भगवतः प्रादुर्भावः, गोपीनाम् आश्वासनं च । {#भगवतः-प्रादुर्भावः-गोपीनाम्-आश्वासनं-च ।उन्नुम्बेरेद्}
॥ १०.३२.१ ॥
श्री-शुक उवाच
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा ।
रुरुदुः सुस्वरं राजन् कृष्ण-दर्शन-लालसाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्वात्रिंशे विरहालाप-विक्लिन्न-हृदयो हरिः ।
तत्राविर्भूय गोपीस् ताः सान्त्वयामास मानयन् ॥इ॥
स्व-प्रेमामृत-कल्लोल-विह्वली-कृत-चेतसः ।
सद् अयं नन्दयन् गोपीर् उद्गतो नन्द-नन्दनः ॥इइ॥
इति गोप्य इति । इत्य् एवं प्रभृति । चित्रधा अनेकधा सुस्वरम् उच्चैः कृष्णदर्शने लालसातिस्पृहा यासां ताः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा गोपीनाम् उपासनयात्मानं प्रकाशितवांस् तथा साधन-सामग्र्या ज्ञानिनाम् अपीत्य् अर्थः दर्शयितुम् अग्रिमाध्यायारम्भ इति । विक्लिन्न-हृदयः द्रवद्-धृदयः । तत्र गोपी-समाजे । ताः विरताः । सान्त्वयामास प्रेम-वाक्यः प्रीणयामास (इ) । स्व-प्रेमामृत-कल्लोलैर् निजानुरागाम्बु-महद्-ऊर्मिभिर् विह्वलीकृतं विवशं चेतो यासां तास् तथा ताः । अथोर्मिषु महत्सूल्लोलौ इत्य् अमरः ।उद्गत आहिर् बभूव (इइ) ।
पूर्वं त्व् अनवकाशतया दूरे स्थिताः पश्चाद् असावधानानां मूर्च्छितानां कण्ठेषु मूर्तिमन्तः स्वराः सप्त प्रविष्टा इत्य् आह—सुस्वरम् इति ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ गानान्तरं प्रलापो जातः, पश्चाद् रोदनम् अपि जातम् इत्य् आह इतीत्य् आदि । प्रकर्षेण रागादि-संवलिततया गायन्त्यश् चित्रधा प्रलपन्त्य उन्मत्ता इव शून्यं लपन्त्यः सुस्वरं यथा स्यात् तथा रुरुदुः । सौस्वर्यं स्वाभाविकम्, न तु बुद्धि-पूर्वकम् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति-शब्दः प्रकार-वचनस् तस्माद् एवं प्रभृतीत्य् एवार्थः । प्रकर्षेण प्रेमोद्रेकाद् उच्चैर् गायन्त्यः कदाचित् प्रकर्षेण लपन्त्यश् च । किं वा, विरह-व्याकुलतया किञ्चिद् अनर्थकं जल्पन्त्युः चित्रधेत्य् अस्य पूर्वेण परेणाप्य् अन्वयः । सुस्वरं करुण-दीर्घ-स्वरेणेत्य् अर्थः । हे राजन्न् इति तद्-दर्शने लालसया तद्-युक्तम् एवेत्य् आर्ति-सम्बोधनम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ गानान्तरं प्रलापो जातः पश्चाद् रोदनम् अपि जातम् इत्य् आह—इतीत्य् आदि । प्रकर्षेण रागादि-संवलिततया गायन्त्यश् चित्रधा प्रलपन्त्य उन्मत्ता इव शून्यं लपन्त्यः सुस्वरं यथा स्यात् तथा रुरुदुः । सौस्वर्यं स्वाभाविकम्, न तु बुद्धि-पूर्वकम् ॥१॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं दशम्य्-अवस्थान्तर-वर्तिनीनाम् अनर्थकं किञ्चित् प्रलपन्तीनां रोदन-प्रकारं श्री-शुकः कथयति इति । एवं तद्-आदि-प्रकारेण पूऋवोक्तेन प्रगायन्त्य उच्चैर् गायन्त्यः कदाचिन् मध्ये प्रलपन्त्यः अनर्थकम् अनन्वितं वचः कथयन्त्य एवं प्रकारो मया कथितः । ततोऽपि चित्रधेति उभयत्र सम्बध्यते । एवम् अपि यदा न प्रादुर्भावितस् तदा सुस्वरं करुणोत्पादक-स्वर-सहितं यथा भवति तथा रुरुदुः—हे राजन्न् इति सम्बोधनं तासां विरहार्ति-भराधिक्येऽवधानं कुर्व् इति । सर्वधाधने वैफल्यं जाते रोदनम् एवावशिष्टं कृष्णाकर्षणकम् इति विचार्य तद् एव चक्रुर् इति । तत्र हेतुः कृष्ण-दर्शन-लालसाः कृष्ण-दर्शने लालसात्यौत्सुक्यं यासां ताः न तु पत्य्-आदि-शुश्रूषणे देह-रक्षणादौ चेति ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
द्वात्रिंशे हरिर् आयातः स्वाङ्गभावाः शुकोक्तिभिः ।
पूजितः प्रतिपूज्यैताः प्रेमोक्त्या ऋणिताम् अधात् ॥इ॥
चित्रधा आश्चर्यतानतालादि-प्रकारेण प्रगायन्त्य अतिवैवश्योद्रेकात् प्रलपन्त्यश् च । सुस्वरं रुरुदुः ॥१॥
॥ १०.३२.२ ॥
तासाम् आविरभूच् छौरिः स्मयमान-मुखाम्बुजः ।
पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : साक्षान् मन्मथ-मन्मथो जगन्-मोहनस्य कामस्यापि मनस्य् उद्भूतः कामः साक्षात् तस्यापि मोहक इत्य् अर्थः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां गोपीनां मध्ये । शूर-वंशे जातः कर्कशस् तासां बहु-दुःख-दर्शनाद् अप्य् एतावन्तं कालम् अनाविर्भूय इत्य् आह—शौरिर् इति । काम-जयित्वाद् वा शौरिर् आविरासीद् इति । तद् एवाह—साक्षान्-मन्मथ- इति । मनो मथ्नाति क्षोभयतीति मन्मथः । पृषोदरादित्वात् साधुः । शरीरं विना केवल-मनस एव मन्थकत्वेन मन्मथत्वम् । तद् उक्तम्—
अपूर्वेयं धनुर्-विद्या मन्मथस्य महात्मनः । > शरीरम् अक्षतं कृत्वा भिनत्त्य् अन्तर्गतं मनः ॥ इति ।
इत्य् अर्थ इति—मनोजये जितं सर्वम् इत्य्-उक्तेः कामस्य मनो-वशीकरण-शीलत्वेन तज्-जेतृत्वम् उपचयते, मनोजेता च सर्व-जयी कामस् तस्यापि मनसो मोहकत्वेन भगवतो मन्मथ-मन्मथत्वम् । कोटि-मन्मथ-लावण्यवद् भगवतो रूप-दर्शनेन कामोऽपि मोहितोऽभूद् इत्य् आशयः । किं च, तासां गलद्-अश्रु-धारा-मार्जनार्थम् ।
यद् वा, अपराध-क्षमापणार्थं हस्त-बन्धनाय पीताम्बर-धर इति । यद् वा, अपराध-क्षमापणार्थं तृणवद्-अन्ते हस्तेन वस्त्राञ्चलं गृहीत्वा वस्त्रम् इव गले मालां च बद्ध्वेत्य् अर्थः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पीताम्बर-धर इत्य्-आदि । दूरागमनात् प्रेम्णा भाव-विशेषेण वा श्लथत्-पीताम्बरं वाम-करेण दधद् इत्य् अर्थः । अथवा, तत्र स्थित एव दूराद् आगत इव त्वरा-नाट्येन पीताम्बरं पीतोत्तरीयक-देशो धरायां यस्य स्रंसमान-पीतोत्तरीय इत्य् अर्थः । स्रग्वी लोल-वन-मालः । मदयतीति मथ्नातीति मथ् मदनस् तं मथ्नातीति मन्मथो रुद्रः, तस्यापि मदो मदास् तं मथ्नातीति तथा मन्मथस्यापि मन्मथ इति ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ तासां तथाविध-रोदन-श्रवणानन्तरं सोढुम् अशक्तस् तदैव प्रादुरभूद् इत्य् आह—तासाम् इत्य्-आदि । शौरिर् इत्य् अत्र शूर-शब्दो न रूढः, अपि तु यौगिक एव । शूर-पुत्रोऽपि नातः परम् अन्तर्धान-लीलायां समर्थोऽभूत्, अपि तु तासां साक्षाद् आविर्भूतः । अत एव स्मयमान-मुखाम्बुजः । अतः परं मम धैर्यं न वर्तत इति स्मयमानत्वम्। पीताम्बर-धर इति भाव-विशेषात् स्खलत्-पीताम्बरं वाम-करेण बिभ्रद् इत्य् अर्थः । अथवा, पीतोत्तरीयैक-देशं धृत्वा स्मितं संवृण्वन् । अथवा, स्खलद्-उत्तरीयतया पीताम्बरं पीताम्बरैक-देशो धरायां यस्य । अन्यथा पीताम्बरम् इत्य् अनेनैव सिद्धिः । स्रग्वी अम्लान-वनमालः । मन्मथस्य मन्मथो मनो मथ्नातीति तथा, तस्यापि तथा । अथवा, मदयतीति मथ्नातीति वा मद् मथ् वा मदनः, तं मथ्नातीति मन्मथो रुद्रः, तस्यापि मदं गर्वं मथ्नातीति मोहनी-रूपेण गर्वं हृतवान् इति तथा। तथाभूतोऽपि स्वयं तासां सौन्दर्याकृष्ट इत्य् अर्थः । अथवा, साक्षान्-मन्मथो मूर्त-मन्मथस्यापि मन्मथः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तासां तथा रुदतीनाम् अधुना मद्-दुःख-सम्भावनया दैन्य-विशेषेणासां रोदनात् प्राणा गत-प्राया इति । तेन वितर्क्यमानानाम् इत्य् अर्थः । एवम् आत्मानपेक्षया तद्-एकापेक्षयैव दैन्य-विशेषेण तत्-प्राप्तिर् इति दर्शितम् । शौरिः शूर-वंशाविर्भूतत्वेन प्रसिद्धोऽपि तासाम् एव आविरभूत् सर्वतोऽप्य् अपूर्वाद् आविर्भावाद् इत्य् अर्थः। तथा च वक्ष्यते—त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् [भा।पु। १०.३२.१४], तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३३.७] इति,
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं > लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । > दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापं [भा।पु। १०.४४.१४] इत्य्-आदौ > च ।
तथैव श्री-गोपीषु विशेषोक्तिः । एताः परं [भा।पु। १०.४७.५८] इत्य्-आदौ, वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इति श्रीमद्-उद्धव-सिद्धान्तानुसारेण सर्वाधिक-प्रेमवतीषु तासु युक्तम् एव च तादृशत्वम् । प्रपद्यमानस्य यथाश्नतः स्युः [भा।पु। ११.२.४२] इत्य्-आदि-न्यायेन तथैव दर्शयति—साक्षान्-मन्मथ-मन्मथ इति ।
नाना-वासुदेवादि-चतुर्व्यूहेषु ये साक्षान्-मन्मथाः स्वयं कामदेवाः, न तु तदीय-शक्त्य्-अंशावेशि-प्राकृत-मन्मथवद् असाक्षाद्-रूपाः, तेषाम् अपि मन्मथः मन्मथत्व-प्रकाशकः चक्षुषश् चक्षुः [बृ।आ।उ। ४.४.१८] इत्य्-आदिवत् । येषां रूप-गुण-विशेषाणाम् अंशेन तत्-प्रकाशकोऽसौ, तान् अखिलान् एव प्रकाशयन्न् इत्य् अर्थः । अत एवास्य महा-मन्मथत्वेनैकाक्षरादि-मन्त्रा ध्यानानि च सन्ति । किन्तु तस्मिन् ध्यानेऽन्याकारत्वं मन्मथत्व-व्यञ्जनार्थम् एव ज्ञेयम् । मन्मथ-पदस्य यौगिक-वृत्त्या तेषाम् अपि क्षोभकादि-रूपः सन्न् इति ध्वनितम् । एवं तादृश-रूपस्यादि-रसे परमालम्बनता भक्त्य्-अन्तरागम्यता च दर्शिता ।
तद् एवं स्वरूपाविर्भावस्यापूर्वताम् उक्त्वा विलास-वेशयोर् अप्य् आह—स्मय- इत्य्-आदि विशेषण-त्रयेण । तत्र स्मयमान- इति वर्तमान-प्रयोगेण तात्कालिकत्व-विवक्षया सहज-स्मिताद् वैलक्षण्य-प्रतीतेः । तथा पीताम्बर इत्य् अनेनैव विवक्षिते सिद्धे धारण-प्रयोगोऽतिरिक्त एवेति तेन तदानीम् अन्य-विशिष्ट-धारण-बोधनात् । तथा स्रग्वी इत्य् अत्रापि प्रशंसायां मत्व्-अर्थीय-विधानात् ।
किं च, स्मितेनात्मनः सुप्रसन्नत्वं त्यागस्य च परिहासमयत्वम् । पीताम्बर-धारणेन मूर्ध-पर्यन्तावृततया स्वस्य तासां परित्यागतः सङ्कुचित-चित्तत्वम् । स्रग्वित्वेन केवल-तत्-सङ्गितया तां विना स्वस्य सङ्गान्तरारोचकत्वं च ज्ञापितम् । तथा च, श्रोतृ-हृदये तत्-प्रवेशाय तात्कालिक-शोभा-वर्णनम् इदम् इति ॥२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १५४) : अथोद्दीपनेषु तदीय-द्रव्याणि च परिष्कारास्त्र-वादित्र-स्थान-चिह्न-परिवार-भक्त-तुलसी-निर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार-पुष्पादयः । ते च तदीयास् तत्-स्वरूप-भूतत्वेनैव भगवत्-सन्दर्भे दर्शिताः । तथापि भूषण-भूषणाङ्गम् [भा।पु। ३.२.११] इति न्यायेन तत्-सौन्दर्य-सौरभ्यादि-परिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवल-स्व-गुणेन । स च तत्-तद्-रूपान् तान् स्व-शक्ति-विलासान् प्राप्य स्वीय-तत्-तद्-गुणान् विशेषतः प्रकाशयतीति तस्य तत्-तद्-अपेक्षापि सिध्यति । अत एव पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः इत्य्-आदौ अभिव्यक्तासमोर्ध्व-सौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक्-पीताम्बरयोर् अपि तादृशत्वं गम्यते ।
ईदृशान्य् एव वासांसि नित्यं गिरि-वनेचराः [भा।पु। १०.४१.३५] इति रजक-वाक्यं त्व् आसुर-दृष्ट्या, श्री-विष्णु-पुराणे लौकिक-दृष्ट्यापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [वि।पु। ५.९.५] इत्य् उत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्य-परिधिम् [भा।पु। १०.२३.२२] इत्य्-आदि । आस्तां तद् अपि कालिय-वरुण-गोविन्दाभिषेक-कर्तृ-महेन्द्राद्य्-उपहृतासङ्ख्य-वस्त्रादीनां तद्-दिने चावश्यं विचित्र-परिहितानां तेनान्यथा प्रतीयमानत्वम् एव जायते । ततः कंसाहृत-वाससां स्वीकारश् च तदीय-स्वरूप-शक्त्यैक-प्रादुर्भाव-रूपाणां नरकाहृत-कन्यानाम् इवेति ज्ञेयम् ॥२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २७५) : अथ उज्ज्वलः । अत्रालम्बनः कान्तत्वेन स्फुरन् कान्त-भाव-विषयः श्री-कृष्णः । तद्-आधाराः सजातीय-भावास् तदीय-परम-वल्लभाश् च । तत्र श्री-कृष्णो यथा—तासाम् आविरभूच् छौरिः इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शौरिः शूर-वंशाविर्भूतत्वेन प्रसिद्धोऽपि तासाम् एवाविरभूत् । सर्वतोऽप्य् अपूर्वाद् आविर्भावाद् इत्य् अर्थः । साक्षान्-मन्मथः नाना-चतुर्व्यूह-स्थाः प्रद्युम्नाः, तेषां मन्मथः । चक्षुषश् चक्षुः [बृ।आ।उ। ४.४.१८] इतिवन् मन्मथत्व-प्रकाशक इत्य् अर्थः ॥२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तासां तथा-विध-रोदन-श्रवणानन्तरं सोढुम् अशक्तस् तदैव प्रादुरभूद् इत्य् आह—तासाम् इत्य्-आदि । शौरिर् इत्य् अत्र शूर-शब्दो न रूढः, अपि तु यौगिक एव । शूर-पुत्रोऽपि नातः परम् अन्तर्धान-लीलायां समर्थोऽभूत्, अपि तु तासां साक्षाद् आविर्भूतः, अत एव स्मयमान-मुखाम्बुजः । अतः परं मम धैर्यं न वर्तत इति स्मयमानत्वम् । पीताम्बर-धर इति भाव-विशेषात् श्लथन् पीताम्बरं वाम-करेण बिभ्रद् इत्य् अर्थः । अथवा पीतोत्तरीयैक-देशं धृत्वा स्मितं संवृण्वन् । अथवा, श्लथद्-उत्तरीयतया पीताम्बरं पीताम्बरैक-देशो धरायां यस्य, अन्यथा पीताम्बरम् इत्य् अनेनैव सिद्धिः । स्रग्वी अम्लान-वन-मालः । मन्मथस्य मन्मथो मनो मथ्नातीति यथा तस्यापि तथा । अथवा, मदयतीति मथ्नातीति वा मन्द मथ् वा मदनः न मथ्नातीति मन्मथो रुद्रस् तस्यापि मदं गर्वं मथ्नातीति मोहिनी रूपेण गर्वं हतवान् इति तथा । भूतोऽपि स्वयं तासां सौन्दर्याकृष्ट इत्य् अर्थः । अथवा, साक्षान्-मन्मथो मूर्त-मन्मथस् तस्यापि मन्मथः ॥२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अधुना रोदनम् एव कृष्ण-प्राप्ति-साधनं जातम् इत्य् आहुः—तासाम् इति । यस् तु विरह-ज्वालावलीढ-मनाः, तेन रुरुदुः, तासां परमार्तानां दशम्य्-अवस्था-निकट-वर्तिनीनां मध्ये शौरिः, सर्वेषां दुःख-निरसन-निज-गुण-प्रकाशनार्थं शूर-वंशेऽवतीर्ण इत्य् अर्थः, आविरभूद् दृश्योऽभवद् इति । तासां शोक-निवृत्त्य्-अर्थं स्मयमानं मुखाम्बुजं यस्य, स्व-दोषाच्छादनार्थम् एव स्मितं स्वस्यैव सापराधत्वाद् इति । रोमाञ्चादि-गूहनार्थं पीताम्बर-धरः । पीताम्बरेण सर्वम् अङ्गम् आच्छाद्याविर्भूतः । स्रग्वी तद्-विरहे स्वस्यापि ताप-निर्वापकं शैत्य-हेतुं माला-धारणम् उक्तम् ।
यद् वा, इदानीं मनसि आविर्भावे न रसो न च कीर्तिर् इति विचार्याविर्भूतः । पीताम्बर इति वर्ण-सादृश्येन तद्-वर्ण-सदृक्त्वेन पीताम्बर-धारणम् उक्तः । स्रग्वी अनेन माला-धारणेन कीर्ति-रक्षणं सूचितम् । तासाम् अलङ्करणार्थम् । यद् वा, स्रजो वृन्दावन-भव-माल्य-गुम्फिताः सन्ति यस्येति ईर्ष्ययालब्धुम् उद्यतानां वाक्-स्तम्भं कारयितुं जगन्-मोहन-रूपम् आविश्चकारेति ।
एवं गति-विलास-माधुर्य-प्रकाशनेन साक्षान्-मन्मथ-मन्मथः । स तु मन्मथः प्राकृतः प्राकृतान् एव क्षोभयति, न त्व् अप्राकृतान् कृष्ण-प्रियान् । अयं तु साक्षान् मूर्तः, जगन्-मोहकस्य मन्मथस्यापि मोहक इत्य् अर्थः । कामस्य चेन् मोहो जातः, तर्हि तासां मोहने को विस्मयः ? इति । एतासां मोहने प्राकृत-कामस्यासामर्थ्यात् । अयम् एव मोहक इत्य् अर्थः ।
अयम् आशयः—यावत्-पर्यन्तं कृष्णो रास-विलासं कृतवान्, तावत्-पर्यन्तं कामस्यापि निरोधो जातः । स्वरूपे निमग्नत्वान् निष्क्रियो जात इति । तद्-अवच्छिन्ने काले सर्वे जनाः मत्-प्रवण-चित्तत्वं न स्वार्थे साधयन्त्व् इति विचार्य कामं मोहितवान् इति । कृष्ण-स्वरूपे स्थितोऽयं कामस् तु चिन्मयात्मकः गोपी-जन-सेव्यः । एताः परं तनुभृतः [भा।पु। १०.४७.५८] इत्य्-आदिना तु तासु उद्धवादि-नमस्कार्या सुदृष्टम् ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शौरिर् इति श्री-गोपी-जन-पक्षस्य श्री-शुकदेवस्य कृष्णं प्रत्य् असूयोक्तिः । कुटिलान्तःकरण-क्षत्रिय-जात्य्-उद्भवत्वाद् एव कृष्णः प्रेमवतीभ्य आभ्य एतावद् दुःखं दत्त्वा स्व-शौर्यं प्रकटीचकार । यदि सरलान्तःकरण-गोप-जाति-जातोऽभविष्यत् तदा नैवम् अभविष्यद् इत्य् अर्थ-व्यञ्जिका । अत एव तासां दुःखेऽपि प्रफुल्ल-मुखः । वस्तुतस् तु स्मयमानं तासाम् आनन्दनार्थम् एव प्रफुल्लीकृतं मुखाम्बुजम् एव । हृद्-अम्बुजं तु सन्तप्तम् एव यस्य सः । पीताम्बरं स्कन्धाभ्यां पुरो लम्बितीकृत्य हस्ताभ्यां धरतीति सः । अपराधं क्षमयितुम् इति भावः । स्रग्वी इति प्रेयस्यैव परिधापितां स्रजं तां दर्शयितुम् इति भावः । साक्षान्-मन्मथो यः समष्टि-कामः, तस्यापि मनो मथ्नातीति सः । जगन्-मोहनम् अपि कन्दर्पं मोहयितुम् आयान्तं स्त्री-भावं प्रापय्य तथा मोहयामास यथा सोऽपि कृष्ण-सौन्दर्यं दृष्ट्वा कन्दर्प-शर-पीडितो मुमोहेत्य् अर्थः । तेन कृष्णस् तत्-प्रेयस्यश् च स्वरूप-भूत-कन्दर्पस्य तस्य तत्रानधिकाराद् एवेति ज्ञेयम् । तदानीं साक्षान्-मन्मथ-मन्मथत्वेन महा-मोहन-स्वीय-माधुर्याविष्करणं तासां तादृशस्यापि विरह-दुःखस्य विस्मारणार्थम् इति स्पष्टीकर्तुम् ॥२॥
॥ १०.३२.३-४ ॥
तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशोऽबलाः ।
उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् ॥
काचित् कराम्बुजं शौरेर् जगृहेऽञ्जलिना मुदा ।
काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम्1 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तन्वः कर-चरणादयः ॥३-४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् । अवयवावयविनोर् अभेदोपचारात् तनू-शब्दोऽत्रावयव-परः, शरीराणि वा । प्राण-शब्द एकत्वं सामान्याभिप्रायम् ॥३-४॥
[अतः परं विश्वनाथः।]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आगतम् इति । तासाम् अभिप्रायानुसारेण । यद् वा, तासां मध्ये प्रादुर्भूतम् । किं वा, आदौ दूरे प्रादुर्भूयागमन-क्रमेण निजान्तिकं प्राप्तं सन्तम् इत्य् अर्थः । तथा श्री-विष्णु-पुराणे—ततो ददृशुर् आयान्तं विकासि-मुख-पङ्कजं [वि।पु। ५.१३.४३] इति । अत एव विशेषेण लोकयित्वा दृष्ट्वेति रोदन-वैवश्येन ईषद्-दर्शनेऽप्य् अदर्शनात् । किं वा, दृष्टेऽपि परमार्त्या विश्वासाभावात् सम्यक् निरीक्ष्यैवेत्य् अर्थः । अतः प्रीत्या प्रहर्षेण उच्चैः फुल्लो विकसिता दृशो नेत्राणि यासां, तथाभूताः सत्यः । अबला विरह-क्षामतयोत्थातुम् असमर्था अपि सर्वा युगपद् उत्थितः । तत्र हेतुः—प्रेष्ठम् इति ।
ननु तथाप्य् अन्त्य-दशा-प्राप्तानाम् इव तासां सद्य एकदा तथोत्थानं कथं सम्भवेत् ? इत्य् आशङ्क्य एतद् एव दृष्टान्तेन साधयति—तन्व इति । तद्-एक-प्रेष्ठत्वेन मरणे जीवने च तद्-एक-हेतुत्वाद् इति भावः । यद् वा, आदौ प्रीत्य्-उत्फुल्ल-दृशो बभूवुः । पश्चाद् उत्थस्थुः, यथा तनूनाम् अप्य् आदौ स्पन्दनादि पश्चात् स्व-स्व-कृत्ये प्रवृत्तिर् इति । आगतम् इति पुनर्-उक्त्य्â उत्थाने आगमनैक-हेतुता बोधिता ॥३॥
अधुना तद्-आगमनात् सर्वासाम् एव विरह-तापापगमं परमोत्सवादिकं च षड्भिर् वदन्न् आदौ पृथक्त्वेन तासु मुख्यानां प्रसिद्धानाम् अष्टानां प्रेम-चेष्टितान्य् आह—काचिद् इति पञ्चभिः । कराम्बुजम् एकम् अन्येनाम्बर-धारणात् तथा व्यवहारस्य शोभनत्वात् । अम्बुज-रूपकेण सहजारूण्यादि-सौन्दर्यं ताप-हारित्वं च ध्वनितम् । अञ्जलिना इति भक्ति-विशेषात् । मुदा इति विरह-दुःख-निवृत्तेः । इदं चाग्रेऽपि सर्वत्रानुवर्त्यम् । तस्य तं वा सौन्दर्यादिनानिर्वचनीयं बाहुम् । शौरेर् इत्य् अनुवर्तत एव । एवम् अग्रेऽपि । चन्दनेन रूषितं भक्ति-च्छेद-लिप्तम् इति सौन्दर्यं तापापहारित्वं चोक्तम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आगतम् आदौ समुत्कण्ठया सद्य एव दूरे प्रादुर्भूय आगमन-क्रमेण निजान्तिकं प्राप्तं सन्तम् । तथा च विष्णु-पुराणे—ततो ददृशुर् आयान्तं विकासि-मुख-पङ्कजं [वि।पु। ५.१३.४३] इति । अत एव विशेषेण लोकयित्वा दृष्ट्वेति रोदन-वैवश्येन ईषद्-दर्शनेऽप्य् अनिश्चयात् । किं वा, दृष्टेऽपि परमर्त्या विश्वासाभावात् सम्यक् निरीक्ष्यैवेत्य् अर्थः । अबला विरह-क्षामतयोत्थातुम् असमर्था अपि सर्वा युगपद् उत्थितः । तत्र हेतुः—प्रेष्ठम् इति । तद्-एक-प्रेष्ठत्वेन मरणे जीवने च तद्-एक-हेतुत्वात् । एतद् एव दृष्टान्तेन साधयति—तन्व इति । आगतम् इति पुनर् उक्तिः उत्थाने आगमनैक-हेतुता स्पष्टार्थं कृता । विलासाख्योऽनुभावोऽयम्—
गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् । > तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [उ।नी। ११.३१] > इति ॥३॥
पूर्वं विरह-दैन्येन तुल्य-वचनैः सर्वासाम् एव तुल्यता प्राप्तिर् दर्शिता। अधुना प्राप्त-निजालम्बनत्वेन स्व-स्वभावम् अनुसरन्तीनां मुख्यानां चेष्टित-भेदैर् भाव-भेदान् आह—काचिद् इति पञ्चभिः । कराम्बुजं दक्षिणं जगृहे वन-भ्रमण-श्रान्ततया मत्तस्य तस्य करावलम्बनाय तथा व्यवहारस्यौचित्यात् स्पर्शोत्सुक्याच् च । करस्य दक्षिणत्वं च निज-स्कन्धे तद्-बाहु-धारिण्या द्वितीयायाः कान्त-समान-स्थितत्वेन वाम-भागावस्थानौचित्यात्, दक्षिणस्यैव तथा ग्रहणौचित्याच् च । करस्य दक्षिणं च निज-स्कन्धे तद्-बाहु-धारिण्या, द्वितीयायाः कान्त-समान-स्थितत्वेन वाम-भागावस्थानौचित्यात्, दक्षिणस्यैव तथा ग्रहणौचित्यात् । एवम् उत्तरोत्तरं ज्ञेयम् ।
अञ्जलिना इति निर्देशाद् इयं मृदुः सख्य-प्राय-दास्या कान्त-पराधीना दक्षिणा च । चन्दनेन रूषितं भक्ति-च्छेद-लिप्तम् इति इयम् आकृष्य धारणात् प्रखरा व्यक्त-सख्या किञ्चित् पराधीन-कान्ता दक्षिणा च । ताम्बूलम् अत्र प्रतिकुञ्जं मालादि-साहित्येन श्री-वृन्दा-देव्या स्थापितम् । योगमायैयैव वा सिद्धम् । शौरेर् इति प्रकरण-लब्धम् ॥४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३२६) : [विलास-मामकः अनुभावः—]
गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् । > तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [उ।नी। ११.३१]
स यथा—तं विलोक्यागतं प्रेष्ठम् इति स्पष्टम् ॥ (३२६)
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६७) : एष चासु बहु-भेदो वर्तते । एकत्र भावे खलु मिथुनस्य मिथ आदर-विशेषः । तत्र प्रेयसीनां त्वदीयत्वाभिमानातिशयेन कान्तं प्रति पारतन्त्र्य-विनय-स्तुति-दाक्षिण्य-प्राचुर्यम् । अन्यत्र मदीयत्वातिशयः, यत्र परतन्त्र-कान्ततयान्तर्-मर्मज्ञता-नर्म-कौटिल्याभास-प्राचुर्यम् । एतद् युगलस्य च भेदस्य बह्व्-अंश-स्वल्पांश-तत्-साङ्कर्य-भेदेनापरासु च बहुविध इति । एते च भावा यथोक्ताः—काचित् कराम्बुजम् इति षड्भिः ।
अत्रादर-विशेष-मय-प्राग्-उक्त-भावा काचित् कराम्बुजम् इत्य् अत्र प्रथमोक्ता । इयं च सर्वाग्र-स्थितत्वाद् आदौ वर्ण्यते । ततो ज्येष्ठेति गम्यते । ततश् च सर्वादौ तयैव मिलनं कृष्णस्य । तथा तस्याम् एव श्री-कृष्णस्याप्य् आदरातिशयोऽवगम्यते । एवं तथाञ्जलिना कर-ग्रहणात् तस्या अपि तस्मिन्न् आदरो व्यक्तः । तत्-पारतन्त्र्यादिकम् अपि । मध्य-स्थितत्वं चास्याः । ततः साध्व् एवेदं प्रथमोदाहरणम् ॥४॥
सङ्कर-भावा च—काचिद् दधार इत्य्-आदिनोक्ता । तद् बाहोर् अंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् । उत्तरस्या एषा खलु श्यामलेत्य् अभियुक्त-प्रसिद्धिः । अत्राष्टमी च विष्णु-पुराणोक्ता यथा—
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । > कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [वि।पु। ५.१३.४४] > इति ।
अस्या नातिस्फुट-भावत्वात् ताटस्थ्यम् । एषा च भद्रेत्य् अभियुक्त-प्रसिद्धिः । तेषां भावानां परमानन्दैक-रूपत्वं दर्शयति—सर्वा [भा।पु। १०.३२.९] इति ॥४॥
(इतः परं १०.२९.६ श्लोको द्रष्टव्यः।)
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९३) : एतद्-अनन्तरं सम्भोगोदाहरणं च दर्शितम्—तं विलोक्यागतं प्रेष्ठं इत्य्-आदिभिः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : काचिद् इत्य्-आदि षट्कम् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्र प्रादुर्भूते सति यद् अभूत् तद् आह—तम् इत्य्-आदि । आगतम् आविर्भूतम्, न तु कुतश्चिद् आयातं, तत्रैवान्तर्धाय स्थितत्वात् । अबला अपि उत्थानासमर्था अत्य्उत्तस्थुः । युगपद् इति दर्शनस्य पौर्वापर्याभावाद् एकस्यैव प्रत्येकं पुरतो भासमानत्वात् । एतेन पूर्वम् उपविष्टा एव जगुर् इति मन्तव्यम् । तत्र दृष्टान्तः—तन्वः प्राणम् इवागतम् । प्राणयतीति प्राण आत्मा, तं प्राप्य तन्वः शरीराणीव आत्मनः एकत्वाद् एक-वचनम् । तनूनां बहुत्वे तथा ॥३॥
अथ तस्मिन्न् आविर्भूते तम् आलोक्य, या यथा चक्रुस् तद् आह—काचिद् इत्य्-आदि बहुभिः । काचित् कराम्बुजम् इति सादर-प्रणयिनी, केचिद् एनां चन्द्रावलीम् आहुः। काचिद् दधार तद्-बाहुं [भा।पु। १०.३२.४] इति सख्य-प्रधान-प्रणयवती ॥४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : प्रथमं तासां तत्र गोचरे किञ्चिद् दूरे दिशि आविर्भूयायान्तं स-सम्भ्रमाः जाता इत्य् आह—तं विलोक्य इति । तथोक्तं पराशरेण—ततो ददृशुर् आयान्तं विकासि-मुख-पङ्कजं [वि।पु। ५.१३.४३] इति । तद्-अर्थं सर्वम् अन्वेषितं गानं रोदनम् अपि प्राप्ति-साधनं ज्ञात्वा तम् आगतं दूराद् एव विलोक्य सम्यक्त्वेन दृष्ट्वा परिचित्य विरहाग्नि-ताप-प्रदम् अपि प्रेष्ठं जीवन-हेतुत्वात् । अबलाः विरहार्ति-जनित-देह-सामर्थ्या अपि तद्-विश्वासाभावात् सकृद् आत्मानं दर्शयित्वा पुनर् अप्य् अदृश्यो भविष्यतीति शङ्कया सर्वाः पुण्यत एकदैव उत्तस्थुः स-सम्भ्रमं समुत्थिता इति । कर्शनानन्तरम् एव प्राप्ता उत्फुल्ला विकसिता दृशो यासां ताः । तत्र दृष्टान्तम् आह—तन्वा कर-चरणादयः आगतं प्राणं दृष्ट्वा यथोत्तिष्ठन्ति स-चेतना भवन्ति, तद्वद् इति ॥३॥
एवं तावत् सर्वासाम् एव विरह-ताप-निवृत्तौ सत्यां तासां यूथ-मुख्यानां तत्-तद्-भावोदयेन पूर्व-चिन्तितानि विरहालापैः मुख-निर्गतानि शृङ्ग-ग्राहिका-न्यायेन पृथक्-कृतानि चेष्टितानि अभिनयेन दर्शयति—काचिद् इति पञ्चभिः । काचिद् इति श्री-कृष्ण-प्रियात्वान् नामानुक्तिः । ययान्तर्धि-समये कराम्बुज-स्पर्शनम् एव चिन्तितं, सा कापि शौरेर् इति शुकोक्तिः । काचित् कराम्बुजम् इति शैत्य-हेतुत्वं व्यञ्जितम् अञ्जलिना संहत-हस्त-द्वयेन गौरव-पूर्वकं स्व-विनय-ज्ञापनं च मुदा हृदयोल्लासे निज-गृहे पुनर् अप्य् अन्तर्धान-शङ्कयेति गूढाभिप्राया, बहु-प्रदेश-चङ्क्रमणेन संवलन-शङ्कया वा स्पर्श-जनितानन्द-प्राप्तीच्छया वा कराम्बुज-ग्रहणम् इति । काचित् गौरवं परित्यज्य तद्-बाहुं स्वांसे दधार यतोऽप्य् अन्तरगा भविष्यामीत्य् आशया सदालिङ्गिता स्याम् इत्य् आशया वा एकं बाहुं स्व-स्कन्धे धृतवती । अनेन पीताम्बर-धारणात् । मुदा इति पूर्व-क्लेश-निवृत्तिः सूचिता। कीदृशं बाहुं ? चन्दन-भूषितं चन्दनेन भक्ति-च्छेद-रचनया कयाचिल् लिप्तं विरह-ताप-तप्तांसे स्थापनं तत्-ताप-निवृत्त्य्-अर्थम् एव । तत्र हेतुत्वेन विशेषणं चन्दन-भूषितम् इति । "रूषितम्" इति पाठे स एवार्थः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्वः कर-चरणादयः । आगतम् इति पुनर्-उक्तिः तासां मूर्च्छितानाम् उत्थानं तद्-आगमनैक-हेतुकम् इति स्पष्टीकर्तुम् ॥३॥
सर्व-गोपीषु मुख्यानां कासाञ्चित् स्व-स्वभावोचित-प्रेम-चेष्टितान्य् आहुः—काचिद् इति पञ्चभिः । कराम्बुजं दक्षिणम् एवेत्य् उत्तरार्ध-व्याख्यायां व्यक्तीभावित्वात् । जगृहे विनय-मय-मैत्र्यात् स्पर्शौत्सुक्याच् चेति भावः । इयम् आदर-मय-संस्पर्शात् तदीयतामय-घृत-स्नेहवती कान्त-पराधीना दक्षिणा च प्राथम्यात् सर्व-ज्येष्ठा । चन्दनेन रूषितं भक्ति-च्छेदेन लिप्तं बाहुं वामम् एव स्व-कान्त-वाम-भाग एव स्थितौचित्यात् । इयम् आदर-गन्धिना स्व-कर्तृकालिङ्गनेन किञ्चिद् घृत-स्नेह-मिश्र-मधु-स्नेहवती-व्यक्त-सख्या किञ्चित् स्वाधीन-कान्ता दक्षिणा च ॥४॥
॥ १०.३२.५ ॥
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् ।
एका तद्-अङ्घ्रि-कमलं सन्तप्ता2 स्तनयोर्3 अधात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अञ्जलिना संहत-हस्त-द्वयेन ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताम्बूलस्य चर्वितं भक्षितोच्छिष्टं थूत्कृत्य त्यक्तं तज्जलं वा । सन्तप्त-स्तनयोस् तापापनोदनार्थम् अधाद् दधार ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद्-अङ्घ्रि-कमलम् इति । उपविश्य स्थितवत एव प्रणय-वशाच् चरणयोर् एकम् उत्तोल्य स्तनयोर् अधात् । पश्चाद् एवोपवेशो वक्ष्यते ॥५-९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अञ्जलिना इति पूर्ववत् । किं वा, बहुल-लाभाशया सदा चर्व्यमाणं ताम्बूलं प्रवर्तते, परम-रसमयत्वात् पतन-शङ्कया वा । यतस् तन्वी विरहेणातिकृशा । अत एव ताम्बूल-चर्वितं परम-रसमयत्वात् ताम्बूलं पुरा श्री-भगवतैव नागर-शेखरेण स्वयम् आनीतम् । किं वा, श्री-वृन्दा-देव्य्-आद्य्-अर्पितं ज्ञेयम् । अङ्घ्रि-कमलम् एकं स्तनयोर् न्यधाद् इत्य् एतस्यास् तद्-अर्थम् उपवेशो ज्ञेयः । श्री-भगवद्-उपवेशश् चाग्रे—तत्रोपविष्टः [भा।पु। १०.३२.१४] इति वक्ष्यते, तस्य तयोर् निधाने हेतुः—सन्तप्त- इति । अन्यथा विरह-ताप-काम-ज्वरयोर् अनुपगमः । "हृदये" इति पाठेऽपि स एवार्थः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अञ्जलिनागृह्णाद् इति पूर्ववत् । अत्रौत्सुक्यं त्व् अधरामृतार्थम् । इयं मृदुर् दास्य-प्राय-सख्या कान्त-पराधीना दक्षिणा च अङ्घ्रि-कमलं दक्षिणम् एव स्तनयोर् न्यधात्। वाम-भुजेन प्रियावलम्बनेन वाम-चरण-न्यस्ताङ्ग-भावता-प्राप्तेः। सम्प्रति स्थित एव चायम् उपवेशस्याग्रतो वक्ष्यमाणत्वात् । अत उपविष्टयैव तया चरण-धारणम् । तस्य तयोर् निधाने हेतुः—सन्तप्त- इति विरह-मय-रत्य्-आख्येन भावेनेति शेषः । "हृदय" इति पाठे स एवार्थः । इयं प्रखरा दास्य-प्राय-सख्या कान्ताधीना दक्षिणा च ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : काचिद् अञ्जलिना इति कुमारिकाणां मुख्या । एका तद्-अङ्घ्रि-कमलम् इति स-दैन्य-प्रणयवती । सा तु काचिद् दधार तद्-बाहुं [भा।पु। १०.३२.४] इति बाहुं स्वांसे दधत्याः कस्याश्चित् स्कन्धे कृतावर्जनतया शिथिलैक-पादस्य तस्य स्थितिः । अत एव शिथिलं चरणं स्वयम् उपविश्य स्तनयोः कृतवती, न तु तदा भगवान् उपविष्टः ॥५॥
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् ।
एका तद्-अङ्घ्रि-कमलं सन्तप्ता4 स्तनयोर्5 अधात् ॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६७) : अत्र चन्द्रावल्याः सदृश-भावा काचिद् अञ्जलिना इत्य्-आदिना वर्णिता । एका तद्-अङ्घ्रि-कमलम् इत्य्-आदिना च । एते तत्-सख्यौ पद्मा-शैव्ये इत्य् अभियुक्त-सिद्धिः ॥५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अधर-सीधुनाप्य् आपयस्व न [भा।पु। १०.३१.८] इति यथा प्रार्थितं सा अञ्जलिना संहत-हस्त-द्वयेन ताम्बूल-चर्वितम् अधरामृतम् इव सहितम् एवागृह्णात् । कीदृशी विप्रलम्भेऽधरामृत-पानान्तरेण कृशाङ्गी जाता ? एका काचित् यया प्रार्थितं चरण-पङ्कजं शन्तमं च ते रमणं नः स्तनेष्व् अर्पयाधिहन् [भा।पु। १०.३१.१३] इति, सा स्व-मनोर्थं सफलीकर्तुं सन्तप्त-स्तनयोः विर्ह-ताप-तप्तयोस् तद्-अङ्घ्रि-कमलम् अधात् न्यस्तवती तासां सम्मर्दे तत्रोपविश्येति आर्थिकोऽयम् अर्थः । अन्यथा तद्-अङ्घ्रि-कमल-स्थापनम् अशक्यं स्याद् इति ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अञ्जलिनागृह्णाद् इतीयं दास्य-प्राय-मैत्र्या कान्ताधीना दक्षिणा च । अङ्घ्रि-कमलं दक्षिणम् एव स्व-हस्ताभ्यां गृहीत्वा भूमाव् उपविष्टा स्तनयोर् न्यदात् । ततश् च वाम-भुजेन कान्तायाः स्कन्धम् आलम्ब्य वाम-चरणेन भुवम् अवष्टभ्य कृष्णस् तस्थाव् इति ज्ञेयम् । इयं मैत्र्य-प्राय-दास्या कान्ताधीना दक्षिणा चेति । अत इमे तदीयता-मय-घृत-स्नेहवत्या प्रथमायाः सख्यौ ॥५॥
॥ १०.३२.६ ॥
एका भ्रू-कुटिम् आबध्य प्रेम-संरम्भ-विह्वला ।
घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रुकुटिं भ्रुवम् आबद्ध्य कुटिलीकृत्य प्रेम-संरम्भेण प्रणय-कोपावेशेन विह्वला विवशा दष्टाधरोष्ठा कटाः कटाक्षाः, तैर् ये आक्षेपाः परिभवाः, तैस् ताडयन्तीवैक्षत् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नामैक-देश-ग्रहणेन भीम-पदेन भीमसेनवत् कट-पदेन कटाक्ष-ग्रहो ज्ञेयः । घ्नन्तीव इति—"अरे शठ ! माम् अपि त्यक्तवान्" इत्य् आशयः । राधिकेयम् इति प्रतीयत इति ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेम-संरम्भेणैव भ्रुकुटिम् आ सम्यक् बद्धा पश्चात् प्रेम-संरम्भ-विह्वला बभूवेति शेषः । ऐक्षतेति परेणावान्व्यः । तथा च श्री-विष्णु-पुराणे—
काचिद् भ्रू-भङ्गुरं कृत्वा ललाट-फलकं हरिम् । > विलोक्य नेत्र-भृङ्गाभ्यां पपौ तन्-मुख-पङ्कजम् ॥ [वि।पु। > ५.१३.४४] इति ।
अन्या च कटाक्ष-बाण-क्षेपैर् घ्नन्तीवैक्षत । अत्रापि प्रेम-संरम्भ एव कारणं ज्ञेयम् । निर्दष्ट-दशन-च्छदेत्य् उक्तेः । प्रेमेत्य् अनुवृत्तेर् वा ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेम-संरम्भ-विह्वला सती भ्रुकुटिम् आबध्य निर्दष्ट-दशन-च्छदा भूत्वा कटाक्षेपैर् घ्नतीवैक्षत इत्य् अन्वयः । कटाक्षेपैः कटाक्ष-विक्षेपैः । सन्दष्टेति क्वचित् पाठः । शारिम् इति प्रकरणात् । घ्नतीवेति तस्यापि क्षोभं व्यज्य ताभिर् गृहीतत्वेनैव दाक्षिण्य-मात्रेणैव च स तत्र स्थित इति व्यज्यते । तथा वाम्येन दूर-स्थिताया अपि तस्याः प्रेम-संरम्भेणेत्य् अनेन तद्-ईक्षणे परम-सुखं दर्शितम् । यथा श्री-विष्णु-पुराणे—
काचिद् भ्रू-भङ्गुरं कृत्वा ललाट-फलकं हरिम् । > विलोक्य नेत्र-भृङ्गाभ्यां पपौ तन्-मुख-पङ्कजम् ॥ [वि।पु। > ५.१३.४४] इति ।
अत्र बिब्बोकाख्यानुभावो दर्शितः । यथोक्तं—इष्टेऽपि गर्व-मानाभ्यां बिब्बोकः स्याद् अनादरः इति । तथा ललिताख्योऽपि, यथोक्तं—
विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः । > सुकुमारा भवेद् यत्र ललितं तद् उदीरितम् ॥ [उ।नी। ११.५६]
इयं प्रखरा सुसख्यात्यन्त-स्वाधीना वामा कान्ता च ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एका भ्रु-कुटिम् आबध्य इति प्रणय-क्रोधवती, केचिद् एनां श्री-राधाम् आहुः ॥६॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६७) [चतुर्थ-श्लोकस्य व्याख्यातः परं] : अथ मदीयत्वातिशयमय-द्वितीयोदाहरणम् । एका भ्रू-कुटिम् आबध्य इत्य्-आदि । एषा खलु मध्यतो वर्णनया मध्य-स्थितेत्य् अवगम्यते । मध्य-स्थितत्वं चास्याः परम-दुर्लभतां व्यनक्ति । ततो भाव-विशेष-धारिता चास्या गम्यते । तस्य साक्षात्-प्रत्यायकं च मदीयत्वातिशयादि-बोधक-भ्रू-भङ्ग्य्-आदिकम् एवास्ति । इयं च श्री-राधैव ज्ञेया ।
ईदृश एव भावोऽस्याः कार्त्तिक-प्रसङ्गे व्रत-रत्नाकर-धृत-भविष्य-वचने दृश्यते—
तस्मिन् दिने च भगवान् रात्रौ राधा-गृहं ययौ । > सा च क्रुद्धा तम् उदरे काञ्ची-दाम्ना बबन्ध ह ॥ > कृष्णस् तु सर्वम् आवेद्य निज-गेह-महोत्सवम् । > प्रियां प्रसादयामास ततः सा तम् अवोचयत् ॥ इति ।
ततः सिद्धे च तस्या भावस्य तादृशत्वे यथा राधा प्रिया इत्य्-आदि पाद्मादि-वचनानुसारेण अनयाराधितो नूनं [भा।पु। १०.३०.२८] इत्य्-आद्य्-अनुसारेण च तन्-माहात्म्यात् तादृश-भाव-माहात्म्यम् एव स्फुटम् उपलभ्यते । द्वारकायाम् एतद्-अनुगत-भावत्वेनैव श्री-सत्यभामापि सर्वतः प्रशस्ता । तत्र भाव-सादृश्यं सर्वतः प्रशस्तत्वं च यथा श्री-विष्णु-पुराणे—
यदि ते तद्-वचः सत्यं सत्यात्यर्थं प्रियेति मे । > मद्-गेह-निस्फुटार्थाय तदायं नीयतां तरुः ॥ [वि।पु। ५.३०.३३] > इति ।
पाद्म-कार्त्तिक-माहात्म्ये श्री-कृष्ण-वाक्यं च यथा—न मे त्वत्तः प्रियतमा इत्य्-आदि । श्री-हरि-वंशे वैशम्पायन-वचनं च तन्-निर्धारकम्—सौभाग्ये चाधिकाभवद् इति ।
अथ या च पूर्व-भावोपलक्षिता सापि तद्-भाव-विरोधि-भावत्वेन तत्-प्रतिपक्ष-नायिका स्यात्। चन्द्रावल्य् एव सेति च प्रसिद्धम् । तथोक्तं श्री-बिल्वमङ्गलेन—
राधा-मोहन-मन्दिराद् उपागतश् चन्द्रावलीम् ऊचिवान् > राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली । > कंस क्षेममये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया > राधा क्वेति विलज्जितो नत-मुख-स्मेरो हरिः पातु वः ॥ इति > ।6
अत्र चन्द्रावल्याः सदृश-भावा काचिद् अञ्जलिनेत्य् आदिना वर्णिता । एका तद्-अङ्घ्रि-कमलम् इत्य्-आदिना च । एते तत्-सख्यौ पद्मा-शैव्ये इत्य् अभियुक्त-सिद्धिः । श्री-राधायाः सदृश-भावा च । अपरिनिमिषद्-दृग्भ्याम् इत्य्-आदिना वर्णिता । तं काचिद् [भा।पु। १०.३२.८] इत्य्-आदिना च । मदीयोऽसौ स्वयम् एव माम् अनुभविष्यतीति स्वयं ग्राह-स्पर्शाद्य्-अभावेन वाम्य-स्पर्शात्।
ततश् चैते तत्-सख्यौ । एते च प्रायस् तत्-स-नामत्वात् । तद्-अनुगततया पाठाच् चानुराधा-विशाखे भवेताम् । ये खलु विशाखा ध्यान-निष्ठिका इति, राधानुराधा इति भविष्योत्तर-पठिते तत्रानुराधैव ललितेत्य् अभियुक्त-प्रसिद्धिः । सङ्कर-भावा च काचिद् दधार [भा।पु। १०.३२.४] इत्य्-आदिनोक्ता । तद् बाहोर् अंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् । उत्तरस्या एषा खलु श्यामलेत्य् अभियुक्त-प्रसिद्धिः । अत्राष्टमी च विष्णु-पुराणोक्ता यथा—
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । > कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [वि।पु। ५.१३.४४] > इति ।
अस्या नातिस्फुट-भावत्वात् ताटस्थ्यम् । एषा च भद्रेत्य् अभियुक्त-प्रसिद्धिः । तेषां भावानां परमानन्दैक-रूपत्वं दर्शयति—सर्वा [भा।पु। १०.३२.९] इति ॥४-९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : यद् उक्तम्, पति-सुतान्वय- [भा।पु। १०.३१.१६] इति प्रणय-कोप-विशेषवती सा एका यूथ-मुख्या दूरे स्थिता कौटिल्येन भ्रू-कुटिं भ्रू-लताम् आबध्य वक्रीकृत्य भ्रू-कुटि-बन्धनेन चित्त-कौटिल्यं लक्षितम् । प्रेम-संरम्भैः प्रकोपः सर्वेन्द्रिय-स्तम्भ-हेतुना तेन विह्वलात एव सन्दष्ट-दशन-च्छदा सम्यक् दष्टो दशन-च्छदो अधरोष्ठो यया सा । लोभ-नियमनार्थं पूर्वं प्रतिश्रुत-विलासावितरण-दृशः । स्वभाव-नियमनार्थं प्रेम संरम्भः कटाक्षे नेत्रे प्रातास् तैर् ये आक्षेपाः परिभवाः । यद् वा, आ समन्तात् क्षिप्यन्ते इति आक्षेपा बाणास् तैः घ्नन्तीव ऐक्षत् स्वातन्त्र्य-निराकरण-पूर्वक-स्वान्तता-सम्पादनार्थं कटाक्षैर् हननं सूचितम् इति । तद् उक्तं विष्णु-पुराणे—
काचिद् भ्रू-भगुरं कृत्वा ललाट-फलकं हरिम् । > विलोक्य नेत्र-भृङ्गाभ्यां पपौ तन्-मुख-पङ्कजम् ॥ [वि।पु। > ५.१३.४४] इति ।
यथा चिन्तितम्, कुटिल-कुन्तलं श्रीमुखं च ते जड उदीक्षितां पक्ष्म-कृद् दृशां [भा।पु। १०.३१.१५] मुख-दर्शनम् एव प्रार्थितम् ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रूकुटिम् आबध्य एवं कुटिलीकृत्य सज्यं धनुः शर-संसक्तं प्रतान्येवेत्य् अर्थः । प्रेम-संरम्भेण प्रणय-कोपावेशेन विह्वला विवशा कटाः कटाक्षाः शरास् तेषां क्षेपैर् निक्षेपैः कृष्णं लक्ष्य-भूतं घ्नतीव भोः कुहक-शिरोमणे ! स्व-प्रेम-हालाहलं त्वया मयि प्रयुज्य सम्यक्तया सफलीकृतं देहान् निःसृत-प्रायान् प्राणान् दग्धुं किं पुनर् अपि प्रत्यासीदसि त्वं साध्व् एव परिचितोऽभूर् इति व्यञ्जयन्ती ऐक्षत । निर्दष्ट-दशन-च्छदेत्य् अञ्जलिना धृतस्य स्वाधरस्य दशः कोपानुभावः । इयं मदीयता-मय-मधु-स्नेहोत्थ-मान-कौटिल्यवती ॥६॥
॥ १०.३२.७ ॥
अपरानिमिषद्-दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् ।
आपीतम् अपि नातृप्यत् सन्तस् तच्-चरणं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिमिषन्तीभ्याम् अनिमीलन्तीभ्यां दृग्भ्याम् आपीतम् अपि सम्यग् दृष्टम् अपि पुनः पुनर् जुषाणा नातृप्यत् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपरा गोपी । सन्तः सर्वदा तत्-पराः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जुषाणा सेवमाना प्रीत्या वीक्षमाणेत्य् अर्थः । आपीतम् अपि दृशोश् चषकत्वं ध्वनितं परम-प्रीत्या सम्यग्-दृष्टम् अपीत्य् अर्थः । सन्तः प्रीति-भक्त्य्-एक-निष्ठा इति मधुर-प्रेम्णः प्रीति-भक्तेर् वा तृप्त्य्-अभावांश-मात्रे साम्यम् अभिप्रेतं किन्तु सारङ्गाणां पदाम्बुजम् इत्य्-आदि तेषां श्री-पदाम्बुजे भक्तिः । आसां च प्रेयसीनाम् अधरामृतादि-लोभेन प्रायः श्री-मुख एव प्रीतिर् इति प्रेम-विशेषः सूचित एव । अत एव तेषां श्री-पादाब्जयोः कोमलत्वादेः साक्षाद् अननुभवाद् अब्जादि-रूप-प्रयोगः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जुषाणा आस्वादयन्ती आपीतं सम्यग् आस्वादितं माधुर्यम् अपि इति दृशो रसनात्वं मुखस्याम्बुजता-रूपकेण तत् सौन्दर्यस्य मधुत्वं च रूपितम् । दृशोत्तं रसनात्व-रूपकेण तु तन्-माधुर्यासक्तिर् दर्शिता । शान्ता दास्य-भक्ति-निष्ठा इति साक्षाद्-दर्शनेऽपि तृप्त्य्-अभाव-मात्रे दृष्टान्तः । वैशिष्ट्यं तु तत्-तद्-भाव-माधुरी-व्यञ्जक-श्री-मुखालम्बनतया विद्यत एव । इयं सन्-मुख-दत्त-दृष्टित्वात् प्रखरा स्वयम् एवासौ मां मिल्ष्यतीति स्व-स्थान एव स्थितत्वात् सुसख्या स्वाधीन-कान्ता वामा च ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपरानिमिषद्-दृग्भ्याम् इति दर्शनानन्द-निस्पन्दा स्वभाव-सरला ॥७॥
श्री-राधायाः सदृश-भावा च अपरिनिमिषद्-दृग्भ्याम् इत्य्-आदिना वर्णिता
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : सा अपरा यूथ-मुख्या अनिमिष-दृग्भ्यां तन्-मुखाम्बुजं जुषाणा आस्वादयन्ती दृशोः पान-करणत्वम् उक्तम्, लक्षणया मुखाम्बुजे लावण्य-रूप-मकरन्दस्य पेयत्वं सूचितम् इव द्रवस्यान्त-प्रवेशनं पानम् इति पान-लक्षणम् । अत्र च नेत्र-द्वारेण मुखाम्बुज-लावण्यस्य हृदये प्रवेशनम् एव पानम् इति । आपीतम् अपि सम्यक् दृष्टम् अपि परम-प्रीत्या पुनः पुनः सेवमानान् नातृप्यत् अलम् इति । नामन्यतेति अनेन विषय-सौन्दर्यं प्रवृत्ति-हेतुः, न तु प्रयोजनाभावः प्रतिबन्धको\ऽस्तीति । तत्र दृष्टान्तः सन्तस् तच्-चरणं यथेति । सारङ्गानां पदाम्बुजम् [भा।पु। १.११.२६] इति ते यथा पदाम्बुजम् इत्य् उक्तम् । ते यथा पदाम्बुजं सदा सेवमान अपि अलम् इति । न मन्यन्ते तृप्त्य्-अभावे दृष्टान्तः ।
ननु सर्वांशेन सन्तो हि प्राप्तव्यम् अस्ति । चरणाम्बुजे सर्वेषां साहित्यम् अस्ति । अधरामृते न कस्याप्य् अंशो\ऽस्ति । अत एतस्य सर्वतो वैशिष्ट्यं सूचितम् इति ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिमिषन्तीभ्याम् आनन्द-जाड्य-वशाद् अनिमीलयन्तीभ्यां दृग्भ्यां भ्ररीभ्याम् इव तस्य मुखाम्बुजम् । यद् वा, तत्-प्रसिद्धम् । पूर्वस्याः कटाक्ष-शर-जर्जरितत्वात् सभय-चकिर्त-व्याकुलम् अनुतप्तम् । आपीतं सम्यग्-आस्वादित-माधुर्यम् अपि पुनः पुनर् जुषाणा आस्वादयन्तीति मुखाम्बुजस्य स्वभावेनैव माधुर्यम् अपारम् । तत्रापि स्वाभीष्टेन स्व-यूथेश्वरी-कटाक्ष-शर-प्रहारेण सङ्कोच-त्रपा-विषाद-दैन्यादि-सञ्चारि-मिश्रणाद् बहु-विधम् अतिवर्धमानं तदानीम् अभूद् अतस् तत्र तृष्णाधिक्यान् नातृप्यत् । सम्पूर्णांशेन दृष्टान्ताद् दर्शनाद् एकांशेन दृष्टान्तम् आह—सन्त इति । अत्र कटाक्ष-शर-प्रहार्ण्याम् एव कृष्णस्य तदानीं सम्पूर्णा दृष्टिः सम्पूर्णं मनश् च न त्व् अन्यस्यां कस्याम् अप्य् एकांशेनापि । यत एव स्वस्मिंस् तस्यानवधानम् आलक्ष्य लज्जानुद्गमात् दृग्भ्याम् इति सम्पूर्णाभ्याम् एव नेत्राभ्यां स्वच्छन्देनैव मुखम् अपश्यद् अतः सर्वतः सौभाग्यवती कटाक्ष-शर-वर्षिण्य् एव ज्ञेया ॥७॥
॥ १०.३२.८ ॥
तं काचिन् नेत्र-रन्ध्रेण हृदि-कृत्य निमील्य च ।
पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदि-कृत्य हृदयं नीत्वेत्य् अर्थः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । हृदि-कृत्य कारागारेऽपराधिनाम् इव । इत्य् अर्थ इति—हृदय-देशे प्रापणम् एव हृदि-करण-पदार्थः, सर्वदा सतः करणासभवाद् इति तात्पर्यम् । आनन्द-सम्प्लुता परमानन्द-पूर्णा । पुंस्त्व-पाठे तु योगि-विशेषणम् । अत्र केचिद् अष्ट-सखी-चेष्टितं कल्पयन्ति—काचित् कराम्बुजं शौरेः [१०.३२.४] इत्य् आरभ्य योगीवानन्द-सम्प्लुता इत्य् अन्तम् । तत्र सङ्ख्या-पूर्त्य्-अर्थं—
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । > कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उवाच ह ॥ [वि।पु। ५.१३.४४] > इत्य् अधिकं श्लोकं च पठति ।
सख्यश् च—(१) चन्द्रावली, (२) श्यामला, (३) श्यामा, (४) विशाखा, (५) राधिका, (६) ललिता, (७) पद्मा, (८) भद्रा इत्य् आख्याः । ललिता-विशाखा-चम्पकलता-चित्रा-तुङ्गविद्येन्दुलेखा-रङ्गदेवी-सुदेव्य इत्थं केचित् सख्य्-अष्टकं राधाभिन्नं वदन्ति ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काचित् परम-लज्जादि-गुण-नम्रा साक्षाच् चिरं मुहुर् द्रष्टुम् अप्य् अक्षमा, अत एव नेत्रयो रन्ध्रेण द्वारेण हृदि-कृत्येति मनसि सर्वाङ्ग-स्फूर्त्या तत्-तद्-अशेष-सौन्दर्यानुभवार्थम् इवेति निमील्य नेत्रे एकस्मिन्न् एवाङ्गे नेत्रयोर् लग्नयोर् अन्येषां मनसापि दर्शनासम्भवात् । किं वा, नेत्र-द्वारेण तस्य निःसरण-भयाद् इव । वस्तुतस् तु तत्-तत्-प्रेम-सम्प्लुतत्व-स्वभावेनैव । अत एव उपगुह्य हृदि तम् आलिङ्ग्य, च-कारात् "कृष्ण कृष्ण" इति कीर्तयन्तीः । तथा च वैष्णवे—
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । > कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [वि।पु। ५.१३.४४] > इति ।
काचित् भ्रुकुटिम् [भा।पु। १०.३२.६]7 इत्य् अत्र यद्य् एकैव गोपी व्याख्याता, तदात्र पराशरोक्तेयम् अष्टमी ज्ञेया । आनन्द-रसेऽत्यन्त-निमग्ना सती आस्ते, क्षणम् आसीद् इत्य् अर्थः । योगी ध्यान-योगेन भगवति चित्तैकाग्र्यं गतः । तथा च वैष्णवे—
काचिद् आलोक्य गोविन्दं निमीलित-विलोचना । > तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ [वि।पु। ५.१३.४६] > इति ।
बहिर्-वृत्त्य्-अभाव-मात्रे दृष्टान्तः । तत्र च नेत्र-रन्ध्रेण इति तस्माद् अप्य् अस्या विशेषः सूचितः । ध्याने दर्शनाद् अपि साक्षात् सन्दर्शनेऽत्यन्तानन्दात् । तच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् एव । तत्रापि काचिद् इति स्त्रीत्वेन भाव-विशेषात् । अत एवालिङ्गनाच् च साक्षात् सन्दर्शनवद्भ्यः पार्षदादिभ्यः श्री-गोप-वर्गादिभ्यश् चानन्द-विशेषः सूचित एवेति दिक्।
नौमि चन्द्रावलीं भद्रां पद्मां शैव्याम् अनुक्रमात् । > श्यामां विशाखां ललितां राधाम् इत्य् अष्टौ तत्-प्रियाः ॥
तत्-तन्-नामाग्रहण-कारणं पूर्वं लिखितम् एव । यद्यप्य् आसां प्रेम्णि तारतम्य-बाहुल्यं न घटते, प्रत्येकं सर्वासां तस्मिन् परम-काष्ठापत्तेः । अत एव कराम्बुज-ग्रहणादिषु तासां स्व-स्वभावानुसारेण तदानीन्तनेच्छानुसारेणैव वा प्रवृत्तिः, तथापि मुक्त-गुण-पूज्यानां श्री-वैकुण्ठ-पार्षद-वराणाम् इव तासाम् अपि कथञ्चित् तारतम्य-कल्पनया तत्रापि मुख्यत्वेन प्रसिद्धानाम् अष्टानां तास्व् अपि श्री-राधा-देव्याः सुप्रसिद्धत्वेन सर्वतो वैशिष्ट्येन श्रैष्ठ्यम् । ततश् च तद्-भावानां तत्-तच्-चेष्टितानाम् अत्यूह्यम् । अत एवाष्टौ तथा तथा पृथग् उक्ता इति दिक् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं नेत्र-रन्ध्रेण हृदि कृत्य इति तस्या हृदये तस्य स्वच्छोपाधौ बिम्बस्यैव परमासक्तिः सूचिता । ततः साक्षाद् भावाल् लज्जया नेत्रे निमील्य भाव-पारवश्येन पुलकाङ्गी सती उपगुह्य आलिङ्गनम् अनुकृत्य आस्ते चिरं तथैवासीद् इत्य् अर्थः । योगीव इति अन्तः स्फूर्तौ दृष्टान्तः । यद् वा, योगीति क्रिया-विशेषणं योगे यथा स्यात् तद् इवेत्य् अर्थः । इयं लज्जया मृद्वी, पूर्वस्माद् धेतोः सुसख्या स्वाधीन-कान्ता वामा च । एवं सप्तोक्ता । अष्टमी तु श्री-विष्णु-पुराणे—
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । > कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [वि।पु। ५.१३.४४] > इति ।
प्रखरा सरला चेयम् ।
अत्रेदं विवेचनीयं—रत्य्-आख्यो भावस् तावद् उभय-विधः—एक आत्मनि तदीयता-भावना-मयत्वेन कान्त-पराधीना दाक्षिण्यादि-मयः । अन्यः कान्ते मदीयता-भावना-मयत्वेन पराधीन-कान्तत्व-वामत्वादि-मयः । तद् एवं भाव-द्वय-मिश्रित-तारतम्येनान्येऽपि विविधा भावा विभाव्यन्ते । तद् एतन्-नाना-भाववतीनां मध्ये सजातीय-भावानां सख्यं स्यात् रोचकत्वात्, विजातीय-भावानां प्रतिपक्षता स्यात्, अरोचकत्वाद् एव सजातीय-भावानां सौहृद्यं स्यात्, यत् किञ्चिद् रोचकत्वेन हिताशंसन-मात्रात् । अतिमिश्रत्वेन अतिसूक्ष्मत्वेन वा नातिस्फुट-सजातीयादि-भेद-भावानां तटस्थ्यं स्यात्, अवधान-हेत्व्-अभावात् । श्री-कृष्ण-विषयक-निज-निज-भाव-मात्राभिरुचि-मतीनां तासां सख्याद्य्-उदयस्य तद्-एक-मूलत्वम् एवोचितम् इति । तत्र तदीयता-मदीयता-मययोर् मुख्ययोर् भावयोर् उत्तरः श्रेयान्, ममताधिक्येन हि गम्भीर-प्रेम-प्रवाहाधिक्यं भवति । तत एव तद्-विवर्त-रूप-वाम्यापर-पर्याय-कौटिल्याभासो जायते—अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् [उ।नी। १५.१०२] इति भरत-न्यायात् । अत एव कान्तोऽपि तद्-वशः स्यात्, तथा च रुद्रः—
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । > तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ [उ।नी। १.२०]
यथा श्री-हरि-वंशे श्री-सत्यभामायां दृश्यते—
रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता । > अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता ॥ [ह।वं। २.६५.५०] > कुटुम्बस्येश्वरी सासीद् रुक्मिणी भीष्मकात्मजा । > सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवद् ॥ इति च ।
अत एवार्धेनार्धेन प्रथम-चतसृणां वर्णनम्, उत्तर-तिसृणां त्व् एकेनैकेनेति कवेर् आदरोऽपि दृश्यते । आसु तिसृसु च एका भ्रू-कुटिम् आबध्य [भा।पु। १०.३२.६] इत्य् अनेन या वर्णिता, सैव श्रेष्ठा भाव-वैशिष्ट्येन न प्रथमत्वेन चोपन्यासात् तादृश-सर्व-विलक्षण-भावश् च तस्या एव स्व-परित्यागे स्यात्, यस्याः सर्व-परित्यागेन स्व-सङ्गे नीतायाः सौभाग्य-दानेन सर्व-वैलक्षण्यं श्री-भगवान् स्वयम् आविष्कृतवान्, तस्मात् सैव सा भवेत् ।
अथ प्रथम-चतसृणां प्रथमैव ज्येष्ठा श्रेष्ठा च अग्रे स्थितत्वात्, सर्वा अतिक्रम्य प्रथमत एव कान्त-स्पर्शात् दक्षिणासु सुमधुर-चेष्टत्वात् । एषा चोत्तर-वर्ग-प्रवराया विजातीय-भावेति प्रातिपक्षिकी ज्ञेया ।
अथानयोर् वर्ग-विचारः तत्रोत्तर-प्रथमायाः सख्यौ तद्-अनन्तरे द्वे प्रथम-प्रथमायास् त्व् एक-व्यवहित-तृतीयादिके द्वे भाव-साम्यात्, न तत्-तद्-अनुगततया वाम-दक्षिणयोः स्थितेश् च। या तु प्रथम-द्वितीया सा खलु प्रथम-गणान्तः प्रविश्य स्थितापि किञ्चिद् व्यवहितत्वात् तद्-अतिक्रमि-चरितत्वाच् च न प्रथमायाः सखी पराधीन-कान्तं मन्यतया किञ्चित् सादृश्येनोत्तरायास् तु सुहृद् इति ज्ञेयम् ।
अथ या विष्णु-पुराणोक्ता सा तु नातिविस्पष्ट-भावत्व-वर्ग-द्वयाप्रवेशाच् छ्री-शुकेनावर्णनाच् च तटस्थैव ज्ञेया ।
अथ तासां नाम-विचारः । तत्र भविष्योत्तरे मल्ल-द्वादशी-प्रसङ्गे श्री-कृष्ण-युधिष्ठिर-संवादे तन्-नामानि, यथा—
गोपी-नामानि राजेन्द्र प्राधान्येन निबोध मे । > गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका । > राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।
"विशाखान्या धनिष्ठिका" इति पाठः क्वचित् । दशमी इत्य् अपि नामैकं, तच् चान्वर्थम् इति सर्वान्ते पठितम् । यद् वा, तथेति दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । गोपाली चेयं नूनं पाद्मोक्त-गायत्री-चरी भवेत्, तथा स्कान्द-प्रह्लाद-संहितायां द्वारका-माहात्म्ये माया-सरः-प्रस्तावे पुनर् उद्धवागमने प्रिय-प्राप्तिवत् प्रिय-दूत-प्राप्ताव् अपि स्व-स्वभावाभिव्यक्तेस् तद्-भावोक्ति-सहितान्य् एवाष्टौ नामानि निर्दिष्टानि, किन्त्व् अत्यन्त-दुःख-मयोक्तित्वान् नैतादृश-रसावसरे दृश्यानि । कदाचिद् विचारावसरे त्व् अपेक्ष्याणीत्य् अनन्य-गतिकत्वेनैव लिख्यन्ते, यथा—
तच् छ्रुत्वा वचनं तस्य ललिता क्रोध-मूर्च्छिता । > उद्धवं साश्रु-नयना सोवाच रुदती तदा ॥ > श्री-ललितोवाच— > असत्यो भिन्न-मर्यादः शठः क्रूर-जन-प्रियः । > मा कृथाः पुरतोऽस्माकं कथास् तस्याकृतात्मनः ॥ > धिक् धिक् पाप-समाचारो धिग् असौ निष्ठुराशयः । > हित्वा यः स्त्री-जनान् मूढो गतो द्वारवतीं प्रति ॥ > श्री-श्यामलोवाच— > किं तस्य मन्द-भाग्यस्य स्वल्प-पुण्यस्य दुःखदाः । > मा कुरुध्वं कथाः सख्यः कथाः कथयतापराः ॥ > श्री-धन्योवाच— > केनायं हि समानीतो दूतो दुष्ट-जनस्य च । > यातुं तेन पथा पापो येन नायाति वै पुनः ॥ > श्री-विशाखोवाच— > न शीलं न कुलं यस्य ज्ञायते जन्म कर्म च । > हीनस्य पुरुषार्थेषु तेन सङ्गो निरर्थकः ॥ > श्री-राधोवाच— > पूतना-घातने यस्य नास्ति पाप-कृतं भयम् । > तस्य स्त्री-हनने साध्व्यः शङ्का कापि न विद्यते ॥ > श्री-शैव्योवाच— > सत्यं ब्रूहि महाभाग किं करोति यदूत्तमः । > संवृतो नागर-स्त्रीभिः कथास्माकं करोति किम् ॥ > श्री-पद्मोवाच— > कदोद्धव महा-बाहुः नागरी-जन-वल्लभः । > समेष्यतीह दाशार्हः पद्म-पत्रायतेक्षणः ॥ > श्री-भद्रोवाच— > हा कृष्ण गोप-प्रवर हा गोपी-जन-वल्लभ । > समुद्धर महाबाहो गोपीः संसार-सागरात् ॥ इति ।
एके तु चन्द्रावलीम् एवाष्टानां मध्ये मन्यन्ते, न तु धन्याम्, तस्या लोकेऽतिप्रसिद्धेः । तत्र दश-सङ्ख्याकं मतं नात्रैकार्थ्यं समर्थयति, सङ्ख्या-वैषम्यात् । अष्ट-सङ्ख्याकयोर् अपि मतयोर् धन्या-पक्षो न सङ्घटयितुं शक्यते, तत्र तत्-सहितत्वेन श्री-ललितादीनां पञ्चानां वाम-प्रखर-प्रायत्वात् । अत्र त्व् एका भ्रूकुटिम् अबध्य [भा।पु। १०.३२.६] इति तिसृणाम् एवेति चन्द्रावली-पक्षस् तु सङ्गम्येत, तस्या दक्षिणा-वर्गाग्रिमात्वेन स्थापयिष्यमाणत्वाद् वाम-दक्षिणयोर् द्वयोर् अपि वर्गयोस् त्रिसङ्ख्यकत्वेन षट्त्वे द्वाभ्यां श्यामला-भद्राभ्यां चान्याभ्याम् अष्टता-पर्याप्तौ सुघटता स्याद् इति ।
तद् एवं स्थिते या पुनर् उत्तर-वर्ग-प्रथमा एका भ्रूकुटि इत्य्-आदि वर्णिता परम-भाव-सौभाग्योपरि-काष्ठापन्नत्वाच् छ्री-राधैव ।
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । > सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति पाद्मोक्तेः ।
राधा वृन्दावने वने इति मत्स्य-स्कन्दादिभ्यः ।
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । > वराभय-करा ध्येया सेविता सर्व-देवतैः । > सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति बृहद्-गौतमीये > च । > राधया माधवो देवो माधवेनैव राधिका । > विभ्राजन्ते जनेष्व् आ इति ऋक्-परिशिष्टे ।
वर्णिता च सा तथैव श्री-जयदेव-सहचरेण महाराज-लक्ष्मण-सेन-मन्त्रि-वरेणोमापति-धरेण—
भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित- > ज्योत्स्ना-विच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि । > गर्वाद् भेद-कृतावहेल-विनय-श्रीभाजि राधानने > सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥8 इति ।
विवृतं च तन्-मद्-अनुज-वरैः श्री-रूप-महा-भागवतैर् उज्ज्वल-नीलमणेः स्थायि-भाव-विवरणे । अतो गान्धर्वा इति या श्री-गोपाल-तापिन्यां प्रसिद्धा, सापि मुख्यत्व-लिङ्गेनेयम् एव9 इति मन्यन्ते । अस्याः प्रह्लाद-संहितायां पूर्व-पूर्वापेक्षया वचन-कौशल्यान् मध्यात्वम् । अत्र च कोपावसरेऽपि लीला-विशेष-मात्र-व्यञ्जित-प्रागल्भतया बाहु-धारिण्याद्य्-अपेक्षया मध्यात्वम् इति च समानम् ।
अथ या अपरानिमिषत् [भा।पु। १०.३२.७] इत्य्-आदिना तत्-सखी वर्णिता, सा श्री-ललितेत्य् अवगम्यते, वाम्य-प्राखर्याभ्यां साम्यात् । सम्प्रति नातिवाम्यादिकं तु निज-वर-सखी-निशात-दृक्-पात-घात-जात-तत्-क्षोभ-दर्शनेनातिसन्तोषात् । एषा च राधानुराधा इति या भविष्योत्तर-पठिता तद्-अपर-पर्यायैव वा । तत्र च पाठस्य नाम्नोश् च युग्मता-मयत्वावगतेर् अत्रापि सम-वर्गता प्राप्त-सखी-वृन्द-प्रथमोक्तेर् मुख्यता प्राप्ति-साम्यात् ।
अथ तं काचिन् नेत्र-रन्ध्रेण [भा।पु। १०.३२.८] इत्य्-आदि वर्णिता तत्-सखी तु प्रायः श्री-विशाखैव, वाम्य-मार्दवाभ्यां साम्यात् । प्रह्लाद-संहितायाम् अपि न शीलम् इत्य्-आदिकं तद्-वाक्यं तादृशम् एव ।
अथ या प्रथम-वर्गस्य प्रथमा सा श्री-चन्द्रावल्य् एव । यतः श्री-राधया सह प्रतियोगितयैतिह्यम् अस्या एव विराजते । तथा च श्री-बिल्वमङ्गल-चरणाः—
राधा-मोहन-मन्दिराद् उपगतश् चन्द्रावलीम् ऊचिवान् > राधे क्षेमम् इहेति तस्य वचनं श्रुत्वाह चन्द्रावली । > कंस क्षेमम् अये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया > राधा क्वेति विलज्जितो नत-मुखः स्मेरो हरिः पातु वः ॥10 इति > ।
अर्थ-साम्य-प्रायाद् इयं भविष्योत्तर-ख्याता सोमाभैव वा स्यात् ।
अथ या तस्या द्वितीया काचिद् दधार [भा।पु। १०.३२.४] इत्य्-आदिना श्री-राधा-सुहृद्-वर्णिता सा श्यामला भवेत् । प्रह्लाद-संहितायां ललितादि-गणे प्रविश्य हितोपदेश-दानेन तस्याः सौहृद्य-लक्षणावगतेः । सखीनां सम-दुःख-प्रलापिता भवति किञ्चिद् व्यन्तरितध्यैव (सिच्) तु हितोपदेश-दातृता दृश्यत इति । इयम् एव श्री-मध्वाचार्यैर् भागवत-तात्पर्य-दर्शिता लीलाख्या भवेत् ।
अथ काचिद् अञ्जलिना [भा।पु। १०.३२.५] इति एका तद्-अङ्घ्रि [भा।पु। १०.३२.५] इति वर्णिते ये चन्द्रावली-सख्यौ । तथा विष्णु-पुराने यास् तटस्था वर्णिताः ताः क्रमेण शैव्या-पद्मा-भद्रा स्युः सेवकवद् दैन्येन सञ्जिगमिषया नातिस्फुट-भाव-विशेषत्वेन च साम्याद् इति ।
महानुभाव-सम्मत्या युक्ति-प्रायं व्यलेखि यत् ।
तत्र कृष्णस् तदीयाश् च ममानन्य-गतेर् गतिः ॥
ता मद्-वर्ण्य-रहो-लीला-नाम्ना सङ्कोचम् आप्नुयुः ।
मुनिनैवं ह्नुताह्वानाः क्षमन्तां मम चापलम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तं काचिन् नेत्र-रन्ध्रेण इत्य्-आदि मुग्धापि गभीर-प्रेमवती ॥८॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६७) : तं काचिद् [भा।पु। १०.३२.८] इत्य्-आदिना च । मदीयोऽसौ स्वयम् एव माम् अनुभविष्यतीति स्वयं ग्राह-स्पर्शाद्य्-अभावेन वाम्य-स्पर्शात्। ततश् चैते तत्-सख्यौ । एते च प्रायस् तत्-स-नामत्वात् । तद्-अनुगततया पाठाच् चानुराधा-विशाखे भवेताम् । ये खलु विशाखा ध्यान-निष्ठिका इति, राधानुराधा इति भविष्योत्तर-पठिते तत्रानुराधैव ललितेत्य् अभियुक्त-प्रसिद्धिः ॥८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : यथा न खलु गोपिका-नन्दनो भवान् [भा।पु। १०.३१.४] इत्य् उपक्षिप्तं सा काचित् पूर्वस्यास् तु दर्शन-मात्रम् एवापेक्षितम्, अस्यास् तु तावत् विशेषोदयाद् वैशिष्ट्यं । तस्यास् तु अनिमिष-दृग्भ्याम् इति लिङ्गात् सारल्यं मुग्धत्वात् काचिद् दूरे स्थिता ध्यान-विक्षेपक-गोपी-सङ्ग-त्यागेनेति । सर्वाङ्ग-लावण्य-ग्रहणासक्तिः निरूपिता यस्याः श्री-कृष्णस्यादर्शने सर्व-विवेक-शून्यत्वम् आसीत् । तं कृष्णं सर्वाङ्ग-लावण्य-विभागेन हृदि कृत्य स्व-मनसि स्थिरीकृत्य । तत्र नयन-द्वारम् आह—नेत्र-रन्ध्रेण इति । पुनर् नेत्रे निमील्य बहिर् निःसारण-शङ्कया निमीलनं । वस्तुतस् तु प्रेम-विवर्ते नानुसन्धानं न चोद्देशः, तथापि तस्या अनुरागौत्कण्ठ्यं विदग्धत्वं सूचितम् । अनेन सर्वेन्द्रिय-वर्तानां स्वान्त एव निरोध उक्तः । कृष्णे हृदि प्रविष्टे सति स्वान्त एव स्थितानां सर्वेन्द्रियाणां विषयाणाम् अनुभवो जातः । अतस् तम् उपगुह्य हृद्य् एवालिङ्गनम् आस्ते स्म, तूष्णीम् आनन्द-समुद्रे निमग्ना जाता । यतः पुलकाङ्गी हृद्य् आलिङ्गने जाते न कस्या अपि गोचरतेति भावः । अन्याभिर् अनुपलक्षिता परमानन्दम् अनुभूतवतीति ।
ननु साक्षात् स्पर्शम् अन्तरेण कथम् आनन्दावाप्तिः ? तत्र तस्या अनुभव एव प्रमाणं । तत्र बहिर्-दृष्ट्याभावे\ऽपि अन्तः-सुख-पूर्णत्वे दृष्टान्तः—योगी च । योगी यथा ध्यान-योगेनैवान्तर्-आनन्द-पूर्णो भवति, बहिः संवेदनाभावात्, तथेयम् अप्य् आनन्द-सम्भूता बहिः-संवेदन-रहिता चासीत्, कार्यानुसन्धानाभावात्, न ह्य् अन्तः-पूर्णे आनन्दे कञ्चन कामो नामावशिष्यत इति ॥८॥
तं काचिन् नेत्र-रन्ध्रेण हृदि-कृत्य निमील्य च ।
पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदि कृत्य हृदयं नीत्वेति भाग्यान् मिलितो\ऽयं चञ्चलः कान्तः पुनर् मापसरत्व् इति च बुद्ध्येति भावः । निमील्य च इति पुनर् नेत्र-रन्ध्रेण एव निःसरेद् इति शङ्कयेति भावः । पुलकाङ्गी इति निर्विघ्न-सम्भोग-प्राप्ति-बुद्ध्या । उपगुह्यास्ते इति स्व-कर्तृकोपगूहनं महा-विरहोत्तर-काल-प्राप्त्या तृष्णाधिक्येन धैर्यापगमात्, तत्र दृष्ट-लोकाभावाल् लज्जानुत्पत्तेश् च । तिस्र एवैताः कान्ता-पार्श्वं प्रत्युपगमनाद् वा, "मा अस्मान् एवायम् आगम्य मिलतु, न तु वयम् इमं गत्वा कदाचिद् अपि मिलाम" इति मदीयतामय-मधु-स्नेहवत्त्वात् सुसख्याः स्व-वशीकृत-कान्ता ज्ञेयाः । तत्र तिसृषु मध्ये प्रथमा सर्व-गोपी-जनाधिका यूथेश्वरी, द्वितीया-तृतीये तस्याः सख्यौ । एवं सप्तानाम् आसां श्री-वैष्णव-तोषणी-दृष्ट्यैव चन्द्रावली श्यामला शैव्या पद्मा श्री-राधा ललिता विशाखा इति क्रमेण नामान्य् अवगतानि । अष्टमी तु—
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । > कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [वि।पु। ५.१३.४४]
इति विष्णु-पुराण-दृष्ट्या भद्रा-नाम्नी ज्ञेया । श्री-वैष्णव-तोषणी-धृत-स्कान्द-प्रह्लाद-संहिता द्वारका-माहात्म्य-विख्याताभिख्या एता अष्टाव् एव त्रिशत-कोटि-गोपीषु मुख्या ज्ञेयाः। आसु तारतम्य-जिज्ञासा चेद् उज्ज्वल-नीलमणिर् द्रष्टव्यः । सर्व-मुख्या तु श्री-राधैव—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । > सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति पाद्मोक्तेः । > देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । > सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति > बृहद्-गौतमीयोक्तेः । > राधया माधवो देवो माधवेनैव राधिका । > विभ्राजन्ते जनेष्व् आ इति ऋक्-परिशिष्टोक्तेश् च ज्ञेया ॥८॥
॥ १०.३२.९ ॥
सर्वास् ताः केशवालोक-परमोत्सव-निर्वृताः ।
जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राज्ञम् ईश्वरं प्राप्य यथा मुमुक्षवो जनाः । यद् वा, प्राज्ञं ब्रह्म-ज्ञानं प्राप्य यथा संसारिणः । यद् वा, प्राज्ञं सौषुप्तं11 प्राप्य यथा विश्व-तैजसावस्था जीवाः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता यूथी-भूताः । मुमुक्षूणाम् उपासनया ईश्वर-साक्षात्-कारेणैव संसार-ताप-हानिः—मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ [भा।पु। १.२.२६] इत्य्-आद्य्-उक्तेः । ज्ञानाद् एव तु कैवल्यम् इति श्रुतेर् ज्ञानस्यैव संसृति-नाशकत्वाद् वेदान्त-मतेन पूर्वोक्तार्थेऽस्वारस्याद् अर्थान्तरम् आह—यद् वा इति । ब्रह्म-ज्ञं ज्ञानिनम् । ज्ञान्य्-अनवरत-सङ्गेन तद्-उपविष्टात्म-तत्त्व-साक्षात्कारेणाज्ञान-निवृत्त्या परमानन्द-स्वरूपावाप्तेः संसार-ताप-हानिः स्फुटैवेति सर्वानुभूतार्थ-परित्यागेनाननुभूतार्थ-कथनम् अन्याय्यम् इव मत्वा पुनर् अर्थान्तरम् आह—यद् वा इति । सुषुप्तं सुषुप्त्य्-अवस्था-साक्षिणम् । विश्व-तैजसावस्था जीवा जाग्रत्-स्वप्न-साक्षिणः सुषुप्तौ जाग्रत्-स्वप्नोभय-कालिक-दुःखानाम् अनुभवात्, अन्धोऽनन्धो दुःख्य् अदुःखी इत्य्-आदि-श्रुतेः । केवल-सुखम् एव तत्रानुभूयते सुखम् अहम् अस्वाप्सम् इति तद्-उत्थित-स्मृतेः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं ता एव निस्तापा हृष्टाश् च बभूवुः, किं त्व् अन्याः सर्वा अपीत्य् आह—सर्वा इति । केशाः सुन्दरा वर्तन्तेऽस्येति केशवः, अस्त्य्-अर्थे वः, तस्य तदीयैक-केशस्यापीत्य् अर्थः । आलोकः ईषद्-दर्शनं । तद् एव परम उत्सवः सर्वार्थ-समुच्चयः चित्तोल्लासो वा, तेन निर्वृतः । तत्रानुरूपो दृष्टान्तः—प्रकर्षेण आ सम्यक् जानातीति प्राज्ञः श्री-कृष्णः, तद्-भक्त्य्-आदि-माहात्म्य-तत्त्वाभिज्ञो महा-भागवतोत्तमः, तं कुत्रापि गतं पुनः प्राप्य प्रकर्षेण लब्ध्वा प्रीत्या बहुधा संगम्य तद्-विरहजं तापम् । अ-कार-प्रश्लेषेण अजनाः, अस्य विष्णोर् जना वैष्णवा यथा जहति, तद्वद् इति । अस्य च सुप्रसिद्धत्वेन तथा—राम-रावणयोर् युद्धम् इत्य्-आदि न्यायेन तद्-एक-योग्यत्वेन च दृष्टान्तत्वम् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् अन्यासां का वार्ता ? तत्राह—सर्वा इति । तासां तत् सौभगम् इदं वीक्ष्य मानं च केशवः [भा।पु। १०.२९.४८] इत्य् अत्रेवात्र च केशव-शब्दः परम-तेजो-निधानता-परः । ततश् च तदानीं यथा तस्यान्तर्धाने तासां तेजोऽन्तर्धापनं, तथा सम्प्रति आविर्भावेन तद्-आविर्भावः सञ्जात इति भावः । तस्य आलोक एव परमानन्द-प्रदत्वात् परमोत्सवः, तेन निर्वृताः प्राप्त-दुःख-निवर्तक-सुखाः ।
तत्रानुरूपो दृष्टान्तः—प्राज्ञम् इति । सुषुप्ताव् अविद्यया इव पुनः परित्याग-शङ्काया निगूढ-स्थितेः । यद् वा, प्राज्ञः परम-भागवतः, तं प्राप्य जना यथा इति । एवम् अप्य् आरम्भ एव दृष्टान्तेन सम्यक्-सिद्धौ पूर्वस्माद् एव हेतोः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राज्ञं सुषुप्ति-साक्षिणम् इव सुषुप्ताव् अविद्यावत् पुनः परित्याग-शङ्काया निगूढ-स्थितेः ॥९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं स्व-स्व-प्रकृत्य्-अनुषारेण विविध-भाव-भावुक-सुभगम्-भावुकाः सर्वा एव तम् आलोक्य विरह-सन्तापं जहुर् इत्य् आह—सर्वा इत्य्-आदि। यथा जनाः प्राज्ञं भगवद्-भक्तं प्राप्य भगवद्-विरह-तापं जहति, तथा इत्य् अर्थः ॥९॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६७) : तेषां भावानां परमानन्दैक-रूपत्वं दर्शयति—सर्वा इति ॥९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अत एवोपसंहारे एतस्या वैशिष्ट्यं चोक्तम्, न केवलम् एतासां यूथ-मुख्यानाम् एव मनोरथ-पूर्तिर् जाता, किन्तु सर्वासाम् अपि इत्य् आह—सर्वा इति । एवं यूथ-मुख्यानाम् अभीष्ट-प्राप्तौ सत्यां सर्वासाम् अथानन्दावाप्ति-प्रकारं दर्शयति । यास् तु विरहजेनाग्निना मूर्च्छिता इवासन्, ताः । केशवः प्रशस्त-केशवान् । यद् वा, कस्य सुखस्य स्पर्शः कामस् तं वशयतीति, साक्षान्-मन्मथ-मन्मथ [भा।पु। १०.३२.२] इत्य् उक्तत्वात् । उपक्रमे तूक्तम् एव—तासां तत् सौभग-मदं वीक्ष्य मानं च केशवः [भा।पु। १०.२९.४८] इत्य् उक्तम् एव । तासां मद-मान-निवृत्तौ सत्यां स्वत एवाविर्भूत इति । तस्य केशवस्यालोकस् तत्-कर्तृको वा, तेन परमोत्सवः परमानन्दः, तेन निर्वृताः सत्यो विरहजं तापं जहुः विस्मृतवत्यः इत्य् अर्थः । प्राज्ञम् ईश्वरं ब्रह्मज्ञं वा सौषुप्तं वात आचार्यैर् एवं व्याकृतत्वात् । यद् वा, प्राज्ञं रसज्ञं प्राप्य रस-जिज्ञासवो जनाः यथा तापं जहाति, तद्वद् इति ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राज्ञं परम-भागवतं जनाः संसार-तप्ताः । गृहेषु तप्ता निर्विण्णा यथाच्युत-जनागमः [भा।पु। १०.२०.२०] इति प्रावृड्-वर्णनोक्तेः ॥९॥
॥ १०.३२.१० ॥
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पुरुषः परमात्मा शक्तिभिः सत्त्वादिभिर् यथा । यद् वा, उपासकः पुरुषो ज्ञान-बल-वीर्यादिभिः । यद् वा, पुरुषोऽनुशायी प्रकृत्य्-आद्य्-उपाधिभिर् वृतो यथाऽधिकं विरोचते, तद्वत् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताभिः पूर्वम् उद्दिष्टाभिः । भगवद्-दर्शनात् त्यक्त-क्लेशाभिः । अच्युतोऽस्पृष्ट-शोकः । पूर्वम् एवाहम् इहासम् इति । तत् पुरुषस्य पुरुषत्वम् इति श्रुतेः । पुरुषः परमात्मा । सत्त्वादयो यद्यपि माया-कार्यत्वान् माया-शक्तयः, तथापि मायायाः, मम माया दुरत्यया [गीता ७.१४] इत्य्-आद्य्-उक्तेः, सापि तच्-छक्तिः । अतस् तस्या अपि तस्यैव स्त्र्य्-उपकरणानां स्त्री-स्वामिवत् । एतद्-अर्थस्य विज्ञेयत्वेन दुर्बोधत्वाद् अर्थान्तरम् आह—
ज्ञेयो लोके स पुरुषो भजते यो हरिं सदा । > तद्-अन्यः खुर-शृङ्गादि-वर्जितो द्विपदः पशुः ॥ इत्य्-उक्तेः ।
पुरुष उपासकः भगवद्-भक्तः । भक्तेर् ज्ञानाद्य्-उत्पादकत्वं प्रथितम् एव । यद् वा, हरेर् भक्ताधीनत्वेन स्वातन्त्र्याभावाद् भक्ताधिक्यम् अत्रोक्तम् ।
प्रसिद्धम् एतल्-लोकेऽस्मिन् स्वामिनः सेवकोऽधिकः । > सेतुं कृत्वातरद् रामो वायुजोऽब्धिं तु कूर्दनात् ॥ इत्य् अभियुक्तोक्तेः > ।
ननु पुरुष-पदं जीव-परम्, क्षेत्रज्ञ आत्मा पुरुषः इत्य्-उक्तेः । तत् कथम् अन्य-परतया व्याख्यातम् ? इति चेत्, "तुष्यतु दुर्जनः" इति न्यायेनाह—यद् वा, पुरुषोऽनुशायी इति । अनुशायी जीवः भगवन्-निदानम् अनुशेते प्रलयावस्थायाम् इति निरुक्तेः । अग्रे गुणेभ्यः जगद्-आत्मनीश्वरे निमीलितात्मन् निशि सुप्त-शक्तिषु [भा।पु। १.१०.२१]12 इत्य्-उक्तेः । प्रकृत्य्-आदीत्य् अत्रादिना महद्-अहङ्कारादि-ग्रहः । यथा प्रकृतिभिर् गुप्तः पुमान् राजा च सप्तभिः [भा।पु। ६.१४.१७] इत्य्-आद्य्-उक्तेः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः श्री-भगवतो\ऽपि परम-निर्वृत्या भगवत्ता-साराविर्भावेणाधिक-शोभा जातेत्य् आह—ताभिर् इति । विधूतो नाशितः शोको विरहजो\ऽन्तस्-तापो याभिः, ताभिः । तद्-विशेषश् चोक्तः श्री-पराशरेण—
ततः काञ्चित् प्रियालापैः काञ्चिद् भ्रू-भङ्ग-वीक्षितैः । > निन्येऽनुनयम् अन्याश् च कर-स्पर्शेन माधवः ॥ [वि।पु। ५.१३.३०] > इति ।
अतस् ताभिर् वृतः भगवान् सर्वैश्वर्य-सम्पूर्णो\ऽपि, अच्युतः कथञ्चित् कदाचित् कस्माच्चिद् अपि शोभा-मयाच् च्युति-रहितो\ऽपि अधिकं यथा स्यात्, तथा ताभिर् विशेषेण अरोचत अशोभत । भगवान् इति अधिक-हेतुर् वा, विरोचने तेनैवाशेष-निज-भगवत्ता-सर्वस्व-प्रकटनाद् इत्य् अर्थः । अत एवाशेष-शोभाया परां काष्ठां प्राप्तस्यापि ताभिर् वृतत्वेनाधिक-विरोचनं दृष्टान्तेन साधयति—पुरुष इति । जीवो ब्रह्मत्वेन स्वतः शर्व-शक्ति-युक्तो\ऽपीन्द्रियादि-शक्तिभिः प्रकटिताभिः सतीभिर् एव यथा अधिकं विरोचते । अन्यथा मूर्च्छितादि-तुल्यता-प्राप्तिः । एवं माधुर्य-कारुण्यादि-गुण-प्रकटनेन निज-वल्लभावलि-वृतत्वेनैवाधिका तस्यापि शोभा स्यात् । अन्यथा भक्त-वृन्द-सेव्यमानत्वेनाप्य् अशेष-शोभामय-भगवत्ता-सारापूर्ति-प्रसक्तिर् इति दिक् । अत एवाश्चर्येण तद्-बोध-योग्यत्वेन वा तात इति सम्बोधनम् । यद् वा, तत्-स्मरणात् प्रेम-वैवश्येनैव पूर्ववत् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो मद-मानौ परित्यज्य सर्वा मिलित्वैव तद्-अनुगता बभूवुः, ताभिः श्री-भगवतो\ऽपि परम-शोभाविर्भावो जात इत्य् आह—ताभिर् इति त्रिकेण। विधूत- इत्य् अत्र कारण-विशेषश् चोक्तः श्री-पराशरेण—
ततः काञ्चित् प्रियालापैः काञ्चिद् भ्रू-भङ्ग-वीक्षितैः । > निन्येऽनुनयम् अन्याश् च कर-स्पर्शेन माधवः ॥ [वि।पु। ५.१३.३०] > इति ।
भगवान् सर्व-सम्पूर्णो\ऽपि अच्युतः, तत्र कथञ्चित् च्युति-रहितो\ऽपि अधिकं पूर्व-पूर्वतः प्रकृष्टं यथा स्यात्, तथा ताभिर् विशेषेण अरोचत । तादृशस्यापि ताभिस् तादृशत्वे तद्-आविर्भाव-विशेषे एव दृष्टान्त इत्य् आह—पुरुष ईश्वरः । स यथा भगवद्-रूपेण शक्तिभिर् ऐश्वर्यादि-मय-स्वरूप-शक्तिभिर् वृत एवाधिकं विरोचते, न तु ब्रह्म-रूपेण ताभिर् आवृत इति । तथा सो\ऽपि ताभिः प्रेम-विशेष-मय-स्वरूप-शक्तिभिर् वृत एवाधिकं व्यरोचतेत्य् अर्थः । तात इति सम्बोधनं परमानुकम्पायाम् । तातो\ऽनुकम्प्ये पितरि इति नानार्थात् । "परमानुकम्प्यत्वाद् एव रहस्यम् इदं त्वयि प्रकाशयामि" इति भावः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषो भगवत्-तत्त्वम्, स यथा भगवद्-रूपेण शक्तिभिर् ऐश्वर्यादिमय-स्वरूप-शक्तिभिर् वृत एव अधिकं विरोचते, न तु ब्रह्म-रूपेण ताभिर् आवृत इति । तथासौ ताभिः प्रेम-विशेष-मय-स्वरूप-शक्तिभिर् वृत एव अधिकं व्यरोचत इत्य् अर्थः॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवान् अपि तथैतेन पूर्वं तथा न व्यरोचतेत्य् आह—ताभिर् विधुत- इत्य्-आदि । ताभिर् व्यरोचत इति वाक्यार्थः । अधिकं यथा भवति, तथा । एतेन पूर्वं तथा व्यरोचत, एकाकित्वात् । तत्र दृष्टान्तः—पुरुषः शक्तिभिर् यथा सुप्त-शक्तिः पुरुष ईश्वरस् तथा न विरोचते, यथोद्रिक्ताभिः शक्तिभिः । एतेन शक्तीनां सुप्तत्वम् उद्रिक्तत्वं चेति । न तु कदापि नाशः, नित्यत्वात् । तात इति स-विस्मय-हर्षोत्कर्षे सम्बोधनम् ॥१०॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं निवृत्त-तापानां तासां सम्बन्धेन श्री-कृष्णस्यापि कान्त्य्-अतिशयो जात इत्य् आह—ताभिर् इति । याभिर् मद-मानौ त्यक्तौ, ताभिर् इति । इदानीं श्री-कृष्णाविर्भावेन विधूत-शोकाभिः निरस्ताकृतार्तत्व-प्रतीतिर् इति । अकृतार्थत्वम् अन्यत्वम् एव शोकः, तस्य निवृत्तत्वात् परमोज्ज्वलत्वं जातम्, अत एव रमण-योग्याभिस् ताभिर् वृतो वेष्टितः । यद् वा, याभिः कात्यायन्य्-अर्चनेन पतित्व-पुरःसरं रमणं याचितं व्रत-प्रार्थितः सन् वरं प्रादात्—मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२९] इति प्रतिश्रुतम्, ताभिः कृत्वा अधिकं नित्य-सिद्धाभ्यो\ऽप्य् अधिको व्यरोचत । भगवान् अपि ऐश्वर्य-विशिष्टो\ऽपि तद्-अनन्यतास्व् एव उरीकृतत्वात् । ताभिर् वृत ऐश्वर्याद् अधिकं व्यरोचत, यतो\ऽच्युतः तास्व् अनुराग-च्युति-रहितः ।
यद् वा, विप्रलम्भात् पूर्वं यथा बाहु-प्रसार- [भा।पु। १०.२९.४६] इत्य्-आदि, रेमे13 तत्-तरलानन्दि [भा।पु। १०.२९.४६] इत्य्-आदिनोक्तं रमणं, ततो\ऽप्य् अधिकं व्यरोचत । विप्रलम्भेन स्थायि-भावस्य पुष्टत्वात् शोभा-भरः सूचितः ।
तत्र दृष्टान्तम् आह—पुरुषः परमेश्वर ईश्वरः द्योतिकाभिः मायाद्य्-आदिभिः शक्तिभिस् तनु-कूलाभिः सर्वोपकारकत्वं न प्रकाशते, तद्वत् ।\
यद् वा, प्राकृतः पुरुषो जीवः क्रिया-ज्ञानादि-शक्तिभिर् वृतः शोभते । स्वर्गादि-मोक्षान्त-पुरुषार्थ-प्राप्ति-योग्यो भवति, तद्-अभावे न किञ्चित्, तद्वत् भगवान् सर्व-काम-पूर्णो\ऽपि व्रज-सुन्दरी-सङ्गम् अन्तरेण तिरोधाने मधुर-रस-पराकाष्ठां न लब्धवान् । तद्-रस-दर्शनाधिकृतो\ऽपि जनो निर्वृतिर् नाम इदानीं ताभिर् वृतं दृष्ट्वा निर्वृतो\ऽभवत् । तात- इति सम्बोधनं स्वानुभवो मया कथ्यते, तत्रावधानं कुर्व् इति। यत एकाकिनैव रसो न प्राप्यते। अतो रस-वृद्ध्य्-अर्थं ताभिः सङ्गतः शुशुभे, स्व-दृष्ट्य्-अभिप्रायेण श्री-शुकः स स्वानुभवं कथयति ॥१०॥
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शक्तिभिः सर्वेन्द्रिय-शक्तिभिः । पुरुषो यथाधिकं विरोचते । तासां वैकल्ये सति तु नात्यन्तं रोचते, एवम् एव कृष्णो\ऽप्य् आसां खिन्नत्वे खिन्नो नाधिकं रोचते । आसां विधूत-शोकत्वेन अधिक-रुचिमत्त्वे सो\ऽप्य् अधिकं रोचते इति । पुरुषस्य यथा स्वेन्द्रिय-सुख एव सुखं, स्वेन्द्रिय-दुःखे दुःखम् । एवम् एव कृष्णस्यापि तासां सुख-दुःखाभ्याम् एव सुख-दुःखे इति गोपी-विषयक-प्रेमवत्त्वं तासां स्व-स्वरूप-भूतत्वं च ज्ञापितम् । स्कान्दे प्रभास-खण्डे, यथा—
षोडशैव सहस्राणि गोप्यस् तत्र समागताः । > हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥ > तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः । > चन्द्र-रूपी मतः कृष्णः कला-रूपास् तु ताः स्मृताः ॥ > सम्पूर्ण-मण्डला तासां मालिनी षोडशी कला । > षोडशैव कलायास् तु गोपी-रूपा वराननाः । > एकैकशस् ताः सम्भिन्नाः सहस्रेण पृथक् पृथक् ॥ इति ।
प्रमदा शत-कोटीभिर् आकुलिता इत्य् आगमोक्तेस् त्रिंशत्-कोट्यो गोप्यस् तासां मध्ये षोडश-सहस्राणि गोप्यो मुख्यास् तासाम् अपि मध्ये सहस्राणि मुख्यतरास् तासाम् एव मध्ये अष्टाव् एता मुख्यतमाः । अष्टानाम् अपि मध्ये द्वे राधा-चन्द्रावल्यौ अतिमुख्यतमे । तयोर् अपि मध्ये श्री-राधा सर्व-मुख्यतमेति भक्ति-शास्त्र-निर्णयः ॥१०॥
॥ १०.३२.११-१२ ॥
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।
विकसत्-कुन्द-मन्दार-सुरभ्य्-अनिल-षट्-पदम् ॥
शरच्-चन्द्रांशु-सन्दोह-ध्वस्त-दोषातमः शिवम् ।
कृष्णाया हस्त-तरलाचित-कोमल-बालुकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विकसत्-कुन्द-मन्दारैः सुरभिर् योऽनिलः, तस्मात् षट्पदा यस्मिंस् तत् ॥११॥ शरच्-चन्द्रांशूनां सन्दोहैः समूहैर् ध्वस्तं दोषातमो रात्रि-गतं तमो यस्मिंस् तत् । अतः शिवं सुख-करम् । हस्त-रूपैस् तरलैस् तरङ्गैर् आचिता आस्तृता कोमला बालुका यस्मिन् । एवं-भूतं पुलिनं ताः समादाय निर्विश्य ताभिर् वृतोऽधिकं व्यरोचतेति पूर्वेणान्वयः॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : समादाय सम्यग् हस्त-धारणादिनादाय । षट्पदा भ्रमराः । किरण-सन्दोहस्य संमार्जनीत्वं ध्वनितम् । अतः तमो-रहितत्वात् । यद् वा, काम-जय-स्फोरणार्थं शिव-पदम् । कृष्णायाः कालिन्द्याः । आनु-तरङ्गो लोलः स्यात् तरलः कुरुलस् तथा इति गोपालः । आचितं छन्न-सिक्तयोः इति च । अतस् तरलैर् अणु-तरङ्गैः निर्विश्य उपविश्य तत्र पुलिने । आभिः गोपाङ्गनाभिः ॥११-१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वि-शब्दोक्तस्य रोचने वैशिष्ट्यस्य उपकरणान्तरम् अपि दर्शयति—ता इति द्वाभ्याम् । सम्यक् प्रत्येकं सर्वासाम् एव हस्त-धारणादिना आदाय रास-योग्य-पुलिनान्तरं गन्तुं पूर्व-पुलिनतो गृहीत्वा निर्विश्य प्रविश्य मध्यम् अधिष्ठायेत्य् अर्थः । विभुर् व्यापक इत्य् एकस्यापि सर्वासां युगपत् समादानादि-समावेशार्थम् ।
पुलिनस्य कामोद्दीपन-सामग्र्या रास-क्रीडा-योग्यतां दर्शयंस् तद् विशिनष्टि—विकसद् इति सार्धेन । वायोः शैत्यं पुलिन-सम्बन्धात् मान्द्यं च षट्पदास्पदत्वात् सौरभ्यं च व्यक्तम् एव । शरद् इति चन्द्रांशूनां सुप्रसन्नता । सन्दोहेति चन्द्रस्य पूर्णता । ध्वस्त-दोषा इति रात्रित्वापगमने दिनवत् प्रकाशश् च सूचितः । कृष्णायाः कृष्णस्य सनामत्वेन सवर्णत्वेन च सख्यं प्राप्तायाः । अत एव हस्त- इति । किं वा, विचित्र-शोभादिना तस्यापि चित्ताकर्षिकायाः । तद् एवाह—हस्तेति । हस्तैर् इवावचयनेन स्थली-वैषम्य-कठिनांश-राहित्यादिकं ध्वनितम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ताः समादाय इति ताभिः सह तद् एव पुलिनं निर्विश्य मध्य-प्रदेशं प्रविश्येत्य् अर्थः । विशेषेण भवतीति विभुर् बभूव इति शेषः । निज-वैभवं प्रकटयामासेत्य् अर्थः । तच् च तद्-दर्शन- [१३-१४] इति द्वाभ्यां वक्ष्यते । अन्यत् समानम् ॥११-१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वि-शब्दोक्तस्य रोचने वैशिष्ट्यस्य उपकरणान्तरम् अपि दर्शयति—ता इति द्वाभ्याम् । सम्यक् प्रत्येकं सर्वासाम् एव हस्त-धारणादिना आदाय रास-योग्यं पुलिनान्तरं गन्तुं पूर्व-पुलिनतो गृहीत्वा निर्विश्य प्रविश्य मध्यम् अधिष्ठायेत्य् अर्थः । विभुर् व्यापक इत्य् एकस्यापि सर्वासां युगपत् समादानादि-समावेशार्थम् ।
पुलिनस्य भावोद्दीपन-सामग्र्या रास-क्रीडा-योग्यतां दर्शयंस् तद् विशिनष्टि—विकसद् इति सार्धेन । वायोः शैत्य-सौरभ्ये स्पष्टे । मान्द्यं च षट्पदास्पदत्वात् ।
शरद् इति चन्द्रांशूनां सुप्रसन्नता । सन्दोह- इति चन्द्रस्य पूर्णता ध्वस्ता
दोषा इति दिनवत् प्रकाशश् च सूचितः । कृष्णायाः श्री-कृष्णस्य स-नामत्वेन स-वर्णत्वेन च सख्यं प्राप्तायाः । अत एव हस्त- इति । किं वा, विचित्र-शोभादिना तस्यापि चित्ताकर्षकत्वेन तन्-नाम्न्याः वृन्दावनं गोवर्धनम् इत्य्-आदिः । हस्त- इति हस्तैर् इवावचयनेन स्थली-वैषम्य-कठिनांश-राहित्यादिकं ध्वनितम् । अन्यत् तैः ।
ताः समादाय इति ताभिः सह तद् एव पुलिनं निर्विश्य मध्य-प्रदेशं प्रविश्येत्य् अर्थः । विशेषेण भवतीति विभुर् बभूव इति शेषः । निज-वैभवं प्रकटयामासेत्य् अर्थः । तच् च तद्-दर्शन- इत्य्-आदि-द्वाभ्यां वक्ष्यते । अन्यत् समानम् ॥११-१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं कृत्वा व्यरोचत ? इत्य् आह—ताः समादाय इत्य्-आदि द्वाभ्याम् । ताः समाधाय कालिन्द्याः पुलिनं निर्विश्य । आदि-दीपकम् इदम् । तद् विशिनष्टि—विकशद्भिः कुन्दैर् मन्दारैश् च सुरभयो येऽनिलाः, तत्-सङ्गिनः षट्-पदा यत्र कृष्णोऽत्रागत्य क्रीडिष्यतीति कृत्वा कृष्णाया हस्तेन तरलं यथा स्यात्, तथा आचिताः सम्यङ्-मार्जिताः कोमला बालुका यत्र ॥११-१२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : व्यरोचत इत्य् उक्तम् । वैशिष्ट्यं प्रस्तुत-श्लोकेन निबध्नाति रास-क्रीडार्थं यत्-कृतवांस् तद् आह—ता इति । यासां मद-मान-निवृत्त्य्-अर्थम् अन्तर्धाणेन स्थितः ताः समादाय हास्य-नख-स्पर्श-भाव-गर्भेण हस्त-ग्रहणादिना सम्यक्तया गृहीत्वा यत्र पुलिने गानं कृतं ततो\ऽपि विशालं चिकीर्षत व्यरोचतेति पूर्वेणैवान्वयः । कालिन्द्या इति पदेन शृङ्गार-रस-प्रवाह-भर-सूचितः । विभुर् इति सर्व-संनिहितत्वेन सर्वासां सम्माननेन च सामर्थ्यम् उक्तम् ।
पुलिनस्य शृङ्गारोद्दीपकत्वेन रास-विलास-योग्यतया विशिनष्टि—विकसद् इति । विकसन्ति कुन्द-मन्दार-पुष्पाणि, तैः सुरभिर् यो\ऽनिलः, तेन षट्पदा यस्मिन् । कालिन्दी-सम्बन्धेन वायोः शैत्यम् उक्तम् । कुन्द-मन्दार-सम्बन्धेन सौरभ्यं, वन-नैकट्यान् मान्द्यम् । अनेन परमोद्दीपक-सामग्री-सम्पत् सूचितेति ॥११॥
सर्वास्याः सामग्र्याः कामोद्दीपकत्वं निरूपयन् उज्ज्वलताम् आह—शरद् इति । शरत्-कालीनो यश् चन्द्रस् तस्य अंशूनां किरणानां सन्दोहः समूहः, तेन ध्वस्तं दोषा-तमः रात्रि-सम्बन्धि-तमो यस्मिन्, अनेन शरद-र्तौ उज्ज्वलत्वं प्रसन्नता-हेतुत्वं च सूचितम् । चन्द्रस्यापि पूर्णत्वम् उज्ज्वलत्वं सूचितम् ।
कृष्णाया इति नामतः वर्णतश् च साम्येन तद्-विलास-साहाय्यं साहचर्यं च सूचितम् । हस्त- इति हस्ता इव तरलास् तरङ्गाः, तैर् आचिता नीचोच्च-राहित्येन विस्तृइता14 कोमला बालुका यस्मिन् । अनेन कोमलतया स्पर्श-मात्रतः पादयोः सुख-प्रदत्वं सूचितम् ॥१२॥
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।
विकसत्-कुन्द-मन्दार-सुरभ्य्-अनिल-षट्-पदम् ॥
शरच्-चन्द्रांशु-सन्दोह-ध्वस्त-दोषातमः शिवम् ।
कृष्णाया हस्त-तरलाचित-कोमल-बालुकम् ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ताः सम्यक् हास्य-हस्त-ग्रहादिना आदाय निर्विश्य पुलिनं प्रविश्य च व्यरोचतेति पूर्वेणैवान्वयः । पुलिनं विशिनष्टि सार्धेन—विकसद्भिः कुन्दैर् मन्दारैः सुरभिर् यो\ऽनिलः, तस्मात् षट्पदा यस्मिंस् तत् । वायोः शैत्यं पुलिन-सम्बन्धात्, मान्द्यं षट्पदास्पदत्वात् । शरच्-चन्द्रांशूनां सन्दोहैर् ध्वस्तं दोषाया रात्रेस् तमो यत्र तत् । शिवम् अत एव सुखदं यमुनाया हस्त-रूपैस् तरलैस् तरङ्गैर् आचिता आस्तृता कोमला बालुका यस्मिंस् तत् ॥११-१२॥
॥ १०.३२.१३ ॥
तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो
मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैर् उत्तरीयैः कुच-कुङ्कुमाङ्कितैर्
अचीकॢपन्न् आसनम् आत्म-बन्धवे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताश् च मनोरथानाम् अन्तं ययुः पूर्ण-कामा बभूवुः । श्रुतयो यथा इति । अयम् अर्थः—यथा कर्म-काण्डे श्रुतयः परमेश्वरम् अपश्यन्त्यस् तत्-तत्-कामानुबन्धैर् अपूर्णा इव भवन्ति, ज्ञान-काण्डे तु परमेश्वरं दृष्ट्वा तद्-आह्लाद-पूर्णाः कामानुबन्धं जहति, तद्वद् इति । आप्त-कामा अपि प्रेम्णा तम् अभजन्न् इत्य् आह—स्वैर् इति । अचीकॢपन् रचयामासुः । आत्म-बन्धवेऽन्तर्यामिणे ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता यूथी-भूताः । पूर्ण-कामाः प्राप्ताभिलषितार्थाः । दृष्टान्त-सिद्धम् अर्थं स्फुटयति—अयम् अर्थः इति । कर्म-काण्डे पूर्व-मीमांसायाम् । श्रुतयः तद्-अभिमानिन्यो देवताः । परमेश्वरं परमात्मानम् । वर्ष्मोऽस्मि समानानाम् [पा।गृ।सू। १.३.८]15 इत्य्-आदिभिः । अवन्तु नः पितरः [ऋ।वे। १.१०६.३] इत्य्-आदिभिश् च । केवल-कामानुबन्धि-कर्म प्रतिपादनेन अपश्यन्त्यो वर्णयन्त्यः तत्-तत्-कामानुबन्धैः सर्वाच्छादकत्व-पित्रादि-प्रीणनादिभिर् अपूर्णा इव । इतीव-शब्देन कर्मणोऽप्य् अन्तः-करण-शुद्धि-द्वारा तद्-दर्शनोपयोगित्वम् उक्तम् । ज्ञान-काण्डे उत्तर-मीमांसा-रूपे । परमेश्वरं—सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति, ब्रह्माहम् अस्मि [बृ।आ।उ। १.४.१०] इत्य् एवं चराचरात्म-सहितम् आत्म-तत्त्वं दृष्ट्वानुभूय तद् आह्लाद-पूर्णाः स्वात्म-ज्ञानानन्द-पूर्णाः कामानुबन्धं तत्-तत्-कर्मज-सुखेहां जहति, ब्रह्मानन्दे सर्वानन्दानाम् अन्तर्-भूतत्वात् । तस्य मात्राम् उपजीवन्त्य् अन्ये इत्य्-आदि-श्रुतेः । तद्वद् इति प्राप्तात्मानन्दवत् कामानुबन्धं हित्वा तद्-दर्शनाह्लादेन श्री-कृष्ण-दर्शनानन्देन विधूता नष्टा हृद्-रुजोऽविषयी-करण-लक्षणा यासां, तास् तथा । आप्त-कामा श्री-कृष्ण-दर्शनेन पूर्ण-मनोरथा अपि । प्रेम्णा अनुरागेण । तं श्री-कृष्णम् । उत्तरीयैः प्रावरण-वस्त्रैः । कुच-कुङ्कुमाङ्कितैर् अनेनैकैक-वस्त्रा अप्य् आनन्द-विवशाः सत्यस् तैर् एव आसनं ददुर् इति ध्वनितम् । आत्म-बन्धव इति देह-बन्धु-दर्शनेऽपीति कर्तव्यता-विस्मृतिर् भवति किम् उतात्म-बन्धु-दर्शन इत्य् आह ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततोऽतिहृष्टानां प्रेम-सेवाम् आह—तद् इति । तस्य क्रीड-विशेषोत्सुकस्य विभोर् दर्शनेनाह्लादः, तेन विशेषतो धूता नाशिता हृद्-रुजः सर्वाधयो यासाम्, तथा-विधेन तेन सह तत्रागमनेन रास-क्रीडा-निर्धारात् । विधूत-शोकाभिर् [भा।पु। १०.३२.१०] इति पूर्वं विरह-शोक-मात्रस्य नाशनम् । अधुना त्व् अशेष-हृद्-रुजाम् इति भेदः । अत एव मनोरथान्तं ययुः ।
यद् वा, उपमा-गर्भितं ज्ञेयम् । मनोरथान्तम् इव ययुः, रास-क्रीडा-प्रत्यासत्तेः । यथा श्रुतयोऽपि तद्-गुणादि-वर्णनात् तं प्राप्ता इव भवन्ति, न तु सम्यग् लभन्ते, साक्षाद्-अप्राप्तेः। सा चोक्तैव श्री-ब्रह्म-स्तुतौ—अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव [भा।पु। १०.१४.३४] इत्य्-आदिना ।
यद् वा, तस्य विभोर् दर्शनाह्लादेन विधुता हृद्-रुग् विरहार्ति-लक्षणा यासां, तथा-भूताः सत्यो मनोरथस्य तु क्रमेणैवागमात् । श्रुतयोऽपि क्रमेण ईश्वरं दृष्ट्वा काम-जालं त्यजन्ति ।
यद् वा, मनोरथानाम् अन्तं निष्ठाम्, यस्मात् परो मनोरथो नास्ति । तं प्राप्ताः क्रीड-विशेषम् ऐच्छन्न् इत्य् अर्थः । श्रुतयोऽपि ईश्वरं दृष्ट्वा तद्-भक्ति-विशेषम् इच्छन्ति । अत एव आसनम् अचीकॢपन् विचित्र-चारु-प्रकारेण रचयामासुः । कैः ? स्वैः स्वयं परिहितैः उत्तरीयैः कुच-कञ्चुकोपरि-विन्यस्तैः कञ्चुकस्य सूक्ष्मतर-वस्त्रत्वात् विरह-रोदन-धारापाताच् च कुच-कुङ्कुमेनाङ्कितैर् भूषितैर् इत्य् अर्थः ।
ननु अशेष-गुणवतीभिः कथं लज्जा ताभिः परिहृता ? कथं वा प्रभवे कुच-कुङ्कुमाक्तैर् आसनं दत्तम् ? तत्राह—आत्म- इति । आत्मभ्योऽपि बन्धुः प्रेयान्, तस्मै आत्म-कोटि-प्रेष्ठायेत्य् अर्थः । अतोऽस्य भूम्य्-उपवेशेन परम-स्व-दुःखापत्तेः सख्य-प्रेम-विशेषाच् चेत्य् अर्थः । तेनैव बलाद् अत्यन्ताग्रहादिभिस् तथा प्रेरणेन स्वातन्त्र्याभावाद् इत्य् अर्थः । आसन-कल्पनं पुनर् अन्तर्धान-शङ्कया तत्रैवावृत्य रिरक्षिषया । किं वा, स्वाभिप्रेत-सुख-पिपृच्छिषयेति दिक् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, आत्मनोऽपि सकाशात् बन्धुः प्रियः, तस्मै परम-प्रियतमाय, प्रेम-भर-वैवश्याद् इत्य् अर्थः । एवं स्व-स्वोत्तरीयेण तस्य च परम-सूक्ष्म-वस्त्रतया सर्वा अपि विस्तीर्णोच्चासनार्थम् एकत्रैव । किं वा, स्व-स्व-वर्गादि-भेदेन पृथक् पृथग् एव कल्पयामासुर् इति ज्ञेयम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततोऽतिहृष्टानां प्रेम-सेवाम् आह—तद् इति । तस्य क्रीड-विशेषोत्सुकस्य विभोर् दर्शनेन य आह्लादः, तेन विशेषतो धूता नाशिता हृद्-रुजः सर्वाः आधयो यासाम् । तथा-विधेन तेन सह तत्रागमनेन रास-क्रीडादि-मय-चिर-स्थितिर् निर्धारिता, पूर्व-शङ्कापगमात् । न केवलं परम-दुःख-शान्तिर् एव, अपि तु परम-सुख-प्राप्तिर् अपि जातेत्य् आह । मनोरथस्य वाञ्छितस्य अन्तं परां काष्ठां ययुर् इति ।
तत्र दृष्टान्तः—श्रुतयो यथा इति । श्रुतयोऽपि तादृश-लीला-विशिष्टं तं प्रकाश्य निज-निज-नाना-तात्पर्य-दौःस्थ्यं परित्यजन्ति । परम-तात्पर्य-पर्यवसानं च प्राप्नुवन्तीति । तद् उक्तम् एकादशे स्वयं श्री-भगवतः—यस्यां न मे पावनम् अङ्ग कर्म16 [भा।पु। ११.११.२०] इत्य्-आदि । द्वादशे श्री-सूतेन स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भाव [भा।पु। १२.१२.६९] इत्य्-आदि च । तत्राप्य् एषा परम-प्रेम-मय-रास-लीलेति । श्रुतयोऽप्य् अत्रैव कृतार्था जाता इत्य् अस्या लीलाया महिमापि दर्शितः । अतः सहोक्ति-नामालङ्कारोऽयं व्यञ्जितः ।
ततश् च सुस्थिर-चित्ताः सत्यः आसनम् अचीकॢपन् विचित्र-चारु-प्रकारेण रचयामासुः । कैः ? स्वैः स्वयं परिहितैः उत्तरीयैः सर्वाङ्गीण-वस्त्रस्यान्तर्गतैः कुच-पट्टिकां वेति वक्ष्यमाणानुसारेण हृदयावरण-रूपैः विरह-रोदन-धारा-पातात् कुच-कुङ्कुमेनाङ्कितैर् इत्य् अर्थः ।
ननु कथं लज्जा-शैथिल्यम् इव आभिर् अङ्गीकृतं ? स्वीय-युक्तैः वस्त्रैर् आसनं दत्तं च ? तत्राह—आत्म- इति आत्मनो बन्धवे । आत्मीयत्वेन मित्रत्वेन च भावाद् इत्य् अर्थः । अन्यत् तैः । आसनं चेदं सर्वासां सूक्ष्म-वस्त्र-मय-विस्तीर्णम् एकम् एव वर्गशः पृथक् पृथग् एव ज्ञेयम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-दर्शन- इति । तस्य क्रीडा विशेषौत्सुक्यस्य विभोर् दर्शनेन इत्य्-आदिको विग्रहः । तथा-विधेन तेन सह तत्रागमनेन रास-क्रीडादि-मय-चिर-स्थितिर् निर्धारिता, पूर्व-शङ्कापगमात् । परम-सुख-प्राप्तिर् अपि जातेत्य् आह—मनोरथान्तम् इति । तत्र दृष्टान्तः—श्रुतयो यथा इति । तल्-लीलानुभवेनोभयत्रापि परम-कृतार्थत्वाद् इति सहोपमेयं यथा-शब्देन व्यज्यते ॥१३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्र गत्वा उपरिरिक्षुं श्री-कृष्णम् आलक्ष्य सर्वा आसनं कल्पयामासुर् इत्य् आह—तद्-दर्शन- इत्य्-आदि । "ताः" इत्य् अध्याहार्यम् । आत्म-बन्धवे श्री-कृष्णाय आसनम् अचीकॢपन् । कैः ? स्वैर् उत्तरीयैः । प्रत्येकम् एवोत्तरीयम् आकृष्य उपर्य् उपरि कृत्वा बहूच्चम् आसनं चक्रुर् इति बहु-वचन-महिमा । कीदृशैः ? कुच-कुङ्कुमाङ्कितैः । तेन आसनस्य पूजापि कथिता । अत्युच्चासनतया सर्व-निरीक्षणं सुकरम् इत्य् अर्थः ।
कीदृश्यः ? तस्य दर्शनाह्लादेन विधुत-हृद्-रुजः । विधूत-हृद्-रुक्त्वे दृष्टान्तः—मनोरथान्तं यथा श्रुतयो ययुः—श्रुतयो भगवत्-परा उपनिषदो यथा चिर-काल-कृत-चरणारविन्द-प्राप्ति-रूपस्य मनोरथस्य अन्तं परिणामं गोप्य्-अन्तर-रूपेण प्रापुः । ततश् च विधूत-हृद्-रुजोऽपि यथा बभूवुः, तथेत्य् अर्थः । स्वैर् उत्तरीयैर् आसन-कल्पने सर्वा एव निरुत्तरीया बभूवुर् इति न मन्तव्यम् । तदैव योगमायया प्राग्वद् उत्तरीय-सम्पादनं कृतम् इति ॥१३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अधुना तासां प्रेम-विजृम्भितं चेष्टितम् आह—तद्-दर्शन- इति । ईषन्-मद-मानसत्वे येनान्तर्हितं, तस्य दर्शनात् य आह्लाद आनन्दः, तेन विधूताः स-मूलं नाशिताः हृद्-रुजो विरहजार्ति-पीडाः यासां ताः ।
यद् वा, तस्य दर्शनं ज्ञानं विचार इति यावत्—"इदं रासोपयोगि-स्थलम्, अत्र वने एवं विहारः कर्तव्यः, अत्र कालिन्द्याम् एवं जल-विहारः कर्तव्यः" इति तेन निर्धारणेन स-मूलं नाशिता हृदय-पीडा यासां ताः । इतः परम् एवाहितो नाभविष्यतीति निश्चिन्ता इत्य् अर्थः ।
मनोरथान्तं मनोरथानां वाञ्छितानाम् अन्तं परां काष्ठां ययुः प्रापुः, भाविनोऽर्थस्य निश्चयात् । यथा श्रुतयः कर्म-काण्डे ईश्वरम् अपश्यन्त्यस् तप्ता भवन्ति, ज्ञान-काण्डे चेश्वरं दृष्ट्वा मनोरथान्तं प्रापुनुवन्ति पूर्ण-मनोरथा भवन्ति, तद्वद् इति। यद् वा, श्रुतयो नित्य-विहारिणं तत्-कदम्ब-मध्यस्थं किशोराकृति-श्री-कृष्णं दृष्ट्वा कामितवत्य ततस् तासां वरो दत्तः—पुरा सारस्वते कल्पे व्रजे गोप्यो भविष्यथ इति उपनिषद्-रूपास् ता एव कुमारिका जाताः । एता यथा मनोरथान्तं मनोरथानाम् अन्तम् अवसानं ययुः, परिपूर्ण-कामा बभूवुः, तथा अन्या अपि सादि-नित्याः सर्वा अपि मनोरथान्तं ययुः, अस्य रास-विलासस्यैतत् प्रयुक्तत्वात् ।
अत एव स्वैर् उत्तरीयैः कुचोपरि विन्यस्तैः सूक्ष्मैः कोमलैः तैर् एव आसनम् अचीकॢपन् । आसन-रचन-प्रयोजनम् आह जिज्ञासा या किञ्चित् पृष्ट-कामा अन्वेषण-जनित-श्रम-जलेन कुच-कुङ्कुमस्याङ्कितत्वम् । अत एव कुच-कुङ्कुमाङ्कितैर् इत्य् उक्तम् । यद् वा, विरहार्ति-जनित-रुदिताश्रु-धारा-सिक्तत्वात् उत्तरीयानां कुच-कुङ्कुमाङ्कितत्वम् । अत एव स्वीयातिनिवेदनम् अपि सूचितम् ।
ननु गौरवोचित-प्रीति-विषयत्वेन चेद् अयम् आराध्यः, तर्हि स्वैर् उत्तरीयैर् आसन-कल्पनं कथम् ? इति चेत् तत्राह—आत्म-बन्धवे । आत्मा च बन्धुत्वं प्रेष्ठावधि-भूत-प्रेम-बन्धन-हेतुश् च तस्मै । यद् वा, आत्मनः चित्तं बध्नाति स्वस्मिन् संयोजयतीति तस्मै । यद् वा, आत्मनः क्षेत्रज्ञस्य बन्धवे अन्तरङ्गाय । अत एव तस्यासनः कल्पनम् उचित एव । यद् वा, कुच-कुङ्कुमाङ्कितैर् इति लिङ्गात् कुच-कुङ्कुम-च्छद्मना स्वानुराग एव तस्यासनत्वेन कल्पितवत्य् अर्थः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तासां सख्य-समुचितां प्रेम-सेवाम् आह—तस्य कृष्णस्य दर्शनानन्देन खण्डित-सर्व-मनो-दुःखा व्रज-सुन्दर्यः स्वीयैर् उत्तरीयैः कुच-कञ्चुकोपरिस्थैर् अतिसूक्ष्म-वस्त्रैर् आत्म-बन्धवे तस्मै आसनं तथा अचीकॢपन्न् उपजह्रुर् यथा श्रुतयो महोपनिषदोऽपि मनोरथानाम् अन्तं परम-काष्ठां ययुः । यतोऽधिकोऽन्यो मनोरथो न सम्भवति, तं प्रापुः ॥ यद् दृष्ट्वा "वयम् अपि व्रजे गोप्यो भूत्वा श्री-कृष्णेन सहैवं स्व-कुच-कुङ्कुम-स्तिमित-वस्त्रार्पणादिना कदा विलसामः ?" इत्य् उत्कण्ठिता बभूवुर् इत्य् अर्थः । अत एव श्रुतयो गोपीत्व-प्राप्त्य्-अर्थं तद्-अनुगति-व्यञ्जकं तीव्रं तपश् चक्रुर् इति बृहद्-वामनीया कथा17 ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो > वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भा। > १०.८७.२३] इति तासाम् उक्तिश् च ।
तत्र पूर्व-काल-गत-कृष्णावतार-दर्शिन्यः श्रुतयो लब्ध-चरम-मनोरथा एतस्मिन् कल्पे गोप्यो बभूवुर् एव । एतस्मिन् काले तु लब्ध-मनोरथा एताः श्रुतयोऽग्रिम-कल्पे गोप्यो भविष्यन्ति श्रुतीनाम् आनन्त्याद् इति ज्ञेयम् ॥१३॥
॥ १०.३२.१४ ॥
तत्रोपविष्टो भगवान् स ईश्वरो
योगेश्वरान्तर्-हृदि कल्पितासनः ।
चकास गोपी-परिषद्-गतोऽर्चितस्18
त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपी-सभा-गतस् ताभिः संमानितः सन् चकास शुशुभे। त्रैलोक्ये या लक्ष्मीः शोभा, तस्या एकम् एव पदं स्थानं तद् वपुर् दधद् दर्शयन् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र गोप्य्-उत्तरीयासने । यो योगेश्वराणां सनकादि-प्रभृतीनाम् अन्तर् हृदि हृदय-पद्म-कर्णिकायां विमलोत्कर्षिण्य्-आदि-शक्तिभिः कल्पितासनः स एव ईश्वरो नन्दनन्दन-रूपेण गोपी-सभा-गत इति समन्वयः । चकास काशृ दीप्तौ । अर्चितः आसन-ताम्बूल-नर्म-सस्मितापाङ्गादिभिः संमानितः । धातूनाम् अनेकार्थत्वाद् दर्शनेऽपि दधातिर् अस्ति ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : योगेश्वरान्तर्-हृदि कल्पितासन इत्य्-आदि । तथा-भूतोऽपि तत्र गोप-कुच-कुङ्कुमाक्त-पट एव उपविष्टो रराजेत्य् अर्थः । योगेश्वरान्तर्-हृदये उपविष्टस् तथा न राजत इति यावत् । तत्रोत्प्रेक्ष्यते वपुर् दधत् वपुर् दधानं मूर्तं त्रैलोक्य-लक्ष्म्य्-एक-पदम् इव त्रैलोक्य-लक्ष्म्या यद् एकं मुख्यं पदं व्यवसायः स इव मूर्तः । अथवा त्रैलोक्य-लक्ष्म्य्-एक-पदं गोपीनां वपुर् दधत् आलिङ्गन्न् इति भावाह् । अर्चितः प्रणय-परिहास-विकस्वर-वचः-प्रसूनैर् इव ताभिः पूजित इत्य् अर्थः ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश्वरः परम-स्वतन्त्रोऽपि भगवान् सर्वैश्वर्य-परिपूर्णोऽपि रसिक-शिरोमणिः प्रेमामृतार्णव-वर्धनः श्री-कृष्ण-चन्द्रस् तस्मिन्न् आसन उपविष्टः सन् चकास । यद् वा, भगवान् इति तेनैव तस्य भगवत्ता-सार-प्रकटनम् इत्य् अभिप्रेतम् । इत्य्-आदिना इति सर्व-शक्तिमत्त्वम् । पृथक्त्वेन कल्पितासन-समूहे तासां स्वस्य च सन्तोष-विशेषार्थं तत्-तद्-अलक्षितत्वेनैकस्यापि पृथक्तयैवोपवेशात् । योगेश्वरैः सिद्ध-समाधिभिः श्री-सनकादिभिर् अपि अन्तर्-हृदि एकाग्रतां प्रापिते चित्ते कल्पितं मानस-पूजायां तद्-उपवेशार्थं विचित्र-रत्नादिना प्रयत्नेन रचितम् । किं वा, आसनं कल्पयामीत्य् एवम् अर्पितम् आसनम् एव यस्येति तस्य साक्षात् तत्-स्वीकारोऽपि नास्तीति ध्वनितम् ।
तादृशोऽपि चकासेत्य् अत्र हेत्व्-अन्तरं गोपीनां परिषदं सभां प्राप्तः । बहुल-मण्डलाकारेण उपविष्टानां तासां मध्य-वर्ती सन्न् इत्य् अर्थः । अनेनापि पूर्ववद् ऐश्वर्यम् ऊह्यम् । किं च, अर्चितस् ताभिः सम्मानित आसन-कल्पनेनैव । किं वा, ताम्बूलादि-समर्पणेन नर्मादिना कटाक्षादिना वा । अत एव त्रैलोक्य- इति श्री-भगवद्-वपुषः सर्वदा त्रैलोक्य-लक्ष्मी-पदत्वेऽपि, अधुना अतः सर्व-कालाद् वैशिष्ट्यं सूच्यते अनेन चकासन-प्रकारोऽपि दर्शितः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स प्रेम-रसाम्बुधि-वर्धनः श्री-कृष्ण-चन्द्रः स्वयं भगवान् ऐश्वर्यादि-षड्गुण-सम्पन्नोऽपि, तथा ईश्वरः नित्यम् अपूर्वापूर्व-तत्-प्रकाशन-समर्थोऽपि तत्र तस्मिन्न् आसने उपविष्टः सन् चकास, तत्र तत्रासम्भव-शोभाविर्भाववान् बभूव ।
अन्यत्र पुनर् असौ परम-दुर्लभ एवेत्य् आह—योगेश्वरैः सिद्ध-समाधिभिः श्री-रुद्रादिभिर् अपि अन्तर्-हृदि एकाग्र-चित्ते कल्पितं भावना-मात्रेण स्थापितम् आसनं यस्य तादृशोऽपि । अलुक् समासः । अर्थात् तैर् एव कल्पितम् इति वा । तस्मात् तासां सम्बन्धस्यैवैष महिमेति भावः । तत्र च वैशिष्ट्यम् आह—गोपी इति । यद् वा, तादृशेन गोपी-परिषद्-गतत्वेन एव योगेश्वरान्तर्-हृदि-कल्पितासन इति ज्ञेयम् ।
किं च, अर्चितः आसन-ताम्बूल-नर्म-सस्मितापाङ्गादिना सम्मानितः । किं कुर्वंश् चकाश ? त्रैलोक्ये प्राकृताधो-मध्योर्ध्व-लोके परम-व्योमाख्य-महा-वैकुण्ठ-पर्यन्ते या लक्ष्मीस् तत्-तद्-अनन्त-स्वाविर्भाव-पर्यन्त-वस्तूनां नाना-शोभादि-सम्पत्तिः । तस्या एकम् अनन्यत् पदम् आश्रय-भूतं वपुः प्रकाशं बिभ्रत्, तासाम् अग्रे धारयन् प्रकटयन्न् इत्य् अर्थः । तथा च वक्ष्यते—गोप्यस् तपः किम् अचरन् यद् अमुष्य [भा।पु। १०.४४.१४] इत्य्-आदि ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तद्-आसन-स्थो भगवान् पुनर् अत्यन्तं व्यरोचतेत्य् आह—तत्र इत्य्-आदि । तत्रासने उपविष्टो भगवान् चकास । कीदृशः ? गोपी-परिषद्-गत इति हेतुमद्-विशेषणम् । अर्चितस् ताभिर् सत्-कृतः । योगेश्वरैर् अन्तर्-हृदि कल्पितम् आसनं यस्य, तस्य कल्पितत्वात् तत्र तथा न शोभत इत्य् अर्थः । किम् इव ? तत्राह—त्रैलोक्य-लक्ष्म्यास् त्रैलोक्य-श्रिय एकं मुख्यं पदं चिह्नं यद् वपुः, लक्ष्म-रूपं वपुर् इति यावत्, तद् दधत् दधानः । किं वा, वपुर् दधद् वपुर् दधानं मूर्तम् इति यावत् । तथा-विधं त्रैलोक्य-लक्ष्म्य्-एक-पदं त्रैलोक्य-शोभा-रूपम् एकं वस्तु-रूपकं । पदं व्यवसिति-त्राण-स्थान-लक्ष्म्य्-अङ्घ्रि-वस्तुषु [अमर] इति नानार्थ-वर्गात् ॥१४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अन्यथा पुनर् अप्य् अन्तर्हितो भवेद् इति तत्रासने उपविष्टः स इति स्वरूपं भगवान् अपि भगवताम् उपेक्ष्य ईश्वरोऽपि ईश्वरतां पृष्ठतः कृत्वेति गोपी-परिषद्-गतश् चकास शुशुभे । परितो मण्डलाकारेणोपविष्टा गोप्यस् तन्-मध्य-वर्ती सभा-पतिर् भगवान् उपविष्ट इति । यद् वा, भगवान् भगो भाग्यं तद्वान् अन्यथा गोपीनाम् उत्तरीयासनं रस-विशेषकं न स्याद् इति । कीदृश ईश्वरः ? अचिन्त्य-शक्तिमान्, अन्यथा कोटि-यूथानां परिच्छिन्नम् एकेन वपुषा सम्माननेन स्याद् इति । गोपीनां सुलभत्वेऽपि अन्येषां दुर्लभता महा-योगीश्वरेति योगीश्वरैः सनकादिभिः सिद्धैर् एव हृदि इव ध्यानेन कल्पितम् आसनं यस्य, तत्रापि वैभवावस्थस्य, न तु साक्षात् स्वरूपस्येति ।
यद् वा, भगवान् ईश्वर इति व्रजेन्द्र-पुत्रत्वात् ताभिर् अर्चितः हस्त-पादादि-सम्मर्दन-नर्म-स्मितादिना च सम्भावितः । पूर्वं मद-मानाभ्याम् अवज्ञातत्वेन परित्यज्य गतत्वात् । इदानीं तिरोधान-शङ्कया बहु-मानितः । अत एव त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् । त्रैलोक्ये उपरि वैकुण्ठ-पर्यन्तं या लक्ष्म्यः, अधः पाताल-पर्यन्तं या लक्ष्म्यः, भूमौ भूर्-लोक-पर्यन्तं या लक्ष्म्यः, यावन्त्यश् च तासाम् एकम् एव पदं स्थानं वपुर् दधत् । अन्येन त्रैलोक्ये सार-भूत-शोभा सम्पदो नान्यत् पदम् इत्य् अर्थः । तद् उक्तम् अत्रैव—अक्षण्वतां फलम् इदं [भा।पु। १०.२१.७] इति ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रति स्व-यूथम् एव पृथक् पृथक् उपर्य् उपरि निहित-बहु-वस्त्रासनेषु ताभिः कॢप्तेषु उपविष्टः । ननु तावत् सङ्ख्येष्व् आसनेषु कथम् एक उपविष्टः ? तत्राह—ईश्वरः तत्-तद्-अलक्षितयात्म-प्रकाशवान् । तत्र हेतुः—भगवान् कामवान्, भगः श्री-काम-माहात्म्ये इत्य् अमरः । तस्य तावत्सु सर्वेष्व् एव आसनेषु उपवेष्टुं कामनाम् आलक्ष्य ऐश्वर्यैव शक्त्या योगमाया-द्वारा तावन्तः प्रकाशास् तथा प्रकाशिता इत्य् अर्थः ।
किं च, स हि योगेश्वरैः शेष-शङ्कराद्यैर् अन्तर्-हृदि हृदयाभ्यन्तरे एव कल्पितं मनसैवानीतत्वात् त्रिजगद्-दुर्लभम् अनुपहतम् अनर्घ्यम् आसनं यस्य सः । एताभिस् तु हृदयाद् बहिर् एव स्व-गात्र-निर्माल्य-वस्त्रैः स्वोपभुक्त-सुगन्धैर् आसनं कल्पितं यत्, तत्रैवोपविष्टश् चकाश दिदीपे । यः खलु स्वयं भगवान् ब्रह्म-रुद्रादि-परिषदा क्षीरोदादि-तीरे स्तुत्य्-आदिभिर् गम्य एव मनसि प्रादुर्भवन् परोक्ष एव क्षण-मात्रम् एव भवेत्, स एव गोपी-परिषदं स्वयं गतः अच्युतश् चिर-कालम् अपि व्याप्य च्युति-रहितः ।
“अर्चित” इति पाठे ताम्बूल-नर्म-स्मितापाङ्गादिना सम्मानितः । किं कर्तुं गतः ? त्रैलोक्ये प्राकृताप्राकृताधो-मध्योर्ध्व-लोके या लक्ष्मीस् तत्-तद्-अनन्त-स्वांश-पर्यन्त-वस्तूनां नाना-शोभादि-सम्पत्तिः, तस्या एकम् अनन्यं पदम् आश्रय-भूतं यद् वपुः, तद् अपि दधत् तासां गोपीनाम् अङ्ग-कान्ति-स्मित-कटाक्षादि-माधुर्यैः पुष्णन् ।
यद् वा, तत्रोपविष्ट एव तत्र तादृशोपवेशादि-विशिष्ट एव योगेश्वरान्तर्-हृदि-कल्पितासनः । तत्-क्षणम् आरभ्य महा-रुद्रादिभिर् योगेश्वरैर् गोपी-परिषन्-मध्य-गतस् तादृशोपवेश-तादृश-शोभा-तत्-तन्-नर्म-संलापादि-विशिष्ट एव कृष्णो ध्यानेन स्व-हृदयम् आनिन्ये इत्य् अर्थः ॥१४॥
॥ १०.३२.१५ ॥
सभाजयित्वा तम् अनङ्ग-दीपनं
स-हास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः
संस्तुत्य ईषत्-कुपिता बभाषिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-हास-लीलेक्षणेन विभ्रमो विलासो यस्यां, तया भ्रुवा उपलक्षिताः । संस्पर्शनेन संमर्दनेन ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् । सभाजयित्वा सत्कृत्य । अनङ्ग-दीपनं कामोद्दीपकम् । अङ्के उत्सङ्गे कृतयोर् अङ्घ्रि-हस्तयोः संमर्दनेन । संस्तुत्य संश्लाघ्य । ईषत्-कुपिताः प्रेम-भर-स्वभावत्वात् कोपाल्पत्वम् ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : संस्तुत्य इति पुनस् त्याग-भिया सत्य् अन्तर् महति इत्य् अर्थः कोपेऽपि सम्यक् स्तुति-पूर्वकम् एव बभाषिरे । कुपिता अन्तः-कुपिता ईषद् अल्पेनैवाक्षरेण ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सभाजयित्वा इत्य् अनुवादः प्रश्नार्थं सभाजनस्य सम्यग् विवक्षया। किं वा, पुनर् विशेषेण सम्मान्येत्य् अर्थः । यतः अनङ्गम् अङ्ग-रहितम् अपि कामं दीपयति साङ्गीकृत्य पूर्वतोऽपि प्रकाशयति, तथा तम् अत्यन्त-कन्दर्प-विवर्धनम् इत्य् अर्थः । अत एव तासाम् अङ्के कृतयोः ताभिस् तेनैव वा न्यस्तयोस् तस्य अङ्घ्रि-हस्तयोः अङ्घ्रेर् हस्तस्य च । किं वा, अङ्घ्रेर् हस्तयोश् चेत्य् अर्थः । सम्यक् स्पर्शनेन विविध-परिपाट्या शनैः शनैः सुख-संवाहनेन, एवम् अपि पूर्ववद् ऐश्वर्यं दर्शितम् । सर्वाभिर् अपि द्वयोर् अङ्गयोश् चतुर्णाम् एव वा युगपत् संस्पर्शनात् सम्यक् स्तुत्वा प्रश्न-विशेषार्थं तद्-उत्तर-प्राप्त्य्-अर्थं च ईषत्-कुपिता इति प्रेम-भर-स्वभावेन कोपस्याल्पत्वात् ।
किं वा, आन्तरत्वेन बहिर्-अव्यक्तत्वात् । यद् वा, ईषत् सङ्क्षेपेण बभाषिरे, परम-वाग्मित्वात् । ततश् च कुपिता इति पूर्व-दुःख-प्राप्तेः । किं वा, तस्य वचनातिरेक-विधायित्वात् । यद् वा, कोपं विनाभिप्रायाज्ञानेन हृद्य् अप्रत्युत्तरालभ्यत्वाद् इति दिक् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, तादृश-भ्रुवा कृत्वा अनङ्ग-दीपनम् । किं वा, तयैव सभाजयित्वा ताभिस् तस्य तथा सभाजनम् एव युक्तम् इत्य् आशयेनाह—अनङ्गेति । अयं कोपे भाषणे\ऽपि हेतुर् द्रष्टव्यः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र च प्रणय-स्वभावेन तासां निगूढां कोपोत्पत्तिम् आह—सभाजयित्वा पूर्वोक्त-प्रकारेण संमान्य तं बभाषिरे पृष्टवत्यः, ता इति शेषः । कीदृश्यः सत्यः ? तत्राह—ईषत् कुपिताः । ननु तादृक् सभाजितवत्यश् चेत्, तर्हि कथम् ईषत्-कोपस्याप्य् अवसरम् अर्हन्ति ? तत्राह—अनङ्ग-दीपनम् इति । तद्-दीपन-कृते नाना-विलासम् अभिव्यञ्जयन्तम् इत्य् अर्थः । पूर्वं परित्यज्य गतः सम्प्रत्य् असाव् एवं चेष्टत इति प्रणय-स्वभाव-विमर्शनेनेति भावः ।
ननु कुच-कुङ्कुमाक्त-वस्त्रोपवेशतया स्वेषाम् एव तद्-अनङ्ग-दीपनत्वे प्राग् एव जाते सति तस्य तद्-दीपनत्वं पृष्ट्वा सन्तम् अपि कोपं व्यक्तीकर्तुं कथम् अर्हन्ति ? तत्राह—अङ्क-कृताङ्घ्रि-हस्तयोः संस्पर्शनेन संस्तुत्य इति । तादृशतया तत्-तत्-स्पर्श-पूर्वकं नाना-गुण-तृतीया स्व-गिरैवायं व्यक्त-दोषः स्याद् इति मति-कौटिल्य-व्यञ्जकेन तादृश-भ्रू-विलासेन व्यक्त-तत्-कौटिल्य इत्य् अर्थः । व्यक्तीभविष्यति च तत् कौटिल्यं प्रश्न-परिपाट्या इति भावः
तद् एवम् अवहित्ता नाम सञ्चारी व्यक्तः । तद् उक्तं—अनुभावं पिधानार्थेऽवहित्थं भाव उच्यते [भ।र।सि। २.४.१२०] इति । अवहित्था इति स्त्री-लिङ्गिता च । तथा—
हेतुः कश्चिद् भवेत् कश्चिद् गोप्यः कश्चन गोपनः । > इति भाव-त्रयस्यात्र विनियोगः समीक्ष्यते ॥ [भ।र।सि। २.४.१२७] > इति ।
यथा हेतुर् अत्र मति-कौटिल्यम् एव गोप्योऽसूया-मयोऽमर्षः । गोपयन्त्य् अनेनेति गोपनः, स चात्र तादृशतया तत्-तत्-स्पर्श-संस्तवाभ्यां प्रत्यायितं हर्ष-कौटिल्यं सहासादित्वं च मति-कौटिल्यमयम् अपि तद् एव प्रत्याययति । एवम् अत्रापि योग-माया-वैभवम् एव दर्शितम्, सर्वाभिर् युगपत् तथा व्यवहारात् । अङ्घ्रि-हस्तयोर् इति द्वित्वं प्रत्येकं जात्य्-अपेक्षया ॥१५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३५३) : अवहित्ताकार-गुप्तौ—सभाजयित्वा तम् अनङ्ग-दीपनं इत्य्-आदि । अत्र सभाजनादिना कोपाच्छादनम् ॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८४) : अथ तद्-अन्तराले मान-रूपो विप्रलम्भः । तत्र यथोक्तम्—
अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् । > अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [उ।नी। १५.१०२]
तथा—
अहेतोर् नेति नेत्य् उक्तेर् हेतोर् यन् मान उच्यते । > अस्य प्रणय एव स्यान् मानस्य पदम् उत्तमम् ॥ [उ।नी। १५.७६] इति > ।
ततोऽस्य स-हेतुर् निर्हेतुश् चेति भेद-द्वये च सति हेतुर् अपि यथोक्तः—
हेतुर् ईर्ष्या-विपक्षादेर् वैशिष्ट्ये प्रेयसा कृते । > भावः प्रणय-मुख्योऽयम् ईर्षा-मानत्वम् ऋच्छति ॥ [उ।नी। १५.७७] > इति ।
यथा च (शृङ्गार-तिलक २.५३)—
स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना । > तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥ [उ।नी। १५.७८] > इति ।
अत एव हरिवंशे (२.६६.४, २.६५.५०)—
रुषिताम् इव तां देवीं स्नेहात् सङ्कल्पयन्न् इव । > भीत-भीतोऽतिशनकैर् विवेश यदु-नन्दनः ॥ > रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता । > अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता ॥ [उ।नी। १५.८०-८१] इति > ।
अतः प्रिय-कृत-स्नेह-भङ्गानुमानेन सहेतुर् ईर्ष्या-मानो भवति । एष च विलासः श्री-कृष्णस्यापि परम-सुखदः । यथा चोक्तं श्री-रुक्मिणीं प्रति स्वयम् एव—त्वद्-वचः श्रोतु-कामेन क्ष्वेल्या-चरितम् अङ्गने [भा।पु। १०.६०.२९] मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुं [भा।पु। १०.६०.३०] इत्य्-आदि । श्री-रुक्मिण्याम् अपि तद्-अविक्षिप्तिवं व्यक्तम् । जाड्यं वचस् तव गदाग्रज [भा।पु। १०.६०.४०] इत्य्-आदौ ।
युक्तं च तत्-कान्त-भावाख्यायाः प्रीतेः पोषकत्वेन तद्-भावस्यावगमात्, प्राचीनार्वाचीन-कवि-सम्प्रदाय-सम्मतत्वाच् च । तस्माद् आदरणीय एव मानाख्यो भावः । तत्र सर्वासां युगपत्-त्यागेन सङ्ग-प्राथम्येन च तथानुदयान् निगूढस् तन्-मान-लेशो रासे श्री-व्रज-देवीनां जातः । स च परित्यागजेर्ष्या-हेतुक एव ज्ञेयः । यथा—सभाजयित्वा इत्य्-आदि ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तथा तस्मिन्न् आसने उपविष्टं श्री-कृष्णं कर-पदादि-लालन-पूर्वं ताः किञ्चित् पप्रच्छुर् इत्य् आह—सभाजयित्वा इत्य्-आदि । तं श्री-कृष्णम् अङ्के कृत् करणं यस्य तथा-भूतेन अङ्घ्रि-हस्तयोः संस्पर्शनेन सभाजयित्वा तर्पयित्वा संस्तुत्य च । पुनस्-त्याग-भिया संस्तवनम् । वस्तुतस् तु अन्तः-कुपिता ईषद् बभाषिरे, ईषद् अल्पाक्षरं बह्व्-अर्थम् । कीदृशम् ? सहास-लीलेक्षण-विभ्रम-भ्रुवा अनङ्ग-दीपनम् । न अङ्गम् अनङ्गम् अङ्गीति यावत्, तत्-प्रेम तस्य दीपनम् ॥१५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तद् एवं पूर्वं धर्मोपदेशेन दूषित-चित्ताः परोपदेशे पाण्डित्यम् इति मनसि निधाय गूढ-प्रणय-कोपाः । धर्म-जिज्ञासमान इव साक्षात् तस्य दोषं स्व-मुखेन वक्तुम् अपारयन्त्यः स्थिताः । इदानीं तासां प्रश्न-पूर्व-भूमिकाम् आह—सभाजयित्वा इति ।
येन पूर्वं भर्तुः शुश्रूषणम् [भा।पु। १०.२९.२४] इति धर्मोपदेशं कृतम् । स्व-पूर्वोक्त-प्रकारेण सभाजयित्वा स कृष्णेति मन्यु-गापनम् उक्तम् । सहास-लीलेक्षण-विभ्रम-भ्रुवा सहास-लीलेक्षणम्, तेन विभ्रमन्ती, इतस् ततश् चलन्ती वा भ्रूः, तया तत्र कामोद्दीपने कामेन पञ्च-बाणा इव पञ्च साधनानि—हासो लीला ईक्षण विभ्रमो विलासो भ्रूश् चेति । चतुर्णाम् उपलब्धि-स्थानं भ्रूर् इति । कामोद्दीपनार्थं नाना-विलास-प्रकटनम् इत्य् अर्थः । एतैः साधनैर् अनङ्गं निरन्तरम् अङ्ग-भावं स्व-शरीरानुसन्धानाभावं दीपयतीति । यद् वा, अनङ्गम् अपि अङ्ग-रहितम् अपि दीपयति साङ्गी-भावेन प्रकाशयतीति ।
अत एव अङ्क-कृताङ्घ्रि-हस्तयोः, अङ्के कृतयोस् ताभिर् एव स्थापितयोर् अङ्घ्र्योर् हस्तयोश् च संस्पर्शनेन नाना-विध-वैदग्ध्य-प्राकट्येन श्रम-नाशक-हस्त-मार्दव-व्यञ्जक-संमर्दनेन, संस्तुत्य गुण-प्रशंसनं कृत्वेति ।
ननु किम्-अर्थं संमानम् अपि स्तुतिश् च अत्यादरः शङ्कनीयः प्रस्तुतस्य रास-विलासस्येति कर्तव्यता सम्पाद्यताम् इति चेत्, तत्र स्वाभिप्राय-सङ्गोपयन्त्य ईषत्-कुपिताः । किम् अनेन विलासेन ? नु तर्के । दुःखम् एवेति स्व-मनसि विचार्य स्व-मुखे तस्य दोष-प्रकाशनं करोति चेत्, तदा विलास-दार्ढ्यं भवतीति निश्चित्येषत्-प्रणय-कोपं व्यञ्जयन्त्य इव बभाषिरे ।
यद् वा, स-हास-लीलेक्षण-विभ्रम-भ्रुवा सभाजयित्वा, तस्मिन्न् अवसरे सैव सत्-कृतिर् इति । तद् उक्तम् अत्रैव—तत्-सत्-कृतिं समाधिगम्य विवेश गोष्ठं स व्रीड-हास-विनयं यद्-अपाङ्ग-मोक्षं [भा।पु। १०.१५.४४] इति । हास-लीलेक्षणादयस् तु कोपाच्छादका इति । यद् वा, एवं सर्व-भावेन प्रपन्नान् अपि भवान् त्यजतीति कृष्णे दोष-दृष्ट्या ईषत्-कुपिता विवादम् इव कुर्वन्त्यो बभाषिरे पप्रच्छुर् इति ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च रिरंसवे तस्मै रतम् आदित्सूनां तासां चेष्टितम् आह—सभाजयित्वेति। स-हास-लीलेक्षणेन विभ्रमो विलासो यस्यां तया भ्रुवा अनङ्ग-दीपनं स्वीयं कामं द्योतयन्तं तासां वा कामोद्दीपनं तं सभाजयित्वा तद्-उचितैर् भावैः सम्मान्य, पूर्वं नः सन्त्यज्य गतः, सम्प्रति एवं चेष्टते इति प्रणय-कोप-गोपनार्थम् अङ्क-कृतयोस् तेनैव तासाम् अङ्के न्यस्तयोस् ताभिर् एव वा स्वाङ्के धृतयोः अङ्घ्रि-हस्तयोः संस्पर्शनेन संस्तुत्य—अहो ते कर-चरणानां शैत्यम् अपूर्वं यत् संस्पर्शनेनास्माकं तापो निर्वापणः । तस्मात् त्वं सत्यं सन्ताप-दुःखानभिज्ञः सदा सुखी विधुर् एवासीति व्याज-स्तुत्या ईषत् कुपितास् तद्-दर्शनानन्द-स्वभावत एव विनष्टीभूर् अकोपस्य शेष-भागवत्य इत्य् अर्थः ॥१५॥19
॥ १०.३२.१६ ॥
गोप्य ऊचुः—
भजतोऽनुभजन्त्य् एक, एक एतद्-विपर्ययम् ।
नोभयांश् च भजन्त्य् एक एतन् नो ब्रूहि साधु नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र भगवतोऽकृतज्ञतां तद्-वचनेनैवापादयितु-कामा गूढाभिप्राया लोक-वृत्तान्तम् इव पृच्छन्ति—भजत इति । भजतः प्राणिनः । अनु अनन्तरं केचित् तद्-भजनानुसारेण भजन्ति । केचिद् एतद् विपर्ययं यथा भवति तथा तद्-भजनान् अपेक्षम् अभजतोऽपि भजन्ति । अन्ये तु नोभयान्20 इति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तदा । अकृतज्ञतां कृतघ्नताम् । तद्-वचनेन भगवद्-वचनेन । गूढो गुप्तो भगवत्य् अकृतज्ञता-द्योतन-रूपोऽभिप्रायो यासां ताः । इव-शब्देन भगवत्-कर्षणाम् अलौकिकत्वं सूचितम् । एके लौकिकाः । एके महात्मानः । अन्ये उभय-विलक्षणाः । उभयान् भजतोऽभजतश् च । एतत्-पक्ष-त्रयम् अस्ति यद् अत्र साधु निर्दोष-पक्षस् तम् । भो हे कृष्ण ! नः अस्मभ्यम् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उभयान् भजतोऽभजतश् चेति प्रश्न-त्रयं तच् चाकृतज्ञत्वादि-परिहारेण पुनर् अपरित्याग-दार्ढ्यार्थं साधु यथा स्यात्, तथा एतद् ब्रूहि । ते ते के ? किं वा, तेषां फलं तत् सर्वं विविच्यास्मान् प्रति सुबोधं कथयेत्य् अर्थः । भो इति सम्बोधनेन अवधापयन्ति । तत्र निज-दोष-पर्यवसानतया तस्य मनोऽनभिनिवेशात् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सेयं परिपाटी स्व-त्याग-परिहारार्थम् एव ताभिः कृतेति बोधयन्न् आह—गोप्य ऊचुः इति । तत्र चैतद् इति उभयान् भजतश् चाभजतश् च न भजन्तीत्य् अन्तं प्रश्न-त्रयम् । साधु यथा स्यात् तथा ब्रूहि इत्य् अर्थः । ते ते के ? किं वा, तेषां फलं तत् सर्वं विविच्य कथयेत्य् अर्थः । भो इति सम्बोधनेन अवधापयन्ति । स्वस्मिन् दोष-पर्यवसान-शङ्कया तस्य मनोऽनभिनिवेशानुकरणात् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र भगवतः काठिन्यम् आपादयितु-कामाः पृच्छन्ति—भजत इति॥१६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत् किम् ? इत्य् आह—भजत इत्य्-आदि । अल्पाक्षरेण त्रयः प्रश्नाः । हे भगवन् ! साधु भद्रं ते । एतन् नो ब्रूहि, व्यक्तं यथा भवति तथा वद । केचिद् भजतोऽनुभजन्ति । केचिद् विपर्ययं कुर्वन्तीति शेषः । अभजतश् च भजन्तीति यावत् । अन्ये उभयान् भजतोऽभजतश् च न भजन्तीति । भजन्तीर् अस्मान् त्वं तु न भजसि । अभजन्तम् अपि त्वां वयं भजाम इति साशंसः प्रश्ने साध्ये अवहित्थया मिश्रीकृत्य प्रश्नः ॥१६॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पक्ष-त्रयं मनसि विचार्य पृच्छन्ति—भजत इति । भजतो\ऽनु तद्-भजनानुसारेण भजन्ति । एके तद्-विपर्ययम् अभजतो\ऽपि भजन्ति । अन्ये भजतो\ऽभजतश् च न भजन्ति इति प्रश्न-त्रयम् । ते के ? साधु यथा स्यात् तथा एतन् नो\ऽस्माकं ब्रूहि । अत्र के\ऽधिकारिणः ? किं तेषां फलं ? कियती कीर्तिः ? इति तत् सर्वं विविच्यास्माकं साधु सुबोधं यथा भवति, तथा ब्रूहि इति । भो इति सखित्व-द्योतकं सम्बोधनम् । अतिप्रियत्वान् नामानुक्तिर् इति वा ।
तत्र भजनानुसारेण ये भजन्ति ते किं धूर्ताः ? आहो स्वित् समीचीनाः ? इति । यथा कश्चित् पाद-संवाहनं कस्यचित् करोति, सो\ऽपि तस्य चेत् पाद-संवाहनं करोति, तदा किं फलं स्यात् ? इति । तद् एवं कर्तव्यम् इति पक्षे तद् एव फलं नान्य इति । निरपेक्ष-कर्म तु सन्देह इव अभजन्तो न भजिष्यतीति । निश्चितस्य भजने क्वचिद् दोषो\ऽपि भवति, यथा निष्कामस्य योगिनो भजते । कामिनी-भजनम् इवेति दृष्टान्तः । अत्र क्वचिद् उपकारः क्वचिद् अपेक्षितो\ऽर्थः क्वचिद् धर्म इति एवं निर्धारितं फलं व्यक्तम् इति । भजद्-अभजतोर् अभजने किं फलं ? तद् अपि वक्तव्यम् ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र ताभिः प्रति स्व-मनस्य् एवं विचारितम्—अद्य यद् अयं प्रेमि-मुकुट-मणिर् अप्य् अस्मान् एवं दुरवस्थाम् अलम्भयत्, तत्रायम् एवं प्रष्टव्यः—भोः कृष्ण ! तवास्मासु प्रीतिर् औदासीन्यं द्रोहो वेति त्रयः पक्षाः सम्भाव्यमाना अपि विचारतो न घटन्ते । अत्र प्रीतिः सोपाधिर् निरुपाधिर् वा ? नाद्या, सोपाधि-प्रीतिमान् किल स्व-काम-सम्पादक-जनान् अनुरञ्जयत्य् एव, न तु विरञ्जयति । त्वं त्व् अस्मान् स्व-विरहाग्नाव् अधाक्षीर् एव वधार्थम् । नापि परा, निशि घोर-वन-मधे एवास्मत्-त्यागाद् अस्मत्-कष्ट-द्रष्टुर् अपि तव क्लमानुत्पत्तेश् च । नाप्य् औदासीन्यम् अस्मत्-सुख-दुःख-साधकत्व-दर्शनात् । नापि द्रोहः, स किं शाश्वतिकः, प्रातिकुल्य-निबन्धनो वा ? नाद्यः, तथा दर्शनाभावाद् एव । नापि द्वितीया, अस्मासु त्वत्-प्रातिकूल्याभावात् । किन्त्व् आश्वस्त-परिचारक-जिघांसा-लक्षणो विलक्षणो यः कश्चन द्रोहस् तस्यैवोदाहरणी-भवता भवता भूयत इत्य्-आदिकं स्व-मुखेनास्माभिः स्फुटं न वाच्यम्, किन्तु प्रहेलिका-भङ्ग्या तथा किञ्चन प्रष्टव्यम्, याथायम् एव यथार्ततया तत्-प्रत्युत्तरं ददान एतद्-आदिकम् अर्थं व्याचक्षीतेति सहृदयत्वात् तुल्य-मनो-गत-विमर्शास् ता—भो महा-प्राज्ञ ! कृष्ण ! एकाम् अस्माकम् अर्थ-प्रहेलिकां व्याचक्ष्व इत्य् आहुः
भजतो जनान् अनु लक्षीकृत्यैव भजन्ति, एके जनाः सापेक्षं भजन्तीत्य् अर्थः । अत्र सापेक्ष-वस्तु-लाभे सति नापि भजन्तीति सोपाधि-प्रीतिर् आयाता । एतद्-विपर्ययं यथा स्यात् तथा भजन्ति एकेऽभजतोऽपि भजन्ति, निरपेक्षं भजन्तीत्य् अर्थः । अत्र स्वापेक्ष्य फलान्तरान् उद्देशात् भजन-त्यागतो वा इति निरुपाधि-प्रीतिर् आयाता, अन्ये नोभयान् भजन्तीति सापेक्षम् अपि निरपेक्षम् अपि नैव भजन्तीत्य् औदासीन्यम् आयातम् । द्वेषो द्रोहश् चाप्य् अभजनं भवेद् इति ताव् अप्य् आयाताव् इत्य् अत एतद्-विवरणे एवम् एव किञ्चित् किञ्चिद् अधिकम् अपि व्यक्तीकरिष्यते भगवता ।
एतन् नो ब्रूहीत्य् एते खलु के एतद्-भजनम् अभजनं वा किं तद् ब्रूहीत्य् अर्थः । एते च एतच् च, एतद् इति नपुंसकम् अनपुंसकेनैकवच् चास्यान्यतरस्याम् इत्य् एक-शेषैकत्वे । साधु यथार्थम् एव ब्रूहि, वैयधिकरण्यं मुञ्चन्न् इत्य् अर्थः ॥१६॥
॥ १०.३२.१७ ॥
श्री-भगवान् उवाच—
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि21 नान्यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विदिताभिप्राय उत्तरम् आह—मिथ इति । हे सख्यः ! उपकार-प्रत्युपकारतया ये मिथो भजन्ति तेऽन्यं न भजन्ति, किं त्व् आत्मानम् एव । कुतः ? हि यस्मात् । स्वार्थ22 एव एकान्त उद्यमो येषां ते । तत्र च न23 सौहृदम् अतो न सुखम्, न च धर्मो दृष्टोद्देशाद् गो-महिष्य्-आदि-भजनवद् इत्य् अर्थः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विदितो ज्ञातोऽभिप्रायः स्वस्मिन् दोषारोप-लक्षणो येन, स तथा । स्वार्थे स्व-प्रयोजन एव । एकान्तः निश्चितः । उद्यम उद्योगः । तत्र परस्पर-भजने । अतः सुहृत्ताभावान् न सुखम् । धर्मस् तु दानार्चनादि-रूपोऽदृष्टार्थः प्रायो भवति । दृष्टोद्देश-दग्धादि-निमित्तम् । यद्यपि गो-भजनम् अदृष्टार्थम् अपि, तथापि प्राकृतैस् तद् अचिन्त्यम्, दृष्टार्थम् एव तत् क्रियतेऽतो गोपदोपादानम् अत्रेति । इत्य् अर्थ इति—अन्योन्य-पशु-कण्डूतिवद् दृष्टार्थस्य न धर्मत्वम् इति भावः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वार्थो निज-दृष्ट-मात्र-फलार्थ एव । तस्मिन् वा एकान्तः, तस्मिन् एवैकस्मिन् अन्तो निष्ठा यस्य तथा-भूत उद्यमो येषां ते इति श्री-गुरु-सेवा मिथो वैष्णवैः प्रेमादिकं च परिहृतं, तत्र तत्र सद्-धर्मादि-सद्-भावात् । आत्मानम् एवेति लोक-दृष्ट्या परोपकार-सम्भावितं धर्मादिकं निरस्तं, प्रत्युपकारापेक्षयैव भजनात् । एवं दोष-परिहारापेक्षया प्रत्युपकारेऽपि धर्माद्य्-अभावः । तथाभजने तारतम्याभावोऽप्य् ऊह्यः । अन्यथोपकार-प्रत्युपकारयोस् तुल्यत्वाभावेनानुभजनासिद्धिः । एवम् एवानुभजन्ति छायावत् भजनानुसारेण भजन्तीति प्रश्नस्योत्तरं सिध्येत् । अतो यत्र प्रत्युपकारापेक्षापि न, तत्र धर्म इति सूचितम् इति दिक् । हि निश्चये । नान्यथा उक्ताद् अन्य-प्रकारेण तन् मिथो भजनं न स्यात् । यद् वा, तत् तत्र मिथ्यात्वं नास्तीत्य् अर्थः । सख्येनैव कथनाद् इति
यद् वा, आत्मनोऽपि तासु तादृश-भजनम् इव कारुण्य-भरेण मन्वानः सहज-सख्येन तत् परिहरन् सम्बोधयति—हे सख्यः ! इति । अन्यत् तैर् व्याख्यातम् ।
तत्र स्वात्मानम् इति सु-शब्दस्यार्थः । सुखम् इति तद् इत्य् अस्य च, अत इति ज्ञेयम् । तद् इति पूर्ववद् एव वा । अत इति चार्थ-बलाद् आयात्य् एव । यद्यपि तत्राप्य् अन्योन्यम् उपकारेण दृष्ट-सुखं घटेत, तथापि स्वोपकार-जनितत्वात् प्रत्युपकारस्यावशापेक्ष्यत्वाच् च धर्माभावेन तात्त्विकत्वाभावाद् अपि विचारेण सुखाभाव एव पर्यवस्येद् इति, न च सुखम् इति व्याख्यातम् ।
यद् वा, उन्मत्तवन् नियतात्मेत्य् आदिवत् लेखक-भ्रमेणैव तद् वक्ष्यमानानुसारेणात्र तद्-अनपेक्ष्यत्वात् । “स्वार्थार्थम्” इति पाठोऽपि चित्सुखादीनां बहूनां सम्मतः । ततश् च तद्-भजनम् अन्यार्थं प्रतीयमानम् अपि स्व-प्रयोजनार्थम् एवेत्य् अर्थः । स्पष्टम् अन्यत् ।
अथवा स्वार्थम् एव एकान्त उद्यमो येषां जनानां ते हि ते मिथो भजन-करा यथा राज-सेवका वितद-वैतनिकादयः । हि प्रसिद्धौ । अत एव प्रायो लोकानां सर्वेषाम् एव दृष्टार्थ-परत्वात् । ते विशीष्य स्पष्टं न निर्दिष्टाः । अन्यत् समानम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वार्थोऽत्र स्वीयं दृष्टम् अदृष्टं च भजन्ति ये यथा देवान् देवा अपि तथैव तान् [भा।पु। ११.२.६] इति न्यायेन यज्ञादि-सन्तोषिताभिर् देवताभिर् अपि गो-महिष्य्-आदिभिर् दुग्धादिकम् इव स्वर्गादिकं दीयत इति तस्मिन्न् एकान्तस् तन्-मात्र-निष्ठ उद्यमो येषां ते । न तत्र सौहृदं धर्म इति प्रसिद्धम् अपि तद् द्वयं वक्ष्यमाण-रीत्या सापवादम् एव मन्यामह इत्य् अर्थः । धर्म-स्वातन्त्र्येण पुरुषार्थत्वेऽप्य् अर्थ-कामाभ्यां परिवर्तनाय विनियोगापातात् सहृदयस्य च कैतव-मयत्वाद् इति भावः । हि निश्चये। अन्यथा उक्ताद् अन्य-प्रकारेण तन् मिथो भजनं न स्यात् । यद् वा, तत्र मिथ्यात्वं नास्तीत्य् अर्थः । तत्र आत्मनोऽपि तासु तादृश-भजन-शङ्कां सहज-सख्योल्लेखेन परिहरन् सम्बोधयति—हे सख्यः ! इति । अन्यत् तैः ।
अत्रातो न सुखम् इत्य् अर्थ-बलाद् व्याख्यातम् । यद्यपि तत्रापि दृष्ट-सुखं घटते, तथापि सौहृद-राहित्येनोत्तमानां सुख-वृद्धिर् न जायत इति भावः । किन्तु पाठोऽयं कल्पित इव लक्ष्यते । उत्तरत्रैतत्-प्रतियोगि-वाक्येऽपि नापेक्षितव्य इति । “स्वार्थार्थम्” इति पाठोऽपि चित्सुखादीनां बहूनां सम्मतः । तत्र तद्-भजनम् अन्यथा प्रतीयमानम् अपि स्व-प्रयोजनार्थम् एवेत्य् अर्थः । स्पष्टम् अन्यत् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वार्थोऽत्र दृष्ट-फलम् । ये दृष्ट-फल-मात्रोद्यमा मिथो भजन्ति, ते स्वात्मानम् एव भजन्ति । हि यस्माद् भजनं नान्यथा भवति, अतस् तत्र न सौहृदम्, न च धर्मः ॥१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवान् अप्य् आशयं ज्ञात्वा समुचितं प्रत्युत्तरम् आह—मिथ इत्य्-आदि । हे सख्यः ! इति स-प्रेम-सम्बोधनम् । मिथो भजने न सौहृदं न धर्मः । तद्-भजनं हि स्वात्मानं प्रत्य् एव । परस्परानुकूल्योपाधिकत्वात् । स्वात्मार्थम् इति पाठे स्वात्म-निमित्तम् ॥१७॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तत्र प्रथम-प्रश्न-निर्धारितं फलम् आह—ये मिथो भजन्ति ते स्वार्थैकान्तोद्यमाः, स्वार्थः दृष्ट-मात्र-फल-निमित्तिं स्वस्मिन्न् नैव चैकस्मिन्न् अतो निष्ठा-फलं यस्य तथाभूत उद्यमो येषां ते तु हित्वा ज्ञात्वैवान्योन्यं भजन्ते तारतम्येन भजन्ति तेषां स्वार्थम् एवोद्यमः । अतो\ऽन्योन्य-भजने सौहृदं स्नेहो धर्मो भवेत् । तद् उक्तं—भजन्ते ये यथा देवान् देवा अपि तथैव तान् इति । गो-महिष्यादि-भजनवत् प्रत्युपकारापेक्ष उपकारे धर्म-स्नेहाभावस् तारतम्याभावश् च सूचितः । उपकाराकारणे को\ऽपि उपेक्षा-रूप-दोष-दर्शनात् दुग्धाभावे गो-महिष्यादिनाम् उपक्षणवद् इति । अतो यत्र प्रत्युपकारापेक्षाप्य् अस्ति तत्र सौहृदं न च धर्म इति । हीति निश्चयेनाधर्मार्थम् एव प्रतीयमानं भजनं स्व-प्रयोजनार्थम् एवेत्य् आह—तद्-भजनं स्वार्थार्थम् एव । अन्यथोक्त-प्रकारणाद् अन्य-प्रकारो नास्तीति । हे सख्य इति सम्बोधनम् अप्रतारणायेति । आवयोर् अन्योन्य-भजनेनैष प्रकार इति भावः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदिताभिप्राय उत्तरम् आह—मिथ इति । उपकार-प्रत्युपकारापेक्षया ये मिथो भजन्ति, ते स्वार्थे दृष्टादृष्ट-स्वीय-फलार्थ एव एकान्त उद्यमो येषां ते हि निश्चितं स्वात्मानम् एव भजन्ति, नान्यं तन्-मिथो-भजनं नान्यथा अन्यथा न स्यात् । अतस् ते स्वार्थ-पराः सोपाधि-प्रीतम् अन्तः कामिन एवेत्य् अर्थः । तत्र तेषु सौहृदं प्रेम नास्ति । धर्म इत्य् उक्त्तर-श्लोकार्थ-दृष्ट्या निरपवादो धर्मश् च न । स्वात्मार्थम् इति पाठे तद् इत्य् अस्य विशेषणम् एतत् ॥१७॥
॥ १०.३२.१८ ॥
भजन्त्य् अभजतो ये वै करुणाः पितरो24 यथा ।
धर्मो निरपवादोऽत्र सौह्र्दं च सुमध्यमाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ये त्व् अभजतो भजन्ति, ते द्विविधाः—करुणाः स्निग्धाश् च । तत्र तु यथा-क्रमं धर्म-कामौ भवत इत्य् आह—भजन्त्य् अभजत इति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तु तयोस् तु ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभजतो दैन्यादिना बाल्यादिना च । वै प्रसिद्धौ । यथा इति दृष्टान्तेन निरुपाधि-सहज-कारुण्यम् अभिप्रेतम् । ते हि श्री-भगवता एव, तच् च सुतरां मत्-कृतात्मनाम् [भा।पु। १०.१०.४१]25 इत्य् अत्र तैर् व्याख्यातम् एव । तथापि करुणाः पितरौ चेति द्विविधा अवगम्यन्त एव ।
यद् वा, यथा इति उभयेषाम् अप्य् उदाहरण-मात्रत्वेनोक्तम् । पितरौ च इति च-कारोऽध्याहार्यः। निरपवादः सम्पूर्ण इत्य् अर्थः । तैः प्रत्युपकाराद्य्-अनपेक्षया केवलम् अत्यन्त-कृपालुत्वेनैवोपकारात् । सौहृदं च निरपवादं तयोः सहज-स्निग्धत्वात् केवल-सौहृदोक्तिः । पुत्र-पालने पित्रोर् धर्मानुत्पत्तेः ।
यद् वा, कथञ्चित् तेनापि तयोर् धर्मो द्रष्टव्यः । ततश् च तेषां तयोश् च स तच् चेति । हे सुमध्यमाः ! हे सुन्दर्यः ! इति तद् एव सौन्दर्यम् इति । किं वा, तद् युष्मासु भात्य् एवेति भावः । इदं च तासाम् आत्म-भजनार्थं चातुर्यम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै प्रसिद्धौ । यथा इत्य् उभयेषाम् उदाहरणार्थं पितरौ च इति, च-कारोऽध्याहार्यः । निरपवादो विप्रतिपत्ति-रहित इत्य् अर्थः । सौहृदं च निरपवादं । हे सुमध्यमाः ! इति सर्व-सल्-लक्षणोपलक्षणत्वेन तादृश-गुणत्वं युष्मासु भात्य् एवेति भवत्य एव तत्र साक्षिण्य इति भावः । इदं च तासाम् आत्म-भजनार्थं चातुर्यम् । अन्यत् तैः ।
यद् वा, पूर्वं सोपाधि-भजताम् उद्दिष्टयोर् अपि सौहृद-धर्मयोः सापवादत्वम् उक्त्वा सम्प्रति निरुपाधि-भजताम् उद्दिष्टयोर् निरपवादत्वम् आह । तत्राप्य् उदाहरणी-कृतानां करुणानां पित्रोर् अप्य् अविशेषम् आह—भजन्त्य् अभजत इति । करुणेषु सौहृदस्यापि स्पष्टत्वात्, पित्रोः पुत्रादि-पालनस्य गार्हस्थ्य-धर्म-सहायत्वाद् धर्मस्यापि समान्यतः प्राप्तेः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : द्वितीय-प्रश्नस्योत्तरम्—भजन्ति इत्य्-आदि । अभजतो ये भजन्ति, ते वै करुणाः कारुणिकाः । यथा पितरौ । तयोः केवलम् अभजतः शिशून् प्रति वात्सल्यम् एव । अत्र निरपवादो धर्मः सौहृदं च ॥१८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : द्वितीय-प्रश्नस्योत्तरम् आह—भजन्ति इति । यथा इति सर्वत्रान्वेति । ये अभजतो\ऽपि भजन्ति अतीव-शैशवेन सामर्थ्येन वैष्णवादीन् वा अभजतो\ऽपि जनान् ये भजन्ति, तेषाम् अपेक्षित-दाने पुष्णन्ति प्रत्युपकारानपेक्षतया ये वैष्णवाः, यतः करुणाः कृपालवः । यथाहं तथा ते\ऽपि तत्र दृष्टान्तः, यथा पितरः स्नेहेन धर्मेणापि भजन्तो दृश्यन्ते । तत्र सुहृदस्य आवश्यकत्वं धर्मस्य आनुषङ्गिकत्वम् । तद् उक्तं मनु-स्मृतौ—
वृद्धौ च माता-पितरौ भार्या साध्वी सुतः शिशुः । > अप्य् अकार्य-शतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥26
अत्र निरपवादो विप्रतिपत्ति-रहितः सम्पूर्णो धर्म इति । अत एव धर्मे सौहार्दे वा उपकारस्य आवश्यकत्वात् । प्रतियोगिनो भजन-शङ्कायाः अय्यभावात् धर्मस्य निरपवादत्वं निर्दोषत्वम् इत्य् अर्थः । गोः पङ्कधारणवत् प्रत्युपकारानपेक्षत्वं च केचित् क्रियमाणम् अपि भजनं नाङ्गीकुर्वन्ति, निरपेक्षत्वाद् एव सौहार्दे\ऽपि अनुयोगि-प्रतियोगिनोः साम्याभावः । अनुयोगिनस् तु धर्मोपपन्ने दृष्टत्वात् । प्रतियोगिनस् तु धर्मः, धर्मो नाप्य् अधर्मः । सापेक्ष-स्वभावाद् एवेति । हे सुमध्यमाः इति सम्बोधनम् उक्तार्थस्य विश्वासाय स्व-हृदयानुसारेण सर्वत्रैवम् एवोन्नेयम् इति ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वितीय-प्रश्नस्योत्तरम् आह—अभजतो ये भजन्ति निरपेक्षं भजन्तीत्य् अर्थः । ते निःसम्बन्ध-ससम्बन्ध-भेदाद् द्विविधाः । करुणा यथा, पितरौ यथा इति । तत्र करुणाः शुद्ध-भक्ताः, तेष्व् एव प्रह्लादादिषु निरुपाधि-करुणस्योदय-दर्शनाद् इति । दृष्टान्त-द्वैविध्यात् उभयेऽपि प्रत्युपकारानपेक्षिणस् तद्-दुःख-सुखाभ्यां दुःख-सुखवन्तो भजनं प्राणान्तेऽपि न त्यजन्ति, पूर्वे श्रेष्ठाः उत्तरे अवराः । अत्र एषु उभयेष्व् एव धर्मो निरपवादः। फलाकाङ्क्षा-राहित्याद् अनश्वरः, सौहृदं प्रेम च निरपवादम् । हे सुमध्यमा इति श्लेषेण शोभनो मध्यम एव प्रश्नो यासां ताह् । विगीतोदाहरणत्वाद् आद्य्-अन्तौ प्रश्नौ विगीताव् इत्य् अर्थः । यद् वा, शोभनं मध्यमम् उत्तरं यास् एव, मध्यमस्य प्रत्युत्तरस्यास्य भवत्य एवोदाहरणानीत्य् अर्थः ॥१८॥
॥ १०.३२.१९ ॥
भजतोऽपि न वै केचित् भजन्त्य् अभजतः कुतः ?
आत्मारामा ह्य् आप्त-कामा अकृतज्ञा गुरु-द्रुहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तृतीय-प्रश्नोत्तरं भजतोऽप्+ईति । अयम् अर्थः—ते तु चतुर्-विधाः—एके आत्मारामा अपराग्-दृशः, केचिद् आप्त-कामा विषय-दर्शिनोऽपि पूर्ण-कामत्वेन भोगेच्छा-रहिताः, अन्ये अकृतज्ञा मूढाः, अन्ये तु गुरु-द्रुहोऽतिकठिनाः । “स पिता यस् तु पोषकः” इति न्यायाद् उपकर्ता गुरु-तुल्यस् तस्मै द्रुह्यन्तीति तथा ते ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तृतीय-प्रश्नस्य नोभयांश् च भजन्त्य् अन्ये [भा।पु। १०.२९.१६] इत्य् एवं-रूपस्य उत्तरं प्रस्फोटयति—अयम् अर्थ इति । ते उभय-भजन-हीनाः । एके मुरुयाः [आत्मारामाः अपराग्-दृशः, मुनयः?] । न पराक् बहिर् विषयान् पश्यन्ति, किं त्व् आत्मानम् एव केवलं ये पश्यन्ति, तेऽपराग्-दृशः ज्ञानिनः । केचित् तद्-विशेषा आप्तः कामो येषां ते—
आपूर्यमाणम् अचल-प्रतिष्ठं > समुद्रम् आपः प्रविशन्ति यद्वत् । > तद्वत् कामा यं प्रविशन्ति सर्वे > स शान्तिम् आप्नोति न काम-कामी ॥ [गीता २.७०]
इत्य्-आदि स्मृतेर् ज्ञानिनां कामनोदयाभावात् । अन्ये प्राकृताः । संमूढाः अतिमूढाः । अन्ये तद्-इतरे । अतिकाठिन्यं विना गुरूणां हिताशंसिनां द्रोहो न भवतीत्य् अभिप्रेत्याह—गुरु-द्रुहः, अतिकठिनाः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, नैव भजन्ति । हि हेतौ निश्चये च । न कृतं तद्-भजनं जानन्ति अनुसन्दधतीत्य् अकृतज्ञा लोकाद्य्-अपेक्षावत्त्वेऽपि प्रत्युपकार-सामर्थ्येऽप्य् अज्ञानेन तद्-अकरणान् मूर्खा एवेत्य् अर्थः । एवं तेषाम् अज्ञत्वेन अभजनम् अभिप्रेतम् । सामर्थ्यवन्तो ज्ञात्वापि ये न भजन्ति, ते त्व् अतिधृष्टा इत्य् आह—गुरु- इति । एवं तासां पाद-त्रय-कृत-प्रश्नस्य पद्य-त्रयेण प्रत्युत्तरम्, तासां सङ्क्षेपादि-वाक्य-गुण-विशेषेण स्वस्माद् अपि माहात्म्य-विशेषणं विस्मरणार्थम् । एवं तासां मते श्री-भगवतो विचित्र-क्रीडया आत्मारामता आप्तकामता च न घटेतैव । गुरु-शब्द-प्रयोगेन गुरुध्रुक्ता न च ज्ञेयैव, विरहार्तिदत्वेन भजनासिद्ध्या नाद्य-पक्ष-द्वयम् अपि सङ्गच्छते । अतोऽकृतज्ञतैव परिशिष्येत इति तथा चाग्रे वक्ष्यते—अकृत-चेताः [भा।पु। १०.४७.१६] इत्य्-आदि । श्री-विष्णु-पुराणे श्री-बलरामायाने—अकृतज्ञ-ध्वजो हि सः [वि।पु। ५.२४.१६] इति । अत एव तैर् अपि व्याख्यातम् । अकृतज्ञत्वं तद्-वचनेनैवेति चरम-कोटि-गतम् इति च, तत्रापि चरम-कोटित्वं घटेतैव । यद् वा, गुरुध्रुक्-पदेन अतिकठिना इति तैर् व्याख्यातम् । तद् अत्रैव चरम-कोटि-गतत्वं सङ्गच्छत एव ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव, नैव भजन्ति, हि प्रसिद्धौ। एवम् अकृतज्ञानाम् अज्ञत्वे माभजने अभिप्रेतं । ज्ञात्वापि ये न भजन्ति ते त्व् अशेषा-दोष-युक्ता इत्य् आह—गुरु- इति गुरूपेक्षका इत्य् अर्थः । प्राण-दण्डोचित-विप्रादेर् इव तादृशस्योपेक्षैव द्रोह इति। अत्र तु पदार्थे तात्पर्यं नास्ति, किन्तु गौण्या वृत्त्या कृतोपकारोपेक्षका गम्यन्ते । तेन च तेषाम् अर्थ-धर्म-सौहृद-दयापेक्षा-राहित्यं व्यज्यत इति ज्ञेयम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तृतीय-प्रश्नस्योत्तरम्—भजतोऽपि इत्य्-आदि । केचिद् भजतोऽपि न भजन्ति, किं पुनर् अभजतः ? के ते ? इत्य् आह—आत्मारामा इत्य्-आदि । आत्मारामाणाम् अनन्य-स्फूर्तेः । आप्त-कामानां पूर्णत्वात् । अकृतज्ञानाम् अज्ञत्वात् । गुरुद्रुहां पापाधीन-मनो-वृत्तित्वाच् चत्वार एव तथा ॥१९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तृतीय-प्रश्नस्योत्तरम् आह—भजतोऽपि इति । केचिन् महापुरुषा भजतोऽपि जनान् न भजन्ति, अभजतां का कथा ? ते च चतुर्विधाः । आत्मारामा अनुसन्धान-रहिता यत आत्मन्य् एव रमन्ते, अतो भजन्तो देहम् अपि नानुसन्दधते, दैहिकानां भजनस्य का कथा ? इति । अन्ये आप्त-कामाः, अतोऽधिकस्य कामस्यावकाशाभावाद् अन्य-भजनं नापेक्षन्ते सर्व-काम-पूर्णत्वात् । यथा भुक्तवति पुरुषे "भुङ्क्ष्व" इति वचनस्य वैयर्थ्यम् । अत उभयेषां भजने सार्थस्य धर्मस्यात्राप्य् असिद्धे एतयोर् उभयोः स्वरूप-कथनम् एव । अतोऽपि आत्मारामत्वम् आप्तकामत्वं च न सञ्जघटीति, तयोर् उपेक्षया विलासस्य स्वीकृतत्वात् ।
तृतीय-पक्षम् आह—अकृतज्ञा इति । अन्य-कृतं भजनम् उपकारं न जानन्ति, ये तु प्रत्युपकार-समर्था अपि तदीयोपकार-सापेक्षा अपि प्रत्युपकार-कर्तृत्वेन भजन्ति, तेषाम् अज्ञानम् एव हेतुर् अभजत इति ते अकृतज्ञा इति । अहम् अकृतज्ञो न भवामि । अस्योत्तरम् अग्रिम-श्लोके वक्ष्यति—मया परोक्षं भजते इति ।
चतुर्थ-पक्षम् आह—ये तु सामर्थ्ये सत्य् अपि ज्ञात्वैव न भजन्ति, तेऽतिनिर्दया इत्य् आह—गुरु-द्रुह इति यः कश्चित् स्वस्याभीष्ट-सम्पादकः, यश् च पोषकः, स तु गुरुः पूज्यः, तस्यैव द्रुह्यन्ति ये । द्रोहस्य द्वैविध्यं—जीवन-हरणेन सर्वस्व-हरणेन वा । तद् द्वयं जातम् एवासाम् अभिप्रायेण । तथा हि विप्रलम्भे दशम्य्-अवस्थायाः सन्निहितत्वात् जीवन-हरणम् अपि सम्भावितम् अस्ति । सर्वस्व-हरणं च जातम् एव गृह-सुखस्यापहृतत्वात् । यद् वा, सर्वस्वं तेन सह विलासं, तस्याप्य् अपहृतत्वात् । तेन गुरु-द्रोहेण तु दुःखस्यानिवारणात् एतादृशः ते गुरु-द्रुहस् त्व् अतिकठिना इत्य् अर्थः । धर्म-सौहार्दापेक्षा-शून्यत्वाद् एवोपेक्षा इत्य् अर्थः । अस्यापि परिहारस्योत्तर-श्लोके वक्ष्यति—नाहं तु सख्यः [२०] इति ।
इदानीं पक्ष-त्रयस्य विद्यमानत्वात् गुरु-द्रोहः परिशिष्यते, अत एव चरम-कोटि-गतिम् आत्मानम् एव । वक्ष्यति च भ्रमर-गीतायां—व्यसृजद् अकृत-चेताः किं तु सन्धेयं [भा।पु। १०.४७.१६] इति । किं च,
परिचरति कथं तत्-पाद-पद्मं नु पद्मा > ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः [भा।पु। १०.४७.१३] > इति ।
अहो बत अविज्ञाय पाद-पद्मं कथं श्रीः सेवते इति आचार्यैर् व्याकृतम् । तथा चाग्रे वक्ष्यति कुरुक्षेत्र-यात्रायां गोपी-संसदि, अप्य् अवध्यायथास्मान् स्विद् अकृतज्ञा-विशङ्कया [भा।पु। १०.८२.४२] इति श्री-मुखेन स्वीकृतम् इति । अत एवाकृतज्ञत्वं तस्मिन्न् आपद्यते । तस्यापि परिहारं करिष्यति अनुरूपम् उत्तरं दातुम् अलभमान एव तत्-सम-प्रत्युपकारासामर्थ्यात्, न पारयेऽहम् [२२] इति पदेन स्वस्मिन् ऋणीत्वं तासु परिपूर्णत्वम् एव समर्थितं मुखेन वदति । एतेषां मध्ये कोऽपि न भवामि दोष-चतुष्टयाभावः कथितः । हृदयेन तु स्व-दोषम् आकल्प्य प्रोक्तं—तद् वः प्रतियातु साधुना [२२] इति ।
ननु पाद-क्रमेण चरम-कोटित्वं गुरु-द्रोह एव भवति । तत्र समाधत्ते पाद-क्रमाद् अर्थ-क्रमो बलीयान् । "अग्निहोत्रं जुहोति, यवागूं पचति" इतिवत् ज्ञेयम् ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तृतीय-प्रश्नस्योत्तरम् आह—भजतोऽपि इति । ते यथोत्तर-न्यूनाश् चतुर्विधाः । आत्मारामा अबहिर्-दृश एके । अन्ये आप्त-कामा बहिर्-दर्शित्वेऽपि स्वत एव पूर्ण-कामत्वेन न परतो भोगेच्छवः । अपरे अकृतज्ञाः परतो भोगेच्छुत्वेऽपि परैः कृतम् उपकारादिकं न जानन्ति । अन्ये गुरु-द्रुहः परैः कृतम् उपकारादिकं न मन्यन्तां, प्रत्युत तेभ्यो गुरु अधिकं द्रुह्यन्ति, ते निर्हेतुक-द्रोहिणः । सहेतुक-द्रोह-कैमुत्य-प्राप्तत्वेन तद्-अन्त-भूतः एव । तथा पालकत्वं गुरवश् च ते द्रुहश् चेति गुरु-द्रुहो विश्वस्त-घातिनश् चेति त्रिविध-द्रोहोऽप्य् अभजनम् एव । ततश् च प्रथम-प्रश्नोत्तरस्य उदाहरणम् एकम् एव । द्वितीय-प्रश्नोत्तरस्य द्वे । तृतीय-प्रश्नोत्तरस्य षड् इत्य् एवं नव ॥१९॥
॥ १०.३२.२० ॥
नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये ।
यथाधनो लब्ध-धने विनष्टे
तच् चिन्तयान्यन् निभृतो न वेद ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र चरम-कोटि-गतम् आत्मानं मत्वा, अक्षि-संकोचैः परस्परं गूढ-स्मित-मुखीस् ता दृष्ट्वा आह—नाहं त्व् इति । हे सख्यः ! अहं तेषां मध्ये न कोऽपि, किं तु परम-कारुणिकः परम-सुहृच् च । कथम् ? अमीषां भजताम् अनुवृत्ति-वृत्तये निरन्तर-ध्यान-प्रवृत्त्य्-अर्थं तान् न भजामि । एतत् स-दृष्टान्तम् आह—यथा इति । तस्य धनस्यैव चिन्तया निभृतः पूर्णः, व्याप्त इति यावत् । अन्यत् क्षुत्-पिपासाद्य् अपि न वेद ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र चतुर्षु चरम-कोटि-गतम् अन्त्य-कक्षा-प्रविष्टम् । आत्मानं श्री-कृष्णम् । मत्वा ज्ञात्वा । अक्षि-सङ्कोचैः ईषन्-नेत्र-चालनैः । परस्पर-गूढ-स्मित-मुखीः अन्योन्य-गुप्तेषद्-धसास्य-स्मिताः । ताः गोपीः दृष्ट्वा श्री-कृष्णो वक्ति—नाहं त्व् इति । तेषां चतुर्णां न कोऽपि अन्यतमोऽपि, न । किन्तु अपि तु । परम-कारुणिकत्वादिकं शङ्कते—कथम् इति । तान् भजतः । एतत् वृत्तम् । अधनो दरिद्रः । मम सकृत् सम्भूय पुनर् अन्तर्धानं स्वस्मिन् प्रीत्य्-अतिशयार्थं—
सकृद् यद् दर्शितं रूपम् एतत् कामाय तेऽनघ ।
मत्-कामः शनकैः साधुः सर्वान् मुञ्चति हृच्-छयान् ॥ [भा।पु। १.६.२३]
इति नारदं प्रति मद्-उक्तेः । भक्त-संसृति-विनाशार्थम् एव मम लीलेति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नाहं त्व् इत्य्-आदि । अहं तु आत्मारामादीनां मध्येनैकोऽपि भवतीभिः किम् अन्योन्यं स-स्मितम् ईक्ष्यते ? तर्हि कथम् अस्मान् न भजसीत्य् आह—अनुवृत्ति-वृत्तये यथाधन इत्य्-आदि ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो भिन्नोपक्रमे । आत्मारामादि-चातुर्विध्य-रहितोऽप्य् अहं न भजामि । नञः सर्वादौ प्रयोगः स्व-वाक्येनैव स्वस्य यन्त्रणापत्त्या परम-वैयग्र्यात् । हे सख्यः ! इति आत्मारामत्वादि-राहित्यम् एव साधितम् । अन्यथा सख्यासम्भवः । जन्तून् इत्य्-आदि विचार-विशेष-राहित्यम् अभिप्रेतम् । अन्यथा स्वत एव अनुवृत्ति-सिद्धिः ।
नन्व् अस्माकं त्वय्य् अनुवृत्ति-वृत्तिः सदा अनुवर्तत एव ? इति चेत्, सत्यम् । विशेषेण तत्-सम्पत्त्य्-अर्थम् इति स-दृष्टान्तम् आह—यथा इति । विशेषतो नष्ट इति पुनः प्राप्ति-सम्भावना निरस्ता । अत एव नितरां भृतो व्याप्तः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तासां मते तद्-आदिभिः सह विचित्र-क्रीडया रममाणस्य तस्य आत्मारामत्वादि-द्वयं न घटत एव । विरहार्ति-प्रदत्वेन, न च पूर्वोक्ते सापेक्ष-निरपेक्ष-भजने तादृशोत्तरादि-चातुर्येण विज्ञताभिव्यक्तेः न कृत्वा चाकृतज्ञत्वं, ततो गुरुध्रुक्त्वं निर्विशेषं काठिन्यम् एव पर्यवसितम् इत्य् अभिप्रेत्य व्याख्यातम् अक्षि-निकोचैर् इति । अथवा काठिन्यापादनार्थ एवायं प्रश्नोद्यम इति व्याख्येयम् । अथाभजनेऽपि मम सर्वेभ्यो भजन-कृद्भ्यः उत्तम-भजनत्वं किम् उत भजन इत्य् आह—न इति । तु-शब्दो भिन्नोपक्रमे । आत्मारामादि-चातुर्विध्य-रहितोऽप्य् अहं भजतोऽपि जनान् न भजामि ।
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥
इत्य्-आदि मद्-उक्तिभिस् तन्-निकटे स्थितम् अपि स्वं तेभ्यो न दर्शयामीत्य् अर्थः । नञः सर्वादौ प्रयोगः स्व-वाक्येनैव स्वस्य यन्त्रणापत्त्या परम-वैयग्र्यात् । हे सख्यः ! इति आत्मारामत्वादि-राहित्यम् एव साधितम् । जन्तून् इत्य् अविशेषात् सर्वत्रैवेदृशो मम व्यवहारो न तु भवतीष्व् एवेति नात्मनि ममौदासीन्यं शङ्कनीयम् इति भावः ।
कथं न भजसि ? तत्राह—अमीषाम् इति । अनुवृत्तीनां निरन्तर-ध्यानानां वृत्तिर् यस्मात्, तस्मै सन्तत-प्रेम-प्रकर्षायेत्य् अर्थः ।
नन्व् अस्माकं त्वय्य् अनुवृत्ति-वृत्तिः सदा वर्तते एव इति चेत्, सत्यम् । तथापि वैशिष्ट्यार्थम् इति स-दृष्टान्तम् आह—यथा इति । विशेषतो नष्टे हारिते इति वैयग्र्य-विशेषो दर्शितः । अत एव तच्-चिन्तया नितरां भृतो व्याप्तः । तद् एवं रूप-गुणादिना सर्व-वशित्वात् सर्वार्थ-पूर्णत्वेन प्रेम-मात्र-सापेक्षत्वेन च प्रत्युपकारानपेक्षतया साम्येऽपि करुण-पितॄन् अप्य् अतिक्रम्य स्वस्य हितैषित्वं दर्शितं, स्वादेय-स्व-वशीकार-सर्व-पुरुषार्थ-शिरोमणि-स्व-प्रेम-दानात्। तथा प्रिय-प्रेम-रसास्वादाधिक्यं च बोधितम्, सन्तत-तद्-वर्धन-लालसात्, तद्-अर्थं तद्-विरह-दुःख-सहनाच् चेति ज्ञेयम् ॥२०॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ७०-७१) : लौकिक-शुद्ध-प्रीति-निदर्शनेनापि स्वयं तथैव द्रढयति—मिथः [१७-१८] इति । ततोऽपि स्व-प्रीतेर् वैशिष्ट्यम् आह—नाहं त्व् इति । भजन्त्य् अभजत [१९] इत्य् अत्र न करुणादीनां दयनीयादि-कर्तृक-प्रीत्य्-आस्वादापेक्षा । तथा दयनीयादीनां करुणादि-विषया या प्रीतिः, सा करुणादि-भजन-जीवना स्याद् इत्य् आयाति । अत्र तु श्री-कृष्णस्य स्व-भक्तेषु स्व-प्रेमातिशयोदये प्रयत्नः । तद्-उदये च सति तद्-आस्वादाद् भक्त-विषयक-प्रेम-चमत्कारोऽतिशयेन स्याद् इति तद्-भक्तानां च तत्-कृतौदासीन्येऽपि प्रेम्नोर् एव वृद्धिः स्याद् इति वैशिष्ट्यम् आगतम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : करुणा-विशेषम् एव दृष्टान्तयति । तत्र तस्मिन् साकूत-पर्यवसानम् आशङ्क्य मिथोऽक्षीणि कुञ्चतीः प्रत्य् आह—नाहम् इति ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किन्तु उक्तेषु धर्मिषु अभजन्तं मां भवत्यो भजन्तीति स्वासां कारुणिकत्वम् । मम चाकृतज्ञता मा शङ्कनीयेत्य् आह—नाहं त्व् इत्य्-आदि । अहं तु अहं पुनर् यद्यप्य् आत्माराम आप्त-कामश् च, तथापि न तद्-उभयत्वेन नाप्य् अकृतज्ञादित्वेन । हे सख्यः ! भजतोऽपि जन्तून् प्राणि-मात्रम् अपि भजामि, किन्तु अमीषां जन्तूनाम् अनुवृत्ति-वृत्तयेऽनुगति-सातत्याय भजत एव यदि भजामि, तदा पूर्णत्वाभिमानेन पुनर् अनुवृत्तिं न करिष्यन्तीति ।
नन्व् अभजने यदि ते विरज्येरन्, तदा किं स्यात् ? नैवम् इत्य् आह—यथा इत्य्-आदि । अहं तु सर्वेषां धनम् । धनं प्रति कोऽपि न विरज्यति । इत्य् अत्र व्यतिरेके दृष्टान्तः—यथाधनः केनाप्य् उपायेन लब्धस्य धनस्य पुनर् विगमे, तच्-चिन्तयान्यन् निभृतं निपुणं न वेद न जानाति । अतः साधूक्तम्—अनुवृत्ति-वृत्तय इति ।
किन्तु एतत् सामान्य-जन्तु-परम्, न तु भवद्-विध-परम् । यतो भवत्यः सख्यः । सख्युर् मम सखीत्वे मद्-धर्मिण्यः ॥२०॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं स्व-दोषान् स्व-मुखेनोद्भाव्यान्यत्र सञ्चारयन्तम् आलक्ष्य स्मितेनैवान्योन्यं व्यञ्जयन्तीः दृष्ट्वा, तत् परिहरन्न् आह—नाहम् इति । तु-शब्देनैतच् चतुर्विधेभ्यो व्यतिरेकः प्रदर्श्यते । अहं तु चतुर्विधेषु तेषु रमण-प्रतिकूलेषु मध्ये न कश्चन, किन्त्व् अतीति कृपालुं ।
न च नापीश्वरत्वं शङ्कनीयम् इत्य् आह—हे सख्यः ! इति । समान-शील-व्यसनेषु सख्यम्27 [पञ्चतन्त्र १.३०५] इत्य्-उक्तत्वात्, एकार्थाभिः विवेशाच् चेति । आत्मारामोऽप्य् अरीरमत् [भा।पु। १०.२९.४२] इत्य्-आदिनात्मारामता उपेक्षिता, साक्षात् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इत्य् अनेन कामस्यापि मोह-जनकत्वं दार्ढ्य-रमणार्थम् एव । अन्यथा काम-पारतन्त्र्ये चरम-धातु-पातेन विवशत्वोपपत्तेर् इति । अत एवाकृतज्ञत्वं नास्ति । ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहं [भा।पु। १०.४६.४] इत्य् उक्तेश् च सर्वज्ञत्वम् उक्तम् ।
मूर्खाश् च मूर्खैः सुधयः सुधीभिः समान-शील-व्यसनेषु सख्यम्
गुरु-द्रोहोऽपि मयि न शङ्कनीय इति । विरहे व्यभिचारि-भावानां दुःखवत् प्रतीयमानत्वेऽपि न दुःखं, परिणामे रस-पोषकत्वात् । तद् उक्तं—शृङ्गारो विप्रलम्भं हि न विना पुष्टिम् अश्नुते इति । मयि कश्चन दोषो न शङ्कनीय इति भावाः ।
तर्हि कथम् अन्तर्धानेन स्थितम् ? इति चेत्, तत्राह—यम् आश्रित्यैव रीतिः, ताम् आह—अहं तु भजतोऽपि जन्तून् विशेषाभावः सूचितः प्राणिनो न भजामि । परोक्षं भजन्न् अपि तेषु कदाचित् अपरोक्षं भजनं न प्रकाशयामि । अन्ये तूपकार-प्रत्युपकार-रूपेणान्योन्यं भजन्तो दृश्यन्ते । अहं तु तादृशो न भवामि, किं तु विलक्षण इति तु-शब्दस्यार्थः ।
ननु तर्हि किम् इत्य् एवं क्रियते ? इति चेत्, तत्र हेतुम् आह—अमीषाम् इति । अमीषां भजताम् अनुवृत्तये निरन्तर-ध्यानार्थम् एव । मम तु सर्व-सुहृत्त्वात् अयं व्यवहारः । सर्वेष्व् एक-रूप एव दृष्ट-फलश् च केवलं युष्मास्व् एवेत्य् अपि न शङ्कनीयम् इत्य् अर्थः ।
दृष्ट-प्रत्ययम् अर्थं दृष्टान्तेन स्पष्टयति—यथाधन इति । यथा पूर्वम् एव अधनो निर्धनः पश्चाल् लब्धे धने विनष्टे हारिते सति, तच्-चिन्तया निभृतः नितरां भृतः व्यापृतः निमग्न-चित्तः सन् अन्यत् क्षुत्-पिपासादिकम् अपि न वेद । इयं तु लोक-प्रसिद्धिः । यथा नारदाय सकृद् दर्शयित्वा मया पुनर् अन्तर्हितं, तदा तस्य निरन्तरम् अनुवृत्तिर् एव जाता, तथा भवतीनाम् अपि ममान्तर्धाने तादृश्य् एवानुवृत्तिर् इत्य् अर्थः ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रथम-द्वितीय-प्रश्नोत्तरोदाहरणेषु त्वं न वर्तसे । तृतीय-प्रश्नोत्तरोदाहरणेषु मध्ये कतमः ? इति चेत्, शृणुत भो ! मन्-मुखेनैव मत्-पराजयं शुश्रूषवो मिथः स्मित-विलसित-कटाक्ष-नटन-चातूरी-धुरीणाः सख्यः ! शृणुत। नारायणत्वेनात्मारामः पूर्ण-कामश् च भवन्न् अपि नन्द-पुत्रत्वाद् अनात्मारामोऽपूर्ण-कामश् च गोप-बालकत्वेनानाधीत-नीति-शास्त्रत्वाद् अकृतज्ञो भवन्न् अपि नारायणत्वेनैव सार्वज्ञ्यात् कृतज्ञश् च । स-विलासादिभिर् मुहुः प्रणीतानाम् अपि युष्माकं सकृन्-मात्र-त्यागेन द्रोहाद् गुरु-ध्रुग् अपि भवन्, पुनः स्व-दर्शनानन्द-दानान् न गुरु-ध्रुक् च । तर्हि निश्चयेन को भवति भवान् ? इति चेत्, तत्राह—नाहं तु इति
तुर् भिन्नोपक्रमे । जन्तून् जीव-मात्राणि भजतोऽप्य् अहं न भजामि ।
तर्हि पूर्वतः को भेदः ? तत्राह—अमीषां भजताम् अनुवृत्तिर् मद्-भजनं तस्या वृत्तये जीविकायै । हे अबलाः ! मद्-अभिप्रायं ज्ञातुम् असमर्थाः ! हन्त हन्त यम् एवोद्यमं करोमि, स एव विफलीभवति । तस्मान् मय्य् अपराधिन्य् अनुग्रह-लेशोऽपि कृष्णस्य नास्ति धिङ् माम् इति प्रतिक्षणं निर्वेद-दैन्यादि-वृद्ध्या काम-क्रोधाद्य्-अनुपगमैर् भक्तिः प्रदीप्तीभवत्य् अजात-प्रेम्णां जात-प्रेम्णां तु अनुवृत्तिः मद्-आसक्तिः, तस्या जीविकार्थं न भजामि, दार्शनं दत्त्वाप्य् अन्तर्दधामि । तत एव अनुवृत्तिः आसक्तिः प्रवृद्धीभवति ।
तत्र जात-प्रेमस्व् एव दृष्टान्तः—यथा इति । तस्य धनस्यैव चिन्तया निभृतः पूर्णो व्याप्त इति यावत् । अन्यत् क्षुत्-पिपासाद्य् अपि न वेद । अतो मां भजतां मद्-अनुवृत्तिर् एव वाञ्छिता, तष्या आधिक्येन सम्पादनाद् अहं तान् प्रकटम् अभजन्न् अप्य् अप्रकटम् अधिकम् एव भजामीत्य् अहम् अपि वस्तुतः करुण एव ।
द्वितीय-प्रश्नस्योदाहरणीभूतो यथा भवत्य इत्य् अतो मम स्व-दर्शन-दानादाने एव भजनाभजने न व्याख्येये, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहं [गीता ४.११] इति वस्तु-प्रतिज्ञाया अन्यथा-भावानर्हाद् इति भावाह् ॥२०॥
॥ १०.३२.२१ ॥
एवं मद्-अर्थोज्झित-लोक-वेद-
स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं मद्-अर्थोज्झित-लोक-वेद-स्वानां मद्-अर्थे उज्झितो लोको युक्तायुक्ताप्रतीक्षणात्, वेदश् च धर्माधर्माप्रतीक्षणात्, स्वा ज्ञातयश् च स्नेह-त्यागात् याभिस् तासां वो युष्माकं परोक्षम् अदर्शनं यथा भवति, तथा भजता युष्मत्-प्रेमालापान् शृण्वतैव तिरोहितम् अन्तर्धानेन स्थितम् । तत् तस्मात् हे अबलाः ! हे प्रियाः, मा माम्28 असूयितुं दोषारोपेण द्रष्टुं यूयं मार्हथ न योग्याः स्थ ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : युक्तायुक्ताप्रतीक्षणं सदाचरण-लोकापवाद-भीति-त्याग-रूपम् । धर्माधर्म-प्रतीक्षणं निज-पति-त्यागौपपत्य-सेवन-रूपम् । शृण्वता इत्य् उपलक्षणम्—प्रेमालापं शृण्वता, गुण-गाथां गायता, भाव-विशेषं स्मरता केवलम् अन्तर्धानेन अत्रैव स्थितम् । विश्वासाभावश् चेत् प्रष्टव्यं यमुनादिभ्यः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तथापि ताषां मुख-प्रसादम् अनालोक्य पुनर् वदति—किम् एतेन मयापराद्धम् एव । तस्माद् अयम् अपराधः क्षम्यताम् इत्य् आह—मया इत्य्-आदि । परोक्षं भजता मनसा भवतीभिर् एव भजता तिरोहितं मा सूयितुं मार्हत, माम् आसूयितुं मार्हत । कुतः ? प्रियश् चेत् प्रियस्यापराधः प्रियाभिर् एव क्षम्यते ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् इत्य् अस्य अनुवृत्तये इत्य् अनेनान्वयः । हे अबलाः ! इति । तत्र स्वतः शक्त्य्-अभावं सूचयति । प्रियं प्रिया इत्य् अन्योऽन्य-प्रियत्वेन मम विरहाद्य्-अपराधो न ग्राह्य इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, एवम् इत्य् अस्य मया इत्य् अनेनान्वयः । तादृश-चिन्ता-निभृतेन मया इत्य् अर्थः । तत्र हेतुः—मद्-अर्थ- इति । अतः परोक्षम् अपि भजता एव प्रेमालापं शृण्वता गुण-गाथां गायता, भाव-विशेषं च युष्माकं स्मरता केवलम् अन्तर्धान-मात्रेण अत्रैव स्थितम् इत्य् अर्थः ।
अथवा, अनुवृत्ति-वृत्तये [२०] इत्य् उक्तम् । सा च कीदृश्य् अनुवृत्तिः ? तां दृष्टान्तेनाह—यथा इति । अतोऽस्य पूर्वेणैव सम्बन्धः—हे सख्यः ! इत्य् अनेन इदं च युष्मान् अधिकृत्य नोच्यते, सहज-सख्याद् इति ध्वनितम् एवाभिव्यञ्जयति—एवम् इति ।
एवं मद्-अर्थोज्झित-लोक-वेद-
स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥
हि अपि । युष्माकम् अपि मय्य् अनुवृत्तये । एवं युष्मान् न भजामि किम् ? काक्वा, अपि तु नैव । तत्र हेतुः—मद्-अर्थ- इति । यद् वा, युष्माकम् अपि मय्य् अनुवृत्तये, किम् अपि तु नैव । कुतः ? एवं तादृश-चिन्ता-निभृततया मद्-अर्थम् एव नान्यत् किञ्चिद् उद्दिश्य उज्झिता उपेक्षिता लोकाश् चतुर्दश-भुवनानि श्री-वैकुण्ठादयश् च । अतो वेदाश् च तद्-बोधित-कर्मानादरात् । अत एव स्वश् च पति-पुत्रादयो याभिः, तासां स्वत एवम् अपि निरन्तर-विशुद्ध-परमानुवृत्ति-वृत्तेर् इत्य् अर्थः । एवं मुमुक्षुभ्यो मुक्तेभ्यश् च भक्तेभ्योऽप्य् आसां विशेषो दर्शितः । अष्टं तद्-अपेक्षासम्भवात् तादृश-भावाभावाच् च ।
ननु तर्हि किम्-अर्थम् अधुर् यतन्तीर् हतम् ? तत्राह—मयेति । परोक्षम् अजतेति कुत्रापि न मया गतम् आसीत्, किन्तु युष्मद्-अन्तिके-त्रैव वर्तमानेन परोक्षं मद्-अगोचर-धिया, युष्माभिः प्रियमाणं विचित्र-प्रेमालापादिकं भजता । तुम्-अर्थे शतृङ् श्रोतुम् इत्य् अर्थः । एवं कितव योषितः कस् त्यजेत् [भा।पु। १०.३१.१६] इत्य्-आदिकं परिहृतम्
यद् वा, अकार-प्रश्लेषेण अपरोक्षं साक्षाद् एव भजता तिरोहितं युष्मद्-अदृश्य-मात्रेण स्थितम् इत्य् अर्थः। तथापि प्रिय-जन-दुःख-हेतुत्वेन दोषः स्याद् एवेति चेत् तर्हि क्षन्तव्यम् इत्य् आशयेनाह—प्रियं प्रिया इति ।
यद् वा, ननु तद् अपि किम्-अर्थम् ? तत्राह—प्रियं प्रिया इति । प्रियाभिः सह प्रियस्य तद् अयुक्तम् एवेति भावः ।
यद् वा, तत् परोक्ष-भजनं प्रियं यस्य तं मां सहज-मत्-कौतुक-रसेनेत्य् अर्थः । अबो बतेदं साधु कौतुकं यत् प्रिय-जन-प्राणैः सह क्रीडनम् इति चेत् तत्राह—प्रिया इति । प्रेम्णा तद् अपि प्रीति-विशेषायैव स्याद् इत्य् अर्थः ।
यद् वा, तत् तथापि मा-शब्द-द्वयं निषेधे प्रकृत्य्-अर्थं गमयति अर्हतेत्य् अर्थः । कुतः? प्रियं प्रियाः प्रियस्य प्रियासु तथा कर्तुम् अयुक्तत्वाद् इत्य् अर्थः । एतच् चानुनयन-चातुर्यम् । अन्यत् तत्र तत्र समानम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्यैव च भवतीनां निकट एव स्थितवान् अस्मीत्य् आह । एवं दुह्यन्त्योऽभिययुः काश्चित् [भा।पु। १०.२९.५] इत्य्-आदि-प्रकारेण, मद्-अर्थ- इत्य्-आदि हे अबलाः ! इति तत्-तत्-परित्यागे दुष्करत्वं सूचयति । मासूयितुम् इत्य् अत्र हेतु-विशेषम् अप्य् आह—प्रियं प्रियाः इति । हि निर्धारणे ।
यद् वा, एवं यथाधनः [२०] इत्य्-आदि-प्रकारेण वो युष्माकं मय्य् अनुवृत्ति-वृत्तये एव मया तिरोहितम् । पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मन [भा।पु। १०.३०.२५] इत्य्-आदि-भवद्-वाक्यानुसारेणाग्रतः पार्श्वतः स्थित्वैव भवद्-दृष्टि-मात्रा-गोचरी-बभूव इत्य् अर्थः ।
किं कुर्वता ? परोक्षं भजता प्रेमालापादिकम् अनुमोदमानेन । तथानुग्रहे हेतुः—मद्-अर्थ- इति । यद् वा, अन्यत् तैः । मा-द्वयं निषेधे, तथापि प्रियं मल्-लक्षणं मासूयितुं मार्हथ, अपि तु मया दत्त-दुःखा यूयम् अर्हर्थ एवेत्य् अर्थः । कुतः ? प्रियं प्रियाः । प्रियस्य तथा कर्तुम् अयुक्तत्वाद् इत्य् अर्थः । एतच् चानुनय-चातुर्यम् ॥२१॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८५) : एष च [परित्यागजेर्ष्या-हेतुक-मानः] स्तुत्य्-आदिभिः शाम्यति। यथैव तास् तुष्टाव—एवम् इति द्वाभ्याम् इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तथापि यद् एवं मया कृतम्, तत्र मासूया करणीयेत्य् आह—एवम् इत्य्-आदि । हे अबलाः ! रामाः ! अब अवरं वाम्यं लान्ति इति तथा, मा माम् असूयितुं मार्हथ मा क्षमाः स्थः ।
ननु भजन्तीर् अस्मान् विहाय गतवान्, कथं मासूयितव्यः ? इत्य् आह—मया इति। परोक्षं भजता एव मया तिरोहितम् । तिरोभूयापि मया वो भजनं कृतम् इत्य् अर्थः । साक्षाद् भजनात् परोक्ष-भजनम् एव प्रेम-गमकम् । यतो भवत्यः प्रियाः, न तु जन्तवः । अहं प्रियः, न त्व् आत्मारामादिः । इत्य् आह—प्रियं प्रियाः ।
ननु, तर्हि तिरोहितम् एव कथम् ? तत्राह—वो युष्माकम् अनुवृत्ति-वृत्तये, अनुवृत्तेर् वृत्त्य्-अर्थम् । भवतीनां मद्-अङ्ग-सङ्गोत्सवेन पूर्णं-मन्यानां पुनर्-उत्कण्ठां वर्धयितुम् ।
ननु तदा तिरोहितम् एवेति सत्यम्, भजता इति यद् उक्तं, तत्र किं-प्रमाणम् ? इति चेत्, मत्-स्वभाव एव प्रमाणम् । यतोऽहं कृतज्ञ एवेति स्व-कृतज्ञत्वं तासां विशेषण-द्वारैव प्रकटयति—मद्-अर्थ- इत्य्-आदि । एवं-प्रकारेण मद्-अर्थं मन्-निमित्तम् उज्झितानि लोक-वेद-स्वानि याभिः, तासां वोऽभजने ममाकृतज्ञता स्याद् इति स्व-दोष-परिहारार्थं परोक्ष-भजनम् एव कृतम् । तच् च सन्दर्शन-रूपं कदाचिद् वीजनादिषु भवतीभिस् तु न दृश्य इति परोक्षं भजता इति पदयोर् ध्वनिः । अतः सम्यग् उक्तं मासूयितुम् इत्य्-आदि ॥२१॥
एवं मद्-अर्थोज्झित-लोक-वेद-
स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं सर्वत्र स्वस्याभजने हेतुम् उक्त्वा प्रस्तुते भजन-विशेषम् आह—एवम् इति । एवम् अनेन प्रकारेण शुश्रूषन्त्यः पतीन् काचिद् [भा।पु। १०.२९.६] इत्य्-आदिना मद्-अर्थे मत्-कामनयानया उज्झिताः लोका कर्मोपार्जिता स्वर्गादि-ब्रह्म-लोकान्ता गृहीत-चित्त-धर्मानादरात् वेदश् च विधि-निषेधानादरात् स्व-पति-पुत्रादयः स्नेह-परित्यागात् । एते त्यक्ताः याभिः, तासां वो युष्माकम् अपि अनुवृत्तये निरन्तर-ध्यानार्थं परोक्षं भजता । रात्रौ स्त्रियः कथं त्यक्तव्याः ? इति मनसि निधाय निरन्तर-ध्यानार्थम् अपरोक्षं भजनं रात्रौ रक्षार्थं परोक्षं भजनम् । एतद् उभयं कुर्वता तिरोहितं नेत्रागोचरेण स्थितम् ।
प्रत्यभिज्ञा-बोधकम् आह—कितव योषितः कस् त्यजेन् निशि [भा।पु। १०.३१.१६] इत्य्-आदि प्रेमालापान् शृण्वन्—अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः [भा।पु। १०.३०.३३] इति प्रत्यभिज्ञा । दर्शयता अग्रतः पार्श्वतः पृष्ठतश् चादृश्येन भजता भवतीनां प्राण-रक्षां कुर्वता तिरोहितम् ।
यद् वा, अपरोक्षं भजता सर्वतो रात्रौ रक्षता तिरोहितम् ।
यद् वा, परोक्षं भजता कण्टक-शर्करादीन् अपसारयता मार्ग-संस्कारं कुर्वता अतिरोहितम्, न तीर्यक्-स्थितम्, किं तु अग्रत एव स्थितम् । भजतो भजन्त्य् एके [१९] इति यत् पृष्टं तस्योत्तरं दत्तम् इति भवतीनाम् अपरोक्षं भजनं, मम तु परोक्षं भजनम् इत्य् एतावान् भेदः । हे अबलाः ! इति सम्बोधनेन तत् ज्ञाप्यते, न ह्य् अन्येषाम् इव भवतीनां भजनं किं त्व् अलौकिकम् एव सिध्यतीति । अनेनाभजन-पक्षौ वल्लवी-मनसि निरधारितोऽपि निरस्तः । अन्यथा असूयापि सम्भवेत् । तत् तस्माद् अकृतज्ञत्वादि-दोषारोपणे मा माम् असूयितुम् अर्हथ ।
कीदृशं माम् ? प्रियं प्रीति-विषयं यूयं मत्-प्रियाः दुष्टेऽपि प्रिये स्वस्यासूया-विषयत्वम् अनौपायिकं त्यक्तुम् अशक्यत्वात् इति प्रीति-विषयेऽकृतज्ञत्वादि-दोष-स्फुरणम् असम्भावितम् । प्रत्युत अकृतज्ञत्व-गुण-सम्भावनम् उचितम् । अकृतम् अकृत्रिमं भावं जानातीति अकृतज्ञः तस्य भावोऽकृतज्ञत्वं स्वाभाविक-मनोभावज्ञत्वम् इत्य् अर्थः । अन्यथा दोष-स्फूर्तौ औदासीन्य-सामानाधिकरण्यं स्याद् इति ।
ननु, परोक्षं भजने स्वभजन-सादृश्यं न भवति, दुःख-हेतुत्वात् स्फूर्तेः ? इति चेत्, तर्हि प्रियं मा माम् असूयितुं मार्हथ साङ्गस्यापि मयि दोषम् उद्भावयितुं मार्हथ, दोषम् उद्भाव्य स-दोषस्य मम भजने भवतीनाम् अपि स-दोषत्वं प्रसिद्धिर् भविष्यतीति । क्षन्तव्यम् एवेति सानुनयोक्त्या वैषम्यम् अभिव्यञ्जितम् । प्रियं प्रिया इत्य् अनेन दोषम् उद्भावयन्त्योऽपि भवन्त्यो मया त्यक्तुम् अशक्याः । तथा प्रिये त्यक्तुम् अशक्ये मयि तया कर्तुम् अशक्ये मयि तया कर्तुं प्रियाणाम् असाम्प्रतम् इति भावः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, जन्तून् स्व-भक्तान् अजात-प्रेम-जात-प्रेमश् च यद् एवं भजसि, तत् सम्यक् करोषि । किन्त्व् अस्मास्व् अपि तथैव त्वद्-व्यवहरणाद् वयम् अपि जन्तु-मध्य एव गण्या अभूमेति तासां सानुशयं वाक्यम् आशङ्क्य भो मत्-प्राण-परार्ध-प्रिय-पद-पयोज-पांशु-परमाणवः सख्यो युष्मासु यद् अन्य-साधारण्येनाद्य् व्यवहृतं तद् एतन् मे दौरात्म्यं क्षम्ध्वम् इत्य् आह एवम् इति ।
यद् वा, यथा तथैवैवम् इत्य् अमरोक्तस् तद्वद् इत्य् अर्थः । ततश् च मद्-अर्थे उज्झितो लोकः । युक्तायुक्ताप्रतीक्षणात् । वेदश् च धर्माधर्माप्रतीक्षणात् । स्वान्य् आत्मात्मीय-धन-ज्ञातयश् च, स्नेह-त्यागात् याभिस् तासाम् अपि वस् तद्वद् अनुवृत्तये उक्त-लक्षणानाम् अन्येषां भक्तानाम् इवानुवृत्ति-बुद्ध्यै परोक्षम् अदर्शनं यथा स्यात् तथा भजतां युष्मत्-प्रेमालापान् शृण्वता तिरोहितम् इति काकुस् तस्माद् अतीवानौचित्यं कृतम् इत्य् अर्थः । न हि प्राचीना अर्वाचीना भाविनो वा भक्ता एवं सम्भवेयुर् न ह्य् एतावता अप्य् अनुवृत्तेर् अपरावृद्धिर् अस्ति । न हि परमाणु-परम-महतोर् ह्रास-वृद्धी केनाप्य् आशास्यते । तस्माद् अन्य-प्रेमि-भक्तान् प्रति युष्मत्-प्रेम-वैप्रलम्भिक-प्रताप-महोत्कर्ष-जिज्ञापयिषा-मयी ममेयम् असमीक्ष्य-कारिता क्षम्यताम् इति भावः । यस्माद् एवं तस्मान् मा मां प्रति असूयितुं दोषारोपेन द्रष्टुं नार्हथ । तत्र प्रियम् इति प्रिया इति च हेतुः । प्रियस्य दोषं प्रियाः खलु न मनस्य् आनयन्तीत्य् अर्थः ॥२१॥
॥ १०.३२.२२ ॥
न पारयेऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः ।
या माभजन् दुर्जर-गेह-शृङ्खलाः
संवृश्च्य तद् वः प्रतियातु साधुना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्ताम् इदम्, परमर्थं तु शृणुतेत्य् आह—नेति । निरवद्या संयक् संयोगो यासां, तासां वो विबुधानाम्29 आयुषापि चिर-कालेऽपि स्वीयं साधु कृत्यं प्रत्युपकारं कर्तुं न पारये न शक्नोमि । कथं-भूतानाम् ? या भवत्यो दुर्जरा अजरा या गेह-शृङ्खलाः, ताः संवृश्च्य निःशेषं छित्त्वा मा माम् अभजन्, तासाम् । मच्-चित्तं तु बहुषु प्रेम-युक्ततयानैक-निष्ठम् । तस्माद् वो युष्माकम् एव साधुना साधु-कृत्येन तत् युष्मत्-साधु-कृत्यं प्रतियातु, प्रतिकृतं भवतु । युष्मच्-छौशील्येनैव ममानृण्यम्, न तु मत्-कृत-प्रत्युपकारेणेत्य् अर्थः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आस्तां स्थीयताम् । इदं वृत्तम् । परमार्थं सत्य-भूतम् । नैकनिष्टम् एकस्य बहुषु स्थानासम्भवाद् इत्य् अर्थः । इत्य् अर्थ इति—इत्थम् अतीव दुष्क-प्रेम-रूप-द्रविण-दातृत्वेनोत्तमर्णानां भवतीनां तत्-प्रतीकारासमर्थस्य ममाधर्म्यम् एव स्थास्यतीति तात्पर्यम् । विगतो बुधो गणनाभिज्ञो यस्मात्, तेन स्वभाव-नित्येनाप्य् आयुषेति वा ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ततोऽहम् ऋणीत्य् आह—न पारयेऽहम् इत्य्-आदि । विबुधायुषापि देवायुर्-मान-कालेनापि ॥२२॥
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३८] एवम् आसां श्री-भगवद्-विषय-भाव-विशेषेण महा-माहात्म्यम् उक्तम् । अधुना श्री-भगवत एव तद्-विषयक-भाव-विशेषेण परमाश्चर्यतरं माहात्म्यं स्वयं तेनैव साक्षाच् छ्री-मुखेनोक्तं नवभिः । तत्र रास-क्रीडायाम् अन्तर्धानानन्तरं तासां महार्ति-रोदनाद् आविर्भूते सुखम् उपविष्टे तस्मिन् प्रहृष्टानां30 तासां प्रश्न-त्रयस्य प्रत्युत्तरान्ते साक्षात् स एव ताः प्रत्य् आह—न पारये\ऽहम् [भा।पु। १०.३२.२२] इति ।
निरवद्या सर्व-नैरपेक्ष्येण कापट्यादि-दोष-स्पर्श-राहित्येन च । अत एव निर्मल-प्रेम-विशेषेण च निर्दोषा संयुक् संयोगः सम्यङ् मद्-विषयक-चित्तैकाग्रता-लक्षणः सङ्गम-लक्षणो वा यासाम् इति स्मृति-शास्त्र-परम् अन्य-मान-कामादि दोषो निरस्तः । प्रत्युत स्व-विषयक-कामस्य महान् एव गुणो\ऽभिप्रेतः, निरवद्य-संयोग-हेतुत्वात् । अत एव तस्य प्रेम-परिपाक-विलास-विशेषोपकरणता पूर्वं प्रतिपादितैव । तासां वो युष्माकं विबुधानां देवानां ज्ञानिनां वा आयुषा सुचिर-कालेनापि स्वीयं साधु-कृत्यं प्रत्युपकार-कृत्यम् । यद् वा, वो यत् स्वीयम् असाधारण-साधु-कृत्यं तद् अहं न पारये कर्तुं न शक्नोमि ।
कथम्-भूतानाम् ? या भवत्यो दुर्जरा अच्छेद्या या गृह-शृङ्खला गेह-तत्-सम्बन्धि-पति-पुत्रादि-तद्-अर्थ-कृत्यादि-लक्षणाः, ताः संवृश्च्य निःशेषं छित्त्वा मा माम् अभजन् तासां मच्-चित्तं तु बहुषु प्रेम-युक्ततया नैवम् एक-निष्ठं तस्माद् वो युष्माकम् एव साधुना साधु-कृत्येन तत् युष्मत्-साधु-कृत्यं प्रतियातु प्रतिकृतं भवतु, युष्मत्-सौशील्येन मम आनृण्यं, न तु मत्-कृत-प्रत्युपकारेणेत्य् अर्थः ।
अथवा, सु सुष्ठु असाधु-कृत्यं मद्-विषयक-नैष्ठूर्यादिकम् अपि, किम् उत साधु-कृत्यम् इत्य् अर्थः । इदं ताभिः सह स्वच्छन्देन सदा क्रीडा-लोभाद् उक्तम् । अपारणे हेतुः—निरवद्यं निजाङ्गम् आत्मानं संयुञ्जन्ति समर्पयन्तीति तथा तासाम् । किं च, दुर्जरा गेह-शृङ्खला नित्य-कृत्य-गोपालनादि-दृढ-निबन्धान् संवृश्च्य या युष्मान् अहं मा भजन् न सेवितवान् अस्मि । तत्र दुर्जरेति विशेषणेन शृङ्खला-रूपकेण च स्व-शक्त्या छेद्यत्वं सं-शब्देन च आसक्ति-त्यागे\ऽपि बहिस्-त्यागासामर्थ्यम् । किं वा, संछेदने छायायाम् अपि सत्याम् असामर्थ्यं ध्वनितम् इति दिक् । युष्मद्वद् आत्मार्पणेन सर्व-निरपेक्ष-भजनेन च विना प्रत्युपकाराशक्तेः । अत एव ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इत्य्-आदि-निज-वचन-व्यभिचारापत्तेश् चाहं युष्माकम् ऋण्य् एवेत्य् अर्थः । अन्यत् समानम् ।
यद् वा, साधुनेति भाव-प्रधान-निर्देशो\ऽयम् । तद् युष्माकम् भजनं साधुना युष्माकम् एव साधुत्वेन प्रतियातु प्रत्युपकृतं भवतु भावः स एव । यद् वा, साधु-कार्येणापि पुरुषः मद्-भक्त-वरः कश्चिद् वो युष्मान् प्रतियातु प्रत्युपकारेण अनुगच्छतु । यद् वा, वो युष्माकं तत्-स्व-साधु-कृत्यं प्रतियातु अनुवर्तताम् अनुकरोत्व् अपि आशिषि पञ्चमी, अहं तु न पारयाम्य् एवेति परम-विनयोक्ति-माधुर्यम् ॥१३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वः इति सम्बन्ध-मात्रे षष्ठी, युष्मान् प्रतीत्य् अर्थः । स्व-साधु-कृत्यं स्वीय-प्रत्युपकार-कृत्यं न पारये, कर्तुं न शक्नोमि । यद् वा, वो युष्माकं यत् स्वीयम् असाधारणं साधु-कृत्यं तद् अहं न पारये । तत्र हेतुः—निरवद्या सर्व-नैरपेक्ष्येण कापट्यादि-राहित्येन निर्मल-प्रेम-विशेषेण च निर्दोषा संयुक् संयोगः सम्यङ् मद्-विषयक-चित्तैकाग्रता सङ्गमो वा यासां, तासाम् इति मुमुक्षा-परादि-मतः कामादि-दोषः परिहृतः । प्रत्युत स्व-विषयक-तादृश-कामस्य महान् एव गुणोऽभिप्रेतः, निरवद्य-संयोग-हेतुत्वात् ।
किं च, या इति दुर्जरा अच्छेद्या अपि गेह-शृङ्खला, गेहानि गेह-सम्बन्धि-पति-पुत्रादयस् तत्-तद्-अर्थ-कृत्यानि चान्येव शृङ्खलाः, कृतिनाम् अपि दुश्छेद्य-संसार-बन्ध-हेतुत्वात् । ताः संवृश्च्य अभजन् । भवत्य इति प्रेम-गौरवेण, अतो मम तादृशत्वाभावान् न पारय इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, स सुष्ठु असाधु-कृत्यं मद्-विषयक-नैष्ठुर्यादिकम् अपि, किम् उत साधु-कृत्यम् इत्य् अर्थः । इदं च ताभिः सह स्वच्छन्देन सदा क्रीडा-लोभेनोक्तम् । अपारणे हेतुः—निरवद्यं निजाङ्गम् आत्मानं वा संयुञ्जन्ति समर्पयन्तीति तथा तासाम् । किं च, दुर्जरा गेहस्य शृङ्खला नित्य-गो-पालनादिनादि-दृढ-कृत्य-निबन्धान् सर्व-बन्धु-जनानुवृत्ति-बन्धांश् च संवृश्च्य या भवतीर् अहं मा भजन्न् असेवितवान् अस्मि । “शृङ्खलाम्” इति पाठेऽपि तथैवार्थः । दुर्जरेति विशेषणेन शृङ्खला-रूपकेण च निज-शक्त्याप्य् अच्छेद्यत्वम्, सं-शब्देन चासक्ति-त्यागेऽपि बहिस्-त्यागासमर्थ्यम् ।
किं वा, सञ्छेदनेच्छायाम् अपि सत्याम् असामर्थ्यं ध्वनितम् इति दिक् । युष्मद्वद् आत्मानर्पणेन सर्व-नैरपेक्ष्याभजनेन च प्रत्युपकाराशक्तेः । अत एव ये यथा मां प्रपद्यन्ते, तांस् तथैव भजाम्य् अहं [गीता ४.११] इत्य्-आदि-निज-वचन-व्यभिचारापत्तेश् चाहं युष्माकम् ऋण्य् एवेत्य् अर्थः । अन्यत् समानम् ।
यद् वा, साधुर् यो न पुरुषो मद्-भक्तः कश्चित् वो युष्मान् प्रतियातु, प्रत्युपकारेणानुगच्छतु । आशिषि पञ्चमी । यद् वा, वो युष्माकं तत् स्व-साधु-कृत्यं प्रतियातु, अनुवर्तताम् अनुकरोत्व् अपि, अहं तु न पारयाम्य् एवेति सर्वथा प्रत्युपकारासामर्थ्योक्तिः । अग्रे च प्रणय-कलहाध्यायान्ते श्री-रुक्मिणीं प्रत्य् अयम् एव वक्ष्यति—वयं प्रतिनन्दयामः [भा।पु। १०.६०.५७] इति । अत्र च प्रतिनन्दनेऽप्य् अशक्त्या केवलम् ऋणित्वम् एवापादयत् । अतस् तस्याः सकाशाद् अप्य् आसां विशेषः सुसिद्ध एवेति दिक् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वः इति सम्बन्ध-मात्रे षष्ठी, युष्मान् प्रतीत्य् अर्थः । स्व-साधु-कृत्यं स्वीय-प्रत्युपकार-कृत्यं न पारये, प्रतिकर्तुं न शक्नोमि । यद् वा, वो युष्माकं यत् स्वीयम् असाधारणं साधु-कृत्यं तद् अहं न पारये, तत्-सदृश-प्रत्युपकारे न समर्थोऽस्मीत्य् अर्थः ।
स्व-साधु-कृत्यत्वम् एव दर्शयति—निरवद्या काममयत्वेन प्रतीयमानत्वेऽपि वस्तुतो निर्मल-प्रेम-विशेष-मयत्वेन निर्दोषा संयुक् संयोगः सम्यङ्-मद्-विषयक-चित्तैकाग्रता स्व-स्व-पत्य्-आदि-स्पर्शाभावेन च निर्दोषा संयुक् सङ्गमो यासाम् । किं च, या इति दुर्जराः कुल-वधूत्वेन छेत्तुम् अशक्या अपि गेह-शृङ्खला गृह-सम्बन्धिन्य ऐहिक-पारलौकिक-सुख-कर-लोक-धर्म-मर्यादाः संवृश्च्य या माम् अभजन् परमानुरागेण मय्य् आत्म-निवेदनं कृतवत्य इत्य् अर्थः । अतो ममान्यत्रापि प्रेम-युक्तत्वान् न पारये इत्य् अर्थः । अत्रोत्तरं व इति पदम् अनपेक्ष्यैव या इति प्रयुज्यते, पश्चाद् एव च तेन योज्यते । अतः प्रथम-पुरुषत्वम् ।
यद् वा, अन्यत् तैः । विगतो बुधो गणनाभिज्ञो यस्मात्, तेनानन्तेन आयुषा अपीत्य् अर्थः । शृङ्खलम् इति क्वचिद् एक-वचनान्तः पाठः ॥२२॥
क्रम-सन्दर्भः- न पारयेऽहं न शक्नोमि ॥२२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यद्यपि वो भजनं कृतम् एव, तथाप्य् अहं व ऋणीवेत्य् आह—न पारयेऽहम् इत्य्-आदि । निरवद्या निरुपाधिर् निर्व्यलीका वा । संयुक् यासां, तासां वः स्व-साधु-कृत्यं स्वकीय-साधु-कर्म अहम् ईश्वरोऽपि न पारये शोधयितुं न शक्नोमीत्य् अर्थः । यद् वा, वः कृत्यं स्व-साधु स्वैर् एव साधु यथा भवति, तथा कर्तुं न पारये । विलम्बेन पारयिष्ये ? इत्य् अपि नेत्य् आह—विबुधायुषा देवायुः-परिमाण-कालेनापि । कुतः ? इत्य् आह—वो युष्मान्, दुर्जर-गेह-शृङ्खलाः संवृश्च्य छित्त्वा मा अभजन् । यथा भवत्यो दुर्जर-गेह-शृङ्खलाः संवृश्च्य माम् अभजन्, तथाहं भवतीर् माभजम् इत्य् अर्थः ॥२२॥
प्रीति-सन्दर्भः १२२: कान्त-भाव-वश्यत्वम् आह— न पारयेऽहम् इत्य्-आदि । निरवद्या परम-शुद्ध-भाव-विशेष-मात्रेण प्रवृत्तत्वात् परम-शुद्धा संयुक् संयोगे यासांम्, तासां वः स्व-साधु-कृत्यं तद्-अनुरूप-मदीय-परम-सुखद-सेवां न पारये, न प्रत्युपकारेणानुकर्तुं शक्नोमीत्य् अर्थः । केनापि न पारये । विगतो बुधो गणना-विज्ञो यस्मात्, तेन स्वभाव-नित्येनाप्य् आयुषा इत्य् अर्थः । तासाम् अनुरागस्य साधिष्ठत्वं लोक-धर्मातिक्रान्तत्वाद् आह—या इति । तस्माद् वः साधुना सौशील्येनैव तत् प्रतियातु प्रत्युपकृतं भवतु । अहं तु भवतीनां ऋणी एवेति भावः ॥२२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं तासाम् अमर्ष-मार्जनं कृत्वा भजमाणस्य स्वस्यानृण्याय स्फुटयितुं ताः परिसान्त्वयति—न पारयेऽहम् इति । निरवद्य-संयुजां निरवद्या संयुक् संयोगे यासां लोक-प्रतीत्या काम-मयत्वेन प्रतीयमानोऽपि विषय-महिम्ना निष्कामे पर्यवसाय्येवेत्य् अर्थः । तद् उक्तं श्री-मुखेनैव—न मय्य् आवेशित-धियां कामः कामाय कल्पते [भा।पु। १०.२२.२६] इति तादृश-काम-सम्बन्धस्य संसार-हेतुत्वं प्रत्युपकारं कर्तुम् इत्य् अध्याहारः ।
न पारयेऽहं न शक्नोमि विबुधायुषापि ब्रह्मण आयुषापि । यद् वा, वो युष्माकं कृत्यं भजनं प्रति स्वं स्वकीयं साधु समीचीनं कर्तुं न पारयेऽहम् । यद् वा, वो युष्माकं स्वम् असाधारणं साधु कृत्यं निष्कपटं भजनं वक्तुम् इत्य् अध्याहारः पारये न कोऽपि समर्थः । भवतीनां मम चोभयोर् वैसादृश्याद् इत्य् अर्थः । न हि वास्तव-जल-तृप्तं कदाचित् मरीचि-जल-तृप्तिः सदृशी भवितुम् अर्हतीति ।
तत्र हेतुम् आह—या भवत्या दुर्जरा अजया अच्छेद्या इत्य् अर्थः । गेह-शब्देन समष्टि-रूपा पति-पुत्रादिषु स्नेह-रूपा सर्व-गृहाचित-व्यापार-रूपा वा मुनीनाम् अपि च्छेत्तुम् अशक्याः । अग्रे एता एव स्पष्टीकरिष्यति—स्नेहानुबन्धो बन्धूनां मुनेर् अपि सुदुस्त्यजः [भा।पु। १०.४७.५] इति । बहिर् लोह-मय्यः शृङ्खलाः छेत्तुम् अपि शक्याः । अन्तः-स्थिताः सुस्नेहमय्यः शृङ्खलाः केनापि न छिद्यन्ते । मम तु स्वकीये स्नेहानुबन्धस्य त्यक्तुम् अशक्यत्वात् । अत एव भवतीनां मम च तुल्यत्वाभावः । एतादृशी शृङ्खला बन्धन-हेतून् संवृश्च्य सम्यक् छित्त्वा अप्रत्यापत्ति-रूपेण त्यक्त्वेत्य् अर्थः ।
या माभजन्न् इति । यथा भवतीनां मद्-एक-निष्ठत्वेन भजनम्, तथा युष्मद्-एक-निष्ठत्वेन मम भजनाभावान् न साम्यम् । बहु-प्रेम्णो विभक्तत्वान् नैक-निष्ठत्वम् इति भावः । तद्-भजनं वो युष्माकं साधुना भाव-प्रधानो निर्देशः साधुत्वेन प्रतियातु प्रत्युपकृतं भवतु । सर्व-नैरपेक्ष्येण युष्मद्-भजनाशक्तेः । ये यथा मां प्रपद्यन्ते तांस् तथैव भजामि [गीता ४.११] इति स्व-प्रतिज्ञा-हानि-प्रसक्तैर् अपि, अतो ममानृण्याभावो निर्णीतः । इतः परं भवतीनां स्वाधीन-पतिकात्वे जाते यथा रुचिम् आज्ञापयन्त्व् इति भावः ।
स्व-मुखेन विशिष्टोक्या गोपीनां प्रेम-यन्त्रितः ।
ऋणित्वम् अङ्गीकृतवान् स कृष्णः प्रेमदोऽस्तु मे ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्-मनसि सन्ततं यद् उद्भवति तत् शृणुतेत्य् आह—न इति निरवद्या काम-कर्म-लोक-धर्म-शास्त्रापेक्षा-राहित्येन निरुपाधि संयुक् संयोगो यासां, तासां वः स्वेनैव साधु यत् कृत्यम्, न तु साधुत्वापादकेन केनचिद् वस्तु-सम्पर्केण साध्व् इत्य् अर्थः, तत् न पारये प्रतिकर्तुं न शक्नोमि । विबुधायुषापि देवानाम् आयुः प्राप्यापीत्य् अर्थः । कृत्यम् इत्य् एक-वचनेन युष्माकं क्षणिकम् अपि कृत्यम् इत्य् अर्थः । या मा माम् अभजन् । संवृश्च्य दुर्जरा अपि पति-स्वश्रू-पितृ-भ्रात्रादि-स्नेह-बन्धु-शृङ्खला निःशेषं छित्त्वैव । श्लेषेणापक्व-योगिन इव संवृश्च्यापि ताः शृङ्खलाम् आपुर् नैवाभजन्न् इत्य् अर्थः।
अहं तु पित्रोर् भ्रातरि स्वेषु बन्धुष्व् अपि स्निह्यामि च । युष्मान् भजामि चेति । ये यथा मां प्रपद्यन्ते तांस् तथैव भजामि [गीता ४.११] इति स्व-प्रतिज्ञातोऽपि च्युत इति मम प्रक्रियाया असम्भवः । व्यज्यमानोऽयम् अर्थः श्लेषेणापि लभ्यते । स यथा संवृश्च्य या युष्मान् अहं मा अभजम् । पर-सवर्णेन न-कार-दु-कारयोः संयोगः । तत् तस्माद् वः साधुत्वेनैव तद् युष्मत्-साधु-कृत्यं प्रतियातु प्रतिकृत्यं भवतु । युष्मत्-सौशील्येनैव ममानृण्यं, वस्तुतस् तु ऋण्य् एव भवामि युष्माकम् इति भावः ।
ततश् च ताभिः प्रति स्व-मनस्य् एवं विचारितम्—परमेश्वरत्वाद् एव सर्व-गुण-परिपूर्णत्वेऽपि दोष-गन्ध-मात्र-राहित्येऽप्य् अस्मत्-प्रेम-रस-विज्ञत्वेऽप्य् अस्मान् प्रेमवत्त्वेनोत्कर्षयितुं स्वं चापकर्षयितुम् अस्मद्-ऋणी-भवितुम् एवास्मत्-कर्म कोऽयम् अस्मत्-त्यागस् तद् इमं पराबुभूषुं विजिगीषवो वयम् एवाधन्या एवं भवितुम् अपारयन्त्योऽनेन फलतः प्रेम्णा जिता एवाभूमेति ॥२२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
दशमे द्वाधिक-त्रिंशः सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-षुत्र-भाष्ये पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे गोपी-सान्त्वनं नाम
द्वात्रिंषोऽध्यायः ॥
॥१०.३२॥
(१०.३३)
-
भूषितम् इति नारायण-भट्टः। ↩︎
-
सन्तप्त- ↩︎
-
हृदये इति सनातन-धृत-पाठान्तरम्। ↩︎
-
सन्तप्त- ↩︎
-
हृदये इति सनातन-धृत-पाठान्तरम्। ↩︎
-
इदं पद्यं बिल्वमङ्गलस्य लिखितेषु आरोपितेषु वा कृत्येषु न कुत्रापि प्राप्यते। ↩︎
-
एका भ्रुकुटिम् ↩︎
-
पद्यावली २५९; सद्-उक्ति-कर्णामृते १.५५.३, (उमापतिधरस्य) ॥ ↩︎
-
गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता इति उज्ज्वले राधा-प्रकरणे ४.४ । कथम् अत्र स्थायि-भाव-विवरणे इति लिखितं न ज्ञातम् । तासां मध्ये श्रेष्ठा गान्धर्वा ह्य् उवाच [गो।ता।उ। २.६] तां हि मुख्यां विधाय पूर्वम् अनुकृत्वा तूष्णीम् आसुर् [गो।ता।उ। २.१३] इति । ↩︎
-
थिस् वेर्से इस् नोत् फ़ोउन्द् इन् अन्य् ओफ़् थे थ्रेए चुर्रेन्त् चेन्तुरिएस् अत्त्रिबुतेद् तो बिल्वमन्गल।
राधा-मोहन-मन्दिरं जिगमिषोश् चन्द्रावली-मन्दिराद्
राधे क्षेमम् इति प्रियस्य वचनं श्रुत्वाह चन्द्रावली ।
क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस् त्वया
राधा क्वेति तयोः प्रसन्न-मनसोर् हासोद्गमः पातु वः ॥
↩︎[सुभाषितावलि ९८]
-
सौषुप्तं सुषुप्ति-साक्षिणम् इत्य् अर्थः । ↩︎
-
स वै किलायं पुरुषः पुरातनो
य एक आसीद् अविशेष आत्मनि ।
अग्रे गुणेभ्यो जगद्-आत्मनीश्वरे
निमीलितात्मन् निशि सुप्त-शक्तिषु ॥ ↩︎
-
जुष्टम् इति मूले। ↩︎
-
विस्मिता इति मूले। ↩︎
-
वर्ष्मो\ऽस्मि समानानाम् उद्यताम् इव सूर्यः । इमन्तम् अभितिष्ठामि यो मा कश् चाभिदासति ॥ विवाह-संस्कारस्य अन्तर्गत-मन्त्रः । पाराशार्य-गृह्य-सूत्रः । ↩︎
-
यस्यां न मे पावनम् अङ्ग कर्म स्थित्य्-उद्भव-प्राण-निरोधम् अस्य ।
लीलावतारेप्सित-जन्म वा स्याद् बन्ध्यां गिरं तां बिभृयान् न धीरः ↩︎
-
श्रुतय ऊचुः—
कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः ।
कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयम् ॥
यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाजनि नस् तथा ॥
श्री-भगवान् उवाच —
दुर्लभो दुर्घटश् चैव युष्माकं सुमनोरथः ।
मयानुमोदितः सम्यक् सत्यो भवितुम् अर्हति ॥
आगामिनि विरिञ्चौ तु जाते सृष्त्य्-अर्थम् उद्यते ।
कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥
पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।
वृन्दावने भविष्यामि प्रेयान् वो रास-मण्डले ॥
जार-धर्मेण सुस्नेहं सुदृढं सर्वतो \ऽधिकम् ।
मयि सम्प्राप्य सर्वे \ऽपि कृत-कृत्या भविष्यथ ॥
[सेए विश्वनाथ\ऽस् आनन्द-चन्द्रिका तो उन् १.२१ ओर् भगवत्-सन्दर्भ ४९] ↩︎
-
"अच्युतः" इति पठितं विष्वनाथेन। ↩︎
-
भक्ति-रसामृत-सिन्धोः २.४.१२१-पद्यं द्रष्टव्यम् । ↩︎
-
उभयान् भजतः अभजतश् च । ↩︎
-
स्वार्थं तद् वित्त इति विजयध्वजस्य पाठः । ↩︎
-
स्वार्थे स्वीये दृष्ट-फले । ↩︎
-
न सौहृदं कैतवमयत्वात् । ↩︎
-
पितरौ ↩︎
-
साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् ।
दर्शनान् नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर् यथा ॥
साधूनां स्व-धर्म-वर्तिनां, सम-चित्तानाम् आत्म-विदां, सुतरां मत्-कृतात्मनां मय्य् अर्पित-चित्तानाम् । तेषां कृपातिरेकात् सुतराम् इत्य् उक्तम् । सवितुर् दर्शनाद् अक्ष्णोर् यथा बन्धो न भवेत्, तद्वत् ॥ ↩︎
-
नोत् इन् मनु-संहिता। ↩︎
-
मृगाः मृगैः सङ्गम् उपव्रजन्ति गावश् च गोभिस् तुरगास् तुरगैः ↩︎
-
यद् वा, मा-द्वयं निषेधे । तथापि प्रियं मल्-लक्षणम् असूयितुं मार्हथेति मा । अपि तु मया दत्त-दुःखत्वाद् अथैवेति । ↩︎
-
यद् वा विगतो बुधो गणनाभिज्ञो यस्मात् तेनानन्तेनायुषापि । ↩︎
-
प्रकृष्टानां ↩︎