गोपी-गीतम्—विरहार्त-गोपीनां भगवद्-उपस्थानाय प्रार्थनम् । {#गोपी-गीतम्विरहार्त-गोपीनां-भगवद्-उपस्थानाय-प्रार्थनम् ।उन्नुम्बेरेद्}
॥ १०.३१.१ ॥
गोप्य1 ऊचुः—
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वद् अत्र2 हि ।
दयित दृश्यतां दिक्षु तावकास्
त्वयि धृतासवास्3 त्वां विचिन्वते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एकत्रिंशे निराशास् ताः पुनः पुलिनम् आगताः ।
कृष्णम् एवानुगायन्त्यः प्रार्थयन्ते तद्-आगमम् ॥ओ॥
जयति इति । हे दयित ! ते जन्मना व्रजोऽधिकं यथा भवति, तथा जयत्य् उत्कर्षेण वर्तते । यस्मात् त्वम् अत्र जातः, तस्मद् इन्दिरा लक्ष्मीर् अत्र हि श्रयते, व्रजम् अलङ्कृत्य वर्तते । एवं व्रजे सर्वस्मिन् मोदमानेऽत्र तु तावकास् त्वदीया गोपी-जनास् त्वयि त्वद्-अर्थम् एव कथञ्चिद् धृता असवो यैः, ते त्वां विचिन्वते । अतस् त्वया दृष्यतां प्रत्यक्षी-भूयताम् इति । यद् वा, अस्माभिर् भवान् दृष्यताम् । यद् वा, एवं त्वया दृष्यताम्—एते विचिन्वत इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निराशाः कृष्णोपलब्धौ । ताः गोप्यः । तद्-आगमं कृष्णागमनम् । वेदान्तानधिकारिणां साधन-चतुष्टय-सम्पत्ति-रहितानां हरि-कीर्तनम् एव तद्-उपासनं स्यात्, तत्-प्रसाद-जनकत्वेनेत्य् अतः स्त्री-भूतानाम् उपासनम् आह । चित्ते सन्निहितत्वात् त इति । व्रजन्ति गा गोपा वासार्थम् अत्रेति व्रजो गोपावास-स्थानम् । श्रयत आश्रयते । त्वया अविनाभूतत्वाच् छ्रिय इति भावः । अत्र व्रजे । यतस् त्वद्-अर्थं धृत-प्राणाः । अतो हेतोः । अन्यथा प्राण-हानिः स्याद् इति भावः । दयित-विरहे दयिता न जीवेयुर् नाम, तत्राह—त्वयि धृत- इति । युष्मान् विहायाहम् अन्येषां प्रत्यक्ष एवेति चेत्, अत्राहुः—यद् वा इति । कालान्तरे दर्शन-विषयी भवामि नाधुना, तत्राहुः—यद् वा इति । एवम् अधुनैवैते गोपी-जना मां विचिन्वते मृगयन्त इति हेतोस् त्वया दृश्यताम् इति सम्बन्धः । कनक-मञ्जरी नश् च रौ लगौ इति सूत्रात् ॥१॥
कैवल्य-दीपिका : उन्मत्तवद् इत्य् उक्तम् । तम् एव विचित्र-प्रलापादि-हेतुर् उन्मादं प्रपञ्चयति—जयति इति । एषु श्लोकेषु च कुतूहल-दृष्टिना वर्ण-निर्वाह-चित्रं दर्शितम् । तत्राद्य-वृत्तम् प्रथम-पादयोर् द्वितीयम् अक्षरं य-कारः, अन्त्ययोर् व-कारः । ते जन्मनाधिकं जयति । हि यस्मात् । इन्दिरा लक्ष्मीः । प्राग् अत्र लक्ष्म्या विरलः प्रचारः । त्वज्-जन्मनः प्रभृति त्व् अधिक इत्य् अर्थः । एवं प्रशस्य स्व-गतं विज्ञापयति—दयित इति । दृश्यतां त्वया । तावकास् तावकीनाः । त्वयि धृतासव इत्य् अनेन तद् विचर्यावधिकं प्राण-धारणम् इत्य् उक्तम् ॥१॥ [मु।फ। १२.२१]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जयति इत्य्-आदि । मङ्गलार्थं प्रथमतो जयति-शब्दोपादानम् । यद्यपि भूर् एव जयति, तथापि व्रजस्याधिको जय इत्य् अधिक-शब्दोपादानम् । जन्मना प्रादुर्भावेन । जनि प्रादुर्भावे मनि सिद्धम् । तव प्रादुर्भाव-सम-कालम् एव श्रीर् अपि प्रादुर्भूता । सा क्षणम् अपि त्वां विना स्थातुं न शक्नोतीत्य् आहुः—श्रयत इत्य्-आदि । श्रिया सह विहरतो मम भवतीभिः किम् ? इति सत्यम् एव, किन्तु त्वया सह विहरणं नाभिलषामः, अपि तु केवलं दर्शनम् एवेत्य् आहुः—दयित इत्य्-आदि हि दयित त्वम् अतिदूरवर्ती न भवसि, निकटस्थ एव यतस् त्वां दृश्यताम् । विचिन्वते, चिञ् धातुर् अयं द्विकर्मकः, दृश्यो भवेत्य् अर्थः । दिक्षु प्रतिदिशम् । अथवा, दिश अतिसर्जने इत्य् अस्य क्विब्-अन्तस्य रूपे दिश आदेशः, तेषु आदेशेषु तावकाः, न केवलं तावकाः त्वयि धृतासवश् च तावका जना इति पुं-लिङ्गता अन्यथा तावक्य एव ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी):
कृष्णैक-गम्यो वाग्-अर्थो यासां लेखितुम् इष्यते ।
क्षान्त्वा गो-व्रज-देव्यस् ता भक्तिं तन्वन्तु मे निजाम् ॥
पीत-श्री-गोपिका-गीत-सुधा-सार-रस-श्रियाम् ।
श्रीधर-स्वामिनां किञ्चिद् उच्छिष्टम् उपचीयते ॥
अधिकं पूर्वतः सर्वतो वा श्री-वैकुण्ठाद् अपि वा । व्रजेन तत्रत्या लक्ष्यन्ते । हि यतः । अत्र व्रजे । शश्वन् निरन्तरम् । यद् वा, अधिकम् इत्य् अस्याप्य् अत्र अप्य् अन्वयः । मुहुर् आधिक्येनेत्य् अर्थः । मूर्तिमती लक्ष्मीर् इव उत्तरोत्तरं वर्धमाना परमोत्तमा सम्पूर्णा सर्व-सम्पत् श्रयते, अनपेक्ष्यमाणापि स्वयम् एव सेवते । यद् वा, वैकुण्ठैश्वर्येऽपि स-+शरणागत-भावेन । किं वा, सङ्कोचतो निरन्तरावस्थित्य्-अशक्त्या मुहुर् आयात-यातैर् वसति सदाभिनव-वैकुण्ठाद् अधिक-सम्पत्तेः । किं वा, प्रतिगृहं भ्रमन्त्याः परम-विनय-नम्राया लक्ष्म्या एव साक्षाद्-दर्शनात् । हि इति निश्चये वा । तथा चोक्तं—तत आरभ्य नन्दस्य4 [भा।पु। १०.५.१८] इत्य्-आदि मधुपुर्याम् अपि जन्मना व्रजस्यैवोत्कर्ष-सिद्धेः । किं वा, तासां प्रायो व्रज एव तज्-जन्म-निश्चयाज् जन्मना व्रज इत्य् उक्तम् । एवं तत्-प्रभावेणात्रत्यानां सर्वेषाम् एव सर्व-मङ्गलं जातम् । केवलं दैव-हतानाम् अस्माकम् एव सदा दुःखम् । तत्राप्य् अधिकम् इदम् । सर्वज्ञेन परम-दयालुना अस्मत्-प्राण-वल्लभेनापि त्वया तन् न ज्ञायते इति । तद् अधुनान्यत् तावद् अस्तु तन्-मात्रम् अपि ज्ञायताम् इति प्रार्थयन्ते—दयित इति । दृश्यतां ज्ञायताम् । किं वा, साक्षात्-क्रियताम्, तस्य प्रत्यक्षत्वात् दुःख-दर्शने सति पर-दुःख-कातरोऽवश्यम् आगच्छेद् इति भावः । किम् ? तद् आहुः—दिक्षु इति । अनेन बहुल-परिभ्रमण-दुःखं सूचितम् । तावकाः त्वया स्वीकृताः, त्वदीयाभिमानवन्तो वा । अत एव विचिन्वते, अन्वेषणेन बहु-दुःखम् अनुभवन्तीत्य् अर्थः । अतस् तावकत्वेनैवैतद् दुःखम् अन्यथा तद्-अनुत्पत्तिर् इति भावः ।
"वयम्" इति "गोपी-जनाः" वेति साक्षाद् अनुक्तिः, परित्यागेन हताभिमानतया परम-दैन्येन तथोक्ताव् अप्य् अशक्तेः । किं वा, निजार्ति-भरेण सर्वेषाम् अपि तदीयानां दुःख-निवेदनेच्छया सामान्येनैवोक्तेः । किं वा, सामान्योक्त्यैवार्थ-गाम्भीर्यापत्तेर् इति दिक् । एवम् अग्र अपश्यताम् [भा।पु। १०.३१.१५] इत्य्-आद्य् अपि ।
ननु निर्बुद्धयस् तर्हि कस्यचिद् अन्यस्य भवत ? तत्राहुः—दयित इति । त्वद्-एक-प्रियेभ्यो जनेभ्यः कथञ्चिद् अन्य-सम्बन्ध-मात्रम् अपि न रोचते इत्य् अर्थः ।
ननु,
क{इ}अब रहिअं पेह्मं णहि ह{इ} माणुसे लोए ।
ज{इ} ह{इ} कस्स बिरहो बिरहे होन्तम्मि को जीअ{इ} ॥5
इत्य्-आदिना येन दयितस्य विरहे दयिता न जीवेयुर् नाम ? सत्यम् । त्वत्त एव न म्रियन्त इत्य् आहुः—त्वयि निमित्ते धृतासवः त्वत्-प्राप्त्य्-आशया जीवन्तीत्य् अर्थः । यद् वा, त्वयि विषये त्वन्-न्यस्तत्वेन प्राणा न नश्यन्तीत्य् अर्थः ।
एषु श्लोकेषु पद-वर्णादि-साम्यापेक्षया प्रायः प्रतिपादं द्वितीयाक्षरस्यैक्यम् । तथा दल-द्वये कुत्रचित्, अन्यत्रापि क्वचित् प्रथमाक्षर-षष्ठाक्षरयोश् च कुत्रापि कथञ्चिद् विचार्यम् । तच् च श्री-मुक्ता-फल-टीकायां विवृतम् एवास्ति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
कृष्णैक-गम्यो वाग्-अर्थो यासां लेखितुम् इष्यते ।
ता एव करुणा-मय्यः स्वीकुर्वन्तु मद्-आग्रहम् ।
पीत-श्री-गोपिका-गीत-सुधा-सार-रस-श्रियाम् ।
श्रीधर-स्वामिनां किञ्चिद् अवशिष्टं विचार्यते ॥
अधिकं सर्वतः । व्रजे न तत्र तत्र ह्य् आलक्ष्यते । हि यतः । अत्र व्रजे । शश्वत् निरन्तरम् । यद् वा, अधिकम् इत्य् अस्यात्राप्य् अन्वयः, प्रतिमुहुर् आधिक्येनेत्य् अर्थः । इन्दिरा इति सम्पत्-तद्-अधिष्ठात्र्योर् अभेदेन निर्देशः । तद्-अधिष्ठानेनैव तद्-वृद्धेः एवं तत्-प्रभावेणात्रत्यानां सर्वेषाम् एव सर्व-मङ्गलं जातम् । केवलं दैव-हतानाम् अस्माकम् एव सदा दुःखं, तत्राप्य् अधिकम् इदम् । सर्वज्ञेन परम-दयालुना अस्मत्-प्राण-वल्लभेनापि त्वया न ज्ञायते इति । तद् अधुनान्यत् तावद् अस्तु, तन् मात्रम् अपि ज्ञायताम् इति व्यञ्जयितुं प्रार्थयन्ते—दयित इति । दृश्यतां ज्ञायतां दुःख-दर्शने सति पर-दुःख-कातरोऽवश्यं साक्षाद् भवेद् इति तु निगूढोऽभिप्रायः । किं तद् दुःखम् ? तद् आहुः—दिक्षु इति। अनेन बहुल-परिश्रमादिकं परिभ्रमणं च सूचितम् । तावकाः त्वया स्वीकृतास् तदीयताभिमानवत्यो वा । अत एव विचिन्वते अन्वेषणेन बहु-दुःखम् अनुभवन्तीत्य् अर्थः। अतस् तावकत्वेनैवैतद् दुःखम् । अन्यथा तद्-अनुत्पत्तिर् इति भावः । तत्र दयित इत्य् अनुकम्पां जनयन्ति, दयतेऽनुकम्पते इति निरुक्त्या । दैन्यात् दयते चित्तम् आदत्ते दयित इति क्षीर-स्वामि-निरुक्त्य्-अनुसारेण तु किञ्चिद् उपालम्भतोऽपि ताम् एव ।
ननु,
क्{इ}अब-रहिअं पेह्मं णहि ह{इ} माणुसे लोए ।
ज{इ} ह{इ} कस्स बिरहो बिरहे होन्तम्मि को जीऐ ॥
[कैतव-रहितं प्रेम न तिष्ठति मानुषे लोके ।
यदि भवति कस्य विरहो विरहे भवति को जीवति ॥]
इति न्यायेन दयितस्य विरहे दयिता न जीवेयुर् नाम ? सत्यम् । त्वत्त एव न म्रियन्त इत्य् आहुः—त्वयि निमित्ते धृतासवः त्वत्-प्राप्त्य्-आशया जीवन्तीत्य् अर्थः । यद् वा, त्वयि विषये असवः प्राणाः इन्द्रियाणीति यावत् । त्वन्-न्यस्तत्वेन पश्यन्तीत्य् अर्थः ।
एषु श्लोकेषु पद-वर्णादि-साम्यायः प्रायः प्रतिपादं द्वितीयाक्षरस्यैक्यम् । तथा दल-द्वये कुत्रचिद् अन्यत्रापि क्वचित् प्रथमाक्षर-सप्तमाक्षरयोश् चेति कुत्रचित् कथञ्चिद् विचार्यम् । तच् च मुक्ता-फल-टीकायां विवृतम् अस्ति । तत्र दृश्यताम् इत्य् अत्र तेषां प्रथमार्थः पचेर् विक्लित्ति-विक्लेदनावद् दृशोर् अपि प्रकाश-प्रकाशनार्थत्वात् समर्थनीयः॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवद्-गानं सर्वोत्कर्ष-युक्तं भवतीति सर्वोत्कर्ष-वाचिना जयति-शब्देन तद्-आरम्भः कर्तुं योग्य इति तथैवाहुः—जयति इत्य्-आदि । तव जन्मना प्रादुर्भावेन व्रजो\ऽधिकं जयति । भू-वैकुण्ठत्वाज् जयत्य् एव । सम्प्रति त्वत्-प्रादुर्भावेन अधिकं जयति, भौमाभौम-वैकुण्ठत्वात् । तत्र हेतुः—इन्दिरा लक्ष्मीः शश्वद् एव अत्र हि अत्रैव श्रयते, अत्रैव तिष्ठतीत्य् अर्थः । अतो व्रजस्य सर्वोत्कर्षे सति व्रजस्थानाम् अस्माकम् एतादृशं दौस्थ्यम् अनुचितम् । तद् अस्य खण्डनार्थं त्वद्-दर्शनं प्रार्थयन्त इत्य् अर्थः । "वृक्षम् अवचिनोति फलम्" इतिवत् चिञो द्विकर्मकत्वात् त्वं दृश्यो भवेत्य् आशयः । त्वद्-दर्शनम् एव काङ्क्षितम्, अन्यथा व्रजो\ऽधिकं जयति-शब्देन नेयौ । इन्दिरा श्रयत इति च यत्, तत् किं तेनास्माकं कृतार्थता, नेति वाक्यार्थः ॥१॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं तावत् व्रजस्य मङ्गलं कथयन्त्यः स्वकीयं दैन्यम् आवेदयन्ति—जयति इति । ते तव जन्मना व्रजः वैकुण्ठाद् अप्य् अधिकं यथा स्यात्, तथा जयति उत्कर्षेण वर्तते। नेयं लीला वैकुण्ठे वर्तते ।
ननु मथुरायाम् एव जन्म इति चेत्, तत्राहुः—अत्रैव त्वज्-जन्म-प्रसिद्धेः । यदि मथुरायाम् एव जन्माभविष्यत्, तदा तत्रैव मङ्गलम् अभविष्यत्, अमङ्गल-रूपस्य कंसस्य विद्यमानत्वात्, देवकी-वसुदेवयोर् बन्धन-रूपस्यामङ्गलस्य दृष्टत्वाच् चेत्य् अन्यथा उपपत्त्यात्रैव । तव जन्मनान्यत्रेति । किं च, बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भा।पु। १०.८.१५] इति गर्गोक्त्या नन्द-सुतत्वेन प्रसिद्धेः । अतस् तव जन्मात्रैव । अन्यच् च लिङ्गान्तरम् आहुः—अत्र व्रजे यस्मात् त्वं जातः, तस्माद् इन्दिरा लक्ष्मीः शश्वत् सर्वदा श्रयते । व्रज-वासिनाम् अनुग्रहम् आकाङ्क्षतीव सेवते । वैकुण्ठे सैवैका भार्या, तत्रैव तस्या उत्कर्षः । अत्र तु तादृश्या बद्धाः सन्ति । कदा सावसरो भविष्यति ? इत्य् एवम् आकाङ्क्षती निरन्तरं सेवते । अन्यत्र लक्ष्मी-स्थित्या लोकस्योत्कर्षः । अत्र तु व्रजे स्थित्या लक्ष्म्या उत्कर्षः । सा हि पतिव्रता पत्य्-अधीना, पतिस् तु व्रजाधीनः । तद् उक्तम् अत्रैव—
नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा।पु। १०.४७.६०] इति ।
अतस् तव जन्मना व्रजोत्कर्षस्य सार्वजनीनं प्रसिद्धेः । ततोऽपि तव न कापि हीनतास्ति । एवं सर्वत्र व्रजे मङ्गल-जातेऽस्माकम् एवामङ्गले हेतुं न लक्षयामः निरपराधत्वात् । ज्ञाते प्रतीकारं विधास्यामेति । हे दयित ! प्राण-वल्लभ त्वया दृश्यताम् । एता मदीयाः मत्-कृते दुःखं प्राप्नुवन्तीति । किं तद् दुःखम् ? तद् आहुः—तावकास् त्वदीया गोपी-जनाः दिक्षु त्वां विचिन्वन्ति इति । अन्वेषणेन बहु-दुःखम् अनुभवन्ति, तावकत्वाभावे दुःखं न स्याद् एवेत्य् अर्थः । यद् वा, त्वया पश्यतां प्रत्यक्षीभूयताम् ।
ननु प्रिय-विरहे जीवनम् अप्य् असम्भावितम् इति चेत्, तत्राहुः—तावकास् त्वदीयास् त्वयि धृतासव इति । त्वयि निमित्ते धृतासवस् त्वत्-प्राप्त्य्-आशया जीवन्ति, नैराश्ये सद्य एव मरणं भवेद् इति । यद् वा, त्वयि विषये धृता न्यस्ता असवो याभिः, ता त्वया रक्षितानां प्राणानां नाश-दर्शनात् कथं जीवन्ति ? इत्य् अर्थः । एवं-भूताज् जीवनान् मृतिः श्रेयसी त्वया दृश्यतां न जीवनम्, न चास्माकं मृतिर् इति । एकाम् अवस्थां देहीति प्रार्थनम् ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकत्रिंशे प्रेम-मधु-स्वर-तालादि-सौरभा ।
गोपी-गीताम्बुज-श्रेणी कृष्णाल्य्-आकर्षिणी बभौ ॥
सनातनेभ्यः स्वामिभ्यः श्री-गुरुभ्यो नमो नमः ।
यद्-उच्छिष्टैक-जीवातुश् चेष्टे सम्प्रति शं प्रति ॥
पूर्वं जगुर् इत्य् उक्तं तद् एव किम् ? इत्य् अत आह—गोप्य ऊचुर् इति । हे दयित ! ते जन्मना व्रजो जयति । सम्बन्धि-विशेषानुक्त्या सर्वेभ्य एव लोकेभ्य उत्कर्षेण वर्तत इत्य् अर्थः । वैकुण्ठ-लोके\ऽपीदृश इति तद्-व्यावृत्त्य्-अर्थम् आहुः—अधिकं यथा स्यात्, तथेति । वैकुण्ठः सर्वोत्कृष्ट एव, व्रजस् तु सर्वोत्कृष्टतम इत्य् अर्थः । तल्-लिङ्गान्तरम् अप्य् आहुः—इन्दिरा महा-लक्ष्मीः शश्वत् श्रयते सेवते, श्रिञ् सेवायाम् । वैकुण्ठे तु सा एव सेव्यते इत्य् अतो वैकुण्ठाद् अपि व्रजः सर्व-समृद्धि-पूर्ण इति भावः ।
एवं तद्-धेतुक-महा-सुख-परिपूर्णे व्रजे त्वत्-प्रेयस्यो वयम् एव सर्व-लोकादृष्ट-श्रुत-चर-परमासह्य-दुःखं यद् अनुभवामः, तस्मात् त्राणं त्वां न प्रार्थयामहे, किन्त्व् एक-वारं दृष्ट्वा स्व-नयने सफलयेत्य् आहुः—अत्र वृन्दावने हि निश्चितम् एव दृश्यताम्
किं द्रष्टव्यम् ? तावका जनास् त्वां विचिन्वते इति । कथम् एतावत्-सन्तापवत्यो\ऽप्य् एतान् विपद्यन्त इति मा संशिष्ठा इत्य् आहुः—त्वयि धृता अर्पिताः असवो यैस् त्वयैवोन्मादितैः, ते यद्य् अस्माकम् एव अस्मास्व् एवास्थास्यन्, तदा तेषु विरहानल-दग्धेषु सत्सु वरम् एतावत्-क्षणे मृत्वा सुखिन्य एवाभविष्यामेति । त्वयि तु स्व-नाथे महा-सुखिनि ते सुखम् एवानुवर्तन्ते इति कथम् असूनां सुखे सति देहा विपद्यन्ताम् ? इत्य् अतस् तवास्मद्-दुःख-दर्शनात्मकं सुखं शाश्वतिकम् एवेति भावः ।
अत्र श्लोके प्रतिपादं द्वितीयाक्षरस्यैक्यम्, तथा प्रथमाक्षर-सप्तमाक्षरयोश् च । एवम् अन्येष्व् अपि श्लोकेषु प्रायः क्वचित् क्वचिद् अस्ति । तच् च मुक्ता-फल-टीका-कारैर् विवृतम् ॥१॥
॥ १०.३१.२ ॥
शरद्-उदाशये साधु-जात-सत्-
सरसिजोदरे श्री-मुषा दृषा ।
सुरत-नाथ तेऽशुल्क-दासिका
वरद निघ्नतो नेह किं वधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र स्वतन्त्राणां बाहूनां वक्तृत्वाद् अपरा आहुर् इति सर्व-श्लोकेष्व् अवतारणा । अथापि सङ्गतिर् उच्यते—तत्र विचिन्वन्तु मम किम् ? इति चेत् तत्राहुः—शरद्- इति । शरद्-उदाशये शरत्-कालीने सरसि साधु जातं सम्यक् जातं यत् सरसिजं विकसितं पद्मम्, तस्य उदरे गर्भे या श्रीः, तां मुष्णाति हरतीति तथा तया दृशा नेत्रेण । हे सुरत-नाथ ! संभोग-पते ! वरद ! अभीष्ट-प्रद ! अशुल्क-दासिका अमूल्य-दासीर् नो निघ्नतो मारयतस् ते तव त्वया क्रियमाण इह लोकेऽयं वधो न भवति किम् ? शस्त्रेणैव वधो वधः, किं दृशा वधो न भवति ? किन्तु भवत्य् एव । अतस् तव दृशाऽपहृत-प्राण-प्रत्यर्पणाय त्वया दृश्यताम् इति भावः । त्वया दृश्यताम् [१] इति यथा-संभवं सर्वत्र वाक्य-शेषः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अवतारणा अवतरणिका । सङ्गतिः प्रसङ्गावसरादि-रूपा । तत्र ताः । तत्र आक्षेपे । शरद्-उदाशय इत्य् अलुक्-समासः । किं शस्त्रेण शतघ्न्य्6-आदिना ? यतो दृशा भवत्य् एव वधः, अतः कारणात् त्वन्-नेत्र-हृतास्मत्-प्राण-प्रत्यर्पणार्थम् । इति भावः इति—दर्शनाभावेऽस्माकं प्राणा अस्माकं देहेषु नायास्यन्ति, किं तु गमिष्यन्त्य् एवेत्य् आशयः । यथा-सम्भवं यथा-योग्यम् । सर्व-वाक्यस्य सर्व-श्लोकस्य शेषः, अन्ते योज्यम् इत्य् अर्थः । दृशः परम-तस्करत्वम् उत्तम-काले जल-दुर्गे साधूनाम् उत्तम-द्रव्यान्तर्-न्यस्त-लक्ष्मी-तुल्य-महा-धनस्य प्राणस्य हरणात् ।
अत्र सारार्थ-दर्शिनी-टीका अक्षरशः सन्निवेशिता ।२॥
कैवल्य-दीपिका : शरदि उदाशयो जलाधारः । तस्मिन् साधु जातं यत् सत् प्रशस्तं सरसिजम्। तस्य उदर-श्रियं गर्भ-शोभां मुष्णाति अपहरति या दृक्, तया । सुरतनाथ सम्भोग-स्वामिन् ! दृष्ट्यैव सम्भोग-दासीत्य् अर्थः । अशुल्क-दासिकाः निर्मूल्य-दासीः । अस्मान् निघ्नतः तादृग्-दानाभावाद् इत्य् अर्थः । वध इति वध-जन्यं पापं तत्-साधनत्वात् तच्-छब्दः, आयुर् घृतम्7 इतिवत् । अत्र पाद-चतुष्केऽपि द्वितीयम् अक्षरं रेफः ॥२॥ [मु।फ। १२.२२]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नो चेद् दृश्यतां यासि, तदा स्त्री-वधो\ऽपि भविष्यतीत्य् आहुः—शरद्-उदाशये इत्य्-आदि । शरत्-सम्बन्धिन्दि जलाशये साधु-जात यत् सत् उत्कृष्टं सरसिजं, तद्-उदरे या या श्रीः, तां मुष्णाति या, तया दृशा वधो न दुष्करः । जल-मध्य-स्थ-जलजस्य उदरस्थां श्रियं या हरति, सा स्थलस्थानाम् अस्माकं जीवितं हरिष्यतीति किं चित्रम् ? यद्यपि त्वं दृशा वधं करोषि, तथापि सैव दयित दृश्यताम् [१] इति यत् पुनः प्रार्थयते, तत् खलु "विषस्य विषम् औषधम्" इति न्यायात् ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-मुषा इति दृशः परम-तस्करत्वं ध्वनितम् । उत्तम-काले जल-दुर्गे साधूनाम् उत्तम-द्रव्यान्तर्-व्यस्त-लक्ष्मी-तुल्य-महा-धनस्य हरणात् । अत ईदृश-चौरेण वधोऽपि सुघट एवेति भावः । वस्तुतश् चैवं दृशः परम-सौन्दर्यम् उक्तम् । दृशा इत्य् एकत्वेनैव भाव-विशेष-सूचनात् क्षोभणत्वम् । यद् वा, एकयापि दृशेत्य् अर्थः ।
अशुल्क-दासिका इति मूल्यं विना क्रीता अधम-दासीर् अपीत्य् अर्थः । सम्बोधनाभ्यां वधस्यानौचित्यं सूचितम् । वधेन सुरतस्य भक्ताभीष्ट-प्रदत्वस्य च पूर्व-दत्त-वरस्य वा हानेः । श्लेषेण सुरतेश्वर इति । त्वयैवास्मासु तद्-इच्छा कारिता, तत्र च वर-दानेन दृढीकृतेति न तत्रास्माकं धार्ष्ट्यादि-दोष इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ननु प्राज्ञ-प्रवर ! अस्मन्-मरणात् त्वयि दोष-प्रसङ्गः स्याद् एवेत्य् आहुः—शरद् इति । दृशा सुरत-नाथ ! दृष्ट्यैव सम्भोग-सुख-प्रदोऽसीत्य् अर्थः । निघ्नतस् तादृग्-दानानाचरणात् वधः, तज्-जन्यं पापम् इत्य् अर्थः, "आयुर् घृतम्" इतिवत् । अन्यत् समानम् ।\
यद् वा, तादृश-दृशैव तद्-रूपेण शुल्केन दासिकाः । किं वा, शुल्कं विनैव दासीर् निघ्नतो विरहार्त्या त्यागेन वेति स्वत एवायाति, तद्-उपसत्तेः । सम्बोधन-द्वयं प्रणय-कोपाद् विरहार्ति-विशेषाद् वा । तथा हि, सुष्ठु-रतानां जनानाम् उपतापकेति नाथतेर् उपतापार्थकत्वात् । निज-वर-च्छेदकेति परम-घातकेति वा । दो अवखण्डने । अतो निज-दोष-परिहारार्थम् अप्य् आगम्यताम् इति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शरद्-उदाशये इति । जन्म-काल-स्थानयोः साद्गुण्यं दर्शितम् । साधु-जात इति जन्मनः सद् इति जातेर् व्यक्तेश् च । उदरे इति तत्रापि तद्-अन्तः-कोषस्य इति कमलस्य शोभा परमाकाष्ठा दर्शिता । तादृश-तच्-छ्री-मुषा स्व-श्रिया तच्-छ्रियं हरत्य् एवेत्य् अर्थः । यत्र यत्र सा स्फुरति, तत्र तत्र तच्-छ्रीर् न दृश्यते इति नव-नव-श्री-युजा अनया नूनं चोर्यत एव सा इति भावः । दृशा इत्य् एक-वचनम् एकयैव भाव-सूचनात् । एकयापि किम् उत द्वाभ्याम् ? इति श्लेषात् । दृशा इति सुरत-नाथ इत्य् अत्राप्य् अन्वयः । हि दृशैव । सुरत-याचकेति त्वयैवास्मासु तद्-इच्छा कारिता । तत्र च वरद ! इति वर-दानेन दृढीकृता चेति, तत्रास्माकं न दोषः, अशुल्क-दासिका इति प्रत्युत गुणा एव । भवतस् तु सोऽपि दोषः सम्प्रति तु महान् एवेत्य् आहुः—निघ्नत इति । श्लेषेणापि तस्मिन् तत्रैव दोषार्पणाय चौर्य-क्रियाभिनिवेशो दर्शितः । स हि चौरेषु क्रिया सम्भवति, साधूनाम् अपि सम्पत्त्य्-आदानाद् अत्युत्कट-दोषस्यागणनेन, अतिनिगूढ-पर-वस्तु-ज्ञानेन, अतिदुर्लङ्घ्य-लङ्घनेन च ।
तत्र प्रथमं सत्-सरसिज- इति पर्यन्तेनोक्तम् । शरद्-उदाशये इति स्वच्छतादि-गुण-युक्तस्य जनयितुः साधु-जात- इति जन्मनः, सद् इति स्वरूप-गुणस्य च प्रशंसनात् । द्वितीयं महा-जलान्तः-सरसिजोदरे विलीय स्थितत्वेन ।
तृतीयं च वर्षानन्तर-कालीनत्वात् अतिपूर्णस्य उदाशयस्य दुरवगाह-मध्य-देशत्वेन सहस्र-पत्राख्य-सरसिजोदरस्य दृग्भिर् दुर्भेदत्वेन चेति । किं च, त्वद्-भयाद् इव तथा निगूढापि श्रीर् नायिका मुष्टा ।
ततः सरलानां व्रज-वृन्दावनयोर् निर्भयं भ्रमन्तीनाम् अस्माकं वा का वार्ता ? भवत्व् अस्माकम् अपि तद्-द्वारा मोषणम्, किं तु सा कृत-तादृक्-कौटिल्यापि स्व-चक्षुषोर् अन्तरे रक्षिता, वयं तु तादृश-सरला अपि बलान् मोषणे प्रत्युत अशुल्क-दासिकाः, तत्रेर्ष्यां त्यक्त्वा निरुपाधितया सेवमाना अपि तद्-द्वारा पुनर् निहन्तुम् आरब्धाः इति परम् अन्याय्यम् इत्य् आहुः—निघ्नत इति । नेह किं वधः ? इति चौर्याल् लोकेन न ज्ञायतां नाम इत्य् अपि किं न स्यात् ? इत्य् अर्थः । सम्बोधन-द्वयेन चेदं ज्ञाप्यते—अहो ज्ञाते तत् तत् सर्वं त्वयैतद्-अर्थम् एव मृषा प्रपञ्चितम् इति । अन्यत् तैः ।
यद् वा, तादृश-दृशैव शुल्क-दासिकाः । तद्-रूपेणैव शुल्क-दासिका इत्य् अर्थः । तादृशीर् अपि निघ्नतः त्यागेन मारयतः । हे [सुरत-नाथ] सुष्ठु-रतानां जनानाम् उपतापक ! नाथतेर् उपतापार्थत्वात् । तथा हे [वरद] निज-वर-च्छेदक ! अतो निज-दोष-परिहारार्थम् अप्य् आगम्यताम् इति भावः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यच् च व्रजस्यैवम् उत्कर्षके इन्दिराया अप्य् अत्रैव शश्वद्-भावे स्त्री-निकर-वधो\ऽत्यन्तायोग्यः । यदि वा वदसि "नाहं वो हन्मि" इति तद् अपि न, अशस्त्र-वधः किं वधो न भवति ? इत्य् आहुः—शरद्-उदाशय इत्य्-आदि । हे सुरत-नाथ ! अथवा, हे सुष्ठु रत ! हे नाथ ! दृशा अपणा अशुल्क-दासिका अपण-क्रीता दासीः, उपेता दासी-भूता इति यावत्। इह वृन्दावन-भूमौ किं वधो न ? सामान्य-पुण्य-स्थल एव जनो हत्यां न करोति, त्वं त्व् इहापीति इह-शब्द-महिमा ।
दयित दृश्यताम् [१] इति पूर्वोक्त्या साक्षाद् आविर्भूतम् इव मत्वा तद्-दृशोर् भाग्याद् अन्तः-क्षोभम् अनुभवन्त्यः काश्चिद् एवम् उक्तवत्यः । दृशा कीदृश्या ? शरद्-उदाशये शरत्-कालीने सरसि साधु-जातं सम्यग्-उत्पन्नं यत् सत् उत्कृष्टं सरसिजं, तस्य उदरे या श्रीः, तां मुष्णाति इति तथा तया, चौरस्य तद्-अङ्गान्य् अपि चौराणीत्य् अर्थः ।
अथवा, एवम्भूताया दृशो\ऽनुपलब्धा इत्य् अर्थे तृतीयान्ते दृक्-शब्दे लक्षणा । यथान्नेन म्रियन्ते अन्नानुपलब्ध्ये\ऽत्य् अर्थः । यद् वा, दृशा वरद ! अभिलाष-प्रद ! अतो दृश्यताम्, तद् अकृत्वेह किं वधो न वधः ? इति न केवलं सुरत-नाथो\ऽसि, वरदो\ऽप्य् असि । हे वरद ! वरद-कर्तृक-वधो\ऽत्यन्तम् अनुचित एव ॥२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २९०) : अथाभिव्यक्त-भावत्वम् । तत्र पूर्व-रागे—शरद्-उदाशये इत्य्-आदि । हे दृशा एव सुरत-याचक ! तत्रापि हे कात्यायन्य्-अर्चनान्ते वर-प्रद ! तत्रापि भाव-विशेष-दर्शितया दृशा कृत्वैव अशुल्क-दासिका-तुल्यत्वं प्राप्ताः, तयैव पुनर् निघ्नतस् तव न किं वधः स्त्री-हत्यापि न भवति ? दृशस् तादृशत्वे महा-मोहन-चौरत्वं दर्शयति—शरद्-उदाशय इत्य्-आदि ॥२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु भवतीनां मया किम् अपि कृतम् ? किम्-अर्थम् आक्रोशन्ति ? इति चेत्, तत्राहुः—शरद् इति । एवं हि लोके प्रसिद्धिः—चौरस् तु सर्वस्वम् अपहृत्य शस्त्रेण हन्ति । इदं त्व् अलौकिकं चौर्यं यद् दासीनां सर्वस्वम् अपहृत्य शस्त्रेण वध इति तद् एव विविच्य कथयन्ति—शरद्-उदाशये सरसि जल-दुर्गे साधु-जातं यत् सरसिजं कमलं, तस्य उदरे या श्रीः, तां मुष्णाति चोरयति, तया दृशा वधः न इति । यथा कश्चित् चौरः तान् अन्तः-स्वायतांश् चौरान् इतस् ततः प्रेषयति, ते चौर्येणार्जितं तस्मै प्रयच्छन्ति, तथा तव दृशि कमल-सम्पदं तद्-उदरे स्थिताम् अपि आच्छिद्य, त्वयि समर्पयतीति । अत एवं-भूतया दृशा चौर-भूतया द्वारेण अशुल्क-दासिका मूल्यं विना क्रीता दासीर् निघ्नतो मारयतस् तव त्वया क्रियमाणो वध इहास्मिन् विरहावसरे किं वधो न भवति ? काक्वा किं शस्त्रेणैव वध इति न, किन्तु वधो भवत्य् एव । यथा कमलोदरे स्थिता श्रीः दृशा मुष्टा, एवं गोपीनाम् अन्तः-स्थितान् अपि प्राणान् अपहृत्य तुभ्यं समर्पयिष्यतीति । दृश एव चौरत्वं मारत्वं चोक्तम्, दृशा क्रियमाणो वधः त्वय्य् एव फलिष्यतीति, भृत्य-कृतं राजनीव । अतस् तव महती दुष्कीर्तिर् भविष्यतीति भावः ।
हे सुरत-नाथ ! सम्भोग-सुख-प्रद ! यद् वा, हे सुरत-नाथ ! सुर-ताप-नाशात् तथा याच्यते। यद् वा, सुरतं नाथ्यते उपतप्यते येन । नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु इति धातो रूपम् । विरहार्ति-प्रदत्वेन सुरतस्य दाहकत्वं सूचितम् । यद् वा, सुरतानां त्वयि रक्तानां नाथ ताप-कर्तः ! इदं त्वय्य् अतिचित्रम् इत्य् अर्थः । हे वरद ! पूर्वम् उक्तं मयेमा रंस्यथ क्षपा [भा।पु। १०.२२.२७] इति वर-प्रत्यर्थम् आगतानां किं वध उचितो भवति ? अपि तु नेत्य् अर्थः । सम्बोधन-द्वयेनेदं सूच्यते—सुरत-सुखम् अस्मत्-तत्त्वतः सर्वत्र प्रसृतं भवत्व् एतद्-अर्थम् आगताः तत्-कार्यं दूरत एव स्थितं प्रत्युतास्मान् मारयितुम् उद्यतोऽसि । अतः काम-शास्त्र-वैफल्यं जातम् इति भावः ।
यद् वा, दृशा शुल्क-दासिकाः तव दर्शन-मात्रेण मूल्य-क्रीता नो निघ्नत इह वने विजने मारयतः मूल्येन क्रीत्वा मारयतः सतः त्वया क्रीयमाणो वधः किं-वधः कुत्सितो वध इत्य् अर्थः । अत्रत्याः वृक्षाः पक्षिणश् च एत एव साक्षिणो अस्मद्-वध-प्रसिद्धिं कथयिष्यन्तीति भावः ।
यद् वा, हे वरद ! अवखण्डने इति धातोर् इदं रूपं पूर्वं वरं दत्त्वा इदानीं खण्डयसीति । अस्मन्-मारणेन स्त्री-वध-दोषः प्रतिज्ञा-भङ्ग-रूपो दोषश् च भविष्यतीति । अतो दोष-द्वय-निराकरणार्थं त्वया दृश्यताम् इति वाक्यार्थः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किम् अहं युष्मभ्यं दुखं दित्सामि यद् एवं सूचयथ ? इति तत्र त्वम् अस्मान् खलु हंस्य् एवेत्य् आहुः—शरद्- इति । दृशा एव सुरतं नाथसि याचसे, अथ च दृशैव वरद अभीष्ट-सुखं ददासि, अथ च तयैव दृशा प्रेमानल-पुञ्ज-प्रक्षेपिण्या निघतोऽशुल्क-दासिका अस्मान् मारयतस् तव इह किं न वधः ? किं शस्त्रेणैव वधो वधः ? दृशा वधो वधो न भवति ? अपि तु भवत्य् एव । तस्मात् हे वरद ! अभीष्टं ददद् एव अभीष्टम् ऐहिकं पारत्रिकं च सुखं द्यसि खण्डयसीत्य् अर्थः । किं चास्मासु ते सत्त्वं चेद् भवति, तर्हि स्व-धनं पालय ज्वालय वा न दोषः । वयं तु त्वया न शुल्केन क्रीता, नापि परिणयेन गृहीताः, किन्त्व् अशुल्क-दासिका वयं स्वयम् एव मौग्ध्येन अभूमेत्य् अर्थः । तत्र तस्य मोहनोन्मादन-महा-चौर्य-चक्रवर्तित्वम् एव हेतुं वदन्त्यो दृशं विशिंषन्ति—शरत्-काल-सम्बन्धी य उदाशयः गम्भीर-स्वच्छ-जल-पूर्णस् तडाग इत्य् अर्थः । तत्र साधु-जातं साधु-समय-प्रदेश-प्रकारतो जातं सत् जात्याप्य् उत्तमं यत् सरसिजं विकसित-पद्मं, तस्य उदरस्थां श्रियं शोभां सम्पत्तिं मुष्णाति चोरयतीति तथेति दृशः सौन्दर्य-सौरभ्य-शैत्य-सौकुमार्यान्य् असाधारण्यान्य् उक्तानि । या खलु तादृशं जल-दुर्गम् अप्य् उल्लङ्घ्य तादृशाभिजातस्य सज्जनस्यान्तः-पुरं प्रविश्य सम्पत्तिं चोरयति, सा तव दृक् चोरिका केनापि मोहनोन्मादन-धूलि-प्रक्षेपणोन्मादिताभिर् अस्माभिः स्वयम् एव दत्तं सुरत-धनं प्राणांश् च नीत्वा तुभ्यं ददौ । अत एव पूर्वम् उक्तं त्वयि धृतासव इत्य् अतो वयं त्वया निर्धनीकृत्य हता एवेति परः-सहस्र-स्त्री-वध-पातकं त्वया गृहीतम् एवेति ध्वनिः । अतः पापाद् भीत्यापि दर्शनं देहीत्य् अनुध्वनिः ॥२॥
॥ १०.३१.३ ॥
विष-जलाप्ययाद् व्याल-राक्षसाद्
वर्ष-मारुताद् वैद्युतानलात् ।
वृष-मयात्मजाद् विश्वतो-भयाद्
ऋषभ ते वयं रक्षिता मुहुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, बहुभ्यो मृत्युभ्यः कृपया रक्षित्वा किम् इतीदानीं दृशा मन्मथं प्रेष्य घातयसीत्य् आहुः—विष- इति । हे ऋषभ ! श्रेष्ठ ! विष-मयाज् जलाद् योऽप्ययो नाशस् तस्मात्, तथा व्याल-राक्षसाद् अघासुरात्, वर्षान् मारुताद् वैद्युतानलाद् अशनि-पातात्, वृषोऽरिष्टः8 तस्मात्, मयात्मजाद् व्योमात्, विश्वतोऽन्यस्माद् अपि सर्वतो भयाच् च कालिय-दमनादिना रक्षिताः । किम् इदानीम् उपेक्षसे ? इति भावः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतोऽप्य् अधिकम् उपालम्भम् आहुः—किं च इति । प्रेष्य प्रेर्य । यद् वा, ऋषभ इत्य् अवतारान्तर-नाम्ना सम्बोधयन्ति । ऋषभ-देववत् समधि-निष्ठत्वात् किं नास्मान् पश्यसि ? यद् वा, यथा ऋषभावतारेणार्ता वृष्टि-भयात् प्रजा रक्षिताः कुतोऽविता मारिताः स्याम चेत्, तदैव भद्रम् अभविष्यत् । अधुना स्व-हस्त-मारणायावशेषिताः स्त्री-वधोऽतिनिन्द्यो भविष्यत्य् एवेत्य् अन्ये । इति भावः इति—अन्ते रण्डाविहिश् चेद् आदाव् एव कुतो न सः इति न्यायेन रक्षितोपेक्षा नोचितेत्य् अभिप्रायः ॥३॥
कैवल्य-दीपिका : सदा त्रातुम् आकस्मिकम् उपेक्षणं तव नोचितम् इत्य् आहुः—विष- इति । विष-रूपात् कालिन्दी-जलाद् योऽप्ययो नाशः । व्यालः अघासुरः । राक्षसः प्रलम्बः । वर्षाद् इन्द्र-कोपात् संवर्त-कोप-द्रवः । मारुतो वात्या-रूपस् तृणावर्तः । वैद्युतोऽग्न्य्-उत्पातः । वृषोऽरिष्टः । मयात्मजो व्योमः । किं बहुना, विश्वतः सर्वस्माद् भयाद् भय-हेतोः । हे ऋषभ ! सर्व-श्रेष्ठ ! ते त्वया । अत्र पाद-त्रये प्रथमं व-कारः, द्वितीयः ष-कारश् चतुर्थोऽपि ॥३॥ [मु।फ। १२.२३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथ यदि नो वध एव तवोद्देश्यः, तदा पूर्वं पूर्वम् उपसन्नेभ्यो वध-हेतुभ्यः कथं रक्षिता ? इत्य् आहुः—विष-जलाप्यायाद् इत्य्-आदि ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विष-जलादिभ्यो गो-गोपादीनां वर्षादिभ्यश् च सर्व-व्रजस्यैव रक्षणेन आत्मीयात्म-पालनात् । किं वा, तत्र तत्र श्री-कृष्ण-विषयक-माङ्गल्येनैव सर्व-रक्षा-मननाद् वयं रक्षिता इति प्रेमोद्रेकेणोक्तं । तत्र वृष-मयात्मजाद् इति भावि-सूचनम् । सहज-सार्वज्ञ्याद् विशेषतश् च विरहार्त्या प्रेम-विशेषोच्छलनात् स्वत एव तत्-तत्-परिस्फूर्तेः, तस्य भावित्वेऽपि भूत-निर्देशः, सुनिश्चितत्वात् । अहो कति गणयानि, बहुभ्योऽपि दुःखेभ्यो रक्षिता इत्य् आहुः—विश्वतः पूतना-शकट-तृणावर्त-यमलार्जुनेभ्यो बक-वत्स-दवानल-केश्य्-आदिभ्योऽपि भयाद् इत्य् एवं पुनः पुनस् ते त्वया त्वदीया वा वयं रक्षिताः । तच् च तव युक्तम् एवेति सम्बोधयन्ति—ऋषभ ! कारुण्यादिना सर्वतः श्रेष्ठ ! इति । यद् वा, व्रजेश्वर ! इति वयम् इत्य् अत्र स्पष्ट-निर्देशः स्व-विषय-कोप-कार-विज्ञापनाय । तच् चाधुनापि तद्-अर्थं मुहुर् इति तत्रौदासीन्य-राहित्येन परम-कृपालुत्वं सूचितम् । किं वा, प्रेम-विवशानां तासां स्वप्न-मनोरथादौ पुनः पुनस् तेषाम् एव साक्षाद् इव स्फूर्त्य्-अभिप्रायेण, पूर्वोक्त-क्रमातिक्रमा विरह-वैवश्यात् । किं वा, श्री-कृष्ण-विषयक-तत्-तद्-भये तेषां यथोत्तरं न्यूनताभिप्रायात् । अत एवैते स्पष्ट-निर्दिष्टाः । ततश् च विष-जलाप्ययाद् अपि रक्षिताः । किं वक्तव्यम् ? व्याल-राक्षसाद् इत्य् एवं व्याख्येयम् । अन्यत् तैर् व्यञ्जितम् ।
यद् वा, व्यालाः कालियाजगरादयः । राक्षसाः पूतनावकाशाद्याः, शङ्खचूडश् च यक्ष-राक्षसयोर् अभेदात् । स च श्री-ध्रुवोपाख्यानान्ते व्यक्त एव । तेषां जाताव् एकत्वं पुनर् द्वन्द्वैक्यम् । एवम् अग्रेऽपि, वर्षं दुर्मदेन्द्र-प्रेरित-संवर्तक-कृतम्, मारुतस् तदानीन्तनस् तृणावर्तश् च । वैद्युतं विद्युत्-समूहः । तद् वर्ष-कालीनम् एव । अनलश् च स्थान-द्वय-दावः । विश्वतस् तद्-इतरेभ्यः शकटादिभ्यः, ते गोपा वयं च रक्षिताः । त्वया इति प्रकरण-बलात् गोपा इति साक्षाद्-अनुक्तिस् तदानीं तत्-प्रसङ्गस्यायोग्यत्वात् । तत्र विष-जलाप्ययाद् गोपाः सुधा-दृष्ट्या जीवनादिना, वयं च शोक-भरेण तत्र प्रविश्य मरणोद्यताः, कालिय-मर्दनादिना अजगरात् श्री-नन्दः, पूतनातस् तन्-निपात-भयात् । प्रायः सर्वोऽपि व्रजः शकटार्जुनतो वत्स-बकाद्य्-असुरेभ्यश् च बालकाः, शङ्खचूडाद् वयम्, वर्षात् सर्वोऽपि व्रज इत्य् एवं विवेचनीयम् । तत्र ते इति दृष्टान्ततयोह्यम् । एवं सामान्येनैव वयं रक्षिताः स्मः । अधुना तु त्वद्-एक-गतयो वयं विशेषेण रक्ष्या इति भावः । अन्यत् समानम् ।
यद् वा, किं-शब्दः पूर्वस्माद् अनुवर्तेत । ततश् चायम् अर्थः—"तस्मात् तस्मात् किम् इति रक्षिताः ? मारिताः स्याम चेत्, तदैव भद्रम् अभविष्यत्" इत्य् अर्थः । ततश् च तेषां दुर्मारकतापेक्षया यथोत्तरं श्रैष्ठ्यम् ऊह्यम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं परम्परया सर्व-साधारणतया च त्वया वयं सदा रक्षिताः स्म एव । तर्हि विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् [कु।सं। २.५५] इति नीतिः । कथं न स्मर्यताम् ? इत्य् अभिप्रेत्याहुः—विष-जलाप्ययाद् इति । विष-जलं कालिय-ह्र्द-जलम्, तेन पीतेनाप्ययात् गवां गोपानां च मरणात् । व्याल-राक्षसाद् अघात् । रक्षो विदित्वाखिल-भूत-हृत् स्थितः [भा।पु। १०.१२.२५] इत्य् अनेन तस्यैव व्याल-रूपस्य राक्षसत्वेन निर्देशः कृत इति तस्माद् बाल-वत्सान् गिलितवतो वयं रक्षिता इति सर्व-गोकुल-जीवन-रूपाणां तेषां रक्षणेन गोकुलस्य रक्षणाद् वयम् अपि रक्षिता इत्य् अर्थः । इति परम्परा दर्शिता । वर्ष-मारुतात् वर्ष-मिश्रान् मारुतात्, तत्रैव वज्राश्म-परुषानिलैर् इत्य् उक्त्या वैद्युतानलाच् च श्री-गोवर्धन-धरणेन त्वया रक्षिता इति सर्व-साधारणतया दर्शिता । वृषमयात्मजाद् इति समाहारं वृषात् वत्साकारत्वेन गताद् अपि परिणामे बृहत्त्व-दर्शनात् । वृषात् वत्सासुरात् मयात्मजात् तल्-लीलाया अतिबाल्य-चरितत्वेनैव निर्णेष्यमाणत्वात् पूर्वम् एव व्योमासुराच् चेति पुनः परम्परा दर्शिता, वराह-तोको निरगात्9 [भा।पु। ३.१३.१८] इतिवत् । वृषात्मजाद् वत्सात् मयात्मजाद् व्योमाच् चेति वा । अथ सर्वम् एव सङ्गृह्य आहुः—विश्वतो भयाद् इति । तत्र तत्र योग्यताम् आहुः—हे ऋषभ ! सर्व-श्रेष्ठ इति ॥३॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : तत्र विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदिकं सर्वस्यैव गोकुलस्य स्व-रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेत्य् अभिप्रायम् । वृषात्मजाद् वत्सात् मयात्मजात् व्योमासुराद् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विष- इति । वृषमयात्मजात् वृषात्मजाद् वत्सासुरात्, मयात्मजाद् व्योमासुराच् चेत्य् अर्थः ॥३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ यदि नो वध एव तवोद्देश्यः, तदा कथम् उपसन्नेभ्यो पूर्व-पूर्व-हेतुभ्यः रक्षिताः स्मः ? इति दर्शयन्ति—विष-जलाप्यायाद् इत्य्-आदि । विष-जलाप्ययः कालिय-कलिल-यमुना-ह्रदः । व्यालो\ऽघासुरः, स एव राक्षसः शरीर-ग्रासित्वात् । वर्षादिः प्रसिद्ध एव, कुपित-शक्र-कृतत्वात् । वृषो\ऽरिष्टः । मयात्मजो व्योमासुरः । किं बहुना ? विश्वतो भयाद् एव, तत्रापि मुहुर् वारं वारम् ।
नन्व् एषां भवद्-विध-वध-हेतुत्वं वा कुतः ? कुतो वा यूयं रक्षिताः ? इति न वक्तव्यम् । व्रजस्थानां रक्षणम् एवास्माकं रक्षणम् । तेन व्रजोत्कर्षे\ऽस्माकम् अप्य् उत्कर्षो भवितुम् अर्हति । तन् न चेद् अत एवास्माकं क्षोभ इत्य् आशयः ॥३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अन्याः पुनर् दैन्यम् आवेदयत्यः प्रार्थ्यमाना बहुधा बहुभ्यो मृत्युभ्यो रक्षित्वा किम् इतीदानीम् उपेक्ष्यस इत्य् आहुः—विष- इति । विष-मयं कालिय-ह्रद-जलं, तस्माद् योऽप्ययो नाशः, तस्मात् गोपीनां मरण-दर्शनात् आजीव्य नाशात् स्वस्यैव नाश सूचितः । व्याल-राक्षसाद् अघासुरात् । तद् उक्तम् अत्रैव—रक्षो विदित्वाखिल-भूत-हृत्-स्थित [भा।पु। १०.१२.२५] इति । वत्स-वत्सप-रक्षणेन वयम् एव रक्षिता इत्य् अर्थः । वर्ष-मारुतात् द्वन्द्वैकवद्-भावः । वैद्युतानलात् अशनी-पात-रूपाग्नेः गोवर्धनोद्धरणेन त्वया रक्षिताः । वृषमयात्मजात् वृषोऽरिष्टः, तस्मात् । मयात्मजो व्योमः, तस्मात् अप्राप्ति-द्वन्द्वैक्यं तस्य भावित्वेऽपि भूतवन् निर्देशो गर्ग-वाक्य-प्रामाण्यात्, पूर्व-संस्कार-वशाद् वा ।
किं वा, अस्माकं त्वद्-उपकार-विस्मृतिर् न जाता इति कथयन्ति—हे ऋषभ ! पुरुषोत्तम ! विश्वतो भयात्, पूतनादिभ्यो यद् भयं, तस्मात् । मुहुर् वारं वारं रक्षिताः । तत्र तत्रौदासीन्य-राहित्येनेति किं, यतोऽभय-हेतवो गुणाः स्युः ? यद्यपि शङ्खचूड-वध एतासां रक्षा कृता, अजगरात् सुदर्शनात् नन्दस्य रक्षणं, व्योमात् गोपानां रक्षा, दावाग्नि-पानेन सर्व-व्रजस्य रक्षा कृता, तथापि व्रजैक-देश-रक्षणेन स्वस्यैव रक्षणम् अमन्यत । व्रजैक-देश-नाशात् स्वस्यैव नाशाभिमानाद् एवम् उक्तम् ।
किं च, बहिः प्रकटेभ्यः मृत्युभ्यो रक्षिता इति युक्तं कृतम् । इदानीम् अन्तरात् दुःसहान् मृत्योः पालनीया इत्य् अर्थः । तदा वयं तैर् एव मृत्यु-हेतुभिर् मारिता अभविष्यामः । तद् एव मन्दम् अभविष्यत् त्वया रक्षितं स्वाङ्गं व्याकुलीभवतीति न्यायम् आहुः—विष-वृक्षोऽपि संबद्ध्य स्वयं छेत्तुम् असाम्प्रतम् [पञ्चतन्त्र १.२६८] इति दैन्यं निवेदनम् इति ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, जिघांसैव चेत् तव वर्तते, तदा पूर्व-पूर्व-विपद्भ्यः किम् इति रक्षिताः ? रक्षित्वा वधः खल्व् अनुचित एवेत्य् आहुः—विस-मयाज् जलात् योऽप्य् अस्मात्, व्याल-राक्षसाद् अघासुरात्, वर्षाद् इन्द्र-कृत-वृष्टेः, मारुतात् तृणावर्तात्, वैद्युतानलाद् इन्द्र-कर्तृक-वज्र-क्षेपात्, वृषाद् अरिष्टात्, मयात्मजात् व्योमात्, विश्वतः अन्यस्माद् अपि सर्वतो भयात् कालिय-दमनादिना । हे ऋषभ ! पुरुष-श्रेष्ठ ! स्व-रक्षणाद् एव त्वद्-एक-प्राणा वयं रक्षिताः । वर्षादिभ्यस् तु सर्व-व्रज-रक्साणाद् एव तद्-अन्तः-पातिन्यो वयम् अपि रक्षिताः । अत एव रक्षके त्वयि विश्वस्य पञ्च-शर-जालोपशमार्थं वयम् आगताः । त्वया तु ततोऽपि कोटि-गुणितया स्व-विरहानल-ज्वालया दन्दह्यामहे इति विश्वस्त-घाताद् अपि त्वं न बिभेषीति भावः । अतः अरिष्ट-व्योम-वधस्य भावित्वेऽपि गर्ग-भागुर्य्-आदि-मुखतः कृष्ण-जन्म-पत्र्यां श्रवणस्य भूतत्वेनैव भूत-निर्देशः ॥३॥
॥ १०.३१.४ ॥
न खलु गोपिका-नन्दनो भवान्
अखिल-देहिनाम् अन्तरात्म-दृक् ।
विखनसार्थितो विश्व-गुप्तये
सख उदेयिवान् सात्वतां कुले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च विश्व-पालनायावतीर्णस्य तव भक्तोपेक्षाऽत्यन्तम् अनुचितेत्य् आशयेनाहुः—-न खल्व् इति । हे सखे, भवान् खलु निश्चितं यशोदा-सुतो न भवति, किं तु सर्व-प्राणिनां बुद्धि-साक्षी । ननु स किं दृश्यो भवति ? तत्राहुः—-विखनसा ब्रह्मणा विश्व-पालनाय प्रार्थितः सन् सात्वतां कुले उदेयिवान् उदित इति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् तत्त्वम् आहुः—अपि च इति । किं तु अपि तु । बुद्धि-साक्षी चेत् कथं दृश्य इत्य् अभिप्रेत्याशङ्कते—नन्व् इति । तत्र दृश्यत्वे । विखनते मैथुनम् ऋते उत्पद्यत इति । विखणाः ब्रह्मा कमलजत्वात् ।
यो जातः सर्वतः पूर्वं विना मैथुनम् आत्मनः ।
विखनाः स हि विज्ञेयः कुद्दालो विखनास् तथा ॥ इति निरुक्तात् ।
तेन तथा । यद् वा, श्री-यशोदा-नन्दनो न भवान्, तस्या परम-दयार्द्रायाः सम्बन्धेन अस्मासु दयोत्पत्तेः । अखिल-देहिनाम् अन्तरात्म-दृग् अपि न तत्रास्मद्-दुःख-ज्ञान-सम्भवात् । न च विश्व-गुप्तये ब्रह्मणा अर्थितः, तत्रास्माकम् अपि रक्षायोग्यत्वाद् गोपी-जन-रक्षणे किं तेन शपथो दत्तः ? भक्तानां कुले च नोदेयिवान्, तत्र तत्-सम्बन्धेन निरुपाधि-कृपालुता-सम्भवात् । किन्तु स भगवान् खे आकाश एव उदेयिवान् इत्य् आकाश-गुणत्वेन असङ्गौदासीनत्वोद्भवान् ।
यद् वा, न खान् लुनानीति न खलु शस्त्र-विशेषस् तद्वत् तीक्ष्ण-स्वभावो हि संसारस् तस्माद् गोपायति रक्षतीति न खलु गोपिका-भक्तिस् तया नन्दत्य् आनन्दयति वेति । संसृति-क्लेश-रक्षकस्य तवानङ्गार्ति-हरणं न दुर्घटम् इति भावः । यद् वा, न खलु गोपिका वंशी, तया नन्दयतीति तथा ।
यद् वा, गोपिका-नन्दनो भवान् न इति, न किं त्व् अस्त्य् एवेति काकुः । खलु प्रसिद्धम् । यद् वा, न खलु गोपिका-नन्दनोऽस्ति भवान् इति दुःखिता-वाक्यम् ॥४॥
कैवल्य-दीपिका : ननु सर्वेषाम् अस्माकं तुल्यत्वात् कः कं रक्षति ? इति चेत्, तत्राहुः—न खलु इति । अखिल-देहिनाम् अन्तर् आत्मनो जीवान् पश्यतीति तथा परमात्मा इत्य् अर्थः । विखनसा ब्रह्मणा । उदेयिवान् उदितोऽसि । सात्वतां यदूनाम् । अत्र पाद-चतुष्केऽपि द्वितीयो वर्णः ख-कारः । पालकत्वाद् अस्मान् अपि पाहीत्य् अर्थः ॥४॥ [मु।फ। १२.२४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वयम् एव हनिष्यामीति तेभ्यो रक्षिता इति चेत् तद् अपि न, त्वं विश्वस्य रक्षार्थम् एव सात्वतां कुले\ऽवतीर्णो\ऽसीत्य् आहुः—न खल्व् इत्य्-आदि । खलु भो भगवन् ! गोपिका-नन्दन एव भवान्, गोपिका-नन्दनत्वे गोपत्वम् । गोपत्वे\ऽस्माकं दुखानभिज्ञो\ऽसि । अखिल-देहिनाम् अन्तरात्म-दृग् इति विखनसार्थितो विश्व-गुप्तये, सख उदेयिवान् सात्वतां कुले इति च यच् छास्त्रज्ञैः प्रतिपाद्यते, तथा तथा चेत् पर-दुःखाभिज्ञो\ऽभविष्यः । अस्मद्-विध-गोपन-परो\ऽप्य् अभविष्यः, विश्वान्तर्गतत्वाद् अस्माकम् अपि ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विचित्र-क्रीडा-कारि-साक्षाद् एतद् वर्तमान-रूपो बहिर् एव केवलं भवान् न भवति, किं तु अन्तर् अप्य् एवं वर्तत इत्य् आहुः—अखिल- इति । अतोऽस्माकम् एतद् हृत्-ताप-वृत्तं भवान् जानात्य् एव । किं तस्य बहु-वर्णनेन इति भावः
ननु सत्यं जानाम्य् एव, किं तु कृत्यं सर्वम् अवसर एव सम्पाद्यते । तत्राहुः—विखनसा इति । स्व-भक्त-वर-प्रार्थनया भक्त-कुलेऽवतीर्णेन भवतावश्यं भक्ता अनवसरेऽपि परिपाल्या एवेति । त्वद्-भक्तानाम् अस्माकम् अप्य् अवसरापेक्षा न युक्तेति भावः । अस्मिन्न् अवतारे स्व-भक्तापेक्षया स्व-कृत-निबन्धस्याप्य् अतिक्रमणात् । तच् चाग्रे गुरु-पुत्रानयनादौ व्यक्तम् एव ।
ननु यूयं न मद्-भक्ता इति चेत्, तथापि परिपाल्याः श्री-ब्रह्मणावतारेऽस्मिन् सर्वेषाम् अपि पालनस्य प्रार्थनाद् इत्य् आहुः—विश्व- इति । अतो निज-भक्त-वर-प्रार्थनस्यावश्य-पाल्यत्वाद् वयं नोपेक्ष्या एव इति भावः । किं च, तत्रापि विशेषतो वयं परिपाल्याः । तत्र च भाव-विशेषेणेत्य् आशयेनाहुः—सखे इति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अन्तरात्म-दृग् अपि भवान्, गोपिका-नन्दनो न भवति खलु किम् ? अपि तु भवत्य् एव। कथम् ? तत्रहुः—विखनसा इति । अतो वयम् आनन्दनीया एव इति भावः । यद् वा, गोपिका-नन्दनः कारुण्यादि-गुण-रूप-लीलैश्वर्यादि-निज-भगवत्ता-प्रकरण-परः श्री-कृष्णो भवान् न भवति, किं तु परमात्मैवेति, परम-दुःखेन वेदान्त-पक्षम् अङ्गीकृत्याहुः—न इति । खलु निश्चितम् । इत्य् अधुना ज्ञातम् इति सर्वत्राग्रेऽपि शेषः । किं च, अ-कार-प्रश्लेषेण न विश्वस्य गुप्तिः, अविश्व-गुप्तिस्, तस्यै जगत्-संहारायैवेत्य् अर्थः । सात्वतां सात्वतानां यादवानाम् एव कुले, न तु गोप-कुले जात इति च । अन्यत् समानम् ।
अथवा, हे सखे ! इति सोल्लुण्ठम् । नञः प्राङ्-निर्देशात् सर्व-पादैर् एवान्वयः । तेन हेऽसखे ! प्रतिकूल ! इति । खलु वितर्के । श्री-यशोदा-नन्दनो न भवति, तथा सति दामोदरत्वादि-भक्त-वश्यतादि-भर-प्रदर्शनेन चास्माकम् उपेक्षानुपपत्तेः । यद् वा, गोपिका व्रज-स्त्रियः सर्वा आनन्दयति इति तथा सति तद्-वैपरीत्यासम्भवात् । किं च, अखिल-देहिनाम् अन्तरात्म-दृग् अपि न भवति, तथास्मद्-दुःख-ज्ञान-सम्भवात् । न च ब्रह्मणा विश्व-गुप्तयेऽर्थितः, तथा सत्य् अस्माकम् अपि रक्षाया योग्यत्वात् । सात्वतां कुले च नोदेयिवान्, तथा सति तत्-सम्बन्धेन निरुपाधि-कृपालुता-सम्भवाद् इति ।
यद् वा, स प्रसिद्धो भवान् अखिल-देहिनाम् अन्तर्-आत्म-दृग् इति विश्व-गुप्तये ब्रह्मणा सात्वतां भक्तानां कुले अवतरितुम् अर्थितः । भवान् खलु आकाश एव उदेयिवान् इत्य् आकाश-गुणत्वेन असङ्गौदासीनत्वाद् भवान् गोपिका-नन्दनो न भवतीत्य् अर्थः ।
यद् वा, उ इति पदं सम्बोधने । उ भो गोपिका-नन्दन ! विखनाः पितामहः, तेन च कृष्णस्य पितामहो गृह्यते, प्लवग-सैन्यम् उलूकजिता जितम् []10 इतिवत् । अत्र उलूक-शब्देन कौशिक उच्यते, तेन च शुकः । नात्र नेयार्थता-दोषः, तस्य काव्यैक-विषयत्वात् । अतोऽयम् अर्थः—तव पितुः पित्रा विश्व-गुप्तये विश्वेषां सकलानां व्रज-वासिनां गुप्तये रक्षायै भवान् अर्थितः सन्, सात्वतां भक्तानाम् एषां गोपानां कुले उदेयिवान् । साम्प्रतं रक्षा द्वारेऽस्तु । हृदय-दुःखम् अपि न जानातीत्य् आहुः—अखिल-देहिनाम् अन्तर्-आत्म-दृक् । अन्तर् हृदय-ज्ञोऽपि न भवति, बाढम् अन्तर् दह्यमानानाम् अस्माकं यद् एतां महार्तिं विनाशयतीत्य् अर्थः । व्रजेन्द्र-पित्रा सर्वोत्तम-सन्तानार्थं विष्णुर् आराधित इति प्रसिद्धिः ॥४॥
वितुल-पवन्त-वर्षि-शितैः शरैः प्लवग-सैन्यम् उलूक-जिताजितम्
॥ नेयार्थ-दोषस्योदाहरणं । रस-गङ्गाधरः ?
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं प्रभावत्वाद् इदम् अनुमिमीमह इति स्तुत्य्-अर्थम् आहुः—न खल्व् इति । श्री-गोपेश्वर्या अपि स्व-कुल-श्रेष्ठत्वेन स्वान्तः-पातं विधाय स्व-दैन्येनैव न्यूनतयोक्तिर् न दोषाय, अतोऽस्माकम् इदं हृत्-ताप-वृत्तं भवान् जानात्य् एव । किं तस्य बहु-वर्णनेन ? इति भावः ।
अवतार-कारणम् अनुमीयते—विखनसा इति । अतः स्व-भक्त-वर-प्रार्थनया भक्त-कुलेऽस्मिन्न् उदित-मात्रत्वेनापि भवता भक्ता अनवसरेऽपि परिपाल्या एवेति त्वत्-प्रियाणाम् अस्माकम् अप्य् अवसरापेक्षा न युक्ता । सोऽयं तु परम एवावसर इति भावः ।
ननु यूयं न मद्-भक्ता इति चेत्, तथापि परिपाल्याः श्री-ब्रह्मणा किल सर्वेषाम् एव पालनाय प्रार्थनाद् इत्य् आहुः—विश्व-गुप्तये इति । वस्तुतस् तु भक्तेष्व् अपि भाव-विशेष-भाजो वयं विशेषतः परिपाल्या इत्य् आशयेनाहुः—सखे इति ।
यद् वा, ऐश्वर्य-ज्ञानम् इदं मुन्य्-आदि-मुखतः तन्-माहात्म्य-श्रवणेन ततो निज-भावानुरूप्येण श्री-गोपिका-नन्दनता-मय-केवल-माधुर्यानुभवेऽपि तद् एतद् ऐश्वर्यं याचक-रीत्या निजाभीष्ट-साधन-मात्राय प्रयोजितम् इति ज्ञेयम् । एवम् उत्तरापि । अन्यत् तैः ।
यद् वा, खल्व् इति प्रतिषेधे, खलु उक्त्वा इतिवत् । अन्तरात्म-दृग् अपि भवान् गोपिका-नन्दनो न भवति खलु, अपि तु भवत्य् एव इत्य् अर्थः । कथम् ? तद् आहुः—विखनसा इति । अतो वयं पाल्या एव इति भावः । सेर्ष्यम् आहुर्—गोपिकायाः परम-दयालुतया श्री-व्रजेश्वर्या नन्दनो भवान् न भवति, किन्तु परमात्मैव, स्वतः सर्वत्रौदासीन्यात् । एवं नूनम् अपि ब्रह्म-भक्ति-वशीकृतत्वाद् एव भवान् । एतन् नन्द-नन्दनता-व्याजेन विश्व-गुप्तये प्रकटोऽस्ति । तत्र च बाल्य-क्रीडामयाद्य्-अनुवृत्त्या अस्माकं सखितां च प्राप्तोऽस्तीति भवता प्रतिपाल्या एव वयम् इत्य् आहुः—विखनसा इति ।
अथवा नञः प्राङ्-निर्देशात् सर्व-पदैर् एवान्वयः । तेन हे असखे ! प्रतिकूल ! खलु वितर्के । भवान् श्री-यशोदा-नन्दनो न भवति, तत्र तत्-सम्बन्धेनास्माकम् उपेक्षानुपपत्तेः । तथा अखिल-देहिनाम् अन्तरात्म-दृग् अपि न भवति, तत्रास्मद्-दुःख-ज्ञान-सम्भवात् । न च ब्रह्मणा विश्व-गुप्तयेऽर्थितः, तत्रास्माकम् अपि रक्षाया योग्यत्वात् । सात्वतां भक्तानां कुले च नोदेयिवान्, तत्र तत्-सम्बन्धेन निरुपाधि-कृपालुता-सम्भवाद् इति ॥४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : पुनश् च तत्-तद्-अलौकिक-कर्म लक्ष्यीकृत्य न खलु गोपिका-नन्दनो भवान् [भा।पु। १०.३१.४] इत्य्-आदि-द्वये याचक-रीत्या दैन्येन तत्र परमेश्वरत्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व-रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां वैष्णवानां श्रीमन्-नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत्-सखित्वाप्तेर् वैशिष्ट्यम् एव युज्यते इत्य् अर्थः । वृष्णि-धुर्य इति तेषाम् अपि यदु-वंशोत्पन्नत्वात् ।
तथा च स्कान्दे मथुरा-माहात्म्ये [४०४]—
गोवर्धनश् च भगवान् यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् ॥ इति ।
तत्रैवान्यत्र अपि श्री-गोविन्द-कुण्ड-प्रस्तावे—
यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति ।
अथवा विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदिना स्तुत्वा पुनः स-प्रणयेर्ष्यम् आहुः, न खलु [भा।पु। १०.३१.४] इत्य् अर्धेन । एवं दुरवस्थापन्नानाम् अस्माकम् उपेक्षया भवान् खलु निश्चयेन गोपिकायाः सर्वेषां व्रज-वासिनाम् अस्माकं रक्षा-कारिण्याः श्री-व्रजेश्वर्या नन्दनो नास्ति, किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद् अखिल-देहिनाम् अन्तरात्म-दृक् शुद्ध-जीव-द्रष्टा परमात्मास्ति । एवम् अपि नूनं ब्राह्मणार्थि-तत्त्वेनानासक्ततयैव सर्व-रक्षावतीर्णत्वान् नास्मान् उपेक्षितुम् अर्हति इति पुनः स-दैन्यम् आहुः—विखनसा [भा।पु। १०.३१.४] इत्य् अर्धेन ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथवा, पूर्वानुसारेणैवाश्चर्यम् अनुमीय स्तुत्य्-अर्थम् आहुः—न खल्व् इति द्वाभ्याम् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपि च केचित् त्वां गोपिका-सुतम् एव वदन्ति, केचित् सर्व-प्राणिनाम् अन्तर्यामीति, केचिद् विश्व-रक्षणार्थम् अवतीर्णो\ऽसीति मत-त्रयं प्रसिद्धम् । तत्रास्मान् प्रति मत-त्रय-भिन्नवद् व्यवहरसि । तत् केयं ते लीला ? इति दर्शयन्ति—न खल्व् इत्य्-आदि । खलु भो कृष्ण ! भवान् न गोपिका-नन्दनः । तथा चेद् अस्मासु सजातीयासु कृपा अभविष्यत् । नाप्य् अखिल-देहिनाम् अन्तर्-आत्म-दृक्, तथा सति अस्माकम् अप्य् अन्तरात्म-दुःखज्ञता अभविष्यत् । नापि विखनसा ब्रह्मणा अर्थितः । न विश्व-गुप्तये सात्वतां कुले उदेयिवान् । तथा सति विश्वान्तर्वर्तिनीनाम् अस्माकम् अपि गुप्तिर् अभविष्यत् । तस्माद् अद्भुतैवेयं तव लीलेति भावः॥४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अन्या आहुः—पूर्व-संस्कारा विशिष्टा गर्गोक्ति-प्रामाण्यावलम्बना च उपालम्भते—न खल्व् इति । ननु भवतो यशोदा-सूनुत्वे निश्चिते सति सर्वम् उपलम्भा युक्ता भवेयुः, तद् एव निश्चितं नास्त्य् एवेति विचार्याहुः—न खल्व् इति । भवान् केवलं गोपिका-नन्दनो यशोदा-सूनुर् न भवति । खल्व् इति निश्चये । तथा सति यशोदया उलूखले यथा बद्ध्वा स्वाधीन-कृतः स्यात्, असास्माभिर् अपि प्रेम-रज्जु-बन्धनेन बद्धो भवेत् । तत् तु यथावन् न बद्धः, बुद्धि-साक्षित्वात् । तद् एवाहुः—किन्त्व् अखिल-देहिनां सर्व-प्राणिनाम् अन्तरात्म-दृक् बुद्धि-साक्षी । अत एव बन्धनायोग्यः ।
ननु साक्षी चेत्, तर्हि किं दृश्यो भवति ? इति तत्राहुः—विखनसा इति । विखनसा ब्रह्मणा विश्व-गुप्तयेऽर्थितः सन् । हे सखे ! सात्वतां यदूनां कुले उदेयिवान् उदितः । यदा विश्व-पालनायावतीर्णस्य वैषम्यम् अयुक्तम् इति भावः ।
यद् वा, भवान् गोपिका-नन्दनो भवति खल्व् इति सर्वत्रानुषज्यते । यदि भवेत्, तदा तत्-प्रजा-रूपा अस्मान् पालयेत् । यद् वा, गोपिका आनन्दयति स्वल्प-लावण्यादि-गुणैर् इत्य् अपि न समासु तद्-अप्रतीतेः ।
किं च, भवान् अन्तर्-आत्म-दृग् अपि न भवति, अस्मद्-आर्ति-परिज्ञानाभावात् । यस् तु बुद्धि-साक्षि भवति, स तु सर्वेषां सुख-दुःखं जानात्य् एवैतत् निश्चितम् एव ।
किं च, विखनसा इति विशेषेण खनति वेदार्थं विचारयतीति वि-खना ब्रह्मा, तेन प्रार्थितः सन् । सात्वतां भक्तानां यदूनां कुल उदितः, इत्य् अपि न, ब्रह्मा जानात्य् एव । भक्त-रक्षणं भगवतोऽन्तरङ्गम्, किं तत्-प्रार्थनेन ? अतो विश्व-पालनं बहिरङ्गो धर्मस् तद्-अर्थम् एव प्रार्थितः, तथापि बहिरङ्ग-धर्माणोऽपि वयं न रक्षिता इति ।
यद् वा, भवान् गोपिका-नन्दनो न भवति । खलु काक्वा, भवत्य् एव । अतो वयं तत्-सम्बन्धेन परिपाल्या इति । भवान् अन्तरात्म-दृक् बुद्धि-साक्षी न भवति । खलु किं तु भवत्य् एव । नारायण-समो गुणैः [भा।पु। १०.८.१५] इति गर्गोक्तिः । अतोऽस्मद्-आर्तिम् अवकलय्य निर्वापयेति । विखनसा ब्रह्मणा प्रार्थितः सन् विश्व-गुप्तये विश्व-पालनाय यदूनां कुले उदितो न, खलु काक्वा, किन्तु उदित एवातो ब्रह्म-प्रार्थना-विरोध-परिहारायास्मान् पालयेति ।
यद् वा, भवान् गोपिका-नन्दन एव बालात् प्रभृति सुख-समृद्धः । अस्मद्-आर्ति-परिज्ञानाभावात् आत्मौपम्येन सर्वत्र सुखित्व-प्रतीतेश् च अन्तर्-आत्म-ड्र्क् बुद्धि-साक्षी ईश्वरः, विखानसा विश्व-पालनाय प्रार्थितो यदूनां कुले उदित इत्य् अपि न, अस्मद्-रक्षणानाकलनात् । अत एव पालनायोग्यत्वम् इति भावः ।
यद् वा, भवान् गोपिका-नन्दनो नित्य-सिद्ध एव विखानसा ब्रह्मणा विश्वस्मात् गुप्तये अप्राकट्यायान्तर्धानार्थम् इत्य् अर्थः । सात्वतां भक्तानां कुले उदित इति । न खलु निश्चितं यदि सर्वस्माद् अप्य् अदृश्यस् तिष्ठेत्, तदा नास्माकं मनसि दुःखं भवेत् । किं च, भवान् अखिल-देहिनाम् अन्तर्-आत्म-दृक् बुद्धि-साक्षी इत्य् अपि न, यस् तु बुद्धि-साक्षी स किं दृश्यो भवति ? इति मनसि विचार्य तूष्णीं भवेत् । तत् तु सर्वेषां दृश्यत्वे सत्य् अपि, अस्माकम् एव दौर्भाग्येनादृश्यो भवतीत्य् अनुतप्ता भवामेति ।
यद् वा, भवान् ब्रह्मणा विश्व-गुप्तये विश्वस्य गुप्तिर् अदर्शनं संहार इति यावत् संहारार्थं प्रार्थितः । सात्वतां यदूनां कुल उदित अखिल-देहिनाम् अन्तरात्मनि दृक् दृष्टिर् यस्येति सर्व-देहि-जीवं जिघृक्षन्न् इत्य् अर्थः । हे सखे ! इति खलु निश्चितं, न, काक्वा शिरश्-चालनम्, किं तु निश्चितम् एव । तत्र लिङ्गम् आहुः—गोपिका-नन्दनः तव संहार-कर्तृत्व-रूपं धर्मं गोपायतीति गोपिका अस्मान् नानन्दयतीति । एवं-भूतो भवान् अस्मान् दुःखी-करोतीति हेतुं न जानीम इति भावः । सर्वस्य विश्वस्य परिदृश्यमानत्वात् वयम् एव किं संहर्तव्याः ? अतो दुष्कीर्तिस् तन्-मूल-दुरित-परिहारायास्मान् पालयेति तात्पर्यार्थः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयि शश्वद्-असमीक्ष्य-भाषिण्यो गोपाल्यः ! तिष्ठत। सर्वानन्द-कन्दो नन्द-नन्दनोऽहं स्त्री-वध-पातकी विश्वस्त-घाती च युष्माभिर् निर्धारितः । तद् इतो निःसृत्य रहसि क्वचिद् एवं स्थास्यामि, यथा जन्म-मध्ये सकृद् अपि मद्-दर्शनं न प्राप्स्यथेति तदीय-भीषणोक्तिर् आशङ्क्यानुतप्तास् तं प्रसादयितुं स्तुवन्ति—न इति ।
भवान् गोपिका-नन्दनः खलु न भवति, किन्त्व् अखिल-देहिनाम् अन्तरात्मा अन्तः-करण-प्रेरकः दृग् द्रष्टा चेत्य् अन्तर्यामी भवतीति भागुरि-गार्गि-पौर्णमास्य्-आदि-मुखाद् अश्रौष्म इत्य् अतो यथास्मान् प्रेरयति, तथा ब्रूमहे इत्य् अतो मा कुप्य प्रसीद । त्वद्-आविर्भाव-कारणं च श्रुतम् इत्य् आहुः—विखनसा ब्रह्मणा विश्व-पालनाय प्रार्थितः सन् सात्वतां यदूनां कुले उदेयिवान् श्री-यशोदा-गर्भोदय-शैलाद् आविर्भूतः ।
नन्व् एवं चेज् जानीध्वे, तत् किम् इति रूक्षं ब्रूध्वे ? तत्राहुः—हे सखे ! इति त्वयैव सख्य-रस-सिन्धौ वयं निमज्जिता इति परामृश्य विश्वं पालयन् विश्व-मध्य-वर्तिनीर् अस्मान् अपि पालय कृपयैवेति भावः ।
यद् वा, स्व-प्रेयसीनाम् एवं दुःखं द्रष्टुं नृ-देव-तिर्यग्-आदिषु मध्ये कोऽपि न समर्थः यथा त्वं दुःखं पश्यन्न् अपि सुखम् आस्ते, तस्माद् एवं वितर्कयाम इत्य् आहुः—न इति । गोपिकायाः श्री-यशोदायाः पर-दुःख-लवेऽपि द्रुत-चित्तायास् तस्या कुक्षौ त्वं न जातोऽसि, तत्-कुक्षेर् एकस्यापि लक्षणस्य त्वय्य् अनुपलम्भाद् इति भावः ।
तर्हि कोऽहम् ? त्वं सर्व-प्राणिनाम् अन्तर्यामीति वितर्कन्ते । स एव जीवानां दुःखं पश्यन्न् अपि तद्-अन्तः सुखं वसति ।
उदासीन-शिरोमणेस् तवात्राविर्भावेऽपि कारणं न जानीम इत्य् आहुः—विखनसा ब्रह्मणा स्व-सृष्टि-वृद्धिम् अभीप्सता विश्व-गुप्तये विश्वस्मिन् जगत्य् अत्र गुप्तये त्वं प्रार्थितः, त्वद्-भक्त्या जीवा मुच्यन्ते इत्य् अतस् तथा त्वम् अवतीर्य गुप्तस् तिष्ठ यथा केऽपि त्वाम् ईश्वरं न मन्यन्ते । तदा च तवेश्वरत्वम् अमन्यमानानाम् ईश्वरानुवर्तिनाम् अपि जरासन्धादिवद् असुरत्वम् एव भविष्यति । अत एव मे सृष्टि-वृद्धिर् भवित्रीति ब्रह्म-वाञ्छित-सिद्ध्य्-अर्थं पर-दार-पर-द्रव्य-चौर्य-मात्सर्य-हिंसा-दम्भादिकं स्व-प्रतिकूलं धर्मं स्व-गोपनार्थम् अङ्गीकरिष्यन् दुस्त्यजं स्व-धर्मम् औदासीन्यं चाजहद् एव सात्वतां कुले उदेयिवान् । सखे ! इति पर-दार-ग्रहणाद् एवास्माकं सखाप्य् अभूर् इति भावः ॥४॥
॥ १०.३१.५ ॥
विरचिताभयं वृष्णि-धुर्य ते
चरणम् ईयुषां संसृतेर् भयात् ।
कर-सरोरुहं कान्त कामदं
शिरसि धेहि नः श्री-कर-ग्रहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् त्वद्-भक्तानाम् अस्माकम् एतत् प्रार्थना-चतुष्टयं सम्पादयेत्य् आहुः—विरचिताभयम् इत्य्-आदि चतुर्भिः । हे वृष्णि-धुर्य ! संसृतेर् भयात् ते चरणम् ईयुषां शरणं प्राप्तानां प्राणिनां विरचितं दत्तम् अभयं येन, तत् तथा । हे कान्त ! कामदं वरदं, तथा श्रियः करं गृह्णातीति तथा तद् भवत्-कर-सरोरुहं नः शिरसि देहि ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् वक्ष्यमाणम् । वृष्णीनां चन्द्र-वंश्यानां धुर्योऽग्रणीः, वृष्णिः पाण्डव-चन्द्रयोः इति मेदिनी । यद् वा, वृष्णिषु रेतः-सेक्तृषु मुख्य रति-निपुण ! उभयथास्माकम् अभीप्सितापादनम् उचितम् इति सम्बुद्ध्य्-अभिप्रायः । काम्यत इति कान्तश् चतुर्वर्गः, स एव कामोऽभिलषितस् तं ददाति इति तथा कर-चरणयोर् उभयोर् विशेषणम् । हे कान्त ! इति वा । श्री-कर-ग्रहम् इति । अतस् तव हस्त-सम्बन्धाद् वयम् अपि श्री-तुल्या भवेमेत्य् अभिप्रायः । त्यागार्हत्वम् एव श्री-समानतेत्य् अर्थः ॥५॥
कैवल्य-दीपिका : विरचित- इति । संसार-भयात् त्वच्-चरणं प्राप्तानां कृताभयं कर-कमलं नः शिरसि धेहि । श्रियाः करं गृह्णाति तत् तथा । अत्र पाद-चतुष्केऽपि द्वितीयो रेफः ॥५॥ [मु।फ। १२.२५]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भो गोप्यः ! विपरीतम् एव भवतीभिर् उच्यते, अहम् अखिलात्म-दृक् विश्व-गुप्त-कृच् च इति चेत्, तदैवं कुर्व् इत्य् आहुः—विरचिताभयम् इत्य्-आदि-बहुभिः ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विरचिताभयम् इति मोक्षदत्वम् उक्तम् । कामदम् अर्थिनां सर्वाभीष्ट-प्रदम् इति त्रिवर्गत्वं भक्तिदत्वं च । श्री-कर-ग्रहम् इति प्रेम्णा भक्त-वश्यत्वं रसिकत्वं च । एषां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । सरोरुह-रूपकेण सहज-शीतल-मधुरत्वादिना स्वतः फल-रूपत्वं सूचितम् एव । अतो नः शिरसि धेहि। अस्माकं तत्-तत्-सिद्धये इति भावः । तत्र मोक्षो नाम निर्विघ्न-भक्ति-सिद्ध्यै विविध-संसार-दुःख-निवृत्ति-रूपो ज्ञेयः । त्रिवर्गोऽयं प्रेम-साधनोपयोग्य् एव । अन्यच् च भक्तानाम् उपेक्ष्यम् एव । एतच् च भक्ति-सिद्धान्त-मते ज्ञेयम् । तासां च मते शिरसि श्री-हस्त-धारणम् एव परम-फलम्, अन्यच् च तत्-स्वभाव-मात्र-स्तोत्रम् ।
ननु तद्-योग्या न यूयम् इति चेत्, सत्यम्, निज-माहात्म्यापेक्षया धेहीत्य् आहुः—वृष्णि-धुर्य वृष्णीन्द्रे धुर्यो दमन-समर्थ इति स्व-पक्ष-कृपा-करणं दर्शितम् । यद् वा, वृष्णि-धुर्य हे निजाशेष-गुण-कृपादि-प्रकटनार्थं यदु-कुलावतीर्णेत्य् अर्थः, गोपानाम् अपि यादवत्वात् । तच् च भाव-विशेषेण त्वयाधेयम् इत्य् आशयेनाहुः—कान्त ! हे प्रियेति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, सरोरुह-रूपकेण ध्वनितम् । ताप-हारित्वादिना दुःख-ध्वंसन-सुखापादनाद्य्-आत्मकं सर्वार्थ-प्रदत्वम् । तथा सहज-शीतलत्वादिना च ध्वनितम् । स्वतः परम-फलत्वम् एव दर्शयन्ति—विरचित- इत्य्-आदिना । संसार-भयाद् अपि प्रपद्यमानानां विरचितम् अभयं सर्वतो भयाभावो येन । अतोऽस्माकं पुनर् विरह-भयं नाशयेति भावः । कान्तं च तत् कामदं चेति स्वतः सर्वार्थ-रूपत्वं सर्वार्थ-प्रदत्वं चोक्तम्, कामदत्वात् । कान्तत्वस्य श्रैष्ठ्येन पश्चान् निर्देशस्याप्य् आदौ निर्देशः । श्री-भागवतामृतोक्त-भक्ति-सिद्धान्तापेक्षया, तात्कालिक-स्वाभिप्रेतानुसारेण वा । अतस् तत्-प्राप्तिर् निज-काम-पूर्तिश् चाभिप्रेता । तच् च सम्भवेद् एवेत्य् आहुः—श्री इति । तद्-दृष्टान्तेनास्मास्व् अप्य् अपेक्षासम्भवाद् इति भावः । यद् वा, श्री-कर-ग्रहम् अपि धेहि । तत्र हेतुः—वृष्णि-धुर्य इत्य् एव । एतद्-अनुसारेणाग्रे मनोरथं कुर्वता अक्रूरेण विस्तार्य वक्ष्यते—अप्य् अङ्घ्रि-मूलं पतितस्य [भा।पु। १०.३८.१६] इत्य्-आदि । तत्र कान्तेत्य् अस्य । यद् वा, इति कामदम् इत्य् अस्य च समर्हणम् इति विस्तरः । परं स्पष्टम् एवेति । एवम् अग्रेऽप्य् ऊह्यम् ।
यद् वा, भयतः शत्रु-भयेन संसृतेर् इतस् तं संसरणात् पलायनात् चरणम् ईयुषां प्रपद्यमानानां जनानां वैरि-विनाशेन विरचिताभयं श्री-कर-ग्रहं श्री-कराः सम्यक्-कर-रेखा-मयाः शङ्ख-चक्रादयः, तान् गृह्णातीति तथा, तद् ऐश्वर्यं विनायम् अर्थः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वानुसारेणैवैश्वर्यं सम्भाव्याहुः—विरचित- इति । विरचिताभयम् इति मोक्ष-प्रदत्वम् उक्तम् । कामदम् इति धर्माद्य्-अर्थिनां सर्वाभीष्ट-प्रदम् इति त्रिवर्ग-प्रदत्वं भक्ति-प्रदत्वं च । श्री-कर-ग्रहम् इति प्रेम्णा प्रिय-जन-वश्यत्वं रसिकत्वं च । एषां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । सरोरुह-रूपकेण सहज-शीतल-मधुरत्वादिना स्वतः फल-रूपत्वं सूचितम् । ततो मोक्षो नाम निर्विघ्न-प्रेम-सम्पद्-वृद्धये विविध-दुःख-परम्परा निवृत्तिर् एव ज्ञेयः । त्रिवर्गोऽयं प्रेम-साधनोपयोग्य् एव । अन्यच् च भक्तानाम् उपेक्ष्यम् एव । एतच् च सर्वं सद्-गुण-वर्णनं प्रेमोल्लासेनैव ज्ञेयम्
ननु तद्-योग्या न यूयम् इति चेत्, सत्यम्, निज-माहात्म्यापेक्षया धेहीत्य् आहुः—वृष्णि-धुर्य इति । हे निजाशेष-माधुरी-प्रकटनाय यदु-विशेष-कुलेऽवतीर्णेति । तच् च भाव-विशेषेण त्वया धेयम् इत्य् आशयेनाहुः—कान्त ! हे प्रियेति । अन्यत् तैः ।
यद् वा, विरचित- इत्य्-आदिना संसार-सम्बन्धि-पाप-हारित्वेन शौर्यम् उक्तम् । कान्तं च तत्-कामदं चेति स्वतः सुखदत्वेन सर्वाभीष्ट-प्रदत्वेन च दातृत्वं श्री-कर-ग्रहं श्रियः सम्पद्-अधिष्ठात्र्याः स्व-गोकुले वशी-कारात् करम् इव गृह्णाति यत्, तद् । इत्य् अनेन सर्व-सम्पद्-आश्रयत्वम् । अतोऽस्माकं विरह-भय-नाशः, तद्-रूपाभीष्ट-प्राप्तिः, तत्-प्राप्त्य्-आनुषङ्गिक-सर्व-सम्पत्-प्राप्तिश् च तेनैव सिध्येद् इति भावः । वृष्णि-धुर्य वृष्णि-विशेष-व्रज-राज-कुल-तिलकेति वयं स्वाभाविक-त्वत्-पाल्या नैवोपेक्ष्या इति भावः । उभयथापि शिरसि धेहि इति तेनास्मान् बाढम् अङ्गीकुरुष्वेति तात्पर्यम् ॥५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : पूर्ववत् तद्-अभिप्रायेणैव विरचिताभयम् [भा।पु। १०.३१.५] इत्य्-आदिकम् अप्य् उक्तम् ॥५॥।
जीव-गोस्वामी (क्रम-सन्दर्भः) : संसृतेर् भयात् तत्-सम्बन्धिनः सर्वस्माद् एव । स्व-गोकुले सर्व-सम्पत्ति-वशी-करणात् श्रियः करम् इव साक्षाद् गृह्णाति यस् त्वम्, तव ॥५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननूक्त-प्रकारेण मत-त्रयेण ये यथा मां वदन्ति, तथैवाहं नान्यथा शङ्कनीयम् इति चेत्, तदैवं क्रियताम् इत्य् आहुः—विरचिताभयम् इत्य्-आदि । हे वृष्णि-धुर्य ! विश्व-गुप्ति-पर ! विश्व-गुप्तये सात्वतां कुले उदेयिवान् [४] इति, विश्व-गुप्ति-निष्ठत्व-पक्षम् आश्रित्य सम्बोधनम् । सर्वासां नो रक्षणं क्रियताम् इति भावः। तद् एव किं प्रकारम् ? तम् आहुः—हे कान्त ! कर-सरोरुहं नः शिरसि धेहि, तदा सर्वा एव वयं जीवाम इत्य् अर्थः । कीदृशम् ? विरचिताभयम् । केषाम् ? ते तव चरणम् ईयुषाम् । कस्मात् ? संसृतेर् भयात्, अभयम् इति यावत् । कीदृशम् ? श्रियो लक्ष्म्याः कर-ग्रहो येन, तत् तथा । श्रियः कर-ग्रहण-मात्र-प्रयोजनम् इति । अस्माकं तु कामदं सर्वाभीष्ट-प्रदम् । शिरसि इति याचक-रीत्या प्रथमतो\ऽल्पम् एव याचनम्, तेन दैन्यं च व्यज्यते ॥५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु केन प्रकारेण युष्मत्-परिपालनं भवेत् ? तत्राहुः—विरचित- इति । पूर्व-संस्कारेण ऐश्वर्यं पुरस्कृत्य स-काकु-दैन्यम् आवेदयन्त्यः प्रार्थयन्ते—विरचित- इति । एवं तावत् प्रार्थना-चतुष्टयं सम्पादयेति । तन्-मध्ये एकां प्रार्थनां निवेदयन्ति—हे वृष्णि-धुर्य ! निज-गुणाविष्कारेणालङ्कृत-यदुकुल नोऽस्माकम् इति कर-सरोरुहं शैत्य-हेतुं कर-कमलं धेहि स्थापय । विरह-ताप-तप्ते शिरसि स्थापनेन सर्वाङ्ग-ताप-निवृत्तिर् भविष्यतीति भावः । हे कान्त ! इति सम्बोधनेनैतत् ज्ञायते तावत् कर-कमल-धारणेन नः स्वाधीना कुर्व् इति । कीदृशम् ? कर-सरोरुहं न केवलम् एतावद् एव, किं तु कामदं भक्तेभ्योऽभीष्ट-प्रदम् ।
ननु आ-कौमारं चरित-ब्रह्मचर्योऽहं कथं स्त्रीणां शिरसि हस्तम् आधास्ये ? इति चेत्, तत्राहुः—श्री-कर-ग्रहम् । तव ब्रह्मचर्यं विदितम् । अनेन परम-रसज्ञत्वं च सूचितम् । चरणम् ईयुषां शरणं प्राप्तानाम् अविशेषेण सर्वेषां विरचितं दत्तम् अभयं येन । किं पुनः ? प्रियाणां शरणागतानां या शरणागता, सैव स्वकीया, तत्-त्यागोऽनुचित ईश्वरस्यापि । वयम् अपि संसृतेः सम्यक् सृतिः शरणम् अभिशरणं यस्मात् संसृतिः कामः, तस्य भयात् ते चरणम् ईयुषां शरणं प्राप्तानाम् अभयं देहि हस्त-धारणेनेति । यथा संसार-भयात् शरणागतानां दुःख-निवृत्तिः फलम्, तथास्माकं काम-ताप-शान्तिः फलम् इत्य् अर्थः ।
यद् वा, कीदृशम् ? कान्तान् कामान् अभिलषितान् अर्थान् ददातीति कान्त-कामदम् । वृष्णि-धुर्य इति गर्ग-वाक्य-प्रामाण्याद् इति सर्वं समञ्जसम् इति । यद् वा, श्री-करः सर्व-सम्पत्-सम्पादको ग्रहो ग्रहणम् आग्रहो वा, यस्य कर-सरोरुहे ग्रहण-मात्रे सर्व-सम्पत् प्रादुर्भवति, किं पुनर् भाव-विशेषेण ? इति तात्पर्यम् । अतः प्रतिश्रुतम् अनुस्मृत्य पालयेति प्रार्थना ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भोः प्रिय-भाषिण्यः ! युष्माकं प्रणय-कोपोक्ति-पीयूष-पानार्थम् एवान्तर्हितः, तद् अधुना लब्धाभीष्टोऽस्मि यथेष्टं वरं वृणुतेति तत्-प्रसादोक्तिं सम्भाव्य साश्वसं पृथक् पृथग् अभीष्टं प्रार्थयन्ते—विरचित- इत्य्-आदि चतुर्भिः । हे वृष्णि-धुर्य ! निज-कुल-कमल-प्रभाकर ! नः शिरसि कर-सरोरुहं धेहि अर्पय । किम्-अर्थम् ? तत्राहुः—कामदं यस्य शर-प्रहार-भयात् त्वां प्रपन्नाः, तं कामं द्यति खण्डयतीति तच्-छेष-भङ्ग्या कामं ददद् अपि । न चात्र तस्याशक्तिर् इति वाच्यम् । यतः संसृतेर् भयात् चरणम् ईयुषां प्रपन्नानां जनानां विरचितम् अभयं येन तत् । येन संसार-भयाद् अपि रक्षितुं शक्यते, तस्य काम-भयाद् रक्षणे कः खल्व् आयासः ? इति भावः ।
ननु तर्हि वो वक्षःसु दधामि, तत्रैव ममापि धित्सा वर्तते ? तत्र नेत्य् आहुः—श्री-कर-ग्रहम् इति । श्रिया लक्ष्म्या कराभ्यां ग्रहणं तद्-धारणार्थं यस्य, तद्-वक्षसि कर-धित्सायां यथा लक्ष्म्या वार्यते, तथैवास्माभिर् अपि तद्-वारणीयम् एवेति भावः ॥५॥
॥ १०.३१.६ ॥
व्रज-जनार्तिहन् वीर योषितां
निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत्-किङ्करीः स्म नो
जल-रुहाननं चारु दर्शय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे व्रज-जनार्तिहन् ! हे वीर ! निज-जनानां यः स्मयो गर्वः, तस्य ध्वंसनं नाशकं स्मितं यस्य तथा-भूत ! हे सखे ! भवत्-किङ्करीर् नोऽस्मान् भज आश्रय । स्म इति निश्चितम् । प्रथमं तावज् जल-रुहाननं चारु योषितां नो दर्शय ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे व्रज-जनार्तिहन् ! वयं किं व्रज-जना न भवाम ? इति सम्बुद्ध्य्-आशयः । तथा-भूत तादृशः । अन्तर्धानेनालम्, तव स्मितम् एव स्त्री-मान-दलन-समर्थम् इति तात्पर्यम् । अभजनेऽस्माकं दुर्दशावत् पश्चात् त्वयापि दुःखम् एव लब्धव्यम्, सख्येन तुल्य-व्यथत्वात् । यद् वा, विश्वास-घात-दोष-प्रसक्तेर् इत्य् आशयेनाहुः—हे सखे ! भज इति । कमल-दर्शनेन भृङ्गवद् अस्मन्-नेत्र-भृङ्गाणां त्वन्-मुखम् एव कमलवत् प्रियम् इत्य् अभिप्रेत्याहुः—जलरुह- इत्य्-आदि । यद् वा, हे योषितां वीर स्त्री-वधे समर्थेति । स्त्री-वधेन शौर्य-प्रकटनं सर्वथानुचितम् । व्याधस्याप्य् अनुकम्प्यानां स्त्रीणाम् [भा।पु। ३.४.३६]11 इत्य्-उक्तेः । विशेषेणेरयति प्रेरयति प्रतिपक्षान् निजानाम् इति वीरः शूरः । रसे शूरे सुते वीरः इति धरणिः ॥६॥
कैवल्य-दीपिका : व्रज- इति । भो वीर ! योषितां मध्ये ये निज-जनास् त्वत्-परिग्रहाः स्त्रियः, तेषां स्मयः प्राण-प्रिया वयम् इति दर्पः । तस्य ध्वंसनं स्मितं यस्य स तथा । भवत्-किङ्करीर् अस्मान् भज । अत्र पाद-चतुष्केऽपि द्वितीयो ज-कारः ॥६॥ [मु।फ। १२.२६]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं शिरसि श्री-हस्त-निधान-मात्रं कार्यम्, किन्त्व् अस्माकं कामश् च पूरयितव्य इति प्राक् सूचितम् एव अत्यौत्सुक्येन अभिव्यञ्जयन्ति—व्रज इति । एतेन भजनस्य योग्यत्वम् उक्तम् । अन्यथा अस्मद्-अन्त्य-दशापत्त्या आर्ति-हननासिद्धिः । वीर इत्य् अदेयस्यापि दाने सामर्थ्यम् उक्तम् । स्मयो मानः । तव स्मित-मात्रेणापि मानो निरस्यते । तद्-अर्थम् अन्तर्धानेनालम् इति भावः । यद् वा, अनेन परम-मनोहरत्वम् अभिप्रेतम् । अतस् तद् अवश्यं द्रष्टुम् अपेक्ष्यते इति भावः । सखे ! इति भजने प्रकार-विशेषः सूचितः । यद् वा, अभजनेऽस्माकं दुर्दशया पश्चात् त्वयापि किल दुःखं लब्धव्यम्, सख्येन तुल्य-व्यथत्वात् । किं वा, विश्वास-घाति-दोष-प्रसक्तत्वाद् इति भावः
ननु तत्र तत्रादरो मे नास्तीति चेत् ? तत्र स-दैन्यम् आहुः—भवतः किङ्करीः इति । दीनानां शरणागतानाम् उपेक्षा परम् अयुक्तेति भावः । यद् वा, तर्हि श्री-बलरामम् अनुगच्छतेति चेत्, तत्राहुः—भवत एव, न त्व् अन्यस्य किङ्करीर् इति जलरुहवद् आननं चारु यथा स्यात्, तथा इति प्रेम्णा स-स्मित-भ्रू-विलास-कटाक्ष-वलितम् । किं वा, निकटागमनेन सम्यक्तया दर्शय इत्य् अर्थः । जलरुहेत्य् उपमया दर्शन-मात्रेण विरह-सन्ताप-हारित्वम् अभिप्रेतम् ।
योषिताम् इति तत्रास्माकं सामर्थ्याभावात् स्वयम् एव कृपया दर्शय इति भावः । यद् वा, अनन्य-जीवनानाम् अस्माकम् अन्यथा मरणम् एवेति । किं वा, त्वद्-दर्शन-सुखस्य योषितां हृदयैकानुभवनीयत्वात्, ताः प्रत्य् एव तद्-दानं योग्यम् इति सूचितम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, योषितां मध्ये ये निज-जनास् त्व् अपरिग्रहाः, स्वीयत्वेन स्वीकृता वा, तेषां स्मय-ध्वंसन-स्मित ! अत एव निज-दासीर् अस्मान् भज । तत्-प्रकारम् एवाहुः—जल- इत्य्-आदिना आप्याययस्व नः [८] इत्य् अन्तेन ।
यद् वा, योषितां वीर हे ! योषिद्-वधे समर्थेत्य् अर्थः । अतो वयं मृत-प्राया एव वृत्तास् तद् अधुना अभवत्-किङ्करीर् अन्या अदासीर् एव भज । चारु जल-रुहाननं च नो दर्शय, मरणस्यैव निश्चितत्वात् । इदं च प्रणय-कोपेन परमार्त्या चोक्तम् । अन्यत् समानम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं वैयाग्र्येण आदाव् अङ्गीकार-मात्रं प्रार्थ्य, अभीष्ट-विशेषान् प्रार्थयन्ते त्रिभिः । तत्र प्रथमेन सामान्यतः सङ्गं प्रार्थयन्ते—व्रज इति । भज अस्माकं दुःखं प्रतिकुर्वन् निकटे तिष्ठ । अहो आस्तां तादृशोऽपि मनोरथः । प्रथमं तावच् चारु मनोहरं जलरुह-तुल्यम् आननम् अपि दर्शय । तत्र व्रज-जनार्ति-हन्न् इति भजनस्य योग्यत्वम् उक्तम्, अन्यथास्मद्-अन्त्य-दशापत्त्या आर्ति-हननासिद्धिः स्यात् । वीर इत्य् अदेयस्यापि दान-सामर्थ्यम् उक्तम् । निज-जनो निज-प्रिय-जनः तव स्मित-मात्रेणापि मानो निरस्यते, तद्-अर्थम् अन्तर्धानेनालम् इति भावः । अनेनैव परम-मनोहरत्वम् अप्य् अभिप्रेतम् । अतस् तद् अवश्यं द्रष्टुम् अपेक्ष्यत इति भावः । सखे ! इति भजने प्रकार-विशेषः सूचितः । यद् वा, अभजनेऽस्माकं दुर्दशया पश्चात् त्वयापि किल दुःखं लब्धव्यं सख्येन तुल्य-व्यथत्वात् । किं वा, विश्वास-घात-दोष-प्रसक्तेर् इति भावः । अथ सख्य-योग्यस्याप्य् आत्मनो विरह-दैन्येन औद्धत्यम् आशङ्क्याहुः—भवतः किङ्करीर् इति योषिताम् इति तत्रास्माकं सामर्थ्याभावात् स्वयम् एव कृपया दर्शय इति भावः । अन्यत् तैः
यद् वा, योषितां मध्ये ये निज-जनास् त्व् अपरिग्रहाः, तेषां स्मय-ध्वंसन-स्मित ! अत एव निज-दासीर् अस्मान् भज । तत्-प्रकारम् एवाहुः—जल- इत्य्-आदिना आप्याययस्व नः [८] इत्य् अन्तेन ।
यद् वा, परमार्त्या प्रणय-कोपेनाहुः—व्रज-जनार्तिहन् ! हे तथा-भूतोऽपि योषितां वीर योषिद्-वधे समर्थेत्य् अर्थः । अतो वयं मृत-प्राया एव वृत्ताः, तथा निज-जन-मुख-लापन-कपट-स्मित ! अधुना अभवत्-किङ्करीर् अन्या अदासीर् एव भज चारु जल-रुहाननं च नो दर्शय, मरणस्यैव निश्चितत्वात् । अन्यत् समानम् ॥६॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : प्रणत-देहिनाम् इति । श्री-निकेतनम् अपि प्रणत-देहि-प्रभृतीनां पाप-कर्षणादि-रूपं । तत एव परम-करुणामयत्वेनावगतम् अस्माकं कुचेष्व् अपि हृच्-छय-कर्तनाय कर्तुम् उचितम् इत्य् अर्थः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु शिरसि करार्पणेनैव चेद् यूयं जीवथ, तदा सर्वा एव नयने निमीलयत, शिरसि वः करम् अर्पयामि । मैवम् इत्य् आहुः—व्रज- इत्य्-आदि । हे व्रज-जनार्तिहन् ! इति हेतुमत् सम्बोधनम् । हे वीर ! सर्व-समर्थ ! तथा सति यथा उपेक्षायां समर्थः, तथापेक्षायाम् अपि । तर्हि किम् अहम् उपेक्षकः ? न, निज-जन-स्मय-ध्वंसन-स्मित ! किङ्करीर् अस्मान् भज ।
ननु भजनं किं श्रमणं सेवनं वा ? नेत्य् आहुः—जलरुहाननं दर्शय, स्व-वदन-दर्शनं हि भजनम् इत्य् अर्थः । योषिताम् इति निर्धारणे षष्ठी, योषितां मध्ये किङ्करीर् न इत्य् अर्थः । अथवा, हे व्रज-जन, व्रजा व्रजस्था एव जनाह् परिजना यस्य । हे योषिताम् आर्तिहन् ! वीर ! इति देशीय-स्निग्ध-सम्बोधनं वा ॥६॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् अभीष्टान् अन्यान् मनसि निधायाहुः—व्रज इति । हे व्रज-जनार्तिहन् व्रज-जनानाम् आर्ति-हन्तृन् ! अनेन सर्व-भजनीयत्वम् उक्तम् इति ज्ञात्वा तव भजने वयं प्रवृत्ता इति भावः । हे सखे ! सख्युः सखा अवञ्चनीयो भवतीति धर्मोपदेशः । भवत्-किङ्करीः दसीर् नो भजनं तत्र तव लज्जा न दोषः । यथा वयं त्वां भजामः, तथा त्वम् अपि भज—ये यथा मां प्रपद्यन्ते तंस् तथैव भजाम्य् अहं [गीता ४.११] इति त्वयैव प्रतिश्रुतत्वात् इति हितोपदेशः । हे वीर ! मधुर-रस-दाने वदान्य ! यद् वा, योषितां वीर अन्ये हि शूराः प्रतिकूलेषु प्रतिभटेष्व् एव वीर-रसम् आविष्कुर्वन्ति, भवांस् तु अस्मास्व् एव वीर-रसं प्रकटयति । वयं मृत-प्राया एवं मृतं मारणं कुर्वन् न लज्जत इति भावः ।
यद् वा, योषितां मध्ये ये निज-जनाः, तेषां स्मयो गर्वः, तस्य ध्वंसनं नाशकं स्मितं यस्य, तस्य सम्बोधनम् । स्मित-मात्रेण मान-निवृत्तौ जातायाम् इदानीम् अन्तर्धानेनालम् इति स्व-भजने सुकरत्वं द्योतयन्ति । स्मित-विलसद्-भ्रू-विक्षेप-निर्मर्दानां दीनानां योषितां तव प्रतिभटी-भवितुम् अशक्तानां तावत् ताप-हरण-शीलं जलरुहाननं चारु यथा भवति, तथा दर्शय इति । अन्य-जलरुहं स्पर्शेन ताप-हरं भवति, इदं तु दर्शन-मात्रेणेति महान् विशेषो दर्शितः ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपरा आहुः—योषितां मध्ये ये व्रज-जनाः, तेषाम् आर्तिं कन्दर्प-शर-प्रहार-जनितां हन्ति इति, तथा तेन देव्य्-आदीनाम् अप्य् अन्य-योषितां तां न हरसि । यद् वक्ष्यते व्योम-यान-वनिताः\॥। कश्मलं ययुर् अपस्मृत-नीव्यः [भा।पु। १०.३५.३] इति । हे वीर ! दुर्वार-मार-सम्प्रहार-महा-जिष्णो ! किं च, अस्माकं सौभाग्यार्थं गर्वं तद् दुःखं वाम-लक्षणं मानम् अपि न सहसे इत्य् आहुः—निज-जनानां स्मय-ध्वंसनं मान-नाशकं स्मितम् अपि यस्य ।
ननु, वरं शीघ्रं वृणुत । तत्राहुः—भवत्-किङ्करीर् अस्मान् भज परिचर । ननु, यदि मत्-किङ्कर्य एव यूयं, तदा मां स्व-परिचरणे किम् इत्य् आज्ञापयध्वे ? तत्राहुः—हे सखे ! इति । तर्हि ब्रूत, किं वः परिचरणम् ? तत्राहुः—जलरुह- इत्य्-आदि ॥६॥
॥ १०.३१.७ ॥
प्रणत-देहिनां पाप-कर्शनं
तृण-चरानुगं श्री-निकेतनम् ।
फणि-फणार्पितं ते पदाम्बुजं
कृणु कुचेषु नः कृन्धि हृच्-छयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविशेषेण प्रणताणां देहिनां पाप-कर्शनं पाप-हन्तृ ! तृण-चरान् पशून् अप्य् अनु गच्छति कृपयेति तथा सौभाग्येन श्रियो निकेतनं वीर्यातिरेकेण फणिनः फनास्व् अर्पितं ते पदाम्बुजं नः कुचेषु कृणु कुरु । किम्-अर्थम् ? हृच्छयं कामं कृन्धि छिन्धि ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं कर-निधानेनैव कृतार्थाः, किन्तु स्तन-प्रदेशे चरण-स्पर्शम् अपि इच्छाम इत्य् आहुः—प्रणत- इति । वीर्यस्य अतिरेकेण आधिक्येन ॥७॥
कैवल्य-दीपिका : प्रणत- इति । तृण-चरा गावः । निकेतनम् आश्रयः । फणी शेषः कालीयश् च । कृणु कुरु । कृन्धि छिन्धि । हृच्-छयम् कामम् । अत्र द्वितीयो न-कारः ॥७॥ [मु।फ। १२.२७]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च ते तावकम् असाधारणम् । किं वा, त्वदीयानाम् अस्माकं कुचेषु कृणु निधेहीत्य् अर्थः । पापं संसार-दुःखं परमोत्कट-व्यसनं वा । तृण-चराणुगम् इति सर्व-व्रज-पशु-वर्ग-पालकत्वेन कृपालुत्वम् । एवं चतुर्भिर् विशेषणैः पाप-हन्तृत्वादिकम् उक्तम् ।
ननु किं तत्-तद्-अर्थम् एवेष्यते ? नेत्य् आहुः—हृच्छयं कृन्धि इति । अस्माकम् एतद् एव प्रयोजनं तत्-तद्-अशेषम् एतद् अनुगम् एवेति भावः । तत् तच् च स्व-भक्तार्थं किञ्चिद् आत्मार्थे च किञ्चिद् इति यथा-योग्यं विवेचनीयम् । अम्बुज-रूपकेण पूर्वोक्त-सरोरुह-रूपकवत् [५] सर्व-साधनत्वं परम-साध्यत्वं च ध्वनितम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ननु निर्भयाः ! पापाद् अहं बिभेमि । तत्राहुः—प्रणत- इति । सकृत्-प्रणाम-कारिणाम् अपि यथा-कथञ्चिच् छरणागतानाम् अपि वा, सर्व-प्राणिनां पाप-हन्तृ कुतस् तव पाप-शङ्का ? इति भावः । किं वा, मदादिना सागःसु युष्मासु तद् आचरणम् अयुक्तम् इति । तत्राहुः—प्रणत- इति । त्वत्-प्रणतानाम् अस्माकम् आगो नश्येद् एवेति भावः ।
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥12 इत्य्-आदि-वचनात् ।
ननु तथापि परम-क्रूरेषु मृदुलतरं तद्-दुःख-शङ्कया कर्तुं न शक्यते ? तत्राहुः—तृण- इति । पशु-सङ्गत्या वने वने भ्रमणाद् इदं नाधिकं दुःखम् इति भावः ।
यद् वा, अनभिज्ञाभिर् युष्माभिः सङ्गो मेऽनर्ह एव । तत्राहुः—तृण- इति । तृणान्य् एव, न त्व् अग्रतो न्यस्तानि शर्करादीन्य् अपि चरन्तीति परमाज्ञता सूचिता । पशव इव वयम् अप्य् अनुकम्प्या इति भावः ।
ननु सुष्ठु शोभनेषु युष्माकं स्तनेषु कथं पादार्पणं कर्तुं युज्यते ? इत्य् अत आहुः—श्री- इति । सर्वातिशायि-शोभास्पदत्वाद् अलङ्करण-वर्यम् एव भावीत्य् अर्थः ।
ननु तथापि भीरु-स्वभावत्वात् युष्मत्-पतिभ्यो बिभेमि ? तत्राहुः—फणि- इति । यद् वा, फणि-फणार्पितत्वेन विषाद्य्-अनर्थ-ध्वंसनत्वम् उक्तम् । ततो विषोपम-हृच्-छयम् अपि हृदि पदार्पनेन कृन्धि इति भावः ।
शिरसि [भा।पु। १०.३१.५] इति पूर्वं सर्वासाम् ऐक्याभिप्रायेणोक्तम् । मूर्ध्नि करार्पण-मात्रेण सापत्न्य-विशेषानुदयात् । अधुना च स्तनेष्व् इति बहुत्वेन प्रत्येकं तेषु कर-धारणम् अभिप्रेतम् । अत्र रस-विशेषेण सापत्न्य-सम्भवात् । अतोऽन्योन्यं भेदानुत्पत्तये सर्वासाम् एव प्रत्येकं युगपद् विशेषेण तत् कार्यम् इति भावः । हृच्छयम् इति अदृश्यस्य तद्-रोगस्य तथैव प्रतिकार्यत्वात् । अन्यत् समानम् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ द्वितीयेन हृदयान्तरङ्ग-तद्-विरह-ताप-शान्तये प्रलेपौषधम् इव प्रथमं हृदय-बहिर् एव तद्-अङ्ग-सङ्गं प्रार्थयमाना दैन्येन तच्-छ्रवण-मात्रस्यैव सङ्गं तद्-गुणानुवाद-पूर्वकं प्रार्थयन्ते—प्रणत- इति । सकृत् प्रणाम-कारिणाम् अपि यथा कथञ्चिच् छरणागताणाम् अपि नलकूवर-कालियादीनां प्राणिनां पाप-हन्तुः कुतस् तव पाप-शङ्का ? इति । किं वा, मदादिना सागःसु युष्मासु तद्-आचरणम् अयुक्तम् इति चेत्, तत्राहुः—प्रणत- इति । कालियादिवत् त्वत्-प्रणतानाम् अस्माकम् आगो नश्येद् एव ।
ननु तथापि परम-क्रूरेषु मृदुलतरं तत् कर्तुं न शक्यते ? तत्राहुः—तृण- इति । तृणान्य् एव न त्व् अग्रतो न्यस्तानि शर्करादीनि अपि चरन्तीति परमाज्ञया सूचिता । पशव इव वयम् अनुकम्प्या इति भावः ।
ननु सुष्ठु शोभनेषु युष्माकं स्तनेषु कथं पादार्पणं कर्तुं युज्यते ? इत्य् अत आहुः—श्री- इति । सर्वातिशायि-शोभास्पदत्वाद् अलङ्करण-वर्यम् एव भावीत्य् अर्थः ।
ननु भीरु-स्वभावत्वात् युष्मत्-पतिभ्यो बिभेमि ? तत्राहुः—फणि- इति । एतेन विषाद्य्-अनर्थ-ध्वंसनत्वात् विषोपम-हृच्-छय-ध्वंसन-योग्यताप्य् उक्ता । एवं चतुर्भिर् विशेषणैः पाप-हन्तृत्वादिकम् उक्तम् ।
ननु तत्-तद्-अर्थम् एवेष्यते ? नेत्य् आहुः—हृच्-छयं कृन्धि इति । अस्माकम् एतद् एव प्रयोजनम् इति भावः । यत् ते सुजातं [भा।पु। १०.३१.१९] इति रीत्या हृच्छयोऽप्य् अयं स्नेह-मयत्वेनैव स्थापयिष्यते । शिरसि [भा।पु। १०.३१.५] इति पूर्वम् एक-वचनं दैन्येनैकस्मिन्न् अपि कर-धारणात् सर्वा एव वयम् अङ्गीकृताः स्यामेति । अधुना तु कुचेष्व् इति बहुत्वं प्रत्येकं लोभेन कियत् किञ्चित् सम्बन्धेन पर्याप्तत्वाद् दैन्यस्य तेनापर्याप्तत्वात् प्रत्येकं लोभस्येति ॥७॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : प्रणत-देहिनाम् [भा।पु। १०.३१.७] इति । श्री-निकेतनम् अपि प्रणत-देहि-प्रभृतीनां पाप-कर्षणादि-रूपं । तत एव परम-करुणामयत्वेन अवगतम् अस्माकं कुचेष्व् अपि हृच्-छय-कर्तनाय कर्तुम् उचितम् इत्य् अर्थः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु मद्-वदन-दर्शनेनैव चेत् कृतार्थाः स्थ, तदा प्राग् एव दृष्टम् । तत् किं पुनर् उत्कण्ठध्वे ? इति चेत्, न केवलं ते वदन-दर्शनम् एव नो\ऽभिलषितम्, अपि तु तव पदाम्बुजं स्तनयोः कर्तुम् ? इत्य् आहुः—प्रणता इत्य्-आदि । ते तव पदाम्बुजं नो\ऽस्माकं कुचेषु कृणु कुरु । तदा किं भविष्यति ? इत्य् आशङ्क्याहुः—हृच्-छयं हृत्-तापं कृन्धि ।
ननु मत्-पदाम्बुजस्य हृच्-छय-च्छेत्तृता क्व प्रसिद्धा ? तत्राहुः—प्रणत-देहिनां पाप-कर्षणम् । पाप-कर्षणतो नाधिको हृच्छय-च्छेदः, तस्यागन्तुकत्वात् ।
ननु ते प्रणता इति तथा क्रियते ? नैतद् अपि । यतस् त्र्ण-चरानुगं तृण-चराणां पशूनाम् अप्य् अनुगम् । एवम् एव तस्य साहजिकम् एव कारुणिकत्वम् ।
ननु कुङ्कुमादि-पङ्किलेषु परम-मनोज्ञेषु वः स्तनेषु पदार्पणम् अनुचितम् एव ? नेत्य् आहुः—श्री-निकेतनं शोभास्पदम् । तत्-सम्पर्काद् अस्माकं स्तनयोः कमलाच्छादित-कनक-पूर्ण-कुम्भवच् छोभातिशयो भावी ।
ननु सत्यं ब्रवीमि, कठिनेषु वः स्तनेषु कमल-कोमले पदे कथम् अर्पयितव्यः ? इत्य् अत आहुः—फणि-फणार्पितम् । फणिनः कालियस्य मणिभिः कठोरासु फणास्व् अर्पितम्, तत् कथं शङ्का ? इत्य् उपसंहारः ॥७॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं वाञ्छितान्तरां प्रार्थ्यमानं विरह-ताप-शान्तये अङ्ग-सङ्गं ह्र्डि विधाय तच्-चरण-स्पर्श-मात्रम् एव, भिक्षु-पाद-प्रसारिका-न्यायेन प्रार्थयन्ते—प्रणत- इति । ते तव पदाम्बुजं नोऽस्माकं कुचेषु कृणु स्थापय ।
ननु उच्चरित-ब्रह्मचर्योऽहं पाप-भिया भवतीनां कुच-स्पर्शं पादेनापि नाकरेयम् इति चेत्, तत्राहुः—प्रणत-देहिनां सागस्कानाम् अपि शरणागतानां देहिनां प्राणिनां पाप-कर्शनं पाप-निरसन-समर्थं, कुतस् त्वयि पाप-शङ्का ? इति भावः । सागस्कानां तद् एव फलं यद्य् अस्मासु पाप-शङ्का, तर्हि तद्-अपगमाय निहित-तात्पर्यम् । तृण-चरानुगं पर-कृपालुतया तृण-चरान् पशून् अप्य् अनुगच्छति, तद् यथा गवां तृण-भक्षणम् एव मुख्यं प्रयोजनं, तथास्माकम् अपि ताप-शान्ति-फलम् इति । नैतावता तव काचित् क्षतिर् भवेद् इति । अयम् अभिप्रायः—यथा ज्ञान-शून्यानां पशूनाम् अनुगमनं कृतं, तथानभिज्ञानाम् अप्य् अस्माकम् अनुवृत्तिः कृपया कर्तव्येति ।
ननु भवतीनां वक्ससि पादार्पणेन को वा लाभो युष्माकं भविष्यति ? इति चेद्, अतः आहुः—श्री-निकेतनं स्थानम् इत्य् अर्थः । त्वच्-चरणार्पणेन अस्माकं सौभाग्य-लाभो भविष्यति । तव च अस्मत्-कुच-स्थापनेन रसिकेन्द्रता भविष्यतीति ।
ननु मान-गरल-दिग्धेषु भृशं तप्तेषु कोमलस्य मच्-चरणस्य स्थापनम् अयुक्तम् ? इति चेत्, तत्राहुः—फणि-फणार्पितम् इति । न हि कालिय-फणाभ्योऽप्य् अर्ति-तप्ताः क्रूरा अस्मत्-कुचा इति । यथातीव-गरलाग्निना सन्दग्धाः कालिय-फणाः रमित्वा स्वकीयाः कृताः, तथा मानोन्नता अस्मत्-कुचा अपि सम्मर्दनेन दमित्वा तापोपनोदन-द्वारा स्वकीया कर्तव्या इति ।
पाद-स्पर्शस्य मुख्यं प्रयोजनम् आहुः—कृन्धि हृच्छयम् इति । दृश्यते रोगो बहुभिर् औषधैः प्रतीकार्यो भवति, अयं रोगः हृच्छयः केनाप्य् औषधेन प्रतीकार्यो न भवति । चरण-स्पर्श-मात्रेण निवृतो भविष्यतीत्य् अर्थः ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपरा आहुः—प्रणत- इति । कुचेषु पदाम्बुजं कृणु अर्पय । किम्-अर्थम् ? हृच्-छयः कामं कृन्धि छिन्धि । अत्राभिः असमर्थ-रतिमत्त्वेन महा-प्रेमवतीभिः स्वीय-दुःखापाय-सुख-प्राप्ति-ज्ञान-रहिताभिः श्री-कृष्ण-सुखैक-प्रयोजनक-कायिक-वाचिक-मानस-व्यापाराभिस् तस्यैव सौरत-सुखोद्दीपनार्थम् एव स्वीय-रूप-यौवन-काम-पीडां विवृण्वतीभिः परम-विदग्धाभिः प्रायः प्रेम्नो वाङ्-निष्ठता-लाघवं न क्रियते, किन्तु कामस्यैव यथा भोजन-लम्पटं कञ्चित् स्व-मित्रं बुभुक्षम् अभिलक्ष्य स्नेहेन तं भोजयितु-कामः चतुर्विध-मिष्टान्न-साधने प्रयतमानो जनस् तेन पृष्टोऽपि "स्वार्थम् एवाहं प्रयास्यामि, न त्वद्-अर्थम्" इति ब्रूते, तद् एव प्रेमा गुरुर् भवति । यदि त्व् एतावान् ममायासस् त्वत्-सुखार्थम् एव, मम तु स्वार्थं निष्कामत्वाद् इति ब्रूते, तदा प्रेम लघु भवति । यद् उक्तं प्रेम-सम्पुटे—
प्रेमा द्वयो रसिकयोर् अपि दीप एव
हृद्-वेश्म भासयति निश्चलम् एव भाति ।
द्वाराद् अयं वदनतस् तु बहिष्कृतश् चेन्
निर्वाति शीघ्रम् अथवा लघुताम् उपैति ॥ [प्रेम-सम्पुट ६८] इति ।
तत्रासां स्व-सुख-तात्पर्याभावो न पारयेऽहम् [भा।पु। १०.३२.२२] इति भगवद्-वाक्याद् एव स्व-वशीकार-व्यञ्जकाद् अवसीयते । तस्य प्रेमैक-वश्यत्वम् एव सर्व-शास्त्र-दृष्टम्, न तु काम-वश्यत्वम् इति ज्ञेयम् ।
ननु पापाद् बिभेमि ? तत्राहुः—प्रणतानां देहिनां पाप-नाशकं तव कुतः पाप-शङ्का ? इति भावः ।
ननु च कठोरेषु युष्मत्-कुचेषु सुकुमारं मत्-पदाम्बुजं व्यथिष्यते? तत्राहुः—तृण-चरानुगं तृण-चरा गावः, तासाम् अप्य् अनुगच्छति । गावो हि कठोर-स्थलेऽपि घासं चरन्ति । यदि तत्रापि त्वच्-चरणस्य सहिष्णुता, तर्हि किम् उतास्मत्-कुचेषु कुच-काठिन्यं ? प्रत्युत तस्य सुखदम् इति भावः ।
ननु नाना-रत्नालङ्कार-मण्डितानां युष्मत्-कुचानाम् उपरि पादार्पणम् अनुचितम् ? तत्राहुः—श्रियः शोभायाः निकेतनम् इति कुचानाम् अलङ्कार-वर्यम् एवैतद् भविष्यतीति भावः ।
ननु युष्मत्-पतिभ्यो बिभेमि ? तत्राहुः—फणिनौ फणेषु अर्पितं त्वं कालिय-नागाद् अपि न बिभेषि, किम् उत तेभ्य इति भावः ॥७॥
॥ १०.३१.८ ॥
मधुरया गिरा वल्गु-वाक्यया
बुध-मनोज्ञया पुष्करेक्षण ।
विधि-करीर् इमा वीर मुह्यतीर्
अधर-सीधुनाप्याययस्व नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे पुष्करेक्षण ! तवैव मधुरया गिरा वल्गूनि वाक्यानि यस्यां, तया बुधानां मनोज्ञया हृद्यया गम्भीरयेत्य् अर्थः । मुह्यतीर् इमा नो विधि-करीः किङ्करीर् अधर-सीधुना आप्याययस्व संजीवयेति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—मधुरा तु बालानाम् अपि वाग् अस्ति, सा बुध-मनोज्ञा न भवति । इयं तु बुध-प्रिया गम्भीरार्थम् इति भावः । विधिं विधानं कुर्वतीति विधि-कर्यस् ताः । विधिर् नानियतौ काले विधाने परमेष्ठिनि इति मेदिनी । शेतेऽनेनेति शीधु मध्यम् अमृतं वा शीधु-पीयूष-मद्ययोः इति धरणिः । अधर-निष्ठामृतेनेत्य् अर्थः । पुष्करेक्षण इत्य् आकाश-वद् व्यापक-दृष्टेस् तवास्माकं दर्शनं कथं नेत्य् अभिप्रायः । पुष्करं सर्वतोद्ययोः इत्य् अमरादयः ॥८॥
कैवल्य-दीपिका : मधुरया इति । वल्गूनि वाक्यानि यस्याम् । बुध-मनोज्ञया विदग्ध-हृदय-हारिण्या । विधि-करीर् आज्ञा-करीः, "न भवतीभ्यो ममान्यत् प्रियतमम् अस्ति" इत्य् एवं-रूपया मृषा वाचा विमोहिता इत्य् अर्थः । सीधुना अधरामृतेन । अत्र ध-कारो द्वितीयः ॥८॥ [मु।फ। १२.२८]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च अधर-सीधुना अस्मान् आप्याययस्व, अन्यथा सद्य एव म्रियेमहीति भावः । कुतः? तव गिरा स्मर्यमाणया "नहि भवतीभ्यो ममान्यत् प्रियतमं कुत्रापि किञ्चिद् अस्ति" इत्य्-आदि-लक्षणया मुह्यतीः, मोहस्यान्त्य-दशानुगतत्वात् । विरहेण सीध्व्-अप्राप्त्या जनितस्य मोह-रागस्य वैद्य-शास्त्रोक्त-निदान-विपर्यय-न्यायेन तत्-प्राप्त्यैवोपशमः सिध्येत्, न त्व् अन्यथेति भावः । तच् च युक्तम् एवेत्य् आह—विधि-करीस् त्वद्-आज्ञा-कारिणीः ।
गिरो मोह-हेतुत्वं दर्शयन्ति—मधुरया अमृतवन् मिष्टया । यद् वा, मधु मद्यम् एव साक्षाद् इव राति ददातीति तया, इति परम-मादकत्वम् उक्तम् । कथम् ? तद् आहुः—वल्गूनि अर्थस्य प्रियत्वादिना शब्दस्य च सद्-वर्ण-बन्धादिना मनोहराणि वाक्यानि यस्यां, तया । अतो बुधानां विदग्धानां चित्ताकर्षिण्या इति श्रोत्र-मनः-प्रियत्वम् उक्तम् । इमा इति मोहस्य प्रत्यक्षत्वादिना असन्दिग्धत्वं तत्-कालीनत्वं चोक्तम् ।
ननु वाङ्-मात्रेण कथं मोहः स्यात् ? तत्राहुः—वीर ! हे महा-सामर्थ्य-युक्तेति । त्वद्-गिरोऽपि तादृशत्वाद् इत्य् अर्थः । यद् वा, कथम् अदेयं तद् दातव्यम् इत्य् अत आहुः—हे वीर ! दया-वीर दान-वीरेति वा । पुष्करेक्षण ! हे परम-सुन्दरेत्य् अर्थः । उक्त्य्-अवसरे सुन्दर-दृष्ट्य्-आदिना गिर एव विमोहनम् अधिकम् अभिप्रेतम् । तथा च कर्णामृते—
पर्याचितामृत-रसानि पदार्थ-भङ्गी-
वल्गूनि वल्गित-विशाल-विलोचनानि । [कृ।क। ३३] इति ।
अन्यत् तैर् व्याख्यातम् । यद् वा, गिरा मुह्यतीः । अत एव विधि-करीः दासीत्वं गताः, मोहेन विवेकापगमात् । यद् वा, गिरैव विधि-करीः, अधुना विरहार्त्या इमा मुह्यतीः ।
अ-कार-प्रश्लेषेण अबुधानाम् अपि, किम् उत विदग्धानाम् । यद् वा, बुधानां ज्ञानिनाम् अपि, किं पुनर् भक्तानाम् ? किं वा, बुधानां पण्डितानाम् अपि, किम् उताबुधानाम् अस्माकं मनोज्ञया ? अन्यत् समानम् । अथवा मधुरया श्रोत्र-मात्र-प्रिययेत्य् अर्थः । वस्तुतस् तु अवल्गु-वाक्यया अबुध-मनोज्ञया, तथापि विधि-करीः । कुतः ? इमाः त्वत्-प्रेम-हत-विचारा गोपीः, अत एव त्वद्-अधर-सीधुं प्रति त्वद्-अर्थं मुह्यतीर् नाप्यायय न स्वस्थय, किन्तु मारयेत्य् अर्थः । तद् एवाविवेकिनीनाम् अस्माकम् उचितम् इति भावः । एषा प्रेमार्ति-भरोक्तिः ॥।८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तन्-मुख-सौरभ-निभ-तद्-भाषित-विशेष-जनित-तत्-पानेच्छात्मकस्य मोह-पर्यन्त-दशा-गामिनस् तापस्य पुनर् अन्य-दुश्चिकित्स्यताम् आशङ्कमानास् तस्मिन्न् एवाङ्ग-सङ्गे पेयौषधम् इवान्तरं च सङ्गमनीयं तन्-मुख-सुधाकर-सुधा-रसम् अपि प्रार्थयन्ते—मधुरय इति ।
अधर-सीधुना अस्मान् आप्याययस्व, अन्यथा सद्य एव म्रियेमहीति भावः । कुतः? तव गिरा स्मर्यमाणया स्वागतं वो महा-भागा [भ।पु। १०.२९.१८] इत्य्-आदि लक्षणया ।
कठोरा भव मृद्वी वा प्राणास् त्वम् असि राधिके !
अस्ति नान्या चकोरस्य चन्द्र-लेखां विना गतिह् ॥
इत्य्-आदि लक्षणया वा यया कयाचिद् वा । मुह्यतीः अन्त्य-दशानुगं मोहं प्राप्तवतीः । कीदृश्या गिरा ? मधुरया स्वर-विशेषेण वर्ण-विन्यास-विशेषेण प्रेम-मृदुतया प्राणि-मात्राणां रुचिरतया । तथा वल्गूनि आकाङ्क्षा-योग्यतासत्ति-सौष्ठववन्ति वाक्यानि सुप्तिङ्-अन्त-वर्गा यत्र तादृश्या । तथा बुधानाम् अर्थ-ज्ञानां मनोज्ञया अभिधा-लक्षणा-व्यञ्जनादि-वृत्ति-प्रतिपादित-वस्तु-रस-भावालङ्कारार्थ-गाम्भीर्येणानन्द-प्रदया । इमा इति प्रत्यक्षत्वादिना असन्दिग्धत्वं तत्-कालीनत्वं च मोहस्योक्तम् ।
कथम् अदेयं दातव्यम् ? इत्य् अत आहुः—हे वीर ! दया-वीर दान-वीरेति वा । पुष्करेक्षण इति उक्तावसरे स-स्मित-विलास-सुन्दर-दृष्ट्यादिना गिरि एव विमोहनत्वम् अधिकम् अभिप्रेतम् । तथा च कर्णामृते—
पर्याचितामृत-रसानि पदार्थ-भङ्गी-
वल्गूनि वल्गित-विशाल-विलोचनानि । [कृ।क। ३३] इति ।
अन्यत् तैः । यद् वा, गिरा मुह्यतीः । अत एव विधि-करीः दासीत्वं गताः मोहेन विवेकापगमात् । यद् वा, गिरैव विधिकरीः, अधुना विरहार्त्या इमा मुह्यति इति ॥८॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २९१) : तत्र मोहनत्वं द्विविधं—स्वरूप-कृतं दुष्कर-क्रिया-कृतं च । तद् उभयम् अपि तत्-तद्-विशेषणैर् व्यक्तम् । तथा—मधुरया गिरा इति । मधुरया इति स्वरूप-माधुर्यं, वल्गु-वाक्यया इत्य् अर्थ-माधुर्यं, बुध-मनोज्ञया इति बुधानां तादृश-भावाभिज्ञानाम् एव मनोज्ञयेति भाव-विशेष-माधुर्यं व्यञ्जितम् ॥८॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : हृच्-छय-निदानं तद्-अनुरूपं प्रतीकारान्तरं चाहुः—मधुरया इति । नूनं यत् सौरभ्य-दिग्धतयैव तव गीर् मधुरा मनो मोहयति, तद् एव अधर-सीधु भवेद् अत्रौषधम् इत्य् अर्थः । अहो तव अधर-सीधु तादृश-पुण्य-हीनाभिः कथं सुलभं स्यात् ? यतः सा मधुरा गीर् अप्य् अस्तु दूरे ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भवत्यो\ऽनियत-वचसः प्राग् उक्तं कर-सरोरुहं शिरसि धेहि [भा।पु। १०.३१.५] । ततश् च जल-रुहाननं दर्शय [भा।पु। १०.३१.६] इति । ततश् च, पदाम्बुजं कृणु कुचेषु [भा।पु। १०.३१.७] इति निश्चित्य कथ्यताम् । तद् एव करोमीति चेद् ब्रूम इत्य् आहुः—मधुरया इत्य्-आदि । हे पुष्करेक्षण ! कमल-लोचन ! मुह्यतीर् मोहं प्राप्नुवतीर् इमा विधि-करीः किङ्करीर् अस्मान् अधर-सीधुना अधर-मधुना आप्यायस्व जीवय । अधर-मधु पाययित्वा तद् अर्पयेति यावत् । न च तत्र तूष्णीकेन त्वयाधरः पाययितव्यः, किन्तु मधुर-कथा-पूर्वकम् इत्य् आहुः—मधुरया गिरा । "मा मोहं व्रजत, पिबत पिबताधरम्" इति कोमलेन वचसा । विशेषणे तृतीया ।
कीदृश्याः ? वल्गु सुन्दरं वाक्यम्, आकाङ्क्षादिमत् पद-कदम्बं यत्र, तथा-भूतस्यैव शब्दस्य प्रामाण्यात् । अत एव बुधानां पण्डितानाम्, विदग्धानाम् इति यावत्, मनोज्ञया रुचिरया । इत्य् एवायम् अवधिर् नापरं याचितव्यम् इति ॥८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इतोऽपि सर्वोत्तमम् अवधि-भूतम् अधरामृत-पानं प्रार्थयन्ते—मधुरया इति । हे पुष्करेक्षण ! कमलवत्-सन्ताप-हर-विलोचन ! तवैव पूर्वानुभूतया मधुरया गिरा मुह्यतीर् इमा गोपीर् आप्याययस्व संजीवय, मोहस्य मरण-पूर्वावस्था-रूपत्वात् । तद् उक्तं—आपद्-भीति-वियोगाद्यैर् मोहश् चित्तस्य मूढता [रसार्णव-सुधाकर २.५५] इति । उपेक्षया सद्यो म्रियेरन् इत्य् अर्थः । संजीवनं केन स्म धनेन ? इत्य् अपेक्षायाम् आहुह्—अधर-सीधुना इति ।
कीदृश्या गिरा ? मधुरं रसं राति ददातीति मधुरा, तया । यद् वा, अमृतवन् मिष्टया । तत्र हेतु-गर्भ-विशेषणम्—वल्गूनि मनोहराणि वाक्यानि यस्याः, तया । बुधानां शब्द-तात्पर्याभिज्ञाणां मनोज्ञया सद्यश् चित्ताकर्षिण्या गिरा सम्मोहितानां मरणस्यावश्यं भावित्वात् । दुष्कीर्ति-परिहाराय अधरामृत-दानेन सञ्जीवयेति । हे वीर ! रसस् तु द्वैध्यं दाने युद्धे चोत्साहे वर्धयति । दाने शूरत्वं तदा कार्पण्यम् अकुर्वन् अधरामृत-दानेन देहि इति । युद्ध-शूरश् चेत् त्वम् असि, तर्हि जीवमानं प्रतिभटम् अन्वेषय, अन्यथा गिरा मोहितानां मृत-प्रायाणाम् अस्माकं मारणे स्त्री-वध-जनित-पातकं ते सञ्चारश् च भविष्यतीति तात्पर्यार्थः ।
कीदृशीः नः ? विधि-करीः । तदा वस्त्र-हरणे त्वद्-आज्ञा उ विधायित्वम् । त्वया दृष्ट-चरम् एव । यद् वा, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिधासितव्यः [बृ।आ।उ। २.४.५] इति श्रुत्य्-अर्थः सम्पादनं कर्तॄर् इति वेदाज्ञा-विधायिनीषु आत्मोपासन-परास्व् अस्मासु वञ्चन-परेण न भाव्यम् इति ।
यद् वा, पूर्वानुभूतेनेदानीं स्मर्यमाणेन अधर-सीधुना मुह्यतीर् इमः त्वां मृग्यमाणा गोपीर् अधुना मधुरया गिरा वल्गु-वाक्यया आप्याययस्व वाणीं श्रावयित्वा जीवयेति । कीदृशीः ? तवैव पूर्वानुभूतया गिरा विधि-करीः दासीः, तद् एव स्मरयन्ति, बद्ध्वाञ्जलिं मूर्धन्य् अपनुत्तयेऽऽंहस [भा।पु। १०.२२.१९] इति, मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति प्रतिश्रुतार्थ-रूपया आशा-बन्धात्मिकया विधि-करीर् जाताः । नः अधुना प्रतिश्रुतार्थ-सम्पादिकया गिरा संजीवयेति प्रार्थना । अन्यद् विशेषेण जातं समानं व । किं च, आचिकित्स्ये रोगे महा-मन्त्र-रूपया गिरा उप समीपे महा-दिव्य-रस-रूपेण अधर-सीधुना पाययित्वा संजीवयेति । अचिन्त्यो हि प्रभावो मणि-मन्त्रौषधीनाम् इत्य् उक्तत्वात् ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "भो भो मत्-प्राणैक-वल्लभाः ! रत्न-वल्लभाः जीवातु-भूतासु भवतीषु नाहम् उदासे । दासे मयि सन्तत-हेम-प्रेम-हेम-शृङ्खला-निबद्धे कथम् अविश्वस्ताः ? विश्वस्ता भवत । भावत्कं कङ्कणम् इव शस्तां हस्ताङ्क-गतम् एव मां जानीत" इति स्फूर्ति-प्राप्तं तद्-वाक्यम् आकर्ण्य अपरा आहुः—मधुरया इति ।
मधुरया माधुर्य-व्यञ्जक-वर्ण-घटितत्वात् सुश्रव्यया वल्गूनि मञ्जुल-पदार्थ-वैचित्रीकाणि वाक्यानि यस्यां, तया बुधानां विदग्धानां मनोज्ञया मनो-जनितया गिरा विधि-करीः किङ्करीः नः इमा मुह्यतीः तन्-माधुर्यास्वाद-भराद् आनन्द-मोहं प्राप्नुवतीः पुनर् अधर-सीधुना आप्यायस्व । यद् वा, मोहं प्राप्नुवतीर् नः अधर-सीधुनापि पाययस्व पुनर् मोहं प्रापयस्वेत्य् अर्थः ॥८॥
॥ १०.३१.९ ॥
तव कथामृतं तप्त-जीवनं
कविभिर् ईडितं कल्मषापहम् ।
श्रवण-मङ्गलं श्रीमद्-आततं
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अस्माकं त्वद्-विरहे प्राप्तम् एव मरणं, किन्तु त्वत्-कथामृतं पाययद्भिः सुकृतिभिर् वञ्चितम् इत्य् आहुः—तव इति । कथा एव अमृतम् । अत्र हेतुः—तप्त-जीवनम्। प्रसिद्धामृताद् उत्कर्षम् आहुः—कविभिर् ब्रह्मविद्भिर् अपि ईडितं स्तुतम् । देव-भोग्यं त्व् अमृतं तैस् तुच्छीकृतम् ।
किं च, कल्मषापहं काम-कर्म-निरसनम् । तत् त्व् अमृतं नैवं-भूतम् । किं च, श्रवण-मङ्गलं श्रवण-मात्रेण मङ्गल-प्रदम् । तत् त्व् अनुष्ठानापेक्षम् । किं च, श्रीमत् सुशान्तम्, तत् तु मादकम् । एवं-भूतं त्वत्-कथामृतम् आततं यथा भवति तथा ये भुवि गृणन्ति निरूपयन्ति, ते जना भूरिदा बहु-दातारः । जीवितं ददतीत्य् अर्थः ।
यद् वा, एवं-भूतं त्वत्-कथामृतं ये भुवि गृणन्ति, ते भूरिदाः पूर्व-जन्मसु बहु दत्तवन्तः सुकृतिन इत्य् अर्थः । एतद् उक्तं भवति—ये केवलं कथामृतं गृणन्ति, तेऽपि तावद् अतिधन्याः, किं पुनर् ये त्वां पश्यन्ति, अतः प्रार्थयामहे त्वया दृश्यताम् [२] इति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आहुः—किं च इति वञ्चितम् । विश्वम् इति शेषः । वैपरीत्याद् इत्य् अर्थः । अत्र अमृतत्वे । तप्तानां संसार-ताप-सन्तप्तानां जीवनं जलवत् सन्ताप-हरम् । उत्कर्षम् आधिक्यम् । न केवलं स्तुतम् एवापि तु क्लेश-हरम् इत्य् आह—किं च इति । तत् तु प्रसिद्धं तु । नैवम्-भूतं काम-कर्म-निरासकम् । विशेषान्तरम् आह—किं च इति । अनुष्ठानापेक्षं सेवनापेक्षम् । अन्यद् विशेषम् आह—किं च इति ।
इत्य् अर्थ इति—न हि जीव-दानात् परं दानम् अस्ति । हरि-कथा-श्रवणे मोक्षो भवतीत्य् अर्थः । जीवेः स वै यस्य पुनर् न मृत्युः इत्य्-आद्य्-उक्तेः । पूर्व-पुण्यं विना निरूपणम् अपि कर्तुं न शक्यत इत्य् अभिप्रेत्याह—यद् वा इति । इत्य् अर्थ इति—तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या यज्-जिह्वाग्रे वर्तते नाम विष्णोः [भा।पु। ३.३०.७] इत्य्-आद्य्-उक्तेः । यतस् ते दर्शनम् इति अन्यतमत्वापादकम्, अतो हेतोः ।
केचित् तु—"अरे परम-व्यग्राः ! यावद् आप्यायेयं, तावत् क्षणं मद्-वार्तया कालो नीयताम्" इति चेत्, स-त्रासम् आहुः—श्री-कृष्ण-विरहिणीनां कथा एव मृतं मरणं, तप्ते मण्डक-पाक-भाजने जीवनम् इव—जीवनं भुवनं वनम् इति कोशात् । कविभिर् ईडितम्—कवयः किं न जल्पन्ति13 इति वर्णन-स्वभावेन तस्यापि वर्णनात् । कल्मषापहं—येषां पापम् अस्ति, ते शृण्वन्तु नास्माकं प्रयोजनम् । श्रवणेनैव मङ्गलम्, न तु प्रयोजनेन । श्रिया मदो येषां तेषु राजसु कविभिर् विस्तारितम् । ये भुवि गृणन्ति, ते भूरिदा महा-प्राणि-घातकाः । दो अवखण्डने ।
अतोऽधुना त्वद्-आशया क्षणं जिजीविषूणां तेनालम् इति वदन्ति तद् विगीतम् इवाभात्य् अस्माकम् । यद् वा, भूरिदा हेमदाः । हेम-दानस्याखिलाभीष्ट-प्रदत्वात् तव कथामृत-वर्णनस्यापि तेनैव जातत्वात् । यथामृतं क्षुद्-रोगादि-हरं बल-पुष्ट्य्-आदि-करं मधुरम् अन्य-विषय-विस्मारकं, तथा हरि-कथापि संसार-रोग-हरा, मधुरा, सर्व-विषय-विस्मारिका, रोगादि-नाशकत्वेन बल-पुष्ट्य्-आदि-कर्य् अपीति ॥९॥
कैवल्य-दीपिका : तव इति । आततं बहु । भूरिदाः स्थूल-दातारः । ते गृणन्ति । अत्र द्वितीयो व-कारः । पाद-चतुष्कस्य दल-द्वये च क्रमात् त-कार-क-कार-श-कार-भ-काराः ॥९॥ [मु।फ। १२.२९]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तव कथामृतम् इत्य्-आदि । तव कथा एव अमृतम् । अमृत-शब्दो\ऽत्र विपरीत-लक्षणया विष-परः । यथा उपकृतं बहु तत्र14 [साहित्य-दर्पणः २.११] इत्य्-आदि, यतस् तप्तं जीवनं यस्मात् । कविभिः शास्त्र-कृद्भिर् एव ईडितं स्तुतम्, न तु प्रेमज्ञैः । अतः कल्मषापहम्, न तु विरहाग्नि-हरम् । श्रवण-मङ्गलं श्रवण एव मङ्गलम्, न तु सुखदम्, न त्व् अनुभवे । श्री-मदेन ऐश्वर्य-जनित-स्वाच्छन्द्येन आततम् । अमृत-पक्षे\ऽप्य् एवम् एव अन्यामृत-विलक्षणम् । अतस् तां कथां ये गृणन्ति, ते भूरिदा दो\ऽवखण्डने इत्य् अस्माद् भूरि-च्छेदका इत्य् आक्षेपो वा । अन्यो\ऽर्थो हि स्फुट एव ॥९॥
विदधद् ईदृशम् एव सदा सखे सुखितम् आस्स्व ततः शरदां शतम्
सनातन-गोस्वामी [हरि-भक्ति-विलासे १०.५३४] : कथा एव अमृतम् । अत्र हेतुः तप्त-जीवनम् । प्रसिद्धामृताद् उत्कर्षम् आहुः—कविभिर् ब्रह्मादिभिर् अपि ईडितः स्तुतम् । देव-भोग्यं त्व् अमृतं तैस् तुच्छी-कृतम् । किं च, कल्मषापहं काम-कल्मष-निरसनं, तत् त्व् अमृतं नैवं-भूतम् ।
किं च, श्रवण-मङ्गलं श्रवण-मात्रेण मङ्गल-प्रदम्, न तु तत्-तद्-अनुष्ठानापेक्षम्। किं च, श्रीमत् सुशान्तम्, तत् तु मादकम् । एवम्-भूतं त्वत्-कथामृतम् आततं यथा भवति, तथा भुवि ये गृणन्ति निरूपयन्ति, ते जना भूरिदाः बहु-दातारो जीवितं ददतीत्य् अर्थः । अधुना च तादृशानाम् अलाभेन वयं मृता एवेति भावः
यद् वा, एवम्-भूतं त्वत्-कथामृतं ये गृणन्ति ते भूरिदाः, पूर्व-जन्मसु बहु दत्तवन्तः परम-सुकृतिन इत्य् अर्थः । अतो वयं तादृशादृष्टाभावेन त्वत्-कथां कीर्तयितुम् अशक्ताः कथं जीवाम ? इति भावः ।
यद् वा, त्वद्-विरहे त्वत्-कथा-स्फूर्ति-विशेषेण वयं मारिता एवेत्य् आहुः—त्वत्-कथा एव मृतं मृतिः, साक्षान् मरणम् एव । कुतः ? तप्तं तापाभिभूतं भवति जीवनं यस्मात्, परम-दाहक-स्वभावस्य प्रेम-विशेषस्य सद्यो-मृत्यु-जनकत्वात् । तथापि कविभिः काव्य-कृद्भिर् एव ईडितम्, यतः कल्मषापहम् ।
किं च, श्रवणयोर् मङ्गलं सुख-करम् । किं च, श्रिया मदो येषां ब्रह्मादीनां तैर् आततं सर्वतो विस्तारितम् । वस्तुतस् तु श्रवणयोर् एव मङ्गलं श्री-मदैर् एव आततम् इति दोषः सूचितः । अत एवं-भूतं त्वत्-कथामृतं ये भुवि गृणन्ति, त एव जना भूरि बहु द्यन्ति अवखण्डयन्ति गले करयन्तीति तथा ते । एवं च तत्त्वतः श्री-कृष्ण-कथाया महा-फल-विशेष एव सूचित इति दिक् ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विरहादि-तप्तान् जनान् जीवयतीत् तथा तत्, न च तस्य श्रवणार्थं प्रयासोऽपेक्ष्येत्य् आहुः—कविभिः पूर्वैर् आधुनिकैश् च ईडितं स्वत एव संश्लाघ्य वर्णितम् इत्य् अर्थः । न च काम-क्रोधादिना पापेन वा तद्-अर्थानुभवान् न फलं सिद्ध्येद् इति वक्तव्यम् । तस्यैव तन्-निरसन-स्वभावत्वाद् इत्य् आहुः—कल्मष- इति । अतोऽर्थानुभवः स्वत एव भवतीति भावः । न च तद्-अपेक्षापीत्य् आहुः—श्रवण- इति ।
यद् वा, न केवलं तप्त-जीवनत्वेन सद्यो-दुःख-हर-मात्रम्, किन्तु कविभिः सर्वार्थ-प्रापकत्वेन स्तुतम् । कथम् ? तद् एव प्रपञ्चयन्ति—कल्मषापहं संसार-ध्वंसकम् इत्य् अर्थः । संसारस्य कल्मषैक-मूलत्वात् सर्व-दुःख-ध्वंसकं वा । किं च, श्रवण- इति। एवम् उभयथा दुःख-दोष-हरत्वेन मङ्गलत्वेन च सर्वार्थ-साधनत्वम् उक्तम् । स्वतः परम-फलत्वं चाहुः—श्रीमद् इति । एवम् एषां यथोत्तरं श्रैष्ठ्यम् । अतः कथैवामृतं यथा तस्य क्षुत्-त्वङ्-रोगादि-हरत्वाद् बल-पुष्ट्य्-आदि-करत्वाच् च साधनत्वम्, मधुर-रस-मयत्वात् साध्यत्वं च तथा कथाया अपीत्य् अर्थः । आततं यथा स्यात् विस्तारेणेत्य् अर्थः । यद् वा, व्यापकम् इत्य् अर्थः । इति देव-भोग्याद् विशेष उक्तः । तस्य व्यापकत्वाभावात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अत्राधुना तादृश-जनाभावाद् अस्माकं च विरहार्ति-वैवश्येन तत्राशक्तेर् वयं मृता एवेति भावः । अथवा, अरे परम-व्यग्राः ! यावद् आप्यायेयं तावत् क्षणं मिथो मद्-वार्तया कालो नीयताम् इति चेत्, तत्र स-त्रासम् आहुः—कथैव मृतम् । मृतिः कथैव कार्य-कारणयोर् अत्यन्ताभेद-विवक्षयोपचारः । कुतः ? तप्तं जीवनं यस्मात् । अतो ये तद् गृणन्ति उच्चारयन्ति ते भूरिदाः । दो अवखण्डने । महा-प्राण-घातका इत्य् अर्थः । एषा परम-प्रेमार्त्य्-उक्तिर् एव ।
ननु तर्हि कथं पुराणादिषु प्रतिपाद्यते ? तत्राहुः—कविभिर् व्यासादिभिर् ईडितं कवीनां वर्णन-मात्र-स्वभावेन तस्यापि वर्णनाद् इति भावः । पाप-नाश-मात्रम् । किं च, श्रवणेनैव मङ्गलं सुख-करम्, न तु प्रयोजनेन । यद् वा, कविभिर् ईडितम् इत्य् अत्र हेतुः—कल्मष- इत्य्-आदि पद-द्वयम् । पाप-हरत्वेन श्रवणयोः सुखदत्वेन च तैर् ईभ्यत इत्य् अर्थः । अत एव श्रिया मदो येषां राजादीनां तेष्व् आततं कविभिर् एव विस्तृतम् । किं वा, श्रीमदैर् जनैर् नाट्य-गीतादिभिर् द्वारा आततम् । अतोऽधुना त्वद्-आशया क्षणं जिजीविषूनां तेनालम् इति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ कथं तर्हि जीवथ ? इत्य् आशङ्क्य प्रेम-मय-स्वानुभव-प्रमाण-निर्णीत-तत्-कथा-महिम-वर्णनेन । तत्र कारणम् आहुः—तव इति । कथा एव अमृतम् अमृतवत् स्वतः फलं फलान्तर-साधनं च । तत्-तद्-रूपत्वं दर्शयन्ति—तप्तान् त्वद्-विरह-ताप-खिन्नान्, किम् उत संसार-ताप-खिन्नान्, जीवयति मृत्यु-पर्यन्त-दुर्दशातो रक्षतीति तत् । पूर्वेषां जीवन-रूपं चेति तथा वन्द्यमान-चरणः पथि वृद्धैर् [भा।पु। १०.३५.२२] इत्य्-आदेः, शक्र-शर्व-परमेष्ठि-पुरोगाः कश्मलं ययुः [भा।पु। १०.३५.१५] इत्य्-आदेश् च दर्शनात् । कविभिर् ब्रह्म-शिव-चतुःसनादिभिर् आत्मारामैः, किम् उतान्यैर् ईडितम् । वर्तमाने क्तः । अस्मद्-वृज-वासिभिर् यद् वर्ण्यते, तद् एवानूद्य श्लाघ्यते, न तु स्वयं वर्णयितुं शक्यत इत्य् अर्थः, रहस्याज्ञानात् । तथा कल्मषं सर्व-रोचकत्वादि-प्रभाव-मयत्वात् स्वान्तरायम् अपि, किम् उत संसार-हेतु-पुण्य-पाप-रूपं हन्ति इति तत् । एवम् एवम्-भूतम् अपि श्रवण-मात्रेणैव मङ्गलं तत्-तत्-सर्वार्थ-साधकं, किम् उतार्थ-विचारेण । अत एव श्रीमत् सर्वत उत्कर्ष-युक्तम् आततं सर्व-व्यापकं चेति प्रसिद्धामृताद् वैलक्षण्यम् इत्य् उक्तम् । तद् ईदृशं कथामृतं भुवि यत्र कुत्रापि ये गृणन्ति कथन-रूपेण ददति, ते भूरिदाः सर्वेभ्योऽपि सर्वार्थ-प्रदातारः । किम् उत गोकुले तत्राप्य् अस्मासु तु त्वद्-विरह-तप्तासु जीवनम् एव ददति इति भावः । ते चान्यत्र पूर्वोक्ता ब्रह्मादयः व्रजे सर्व एवास्मासु तु विशेषतः सख्य इति ज्ञेयम्
यद् वा, अहो परम-व्यग्रा यावद्-आप्यायेयं तावत् क्षणं मिथो मद्-वार्तया कालो नीयताम् इति चेत्, तत्र सत्रासम् आहुः—कथा एव मृतं मृतिः, कथैव मारयतीत्य् अर्थः । कुतः ? तप्तं जीवनं यस्मात् । तप्ते तैलादौ जलम् इवेति श्लेषः । कविभिस् तावकैर् एव कल्मषापहं यथा स्यात् तथा ईडितं तन्-नाशकतया श्लाघितम् इत्य् अर्थः । किं च, श्रवणेन एव मङ्गलं, मङ्गलम् इति श्रूयते, न त्व् अनुभूयत इत्य् अर्थः । श्रीमदाततं श्रिय सौन्दर्यादिना तत्-कृतेन मदेन निज-जनान् आदरादि-लक्षणेन च आततं चर्वतः प्रसृतम् । अतो ये तद् गृणन्ति ते भूरिदा महा-प्राणाघातका इत्य् अर्थः । एषा परमार्त्य्-उक्तिर् एव । दो अवखण्डने । अतोऽधुना त्वद्-आशया क्षणं जिजीविषूणां तेनालम् इति भावः ॥९॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : सा मधुरा गीर् अप्य् अस्तु दूरे, गुरु-गोष्ठी-नियम-बन्धनकत्वम् आपन्नाभिर् अस्माभिः प्रसङ्गान्तरेणापि जन-परम्परा-प्रख्यायमानम् अपि तव चरितामृतम् अपि दुर्लभम् इत्य् आह—तव कथामृतम् [भा।पु। १०.३१.९] इति । तद् ये गृणन्ति तेऽपि अस्मभ्यं भूरिदा जाताः ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् एवं चेत्, तथैव करिष्यामि, क्षणं विलम्बः क्रियताम् इति चेत्, तव कथायां प्रतीतिर् नास्तीत्य् आहुः—तव कथामृतम् इत्य्-आदि । तव कथा एव अमृतं कथामृतम्, न तु कार्यम् । कथया यया तर्पयसि, न तथा कार्येणेत्य् अर्थः । अत एव तप्त-जीवनं तप्तं जीवनं यस्मात् । कार्यासम्भवात् तथा कथया जीवनं तप्तम् एव भवति । अतः कविभिः शास्त्र-कृद्भिर् एव ईडितम्, न तु प्रेमज्ञैः । अतः कल्मषापहम्, न तु हृत्-ताप-घ्नम् । अतः श्रवण-मङ्गलं, न तु चेतः-सुखदम्, यतः श्री-मदेन ऐश्वर्य-मदेन स्वाच्छन्द्येन आततम् । अतस् तां कथां ये भुवि गृणन्ति, ते भूरिदा भूरि-च्छेदकाः, दो\ऽवखण्डने इत्य् आक्षेपः । अतस् तु तव कथा तप्त-जीवनं कविभिः स्तुतं कल्मषापहम् इत्य्-आदि स्तुत्या अप्रस्तुत-प्रशंसा15 ॥९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु विरहे दशम्य्-अवस्थाया अवश्यं भावित्वेन दुर्निवार्यत्वात् प्रकारान्तरेणापि जीवनोपायश् चिन्तनीयः ? इति चेत् स्वयम् एव विचार्य वदन्ति—तव कथा इति । एवं प्रार्थना-चतुष्टयं दुर्लभं मत्वा तव कथामृतम् एवाश्रियत इत्य् आहुः । विरहेऽस्माकं जीवनं नास्मद् यन् न साध्यं किन्तु त्वत्-कथामृत-साध्यम् इति निश्चितं, तव यथा शक्तिस् तथा कथाया अपि शक्तिर् इति कथोत्कर्षम् आहुः । कीदृशं कथामृतम् ? तप्त-जीवनं कामादि-जनक-ताप-तप्तान् जीवयतीति । विषयिणः कामादि-विषय-वासना-शून्यान् कृत्वा स्व-निष्ठान् करोति । कथाम्र्तस्यायम् एव स्वभावः । कविभिर् ईडितं कविभिः ज्ञात-तत्त्वभिर् मुक्तैर् इत्य् अर्थः । तैः स्व-सेव्यत्वेन ईडितं स्तुतम् । तद् उक्तं भाष्यकृद्भिः "मुमुक्षु-सेव्यत्वम् आहुः" । कल्मषापहम् अविद्या-रूपं संसार-भूतं कल्मषं पापम् अपहन्ति, तथा । तत एव मुक्त-मुमुक्षु-विषयि-सेव्यत्वम् उक्त्वा, एतत् त्रि-पक्ष-व्यतिरिक्तानां शुद्ध-भक्तानां सेव्यत्वम् आहुः श्रवण-मङ्गलं नान्यत् तेषां किञ्चित् साध्यम् अस्तीति भावः । स्वतः परम-पुरुषार्थत्वम् आहुः । श्रीमत् भक्ति-लक्ष्मी-सम्पादकम् इत्य् अर्थः । आततं वैकुण्ठ-पर्यन्तं व्याप्तम् इत्य् अर्थः । वैकुण्ठेऽपि कथामृतस्यैव सेव्यत्व-श्रवणात् भुवि इति अलभ्य-लाभोक्तिः, ये गृणन्ति कथयन्ति, ते जनाः भूरि-दातारः सर्वस्वं ददातीति ।
यद् वा, प्रसिद्ध-देव-भोग्याद् अमृताद् उत्कर्षम् आहुः—कथामृतं तप्त-जीवनम् इत्य्-आदि,
आचार्यैर् व्याकृतत्वात् । यद् वा, विरहिणीनाम् अस्माकं कथामृतं वैपरीत्येन स्फुरति, तथाहुः चन्द्र-चन्दनादीनां सर्व-जनान् अप्रतीत्या शैत्यहेतुभूतानाम् अस्मद् अनुभवेत् । ताप-हेतुत्व-स्फूर्तेः । तथा कथामृतस्य अन्येषां मरण-निवर्तकम् अपि अस्माकं कथा एव मृतं मरणं, तच्-छ्रवणे मरणस्य सन्निहितत्वात् । तप्त-जीवनम् अन्येषां संसार-ताप-तप्तानां जीवनम् आप्यायन-करम् । अस्माकं तद्-वैपरीत्येन तप्तेष्व् अस्मच्-चित्तेषु जीवनं जलम् इव निक्षिप्तं यथा तप्त-तैले निक्षिप्तं जलं ज्वालाधिक्यं करोति, तथास्मच्-चित्तेषु ज्वालाधिक्ये हेतुः कथा मृतम् एव ।
पुनः कीदृक् ? कविभिर् ईडितं स्तुतम् असद्-गुणारोपः स्तुतिः, कवीनां नारदादीनां तथात्वेन प्रतीतेः । कल्मषापहं प्रायश्चित्ताधिकारिणां पाप-हरत्वेन प्रतीतानां पापस्य फलं दुःखं कथामृत-सेवनेऽपि नास्माकं दुःख-निवृत्तिर् दृश्यते । अतो वयं नाधिकारिण्य इत्य् अर्थः । यद् वा, त्यागेनैके अमृतत्वम् आनशुः [म।ना।उ। १२.१४] इति श्रुति-बलात् पति-पुत्रादि-सङ्ग-परित्यागेनागतानां नास्माकं पाप-सम्बन्ध-गन्धोऽपि । अतः प्रायश्चित्तानाधिकृताः । प्रायश्चित्तत्वेन न श्रोष्याम इति भावः ।
श्रवण-मङ्गलं श्रवण-मात्रेण मङ्गलम्, अर्थ-वाद-रूपत्वेन सुख-जनकम्, परिणामतोऽमङ्गलम् एव दुःख-जनकत्वात् । कथामृतस्य स्वरूपतश् चेत् सुखात्मकं स्यात् पुत्र-जन्य-श्रवणवत्, तर्हि अस्मान् एव प्रतीतम् अभविष्यद् इति । अस्माकं तद्-वैपरीत्येन सौभाग्य-हानि-दर्शनादिः । यद् वा, श्रीमद्भिः लक्ष्मी-सम्पन्नैर् आततं विस्तृतं, वयं तु निष्किञ्चना अतो दशम्य्-अवस्था-सम्भवात् प्राग् एव शुश्रूषयालम् इति । एवं-भूतं कथामृतं भुवि वृन्दावन-भूमौ आततं गीतालापादिभिर् विसृतं यथा भवति, तथा ये गृणन्ति कथयन्ति, ते जना भूरिदा बहु-दातारः, न तु पात्रापात्र-विचारवन्तः । यत् किञ्चिद् ददातीत्य् अर्थः । यद् वा, अभूरिदाजनाः, अभूरिदाश् च ते अजनाश् च । अभूरिदा अल्पदा उत्पत्ति-रहिता भवन्त्व् इति साङ्गुलि-भञ्ज-शाप इति भावः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-कर्तृक-कथायाः माधुर्य-महिमा कैर् वाच्यः ? त्वत्-सम्बन्धि-कथा अन्य-वक्तृकाप्य् अमृत-द्वयात् स्वाद्वी श्रेष्ठा चेत्य् आहुः—तव इति । तव कथा एव अमृतं । केन साधर्म्येण ? तप्तान् महा-रोगादि-सन्तप्तान् संसार-तप्तांश् च जीवयति इति तत् त्वद्-विरह-तप्तांश् च जीवयतीति स्वर्गीयान् मोक्ष-रूपाच् चामृताद् आधिक्यं च । कविभिर् ध्रुव-प्रह्लादादिभिः या निर्वृतिस् तनु-भृताम् इत्य्-आदि-पद्यैर् ईडितम् । अन्यद् अमृत-द्वयं—सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्, किं त्व् अन्तकासि-लुलितात् पततां विमानात् [भा।पु। ४.९.१०] इत्य्-आद्य्-उक्तिभिर् न रोचितम् ।
कल्मषाणि प्रारब्ध-पर्यन्तानि पापान्य् अपहरन्ति, स्वर्गीयामृतं तु तानि न हन्ति, कामादि-वर्धकत्वात् प्रत्युत तान्य् उत्पादयत्य् एव । मोक्षामृतम् अपि प्रारब्ध-पापं न हन्ति, श्रवणेनैव स्वाद्यमानत्वाद् अभीष्ट-साधकत्वाच् च मङ्गलं, तद् द्वयं तु नैवम्-भूतम् । श्रीमत् प्रेम-पर्यन्त-सम्पत्ति-प्रदम् आततं प्रतिक्षणम् एव वक्तृभिर् विस्तृतम्, तद् उभयं तु न तथा । ये गृणन्ति कीर्तयन्ति, त एव भूरि बहुतरं ददति, तेभ्यः सर्वस्वं ददाना अपि तत् परिशोधयितुं न क्समन्त इति भावः ।
यद् वा, तव गीस् तदैव मधुरा यदि त्वद्-दर्शन-सहिता स्यात्, अन्यथा तु महानर्थ-करीत्य् आहुः । तव कथा एव मृतं मरण-कारणम् इत्य् अर्थः । कुतः ? तप्तं जीवनं यतः, तप्त-तैलादौ जलम् इवेति श्लेषः ।
ननु तर्हि कथं पुराणादिषु श्लाघ्यते ? तत्राहुः—कविभिर् व्यासादिभिर् ईडितं, कवीनां वर्णन-मात्र-स्वभावेन तस्यापि वर्णनाद् इति भावः । कल्मषापहम् इति दुःख-भोगेन प्राचीनं कल्मषं नश्यत्य् एवेति भावः । लोक-कर्तृक-श्रवणेन एव मङ्गलं स्वस्त्ययन-विनाशो यस्य तत् । यदि जनाः सुधियस् तच्-छ्रवण-परिणामं दुःखं विचार्य न तत् श्रोष्यन्ति तदा तद् अपि नङ्क्ष्यन्त्य् एवेति भावः । श्री-मदैर् धन-मदान्धैर् जनैर् एव लोका म्रियन्ताम् इत्य् अभिलष्य धन-व्ययेनाप्य् आततं देशे देशे ग्रामे ग्रामे पुराण-वाचकान् संस्थाप्य विस्तारितम् । अत एव भुवि ये गृणन्ति, ते भूरिदाः भूरीन् श्रोतृ-लोकान् द्यन्ति खण्डयन्ति मारयन्ति । तस्मात् ते कथा-जालं वितत्य सौम्या इवोपविष्टा मनुष्य-मारकाद् व्याधाद् अप्य् अधिका दूरत एव सुधीभिर् उपेक्ष्या एवेति भावः । यद् वक्ष्यते यद्-अनुचरित-लीला- [भा।पु। १०.४७.१८] इत्य्-आदि । वस्तुतः कथायाः कथकस्य च सर्वोत्कर्ष-व्यञ्जिकेयं व्याज-स्तुतिः16 ॥९॥
॥ १०.३१.१० ॥
प्रहसितं प्रिय प्रेम-वीक्षणं
विहरणं च ते ध्यान-मङ्गलम् ।
रहसि संविदो या हृदि-स्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मत्-कथा-श्रवणेनैव निर्वृता भवत, किं मद्-दर्शनेन ? न, त्वद्-विलास-क्षुभित-चित्ता वयम्, तत्रापि शान्तिं न विन्दाम इत्य् आहुः—प्रहसितम् इति । हे प्रिय, कुहक कपट, संविदः सङ्केत-नर्माणि ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कथा-श्राविणां किं दर्शनेन ? इत्य् आशङ्कते—नन्व् इति । निर्वृताः जातानन्दाः । तत्रापि कथा-श्रुताव् अपि ।
संविद् युद्धे प्रतिज्ञायां सङ्केताचार-नर्मसु ।
सम्भाषणे क्रियाकारे विज्ञाने तोषणेऽपि च ॥ इति कोशात् ।
रहसि संविदः "सर्वोपेक्षया भवतीनाम् इष्टम् अवश्यं साधयिष्यामि" इत्य् एवं-रूपाः । कुहक इति स्वोक्तस्यान्यथा-करणात्, अस्मद्-उपेक्षया सर्वत्र कापट्य-पर्यवसानाच् च ॥१०॥
कैवल्य-दीपिका : प्रहसितम् इति । ध्यानं मङ्गलम् चिन्त्यमानं सुखावहम् इत्य् अर्थः । रहसि संविद एकान्ते प्रतिश्रुतानि । हृदि-स्पृशो हृदयङ्गमाः । कुहक ! कपटिन् ! अन्यथोक्तम् अन्यथा करोतीति कुहकत्वम् । अत्र ह-कारो द्वितीयः ॥१०॥ [मु।फ। १२.३०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न केवलं कथैव तादृशी, अन्यच् चेत्य् अन्या आहुः—प्रहसितम् इत्य्-आदि । यत एतान्य् अपि क्षोभयन्त्य् एव । हिर् एवार्थः ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु निर्बुद्धयस् तथाप्य् औषधवद् बलान् मत्-कथां मिथः सेवध्वम् इत्य् आहुः । यद् वा, आशयापि चिरं जीवितुं न शक्नुम इत्य् आहुः—प्रहसितम् इति । भावे क्तः । प्रकृष्टं हसितं शुद्ध-भवेन स्मितम् इत्य् अर्थः । प्रेम्णा वीक्षितम् । विहरणं क्रीडा । ते इत्य् अस्य प्रहसितादिभिः सर्वैर् अप्य् अन्वयः ।
ध्यान-मात्रेणापि मङ्गलं सुख-करम् । यद् वा, ध्यान-मङ्गलं शुभावहं सुखेन प्रेम-ध्यान-सम्पादकम् इत्य् अर्थः । एतच् च त्रयाणाम् अपि विशेषणम् । अत एवोक्तं श्री-कपिल-देवेन—ध्यानायनं प्रहसितं17 [भा।पु। ३.२८.३३] इत्य्-आदि । हृदि-स्पृशो हृदयङ्गमाः । यद् वा, स्मरण-पथ-मात्रं गच्छन्त्योऽपि सत्यो याः संविदः, ताः सर्वा एवेति तासां सर्वासां हृत्-स्पृक्त्वं क्षोभणत्वं चाभिप्रेतम् । क्षोभयन्ति कामेनाकुलयन्ति
संविद इत्य् अस्यान्तिके अयुक्तत्वेन, तस्यैव विशेषणत्वेऽपि हृदि-स्पृश इति सर्वान्त्यत्वाद् वचन-विपरिणामेन सर्वैर् अपि योज्यम् । तत्राद्य-द्वय-प्रायो भावत्वान् मानसम् । प्रहसितस्य शुद्ध-भाव-जन्यत्वात् । प्रेम्णश् च मनो-वृत्ति-विशेषे स्फूर्तेः । विहरणं प्रायो दैहिकं तान् विदश् च वाचिक्य इत्य् एवं त्रिविधा चेष्टोक्ता । तेषां च क्षोभने यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । हि निश्चितम् । क्षोभणे हेतुः—हे प्रिय इति । अन्यथा क्षोभणाशक्तिः । एवं त्वद्-एक-प्रियत्वेन वयं सदा मनः-क्षोभ-दुःखं लभामहे, त्वं चास्मान् बत वञ्चयस एवेत्य् आशयेन सम्बोधयन्ति—हे कुहक इति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, प्रिय-जने प्रेम तद्-दर्शनादि-मात्रेण पुलकादि-लक्षणम्, वीक्षितं विशेषेण प्रेम-स्मितादिना ईक्षितम् । ध्यानं प्रिय-जनस्य चिन्ता, तद् एव मङ्गलम्, अस्माकम् आशालम्बनादि-हेतुत्वात् । संविदः प्रतिश्रुतानि सर्वापेक्षया भवतीनाम् इष्टम् अवश्यम् एव सम्पाद्यम् इत्य्-आदि-लक्षणानि स्वोक्तस्यान्यथा-करणात् तथाधुनास्मद्-उपेक्षया तत्र तत्र सर्वत्रैव कापट्य-पर्यवसानाच् च कुहक इति ।
अथवा, ननु स्त्रीणां तत्रापि साध्वीनां धैर्यम् उपपद्येत ? इति चेत्, तत्र स-प्रेम-विकारं स-दैन्यं चाहुः—प्रहसितम् इति । क्षोभयन्ति धैर्यं हरन्ति, तत्-तत्-स्मरणाद् अधुनापि यज् जीवेम । एतद् एव नः परम-धैर्यं विद्धीति भावः । अन्यत् समानम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रथमेऽर्थे । ननु विचार-लुब्धाः दुर्लभे मयि कथम् एतावन्तम् अनुरागं कुरुध्वे ? यदि कुरुत, तदा मत्-कथा-श्रवणेनैव निर्वृता भवत इत्य्-आदिकम् आशङ्क्य तेनानिर्वृतौ तस्यैव पूर्वानुराग-मयं चरितं दूषयन्ति त्रिभिः । आशयापि चिरं जीवितुं न शक्नुम इत्य् आहुः—प्रहसितम् इति । भावे क्तः । "वीक्षितम्" इति तु क्वचित् पाठः ।
प्रथमतः प्रहसितं तासां दर्शन-मात्रेण भावोल्लासात् प्रकृष्टं सहज-स्मितात् किञ्चिद् उद्भटं हसितम् । कीदृशम् ? ततः प्रेम्णा वीक्षितं यत्र तादृशम् । ततो विहरणं सखिभिः सह-क्रीडा-विशेषः । तच् च कीदृशम् ? ध्याने मङ्गलं तद्-अनुचिन्तने आशा-बन्ध-कारकं निज-भावाभिव्यञ्जनामयत्वात् । ततश् च रहसि संविदः, दूरतः स्वयं निर्जने गत्वा वेण्व्-आदिना नर्मोक्तयः । ताश् च कीदृश्यः ? या हृदि स्पृशो हृदयङ्गमा इति सर्वतोऽन्तरङ्गत्वं दर्शितम् । यच्-छब्दोऽत्र चमत्कार-विशेषार्थः । ततो लिङ्ग-विभक्ति-विपरिणामेण पूर्व-पूर्वत्राप्य् अनुषञ्जनीयः । तेषु यथोत्तरं श्रैष्ठ्यम् ।
कुहक इति । उदर्के दुःखमयत्वात्, तद्-उच्चतर-कुहकानाम् अयम् एवेति भावः । न इति तत्र बहूनाम् अनुभवं प्रमाणयन्ति । क्षोभयन्ति आकुलयन्ति । हि निश्चितं । क्षोभणे हेतुः—प्रिय ! हे लोभनेत्य् अर्थः । एवं त्वद्-एक-प्रियत्वेन वयं सदा मनः-क्षोभ-दुःखं लभामहे, त्वं पुनर् अस्मान् बत वञ्चयस इत्य् आशयेन च सम्बोधयन्ति—हे कुहक इति ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (प्रीति-सन्दर्भः २९२) : [गुणोद्दीपन-प्रसङ्गे अभिव्यक्त-भावत्वम्] संविदः सङ्केत-नर्माणि ॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं कथैव तादृशी, प्रहसितादिकं च तव यद् अन्यत्, तद् अपि नो मनः-क्षोभकम् इत्य् आहुः—प्रहसितम् इत्य्-आदि । हे प्रिय ! ते तव प्रहसितं प्रहासः, विहरणं विहारः, रहसि संविदः विजन-संवादा हि निश्चितं मनः क्षोभयन्ति । पूर्वं मनः-सुखदत्वेन ज्ञातान्य् आसन्, सम्प्रति तद् अन्यथा-भावान् मनः-क्षोभकाण्य् एव सर्वाणि जातानीति वाक्यार्थः । त्रयाणां त्रीणि विशेषणानि । प्रहसितं कीदृशम् ? प्रेम-युक्तं वीक्षणं यत्र । विहरणं कीदृशम् ? ध्यान-मङ्गलं ध्यानस्यैव मङ्गलम्, न तु ध्यातुः, मनः-क्षोभकत्वात् । संविदः कीदृश्यः ? हृदि-स्पृशो मर्म-स्पृशः । यतस् त्वं कुहकत्वेन कापट्यवत्त्वेन प्रसिद्धो\ऽसीति योग्यं सम्बोधनम्—हे कुहक ! कापट्य-पटो ! अतो युक्तम् एवोक्तं तव कथामृतं तप्त-जीवनम् [९] इत्य्-आदि ॥१०॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं कथामृत-सेवने दृशानुसन्धाने त्यागार्हत्वं विनिश्चित्य तद्-उपरमेऽपि सद्य एव मरणं सम्भाव्य उभयतो व्याकुल-चित्ताः स्वान्तस्य पीडां दैन्येन निवेदयन्ति—प्रहसितम् इति । हे प्रिय ! तवैतानि नोऽस्माकं मनः क्षोभयन्ति । पूर्वं मङ्गलास्पदत्वेनानुभूतनि, तत एव ध्यानानि इदानीं तिरोधानान्य् एतान्य् एव मनः-क्षोभ-कराणि भवन्ति । अत एव आशयानि चिरं जीवतय साम्प्रतम् इति । हे प्रियेति सम्बोधनेनैव ज्ञाप्यते । स्मृत-मात्रस्य तव सम्बन्धस्य क्षोभ-जनकत्वेऽपि तद्-विस्मृता स्व-कृति-साध्यत्वा निश्चित्य इति प्रहसितं प्रथम-दर्शने जाते भावोच्छलनात् साहजिक-स्मिताद् उद्रिक्तं हसितं, ततः प्रेम-वीक्षणं । प्रेम-लक्षणं रसार्णवे—स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं [र।सु।आ। २.२५८] इति । भाव-गर्भं वीक्षणम् अवलोकनं विहरणं विहारः क्रीडेति यावत् । क्रीडा तु स्वकीय-सापेक्षा तत्र वयम् एव स्वकीया इति । कीदृशम् ? ध्यान-मङ्गलम् । ध्यान-मात्रेण मङ्गलं सुख-प्रदम् । किं पुनर् अनुभवे । मङ्गलम् इति त्रयाणां विशेषणम् । रहसि निर्जने स्थले संविदो नर्मोक्तयः क्रौञ्च-बन्धाद्य्-अभिज्ञान-रूपाः । हृदि-स्पृशो हृदयङ्गमा अस्मद्-अनुगुणास् तदा जाता । अधुना तवादर्शने मनः क्षोभयन्ति धैर्य-च्युतिं कारयन्ति । उत्तरोत्तरं चतुर्णां क्षोभ-हेतुत्वं सूचितम् । हे कुहक ! हे कपट ! इति सम्बोधनेनैतत्-सूचिते । पूर्वं प्रहसितादिना विश्वासं जनयित्वा इदानीम् उपेक्षया नैराश्यं जनयन् कामाङ्कुरेऽस्मान् व्याकुलयन् पद्यम् अभिव्यञ्जयसीति । तव दर्शने ये सुख-हेतवो जातास् त एवादर्शने दुःख-हेतवो जाताः, त एवादर्शने दुःख-हेतवो भवन्ति । तव सम्बन्ध-मात्रम् आयत्यां दुःख-हेतुर् अतो ये तव सम्बन्ध-रहिताः स्व-मनः सुखिनो नान्ये यथा वयम् इति भावः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्माकं तु त्वद्-दर्शनं विना त्वत्-सम्बन्ध-वस्तु-मात्रम् अतिदुःखदम् इत्य् आहुः—प्रहसितम् इति । विहरणं सम्प्रयोगः । याश् च संविदः संलाप-नर्माणि हृदि-स्पृश इति दुःखदत्वाद् विस्मर्तुम् इष्टा अपि न विस्मर्तुं शक्यन्त इति भावः । ध्यानेन अपि मङ्गलं परम-सुखदम् इति चतुर्णाम् अपि विशेषणं मनः क्षोभयन्ति व्याकुलयन्ति । एतानि मनसि प्रविश्य सद्यः सुखं दत्त्वा तद्-द्वितीय-क्षण एव महा-दुःखं ददति, अत एव हे कुहक! कुहक-दत्त-बटकान्य् अपि सद्यः परम-स्वादून्य् अप्य् आयत्यां परम-दाहकानि प्राण-घातकानीत्य् अर्थः ॥१०॥
॥ १०.३१.११ ॥
चलसि यद् व्रजाच् चारयन् पशून्
नलिन-सुन्दरं नाथ ते पदम् ।
शिल-तृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, त्वयि वयम् अतिप्रेमार्द्र-चित्तास् त्वं पुनर् अस्मासु केन हेतुना कपटम् आचरसि ? इत्य् आहुः श्लोक-द्वयेन—चलसि इति । हे नाथ ! हे कान्त ! यत् यदा व्रजाच् चलसि पशूंश् चारयन्, तदा तन् नलिन-सुन्दरं कोमलं ते पदं शिलैः कणिशैस् तृणैर् अङ्कुरैश् च सीदति क्लिश्येद् इति नो मनः कलिलताम् अस्वास्थ्यं गच्छति प्राप्नोति । एवंभूतास् त्वद्-दुःख-शङ्कित-चित्ता वयम् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपालम्भम् आहुः—किं च इति । कः क-कारोऽन्ते यस्य, स कान्तः शुकः । स यथा फलादि गृहीत्वा क्षणेन नेत्रे परिवर्तयति, त्वम् अपि तथास्मान् वेणु-ध्वनिनात्राहूय दर्शन-रसम् अपीय गतः । यद् वा, कान्तो बकः । स यथा स्व-कार्य-करणे साधुर् इवास्ते, तथा त्वम् अपि । यद् वा, कान्तोऽन्तकः । स यथा साधून् असाधूंश् च सर्वन् अविशेषेण मारयति, तथा त्वम् अस्मान् इति । यद् वा, कान्तः काकः । स यथा योऽस्माय् अन्नाद्य् अर्पयति, तस्यैवोपरि मलम् उत्सृजति, तथा वयं त्वया सहातिप्रीतिकराः, त्वम् अस्मान् एवं रोदयसीति भावः । यद् वा, कान्तः कङ्कः । स यथा मृतान् मारयति, तथा त्वम् अस्मान् अनङ्ग-मारिता मारयसीति । यद् वा, कान्तश् चातकः । स यथा स्वात्य्-अम्बु पीत्वा पुनर् मेघं न सेवते, तथा त्वं स्व-कार्यं कृत्वास्मांस् त्यजसीति । किं बहुना ॥११॥ [अतः परं विश्वनाथः।]
कैवल्य-दीपिका : चलसि इति । नलिन-सुन्दरं कमलवत् कोमलम् । शिलैः कणिश-खण्डैः । कलिलताम् अधैर्यम् । अत्र ल-कारो द्वितीयः ॥११॥ [मु।फ। १२.३१]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वम् एवास्मासु निर्दयः । कदाचिद् अस्माकं दोषम् अपि पश्यसि, अन्यथा कथम् अत्याक्षीः ? वयं तु न तथा, त्वद्-गत-प्रेम्णैवाहर्निशं दुनुम इत्य् अपरा आहुः—चलसि इत्य्-आदि । तस्मात् त्वं पशुप एव, यद् अस्माकं मनः कलिलतां नावगच्छसि । कथं नावगम्यते ? तत्राह—नलिन-सुन्दरं ते पदं शिल-तृणाङ्कुरैः सीदति इत्य् अहो कष्टम् इति भावः ॥११॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्रजाद् इति । ततश् चलनम् आरभ्यागमन-पर्यन्तम् एव कलिलता सूचिता । व्रजे तद्-अवसादानुत्पत्तिश् चोक्ता, स्वयं ताभिस् तच्-छोधनात् । पशूंश् चारयन्न् इति विविधानाम् अनन्तानां तेषां चारणार्थं वर्त्म-परित्यागेनेतस् ततो भ्रमणाच् छिलादिभिर् अवसादः सम्भावितः । तथा पशुतया निर्बुद्धित्वेन ते त्वत्-पादाब्ज-दुर्गम-पथेऽपि बत भ्रमन्तीति श्लेषेण सूचितम् । पदम् इत्य् एकत्वे\ऽपि द्वित्वम् आयात्य् एवेति पूर्व-लिखितम् एव । तथाप्य् अत्रार्थोऽयं ज्ञेयः—एकम् अपि, किम् उत द्वयम् इति गो-चारण-प्रदेशस्य प्रायो घन-मृदु-तृण-मयत्वेन भू-तल-वर्ति-शर्करा-कर्करादेः सम्पर्काभावात् तन् नोक्तम्, अझिल्लि-कण्टक-वनं [ह।वं। २.८.२३] इत्य्-आदि-हरि-वंशोक्तेः । सर्वत्र कण्टकाभाव एव हरिदास-वर्येण गिरि-राजेन श्री-गोवर्धनेन तत्-पार्श्व-वर्ति-तद्-अनुग-गिरि-वर्गेण च स्व-शिलानां श्री-पादाब्ज-न्यास-पदे नवनीतायमानत्व-सम्पादनात् ता अप्य् अत्र नोक्ताः । नाथ ! हे व्रजेश्वरेति तत् तवायुक्तम् इवेति । कान्त इति अस्मत्-कोमल-कर-स्पृश्यम् एव तद् इति प्रेम-सम्बोधन-द्वयम् । कलिलताया हेतु-विशेषः, तेनाधिक-कलिलतापि सूचिता ।
यद् वा, नाथत्वेन सर्वेषां व्रज-जनानां, कान्तत्वेन च विशेषतोऽस्माकम् इति भावः । यद् वा, नाथ एवं प्रिय-जनोपतापक !
ननु विवेकिन्यस् तर्हि अवसाद-हेतु-मद्-विषयक-चिन्ता त्यज्यताम् ? तत्राहुः—कान्त इति । प्रिय-जन-चिन्ताया विवेकेऽप्य् अपरिहार्यत्वात् इति भावः । यद् वा, कलिलता-गमने हेतुः—नाथ ! हे प्राणेश्वर ! इति।
ननु—
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ [हितोपदेश ४.७८]
इत्य्-आदि-वचनेन प्रीतेर् दोषत्व-प्रतिपादनात् प्रीतिर् एव निरस्यताम् । तत्राहुः—कान्त ! हे मनोहरेति । अलम् अतिविस्तरेण । अन्यत् तैर् व्याख्यातम् ।
यद् वा, सीदति व्यथत इति । एतच्-चिन्तया कलिलतां कैव यम् इति । अतो वन-भ्रमणं विहायात्र द्रुतम् एहीति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च भवता क्षोभ-दानं संयोग-वियोगयोर् अविशेषम् एव, न तु कादाचित्कम् इत्य् आहुः—चलसि इति द्वाभ्याम् । व्रजाद् इति । ततश् चलनम् आरभ्यागमन-पर्यन्तेन कलिलता सूचिता । पशूंश् चारयन्न् इति विविधानाम् अनन्तानां तेषां चारणार्थं वर्त्म-परित्यागेनेतस् ततो भ्रमणाच् छिलादिभिर् अवसादः सम्भावितः । तथा पशुतया निर्बुद्धित्वेन ते त्वत्-पादाब्ज-दुर्गम-पथेऽपि बत भ्रमन्तीति श्लेषेण सूचितम् । शिल-पतित-स-शृङ्ग-वन्य-धान्यादिकम् । अझिल्लि-कण्टक-वनं [ह।वं। २.८.२३] इत्य्-आदि-हरि-वंशोक्तेः । सर्वत्र कण्टकाभावात् न तद्-उल्लेखः । नाथ ! हे व्रजेश्वर ! इति तत् तवायुक्तम् इवेति, कान्त इति अस्मत्-कोमल-कर-स्पृश्यम् एव तद् इति प्रेम-सम्बोधन-द्वयम् । कलिलताया हेतु-विशेषः । यद् वा, नाथत्वेन सर्वेषां व्रज-जनानां, कान्तत्वेन च विशेषतोऽस्माकम् इति भावः । यद् वा, नाथ एवं प्रिय-जनोपतापक !
ननु विवेकिन्यस् तर्हि अवसाद-हेतु-मद्-विषयक-चिन्ता त्यज्यताम् ? तत्राहुः—कान्त इति । प्रिय-जन-चिन्ताया विवेकेऽप्य् अपरिहार्यत्वात् । यद् वा, कलिलता-गमने हेतुः—नाथ ! हे प्राणेश्वर ! इति।
ननु—
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ [हितोपदेश ४.७८]
इत्य्-आदि-वचनेन प्रीतेर् दोषत्व-प्रतिपादनात् प्रीतिर् एव निरस्यतां ? तत्राहुः—मनो गच्छति इति। सङ्कल्प-मात्रात्मकं तन् नास्माकं बुद्धि-वृत्तिं विवेकम् अपेक्षत इति भावः।
ननु मनोऽपि युष्माकम् एवेत्य् आशङ्क्य तस्यापि न दोष इत्य् आहुः—कान्त ! हे मनोहर इति । अहो वन-भ्रमणं विहायात्र द्रुतम् एहीति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलम् इदानीम् एव वने समानीय नः कदर्थयसि, तव विहारो\ऽस्माकं क्षोभक एवासीद् इत्य् आहुः—चलसि इत्य्-आदि । हे नाथ ! यद् व्रजात् पशून् चारयन् चारयितुं चलसि, तत्र ते तव नलिनाद् अपि सुन्दरं पदं शिल-तृणाङ्कुरैः सीदति इति कृत्वा नो\ऽस्माकं मनः कलिलतां दुःख-गहन-भावं हे कान्त गच्छति । अतः साधूक्तं— ध्यान-मङ्गलं ध्यानस्यैव मङ्गलम् यस्य, तत् तथा, न तु ध्यातुर् मङ्गलम् [१०.३१.१० बृ।क्र।सं।] इति ॥११॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं स्वभावतस् तव क्षोभ-दातृत्वे निर्णीतेऽपि स्नेह-वशात् त्वद्-अनिष्टाशङ्का-व्याकुल-चित्ता वयं । त्वं त्व् अस्मद्-अनिष्टा-बन्ध-निरसनेन तटस्थताम् अवलम्बसे, न्यायतो विरोध-प्राकट्यात् इति । चलसि इति । व्रजात् यद् यदा पशून् गाश् चारयन् वृन्दावन-प्रदेशेषु सञ्चारयितुं चलसि, तदा नलिन-सुन्दरं नलिनाद् अपि सुन्दरं सुभगं कोमलं च ते तव पदम् ।
हे नाथ ! व्रज-राज-पुत्रत्वात् । यद् वा, नाथते याच्यतेऽस्माभिर् इति हे नाथ ! यद् वा, नाथसे प्रिय-जनान् अनुसन्तापयसि ।
शिल-तृणाङ्कुरैः शिला सूष्म-पाषाण-कणशः तृणानि दर्भादिनाम् अङ्कुराः, एतैर् अतिपरुषैस् तीक्ष्णैः सीदति खिद्यतीति मत्वा नो मनः कलिलतां व्याकुलतां गच्छति प्राप्नोति । वस्तुतस् तु तथा वृन्दावन-प्रदेशस्य कोमलत्वेन सुख-प्रदत्वं प्रसिद्धेः । अन्यथोपानत्-परित्यागेन सञ्चरणं कथं भवेत् ? इति । तथापि स्नेहस्यायम् एव स्वभावः—किम् अपि कल्पनया मनो व्याकुलयन्ति । तव तु अस्माकं वास्तवे दुःखे विद्यमानेऽपि औदासीन्यम् इति चित्रम् ।
व्रजाद् इति प्रातर् आरभ्य सायं-काल-पर्यन्तं खेद-सम्भावनेति । पशूंश् चारयन्न् इति । अस्मत्-प्रवेश-योग्ये गवां चारणम् इति सेर्ष्यं वचनम् । पशून् इति बुद्धि-शून्यम् तेन मार्ग-त्याग-पूर्वकं घन-तृणमय-प्रदेश-सञ्चारणेन खेदास्फुरणं तेषाम् इति हे कान्त ! इति यद्यपि त्वम् अस्मद्-आर्ति-निरसनेन समर्थोऽसि, तथाप्य् औदासीन्यम् अवलम्बितुं न शक्नुमः। यतस् त्व् अस्मच्-चित्तेषु कोमल-कर-संवाह्यत्वेन अवमाससे [अवमन्यसे?] इति तात्पर्यम् । नाथ इति कान्त इति सम्बोधन-द्वयेन निज-मनः-पीडा-पराकाष्ठा सूचितेति । अतश् चिरं दृग्-गोचरे प्रदेशे परिभ्रमणेनालम् इति ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वं केवलम् अधुनैव दुःखयसि, अपि त्व् अन्यद् अपि, स्वम् अपि दुःखयित्वा अस्मभ्यं दुःखं दातुं यतसे इत्य् आहुः—चलसि इति । यत् यदा तदा नलिनाद् अपि सुन्दरं सुकुमारं शिलैः कणिशैः तृणैर् अङ्कुरैश् च सीदति क्लिश्येद् इति सम्भाव्य मनः कलिलताम् अस्वास्थ्यं प्राप्नोति ।
यद् वा, कलिं कलहं लाति गृह्णातीति कलिलं**,** तद्-भावः कलिलताम्, ताम् अस्माभिर् एव सहास्मन्-मनः कलहं करोतीत्य् अर्थः । स च कलिर् यथा—
"अरे मनः ! स यदि वने भ्रमणात् खिद्यति, तदा व्रजान् निःसृत्य नित्यम् एव तत्रैव किं याति ? अतस् त्वं किम् इति वृथा खिद्यसि ?"
"अयि निर्बुद्धयो गोपालिकाः ! तस्य चरण-तल-द्वयं स्थल-कमलाद् अपि सुकुमारं भवति । एवं वने च शिल-तृणाङ्कुर-शर्कराः सन्त्य् एव । कथं पीडा न स्यात् ?"
"अरे मुग्धाः ! स सुकोमल-बालुके पथि पथ्य् एव भ्रमति ।"
"अयि निर्विवेकाः ! गावः किं पथि पथ्य् एव घासं चरन्ति ?"
"अरे प्रेमान्ध! स चक्षुष्मान् शिल-तृणाद्य्-उपरि कथं पादाव् अर्पयेत् ?"
"अयि प्रेम-गन्धेनापि रहिताः ! यद्य् आवेग-वशाद् भ्रमाद् वा तद्-उपरि पादः पतेत्, तदा किं स्यात् ?"
"भो भ्रातश् चेतः ! सत्यं ब्रूषे । एतावद् दुःखम् अनुभवितुम् एव जीवन्त्यो विधात्रा वयं सृष्टाः।"
"भो दुःखिन्यः ! खलु जीवत यूयम्, अहं तु युष्मत्-प्राणैः सार्धं युष्मद्-देहेभ्यो निःसृत्याधुनैव यामि" इति ॥११॥
॥ १०.३१.१२ ॥
दिन-परिक्षये नील-कुन्तलैर्
वनरुहाननं बिभ्रद् आवृतम् ।
मनसि नः स्मरं वीर यच्छसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं तु दिन-परिक्षये सायं-काले नील-कुन्तलैर् आवृतं घन-रजस्वलं गो-रजश्-छुरितं वनरुहाननम् अलि-माला-कुल-पराग-च्छुरित-पद्म-तुल्यम् आननं बिभ्रत् । तच् च मुहुर् मुहुर् दर्शयन् नो मनसि केवलं स्मरं20 यच्छस्य् अर्पयसि । न तु सङ्गं ददासीति कपटस् त्वम् इति भावः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच् च आननम् । इति भाव इति—कुहकानाम् औपरिक-प्रेमा भवति, न त्व् आन्तर इत्य् अभिप्रायः । अत्रैव वीरत्वं नान्यत्रेत्य् अभिप्रायः ॥१२॥
कैवल्य-दीपिका : दिन- इति । कुन्तलैर् आवृतम् । घनो रजो बिभ्रत् स्वलं सुष्ठु भूषणम् । कीदृशम् ? वनरुहाननं कमलवन् मुखं दर्शयन् स्मरं परं यच्छसि । धनं गो-धनम् । भीमाद्वत् पूर्व-पद-लोपः । अत्र न-कारो द्वितीयः ॥१२॥ [मु।फ। १२.३२]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं व्रजाद् वन-गमनावधि सर्वम् एव दिनं दुनुमः, तत्र च यद् आराद् व्रजम् आयासि, तदा वा तं सन्तापं हरसि, नापि तथा प्रत्युत प्रकारान्तरेण सन्तपस्य् एव इत्य् अन्या आहुः—दिन-परिक्षये इत्य्-आदि । हे वीर ! सर्व-समर्थ ! दिन-परिक्षये व्रजागमन-समये नो\ऽस्माकं मनसि स्मरं यच्छसि । वस्तुतस् त्व् अस्माकं मनसि प्रेम विना स्मरो नास्ति । त्वम् एव तद्-बलाद् आरोप्य विकलयसि, तत्रापि मुहुर् एव न सकृत् । नील-कुन्तलैर् अतिश्याम-चूर्ण-कुन्तलैर् अलकैर् आवृतम् एक-देशेनापि संज्ञा गम्यते । कुन्तलाश् चूर्ण-कुन्तलाः ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सम्पूर्ण-दिनं दुःखेनैव वयं गमयामः । सायं व्रजे त्वद्-आगमनेऽपि दुर्भगा न सुखं लभामहे इत्य् आहुः—दिन- इति । दिनस्य परितः क्षये अत्यन्ते सतीति दुःखाधिक्यं सूचितम् । नीलाः कुन्तला अलकाः, तेषाम् एवोपरि श्री-मुखस्यावरणेन शोभा-भरापादनात् । अत एवाग्रे वक्ष्यते अक्रूरेण—मुखं मुकुन्दस्य गुडालकावृतं [भा।पु। १०.३८.९] इति । तैर् आवृतम् इत्य्-आदिना परम-सौन्दर्यम् अभिप्रेतम् । तच् च मुहुः स्मरार्पणे हेतुः । तथा दिन-परिक्षये इति च तस्य कामोदय-वेलात्वात् । कुन्तलावृतत्वादिकं सहज-सौन्दर्य-परिकरत्वेन बिभ्रत् प्रकटयन्, तच् च नोऽस्मान् दर्शयन्, यदि चादर्शयन् स्व-गृहान्तः प्रविशसि, तथापि मुहुः कामार्पणं न स्याद् इति भावः । मुहुर् इति गो-सम्भालनादि-च्छलेन पुनः पुनः परितो बहुधा निरीक्षणेन स्मरार्पणस्यापि पौनःपुन्यम् ।
यद् वा, कथञ्चिद् विचारेऽपि सति स्मरस्य मुहुर् उदयो मनसि इति स्मरस्य अत्यन्त-मनो-व्यापकत्वम् अप्रतिकार्यत्वं च । स्मरम् इति स्मरण-मात्रेण यः क्षोभकः, स साक्षाद्-दर्शनेन परम-क्षोभं कुर्याद् एवेति सूचितम् । तत्र सामर्थ्यं दर्शयन्ति—हे वीर ! इति । किं वात्रैव तव वीरत्वम्, न त्व् अन्यत्रेति क्रोध-नर्मोक्तिः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, घन-रजो बिभ्रत् । अत एव स्वलं सुष्ठ्व् अलङ्कृतम् इत्य् अर्थः । यद् वा, सुष्ठु अलम् अतिशयेन बिभ्रद् इत्य् अनेन दर्शयन्न् इत्य् अनेन वास्य अन्वयः ।
यद् वा, बिभ्रद् "वेणुम्" इति शेषः । मोह-मयेन प्रेम-वैवश्येन वा साक्षात्-तद्-उच्चारणाशक्तेः । यद् वा, घनं वेणु-लक्षणं रजश् च गव्यम् एव बिभ्रत् । अन्यत् समानम्। अहो व्रजान्तस् तादृश-वेश-दर्शनेनापि स्मरोऽभूत् । अधुना च वनान्तर् निशि रत्य्-अर्थं नागर-वेशेन, तत्रापि विरहे स्मरण-विशेषेणासौ वर्धेतैवेति विलम्बं मा कुरु इति भावः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दिनस्य परितः क्षये अत्यन्त-प्रान्ते सतीति दुःखाधिक्यं सूचितम् । नीलाः कुन्तला अलकाः, तेषां ललाटोपरि श्री-मुखस्यावरणेन शोभा-भरापादनात् तैर् आवृतम् इति सहज-परम-सौन्दर्यम् अभिप्रेतम् । अत एव धन-रजस्वलम्, गो धन-वित्तयोः इति विश्व-प्रकाशाद्, गो-रजश्-छुरितम् इति । रजसापि तद्-उल्लासोऽभिप्रेतः, पङ्काङ्ग-राग-रुचिरौ [भा।पु। १०.८.२३] इतिवत् । विशेषतस् तु गोपोचित-वेशस्य तस्य गोपी-जातिषु स्वेषूद्दीपनत्वाद् अनुवादः । ततश् च सामान्यतः स्मरार्पणे हेतुः । विशेषतस् तु दिन-परिक्षये नील-कुन्तलैर् इति दर्शयन्न् इति च पूर्वस्य कामोदय-वेलात्वात्, उत्तरस्य च भावातिशय-सूचकत्वात् । यदि चादर्शयन् स्व-गृहान्तः प्रविशति, तथापि तादृशं कामार्पणं न स्याद् इति भावः । तत्रापि मुहुर् इति । गो-सम्भालनादि-च्छलेन पुनः पुनः परितो बहुधा निरीक्षणेन स्मरार्पणस्यापि पौनःपुन्यं दर्शितम् । तच् च कथञ्चित् विचार-भरेण संवरीतुम् इष्यमाणस्यापि तस्य मुहुर् उद्भटीकरणं । मनसि इति स्मरस्यात्यन्त-मनो-व्यापकत्वम् अप्रतिकार्यत्वं च । श्लेषेण स्मरम् इति यः कान्त-जन-स्मरण-मात्रेण क्षोभकः, तं साक्षाद् यच्छसि इति तस्य महत्त्वं सूचितम् ।
तत्र सामर्थ्यं दर्शयन्ति—हे वीर ! इति । तत्रैव तव वीरत्वं, न त्व् अन्यत्रेति स-प्रणय-रोष-नर्म ध्वनितम् । वस्तुतस् तु तादृश-स्वीय-भावोद्दीपनम् इति भावस्य मुहुर् अनूह्यते । अहो व्रजान्तस्-तादृश-दर्शनेनापि स्मरोऽभूत् । अधुना च वनान्तर् निशि रत्य्-अर्थ-नागर-वेशेन, तत्रापि विरहे स्मरण-विशेषेणासौ वर्धेतैवेति विलम्बं मा कुरु इति भावः ।
एवं श्लोक-द्वयेऽस्मिन्न् इदम् अपि व्यज्यते—नित्यम् एवास्मद्-अभीष्टम् अपूरयित्वापि गच्छसि । त्वय्य् अस्माकं मनः स्नेहम् एव वहति, न तु तद्-अभावेनौदासीन्यं । यं स्मरं वहति, तं तु त्वत्-प्रेरितयैव, न तु स्वतः । तथा त्वत्-स्नेहमयतयैव, न तु रूक्षतया स्नेहस्य स्वभावजत्वात्, त्वं पुनर् अस्मासु सङ्गेच्छया सङ्गच्छमानासु स्मरम् एव ददासि, न तु मिथः स्नेहोचितं सङ्गं । तस्माद् अस्माकं सर्वं स्नेहमयम् एव, भवतस् तु कपट-मयम् एवेति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गमन-समये तावद् दुःखत्वम् उचितम् एव । आगमने वा सुखदो\ऽपि न च तथेत्य् आहुः—दिन-परिक्षये इत्य्-आदि । हे वीर ! दिन-परिक्षये सायं व्रजागमन-समये नील-कुन्तलैर् आवृतं वनरुहाननं दर्शयन् नो\ऽस्माकं मनसि स्मरं बिभ्रद् यच्छसि । असन्तम् अप्य् अस्माकं हृदये स्मरं धृत्वा अर्पयसि । सो\ऽपि नागच्छति, बलाद् एवाकृष्यार्पयसीति बिभ्रच्-छब्द-तात्पर्यम् । हे नील ! श्याम ! यद् वा, नितराम् ईलयतीति नीलः, इलः प्रेरणे, कुन्तलैर् आवृतम् इति गो-चारण-श्रम-व्यञ्जकम् । चारु यथा स्यात्, तथा दर्शयन्, कुन्तलावृतत्वे कुन्तलान् संवार्य दर्शयन्न् इति चारु-शब्दार्थः । तत् साधूक्तं—कुहक ! नो मनः क्षोभयन्ति [भा।पु। १०.३१.१०] इति ॥१२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं दिवा वृन्दावन-प्रदेशे क्रीडया दिवसम् अतिवाह्य अस्मद्-उपेक्षया रसान्तरालम्बनैः सह सुखम् अनुभूय, सायं-काले काम इव वेलायां सम्यक् शोभा-दर्शनासामर्थ्यात् दुःखाधिक्यं सूचितम् । नीलाश् च ते कुन्तलाश् च नील-कुन्तलाः, तैर् आवृतम् । अनेन शोभाधिक्यं सूचितम् । वन-रुहाननं जलरुह-तुल्यम् आननं बिभ्रत्। यथालीभिर् उत्पल-स्थित-मकरन्दः पीयते, तथात्रालकालिभिर् मुख-कमल-स्थित-लावण्य-मकरन्दः पीयत इत्य् अर्थः । घन-रजस्वलम् इति पराग-च्छुरितत्वं कमलस्योपमानत्वात् । तच् च मुहुर् वारं वारं दर्शयन् । कदाचिद् गृह-मध्ये प्रविशन्, कदाचित् सर्वतो गोपीः कटाक्ष-वीक्षणेन सम्मानयन् नोऽस्माकं मनसि पौनःपुन्येन स्मरं स्मरण-मात्रेण मनः-क्षोभकं, किं पुनर् दर्शनेनेति । मनोभवत्वात् पुनर् मनस्य् एवावस्थाम् अर्पयसि, पीडा-हेतुम् एवार्पयसि न निवर्तयसि । गो-दोहन-कर्म-नियुक्तानां तदाकरण-नियोग-च्छद्मना मुख-कमलस्य वारं वारं प्रदर्शनं कामाग्नेः सन्धुक्षणम् इति भावः ।
हे वीर ! इति सम्बोधनेनैतत् सूच्यते—अन्यो वीरस् तु प्रतिभटेषु वीर-रसम् आविष्कुर्वन् तद्-धृदयेषु शल्यम् अर्पयन् शोभते । त्वं किङ्करीषु वीर-रसं प्रकटयन् स्मर-रूपं कर्णतालीकम् अर्पयन् कथं न लज्जसे ? इति भावः । किं च, मुहुर् मुहुः दर्शयन् स्मरं यच्छसि अयम् अभिप्रायः । रसास्वादन-समयोऽयं न स्मरार्पण-समय इति अनवसरे स्मरार्पण-लिङ्गेनाविवेकित्वं सिद्ध्यतीत्य् अर्थम् इति ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वं संयोगेऽपि नैव सुखं दित्ससीत्य् आहुः—दिन-परिक्षये सायं-काले । नील-कुन्तलैः कुटिलालकैर् मन्द-मारुत-लोलैर् आवृतम् । धन-रजस्वलं धनं गो-धन-वित्तयोः इति विश्व-प्रकाशाद् गो-रजश्-छुरितम् । वनरुहाननं लोलानि माला-ललित-पराग-भर-च्छुरित-सरसिज-सदृशम् आननं बिभ्रत्, तच् च मुहुर् दर्शयन् गो-सम्भालन-प्रिय-सखान्वेषण-च्छलेन इतस् ततः परिवृत्यास्मन्-नयन-गोचरीभवन् स्व-दर्शनस्य सर्व-जनानन्दकं स्वभावं ज्ञात्वा एताः कष्ट-सिन्धाव् एव निमज्जयामीति विमृश्य नोऽस्मभ्यं स्मरं यच्छसि । य एव कुल-धर्म-पदवीं विष-ज्वालाम् इवानुभाव्यास्मान् उन्माद्य वनेष्व् आनीयैवं रोदयतीति भावः । हे वीर ! व्रज-स्त्रीणां धर्म-ध्वंसनार्थम् एव प्रवर्तित-स्मर-शर-प्रहार ॥१२॥
॥ १०.३१.१३ ॥
प्रणत-कामदं पद्मजार्चितं
धरणि-मण्डनं ध्येयम् आपदि ।
चरण-पङ्कजं शन्तमं च ते
रमण नः स्तनेष्व् अर्पयाधिहन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽधुना कपटं विहायैवं कुर्व् इति प्रार्थयन्ति श्लोक-द्वयेन—प्रणत-कामदम् इति । हे अधिहन् ! हे रमण ! पद्मजेन ब्रह्मणा अर्चितम् । आपदि ध्येयं ध्यान-मात्रेणापन्-निवर्तकं । शन्तमं च सेवा-समयेऽपि सुखतमं ते चरण-पङ्कजं काम-ताप-शान्तये नः स्तनेष्व् अर्पय इति ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् अनुपलभ्यैव बोधयन्त्य आहुः—अत इति । यतो नः स्मरं यच्छसि इत्य् अतो हेतोः । पुंस्य् आधिर् मानसी व्यथा इत्य् अमरः । आधिः काम-पीडा, तां हन्ति इति तथा, अन्यथा नाम-वैयर्थ्यं स्याद् इति भावः । एतत् समर्थक-सम्बोधनान्तरम् आहुः—रमण इति । रमते निःशङ्कम् इति रमणः । इह रात्रौ न कोऽप्य् आयास्यतीति भावः । प्रणतानां नागाङ्गनादीनां वाञ्छितदम् । वत्साहरण-रूपापराधित्वेन वृन्दावने नित्यम् आगत्य पद्मजेन अर्चितम् । धरण्या भूमेर् मण्डनं भूषणम् । चरण-पङ्कजम् इत्य् उक्त्या ताप-हारित्वं ध्वनितम् ॥१३॥
[अतः परं विश्वनाथ-पादानां टीका अक्षरश उद्धृता ।]
कैवल्य-दीपिका : प्रणत- इति । पद्मजो ब्रह्मा लक्ष्मीर् वा । पद्मजे इत्य् अत्र जनसनेति विट् विद्धन्तोर् इति आत्वम् । शन्तमं सुखतमम् । ते नस् त्वदीयानाम् अस्माकम् । अत्राद्य-पादयोर् दल-द्वये क्रमात् प-कार-ध-कारौ अन्त्ययोस् तृतीय-वर्णो न-कारः ॥१३॥ [मु।फ। १२.३३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भोः ! यद् गतं, तद् गतम् एव । सम्प्रति किं कर्तव्यम् ? तद् वदत इत्य् आशङ्क्यान्या आहुः—हे रमण ! चरण-पङ्कजं नो\ऽस्माकं स्तनेष्व् अर्पय । आपदि विरहे ध्येयम् । प्रणत-कामदम्, वयं किम् अप्रणताः ? पद्मजार्चितम् अस्माभिः किं नार्च्यते ? धरणी-मण्डनम् इति धरण्याम् एव निरन्तरं भ्रमणीयम् । अस्माकम् अपि वक्षो-मण्डनं भवत्व् इत्य् आक्षेपः ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं गीतेन जात-स्मर-क्षोभात् पूर्वतो विशेषेण वर्णयन्त्यः प्रार्थितम् अपि वैयग्र्यात् पुनः प्रार्थयन्ते—प्रणत- इति द्वाभ्याम् । प्रणतानां कामदम् अभीष्टदम् इति सर्वार्थ-प्रदत्वम् उक्तम् । अत एव पद्मजेनार्चितम् इति पारमैश्वर्यम् । धरणिं भू-तलं सुन्दरासाधारण-लक्षणैर् ध्वजादिभिर् प्रेम-भक्ति-प्रवर्तनेन च मण्डयति इति । तथा तद् इति सौन्दर्यं कृपालुत्वं च । ध्येयम् आपदि इति भक्ति-विघ्नादि-सर्वापन्-निवर्तकत्वम् । अनेन भक्ति-प्रवर्तनम् एव दृढी-कृतम् । एवं पूर्ववत् पङ्कज-रूपकेण सूचितम् । सर्वार्तह-साधनत्वं दर्शितम् । दुःखादि-ध्वंसनेन कामदत्वेन च स्वतः परम-फलत्वं चाहुः—शन्तमं च इति । य एतद् आत्मोद्देशेन तद्-द्वयानुसारेण सम्बोधन-द्वयं विवेचनीयम् । अतोऽस्माकं विरहादि-व्यथां नाशय विचित्र-क्रीडादिना सुखं च सम्पादय । तथा आत्मानं च अर्पय इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, प्रणतानां भक्तानां ब्रह्मादीनां कामदम्, पद्मजया लक्ष्म्या अर्चितम् इति परम-सौभाग्य-निधित्वं । धरणिं लक्ष्मी-द्वितीयां निज-प्रियां विचित्र-क्रीडया स्तनोपर्य्-अवस्थित्या च मण्डयति इति । यद् वा, धरण्या मण्डनं कुच-कुङ्कुमादिना चित्रादि-निर्माणेन चालङ्कारो यस्येति प्रिय-जन-परवशत्वं रसिकत्वं च । एवं लक्ष्मीतोऽपि धरण्यां प्रीतिर् अधिका ध्वनिता । सा श्री-वराह-पुराणादौ प्रसिद्धेव । ध्येयम् आपदि इति विरह-दुःख-मोचकत्वं, परं शन्तमं सुख-प्रदं, तद्-आत्मकं च । एवं पक्ष-द्वये यथोत्तरं श्रैष्ठ्यम् । ते त्वदीयानां नः । अतोऽर्पणं युक्तम् एवेति भावः ।
किं च, हे रमण ! इति । तत्रापि तव रति-शीलत्वाद् इत्य् अर्थः । आधिहन् इति । अन्यथा अस्माकम् अन्त्य-दशापत्त्या तवाधि-हन्तृत्व-कीर्तेर् लोपः स्याद् इति भावः । अस्यैवं विस्तारोऽग्रे श्रीमद्-अक्रूर-मनोरथे यद् अर्चितम् [१०.३८.८]21 इति, तत्र प्रणत- [१०.३८.३६] इत्य् अस्य विस्तारः । ब्रह्मेत्य्-आदि-ध्येयम् इत्य् अस्य । मुनिभिर् इति धरणी इत्य् अस्य । सात्वतैर् इति गोचारणायेति च शन्तमम् इत्य् अस्य । यद् गोपिकाणाम् इति । एवं पूर्वम् उक्तान् पाप-हन्तृत्वादि-माहात्म्याद् अत्र कामदत्वादिना विशेष ऊह्याः । तत्र च पूर्वं द्वितीय-पक्षे निज-दैन्य-निवेदन-पूर्वकम् एव प्रार्थनम् । अधुना च गीत-क्रमेण श्री-पदाब्जे मनः-प्रवेशात् तस्यैव मुख्याद्य्-अपेक्षया केवलं तद्-एक-वर्णनेनैवेति भेदः । किं च, पूर्वं तत्-प्रयोजनं साक्षाद् एवोक्तं हृच्-छयं कृन्धि [१०.३१.७] इति । अत्र च आधिहन्न् इति सम्बोधन-द्वारा परोक्ष-वादेनैव तस्य चोत्कर्षः—परोक्ष-वादा ऋषयः परोक्षं मम च प्रियं [भा।पु। ११.२१.३५] इति श्री-भगवद्-उक्तेः । तेन च पूर्वं काम-रोगस्यैव, अधुना चाशेष-मानस-पीडाया एव नाश इत्य् एषा दिक् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं प्रहसितम् [१०.३१.१०] इत्य्-आदिभिस् तासाम् एव प्रेमोक्ति-द्वारा पूर्वम् अवर्णितः श्री-कृष्णस्य तासु पूर्व-रागः श्री-मुनीन्द्रेण स्पष्टीकृतः । तासु तदीय-रागस्य ताभिर् अनुभूयमानतया वर्णनेनैव महा-रसावहत्वाद् इति ज्ञेयम् । एवं तद्-अङ्ग-सङ्गानुरागे तस्यैव दोषं विन्यस्य तथैव तत्-प्रार्थना-द्वयम् उपसंहरन्त्यः स्वयं गीतेन जात-स्मर-क्षोभाः पुनः प्रार्थयन्ते—प्रणत- इति द्वाभ्याम् ।
प्रणतानां नलकूवर-नाग-तत्-पत्न्य्-आदीनाम् अभीष्टदम् इति सर्वार्थ-प्रदत्वम् उक्तम् । अत एव बाल-वत्सान् हृत्वा ज्ञात-तत्त्वेन वन्द्यमान-चरणः पथि वृद्धैर् इत्य् अनुसारान् नित्यम् एवागच्छता वा विखनसार्थित [१०.३१.४] इत्य् अस्य व्याख्यानुसारेण वा पद्मजेनार्चितम् इति पारमैश्वर्यं धरणीं भूतलं सुन्दरासाधारण-लक्षणैर् ध्वजादिभिर् मण्डयति इति । तथा तद् इति सौन्दर्यं कृपालुत्वं च ध्येयम् आपदि इति इन्द्र-कृत-वृष्ट्य्-आदाव् अनुभवात् सर्वापन्-निवर्तकत्वम् ।
एवं सर्वार्थ-साधकत्वम् उक्त्वा, स्वतः परम-फलत्वम् आहुः—शन्तमं च इति । एवं दुःख-हानि-सुखावाप्ति-हेतुत्वं यद् उक्तं, तद् अनुसार्यैव सम्बोधन-द्वयं विवेचनीयम् । अतोऽस्माकं विरहादि-व्यथां नाशय विचित्र-क्रीडादिना सुखं च सम्पादय इति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतो व्रजाद् गमन-समये पशु-चारण-जनित-शिल-तृणाङ्कुर-लब्धावसाद-चरण-स्मरण-दुःखस्य शान्तिर् न विन्यस्त-स्तनाधिकरणक-तदीय-स्पर्शेन सम्भवतीति तथैव कर्तुम् उचितम् । एवम् आगमन-समये\ऽपि वदनाम्बुज-दर्शन-करणक-मनो\ऽधिकरणक-स्मरार्पण-जनित-दुःखं च न विनाधरामृत-दानेनापसरतीति च तथैव कर्तुम् उचितम् इति च दुःख-द्वयस्य निर्वापणार्थम् उपाय-द्वयं क्रमात् श्लोक-द्वयेनाहुः—प्रणत-कामदम् इति द्वाभ्याम् । हे रमण ! हे आधिहन् ! चरण-पङ्कजं स्तनेष्व् अर्पय । कीदृशम् ? शन्तमं कल्याणतमम् । शं शब्दो\ऽव्ययः, शंयुर् इत्य्-आदि-दृष्टेः। प्रणतानां कामदम् अभीष्टदम् इति इष्टम् । पद्मजेन ब्रह्मणा अर्चितम् इति दुर्लभम् । धरणी-मण्डनम् इति करुणा-मकरन्द-निष्यन्दि । आपदि ध्येयम् इति सर्वापद्-विनाशकम् ॥१३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : स्मर्यमाणेन तव पूर्वाचरणेनेदानीं मनसि क्षोभो जायते । अतः कपटं विहाय सङ्गं देहीति प्रार्थयन्ते । यद्यप्य् अयम् अर्थः पूर्वं प्रार्थित एव—प्रणत-देहिनाम् [१०.३१.७] इत्य् अनेन पादाम्बुजार्पणं कुचेषु प्रार्थितम् एव, तथापि विस्मितत्वात् पुनर् अपि प्रार्थयते । अथवा, बहु-वक्तृत्वान् न पुनर्-उक्तिः । एवं वर्णनेन विरहार्ति-विह्वलत्वाद् इव । चरण-पङ्कज-स्थापनं छद्मना पुनर् अपि सम्भोगम् एव प्रार्थयन्ते—सुरत-वर्धनम् इत्य् अस्मिन् श्लोके स्पष्टीभविष्यत इति—प्रणत- इति । हे रमण ! रति-प्रद ते चरण-पङ्कजं नः स्तनेष्व् अर्पय । कीदृशम् ? प्रणतानां कामदं सर्वम् अभीष्ट-प्रदम्, नलकूवरादिषु तथा दर्शनात् । पद्मजेन ब्रह्मणा अर्चितं पूजितम्,
दृष्ट्वा त्वरेण निज-धोरणतोऽवतीर्य
पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य [भा।पु। १०.१३.६२] इति परमावश्यकत्वात् ।
धरणि-मण्डनं ध्वजादिभिः षोडशश्-चिह्नैः धरणिं मण्डयतीति कृपालुत्वम् उक्तम् । किं चान्ये देवाः पादैर् भुवनं स्पृशन्ति । अयं तु देवोत्तमः सुतरां परं तु वृन्दावन-भूमेर् अलौकिकं माधुर्यं येनाकृष्टाः पादत्राणम् अन्तरेण पाद-सञ्चारिणा भूम्याः जनितं सुखम् अनुभवति । भू-दृष्टान्तेन तम् अलङ्करणं सम्भाव्याशासते ।
ध्येयम् आपदि ध्यान-मात्रेण सर्वापन्-निवारकं गजेन्द्रादिषु तथा श्रूयमाणत्वात् । तथा वयम् अपि स्मरापद्-ग्रस्तास् ततोऽस्मान् मोचयेति ध्यान-मात्रम् अघ-निवर्तकं, किम् उत स्पर्शः ? इति भावः । कैमुत्य-न्यायेन स्पर्शम् एवाशासते एव सकामानाम् अभीष्ट-प्रदत्वेन आर्ति-नामार्ति-निवर्तकत्वेन सेव्यत्वम् उक्त्वालं-कर्माणाम् अलङ्कृति-प्रदत्वेन सेव्यत्वम् उक्त्वा भूस् तु वराह-भोग्या नित्य-प्रिया वृन्दावन-भुवस् ततोऽपि वैशिष्ट्यतस् तस्या नित्य-सम्बन्धं चोक्त्वा निष्कामानां परम-पुरुषार्थम् आहुः—सन्तमं सेवा-समये सुख-प्रदं सुख-रूपं च एतादृश-चरण-पङ्कजं शैत्य-हेतुत्वात् । ततः स्तनेष्व् अर्पय । विशेषण-फलं स्वस्मिन्न् एव पर्यवस्यति । त्वच्-चरण-पङ्कजं स्वभावत एव प्रणत-कामदम् । वयं प्रणताः । तासाम् अभीष्ट-प्राप्तिर् यदि नाभविष्यत्, तदा कोऽपि प्रणतो नाभविष्यत् । पद्मजार्चितं ब्रह्माण्डाधिकृतेन ब्रह्मणा पूजिता वयम् अपि मधुर-रसाधिकृताः । यद्य् अस्माकं रसाधिकार-सिद्धिर् नाभविष्यत्, तदा कस्याप्य् अधिकार-सिद्धिर् नाभविष्यत् । ब्रह्मा तु स्वाधिकार-सिद्ध्य्-अर्थं पूजयति, तथा वयम् अपि । धरणि-मण्डनम् इति वयम् अपि भू-सादृशेनालङ्कारार्थं स्वीकुर्म इति । आपदि ध्येयं यथा गजेन्द्रादय आपदो मोचिताः, तथा वयम् अपि स्मरापदो मोचनीया इति । यदि वास्माकम् आपन्-निर्वर्तनं नाभविष्यत्, तदा कोऽप्य् आर्तस् तव पादोपसृतिं नाकरिष्यत् । वयम् आर्ता आर्ति-नाशाय तव पाद-स्पर्शं कामयामहे इति । शन्तमं सेवा-समये निष्कामानां सुख-रूपं वयम् अपि निष्क्रामाः केशैर् निर्वोढुम् अतिलङ्घ्य समस्त-बन्धूनां स्तनेषु चरण-पङ्कजं निधेहीति दैन्यम् आवेदितम् । हे रमण ! हे आर्ति-हरण ! इति विशेषण-द्वयेनेदं सूच्यते इति पदत्वेनाधिहन्तृत्वेन तव प्रसिद्धिर् अस्ति । भक्ताभीष्ट-प्रदत्वेन चरण-कीर्तिर् अप्य् अस्ति । अस्मान् मनोरथ्या पूरणे महती तव प्रसिद्धिर् भविष्यतीति भावः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, यद्य् अहं सदा दुःखयाम्य् एवेति निश्चिनुध्वे, तर्ह्य् अलं मया युष्माकम् इति तत्-कोपम् आशङ्क्य हन्त हन्त स्वकर्म-फल-दुःखान्धाभिस् त्वय्य् अपि दोष आरोपित इत्य् अनुतप्य तं प्रसादयितुं सर्व-सुखदत्वेन स्तुवन्त्यस् त्वयैवास्माकं प्रयोजनम् इति द्योतयन्त्यः स्व-दुःखोपशमनं प्रार्थयन्ते—प्रणत- इति द्वाभ्याम् । प्रणतानाम् अपराधीभूयापि नम्राणां कालिय-तत्-पत्न्य्-आदीनां कामदं । पद्मजेन ब्रह्मणा स्वापराधोपशमनार्थम् अर्चितम् । अतोऽस्माकम् अपराधः क्षम्यताम् इति भावः । धरणि-मण्डनम् इत्य् अस्मत्-कुचान् अपि तेषु चरणार्पणेन मण्डयेति भावः । ध्येयम् अपदि इति अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ [भा।पु। १०.८.१६] इति गर्गोक्तेर् इति । आपदोऽस्मांस् त्रायस्वेति भावः । सर्वत्र हेतुः—शन्तमं सर्व-कल्याण-रूपं सर्व-सुख-रूपं च । आधिहन्, आधिं हन्तुम् इत्य् अर्थः, न च स्तनेषु चरणार्पणे तव कोऽपि श्रमः । प्रत्युत सुखम् एवेत्य् आहुः—हे रमण ! रिरंसोस् तव तेनैवाभीष्ट-सिद्धिर् भाविनीति भावः ॥१३॥
॥ १०.३१.१४ ॥
सुरत-वर्धनं शोक-नाशनं
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग22-विस्मारणं नृणां
वितर वीर नस् तेऽधरामृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च, हे वीर ! तेऽधरामृतं नो वितर देहि । स्वरितेन नादितेन वेणुना सुष्ठु चुम्बितम् इति नादामृत-वासितम् इति भावः । इतर-राग-विस्मारणं नृणाम् इतरेषु सार्वभौमादि-सुखेषु रागम् इच्छां विस्मारयति विलापयतीति तथा तत् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आहुः—अपि च इति । हे वीर काम-जय-वीर ! इति भाव इति शङ्ख-क्षीर-न्याये नातीवानन्द-जनकम् इत्य् अभिप्रायः । स्तन-तट-चर्णार्पणोद्बुद्ध-कामाग्नि-ज्वाला-शमकम् अधरामृतं देयम् एव । अन्यथा कामोऽस्मान् धक्ष्यतीत्य् अर्थः । सुरत-वर्धनं निधुवनेऽधरामृत-पानेऽतीवानन्ददो भवतीति भावः । आनन्द-जनकत्वाच् छोकं मन्मथ-तापं नाशयतीति तथा । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् इत्य् अमरः ॥१४॥
कैवल्य-दीपिका : सुरत- इति । स्वरितः षड्जादि-स्वर-युक्तः । इतर-रागा अधरामृताद् अन्येऽभिलाषाः । अत्र पूर्वार्धे द्वितीयो रेफः, उत्तरार्धे द्वितीयः ॥१४॥ [मु।फ। १२.३४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : धरणी-मण्डनत्वेन यदि चरण-पङ्कजं स्तनेषु नार्पयसि, तदा तवाधर-सुधया धरण्याः सम्बन्धो नास्ति, ताम् एवाधर-सुधां नो वितरेत्य् अन्याः सोत्प्रासम् आहुः—सुरत-वर्धनम् इत्य्-आदि । वीर ! विशेषेण ईरयसीति तथा । ते अधरामृतं वितर । तत् तु वेणुना पीतम् इति चेत्, सम्यक् तेन न पीतम् इत्य् आहुः—स्वरित-वेणुना सुष्ठु चुम्बितम्, न तु पीतम् । वेणूच्छिष्टं पातुम् इच्छत । अहो वो निर्लज्जता इत्य् आशङ्क्याहुः—शोक-नाशनं शोक-नाशनत्वेन तथा-भूतम् अपि पातुम् इष्यते, उपधा तथा विचारो न क्रियते, न केवलं शोक-नाशनं, सुरतं प्रेमानन्दः, तस्य वर्धनम् । रसायनं हि द्वेधा भवति—स्वस्थस्यौजस्करं किञ्चित् किञ्चिद् आर्तस्य रोग-नुत् । इदं तूभयम् एव । अत इतर-रोग-विस्मारणम् अन्य-स्पृहा-निरासकम् ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुरतं सुशोभनम् । रतं रतिः प्रेम । किं वा, सम्भोग-सुखं वर्धयतीति तथा तद् इति मुहुर् लब्धेऽपि तस्मिन्न् अतृप्तिः सूचिता । निज-धार्ष्ट्यादिकं च परिहृतम् । शोकोऽकृतार्थत्वादिना विरहेण वा तं नाशयति तथा तद् इति । अन्यथा शोक-नाशो न भवतीति सूचितम् । तथा स्वरित- इति गुण-विशेषेण परम-मादकता-हेतु-सम्पर्क-मात्रकत्वाद् इति तेनैव सर्व-दुःख-विस्मृतिर् न त्व् अन्येति ध्वनितम् ।
यद् वा, पूर्वोक्त-वेणु-भाग्य-भराभिप्रायेण तत् सुष्ठु-चुम्बिततया परम-मधुरत्वं सौभाग्य-भर-प्रदत्वं च । चुम्बितम् इति भोगानाचरणेन तत्-क्षीणतापि परिहृता । नृणां यानि इतराणि अधरामृत-व्यतिरिक्तानि सार्वभौमादि-मोक्षान्त-सुखानि तेषु राग-विस्मारणम् इति परम-मोहनत्वम् । एवं देव-भोग्याद् अमृतात् मोक्षाख्याद् अपि वैशिष्ट्यं दर्शितम् । तथा श्रवणाद् अपि भक्ति-प्रकारेभ्योऽप्य् ऊह्यम् । एवं तद्-दर्शन-सुखाद् अपि वैशिष्ट्यम् ऊह्यम् । तादृश-प्रियतम-जनैक-प्राप्यत्वात् । एवं विशेषणानाम् एषां यथोत्तरं क्रमेण हेतु-हेतुमत्तोह्या ।
न च तवादेयं किञ्चिद् अस्तीत्य् आशयेनाहुः—वीर ! हे दान-शूरेति । यद् वा, श्लेषेण हे काम-युद्ध-वीरेति । तद् युक्तम् एवेति भावः । वीर इति किशोरं प्रति सम्बोधनम् एतद् देश-रीत्यैतेन च रसिकत्वम् एव बाध्यते । अत एव तस्य पौनःपुन्यम् । तथापि सङ्गत्य्-अनुसारेणार्थ-भेदो लिख्यत इति दिक् । अन्यत् तैर् व्यञ्जितम् ।
यद् वा, स्वरिते षड्जादि-स्वरं प्रापितेन वेणुना नृणाम् अपि, किम् उत नारीणाम् इत्य् अर्थः । तेषां तत्-प्राप्तिस् ताम्बूल-चर्वितादि-सम्बन्धेन कथञ्चिद् ऊह्या । यद् वा, नृणां मध्ये वीर इत्य् अन्वयः । अर्थः स एव । इतरेति तस्मिन् प्राप्ते पुनर् अन्यत् किञ्चिन् नेष्ट-निजौद्धृत्यादि-परिहारार्थं च तत्-स्वभाव एवोक्तः । एवं पूर्वतोऽत्र विशेषः स्पष्ट एव । अत एव पूर्वं सीधुना [१०.३१.८] इति । अत्र चामृतम् इत्य् एषा दिक् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधरामृतम् अधर एवामृतं तत् सुरतं प्रेम-विशेषम् असम्भोगेच्छां वर्धयति इति तथा तद् इति मध्व्-आदिवन् मादकत्वम् उक्त्वा मुहुर् लब्धेऽपि तस्मिन्न् न तृप्तिः सूचिता । निज-धार्ष्ट्यादिकं च परिहृतं । शोकं त्वद्-अप्राप्ति-दुःखस्यानुभवम् अपि नाशयति विस्तारयतीति तथा तद् इति चोक्तम् । इतर-राग-विस्मारणं तु नॄणाम् अपि, किम् उत नारीणाम्, तास्व् अप्य् अस्माकं तु तद्-विस्मारणम् इति किं वाच्यं ? शाश्वत-स्व-स्पृहया तद्-अत्यन्ताभावस्यापि सम्पादकम् इत्य् अर्थः । तद् एव प्रमाणयन्ति—स्वरित- इति वेणोः पुं-भावेन ख्यातत्वात्, तेषां तत्-प्राप्तिस् ताम्बूल-चर्वितादि-सम्बन्धेन तदीय-रसे तद्-उपचारात् क्रमतस् त्रयेण स्वेच्छा-वर्धन-दुःखान्तर-स्फूर्ति-नाशन-विषयान्तर-विस्मारणान्य् उक्त्वा तस्य परम-पुरुषार्थत्वं दर्शितम् । एवम् अर्थ-त्रयम् एव पूर्व-पद्येऽपि दर्शितम् इत्य् ऐकार्थ्यं च ज्ञेयम् । न च तवादेयं किञ्चिद् अस्तीत्य् आशयेनाहुः—वीर ! हे दान-शूरेति । अन्यत् तैः ।
अत्र नादामृत-वासितम् इति वेणु-द्वारा सुष्ठु पायकम् इत्य् अर्थः । इदं च लोभ-विशेषोत्पादकता-गमकं सुगायनस्य श्रोतृषु सुखादिना स्पर्शादीच्छा-जनकत्वात्, तत्र चामृतस्याप्य् अमृत-वासितत्वं गन्ध-युक्ति-न्यायेन परस्परं किञ्चिद् वैलक्षण्यम् इति ज्ञेयम् । यद् वा, स्वरितेन सञ्जात-षड्जादि-स्वरेण वेणुना चुम्बितम् इति तस्य मादकत्वम् एव दर्शितं, वेणोस् तच्-चुम्बनं गान-पौनःपुन्येन वैयात्याभिव्यक्तेः, तत्-सम्पर्कज-स्वरेणापि जगतोऽप्य् उन्मादकत्वाभिव्यक्तेश् च ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अधर एव अमृतम् । नृणाम् अपि ताम्बूल-चर्वितादौ, किम् उत नारीणाम् । तत्राधर-तदीय-रसयोर् अभेदोपचारः ॥१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दुःखान्तर-नाशायोपायान्तरम् आहुः—सुरत- इत्य्-आदि । हे वीर ! ते तव अधरामृतं वितर । कीदृशम् ? सुरतं प्रेम, तद्-वर्धनम्, यतः शोक-नाशनम् । ननु तद् वेणुनैव पीतम् इति चेत्, न, तेन सुष्ठु चुम्बितम् एव, न तु सम्यक् पीतम् । ननूच्छिष्टं पातुं न युज्यत इति चेत्, तत्राहुः—इतर-राग-विस्मारणं परम-रसायनौषधम् । औषधे हि तथा विचारो न क्रियते, मध्व्-आदिवद् इति । चलसि यद् व्रजात् [भा।पु। १०.३१.११], दिन-परिक्षये [भा।पु। १०.३१.१२] इत्य्-आदि द्वाभ्यां श्लोकाभ्यां प्रतिपादित-दुःख-द्वय-शान्त्य्-उपायत्वेन कथितयोः स्तनादि-करणक-चरणाधरामृत-वितरणयोः, कृणु कुचेषु नः कृन्धि हृच्-छयं [भा।पु। १०.३१.७] इति, अधर-सीधुनाप्यायस्व नः [भा।पु। १०.३१.८] इत्य् आभ्यां वा सह न पौनरुक्त्यम् ॥१४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : सुरत-वादेनोक्तः । कस्यापि झटिति साक्षाद्-अर्थ-प्रत्यायको न भवतीति मनसि निधाय साक्षात्-सम्भोग-रसं प्रार्थयन्ते—सुरत- इति । पूर्वम् उक्तम् अधर-सीधुनाप्यायस्व नः [भा।पु। १०.३१.८] इति । तस्यैवेदानीं स-विशेष-प्रार्थनम् आहुः । हे वीर ! इति दान-शूरत्वम् उच्यते ते तव अधरामृतं नोऽस्मभ्यं वितर देहि । कीदृशं ? सुरतं सम्भोगेच्छां वर्धयति इति लब्धेऽपि तस्मिन् तस्य भावः सूचितः। केवलं सम्भोगेच्छाम् एव न पुष्णाति, किन्तु मानस-शोषम् अप्य् अपहरति । तथा तद् अधरामृत-पानम् अन्तरेण शोको न नश्येद् इति भावः । पुनः कीदृशम् ? स्वरित-वेणुना सुष्ठु चुम्बितम् इत्य् अनेनानुच्छिष्टत्वाभावः सूचितः । तादृशेन तेनान्यस्याप्य् अधिकार-सम्भावनं सूचितम् इति।
यद् वा, स्वरित-वेणुना षड्जादि स्वरालाप-युक्तेन वेणुनेति नाद-ब्रह्मादिभिः व्यञ्जकत्वं ध्वनितं चुम्बितम् इति सारांशस् तेनास्वादितं किङ्करीणाम् उच्छिष्टाधिकारो नान्यस्येति सूचितम् । नॄणाम् इति सामान्यतः पुरुष-मात्राणां नादामृत-श्रवणेन इतरेषु सार्वभौमादि-ब्रह्मानन्दान्तेषु सुखेषु रागम् इच्छां विस्मारयति इति, तथा यन्-मोहिताः पुरुषा अपि चलिताः किम् उत नार्यः ।
यद् वा, इतरेषु ब्रह्म-रुद्रादीनां ये रागा मालवद्याः, तान् विस्मारयति । अधरामृतं यदा बहिः प्रसरति, तदा नाद-संवलितम् एव हि निर्गच्छति । तद् अमृतं येषां नॄणां हृदि प्रविष्टम्, चुम्बितं सारांश-ग्रहणेनेति सेर्ष्य-वचनम् । इदानीम् अपि उच्छिष्टम् अपि याचितं—देहीति । अनेनोच्छिष्टेन सुरतेच्छा वर्धिष्यते । अप्राप्ति-जनित-शोकोऽपि निर्वर्तिष्यते उच्छिष्ट-कार्पण्यम् अकुर्वन् देहि । तव न काचित् क्षतिः भविष्यतीति तात्पर्यार्थः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, भो धन्वन्तरि-प्रतिम ! भिषक्-शिरोमणे ! काम-रोग-मूर्च्छिताभ्योऽस्मभ्यं किम् अप्य् औषधं देहीत्य् आहुः—सुरत-वर्धनम् इति पुष्टिकरत्वं, शोक-नाशनम् इति पीडा-हरत्वं तस्योक्तम् । न च तद् अपि महार्घ्यं मूल्यं विनैव कथं देयम् इति वाच्यम् । दान-वीरेण त्वया तद्-अतिनिकृष्टाय निष्प्राणायापि स-प्राणीकर्तुं विनैव मूल्यं दीयत एवेत्य् आहुः—स्वरितेन नादितेन वेणुना कीचकेनापि सुष्ठु सम्यक्तया चुम्बितं स्वादितम् ।
ननु, धन-जन-कुटुम्बाद्य्-आसक्तिर् एवात्र कुपथ्यम् । तद्वते जनायैतन् न दीयते तत्राहुः—इतर-राग-विस्मारणम् । इतर-वस्तुष्व् एतद् एव रागम् आसक्तिं विस्मारयतीत्य् अद्भुतम् औषधम् इदं यत् कुपथान् निवर्तयतीत्य् अस्माभिर् अनुभूयैव दृष्टम् इति भावः । नृणां मनुष्य-जाति-स्त्रीणां । वितर देहि हे वीर ! दान-वीर दया-वीरेति वा ॥१४॥
॥ १०.३१.१५ ॥
अटति यद् भवान् अह्नि काननं
त्रुटि युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षतां पक्ष्म-कृत् दृशाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, क्षणम् अपि त्वद्-अदर्शने दुःखं, दर्शने च सुखं दृष्ट्वा सर्व-सङ्ग-परित्यागेन यतय इव वयं त्रुटिः क्षणार्धम् अपि युगवद् भवति । एवम् अदर्शने दुःखम् उक्तम् । पुनश् च कथञ्चिद् दिनान्ते ते तव श्रीमन् मुखम् उद् उच्चैर् ईक्षमानानां तेषां दृषां पक्ष्मकृद् ब्रह्मा जडो मन्द एव । निमेष-मात्रम् अप्य् अन्तरम् असह्यम् इति दर्शने सुखम् उक्तम् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यच् छृणु इत्य् आहुः—किं च इति । त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः [भा।पु। ३.११.६] इत्य्-उक्तेः । इह विभक्ति-लोपस् त्व् आर्षः । दुःख-समयस्य दुरतिक्रमत्वेन विवृद्धम् इवाततत्वात् । युगायते युगवद् आचरति । युग-शब्दश् चतुर्युग-परत्वेन प्रयुक्तः । तेन दैव-द्वादश-सहस्र-वर्ष-तुल्यो भवति । दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् [भा।पु। ३.११.१८] इत्य्-उक्तेः । जडोऽनिमिषाकरणाद् इति शप्यते । यद् वा, चतुर्मुखेष्व् अष्ट-नेत्राणि स्वस्यानिमिषाणि कृत्वा स्थितोऽतः स एवाजडः परम-विद्वान् उदीक्ष्यतां उच्चैः पश्यत्व् इति ॥१५॥
कैवल्य-दीपिका : यद् यदा । त्रुटिः त्रसरेणु-त्रयोपलक्षितः कालः । अपश्यताम् अस्मद्-आदीनाम् उदीक्षताम् । पक्ष्मकृद् निमेष-कर्ता जडः नीरसत्वात् । अत्राद्य-दलयोर् अ-कारः, अन्त्ययोस् त-कारः । पाद-चतुष्के द्वितीयम् अक्षरं ट-वर्गः ॥१५॥ [मु।फ। १२.३५]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं चेत् कियान् विलम्बः क्रियताम् ? तत्राहुः—अटति इत्य्-आदि । त्रुटि युगायते त्वाम् अपश्यताम् । अपश्यताम् इति सामान्य-निर्देशात् प्राणि-मात्रस्यैव, किं पुनस् त्वयानुरागिणीनाम् अस्माकम् इत्य् अर्थः । एवं कुटिल-कुन्तलम् इत्य्-आदौ ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काननम् अटति इति श्लेषेण अरसज्ञत्वम् अभिप्रेतम् । अह्नि इति तदानीं तत्र निज-गमनाशक्तिर् उक्ता । युगायते दुःख-समयस्य दुरतिक्रमत्वेन विवृद्धम् इव गतत्वाद् इति परम-दुःखम् । अपश्यताम् अस्मादृश-जनानां किं वा सर्वेषाम् अपि व्रज-जनानां, किम् उतास्माकम् इति । यद् वा, तावका इतिवत् त्वज्-जनानाम् अपि दृशाम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, दुर्वितर्य-प्रकृते ! कदापि त्वत्तोऽस्माकं न किञ्चित् सुखं जातं, किं त्व् अदर्शने दर्शनऽपि दुःखम् एवेत्य् आहुः—अटति इति पूर्वार्धेन । व्यक्तम् एवादर्शने परम-दुःखम् । अतश् चिरम् अदर्शन-दुःखं सोढुं न शक्नुमः सत्वरं तद्-दर्शनासम्पत्त्या दुःखम् एवेत्य् अर्थः । अहो बतास्माकं परम-दौर्भाग्यम् इति भावः । तथापि तद्-दर्शनोत्कण्ठा नितरां बोधितैव दर्शने निमिष-मात्र-व्यवधानासहिष्णुत्वात् ।
यद् वा, उदीक्षमाणानां सतां पक्ष्म-कृत् कृती छेदने यः पक्ष्माणि कृन्तति, अ-कार-प्रश्लेषेण स एव अजडो रसज्ञो विद्वान् वा । यद् वा, स्व-दृशां पक्ष्मी-च्छेदेवाजडः, स एव च उदीक्षताम् उच्चैः पश्यतु । वयं तु पक्ष्म-छन्न-दृशो जडाः साक्षाद् अपि किं पश्यामः ? इति भावः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : युगायते दुःख-समयस्य दुरतिक्रमत्वेन इति परम-दृशम् अतश् चिरम् अदर्शन-दुःखम् असह्यम् इति सत्वरं दर्शनं देहीति भावः । अपश्यतां सर्वेषाम् अपि व्रज-जनानां किम् उतास्माकं ? कुटिलाः कुन्तलाश् चूर्ण-कुन्तला उपरि भागे यस्मिन्, तत् स्वत एव श्री-युक्तं मुखम् उदीक्षतां चेति च-कारान्वयः भवत्व् अन्येषां पक्ष्म-कृत् उदीक्षमाणानाम् अपीत्य् आक्षेपार्थः । अन्यत् तैः ।
यद् वा, दुर्वितर्क्य-प्रकृते कदापि त्वत्तोऽस्माकं न किञ्चित् सुखं जातं प्रत्युत अदर्शन-काले दर्शन-कालेऽपि दुःखम् एवेत्य् आहुः—अटति इति । पूर्वार्धेनादर्शन-काले दुःखम् उक्तम् । दर्शन-कालेऽपि दुःखम् आहुः—कुटिल- इति । जडः अनभिज्ञः । अनिमिषत्वाकारणात् शपणीय इति शेषः । यद् वा, उदीक्षमाणानां सतां पक्ष्म-कृत् कृती छेदने यः पक्ष्माणि कृन्तति, स एव अजडः रसज्ञो विद्वान् वा । यद् वा, स्व-दृशां पक्ष्मी-च्छेदेवाजडः, स एव च उदीक्षताम् उच्चैः पश्यतु । वयं तु पक्ष्म-छन्न-दृशो जडाः साक्षाद् अपि किं पश्यामः ? इति भावः ॥१५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ९२) : निमेषासहत्वं तासाम् एव—कुटिल इति ॥१५॥ (३९२ अपि)
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रातर् व्रजतो गमनात् सायं व्रजागमने च प्रकार-भेदेन दुःख-भेद-कारित्वम् । तद्-अन्तराल-काले\ऽपि सुतरां दुःखद एव त्वम् इति निरूपयन्त्य आहुः—अटसि इत्य्-आदि । हे रमणेति बोध्यम् । यद् यदा अह्नि दिने भवान् काननम् अटति, तदा त्वाम् अपश्यतां मद्-विधानां त्रुटिः त्रुटि-कालो युगम् इवाचरति, दुःखत्वात् । तद्-अनन्तरां वा समये कदाचिद् दर्शनं भवति, तत्रापि निमेषो युगायत इत्य् आशयेन विधिं प्रत्यसूययाहुः—कुतिल- इत्य्-आदि । ते तव श्री-मुखम् उदीक्षताम् । उदीक्षमाणानां च दृशां पक्ष्मकृद् विधाता जड एव । तं प्रति किं ब्रूमः ? अतो\ऽस्माकं कस्याम् अपि दशायां न स्वास्थ्यम् इति भावः ॥१५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् अदर्शने दुःखं दर्शनावसरेऽपि पक्ष्म-व्यवधानेन दुःखं तद् अवश्यम् एवेत्य् उभयतो व्याकुलाः सत्यो दैन्यं निवेदयन्ति—अटति इति । यद् यद् यदा भवान् काननं वृन्दावनं प्रत्य् अटति अह्नीति । रात्रौ यत्र विलसितं तत्-परिशीलनेन दिवापि सुख-विशेषोदयात् स्वस्याशक्त्या तत्र गमनाभावः सूचितः । तदा त्वाम् अपश्यतां गोपी-जनानाम् अस्मद्-दृष्टान्तेन सर्वेषाम् अपि व्रज-जनानां त्रुटिर् उपलक्षणम् एतत्, अल्पः कालो युगायते दुरतिक्रमणीयत्वात् । अदर्शने परम-दुःखावधिर् उक्तो दिवसस्यानतिबाह्यत्वाद् इति । सायं-काले वनादि-गमन-समये कुटिलाः वक्राः कुन्तला अलका यस्मिन् । तव हृदयस्य कौटिल्यं कुन्तलैश् चैव प्रकाशितम् इत्य् अर्थः । यतः शीघ्रं दर्शनं ददासीत् । श्री-मुखं श्रिया शोभया युक्तं मुखम् उदीक्षताम्, उत् उच्चैः स-तृष्णतया ईक्षताम् अस्मदृशानां सर्वेषां गोपी-जनानां दृशां पक्ष्म-कृत् विधाता जडोऽनभिज्ञ एवाभासत इत्य् अर्थः । निमेष-मात्र-व्यवधानासह्यतयासह्यत इत्य् अर्थः । एवं दर्शनस्य मुखे परां काष्ठाम् आपन्नेऽपि निमेष-व्यवधानात् दुःख-संवलितत्वम् आपाततो रमणीयत्वेऽपि उदर्के दुःखं संवलितत्वात् दुःखम् एव ।
अयम् अर्थः—देवानां श्री-मुख-दर्शन-विमुखानाम् अनिमिष-करणेन श्रीमुख-दर्शनासक्त-मनसां स-निमिषत्व-करणेन च अनुचित-कर्म-करणात् विधातरि जडत्वम् । अधुना प्रणय-संरम्भेण दोषोद्गारं प्रकाशयन्त्यः स्वस्मिन् निर्दोषत्वं व्यञ्जयन्त आहुः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, अस्माकं दुरदृष्टम् एव दुःख-प्रदं । तत्र त्वं किं कुर्याः ? इत्य् आहुः—अटति इति । यत् यदा भवान् काननं वृन्दावनम् अटति गच्छति, तदा त्वाम् अपश्यताम् अस्माकं गोपी-जनानां त्रुटिः क्षणस्य सप्त-विंशति-शततमो भागः सोऽपि युग-तुल्यो भवति । क्लीबत्वम् आर्षम् । दिवसे त्रैमासिकम् एव त्वद्-विरह-दुःखं सर्वेषां व्रज-जनानाम् अस्माकं तु तत एव त्रयो यामाः शत-कोटि-युग-प्रमाणा यद् भवन्ति । अत्र दुरदृष्टं विना किम् अन्यत् कारणं भवेत् ? इति भावः ।
पुनश् च कथञ्चिद् दिनान्ते श्री-मुखं तव उदीक्षताम् उत्कण्ठया ईक्षमाणानां तेषाम् एव गोपी-जनानां दृशां पक्ष्म-कृत् पक्ष्म-स्रष्टा विधाता जडो निर्विवेको दुःखं करोतीति शेषः। एवं च त्वद्-अदर्शने दुष्पार एव दुःख-सिन्धुः, दर्शने तु पक्ष्मोद्भवो निमेष एव यो दर्शन-विरोधी, सोऽपि नव-शत-त्रुटि-प्रमाणो भवन्-नव-शत-युगायते इत्य् उभयथापि दुःखं दुरदृष्ट-वशाद् एवेति भावः ।
त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।
शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः ।
निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः ॥ [भा।पु। ३.११.६-७] इति मैत्रेयः ।
यद् वा, कृती छेदने । दृशां स्व-चक्षुषां पक्ष्म-कृत् पक्ष्म-च्छेत्ता अजडश् चतुरो जनस् ते श्री-मुखम् उदीक्षताम् उत्कर्षेण पश्यतु, न तु वयम् अचतुरा इति भावः ॥१५ ॥
॥ १०.३१.१६ ॥
पति-सुतान्वय-भार्तृ-बान्धवान्
अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः
कितव योषितः कस् त्यजेन् निशि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् हे अच्युत ! पतीन् सुतान् अन्वयांस् तत्-संबन्धिनो भ्रातॄन् बान्धवांश् च अतिविलङ्घ्य तव समीपम् आगता वयम् । कथं-भूतस्य ? गति-विदोऽस्मद्-आगमनं जानतः, गीत-गतीर् वा जानतः, गति-विदो वयं वा । तवोद्गीतेन उच्चैर् गीतेन मोहिताः, हे कितव ! शठ ! एवं-भूता योषितो निशि स्वयम् आगतास् त्वाम् ऋते कस् त्यजेत् ? न कोऽपीत्य् अर्थः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् तव वियोगोऽस्माकम् असह्यस् तस्माद् धेतोः । अच्युत ! इति त्वं वीर्य-च्युति-रहितत्वेन क्लीबोऽसि किम् ? इति सम्बुद्ध्य्-आशयः । अस्मद्-आगमनं सुरतार्थम् एवेति जानतो विज्ञस्य । गीत-गतीः आकर्षण-सम्मोहनादि-रूपाः । अस्मद्-आगमनं यदि दर्शनार्थं, तदापि तव गानं तून्माद-करम् एवातो न वयं त्याज्याः । वयम् अपि गति-विदो गतान् अस्मान् न त्यक्ष्यतीति जानन्त्य एवागताः । हे कितव ! इति निज-स्वभावान्यथा-करणात् तव धूर्तत्वं वयं विद्मः । तेनालम् अस्मासु धूर्ततयेति भावः । निशि इत्य् उक्ते रात्रौ भीरूणां स्त्रीणां त्यागोऽनुचित इति । इत्य्-अर्थ इति स्वतः प्राप्त-वस्तुनस् त्यागो मुक्त-सङ्गस्याप्य् अन्याय्य एव,
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः ॥ इत्य्-उक्तेः ॥१६॥
कैवल्य-दीपिका : पति- इति । अन्वयः कुलम् । अतिविलङ्घ्य अतिक्रम्य । ते अन्ति तव समीपं । गतयो गान-भेदाः । हे कितव ! धूर्त ! अत्र द्वितीयस् त-कारः ॥१६॥ [मु।फ। १२.३६]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं चेत् विलम्बो न सोढव्यस् तदा गृहम् एव गच्छत इत्य् आशङ्क्य त्यक्त-गुण-मय-देहा अप्राकृत-देहाः काश्चिद् आहुः—पति-सुतेत्य् आदि । हे कितव ! धूर्त ! पत्य्-आदीन् अतिविलङ्घ्य प्रतिशयेन विशेषतो लङ्घित्वा च तद्-देह-त्यागेन तत्-तत्-सम्बन्ध-मात्रम् अपि त्यक्त्वा तवास्ति तव निकटे आगता आयाता गता इति वा । अच्युत ! इति अप्राकृतेन देहेन पुनर् इत च्युतो न भविष्याम इति कृत्वा तवास्ति गताः प्राप्ताः । गति-विदो तवानेन गतिर् इति विदः, तव तत्त्वज्ञा इत्य् अर्थः । तवोद्गीत-मोहिताः ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बान्धवा पितृ-मात्रादयः । एषां पूर्वोक्त-न्यायेन पूर्व-पूर्व-परित्यागे पर-परापेक्षया यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । अति तेषां वाक्यातिक्रमात् स्नेहादि-परित्यागाच् चातिशयेन विशेषेण च धर्माद्य्-अनपेक्षया स-मूलत्वेन लङ्घयित्वा अतिक्रम्य, आगमने हेतुः—हे अच्युत ! इति प्रपन्न-जन-रञ्जनादि-माहात्म्यतः कदाचिद् अपि विच्युतेर् असम्भवाद् इत्य् अर्थः । किं च, गतिं स्वभावम् आत्मनोऽस्माकं च वेत्सीति गति-विदः । यद् वा, तव ज्ञानम् अभिज्ञत्वं विदन्तीति विदः सुव्रतत्वादि-स्व-माहात्म्यम् अस्माकं च त्वद्-एक-गतित्वं जानासीति विदन्त्यः । किं वा, कारुण्यादि-मयं त्वत्-स्वरूपं जानत्य इत्य् अर्थः । किं च, उद्गीत-मोहिताः, कितव ! हे कपटिन् ! निज-स्वभावान्यथा-करणात् । निशि इति रात्रौ भीरूणां स्त्रीणां त्यागोऽनुचित एवेति भावः । त्यजेद् इति सम्भावनायां सप्तमी । कितव इति सम्बोधनेन, कः कितवोऽपि त्यजेत्, अपि तु कितवेनापि निशि योषितां त्यागो नैव सम्भवेद् इत्य् अर्थः । अतस् त्वयि न केवलं धूर्तत्वं परमाकृतज्ञत्वम् अपि पर्यवस्येद् इति भावः
अथवा, रात्रौ निर्जने निजान्तिके उद्गीतेन रिरंसया प्राग् आकृष्यानीतानां गोप-सुन्दरीणां पश्चात् त्यागाद् धूर्त एवासीत्य् अर्थः । अतो व्यक्तीभूतं धूर्तत्वम् अधुना दर्शनं देहीति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, कितवा धूर्ताः ! किं वा, धूर्तस्य तव योषितः, "त्वद्वद् वयम् अपि धूर्ताः, तव धूर्तत्वं सर्वं विद्म एवेत्य् अलम् अस्मासु धूर्तत्वेन" इति । एतच् च दर्शन-प्रार्थन-चातुर्यं ज्ञेयम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं च सति तद् एतद् अद्य कृतम् अत्यन्तम् अयुक्तम् इत्य् आहुः—पति- इति । बान्धवा माता-पित्र्-आदयः । अति तेषां वाक्यातिक्रमात् स्नेहादि-परित्यागाच् चातिशयेन विशेषेण च धर्माद्य्-अनपेक्षया स-मूलत्वेन लङ्घयित्वा अतिक्रम्य । आगमने हेतुः—तवोद्गीत-मोहिता इति, हरिण्य इवेति भावः । न च यादृच्छिकम् उद्गीतम्, अपि तु ज्ञान-पूर्वकम् एवेत्य् आहुः—गति-विद इति। अस्मद्-आगमनं जानत इति भावः ।
यद् वा, ननु भवत्यः परम-धीराः गीत-मात्रेण कथं मोहिताः ? तत्राहुः—गीत-गति-विशेषान् जानन्त्य इति । यैः शक्र-शर्वर-परमेष्ठि-पुरोगाः [भा।पु। १०.३५.१५] इति भावः ।
यद् वा, "भवत्यो विदग्धा ममैतादृशं स्वभावम् अपि जानन्तीति कथं न सावधाना जाताः ?" तत्राहुः—त्वत्-स्वभाव-विदोऽपि वयम् इति । मोहन-मन्त्र-प्रायत्वात् त्वद्-वानस्येति (?) भावः । अहो तद् अप्य् आस्तां स्वयम् एव तथानीता योषितः पुनर् निशि कस् त्यजेत्, सम्भावनायां लिङ्, न कोऽपीत्य् अर्थः । अत एव हे कितव ! वञ्चन-शील ! अनेनान्योऽपि कितवः कस् त्यजेत्, सर्वस्यापि तस्य कैतवे लब्धेनैवार्थेन स्व-व्यवहार-साधकत्वं भवतु तस्यापि तिरस्कारित्वम् इति तत्रापि विशेषः । अत एव हे अच्युत ! स्व-गुणाद् अव्यभिचारिन्न् इति सान्वयैव तवैषा संज्ञेति भावः॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दिवस-विहारस् त्व् एवम् एव । रजनी-विहारो वा निराविलो भवितुम्, न च तथा यतो वेणु-नादेन वनम् आनीय त्यक्त्वान्तर्धत्से इति तत्-काल-त्यक्त-देहाः सत्यो याः सद्यः सङ्गताः, ता एवोचुः—पति-सुत- इत्य्-आदि । हे कितव ! "तवास्ति सर्वम् एवानय" इति पर-सर्वस्वापहारी कितवः, तस्य सम्बोधने । तथा पत्य्-आदीन् अतिशयेन विशेषेण लङ्घयित्वा तत्-तत्-सम्बन्धिनो देहान् विहायेत्य् अर्थः । [अतिविशदायाम्]{।मर्क्} असमर्थास् ते तव अन्ति अन्तिकम् आगताः । हे अच्युत ! इति सम्बोधनेनाच्युत-समीपागमने अच्युतत्वम् एव भवितुम् उचितम् । तत्र कस् त्वद्-अन्यो निशि योषितस् त्यजेत् ? कीदृशीः ? तव गति-विदस् तवोद्गीत-मोहिताः । यद् वा, तव कीदृशस्य? गति-विदः शरण्यस्य ॥१६॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पति-सुत- इति । पत्य्-आदीन् अतिशयेन विलङ्घ्य अतिशयोऽत्र तेषां वाच्यानाकलनात् अवगणय्य । प्रत्यपत्तितयान्ते तवान्तिके समीपे आगताः । गति-विदः गतिमन् मत्त्व-भाव-रमणात्मकं जानतस् तव । यद् वा, अस्मद्-आगमनं जानतः । यद् वा, गति-विदो वयं तव रमणात्मक-गतिं स्वभावं जानन्त्यः । यद् वा, गतिं गमनम् अस्थितिं जानन्त्यः, तद् उक्तम् अत्रैव । धन्याः स्म मूढ-गतयोऽपि हरिण्य एताः [भा।पु। १०.२१.११] इत्य् अनेनोक्ता । गतिं जानन्त्य् एव । यद् वा, गतिं बहिर् ब्रह्मचर्यम्, अन्तस् तु विलास-स्वभावं जानन्त्यः । यद् वा, तव गतिं धूर्तत्वं जानन्त्यस् तव समीपे आगताः ।
ननु, मत्-स्वभावं जानीथ चेत्, तर्हि किम् आगताः ? तत्राहुः—तवोद्गीत-मोहिताः । तद् उक्तं—देव्यो विमान-गतयः स्मर-नुन्न-सारा भ्रश्यत्-प्रसून-कवरा मुमुहुर् विनीव्यः [भा।पु। १०.२१.१२] इत्य् अनेनोक्तो देवीनां मोहो मादृशीनाम् अविदग्धानां का कथा ? इति । अहो माहात्म्यं मोहन-मन्त्रात्मकस्य तव गीतस्येति भावः ।
अयम् अभिप्रायः—स्वयम् आगताश् चेत्, तदा त्याग उचितो भवेत्, तद्-उद्गीतेन तत्-तन्-नाम्नानीतानाम् अस्माकम् इदानीं त्यागेन विडम्बनं कुर्वन् धूर्तत्वं प्रकटयतीति न्यायम् आहुः—हे कितव ! धूर्त ! अन्योऽपि कितवः नायिका-दर्शनात् प्राग् एव वञ्चनां करोति, दृष्टायां रमणम् एव प्रकाशयति, तद् एवाहुः—स्वयम् एवागता योषितः रात्राव् अपि निशि, रात्रौ त्वद्-अन्यः कस् त्यजेत् सम्भावनायां न कोऽपीत्य् अर्थः । अन्यस्यापि कितवस्य व्यवहार-सिद्ध्य्-अर्थम् एव कैतवम्, स एव स्वार्थं तस्येति । तव कैतवस्य स्वार्थ-पर्यवसायित्वाभावं व्यर्थम् एव कैतवम् इति । अतः पत्य्-आदीन् विहायागता अस्मान् परित्यज्य कथं न लज्जसे ? अतो धूर्तत्वं विहाय दर्शनं देहीति प्रार्थयामहे ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याश् च वेणु-वादन-समये पतिभिर् अन्तर्-गृह-निरुद्धा आसन्, ताः सेर्ष्यम् आहुः—पति- इति । गतिम् अन्ति मां स्वासां दशमीं दशां विदन्तीति ता वयम् अन्ति त्वद्-अन्तिकम् आयाताः । हे अच्युत ! अत्रापि च्युतोऽभूस् तं किं विपरीत-लक्षणयैव त्वम् अच्युत-नामेति भावः । तर्हि किम् आगताः ? इति चेद् उद्गीतेन मोहिता हत-विवेकी-कृताः । एवं चेत् तर्हि "रे मूढाः ! सहध्वं वेदनाम्" इति ? तत्राहुः—हे कितव ! शठ ! एवं-भूता योषितो निशि स्वयम् आगता भीरूस् त्वां निर्दयम् ऋते कस् त्यजेत् ? न कोऽपीत्य् अर्थः । यद् वा, हे कितव ! हे मत्त ! निशि आयाता युवतीः कः खलु युवा त्यजेत् ? अतस् त्वं वञ्चकोऽपि वञ्चित एवाभूर् इति भावः । कितवस् तु पुमान् मत्ते वञ्चके कनकाह्वये इति मेदिनी ॥१६॥
॥ १०.३१.१७ ॥
रहसि संविदं हृच्-छयोदयं
प्रहसिताननं प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियो वीक्ष्य धाम ते
मुहुर् अतिस्पृहा मुह्यते मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वया त्यक्तानाम् अस्माकं प्राक्तन-त्वद्-दर्शन-निदान-हृद्-रोगस्य त्वत्-सङ्गत्यैव चिकित्सां कुर्व् इत्य् आशयेनाहुर् द्वयेन—रहसि इति । श्रियो धाम ते बृहद् विशालम् उरश् च वीक्ष्य अतिस्पृहा भवति । तथा च मुहुर् मुहुर् मनो मुह्यति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो रात्रौ भीरु-त्यागोऽनुचितोऽतो हेतोः । प्राक्तनं यत् त्वद्-दर्शनं, तद् एव निदानम् आदि-कारणं यस्य, तस्य । हृद्-रोगः काम-व्यथा, तस्य । चिकित्साम् अपाकरणम् । अतिस्पृहा अत्यभिलाषः । तया अतिस्पृहया । मुह्यति वैवश्यम् एतीत्य् अर्थः ॥१७॥
कैवल्य-दीपिका : हृच्छयस्योदय उत्पत्तिर् यस्मात् प्रहसिताननात् । अतिस्पृहया । अत्र द्वितीयो त-कारः ॥१७॥ [मु।फ। १२.३७]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् तद्-आलोके\ऽपि स्पृहा-भाजां दुःखम् एव फलम् इत्य् आहुः—रहसि इत्य्-आदि । ते तव धाम वीक्ष्य मुहुर् अतिस्पृहा जनेन अमनः मनः शून्यं यथा स्यात्, तथा मुह्यते । अतिस्पृहयतीति अतिस्पृष्ट तेन तथा । तव कीदृश्ये ? बृहद्-उरः-श्रियः, तत्रापि रहसि वीक्ष्य इत्य् अर्थः । बृहद्-उरो वीक्ष्य इति वा । कीदृशम् ? श्रियो धाम । उभयम् एव कीदृशम् ? संविदं सम्यग् विशिष्टा दा शुद्धिर् यस्य । दैप् शोधने इति क्विपि सिद्धम् ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो निज-कृतज्ञत्वापेक्षया दर्शनेक्षणम् अपि न विलम्बस्वेत्य् आशयेन पूर्वतो विशेषम् आहुः—रहसि इति । पूर्वं संविदः [भा।पु। १०.३१.१०] इत्य् उक्तम् । अत्र च संविदम् इति एकाम् अपि संविदम्, किम् उत बह्वीर् इत्य् अर्थः । एवं पूर्वोक्त-विशेषोऽत्रोह्यः । हृच्-छयस्य हृदि सुप्तवन् निश्चेष्टतया लीनस्यापि कामस्य उदयः प्राकट्यं यस्मात् तत् । इदं **प्रहसित-**आदीनां सर्वेषाम् अपि विशेषणं ज्ञेयम् ।
यद् वा, तव हृच्छयोदयं काम-विकारं भाव-विशेष-विलसित-स्मित-गण्डाधर-विस्फूर्त्य्-आदि-लक्षणं प्रकृष्टं हसितं यस्मिन्न् आनने तत् । प्रकृष्ट-हास-युक्तम् आननम् इति वा । प्रेम्णा वीक्षणं पूर्ववत् पद-द्वयं वा । बृहद् इति गाढालिङ्गनाभिप्रायेण परम-सौन्दर्यम् उक्तम् । श्रियो धाम इति अतिस्पृहायां हेतु-विशेषः, सापत्न्यात् शोभा-विशेषाच् च । वीक्ष्य आलोच्य चिन्तयित्वेत्य् अर्थः । "तापिन्" इत्य् अध्याहार्यम् । किं वा, भिन्न-कर्तृकत्वे क्त्वा-प्रत्यय आर्षः । "अत एवातिस्पृहम्" इति चित्सुखः । अतिस्पृहा च तत्-तद्-अनुभवे त्वत्-सङ्गम-मात्रे वा । तया च मनो मुह्यति इति स्पृहायाः परमौत्कट्यं द्योत्यते ।
किं वा, पूर्ववन् निज-धैर्य-हानिर् एवोक्ता । यद् वा, रहसि संविदं प्रति यत् **प्रहसितानन-**आदिकं **हृच्छयोदय-**आदिकं वा । एवं सति दृष्ट्वेत्य् एवार्थः । ततश् च पूर्व-दृष्टानां तेषाम् अधुना स्मरणाद् अतिस्पृहादिकम् इति पूर्ववज् ज्ञेयम् । यद् वा, पूर्वम् अपि तथा तथैव भवेत् । अधुना तु तत्-तद्-अतिमरणम् एवासन्नम् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्रियो धाम अपीति शोभा-रूप-वेश-लीलादि-विषयकाः इत्य् अनुक्तम् अप्य् अन्यत् सौन्दर्यादिकं सङ्गृहीतम् । धाम च लता-गृहादि । न केवलम् अतिस्पृहा मनश् च मुह्यते, परम-मोहनात् तत्-तन्-माधुर्यात् । अनेन मनसो दुर्निवारत्वाद् अप्रतिकार्यत्वम् । तेन निज-परम-दैन्यं च सूचितम् । अन्यत् समानम् ।
अथवा, ननु कृतज्ञोऽस्मि । कथम् एवम् अत्यन्तार्ता भवथ ? इति चेत्, त्वयैव बहुधा मोहितत्वाद् इत्य् आर्तत्वे त्वद्-एक-कारणत्वेन पूर्ववत् संविद्-आदीनां परम-मोहनत्वम् एव परमार्त्या विशिष्याहुः—रहसि इति । ते इत्य् अस्य पूर्वतः परतश् चान्वयः । ते संविद्-आदिकं **प्रहसितानन-**आदिकं वा वीक्ष्य तेऽपि अतिस्पृहः, तेऽपि मन इत्य् आदर्शादौ निरीक्षणादिना भाव-विशेषोदयाद् इति तेषां परम-मोहनत्वम् उक्तम् । अतोऽस्माकम् अतिस्पृहा मनो-मोहश् च युक्त एवेति । अतो यावद् अन्त्य-दशा न भवेत्, तावद् एव सन्दर्शनं देहि । तत एव कृतज्ञत्वं सिध्येद् इति भावः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते तव हृदयस्य कामस्य उदयं वीक्ष्य । कीदृशं? रहसि-संवित् यत्र, तम् । अलुक्-समासः । तथा प्रकृष्टं हसितं यस्मिन्न् आनने, तद् आननं। यत्र बृहद् इति गाढालिङ्गनेच्छा-कारकः सौन्दर्य-विशेष उक्तः । श्रियः सर्व-सम्पन्-निधेः स्वाभाविक-पीत-रेखा-रूपाया धाम इति च वीक्ष्य अस्माकम् अतिस्पृहा इत्य् अस्मच्-छब्द-वाच्य-कर्तृक-वीक्षण-स्पृहायाः क्रियाया वीक्षणस्य पूर्व-कालत्वात् क्त्वा-प्रत्ययः । स्वातन्त्र्य-विवक्षया स्पृहाया एव वीक्षण-कर्तृत्वोपचारः । अत्रोद्भवतीति शेषः । अतिस्पृहया मनो मुह्यति इत्य् अर्थः । "अतिस्पृहम्" इति चित्सुखः । अतिस्पृहा च तत्-तद्-अनुभवाय तत्-सङ्गम-मात्राय वा । तथा च मनो मुह्यति इति स्पृहायाः परमौत्कण्ठ्यं द्योत्यते ।
यद् वा, वीक्ष्य इति पूर्व-वृत्तम् इदं तथा तथैव भवेत् । अधुना तत्-तद्-अतिशयेन मरणम् एवासन्नम् इति भावः । एवं स्पृहाया दुर्निवारत्वाद् अप्रतिकार्यत्वम् । तेन निज-परम-दैन्यं च सूचितम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कुमारिका ऊचुः—रहसि इत्य्-आदि । रहसि निर्जने या संवित् संवेदनम्—मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति यद् आदिष्टम्, तद् वीक्ष्य ज्ञात्वा, प्रेम-वीक्षणं च वीक्ष्य दृष्ट्वा, बृहद्-उरश् च वीक्ष्य, मुहुर् वारं वारम् अतिस्पृहा जातेत्य् अर्थः । अतो मनश् च मुह्यते मुह्यति । तत् कथम् एवं करोषि ? इति भावः । प्रेम-वीक्षणं कीदृशम् ? हृच्-छयस्य मनोरथस्य उदयो यस्मात् । प्रहसितं प्रहास एव आननं प्रीणनं यस्य । अथवा, प्रहसिताननं वीक्ष्य । कीदृशम् ? प्रेम-वीक्षणं यस्य । बृहद्-उरः किम्भूतम् ? श्रियो धाम ॥१७॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पुनर् अपि विरह-व्यथिताः स्व-वैचित्र्यम् अभिव्यञ्जयन्त्य आहुः—रहसि इति । रहसि एकान्ते संविदं सुरत-गोष्ठ्याम्, प्रहसिताननं प्रकृष्टं हसितं यस्मिन् एतादृशम् आननं, प्रेम्णा वीक्षणं हृच्छयोदयम् इति प्रेमाणं विशेषणं । हृच्छयस्य हृदि लीनस्यैव कामस्य उदय उद्बोधो यस्मात् ।
यद् वा, प्रेम-वीक्षणं कीदृशम् ? प्रहसितं हास्य-युक्तम् आननं यस्मिन् । यद् वा, प्रहसिताननं विशेष्यं, प्रेम-वीक्षणम् इति विशेषणम् । ते बृहत् अस्मत्-कुच-विलुण्ठन् प्राङ्गण-भूतं श्रियो धाम ते उरो वक्षः-स्थलं वीक्ष्य मुहुर् वारं वारम् अतिस्पृहा । इदानीं स्मर्यमाणानि एतानि अनवरतं तप्तोदन-फलाम् अतिस्पृहां मृत्यौत्कण्ठ्यं जनयन्तीति भावः । तेन च मनो मुह्यते धैर्य-च्युतिर् भवतीत्य् अर्थः ।
यद् वा, रहसि संविदं प्रति ते प्रहसिताननं प्रेम-वीक्षणम् इत्य् आहुः—आननस्य विशेषणं श्रियो धाम, बृहत् सम्भोगार्हम् उरो वीक्ष्य चिन्तयित्वा, अधुना अतिस्पृहा भवति, पुनर् अपि तथैव भवत्व् इति । तया च मनो मुह्यते धैर्यं त्यजतीत्य् अर्थः ।
यद् वा, प्रहसिताननं वीक्ष्य आदर्शे प्रतिबिम्बितं दृष्ट्वा ते अतिस्पृहा पुनः पुनः दर्शनौत्कण्ठ्यं भवति । तेन च मनो मुह्यते विस्मितं भवति । अहम् एतादृक् सौन्दर्यवान् स्मेति तात्पर्यम् । वक्षति च—विस्मापनं स्वस्य च सौभग-र्द्धेः परं पदं भूषण-भूषणाङ्गं [भा।पु। ३.२.१२] इति । अतो मादृशानाम् अतिस्पृहा मनो मो-योर् अनौचिती-परिहारः सूचितः । अतो मादृशीनां मुहुर् मूर्च्छोदयात् जीवित-मरणान्तराल-वर्ति प्राणावस्थाम् अधि गतिः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं कर्तव्यं ? तव मोहन-पञ्चकं काम-शर-पञ्चकम् इवास्मन्-नेत्र-रन्ध्रेषु प्रविश्य हृदयं ज्वलयतीत्य् आहुः—रहसि संविदं रति-प्रार्थन-व्यञ्जक-सम्भाषणं द्वितीयम् । प्रकृष्टं हसितं यत्र, तथा-भूतम् आननं तृतीयम् । प्रेम-युक्तम् ईक्षणं च चतुर्थम् । श्रियो धाम शोभास्पदं बृहद् विस्तीर्णम् उत्तुङ्गम् उरो वक्षः पञ्चमम् । वीक्ष्य मुहुः पुनः पुनर् विशेषतो दृष्ट्वा अतिस्पृहणम् अतिस्पृहा, भाव-क्विब्-अन्तः । स्पृहितया मनो मुह्यते मुह्यति । औत्कण्ठ्य-ज्वालया मूर्च्छतीत्य् अर्थः ॥१७॥
॥ १०.३१.१८ ॥
व्रज-वनौकसां व्यक्तिर् अङ्ग ते
वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् ।
त्यज मनाक् च नस् त्वत्-स्पृहात्मनां
स्वजन-हृद्-रुजां यन् निषूदनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तव च व्यक्तिर् अभिव्यक्तिर् व्रज-वनौकसां सर्वेषाम् अविशेषेण वृजिन-हन्त्री दुःख-निरसनीति विश्व-मङ्गलं सर्व-मङ्गल-रूपा च । अतस् त्वत्-स्पृहात्मनां त्वत्-स्पृहारूढ-मनसां नो मनाग् ईषत् किम् अपि त्यज मुञ्च । कार्पण्यम् अकुर्वन् देहीत्य् अर्थाः। किं तत् ? स्वजन-हृद्-रोगाणां यद् अतिगोप्यं निषूदनं निवर्तकम् औषधं, तत् त्वम् एव वेत्सीति गूढाभिप्रायम् ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्रज-वनौकसाम् इत्य् उक्तेर् वयं किं तद्-अन्तर्गता न ? इत्य् उक्तम् । विश्व-मङ्गलम् इत्य् उक्त्या वयं किं विश्वस्मिन् न ? इत्य् उक्तम्, यतो वयम् अपि तद्-अन्त-स्था एवेति हेतोः । कार्पण्यं बद्ध-मुष्टित्वम् । इत्य् अर्थ इति—न ह्य् अशेष-पालकस्य कार्पण्यं शोभत इति भावः । अज्ञात इव भगवान् पृच्छति—किं तद् ? इति । अतिगोप्यं प्रत्यक्षं वक्तुम् अशक्यम् । निज-दर्शनोत्तरम् अङ्ग-सङ्ग-रूपम् इत्य् आशयः । स्वजन इति सम्बोधनं वा ॥१८॥
कैवल्य-दीपिका : व्रज- इति । व्यक्तिः शरीरम् । वृजिन-हन्त्री दुःख-शमनी । त्वत्-स्पृहात्मनो यासां तास् तथा । स्वजन-हृद्-रुजां हृदय-रोगाणां निषूदनम् शमकं यत् आलिङ्गनादि तद् । मनाग् अल्पम् अपि त्यज मुञ्च देहीत्य् अर्थः । स्वजन-विशेषणेन त्वद्-अधीनं हृदय-रोग-शमनम् इत्य् उक्तम् । अत्राद्य-पादयोर् द-ल-द्वये आदिर् व-कारः । क्रमाद् व-कार-ज-कारौ । अन्त्य-पादयोर् ज-कारो द्वितीयः । संयोजयतीत्य् अत आरभ्य एतत्-पर्यन्तम् एकादशाक्षराया जातेः षट्-शतोत्तर-चतुःषष्ठि भेदः ॥१८॥ [मु।फ। १२.३८]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्मासु निरपेक्षता ते मोचिता इत्य् अन्या आहुः—व्रज-वनौकसाम् इति । इदानीम् अस्माकं व्रजौकस्त्वं वनौकस्त्वं च । अतो\ऽस्माकं वृजिन-हन्तृता समुचितैव ते, अतः स्वजन-हृद्-रुजां यत्, तत् त्यज इत्य् अन्वयः । त्वत्-स्पृहात्मनां नो यन् निसूदनं हिंसकं मनाग् अपि त्यज इत्य् अर्थः ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतोऽधुनेदं विधेहीति सर्वान्ते फलितं निश्चित्याहुः—व्रज इति । व्रजौकसां वनौकसां चेत्य् अर्थः । ते व्यक्तिः अवतारं प्राकट्यं वा । अतोऽन्तर्धानम् अयुक्तम् इति भावः । अङ्ग इति प्रेम-सम्बोधने । न केवलं वृजिन-हन्त्री, विश्व-मङ्गलम् अशेष-मङ्गल-रूपा चेत्य् अर्थः । अलम् अतिशयेनेत्य् अस्योभयतोऽप्य् अन्वयः । ततो वृजिनस्य अपुनर्-उद्भवत्वादिकं मङ्गलस्य च भक्ति-प्रेमादि-सम्पत्ति-पूर्वक-प्रतिक्षणम् अभिनव-सुख-परम्परादि-रूपत्वम् ऊह्यम् । स्वजनानां या हृद्-रुजः कामाः, तासां नितरां सूदनं स्वजनत्वात् तव विदितम् एवेति भावः । रुक्-शब्द-प्रयोगः प्रेमार्ति-भरेण ।
ननु यद् भक्ता मयि प्रेम-भक्तिं सदा सन्दर्शनं तद्-अर्थं श्री-वैकुण्ठादिकम् अपि वाञ्छन्तीति जानाम्य् एव । तत्राहुः—त्वयि त्वत्-प्राप्त्य्-अर्थम् एव स्पृहा । किं वा, तव या स्पृहा रिरंसा, तस्याम् एव आत्मा मनो यासां, तासां नः । ईदृशीर् अस्मान् प्रति यद् देयं स्यात्, तद् एवेति भावः । मनाग् इति परम-दौर्लभ्येन याचक-रीत्या वा । वस्तुतस् तु हृद्-रुजाम् इति बहुत्वेन नि-शब्देन च तथा तद्-विषयक-कामानाम् अनिवर्त्यत्वेन सदा नवीनवत् तया वर्धिष्णुत्वेनैव निरन्तर-विविध-प्रेम-रतिर् अभिप्रेता । अन्यत् तैर् व्याख्यातम् । यद् वा, हे स्वजन ! त्वत्-स्पृहात्मनां नो या हृद्-रुजः, तासाम् इति । अन्यत् समानम् इति ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं भवतैव निज-हृच्-छयोदयस्य व्यञ्जनया अस्मासु ते ते नाना-भावा जन्यन्ते हन्तास्य हृच्छय-ताप एवम् एवं शान्तः स्याद् इति भावनया त्वद्-भाव-भावितत्वेन तत्-तद्-वासनोदयात् । यतोऽस्माकं त्वयि स्नेहः स्वभावजत्वाद् बलवत्तर इति द्योतयन्त्यस् तादृश-स्नेहमयाभिलाष-विस्फुट-हृदयाः स-दैन्यं निवेदयन्ति—व्रज- इति द्वाभ्याम् । व्रजौकसां वनौकसां चेत्य् अर्थः । व्यक्तिः प्राकट्यम्। अतोऽन्तर्धानम् अयुक्तम् इति भावः । अङ्ग इति प्रेम-सम्बोधने । न केवलं तेषां वृजिन-हन्त्री अशेषस्यापि मङ्गल-रूपा वृजिन-हन्त्री । यद् वा, तेषाम् एव सर्व-सुखदा च । अलम् अतिशयेनेत्य् अस्य उभयतोऽप्य् अन्वयः । अतो नः सम्बन्धे दुःख-शमकं किम् अपि देहि ।
ननु व्रजौकस्त्वेन भवतीनाम् अपि तत्-तद्-उत्पातज-दुःख-शान्त्य्-आदिकं भविष्यत्य् एव किम् अन्यत् प्रार्थयध्वे, तत्राहुः—त्वयि त्वत्-प्राप्त्य्-अर्थम् एव या स्पृहा, तस्याम् एव आत्मा मनो यासां, तासां नः ।
ननु व्रज-वनौकसाम् अपि मत्-स्पृहाः, ततः को विशेषः ? तत्राहुः—स्वजन इति । तेष्व् अपि स्वजन-विशेषोऽस्मद्-विधः, तस्य हृद्-रुजां यन् निषूदनम् इति । मनाग् इति परम-दौर्लभ्येन, याचक-रीत्या वा । वस्तुतस् तु हृद्-रुजाम् इति बहुत्वेन नि-शब्देन च तथा तद्-विषयक-कामानाम् अनिवर्त्यत्वेन प्रत्युत सदा नव-नवतया वर्धिष्णुत्वेनैव निरन्तरं तद्-वैविध्यम् अभिप्रेतम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु कास् ता हृद्-रुजः ? किं वा, तन्-निषूदनम् इत्य् अपेक्षायाम् आहुः—व्रज- इत्य्-आदि । यत् त इत्य्-आदि च । विभ्रमा एव रुजः, तच् च स्तनेषु शनैस् तन्-निधानम् एव तन्-निसूदनम् । अत एवैतद् एव मुहुः प्रार्थितम् इति भावः ॥१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् इदं ते नोचितम् इत्य् आहुः—व्रज-वनौकसाम् इत्य्-आदि । हे अङ्ग ! ते तव व्यक्तिः प्रकाशो व्रज-वनौकसां वृजिन-हन्त्री दुःख-नाशिका । अलम् अत्यर्थं विश्व-मङ्गलम् । अतो व्रजौकस्त्वेन विश्वान्तर्गतत्वेन चास्माकं तव प्रकाशो वृजिन-हन्ता एव । तस्मात् त्वत्-स्पृहात्मनां यन् निसूदनं मारकम् अदर्शनम्, तत् मनाक् च त्यज मुञ्च । तन् न कुर्व् इत्य् अर्थः । हे स्वजन-बन्धो ! नो\ऽस्माकं कीदृशीनाम् ? हृद्-रुजां हृदि रुक् यासाम् । यद् वा, नो\ऽस्माकं हृद्-रुजां यन् निसूदनं नाशकं दर्शनम्, तत् मनाक् च त्यज वितर देहीति यावत् । त्यजिर् अत्र दानार्थः । स्वजनानां हृद्-रुजाम् इति समासे एकं वा पदम् ॥१८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं स्मर्यमाणैर् एतैः पुनः पुनः हृद्-रोग एव वर्धते । अतः कापट्यं विहायैवं कुर्व् इति स-दैन्यं हृद्-रोगोपशमनं प्रार्थयन्ते—व्रज- इति । ते तव व्यक्तिः प्राकट्यं व्रज-वनौकसाम् अविशेषेण वृजिनं हन्ति दुःख-निरसन-समर्था । अङ्ग इति प्रबोधनाय सम्बोधनं । तन्-मध्ये अस्माकम् एव दुःखं नान्येषाम् इति हेतुं पृच्छामेति । अलम् अतिशयेन विश्व-मङ्गल-रूपा च उदर्के सुख-परम्परा-सम्पादिका मङ्गलम् इति । स्वजनानां हृद्-रोगाणां हृदय-पीडानां यन् निषूदनं स-मूल-निरसनम् । गूढम् अस्मद्-धृदय-श्रितस्य तवैव विदितं नान्यस्य । तच् च मनाक् ईषत् नोऽस्माकं त्यज । वितर त्वत्-स्पृहात्मनां त्वत्-प्राप्त्य्-अर्थ-स्पृहा । यद् वा, त्वत्-स्पृहा त्वद्-भावेच्छा आत्मनि चित्ते यासाम् । यद् वा, त्वयि या स्पृहा सुखं चिरं तिष्ठत्व् इति । वाञ्छा कामनेति यावत्, सा आत्मनि मनसि यासां, तासाम् ।
अयम् अभिप्रायः—हृदय-तापे सति तत्र-स्थे त्वय्य् अपि तापः सम्भवेत् । अतस् तव ताप-निर्वाणार्थम् औषध-प्रार्थना, न तु स्व-तापं निवारणार्थम् इति । त्वया त्यक्तानां न मरणम् इति तात्पर्यम् । मनाग् अतियाचक-रीत्या स्तोकम् एव प्रार्थयते, न तु तद्-अल्पम् इति । तद् उक्तं गीत-गोविन्दे—स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालं [गी।गो। ४.३] इतिवत् । एतावत् पर्यन्तं स्व-ताप-निवारणार्थं सर्वं प्रार्थितम् । इदानीं स्व-तापानुसन्धानं विहाय श्री-कृष्णस्य गो-चारणार्थं वृन्दाटवी-प्रवेशेन चरणारविन्दे व्यथां परिकल्प्य तरु-च्छायान्तर्गतं यत् तम् अपश्यन्त्यः । तद् यथा जनिता स्वस्मिन् व्यथां निवेदयन्त्यो विरहार्ति-विह्वलाः ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कुल-वधूनां निरपराधानाम् अस्माकं त्वयैव संमोह्य रात्रौ वनम् आनीतानाम् औत्कण्ठ्याग्निना केवलं प्राण-दाहनम् एव न तवाभिप्रेतम्, किन्तु स्वाङ्ग-सङ्ग-दानेन प्राण-पालनम् अपीत्य् अत्र हेतुम् आहुः—ते व्यक्तिर् अभिव्यक्तिः व्रज-वनौकसां सर्वेषाम् एवाविशेषेण विश्व-मङ्गलं सर्वाणि मङ्गलानि यत्र, तद् यथा स्यात्, तथा वृजिन-हन्त्री दुःख-निरसिनी, अतस् त्वत्-स्पृहात्मनां त्वत्-कर्तृका या स्पृहा अस्मद्-दर्शनोत्था, तस्याम् एव आत्मा तत् सम्पूरयितुं कामं मनो यासां, तासां नः मनाक् ईषत् किम् अपि त्यज मुञ्च, कार्पण्यम् अकुर्वन् देहीत्य् अर्थः । तद् एव किम् ? तत्राहुः—स्वजन-हृद्-रुजां युष्मज्-जन-कुच-रोगाणां यन् निषूदनम् उपशमकम् औषधं कर-कमलम् इत्य् अर्थः । तद् एव यदि अस्माभिः कुचेष्व् अर्पयितुं प्राप्यते, तदा तेनैव त्वत्-स्पृहां पूरयित्वा स्व-प्राणाः पाल्यन्त इति भावः ॥१८॥
॥ १०.३१.१९ ॥
यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीम् अटसि23 तद् व्यथते न किं स्वित्
कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिप्रेम-धर्षिता रुदत्य आहुः—यद् इति । हे प्रिय ! यत् ते तव सुकुमारं पदाब्जं कठिनेषु कुचेषु संमर्दन-शङ्किताः शनैर् दधीमहि24 धारयेम वयम् । त्वं तु तेन आटवीम् अटसि । "नयसि" इति पाठे पशून् वा काञ्चिद् अन्यां वा आत्मानम् एव वा नयसि प्रापयसि । तत् ततः, तत् पदाम्बुजं वा कूर्पादिभिः सूक्ष्म-पाषाणादिभिः किं स्विन् न व्यथते ? कथं नु नाम न व्यथेत ? इति भवान्25 एव आयुर् जीवनं यासां, तासां नो धीर् भ्रमति मुह्यतीति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : धर्षिताः आकुलाः । संमर्दः सङ्घर्षः । तेन पदाब्जेन । पशवस् तु पालम् अनुगच्छन्त्य् एवात आहुः—अन्यां श्री-राधिकातोऽप्य् अलक्षिताम् । काश्चिद् इति गोपीभ्योऽप्य् अन्यां वा । राधिकातोऽपि प्रियाम् । कदाचिद् गवाद्य्-अन्वेषणार्थम् आत्मानम् अपीति वा । ततः वन-प्राप्ते हेतोः । यद् वा, हेतु-वाचक-यत्-पादस्य पूर्वम् अनुक्तेर् आह—तत्-पदाम्बुजम् इति । कूर्पं स्यात् सूक्ष्म-पाषाणे इति धरणिः । भवद्-आयुष्ट्वाद् वर्यं जीवेनेत्य् अर्थः ॥१९॥
कैवल्य-दीपिका : यद् इति । यत् ते सुजातम् इति कोमलम् । भीताः कर्कश-स्तन-स्पर्शात् मास्य सौकुमार्यम् अभाङ्क्षीद् इति भयम् । तेन चरणाम्बुरुहेण । अटवीम् अरण्यम् । यद् यदा नयसि [अटसि] गच्छसि । नयोपगताव् इति य-कारान्तोऽप्य् अस्ति, यत्-तदोः नित्य-सम्बन्धात् । तदास्माकं बुद्धिर् भ्रमति । किम् इति कूर्पादिभिः सूक्ष्मोपलादिभिः किं स्विन् न व्यथते ? किं स्विद् इति वितर्के । भवान् आयुर् यासां तास् तथा ॥१९॥ [मु।फ। १२.३९]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्त्व् अस्माकं दुःख-कथा । तया एव प्रयोजनं नास्ति । किम् अरण्य-रुदितैः ? न, किन्तु भवद्-दुःखम् अनुस्मृत्य यन् मुह्यामः, तद् एव खण्डयेत्य् उपसंहरन्त्य एवाहुः—यत् ते इत्य्-आदि । तव हृदयम् एव कठिनम्, न तु श्री-रचनादिकम् अङ्गम् । अतस् तेन सुकोमलेन चरणेन अटवीम् अटसि, तत् किं न व्यथत एव ? इति नो\ऽस्माकं धीर् भ्रमति । भवान् आयुर् यासां नित्यायुषाम् अतस् तावतापि दुःखेनापि देहो न पततीति भावः ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतावत् पर्यन्तं निजेष्टम् एव बहुधा प्रार्थितम् । उपसंहारे च श्री-भगवतो वनाटनम् अनुसन्धाय तेन च श्री-पादाब्जयोर् व्यथां सम्भाव्य निज-प्रार्थितम् अप्य् अनादृत्य प्रेम-भर-प्रधर्षिताः केवलं तत्-सुखम् एव प्रार्थयाणा रुदत्य आहुः—यद् इति । अम्बुरुह-रूपकेण ततोऽपि परम-कोमलत्व-विवक्षया । भीता इत्य् अत्र शनैर् इत्य् अत्र च हेतुः—कर्कशेष्व् इति । श्लेषेणैवं निज-नित्य-नव-यौवनं, तेन दुःखाधिक्यं च निवेदितम् । दधीमहि इत्य् अत्र हेतुः—हे प्रिय इति । प्रियत्वेन तेष्व् एव तस्य धारण-योग्यत्वात् । एवं पूर्वोक्त-नलिन-सुन्दरत्वम् अपि स्वानुभवेन दृढीकृतम् ।
तेनाटवीम् अटसि, अधुना निशि वने भ्रमसीत्य् अर्थः । यद्यपि प्रेमोद्रेक-वैवश्यात् पूर्वोक्ताननुसन्धानेन पौनरुक्त्येऽपि नैव दोष-प्रसङ्गः, किन्तु गुण एव, तथापि चलसि [१०.३१.११] इति पूर्वं दिवा-भ्रमणम् उक्तम् । अधुना च अटवीम् अटसि इत्य् अनेन रात्राव् इति भेदः कल्प्यः, दिने गो-चारणाय तृण-मय-प्रदेश एवं परिभ्रमणात् कूर्पादिभिः सम्बन्धो न स्याद् इत्य् उक्तम् एव । रात्रौ चाधुना सम्भवेद् इत्य् उक्तं कूर्पादिभिर् इति आदि-शब्दात् कर्करादयः । यद्यपि श्री-वृन्दा-देव्य्-आदि-प्रयत्नेन श्री-वृन्दावन-स्वभावेन च तेषाम् अपि तत्र सत्ता-शङ्का नास्ति, तथापि "अनिष्टा-शङ्कीनि बन्धु-हृदयानि भवन्ति" [अभिज्ञान-शकुन्तला-नाटक?] इत्य्-आदि-न्यायेन तासां सा सञ्जायेतैव । अतः स्वयम् एवोक्तं किं स्विद् इति ।
भ्रमति मुह्यतीत्य् अत्र हेतुः—भवद्-आयुषाम् इति । अतस् तैर् व्यथा सास्मज्-जीवन एवोत्पद्यते तद् अधुना प्राणान् धारयितुं कथञ्चिद् अपि न शक्नुम इति भावः । एवम् अधुना मूर्च्छया पूर्वतोऽप्य् अधिक-व्यथा सूचिता । "नयसि" इति पाठे गच्छसीत्य् एवार्थः । नय पय गताव् इति धातोः । सर्वान्ते वचनम् इदं श्री-राधा-देव्याः स्वजन- [१०.३१.१८] इत्य्-आदिना स्मारिताया इव ज्ञेयम् । तत्र च हृद्-रुजां निषूदनम् इति तेन पादाब्जेनाटव्य्-अटनम् एव हृद्-रुजः । ततो निवृत्तिर् एव तन्-निषूदनम् इत्य् अर्थः । तथापि सन्दर्शने पर्यवस्यत्य् एव । नः इति बहुत्वं निज-सखी-वर्गाभिप्रायेण । किं वा, निज-भावानुसारेण सर्वासाम् अपि सम्प्रहात् । एवं श्री-चरणारविन्दस्य परम-कोमलत्वेन वन-परिभ्रमणे व्यथाशङ्क्य तद् उद्दिश्य वार-द्वयम् उक्तम् । अतः स्तनेषु तस्य धारणम् अपि वार-द्वयं प्रार्थितम् । सारङ्गाणां पदाम्बुजम् [भा।पु। १.११.२६]26 इत्य्-आदि-न्यायेनैव तात्कालिक-दैन्येन भक्त्या तस्मिन्न् एवासक्तेः । तथा श्री-मुखस्य च मुहुर् वर्णनं तेनैव विशेषतां मोहितत्वात् । एवम् अन्यच् चोह्यं सहृदयैस् तद्-एक-रसिकैर् इत्य् एषा दिक् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु कास् ता हृद्-रुजः ? किं वा तन्-निषूदनम् ? इत्य् अपेक्षायां रुदत्य इवोद्दिशन्ति—यद् इति । अम्बुरुह-रूपकेण सिद्धेऽपि सुकोमलत्वे सुजात- इति विशेषणं ततोऽपि परम-कोमलत्व-विवक्षया । शनैर् इत्य् अत्र हेतुः । भीता इति तत्र च हेतुः—कर्कशेष्व् इति । स्तनेषु दधीमहि इत्य् अत्र—हे प्रिय इति । प्रियत्वेन हृद्य् एव । तत्रापि स्तनेष्व् एव धारणस्य योग्यत्वात् तेन अटवीम् अटसि । अधुना निशि वने भ्रमसीत्य् अर्थः । स एव चरणस्यैव धारणे पुनः पुनस् तद्-उल्लेखे च हेतुर् उक्तः, अनिष्टाशङ्कया तत्रैव वर्धित-स्नेहातिशयत्वात् । पूर्वं गो-चारणाय तृण-मय-प्रदेश एव परिभ्रमणात् प्रायिकत्वेन शिल- इत्य्-आद्य्-उक्तम् । सम्प्रति तु कर्कश-प्रायत्वेन दृश्यमाने पुलिनोपरितन-यमुना-तटे भ्रमणात् कूर्पादिभिर् इति । यद्यपि तदानीं श्री-वृन्दावनस्य स्वभावेन च तेषाम् अपि तत्र तत्राशङ्का नास्ति, तथापि अनिष्टाशङ्कीनि बन्धु-हृदयाणि भवन्ति [अभिज्ञान-शकुन्तला?] इत्य्-आदि-न्यायेन शङ्का तासां सा सञ्जायेतैव भ्रमति मुह्यति । अत्र हेतुः—भवद्-आयुषाम् इति । इत्थम् एवोपक्रान्तं त्वयि धृतासव इति मध्ये चाभ्यस्तं चलसि यद् व्रजाद् [भा।पु। १०.३१.११] इति । अतस् तैर् या व्यथा सास्मज्-जीवन एवोत्पद्यते, तद् अधुना प्राणान् धारयितुं कथञ्चिद् अपि न शक्नुम इति भावः । तद् एव तादृशाशङ्का एव हृद्-रुजः तन्-निषूदनं च स्वयम् एव परम-प्रियतमाङ्गे स-लालन-सुख-निवासनम् एवेति द्रुतम् एव समागच्छेति भावः । "नयसि" इति पाठे गच्छसीत्य् एवार्थः । नय पय गताव् इति धातोः ।
तद् एव तासां सर्वस्यापि भावस्य प्रेमैकमयत्वे स्थिते श्री-भगवतोऽप्य् एवम् एव ज्ञेयम् । हन्तेमा मयि प्रेमैकमय्य इत्य्-आदिभ्यः । परम-सुखमयात्म-दानम् एव समञ्जसं । तच् च योग्यत्वाद् एवम् एवम् इत्य् आलोच्य तादृश-प्रेम-विलासमय-तत्-तद्-इच्छा जायते इति एवम् अन्यद् अप्य् ऊह्यं सहृदयैस् तद्-एक-रसिकैर् इति ॥१९॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३९२) : [विप्रलम्भे प्रलापः] तत्र विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदिकं सर्वस्यैव गोकुलस्य स्व-रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेत्य् अभिप्रायम् । वृषात्मजाद् वत्सात् मयात्मजात् व्योमासुराद् इत्य् अर्थः । पुनश् च तत्-तद्-अलौकिक-कर्म लक्ष्यीकृत्य न खलु गोपिका-नन्दनो भवान् [भा।पु। १०.३१.४] इत्य्-आदि-द्वये याचक-रीत्या दैन्येन तत्र परमेश्वरत्त्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व-रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां वैष्णवानां श्रीमन्-नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत्-सखित्वाप्तेर् वैशिष्ट्यम् एव युज्यते इत्य् अर्थः । वृष्णि-धुर्य [भा।पु। १०.३१.५] इति तेषाम् अपि यदु-वंशोत्पन्नत्वात् । तथा च स्कान्दे मथुरा-माहात्म्ये—
गोवर्धनश् च भगवान् यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् ॥ इति ।
तत्रैवान्यत्र अपि श्री-गोविन्द-कुण्ड-प्रस्तावे—यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति।
अथवा विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदिना स्तुत्वा पुनः स-प्रणयेर्ष्यम् आहुः, न खल्व् [भा।पु। १०.३१.४] इत्य् अर्धेन । एवं दुरवस्थापन्नानाम् अस्माकम् उपेक्षया भवान् खलु निश्चयेन गोपिकायाः सर्वेषां व्रज-वासिनाम् अस्माकं रक्षा-कारिण्याः श्री-व्रजेश्वर्या नन्दनो नास्ति, किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद् अखिल-देहिनाम् अन्तरात्म-दृक् शुद्ध-जीव-द्रष्टा परमात्मास्ति ।
एवम् अपि नूनं ब्राह्मणार्थि-तत्त्वेनानासक्ततयैव सर्व-रक्षावतीर्णत्वान् नास्मान् उपेक्षितुम् अर्हति इति पुनः स-दैन्यम् आहुः—विखनसा [भा।पु। १०.३१.४] इत्य् अर्धेन । पूर्ववत् तद्-अभिप्रायेणैव विरचिताभयं [भा।पु। १०.३१.५] इत्य्-आदिकम् अप्य् उक्तम् । प्रणत-देहिनां [भा।पु। १०.३१.७] इति । श्री-निकेतनम् अपि प्रणत-देहि-प्रभृतीनां पाप-कर्षणादि-रूपम् । तत एव परम-करुणामयत्वेनावगतम् अस्माकं कुचेष्व् अपि हृच्-छय-कर्तनाय कर्तुम् उचितम् इत्य् अर्थः । हृच्-छय-निदानं तद्-अनुरूपं प्रतीकारान्तरं चाहुः—मधुरया [भा।पु। १०.३१.८] इति
नूनं यत् सौरभ्य-दिग्धतयैव तव गीर् मधुरा मनो मोहयति, तद् एवाधर-सीधु भवेद्, अत्रौषधम् इत्य् अर्थः । अहो तवाधर-सीधु तादृश-पुण्य-हीनाभिः कथं सुलभं स्यात् ? यतः सा मधुरा गीर् अप्य् अस्तु दूरे । गुरु-गोष्ठी-नियम-बन्दनकत्वम् आपन्नाभिर् अस्माभिः प्रसङ्गान्तरेणापि जन-परम्परा-प्रख्यायमानम् अपि तव चरितामृतम् अपि दुर्लभम् इत्य् आह—तव कथामृतं [भा।पु। १०.३१.९] इति । तद् ये गृणन्ति तेऽपि अस्मभ्यं भूरिदा जाताः ।
कुतः पुनर् युष्माकं मय्य् एतावान् अनुरागः ? तत्राहुः—प्रहसितं [भा।पु। १०.३१.१०] इत्य्-आदि। कथं मम प्रहसितादीनाम् एतादृशत्वम् ? तत्राहुः—हे कुहक [भा।पु। १०.३१.१०] इति। तादृशी कापि कुहना या त्वयि विद्यते, तां त्वम् एव वेत्सीत्य् अर्थः । एवम् अन्यान्य् अपि योजनीयानि । परम-प्रकर्षेणाहुः—यत् ते सुजात इति॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ प्रथम-वक्त्र्य एवोपसंहरन्ति—यत् त इत्य्-आदि । हे प्रिय ! ते तव यत् सुजात-चरणाम्बुरुहं कर्कशेषु कठिनेषु स्तनेषु भीताः सत्यः शनैर् दधीमहि बिभृमः । तेन चरणाम्बुरुहेण अटवीम् अटसि, तत् किं न व्यथते ? अपि तु व्यथते । कैः ? कूर्पादिभिः । अतो भवान् एव आयुर् यासाम्, तासं नो धीश् चित्तं भ्रमति, अनवस्थितो भवति । अतः परम् अटव्य्-अटणाद् विरम, प्रादुर्भूयताम् इति वाक्यार्थेन उपसंहारः ।
समवेता जगुः कृष्णं [भा।पु। १०.३०.४५] इति पूर्वाध्यायान्ते जगुर् इति क्रियया जयति [भा।पु। १०.३१.१] इति पद्यैर् गानम् एव तासाम्, न तु तत्-तद्-उदितं कविना पद्यैर् निबद्धम् । तेन राग-ताल-स्वर-सहितम् एव गानम् इदम् । तत्र च कौशलम् अवान्तरं बोद्धव्यम् । प्रतिपद्यं प्रथम-पादस्य द्वितीयो वर्णः, स एव पादान्तरस्य च द्वितीयः । जल-रुहाननं चारु दर्शय [भा।पु। १०.३१.६] इत्य् अत्र द्वितीय एव भवितुम् अर्हति ज-कारः । स प्रथमो\ऽभूत्, जड उदीक्षितं [भा।पु। १०.३१.१५] इत्य् अत्र ट-कार-स्थाने ड-कारस् तद्-वर्ग्यत्वाद् इति स्खलित-दोषो नाङ्गीकार्यः । इदं तु वैचित्र्यं गानस्य ॥१९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ततस् तद्-अनन्तरं स्वम् एव प्रार्थ्यमाना रुदन्त्यः आहुः—यत् ते इति । हे प्रिय ! प्रीति-विषय ! ते तव यत् सुजातं सुकोमलं चरणाम्बुरुहं स्तनानां कर्कश-अनुसन्धानेन भीताः शनैर् इति हस्त-लाघवेन कर्कशेषु नव-यौवनोन्नतेषु स्तनेषु दधीमहि धारयेम, तेन पादाब्जेन अटवीं वृन्दावन-भू-प्रदेशम् अटसि । तत् पदाब्जं कूर्पादिभिः सूक्ष्म-पाषाण-कणिकादिभिः तृणाङ्कुरैश् च । किं स्विद् इति । कथं वा न व्यथते, अपि तु व्यथत एवेति निश्चित्य सम्भाव्येति वा नोऽस्माकं धीर् भ्रमति मुह्यति । पठान्तरे "नयति" इति । पशून् अन्यान् कांश्चिद् इति वा सेर्ष्यं वचनं भवद्-आयुषां भवान् एवायुः जीवितं यासां, तासां नः जीवन-पीडायां सर्वा पीडा भवतीति तात्पर्यम् । यद्यपि वृन्दावन-प्रदेशस्य सुख-रूपत्वं येनाकृष्टः कृष्णः पाद-त्राणम् अन्तरेण साक्षात् स्पृशति, तथापि बुद्धि-विक्लवत्वाद् एवम् उक्तम् । अनिष्टाशङ्कानि बन्धु-हृदयानि भवन्तीति न्यायात् । यद्यपि क्वापि क्वापि पद्यानि पुनर्-उक्तानि अनुसन्धानाभावेन तथादुनेदं पद्यं तथैवोक्तम् इति । यथा हि—
चलसि यद् भवान् चारयन् पशून्
नलिन-सुन्दरं नाथ ते पदम् ।
शिला-तृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥ [भा।पु। १०.३१.११] इति पद्ये ।
अयम् अर्थः—पूर्वम् उक्तम् एव, तथापि श्री-कृष्ण-दर्शनेन उत्तरस्याप्राप्तौ पुनर् अपि वैशिष्ट्येन दैन्य-प्रलपन-रोदन-प्रकारस् त्व् अयम् एव पौनःपुन्यम् इति । अयम् अभिप्रायः—त्वच्-चरणाब्जम् अस्मज्-जीवितं प्राणा इत्य् अर्थः । त्वच्-चरणाब्ज-पीडा अस्मत्-प्राण-पीडैवेत्य् अर्थः । त्वच्-चरणाब्ज-सुखेनैवात्म-सुखम् इति तात्पर्यम् ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, भो रसिकाः ! यत् प्रार्थयध्वे, तन् मे चरण-कमलं सम्प्रति वन-भ्रमण-सुखे निमज्जति, अतो युष्मत्-कुचेषु स्थातुं नावकाशं लभते । तत्र स-रोदनम् आहुः—यत् ते इति । तव सुजातम् अतिसुकुमारं यच् चरणाम्बुरुहं स्तनेषु दधीमहि, तेनापि भीता एव वयम्, तेन चरणाम्बुरुहेण अटवीम् अटसि इति काकूक्त्या हन्त हन्त कीदृशम् अनर्थम् असम-साहसं करोषि ? इति भावः ।
ननु, कथं भीताः स्थ ? तत्र विशिंषन्ति—कर्कशेषु इति । स्तनानां कठोरत्वम् एव भय-हेतुर् इत्य् अर्थः । किम् इति तर्हि धद्ध्वे ? तत्राहुः—हे प्रिय इति । त्वं तेष्व् एव चरणार्पणे प्रीणासीति त्वत्-सुखम् आलक्ष्यैवेति भावः । किं च, तदानीं चरणेन स्तन-पीडने त्वत्-सुखे साक्षाद्-दृष्टेऽपि चरण-सौकुमार्य-दृष्ट्यैव व्यथा अवश्यं सम्भवेद् एवेति शङ्कयास्माकं खेदो जायते एवेति । अत आहुः—शनैर् दधीमहि इति । तत्-सौख्येऽप्य् आर्ति-शङ्कया खिन्नत्वं [उ।नी। १४.१६१] इति महाभाव-लक्षणम् इदं तेन त्वत्-संयोगेऽप्य् अस्माकं दुःखं विधात्रा ललाटे लिखितम् एवेति ध्वनिः । "किं कर्तव्यं तपोऽस्माभिर् विधिं प्रति स्तनानां कोमलत्वे प्रार्थ्यमाने तव सुखं न स्यात्, कर्कशत्वे च त्वच्-चरणानां व्यथेत्य् उभयथैव सङ्कटम् अस्माकम् इत्य् अनुध्वनिः । भवत्व् अस्माकम् एवं संयोग-वियोगयोः कष्टम् । त्वं तु स्वैरित्वेऽपि किं कष्टं सहसे यत् तेनाटवीम् अटसि ? किं चरणाम्बुरुहम् एतद् अटव्य्-अटन-योग्यम् ?" इत्य् उपालम्भो व्यञ्जितः ।
ननु, यदा यन् मे मनस्य् आयाति, तदा तद् अहं करोम्य् अत्र भवतीनां किम् ? इत्य् अत आहुः—तच्-चरणं न व्यथते किं स्वित् ? अपि तु व्यथत एव । किन्तु त्वम् एवास्मास्व् इव स्वाङ्गेष्व् अपि निर्दय एव । किं वा, एता मद्-दुःखेनापि दुःखिन्यो भवन्ति । तस्माद् एता दुःखयितुं प्रवृत्तेन मया स्व-दुःखम् अपि कर्तव्यं सोढव्यं चेत्य् आशयेन तां व्यथाम् अपि सहसे ।
किं वा, अस्मद्-दुःख-दर्शन एव तव महा-सुखम्, अतस् तां व्यथाम् अपि त्वं सुखम् एव मन्यसे।
किं वा, संसर्गजा दोष-गुणा भवन्ति इति न्यायेन यत् पूर्वं ते हृदयं कुसुम-सुकुमारम् आसीत्, तद् एवास्मत्-कठोर-स्तन-सङ्गेन सम्प्रति कठोरम् अभूत्, यथा तथैव त्वच्-चरणम् अपि स्तन-सङ्गेनैव कठोरम् अभूत्, अतः कूर्पादिभिर् अपि न व्यथते ।
किं वा, त्वच्-चरण-स्पर्श-माहात्म्यात् कूर्पादयोऽपि कोमला एव भवन्ति ।
किं वा, धरण्यैवातिकारुण्यात् त्वन्-माधुर्यास्वाद-लोभाद् वा त्वच्-चरण-विन्यास-स्थले स्व-जिह्वा उत्थाप्यते ।
किं वा, त्वम् अस्मत्तोऽपि प्रेम-सिन्धुर् दैव-वशाद् अस्मद्-विरह-सन्तप्तो भ्रमन्न् उन्माद-दशां प्राप्तः स्व-चरण-व्यथाम् अपि नानुसन्धत्से, इत्य् एवं नाना कारणानि परामृशन्तीनाम् अस्माकं धीर् भ्रमति । न तु क्वापि निश्चयं लभते इति भावः ।
यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीम् अटसि27 तद् व्यथते न किं स्वित्
कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥
नन्व् एतत् कियत् स्व-दुःखं व्यञ्जयथ ? अहं तु तद्-दुःखं दुःखं न मन्ये, येन प्राणास् तिष्ठन्तीति चेद्, अत आहुर्—भवद्-आयुषाम् इति, भवति त्वय्य् एवायूंषि यासां तासाम् । कल्याणवति त्वयि स्थिते त्व् एतावद्भिर् अपि कष्टैर् अस्मद्-आयुषां न नाश इत्य् अर्थः ।
अयं भावः—"भवान् इवास्मान् दुःखयितुं प्रवृत्तो विधिर् एतद् विचारयति स्म यद् आसाम् आयूंषि सम्प्रत्य् आस्व् एव स्थापयिष्यामि, तदा मद्-दत्तैर् अतिसन्तापैर् दग्धायुष इमाः सद्यो मरिष्यन्ति । ततोऽहं पुनः काभ्यो दुःखं दास्यामि ? तस्माद् आसाम् आयूंषि मत्-सधर्मणि मद्-बन्धौ कृष्णे निधाय यथेष्टम् इमा अम्रियमाणा अपारम् एव दुःखं भोजयामीति, अतएव वयं न म्रियामहे ।"
यद् वा, एवं धीर् एव तद्-अनिश्चयाद् भ्रमति । प्राणास् त्व् अस्माकं निश्चयेन देहान् निर्गच्छन्त्य् एवेति त्वं सम्प्रति पश्येति भावः
नन्व् आयुषि स्थिते कथं नाशः ? तत्राहुः—भवद्-आयुषां त्वत्-समर्पितायुषां स्वायूंषि तुभ्यम् अस्माभिः सम्प्रति दत्तानि, तैश् चिरं त्वं व्रजे खेलेति भावः ॥१९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकत्रिंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यां संहितायां वैयासिक्यां दशम-स्कन्धे
गोपिका-गीत-कथनं नाम
एकत्रिंशो\ऽध्यायः
॥ १०.३१ ॥
(१०.३२)
-
गोपिका ऊचुः ↩︎
-
साधु तत्र (वि।) ↩︎
-
गतासवास् (वि।) ↩︎
-
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥ ↩︎
-
कैटव-रहितं प्रेमा न हि भवति माणुसे लोके ।
यदि भवति कस्य विरहो विरहे सति कः जीवति ॥ ↩︎
-
अ पर्तिचुलर्ल्य् देअद्ल्य् wएअपोन् उसेद् अस् अ मिस्सिले, सुप्पोसेद् ब्य् सोमे तो बे अ सोर्त् ओफ़् फ़िरे-अर्म्स् ओर् रोच्केत्, बुत् देस्च्रिबेद् ब्य् थे चोम्मेन्तर्य् ओन् थे महाभारत अस् अ स्तोने ओर् च्य्लिन्द्रिचल् पिएचे ओफ़् wओओद् स्तुद्देद् wइथ् इरोन् स्पिकेस्। (म्W) ↩︎
-
आयुर् घृतम् इत्य् अत्रायुष्कारणम् अपि घृतं कार्य-कारण-भाव-सम्बन्ध-सम्बन्ध्य्-आयुस् तादात्म्येन प्रतीयते । अन्य-वैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् इति साहित्य-दर्पणं (२.१७) ॥ ↩︎
-
अरिष्ट-व्योमासुरयोर् वधस्य भावित्वे ऽपि गर्गादि-मुखाच् छ्रुतत्वेन विप्रलम्ब-पोषकत्वेन वा भूतवन् निर्देशः । ↩︎
-
इत्य् अभिध्यायतो नासा-विवरात् सहसानघ । वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः ॥ ↩︎
-
सपदि पङ्क्ति विहङ्गम-नाम-भृत-तनय-संवलितं बल-शालिना ↩︎
-
स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः ।
व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः ॥ ↩︎
-
उक्तं च रामायणे श्री-रघुनाथेन विभीषण-गमन-प्रसङ्गे। [ह।भ।वि। ११.६५३] ↩︎
-
कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । प्रमदाः किं न कुर्वन्ति किं न जल्पन्ति मद्यपाः ॥ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ महा-सुभाषित-संग्रहः ९०९०-१। ↩︎
-
उपकृतं बहु तत्र किम् उच्यते सुजनता प्रथिता भवता परम् ↩︎
-
क्वचिद् विशेषः सामान्यात् सामान्यं वा विशेषतः । कार्यान् निमित्तं कार्यं च हेतोर् अथ समात् समम् ॥
अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः । अप्रस्तुत-प्रशंसा स्यात् [भक्ति-रसामृत-शेष ४.८७] ↩︎
-
॥। उक्ता व्याज-स्तुतिः पुनः । निन्दा-स्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-निन्दयोः ॥ [रसामृत-शेषः २.८८] ↩︎
-
ध्यानायनम् अतिसुन्दरतया प्रयत्नं विनैव ध्यानस्य विषय-भूतम् (श्रीधरः) ↩︎
-
"धन-" इति श्री-जीव-गोस्वामिनां सम्मतः पाठः । ↩︎
-
चारु दर्शयन् ↩︎
-
स्मरं स्मरण-मात्रेणापि क्षोभकम् । ↩︎
-
यद् अर्चितं ब्रह्म-भवादिभिः सुरैः श्रिया च देव्या मुनिभिः स-सात्वतैः ।
गो-चारणायानुचरैश् चरद् वने यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥ ↩︎
-
रोग- ↩︎
-
नयसीति पाठान्तरं स्वामिभिर् धृतम्। ↩︎
-
दधीमहि धर्तुं योग्यम् । “अर्हे कृत्यतृचश् च” इति लिङ् । ↩︎
-
भवदायुषाम् इति । इत्थम् एव च "त्वयि धृतासवः" इत्य् उपक्रमो ऽपि । ↩︎
-
श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् ।
बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ॥ ↩︎
-
नयसीति पाठान्तरं स्वामिभिर् धृतम्। ↩︎