुह् । अशाङ्क इति शशेन सहित इत्य् अर्थः । विस्मितोऽभूत् । अदृष्ट-पूर्वत्वात् । अन्यत् तैर् व्याख्यातम् ।

अत्रातिदीर्हास्व् इति चिर-काल-स्वच्छन्द-बहुल-सुख-क्रीडनाभिप्रायेण, अन्यथा भावत्-क्रीडानां यथा-निबन्धाल्प-कालेन निर्बाह्वासिद्धिः, अत एवाग्रे वक्ष्यमाणं ब्रह्म-रात्रे [भा।पु। १०.३३.३८] इति ब्रह्मणश् चतुर्युग-सहस्र-परिमितायां रात्रौ गतायाम् इति केचिद् व्याचक्षते । तद् अपि सम्भवेद् एव, भगवच्-छक्त्याशेष-विरुद्धस्य समाधानात् । रात्रीष्व् इति बहुत्वं च ता रात्रीर् इत्य् उक्तस्य निशाः इति वक्ष्यमाणस्य चानुसारेणेति ।

अथवा देवानां देवीनां च सर्वेषाम् एव व्योम-यानानां विमोहम् आह—खेचरास् तत्-स्त्रियश् च, गण-शब्देन तत्-पत्न्यः पराश् च तारकाः । च-कारात् सोऽपि स-गणः कामार्दितो व्यमुह्यद् इत्य् अर्थः । अनेन वक्ष्यमाण-रतौ तेभ्यो लज्जादिना सङ्कोचो निरस्तः । सर्वेषाम् एव विमोहात् । तत्र शशाङ्कस्य कामो भगवद्-अभीप्सा-मात्र-लक्षणः । किं वा, दण्डकारण्य-मुनीनाम् इव भाव-विशेषेण तादृश एव । तत्र च निज-वंशावतीर्ण-श्री-कृष्ण-कामेनापि तस्य वस्तुतो दोषो न स्याद् इति शशाङ्क-शब्देन सूच्यते । यथा शश-सम्बन्ध-मात्रेणैव कलङ्कः, न तु तत्त्वतः, प्रत्युत महा-गुण एवेति दिक् । एवं श्री-रास-क्रीडायाः श्री-कृष्ण-विषयक-भाव-विशेष-वर्धनेन परम-मोहनत्वं सर्व-क्रीडा-वर्गतोऽपि महा-श्रैष्ठ्यं दर्शितम् । प्रकृत्यैवनृत्य-गीतादेर् भगवद्-भाव-वर्धमानत्वात् । तत्रापि तस्य श्री-भगवत्-कर्तृत्वात् । तत्रापि ताभिः सह । तत्रापि तादृश-प्रकारादिना । अत एव तस्य भक्ति-गौरवादि-युक्ताभिर् लक्ष्म्य्-आदि-पत्नीभिस् तथान्याभिश् च देवीभिर् आश्लेष-चुम्बनाद्य्-अयोग्याभिर् असम्पत्तेः । केवल-विशुद्ध-प्रेम-विशेष-सम्पन्-नामी रति-विशेष-परम-योग्याभिः श्री-गोपीभिर् एव रु(?)सिद्धेस् तद्-योग्य-स्थनेऽनन्य-साध्य-न्यायेन श्री-व्रजेन्द्र-किशोरेणानन्य-भोग्य-रसायात्र सम्पादनम् इति दिक् । अत एवारम्भे पूर्वम् उक्तम्—तत्रारभत गोविन्दः स्त्री-रत्नैः [भा।पु। १०.३३.२] इति ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णस्य स्वयं-भगवत्त्वेन माधुर्यादिभिः परम-परिपूर्णस्य विक्रीडितं पूर्व-पूर्वतोऽपि वैशिष्ट्येन क्रीडां वीक्ष्य साक्षात्-सेवादि-मय-प्रीति-वैशिष्ट्यं न दृष्ट्वा खेचरा देवादयस् तेषां स्त्रियः सर्वा अपि कामेन श्री-भगवद्-विषयकेण पीडिताः सत्यो व्यमुह्यन् । पूर्वं श्री-कृष्ण-प्राप्तौनिजायोग्यत्वादि-विचार-साहित्येन पश्चाद् देहादेर् अपि विस्मरणेन मोह-वैशिष्ट्यं प्रापुः । अन्यत् तैः ।

तत्रातिदीर्घास्व् इति अन्यथा स्वच्छन्द-बहुल-सुख-क्रीडानाम् अप्रसिद्धिः स्यात् । अत एवाग्रे वक्ष्यमाणस्य ब्रह्म-रात्र इत्य् अस्यार्थं ब्रह्मणश् चतुर्युग-सहस्र-परिमितायां रात्रौ गतायाम् इति केचिद् व्याचक्षते, तद् अपि सम्भवेद् एव । भगवच्-छक्त्याशेष-विरुद्धस्य समाधेयत्वात् विस्मयादिना गति-स्थगितत्वं तूत्प्रेक्षा-मात्रम् । तेषां ज्योतिश्चक्राधीन-गतित्वात् स्वगतैर् अत्यल्पत्वात्, प्रतिलोमत्वाच् च । वस्तुतस् तु तल्-लीला-माधुर्येण नदी-प्रवाहस्येव ज्योतिश्-चक्रस्य स्तब्धत्वं ज्ञेयम् । रात्रिष्व् इति बहुत्वं च ता आत्रीरि इत्य् उकस्य निशा इति वक्ष्यमाणस्य चानुसारेणेति एअं रास-क्रीडायाः श्री-कृष्ण-विषयक-भाव-विशेष-वर्धनेन परम-मोहनत्वं दर्शितम् । तच् च युक्तम् । तत्-प्रकृत्यैव तत्-सम्बन्धि-नृत्य-गीतादेस् तत्-तद्-भाव-वर्धनातिशयात्, तत्रापि तस्य साक्षात्-तत्-कर्तृकत्वात् । तत्रापि लक्ष्म्य्-आदि-दुर्लभ-तादृश-सौभाग्याभिस् ताभिः सहितत्वात् तत्रापि तादृश-परिपाटी-संवलितत्वाद् इति ।

अत्र कामार्दित इत्य् एक-वचनान्त-पाठस् तेषाम् असम्मतः, किन्तु देव्योऽपीत्य् अनेन तासाम् एव कामार्दितत्व-स्वीकारात् । किं च, शशाङ्कश् चेति तद्-आदेर् भिन्न-वाक्यत्वाङ्गीकाराच् च ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कामार्दिता इति बहु-वचनान्त एव पाठः टीका-सम्मतः । किन्तु देव्योऽपीत्य् अनेन तासाम् एव कामार्दितत्व-स्वीकारात् । किं च, शशाङ्कश् चेति तदादेर् भिन्न-वाक्यत्वाङ्गीकाराच् च ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं कृष्णे विक्रीडिते देव-स्त्रियो\ऽपि मोहिता इत्य् आह—कृष्ण-विक्रीडितम् इत्य्-आदि । खेचरा देवास् तेषां स्त्रियः ख-शब्दो\ऽत्र स्वर्गार्थः । स्वर्-व्योम्नोर् अपि खं विदुः । काः खेचर-स्त्रियो मा अर्दिताः ? अपि तु सर्वा एव । शशाङ्कस् तु पुनः स-गणः सनक्षत्र-गणो विस्मितो\ऽभवत् । विस्मयेन स्थगितो\ऽभवद् इत्य् अर्थः । शशाङ्कस्य विस्मितत्वेन स्थगितत्वम् । तेन च गत्य्-अभावः, तेन च रात्रैर् दैर्घ्यं व्यज्यते ॥१९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं सामान्यतः शृङ्ग-ग्राहिका-न्यायेनैकस्मिन् दिवसावसाने सङ्क्षेपतः कृतां लीलां निरूप्यान्यद् अपि एवंविधं लीलानाम् अन्ताभावं निरूपयिष्यत् तत्र सभर्तृकानां देवीनां मोहं विवृण्वन् सगणस्य चन्द्रस्यापि मोहम् आह—कृष्णेति कृष्णस्य परमानन्द-मूर्तेः शृङ्गार-मूर्तेर् इति वा, तस्य विक्रीडितं रास-विलास-रूपं क्रीडां वीक्ष्य प्रीति-पूर्वकं दृष्ट्वा खेचराः देवादयः, एके गायका, एके वाद्य-वादका, एके पुष्प-वृष्टि-कर्तारः, एके सभासदः, एते सर्वे सर्वदा लीला-दर्शनाधिकारिणः । अत्र तु स्त्रि-प्राधान्य्नागतानां तासां मोहेन तेऽपि मोहिता इत्य् आह—खेचराः देवादयस् तेषां स्त्रियो मुमुहुः । अग्रे युग्म-श्लोकानुगीते एता एव वक्ष्यन्ति—व्योम-यान-वनिता [भा।पु। १०.३५.३] इति । तत्र हेतुम् आह—कामार्दिताः कृष्ण-विषयेण लौकिक-कामेन पीडिता देव-गन्धर्वादीनां पुरुषाणां चेन् मोहस् तदा स्त्रीणां मोहः किम् उत वक्तव्यम् इति । यतो हि ते पुरुषा अपि चलिताः स्वस्यायोग्यत्वं देहादिकं विस्मृत्य तत्रैव निष्क्रियास् तस्थुः । अन्यच् च शशाङ्कश् चन्द्रः स-गणो ज्योतिर्-गण-सहितो विस्मितोऽभवत् । आचार्यैर् एवं व्याख्यातम्—शशाङ्केन स्व-गतौ विस्मृतायां सत्यां तद्-उपरितानाम् अन्येषां ज्योतिर्-गणानां गति-निरोधो जातस् ततश् चातिदीर्घासु रात्रिषु स्वच्छन्दतो रेम इति वास्तवोऽर्थः । स्वयम् एवाभिप्रेत उपक्रमे उक्तं—भगवान् अपि ता रात्रीः [भा।पु। १०.२९.१] इति ऐश्वर्य-निरोध उक्तः । उपसंहारे च तथैवोन्नेयम् ऐश्वर्य-निरोधात् । तच्-चेष्टा-रूपस्य कालस्यापि निरोधो जातः । तद् उक्तं देवकी-स्तुतौ—

योऽयं कालस् तस्य तेऽव्यक्त-बन्धो > चेष्टाम् आहुश् चेष्टते येन विश्वम् । [भा।पु। १०.३.२६] इति ।

अत एव तद्-आश्रयस्य शिशुमार-रूपस्य ज्योतिश्-चक्रस्य निरोधे जाते तद्-आश्रय-भूतानां ज्योतिर्-गणानां स्वत एव निरोधो जातः । ततश् च रात्रीणाम् अतिदीर्घत्वं जाते यथा सुखं रेमे ।

ननु ऐश्वर्य-निरोधे कालाधीन-ज्योतिश्चक्रस्य निरोधो भवतु चन्द्रस्य पृथग्-गतिमतो निरोधः कथम् इति चेत् तत्राह—श्री-कृष्णस्य मनसि निरुद्धं सति शशाङ्कस्यापि निरोधो जातस् तस्य तु मनः कार्यत्वात् । चन्द्रमा मनसो जातः इति श्रुतेः । किं च, चक्रेऽवतीर्णानां देवीनां तद्-अधिष्ठातॄणां श्री-कृष्ण-विलासेन निरोधे जाते तद्-अंश-भूतस्य तारा-गणस्यापि निरोधो जात इत्य् अभिप्रेत्योक्तं स-गणो विस्मृतोऽभवद् इति । ततश् चासङ्कोचेनातिदीर्घासु रात्रीषु रेम इति ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामार्दिताः कृष्ण-विषयकेण कामेन पीडिताः । कामार्दित इति पाठे शशाङ्कोऽपि कृष्णम् आलोक्य स्त्री-भावं प्राप्तः । कृष्ण-विषयकेण कामेन पीडितश् च । व्रज-सुन्दरी-गात्राणां तद्-विलासानां च योगमाययैव पुरुष-दृष्टीः प्रत्यावचरणं पूर्वं व्याख्यातम् एव ॥१९॥


॥ १०.३३.२० ॥

कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः ।

रेमे स15 भगवांस् ताभिर् आत्मारामोऽपि लीलया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, कृत्वेति । अयं भावः—

कात्यायनि महामाये महा-योगिन्य् अधीश्वरि । > नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः ॥ [भा।पु। १०.२२.४]

इति प्रत्येकं ताभिः प्रार्थनात्, भगवतापि—याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति तथैव प्रतिश्रुतत्वात्, तावन्तम् आत्मानं कृत्वा रेमे इति । यावतीर् यावत्यः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् उपयोगम् आह—किं चेति । लीलया योग-मायया । अत्र लीला-तात्पर्यम् आह—अयं भाव इति । प्रत्येकं पृथक् पृथक् । ताभिः गोप-कन्याभिः । तथैव यथा ताभिर् वृतम् । प्रतिश्रुतत्वात् प्रतिज्ञातत्वात् ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृत्वा तावन्तम् इत्य्-आदि । लीलया कुतुकेन आत्मारमोऽपि ताभिः समं रराम । सह-रमणम् एव तस्य प्रकृतम्, आत्मारामत्वं तु लीलया । किं कृत्वा ? यावतीर् गोप-योषितः । या यथा-विधास् तासु तथा-विध्आत्मानं कृत्वा इत्य् अर्थः । वस्तुतस् तु नाना-प्रकृतय एव तास् तासां प्रकृति-भेदाद् आत्मानं नाना-प्रकृतिं कृत्वेति भावः ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव परम-फलम् आह — कृत्वेति द्वाभ्याम् । कृत्वैव कस्यापि शक्ति-विशेषेण नानात्व-सत्यतापि सिद्धैव, गोप-योषितः गोप्य इत्य् अर्थः । ततश् च काश्चिद् विवाहिताः, काश्चित् कन्याश् चेति । यद् वा, गोपानां योषितो भार्याः । ततश् च काश्चित् तेषां पत्न्य एव, काश्चिच् च कृत-कात्यायनी-व्रता भगवद्-एक-निष्ठा अजात-विवाहा अपि कथञ्चिद् भगवन्-मायादिना सर्वैर् विवाह-मननाद् भार्यत्वेन प्रथिता इति ज्ञेयम् । एतच् च श्री-रूपेण लिखिते ललित-माधव-नाटकादौ व्यक्तम् एव । लीलया शृङ्गार-रस-खेलया विचित्र-सौरत-चेष्टया वा रराम रेमे । भगवान् इति तद् एव भगवत्ता-सार-सर्वस्व-प्रकटनम् इति भावः । तस्यैव प्रेम-रस-परिपाक-विलास-विशेषात्मकत्वात्, तथापि जगच्-चित्ताकर्षकेण तेनैव स्वतः प्रेम-विशेष-विस्तारणाच् चेति दिक् । तच् चाग्रे व्यक्तं भावि । श्रि-भागवतामृते च विवृतम् एव । आत्मारामोऽपि इत्य् उक्तार्थम् एव तद्-रमणं च पृथक्, तत्रैव निकट-कुञ्जादिषु । किं वा, रास-स्थल्याम् एव तत्-तद्-अलक्षितत्वेन एवं च पूर्ववत् ऐश्वर्य-माधुर्यं द्रष्टव्यम् ॥२०॥\



जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ रासानन्तरं विश्रम्य कृतं लीला-विशेषम् आह—कृत्वेति द्वाभ्याम् । आत्मानम् आत्मनः प्रकाशम् इत्य् अर्थः । न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इति न्यायेन मध्यमत्वेऽपि तच् छ्री-विग्रहस्य विभुत्वात् ।

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । > गृहेषु द्व्यष्ट-साहस्रं स्त्रिय एक उदावहद् ॥ [भा।पु। १०.६९.२]

इत्य् ऐच्छिक-प्रकाशच् च। पौनरुक्त्यम् इदं विश्राम-समय एकी-भूतत्वात् । गोप-योषितो गोप-जातीय-योषितः । ततश् च काश्चिद् विवाहिताः, काश्चित् कन्याश् चेति ज्ञेयम्, एकविंशद्-द्वाविंशयोर् व्यूढा-कन्यानां पृथक् पृथक् पूर्वानुराग-वर्णनात्, युवतीर् गोप-कन्याश् च रात्रौ संकाल्य कालवित् [ह।वं। २.२२.१८] इति श्री-हरिवंशोक्तेश् च । एतच् च स्वरूपेण लिखिते उज्ज्वल-नीलमण्य्-आदौ व्यक्तम् । लीलया शृङ्गार-रस-खेलया रेमे रराम । भगवान् इति तद् एव भगवत्ता-सार-माधुर्य-सर्वस्व-प्रकटनम् इति भावः, तस्यैव प्रेम-रस-परिपाक-विलास-विशेषात्मकत्वात्। तथा जगच्-चित्ताकर्षकेन तेनैव स्वतः प्रेम-विशेष-विस्तारणात् । तच् चाग्रे व्यक्तं भावि । श्रि-भागवतामृते16 च विवृतम् आत्मारामोऽपीत्य् उक्तार्थम् । तद्-रमणं च पृथक् पृथक् । तत्रैव निकट-निकुञ्जादिषु इति ॥२०॥


जीव-गोस्वामी (प्रीति-सन्दर्भः १५२) : तादृशोऽपि ताभिः सह रेमे । तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य्-आदौ, चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इतिवत् । तत्र सर्वाभिर् एव युगपल्-लीलेच्छा यदा जाता, तदैव तावत्-प्रकाशा अपि तथैव लीला-शक्त्या घटिता इत्य् आह—कृत्वा इति । लीलया लीला-शक्ति-द्वारैव, न तु स्व-द्वारा । तावन्तम् आत्मानम् आत्मनः प्रकाशं कृत्वा प्रकटय्य ।

तद् एवं माधुर्य-मय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्य-मय्यां च युगपद् विचित्र-लीला-विधानस्य तस्यापि रमणाधिक्य-हेतुत्वेन पूर्व-दर्शित-विलास-मय्य् एव श्री-शुकदेवादीनाम् अपि श्री-शिव-ब्रह्मादीनाम् अपि परम-मधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्र-शर्व-परमेष्ठि-पुरोगाः [भा।पु। १०.३५.१५], कश्मलं ययुर् इत्य्-आदिषु तत्रैव मोह-श्रवणाच् च ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानम् आत्मनः प्रकाशम् इत्य् अर्थः ॥२०॥\



जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ सर्वासां प्रत्येकं वयोऽनुरूपम् आशयानुरूपम् आकार-गत-प्रमाणानुरूपं कला-कौशलानुरूपं प्रकाशम् आविष्कुर्वन् रेम इत्य् आह — कृत्वा इत्य्-आदि । भगवान् अचिन्त्य-परमैश्वर्यः । आत्मराम आत्मभिर् आत्म-प्रायैर् भक्तैः सह रमतीति तथा । अथवा, स्व-लाभ-परिपूर्णोऽपि स्वच्छन्दोऽपि वा लीलया कौतुकेन यावतीर् यावत्यो या वयस्यो यावद्-आशया यावद्-आकार-प्रकारा यावत्-कला-कौशलास् तावन्तं तत्-प्रकारम् आत्मानं स्वभावं प्रकटय्य रराम इत्य् अर्थः । या आकारादिभिर् यादृशीः, ताः प्रति तथा भूत्वेत्य् अर्थः ॥२०॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं स्व-प्रतिश्रुतं सत्यं सम्पादयता श्री-कृष्णेन तासाम् अभिप्रायेण कृतां बहु-रूपतां निगमयति—कृत्व इति । यावतीः यावन्त्यो व्रज-योषितः । व्रजे पञ्च-विधा गोप्यः—एका नित्य-सिद्धाः । उपासना-सिद्धाः—देव्यश् च, उपनिषदः, दण्डकारण्य-वासिनो मुनयश् च तत्-तद्-अभिप्रायेण तावन्तम् आत्मानं कृत्वा इति । श्री-कृष्ण-विग्रहस्याचिन्त्य-शक्तित्वात् पूर्णत्वाच् च। तथा चात्रैवोक्तम् आचार्यैः—बन्धने द्व्य्-अङ्गुला-पूर्त्या पूर्णत्वाम् अन्यद् दर्शयति ।

किं च, मध्य-पदानावृत्तिर् एक-वचनं च गोपी-दृष्ट्य्-अभिप्रायेण बहुत्वं चोक्तार्थम् एव अग्रे वक्ष्यति च ।

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । > गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२] > इति ।

आत्मारामोऽपि आत्मारामत्वम् अवगणय्य ताभिः सह लीलया रेमे । अनायास-कर्मका स्त्रिया लीलेति। नन्व् एक-यूथवतीनां सम्माननं कथम् ? इति चेत् तत्राह—भगवान् इति । सामर्थ्य-द्योतनम् ऐश्वर्येण विराजमान इत्य् अर्थः । अत एव तासां बह्वीनां मधुर-रसेन पोषण-जातम् इति । कात्यायन्य्-अर्चन-पराभिः यत् प्रार्थितं प्रत्येकं—पतिं मे कुरु ते नमः [भा।पु। १०.२२.५] इति श्री-कृष्णेनापि प्रतिश्रुतं सर्वं सिद्धेः जातम् इति ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ताभिः सह प्रत्येकं कुञ्जेषु रहस्य-क्रीडाप्य् अभूद् इत्य् आह—कृत्वेति । यावतीर् यावत्-सङ्ख्यका गोप-योषितो गोप-वध्वो गोप-कन्याश् च तावन्तम् आत्मानं तावत्-सङ्ख्यम् आत्म-प्रकाशं कृत्वा आत्मारामोऽपि इति व्याख्यातार्थम् ॥२०॥


॥ १०.३३.२१ ॥

तासां रति-विहारेण17 श्रान्तानां वदनानि सः ।

प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृपातिशयम् आह—तासाम् इति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां गोपीनाम् । वदनानि मुखानि । प्रामृजत् संमार्जितवान् । अङ्ग इति सम्बुद्धिः । शन्तमेन स्पर्शनाद् आनन्द-जनकेन ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रतिः सुरतं, सैव विहारः, तेन । इति तत्रासङ्कोचः सूचितः । यद् वा, रतौ विहारो विविध-वैदग्ध्य-चेष्टा, तेन । स विदग्ध-शिरोमणिः परम-प्रीतो वा श्री-कृष्णः शन्तमेन परम-सुखात्मकेन पाणिना प्रकर्षेण अमृजत्, प्रस्वेद-बिन्द्व्-अपसारणालक-संवरणादिना उज्ज्वलयामास । यतः करुणः कृपालुः । न च केवलम् अन्य-जनेष्व् इव कारुण्येन, किन्तु परम-प्रियत्वेनेत्य् आह—प्रेम्णा इति । इति कारुण्य-विशेषोऽभिप्रेतः । शन्तमेन इति स्पर्श-मात्रेणापि स्वभावतः परम-सुख-करत्वम्, तत्र च प्रमार्जनम्, तत्रापि प्रेम्णेति परम-सन्तोषम् उक्तम् । यद् वा, प्रेम्णा मूर्त एव करुण-रसस् तत्-तत्-प्रेम-चेष्टितेनैव सद्यो विश्व-रोदनापादनात् । अङ्ग इति प्रेम-सम्बोधने । एवम् एकस्यैकेनैव पाणिना सर्वासां युगपद् वदन-प्रमार्जनाद् ऐश्वर्येण लौकिकत्वेन च पूर्ववन् मधुर-भगवत्ता-सार-प्रकटनं ज्ञेयम् । एवम् अन्यत्रापि॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रतिर् दम्पत्योर् मिथोऽनुरागः, तन्-मयो विहारः विविध-विदग्ध-चेष्टा। “अतिविहारेण” इति पाठेऽपि स एवार्थः । तेन श्रान्तानां शन्तमेन परम-सुखात्मकेन पाणिना प्रकर्षेण अमृजत्, स्वेद-बिन्द्व्-अपसारणालक-संवरणादिना उज्ज्वलयामास । यतः करुणः पर-दुःखासहिष्णुत्व-भावः । सत्य् अपि कारुण्ये न साधारण्ये, तासां तु तानि प्रामृजद् इति परम-वैशिष्ट्यं दर्शितम् । प्रेमा हि साद्गुण्यानुसन्धानेन अहंता-ममतैकतर-विषयत्वे च जाता । चेतसि स्निग्धता तत्रापीदृश-भाव-मयीति परम एव विशिष्टः स्वयं कारुण्यादिकम् अन्तर्भावयति । शन्तमेन इति स्पर्श-मात्रेणापि स्वभावतः परम-सुख-करत्वं । तत्र च प्रमार्जनम्, तत्रापि प्रेम्णा, तत्र च शन्तमेनेति परम-सन्तोषणम् उक्तम् । अङ्ग इति प्रेम-सम्बोधने ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं रममाणस् तासां श्रमम् आलोक्य स्वयम् एव तद्-अपनोद-विनोदं चकारेत्य् आह—तासाम् इत्य्-आदि । शन्तमेन सुशीतलेन पाणिना वदन-मार्जनेनैव श्रमो दूरीकृतः । पुनर् उत्साह-वृद्धिं कारयामासेत्य् अर्थः ॥२१॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं तत्-संमाननम् एकेन श्री-कृष्णेन कृतम् इति । श्री-शुकः स्वानुभवम् एव कथयति—तासाम् इति । अतिविहारेण रास-रभसेन निकुञ्जादिषु सुरताभिनिवेशेन वा श्रान्तानां संवर्धयितुम् अशक्तानां चैवाङ्गम् इव प्राप्तानां तासां पञ्च-विधानाम् अपि वदनानि शन्तमेन परम-सुख-करेण मधुर-रसं नवीकार्तुं पाणिना इति एक-वचनं विग्रहस्यैकत्व-विवक्षयेति । प्रामृजत् प्रस्वेद-जल-कणान् अपसारितवान् स्वच्छेष्व् अप्य् अलिकेषु गण्ड-मण्डलावलम्बनादिना मधुर-रसस्य पुनर् अपि नवीकरणम् इति प्र-शब्दस्यार्थः । यतः करुणः । अतः करुण-रसस्य मधुर-रसगम् एव । एक-वचनेन स्वरूपैक्यम् एवाभिप्रेतम् । प्रेम्णा इति तासु प्रीत्य्-अतिशयेन श्री-कृष्णस्य तद्-आराधनं परम-पुरुषार्थम् इत्य् अपि सूचितम् । अङ्ग इति सम्बोधनेन श्री-कृष्णस्य तद्-आयत्त्वं ज्ञाप्यते । तद् एवं सर्वासां युगपद् वदन-मार्जनादि एकस्यैव पाणी लाघव-प्रदर्शनाचिन्त्य-शक्ति-प्रकटनम् इति तात्पर्यार्थः ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां रति-विहारेण । तासाम् “अतिविहारेण” इति च पाठः । श्रान्तानाम् इति—तासां रति-श्रान्तिम् आलक्ष्य करुणः रमणाद् विरतोऽभूद् इत्य् अर्थः। शन्तमेन सुखमयेन । प्रामृजद् इत्य् उपलक्षणं, वीजनानुलेपन-प्रत्यङ्ग-प्रसाधन-वीटिका-प्रदानान्य् अपि चक्रे ॥२१॥18


॥ १०.३३.२२ ॥

गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्-

गण्ड19-श्रिया सुधित-हास-निरीक्षणेन ।

मानं दधत्य ऋषभस्य जगुः कृतानि

पुण्यानि तत्-कररुह-स्पर्श-प्रमोदाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततोऽतिहृष्टानां गोपीनां चरितम् आह—गोप्य इति । स्फुरतां स्वर्ण-कुण्डलानां कुन्तलानां च, त्विषा गण्डेषु या श्रीः, तया सुधितेन अमृतायितेन हास-सहितेन निरीक्षणेनऋषभस्य पत्युः कृष्णस्य मानं दधत्यः पूजां कुर्वत्यस् तत्-कर्माणि जगुः । तस्य कररुहैर् नखैः स्पर्शेन प्रमोदो यासां ताः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो भगवत्-कृत-स्वेद-मार्जनाद्य्-अनन्तरम्। स्फुरतां देदीप्यमानानां चलतां वा । त्विषा दीप्त्या । तया श्रिया । अमृतायितेन अमृतवद् आह्लाद-जनकेन । मानं सत्कारम् । "अहो भगवता कृतार्थीकृता स्मः !" इत्य्-आदिकम् । दधत्यः कुर्वत्यः । तस्य कृष्णस्य । प्रमोदः प्रकृष्टानन्दः । नख-क्षतस्यापि शृङ्गाराङ्गतात्रोक्तेति ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः प्रहृष्टा निज-देहादिना त्रिधा तं प्रहर्षं सञ्जनयामासुर् इत्य् आह—गोप्य इति । तत्र स्फुरद् इति सौन्दर्येण, सुधित- इति भावेन, जगुर् इति सङ्कीर्तनेन । ऋषभस्य पुरुष-श्रेष्ठस्य इति तस्य परम-वैदग्ध्यादिकम् उक्तम् । तासाम् अपि सिद्धम् एव । अत एव तस्य मानं दधत्य उक्त-प्रकारैः सम्मानं कुर्वत्यः ।

यद् वा, अहो मम धन्यत्वं यस्येदृश्यो वध्व इत्य् एतादृशं तस्य गर्वम् अर्पयन्त्यः ऋषभत्वात् तत्-कृतानाम् अपि श्रेष्ठत्वं सूचितम् । तद् एव दर्शयति—पुण्यानि साक्षात् पुण्य-रूपाणि सुखात्मकानि वा जगुः । तत्र हेतुः—तस्य कररुहैः स्पर्शाद् गाने तदानीम् एव तेन क्रियमाणात् । किं वा, पूर्व-कृतात् । यद् वा, मुख-माज्जने गण्डेषु जातात् । प्रकृष्टो मदो यासां ता इति रत्य्-आदि-परिश्रान्तानाम् अपि गाने श्रमाभावो रस-विशेषश् च बोधितः ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः प्रहृष्टाः निज-देहादिना त्रिधा, तस्य प्रहर्षं सञ्जनयामासुर् इत्य् आह—गोप्य इति । तत्रास्फुरद् इति सौन्दर्येण सुधित- इति भावेन जगुर् इति सङ्कीर्तनेन । ऋषभस्य इति तैर् व्याख्यातम् । अत्र ऋषभस्य पत्युः श्री-कृष्णस्येत्य् अत्रायम् अभिप्रायः । कृष्ण-वध्वः [भा।पु। १०.३३.८] स्वयम् एव श्री-मुनीन्द्रेण व्यक्तीकृते वयं कथं गोपयामः ? तस्माद् अस्माभिर् अव्याख्याता अपि दयित-रमणादि-शब्दाः केन वान्यथा मन्तव्या इति । तदा च परस्परम् अनन्य-भावेनाव्यक्तेर् दाम्पत्य-स्फूर्त्या तस्य मानं दधत्य उक्त-प्रकारैः पूजां कुर्वत्यः ।

यद् वा, अहो मम धन्यता यस्येदृश्यो वध्व इत्य् एतादृशं तस्य गर्वम् अर्पयन्त्यः पुण्यानि पुण्य-कराणि चारूणि च जगुः । पुण्यं तु चार्व् अपि इत्य् अमरः । तस्यैक-शेषत्वात् गाने हेतुः, तस्य कररुहैः स्पर्शानुगाने गुणवत्योऽप्य् एताः कृत-मौना इति प्रणय-कोपने तत्-प्रवर्तनाय किञ्चिन् मोदनात् प्रकृष्टो मोदः कासाञ्चिद् यासां ताः इति रत्य्-आदि-श्रान्तानाम् अपि गाने रसोल्लासो बोधितः । तासाम् [२१] इत्य्-आदि-द्वये हेला-नामायम् अनुभावः, यथा—

चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति । > तत्राद्य विक्रिया-भावो बीजस्यादि-विकारवत् ॥ [र।सु। १.१९२, उ।नी। > ११.७] > ग्रीवा रेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृते । > भावाद् ईषत् प्रकाशो यः स हाव इति कथ्यते । [उ।नी। ११.९] > हाव एव भवेद् धेला व्यक्तः शृङ्गार-सूचकः ॥ [उ।नी। ११.११] इति > ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं श्रमापनोदे सति पुनर् उत्साहवत्यस् तम् एव जगुर् इत्य् आह—गोप्य इत्य्-आदि । गोप्य ऋषभस्य कृतानि लीला जगुः । कीदृशानि ? पुण्यानि पुण्य-जनकानि । तान्य् एव वक्ष्यति—विक्रीडितं व्रज-वधूभिर् [भा।पु। १०.३३.४०] इत्य्-आदि । ऋषभस्य परात्परस्य श्री-कृष्णस्येत्य् अर्थः । किं कुर्वत्यः ? स्फुरन्त्या पुरट-कुण्डलानां कुन्तलानांत्विषा गण्डयोर् या श्रीः, तया सुधितः सुधया व्याप्तो यो हासः, तत्-सहितेन न्रीक्षणेनमानं दधत्य सम्मानं वहन्त्यः कुर्वत्य इति वा । आद्ये स्फुरत्-पुरट-कुण्डल- इत्य्-आदि तृतीयान्त-पद-द्वयं कृष्णस्येति मन्तव्यम् । द्वितीये तासाम् एव । पुनः कीदृश्यः ? तत्-कर-रुह-स्पर्शेन प्रकृष्टो मोदो यासाम् ॥२२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तद् एवं श्री-कृष्ण-कर्तृकं तासां सम्माननम् उक्त्वा उज्ज्वल-रसाविर्भूते सति ताभिः कृतं श्री-कृष्णस्य सम्माननम् आह—गोप्य इति । गोप्यः ऋषभस्य प्रेष्ठस्य वा उज्ज्वल-रसोद्दीपनेन श्रेष्ठत्वं सूचितम् इति । तस्य मानं सम्माननं दधत्यः पोषयन्त्यः, तत्र साधनम् आह—स्फुरद् इति स्फुरत्-कुण्डलानां कुन्तलानाम् अलकानां त्विट् येषु तेषां गण्डानां कपोलानां श्रिया शोभया नृत्य-विशेषे कुण्डलानां अलकानां गण्डेषु स्वत एव स्फूर्तिर् भवति । इदम् एव सम्माननं स्व-शोभा-सवर्णम् इति । तत् सुधितो हास उज्ज्वलो हासः चातुरक्षिके दर्शने निरर्गलो हासो भवतीति, मधुर-रसस्यायं स्वभावः । तत्-पूर्वकं निरीक्षणेन चेति स्व-हृदय-समर्पणम् । ऋषभस्य अत्राप्य् अन्वयः । पुण्यानि श्रवण-मात्रेणान्येषां पावनानि कृतानि गोवर्धनोद्धरणादिणि रहस्यानि जगुः । गानोद्दीपकम् आह—तत्-कररुहैर् नखैर् यः स्पर्शः सदयं नख-क्षतादिना स्पर्शः बालानाम् इदं यत् नख-क्षतायोग्यत्वात् स्पर्श इत्य्-उक्तेः ।

एतास् तु कुमार्य एव कुण्डल-धारण-लिङ्गात् । प्रौढानां ताटङ्क-धारणस्य प्रसिद्धत्वाद् इति । तेन कटक-स्पर्शेन प्रकृष्टो मोद आनन्दो यासां ताः । यद् वा, स्फुरतोः पुरट-कुण्डलयोः कुन्तलानांत्विट् ययोर् गण्डयोः स्मित-सुधित-हास-निरीक्षणेन चोपलक्षितस्य ऋषभस्य मानं साधु साध्व् इति पूजां कुर्वत्यस् तस्य कृतानि पुण्यानि तनु-सङ्गादीनि सुखानि जगुः । \ऽअन्यत् समानम् ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ताः स्वाधीन-कान्त्याः कान्त-परिधापि-रत्नालङ्काराः कुञ्जेभ्यो निष्क्रम्य मिलिता रासोत्सव-समाप्ति-सूचकं मङ्गलं जगुर् इत्य् आह—गोप्य इति । स्फुरतां स्वर्ण-कुण्डलानां कुन्तलानांत्विषा गण्डेषु या श्रीः, तया सुधितेन अमृतायितेन हास-सहित-निरीक्षणेन ऋषभस्य पुरुष-श्रेष्ठस्य कृष्णस्य मानसादरं दधत्यः कृतानि तत्-कर्माणि जगुःपुण्यानि चारूणि अस्य कररुहाणां नखानां स्पर्शेन प्रकृष्टो मोदो यासां ताः ॥२२॥


॥ १०.३३.२३ ॥

ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग-

घृष्ट-स्रजः स20 कुच-कुङ्कुम-रञ्जितायाः ।

गन्धर्व-पालिभिर् अनुद्रुत आविशद् वाः

श्रान्तो गजीभिर् इभ-राड् इव भिन्न-सेतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अथ जल-केलिम् आह—ताभिर् इति । तासाम् अङ्ग-सङ्गेन घृष्टा संमर्दिता या स्रक् तस्याः अत एव तासां कुच-कुङ्कुमेन रञ्जितायाः सम्बन्धिभिर् गन्धर्व-पालिभिर् गन्धर्वपा गन्धर्व-पतय इव गायन्तो योऽलयस् तैर् अनुद्रुतोऽनुगतः स कृष्णो वाः उदकम् आविशत् । भिन्न-सेतुर् विदारित वप्रः स्वयं चातिक्रान्त-लोक-वेद-मर्यादः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ स्थल-क्रीडानन्तरम् । जल-केलिः जल-क्रीडा । ताभिः गोपीभिः । तासां गोपीनाम् । अत एव संमर्दनाद् एव । गन्धर्वपेत्य् उपमेयोत्तर-समासः । गन्धर्वपास्तुबुर्वादय एव भगवल्-लीलाम् अन्वेष्टुम् अलि-रूपेणागता इति ज्ञेयम् । श्रान्त इति जलात्यन्तावगाहात् । वप्रः तटः । यद् वा, शृ हिंसा तस्या अन्तो यस्य स श्रन्तः स एव श्रान्तः नित्य-निरस्त-मृत्युः । भिन्न-सेतुर् विशेषित-लोक-मर्यादः, भिन्नो विशेषे दलने इति कोशात् । पृथक् पृथक् स्थापित-तत्-तत्-सेतुर् इति । एः कामस्य दीप्तिं राजति क्षिपतीतीभ-राट् । क्षेपेऽपि राज् धातुः । गोपी-विषये गजि-शब्दस् तु गज्-बे धातुः, गजीभिः बं कुर्वतीभिः । भिन्न-सेतुर् इति गजस्य मदातिरेक-सूचकेन कृष्णस्यापि तात्कालिक-हर्षातिरेकम् आह—भिन्न-लोक-वेद-धर्म-मर्याद इत्य् अर्थः । एतद्-अर्थाश्रयणे तु—कृष्णे स्व-धामोपगते धर्मः कं शरणं गतः इत्य् उक्ति-विरोधः स्याद् इति ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः परम-हृष्टस्य श्री-भगवतोऽपि प्रेम-चेष्टितम् आह—ताभिर् इति त्रिभिः । श्रमं तासाम् आत्मनश् चापोहितुम् अपनेतुम् । तत्र च सच्-चिद्-आनन्द-घन-मूर्तेर् अपि क्रीडायाम् आवेशेन परम-वैद्ग्ध्यादि-सूचनार्थम् । प्रस्वेद-कणिकादिना सौन्दर्य-विशेष-प्रदर्शनेनार्थं च श्रमः सम्भाव्य एव । अङ्ग-सङ्गेत्य् अनेन पद्मिनी-स्त्री-वर्ग-पूज्य-पादानां तासाम् अङ्गतः स्वाभाविक-परमामोद-सञ्चारोऽभिप्रेतः । किं च, कुचेति । अत एवानुद्रुतः स्रक् कौन्दी ज्ञेया । कुन्द-स्रजः कुल-पतेः [भा।पु। १०.३०.११] इति पूर्वोक्तेः । परम-शुभ्रत्वेन कुङ्कुम-रञ्जितत्व-सम्पत्तेश् च स्रक्-सम्बन्धित्वेन तदानीम् अलीनां तत्र स्थिति-योग्यता । तथा गन्धर्व-पति-सदृशता । तत्र तेषाम् एव गीतिश् च बोधिता । एवं जल-क्रीडायां कामोद्दीपन-सामग्री च दर्शिता । स परम-विनोदो वाः यामुनम् आविवेश आसक्त्या प्राविशत् । दृष्टान्ता गजेन्द्रस्य बह्वीभिर् गजीभिः सह जल-विहारासक्त्य्-आद्य्-अनुसारेण । अन्यत् तैर् व्याख्यातम् ।

यद् वा, गन्धर्व-पा गायन-श्रेष्ठाः, गन्धर्वो मृग-भेदे स्याद् गायने खेचरेऽपि च इति विश्वः । ते च ते च अलयश् च तैर् इति जल-क्रीदा-योग्यम् उत्तम-गीतम् उक्तम् । यद् वा, काभिर् भगवद्-अङ्ग-सङ्गेन धृष्ट-स्रजो याः । याश् च निज-कुच-कुङ्कुमेन रञ्जिता रत्य्-आवेशेन सर्वाङ्गेषु सम्पृक्तास् ताभिः । अत एव तासां श्रमम् अपनेतुं न केवलं तासाम् एव स्वस्यापीत्य् आह—श्रान्त इति । अन्यत् समानम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः परम-हृष्टस्य श्री-भगवतोऽपि प्रेम-चेष्टितम् आह—ताभिर् इति त्रिभिः । श्रमं तासाम् अपोहितुम् अपनेतुम् । तादृश-प्रेम-मय-मधुर-नर-लीलाविष्टत्वाद् आत्मनश् चेत्य् अर्थः । अङ्ग-सङ्गेत्य् अनेन पद्मिनी-स्त्री-पूज्य-पादानां तासाम् अङ्गतः स्वाभाविक-परमामोद-सञ्चारोऽभिप्रेतः । किं च, स्व-कुचेति स्व-शब्दोऽत्रषाधारणार्थः । अत एवानुद्रुतः स्रक् कौन्दी ज्ञेया । परम-शुभ्रत्वेन कुङ्कुम-रञ्जितत्व-सम्पत्तेः । एवं जल-क्रीडायां कामोद्दीपन-सामग्री च दर्शिता । वाः यामुनम् आविशत् आसक्त्या प्राविशत् । दृष्टान्तो गजेन्द्रस्य बह्वीभिर् गजीभिः सह जल-विहारासक्त्य्-आद्य्-अनुसारेण । अन्यत् तैः ।

यद् वा, गन्धर्व-पा गायन-श्रेष्ठाः, गन्धर्वो मृग-भेदे स्याद् गायने खेचरेऽपि च इति विश्वः । त एव येऽलयश् च तैः । इति जल-क्रीदा-योग्यम् उत्तम-गीतम् उक्तम् । यद् वा, काभिः श्री-भगवद्-अङ्ग-सङ्गेन धृष्ट-स्रजो याः । याश् च निज-कुच-कुङ्कुमेन रञ्जिता रत्य्-आवेशेन सर्वाङ्गेषु सम्पृक्तास् ताभिः । अत एव तासां श्रमम् अपनेतुं न केवलं तासाम् एव स्वस्यापीत्य् आह—श्रान्त इति । भिन्नेत्य् उपमानेऽपि श्रान्तत्वे हेतुः—भिन्न-सेतुर् इव कृत-लीलौद्धत्य इत्य् अर्थः । अ कुचेति स्वाभिलम्पतः पाठः स श्री-कृष्ण इति व्याख्यानात् स्वेत्य् अस्याव्याख्यानाच् च ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ पुनः श्रमोत्पत्तौ तद्-अपनोदाय जल-क्रीडारभसम् आह—ताभिर् युत इत्य्-आदि । ताभिर् युतः सहितो वार् वारि अर्थात् कालिन्द्याः । ततश् च कृष्णोपवने [भा।पु। १०.३३.२५] इत्य्-आदेर् वक्ष्यमाणत्वात् । किं कर्तुम् ? श्रमम् अपोहितुं दूरीकर्तुम् । कीदृश्याः यमुनायाः ? अङ्ग-सङ्गेन घृष्टो म्लाना स्रजो यासाम् । प्रवेश-समये तेन च ताभिश् च म्लाना माला उत्तार्य तस्यां न्यस्ता इति भावः । स्वस्मिन्न् आत्म-विषये कुच-कुङ्कुमैर् गोपाङ्गनानां कुच-कुङ्कुमानि तै रञ्जितायाः । आदौ तासां कुच-कुङ्कुमानि कृष्णे लग्नानि, पश्चात् तद्-अङ्ग-च्युतैः सापि रञ्जितासीद् इति भावः । अत्र स्व-शब्दः कृष्ण-परः, आदिशद् इति कर्तृ-प्रत्यया कर्त्रा सह स्व-शब्दस्य सम्बन्धात् । अथवा, स्वस्य च कुचानां गोपाङ्ग्ना-स्तनानां च यानि कुङ्कुमानि तै रञ्जितायाः । अत्र स्व-शब्दस्य कृष्ण-परत्वम् । मालाङ्ग-रागाभ्यां कालिन्दीं भूषयित्वा तत्राविशद् इति भावः । गन्धर्वान् पान्तीति गन्धर्वपास् तत्-स्वरूपा ये\ऽलयस् तैः सह तेषां गान-शरणानन्देन तन्-निवृत्तेर् अस्वीकाराद् अनुद्रुतो निकटम् आसाद्य त्वरया धावन् ताभिर् युत इति । ताश् च तथा कौतुकेन तथवोचितम् इति भावोक्तिः । क इव ? श्रान्ताभिर् गजीभिः श्रान्तो गजराड् इव । भिन्न-सेतुः गज-पक्षे भिन्न-वप्रः, पक्षे अतिक्रान्त-काम-तन्त्र-मर्यादः । तथा च—रति-चक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः इति । अथवातिक्रान्त-लोक-वेद-मर्याद एव ॥२३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं रत्य्-अभिनिवेशेन श्रान्तानाम् अपि गाने सुख-विशेषो दर्शितस् तेन च श्रमाभावोऽपि सूचित इति । इदानीं पुलिन-लीलातोऽपि जल-क्रीडा-सुखम् अनुभवितुं रति-जनित-श्रमापनोदन-च्छद्मना जल-केलिना हृताभिर् इति तासां स्व-कृत-रति-जनितं श्रमम् अपोहित्म् अपनेतुं वा जलम् आविशत् । कीदृशः ? ताभिर् व्रज-सुन्दरीभिर् व्रज-सुन्दरीभिर् युतः । पुनः कीदृशः ? अङ्ग-सङ्ग-घृष्ट-स्रजः, अङ्गयोः सङ्गेनाश्लेषेण घृष्टा सम्मर्दिता स्रक् कुन्द-कुसुम-माला तस्या सम्बन्धिनीर् गन्धर्व-पतय इव गान-कर्तारस् तेषां तेऽलयस् तैर् अनुद्रुतोऽनुगत इत्य् अर्थः । सत्सु अन्याम् एवान्तरङ्गो गायक-वादक-सम्पत्ति-प्रदर्शितत्वात् । अत एवालिभिर् एवानुगत इत्य् उक्तम् । कीदृशायाः स्रजः ? स्व-कुच-कुङ्कुम-रञ्जितायाः स्व-शब्देन व्रज-सुन्दर्यस् तासां कुङ्कुमै रञ्जितायाः, अनेन सौगन्ध्य-वैशिष्ट्यं सूचितम् ।

यद् वा, स्वा स्वकीया चासौ कुङ्कुम-रञ्जिता या स्रक् श्री-कृष्णस्यैव माला तासां कुच-कुङ्कुमै रञ्जिता पर-भागंनीता । अनेनैतत् सूचितं श्री-कृष्णाङ्ग-सौगन्ध्यं पद्मिनी-जातीनाम् एतासां स्वाभाविक-देह-सौगन्ध्यं कुच-कुङ्कुमस्य सौगन्ध्यं कुन्द-कुसुम-स्रजः स्गन्ध्यम् एतत्-सौगन्ध्य-चतुष्टय-लुब्धैस् तत्-परिपुष्टैर् अन्तरङ्गैर् अलिभिर् अनुगतः । कालिन्दी-सम्बन्धि-शैत्य-कर्बुरितं सौगन्ध्यम् अनुभवितुं वनेऽपि तत्र तद्-अङ्ग-परिमलं प्रत्यक्षीकर्तुम् एव परितः स्थिता इत्य् अर्थः । या व्रज-सुन्दर्यस् तस्याङ्ग-सङ्गेन घृष्टा सम्मार्जिताः स्रजो यासां ताः । अत एव रत्य्-अभिनिवेशेन यत् श्रम-वारि तेन स्वाङ्गानि निज-कुच-कुङ्कुमैर् एव रञ्जितानि यासां ताभिर् युत इति जल-केलिष्व् अनुरूपं दृष्टान्तम् आह—न केवलं ता एव श्रान्ताः, किं तु श्री-कृष्णोऽपि इत्य् अत्र दृष्टान्त इभ-राड् इव अविचारे हेतु-गर्भ-विशेषणम् आह—श्रान्त इति । श्रान्तस्य विचारासामर्थ्यात् । जल-क्रीडायां गजस्यैवौद्धत्यं गजीभिः करिणीभिः सह जले विहरति । कीदृशो भिन्न-सेतुः जल-रक्षार्थं सेतवो बध्यन्तेतान् विदार्य जले प्रविशति । परिणामे विचाराभावः सूचितः । इभ-राड् इवेत्य् अत्र स्वरूपैक्ये गजीभिर् इत्य् अनेन तासां बहुत्वं च सूचितम् । श्री-कृष्णोऽपि वेद-कृत-मर्यादातिक्रमात् च भिन्न-सेतुर् इत्य् उक्तम् । न ह्य् एतादृशी रतिः क्वापि दृष्टा श्रुता वा । यथा भगवत अचिन्त्यातर्क्य-शक्तिमत्त्वं तात्म तासाम् अपीति ज्ञेयम् । भगवत्-प्रतिबिम्ब-रूपत्वात् तासाम् अन्यथा सामरस्याभावः स्याद् इति ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च रासोत्सवस्यावबृथ-स्नानम् इव जल-विहारम् आह—ताभिर् युतः । अपोहितुं दूरीकर्तुम् । ताभिः काभिः ? याः स्व-कुच-कुङ्कुमैर् एव रमण्य-व्यापार-वशेन रञ्जिताः, अङ्ग-सङ्गेनैव घृष्टाः संमर्दिताः स्रजो यासां ताः । स कुचेति पाठे स श्री-कृष्णः। गन्धर्वो मृग-भेदे स्याद् गायने खेचरेऽपि च इति [विश्व-प्रकाशाद्]{।मर्क्} गन्धर्वपा गायन-श्रेष्ठा ये अलयस् तैर् अनुद्रुतः सन् वा यामुनं जलम् आविशत् । भिन्न-सेतुर् विदीर्णावरणः । कृष्ण-पक्षे अतिक्रान्त-लोक-मर्यादः ॥२३॥


॥ १०.३३.२४ ॥

सोऽम्भस्य् अलं युवतिभिः परिषिच्यमानः

प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततोऽङ्ग ।

वैमानिकैः कुसुम-वर्षिभिर् ईड्यमानो

रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-रतिर् आत्मारामोऽपि अत्र गोपी-मण्डलेऽम्भसि वा ॥२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिषिच्यमान इति । नाना-जल-क्रीडा-भेदैर् आर्द्रीक्रियमाणः । जल-क्रीडा-भेदास् तु कृष्ण-कर्णानन्दे उक्ताः, तथा हि—

करयोर् वामाङ्गुष्ठ-मूलम् आपीड्य तर्जन्याद्य्-अङ्गुलीभ्र् मिथः संयोग-रूप-समपुटेन क्षिप्तं जलं यदि लक्ष्यीकृतं न स्पृशेत् तर्हि पराजितः स्पृशे चेज् जित इत्य् एको भेदः ।

गण्डूषो यस्य लक्स्याद् अर्वाक् पतेत् स पराजितः, लक्ष्यं स्पृशेच् चेज् जित इति द्वितीयो भेदः ।

यस्य स्तनोरोभ्यां जल-ताडनेऽल्पास् तरङ्गाः प्रादुभवेयुः, स पराजितः । बहवश् चेज् जित इति तृतीयो भेदः ।

इतरेतरम् अङ्गुलीभिर् गृहिट-मणिबन्धेन बाहु-द्वये नालोडित-जलोत्थ-फेनं यस्याचिरं लीयते स पराजितः । यस्य तु चिरेण स च जित इति चतुर्थो भेदः ।

श्रोणि-बिम्ब-ताडित-पश्चाज्-जलैर् यः पङ्क्ति-त्रुटितो भवेत् स पराजितः । अन्यस् तु जित इति पञ्चमो हेदः ।

इत्य् एवम् अपरेऽपि नाना सन्तीति । इतस् ततः सर्वाङ्गेषु । कुसुम-वर्षिभिर् इति । कृष्ण-भङ्गं क्रीडायां वितर्क्य बल-वृद्ध्य्-अर्थम् इव जय-जयेत्य् एवं स्तूयमानः । वैमानिकैर् इति पुंस्त्वेन पुरुषैर् एव स्त्रीणां तासां व्रज-सुन्दरी-पक्ष-पातित्वेन कुसुम-वर्षादाव् अप्रवृत्तेः । व्रज-सुन्दरी-विजये तु देवीहिर् एव पुष्प-वृष्टिर् जय-जयेति शब्दश् च क्रियेत, न तु देवैरिति । गोपी-मण्डलस्य भेदाशङ्क्याह—अम्भसि वेति । स्व-रतिः स्वस्मिन् स्वेन वा रतिर् न परत्र परेण वा यस्य स तथेति । अनेन तत्-तत्-काले रमण-कथनं विशेष-स्मरणाय वा सुर-जन-मोहनायेति बाध्यम् । अन्यथा—आत्म-क्रीड आत्म-रतिः इति च श्रुतिर् व्याकुप्येतेति । गजेन्द्र इव लीला यस्येति तथा । गजो माने हस्तिनि च मुख्ये शब्द-युते तथा इति निरुक्तेः । राजेन्द्राणां वेद-शब्द-युतानां शिष्टानां लीला यस्य स तथेति । यदा यदा हि धर्मस्य ग्लानिर् भवति भारत [गीता ४.६] इत्य्-आदि-स्मृतेर् धर्म-प्रवर्तक इत्य् अर्थः सम्यक् ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जल-क्रीडाम् आह—स इति । स परम-कौतुकी । अम्भसि जल-मध्ये । इतस् ततः सर्व-दिक्षु । अलम् अतिशयेन परितः सर्वाङ्गेषु सिच्यमानोऽम्भसैव स्वयं स्वातन्त्र्येण रेमे । यद् वा, स्वयम् अपि तथैव ताः सिञ्चन्न् इत्य् अर्थः । युवतिभिर् इति काम-रसमत्त्वम्, तादृश-सेक-सामर्थ्यं च दर्शितम् । प्रहसनीभिः प्रकर्षेणोच्चै हसन्तिभिर् इति सह-कौतुकेन तस्य भङ्ग-वितर्कणेन वा, तस्य तु तेन प्रेमैव विवृद्धम् इत्य् आशयेनाह—प्रेम्णा प्रेम-रसेनोक्षितः सिक्तः सन् । पाठान्तरे प्रेम्नोक्षितो दृष्टः । अङ्गेति प्रहर्ष-सम्बोधने । वैमानिकैर् इति क्षिपद्भिः सधिर् ईड्यमानः साधु साध्व् इति ।

यद् वा, तस्य भङ्गं वितर्क्य बल-वृद्ध्य्-अर्थम् इव जय जयेत्य् एवं स्तूयमानः । ततश् च वैमानिकैर् इति पुंस्त्वेन पुरुषैर् एवेति ज्ञेयम् । स्त्रीणां लज्जया विमोहेन वा तत्राशक्तेः । किं वा, तासां गोपी-पक्ष-पातित्वेन कुसुम-वर्षादाव् अप्रवृत्तेः । अतः स्वयम् इत्य् अस्यात्रैवान्वयः । स स्वयम् एक एव तैः स्तूयमानः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, स्वेषु निज-जनेष्व् एव रतिः प्रीतिर् यस्य सः । अतः स्वस्य जयाद् अपि तासां जयेन सन्तोषात् तास् तथा चक्रुर् इति भावः । यद् वा, ननु श्री-गुरो ! कृपया तज्-जल-क्रीडां विस्तार्य वर्णयेति चेत्, तत्राह—स्वा असाधारणा रतिर् जलादि-क्रीडा यस्य सः । अतो दृष्टान्ताद्य्-अभावेन सा विस्तरेण वर्णयितुं न शक्यत इत्य् अर्थः । एवम् अत्रान्ते वक्ष्यमाणात् श्री-हरि-वंशोक्ताच् च द्वारका-जल-विहाराद् अप्य् अत्र विशेषः । गजेन्द्रवल् लीला यस्य सः, पूर्वोक्ताभिप्रायम् एव । यद् वा, तादृश-जल-सेकेऽपि गजेन्द्रस्येव सुख-भर-विवक्षयायं दृष्टान्तः ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जल-क्रीडाम् आह—स इति । स परम-कौतुकी युवतिभिस् तादृश-क्रीड-रस-मत्ताभिस् तादृश-प्रवीणाभिस् ताभिर् इत्य् अर्थः । इतस् ततः सर्वासु दिक्षु स्थित्वाम्भसि जल-मध्येऽर्थाद् अम्भसैव सिच्यमानः प्रेम्नोक्षित इत्य् अपि पीठः । न केवलं तेन बहिर् एव सिक्तः । अपि तु प्रेम्णोऽन्त अपि ऊक्षितः सिक्त इत्य् अर्थः । इत्य् अन्तर् बहिर् इति तत्-क्रीडासक्तत्वं दर्शितम् । किं कुर्वतीभिः परिहास-रसात् प्रकर्षेण हसन्तीभिस् तादृशः सन् स्वयम् अपि रेमेतथैवान्तर् बहिर् अपि रेमे तथैवान्तर् बहिर् अपि तेन ताः सिञ्चति स्मेत्य् अर्थः । कथं-भूतोऽपि स्व-रतिर् अपि तादृशोऽपि कथं-भूतः सन् गजेन्द्रस्य लीलेव परमाशक्तिमयी लीला यस्य तादृशः सन् पुनः कीदृशोऽपि सन् वैमानिकैः कुसुम-वर्षिभिर् ईड्यमानः सदा सर्वत्र स्तूयमानतया प्रकट-परममहिमापि सन्न् इत्य् अर्थः । तेषां तादृश-लीला-परिकरतायाम् अयोग्यत्वात्, नान्यथा तु विशेष्व्याख्येयम् । अङ्गेति हर्ष-सम्बोधने । अन्यत् तैः ।

यद् वा, स्वेषु निज-जनेषु स्वासु तास्व् एव वा रतिः रागो यस्य सः । अतः स्वस्य जयाद् अपि तासां जयेन सन्तोष इति भावः । यद् वा, कृपया तज्-जल-क्रीडां विस्तार्य चेत् तत्राह—स्वा असाधारणी रतिर् जलादि-क्रीडा यस्य सः । अतो दृष्टान्ताद्य्-अभावेन सा विस्तरेण वर्णयितुं न शक्यत इत्य् अर्थः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : जल-क्रीडा-प्रकारम् आह—सो\ऽम्भस्य् अलम् इत्य्-आदि । अलम् अत्यर्थम् । युवतीभिः परितः सिच्यमानो\ऽपि प्रेम्णैवोक्षितः, न तु तैस् तैर् जलैः । इतस् ततः परि सर्वतो-भावेन सिच्यमानत्वे\ऽपि सेक-कृत-परिभवं न सेदिवान् इत्य् अर्थः । अत एव कुसुम-वर्षिभिर् वैमानिकैर् जय जयेति ईरितः स्तुतः प्रहसतीभिः प्रकर्षेण हसन्तीभी रेमे इति स्वयम् अपि ताः सिषेचेत्य् अर्थः । स्वासु तासु रतिर् यस्य । गजेन्द्र-लील इति दीर्घ-कर-दण्ड-जल-सेके दृष्टान्तः । स्वयं रेम इत्य् अन्वयः । स्वस्मिन् रतिर् वा तासां तथाविध-जल-सेकाश्रयत्वेन स्वस्मिन्न् एव समाधिका रतिर् भवतीति भावः ॥२४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं जल-केलि-सम्भ्रमम् आह—स इति । रत्य्-अभिनिवेशेन यः श्रान्तः व्रज-सुन्दरी-जीवातु-भूतः स इति । अम्भसि जल-मध्ये युवतिभिस् तरुणीभिर् अलम् अतिशयेन पराजयम् अनुसन्धाय परिसिञ्च्यमानः परितः संवेष्ट्य इतस् ततः सर्व-दिक्षु सर्वाङ्गेषु सिच्यमानः स्वयम् अपि ताः सिञ्चन् पराभवं नयन्न् इव रेमे । युवतीभिर् इति रस-पूर्णत्वम् उक्तम् । प्रहसतीभिर् इति स्व-कृत-सेकोद्रेके तस्य पराजय-लक्ष्यादि-हासः सूचितः । पुनः कीदृक् प्रेम्णा ताभिर् ईक्षितो दृष्टः । यद् वा, प्रेम्णैव ईक्षितः, तद् उक्तं—प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं [र।सु।आ। २.२५८] इति मूर्तिमता प्रेम्णा ईक्षितः कटाक्ष-विषयीकृतः, अतस् ताभिः सह जले विजहारेति पाठान्तरे प्रेम्णोक्षितः प्रेम्णानुक्षितः अन्तः सिक्त इत्य् अर्थः । बहिस् तु जलैः सिक्तः । अयम् अभिप्रायः—यथा जलैः सिक्तो वृक्षः पल्लवितो भवति, तथात्र नवानुराग-पयसि बहिर् अन्तः सिक्तः पल्लवितो जात इति पूर्वम् उक्तं देवादीनां गान-वाद्य-पुष्प-वर्षाद्य्-अधिकृतानां मोहेन स्थगितत्वम् । इदानीं रासोपरमे जल-केलि-प्रारम्भे यथाधिकारं सर्वेषाम् अवधान-प्रकारम् आह—वैमानिकैर् जल-केलि-सम्भ्रमम् आलक्ष्य इन्द्राद्यैः कुसुम-वर्षिभिर् ईड्यमानस् तस्य पराजयं दृष्ट्वा उत्साहं वर्धयद्भिः जय जयेति स्तूयमानः । यद् वा, विरराम नायिका-कृत-पराजयस्य रस-पोषकत्वात् तं दृष्ट्वा विस्मितैः साधु साध्व् इति प्रशंसमानः । यद् वा, एतेन सर्वातिरेकेणानेक-यूथानां तासां सेक-कृत-पराजयम् आकलय्य तद्-अन्तरे कुसुम-वर्षिभिः साधु साधु जय जयेति वाग्भ्यः स्तूयमानः स्वयं रेमे रतिं प्राप । अङ्गेति सम्बोधनेनाश्चर्य-श्रवणेऽवधापनं कारयति । कीदृशः ? स्व-रतिर् अपि आत्मारामोऽपि आत्मारामत्वम् अवगणय्य ताभिः सह रेमे इति । यद् वा, जय-दर्शनेन स्वेषु प्रियेषु गोपी-जनेष्व् एव रतिर् यस्य । यद् वा, सा स्वकीया असाधारणा अखण्डिता रतिर् यस्य । यद् वा, स्वेषां गोपी-जनानां रतिर् यस्मिन्, यथा जले सौक्षणं तया । तथा रतेर् उत्कर्षम् इति ज्ञापयितुं तेषां तत्त्वेनाह—गजेन्द्र-लील इति । गजेन्द्रस्य लीलेव लीला यस्येति उक्ताभिप्राय एव ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेम्णेक्षितः प्रेम्णोक्षित इति च पाठः । स्वं धनं रतिः क्रीडैव यस्य सः॥२४॥


॥ १०.३३.२५ ॥

ततश् च कृष्णोपवने जल-स्थल-

प्रसून-गन्धानिल-जुष्ट-दिक्-तटे ।

चचार भृङ्ग-प्रमदा-गणावृतो

यथा मद-च्युद् द्विरदः करेणुभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्थल-जल-क्रीडे दर्शिते वन-क्रीडां दर्शयति—ततश् चेति । यमुनाया उपवने जल-स्थल-प्रसूनानां गन्धो यस्मिंस् तेनानिलेन जुष्टानि दिशां तटान्य् अन्ता यस्मिन् । यद् वा दिशश् च तटं स्थलं च यस्मिन्न् उपवने । भृङ्गाणां प्रमदानां च गणैर् आवृतः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः स्थल-जल-क्रीडानन्तरम् । जल-प्रसूनानि कुमुदादीनि । स्थल-प्रसूनानि सौगन्धिक-कुन्दादीनि । जुष्टानि परिमलितानि । तट-शब्दस्यान्ते लक्षणातो मुख्यार्थ-श्रयणं न्याय्यम् इत्य् आह—यद् वेति । तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिषु इति मेदिनी । भगवत्-पक्षे मद-च्युद् दुष्ट-गर्व-हरः । द्वयोः पुण्य-पापयोर् अदो लेखनं येन स द्विरदः । चित्र-गुप्तेन पुण्य-पाप-लेखन-कर्त्रेत्य् अर्थः । कैः ? करे हस्त-विषये\ऽणुभिः सूक्ष्माग्र-लेखनीभिः । भृङ्गवद् गायमान-प्रमदावृत इति वा । ततः जल-विहारानन्तरम्। च-कारेणाङ्ग-मार्जन-वन-देवतानीत-तादात्विक-वस्त्रालङ्कार-परिधानानन्तरं च । कृष्णाया यमुनाया उपवने परः-सहस्र-कुञ्ज-युक्ते तत्र स्वाप-लीलार्थं चचार जगाम । कीदृशे ? जन-स्थल-वर्ति-प्रसूनानां गन्धो यत्र तथाभूतैर् अनिलैर् जुष्टानि दिक्-तटानि यस्य तस्मिन् । भृङ्गाणां प्रमदानां च गणैर् आवृतः । मदानां च्युत् च्योतनं क्षरणं यस्य सः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो जल-क्रीडानन्तरम् इति जल-क्रीडया पुष्प-मालादेर् म्लानत्वादिना पुष्पावचयनाद्य्-अर्थम् इत्य् अर्थः । त्व् अथ च-कारो भिन्नोपक्रमे । जल-प्रसूनानि कुमुदादीनि । स्थल-प्रसूनानि जाती-कुन्दादीनि । तत्-तद्-गन्ध-सम्बन्धेनानिलस्य शैत्यं सौरभ्यं च । जुष्टेति मान्द्यं च ज्ञेयम् । चचार पुष्पावचय-निकुञ्जान्तर्-निलीनतादि-विचित्र-प्रकारेण क्रीदान्न् इतस् ततो बभ्राम । भृङ्ग-गणावृतत्वं पुष्पावचयनेन तत्-साहित्येनैवागमनात् । किं वा, जल-क्रीडायाम् अङ्ग-रागापगमेन सहज-मधुर-सौरभ्य-प्रकाशात् । किं वा, तेषां भावोद्दीपन-स्वभावत्वेन सदा स्वीकारात् । किं वा, श्री-मुख-वन-मालाद्य्-आमोदेन सदाकृष्टत्वात् । अत एव तेषां मुहुर् उक्तिः । मद-च्युद् इति भृङ्ग-गणावृतत्व-हेतुता, तथा द्विरद-श्रेष्ठता काम-मत्तता च । तथा गजीनाम् अपि तत्-सङ्गात् तादृश्य् एव सूचिता । सर्वत्रायं दृष्टान्तः । प्रायो मत्त-गजेन्द्रस्य कामाधिकतायास् तथा सदा गणेनावृत इति तासां प्रेम-मत्ततोक्ता । अत एव प्रमदेत्य् उक्तम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो जल-क्रीडानन्तरम् इति पूर्व-नेपथ्यापगमे तदानीं वन्य-नेपथ्यस्य रोचकत्वात् तत्-प्रचुर-क्रीडा-विशेषेच्छयेत्य् अर्थः । त्व् अथ च-कारो भिन्नोपक्रमे । चचार पुष्पावचय-निकुञ्जान्तर्-निलीनतादि-विचित्र-प्रकारेण क्रीदान्न् इतस् ततो बभ्राम । भृङ्ग-गण-वृतत्वं पुष्पावचये तत्-साहित्येनैवागमनात् । जल-क्रीडायाम् अङ्गेषु धौतेषु सहज-मधुर-सौरभ्यतयातिप्रकाशाच् च । अत एव तेषां मुहुर् उक्तिः मदच्युद् इति भृङ्ग-गण-वृतत्वे हेतुता तथा द्विरद-श्रेष्ठता स्वकान्तासक्तता च ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ जल-विहारावसान-समये योगमाययोपनीत-वस्त्रालङ्कारानुलेपान्तराणि यथास्वं सर्वा एव सोऽपि च परिधाय मधु-पान-लीलाम् आततानेत्य् आह—ततश् चेत्य् आदि । कृष्णाया उपवने पुलिनं हित्वा उपवन-मध्यं गत्वेत्य् अर्थः । अन्यथा वैमानिका आलोकयिष्यन् । जल-प्रसूनैः कुमुदादिभिः स्थूल-प्रसूनैर् नाना-विधैर् एव यो गन्धानिलः स गन्ध-पवनस् तेन जुष्टा दिशस् तटानि च दिक्-तटा इति वा । यत्र भृङ्ग-प्रमदा-गणावृत इति निभृत-लीला सूचिता यतः पुं-भृङ्गा अपि तदा नासन् । मद-च्युद् द्विरदो यथेति दृष्टान्तेन मत्तता व्यङ्ग्या तया च मधु-पानं ध्वनितम् ॥२५॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तेषां नृत्य-क्रीडा-जनित-श्रमापनोदनाय जल-क्रीडा वर्णिता । इदानीं जल-विहारेण धौताङ्ग-रागाणां विपर्यस्त-नेपथ्यानां पुनर् नवी-कृत-पुष्प-मय-नेपथ्य-स्वीकार-सहित-विहारम् आह—ततश् चेति । जल-केल्य्-आनन्तय्यार्थं तत इति । कृष्णोपवने कृष्णा यमुना तस्या उपवने चचार विजहार बभ्रामेति वा । कीदृशः ? जल-स्थल-प्रसूनानां गन्धो यस्मिन् तेनानिलेन पवनेन जुष्टानि सेवितानि वीथ्यां तटीनि यस्मिन् अनेन । वायोस् त्रैविध्यं सूचितम् इति । जल-सम्बन्धेन शैत्यं पवन-सम्बन्धेन सौगन्ध्यं वन-सम्बन्धेन मान्द्यं वायोर् अपि रत्य्-उद्दीपने सहाय्यम् उक्तम् ।

भृङ्ग-प्रमदा-गणावृत इति । भृङ्गाङ्गनावृतत्वं धौताङ्ग-रागस्यापि तस्य स्वाभाविकाङ्ग-परिमल-मुखामोद-लुब्ध-भ्रमर-साहित्यं ज्ञेयम् । प्रमदा-गणावृतत्वं पुनर् अपि पुष्पावचय-पल्लवादि-निर्मित-शय्याभरणादि-पुष्प-मय-नेपथ्यादि-रचना-कुञ्जादि-प्रवेशानिलायनादि-क्रीडा-विशेष-जनित-सुख-विशेषम् अनुभवितुं प्रमदा-गणावृतत्वम् उक्तं स्वातन्त्र्येण क्रीडायाम् इतर-विस्मरणे च मिथः प्रीतौ च मिथः मत्ततायां च दृष्टान्तः—यथा मद-च्युद् द्विरदः, मदं च्यवतीति मद-च्युद् पूर्व-परानुसन्धान-रहित इत्य् अर्थः । करेणुभिर् इति तं विना तासां जीवन-सन्देह इति रस-वृत्तिः सूचिता । एवम् अन्योन्यं रतौ परस्पर-सापेक्षत्वं सूचितम् । यथा गजेन्द्रो वने प्रविश्य कस्यचिद् वृक्षस्य शखा-भङ्गं करोति, कुत्रचित् लता-भङ्गं करोति, कुत्रचिद् आलवालं भिनत्ति, तद्वच् छ्री-कृष्णोऽपि वेद-शाखोक्त-धर्मातिक्रमं करोति, लता-स्थानीयानाम् उपनिषदाम् अपि निर्गुण-चारातिक्रमम् आलवाल-स्थानीय-वर्णाश्रम-धर्मातिक्रमं च कृतवान् इत्य् अर्थः । एवं स्थल-जल-वन-भेदेन त्रिविधापि लीला रस-जनिकात्यलौकिका जातेति अविचार-क्रीडायां दृष्टान्तः यथा द्विरद इति ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो जल-विहारानन्तरं च-कारेणाङ्ग-मार्जन-वन-देवतानीत-तादात्मिक-वस्त्रालङ्कार-परिधापनानन्तरं च कृष्णाय यमुनाया उपवने परः-सहस्र-कुञ्ज-युक्ते तत्र स्वाप-लीलार्थं चचार जगाम । कीदृशः ? जल-स्थल-वर्ति-प्रसूनानां गन्धो यत्र तथाभूतैर् अनिलैर् जुष्टानि दिक्-तटानि यस्य तस्मिन् । भृङ्गानां प्रमदानां च गणैर् आवृतः । मदानां च्युत् च्योतनं क्षरणं यस्य सः ॥२५॥


॥ १०.३३.२६ ॥

एवं शशाङ्कांशु-विराजिता निशाः

स सत्य-कामोऽनुरताबला-गणः ।

सिषेव आत्मन्य् अवरुद्ध-सौरतः

सर्वाः शरत्-काव्य-कथा-रसाश्रयाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रास-क्रीडां निगमयति—एवम् इति । कृष्णः सत्य-सङ्कल्पोऽनुरागि-स्त्री-कदम्ब-स्थ एवं सर्वा निशाः सेवितवान् । शरत्-काव्य-कथा-रसाश्रयाः शरदि भवाः काव्येषु कथ्यमाना ये रसाः, तेषाम् आश्रय-भूता निशाः । यद् वा, निशा इति द्वितीयाऽत्यन्त-संयोगे। शृङ्गार-रसाश्रयाः शरदि21 प्रसिद्धाः काव्येषु याः कथाः, ताः सिषेवे इति । एवम् अप्य् आत्मन्य् एवावरुद्धः सौरतश् चरम-धातुर् न तु स्खलितो यस्येति काम-जयोक्तिः ॥२६-२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपसंहरति एवम् इत्य् अनेन । रास-क्रीडाया निगमनं बोधनम् । निशा नितरां शं सुखं यासु ताः । क्षणम् अपि रति-विरामो नासीद् इत्य् अन्वर्थता । अनुरत-स्त्री-गणस् तद्-इच्छानुकूल-रमित-स्त्री-जनो वा । एतेन श्री-कृष्णेन स्त्रीष्व् अनासक्तिर् द्योतिता । रसाः शृङ्गार-हास्यादि-रूपाः । निशानाम् अचेतनत्वाद् रसाश्रयता न सम्पनीपद्यते\ऽत आह—यद् वा इति। चरम-धातुर् अत्र रेतः । रसासृङ्-मांस-मेदोऽस्थि-मज्जा-शुक्राणि धातवः इत्य् अत्र धातु-गणनायां शार्ङ्गधरेण शुक्रस्य चरमत्वम् उक्तम् । किं चोत्पत्ति-क्रमेणापि शुक्रस्य चरमत्वम् एव । तद् उक्तं संहितायाम्—

रसाद् रक्तं ततो मांसं मांसान् मेदः प्रजायते । > मेदसो\ऽस्थि ततो मज्जा तस्माच् छुक्रस्य सम्भवः ॥ इति ।

रसाद् अन्नादि-रसाद् इत्य् अर्थः । वीर्यं निरुद्ध्य सुरतं करोतीति अयम् एव काम-जयः ।

स्त्री-सङ्गे\ऽपि न पतितं रेतो यस्य परेच्छया । > स धन्यः पुरुषो लोके काम-जेता स कथ्यते ॥ इति संहितोक्तेः > ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं शशाङ्कांशु इति । निशाः सिषेव इति निशाया बहुत्वम्, न प्रत्येक-बोधकम् । सर्वासां निशानां पूर्वं शशाङ्कवत्त्वं न घटते, तेन निशा इति बहु-वचनम् एकीकृत भूरि-निशा-परम् । तेन एव शशाङ्केति एव शब्दस्य शशाङ्कस्य स्व-गणो विस्मितो\ऽभवद् इति पूर्वोक्त-विस्मितत्वेन निष्पन्दत्वम्, तेन निशा-रूप-कालस्य बहुलत्वं रहस्यम् । एवम्भूतो यः शशाङ्कः, तस्य अंशु-स्तुतिभिर् विराजिता इत्य् अव्ययेन सह समासः, उच्चैर् मुखादिवत् । एतेनैव रात्रीः [१०.२९.१] इति तथा पूर्वं व्याख्यातम् । एवम् एव कुतः ? स सत्य-कामः सत्य-सङ्कल्पः । एवम् एव पूर्वं सङ्कल्पम् अकार्षीत् । आत्मन्य् अवरुद्ध-सौरतं सुरत-सुखं येन प्रेमैव सुरतम् इत्य् अवरुरोधेत्य् अर्थः । अथवा, आत्मन्य् अवरुद्ध-सौरत आत्मना न्यवरुद्धं सौरतं ग्राम्य-धर्मो येनेत्य् एकम् एव पदम् । ईश्वरस्य तस्य ईश्वरीणां च तासां ग्राम्य-धर्मो\ऽनुचितः । अनौचित्याद् ऋते नान्यद् रस-भङ्गस्य कारणं [ध्वन्यालोक ३.१४] इति रस-ग्रन्थ-काराः । तथाविध-दम्पतीनां तु परस्पराधर-पान-चुम्बनालिङ्गनादिर् अबाध एव शृङ्गारः ।

निशाः कथम्भूताः ? शरत्-काव्य-कथा-रसाश्रयाः शरदि संवत्सरे या काव्य-कथा कवि-सम्बन्धिनी कथा ऋतु-षट्कादि-वर्णनं चन्द्रोदय-मधु-पानोत्सवादि च, तस्य यो रसः, तद्-आश्रयाः ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तद्-रात्रि-कृत-रास-क्रीडाम् उक्त्वा तस्याम् अनुक्तम् अन्यम् अपि विलासं सङ्गृह्णन् तथा बहुल-रात्र-कृतायाम् अपि तस्याम् उपलक्षयन्न् उपसंहरतीति—एवम् इति उक्त-प्रकारेणेति । तद्-रात्राव् ईदृशी परापि क्रीडा सूचिता । सा चात्यन्त-विस्तीर्णत्वाद् वर्णयितुं न शक्यत इति भावः । तथा निशा इति बहुत्वेन तत्र च सर्वा इति साकल्येन सम्पूर्णं कैशोरं सर्वास्व् एव रात्रिषु रास-क्रीडा बोध्यते । श्री-पराशरेणापि तद् उक्तम् एव— सोऽपि कैशोरक-वयः [वि।पु। ५.१३.६०] इति । तत्र च—

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । > आ-षोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥ [भ।र।सि। > २.१.३०९]

इत्य्-आदि वचनाद् एकादशाब्दम् आरभ्य पञ्चदशाब्द-पर्यन्तं गोकुले\ऽत्र नित्यं सा क्रीडा ज्ञेया। यच् चोक्तं श्रीमद्-उद्धवेन तृतीय-स्कन्धे—एकादश समास् तत्र गूढार्चिः स-बलोऽवसत् [भा।पु। ३.२.२६] इति । तच् च कौमार-पौगाण्डयोर् अयोग्य-समययो रास-क्रीडानुदयेन भगवत्ता-विशेष-प्राकट्याभावाद् गुप्तैश्वर्यत्वाभिप्रायेण । अत एवोक्तं गूढार्चिर् इति । अत एव राङ्ग-स्थले पितरौ प्रति श्री-भगवतैव वक्ष्यते—नास्मत्तो युवयोस् तात [भा।पु। १०.४५.३] इत्य्-आदि । यच् च मधुपुरी-प्रवेशे वक्ष्यमाणस्य प्रागल्भ्य-लीला-सम्भवात् । अन्यथा हसितावलोकनैः इत्य्-आदेर् अनुसारेण कैश्चिद् यौवने\ऽपि श्री-भगवतो गोकुल-क्रीडा मन्यते, तच् च नातीव सङ्गतम् । कैशोरे\ऽपि तस्य वैदग्धी-विशेषेण प्रागल्भ-लीलायाः सम्भवात् । अन्यथा किशोरौ श्यामल-श्वेतौ [भा।पु। १०.३८.२९] इत्य् अक्रूर-दृष्टेः । तथा किशोरौ नाप्त-यौवनौ [भा।पु। १०.४४.८] इति पुर-स्त्र्य्-उक्तेर् विरोधः स्याद् इति दिक् ।

किं च, एवम् इत्य् अनेन तद्-रात्रि-क्रीडाया ईदृशी अन्य-रात्रि-क्रीडापि तादृश्य् एवेति सूच्यते । ततश् च पूर्वं रास-क्रीडारम्भे श्री-भगवतस् तासां च मिथो-वाकोवाक्यं मध्ये प्रश्नोत्तरं च परम-प्रेम-रस-सम्प्लुततयानुसन्धानाभावेन नित्य-नूतनवत् प्रवृत्तेः । पुनः पुनः सर्वं सम्भवेद् एव । एतच् च पूर्वं लिखितम् एव ।

शशाङ्कः सम्पूर्ण-चन्द्र इत्य् अर्थः । पूर्णत्वेनैव शश-सदृश-लाञ्छनस्य सम्यग् उदयात् । तस्य अंशुभिर् विशेषेण राजिता दिनवत् प्रकाशिताः । एवं श्री-भगवद्-रास-क्रीडार्थं तासु रात्रिषु चन्द्रः पूर्णिमायाम् इव पूर्ण-मण्डल एवोद्गच्छेद् इति ज्ञेयम् । यथोक्तं श्री-वैशम्पायनेन—

एवं स कृष्णो गोपीनां चक्रवालैर् अलङ्कृतः । > शारदीषु स-चन्द्रासु निशासु मुमुदे सुखी ॥ [ह।वं। २.२०.३५] इति > ।

तत्र च शारदीषु इत्य् उपलक्षणम् । किं वा, शारदीष्व् इवेति ज्ञेयम् । यद् वा, मधु-पुरी-मध्ये श्री-वसुदेव-कृत-पुत्र-परिवर्तनादिवत् कल्प-भेद-व्यवस्थया भेदः कल्प्य इति ।

ननु नित्यम् एव तादृश-रात्रौ तादृश-प्रकारादिना कथं सा क्रीडा सिध्येत् ? तत्राह—सत्य-काम इति ।

ननु तथापि मानादिना पत्य्-आदि-पारवश्यादिना वा सदा तास् तस्यापि दुर्लभा मन्ये ? तत्राह—अनु निरन्तरं रतोऽनुरक्तः सर्वथा बहु-प्रबन्धेन सर्वोपेक्षया वा सम्बन्धोऽबलानां तद्-एकाधीन-गोपीनां गणो यस्मिन्न् इति ।

यद् वा, ननु पत्य्-आदिभिर् अस्वतन्त्राणां तासां नित्य-प्राप्तिः कथं स्यात् ? तत्राह—अनुरत- इति। सर्वोपेक्षया सदा तस्मिन्न् एव रतत्वाद् इत्य् अर्थः । किं वा, तासाम् अनुरतत्वेन सामरस्याद् यत्र कुत्रापि यदा तदा येन केनापि प्रकारेण सिध्येद् एवेति भावः । तत्र चासम्भावना नास्तीत्य् आह—स महा-मोहनो रास-रसिक इति ।

न च कदाचित् केनापि हेतुना तत्र तृप्तिः स्याद् इत्य् आह—सत्यम्, किन्तु प्रेम-परवशः, अवरुद्धं स्वीकृतं सौरतं सुरत-समूहो लीला-विलासोद्रेको वा येन सः, तद्-अर्थम् एवावतीर्णत्वाद् इत्य् अर्थः । तच् च आत्मनि एवेति, न केवलं स्वयम् औदास्येन ता एव रमयामास, किन्तु आत्मन्य् एवावरुद्ध-सौरत इति । किन्तु स्वस्मिन् साक्षात् स्वीकारेण तद्-आसक्त्या स्वयम् अप्य् अनुभूतवान् इत्य् अर्थः । यद् वा, आत्मनि निमित्ते, इत्य् आत्मारामताद्य्-उपेक्षया तस्यापि तेन परमाबोधितः ।

न केवलम् उक्त-प्रकारा रास-क्रीडैव कृता, किन्तु ताभिः सह विचित्र-प्रकारेण विचित्रा रतिश् च कृतेत्य् आह—शरद् इति । शरदि कामस्य प्राबल्येन पुलिनादेश् च सौन्दर्येणोक्तम् । यद् वा, हायनोऽस्त्री शरत्-समा इत्य् अमरोक्तेः । संवत्सर-मध्ये यस्मिन् ऋतौ मासे दिवसे वा, याः काव्येषु कथा निरूप्यन्ते, ताः सिषेवे, तद्-अर्थान् प्रीत्यानुष्ठितवान् इत्य् अर्थः । ते च श्री-गीत-गोविन्द-विदग्ध-माधव-नाटकाद्य्-उक्त-प्रकारका ज्ञेयाः । अन्यत् तैर् व्याख्यातम् । यद् वा, एवं सिषेव इति रात्रिषु रास-क्रीडा उक्ताः । अधुना कदाचिद् दिवसेष्व् अपि तादृशीम् अन्याम् अपि क्रीडां सूचयति—सर्वा इति । शरत्-काव्य-कथाश्सर्वाः सिषेवे । तत्र काव्य-शब्देन परम-वैचित्री तासां सूचिता । ताश् च गीत-गोविन्दादि-प्रसिद्धाः । तथा श्री-चण्डी-दासादि-दर्शित-दान-खण्डादि-प्रकारकाश् च ज्ञेयाः । इत्य् एषा दिक् । अन्यत् समानम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथाभ्यां शरदि पूर्णिमायां कृतां रास-क्रीडाम् उपसंहरन् तत्-प्रकारताम् अन्यत्राप्य् उपदिशन्न् अन्याम् अन्याम् अपि क्रीडाम् उपलक्षयति—एवम् इति । एवं पूर्वोक्त-रास-प्रकारेण शरत्-काव्येति वक्ष्यमाणात् प्रतिशरद-शशाङ्कांशु-विराजिताः निशाः सर्वा एव सिषेवे, परमादरेण परिचरितवान् इत्य् अर्थः । अन्यथा ऋत्व्-अन्तर-सम्भवात् ज्योत्स्नीस् तामसीश् च रहस् तत्-तद्-गृह-प्रवेश-तत्-तद्-अभिसारेण कुञ्ज-शयनादिना कदाचिद् रासेन चेति भावः ।

उत्तरासां विशेष-ज्ञापिकापूर्वा एव विशिनष्टि—शरदि ये काव्य-कथा-रसाः सम्भवन्ति, तेषाम् आश्रयो यासु श्री-भगवत्-कृतानन्त-लीलासु तादृशीर् निशा व्याप्येति । पक्षे, सर्वाः शरत्-काव्य-कथाः सर्व-देश-काल-कविभिर् यावत्यो वर्णयितुं शक्यन्ते, तावतीस् ताः सिषेवे । किन्तु रसाश्रया रस एव आश्रयो यासां ता एव, न तु कैश्चिद् विरसतया या ग्रथितास् ता अपीत्य् अर्थः । उपलक्षणं चैतद् अन्यासाम् । यद् वा, शशाङ्कांशु-विराजिताः वसन्तादि-सम्बन्धिन्यो\ऽपि या निशाः, त एवं रास-प्रकारेण सिषेवे । तथा ऋतु-षट्कात्मकस्य शरद्-आख्यस्य याः काव्य-कथाः पूर्ववद् अनन्ताः, ताश् च सर्वाः सिषेवे, किन्तु रसाश्रया एवेति ।

कीदृशः सन् सिषेवे ? तत्राह—आत्मन्य् अन्तर् मनसि अवरुद्धाः समन्ततः स्थापिताः सौरताः, तासां सुरत-सम्बन्धिनो भाव-हावादयो येन तादृशः सन्न् इति । ततस् ताः परित्यक्तुं न शक्तवान् इति भावः । अत्र विशेष्य-निर्देशाद् अखिला एव भावादयो गृहीताः ।

एवं सौरत-संलापैर् भगवान् देवकी-सुतः । > स्व-रतो रमया रेमे नर-लोकं विडम्बयन् ॥ [भा।पु। १०.६०.५८] > इति ।

अत्र तु विशेष-निर्देशार्थम् एव हि संलाप-शब्दो दत्त इति । आत्मन्य् अवरुद्ध-सौरतत्वे हेतुः—अनुरताबला-गणः । निरन्तरम् अनुरक्तो\ऽबला-गणो यस्मिंस् तद्-विधः । तेषां सौरतानाम् अनुराग-प्रेमवत्त्वाद् अनुराग एव तत्र कारणम्, न तु कामि-जनवत् काम इत्य् अर्थः । सत्य-कामः व्यभिचार-रहित-तादृशाभिलाष इति । एवम् एवोक्तं श्री-पराशर-वैशम्पायनाभ्याम्—

एवं कृष्णो गोपीनां चक्रवालैर् अलङ्कृतः । > शारदीषु स-चन्द्रासु निशासु मुमुदे सुखी ॥ [ह।वं। २.२०.३५] इति > ।

टीकायां त्व् एवम् अपीत्य्-आदिना स्मर-पारवश्याभाव-मात्र-प्रतिपादनाय सौरत-शब्दस्य व्याख्यान्तरम् अप्रसिद्धम् अपि कृतम् इति ज्ञेयम् ॥२६॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३००) : एवं पूर्वोक्त-प्रकारेण अनुरतो निरन्तरम् अनुरक्तोऽबला-गणो यत्र तादृशः स श्री-कृष्ण-चन्द्र आत्मनि चित्तेऽवरुद्धं समन्तान् निगृह्य स्थापितं सौरतं सुरत-सम्बन्धि-भाव-हावादिकं येन, तथाभूतः सन् । अत एव सत्य-कामः व्यभिचार-रहित-प्रेम-विशेषः सन् शरत्-सम्बन्धिन्यो यावत्यो रसाश्रयाः काव्य-कथाः सम्भवन्ति, ताः सर्वा एव सिषेवे । शरच्-छब्दोऽत्राखण्डम् एव वा संवत्सरं वदति । ततः शशङ्कांशु-विराजितत्वम् उपलक्षणम् इति व्याख्येयम् । एवं सौरत-संलापैः [भा।पु। १०.६०.५८] इति श्री-रुक्मिणी-परिहासेऽपि सौरत-शब्दस् तादृशत्वेन प्रयुक्तः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—एवम् इत्य्-आदि । सत्य-कामः सत्य-सङ्कल्पः श्री-कृष्णः शशाङ्कांशु-विराजिता निशा व्याप्य । उक्त-प्रकारे बहुत्वे बहु-वचनम्। शरत्-काव्य-कथाः सिषेवे शरदि संवत्सरे याः काव्य-कथा ऋतु-षट्क-भवोत्था वन-विहार-जल-विहार-मधु-पान-रत्य्-उत्सवादयः काव्याङ्ग-भूताः कथास् ता इत्य् अर्थः । तादृश-लीलानाम् अतिगोप्यत्वात् श्रोतॄणाम् अनधिकाराच् च सङ्केतेनैवोपसंहृतं भगवता श्री-शुकाचार्येण । तत्र मद-च्युतद्-द्विरद-दृष्टान्तेन मधु-पानम् आत्मन्य् अवरुद्ध-सौरत इत्य् अनेन रसोत्सवः । अवरुद्धम् अवरोधः । सुरतम् एव सौरतम् । आत्मन्य् अवरोधः सौरतं यस्येति रत-मर्यादा चोक्ता सङ्केतेनैवेति दिक् । तच् च विपरीत-रसम् इत्य् अर्थः । रसाश्रयाः शृङ्गार-रसाश्रयाः ॥२६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् एक-रात्रि-कृतां लीलाम् एक-रूपाम् अतिदिशन्न् उपसंहरति एवम् इति । यथा शरद्-ऋतु-प्रथम्-रात्र्यां लीला कृता तथा सर्वास्व् अपि तथैवानेन च प्रकारेणेत्य् आह एवम् अमुना प्रकारेण शशाङ्कश् चन्द्रस् तस्य्आंशुभिर् विराजिता उज्ज्वलिता निशाः सर्वा एव सिषेवे। तासु नैरन्तर्येणाक्रीडति स्मेत्य् अर्थः । एक-रात्रि-कृता लीला संक्षेपतो दर्शिता वर्णिता बह्वीषु रात्रिषु कृतां को वर्णयितुं शक्नोतीति भावः । पराशरेणाप्य् उक्तं –

सोऽपि कैशोरक-वयो मानयन् मधुसूदनः । > रेमे ताभिर् अमेयात्मा क्षपासु क्षप्ताहितः ॥ [वि।पु। ५.१३.६०] इति > । > एवं स कृष्णो गोपीनां चक्रवालैर् अलङ्कृतः । > शारदीषु स-चन्द्रांशु निशासु मुमुदे सुखी ॥ [ह।वं। २.२०.३५] इति > ।

इति शशाङ्कस्य पूर्णत्वात् सर्वा एव निशाः पूर्णाः । यद्यपि वृन्दावने सर्वर्तूनां निवासस् तथापि तद्-अधिकरणे प्रदेशे सखण्डलवत् शरत्-काव्य-कथा-रसाश्रयाः शरद्-ऋतौ काव्येषु याः कथास् तासु ये रसाः शृङ्गारादयस् तेषाम् आश्रय-भूताः । यद् वा रसाश्रया सर्वा शरत्-काव्य-कथा सिषेवे । तद्-अनुसारेण चिक्रीडे तासु गीत-गोविन्दादिषु प्रसिद्धम् एव ।

ननु निरपेक्षस्य किं रमणेन स्यात् ? चेत् तदा सर्वदा रात्रिषु रमणेनासामर्थ्यं विरक्तिश् च स्याद् अत आह सत्य-काम इति । यद् वा सत्यो बोध्यो कामो अभिलाषो यासां ताः सत्य-कामाः । यद् वा सत्ये श्री-कृष्ण-स्वरूपे कामो यासां ताः । श्री-कृष्ण-स्वरूपस्य सत्यत्वात् तद्-विषयस्य कामस्यापि सत्यत्वम् । सामरस्यात् ताभिः सह हि सत्यकामः ।

ननु कदाचित् पत्य्-आदि-पारवश्येन लीलायाः कादाचित्कत्वं स्यात् ? अत आह—अनुरताबला-गणः । पत्य्-आदि-प्रतिबन्धम् अवगणय्यानुरतो [उचितो]{।मर्क्}ऽबला-गणो यस्मिन् । यद् वा, नैरन्तर्येण विलासान् अनुभवितुम् अनुरतोऽनुसृतोऽबला-गणो येन सः । अत एव तासां नित्य-सम्बन्धः सूचितः । सत्य-कामत्वात् । तासु नित्यम् एव रमणं न तु कादाचित्कं न हि कामम् अन्तरेण रमणं सम्भवतीति तद् उक्तं –

नाकामस्य क्रिया काचिद् दृश्यतेऽत्रेह कर्हिचित् । > यद् यत् कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् ॥ [मनु २.४] इति > ।

प्राकृतस्यापि प्राणिनो यदा सकामत्वेन क्रिया-निवृत्तिस् तदा परम-शृङ्गारिणः किम् उत ? इति तद् उक्तं गीत-गोविन्दे शृङ्गारः सखि मूर्तिमान् इव [गी।गो। १.४२] इति । तासाम् अपि कामस्य श्री-कृष्ण-स्वरूप-प्राप्तिर् एव फलं, न तु विषय-भोगः । तद् उक्तं श्री-मुखेनैव –

न मय्य् आवेशित-धियां कामः कामाय कल्पते । > भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भा।पु। > १०.२२.२६] इति ।

ननु निरन्तर-रमणेन वैरस्यं स्यात् ? इत्य् अत आह—आत्मन्य् अवरुद्ध-सौरत इति सत्य-कामत्वात्, व्रज-देवी-विलास-निमग्न-चित्तत्वाच् च । आत्मनि स्वस्मिन्न् एव अवरुद्ध-सौरतं सुरत-सम्बन्धी चरम-धातु-स्खलनं येन स इति प्राकृत-कामस्यायम् एव स्वभावो यच् चरम-धातु-पातं कारयित्वा सुरतान्ते वैरस्यं कारयति । अप्राकृत-कामस् तु प्रतिक्षणं नवानुरागं वर्धयन् धातु-पातं स्तम्भयित्वोत्तरोत्तरां रतिम् एव जनयति । न तु सुरतान्तेऽन्यथा रस-भङ्ग-प्रसङ्गात् । यद् वा, आत्मनि मनसि अवरुद्धं स्वीकृतं सौरतं सुरतोपयोगि-कला-कौशलम् । कला-कौशलाद् एव न धातु-पात इति ।

यद् वा, स्व-प्रयोजनम् आह—आत्मनि निमित्ते स्व-सुखार्थम् अवरुद्धं सौरतं सुरत-मण्डनं येन सः । अत एव सत्ये काल-त्रयावाध्ये गोपी-मण्डले कामो अभिलाषो यस्येत्य् अर्थः। सत्य-कामत्वाद् एव अनुरता अनुगता अधीन-प्राप्ता अबला-गणाः पतिं सम्मानयन्तीति सः सत्य-विषयत्वात् कामस्य सत्यत्वं, प्राकृत-कामस्य प्रवेशानर्हत्वात् । काम-जयोक्तिस् तु वाचो युक्तिर् यदि प्राकृत-कामस्य प्रवेशो भवेत्, तर्हि तस्य जयः सम्भाव्येन न तु तद् अस्ति ।

यद् वा, सत्य-कामः श्री-कृष्ण आत्मनि निमित्ते स्व-सुखार्थं रसाश्रया काव्य-कथा यदा सिषेवे, तदा शरद्-ऋतुर् अपि सर्वा निशा रममाणस्य मया अवच्छिन्ना परिपूर्ण-चन्द्रांशु-विराजिता सिषेव इति शरद्-ऋताव् अभिसेवकत्वं लीलोपयोगित्वं प्रसिद्धम् एवेति ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शरत्-पौर्णमासी-नक्तन्तनीं रास-क्रीडाम् उपसंहरन्न् अन्यास्व् अपि रात्रिषु विविध-विचित्रापरिगण्य-तादृश-क्रीडया ताभिः सह बभूवेत्य् आह । एवं सर्वा एव योगमायायाः प्रभावात् शशाङ्कांशु-विराजिता निशाः सिषेवे स्व-विलासैर् वृन्दावनीय-निशा-सुखम् आस्वादयामासेत्य् अर्थः । सिवु-धातोः कर्तृत्वेन क्रीडोपयोगिन्यस् ता निशाः परमादरणीयत्वेन भोग्याः, किम् उत तत्रत्याः काम-विलासा इति द्योतितम् । महा-प्रसादान्नं सेवते भक्त इतिवत् ।

यतन्ते काम-विलासा न प्राकृता ज्ञेया इत्य् आह—सत्य-कामःसत्या वास्तव-वस्तु-स्वरूपाः काम-विलासा यस्य सः । किं च, अनुरताबला-गणः । रमणस्य कर्तृत्वं स्वं ता गोपीश् च प्रापयामासेत्य् आह—अनु तद्-रमणानन्तरं रता रमण-कर्तारः अबला-गणा अपि यत्र सः । अबला-पदेन तत्र तासां प्रभविष्णुत्वाभावो व्यञ्जितः ।

तदा च भगवतो रात्रिन्दिनं तत्-केलि-विलासैक-तान-मनस्त्वम् अभूद् इत्य् आह—आत्मन्य् अवरुद्ध-सौरतः इति । आत्मनि मनसि अवरुद्धाः अवरुद्ध्य स्थापिताः सौरताः सुरत-सम्बन्धिनो भाव-हाव-बिब्बोक-किलकिञ्चितादयः, वाम्यौत्सुक्य-हर्षादयः, स्तम्भ-स्वेद-वैवर्ण्यादयः, दर्शन-स्पर्शन-श्लेषादयश् च येन सः ।

एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः । > स्व-रतो रमया रेमे नर-लोकं विडम्बयन् ॥ [भा।पु। १०.६०.५८]

इत्य् अत्र विशेष-विवक्षयैव संलाप-पदोपन्यासः । अत्र त्व् अविशेषेण सर्व एव ते संगच्छन्ते इति ज्ञेयम् ।

सर्वा द्वादश-मासिकीर् एव निशाः सिषेवे । कीदृशीः ? शरत्-काव्य-कथा-रसाश्रयाः । हायनोऽस्त्री शरत् समाः इत्य् आभिधानात् । शरदि संवत्सर-मध्य एव ऋत्व्-आदिकम् अधिकृत्य ये काव्य-कथा-रसाः संभवन्ति, तेषाम् आश्रयाः । या एव सांवत्सरिक-निशाः श्री-वृन्दावने कृष्ण-क्रीडाधिकरणी-भूता आश्रित्य सत्-कवयः प्राचीनार्वाचीना व्यास-पराशर-जयदेव-लीलाशुक-गोवर्धनाचार्य-श्रीरूपादयः स्व-स्व-कृतेषु काव्येषु कथाः रसांश् च शृङ्गार-प्रधानान् वर्णयित्वापि न पारं प्राप्नुयुर् इत्य् अर्थः । अत एव मयापि सामस्त्येन वर्णयितुम् अशक्यत्वाद् दिग् एवैषा दर्शितेति भावः ॥२६॥


सरस्वती-ठाकुरः (चै।च। २.१४.१५८) : एवं कथित-भावेन सत्य-कामः नित्य-सत्य-सङ्कल्पः श्री-कृष्णः अनुरताबला-गणः अनुरतः आकृष्टः अबला-गणः यस्मिन्, तादृशः अनुरागि-स्त्री-कदम्बस्थ इत्य् अर्थः । आत्मन्य् एव अवरुद्ध-सौरतः अवरुद्धाः सौरताः सुरत-व्यापाराः येन, एवम्भूतः सः आत्मारामः अप्राकृत-कामदेवः इत्य् अर्थः । शरत्-काव्य-कथा-रसाश्रयाः शरदि हवाः काव्येषु कथ्यमाना ये रसाः, तेषाम् आश्रय-भूताः । यद् वा, शरत्-कालोचित-काव्य-कथा-रसाः, तेषाम् आश्रय-भूताः ताः । यद् वा, रसाश्रयाः शरत्-काव्य-कथाः इत्य् अन्वये, शृङ्गार-रसाश्रयाः शरदि प्रसिद्धाः काव्येषु याः कथास् ताः । शशाङ्कांशु-विराजिताः शशाङ्कस्य अंशुभिः किरणैः विराजिताः शोभमानाः सर्वा एव निशाः सिषेवे रास-क्रीडया यापयामास ॥२६॥


॥ १०.३३.२७ ॥

राजोवाच—

संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

अवतीर्णो हि भगवान् अंशेन जगद्-ईश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्ञात-शास्त्र-तात्पर्योऽपि परीक्षित्-स्व-नाम्नोऽन्वर्थतां द्योतयंस् तथानभिज्ञ-श्रोतृ-सन्देह-प्रहाणाय पृच्छति—राजा इति । इतरस्य अधर्मस्य । प्रशमाय निवृत्तये । अंशेन बलदेवेन सह ।

यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । > अभ्युत्थानम् अधर्मस्य तद् आत्मानं सृजाम्य् अहम् ॥ [गीता ४.७] इति > श्री-मुखोक्तेः ।

यद् वा, यस्यांशेन जगत् स ईश्वरोऽवतीर्ण इत्य् अन्वयः । अंशेन चासौ जगद्-ईश्वर इति वा ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अवतीर्णो हि भगवान् इत्य्-आदि परीक्षित्-प्रश्नः । अश्यते विभज्यते कला-कलापो\ऽस्माद् इत्य् अंशः परिपूर्ण-भागस् तेन भगवान् श्री-कृष्णः स हि परात्परो\ऽवतीर्णः । अंशेन बलदेवेन ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रीति-विशेषेण श्री-बादरायणिना वर्णितायाः श्री-रास-क्रीडायाः श्रवणान् मिथोऽपाङ्ग-कूणनैर् निरीक्षमाणानाम् ईषद् धसतां शुष्क-तार्किकाणां केषाञ्चिद् वैष्णवानाम् अभिप्रायं वितर्क्य कृपया तेषाम् एव हितार्थं तम् उत्थाप्य स्व-सन्देह-व्याजेन पृच्छति—संस्थापनायेति त्रिभिः । सम्यक् स्थापनाय लुप्तस्य प्रवर्तनाय वर्तमानस्य च विघ्नतो रक्षणाय चेत्य् अर्थः । न केवलं तद्-अर्थम् एव, किन्तु इतरस्याधर्मस्य प्रकृष्ट-शमाय सवासनोन्मूलनाय । अन्यथा धर्म-संस्थापनस्याप्य् असिद्धिः । हि प्रसिद्धम् । संरक्षणाय धर्मस्य इतीदृश-वचनेभ्यः । भगवान् इति तत एव भगवत्ता-प्रकटनम् अपि स्याद् इति भावः । अंशेन श्री-बलदेवेन सहेति । तत्र तत्राग्रहोऽपि दर्शितः । यतो जगताम् ईश्वरः प्रतिपालकः, अन्यथा जगन्-नाशापत्तिर् इत्य् अर्थः ।

श्लेषार्थश् चायम्—धर्मस्य भक्ति-विरुद्धाशेष-धर्मस्य संस्थापनं तस्मै प्रशमाय अत्यन्त-नाशाय तादृश-धर्माधर्माभावेनैव रास-क्रीडादि-महा-लीला-सिद्ध्या निजावतार-मुख्य-प्रयोजन-सिद्धेः ।

ननु तर्हि स्व-कृत-वेदादि-निबन्धातिक्रमः स्यात् ? तत्राह—जगतां ब्रह्मादीनाम् अपीश्वरः परम-स्वतन्त्रोऽयं कदाचिद् रस-विशेषापेक्षया तादृशम् अपि कुर्यात्, तत्रास्य को नाम नियामकोऽस्त्व् इत्य् अर्थः ।

यद् वा, धर्मो मद्-भक्ति-कृत् प्रोक्तः [भा।पु। ११.१९.२७] इत्य्-आदि-न्यायेन भक्ति-लक्षणो धर्मस् तस्य, इतरस्य तद्-व्यतिरिक्ताशेषस्य मोक्षादेर् अपि अत्यन्तोपरमाय, यतो जगत्-प्रतिपालको विघ्न-विनाशन-पूर्वकेण भक्तेः सम्यक् स्थापनेनैव सर्वेषां स्वतः सुख-सर्वार्थ-सम्पत्त्या जगत्-पालनासिद्धेः ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वंशी-सञ्जल्पित-मनु-रतं राधयान्तर्धि-केलिः प्रादुर्भूयासनम् अधिपटं प्रश्न-कूटोत्तरं च । नृत्योल्लासः पुनर् अपि रहः-क्रीडनं वारि-खेला कृष्णारण्ये विहरणम् इति श्रीमती रास-लीला । एवं सुख-विशेषेणैव मुनीन्द्रेण प्रश्नस्य विस्तार्य च वर्णितायाः श्रवणाद् राज्ञोऽपि तत्र तत्र सुखोद्बोधे एव जात इति लभ्यते, न तु दोष-दर्शनं वैरस्यापातात् तस्मात् तत्रत्यानां केषाञ्चित् सन्देहं वितर्क्य तेषाम् एव हितार्थं तम् उत्थाप्य स्व-सन्देह-व्याजेन पृच्छति—संस्थापनायेति त्रिभिः । तत्राद्य द्वयं युग्मकं संस्थापनाय लुप्तस्य प्रवर्तनाय प्रवृत्तस्य रक्षणायेत्य् अर्थः । न केवलं तद्-अर्थम् एव किन्त्व् इतरस्य अधर्मस्य प्रशमाय सर्व-वासनोन्मूलनायेत्य् अर्थः । अन्यथा धर्म-संस्थापनस्याप्य् असिद्धिः स्यात् । हि प्रसिद्धम् । धर्म-संस्थापनार्थाय सम्भवामि युगे युगे [गीता ४.७] इत्य्-आदि-वचनेभ्यः । भगवान् इति तत एव भगवद्-भाव-प्रकटनम् अपि स्यात् इति भावः । अंशेन श्री-बलदेवेन सहेति तत्र तत्राग्रहो दर्शितः, यतो जगताम् ईश्वरः प्रतिपालकः । अन्यथा जगन्-नाशापत्तिर् इत्य् अर्थः । यद् वा, विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति न्यायेन यो जगद्-ईश्वरः, स्वयं तु पूर्णैश्वर्य-युक्त इत्य् अर्थः । तस्यान्य-कामना न सम्भवति इति भावः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषाम् एव तत्रत्यानां केषाञ्चित् तत्-तत्त्वम् अजानतां सन्देहं वितर्क्य कृपया तेषाम् एव हितार्थं तम् उत्थाप्य स्व-सन्देह-व्याजेन पृच्छति—संस्थापनायेति ॥२७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ न चैवं विस्मयः कार्यः भवता भगवत्य् अजे योगेश्वरेश्वरे [भा।पु। १०.२९.१६] इत्य्-आदिना प्रत्याख्यातो\ऽपि राजा श्रोतॄणां सन्देहोच्छेदार्थं पुनः पृच्छति संस्थापनायेत्य् आदि त्रिभिः ॥२७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं तावत् उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः इति श्री-कृष्ण-प्रियाणाम् उत्कर्ष-कथनेन श्री-शुको राज्ञो मनः-सन्तोषं कृतवान् इदानीं रास-लीला-श्रवणेन परमानन्द-पूर्णो\ऽपि सभायाम् उपविष्टानां बहु मुखानां कुतर्क-निष्ठानां व्रज-सुन्दरी-विलास-श्रवणेन परमानं परत्परं नेत्र-कूणनेन स्व-मनसि श्री-कृष्णस्य जीव-साम्यम् आशङ्कमानानां मुखाप्रसक्त्या तद्-अभिप्रायम् आलक्ष्य मुनीन्द्रं प्रष्टुम् अशक्तानाम् इङ्गितज्ञो राजा न्व् अयम् एव संशयम् उत्पाद्याक्षिपति संस्थापनायेति । धर्मस्य संस्थापनायेति धर्मस्य संस्थापनाय हैतुकैर् उत्सादितस्यान्वय-व्यतिरेकाभ्यां प्रामाण्य-दर्शनेन विद्वांस-योगि-वचनैर् आचरणेन दृढीकरणं संस्थापनं तत् प्रयोजनम् । इतरस्य दृष्टार्थवादिभिर् अतिबहिर्मुखैः कुतर्क-निष्ठैः प्रवर्तितस्याधर्मस्य प्रशमाय समूल-नाशाय सवासनस्योन्मूलनायेत्य् अर्थः । भगवान् प्रकटित-षड्-ऐश्वर्यो\ऽपि अंशेन बलदेवेन सह । यद् वा, अंशेन ज्ञान-बलैश्वर्यादिना सहावतीर्णः । यतो जगदीश्वरः जगतां ब्रह्मादि-स्थावर-जङ्गमानाम् ईश्वरो नियन्ता ये धर्म-मर्यादाम् उल्लङ्घयन्ति, तेषां सर्वेषां दण्डकर्ता धर्मातिक्रमे जग-धातो छेदापत्तेः । इदं तु धर्म-रक्षणम् अधर्म-निरसनं च सामान्यतो\ऽन्यावतार-कार्यं तद् उक्तं गीतायां—

यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । > अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥ [गीता ४.६] इति > ।

अवतारिणः श्री-कृष्णस्य कार्य-विशेषकः इति प्रश्नः कृष्णस् तु भगवान् स्वयम् इत्य् उक्तत्वात् तथापि विशेष-निर्धारणायाक्षेपः सामान्यतो धर्म-रक्षणादेर् अन्यावतारैर् एव चरितार्थत्वात् । स्वयम् एव कार्य-विशेषं निर्धारयति । श्री-कृष्णस्यावतारिणो धर्म-विशेषं रक्षणं प्रवर्तनं च अधर्म-विशेष-निरसनं च प्रयोजनं द्वयम् इत्य् अर्थः । धर्मो मद्-भक्ति-कृत् प्रोक्त इति श्री-मुखेनोक्तस्य धर्मस्य संस्थापनाय इतरस्य भक्त्य्-उपयोग-शून्यस्य प्रशमाय अभक्तेषु सञ्चारणाय भक्ति-विरुद्ध-धर्मस्य हेयत्वेन श्रूयमाणत्वात् अत्रोक्तं च—स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः इति ।

यद् वा, भगवान् सर्व-शक्ति-विशिष्टो\ऽत्र गोकुले\ऽवतीर्णः अंशेनान्यत्र जगतां ब्रह्माण्डानां नियन्ता प्रभुर् इत्य् अर्थः । ये अतिबहिर्मुखाः श्री-कृष्णे जीव-साम्यं पश्यन्ति तान् श्रावयित्वानुवदति राजा रास-क्रीडा-श्रवण-निर्वृतो\ऽपि संशय-रहितो\ऽपि तान् कुतर्क-निष्ठान् कर्तुं भगवत्य् अधर्मम् आरोप्य मुनीन्द्र-मुखात् श्री-कृष्णस्यैश्वर्यं स्थापयितुम् इदम् अनुपृच्छतीति तात्पर्यार्थः । स एव धर्म-संस्थापन-द्वारा अधर्म-निरसन-द्वारा जगत्-पालकः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ परीक्षित् सभोपविष्टाणां विविध-वासनावतां कर्मि-ज्ञानि-प्रभृतीनां हृदये सन्देहं समुत्थितम् आलक्ष्य तद्-उच्छेदार्थं पृच्छति संस्थापनायेति । इतरस्याधर्मस्य यः खल्व् अंशेन जगदीश्वरो विष्णुर् भवति स सव्यं भगवान् अवतीर्णः । यद् वा, अंशेन बलदेवेन सह प्रतीपं प्रतिकूलम् अधर्मं यदि च स्वैर-लीलयैवाचरद् इत्य् उच्यते । तदा ब्रह्म-शापम् अङ्गीकृत्य तत् फलं च कदाचिद् ईश्वरत्वे\ऽप्य् अङ्गीकरोति यथा तथैव पापम् अङ्गीकृत्य तत् फलम् अप्य् अवश्यम् अङ्गीकुर्याद् इत्य् आक्षेप इत्य् एकः प्रश्नः ॥२७-२८॥


॥ १०.३३.२८ ॥

स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता ।

प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतीपं प्रतिकूलाधर्मम् इत्य् अर्थः । आचरत् कृतवान् । न चेदम् अधर्म-मात्रं कलञ्ज-भक्षणादिवत् किन्तु महा-साहसम् इत्य् आह—पर-दाराभिमर्शनम् इति ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—धर्मापेक्षयाधर्म एव प्रतीप इति भावः । अत्राक्षिपति—न चेति । विष-दिग्ध-बाण-हृत-मांसं कलञ्जम् । किन्तु, अपि तु । हेतु-शून्यो धर्म-व्यतिक्रमः साहसः । अभिमर्शनम् अविचार्य-ग्रहणम् । ब्रह्मन्न् इति वेद-मूर्ते इत्य् अनेन सन्देह-हरणे सामर्थ्यं सञ्चितम् ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथं प्रतीपम् आचरेत् ? तद् एव किम् ? तत्राह—पर-दार-विमर्शनम् ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धर्मा एव सेतवो लोक-रक्षा-मर्यादाः । धर्म-वैदिक-निबन्धा वा तेषां वक्तृत्वाद् एव कर्ता । अन्यथा वाक्य-व्यवहारयोर् विसंवादेन लोकैर् अग्राह्यः स्यात् । किं च, अभितो रक्षिता तत्-प्रतिपक्ष-वधादिना बहुधा संवर्धनेन च पालकः पर-दाराभिमर्शण-रूपं प्रतीपं धर्म-सेतूनाम् एव धर्म-संस्थापनादेर् वा प्रतिकूलम् । ब्रह्मन् ! हे साक्षाद्-वेद-मूर्ते ! प्रतिपाद्य-चरणेन वेदातिक्रमाद् भवादृश-विप्र-कुलातिक्रमोपि स्यात् । तच् च ब्रह्मण्य-देवस्य तस्यायुक्तम् एव इति भावः ।

यद् वा, ननु तात ! तत्-कारणं कथं मया ज्ञातुं शक्यम्, ईश्वर-चेष्टितत्वात् ? इत्य् आशङ्क्याह—हे पर-ब्रह्म-रूपेति, सर्वज्ञत्वाद् इत्य् अर्थः ।

यद् वा, प्रतीपम् आचरद् इत्य् अधर्म उक्तवः । कृतोऽभिरक्षितश् चेत्य् अर्थः । तत्रोक्तः—मया परोक्षं भजता तिरोहितं [भा।पु। १०.३२.२१] इत्य्-आदिना कृतः । साक्षाद् एव रमणात् अभिरक्षितः, पुनः पुनर् आचरणात्, तेन लोके प्रवृत्ति-सम्भवाच् चेति । यद् वा, धर्मः प्रकर्षेण नाशितः, अधर्मश् च सम्यक् स्थापित इति ।

श्लेष-पक्षे—कथं केन प्रकारेणाचरत्, अपि तु न केनापीत्य् अर्थः । कुतः ? भक्ति-लक्षण-धर्म-सेतूनां वक्तृत्वादि-एतोर् इत्य् अर्थः । अतो निजावतार-मुख्य-प्रयोजन-भक्ति-विशेष-विस्तारणाय धर्माद्य्-अनादरो युक्त एव इति भावः । स च तत्-सेवकेष्व् अपि, तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदि-वचनाद् व्यक्त एव ।

यद् वा, प्रसिद्ध-धर्म-मर्यादानां वक्त्रादिर् अपि किम्-अर्थं प्रतिकूलम् आचरत्, रास-क्रीडया परम-भक्ति-प्रवर्तनेन तद्-एक-साध्य-धर्मस्यापि साफल्यार्थम् इति भावः । किं च, पराणां तद्-एक-भक्त्या श्रेष्ठानां दाराणां स्व-स्त्रीणाम् अभिमर्षणं भक्त्य्-अर्थम् अवतीर्णस्य सर्वापेक्षया भक्त-मनोरथ-पूरणं युक्तम् एवेति । किं च, “पर”-शब्देन अन्यदीय-भार्याणाम् एवाभिमर्षणं दोषः, तास् तदीया विशेषतः पराः सर्वतः श्रेष्ठा निज-पत्न्य एवेति सूचितम् इति ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स इति । पूर्वत्र यच्-छब्दस्याध्याहाराद् अन्वयः । धर्मा एव सेतवः । लोक-रक्षा-मर्यादाः धर्मे वेदिक-निबन्धा वा तेषां वक्तृत्वाद् एव कर्ता, अन्यथा वाक्य-व्यवहारयोर् विसंवादेन लोकैर् अग्राह्यः स्यात् । किं च, अभितो रक्षिता तत्-प्रतिपक्ष-वधादिना बहुधा संवर्धनेन च पालकः । पर-दाराभिमर्षण-रूपं प्रतीपं धर्म-सेतूनाम् एव । धर्म-संस्थापनादेर् वा प्रतिकूलम् । ब्रह्मन् हे साक्षाद्-वेद-मूर्ते ! प्रतीपाचरणेन वेदातिक्रमात् भवादृश-विप्रकुलातिक्रमोऽपि स्यात् । तच् च ब्रह्मण्य-देवस्य तस्यायुक्तम् एव इति भावः ।

यद् वा, ननु तत्-कारणं कथं मया ज्ञातुं शक्यम् ईश्वर-चेष्टितत्वाद् इत्य् आशङ्क्याह । हे सर्व-वेदात्मक ! सर्वज्ञत्वाद् इत्य् अर्थः । अन्यत् तैः ।

यद् वा, प्रतीपम् आचरद् इति अधर्मम् उक्तवान् कृतवान् अभिरक्षितवांश् चेत्य् अर्थः । तत्रोक्तिः—मया परोक्षं भजता तिरोहितं [भा।पु। १०.३२.२१] इत्य्-आदिना रहोऽपि पर-दारान् भजे इत्य् अनुवादात् कृतिः साक्षाद् एव रमणात् अभिरक्षा पुनः पुनर् आचरणात् तेन लोके प्रवृत्ति-सम्भवाच् चेति । स्वयम् अधर्म-कर्तृभ्योऽपि तस्य महा एव दोष-बन्ध आयातः ।

यद् वा, धर्मं प्रकर्षेण नाशितवान् अधर्मं च सम्यक् स्थापितवान् इति श्लेषेण स्वयं सिद्धान्तम् अप्य् आह—संस्थाप्नायेति धर्मस्य स्थापनं नाम सामान्यतः संस्थापनं तु तत्रैव शुद्ध-भक्ति-योगस्य सर्वातिक्रमितया स्थापनात् ।

स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । > सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः [भ।र।सि। १.२.९] इति > पाद्मादि-शास्त्रेभ्यः ।

तद्-अवतारस्य तन्-मुख्य-प्रयोजनत्वं चोक्तं प्रथमे श्री-कुन्ती-देव्या—भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [भा।पु। १.८.२०] इति । भक्ति-योग-विधानार्थम् अवतीर्णं त्वाम् इति टीका च । तद् धि तत्र विनाप्य् उपदेशं तत्-प्रभावेणैव भवति । तथेतरस्य तद्-विरुद्धस्य च स्वत एव नाशो भवतीति स तथा-भूतोषौ पर-दाराभिमर्शन-रूपं प्रतीपं कथम् आचरत्? अपि तु नैवाचरद् इति कुतो धर्म-सेतूनां सर्व-धर्माश्रय-भूतानां भक्ति-योग-भेदानां वक्तृत्वादि-हेतोर् इत्य् अर्थः । अतो निजावतार-मुख्य-प्रयोजन-भक्ति-विशेष-फल-प्रेम-विशेष-विस्तारणाद्य्-अर्थं तासां पति-सेवादि-धर्म-त्यजनेन अन्य-धर्माद्य्-अनादरो युक्त एवेति भावः । स च, तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदि-वचनात् साधन-दशायाम् अपि युक्तः, किम् उत तासाम् इति ।

यद् वा, स भगवान् जगदीश्वरश् चेत्य् एव वा प्रतीपत्वे हेतुः सर्वांशित्वाद् अन्तर्यामित्वाच् चेत्य् अर्थः । यद् वा, परे परम-स्व-शक्ति-रूपा ये दाराः स्वीय-रमण्यस् तद्-अभिमर्षणम् अपि कथं प्रतीपम् आचरत्, अपि तु नैवेत्य् अर्थः । यतः भवद्भिर् एवोक्तम्, कृष्ण-वध्वः [भा।पु। १०.३३.८] इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रतीपं विपरीतम् । तद् एव किम् ? तत्राह—पर-दार-विमर्शनं पर-स्त्री-सङ्ग इति बहिर्-अर्थः । वस्तुतस् तु परात्परा दारा स्वानन्द-शक्तयः दारयन्त्य् अविद्याम् इति दाराः ॥२८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : धर्म-सेतूनां धर्मा एव सेतवो जगद्-रक्षण-समर्हा मर्यादास् तासां वक्ता उपदेष्टा न केवलल्ं वक्तैव अपि तु कर्ता । तद् उक्तं गीतायां—उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहं [गीता ३.२८] इति पाषण्डिनां कुयुक्ति-खण्डनेन बलाद् धर्म-सेतु-विदारण-कर्तॄणां वधेन चाभितो रक्षिता । एवं बहुधा धर्मस्य रक्षकः प्रातिकूल्यं नास्ति । तथापि को गृहीष्यद् ऋषभस्य हि तत् प्रमाणम् इति दृष्टान्तेन तादृशाचरणेन लोकस्यानिष्टं भवेद् एवेति प्रतीपम् इत्य् उक्तम् । किं तद् इत्य् अपेक्षायाम् आह पर-दाराभिमर्शनम् इति । यत् महा-साहसम् इत्य् अर्थः । धर्मस्य वक्तृत्वं समक्षं दृष्टं—भर्तुः सुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया इत्य् उक्त्वा पति-शुश्रूषणं कथयित्वा रमणं साधितम् । अतो वक्तृत्व-कर्तृत्वयोर् विसंवादो जातः । वक्तव्य-विस्मृति-पूर्व-रमणस्याभितो रक्षणं जातम् इति । प्रतीपं कथम् आचरत् ? अभिप्रायाज्ञानात् पृच्छते न तु तत्र किञ्चित् प्रतिकूलम् अस्तीति । विरुद्ध-धर्मादि-करणत्वम् ईश्वरस्येति । तद् यथा धर्माधर्मयोर् ईश्वरे स्थिति-श्रवणात् एवं कथनम् अन्यद् एवाचरणम् अन्यद् एवेति ईश्वरे न किम् अपि विरुद्धम् इति । तथापि लोक-सङ्ग्रह-परस्येश्वरस्य संवेदनाचरणान्य् अन्यथात्वेन पृच्छाम इति भावः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३३.२९ ॥

आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् ।

किम्-अभिप्राय एतन् नः शंशयं छिन्धि सुव्रत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आप्त-कामस्य नायम् अधर्म इति चेद् यद्य् एवं कामाभावान् निन्दितं केनाभिप्रायेण कृतवान् इति पृच्छति—आप्त-काम इति ॥ २९ ॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिहरति—आप्तकामस्येति । यद्य् एवम् आप्त-कामत्वं तस्य तर्हि आप्त-कामत्वे निन्दिताचरणम् अनुचितम् इति को\ऽभिप्रायो यस्य स किम्-अभिप्रायः किम्-आशयवान् इत्य् अर्थः । एतम् आप्तकामत्वे निन्दिताचरण-रूपम्, न इति तत्रत्य-समाजापेक्षया बहुत्वम् । सुव्रतेति । ब्रह्मचर्य-निष्ठो\ऽपि मत्-कृपया ब्रूहीति सम्बुद्ध्य्-अभिप्रायः ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदुपतिर् इति धर्म-पर-यदु-वंशे\ऽवतीर्णत्वाद् अपि तथा कर्तुं नार्हतीति भावः । वै प्रसिद्धौ । एतम् इति कुत्राप्य् अन्यः संशयो नास्तीत्य् अर्थः । नः इति बहुत्वं सन्देह-वर्गाभिप्रायेण संशयम् इति आप्त-शिरो-मुकुट-मणेस् तस्य कृते दोष-शङ्का नास्त्य् एव, किन्तु शास्त्र-विरुद्धत्वेन तत्रास्माकं दार्ढ्याभावाच् चित्त-दोलनं स्याद् इत्य् अर्थः । सुव्रत ! हे ब्रह्मचर्य-निष्ठ ! इति भवादृशानाम् आचरित-विरुद्धं तत् तु जुगुप्सितम् एवेति । यद् वा, हे सदाचार-निष्ठेति अन्यथा भवद्-आदि-सम्मत-सदाचार-लोप इति भावः ।

श्लेष-पक्षे, पाण्डव-सम्बन्धिनां यदूनां पतित्वेन निज-प्रभुताम् अभिप्रैति इति दोषाभावो ध्वनितः । यद् वा, यदूनां भक्तानां पतिर् इति भक्त-वात्सल्येन धर्मातिक्रमार्हो\ऽपीत्य् अर्थः । जुगुप्सितं किं कृतवान् ? अपि तु नैव, किन्तु भक्त-वर्ग-सम्मतम् एवाकरोद् इत्य् अर्थः । कुतः ? आप्तो लब्धः कामो रास-क्रीडादिना निज-प्रेम-भक्ति-विस्तारण-मनोरथो येन सः । सर्व-साध्यतम-प्रेम-भक्ति-प्रवर्तनेन निन्दितानाचरणात्, प्रत्युत तेन साधु-वर्ग-सन्तोषणाद् एवेत्य् अर्थः । तथापि नः संशयं प्राय इति । तत्र केषाञ्चिच् छास्त्रार्थ-तत्त्व-विदां भक्ति-पराणां सद्-रसाभिषिक्तानां प्रेम-भक्ति-रसमय-तदीय-रास-क्रीडादौ संशयाभावात् ।

यद् वा, प्राये\ऽनशन-समये\ऽस्मिन्न् इति संशयस्यायोग्यतोक्ता । अतः शीघ्रं तच् छेदनम् अभिप्रेतम् । नः इति स्वीयत्वेन विपक्षाणाम् अपि ग्रहणम् । सहज-विनयादिना किं वा वाक्-चातुर्येण परम-विपक्षतादि-बोधनार्थम् । अतो दुर्बुद्दीनाम् एवात्रत्यानां हितार्थम् एव मया पृच्छ्यते, न च निज-सन्देहाद् इति भावः । अतः अभि अभयं यथा स्यात् तेभ्यो भयम् अकृत्वा तेषां संशय-शृङ्खलां छिन्धीत्य् अर्थः । सुव्रत ! हे भक्त्य्-एक-निष्ठेति॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदुपतिर् इति । कृत-तादृशाकर्तव्यश् चेत् परम-धार्मिकाणां यदूनां पतिर् अपि न स्यात् । एतम् इति कुत्राप्य् अन्यः संशयो नास्तीत्य् अर्थः । न इति बहुत्वं सन्देहे वर्गाभिप्रायेण । संशयं प्राप्त-शिरो-मुकुटाचरितत्व-शास्त्र-विरुद्धत्वाभ्यां चित्त-दोलनम् । सुव्रत ! हे ब्रह्मचर्यादि-निष्ठ इति भवादृशाम् आचरितं विरुद्धं तत् तु जुगुप्सितम् एवेति । यद् वा, हे सदाचार-निष्ठेति अन्यथा भवद्-आदि-सम्मत-सदाचार-लोप इति भावः ।

श्लेष-पक्षे, यदूनां भक्तानां पतिर् इति भक्त-कृपया कदाचिद् धर्मातिक्रमार्हो\ऽपीत्य् अर्थः । जुगुप्सितं किं कृतवान् अपि तु नैव किन्तु भक्त-वर्ग-सम्मतम् एवाकरोद् इत्य् अर्थः । कुतः ? आप्तो लब्धः कामो रास-क्रीडादिना निज-प्रेम-भक्ति-विस्तारण-मनोरथो येन सः । सर्व-साध्यतम-प्रेम-भक्ति-प्रवर्तनेन निन्दितान् आचरणट् प्रत्युत तेन साधु-वर्ग-सन्तोषणाद् एवेत्य् अर्थः । तथापि नः संशयम् इति साञ्जलि-कर-चालनेन तत्रत्य-सन्दिहान-वर्गाभिप्रायेण तच् च विनयेन प्राय इति तत्र केषाञ्चिच् छास्त्रार्थ-तत्त्व-विदां भक्ति-पराणां सद्-रसाभिषिक्तानां प्रेम-भक्ति-रसमय-तदीय-रास-क्रीडादौ संशयान्तराभावात् । अतो\ऽनवहितानाम् एवात्रत्यानां केषाञ्चित् हितार्थम् एव मया पृच्छ्यते, न च निज-सन्देहाद् इति भावः । तस्माद् अभि अभयं यथा स्यात् तेभ्यो भयम् अकृत्वा तेषां संशय-शृङ्खलां छिन्धीत्य् अर्थः । सुव्रत हे भक्त्य्-एक-निष्ठ ! ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आप्त-कामस्य जुगुप्सितेति प्रवृत्तिर् न स्यात् जुगुप्सितं तु केनाभिप्रायेण कृतवान् इत्य् अर्थः ॥२९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वै जुगुप्सितं विगतं जुगुप्सितं विजुगुप्सितं तद् एव वैजुग्पिसितं स्वार्थे\ऽण् ॥२९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : नन्व् आप्त-काम एवायं किं न भवेत् । जुगुप्सिते प्रवृत्ति-दर्शनाद् इति चेन् न काम-प्राप्तौ सत्यां निन्दते प्रवृत्तिं दृष्ट्वा को\ऽपि नोपलभेत् । ननु तद् अस्ति आप्त-काम इति रमापतित्वात् सर्व-सिद्धि-प्रदत्वाच् च । यदुपतिर् इति परम-धर्म-ईल-यदु-वंशजत्वात् । सद्-वंश-जातानां धर्मोपदेशेन पालकश् च किम् अभिप्रायो यस्य सः, केनाभिप्रायेण जुगुप्सितं निन्दितं वै निश्चयेन कृतवान्, परस्पर-विरुद्धार्थत्वात् । आप्त-कामत्व-निन्दित-कर्तृत्वयोः सामानाधिकरण्यं न सम्भवति । नन्व् ईश्वरस्य विरुद्ध-धर्माधिकरणत्वात् न किञ्चिद् असमञ्जसम् इति चेत् तथापि प्रयोजनं वक्तव्यं नैतल् लोक-हितं पूर्णत्वेन प्रयोजनाभावात् इति सन्दिहान् सर्वान् सङ्गृह्य प्रार्थयते । नो\ऽस्माकं सर्वेषाम् एतत् एतस्मिन्न् अर्थे संशयं छिन्धि । हे सुव्रत ! शोभन-सङ्कल्पो यस्य श्री-कृष्णस्य लीलाम् अन्तरेण नान्यत् कथनीयम् इति । यदीदम् अयुक्तं स्यात् तदा त्वया श्रद्धा पूर्वम् उक्तं न भवेत् । किं च, यदि वायम् अधर्मः स्यात् तदा तव कथने रुचिर् न स्याद् इति । लोकस्य कञ्चिद् भङ्गम् एव प्रतीयते\ऽतो\ऽभिप्रायो वक्तव्यः । वास्तवो\ऽर्थस् तु गोपीणां सङ्गत्या आप्ता लब्धाः कामा येन स यदुपतिर् इति । तद् उक्तं पाद्मे—

एते हि यादवा नित्यं मद्-गुणा एव भामिनि । > सर्वदा मत्-प्रियाः देवि मत्-तुल्य-गुण-शालिनः ॥

इति द्वारका-लीलाया नित्यत्वं कथितम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः इति मथुरा-लीलायाश् च नित्यत्वं सूचितम् इति । तत्रापि स्वकीय-सापेक्षत्वं सूचितम् । प्रायः किं जुगुप्सितम् अपि तु न यतः अभि भय-रहितम्, यथा भवति तथा कृतवान् । अतो मम संशयो नास्ति हेतु-वादिनां केषाञ्चिद् उपरोधेन पृच्छते । संशयं सन्देहं छिन्धीति॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमेश्वरस्य नायम् अधर्म इति चेत्, निन्दितम् इदं केनाभिप्रायेण चकारेति पृच्छति—आप्त-काम इति । तेन स्व-काम-पूरणार्थम् इदं कृतवान् इति प्रत्युत्तरं न दातव्यम् इति भावः । अवतारे,स्मिन्न् एतादृशं जुगुप्सितम् एव कर्तव्यम् इति चेद् अत आह—यदुपतिर् इति । परम-धार्मिकाणां यदूनां पतिस् तर्हि कथम् अभूद् इति भावः । न इति । न तु केवलस्य ममात्र संशयो\ऽस्तीत्य् अर्थः । तस्याप्तकामत्वे\ऽप्य् आत्मारामत्वे\ऽपि प्रेमानन्द-स्वरूपाभिस् ताभिः सोत्कण्ठं रमणं युज्यत एवेति ज्ञात-प्राय-रहस्य-सिद्धान्तत्वाद् इति भावः । सुव्रतेति सदाचार-परायणस्य तवाप्य् अस्याम् एव लीलायाम् अत्यावेश-दर्शनाद् एते संशेरत इति भावः ॥२९॥


॥ १०.३३.३० ॥

श्री-शुक उवाच—

धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परमेश्वरे कैमुतिक-न्यायेन परिहर्तुं सामान्यतो महतां वृत्तम् आह—धर्म-व्यतिक्रम इति । साहसं च दृष्टं प्रजापतीन्द्र-सोम-विश्वामित्रादीनां तच् च तेषां तेजस्विनां दोषाय न भवति ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साहसं परिहर्तुम् अपाकर्तुम् । सामान्यतः साधारण्येन । ईश्वराणां योगैश्वर्यवताम् । साहसं शास्त्र-विरुद्धाचारः । प्रजापतेर् ब्रह्मणो दुहितृ-गमनम्, इन्द्रस्याहल्या-गमनम्, सोमस्य गुरु-स्त्री-तारा-गमनं विश्वामित्रस्याभक्ष्य-मांसाशन-प्रवृत्तिः । आदीनां सप्तर्षीणां शव-भक्षणोद्योगः । अजीगर्तस्य पुत्र-विक्रयः, पराशरस्य दास-कन्या-सङ्गश् च ग्राह्यः । तच् च साहसम् । तेषां प्रजापत्य्-आदीनाम् । तेजीयसाम् इति हेतु-गर्भित-विशेषणम्, तप-आदि-प्रभावोद्भूत-तेजसा साहसस्य दग्धत्वाद् दोषाय पापाय नेति। तेजो बले प्रभावे च ज्योतिष्य् अर्चिषि रेतसि । नवनीते नले दुगे इति यादवः । तत्रोपयोगि-दृष्टान्तम् आह—वह्नेर् इति । न हि गो-ब्राह्मणादि-शरीरामेध्य-दाहेनान्नेर् ब्रह्म-हत्यादि-दोषो भवति तेजस्वित्वाद् इति भावः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ईश्वरस्य कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थस्य स्व-कृत-मर्यादोल्लङ्घनम् अपीश्वरत्वस्य परिपोषकम्, न खलु बाधकम् इति सिद्धान्तयति—धर्म-व्यतिक्रम इति । ईश्वराणां प्रजापतीन्द्रादीनाम् एव, किम् उत सर्वेश्वरेश्वरस्य श्री-कृष्णस्य । तत्र दृष्टान्तः—वह्नेः सर्व-भुज इति ॥३०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सहज-कृपालुतया शिष्य-स्नेहापेक्षया वा तदीयाक्षोपाभास-परिहार-पूर्वकं श्लेष-दर्शित-तदीय-सिद्धान्तितम् एव परिहरति । धर्मेति सप्तभिः ईश्वराणां कर्मादि पारतन्त्र्य-रहितानाम् इत्य् अर्थः । तेषां धर्म-व्यतिक्रमो यद् दृष्टाः यथा ब्रह्मादीनां दुहितृ-कामनादौ तथा साहसं निर्भयता च यद् दृष्टं तथा बृहस्पतेर् उतथ्य-पत्नी-गमनादौ तत् तच् च तेजीयसा तेषां न दोषाय प्रत्यवायाय । तत्र दृष्टान्तः—सर्व-भुजो वह्नेर् यथा सर्वभुक्त्वं न दोषाय नापावित्र्याय तद्वद् इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सहज-कृपालुतया शिष्य-स्नेहापेक्षया वा परिहरति—धर्मेति सप्तभिः । ईश्वराणां ज्ञाने भक्तौ च सामर्थ्यवतां भगवद्-भजनादिना कर्मादि-पारतन्त्र्य-रहितानाम् इत्य् अर्थः । धर्म-व्यतिक्रमो विशेषणोल्लङ्घनम्, यथा ब्रह्मादीनां दुहितृ-कामनादि । साहसं निर्भयता, यथा इन्द्रादीनाम् । यथा वह्निः सर्वं भुङ्क्ते भक्षयति दहतीति वा तथा तस्य सर्व-दाहेनापि यथाग्नेर् वधादि-दोषो न स्यात्, तद्वद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा धर्म-व्यतिक्रम एव साहसम् । त्व्-अर्थे च-कारः । अनीश्वएभ्यो भेदाय ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : धर्म-व्यतिक्रमो यद् दृष्टः, यथा—ब्रह्मादीनां दुहितृ-कामनादि । तथा साहसं निर्भयता च यद् दृष्टम् । यथा बृहस्पतेर् उतथ्य-पत्नी-गमनादि, तत् तच् च तेजीयसां तेषां न न प्रत्यवायाय, सर्व-भुजो वह्नेर् यथा सर्व-भुक्त्वं नापावित्र्यायेत्य् अर्थः ॥३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सिद्धान्तम् आह—धर्म-व्यतिक्रम इत्य्-आदि । ईश्वराणां धर्म-व्यतिक्रमो\ऽदृष्ट एव, कुत्रापि न दृष्ट एव । एवं साहसं सहसा कृतं च । ईश्वरैः कदाप्य् अधर्माचरणं न क्रियते, तथापि यदि दृश्यते, तदा तेजीयसां कर्तुम् अकर्तुम् अन्यथा कर्तुं सामर्थ्यं तेजः, तज्-जुषां धर्म-व्यतिक्रमो न दोषाय, गुणायैव । तैस् तु यत् क्रियते, तत्र निमित्तम् एष्टव्यं, न तु राग-प्राप्तं तत् । अतो धर्म-व्यतिक्रम इवासौ दृश्यते, न तु वस्तुतो धर्म-व्यतिक्रमः । अत्र दृष्टान्तः—वह्नेर् इत्य्-आदि । वह्नेर् अनलस्य यथा सर्व-भुजः सर्व-भोगाः क्विब्-अन्ते बहु-वचनम् । तस्य सर्व-भुक्त्वं यथा न राग-प्राप्तम्, अपि तु सहजम्, तथेदम् अपि तेनानुमन्तव्यम् । ईश्वरस्येयं लीला न धर्म-व्यतिक्रमः, ईश्वरस्य तत्-करणासम्भवात् । तेन नासां पर-दारत्वम्, नैतस्य च धर्म-व्यतिक्रम इति ग्रन्थार्थः । एतद् अग्रे स्फुटीभविष्यति । ईश्वराणाम् इति बहु-वचनं सर्वेश्वरत्वे तात्पर्यम् ॥३०॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं तावत् सामान्यतो\ऽन्यावतार-विरुद्धं कथं कृतवान् ? इति यद् आक्षिप्तं, तत् प्रौढि-वादेन श्री-शुकः परिहरति—धर्म-व्यतिक्रमेति । हेतु-वादिनाभिप्रायम् आलक्ष्य यद् आक्षिप्त तद् अङ्गीकृत्य सानुप्सये इव तद् उत्तरयति । ईश्वराणां देहादि-पारतन्त्र्य-रहितानाम् अप्य् अन्येषां धर्म-व्यतिक्रमो मर्यादा-लङ्घनं दृष्टम् । यथा ब्रह्मणा दुहितर्य् अभिलाषः कृतः । सोमेन बृहस्पति-पत्नी-स्वीकार इति अन्येषाम् अपि ईश्वर-तुल्यानां ज्ञान-भक्ति-बलेन मर्यादाम् अतिक्रम्य वर्तताम् अपि वर्तमान-धर्मोल्लङ्घनं दृष्ट-साहसम् अविद्यमान-करणे निर्भयत्वं च दृष्टं सहसाविचारेण क्रियमाणत्वात् ।

नन्व् एवं चेत् प्रत्यवाय-फलं कस्य न भवेत् इत्य् अत आह—तेजीयसाम् अति तेजस्विनां न दोषाय अधर्म-जनन-द्वारा न भवेत् । कर्म-दोष-दहन-समर्थानां हेतुर् अपि दोष-जनको न भवतीत्य् अत्र दृष्टान्तम् आह—सर्व-भुजो वह्नेर् यथा दोषो न भवति, तर्हि सर्वान् दहन् सर्वं भक्षयन् वह्निस् तद्-दोष-भाग् न भवेत् ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृतस्याप्य् अधर्मस्य फलम् ईश्वराणाम् अपि न भवेत्, किम् उत परमेश्वरस्य तस्येति प्रथम-प्रश्नोत्तरम् आह—धर्मेति षड्भिः । ईश्वराणां रुद्रादीनाम् अपि धर्म-व्यतिक्रमोऽधर्मो दृष्टः । साहसं साहस-हेतुक इत्य् अर्थः । न दोषाय न प्रत्यवायाय । वह्नेर् यथा सर्व-भुक्तं न दोषाय, नापवित्र्याय तद्वद् इत्य् अर्थः ॥३०॥


॥ १०.३३.३१ ॥

नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः ।

विनश्यत्य् आचरन् मौढ्याद् यथारुद्रोऽब्धि-जं विषम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि यद् यद् आचरति श्रेष्ठः [गीता ३.२१] इति न्यायेन अन्योऽपि कुर्याद् इत्य् आशङ्क्याह—नैतद् इति । अनीश्वरो देहादि-परतन्त्रः यथा रुद्र-व्यतिरिक्तो विषम् आचरन् भक्षयन् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राक्षिपति—तर्हि इति । अन्यः अतेजीयान् । एतत् साहसम् । जातु मनसापि किम् उत कायेन ? विनश्यति समूलं छिन्नो भवति । मौढ्यात् अज्ञानात् क्रोधाद्य्-उद्रेकतो वा । नश्यस्य् आश्व् आचरन् इति पाठस् तु विजय-ध्वजोक्तेः । तत्राशु पानोत्तर-क्षणम् एव, न तु विल्म्बेनेत्य् अर्थः । तर्हि यद् यद् आचरति श्रेष्ठः [गीता ३.२१] इति न्यायेनान्योऽपि कुर्याद् इत्य् आशङ्क्याह—अनीश्वरः निकृष्टो यथा रुद्र-व्यतिरिक्तः विषम् आचरन् भुञ्जानः सद्यो विनश्यति । रुद्रस् तु भुक्त्वा प्रत्युत नील-कण्ठत्वेन शोभते स्मेति भावः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अनीश्वरस् तु एवं कुर्वन् बाध्यते एवेत्य् आह—नैतद् इति । अत्र दृष्टान्तः—यथा रुद्रो जयते विषम्, अरुद्रो रुद्र-भिन्नो विषं कालकूतां पिबन्न् एव नाश्यति ॥३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतद् ईश्वराचरितं साहसं न सम्यग् आचरेत् । सम्यग् इत्य् अस्य निषेधे तात्पर्यम् । जातु कदाचिद् अपि तत्र च न मनसापि, किम् उत वाचा कर्मणा वा । हि हेतौ निश्चयेवा । विशेषेण समूलतया लोक-द्वय-दुःखित्वादि-प्रकारेण नश्येत् । मौढ्याद् ईश्वराणाम् ऐश्वर्यम् आतमनश् चासामर्थ्यम् अज्ञात्वेत्य् अर्थः । इति भक्षणे मौढ्यम् एव हेतुर् उक्तः । अन्यथा भक्षणाप्रवृत्तिः । अब्धिजं काल-कूटम् इत्य् अर्थः । परम-तीक्ष्णतया सद्य एव विनाशोऽभिप्रेतः । ईश्वरस् तु न नश्येद् एव, प्रत्युत ऐश्वर्य-विशेष-प्रकाशादिना शोभत एव, यथा नील-कण्ठत्वादिना श्री-महादेव इति भावः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्ह्य् अन्येषां का वार्ता ? तत्राह—नैतद् इति । एतद् धर्म-व्यतिक्रमादि-मयम् ईश्वराचरितं न सम्यग् आचरेत् । सम्यग् इत्य् अस्य निषेधे तात्पर्यम् । एकांशेनापि नाचरेद् इत्य् अर्थः । जातु कदाचिद् अपि तत्र च न मनसापि, किम् उत वाचा कर्मणा वा हि निश्चये। विशेषेण स-मूलतया लोक-द्वय-दुःखित्वादि-प्रकारेण नश्यति । मौढ्याद् ईश्वराणाम् ऐश्वर्यम् आत्मनश् चासामर्थ्यम् अज्ञात्वेत्य् अर्थः । इति भक्षणे मौढ्यम् एव हेतुर् उक्तः । अन्यथा भक्षणाप्रवृत्तिः स्यात् । अब्धिजं काल-कूटम् इति परम-तीक्ष्णतया सद्य एव विनाशोऽभिप्रेतः । ईश्वरस् तु न नश्येद् एव, प्रत्युत ऐश्वर्य-विशेष-प्रकाशादिना शोभते । यथा नील-कण्ठत्वादिना शिव इति भावः ॥३१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु तर्ह्य् अनीश्वरोऽप्य् एतद्-दृष्ट्या स्वाच्छन्द्यं कुर्वीतेत्य् आशङ्क्याह—नैतद् इत्य्-आदि । अनीश्वरः श्री-कृष्णाद् अन्यः कोऽपि मनसापि नैतत् साहसं समाचरेत् । जातु कदाचिद् अपि । आचरणे कः प्रतिबन्धः ? तत्राह—विनश्यतीत्य् आदि । मौढ्याद् आचरन् सन् नश्यत्य् आस्त शीघ्रम् एव । ईश्वरस् तु यद्य् आचरति तद् ऐश्वर्यातिशय-प्राकट्यं सर्व-लोक-हिताभिव्यक्तिश् चेत्य् आह—यथेत्य् आदि । यथा विषं कालकूटं जुषन् स्वैश्वर्यं प्रकटयाञ्चकार सर्व-हितं च । वस्तुतस् तु विष-भक्षणं धर्म-व्यतिक्रमः साहसं च, न तु तस्य तद्-राग-प्राप्तम्, अपि तु पर-स्वस्त्य्-अर्थे । न तु तद् विषम् अन्य-भोग्यं भवितुम् अर्हतीति प्रकृतेऽपि नैष धर्म-व्यतिक्रमः साहसं च—तासाम् अन्य-भोग्यत्वाभावात् । तज् जोषणं चास्य पर-स्वस्त्य्-अयनार्थं च । वक्ष्यति च—विक्रीडितम् [भा।पु। १०.३३.४०] इत्य्-आदि । अब्धिजं विषम् इति पाठे आचरन् भक्षयन् । चरिर् भक्षणार्थेऽपि वर्तते ॥३१॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : नन्व् अग्नि-दृष्टान्तेन दोषाभावः, तर्हि लोकस्य कथं श्रेयोऽवाप्तिः ? तद् उक्तं—यद् वृत्तम् अनुतिष्ठन् वै लोक-क्षेमाय कल्पते इति चेत्, तत्राह—नैतद् इति । एतद् धर्मम् अतिक्रम-रूप-साहसं न सम्यग् आचरेत्, सम्यग् अतीव निषेधानादरेणेति । तत्र मनसापि न, किम् उत वाचा कर्मणा अपीति निश्चयेन । स्वयम् अनीश्वरो देहादि-परतन्त्रः मौढ्यात् ईश्वर-सादृश्य-भ्रान्त्या ईश्वरवत् सामर्थ्याभावात् ईश्वरे सामर्थ्य-ज्ञानात् आचरन् विशेषेण मूलतो नश्यति । यथा रुद्र-व्यतिरिक्तोऽब्धिजं विषं कालकूटाख्यम् अदन् सद्य एव म्रीयेत् । रुद्रस् तु अदन्न् अपि न नश्यति, प्रत्युत लोकोपकारकतया शोभत एव । एवं तादृश-सामर्थ्याभावे आचरन्तो मूढा ज्ञेया इति । अत एव जातु कदाचित् कौतुकेनापि ईश्वर-कृतं नाचरेत् ।

नन्व् एकम् एव कर्म कथम् अशुभ-जनकं, कथं वा शुभ-जनकम् ? तत्राह—अधिकारि-भेदेषु भेदाद् एव सर्वं घटत इति । रुद्रो\ऽब्धिज-विषम् इति । यथा काल-कूट-भक्षणेन लोकोपकारो\ऽपि जात इत्य् आह ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि यद् यद् आचरति श्रेष्ठः [गीता ३.२१] इति न्यायेनान्योऽपि कुर्याद् इत्य् आशङ्क्याह—नैतद् इति । अनीश्वरो निकृष्टो जीवो यथा रुद्र-व्यतिरिक्तो विषम् आचरन् भुञ्जानः सद्यो विनश्यति, रुद्रस् तु भुक्त्वा प्रत्युत नील-कण्ठत्वेन शोभते स्मेति भावः ॥३१॥


॥ १०.३३.३२ ॥

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।

तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं तर्हि सद्-आचारस्य प्रामाण्यम् अत आह—ईश्वराणाम् इति । तेषां वचः सत्यम्, अतस् तद् उक्तम् आचरेद् एव । आचरितं तु क्वचित् सत्यम् । अतः स्व-वचो-युक्तं तेषां वचसा यद् यद् युक्तम् अविरुद्धं तत् तद् एवाचरेत् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—कथम् इति । सदाचारस्य सद्भिर् आचरितस्य । अतो\ऽत्राक्षेपे । समाधानम् आह—ईश्वराणाम् इति । सत्यं परमार्थत्वेनाभीष्टदम् । अतः सत्यत्वात् । तद् उक्तम् ईश्वरोक्तम् । वचस एव सत्यत्वे—कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम् इति विधानस्य का गतिस् तत्राह—आचरितं तु क्वचिद् इति । हास्यादि-निवृत्त्य्-अर्थं क्वचिद् इति । वैदिक-मार्ग-प्रदर्शनार्थं यद् आचरणं तत् सत्यम् एव । अतः क्वचित् सत्त्वाद् एव स्व-वचो-युक्तं स्व-शब्देनेश्वर-ग्रहस् तथैव विगृह्णाति तेषाम् ईश्वराणां वचसा वचनेन वेद-रूपेण यद् यद् आचरणं युक्तम् अविरुद्धं तत् तद् आचरणम् ईश्वराणाम् अपि कुर्याद् इत्य् अर्थः ।

यद् वा, येषाम् ईश्वराणां यत् स्व-वचः स्व-वचनं युक्तं वेदाविरुद्धम्, विद्वांसस् तद् आचरेत् स्वीकुर्याद् वेद-विरुद्धं तु भक्त-परतन्त्रतयेश्वरस्यान्यथाचरणम् अपि कदाचिद् भवात् तन् न ग्राह्यम् इति भावः । अत एवोक्तं देवल-बोधायन-कौशिकैः—

कृतानि यानि कर्माणि दैवतैर् मुनिभिस् तथा । > नाचरेत् तानि कर्माणि श्रुत्वा वापि न कुत्सयेत् ॥ > तद् उक्तं तु सदा कार्यम् आम्नायानुगतं यदि । > स्मृतेर् वेद-विरोधित्वे परित्यागो यथा भवेत् ॥ > तथैव लौकिकं वाक्यं स्मृतेर् बाधात् परित्यजेत् । > वन्दिकस्य परित्यागात् प्रायश्चित्ती भवेन् नरः । > लौकिकं तु परित्याज्यम् ईश्वरोक्तं भवेद् यदि ।\ > यद् वेदेन विरुद्धं स्यान् न ततः किल्बिषी पुमान् ॥

इति निर्णय-सुधाकरादौ बहुधा वर्णितम् इत्य् उपरम्यते । किं च—अतर्क्याः खलु ये भावा न तांस् तर्केण योजयेत् इति श्रुतेर् अपीश्वराणाम् अचिन्त्य-भावत्वात् तत्र तर्को\ऽकिञ्चित्कर एवात ईश्वरे श्रुत्या तर्को निषिद्ध इति ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वकीयेन वचसा युक्तम् इति स्व-शब्देन कदाचित् प्रेम-परवशतयोन्मत्तवद् उच्यमानम् आचार-विसंवादि-वचो व्यावर्तितम् । बुद्धिमान् इति तत् तद् विचार्येत्य् अर्थः । अन्यथा निर्बुद्धिर् एवेति भावः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वच आज्ञा सत्यं प्रामाण्येन ग्राह्यं स्व-वचनेनाविरुद्धम् इति स्व-शब्देन तेषाम् एव तथा विचाराद् आज्ञाया बलवत्तरत्वं व्यञ्जितं बुद्धिमान् इति तत् तद् विचार्येत्य् अर्थः । अन्यथा निर्बुद्धिर् एवेति भावः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वच आज्ञा सत्यं प्रमाणम् ॥३२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपि च ईश्वराणां वाग्-आचरितादीनां सत्यत्वम् एवेति तच् चरितम् अप्य् अनीश्वरः कुर्यात् ? न्त्य् आह—ईश्वराणाम् इत्य्-आदि ईश्वराणां स्वतन्त्राणां ब्रह्मादीनां वच एव सत्यं न चाचरितम् । क्वचित् कुत्रापि ईश्वरेश्वरे श्री-कृष्णे आचरितं च सत्यम्, सत्य-लीलत्वात् । तेषाम् ईश्वराणाम् ईश्वरेश्वरस्य च यद् ईहितं स्व-वचो-युक्तं श्रुति-सिद्धम्, तद् एव बुद्धिमान् आचरेत्, न तु सत्यत्वेन सर्वम् एव तद्-ईहितत्वम् आचरेत् । वचस् तु सर्वम् एवाचरेत्, ईश्वर-वचस्त्वात् ॥३२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु कथं सदाचारस्य प्रामाण्यम् इति चेत् तत्राह—ईश्वराणाम् इति । ईश्वराणां भक्ति-ज्ञान-लब्ध-सामर्थ्यानां तद् उक्तं गीतायां—

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । > सर्गे\ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२]

तादृशानां लब्ध-भगवत्-प्रसादानां तेषाम् आज्ञा-रूपं च एव सत्य आचरन्ति तु क्वचिद् एव वचनांशादि चेद् भवति तदा सत्यम् एव तथेश्वरे धर्माधर्म-ज्ञानाज्ञानैश्वर्यानैश्वर्य-वैराग्यावैराग्यादयो धर्मा दृश्यन्ते । तथेश्वर-धर्म-विशिष्टानाम् अन्योन्यम् अपीष्टानिष्ट-हेतवो न भवन्त्याशयेनोक्तम् । आचरितं किञ्चिद् एव सत्यम् इति तैर् उक्तम् आचरेत् । तेषां स्वच्छन्दाचरितं नाचरेत् । ते ह्य् अन्यथा वदन्ति । नयार्थ-वचनम् आभ्याधिकारिषु न सत्यम् इति विचार्य बुद्धिमान् तत् स्वाधिकारार्हं समाचरेत् अन्यथानिष्ठ-हेतुर् एव भवेद् इत्य् अर्थः ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं तर्हि सदाचारस्य प्रामाण्यम् अत आह—ईश्वराणाम् इति । सत्यं सद्भ्यो हितं क्वचित् दशरथ-पुत्रत्वे सतीत्य् अर्थः । तस्माद् इयं व्यवस्थेत्य् आह—स्व-वचो-युक्तम् अविरुद्धं तद् एवाचरेत् । बुद्धिमान् इति तत्रापि विचार्यैव । तद् असौ बध्यतां पाप आतताय्यात्म-बन्धुहेति भगवतो वचो\ऽप्य् अर्जुनेनाश्वत्थाम-वध-विधायकं न पालितम् इति ॥३२॥


॥ १०.३३.३३ ॥

कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते ।

विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि तेऽपि किम् एवं साहसम् आचरन्ति तत्राह—कुशलेति । प्रारब्ध-कर्म-क्षपण-मात्रम् एव तेषां कृत्यं नान्यद् इत्य् अर्थः ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् ईश्वरेष्व् आक्षिपति—नन्व् इति । ते\ऽपि ईश्वरा अपि । तत्र ईश्वर-साहसे तेषाम् ईश्वराणाम् । ईश्वर-शब्दार्थस् तूक्त एव । इत्य् अर्थः इति प्रारब्ध-प्रतीक्षका एव विद्वांसो न तु कर्मासक्ताः किञ्चित् कुर्वतीत्य् आशयः । श्लोकार्थस् तु—कुशलानां तपो-दान-यज्ञादीनाम् आचरितेन करणेनार्थः प्रयोजनं स्वर्गादि-सुखं नास्ति । विपर्ययेण पर-स्त्री-सङ्ग-सुरा-पानादिनानर्थो नरकादि-लक्षणो न । निरहङ्कारिणाम् इति हेतु-गर्भं विशेषणम् । निरहङ्कारित्वाद् इत्य् अर्थः । अहङ्कारः कर्मस्व् आसक्तिः स एव बन्ध-कारणम् । तेषाम् अनासक्तत्वाद् बन्धो नास्तीत्य् आशयः ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथम् ईश्वरः स्वातन्त्र्यं करोति ? सत्यं स्वतन्त्रस्य नियन्तुम् अश्कयत्वात् लीलैवेयम् इति दर्शयति—कुशलाचरितेनैषाम् इत्य्-आदि । एषाम् ईश्वराणां रुद्रादीनां कुशलाचरितैर् इत्य् अर्थः । विपर्ययेण विरुद्धाचरणेनानर्थः उभयम् एव न विद्यते, यतो निरहङ्कारिणाम् अहं करोमीत्य् अहम्-भाव-रहितानाम्, अहंभाव एव लिप्ततायां हेतुः । प्रभो इति साक्रोश-सम्बोधनम् । एतावद्भिर् महिमभिः श्रुतैर् अपि तत्र पूर्व-पक्षः क्रियते अहो\ऽति प्रभुत्वम् इति ॥३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुशलं पुण्यं तस्याचरितेनानुष्ठानेन एषाम् ईश्वराणाम् । च-काराद् अमुत्रापि । अर्थः फलम् । विपर्ययेण पापेनेत्य् अर्थः । वा-शब्दः समुच्चये । अनर्थो\ऽपि नास्ति । कुतः ? निरहङ्कारिणाम् अहङ्कारिभ्यो व्यतिरिक्तानाम् अहङ्काराभावेन कर्म-निरालेपाद् इत्य् अर्थः । प्रभो हे बोद्धुं समर्थ ! एतत् त्वया सम्यग् बुध्यत एवेत्य् अर्थः । यद् वा, तस्यापीश्वरत्वाभिप्रायेण सम्बोधयति—हे ईश्वरेति ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च-काराद् अमुत्रापि, वा-शब्दः समुच्चये । अनर्थो\ऽपि नास्ति । कुतः ? निरहङ्कारिणाम् अहङ्कारिभ्यो व्यतिरिक्तानाम् अहङ्काराभावेन कर्मभिर् अलेपाद् इत्य् अर्थः । प्रभो हे बोद्धुं समर्थ ! एतत् त्वया सम्यग् बुध्यत एवेत्य् अर्थः । यद् वा, तस्यापीश्वरत्वाभिप्रायेण सम्बोधयति—हे ईश्वरेति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निरहङ्कारिणाम् अनावेशिनाम् । तथापि तत्-तत्-करणं प्रारब्ध-वशाद् एवेति भावः ॥३३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यच् च ईश्वर-मात्रस्यैव रुद्रादेः स्वातन्त्र्याद् भद्राभद्र-करणे\ऽर्थानर्थौ न स्तः, निरहङ्कारत्वात् । ईश्वरेश्वरस्यास्य तु किम् इत्य् आह—कुशलाचरितैर् इत्य्-आदि द्वाभ्याम् । एषाम् ईश्वराणां रुद्रादीनां कुशलाचरितैः पुण्य-कर्मभिर् इह लोके अर्थ इष्ट-सिद्धिर् न विद्यते, विपर्ययेणाकुशलाचरितैर् अनर्थो\ऽनिष्टोत्पत्तिश् च न विद्यते । तत्र हेतुः—निरहङ्कारिणाम् ॥३३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु यथान्यस्मै ते कथयन्ति तथा स्वयम् अपि किम् इति नाचरन्तीति चेत् तत्राह—कुशलेति । एषाम् ईश्वराणां कुशलाचरिते इह लोके कञ्चन स्वार्थो न विद्यते स्वत एवानन्द-पूर्णत्वात् विपर्येणाकुशलाचरितेनानर्थो\ऽपि न विद्यते, यतो निरहङ्कारिणां साहङ्कारस्येदं विधि-निषेधि-बोधक-वेद-नियम्यत्वं नान्यस्येति भावः । यथा विहित-कर्मण इष्ट-भावस् तथा निषिद्ध-कर्मणानिष्टाभाव इति । कुशलाकुशलयोः कर्तृत्वाभिमान-शून्यानां कर्मभिर् लेपो न शङ्कनीय इति भावः । हे प्रभो स्व-मनसि बोद्धुं समर्थेति । यद् वा श्री-कृष्णस्य सर्व-योग-विलक्षण-ज्ञापनार्थं सम्बोधनं हे प्रभो इति ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.३३.३४ ॥

किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् ।

ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम् आह—किम् उतेति । कुशलाकुशलान्वयो न विद्यत इति किं पुनर् वक्तव्यम् इत्य् अर्थः ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रस्तुतं प्रकृतम् । तिर्यङ्-मर्त्य-दिवौकसां पशु-पक्ष्यादि-नर-देवानां सर्वेषाम् ईशितव्यानां नियम्यानाम् ईशितुः नियामकस्य कुशलाकुशलान्वयः पुण्य-पाप-फल-लेपः इत्य् अर्थ इति—यदि तत्-कृपा-कटाक्षावाप्त-ज्ञान-निर्गताहङ्काराणां कुशलाकुशल-फल-सम्बन्धो न तर्हि सर्व-नियन्तुर् भगवतः कथं स भवेद् इत्य् अर्थः । प्रस्तुतम् आह—किम् उतेति ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद् उक्तम् इदं तत् सर्वम् ईश्वरत्व-सामान्यवताम् एव किम् उत ईश्वरेश्वरस्य श्री-कृष्णस्येत्य् आह—किम् उतेत्य् आदि । अखिल-सत्त्वानां ब्रह्मादीनां स्वन्वान्तानाम् ईशितव्यानां व्याप्यानाम् ईशीतुर् व्यापकस्य सर्वेश्वरेश्वरस्य सर्व-कारण-कारणस्य श्री-कृष्णस्य कुशलाकुशलाचरणेनार्थानर्थौ अयं तु सिद्धान्तः ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो यद्य् एवं तेषाम् अपि निरहङ्कारिता-मात्रेणैवानर्थाभावस् तर्हि सर्व-जीव-हितार्थम् अवतीर्णस्य परमेश्वरस्य कुतो\ऽनर्थ-शङ्कापीति कैमुतिक-न्यायेन द्रढयन्न् आह—किम् उतेति । अखिल-सत्त्वानां सर्व-जीवानाम्, तिर्यग्-आदयः क्रमेण तामस-राजस-सात्त्विकाः ईशितव्यानाम् इति स्वभावत एव नियम्यानाम् इत्य् अर्थः । इति मुक्तानाम् अपि तद्-अधीनता ध्वनिता । कुशलाकुशले पुण्य-पापे ताभ्याम् अन्वयः सम्पर्कः । सर्व-नियन्तृत्वेन तस्य नियामकाभावात् परम-स्वतन्त्रत्वाच् च । एतद् एव हि परमेश्वरत्वं नामेति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, ईशितव्यानां तद्-भक्तानां च किम् उतेति ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो यद्य् एवं तेषाम् अपि निरहङ्कारिता-मात्रेणैवानर्थाभावस् तर्हि तेषाम् अपि हितार्थम् अवतीर्णस्य परमेश्वरस्य कुतो\ऽनर्थ-शङ्कापीति कैमुतिक-न्यायेन द्रढयन्न् आह—किम् उतेति । अखिल-सत्त्वानां तिर्यग्-आदयः क्रमेण तामस-राजस-सात्त्विकाः। ईशितव्यानां स्वभावत एव नियम्यानाम् इति मुक्तानाम् अपि तद्-अधीनता च सूचिता । त्व्-अर्थे च-कारः । ईशितव्यानां कुशलाकुशलाभ्यां पुण्य-पापाभ्यां यो\ऽन्वयः सम्पर्कः स किम् उत सुतराम् एव च विद्यते इति पूर्वेणान्वयः । सर्व-नियन्तृत्वेन नियामकाभावात् । एतद् एव हि परमेश्वरत्वं नामेति भावः । बलवत् सुष्ठु किम् उत स्वत्यतीव च निर्भर इत्य् अमरः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ईशितव्यानां कुशलाकुशलाभ्यां पुण्य-पापाभ्यां योऽन्वयः सम्पर्कः । स पुनर् ईशितुर् न विद्यत इति किम् उत सुतराम् एव नेति पूर्वेणान्वयः । बलवत् सुष्ठु किम् उत स्वत्य् अतीव च निर्भर इत्य् अमरः ॥३४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्य तु सर्वेश्वरेश्वरस्य पुनः किम् उतेत्य् आह—किम् उत किं पुनर् अस्य ईशितुः सर्वेश्वरेश्वरस्य ईशितव्यानां लीलानां कुश्लाकुशलान्वयो भद्राभद्र-व्यवस्था सर्वैव लीला कुशल-रूपा इत्य् अर्थः । सर्व-मङ्गल-मङ्गल-चरितत्वाद् इति तु सिद्धान्तः । न तु गोपाङ्गना-परस्य धर्म-व्यतिक्रमस्य दोषोद्धार-पन्थाः, अयं तु धर्म-व्यतिक्रम एव न गोपीनां स्वानन्द-शक्तित्वात् तद्-अङ्ग-सङ्गस् तस्य स्वारसिक एव॥३४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु यदि ज्ञान-सहकृतेनाहङ्काराभाव-मात्रेण निष्ठाभावस् तदा ऐश्वर्य-सहकृतेनाहङ्काराभावेन लीला-स्वभावस्य कलित-लोक-हितार्थायावतीर्णस्य केयम् अनर्थ-शङ्कापीति कैमुत्य-न्यायेनाह—किम् उतेति । अखिल-सत्त्वानां कीटानां तिर्यङ्-मर्त्य-दिवौकसां तामस-राजस-सात्त्विकानाम् ईशितव्यानां नियम्यानां तत्-तद्-अधिकाराधिकृतानाम् ईश्वराज्ञयान्य-नियामकत्वम् उक्तं पार्षदानां कुशलाकुशलान्वयो नेति । तथा चोक्तम् अकुशलान्वयो\ऽपि अजामिल-प्रसङ्गे पार्षदैर् एव निर्णय-कृतः । परमेश्वरस्यान्य-नियम्यत्वाभावात् । कुशलाकुशलान्वयः पुण्य-पाप-सम्बन्धः किम् उतेति न शङ्कनीय इत्य् अर्थः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रस्तुतम् आह—किम् उतेति ॥३४॥


॥ १०.३३.३५ ॥

यत्-पाद-पङ्कज-पराग-निषेव-तृप्ता22

योग-प्रभाव-विधुताखिल-कर्म-बन्धाः ।

स्वैरं चरन्ति मुनयोऽपि न नह्यमानास्

तस्येच्छयात्त-वपुषः कुत एव बन्धः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव स्फुटीकरोति—यस्य पाद-पङ्कज-परागस्य निषेवणेन तृप्ताः । यद् वा, यस्य पाद-पङ्कज-परागे निषेवा येषां, ते च ते तृप्ताश् चेति भक्ता इत्य् अर्थः । तथा ज्ञानिनश् च न नह्यमाना बन्धनम् अप्राप्तवन्तः ॥ ३५



वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् एव कैमुत्यम् एव । स्फुटीकरोति प्रकटयति । तस्य ते पाद-संस्पर्शो मम भूयाद् अहर्-निशम् इत्य्-आद्य्-उक्तेर् भगवत्-सेवायां पशुम् ऋते तृप्तेर् अश्रवणाद् अस्वारस्याद् अर्थान्तरम् आह—यद् वेति । ते च तृप्ता हरि-सेवामृते\ऽन्य-विषयेषु प्राप्तालं-बुद्धयः । इत्य् अर्थ इति—अतृप्नुमः क्षुल्ल-सुखावहानाम् ऋते वयं कृष्ण-कथामृतौघात् इत्य्-आद्य्-उक्तेर् इत्य् अर्थः । मुनयो मनन-शीला ज्ञानिनश् च । तथा भक्तवत् । बन्धनं पुत्रादिषु स्नेहादि-रूपं कर्म-जन्यं वा । स्वैरं निर्बन्धाः । इच्छया निजया भक्तानां वा । [आत्त-वपुषः] स्वीकृत-मूर्तेस् तस्य श्री-कृष्णस्य बन्ध-हेत्व्-आसक्त्यादेर् अभावाद् बन्ध-शङ्कैव नोदेतीत्य् अर्थः ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किन्तु नैतत् पारदार्यं तस्येत्य् आह—यद् इति । यद् यस्मात् या गोप्य इत्य् अध्याहार्यं । तस्य श्री-कृष्णस्य इच्छया आत्त-वपुषो गृहीत-देहाः, वस्तुतस् तु ताः श्री-कृष्णस्य स्वानन्द-शक्तयः, आसां गोप-वधूत्वं तन्-नाट्यम् । अतः कुत एव बन्धः ? बन्ध-हेतवस् ता न भवन्तीत्य् अर्थः । आत्त-वपुषः सत्यः किं कुर्वन्ति ? तत्राह—यत्-पाद-पङ्कज-परागस्य पाद-पङ्कज-लग्नस्य स्व-कुच-कुङ्कुम-रजसो निषेव-तृप्ताः, निषेवणं निषेवो निस्यूत भावः । योगः श्री-कृष्णाङ्ग-संयोगः, तत्-प्रभावेन विधूता अखिल-कर्म-बन्धा यासाम्, अतस् तथाभूताः ।

यद् वा, योग-प्रभाव-विधूताखिल-कर्म-बन्धा इति मुनि-विशेषणम्, स्वैरम् अकुतो-भयत्वेन स्व-प्रकाशतया स्वाच्छन्द्येन वा चरन्ति, न खलु गोप-दारत्वेन । यथा मुनयो योगिनः । यतस् ते\ऽपि नह्यमाना बध्यमाना अर्थात् प्रारब्ध-कर्मणा, एतास् तु न तथा अतो\ऽभूः पर-दारा एव न भवन्ति ॥३५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परागेति । अतिनम्रत्वेन सेवया भक्ति-विशेषो दर्शितः । नितरां सेवेति नि-शब्दः स्वभावत एव तेषां सेवासक्त्य्-अभिप्रायेण । यद् वा, परागेति दूर-सेवाभिप्रेता । नि-शबेन च स्वल्प-मात्र-सेवोक्ता, तथापि तन्-माहात्म्येन दृप्ता निर्भयत्वादि-दर्प-युक्ताः । अत एव स्वैरं चरन्ति विधि-निषेधानादरेण स्वच्छयैव कर्माणि कुर्वते, यतो न नह्यमानास् तैर् अवध्यमानास् तत्रानासक्तेः । “तृप्ताः” इति पाठे ततोऽन्यत्र सन्तुष्टा अनन्यापेक्ष्या इत्य् अर्थः ।

किं च, योगो\ऽष्टाङ्गः समाधिर् ज्ञानं वा, तस्य प्रभावेण शक्त्या विशेषतो धूतश् छिन्नः । कर्मभिर् अनन्त-कोटि-जन्मार्जितैर् बन्धो बन्धनं तद्-रूपो वा बन्धो यैः, ते मुनयो\ऽपि । अपि-शब्देन भक्तेभ्यो मुनीनां न्यूनतोक्ता । अनेनैव श्रैष्ठ्याभिप्रायेण दृप्ता इत्य् उइक्तम् । इच्छया स्वच्छन्देनैवात्तं प्रकटितं वपुर् येन तस्येति परमम् इच्छया आत्तानि वपूंषि मत्स्य-कूर्मादि-मूर्तयो येनेत्य् अवतारित्वेन परमैश्वर्यम् उक्तम् । अतः कुत एव बन्धः ? अपि तु न कथम् अपि स्याद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, योगो भक्ति-योगः, मुनयो\ऽपि किम् उत प्रथमत एव भक्तिमन्त इत्य् अर्थः । अथवा किं वक्तव्यम् ? भक्ता इति योगिनो\ऽपि । किं वक्तव्यम् ? योगिन इति कर्म-परा अपीत्य् एवं त्रिविधा अपि ज्ञेयाः । अत्र मुनीनां प्रायो गार्हस्थ्येन कर्म-परत्वम्, तथापि स्वैराचरणं ज्ञानित्वाद् एव । ततश् च ज्ञानिन एव द्विविधाः—केचिद् योग-पराः, केचित् कर्म-पराः इति । एवं यथोत्तरम् एषां न्यूनत्वम् । अन्यत् समानम् । अप्य्-अर्थे -कारः । किं वक्तव्यं ? प्रियत्वेन तेषां तासां चेति सर्वेषाम् अपि तत्र संशय-निरासार्थम् एव-शब्दः ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव कैमुत्यान्तरेण स्फुटं दर्शयति—यद् इति । यत्-तदोर् अन्वयाद् योग-प्रभावेत्य्-आदेर् अपि तद्-अन्तः प्रवेशात्, यद् इति यस्येत्य् अर्थः । सुल्-लुक् छान्दसः । यद् यस्य पाद-पङ्कजयोः परागाणां कान्ति-परमाणूनां नितरां सेवनेन ध्यान-रूपेणानुशीलनेन तृप्ताः अन्यत्रालं-बुद्धयः, तत्-प्रेम-पूर्णा इत्य् अर्थः । यस्यैव योग-प्रभावेण भक्ति-योगाख्य-साधन-तेजसा विधूताखिल-कर्म-बन्धा ये ते चापि मुनयः स्वैरं स्वच्छन्दं यथा स्यात् तथा चरन्ति, विहितम् अविहितम् अपि कुर्वन्ति, तत्र नह्यमानाश् भवन्ति, तस्मात् तस्य कुत एव बन्धः ? अपि तु नास्त्य् एव बन्ध इत्य् अर्थः


तद् एव कैमुत्येन दर्शयित्वा विशेषण-विशेषाद् अपि तस्य बन्धाभावं दर्शयति—इच्छयेति । इच्छया इच्छा-मात्रेण, न तु जीववत् कर्म-पारवश्येन् आत्तं तद्-भक्ति-सम्बन्धात् प्रपञ्चे\ऽप्य् आनीतं वपुर् येन तस्येति । अतो भक्त-विशेषानुग्रहस्य दुर्वाससः पराभावनात् क्वचिन् मर्यादाम् अप्य् असौ लङ्घयतीति भावाह् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : योग-प्रभाव- इति ज्ञानिनो\ऽप्य् उक्ताः ॥३५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यदि वासौ कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थतया लोक-वेदातीत-चेष्ट एव भवति, तद् अपि किं तेनास्येति भगवन्-महिमानम् आविष्टं सन् कथयति—यत्-पाद-पङ्कजेत्य्-आदि । योग-प्रभाव-विधूताखिल-बन्धा अपि यत्-पाद-पङ्कज-पराग-निषेवण-तृप्ताः सन्तः स्वैरं चरन्ति लोक-वेदातीताः सन्तो विचरन्ति शुभाशुभ-कर्मभ्यां न नह्यमाना न बध्यमानाः । मुनयः कीदृशाः ? आत्त-वपुषो मोक्ष-नैरपेक्ष्येण भजनानन्दाद् गृहीत-देहाः, मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इत्य्-उक्तेः । तस्य श्री-कृष्णस्य कृत एव बन्धः ? यच्-चरण-सेवा बन्ध-च्छेदिका, तस्य स्वच्छन्दाचरणेन कुतो बन्धः ? इति ॥३५॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदम् एवार्थः कैमुत्य-विवरणेन स्फुटयति—यस्य पाद-पङ्कजयोः परागस् तस्य निषेवः, नि-शब्देन व्यवधानेनोपासनम् उक्तं, तेन तृप्तास् [तदिर्]{।मर्क्} अत्र हेय-बुद्धयः सेवा भजनं भक्तिर् इति पर्यायः । श्रवण-कीर्तनान्य् उत्तम-निष्ठा भक्ता इति यावत् भक्ति-सुख-निर्भरतया तद्-विश्वासेन च स्वैरं चरन्ति विधि-निषेधानादरेण स्वेच्छयैव कर्माणि कुर्वन्ति, न तु भक्ति-विरुद्धानि यथा नारदादय इति । तद् उक्तं पाद्मे—न कर्म बन्धनं जन्म वैष्णवानां च विद्यते इति । एकडशे\ऽपि तद् उक्तम्—

देवर्षि-भूताप्त-नृणां पितॄणां > न किङ्करो नायम् ऋणी च राजन् । > सर्वात्मना यः शरणं शरण्यं > गतो मुकुन्दं परिहृत्य कर्तम् ॥ [भा।पु। ११.५.४१]

अत एव न नह्यमानाः स्वेच्छा-कृतैः कर्म-भर-बध्यमानाः कस्याप्य् अनियम्याः सन्तश् चरन्ति । कीदृशाः ? योगो भक्ति-योगः, तत्-प्रभावेन असाधारण-शक्ति-वैभवेन विधुतः विशेषेण सवसनी धुतः च्छिन्नः अखिलानां कूट-बीज-प्रारब्धानां कोटिम् अत्रैव ।

स्व-पाद-मूलं भजतः प्रियस्य > त्यक्तान्य-भावस्य हरिः परेशः । > विकर्म यच् चोत्पतितं कथञ्चिद् > धुनोति सर्वं हृदि सन्निविष्टः ॥ [भा।पु। ११.५.४२] इति ।

अथवा मुनयो\ऽपि सनकादयः स्वेच्छया चरन्ति अपि नार्थस् तु गौणी क्रियते । कीदृशाः ? योगो\ऽष्टाङ्गः ज्ञान-योगो वा, तस्य प्रभावेन विधुतो विनष्टः अखिल-कर्म-बन्धो येषां ते । तद् उक्तं—ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते\ऽर्जुन [गीता ४.३७] इति । तस्येति अन्यत्रातीव-स्वातन्त्र्येण वर्तमानस्य इच्छया अन्या नियम्यत्वेन । यद् वा, भक्तानाम् इच्छया आत्तानि वपूंषि मत्स्यादि-रूपाणि येन । तद् उक्तं—यद्-यद्-धिया त उरुगाय विभावयन्ति तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय [भा।पु। ३.८.९] इति । मत्स्यादीनाम् अवताराणां तादृशेनैश्वर्य-पुरस्कृतं चेत् स्वातन्त्र्यं, तर्हि निरङ्कुश-महिम्नः परमावधि-भूतस्यावतारिणः श्री-कृष्णस्योच्चावचैः कर्मभिः कुतो बन्धः ? परम-कैमुत्योक्तिः पामराणां संशय-दूरीकरणार्थम् एव शब्दः । यत्-पाद-पङ्कजेति समान्यतो भक्तानां कर्म-बन्धाभावश् चेत्, तर्हि श्री-कृष्ण-जीवातु-भूतानां तत्-प्रियाणां कथं शङ्केति भावाः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-भक्ता अपि धर्माधर्माभ्यां न बध्यन्त इत्य् आह—यद् इति निषेवो नितरां सेवनम् । योगो भक्ति-योगः, तत्-प्रभावेण विधुतो\ऽखिलानां स्व-द्रष्टॄणाम् अपि कर्म-बन्धः, किम् उत स्वस्य । यैस् ते मुनयो मनन-शीला भक्ता अपि न नह्यमानाः बन्धम् अप्राप्नुवन्तः । तस्य तु निरङ्कुशया स्वेच्छयैव आत्तानि स्वीकृतानि वपूंषि पर-स्त्री-शरीराणि येन, तस्य ॥३५॥


॥ १०.३३.३६ ॥

गोपीनां तत्-पतीनां च सर्वेषाम् एव23 देहिनाम् ।

योऽन्तश् चरति सोऽध्यक्षः एष क्रीडन-देह-भाक्24

श्रीधर-स्वामी (भावार्थ-दीपिका) : पर-दारत्वं गोपीनाम् अङ्गीकृत्य परिहृतम् । इदानीं भगवतः सर्वान्तर्यामिणः पर-दार-सेवा नाम न काचिद् इत्य् आह—गोपीनाम् इति । योऽन्तश् चरत्य् अध्यक्षो बुद्ध्य्-आदि-साक्षी, स एव क्रीडनेन देह-भाक्, न त्व् अस्मद्-आदि-तुल्यो येन दोषः स्याद् इति ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वस्तुतो गोपीनां पर-दारत्वं नास्ति, गान्धर्व-विधानत्वेन परिणीतत्वात् । तथापि निर्बन्धेन गृह्यमाणं प्रति "तुष्यतु दुर्जनः" इति न्यायेन तद् अङ्गीकृत्य स्वीकृत्य परिहृतम्—यत्-पाद-पङ्कज [भा।पु। १०.३३.३४] इत्य्-आदिनोत्तरितम् । परमार्थ-विचारे भगवतः पारदार्यं नायातीत्य् आह—इदानीम् इति । न काचिद् न किञ्चिद् अपि । योऽन्तर्यामी, स कृष्ण एव । क्रीडनेन लीलया हेतुना । इह जगति । देह-भाग् आविष्कृत-देहः ॥ [इतः परं विश्वनाथस्य व्याख्यानुरूपम् इति।] ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एतद् एव बहिर्-मुखानां निग्रहाय स्पष्टयति—गोपीनाम् इति द्वाभ्याम् । एष क्रीडन-देह-भाक् क्रीडन-देहान् गोपी-देहान् भजतीति । तथा अध्यक्षः प्रत्यक्ष एवान्तर्यामी । अतः परत्वं किल तस्येत्य् अर्थः ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स इत्य् अनेनास्यान्वयः । एव एष साक्षाद्-भूतः। अध्यक्ष इति तद्-अंशत्वेन तत्-प्रेर्यत्वेन वा, तत्त्व-विचारस् तस्मिन्न् एव भोक्तृत्व-पर्यवसानात् । किं वा, अन्तर्यामित्वेऽपि मायावादिनाम् अद्वैत-व्याख्यानुसारेण पर-दारत्वाभावात् पर-दार-सेवा नास्तीति परिहृतम् । अत एव परमात्मत्व-सिद्धये सर्वेषाम् इत्य् उक्तम् । एष श्री-गोपी-रमणः क्रीडनेन इति लीलयेत्य् अर्थः । किं वा, क्रीडनेन हेतुना क्रीडार्थम् इत्य् अर्थः । देह-भाक् निज-श्री-मूर्ति-प्रकटकः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अध्यक्षः सर्व-चित्ताधिष्ठाता सर्वेन्द्रिय-प्रवर्तकश् चेत्य् अर्थः । अत एव अन्तश् चरति, एवम् अन्तर्यामितया सर्व-कर्मसु सर्व-प्रवर्तनेनापि यथा तस्य तद्-गुण-दोषैर् लेपो न स्यात् । किं वा, सर्व-कर्मस्व् अन्तर्यामि-दृष्ट्या प्रवृत्तेर् अन्येषाम् अपि तैर् लेपो यथा न स्यात्, तथात्रापीति भावः । तत्र गोप्य्-आदिष्व् अन्तर्यामिणः प्रकाश-तारतम्येन तेषां यथोत्तरं न्यूनतोह्या इति परमैश्वर्येण पूर्वोक्त-बन्धाभावे हेतुर् अभिव्यञ्जितः । विशेषतश् च रास-क्रीडार्थम् एव देह-भाक् प्रकटित-तद्-योग्य-श्री-गोप-किशोर-मूर्तिर् इत्य् अर्थः । प्रेम-रस-विस्तारणार्थम् अवतीर्णस्य तद्-अनुरूप एव व्यवहारो युक्तो नामेति सिद्धान्त-तत्त्वम् ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं गोपीनां पर-दारत्वम् अङ्गीकृत्यापि दोषः परिहृतः । तत्र च सति कुलटात्वं जारत्वं नापयाति, तन्-नाम न खलु धिक्-काराय परं पर्यवस्यतीति तद्-असहमानस् तासां तत्-पर-दारत्वम् एव खण्डयति । गोपीनाम् इति तैर् व्याख्यातम् । तत्र बुद्ध्य्-आदि-साक्षी परमात्मा इत्य् अर्थः । अतो न तस्य परो नाम कश्चिद् इति के वा पर-दाराः ? इति भावः ।

ननु स तु निराकार इति श्रूयते । तस्माद् आकारवत्त्वाद् अस्मद्-आदि-तुल्य एवासौ? न, तत्राह—स एव इति । एव-शब्दोऽयं चैवेत्य् अस्माद् आकृष्टः । अत्र च-शब्दः क्वचिन् नास्ति । क्रीडनेन स्वैरं तद्-इच्छयैव, न तु कर्म-पर-वशत्वेन हेतु-भाक्, तद्-उचिते देशे तद्-उचिते निज-देहे प्रवर्तक इत्य् अर्थः । अन्तर्यामितायाम् आकारापेक्षाया अभावाद् एव तत्र निराकारत्वम् उच्यते, न तु वस्तुतः ।

केचित् स्व-देहान्तर्-हृदयावकाशे > प्रादेश-मात्रं पुरुषं वसन्तं [भा।पु। २.२.८] इति द्वितीयोक्तेर् इति > भावः ।

न त्व् इति न त्व् अस्मद्-आदि-जीववत् परस्परम् अनात्म-कर्म-परवश[च्]{।मर्क्} चेत्य् अर्थः । एष क्रीडन-देह-भाग् इति "क्रीडनेनेह देह-भाक्" इति च पाठः ।

अथवा, यो गोप्य्-आदीनां सर्वेषां तत्-तद्-योग्यता-प्रदेन परमात्म-रूपेण अन्तश् चरति, स एव अध्यक्षस् तत्-तद्-अधिष्ठाता गोप्यः किम् आचरत् [भा।पु। १०.२१.९] इत्य्-आदिना, कात्यायनि महामाये [भा।पु। १०.२२.४] इत्य्-आदिना, अपि बत मधु-पुर्यां [भा।पु। १०.४७.२१] इत्य्-आदिना च व्यञ्जित-ताड्र्श-ममता-मय-भाव-विशेषाणां तासां तु पति-रूप एव अध्यक्ष इत्य् अर्थः ।

ननु, कथं परमात्म-रूपेण क्रीडाति ? कहं चानेन रूपेण क्रीडति ? तत्राह—एष बहिः-प्रकट-रूप एव, श्री-कृष्णस् तादृश-क्रीडा-साधनं देहं भजते, नित्यम् एवाश्रयति, न त्व् अन्तः-स्थः परमात्म-रूप इति । पाठान्तरेऽपि इह बहिः-प्रकट-रूपत्व एव इत्य्-आदि योज्यम् । एवम् उत्तरत्रापि । तद् एवम् अन्तर्यामित्व-पक्षे स्व-दारत्वस्यातिव्याप्ति-परिहाराय किञ्चिद् अन्यद् आहार्य व्याक्ःयातम् । तथापि विण्-मूत्र-परिपूरित-देहासु त्वक्-श्मश्रु-नख-

रोम-केश [भा।पु। १०.६०.४५] इत्य्-आदि-रुक्मिणी-वाक्यानुसारेण विशुद्ध-सत्त्व-व्यक्त-विशेष-मय-परम-ज्योतिर्-देहस्य तस्य प्रवृत्तिः, तज्-जुगुप्सितताम् एवावगमयति, न तु भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भा।पु। १०.३३.३७] इत्य् अनुसारेण रोचमानताम् । अत एव अन्तर्-गृह-गतानां कासाञ्चिद् असिद्ध-देहानां तद्-देह-परित्याजनं च निर्दिश्यते । न च सैरिन्ध्र्य्-आदाव् अपि तत्-प्रवृत्ति-दर्शनाद् अन्यथा मन्तव्यम्, मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा [भा।पु। १०.४२.८] इत्य्-आदिना स्पर्श-मणि-लोह-वृत्तान्तवत् ध्रुव-देहवच् च तद्-योग्य-देह-लक्षण-प्रमदोत्तमात्वं प्राप्य तत्-क्रीडन-योग्यता तत्र जातेति गम्यते । न चासाम् अपि तादृशत्वं मन्तव्यं, ताभिर् विधूत [भा।पु। १०.३२.१०] इत्य्-आदौ, प्रत्युत ताभिर् एव असाव् अधिकं व्यरोचत इत्य् उक्तत्वात् ।

किं च, नायं श्रियोऽङ्ग [भा।पु। १०.४७.५८] इत्य्-आदौ श्रीतोऽपि स्वर्-योषिद्भ्योऽपि पराभ्योऽपि

सर्वाङ्गनाभ्योऽर्हत्तमत्वे परत्वं चासां लभ्यते । यतः साधिक्षेपम् उक्तं कुतोऽन्याः ? इति तस्माद् आसां विलक्षणत्वावगमाद् विलक्षणत्वेनैव व्याख्यान्तरं कर्तव्यम् । तथा हि, गोपीनां तद्-विशेषाणाम् आसां तथा तत्-पतीनां सम्प्रति तासां पतित्वेन प्रतीतानाम्, तथा सर्वेषाम् अपि गोप-गवादीनां देहिनांयोऽन्तर् मध्ये चरति, जयति जननिवास [भा।पु। १०.९०.४८] इति दृष्ट्या, अहो भाग्यम् अहो भाग्यं [भा।पु। १०.१४.३२] इति रीत्या, योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति [गो।ता।उ। २.२३] इति तापनी-श्रुत्या च तन्-मध्य-योग्य-क्रीडाभिर् नित्यम् एव क्रीडति, श्री-कृष्णोऽध्यक्षः प्रापञ्चिकानां प्रकटः सन्न् अपि चरति तत्-तद्-योग्यम् एव क्रीडति । उभयथापि क्रीडायां हेतुः । एष श्री-कृष्णः क्रीडा-शीलः श्री-गोपाल-वपुः प्रकाशन-शील इति ।

यद् वा, स एव प्रापञ्चिक-प्रत्यक्षः सन्न् अपि क्रीडन-देहान् स्व-क्रीडा-हेतु-विग्रहान् गोप्य्-आदींस् तान् एव भजन् क्रीडति । पाठान्तरेऽपि क्रीडनेनोपलक्षितांस् तद्-रूपान् देहान् इति । तद् एवं तथैव नित्य-विहारात् ताषां तन्-नित्य-प्रेयसीत्वम् । ततस् तत्-प्रतिम-देहत्वं न दर्शितम् । तत्र परम-सम्बन्ध-वर्णनेन सन्देहं प्रकटयन्त्यां प्रकट-लीलायाम् अपि सुखावेशात् स्पष्टम् एवोक्तं तासु तद्-रूपत्वं स्वयं श्री-शुकदेवन अधोक्षज-प्रिया इति भगवत्-प्रिया इति कृष्ण-वध्वः [भा।पु। १०.३३.७] इति च । तापन्यां दुर्वाससा ताः प्रत्य् एव च—योऽसौ गोषु तिष्ठति [गो।ता।उ। २.२३] इत्य्-आदौ, स वो हि स्वामी भवति इति परम-सम्बन्ध-वर्णनेन सन्देह-रहितायाम् अप्रकट-लीलायां कैमुत्येन तद् एव निर्णीतम् । श्रीमद्-अष्टाक्षर-पटले श्री-ब्रह्मणा स्व-संहितायां—

आनन्द-चिन्-मय-रस-प्रतिभाविताभिस् > ताभिर् य एव निज-रूपतया कलाभिः । > गोलोक एव निवसत्य् अखिलात्म-भूतो > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८] इति ।

अत्र कलात्वेन निज-रूपत्व-प्राप्तेऽपि प्रकट-लीला-गत-परकीयत्वे सन्देह-निरासार्थम् । निज-रूपतयेति एतद् एव चोपक्रमोपसंहारयोस् तासु लक्ष्मीत्वस्य तस्मिन् परम-पुरुषत्वस्य निर्देशेन तथैव निर्धारितं तत्र चिन्तामणि-प्रकर-सद्मसु इत्य्-आदौ लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं [ब्र।सं। ५.२९] इत्य् उपक्रमः, श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवः [ब्र।सं। ५.५६] इत्य् उपसंहारः ।

तत्र चान्यत्र च । साक्षात् गोपी-शब्द-प्रधानाः श्रीमद्-अष्टादशाक्षर-प्रमुख-मन्त्राश् च तथैव वदन्त आसते । तथा च तत्-तन्-मन्त्र-व्याख्यायां गौतमीय-तन्त्रे । तत्-तन्-मन्त्र-द्रष्टारः श्रीमद्-देवर्षि-चरणाः तत्-प्रधानाः श्री-भगवतो नाम-धेयं बहिरङ्ग-दृष्टीनाम् अपि प्रवृत्त्य्-अर्थं रूढिम् अपि परित्यजन्तः सर्वेश्वरत्व-माया-स्वरूप-शक्त्योर् वैभव-भेदेन द्विधा निरुच्य तद्-ध्यान-गत-तद्-अन्तरङ्ग-प्रेयसी-भक्तानां प्रवृत्त्य्-अर्थं श्री-गोपाल-मूर्तेस् तस्य श्री-गोपाली-पतित्वम् एवाश्रित-रुचितया तत्राप्य् उत्तर-पक्षतया पर्यवसायितवन्तः । तत्र चैव-कारेण प्रकट-लीला-प्रसिद्ध-स्वौपपत्यं निराकृतवन्तः । यथा—

गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः । > अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः । > सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥ > अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् । > अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥ > कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥ > अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । > नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति ।

अत्रानेक-जन्म-सिद्धानाम् इति बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता ४.५] इतिवत् । तासाम् अनादि-काल-परम्परा-प्राप्त-श्रुति-पुराण-तन्त्रादि-प्रसिद्धावतारित्वम् एव व्यनक्ति, तस्माद् वस्तुतः पर-दारत्वम् एव नास्ति, किमि उतायोग्यत्वम् इति भावः ॥३६॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १७१) : तद् एवं स्वारसिक्य्-अप्रकट-लीला दर्शिता । अथ प्रकटाप्रकट-लीले25 द्वे अप्य् अर्थ-विशेषेणाह—गोपीनाम् इति । अन्तर् अन्तः-स्थितम् अप्रकटं यथा स्यात् तथा गोपीनां तत्-पतीनां च मायया प्रकट-लीलायां तत्-पतित्वेन प्रतीतानां26 क्रीडन-देह-भाक् सन् तेषाम् एव गोकुल-युवराजतया अध्यक्षश् च सन् यश् चरति क्रीडति, स एव प्रकट-लीला-गतोऽपि भूत्वा सर्वेषां विश्व-वर्तिनां देहिनाम् अपि क्रीडन-देह-भाक् सन्, तेषां पालकत्वेन अध्यक्षोऽपि सन् चरति । तस्माद् अनादित एव ताभिः क्रीडा-शालित्वेन सिद्धत्वात्27 तच्-छक्ति-रूपाणां तासां सङ्गमे वस्तुत एव पर-दारता-दोषोऽपि नास्ति


ततस् तेषां तत्-पतित्वं च, नासूयन् खलु कृष्णाय [भा।पु। 28१०.३३.३७] इत्य्-आदि-वक्ष्यमाण-दिशा, तेषां तासां च प्रातीतिक-मात्रं, न तु दैहिकम् । तादृश-प्रतीति-सम्पादनं च तासाम् उत्कण्ठा-वर्धन-पूर्वकतया सर्वोत्तर-निर्विघ्न-नित्य-सङ्ग-पोषार्थम् इति तत्-प्रकरण-सिद्धान्तस्य परा काष्ठा दर्शिता ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गोपीनाम् अत्र टीकानुसारेण श्री-भगवतः पर-दारा नाम न सन्तीति व्याख्यानेऽपि तासाम् अयोग्यत्वं न व्याहन्यत एषा व्याख्या ॥३६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यच् च गोपाङ्गनास् तस्य क्रीडा-पाञ्चालिका इव क्रीडा-देह-निर्विशेषास् तस्य भजनम् अस्य नहि बहिरङ्ग-लीलैव अन्तर्यामिता त्व् अस्य बहिरङ्ग-लीलैवेत्य् आह—गोपीनाम् इत्य्-आदि । स एष श्री-कृष्णः क्रीडन-देह-भाक् क्रीडन-देहा व्रज-देव्यस् ता भजतीति स्वरूप-निर्देशः । ताच्छील्ये क्विप् । अध्यक्षः साक्षात् प्रत्यक्ष इति यावत् । यो नारायण-रूपेणैव गोपीनां तत्-पतीनां च सर्व-देहिनां चान्तश् चरति इति अन्तर्यामी । गोपीनां पतयः पत्य्-आभासाः, तेषां सर्वेषाम् अपि देहिनां च । न तु गोपीनां सर्व-साधारण्येन अन्तर्यामित्वम्, आनन्द-विग्रहत्वात् । एतेनास्य व्रजाङ्गनाभिः सह क्रीडनं स्वरूप-विहार एव, न धर्म-व्यतिक्रम इति भावः ॥३६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पूर्वं गोपीनां पर-दारत्वम् अङ्गीकृत्य यत्-पाद-पङ्कज [भा।पु। १०.३३.३४] इत्य् आक्षेपः परिहारः कृतः, इदानीं परो नाम न कश्चित् येन गोपीषु पर-दारत्वं भवतीति सभायाम् उपविष्टानां केषाञ्चिद् बहिर्-मुखानां [मुखाप्रसतीं]{।मर्क्} दृष्ट्वा तस्यान्तर्यामितया स्त्री-पुं-साधारण-जीवानां मुख्य-पतित्वं प्रकटयन् उपाधि-धर्मासंस्पर्शित्वेन महद् ऐश्वर्यम् आह—गोपीनां तत्-पतीनां चान्तश् चरति, गोपीनां हृदि सदा स्वरूपेण प्रकाशते, तत्-पतीनां सर्वेषां देहिनां च शक्त्यान्तश् चरति । एव-कारस् तु नित्यानुवादे । तद् उक्तं श्री-मुखेन—साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहं [भा।पु। ९.४.६८] इति । अत्र स्वरूपोक्तिर् अन्यत्र धर्मेणेति । अत एव अध्यक्षो बुद्ध्य्-आदि-साक्षी । अनेन परमात्मत्वम् उक्तम् ।

नन्व् एवं बुद्ध्य्-आदि-साक्षीत्वं चेत्, तर्हि निराकारत्वेन प्रतीतिः ? नेत्य् आह—क्रीडनेन निमित्तेन रासादि-क्रीडार्थम् एव देह-भाक् । क्रीडा तु प्रिय-वर्ग-सापेक्षा क्रियेति । यथान्तर्यामितया सर्वदा हि सम्बन्धेऽपि सर्व-कर्म-प्रवर्तनेऽपि तत्-तद्-गुण-दोषैर् निर्लेपत्वम्, तथा सच्-चिद्-आनन्द-विग्रहस्योच्चावचः कर्मभिर् निर्लेपत्वम् इति भावः । यद् वा, योऽन्तश् चरति सोऽध्यक्षः प्रतीक्षः क्रीडने लीलया नटवन् मानुषं देहं भजते

ननु परमात्मा चेत्, तर्हि जुगुप्सितायाः सैरिन्ध्र्याः कथं सङ्गतः ? तत्र समाधास्यति— मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा [भा।पु। १०.४२.८] इति । श्री-विग्रहस्य बहिर्-अन्तश् चैक-रूपत्वं न लौकिकत्वं चोक्तम् । न ह्य् एतादृश-सामर्थ्यम् अन्यस्य भवितुम् अर्हतीति । सैरिन्ध्री-स्पर्शेऽपि निर्लेपत्वम् इति । यन् न चैतासां सैरिन्ध्री-साद्र्श्यम् ऊह्यम् ।

नायं श्रियो\ऽङ्ग उ नितान्त-रतेः प्रसादः > स्वर्-योषितां नलिन-गन्ध-रुचां कुतो\ऽन्याः । > रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- > लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा।पु। १०.४७.६०] इति > ।

अन्यथोद्धवेनासां चरण-रजः-प्रार्थना नोपपत्तेः । तस्माद् गोपीनां पर-दारत्वं न स्यात्, चान्य-देहि-सादृश्येन श्री-कृष्णस्योपपतित्वम् । सर्व-देहिनां सर्व-कर्म-प्रवर्तकत्वेन सर्व-कर्म-फल-भोक्तृत्वेन च मुख्य-पतित्वं सर्व-शास्त्र-समन्वयस्य पर्यवसानात् शास्त्र-फलं प्रयोक्त-रीति-न्यायस्य सत्त्वान् न किञ्चिद् असमञ्जसम् इति ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-तद्-दृष्ट्या तु सर्वान्तर्यामिणो भगवतो न केऽपि परे इत्य् आह—गोपीनाम् इति। योऽन्तश् चरति, तस्य बहिर्-आलिङ्गने को दोषः ? इति भावः । अध्यक्षो बुद्ध्य्-आदि-द्रष्टा, तस्य रहस्य-बहिर्-गात्र29-दर्शने को दोषः ? इति भावः । इह व्रज-मण्डले । क्रीडनेन हेतुना । देहान् गोपी-शरीराणि [भाक्] भजते रति-श्रम-प्रस्वेदाम्बु-मार्जनादिना सेवते ॥३६॥


॥ १०.३३.३७ ॥

अनुग्रहाय भक्तानां30 मानुषं देहम् आश्रितः31

भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं चेद् आप्त-कामस्य निन्दिते कुतः प्रवृत्तिः ? इत्य् अत आह—अनुग्रहायेति । शृङ्गार-रसाकृष्ट-चेतसोऽतिबहिर्मुखान् अपि स्व-परान् कर्तुम् इति भावः ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—नन्व् इति । एवं चेत् निःस्पृहस्यापि स्वेच्छा-विग्रहाङ्गीकारेऽपि । निन्दिते लीला-तात्पर्यानभिज्ञ-पुरुष-गर्हिते पर-दार-विनोदे । इत्य् अत इत्य् अत्र । तादृशीः शृङ्गारि-जनानन्द-दा रासादि-रूपा या लीलाः । स भगवान् एव परः परायणो यस्य तथा । इति भावः इति—भगवद्-अवतारस्य सर्व-लोक-हितार्थत्वेन शृङ्गारिणोऽपि सर्वान्तर्गता एव तद् उद्धर्तुम् एव भगवतः परिपूर्ण-कामस्य रास-लीलादौ प्रवृत्तिः—

भवेऽस्मिन् क्लिश्यमानानाम् अविद्या-काम-कर्मभिः । > श्रवण-स्मरणार्हाणि करिष्यन्न् इति केचन ॥ [भा।पु। १.८.३५] इति > प्रथम-स्कन्धोक्तेः ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भक्तानाम् अनुग्रहाय केवलं तादृशीः क्रीडा गोपीभिः सह विलासान् भजते, भक्तास् तु यच्-छ्रवणेन परम-सुखम् अनुभवन्ति । रस-वासनावन्तो हि भक्ता एतेनैव विहारेणामोद्यन्त, सामाजिकत्वात् । याः श्रुत्वा मानुषं देहम् आश्रित्यैव मनुष्य-मात्र एव, न तु विवेचकत्वादि-युक्तः, तत्-परो भवति । वक्ष्यति चैतत्—विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः [भा।पु। १०.३३.४०] इत्य्-आदि ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतद् एव प्रपञ्चयति—अनुग्रहायेति । यद् वा, अध्यक्षः प्रत्यक्षः सन् क्रीडनाय तत्-क्रीडार्थं देहम् अवतारो येषां गोपी-जनानां व्रज-जनानाम् एव वा तान् भजति रमयतीति तथा सः । अतस् तेषाम् अन्तर्-बहिश् चरतः क्रीडा-साधनत्वान् न तस्य क्रीडया कस्यापि दोषः प्रसज्जेद् इति भाव इत्य् एषा दिक् । अलम् अतिविस्तरेण । भक्तानाम् अनुग्रहाय—मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इत्य्-आदि श्रीमद्-भगवद्-वचनात् । मानुषं नराकारम् आश्रितः प्रकटितवान् सन् ।

यद् वा, प्रकटयामासेति वाक्य-समाप्तिः । इति भक्तानुग्रहार्थं तत्-क्रीडेत्य् अभिप्रेतम् । तत्र भक्त-शब्देन गोप्यो व्रज-जनाश् च सर्वे तथा काल-त्रय-सम्बन्धिनोऽन्ये च वैष्णवाः ।

यद् वा, भक्तानां मुख्या गोपिका एकोक्ताः, तथापि मुख्यानाम् औग्रहेणान्येषां सर्वेषाम् अनुग्रहःस् इध्येद् एव । अत एव क्रीडा भजते प्रीत्या सम्पादयतीत्य् अर्थः । श्लेषेण, भजतेऽनुसरति प्रकाशयति वेति । क्रीडानां नित्य-सिद्धत्वं सूचितम् । तेन चसर्व-दोषः स्वत एव निरस्तः । तादृशीर् अनिर्वचनीयाः सर्व-चित्ताकर्षिका इत्य् अर्थः । श्लेषेण रास-सदृश-क्रीडा-श्रवणेनापि तत्-परो भवेत्, किम् उत रास-क्रीदाम् इत्य् अर्थः । तच्-छब्देन भगवान् भक्ताः क्रीडा वा सर्वोऽपि जनो भवेत् ।

यद् वा, मानुषं देहम् आश्रितः सर्वोऽपि जीवस् तत्-परो भवेत् । मर्त्य-लोके श्री-भगवद्-अवतारात् तथा भक्ति-योग्य-साधनेन भजने मुख्यत्वाच् च मनुष्याणाम् एव सुखं तच्-छ्रवणादि-सिद्धेः ।

यद् वा, अपि-शब्दम् अवतार्य व्याख्येयम् । मानुषं देहम् आश्रितोऽपि, किं पुनर् मुनि-देवादय इति । ततश् च भक्तानुग्रहोऽयम् एवेति भावः । भूतानाम् इति पाठे सर्वेषाम् एव जनानां विषयिणां मुमुक्षूणां मुक्तानां भक्तानां चेत्य् अर्थः । इति परम-कारुण्यम् उक्तम् ।

एवम्, स कथं धर्म-सेतूनां [भा।पु। १०.३३.२७] इत्य् अनेन धर्म-विरुद्धं कथं कृतवान् इत्य् एकस्य प्रश्नस्य परिहारः, धर्म-व्यतिक्रमः [भा।पु। १०.३३.२९] इत्य्-आदिभिः, तथा आप्त-कामः [भा।पु। १०.३३.२८] इत्य् अनेन परिपूर्णस्य का तत्र स्पृहेति द्वितीयस्य अनुग्रहाय इत्यनेनेति विवेचनीयम् ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् आप्त-कामस्य कुतः क्रीडायां प्रवृत्तिः ? कुतस्तरां वा बहिर्-दृष्ट्या लोकावगीते तस्मिन् ? इत्य् अत आह—अन्व् इति । भक्तानाम् अनुग्रहाय—मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः इति पद्म-पुराणीय-श्रीमद्-भगवद्-वचनात् । मानुषं नराकारम् आश्रितः ब्रह्म-रूपेण सर्वाश्रयोऽपि स्वयम् आश्रयं कृतवान् इति तस्य पर-ब्रह्म-स्वरूपस्य परमाश्रयत्वं च दर्शितम् । एतद् उक्तं—दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहं [भावार्थ-दीपिका १०.१.१] इति । तथा च भगवद्-उपनिषद्, ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति । “आस्थितः” इति पाठेऽप्य् आदर-विषयः कृत इति स एवार्थः ।

स्वेच्छया मानुषं देहम् अधुनैव विरचय्याश्रित इति व्याख्यातुं न घटते, परत्र तत्र लोकेऽधिष्ठातृत्वेन कृष्णाख्य-नराकार-पर-ब्रह्मणः श्री-गोपैर् अनुभूतत्वात् । एवं भक्तानुग्रहार्थं तत्-क्रीडेत्य् अभिप्रेतम् । आप्त-कामत्वेऽपि भक्तानुग्रहो युज्यते । विशुद्ध-सत्त्वस्य तथा स्वभावात् यद्-भाव-भाविते चान्यत्र दृश्यतेऽसौ । तथा रहूगणानुग्राहके श्री-जड-भरत-चरिते, यथा वा भवद्-अनुग्राहके मयीति । तत्र भक्त-शब्देन व्रज-देव्यो व्रज-जनाश् च सर्वे काल-त्रय-सम्बन्धिनोऽन्ये च वैष्णवा गृहीताः । व्रज-देवीनां पूर्व-रागादिभिः व्रज-जनानां जन्मादिभिर् अन्येषां च तत्-तद्-दर्शन-श्रवणादिभिर् अपूर्वत्व-स्फुरणात् । अत एव तादृश-भक्त-सङ्गेन तादृशीः सर्व-चित्ताकर्षिणीः क्रीडा भजते, याः साधारणीर् अपि श्रुत्वा भक्तेभ्योऽन्योऽपि जनस् तत्-परो भवेत्, किम् उत रास-लीला-रूपाम् इमां श्रुत्वेत्य् अर्थः । वक्ष्यते च—विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः [भा।पु। १०.३३.४०] इत्य्-आदि ।

यद् वा, मानुषं देहम् आश्रितः सर्वोऽपि जीवस् तत्-परो भवेत् । मर्त्य-लोके श्री-भगवद्-अवतारात् तया भजने मुख्यत्वाच् च । मनुष्याणाम् एव सुखेन तच्-छ्रवणादि-सिद्धेः । «भूतानां » इति पाठे निजावतार-कारण-भक्त-सम्बन्धेन सर्वेषाम् एव जनानां विषयिणां मुमुक्षूणां मुक्तानां चेत्य् अर्थः । इति परम-कारुण्यम् एव कारणम् उक्तम् । तथापि भजन-सम्बन्धेनैव सर्वानुग्रहो ज्ञेयः । अन्यत् तैः । तत्र बहिर्मुखान् अपीति तत्-पर्यन्तत्वं विवक्षितम् । परम-प्रेम-पराकाष्ठा-मयतया श्री-शुकस्यापि तद्-वर्णनातिशय-प्रवृत्तेः । गोपीनाम् इत्य् अस्यार्थान्तरे त्व् एवं व्याख्यातम् ।

नन्व् एवम् अपि नित्यवद् गुप्तम् एव तथा क्रीडतु । किं प्रापञ्चिकेभ्यस् तत्-प्रकटनेन ? तत्राह—भक्तानां प्रपञ्च-गतानाम् अनुग्रहाय मानुषं देहं मर्त्य-लोक-रूपं विराड्-देहांशम् आश्रितः, तत्र प्रकटोऽभूद् इत्य् अर्थः । यस्य पृथिवी शरीरम् [बृ।आ।उ। ३.७.३] इत्य्-आदि-श्रुता । तत्रापि तच्-छरीर-शब्द-प्रयोगात् । मानुष-शब्देन तल्-लोक-लक्षितत्वाच् च । अन्यत् समानम् ।

अथवा, तत्-परो भवेद् इत्य् अत्र भक्तानां भूतानां बहुत्वान् न ते कर्तृत्वेन विपरिणामाद्य् अनुवर्तेरन् । व्याख्यान्तरे चाध्याहारादि-कष्टतापतेत् । भगवान् इति तु तत्र तत्र व्याख्यानेऽपि प्रकरणाद् एव लभ्यते । तस्मात् ताद्र्शीः क्रीडा असौ भजते याः श्रुत्वापि स्वयम् अपि तत्-परो भवेत् । यदा यदा शृणोति तदा तदासक्तो भवतीत्य् एवार्थः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र च सति परैर् व्यूढत्वम् आसाम् असमञ्जसं बहूनां तेषां तस्मिन्न् असूया यदि तद् इति यन्-मित्रं परमानन्दम्[भा।पु। १०.१४.३२] इत्य्-आदि व्याहन्येत् ॥३७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु तर्हि रहस्य-भूताम् ईदृशीं क्रीडां कथं भुवि प्रकटितवान् ? इत्य् आह—अनुग्रहायेत्य् आदि । भक्तानाम् अनुग्रहाय तादृशीः क्रीडा भजते याः श्रुत्वा मानुषं देहम् आश्रितो यः कश्चिद् तत्-परः श्री-कृष्ण-परो भवेत् । भक्तास् तावद् विविधाः, रसस्य वैविध्यात्, तेन नाना-रसा एव लीलाः करोति । तेषां स्व-स्व-वासनोपासना-भेदाद् इति भक्तानुग्रहार्थम् एव लीलाः । तासां श्रवणात् कश्चिद् एव मानुष-देह-भाक् मुच्यत इत्य् अर्थः ॥३७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : नन्व् आप्त-कामस्य क्रीडापि कुतः प्रयोजनाभावात् न हि प्रयोजनम् उद्दिश्य मन्दोऽपि नाम प्रवर्तत इति चेत् तत्राह अनुग्रहाय इति । भक्तानाम् अनुग्रहार्थम् एव नराकार-देहम् आश्रितः । तद् उक्तं दशम-स्कन्धोपक्रमे दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहम् इति । तद् उक्तम् उपनिषदि—

भोगार्थं सृष्टिम् इत्य् अन्ये क्रीडार्थम् इति चापरे । > ईश्वरस्यैव स्वभावोऽयम् आप्त-कामस्य का स्पृहा ॥ इति ।

भक्तानुग्रहार्थम् एव तादृशीर् मानुषानुकरणीः सर्व-चित्तानुकरणीः क्रीडाः । यद् वा, तादृशी रास-क्रीडा-सदृशीर् अन्याः क्रीडा भजते करोति । क्रीडा तु स्वकीय-प्रिय-वर्ग-सापेक्षा । यद् वा, भक्तानां व्रज-जनानां सर्वेषाम् अनुग्रहाय । यद् वा, भक्तानां गोपीनाम् अनुग्रहाय तादृशीः क्रीडा वाचाम् अगोचरा भजते । यद् वा, भक्तानां योऽनुग्रहः स्वस्मिन् कटाक्ष-पातालिङ्गनादिस् तद्-अर्थं प्राप्तयेत्य् अर्थः । तादृशीः पूर्वोक्ता बाहु-प्रसारेत्य्-आद्याः क्रीडा भजते । याः श्रुत्वा सर्वोऽपि जनस् तत्-परो भवेत्

यद् वा, भक्तानां गोपी-प्रभृतीनाम् अनुग्रहाय तत्-समान-जातीयं मानुषं मनुष्याकारं देहम् आश्रितोऽभूद् इति । न हि विजानीयेन देहेन तास्व् आनन्दं सञ्चारयितुं शक्यत इति । ईदृग् एव निरोधात्मिका लीला यद् ऐश्वर्यम् उपेक्ष्य गोपी-स्वानन्दं सञ्चारितवान् इति भूतानाम् इति पाठे मुक्त-मुमुक्षु-विषयिणाम् अनुग्रहाय तान् अपि स्व-परान् कर्तुं रास-सदृशीर् अन्याः क्रीडा भजते । याः श्रुत्वा तत्-परो गोपी-सेवन-परो भवेत् । गोपी-प्रसादम् अन्तरेण रहस्य-लीला-श्रवणम् अपि दुर्लभम् इत्य् अर्थः । तद् उक्तम् उद्धवेन—आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां [भा।पु। १०.४७.६०] इति । यद् वा, याः श्रुत्वान्योऽपि मानुष-देहम् आश्रितो जीवस् तत्-परो भवेद् इति ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जुगुप्सितं किम् अभिप्रायं कृतवान् ? इति द्वितीय-प्रश्नस्योत्तरम् आह—अनुग्रहाय इति । भक्तानाम् अनुग्रहाय तादृशीः क्रीडा भजते । याः श्रुत्वा मानुषं देहम् आश्रितो जीवः तत्-परस् तद्-विषयकः श्रद्धावान् भवेद् इति क्रीडान्तरतो वैलक्षण्येन मधुर-रस-मय्याः अस्याः क्रीडायास् तादृशीर् मणि-मन्त्र-महौषधानाम् इव काचिद् अतर्क्या शक्तिर् अस्तीत्य् अवगम्यते । तथैव मानुष-देहवत एव तद्-भक्ताव् अधिकारित्वं मुख्यम् इत्य् अभिप्रेतम् ॥३६॥


॥ १०.३३.३८ ॥

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।

मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अन्येऽपि भिन्नाचाराः स्व-चेष्टितम् एवम् एवेति वदन्ति ? तत्राह—नासूयन्न् इति । एवं-भूतैश्वर्याभावे तथा कुर्वन्तः पापा ज्ञेया इति भावः ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति । भिन्नाचाराः दुराचाराः । स्व-चेष्टितं पारदार्यादि । एवम् एव लोकानुग्रहार्थम् एव । तत्र कथने । **मायया मोहिता नासूयन् "**इमाः स्वैरिण्या गृहे न प्रवेश्याः, कृष्णोऽपि व्यभिचारित्वात् कुकर्मैव" इत्य् एवं मनसि नाकुर्वन्न् इत्य् अर्थः । वस्तुतस् तु भगवद्-आत्मिकानां व्रजौकसां माया-मोहासम्भवात् तस्य मायया करुणया मा यथार्थ-मतिर् ऊहिता विचार-विषयं प्रापिता येषां, ते तथा कृष्णं स्वात्मानं पश्यन्तस् तत्-पार्श्व-स्थान् स्व-पार्श्व-स्थान् एव मन्यमाना नासूयन्न् इति । एवं-भूतैश्वर्याभावे श्री-कृष्ण-सम-सामर्थ्यासत्त्वे। तथा कुर्वतः तद् अनुकुर्वतः । इति भाव इति—तेजीयसां साम्यं कर्तुं प्रवृत्तोऽतेजीयान् नश्यत्य् एवेत्य् आशयः ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मन्यमाना इत्य्-आदि । स्व-पार्श्व-स्थान् इति पूर्व-व्याख्यातेन सह सङ्गतिः ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तासु तन्-निवारणम् अतिक्रम्य गतास्व् अपि कृष्णं प्रत्यसूयां न चक्रुः । कुतः ? तस्य मायया शक्ति-विशेषेण मोहिताः, प्रत्युत साध्व् एवामन्यन्तेत्य् अर्थः । यतो व्रजौकसस् तद्-एकार्पितात्म-देह-दैहिका इत्य् अर्थः । अत एव गतान् अपि तान् स्व-स्व-पार्श्व-स्थान् एव मन्यमाना बभूवुः । यद् वा, दारान् प्रति च नासूयन्त । कुतः ? स्व-पार्श्व-स्थान् एव मन्यमानाः । तत्र च पूर्वे ता वार्यमाणाः [भा।पु। १०.२९.८] इत्य् अनेन निज-वाक्यम् अतिक्रम्य साक्षाद्-गतानाम् अपि तासां तैः स्व-स्व-पार्श्व-स्थात्व-मननं पुनर् निवृत्यागमनस्य मननाद् इति ज्ञेयम् । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, भक्तानाम् अनुग्रहाय [भा।पु। १०.३३.३६] इत्य् उक्तम् । तत्र गोपानां दाराकर्षणेन तस्मै तेषाम् असूयासम्भवात्, तेषु कथम् अनुग्रहः सिध्येत् ? इत्य् आशङ्क्य तत्रोत्तरं वदन् प्रकृतं चानुसरति—नेति । अर्थः स एव ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु भवतु परमात्मत्वेन वा, नित्यम् एव ताभिः प्रेयसीभिः सह विहारित्वेन वा, तासु तत्-पर-दारत्वस्य प्रत्याख्यानं । तत्र प्रथमः पक्षस् त्व् अध्याहारादिना कथञ्चित् स्थापित एव । अथ नित्य-प्रेयसीत्वेनोत्तर-पक्षश् चेत्, तर्हि हन्त कथं तासां पर-दारत्वं श्रूयते, येन तासाम् अन्यत्र विवाहोऽपि सम्प्रति लभ्यते ? ततश् च तं प्रति जन्मान्तरे विवाह-प्राप्तत्वेन, तासां तत्-तत्-पत्नीत्वम् एव स्यात् । ततश् च तत्-परता कारणाय भक्तानाम् अनुग्रहाय तादृशीः क्रीडा भजते [भा।पु। १०.३३.३६] इति चेत्, तर्हि तेषां दाराकर्षणेन तं प्रत्य् असूयासम्भवात्, तेषु व्रज-वासित्वात् परम-भक्तेषु कथं वानुग्रहः सिध्येत् ? कथं वा तासु तन्-नित्य-प्रेयसीषु तादृश-दुरवस्थायास् तेषु परम-भक्तेषु च तादृश-तद्-वर्णनस्य श्रवणेन परेषाम् अपि भक्तानां तत्-परता स्यात् ? तत्र पाठ-क्रमाद् अन्वय-क्रमो बलीयान् इति । तत्-क्रमेण सिद्धान्तयति—नासूयन् खलु कृष्णाय इति।

खलु निश्चये । यस्मात् व्रजौकसः, तस्मात् कदाचिद् अपि कृष्णाय नासूयन्न् इत्य् अर्थः । यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इति तं प्रति ब्रह्म-वचनात् । कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा [भा।पु। १०.१६.१०] इति राजानं प्रति श्री-शुक-वचनाच् च ।

ननु तथाप्य् अनुग्राह्यानां जानताम् अजानतां च स्वयं तथानिष्ट-करणम् असमञ्जसम् । तत्रोच्यते—यदि तेषां विवाहतोऽपि ता दाराः स्युः, तर्हि तथात्वम् एव । यदि तेषां भ्रम-मात्रेण व्यूढतया प्रतीताः, वस्तु-विचारेण तु तस्यैव दाराः, तेन तद्-आकर्षणं तासां श्रुतम् इति श्रुतार्थान्यथानुपपत्त्या—दशा पवित्रेण गृहं संमार्ष्टि इत्य्-आदिवद् आवृत्त्या अन्वयः क्रियते ।

तत्र चायम् अर्थः—तस्य मायया प्रेम-वैचित्री-रचनाय विचित्र-लीला-समुल्लासिकया योग-मायया मोहिताः सन्तः, ते तस्य दारान् स्वान् मन्यमानाः स्व-स्व-पार्श्व-स्थांश्मन्यमाना इति । तद् एवं तस्य इत्य् अस्य द्विधान्वय-भेदो दर्शितः ।

तत्र पूर्वस्यान्वय-विभेदस्यायम् अभिप्रायः—योग-माया-कल्पितानाम् अन्यासाम् एव तैर् विवहनं सम्प्रवृत्तम्, न तु भगवन्-नित्य-प्रेयसीनाम् इति । तथा तासां तदनीं मायया गोपितानां च तद्-वृत्तं ज्ञातम् आसीत्, अन्यतः श्रुतम् अपि तद् अनभीष्टम् एवासीद् इति तासु तेषां दारत्वस्य मनन-मात्रम्, न तु वास्तवत्वम् । तथा तेषु तासां पतित्वं च मनसा त्यक्तम् एव इत्य् एवं तासां तैर् विवाह-सम्बन्धो न जात इति । यतो नासूयन्न् इत्य् अनेन गुणेऽपि दोषारोपं नाकुर्वन्न् इत्य् एव मयोक्तम्, न तु नैर्षयन्न् इति ।

अथोत्तरस्यान्वय-विभेदस्यायम् अभिप्रायः— रासाद्य्-अर्थं तेन तासां कर्षेण योग-माया-कल्पितानां संज्ञा-कल्पित-च्छायावत् तत्-तत्-प्रतिरूपाणाम् अन्यासाम् अनुभावेन तान् एव ते स्व-पार्श्व-स्थान् मेनिरे । ततोऽपि न दोष-प्रसङ्ग इति ।

ननु श्री-भगवत्-प्रेयसीनां तासां कदाचिद् अपि यदि बलात् तच्-छाया-निदेशः स्यात्, तर्हि महान् एव दोषः इत्य् आशङ्कया । द्वितीयेनैवान्वय-विभागार्थेन सिद्धनं कृतवान् स्व-पार्श्व-स्थांश् च मन्यमाना इति विवाहवद् एव तत्र मायया वञ्चितास् त इति भावः । एतद् एवाह ताः प्रति स्वयम् एव श्री-भगवान्—निरवद्य-संयुजाम् [भा।पु। १०.३२.२०] इति । एतद् एव च गर्ग-वाक्येन कैमुत्याल् लभ्यते—

य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । > नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८] > इति ।

तद् एवम् एव ब्रह्मणा—श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवः [ब्र।सं। ५.५६] इति प्रोच्यान्यथात्वं मायिकम् एवेति दृढीकृतम् इति ।

अत्रेदं विचार्यते—ता वार्यमाणाः [भा।पु। १०.२९.८] इत्य्-आदौ यत् तासां पतिं-मन्यादिभिर् निवारणं श्रूयते, तत् किम् उत श्री-कृष्णाकर्षणम् अज्ञात्वा ज्ञात्वा वा ? यद्य् अज्ञात्वा, तर्हि तत्रासूया न घटत एवेति न पूर्वः पक्षः सङ्गच्छते, ततश् च तन्-निराकरणं व्यर्थम् एव स्यात् । यदि च ज्ञात्वा, तर्हि तासां स्व-पार्श्व-स्थता दर्शनान् निज-निवारण-प्रतिपालनं मत्वा तभ्यो नासूयेयुर् नाम, तद्-आकर्षण-कर्तृक-श्री-कृष्णायासूयेरन्न् एवेति पूर्व-पक्षः सङ्गच्छेत । तासां तत्-तत्-पार्श्व-स्थता तु सिद्धान्ताय न कल्पते ।

तस्मात् तद् इदं वक्तव्यम्, तदा श्री-कृष्णेन तासाम् आकर्षणं बुद्धि-पूर्वकम् इति तैर् नावगतम् । तथा हि, विद्या-विशेष-मयत्वात् खल्व् असौ वंशी-नादस् तासाम् एव कर्णे प्रविष्टो न पुनर् अन्येषाम् । सर्व-कर्ण-प्रवेशश् चेत्, तर्हि शयनावसर-प्राप्तं निज-शयन-ग्र्हं हित्वा कथम् असौ निशि विदूर-निर्जन-वनं गत इति वितर्क्य मातरः पित्र्-आदयः सर्व एव महत्या शङ्कया तत्र गच्छेयुः । तस्माद् औत्पत्तिकाद् एव माधुर्यान् मुहुः सर्वम् एव कर्षत्य् असाव् इति अनुभूय, तासाम् अपि तद्-दर्शनार्थं गमनम् आशङ्क्यते, किं त्व् असमयत्वात् तैर् निवारितम् । तथापि यद्य् अखण्डम् अपि रात्रिं तत्रामूः स्थिता इति ज्ञायेत, तदा व्रज-वासित्वात् तेषाम् असूयायास् तत्रासम्भवेऽपि तद्-आभासः स्याद् एव, यथा—"सोऽयम् अस्माकं जीवनादि-मूलम् । स चायम् अखण्ड-निशि पर-वधूनां निज-निकट-स्थितिम् अनुमोदमान आसीत्" इति तस्य लोक-धर्मं मर्यादा-मङ्गलातिक्रमम् अनुमाय विस्मितानां तेषां तन्-मङ्गल-चिन्ता-मय एव।

अयं भावः—कोप-मय इवेति तद्-आभासत्वम् एव तत्र लभ्यते, येन ते वधूभ्यः कन्याभ्यश् चासूयेयुः । तासां स्व-पार्श्व-स्थतया दर्शनात् तु सोऽपि नासीद् इति कुतस्तराम् असूयावकाश इति । एतद् अभिप्रेत्यैव युगान्तर-गतांस् तत्-प्रेयसीनां तासां गोत्र-प्रवर्तकान् गोपान् प्रति श्री-विष्णुना सोऽयं वरो दत्तः । यथा पाद्मे सृष्टि-खण्डे32

यद् आनन्द-प्रभृतययोः अवतारं धरातले । > करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः ॥ > युष्माकं कन्यकाः सर्वा रमिष्यन्ते मया सह । > तत्र दोषो न भविता न रोषो न च मत्सरः ॥ इति ।

किं च, स्वरूपेणैव यस्य पर्याप्तिर् न भवति, तत्रोपाधि-स्वीकारानर्थक्यम् इति व्रजौकस्त्वेनैव श्री-कृष्णं प्रति तेषाम् असूयानुत्पत्तिर् व्याख्याता । माया-मोहितत्वं तत्र हेतुर् विरुद्ध एव । तन्-मोहिता एव तं प्रत्य् असूयां कुर्वन्ति, न तु तद्-अमोहिता इति । तस्मान् मोहिता इत्य्-आदेर् अन्य-भागेनैव सङ्गतिः । तत्र प्रयोजनं च श्री-कृष्णस्य यद् असमञ्जसत्वं कैश्चित् तर्क्येत, तथा यस् तेषां श्री-कृष्ण-मङ्गल-चिन्तामय-भाव एवासूयत्वेन प्रतीयते, तयोर् निरसनम् एव । तत्र मायया इति करणं चेत्, तर्हि कर्त्र्-अपेक्षया तस्य इत्य् अत्र तेनेत्य् एव प्रयुज्येत । यदि च हेतुत्वं, तर्हि मोहिता इति न प्रयुज्येत । ततः कर्तृ-रूपैव सेति लभ्यते । तस्यास् तद्-रूपत्वेन निर्देशश् च । प्रिय-जन-प्रेम-मय-लीलाविष्टस्य तस्य प्रेरणं विना सार्वभौमस्य परम-दक्ष-प्रतिनिधिर् इव ताम् अन्तरान्तर-लब्धां तल्-लीलां पूर्व-पूर्व-तादृश-तल्-लीला-क्रमम् अनुक्रम्य समुत्कर्ष-विलसद्-रसतां सा नयतीति विवक्षया । तद् एवम् एव च दर्शितम्—योग-मायाम् उपाश्रित [भा।पु। १०.२९.१] इति ।

तद् एवं तस्यास् तदीयत्वे प्रकरणेन लब्धे सति तस्येति पदस्य पूर्वत्र नातिप्रयोजकत्वात् श्रुतार्थान्यथानुपपन्नत्वाच् च तस्य दारान् स्वान् स्वान् स्व-पार्श्व-स्थांश् च मन्यमाना इति परेणापि योजयित्वा सार्थकतां समर्थयद्भिस् तासु श्री-कृष्णस्यौपपत्यं तासाम् अन्य-शय्या-निवेशः श्री-कृष्णाय व्रज-वासिनाम् असूयाभासः, तस्याम् असमञ्जसत्वं च परिहृतम् इति । तत्र तस्य मायया ये स्वे स्वे दाराः, तान् स्व-पार्श्व-स्थान् मन्यमानाः भगवत्-प्रेयस्य्-अवस्थान् आनर्ह-समये तद्-अभेदेनानुभवन्तः, यतो मोहितास् तयैवेति च योजयन्ति । यतः पति-व्रतानाम् अपि न परात् परिभवः सम्भवति । किम् उत य एतस्मिन् महा-भाग [भा।पु। १०.८.१८] इति गर्ग-वचनानुसारेण श्री-भगवत्-पराणाम्, किम् उत तत्-प्रेयसीनाम् इति गम्यम् । अतः कूर्म-पुराणे उत्तर-विभागे द्वात्रिंशद्-अध्यायस्यान्ते तद् इदम् उपोद्वलकम् अस्ति । यथा—

पति-व्रता धर्म-परा रुद्राण्य् एव न संशयः । > नास्यां पराभावं कर्तुं शक्नोतीह जनः क्वचित् ॥ > यथा रामस्य सुभगा सीता त्रैलोक-विश्रुता । > पत्नी दाशरथेर् देवी विजिग्ये राक्षसेश्वरम् ॥ > रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । > सीतां विशाल-नयनां चकमे काल-चोदितः ॥ > गृहीत्वा मायया वेशं चरन्तीं विजने वने । > समाहर्तुं मतिं चक्रे तापसः किल भाविनीम् ॥ > विज्ञाय सा च तद्-भावं स्मृत्वा दाशरथिं पतिम् । > जगाम शरणं वह्निम् आवसथ्यं शुचि-स्मिता ॥ > उपतस्थे महा-योगं सर्व-पाप-विनाशनम् । > कृताञ्जली राम-पत्नी साक्षात् पतिम् इवाच्युतम् ॥ > नमस्यामि महायोगं कृतान्तं गहनं परम् । > दाहकं सर्व-भूतानाम् ईशानं काल-रूपिणम् ॥ इत्य्-आदि । > इति वह्निं पूज्य जप्त्वा राम-पत्नी यशस्विनी । > ध्यायन्ती मनसा तस्थौ रामम् उन्मीलितेक्षणा ॥ > अथाववस्थ्याद् भगवान् हव्य-वाहो महेश्वरः । > आविरासीत् सुदीप्तात्मा तेजसैव दहन्न् इव । > सृष्ट्वा मायामयीं सीतां स रावण-वधेच्छया ॥ > सीताम् आदाय धर्मिष्ठां पावकोऽन्तरधीयत । > तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । > समादाय ययौ लङ्कां सागरान्तर-संस्थिताम् । > कृत्वा च रावण-वधं रामो लक्षण-संयुतः । > समादायाभवत् सीतां शङ्काकुलित-मानसः । > सा प्रत्ययाय भूतानां सीता मायामयी पुनः । > विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् । > दग्ध्वा मायामयीं सीतां भगवान् उग्र-दीधितिः । > रामायादर्शयत् सीतां पावकोऽभूत् सुर-प्रियः । > प्रगृह्य भर्तुश् चरणौ कराभ्यां सा सुमध्यमा । > चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ > दृष्ट्वा हृष्ट-मना रामो विस्मयाकुल-लोचनः । > ननाम वह्निं शिरसा तोषयामास राघवः ॥ > उवाच वह्ने भगवन् किम् एषा वर-वर्णिनी । > दग्ध्वा भगवता पूर्वं दिष्ट्या मत्-पार्श्वम् आगता ॥ > तम् आह देवो लोकानां दाहको हव्य-वाहनः । > यथा वृत्तं दाशरथिं भूतानाम् एव सन्निधौ ॥ [कू।पु। > ३२.५१३-५३०] इत्य्-आदि ।

तस्मात् [तदावसथ्याग्निवत् त]{।मर्क्}त्-लीलायाम् उपाश्रिता योगमायापि यत्र साहाय्यं कुर्याद् एवेति गम्यते । ततः प्रस्तुतम् एवानुसन्धीयताम् ॥३७॥


जीव-गोस्वामी (श्री-कृष्ण-सन्दर्भः १७८): अधर्म-मयत्वं द्विधां—परकीयात्वेन पर-स्पृष्टत्वेन च। तस्माद् यथैश्वर्य-ज्ञान-मय्यां श्री-परीक्षित्-सभायाम् ऐश्वर्य-ज्ञान-रीत्यैव तत् परिहृत्य रसावहत्वं समाहितम्, तथा लोकवल्-लीला-कैवल्यावलम्बने प्रेम-मय्यां श्री-गोकुल-सभायां लोक-रीत्यैव समाधेयम् । तथा हि—नासूयन् इति यत् श्रूयते, तच् चात्राप्य् अवश्यम् एव सङ्गमनीयम् ।

तस्यायम् अर्थः—तस्य मायया कर्त्र्या मोहिताः सन्तो नासूयन्, तस्य स्व-नित्य-प्रेयसी-स्वीकार-लक्षणे गुणे कथम् असाव् अस्मद्-धामार्थ-सुहृत-प्रियात्म-तनय-प्राणाशय-जीवातुतमः पर-दार-स्वीकारामङ्गलम् अङ्गीकरोतीति दोषारोपं नाकुर्वन्न् इत्य् अर्थः ।

माया-मोहितत्वम् एवाह—मन्य- इति । स्वरूप-सिद्धानां भगवद्-दाराणाम् अपर-कर्तृक-बलात्कार-परिहारार्थम् अधुना चान्यदा च तत्-तद्-आकारतया तस्य माया-कल्पिता ये ये स्वे स्वे दाराः, तान् स्व-पार्श्व-स्थान् मन्यमानाः भगवद्-दाराभेदेन स्व-मत्या निश्चिन्वाना इत्य् अर्थः।

तद् एवं, अन्तर्-गृह-गताः काश्चित् [भा।पु। १०.२९.९] इत्य् अत्रोक्तानाम् अपि समाधानं ज्ञेयम् । परम-समर्थायास् तस्या मायाया निज-प्रभु-प्रेयसीनां तद्-एकानुराग-स्वभावानां मर्यादा-रक्षणार्थं परिणयम् आरभ्य सदैव सावधानताया योग्यत्वात् तद्-दिनम् उपलक्षणम् एवेति ।

श्रूयते च कूर्म-पुराणे द्वात्रिंशाध्यायस्यान्ते पति-व्रता-मात्रस्य परात् परिभवो न सम्भवतीति कैमुत्येन श्री-सीता-देव्य्-उदाहृता—

पति-व्रता धर्म-परा रुद्राण्य् एव न संशयः । > नास्यां पराभावं कर्तुं शक्नोतीह जनः क्वचित् ॥ > यथा रामस्य सुभगा सीता त्रैलोक-विश्रुता । > पत्नी दाशरथेर् देवी विजिग्ये राक्षसेश्वरम् ॥ > रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । > सीतां विशाल-नयनां चकमे काल-चोदितः ॥ > गृहीत्वा मायया वेशं चरन्तीं विजने वने । > समाहर्तुं मतिं चक्रे तापसः किल भाविनीम् ॥ > विज्ञाया सा च तद्-भावं स्मृत्वा दाशरथिं पतिम् । > जगाम शरणं वह्निम् आवसथ्यं शुचि-स्मिता ॥ > उपतस्थे महा-योगं सर्व-पाप-विनाशनम् । > कृताञ्जली राम-पत्नी साक्षात् पतिम् इवाच्युतम् ॥ > नमस्यामि महायोगं कृतान्तं गहनं परम् । > दाहकं सर्व-भूतानाम् ईशानं काल-रूपिणम् ॥ इत्य्-आदि । > इति वह्निं पूज्य जप्त्वा राम-पत्नी यशस्विनी । > ध्यायन्ती मनसा तस्थौ रामम् उन्मीलितेक्षणा ॥ > अथाववस्थ्याद् भगवान् हव्य-वाहो महेश्वरः । > आविरासीत् सुदीप्तात्मा तेजसैव दहन्न् इव । > सृष्ट्वा मायामयीं सीतां स रावण-वधेच्छया ॥ > सीताम् आदाय धर्मिष्ठां पावकोऽन्तरधीयत । > तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । > समादाय ययौ लङ्कां सागरान्तर-संस्थिताम् । > कृत्वा च रावण-वधं रामो लक्षण-संयुतः । > समादायाभवत् सीतां शङ्काकुलित-मानसः । > सा प्रत्ययाय भूतानां सीता मायामयी पुनः । > विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् । > दग्ध्वा मायामयीं सीतां भगवान् उग्र-दीधितिः । > रामायादर्शयत् सीतां पावकोऽभूत् सुर-प्रियः । > प्रगृह्य भर्तुश् चरणौ कराभ्यां सा सुमध्यमा । > चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ > दृष्ट्वा हृष्ट-मना रामो विस्मयाकुल-लोचनः । > ननाम वह्निं शिरसा तोषयामास राघवः ॥ > उवाच वह्ने भगवन् किम् एषा वर-वर्णिनी । > दग्ध्वा भगवता पूर्वं दृष्ट्या मत्-पार्श्वम् आगता ॥ > तम् आह देवो लोकानां दाहको हव्य-वाहनः । > यथा वृत्तं दाशरथिं भूतानाम् एव सन्निधौ ॥ [कू।पु। > ३२.५१३-५३०] इत्य्-आदि ।

एवम् अग्नि-पुराणम् अपि दृश्यम् । तद् एवम् अपि यत् तु वाल्मीकिना नेदं स्पष्टीकृतं, तत् खलु करुण-रस-पोषणार्थम् एवेति गम्यते । सेयं च तस्य परिपाटी क्वचिद् अन्येनाप्य् उपजीव्यते इति ज्ञेयं ।

[]{।मर्क्}

तद् एवं पतिव्रता-मात्राणां विशेषतः श्री-भगवत्-प्रेयस्या प्रभावे सति—

य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । > नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८]

इति सामान्य-विषये गर्ग-वचने च सति तादृशीनां भ्रमेऽपि तं नित्य-कान्तं परित्यजन्तीनां नित्यं तत्-कान्तं परिचरन्ती माया श्री-रामावसथ्याग्निवद् अपि किं रक्षां न कुर्वीत, किन्तु तदीय-लीला-नाट्य-रक्षार्थं

तद् एवं च तत्-पतिं-मन्यादिष्व् एव विवाहादि-शयनादि-समयेष्व् एव च स्वरूप-सिद्धा आवव्रिरे । अन्येषु चान्यदा च कल्पिता एवेति गम्यते । तावद् एव च युक्तं तासु मर्यादा-रक्षणोत्कण्ठा-वर्धनैक-प्रयोजनत्वात् तस्याः ।

[]{।मर्क्}

यथैव हि तव सुतः सति यदाधर-बिम्बे दत्त-वेणुः [भा।पु। १०.३५.१४] इत्य्-आदौ, शुश्रूषन्त्यः पतीन् काश्चित् [भा।पु। १०.२९.६] इत्य्-आदौ, ता वार्यमाणाः पतिभिः [भा।पु। १०.२९.८] इत्य्-आदौ च स्वरूप-सिद्धानाम् एव दर्शनं तत्र तत्रावगतम् । एवम् अन्यत्राप्य् अवगम्यम् । तासाम् अन्य-कृत-ध्वंसाभावस्य कारणं प्रभावश् च सम्भाव्यते—

य एतस्मिन् महा-भागाः > प्रीतिं कुर्वन्ति मानवाः । > नारयोऽभिभवन्त्य् एतान् > विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८] इति कैमुत्य-प्राप्तेः ।

अथ तासाम् अपत्य-श्रवणं च यातृ-मानिनी-प्रभृतीनाम् अपत्ये तद्-व्यवहारात् ।

स्वापत्यत्वे सति विभाव-वैगुण्येन रसाभासत्वम् आपद्येत । ततश् च भजते तादृशीः क्रीडा याः श्रुत्वा तात्-परो भवेत् [भा।पु। १०.३३.३६] इति, सिषेव इत्य्-आदौ सर्वाः शरत्-काव्य-कथा-रसाश्रया [भा।पु। १०.३३.२६] इति च विरुध्येते । पर-पुत्रत्व-प्रतिपादनायैव हि पाययन्त्यः शिशून् पयः [भा।पु। १०.२९.६] इत्य् एवोक्तं, न तु "सुतान् स्तनम्" इति । अत एव मातरः पितरः पुत्रा भ्रातरः पतयश् च वः [भा।पु। १०.२९.२०] इति परिहासत्वेनैव श्री-भगवद्-वाक्यं रसाय सम्पद्यते । वास्तवत्वेन तु वैरस्यायैव स्यात्, तासाम् अङ्गीकरिष्यमाणत्वात् । क्वचित् ताभिर् एव तेषु यत् पति-शब्दः प्रयुक्तस् तद्-बहिर्-लोक-व्यवहारत एव नान्तर्-दृष्टित ः, यत्-पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.३२] इत्य्-आदिना तद्-अङ्गीकारात् । माम् एव दयितं श्रेष्ठम् आत्मानं मनसा गताः [भा।पु। १०.४६.४] इति भगवता तासाम् अन्तः-करण-प्रकाशनात् । गोप्यः किम् आचरद् अयम् इत्य्-आदौ दामोदराधर-सुधाम् अपि गोपिकानां भुङ्क्ते स्वयं [भा।पु। १०.२१.९] इत्य् अनेन, अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते [भा।पु। १०.४७.२१] इत्य् अनेन ताभिः स्वयम् उक्तेश् च ।

तत एतद् उक्तं भवति रास-पञ्चाध्याय्यां नासूयन् खलु कृष्णाय इत्य्-उक्त-दिशा, स वो हि स्वामी [गो।ता।उ। २.२२] इत्य् ताः प्रति तापनी-स्थित-दुर्वाससो वाक्यवत् । कृष्ण-वध्व [भा।पु। १०.३३.८] इत्य्-उक्त-रीत्या च । याः खलु योगमायाम् उपाश्रित्य इति श्रवणात् तत्-तद्-अर्थ-भगवन्-नियुक्त-योगमाया-कल्पिताकल्पिततया योगमायैक-विदिताः स्वतः परतश् च प्रच्छन्न-द्विविधायमाना आसन्, तास् तु पश्चाद् योगमाययैव देव्या प्रापञ्चिताभ्यां मर्यादोत्कलिताभ्यां स्व-पालितस्य रस-पोषतरोः पर्यवसान-निरुपद्रव-महा-सुख-प्राप्ति-रूपाय फलाय मुन्य्-आकाशादि-वाण्य्-आदिकं द्वारी-कृत्य वा स्वयम् एव प्रकटीभूय एव वा श्री-गोकुल-वासिनः प्रति तथैव व्यक्ती-कृताः, स्वरूपेण माम् एव रमणं प्राप्ताः, नासूयन् खलु कृष्णाय इत्य्-आद्य्-उक्तासूया-परिहारस्य सम्यक्त्वाय तत्-कल्पितास् तु स्व-स्व-पतिम् इत्य् एव श्री-भगवन्तम् । दृश्यते च संज्ञा-छायादिवत् कल्पनाया व्यक्तत्वम् एव परिणामः सर्वत्र । तद् इत्थम् एव माता-पित्र्-आदीनाम् अभीष्टं सिध्यति ।

तस्मिन्न् एव तेषां वात्सल्यस्य विश्रान्तेः । न च दाम्पत्ये प्रकटे—

बहु वार्यते यतः खलु यत्र प्रच्छन्न-कामुकत्वं च । > या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [उ।नी। १.२०]

इति भरतानुसृत-निवारणाद्य्-अभावाद् रस-निष्पत्तिर् न स्याद् इति वाच्यम् । तस्य निवारणं खलु न भय-दानेन भवेत्, सर्वातिशायि-सामर्थ्यात्, किन्तु लज्जा-दानेनैव । लज्जा तु कुलीन-कुमाराणां स्व-स्त्री-गत-रहस्य-विहार-विशेषस्य परेणानुमिताव् अपि जायते, किम् उत—

यत्र ह्रीः श्रीः स्थिता तत्र, यत्र श्रीस् तत्र संनतिः । > संनतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे महात्मनि ॥ [ह।वं। > २.१०१.७३ (९६.७२)]

इति हरिवंशाद्य्-उक्तानुसारेण परम-लज्जादि-गुण-निधानस्य व्रजे नव-वयः श्रीलताम् एवाभिव्यञ्जतस् तस्य सिद्धे च लज्जालुत्वे स्वयम् एव निवारणादि-त्रयं सिध्यति । किन्तु लज्जा द्विविधा सङ्गोप्य न्याय्य-कर्मणि सङ्कोच-मात्र-करी, अन्याय्य-कर्मणि न्यक्कार-करी च । अत्र पूर्वाव्याजान्तराच्छन्ना नातिविरोधिनी उत्तरा यशः प्रियेण तेन कृत्तेऽपि व्याजे तस्यानुमितिश् चेद् द्विगुणीभूय विरोधिनी ।

तद् एवं सति गोप-नारीभिर् अनिशं क्रीडयामास केशवः [प।पु। ६.२५२.२६] श्रुतानिश-क्रीडा पारदार्ये सर्वथा न सम्भवति, स्व-दारत्वे तु तासाम् असङ्ख्यानां स्व-स्वरूप-पत्य्-अप्राप्ता जात-परम-दुःखानां गुरुभिर् अपि सम्मतः सान्त्वनादि-रूपो य आवश्यक-धर्मस् तद्-विध-व्याजेन सम्भवति । यच् च

रम्य-केलि-सुखेनैव गोप-वेश-धरः प्रभुः । > बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [प।पु। ६.२७९.२६]

इत्य् एतत्-पद्यं तद्-अनन्तरं च सर्वेषां मनोरमत्वं बहु-प्रेम-रस-प्रदत्वं च इत्थम् एव सङ्गच्छते इति । न च गोप-नारीभिर् इति पर-दारत्वं शब्द-लब्धम् । देवहुत्यां सा त्वं ब्रह्मन् नृप-वधूः [भा।पु। ३.२१.२८] इति कर्दमं प्रति भगवद्-वाक्याज् जात्य्-अपेक्षयापि सम्भवात् ।

न च निवारणादिभिर् औपपत्यम् एव भरत-मतं, रत्नावली-नाटिकायां ययाति-चरितादिवद् दाम्पत्येऽपि सम्भवात् । नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा [उ।नी। ५.३] इति विरोधात् ।

तद् एवं गूढतया मायया प्रणीतानां रमणतया तस्य प्राप्तौ मत्-कामा रमणम् [भा।पु। ११.१२.१३] इति पद्यं योजितम् । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः [भा।पु। १०.२२.४] इति कृत-जपानां कुमारीत्वेन प्रसिद्धानां परासाम् अपि सङ्कल्प-सिद्धिर् एव श्री-भगवता कृता । तत्रैव हि स्वयम् अङ्गीकृतं याताबला व्रजं सिद्धाः [भा।पु। १०.२२.२७] इति । तद् एतत्-पक्षेऽपि पूर्ववद् एव गुप्त-पतित्वाज् जारम् इव जारम् इति सङ्गमनीयम् । तस्माच् च श्री-गोपालोत्तर-तापन्यां ताः प्रति दुर्वाससा यद् उक्तं, तद् एव निगमनीयम्—जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् इत्य्-आदौ स वो हि स्वामी भवति [गो।ता।उ। २.२३] इति ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्राह—नासूयन्न् इति । तद्-दिनम् उपलक्षणम् एव, किन्तु विवाहादि-सर्वावस्थास्व् अपि तथा ज्ञेयं, सिद्धान्त-रस-व्याघातात् । माया-निर्मितान् स्वान् दारान् स्व-पार्श्व-स्थान् एव मन्यमाना इति । तत्राह यन्-मित्रम् [भा।पु। १०.१४.३२] इति, यद् धामार्थ-सुहृद् [भा।पु। १०.१४.३५] इत्य्-आदि न्यायेनासूयाप्य् अत्र लोक-रीति-रक्षणार्थं तद्-आभास एव च ज्ञेयः ।

न त्व् आप्त-कामस्य कुतः क्रीडने प्रवृत्तिः ? कुतस्तरां वा बहिर्-दृष्ट्या लोक-गीते तस्मिन् ? इत्य् अत आह—अनु [भा।पु। १०.३३.३६] इति । "भूतानाम्" इति पाठेऽपि भक्तानाम् एव सम्बन्धेनैवान्येषाम् अनुग्रहो ज्ञेयः । अथवा, नन्व् एवम् अपि नित्यवत् गुप्तम् एव, तथा क्रीडतु किं प्रापञ्चिकेभ्यस् तत्-प्रकटनेन ? तत्राह—भक्तानां प्रपञ्च-गतानाम् । मानुषं मर्त्य-लोक-रूपम् । विराड्-देहांश् च समाश्रितः । तत्र प्रकट इत्य् अर्थः । तत्र वस्तुनोऽपि प्रभावम् आह—याः श्रुत्वा इति अन्योऽपीति शेषः ॥३७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रकृतम् आह—नासूयन्न् इत्य्-आदि । असूयाभावे हेतुम् आह—मोहितास् तस्य मायया, योगमायया मोहिताः । मोह-प्रकारम् आह—मन्यमाना इत्य्-आदि । योग-मायैव तासां छाया-रूपाण्य् आविष्कारयामास ॥३७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पूर्वं राज्ञा पृष्टं पर-दाराभिमर्शनं धर्म-विरुद्धं कथम् ? तत्र प्रौढि-वादेन गोपीनां पर-दारत्वम् अङ्गीकृत्य, धर्म-व्यतिक्रमो दृष्टः [भा।पु। १०.३३.३०] इत्य् उत्तरं दत्तम् । आप्त-कामो यदु-पतिः [भा।पु। १०.३३.३०] इति यत् पृष्टं, तत्र अनुग्रहाय भक्तानाम् [भा।पु। १०.३३.३६] इत्य् उत्तरितम् । यद्यपि राज्ञः समाधानं जातम्, तथाप्य् अन्येषां सभासदां संशयो जातः । तथा हि—यदा श्री-कृष्णेन वेणु-नाद-द्वारा आकृष्टाः, तदासूयाविष्टैस् तासां पत्य्-आदिभिर् अवरुद्धाः, तदा गुण-मयं देहं जहुः [भा।पु। १०.२९.११] इत्य् उक्तम् । अन्येषाम् [आभि]{।मर्क्} व्रज-वासिनां तत्-तुल्यत्वात् तासु सर्वासु गतासु गृहाणां शून्यत्वे जाते अन्वेष्टुं कथं ते न गतास् तत्र ? समाधत्ते—नासूयन् इति । व्रजौकसस् तासां पत्य्-आदयस् तासु गतासु कृष्णाय नासूयन्, कृष्णे दोष-दृष्टिं न चक्रुर् इति । तस्य हेतुः—तस्य मायया योग-मायय मोहिताः । स्यात् कृपा-दम्भयोर् माया इति विश्वः । ते यद्यपि जानन्ति, तथापि तस्य मायया कृपया स्नेह-विशेषेण मोहिताः दोष-दृष्टिं न चक्रुः ।

यद् वा, अभिज्ञानां मते माया अघटित-घटना-चातुरी-विशेषः, तेन मोहिताः । तद् आह—यास् तु पूर्वं गृह-मध्ये रुद्धाः, तत्-सदृशं देहं छाया-मयं तेभ्यो दत्त्वा, तास् तेनैव देहेन श्री-कृष्णान्तिकं गतास् ताः रमयामास । तथात्रापि तासां छायामय-देहस्य पत्य्-आदि-समीपे स्थापितत्वात् । अत एवासूयां न चक्रुर् इति । यतः स्वान् स्वान् दारान् पार्श्व-स्थान् स्व-समीप-स्थान् मन्यमाना व्रजौकस इत्य् अनेन व्रज एव स्थिताः तन्-निकटेऽन्वेष्टुं न गता इति भावः । अनुग्रहाय भक्तानाम् [भा।पु। १०.३३.३६] इत्य् अनेनोक्तम् अनुग्रहं स्फुटयन् तेष्व् असूयां नोत्पादितवान् इति अन्यथानुग्रहासम्भवेऽसूयाविष्टा भवेयुर् इति भावः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं सर्वास्व् एव निशासु गोप-स्त्रीभिः सह विहरति भगवति तासां पतयश् च श्वश्र्व्-आदयः स्व-स्व-गृहेषु ताः स्व-वधूर् अदृष्ट्वा भगवते तस्मै कथं नाकुप्यन् ? तत्राह—नेति । मायया योग-माययैव, न तु बहिरङ्ग-मायया, भगवत्-परिवारेषु तस्या अधिकाराभावात्, तन्-मोहितानां च भगवद्-वैमुख्यस्यावश्यम्भावात्, तेषां गोपानां तु भगवद्-वैमुख्य-मात्रादर्शनात् । तथा मोहनं च गोपीषु कृष्णम् अभिसृतवतीषु दृशीस् तावतीर् एव गोपीः सृष्ट्वा तान् दर्शयित्वैव । अतः स्वान् स्वान् दारान् स्व-पार्श्व-स्थान् एव मन्यमानाः । यद् उक्तम् उज्ज्वल-नीलमणौ—

माया-कल्पित-तादृक्-स्त्री-शीलनेनानसूयभिः । > न जातु व्रज-देवीनां पतिभिः सह सङ्गमः ॥ [उ।नी। ३.३२] इति > ।

ततश् च योग-मायायाश् चिच्-छक्ति-वृत्तित्वात् तत्-कार्याणाम् अपि नित्य-सत्यौचित्यात् सर्व-मायिकं प्रपञ्च-नाशेऽपि तेषां पार्श्व-स्थ-दाराणां, तेषु स्व-स्व-भार्याभिमानस्य च नित्य-सत्यत्वम् एव मन्यमाना इत्य् अभिमान-मात्रम्, न तु योग-माया-कल्पितानाम् अपि तासां पतिभिः सम्भोग इति तासां तद्-आकार-तुल्य-काराणाम् अन्य-सम्भुक्तत्वस्यानौचित्यात् । अत एव स्व-पार्श्व-स्थान् इति तु स्व-तल्प-स्थान् इतु उक्तम् । तच् च समाधानं योग-माययैव । तत्-पतीनां तासु काम-भावानुपादनात् कृतम् इति ज्ञेयम् । श्री-भगवत्-पार्श्वात् स्व-स्व-गृहं प्रति गोपीनाम् आगमन-समये मायिक-गोपीनां माययैवान्तर्धापनम् अपि ज्ञेयम् ॥३७॥


॥ १०.३३.३९ ॥

ब्रह्म-रात्र उपावृत्ते वासुदेवानुमोदिताः ।

अनिच्छन्त्यो ययुर् गोप्यः स्व-गृहान् भगवत्-प्रियाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-रात्रे ब्राह्मे मुहूर्ते उपावृत्ते प्राप्ते ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : केचित् तु ब्रह्म-रात्र-सम-काले समाप्ते सतीत्य् आहुः । तद् अपि भगवन्-मायाया अघटित-घटना-पटीयस्याः सङ्गच्छत एव । मार्कण्डेयस्य क्षण एव सप्त-कल्प-प्रदर्शनात् । वासुदेवेन सर्वत्र प्रकाशमानेनानुमोदिताः स्व-गृहादाव् अपि दत्तानन्दा अनिच्छन्त्यो भगवद्-विरहम् असहमानाः । एतद् एवाह—भगवान् एव प्रियो यासां न गृहादि । तास् तथा ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ब्रह्म-रात्र इत्य्-आदि । ब्राह्म-मुहूर्ते मिलितानाम् अनेक-रात्रीणाम् अन्तिम-रात्रि-चरम-यामार्धे इति भावः । कालस्यापि निष्क्रियत्वात् तस्या नेदं चित्रम् । वासुदेवानुमोदितास् ता भगवत्-प्रियाः स्व-स्थानं ययुः । स्व-गृहान् अनिच्छन्त्यस् तत्रैव वृन्दावने नित्य-सिद्धं योग-पीठाख्यं स्थल-विशेषं ययुः । गोपास् तु छाया-रूपाभिर् एव मन्यमानाः स्व-पार्श्वस्थान् इत्य्-आदिना कृतार्था एव तं नासूयन् । तस्य नाट्यस्य महिमैवेयम् । यद् वा, पति-गृहान् अनिच्छन्त्यः स्व-गृहान् योग-माया-कृतान् निज-गृहान् ययुः । वासुदेवेनानु-मोदिताः सत्यः । यद् वा, वासुदेवानुमोदित-स्थलं ता ययुः । वासुदेवेनोद्दिष्टं निज-स्थान-विशेषम् ॥३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वासुदेवेन चित्ताधिष्ठात्रा अनुमोदिता अन्तः-प्रेरिता अपि । यद् वा, वसुषु अष्टासु इव्यतीति वसुदेवो वसु-प्रवरो द्रोण-रूपः श्री-नन्दस् तत्-पुत्रो वासुदेवस् तेन भगवत्ता-प्रकटन-परेण श्री-कृष्णेन व्रज-मङ्गलार्थम् अनुज्ञाताः । किं वा, अनु निरन्तरं मोदिताः हर्षिताः । अत एवानिच्छन्त्यः । तथापि स्व-स्व-गृहं ययुः । कुतः ? भगवत्-प्रियाः । तस्य प्रीतिमालोच्येतिअर्थः । अन्यथा पितृ-मातृ-वयस्य-वर्ग-सन्तोषण-गोपाल-नादेस् तथा पूर्ववद् रास-क्रीडा-सुखस्य चासम्पत्तिः । तत्-तद्-असम्पत्त्या भगवतो माधुर्य-विशेषासिद्धिश् चेति दिक् ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एतत् प्रासङ्गिकं समाप्योपसंहरन् परम-सुखामृत-सिन्धुम् अवगाढानाम् अपि तासाम् अतृप्तिम् आह । अनिच्छन्त्योऽपि गोप्यः स्व-गृहान् ययुः तेन समं विहारेणैव व्रजं निकट-प्रायम् आगत्य स्व-स्व-गृह-वर्त्मानि जगृहुर् इत्य् अर्थः । तत्र हेतुः ब्रह्मेति तत्-कालस्य गृह-गमनायैव योग्यत्वाद् इत्य् अर्थः


ननु तद्-अर्थ-त्यक्त-सर्वासां तासां कथं तद्-अपेक्षा ? तत्राह—वसुदेवोऽत्र प्राग्-जन्मनि वसुषु विराजितत्वात् व्रजेश्वर एव । गोकुल-लीलायां तद्-अर्थः तस्यैव सान्निध्यात् ततश् चापत्यार्थेऽणि तेन तस्यापत्तयापेक्षित-तद्-अनुस्मरण-प्रातः-कालेन अनुमोदिताः पुनर् आशु स्व-सङ्ग-दानाद्य्-अङ्गीकार-स्तुत्यादिभिः कारितानुमोदना इत्य् अर्थः । श्लेष-विशेषेण तत्-तन्-निकटे सर्वदा एव सता क्रीडता चानुमोदिता इति प्रत्येकम् अप्य् अनुनयो दर्शितः । ऐश्वर्यार्थत्वे तु तेनाप्य् अनुनयात् तासां माहात्म्यं दर्शितम् ।

यद् वा, वसेवं तासां शुद्धम् अन्तःकरणम् । सत्त्वं विशुद्धं वसुदेव-शब्दितम् इति श्री-शिवोक्तेः । प्रेम्णा तद्-अधिष्ठात्रेति तत्र सत्त्वम् उक्तम् ।

ननु ताभिर् लब्ध-दुर्लभ-सङ्गानस्य तस्य त्यागेन तद्-यत्नेनाप्य् अनुमोदनं कथम् इव घटेत प्रेम-फलम् इति । तद्-ध्यानाद् अपि कथं तद्-वशत्वम् ? तत्राह—भगवान् एव प्रियो यासां ताः । भगवतः प्रेयस्यो वा । अतः दुःखम् अपि ताः सह्यन्ते, न तु तत्-सङ्कोच-लेशम् अपीति भावः । स तु पुरुषाणां प्रेयसी-वशत्वेऽपि लज्जा मर्यादा दाक्षिण्यादीभिस् तद्-एक-सङ्ग-त्यागस्य दर्शनाद् इति च भावः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : फलितम् आह—ब्रह्म-रात्र इत्य्-आदि । मिलितानाम् अनेक-रात्रीणां शेष-यामार्धे उपावृत्ते भगवद्-इच्छया सम्प्राप्ते सति ता गोप्य ऊढानूढादि-प्रकारोक्ताः सर्वा एव भगवत्-प्रियाः सत्यः स्व-गृहान् अनिच्छन्त्यो वासुदेवम् अनुमोदयितुं शीलं यासाम् इति तथा तच् छ्री-वृन्दावनान्तर्वर्ति-पुर-विशेषं ययुर् इति भावः । वस्तुतस् तु स्व-गृहं पुनर् न गता एवेति ग्रन्थार्थः । स्व-गृहान् अनिच्छन्त्य इति हेतुमद्-विशेषणेन गृहान्तरं लक्ष्यते ॥३८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं श्री-कृष्णस्य रसैश्वर्यं सपरिकरं निरूप्य तास्व् अपि निरङ्कुशम् ऐश्वर्यं जनेषु प्रख्याप्य रस-सिन्धोः प्रस्तुतम् अगाधत्वम् उपसंहरन् तासां श्री-कृष्णे धर्म-धूर्ये तृप्त्य्-अभविष्यत् व्यञ्जितम् । नवानुराग-सद्-भावेऽपि पुनर् अपि दिवसान्तरे तम् एव रास-विलासं प्रकटयितुं बलाद् इव कृष्ण-प्रेरितानां गमनम् आह—ब्रह्म-रात्रेति । ब्राह्मे मुहूर्ते । यद् वा, ब्रह्म-रात्रे ब्रह्मणो रात्रि-तुल्ये काले उप समीपम् उपावृत्ते जाते सति । पूर्वम् आचार्यैर् एव व्याख्यातं शशाङ्कश् च स-गणो विस्मितोऽभवद् इति । ततश् चातिदीर्घासु ब्रह्म-निशा-सदृशीषु रेमे इत्य् उक्तम् । यद् वा, ब्रह्मणः स्वानन्द-पूर्णस्यापि तुल्य-काले उप समीपे आवृत्ते आ समन्तात् वृत्ते जाते पूर्णे सतीत्य् अर्थः । ब्रह्मत्वाननुसन्धानेन पूर्ण-रमणे जाते सति आत्मारामोऽप्य् अरीरमद् इत्य्-आद्य्-उक्तेः । पुनर् अपि करिष्यमाण-रमणाभिसन्धिना नवानुराग-वृद्धये ।

तदा वासुदेवानुमोदिताः वसुषु दीव्यतीति वसुदेवो नन्दः, तत्-पुत्रेणेत्य् अर्थः । द्रोणो वसूनां प्रवरः इत्य्-उक्तेः । यद् वा, वसुभिर् गो-महिष्यादि-धनैर् दीव्यति प्रकाशते वसुदेवो नन्दः, तत्-पुत्रेणेति । अयम् अभिप्रायः—गो-महिष्यादि-दोहनादि-समये नन्दं स्मरिष्यतीति । तद्-अनुसधानं नन्दस्यापि आनन्द-वितरण-प्रीतेन तेनानुमोदिताः । इदानीं दधि-निर्मथन-समयो जातो गो-दोहनादि-समयो जातः । पुनर् अप्य् एवं रजनी-मुखे वेणुना आकारणीया इत्य् आश्वस्ताः ।

यद् वा, वासुदेवेन चित्ताधिष्ठात्रानुमोदिताः प्रेरिताः पूर्वम् आगमन-समये प्रतियात इति बाह्य-वृत्त्या प्रेरिता अपि न ययुः । यद् वा, तच्-चित्तस्याकृष्टाद् गमनासम्भवः । ताभिर् अप्य् उक्तं— चित्तं सुखेन भवतापहृतं गृहेषु [भा।पु। १०.२९.३४] इत्य्-आदिना । इदानीं चास्य प्रेरितत्वात्त्वत्तो गमनम् अजातम् इति भावः । यद् वा, वसुदेवादि-शब्दितं शुद्धम् अन्तःकरणं तस्मिंस् तद्-अधिष्ठातृत्वेन तिष्ठतीति वासुदेवस् तेनानुमोदिताः सदा तस्य चित्तेषु पूर्णत्वात् । तच्-चित्तानुवृत्त्या तदाज्ञा-भङ्गं कर्तुम् अपारयन्त्यः बाह्य-वृत्त्या तद्-आज्ञां शिरसि धारयन्त्यस् तत्-सङ्गम् अपि त्यक्तुम् अनिच्छन्त्यः । यद् वा, गृहेषु परम-दुःखानुसन्धानेन वाताश्नवत् पति-पुत्रादि-शुश्रूषणं तैः सह सम्भाषणम् अपि कर्तुम् अनिच्छन्त्योऽपि प्रिय-प्रस्थापिताः स्व-गृहान् ययुः ।

नन्व् अयुक्त-स्वीकारत्वेन कथम् अनुमोदनं कृतम् ? कथं च ताभिः स्वीकृतम् ? इति चेत् तत्राह—भगवत्-प्रियाः । भगवान् एव प्रियो यासां ताः प्रियस्याज्ञा करणीयेति । आज्ञा-भङ्गं को वेद किं स्यात् ? दास्यास्यापि स्वीकृतत्वात् । लाघव-शक्त्यान्यत् सर्वं कृतत्वात् चेत्य् अनुसन्धानेन सुदुःखम् अपि सहमाना ययुर् इति । भगवत्-प्रिया इति वा तद्-वशवर्तित्वेनापि ता इति भावः ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-रात्रम् इति समासान्त आर्षः । ब्रह्माणो रात्रौ युग-सहस्र-प्रमाणायाम् उपावृत्ते उप आधिक्येन आवृत्ते एकाम् आवृत्तिं गते सति गोप्यः स्व-गृहान् ययुः । एकस्याम् एव रजन्याम् एतावत्यो लीलाः कर्तव्या इति भगवतः सत्य-सङ्कल्पत्वात् नृत्य-गीतादयो विलासा यावन्तो मनस्य् अभीप्सिता आसन् तावतां सम्पूर्तौ यावन्तः समयाः सम्भवन्ति तावद्भिः समयैर् युग-सहस्रं पूर्णं बभूव, तच् च युग-सहस्रं प्रहर-चतुष्टयात्मक-रजनी-मध्य एव रास-स्थल्यां प्रविवेश । यथा पञ्च-योजनात्मक-वृन्दावन-प्रदेशैक-देश एव पञ्चाशत्-कोटि-योजन-प्रमाणानि ब्रह्माण्डानि प्रविष्टानि ब्रह्मणा दृष्टानि, यथा चातिस्तोक एव भगवत उदरस्योपरि उपरिमितानि दामानि अन्तरे च ब्रह्माण्डम् एव दृष्टम् अभूद् इत्य् अत्र नासम्भावना कार्या । यद् उक्तं भागवतामृते—

अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च । > अविचिन्त्य-प्रभावत्वाद् अत्र किं च न दुर्घटम् ॥ [ल।भा। > १.५.५१५] इति ।

वासुदेवानुमोदिताः मम च भवतीनां च प्रति तादृश-क्रीडा-सिद्ध्य्-अर्थं प्रच्छन्न-कामतैवाभीष्टेति कृष्णेन कृतानुमोदना इत्य् अर्थः । यद् वा, चित्ताधिष्ठात्रा वासुदेवेनैव गुरु-लज्जा-भयादिकम् उद्भाव्य प्रेरिताः । अत एव प्रिय-विरहस्य दुःसहत्वाद् अनिच्छन्त्योऽपि ययुः ॥३८॥


॥ १०.३३.४० ॥

विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः

श्रद्धान्वितो नु शृणुयाद् अथ वर्णयेद् वा ।

भक्तिं परां भगवति परिलभ्य कामं

हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतः काम-विजय-रूप-रास-क्रीडा-श्रवणादेः काम-विजयम् एव फलम् आह—विक्रीडितम् इति । अचिरेण धीरः सन् हृद्-रोगं कामम्33 आशु अपहिनोति परित्यजतीति ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवल्-लीलायाः सम्प्राप्त-निवृत्ति-हेतुत्वाच् छरवणं सदा कार्यम्, सा च काम-जय-पूर्विका कामिनां दौर्गत्यावगतेर् अत्र लीलायां भगवतापि काम एव जितोऽत एतच्-छ्रवण-परायणस्यापि स च जितो भवतीत्य् आशयेनाह—विक्रीडितम् इति । विविधं जल-स्थल-नादि-भेदेन क्रीडितं विहरणम् । चेति पदं श्रद्धातिशय-जननार्थकम् । यथान्यानि विक्रीडितानि तथैवेदं च लीला-तात्पर्यावगत्यावाप्त-धैर्यः सन् । काम-त्यागस्य भगवद्-रूपता-पादकत्वेन संसार-नाशकत्वं स्फुटम् ।

यदा सर्वं प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । > अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ इति श्रुतेः ।

कामा वासनाः । मदनस्यापि वासना-जन्यत्वात् कामत्वम् । श्री-परमानन्द-सेविना श्रीधरेण स्वामिना निर्मिता दशमाश्रया दशम-स्कन्धान्तर्गता श्री-भागवत-भावार्थानां दीपिका या सा त्व् इयम् एव । पद-वाक्याद्य्-अर्थानां प्रकाशिकास् त्व् अन्या बह्व्यः सन्तीत्य् अनेन निजानुत्कर्षः परोत्कर्षश् च सूचितः । वस्तुतस् तु श्री-परमानन्दं निज-स्वरूपानन्दं सेवितुं शीआम् अस्येति निजानन्द-सेवी स चासौ श्रीधरो राधिकेशस् तेन निर्मिता रचिता या श्री-रास-लीला सा इयम् एव पञ्चाध्याय-निरूप्तैव । किंभूता ? शिर्यो राधाया भागवतानाम् अन्यासांगोपीनां यो भावो भक्तिर् अनुराग इति यावत् । स एवार्थः प्रयोजनं तस्य दीपिका भक्ति-पारवश्यात् सर्वेश्वरेण हरिणा निषिद्धम् अपि स्त्रीभिर् नृत्यम् अङ्गीकृतम् इति भावः । पुनर् दशमो लक्ष्मीभूतः श्री-कृष्ण एवाश्रयो यस्याः सा तथा । कृष्णम् आश्रित्या गोपीभिर् निजाभिमतं साधितम् इति भावः । (अतः परं विश्वनाथस्य व्याख्या उद्धृता ।) ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भजते तादृशीः क्रीडा या श्रुत्वा तत्-परो भवेद् इति । प्रतिपादयति—विक्रीडितम् इत्य्-आदि । हृद्-रोगं कामादि-दोषम् । एतेन गोपीभिः सह स खलु विलासो हि साधनान्तरेणापि दुष्करं हृदय-शोधनं करोतीति रहस्यम् ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :व्रजे या वध्वो नूतन-विवाहिता इव नव-यौवना गोप्यः । यद् वा रास-क्रीडया साक्षत् तत्-पत्नीत्वम् इव प्राप्तास् ताभिः । इदं च रास-क्रीडा-लक्षणं विशिष्टं क्रीडितं क्रीडाम् । -काराद् एतादृशम् अन्यद् अपि । किं वा, त्व्-अर्थे च-शब्दोऽन्यतो विशेषात् । विष्णोर् इति तासां मध्ये द्वयोर् द्वयोर् [भा।पु। १०.३३.३] इत्य्-आद्य्-उक्त-व्यापकत्वाभिप्रायेण। श्रद्धान्वित इति अन्यथा रसानुदयेन परम-भक्त्य्-असम्पत्तिः । श्रद्धान्वितत्वाद् एव अनु निरन्तरं शृणुयात् । एतच् च तथैव । यद् वा, नु निश्चितम् । अथ श्रवणानन्तरं श्रद्धान्वितत्वात् । यद् वा, विकल्पार्थेऽनुवर्णयेद् वा । किं वा, अनु उक्त-समुच्चये । समेर्च् च । प्रत्येकं सर्वेषां परम-भक्ति-साधनत्वात् । तथापि श्रवणादि-त्रयस्यास्य यथोत्तरं तत्र श्रैष्ठ्यम् एव ज्ञेयम् । य इत्य् अधिकारित्वापेक्षा निरस्ता । परां परमां प्रेम-लक्षणां प्रतिक्षणं नूतनत्वेन लब्ध्वाहृद्-रोग-रूपं कामम् इति भगवद्-विषयकः कामो व्यवच्छिन्नः । तस्य परमामृतत्वेन तद्-वैपरीत्यात् । धीरः सर्वार्थ-तत्त्व-वेत्ता, स पुनः कामादि-क्षुभित-चित्तो वा, हृद्-रोग-त्यागादिकम् एतत् परम-भक्तेर् आनुषङ्गिकं फलं ज्ञेयम् । तस्या एव मुख्य-फलत्वात् । तत्-क्रीडा-श्रव्णादिनाप्य् एतत् स्यात् । किं वक्तव्यम् ? तस्य लौकिक-निन्द्य-काम्य-क्रीडावत् सा क्रीडेति प्रसङ्गानुसारेण तात्पर्यं कल्प्यम् । अतस् तस्य तपसां च काम-विशेषः प्रेम-परिपाक-विलास-विशेष-रूप एव । न तु प्राकृत इति लिखितम् एव । विवृतं च श्री-भागवतामृते । अन्यत् तैर् व्याख्यातम् ।

यद् वा, धीरः विचारयन् सन्न् इत्य् अर्थः । यद् वा, कामं यथेष्टम् आशु भक्तिं प्रतिलभ्य हृद्-रोगम् आधिं श्री-कृष्णाप्राप्त्य्-आदि-कृतम् अचिरेणापहिनोति, तत्-प्राप्तेर् इति भावः । अन्यत् समानम् ॥३९॥

क्रीडता बहिर् अन्तश् च जनोऽयं येन नर्त्यते ।

तस्य चैतन्य-रूपस्य प्रीत्यै भगवतोऽस्त्व् इदम् ॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तादृश-लीला-श्रवणादेर् अपि प्राकृत-काम-विरोधित्वेन श्री-भगवत्-प्रेमावहत्वेन च कैमुत्यात् तल्-लीलायाः परम-भक्ति-फल-रूपत्वं दर्शयित्वा पूर्व-सिद्धान्तम् एवोत्कर्षयन् तल्-लीला-वर्णन-समाप्तौ सुखावेशेनोत्तर-काल-भावि तच्-छ्रोतृ-वक्तृ-जनान् आशिषयन्न् इव च स्वाभाविक-तत्-फलं कथयति—विक्रीडितम् इति । विशिष्टां क्रीडां च-काराद् ईदृशम् अन्यद् अपि विष्णोर् इति तासां मध्ये द्वयोर् द्वयोर् [भा।पु। १०.३३.३] इत्य्-आद्य्-उक्त-व्यापकत्वाभिप्रायेण, श्रद्धया विश्वासेनान्वित इति । तद्-विपरीतावज्ञा-रूपापराध-निवृत्त्य्-अर्थश् च नैरन्तर्यार्थं च । तच् च फल-वैशिष्ट्यार्थम् । अत एव योऽनु निरन्तरं शृणुयाद् अथानन्तरं स्वयं वर्णयेच् च उपलक्षणं चैतत् स्मरेच् च भक्तिं प्रेम-लक्षणां परां श्री-गोपिका-प्रेमानुसारित्वात् सर्वोत्तम-जातीयाम् । प्रतिक्षणं नूतनत्वेन लब्ध्वाहृद्-रोग-रूपं कामम् इति भगवद्-विषयः काम-विशेषो व्यवच्छिन्नः । तस्य परम-प्रेम-रूपत्वेन तद्-वैपरीत्यात् । कामम् इत्य् उपलक्षणम् अन्येषाम् अपि हृद्-रोगाणाम् । अन्यत्र श्रूयते—

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । > समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ [गीता १८.५५] > इति ।

अत्र तु हृद्-रोगापहानात् पूर्वम् एव परम-भक्ति-प्राप्तिः । तस्मात् परम-बलवद् एवेदं साधनम् इति भावः । धीरः सन्न् इति धैर्यं च लभत इत्य् अर्थः ।

यद् वा, कामं यथेष्टम् आशु भक्तिं प्रतिलभ्य हृद्-रोगम् आधिं श्री-कृष्णाप्राप्त्य्-आदि-कृतम् अचिरेणापहिनोति तत्-प्राप्तेर् इति भावः । अन्यत् समानम् ॥३९॥

क्रीडता बहिर् अन्तश् च जनोऽयं येन नर्त्यते ।

तस्य चैतन्य-रूपस्य प्रीत्यै भगवतोऽस्त्व् इदम् ॥


जीव-गोस्वामी ( (भक्ति-सन्दर्भे ३३८) : अथ गोकुलेऽपि श्रीमद्-व्रज-वधू-सहित-रासादि-लीलात्मकस्य परम-वैशिष्ट्यम् आह—विक्रीडितम् इति । -काराद् अन्यच् च । अथेति वाथ । शृणुयाद् वा वर्णयेद् वा, उपलक्षणं चैतद् ध्यानादेः । परां यतः परा नान्या कुत्रचिद् विद्यते, तादृशीम् । हृद्-रोगं कामादिकम् अपि शीघ्रम् एव त्यजति । अत्र सामान्यतोऽपि परमत्व-सिद्धेस् तत्रापि परम-श्रेष्ठ-श्री-राधा-संवलित-लीला-मय-तद्-भजनं तु परमतमम् एवेति स्वतः सिध्यति । किन्तु रहस्य-लीला तु पौरुष-विकारवद् इन्द्रियैः, पितृ-पुत्र-दास-भावैश् च नोपास्या, स्वीय-भाव-विरोधात् । रहस्यत्वं च तस्याः क्वचिद् अल्पांशेन, क्वचित् तु सर्वांशेनेति ज्ञेयम् ॥३९॥


जीव-गोस्वामी ( (प्रीति-सन्दर्भ ८४) : यद् विक्रीडितं खलु निज-श्रवण-द्वाराप्य् अन्येषां दूर-देश-काल-स्थितानाम् अपि शीघ्रम् एव यं कामम् अपनयत् परमं प्रेमाणं वितनोति । तत् पुनस् तत् काम-मयं न स्यात् । अपि तु परम-प्रेम-विशेष-मयम् एव । न हि पङ्केन पङ्कं क्षाल्यते । न तु स्वयम् अस्नेहः स्नेहयति ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—विक्रीडितम् इत्य्-आदि । भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् इत्य् उक्तस्य विशेषोऽयं हृद्-रोगम् अन्तः-करण-मालिन्यम् अचिरेण तत्-क्षणाद् एव धीरः पाण्डवो विचक्षण इत्य् अर्थः । अत इदं रहस्यं धीरो यो भवति, स श्रद्धान्वितः सन् शृणुयाद् वर्णयेत् कीर्तयेत् । स्वतः शक्तो यदि, तदा स्व-पथेनापि वर्णयेत् । सुगमम् ॥३९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु रास-विलास-श्रवणेन पामराणां कामोद्रेक एव भविष्यति किम् एतच् छ्रवणेनेति चेत् समाधानं कुर्वन् प्राकृत-काम-जय-द्वारा श्री-व्रजेन्द्र-नन्दने परमं प्रेम-भक्ति-रूप-फलं श्रोतृ-वक्तृ-जनानां प्रशंसन् । अप्राकृत-काम-तत्-तल्-लीला-दर्शनाद्य्-अकारित्वं सम्भावयन्न् आह पञ्च-विधा गोप्यो रेमिरे विक्रीडितं व्रज-वधूभिः सह । विविधं क्रीडितम् । उक्ति-प्रत्युक्ति-रूपं तत्-तद्-भवे कदाचिन् नदी-पुलिने कदाचिद् यमुनायां सर्वत्र वृन्दावन-प्रदेशेषु व्रज-देवीभिः सहाविर्भावितं विलासम्, उपवनम् उदाहरणम् एतद् अन्यत्र सखिभिः सह कृत्यं नृत्य-गानादिकं व्रजेश्वरी-परोक्ष-कृतं भाण्ड-भङ्ग्य्-आदिकं नवनीत-चौर्यादिकं च एतत् सर्वम् अन्यद् अपि गोवर्धनोद्धरणादि-चरितं श्रद्धान्वितो आस्तिक्य-बुद्धिमान् अनु वारं वारं शृणुयात् श्रवणानन्तरं यः स्व-यूथेषु वर्णयेत् कीर्तयेत् स भगवति रसैश्वर्य-पूर्णे नन्द-पुत्रे परां भक्तिं प्रेम-लक्षणां प्रतिलभ्य आशु शीघ्रं हृद्-रोग-रूपं कामं प्राकृत-विषयम् अपहिनोति दूरीकरोति । श्री-कृष्णेऽलौकिक-कामस्य विधेयत्वाद् भक्ति-प्रतिबन्धकस्य कामस्य सद्-भावे तद्-अनुपपत्तेः ।

यद् वा, कामं यथेच्छं हृद्-रोगं मत्सरम् अपहिनोति भक्तौ निर्मत्सराणाम् अधिकार-श्रवणात् तद् उक्तं धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सतां [भा।पु। १.१.२] इति । यद् वा, कृष्णे भक्तिं प्रतिलभ्य श्री-कृष्ण-प्राप्ते-जनितं हृद्-रोगं हृत्-तापम् आशु अपहिनोति । पुनश् च प्राप्तेऽपि हृद्-रोगे भक्ति-वासनया धीरो भवति ॥३९॥

इति श्रीमन्-नारदावतार-श्री-व्रजाचार्य-श्री-नारायण-भट्ट-गोस्वामि-विरचितायां रसिकाह्लादिनी-टीकायां दशम-स्कन्धे रास-विलास-निगमनं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

इति समाप्ता । उच्च-ग्रामे श्रीमद्-रेवती-रमण-मन्दिरे भाद्र-मासे तृतीयायां लिखितम् ।

विश्वनाथः- सर्व-लीला-चूडामणे रासस्य श्रवण-कीर्तन-फलम् अपि सर्व-फल-चूडामणि-भूतम् एवेत्य् आह—विक्रीडितम् इति । -काराद् ईदृशम् अन्यद् अप्य् अन्य-कवि-वर्णितं ताभिः सह विक्रीडितम् । विष्णोर् इति तासां मध्ये द्वयोर् द्वयोर् इत्य्-आद्य्-उक्त-व्यापकत्वाभिप्रायेण नु निश्चितम् अनुदिनं वा शृणुयात् । अथ वर्णयेत् कीर्तयेत् । स्व-कवितया काव्य-रूपत्वेन विबध्नीतेति वा । परां प्रेम-लक्षणां प्राप्येति क्त्वा-प्रत्ययेन हृद्-रोगवत्य् अप्य् अधिकारिणि प्रथमत एव प्रेम्णः प्रवेशस् ततस् तत्-प्रभावेनैवाचिरतो हृद्-रोग-नाश इति प्रेमायं ज्ञान-योग इव न दुर्बलः पर-तन्त्रश् चेति भावः । हृद्-रोग-रूपं कामम् इति भगवद्-विषयकः काम-विशेषो व्यवच्छिन्नस् तस्य प्रेमामृत-रूपत्वेन तद्-वैपरीत्यात् ।

धीरः पण्डित इति हृद्-रोग सत्य् अपि कथं प्रेमा भवेद् इत्य् अनास्तिक्य लक्षणेन मूर्खत्वेन रहित इत्य् अर्थः । अतएव श्रद्धान्वित इति शास्त्राविश्वासिनं नामापराधिनं प्रेमापि नाङ्गीकरोतीति भावः ॥३९॥

श्री-कृष्णातिवशीकार-चुञ्चोर् जिष्णु-शिरोमणेः ।

प्रेम्णा हास इवायं श्री-रासः श्रीर् अपि नाप यम् ॥

शास्त्र-बुद्धि-विवेकाद्यैर् अपि दुर्गमम् ईक्ष्यते ।

गोपीनां रस-वर्त्मेदं तासाम् अनुगतीर् विना ॥

पद-वाक्य-प्रकरण-ध्वनरोऽत्र सहस्रशः ।

सन्त्य् अगम्याश् च गम्याश् च नोक्ता विस्तर-भीतितः ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

दशमस्य त्रयस्त्रिंशः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते दशम-स्कन्धे त्रयस्त्रिंशाध्यायस्य

सारार्थ-दर्शिनी-टीका समाप्ता


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-षुत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे रास-क्रीडा-वर्णनं नाम

त्रयस्त्रिंषोऽध्यायः ॥

॥१०.३३॥

रास-क्रीडा समाप्ता {#रास-क्रीडा-समाप्ता ।उन्नुम्बेरेद्}


  1. यद् वा, तासां गोपीनाम् अङ्गैर् उपचिता आशिषो यस्य । ↩︎

  2. “नतैर् गृहीतकण्ठानाम् अन्योन्यात्तकरश्रियम् । नर्तकीनां भवेद् रासो मण्डलीभूय नर्तनम् ॥” इति रासलक्षणम् । ↩︎

  3. थे रसार्णव वेर्से (१.७६) इस् ओन्ल्य् थिस्- निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः । ↩︎

  4. चन्दनालि समाघ्रायेति क्वचित् पाठः । ↩︎

  5. ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः ।

    वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ ↩︎

  6. नृत्येन विक्षिप्ते चञ्चले कुण्डले च स्वाभाविकी गण्डत्विट् च तत्समाहारस् त्विषं तेन मण्डितम् इति । “द्वन्द्वाच् चुदषहान्तात्” इति टच् । ↩︎

  7. प्रविलसद् इत्य् आकरे । ↩︎

  8. प्रविलसद् इत्य् आकरे । ↩︎

  9. काव्य-प्रकाशे (४१७) दृष्टान्तस्येदं रूपम्—

    लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।

    असत्-पुरुष-सेवेव दृष्टिर् विफलतां गता ॥ ↩︎

  10. थिस् अप्पेअर्स् तो बे अ मिस्तकेन् अत्त्रिबुतिओन्। ↩︎

  11. प्रमदाकुलेन्द्रियाः इति केषुचित् संस्करणेषु पाठः। ↩︎

  12. अञ्जसा अनुसन्धान-पूर्वकम् । ↩︎

  13. कामार्दितः इति क्वचित् पाठः । ↩︎

  14. विस्मृत इति पाठः कैश्चित् श्रीधरादिभिर् गृहीत इति प्रतिभाति ↩︎

  15. रराम इस् थे रेअदिन्ग् फ़ोल्लोwइन्ग् ब्य् वैष्णव-तोषणी। ↩︎

  16. १.१.२२। सेए बलदेव चोम्मेन्तर्य् (?) ↩︎

  17. तासाम् अतिविहारेण ↩︎

  18. प्रामृजत् इत्य् उपलक्षणम् । रमण-समये व्यतस्तानां केश-भूषा-वस्त्रादीनाम् अपि संस्कारः प्रेम्णा कृत इति ज्ञेयम् ॥ इति रसामृते २.४.३४ पद्यस्य टीकायां विश्वनाथः । ↩︎

  19. गुण ↩︎

  20. स्व- इति पाठः। ↩︎

  21. शरत्-काव्य-कथाः शरदि सर्वदेशकालकविभिर् यावत्यो वर्णयितुं शक्यन्ते तावतीः कथाः सिषेवे आचचार । ↩︎

  22. दृप्ता इति वैष्णव-तोषणी-कारः। ↩︎

  23. अपि ↩︎

  24. क्रीडनेनेह देह-भाक् ↩︎

  25. थे य् रेअदिन्ग् इस् अथाप्रकट-लीले (?) ↩︎

  26. मायया॥।प्रतीतानां रेप्लचेद् ब्य् तत्-पतिं-मन्यानां (छ, ज, य्) ↩︎

  27. स्वीकृतत्वात् (छ, ज, य्) ↩︎

  28. फ़ोर् उत्कण्ठा॥। पोषार्थम् जुस्त् उत्कण्ठा-पोषार्थम् (य्) ↩︎

  29. मात्र ↩︎

  30. भूतानां ↩︎

  31. आस्थितः ↩︎

  32. नोत् फ़ोउन्द् इन् एलेच्त्रोनिच् एदितिओन्। ↩︎

  33. यद् वा कामं यथेष्टं आशु भक्तिं लब्ध्वा कामादि-सर्व-हृद्रोगम् अचिरेण हिनोतीत्य् अर्थः । ↩︎