गोपी-द्वारा भगवतो\ऽनुसन्धानं तद्-आचरितानुकरणं यमुना-पुलिने तद्-आगम-प्रतीक्षणं च । {#गोपी-द्वारा-भगवतोनुसन्धानं-तद्-आचरितानुकरणं-यमुना-पुलिने-तद्-आगम-प्रतीक्षणं-च ।उन्नुम्बेरेद्}
॥ १०.३०.१ ॥
श्री-शुक उवाच—
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।
अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
त्रिंशे विरह-सन्तप्त-गोपीभिः कृष्ण-मार्गणम् ।
उनमत्तवन् न नियतं भ्रमन्तीभिर् वने वने ॥*॥
अचक्षाणा अपश्यन्त्यः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णस्य मार्गणम् अन्वेषणम् । तच् च नियतं यथावन्, न । कुतः ? उन्मत्तवत् विरहाकुलतयोन्मत्ता इव सञ्जाता इति ॥
हरेर् एव योगैश्वर्यं स्वाभाविकं नान्यस्येति ज्ञापनाय गोपीनां भक्त्य्-अतिशयम् आह—श्री-शुक इति । तं श्री-कृष्णम् । करिण्यः इभ्यः, करेणुर् इभ्यां नेभे स्त्री इत्य् अमरः । यूथपं गजेन्द्रम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-अन्तर्धान-कथनेन श्री-बादरायणेर् अप्य् आर्ति-भरोदयात् कथा-विच्छेदेन मध्ये\ऽध्यायापातः । तद् एवं जात-दुःखत्वे\ऽपि तासाम् एकां सर्वतः परमां याम् आदाय श्री-भगवान् अन्तर्हितः तस्याः सौभाग्यं क्षणाद् अनुसन्धाय धैर्यम् अवलम्बमान आह—अन्तर् इति । सहसैवान्तर्हिते इति अन्तर्धानस्य प्रकाराद्य्-अतर्कणात् । अतर्किते तु सहसा इत्य् अमरः । अयं तापाधिक्ये हेतुर् ऊह्यः । व्रजस्याङ्गना इति तासां तद्-एक-प्रियत्वेन विरह-तापस्यौचित्यम् आधिक्यं चाभिप्रेतम् । यूथपं मत्त-गजेन्द्रं करिण्य इव इति तद्-एकालम्बनत्वेन वा तासां तद्-विच्छेदात् तापाधिक्ये दृष्टान्तः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-अन्तर्धान-कथनेन श्री-बादरायणेर् अप्य् आर्ति-भरोदयात् कथा-विच्छेदेन मध्ये\ऽध्यायापातः । श्री-युक्तः शुक उवाच इति श्री-भगवद्-अन्तर्धानेन तस्यापि शोकोदयाच् छुकवद् अव्यक्त-मधुरोक्तेः । एवम् अग्रे\ऽप्य् ऊह्यम् । क्षणात् स्वस्थः सन् विलपन्न् इवाह—अन्तर् इति । सहसैवान्तर्हिते इति, अन्तर्धानस्य प्रकाराद्य्-अतर्कणात्, अतर्किते तु सहसा इत्य् अमरः । अयं तापाधिक्ये\ऽपि हेतुर् ऊह्यः । व्रजस्याङ्गना इति तासां तद्-एक-प्रियत्वेन विरह-तापस्य औचित्यम् आधिक्यं चाभिप्रेतम् । यूथपं मत्त-गजेन्द्रं करिण्य इवेति रत्यां विदग्धो हि गजः इत्य्-आदि वचनानुसारेण तद्-एकालम्बनत्वेन वा तासां तद्-विच्छेदात् तापाधिक्ये दृष्टान्तः ॥१॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८९) : अथ प्रवासः । नाना-विधश् चैष तद्-अनन्तर-सङ्गश् च श्री-व्रज-देवीर् एवाधिकृत्योदाहरणीयः । सङ्गत्य्-अर्थं तत्र प्रवास-लक्षणम्—
पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः । > व्यवधानं तु यत् प्राज्ञैः स प्रवास इतीर्यते ॥ > तज्-जन्य-विप्रलम्भोऽयं प्रवासत्वेन कथ्यते । [उ।नी। > १५.१५२-१५३] इत्य् अर्थः ।
अत्र—
चिन्ता प्रजागरोद्वेगौ तानवं मलिनाङ्गता । > प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ [उ।नी। १५.१६७]
अयं च किञ्चित् दूर-गमन-मयः सुदूर-गमन-मयश् च । तत्र पूर्वोऽपि द्विविधः । एक-लीला-गतः लीला-परम्परान्तराल-गतश् च । पूर्वो यथा—अन्तर्हिते इति । तथा ततश् चान्तर्दधे कृष्णः [भा।पु। १०.३०.३९] इति स्पष्टम् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : तद्-अनन्तरं यद् भूतं, तद् आह—अन्तर्हिते इत्य्-आदि । अचक्षाणा अपश्यन्त्यः सहसैवातप्यन् सन्तापं चक्रुः ॥१॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : यद्यपि श्री-कृष्णान्तर्धान-तप्तानां गोपीनां तापेन श्री-शुको\ऽपि सन्तप्तः, तथापि तन्-मण्डलस्थं श्री-कृष्णं तत्-प्राण-रक्षां कुर्वन्तं जानन् मनः समाहितं कृत्वा तद्-ध्यानानन्तर-जातां लीलां कथयितुम् आह । उपेक्षया स्वाधीनतां सम्पादयितुं किञ्चिद् अप्य् अकथयित्वा सहसैव अकस्माद् अन्तर्हिते, तासाम् अन्तर्हितं यथा तथा चक्षुर् अविषयं प्राप्ते, भगवति रसैश्वर्य-पूर्णे विलासस्य पूर्णता-सिद्ध्य्-अर्थं तथा कृतवति सति, व्रजाङ्गना इति पदेन तासां तद्-एक-जीवनत्वेन विरह-तापाधिक्यं सूचितम्। कीदृश्या ? संमानन-कर्तारम् आत्मनो जीवानुभूतम् अचक्षाणा अपश्यन्त्यस् तद्-एकालम्बनत्वेन तद्-विरहे तासां तापाधिक्येन दृष्टान्तः यूथपं मत्त-गजेन्द्रम् अपश्यन्त्यः करिण्यो यथा, तथा भवन्ति, तथा ता अतप्यन् ।
अयम् अभिप्रायः—रतिं गज एव जानाति, यतः स्पर्श-मात्रेण बद्धा भवति, करिण्यो\ऽपि स्पर्श-सुखं जानन्ति । अत एवान्योन्यादर्शने तापाधिक्यम् इति । एतासां रत्य्-आत्मकस् तापो नित्य-सिद्ध एव श्री-कृष्ण-दर्शनालिङ्गनालापैर् आनन्द-रूपो भवति । स एवं विप्रलम्भे दुःखत्वेन प्रतीतो भवति, न तु तथा शृङ्गारस्योभय-रूपत्वात् ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्रिंशे तु विरहोन्मत्ता कृष्णं पृष्टा नगान् स्त्रियः ।
तल्-लीलाम् अनुचक्रुस् ताः सम्भुज्य स च तां जहौ ॥*॥
अचक्षाणा अपश्यन्त्यः ॥१॥
॥ १०.३०.२ ॥
गत्यानुराग-स्मित-विभ्रमेक्षितैर्
मनोरमालाप-विहार-विभ्रमैः ।
आक्षिप्त-चित्ताः प्रमदा रमा-पतेस्
तास् ता विचेष्टा जगृहुस् तद्-आत्मिकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गत्या च अनुराग-स्मिताभ्यां विभ्रमेक्षितानि स-विलास-निरीक्षणानि, तैश् च मनोरमा आलापाश् च विहाराः क्रीडाश् च विभ्रमाः, अन्ये च विलासाः, तैश् च रमा-पतेर् गत्य्-आदिभिर् एतैर् आक्षिप्तान्य् आकृष्टानि चित्तानि यासां, ताः । अतस् तस्मिन्न् एव आत्मा यासां, तास् तस्य विविधाश् चेष्टा जगृहुः, तद्-अनुकरणेन अक्रीडन् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गत्या बाल-सिंह-खेलन-गमनेन । अनुराग-स्मिताभ्यां स्नेह-मन्द-हासाभ्याम्, विभ्रमः सेवायां संशये भावः इति हैमः । चित्त-वृत्त्य्-अनवस्थानं शृङ्गाराद् विभ्रमो मतः इति हरि-दीक्षितः । रमते\ऽनयेति रमा राधा, तस्याः पतेः राधा-सहायस्य । तास् ता इति द्विर्-उक्तिः सम्भ्रमात् । पूर्वं या या लीलाः कृताः, तास् ता इत्य् अर्थः । तच्-छब्दस्य पूर्व-परामर्शित्वात् । तद्-अनुकरणेन तत्-तुल्य-देशादि-करणेन अनु पश्चात् पूर्वं दृष्ट्वा यत् ताद्रूप्येण क्रियते, तद्-अनुकरणम् । तद्वत् तन् नेत्य् अर्थः ॥२॥
कैवल्य-दीपिका : अथ मान-विप्रलम्भः । स च प्रणयेर्ष्याभ्यां द्वेधा । अत्र प्रेम-पूर्वको वशीकारः प्रणयः । तद्-भङ्गे मानः । स च स्त्रियाः पुंस उभयोर् वा तत्र भेदान्तराणि स्वयम् ऊह्यानि । पुं-विषयं तु प्रणय-मानम् अत्राह—गत्या इत्य्-आदि । अनुरागेण यत् स्मितं विभ्रमेक्षितानि चञ्चलावलोकनानि । आलापो गोष्ठी । विहारो जल-क्रीडादिः । विभ्रमः शृङ्गार-चेष्टा तैर् आक्षिप्तम् आकृष्टम् ॥२॥ [मु।फ। १२.१८]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गत्या इत्य्-आदि । तास् ता विचेष्टा जगृहुर् इत्य्-आदि । पश्चाद् दर्शयिष्यते, अन्यथा गायन्त्य उच्चैर् अमुम् एव संहता [भा।पु। १०.३०.४] इत्य्-आदि न लगति । अथवा, काश्चित् तद्-आत्मिकाः सत्य एवं चक्रुः, काश्चिद् ध्यायन्त्यो वनाद् वनं विचिक्युर् इत्य् अर्थः ॥२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तापम् एवाभिव्यञ्जयति—गत्येत्य्-आदिना पद्याधिकाध्याय-द्वयेन । गत्येति कायिकी चेष्टा सर्वोपलक्ष्यते । अनुरागेण स्मितं विभ्रमेक्षितानि च तैर् मानसी, तेषाम् अनुराग-कृतत्वात् । मनोरमैर् आलापादिभिः मनोरमालापेन वाचिकी, मनोरम-विहार-विभ्रमैस् त्रिविधैव तत्-तत्-समुचितत्वात् । विहारो गोवर्धनोद्धरणादि-लीला वेणु-वादनादिर् वा । विभ्रमः शृङ्गार-चेष्ट । तथा चोक्तं, चित्त-वृत्त्य्-अनवस्थानं शृङ्गाराद् विभ्रमो मतः इति । एषां यथोत्तरं श्रैष्ठ्यम् । तैः पूर्वाचरितैर् आक्षिप्त-चित्ताः ।
ततश् च तद्-आत्मिकास् तन्-मय्यः सत्यः । तद्-आत्मिकाश् च बभूवुर् इति पृथग्-वाक्यं वा । [प्रमदाः] अनुकरण-तन्मयत्वयोर् द्वयोर् अपि वक्ष्यमाणत्वात् प्रकृष्टो मदो यासां ता इति पूर्वोक्त-प्रकृष्ट-मानाभिप्रायेण । यद् वा, प्रमदो हर्षः । आनन्द-रूपा अपि परमार्ताः सत्य इति भावः ।
रमाया लक्ष्म्याः पत्युर् इति परम-वैदग्धी । तया च पत्य्-आदीनाम् उत्तमतापि सूचिता । यद् वा, रमा श्री-राधेति पूर्ववद् इति वक्ष्यमाण-तत्-साहित्यं सूचितम् । तास् ताः परमानिर्वचनीया इति तद्-अनुकरणस्याशक्यत्वम् उक्तम् । तथापि जगृहुः । यद् वा, पूर्वोक्ताः सर्वा विविध-चेष्टाः । अयं च प्रेम-विलासो नागरीणां स्वाभाविक एव । अत एव प्रियानुकरणं लीला [उ।नी। ११.२८] इत्य् अलङ्कार-शास्त्रे लीलेत्य् उच्यते ।
यद् वा, तास् ता विचेष्टाः, कृष्णस्य तास् ता लीलाः कर्त्र्यः प्रमदा कर्म-भूता जगृहुः । कथम्भूताः प्रमदाः ? तद्-आत्मिकास् तच्-चित्ताः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तापम् एवाभिव्यञ्जयति—गत्येत्य्-आदिना पद्याधिकाध्याय-द्वयेन । गतिः सामान्या, अनुरागः स्व-विषयकः कान्त-योग्यो भावः, स्मितं विभ्रमेक्षितानि च तैः । विभ्रमो\ऽत्र भ्रू-प्रभृतीनां तत्-तन्-मधुर-चेष्टाः । विहारः शृङ्गार-चेष्टा उत्तरो विभ्रमः शृङ्गार-भाव-विशेषः । तथा चोक्तं चित्त-वृत्त्य्-अनवस्थानं शृङ्गाराद् विभ्रमो मतः इति । तद्-अनुराग-चित्त-वृत्त्य्-अनवस्थाने मानसे गति-स्मित-विभ्रम-युक्तेक्षित-विहाराः कायिकाः । आलापो वाचिक इति ज्ञेयम् । एतद्-उपलक्षणत्वेनान्ये\ऽपि भावा ज्ञेयाः ।
अत्र च गतेः सामान्यत्वेन पृथग्-उक्तिः । स्मितादिकयोर् अनुरागारम्भ-मात्र-जायामानत्वेन तत्-समुदितोक्तिः । आलाप-विहारयोर् विभ्रम-जन्मनैव जायमानत्वेन तत्-समुदितेति । तैर् गत्य्-आदिभिस् ताभिः समेताभिर् [भा।पु। १०.२९.४३] इत्य्-आदि-वर्णितैः पूर्वाचरितैर् आक्षिप्त-चित्ताः ।
ततश् च तद्-आत्मिकास् तन्मय्यः सत्यः प्रमादास् तास् ता बाहु-प्रसार- [भा।पु। १०.२९.४६] इत्य्-आदिभिः पूर्वोक्ताः सर्वा विविधाश् चेष्टा जगृहुः प्राप्ताः । तत्र प्रमदा योगि-कार्य-पुरस्कारेण जातित एव प्रकृष्ट-मद-युक्ताः, किं पुनस् तत्-प्रेमवत्यस् ता इत्य् अर्थः । रमायाः सर्व-रूप-गुण-माधुर्यैश्वर्य-सम्पद्-अधिष्ठातृ-शक्तेः पत्युर् अध्यक्षस्य इति सर्वातिशायिता सूचिता । यद् वा, रमा श्री-राधा इति पूर्ववत् । इति वक्ष्यमाण-तत्-साहित्यं सूचितम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गत्येत्य्-आदि प्रकरणात् । अत्र रमापतेः सर्व-रूप-गुण-माधुर्यैश्वर्य-सम्पद्-अधिष्ठातृ-शक्तेः पत्युर् अधोक्षजस्येत्य् अर्थः । अथवा, तास् ता बाहु-प्रसार- [भा।पु। १०.२९.४६] इत्य्-आदिभिः पूर्वोक्ताः । तत्र तद्-आत्मकत्वम् अभिव्यञ्जस्यति ॥२॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३२४) : प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः [उ।नी। ११.२८] तस्यां वेश-क्रियया तच्-चेष्टानुकरणं, यथा—अन्तर्हिते भगवति [भा।पु। १०.३०.१] इत्य्-आद्य्-अनन्तरम् गत्यानुराग-स्मित- [भा।पु। १०.३०.२] इत्य्-आदि ॥२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद्-अदर्शन-सम-कालम् एव सौभग-मदो मानश् च शान्तः । तत्-प्रकारम् आह—गत्या इत्य्-आदि द्वाभ्याम् । रमापतेः श्री-कृष्णस्य गत्य्-आदिभिर् आक्षिप्त-चित्ताः सत्यः प्रमदास् तास् ताः विचेष्टा रमापतेर् एव, तास् ता लीला जगृहुश् चेतसि दधुर् इत्य् अर्थः । ताः कीदृश्यः ? तस्मिन्न् एव आत्मा मनो यासां, तास् तद्-आत्मिकाः, न तु तास् ता लीलास् तद्-आत्मिकाः सत्यो जगृहुर् अनुचक्रुः । तथा सत्यः गायन्त्य उच्चैः [४] इत्य्-आदीन्य् असङ्गतानि स्युः । किन्त्व् एषाम् अन्ते लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्-आत्मिका [१४] इत्य्-आदिकम् एव तादात्म्यम् ॥२॥
\ऽ
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : संयोगे स्वरूप-मात्रानुभवः, विप्रलम्भे यावल्-लीलानुभवः । अत एव विप्रलम्भे यावल्-लीलाक्रान्तः कृष्णस् तासां मनसि प्रविश्यवान् इत्य् आह—गत्येति । ताः प्रमदाः श्री-कृष्णे सम्मानेन प्रकृष्ट-मद-युक्ताः । इदानीं तद्-उपेक्षिता तद्-विरहे रमा-पतेस् तास् ता विचेष्टा पूतना-प्राण-शोषणादि-लीला जगृहुर् अनुकृतवत्यः । कीद्र्श्यः प्रमदाः ? श्री-कृष्णस्य गत्य्-आदिभिर् आक्षिप्त-चित्ताः । पुनः कीदृश्यः ? तद्-आत्मिकास् तन्-मय्यः । यद् वा, स एवात्मा चेतयिता यासाम् ।
अयं भावः—सम्भोगात्मके शृङ्गारे भोक्तृ-भोग्यात्मिका प्रतीतिर् आसीत् । विप्रलम्भे प्रेष्ठस्यान्तः-प्रवेशात् ग्रह-गृहीतवत् स्वकीय-चेष्टा विस्मिताः कृष्णात्मकत्वेन तदीया चेष्टा गृहीतवत्यः । तद्-आकारान्तः-करणावृत्तौ जातायां सत्यां, तस्यैव गतिर् गजस्येव, तथा अनुरागो मानसो भावस् तत्-पूर्वकं स्मितम् । विभ्रमो विलासस् तत्-पूर्वकानि ईक्षितानि, तैः मनो रमयन्ति ये मनोरमा आलापा गुह्य-भाषणानि ।
विहारः क्रीडा विशेष-विभ्रमो विलास-विशेषः । यद् वा, विविधं भ्रमणं कुञ्जान्तरं गमनम् । यद् वा, विभ्रमो नाम सुवलनम् । एतैर् व्यस्तैः समस्तैर् वा । तत्र गति-विहारौ कायिकौ, स्मित-विभ्रमेक्षितानि चाक्षुषाः, आलापो वाचिकः, विभ्रमो मानसः । तद् उक्तं रसार्णवे—चित्त-वृत्त्य्-अनवस्थानं शृङ्गाराद् विभ्रमो मतः1इति ।
रमयन्तीति रमा व्रज-देव्यस् तासां पतेः पालकस्यात एव तासां प्राण-रक्षार्थं तद्-आत्मा जातस् तस्य । एतैर् गत्य्-आदिभिर् आक्षिप्त-चित्ताः । अपह्नवं प्रापितं चित्तं यासां ताः पूर्वं स्वभावत एव प्रकृष्ट-मदाः, इदानीं विरहे गत-मदाः । प्र-शब्दो गतार्थे श्री-कृष्ण-लीलानुकरणं कृतवत्यः । तद् उक्तं रसार्णवे—
प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः । > चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते ॥ [र।सु। १.२००]
ननु पूर्वम् उक्तं भवाम दास्यः [भा।पु। १०.२९.३९] इति प्रभोश् चेष्टानुकरणं नोचितं विडम्बन-पर्यवसानत्वात् ? तत्राह—तद्-आत्मिकाः । स एवात्मनि स्वरूपे यासां ताः । कृष्णात्मकत्वे जाते स्वानुसन्धानं विस्मृतवत्यः । एतासां च यदि स्वानुसन्धानं भवेत् तदायम् उपालम्भः स्यात्, न तु तद् अस्तीति । अतः प्रियस्य लीलानुकरणं तापापनोदार्थम् उद्देशत उक्तम् । विस्तरतो\ऽग्रे वक्ष्यति ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततस् तम् इतस् ततः कुञ्जेष्व् अन्विष्यन्तीनां तम् अप्राप्तवतीनां प्रतीक्षण-विवर्धमान-विरह-पीडया यः खलून्मादः सञ्चारी अभूत्, तस्य प्रकट-प्राकट्य-प्रकारं वर्णयति—गत्येति द्वाभ्याम् । रमा-पतेः सर्व-सौन्दर्य-सम्पत्ति-स्वामिनः कृष्णस्य गत्या स्वाभाविकेन पाद-विन्यासेन प्रथमं स्वान्तिकागमनम् आगत्य यानि अनुराग-युक्तानि स्मितानि च विशिष्टो भ्रमो भ्रमणं तारकाया यत्र तथाभूतानि ईक्षितानि च तैः ।
ततश् च मनोरम आलापः—"अयि स्थल-पद्मिनि ! अतितृष्णार्ताय मधुपाय स्व-मकरन्दं दास्यसि न वा ? भो भ्रमर ! पद्मिन्याः पतिः सूर्य एव, न तु भ्रमरः । तत् कथं त्वां स्वं स्वीयं मधु पाययिष्यति ? भो पद्मिनि ! पद्मिनीनां भवतीनां स्वभाव एवायं, यत् ताः स्व-पतिं सूर्यं स्वीयं मधुनैव पाययन्ति । किं तूपपतिं भ्रमरम् एव" इति । ततस् तद्-आलापेनैव पराजितया विहसन्त्या तया सह अधर-मधु-पान-विहारः ।
एवं वा, "आब्जा-नामि-मत्-समीप-स्थ-नीप-तरु-तलं गच्छन्तीं त्वां महा-दर्पकः सर्पो\ऽदशत् । तद्-विषं ते वक्षः-स्थल-पर्यन्तम् उदसर्पत् । तद् अपि त्वं कुल-वधूत्वाद् एव माम् तद्-उपशमं न पृच्छसि ? तद् अहं दयालुत्वात् स्वयम् एव त्वद्-अन्तिकम् एत्य तद्-विषोपशमकं मन्त्रं पठन् कर-तलाभ्यां त्वद्-अङ्गं सङ्घट्टयामि ।""भो भो जाङ्गलिक ! न मां सर्पो\ऽदशत् । यां सर्पो दशति स्म तद्-गात्रम् एव कर-तलाभ्यां सङ्घट्टय ।""भो कुलाङ्गने ! त्वदीय-गद्गद-स्वराद् एव विष-ज्वालाकुलत्वं तव ज्ञायते इति ज्ञात्वापि यद्य् अपि अहं त्वाम् उपेक्षे, तदा मां स्त्री-वधो लगिष्यतीत्य् अतस् तद्-विषम् उपशमयिष्याम्य् एव ।" इत्य् उक्त्वा तस्या वक्षः-स्थले नखरार्पणादिकं चकार ।
ततो विहारः सम्प्रयोगः । ततो विभ्रमः कामोन्मत्तता । यद् उक्तं—चित्त-वृत्त्य्-अनवस्थानं शृङ्गाराद् विभ्रमो मतः इति । तैर् विरहावस्थायाम् अतिशयेन स्मृत्या रूढैर् आक्षिप्तानि । "अरे किम् इह कुरुध्वे ? बहिर्भूय प्राण-प्रेष्ठम् अन्वेष्टुं गच्छत" इति तिरस्कृत्य देहतो निःसारितानि स्व-चित्तानि याभिस् ताः । यतः प्रमदाः प्रकर्षेण माद्यन्तीति ताः । ततश् चोन्मादं प्राप्य तद्-आत्मिकास् तस्येवात्मानो बुद्ध्य्-आदयो यासां ताः । अतस् तास् तास् तदीया विविध-चेष्टा जगृहुर् बुद्धि-पूर्वक-ग्रहणादीन् अनुचक्रुर् इत्य् अर्थः ॥२॥
॥ १०.३०.३ ॥
गति-स्मित-प्रेक्षण-भाषणादिषु
प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः ।
असाव् अहं त्व्2 इत्य् अबलास् तद्-आत्मिका
न्यवेदिषुः3 कृष्ण-विहार-विभ्रमाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च गति-स्मितेति । **प्रियस्य गत्य्-**आदिषु प्रतिरूढा आविष्टा मूर्तयो यासां ताः । अतः कृष्ण-विहार-विभ्रमाः कृष्णस्य एव विहार-विभ्रमाः क्रीडा-विलासा यासां ताः । अहम् एव कृष्ण इति परस्परं निवेदितवत्यः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलम् अनुकरणेनैवाक्रीडन्, किन्तु ताद्रूप्येणापीत्य् आह—अपि चेति । प्रियस्य श्री-कृष्णस्य । आविष्टाः तद्-आकारतां नीताः, यतस् तद्-आविष्टाः । अतो हेतोः । हे अबलाः ! असौ कृष्णो\ऽहम् एव । यद् वा—तद्-आत्मिकास् ताद्रूप्यं प्राप्ता अबला इति सम्बन्धः ॥३॥
कैवल्य-दीपिका : गति- इति । गत्य्-आदिषु प्रियस्य प्रतिरूढा अनुकृता मूर्तिर् याभिस् ताः । हे अबलाः ! अमी कृष्णोऽहम् इति न्यवेदिषुः परस्परं निवेदयामासुर् इत्य् अर्थः । यतः कृष्ण-विहारे विभ्रमो यासां तास् तथा । चित्त-वृत्त्य्-अनवस्थानं शृङ्गाराद् विभ्रमो मतः [सा।द। ३.१४] ॥३॥ [मु।फ। १२.१९]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : असौ कृष्णो\ऽहम् एव इति न्यवेदिषुः, परस्परं न्यवेदयन् । तु-शब्द एवार्थः । अन्यथा देह-रक्षा न भवतीति भगवान् एव तासां तथान्तः-करणे प्रादुर्भूय तादात्म्यं सम्पादयामास । अत एवोक्तं तत्रैवान्तरधीयत [भा।पु। १०.२९.४८] इति । तत्रैव तास्व् एव अन्तर्-वर्ती बभूव ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र तदात्मिकत्वम् अभिव्यञ्जयति—गतीति । गत्य्-आदिषु उक्तेषु, आदि-शब्दाद् विहार-विभ्रमौ, उक्तानुवादत्वेन पूर्वोक्त-तत्-तद्-विशेषणान्य् अत्र नोक्तानि । प्रतिरूढ-लीलाभिर् आविष्टा मूर्तयः, इन्द्रियाङ्गादि-सङ्घातात्मक-देहा यासां ता इत्य् अन्तर्-बहिस्-तद्-भावापत्तिर् उक्ता । तथा चोक्तं प्रह्लादेन—तद्-भाव-भावानुकृताशयाकृतिः [भा।पु। ७.७.३६] इति ।
अबलाः स्त्रियः इति स्त्री-चेष्टानुकरणम् एव युक्तम् इति ध्वनितम् । तथापि, यद् वा, ताप-भरेणाशेष-बल-रहिताः सत्यः । तु एव । अहम् एवासौ इति प्रत्येकं सर्वाण्य् अवेदयन्त इति विरह-विवशतोक्ता लीलाविष्टता वा । तत्र हेतुः—तद्-आत्मिकाः तन्मय्यः सत्य इति । तच्-छब्देन श्री-कृष्णस् तद्-गत्य्-आदयो वा, श्री-कृष्णो\ऽहम् इति साक्षाद्-अनुक्तिर् विरह-वैवश्यात्, तद्-आत्मिकत्वाद् एव वा । तन्मयत्वं च प्रेम-लीला-भर-स्वभावेनैव, न त्व् अभेद-ज्ञानादिनेत्य् आशयेनाह—प्रियाः प्रियस्येति । कृष्ण- इति परमाकर्षकत्वाभिप्रायेण । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अनुकरणम् एवात्रापि ज्ञेयम् । ततश् च पूर्व-श्लोके तद्-आत्मिका इत्य् अनुकरण-सम्यक्ता बोधिता । ताम् एव दर्शयति—गति- इति । हे अबलाः ! असौ तत्-तद्-विहार-नागरो\ऽहम् इत्य् एतत् श्री-कृष्ण-वाक्यम् इति शेषः । तच् च पूर्वं नर्मादिना कदाचित् तेनोक्तम् अस्तीत्य् अत एव ज्ञेयम् । कुतो वाक्यं न समापितम् ? इत्य् अपेक्षायाम् आह—तद्-आत्मिका इति तन्-मनस्काः ।
यद् वा, अयम् अनुकरण-सम्यक्ता-बोधनार्थं पुनर् अपि पूर्ववद् धेतुः । अत एव कृष्ण-विहारवद् विभ्रमश् चुम्बनालिङ्गनादि-चेष्टा-विशेषो यासाम् । यद् वा, कृष्णस्य इव विहार-विभ्रमः—विगतो हारो यस्मात्, तादृशो विभ्रमो विलासो यासाम् । किं वा, कृष्ण-विहार इति विशिष्टो भ्रमो याभ्यः, न निश्चेतुं शक्यते कृष्ण एवायं विहरति, ता वा तम् अनुकुर्वन्तीत्य् अर्थः ।
वाक्यासमापने च विरह-विह्वलतैव हेतुर् विभाति । अथवा, असौ तत्-तत्-प्रकारैर् बहुशः श्री-कृष्णेन रमिता या, सा अहम् इत्य् अर्थः । तद्-अप्रकाशनं वैदग्ध्या विरह-विह्वलतयैव वा । तादृश-निवेदने हेतुः—तस्मिन्न् अवाच्ये मरणे आत्मा चित्तं यासां, ता इति अत्यन्त-दुःखेन मुमूर्षया तन् न्यवेदयन्न् इत्य् अर्थः । यतः कृष्ण-विहारैर् विभ्रम उन्मादो यासां तद्-विलास-स्मरणेन परम-विह्वला इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तद्-आत्मकत्वम् एवाभिव्यञ्जयति—गति- इति । **प्रियस्य गत्य्-**आदिषु उक्तेषु आदि-शब्दाद् विहार-विभ्रमौ उक्तानुवादित्वेन पूर्वोक्त-तत्-तद्-विशेषणानि नोक्तानि । तेषु प्रतिरूढाः सदृशीभूता मूर्तयः, इन्द्रियादि-सङ्घातात्मक-देहा यासां ताः । इत्य् अन्तर्-बहिस्-तद्-भावापत्तिर् उक्ता । अबलाः स्त्रियः इति स्त्री-चेष्टानुकरणम् एव युक्तम् इति ध्वनितम् । तथापि तु एव यत्र युष्माकम् उत्कण्ठा अहम् एवासौ तत्-तद्-विहार-नागर इति प्रत्येकं सर्वा मिथो न्यवेदयन्त ।
कीदृश्यः सत्यः ? कृष्णवद् विहारे विभ्रमो विलासो यासां, कृष्ण-विहारस्य विभ्रमो भ्रान्तिर् याभ्यो वा तादृश्यः । तन्मयत्वं च प्रेम-लीला-भरत्व-भावेनैव, न तु अहंग्रहोपासनावेशेनेत्य् आशयेनाह—प्रियाः प्रियस्येति । प्रियास् तस्मिन् स्वाभाविक-प्रेमवत्यः प्रियस्य स्वस्मिन्न् अपि स्मर्यमाण-तादृश-प्रेमकस्येत्य् अर्थः ।
लीलाख्यश् चानुभावो\ऽयं—प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः [उ।नी। ११.२८] इत्य्-उक्तेः । तथा च प्रयोगः—मुहुर् अवलोकित-मण्डन-लीला, मधुरिपुर् अहम् इति भावना-शीला [गी।गो। ५.६] इति ॥३॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३२५) : तास् ताः बाहु-प्रसारा [भा।पु। १०.२९.४६] इत्य्-आदिनोक्तास् तदीय-लीला इत्य् अर्थः । पश्चाद्-आवेशेन रूपं तद्-अभेद-भावना-रूपम्—गति-स्मित-प्रेक्षण-भाषणादिषु इत्य्-आदि ।
एवं स्व-विलास-रूपां लीलाम् उद्भाव्यापि तासां निजो भावो निगूढं तिष्ठत्य् एव, यथा वक्ष्यते--यतन्त्य् उन्निदधेऽम्बरम् [भा।पु। १०.३०.२०] इत्य् अत्र यतन्तीति । अथैतद् अग्रेऽपि काल-क्षेपार्थं या लीला, याभिर् गातुं प्रवर्तिताः प्रेमावेशेन, ता लीला एव, तास्व् आविष्टा इति तत्-तद्-अनुकरण-विशेषे हेतुर् ज्ञेयः । एतद्-अनुकरणं च प्रायो न लीला-शब्द-वाच्यम्, बाल्यादि-रूपस्य अनालम्बनत्वेनोज्ज्वल-रसाङ्गत्वाभावात् । तत्र पूतनादीनां प्रीति-मात्र-विरोधि-भावानाम् अपि तथा श्री-कृष्ण-जनन्य्-आदीनां निज-प्रीति-विशेष-विरोधि-भावानाम् अपि चेष्टानुकरणं श्री-कृष्णानुकर्त्रीणां गोपिकानां सखीभिस् तासां विरह-काल-क्षेपाय तत्-तद्-भाव-पोषार्थं कृत्रिमतयैवाङ्गीकृतं, न तु तत्-तद्-भावेनेति समाधेयम् ।
केचिच् चैवं व्याचक्षते—पूतना-वध-लीला-स्मरणावेशे सति कासाञ्चित् पूतनानुकरणम् अपि श्री-कृष्णानिष्ट-शङ्कया भयेनैव भवति । यथा लोकेऽपि आत्मानिष्ट-शङ्कया भयोन्मत्तस्य तद्-भय-हेतु-व्याघ्राद्य्-अनुकरणं भवति । ततस् तद्-अनुकरणेऽपि आत्मनीव श्री-कृष्णे प्रीतिर् एवोल्लसति, न तु द्वेषः । सा प्रीतिर् यथात्मनि तद्-रूपतयैव तिष्ठति, तथैव तासां श्री-कृष्णेऽपि स्वभावोचितैवानुवर्तते ।
ततः बद्धान्यया स्रजा काचिद् [भा।पु। १०.३०.२३] इत्य्-आदौ श्री-यशोदानुकरणं च तथैव मन्तव्यम् । पूर्वं हि दामोदर-लीला-स्मरणावेशेन तस्याः श्री-कृष्ण-भावः । ततश् च वक्त्रं निनाय भय-भावनया स्थितस्य [भा।पु। १.८.३१] इत्य्-उक्त-रीत्या श्री-यशोदातो भयम् अपि जातम् । बाल्य-स्वभावानुस्मरणेन तद्-अनुकरणं च । ततश् च सैव स्वयम् अन्यां काञ्ची-तल्-लीलावेशेनैव कृष्णायमानां च बबन्ध । तथापि पूर्ववत् स्वभावोचितैव प्रीतिस् तस्याम् अन्तर्वर्तत एव । सा हि प्रीतिस् तत्-तद्-भावस्य परमाश्रय-रूपा । ततो बहिर् एव तत्-तद्-अनुकरणात् श्री-यशोदा-भावस्य च मध्ये श्री-कृष्ण-भाव-व्यवधानेन निज-भावास्पर्शान् न विरोध इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गतीति । गत्य्-आदिषु प्रतिरूढाः सदृशी-भूताः मूर्तय इन्द्रियादि-सङ्घातात्मक-देहा यासां ताः । ततश् च चिरात् प्राप्तावधानानां तासाम् अवस्थां वर्णयति ॥३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तद्-आवेशे जाते सति किं वृत्तम् इत्य् अत आह—गति-स्मितेति । प्रियस्य प्रीति-विषयस्य गत्य्-आदिषु प्रतिरूढ-मूर्तयः प्रतिरूढाः लीलाभिर् आविष्टा देहा यासां ताः । अत एव अबलाः कृष्ण-ग्रह-गृहीतत्वात् पारतन्त्र्यम् उक्तम् । यतस् तद्-आत्मिकाः कृष्णाविष्टेन्द्रिय-देहा अन्योन्यं कृष्णो\ऽहम् इति न्यवेदिषुः निवेदितवत्यः ।
ननु भोक्तृ-भोग्यात्मके भेदे विद्यमाने कथम् अभेदोक्तिर् जाता ? इति चेत्, तत्राह—तद्-आत्मिका इति । तासां देहेन्द्रियादिषु प्रविष्टस्य श्री-कृष्णस्यैवोक्त्या, न तासाम् इति । यथा ज्ञानी आत्म-साक्षात्कारे जाते "ब्रह्माहम् अस्मि" इति वदति । यथा च कर्मसु अस्मिन् कर्मणि त्वं ब्रह्म भवेत्य् उक्ते स तु ब्रह्मास्मीति वदति । यथा तत्र भावाभेदेनैव व्यवहारः, तथात्रापि कृष्णाभेद-प्रतीतिः, तथोक्तं—
अभेदोक्तिस् त्रिधा दृष्टा ज्ञाने भक्तौ च कर्मणि । > अत्राधिकारी स भवेद् यः फलेषु च भेदवान् ॥ इति ।
पुनः कीदृश्यः ? कृष्ण-विहार-विभ्रमाः कृष्णस्यैव विहारः क्रीडा, तस्यां विभ्रमो यासां ताः । काचित् कृष्णवद् विहरति, तां दृष्ट्वान्यासां विभ्रमो भवति । तद् उक्तं रसार्णवे—
प्रियागमन-वेलायां मदनावेश-सम्भ्रमात् । > विभ्रमोऽङ्गद-हारादि-भूषा-स्थान-विपर्ययः ॥ [र।सु। १.२०३] > इति ।
कृष्ण-गत्य्-आदिषु मूर्तयो\ऽध्यस्ताः मूर्तिषु गत्य्-आदयो\ऽध्यस्ताः । एवम् अन्योन्य-धर्माभिनिवेशात् विलासस्य पूर्णता-विच्युतिश् च जाता । गतिः पादयोः, स्मितं मुखे, प्रेक्षणं चक्षूंषि, भाषणं वाचिकं रूप-लक्षणम् एतत् । सर्वे\ऽपि विभ्रमादयः लीलादयो बन्धा अपि प्रिय-सम्बन्धिनः संयोगावस्थायां अनुभूताः, स्मृति-पथम् अवतीर्णाः सन्तो विपरीता जाताः । रसाधिक्ये स्त्रियः पुरुषत्वम् आपद्यन्ते इति वात्स्यायणः ।
यद् वा, स्व-गत्य्-आदिषु प्रियस्य प्रतिरूढ-मूर्तयः । अत एव कृष्ण-विहार-विभ्रमाः कृष्ण-विहार-विभ्रमश् चुम्बनालिङ्गनादि-विलास-विशेषो यासां ताः । यद् वा, कृष्णस्यैव विहारः विगतस् त्रुटितो हारो यस्मात्, तादृशो विभ्रमो विलासो यासां ताः । यद् वा, कृष्णस्यैवायं विहार इति विभ्रमो भ्रान्तिर् याभ्यस् ताः । कृष्ण एवायं विहरति इति परस्परं चेष्टितवत्यः । यतस् तद्-आत्मिकाः तन्-मनस्काः असमापित-वाक्या एवान्योन्य-रसावहम् इति निवेदितव्यः ।
विरह एव तासां तदात्मिकत्वं कृतवान् इति भावनं ह्य् अभेद-ज्ञानं तासां तात्त्विकं, किन्तु प्रेम्णा तस्मिन्न् एव क्षणे तादात्म्यं जाते तात्त्विकं चेद् अभविष्यत्, तदा श्री-कृष्णाविर्भावे जाते तथात्वम् अभविष्यत् । अग्रे वक्षति—तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो\ऽबलाः उत्तस्थुर् [भा।पु। १०.३२.३] इति उत्थानं न भवेत् । तथा चोक्तं गीत-गोविन्दे—
मुहुर् अवलोकित-मण्डन-लीला । > मधु-रिपुर् अहम् इति भावन-शीला ॥ [गी।गो। ६.५] इति ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यैवोन्मादस्य प्रौढत्वे सति तासाम् अवस्थाम् आह—गतीति । प्रियस्य गत्य्-आदिषु पूर्वोक्तेषु प्रतिरूढा मूर्तयो देहा यासां ताः । आदौ प्रियस्य गति-स्मितादयः । आसां प्रत्येकं मूर्तौ चित्तेन्द्रियादि-मय्याम् आरूढाः । ततस् तेषु गति-स्मितादिषु आसां मूर्तिश् च प्रत्यारूढा इत्य् अर्थः । ततश् चोन्मादाद् एकीभावे सति असौ कृष्ण एवाहं, किं वा, अहम् एव कृष्ण इत्य्-आदि सावधारणां भावानां विहाय असाव् अहं कृष्णो\ऽहम् इति रसास्वाद-प्रौढिम-मयीम् अवस्थां प्राप्य तद्-आत्मिकाः प्राप्त-कृष्ण-तादात्म्याः, न तु अहङ्ग्रहोपासना-वशाद् एवेति ज्ञेयम्, प्रियं प्रियस्यइत्य्-उक्तेः । न्यवेदिषुः परस्परं निवेदितवत्यः, न तु वयं व्रज-स्त्रियः इति मनाग् अपि का अपि जानन्ति स्मेत्य् अर्थः । तत्र हेतुः—कृष्ण-विहारैः स्मर्यमाणैर् विभ्रम उन्मादो यासां ताः ॥३॥
॥ १०.३०.४ ॥
गायन्त्य उच्चैर् अमुम् एव संहता
विचिक्युर् उन्मत्तकवद् वनाद् वनम् ।
पप्रच्छुर् आकाशवद् अन्तरं बहिर्
भूतेषु सन्तं पुरुषं वनस्पतीन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, गायन्त्य इति । वनाद् वनान्तरं गच्छन्त्यो विचिक्युर् अमृगयन् । उन्मत्त-तुल्यत्वम् आह—वनस्पतीन् पप्रच्छुः । भूतेष्वन्तरं मध्ये सन्तंपुरुषं बहिश् च सन्तम् इति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताद्रूप्यं प्राप्ता अप्य् अन्यद् अपि किञ्चिच् चक्रुर् इत्य् आह—किं चेति । गायन्त्य इति । तं प्रति दूरान् निजार्ति-श्रावणार्थम् । यद् वा, गीत-प्रियस्य तस्य तेनाकर्षणार्थम् । अमुं श्री-कृष्णम् एव न त्व् अन्यत् किञ्चित् संहता मिलिताः सम्यग् मार्गणार्थम् अन्योन्यार्त्य्-उपशमार्थं वा । वनस्पतीन् पुष्पं विना फल-धारिणः । सर्व-व्यापिनः स्थान-प्रश्नोऽत्य्उन्मत्तताम् एवाह—
यच् च किञ्चिज् जगद्-वस्तु दृश्यते श्रूयते\ऽपि वा । > अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ इति श्रुतेः > ॥४॥
कैवल्य-दीपिका : विभ्रमम् एवाह—गायन्त्य इति । अमुम् कृष्णम् । संहता मिलिताः । वनाद् वनम् वने वने विचिक्युः अन्वेषयामासुः । अन्तरम् अन्तः ॥ ४॥ [मु।फ। १२.२०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :संहता एकीभूय वनाद् वनम् अन्या विचिक्युः । न केवलं विचिक्युः, पप्रच्छुः । आकाशवत् शून्यम् इव, पृच्छा तु बुद्धि-पूर्विका न भवतीति भावः। वनस्पतीन् लक्ष्यीकृत्य अन्तर्-बहिर्-भूतेषु सन्तम् अन्तर्यामिणं पुरुषम् इव श्री-कृष्णं पप्रच्छुः । पृच्छेर् द्विकर्मकत्वात् । प्रधान-कर्म श्री-कृष्णे\ऽध्याहार्यः ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न चैवं केवलम् अनुकरणं लीलाविष्टता वा, किन्तु विरह-विह्वलाः सत्य इतस् ततोऽन्वेषयन्त्यः पुरो दृश्यमानात् सर्वान् एवापृच्छन्न् इत्य् आह—गायन्त्य इति । उच्चैर् गानं तं प्रति दूरान् निजार्ति-श्रावणार्थम् । किं वा, गीत-प्रियस्य तस्य तेनाकर्षणार्थम् । किं वा, आर्ति-भर-स्वभावाद् एवम् एवेति । यद्यपि त्यागेन परम-प्रदत्वेन च तद्-गानादिकं न युज्यते, तथापि अमुम् एवेति तदानीम् अपि तद्-एक-प्रियत्वम् ।
किं वा, तद्-एक-गान-शीलत्वम् उक्तम् । संहता अन्योन्यं मिलिताः सत्यः सर्वत्र सम्यङ्-मार्गणार्थम् । किं वा, सख्येनान्योन्यम् आर्त्य्-उपशमार्थम् । किं वा, आर्ति-विशेष-स्वभावाद् एव ।
वनस्पतीन् प्रति प्रश्ने हेतुः—उन्मत्तकवद् इति । स्वार्थे कुत्सायां वा कः । तेन केशाद्य्-असंवरणं ध्वन्यते । तत्रान्वेषणे प्रश्ने च विचाराभावेनाभिनिवेशोऽपि निरस्तः । अन्यथा वृक्षेषु प्रश्नानुपपत्तिः । वनाद् वनम् इति प्रतिवनेऽन्वेषानेनेतस् ततो बहुल-परिभ्रमणं तेनानेक-कालम् अन्वेषणम् अपि सूचितम् ।
आकाशो यथा बहिर् अन्तर् व्याप्यास्ते, तथा भूतेषु सर्व-जीवेषु पुरुषं पुरुष-रूपेणान्तरम् अन्तर्-बहिश् च व्याप्य सन्तम् । यद् वा, भूतेसु प्राप्तेषु कुञ्जादिषु अन्तर् बहिश् च स्व-निकटे सन्तम् अप्य् उन्मादाद् एव वृक्षादीन् पप्रच्छुः ।
यद् व, पुरुषं निज-स्वामिनम् इति तादृशे प्रश्ने मार्गणे च हेतुः । यद् वा, अहो बत सर्वत्र सन्तम् अपि स्वयं तथा ज्ञायमानम् अपि विरहज-प्रेमार्ति-भरेण वृक्षान् अपि ताः पृष्टवत्य इति स्वयम् अपि तादृशाप्य् आह—आकाशेत्य्-आदि । अर्थः स एव । अहो शृणु प्रेमार्ति-वैवश्य-माहात्म्यम् इति भावाह् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च चिरात् प्राप्तावधानानां तासां पुनर् उन्मादाख्याम् अवस्थां वर्णयति—गायन्त्य इति ।
गानम् अत्र गोकुले प्रसिद्धं पूतना-वधादि-मयम् । तच् च विष-जलाप्ययाद्4[भा।पु। १०.३१.३] इत्य्-आदि वक्ष्यमाण-रीत्या स्व-रक्षणाभिप्रायेण । उच्चैर् गानं तु तं प्रति दूरान् निजार्ति-श्रावणार्थम् । किं वा, गीत-प्रियस्य तस्य तेनाकर्षणार्थम् । किं वा, आर्ति-भर-स्वभावाद् एव अमुम् एवेति । यद्यपि त्यागेन परम-दुःखोऽसौ, तथापि तम् एवेत्य् अर्थः । गणयति गुण-ग्रामं भ्रामं भ्रमाद् अपि नेहते [गी।गो। २.१०]5 इत्य्-आदिवत् । संहता अन्योन्यं मिलिताः सत्यः सर्वत्र सम्यङ्-मार्गणार्थम् ।
किं वा, सख्येनान्योन्यम् आर्त्य्-उपशमनार्थम् । किं वा, आर्ति-विशेष-स्वभावाद् एव । गानान्वेषणयोर् यौगपद्यम् इदं गायन्त्य एव भ्रमन्ति, मध्ये मध्ये तु पृच्छन्तीत्य् अर्थः ।
वनस्पतीन् प्रति प्रश्ने हेतुः—उन्मत्तकवद् इति । स्वार्थे कन् । तेन केशाद्य्-असंवरणं व्यज्यते । पुरुषं सर्वान्तर्यामि-रूपम् अपि । अत एव आकाशवद् भूतेष्व् अन्तरं बहिश् च व्याप्य सन्तं पप्रच्छुः । निज-प्रेमावलम्बन-केवल-नर-लीला-रूपेणैव तस्य तत्-प्रश्न-विषयत्वाद् इति भावः ।
यद् वा, अहो बत तासाम् इदं सर्वं किम् अरण्य-रुदितम् एव जातं ? नेत्य् आह—आकाशेति । वक्ष्यते च स्वयं—मया परोक्षं भजता6[भा।पु। १०.३२.२१] इति ।
यद् व, पुरुषं स्व-नायकं पप्रच्छुः । तं च भूतेषु प्राणिषु स्थावर-जङ्गमेषु आकाशवद् अन्तरं बहिश् च सन्तं साक्षाद् इव सत्तया स्फुरन्तं पप्रच्छुः । तादृश-ज्ञान-स्फूर्तिश् च तासां प्रेम-विवर्त-विशेषाद् एव—वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्या [भा।पु। १०.३५.९] इतिवत् । तत्र बहिः-स्फूरणं दूरतः, अन्तस् तु निकटात्। तत्र च सत्य् उन्मादेनैवानिनिद्रियेष्व् अपि वनस्पति-जातिषु प्रश्नो योग्य इति भावः॥४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३४५) : उन्मादो हृदय-भ्रान्तौ—गायन्त्य उच्चैर् अमुम् एव संहता इत्य्-आदि । स्पष्टम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गायन्त्य इति । गानम् अत्र गोकुल-प्रसिद्धं पूतना-वधादि-मयं गानान्वेषणयोर् यौगपद्यम् इदं गायन्त्य एव भ्रमन्ति, मध्ये मध्ये तु पृच्छन्ति।पुरुषं सर्वान्तर्यामि-रूपम् अपि, अत एव आकाशवत् भूतेष्वन्तरं बहिश् च व्याप्य सन्तम् अपि पप्रच्छुः । तत्र हेतुः—अमुं तासु तु निज-प्रेमालम्बन-रूपेणैव स्फुरन्तम् इत्य् अर्थः ।
यद् वा, पुरुषं स्व-नायकं पप्रच्छुः । तं च भूतेषु प्राणिषु आकाशवद् अन्तरं बहिश् च व्याप्य सन्तं पप्रच्छुः । तस्य तत्र तत्र सत्तां पप्रच्छुर् इत्य् अर्थः । किञ्चित् प्रतिबिम्बं पृच्छन्तं पृच्छन्तीतिवत् । तादृश-ज्ञानं च तासां प्रेम्णा तत्र तत्र स्फूर्तेर् एव—वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्या [भा।पु। १०.३५.९] इतिवत् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तास् ता चेष्टा हृदि कृत्वैव तस्थुर् इति न, अपि तु तद्-गान-पूर्वकं वनाद् वनं च विचारयामासुर् इत्य् आह—गायन्त्य उच्चैर् इत्य्-आदि । उच्चैर् इति कदाचिद् दूरे वा गतो वर्तत इत्य् आशङ्क्य उच्चैर् गानम् । अमुं श्री-कृष्णं संहता एव मिलिता एव कदाचिद् आत्म-मध्ये कापि वियुज्येतेति उन्मत्तकवत् उन्मत्तिका इव, अनुकम्पायां कन् । न केवलं विचिक्युः, पप्रच्छुश् च । प्रच्छि द्वि-कर्मकः । तत्रामुं श्री-कृष्णम् इति मुख्यं कर्म । भूतेष्व् आकाशवत् । अन्तरम् अन्तरे बहिर् बाह्ये च सन्तं पुरुषम् आत्मानम् इति गौणं कर्म । तत्र प्रष्टव्यान्तराभावात् तां लक्षीकृत्यैव पप्रच्छुर् इत्य् अर्थः । भूतेसु सन्तम् इति भूतं लक्ष्यीकृत्येत्य् आयाते । वनस्पतीन् इति वनस्पतीन् प्रतीत्य्-अर्थः । तेन गानं कर्म, अमुम् इति गौणं कर्म, पुरुषम् इति वनस्पतीन् इति कर्म-प्रवचनीयार्था द्वितीया । वनस्पतीन् प्राप्येति वार्थः । हारम् इत्य् उक्ते पिधेहीत्य्-आदि क्रियाध्याहारेणान्वय-बोधात् ॥४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तादात्म्यापन्नानां सञ्चारि-भावोदयेन दिव्योन्माद-कृतं चेष्टितम् आह—गायन्त्य इति । संहता अन्योन्य-मिलिताः सत्यो वनाद् वनं गच्छन्त्य इतस् ततो विचिक्युर् अमृगयन् । यस् त्व् अन्तर्धानेन दुःखदवत् प्रतीयमानस् तम् अमुमेवौच्चैर् गायन्त्यः । दूरं गतम् इति मत्वा निजार्ति-ज्ञापनार्थम् उच्चैर् गानम् । यद् वा, कीर्तिः गायकेष्व् अति प्रीति-युक्तत्वात् तस्येत्य् उच्चैर् गानम् उन्मत्तवत् स्वार्थे क-प्रत्ययः । निजाङ्गावगुण्ठन-विस्मृति-पूर्वकम् अन्वेषितवत्यः ।
न केवलम् अन्वेषणम्, अपि तु पृष्टवत्योऽपि । तद् उक्तं रसार्णवे—
उन्मादश् चित्त-विभ्रान्तिर् वियोगाद् इष्ट-नाशतः । > वियोगजे तु चेष्टाः स्युर् धावनं परिदेवनम् ॥ > असम्बद्ध-प्रलपनं शयणं सहसोत्थितिः । > अचेतनैः सहालापो निर्निमित्त-स्मितादयः ॥ [र।सु। २.४५-४६] इति > ।
उन्मत्तस्यैव तासाम् आचरितम् आह—आकाशवत् । बहिर् अन्तरम् एक-रूपम् एव सन्तंपुरुषं, पूर्षु शयनाद् अन्तर्यामिनम् । अत एव वनस्पतीन् महतो वृक्षान् पप्रच्छुः । अहो अमी देव-वर-7[भा।पु। १०.१५.५] इत्य्-आदिना श्री-कृष्णोक्तं स्मृत्वा तेषु स्नेहातिशयस्य दृष्ट-चरत्वात्। वृक्षेषु प्रश्नः भूतेषु जङ्गमेषु बहिर्-इन्द्रिय-व्यापार-युक्तेषु बहिः सन्तं बहिर्-इन्द्रिय-वृत्त्यापरोक्षम् उपलभ्य मानत्वात् । स्थावरेषु अन्तरं सन्तं यतः पुरुषं तेष्व् अन्तर् एव निविष्टम् एते निधि पालका इव प्रत्यक् वृत्तय इति सम्भाव्य पप्रच्छुर् इति ।
यद् वा, आकाशवत् शून्यवत् उन्मादाः पप्रच्छुर् इति । यद् वा, भूतेषु स्थावर-जङ्गमेषु अन्तरं सन्तं वनस्पतीन् बहिः पृच्छवत्य इति । उन्मादाद् एवात्म-विवेक-शून्याः । जङ्गमान् पृष्ट्वा स्थावराणि पृच्छन्ति स्मेत्य् अर्थः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा च स तासाम् उन्मादः स्व-प्रौढिमानं विहाय मन्दीबभूव, तदा ता अर्ध-बाह्यानुसन्धानवत्यो यथा चेष्टन्ते स्म, तद् वर्णयति—गायन्त्य इति । कान्त-विच्छेदेन दुःखिन्यो वयं व्रज-स्त्रियस् तम् अन्वेषयाम इति बाह्यानुसन्धानम् । संहता मिलिता वनाद् वनं गच्छन्त्यः । उन्मत्तकवत् ईषद् उन्मत्ता इव, अल्पार्थ-क-प्रत्ययः । पुरुषं श्री-कृष्णम् । वनस्पतीन् पप्रच्छुर् इत्य् उन्माद-लक्षणम् ।
ननु सर्व-मुख्यया वृन्दावनेश्वर्या सह कृष्णस् तदा सुखेन रमते एवेति जानीमः । किन्तु, तद्-विरहोन्मत्तानाम् आसां गोपीनाम् उन्माद-प्रश्नादिकं स जानाति न वेत्य् अतो विशिनष्टि—भूतेषु सर्वेष्व् अन्तरं बहिश् चाकाशवद् व्याप्य स्थितम् । तेन कृष्ण-स्वरूपस्यापरिच्छिन्नत्वेऽपि सर्व-गतत्वात् तासां प्रश्नादिकं तत्र तत्रैवालक्ष्यमाणः शृणोत्य् एवेति द्योतितम् ॥४॥
॥ १०.३०.५ ॥
दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः ।
नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रपञ्चयति नवभिः—तत्र महत्त्वाद् एते पश्येयुर् इत्य् आशयाश्वत्थादीन् पृच्छन्ति—दृष्ट इति । प्रेम-हास-विलसितैर् अवलोकनैर् अस्माकं मनो हृत्वा चोर इव गतो वो युष्माभिः किं दृष्टः ? इति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् प्रश्न-वृत्तम् । तत्र वनस्पतिषु । एते\ऽश्वत्थादयो महत्त्वाद् अच्युतत्वाद् दूर-दर्विन इति । यद् वा, विष्णु-ब्रह्म-रुद्राणां क्रमेणाधिष्ठानान्य् एते\ऽतो\ऽपि महान्त इति। अश्वत्थम् उद्दिश्याहुः—न मया दृष्ट इति चल-दलतया तच् चेष्टिताध्यवसानात्, श्वो\ऽपि न स्थास्यतीति निर्वेदाच् च । युक्तम् उक्तम् । अक्षि-रहितेनानेन कथं दृश्यः ? इति परस्परम् अक्षिमन्तम् उद्दिश्याहुः—प्लक्षेति, प्रकृष्टे अक्षिणी यस्येत्य् अ-कारस्य पूर्व-रूपत्वं शङ्कध्वादित्वात्, र-लयोर् ऐक्याच् च सिद्धम् । अथ पश्यन्न् अपि वाग्-इन्द्रियाभावाद् वक्तुं न शक्नोति, अतस् तद्वन्तं वट-मध्यमस्याहुः—नव-पल्लवान्य् अस्य जिह्वा-तुल्यानीति ज्ञेयम् । मनसो रत्नत्वम् । हृत्वेति—न चोरं युष्मान् साधून् पृच्छामेति ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वो युष्माभिर् युष्मदीयो वा । सम्बन्ध-ज्ञापनं तद्-दर्शन-सम्भावनार्थम् । ततः स्नेहेन कथनाय च । यद् वा, प्रेम-भर-स्वभाव एवायं, येन निज-भावो\ऽन्यं स्व-सदृशं लक्ष्यीकृत्योच्च्यत इति प्रत्येकं पृथक् सम्बोधनं, वैष्णवत्वेनादरात् । तत्राश्वत्थस्य विष्णु-विभूतित्वेन वैष्णवत्वं प्रसिद्धम् एव । वटे वटे च मां विद्धि इत्य् अर्जुनं प्रति भू-तल-वर्ति मुख्य-श्री-मूर्ति-प्रसङ्गे श्री-भगवद्-उक्तेः । न्यग्रोधस्य च तथा ।
तयोः साहचर्येण प्लक्षस्यापि श्री-विष्णु-शिव-ब्रह्मणां क्रमेण ते अधिष्ठानानीति केचित् । यद्यपि विरह-विह्वलतयोन्मत्तवत्तान् प्रति प्रश्नात् तादृशाभिप्रायो न घटते, यश् चासौ कुत्र कुत्रापि श्री-स्वामि-पादैर् व्याख्यातो\ऽस्ति, स तु निवृत्ति-परेयं पञ्चाध्यायीति व्यक्तीकरिष्यमाण इति स्व-प्रतिज्ञानुसारेणैव, न च श्री-गोपिका-भावानुसारेण । अतः केवलं पुरतो दृश्यमानान् प्रत्येकं प्रश्नः । तथापि पूर्वापर-वाक्य-सङ्गत्य्-अर्थं तेषां व्याख्यानुसारेणैव किञ्चिद् उल्लिख्यते, नन्द-सूनुर् इति निज-स्वामिनं प्रति तथैवोक्त्य्-उपपत्तेः । किं वा, रसिकताद्य्-अभिप्रायेण । एवम् अग्रे\ऽपि ।
ननु किम्-अर्थम् असौ युष्माभिः पृच्छ्यते ? तत्राहुः—नो मनो हृत्वा गत इति । हृत्वेति मनसो रत्नत्वं ध्वन्यते । अतो नष्टोद्देशित्वेनागतास् तं चौरं साधून् युष्मान् पृच्छाम इति भावः । कच्चिद् इति प्रश्नात् । तर्हि कथ्यताम् इति शेषः । विरह-विह्वलतया वाक्य-समाप्त्य्-असम्भवात् । ततश् चात्रैव यत्नात् सम्यग् अन्वेषयामः । किं वात्र भवद्भिर् दृष्टे सत्य् अनुमीयते । सो\ऽत्र निकटे\ऽस्तीति तथाप्य् आश्वस्ताः प्राणान् निरुध्य रक्सेमेति भावः । यद् वा, उन्मत्तकवद् [४] इत्य् उक्तेर् अत्यन्तार्ति-विवशतया प्रत्युत्तरापेक्षाद्य्-असम्भवात् तथैव वाक्य-समाप्तिर् इति ज्ञेयम् । एवम् अग्रे\ऽपि ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वो युष्माभिः प्रत्येकं पृथक् सम्बोधनं श्री-कृष्ण-प्रियत्वेनादरात् । ननु किम्-अर्थम् असौ युष्माभिः पृच्छ्यते ? तत्राहुः—नो मनो हृत्वा गत इति । हृत्वेति मनसो रत्नत्वं व्यज्यते । अतो नष्टोद्देशित्वेनागतास् तं चौरं साधून् युष्मान् पृच्छाम इति भावः । अत एव दुःखेन साक्षात् तन्-नामोक्तिर् अपि साक्षात् श्री-कृष्ण-नामानुक्तिस् त्व् ईर्ष्ययापि । अपि-शब्दाच् चोरस्य नाम्नो\ऽग्राह्यत्वेन सूचकस्यापि तद् भवेद् इत्य्-उक्तेः । कच्चित् प्रश्ने । भवद्भिर् दृष्टे सति साच्याम् एव दिशि विहरतीति समाश्वासम् आसाद्यान्वेषयाम इति भावः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्द-सूनुर् इति स्व-विश्वासे हेतुः तथापीत्य् अर्थः ॥५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एव प्रपञ्चयति*—*दृष्टो व इत्य्-आदि । अश्वत्थ-प्लक्ष-न्यग्रोधा वनस्पतयः, तैर् अपुष्पाद् वनस्पतिर् इति । तथा कारणं विनापि फलवत्त्वे\ऽमी भाग्य-भाज एव, तद् अवश्यम् एभिर् दृष्टो\ऽसाव् इत्य् आशयेन तान् एव प्रथमं पप्रच्छुः ।
ननु तत्-पृच्छया किं वः ? इत्य् अत आहुः—नो\ऽस्माकं मनो हृत्वा गत इति चेद् भवत्यो बह्व्यः, स त्व् एकः, कथम् अहार्षीत् ? इत्य् आहुः—नन्द-सूनुः नन्दस्य व्रज-राजस्य पुत्रः, तेनासौ बली-भवतीत्य् अर्थः । केन साधनेनापहृतं वो मनः ? तत्राहुः—प्रेम-हासावलोकनैर् अस्माकम् अन्तर् अन्तस्थं मनो बहिर् आकृष्येत्य् अर्थः ॥५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं सामान्यतः प्रश्ने उन्मत्त-तुल्यत्वम् उक्ताः । इदानीं ततः ताम् अगृहीत्वा पृच्छति—दृष्ट इति । एते हि वैष्णवाः श्री-कृष्णं श्रुत्वा यथार्थं कथयिष्यन्तीति मनसि विचिन्त्य पृच्छन्ति । भो अश्वत्थ ! भो प्लक्ष ! भो न्यग्रोध ! अश्वत्थस्य भगवद्-विभूतित्वात् अश्वत्थः सर्व-वृक्षाणाम् [गीता १०.२६] इत्य् उक्तत्वात् । प्लक्षस्यापि रुद्र-विभूतित्वात्, बटस्यापि ब्रह्म-विभूतित्वात् ।
यद्यपि व्रज-देवीनाम् इदम् अनुसन्धानं नास्ति, तथापि उपनिषद्-रूपाणां पूर्व-संस्कार-वशाद् उक्तिर् अनुसन्धेया । वो युष्माभिर् दृष्टः कच्चिद् इति कोमल-प्रश्ने । यद् वा, वो युष्माकं प्रभुः सम्बन्धवान्
ननु दृष्टश् चेत् तर्हि तेन किं ? तत्राहुः—प्रेम-हासावलोकनैः प्रेम्णान्तः प्रवेशः हासावलोकनाभ्यां हरणम् । अत एव न तस्य किञ्चिद् अप्य् अशक्यम् इति भावः । न हि गोप्यं हि साधूनाम् इति प्रसिद्ध्या युष्मान् पृच्छामः भवद्भिर् अकथितान्य् अत्र गत्वान्यान् प्रक्ष्याम इति ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्नं प्रपञ्चयति नवभिः । तत्राप्य् अत्युच्चतरत्वाद् एनं दूर-वर्तिनम् अपि तम् अवश्यं पश्येयुर् इति सम्भाव्य पृच्छन्ति*—*दृष्ट इति । प्लक्षः"पीलुखन्वु" इति ख्यातः । न्यग्रोधो बटः । किम्-अर्थं पृच्छथ ? इति तेषाम् अपि प्रश्नम् आशङ्क्याहुः—नन्दस्य साधोः सूनुर् अपि नो\ऽस्माकं नेत्र-द्वारतो\ऽन्तः मनो हृत्वा गतः । प्रेम्णः सर्व-लोकोन्मादकेन महा-मोहनौषध-विशेषेण सहितैर् हासावलोकनैः प्रेषितैर् भृत्यैर् अस्माकं नेत्र-द्वारतो\ऽन्तःकरणम् अन्तः-पुरं प्रवेशितैर् मनो-रत्नं चोरयित्वा पलायित इत्य् अर्थः । क्षणं स्थित्वा, "अहो किम् एताभिः क्षुद्राभिः ? इत्य् अस्मान् अवजानन्तः स्तब्धा अभी प्रत्युत्तरं न ददते । तद् अलम् एतैः क्षुद्र-फलैः परोपकार-धर्मानभिज्ञैर् अप्रफुल्लैः अशुद्धान्तःकरणैः !" इति तान् विहायान्यत्र गताः ॥५॥
॥ १०.३०.६ ॥
कच्चित् कुरवकाशोक-नाग-पुन्नाग-चम्पकाः ।
रामानुजो मानिनीनाम् इतो8 दर्प-हर-स्मितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महान्तः स्व-पुष्पैर् बहूपकारिणश् चेति कुरवकादीन् पृच्छन्ति—कच्चिद् इति । हे कुरवकादयः ! दर्प-हरं स्मितं यस्य स इतो गतः कच्चिद् दृष्टः ? इति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कौ रवो यस्य स तथानेनायं शब्दवान् वदिष्यतीत्य् आहुः—हे कुरवकेति । अन्या ऊचुः—अयं कु ईषद् रवो भ्रमराणां यत्रेति भ्रमरा अप्य् अत्र नो यान्ति । यद् वा, कु-शब्दत्वाच् छोक-वृद्धि-करो\ऽतो\ऽशोकं शोक-नाशकं पृच्छत । नायं वक्तुं क्षमः । नाम त्व् अस्य जन्म-शील-वर्करस्याज इव ज्ञेयम् । नागः नागकेसरः । केसरोपलक्षित-पक्ष्मवत्त्वाद् अयं स-चक्षुर् अनेनावश्यं दृष्टः ।
अन्या ऊचुः—अयम् अस्माद् अपि तुङ्गः पुन्नागो दूर-दर्शी वदिष्यतीत्य् अयम् । तद्-इतरा ऊचुः—हसत्य् अयं पुष्प-व्याजेन । दृष्टो\ऽनेन युष्मच्-चोर इति । रामो यथा मत्तस् तथा सो\ऽपीत्य् आह—रामानुज इति । मानिनीनां वयो-रूपादिभिर् जात-मानानाम् अस्माकं तदैवाकस्मिक-पवनेन चालिताग्र-शाखांस् तान् आलक्ष्याहुः—अहो शिरो-धूननेन वयं न जानीम इति ब्रुवत एते ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महत्तमत्वाद् एते\ऽस्मान् क्षुद्राः प्रत्यवज्ञया न नूनं कथयेयुर् इति मत्वान्यान् पृच्छन्ति—कच्चिद् इति । कुरवकः शोणो\ऽम्लानः । नागो नागकेसरः । किम् इतो गतः ? यद् वा, अत्र वर्तमाने पूर्वं दृष्ट इति पृष्टम् । अधुना त्व् इत इति दूरतो\ऽपि दर्शनं सम्भवेत् । तथापि न सुलभः स्याद् इति निकटागतस्य सतो\ऽत्रैव तत्-पदान्य् अन्विष्य तैश् च तम् अन्वेषयाम इति भावः ।
ननु मानिन्यः कथं तं पृच्छत ? तत्राहुः—मानिनीनाम् इति । तत्-स्मित-मात्रेणैव मानो न तिष्ठेत् । केवलम् आत्मनो वैदग्धी-विशेषेण तेनैवास्माकं मानो जनितो, न तत्रास्माकम् अपराध इति । किं वा, तदानीम् तत्-स्मितेन मानो हृतः । अत एवान्वेषयाम इति । किं वा, तादृश-महा-मोहनस्य विच्छेदेन क्षणम् अपि जीवितुं न शक्नुम, इत्य् अतः पृच्छाम इति भावः॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महत्तमत्वाद् एते\ऽस्मान् क्षुद्राः प्रत्यवज्ञया नूनं न कथयेयुर् इति मत्वान्यान् पृच्छन्ति—कच्चिद् इति । कुरवकः शोणो\ऽम्लानः, नागो नागकेसरः । किम् इतो गतः? यद् वा, अत्रान्तर्हितो वर्तते पूर्वं दृष्ट इति पृष्टम् । अधुना त्व् इत इति दूरतो\ऽपि दर्शनं सम्भवेत् । तथापि न सुलभः स्याद् इति निकटागतस्य सतो\ऽत्रैव तत्-पदान्य् अन्विष्य तैश् च तम् अन्वेषयाम इति भावः । गत इति च पाठे बहुत्र, तन्-मते टीकायाम् इत इत्य् अध्याहृत्य व्याख्यातम् । रामनुज इति नन्द-सूनुर् इतिवत् ।
ननु मानिनीनां युष्माकं कथं तेन मनो हृतम् ? तत्राहुः—मानिनीनाम् इति । तासां दर्प-हरं स्मितम् अपि यस्य तादृशो\ऽपीति तस्याविमृश्यकाकारित्वं च ध्वनितम् । दर्पो गर्वः । तदानीम् एव तत्-कृतेन कपट-स्मितेन मान-मय-गर्वो हृतः । अत एवान्वेषयाम इति तथा तादृश-महा-मोहनस्य विच्छेदेन क्षणम् अपि जीवितुं न शक्नुम इत्य् अतः पृच्छाम इति भावः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इत इति इण धातोर् निष्ठा-प्रयोगः मानिनीनां दर्प-हर-स्मित इति यश् च तादृशो\ऽपि गत इत्य् अविमृश्य-कारित्वं तस्य व्यञ्जितम् ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! एभिर् असौ न दृष्ट एव । तेषां कुसुमाभावात् समीपं स नायात् । तेन सुकुसमान् एव तरून् पृच्छाम इत्य् आहुः—कच्चिद् इत्य्-आदि । कच्चित् प्रश्ने । के कुरवकादयः ! रामानुजो दृष्ट इत्य् आध्याहार्या पूर्व एव वावर्तनीयः । तस्यैवं कार्यम् अयुक्तं किम् ? तद् आहुः—मानिनीनाम् अस्माकं दर्प-हरणम् इति । यत इत्य् आहुः—मानिनीनां दर्प-हरः स्मितः ॥६॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तत्रोत्तर-प्राप्यात्मानम् अवज्ञातम् इति मत्वा एते क्षुद्राः सद् सेव्य फलाः किं ज्ञास्यन्तीत्य् अवज्ञयान्यत्र गत्वा सुगन्ध-पुष्पात् कुरवकादीन् पृच्छन्ति । एते कुरवकादयः पञ्च काम-बाणा द्रव-पुष्प-सम्पन्नाः । एतेषां पुष्पावचयनं कुर्वन् दृष्टो भविष्यतीति सम्भाव्यम् आहुः—हे कुरवक ! हे अशोक ! हे नाग-केशर ! हे पुन्नाग! हे चम्पक ! भवन्तः परोपकार-स्वभावाः सर्वान् सुरभी-कुर्वतस् तिष्ठन्ति । वो दृष्टः ? कच्चिद् इति प्रश्ने । कं पृच्छथ ? इति चेत् तत्राहुः—रामानुजो गत इति साक्षान् नामानुक्तिः प्रियत्वाद् ईर्ष्यया वेति ।
ननु, युष्माकं किं हृतम् ? अथ च भवत्यो मानिन्यः कथं पृच्छथ ? इति चेत् तत्राहुः—दर्प-हर-स्मित इति । दर्पो गर्वस् तं हरति स्मितं यस्य । दर्पम् एव सर्वस्वं हृत्वा गतः । गर्व-मूलको मानः, गर्वे गते स्वत एव मान-हानिर् जाता तद्-अर्थं पृच्छते दृष्टश् चेत् तर्हि कथयतेति । गर्व-लक्षणं रसार्णवे—
ऐश्वर्य-रूप-तारुण्य-कुल-विद्या-बलैर् अपि । > इष्ट-लाभादिनान्येषाम् अवज्ञा गर्व ईरितः ॥ [र।सु। २.२५] इति । > यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् । > बध्नाति भाव-कौटिल्यं सोऽयं मान इतीर्यते ॥ [र।सु। २.११२] > इति ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुष्पोद्यानं प्रविश्याहो सत्यम् एव एते शुद्धान्तः-करणाः प्रष्टव्याः यद् अहो स्व-मकरन्दैर् मधुव्रतान् अतिथीन् सेवन्ते इति वृक्षान् आसाद्याहुः—कच्चिद् इति । कुरुवकः शोणो\ऽम्लानः । नागो नाग-केशरः । कच्चिद् गतः ? किं वा, कच्चिद् इहैव निह्नुत्य स्थितो वेति भावः ।
ननु, किम्-अर्थं पृच्छथ ? इत्य् आशङ्क्याहुः—मानिनीनां मान-धनानाम् अस्माकं दर्पं मानं हरति स्मितं यस्येति वयं निर्धनीकृता एवाभूमेति भावः । तदैवाकस्मिकेन पवनेन चालिताग्र-शाखांस् तान् आलक्ष्याहो शिरो-धूननेन वयं न जानीम इति ब्रुवते, तद् अलम् अमीभिः कठोरैः पुरुष-जातिभिर् इत्य् अन्यतो जग्मुः ॥६॥
॥ १०.३०.७ ॥
कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये ।
सह त्व् आलि-कुलैर् बिभ्रद् दृष्टस् तेऽतिप्रियो\ऽच्युतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अलि-कुलैःसहत्वा त्वां बिभ्रत्तवातिप्रियस् त्वया किं दृष्टः ? इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे सख्यः ! इयम् अत्यातिप्रिया तुलसी । तद् एनां मिलित्वैवाग्रे गतोऽत इयं प्रष्टव्येति प्राहुः । तुलं तौल्यं स्यति दूरीकरोतीति तुलसी । यया तुल्यान्या नेति भावः । स्यतेर् औणादिको डट् जल्प्यः । दर्श-स्पर्शादिनैव सर्व-कल्याण-करी त्वम् असि । तत्र हेतुः—गोविन्द-चरण-प्रियेति । यथान्योऽपि गोविन्द-प्रियो दर्शनादिना लोकं पुनाति—
मद्-भक्त-दर्शनाद् अर्चनाद् वन्दनाद् अपि । > महा-पातक-युक्तोऽपि भवेत् कल्याण-भाजनम् ॥ इत्य्-आदि-पुराणात् ।
अच्युत इति । वस्तुतस् तस्य स्त्रीषु रागाभावम् आहेति ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एते पुरुष-जातित्वेन श्री-कृष्ण-सेवका अस्माकं मानं विज्ञायासूयया न किल कथयेयुर् इति निज-सखीम् इव मन्यमानाः सौभाग्य-विशेषेण च सन्दर्शनं सम्भाव्य श्री-तुलसीं पृच्छन्ति—कच्चिद् इति ।
कल्याणि ! हे जगन्-मङ्गल-कारिणि ! परम-सौभाग्यवतीति वा। तत्र हेतुः—गोविन्दस्य गोकुलेन्द्रस्य निजाशेष-माधुर्यं प्रकटन-परस्य भगवतश् चरणौ प्रियौ यस्यास् तत्-सम्बोधनम् । तयोः प्रिये वेति महा-लक्ष्मीतोऽप्य् अधिक-सौभाग्यं सूचितम् । बहुल-प्रयासेन लक्ष्मी-काम्य-रजसस् तत्राप्य् अशेष-भगवत्ताभिव्यञ्जकस्य श्री-कृष्णस्य चरणयोः स्वतः प्रियत्वात् । अब्जादि-रूपकाप्रयोगस् तत्-प्रियत्वेनेर्ष्यया । अतोऽलि-कुलैः सह वर्तमानाम् अपि त्वां बिभ्रत् पूर्वम् एव वैजयन्त्य्-अन्तर्गतत्वेनाधुनैव वावचित्य मालादि-रूपेण धारयन् । अत एव तवातिप्रियत्वेन त्वया दृष्टोऽसि कच्चित् ? अलि-कुलैर् इति तस्याः सदा मकरन्द-मयत्वं, तेन च सदैवापरित्याज्यत्वम् । तथा मत्तानां तेषां झङ्कारेण निह्नुत्य्-असम्भवत्वं च सूचितम् । अतोऽवश्यं त्वद्-अन्तिकम् आगतस् त्वया दृष्ट इति भावः । अच्युत इति कदापि त्वत्तो न विच्युतो भवतीति तद् एव दृढीकृतम् ।
श्लेषेण अलि-कुलैर् इति बहु-वल्लभाम् अपि त्वां प्रियत्वेन बिभर्ति, न च त्वद्-एक-प्रिया अस्मान्, अतोऽतिक्रान्ताः प्रियाः । किं वा, अतिक्रान्तं प्रियं सर्वम् अपि येन स तथेतीर्ष्यया असूयोक्तिः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एते पुरुष-जातित्वेन प्रायः श्री-कृष्ण-पक्ष-ग्राहिणोऽस्माकं मानं विज्ञायासूयया न किल कथयेयुर् इति स्त्री-जातित्वेनात्म-पक्ष-ग्राहिणीं मन्यमानाः शश्वत् दृष्ट-तत्-प्रीत्य्-अनुमित-सौभाग्य-विशेषेण च तस्याः श्री-कृष्ण-दर्शनं सम्भाव्य श्री-तुलसीं पृच्छन्ति—कच्चिद् इति ।
कल्याणि ! हे जगन्-मङ्गल-कारिणि ! परम-सौभाग्यवतीति वा। अत्र हेतुर्—गोविन्देति । गोविन्दो गोकुलेन्द्रः तच्-चरण-प्रिया त्वं श्रीर् यत्-पदाम्बुज इत्य्-आदिवत् । यद् वा, चरण-शब्दोऽत्रादर-मात्र-व्यञ्जकः आचार्य-चरणा वदन्तीतिवत् । आदरश् चाधुना दैन्येन—हे गोकुलेन्द्र-प्रिये इत्य् अर्थः । इति तस्यागमनावश्यकत्वं विवक्षितम् । तत्-प्रियत्वे हेतुः—सहेति । न च तत्र तवान् अवधानं सम्भवेत् । यतस् तेऽतिप्रिय इति श्लेषेणातिकान्त-प्रियान् अस्मद्-विधान् इत्य् अपि ध्वनितम् । अलि-कुलैः सह इति तस्याः साद्गुण्यं दर्शितम् । अलीनाम् अप्य् अन्वार्यत्व-सूचनात् । यद् वा, अतिप्रियत्वम् एव विवृतं, तत् प्रियत्वेनैव ते शिलीमुखा अपि न निवार्यन्त इति सूचनात्, तथा मत्तानां तेषां झङ्कारेण निह्नुवासम्भवत्वं च सूचितम् । अतोऽवश्यं त्वद्-अन्तिकम् आगतस् त्वया दृष्ट इति भावः । अच्युत इति श्लेषेण कदापि त्वत्तो न विच्युतो भविष्यतीति तद् एव दृढीकृतम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गोविन्दस्य श्री-विष्णोश् चरणौ प्रियौ यस्याः, हे तादृशे ! यद् वा, चरण-शब्दोऽत्रादर-मात्र-व्यञ्जकः आचार्य-चरणः वदन्तीतिवत् । आदरश् चाधुना दैन्येन हे गोकुलेन्द्र-प्रिये इत्य् अर्थः ॥७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! एते तत्-सहचर-प्रायाः दृष्ट्वापि न कथयिष्यन्ति । तया तु तुलसी स्त्रीत्व-भावात् कोमल-हृदयाः । अतः कथयिष्यत्य् एव दृष्टश् चानया स इति सम्भाव्यते, तत्-प्रियत्वात् । तद् एनम् इव पृच्छाम इत्य् आहुः—कच्चित् तुलसीत्य्-आदि । हे कल्याणि! चिर-जीवनि ! कल्याणीत्वे हेतुः—गोविन्द-चरण-प्रिये ! तेऽतिप्रियोऽच्युतो दृष्टः ? अति-प्रियत्वे हेतुः—त्वा त्वां बिभ्रद् दधतः । अलि-कुलैः सह एवम् एव त्वयि तत्-प्रेम । अलि-कुलैर् आकुलाम् अपि त्वां वहत्य् एव ॥७॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अश्वत्थादयस् त्व् अपुष्पाः कुरवकादयस् त्व् अफलाः, एते पुरुषा अस्मद्-दुःखं न जानन्ति, प्रियस्य विश्वास-पात्राणि च रहसि तद्-अनुवर्तिनश् च ज्ञापिते सति तस्य क्षोभश् चेज् जायते । तदा को वेद किं स्याद् इति नोत्तरं दत्तवत्यः । तुलसीं स्त्री-जातिः फल-पुष्पाभावेति कृष्ण-प्रियास्ति इयम् अस्मद्-दुःखं ज्ञास्यतीति कृष्ण-दर्शनं सम्भाव्य पृच्छन्ति—हे तुलसि !
हे कल्याणि मङ्गल-रूपे ! सदा सौभाग्यवति । तत्र हेतु-गर्भ-विशेषणं—गोविन्द-चरण-प्रिये । गोविन्द-चरणौ प्रियौ यस्याः । गोविन्द-चरणयोः प्रिया वा तस्याः सम्बोधनम् । गोविन्देति गोकुल-रक्षा-बद्ध-व्रतः । इदम् अप्य् अस्मासु प्रापकम् इति । लक्ष्मीतोऽपि तव सौभाग्यम् अधिकम् अस्तीति । तस्यास् तु वक्षः-स्थलैक-वसतित्वात् । अत एवालि-कुलैर् अनुगम्यमानां त्वां बहु-वल्लभाम् अपि त्यजति एक-वल्लभा अपि अस्मान् त्यक्तवान् ।
कीदृशस् तवातिप्रियः ? यद् वा, अतिक्रान्ताः प्रिया अस्मद्-आद्याः येन सः । यद् वा अतिक्रान्तं प्रियं रति-सुखं येन स्वतन्त्रत्वात् । विलास-च्युति-रहितम् अस्मांस् त्यक्त्वाधुना त्वया सह विलासं करोत्य् एव । अयं भावः—यथा लक्ष्म्यां स्थितायाम् अपि त्वय्य् एव तस्य प्रीत्य्-अतिशयः, तथास्मत्-समक्षम् अपि त्वय्य् एव प्रीतिं करिष्यते वातः किम्-अर्थं गोप्यते कथने तव न कदाचित् क्षतिर् अतस् त्वया कथ्यताम् इति ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एता अस्मत्-पक्ष-ग्राहिण्यः स्त्री-जातयः स्त्री-जन-हृच्-छय-पीडां विदुष्यः कृपावत्यो भविष्यन्ति, तद् इमाः पृच्छाम इत्य् आसाद्य तन्-मध्ये परम-मुख्यतमां तुलसीं पप्रच्छुः—कच्चिद् इति । हे कल्याणीति वयम् अकल्याण्यः कृष्ण-विच्छेदात् । त्वम् एव कुशलिनी । अत्र हेतुर्—गोविन्देति । यद् वा, चरण-शब्दोऽत्रादर-मात्र-व्यञ्जकः, आचार्य-चरणा वदन्तीतिवत् ।
ननु, यूयम् अपि तच्-चरण-प्रिया भवथैव ? सत्यं, तद् अपि साद्गुण्याधिक्यात् त्वम् एव सौभाग्यवती विच्छेदाभावाद् इत्य् आहुः । त्वा त्वां बिभ्रद् एव गतः । तत्र तव सौरभ्याधिक्यम् एव कारणम् इति व्यञ्जयामासुः । अलि-कुलैः सहेति परः-सहस्र-भ्रमर-कृतोद्वेगम् अप्य् अगणयित्वा त्वां बिभ्रद् इति सुगन्ध-प्रियेण तेनास्माकम् अग्रहणम् एतादृश-सौरभ्यवत्त्वाभावाद् एवेति निशिनुम इति भावः ॥७॥
॥ १०.३०.८ ॥
मालत्य् अदर्शि वः कच्चिन् मल्लिके जाति यूथिके ।
प्रीतिं वो जनयन् यातः कर-स्पर्शेन माधवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणातिरेकेऽपि नम्रत्वाद् इमाः पश्येयुर् इति पृच्छन्ति—मालतीति । हे मालति, मल्लिके, जाति, यूथिके, वो युष्माभिः किम् अदर्शि दृष्टः ? कर-स्पर्शेन वः प्रीतिं जनयन् किं यातः ? इति । अत्र मालती-जात्योर् अवान्तर-विशेषो द्रष्टव्यः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रूप-धन-विद्यावत्त्वे ये नम्रास् त एव भगवद्-दर्शका नान्ये ।
जन्म-कर्म-वयो-रूप-विद्यैश्वर्य-धनादिभिः । > यद्य् अस्य न भवेत् स्तम्भस् तत्रायं मद्-अनुग्रहः ॥ इत्य्-उक्तेः ।
आसु गुणातिरेके\ऽपीति । माया राधाया रतिर् अस्याम् इति मालती, रलयोर् ऐक्यात् । बह्वादित्वान् णीप् । अनेन तत्-प्रियत्वात् तस्यापि प्रियैवेयम् । मल्लः सर्व-पुष्पाधिको गन्धो\ऽस्या अस्तीति मल्लिका । मल्लः पात्रे कपाले च मत्स्य-भेदे बलीयसी इति मेदिनी । सर्वोत्कृष्ट-गन्धवतीयम् अपि तस्य प्रिया । जातिवत् सर्व-प्रियत्वाद् इयं जातीत्य् उच्यते । नायं क्तिन्नन्तः किन्तु समूह-रूपं गुच्छम् अस्या अस्तीति । यूथिका शत-पत्रिका इति विजय-ध्वजः । प्रियार्थम् अस्याः पुष्प-गुच्छं ग्रहीतु प्रवृत्तो\ऽनयावश्य-दृष्ट इति । मा परम-रमा तस्या धवः कान्तः माधवो वसन्त इव प्रकाशकः, दासीषु पुष्पिणीषु कर-स्पर्शेन नख-क्षतादि-सूचनेन सेर्ष्यं नर्म चेति सूचितम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सापत्न्याद् इयं खलु तं न कथयेद् इति श्री-कृष्ण-सेविकाः पृच्छन्ति—मालतीति । सत्-पुष्पार्पणेन श्री-कृष्णस्य दासीर् मत्वा स्नेहेन प्रत्येकं सम्बोधनम् । व इति पूर्ववत् । यातः किम् इति तैर् व्याख्यातम् । यद् वा, पूर्ववत् तासां तद्-दर्शनं सम्भावयन्ति—प्रीतिम् इति । यातः सन् कर-स्पर्शेनेति युष्मत्-पुष्पाणाम् उत्कृष्टानां श्री-हस्त-द्वारावचयेनेत्य् अर्थः । अतो युष्मत्-पार्श्वे तद्-आगमनं सम्भवेद् एवेति भावः । श्लेषेण दासीषु तासु नख-क्षतिर् नर्मणभिप्रेता । नखैर् एव पुष्प-च्छेदनात् पुष्पावचय-प्रयोजनं वितर्कयन्ति—माधव इति । मधुना मधुर-रसेन क्रीडतीति मधुर-रस-क्रीडार्थम् इत्य् अर्थः । मायाया लक्ष्म्या धव इति लक्ष्म्य्-अर्थम् इत्य् अर्थः । ईर्ष्योक्तिर् इयम् । वस्तुतस् तु पूर्ववत् मा श्री-राधैव, तस्या भूषणार्थम् एव । तच् च तासां तद्-अनुसन्धानाभावे\ऽपि दैव-गत्या विशुद्ध-प्रकृत्या वा स्वतः सर्व-परिस्फूर्तेः स्वयम् एव मुखान् निःसरतीति ज्ञेयम् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि तद्-आद्रियमाण-स्वाभिमानाद् इयं खलु न कथयेद् इति नम्रीभूय पुष्पार्पणेन नूनं श्री-कृष्ण-सेविका अपि निरभिमाना एता एव पृच्छन्ति—मालतीति । वैयग्र्येण प्रत्येकं सम्बोधनम् । अतः किम् इति तैर् व्याख्यातम् । तत्र किम् इति कच्चिद् इत्य् अस्यैवानुवर्तमानस्यार्थः । दर्शनं तावज् जातम् एव तत्र स्पर्शो\ऽपि किं जात इति विशेषम् एव पृच्छाम इति भावः । यद् वा, तासां तद्-दर्शनं सम्भवयन्ति पुष्पानाम् उत्कृष्टानां श्री-हस्त-द्वारावचयेनेत्य् अर्थः । यात इति समान-दुःखत्वेनात्मभ्यं तत् कथयितुं योग्यम् एव च इति भावः । एवं दासीषु पुष्पिणीषु तासु नख-क्षतादि-सूचनेन सेर्ष्यं नर्म चाभिप्रेतम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पुष्प-प्रियत्वात् माधवो वसन्त इत्य् अभिप्रायः ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! अनया दृष्टो\ऽसौ सापन्त्याद् एव न कथ्यते । तद् एता मालत्य्-आदीः पृच्छाम एतास्व् अस्माकं सखी-प्राया एवेति । तथा पृच्छन्ति—मालतीत्य् आदि । हे मालति ! हे मल्लिके ! हे जाति ! हे यूथिके ! माधवः कर-स्पर्शेन वः प्रीतिं जनयन् यात इति सिद्धवन् निर्दिष्टेन हेतुनादर्शीति निःसन्देह-परम् । कच्चिद् इति सम्बोधनार्थम् एव । तेन नो वचनं याथातथ्यम् एव कथ्यताम् । केन पथा गतो\ऽसाव् इति भावार्थः ॥८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तत उत्तरम् अलब्धा विचारयन्ति इयं सापत्न्याद् ईर्ष्ययति न कथितवती श्री-कृष्ण-समानाद् अतिगर्वितेति मत्वाग्रे पुष्प-लता दृष्ट्वा एषु पुष्पाभरणैश् चाभिमाना रहिता । अतो नूनं कथयिष्यतीति सम्भाव्यम् आहुः—मालतीति । हे मालति ! हे मल्लिके ! हे जाति ! हे यूथिके ! वो युष्माभिर् अदर्शि दृष्टः कच्चित् ? तर्हि कथ्यताम् स-वृन्त-पुष्पावचयं दृष्ट्वा ईर्ष्याकुलतया पृच्छति—कर-स्पर्शेन युष्मत्-पुष्पानां श्री-हस्त-द्वारावचयनेन वो युष्माकं प्रीति-सुखं जनयन् अनेन मार्गो यातः ? नखैर् एव पुष्प-च्छेदात् नर्मणा नख-क्षतिर् एवाभिव्यञ्जिता ।
हेतुनेव पुष्पावचयं सम्भावयन्ति—माधव इति लक्ष्मीपतित्वात् । तस्याः चूडा-बन्धार्थं पुष्पावचयः । यद् वा, मा शोभा सम्पत् तस्याः पतिः । पुष्पमय-स्वाङ्गं शोभा-सम्पादनार्थं पुष्पावचयः । यद् वा, माधवो मूर्तो वसन्त इव, अत एव पुष्पावचयः । यथास्मान् कर-स्पर्शालिङ्गनादिना सुखयित्वा वृजिनोऽर्णवे निक्षिप्य कुत्रापि गतः । तथा युष्मान् अपि कर-स्पर्शेन नख-क्षतादिना प्रीतिं दत्त्वा कुतोऽपि गतः । यतोऽयं न दृश्यते । भवतीभिर् अपि विरह-दुःखम् अनुभूयते, अत एव दुःख-भराक्रान्तत्वान् नोत्तर-दाने सामर्थ्यम् अस्तीति भावः । एताः स्त्री-जातयोऽपि प्रीति-निभृत-मनसः स्व-पराः किम् इति कथयिष्यन्ति अफलत्वात् इति विचार्य एते च्टादयः फलैः परोपकारिणः प्राप्ताश् च मुनय इव ध्यान-पराः । अत एतान् पृच्छामेति अग्रे गत्वा चूतादीन् पृच्छन्ति ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो सौभाग्य-गर्वेणोन्मत्तेयम् अस्मान् न पश्यति, तद् एतादृश-सौभाग्य-रहिता एतत्-सपत्नीर् माद्र्शीर् इमाः पृच्छाम इत्य् अन्यतो गत्वाहुः—मालतीति । युष्मत्-पुष्पावचयनार्थं यत् करेण स्पर्शस् तेन वर्षा-शरद्-अतिप्रफुल्लत्व-लिङ्गेन मालती-जात्योर् अवान्तर-भेदो द्रष्टव्यः ॥८॥
॥ १०.३०.९ ॥
चूत-प्रियाल-पनसासन-कोविदार-
जम्ब्व्-अर्क-बिल्व-बकुलाम्र-कदम्ब-नीपाः ।
येऽन्ये परार्थ-भवका यमुनोपकूलाः
शंसन्तु कृष्ण-पदवीं रहितात्मनां नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : फलादिभिः सर्व-प्राणिनां सन्तर्पका एते पश्येयुर् इति पृच्छन्ति—चूतेति । चूताम्रयोर् अवान्तर-जाति-भेदः कदम्ब-नीपयोश् च । हे चूतादयः, येऽन्ये च परार्थ-भवकाः परार्थम् एव भवो जन्म येषां ते । यमुनोपकूलास् तस्याः कूल-समीपे वर्तमानाः, तीर्थ-वासिन इत्य् अर्थः । ते भवन्तो रहितात्मनां शून्य-चेतसां नः कृष्ण-पदवीं कृष्णस्य मार्गं शंसन्तु कथयन्तु ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चूताम्रयोर् अम्ल-मधुर-गुण-भेदाद् अवान्तर-जातिः । अम्लाम्र-जातिर् मधुराम्र-जातिश् च । नीपो\ऽल्प-पुष्पः, कदम्बो बहु-पुष्पश् च । प्रियालो राजादनः । पनसः कण्टकि-फलः । असनः पीत-सारः । कोविदारः कञ्चनारकः । जम्बूः कृष्ण-फला स्निग्ध-पत्रा । अर्कः प्रसिद्धः, बिल्वो\ऽपि । बकुलो "मौलसरी" इति प्रसिद्धः । इत्य् अर्थ इति—तीर्थ-सेवा-रूप-तपो-बलेन पर-ताप-निवारण-समर्था इति भावः । रहितो विरहेण हत आत्मा ज्ञानं येषां गोपी-जनानां, तेषां । रहित आत्मा कृष्णो येषां श्री-कृष्ण-त्यक्तानाम् इति वार्थः । एषूत्तम-पुष्प-फल-रहितो\ऽप्य् अर्कः शिव-प्रियत्वाद् उक्तः । यद् वा, श्री-वृन्दावनीयत्वेन त्वम् एव कथयसि चेत्, तर्हि त्वाम् एव सर्वोपरितनत्वेन स्थापयाम इति । चूताम्र-नीप-कदम्बानां पुनर् उक्तिस् तु चेतो\ऽनवस्थानाद् वा बोध्या ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्णस्य लक्ष्म्या वा दास्य एताः । शङ्कया तं बत न कथयेयुर् इति अन्यान् आप्तान् पृच्छन्ति—चूतेति । चूताम्रयो रस-भेदेन, कदम्ब-नीपयोश् च वर्णादि-भेदेन भेदः । प्रियालः साल-भेदः । असनः पीतसालः । उत्तम-पुष्प-फल-रहितो\ऽर्कः श्री-शिव-प्रिय-पुष्पत्वाद् अत्रोक्तः । अन्ये पीलु-करीर-मधुक-नागरङ्ग-नारिकेल-पूग-ताल-कदली-लवली-बदरी-प्रभृतयः
ननु युष्मान् प्रति तत्-कथनेन किम् अस्मत्-प्रयोजनम् ? तत्राहुः—परेति । अत्र श्री-स्वामि-पाद-मते भवका इति इ-कार-रहित-पाठः, भवो जन्मेति व्याख्यानात् । बहु-व्रीहौ कः, इ-कार-युक्त-पाठस् तु सर्वत्र दृश्यते, ततश् च भविकं मङ्गलम् अभ्युदय इत्य् अर्थः । तस्याप्य् अर्थः स एव । तथापि यमुनोपकूला इति पर-दुःखासहिष्णुता सूचिता । तत्रापि श्री-सूर्य-नन्दिन्यास् तस्या भ्रातुः श्री-यमस्य पाप-लोक-दण्डाधिकारतः पर-दुःखासहिष्णुतयावतीर्णायाः सङ्गेन तादृशत्वात् । तद्-आख्यायिका पद्म-पुराणे श्री-यमुना-माहात्म्ये प्रसिद्धैव । यद् वा, तीर्थ-वासित्वेन सत्यम् एव शंसनीयं, न तु वञ्चनीयम् इति भावः ।
ननु स्वयम् एव युष्माभिर् अन्विष्य गृह्यताम् इत्य् आशङ्क्य निजार्ति-ज्ञापनेन कृपां जनयन्त्यः स-कातर्यम् आहुः—रहितात्मनां विरह-हत-ज्ञानानाम् इत्य् अर्थः । यद् वा, आत्मा प्रियः श्री-कृष्णः, तत्-त्यक्तानाम् इत्य् अर्थः । अतो मृत-प्रायाः स्वयम् अन्वेष्टुं न शक्नुम इति भावः । पूर्वं सर्वेषु प्रायो दर्शनं पृष्टम्, एषु च गुण-विशेषेण तद्-दर्शनस्य निश्चय-सम्भावनया केवलं तद्-वर्त्मोपदेश-प्रार्थनम् इति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्ण-दास्य एताः शङ्कया तं बत न कथयेयुर् इति मुनि-प्रायत्वेनाप्तान् अन्यान् पृच्छन्ति—चूतेति । चूतो लता-जातिः । आम्रो वृक्ष-जातिः । पूर्वत्रैव न त्व् आम्रे कविभिर् लतात्वं प्रयुज्यते, मध्य-देशादौ लताकाराश् च ते दृश्यन्ते इति । नीपश् च नीपो धूलि-कदम्बे स्याद् इति विश्व-प्रकाशात् । पराग-प्रधानो महा-पुष्पो\ऽसौ ज्ञेयः । प्रियालः तस्यैव बीजं चारु-बीजतया ख्यातं भुज्यते । पनसं कण्टकि-फलः । असनः पीतसालः । कोविदारो युग-पत्रकः कोयिलाव इति विन्ध्यादौ प्रसिद्धः । काञ्चनार-तुल्यः काञ्चनार-भेदो\ऽयम् । अर्को\ऽतिनिकृष्टो\ऽपि पृष्ट इति तासाम् उत्कण्ठातिशयः स्पष्टीकृतः ।
ननु युष्मान् प्रति तत्-कथनेन किम् अस्मत्-प्रयोजनम् ? तत्राहुः—परेति । अत्र श्री-स्वामि-पाद-मते भवका इति इ-कार-रहित-पाठः, भवो जन्म इति व्याख्यानात् । बहु-व्रीहौ कः इ-कार-युक्त-पाठस् तु सर्वत्र दृश्यते, ततश् च भविकं मङ्गलम् अभ्युदय इत्य् अर्थः । तस्याप्य् अर्थः स एव । तथापि यमुनोपकूला इति तीर्थ-वासित्वेन सत्य-वादित्वात् कृपालुत्वाच् च सत्यम् एव शंसनीयं, न तु वञ्चनीयम् इति भावः । उप समीपे कूलं येषां ते उपकूलाः, यमुनाया उपकूला यमुनोपकूला इति च विग्रहः ।
ननु स्वयम् एव युष्माभिर् अन्विष्य गृह्यताम् इत्य् आशङ्क्य निजार्ति-ज्ञापनेन कृपां जनयन्त्यः स-कातर्यम् आहुः—रहितात्मनां विरह-हत-ज्ञानानाम् इत्य् अर्थः । अतो मृत-प्रायाः स्वयम् अन्वेष्टुं न शक्नुम इति भावः । पूर्वं सर्वेषु प्रायो दर्शनं पृष्टम् एषु तु पूर्व-पूर्वेषु प्रत्युत्तरालाभेन चातुर्यान् निश्चित्यैव केवलं तद्-वर्त्मोद्देश-प्रार्थनम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चूतो लता-जातिः । आम्रो वृक्ष-जातिः । पूर्वत्रैव लतात्वं प्रयुज्यत इति । नीप इति नीपो धूलि-कदम्बे स्यात् इति विश्व-प्रकाशात् । पराग-प्रधानो महा-पुष्पो\ऽसौ ज्ञेयः। अर्को\ऽतिनिकृष्टो\ऽपि पृष्ट इति तासाम् उत्कण्ठातिशयः स्पष्टीकृतः ॥९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! तेनैवामूर् निषिद्धाः । यतो न कथयन्ति । तत् किम् आसाम् उपरोध-करणेन ? अमी तावद् यमुना-तीर-वासित्वेन तीर्थ-वासी, तथा परोपकारित्वेन च सत्य-वचस एव तरवः । तद् एतान् पृच्छाम इति पुनर् अन्यान् पृच्छन्ति—च्यूतेत्य् आदि । कदम्ब-नीपयोर् अवान्तर-भेदात् पृथङ्-निर्देशः । ये\ऽन्ये\ऽगृहीत-नाम्नः प्रति तेषाम् अभिमान-निरासाय यमुनोपकुला इति तीर्थ-वासित्वम् । परार्थ-भवकाः परार्थ-कुशला इत्य् अवश्यम् एवैभिर् वक्तव्यम् ।
ननु वयं मौनिन इत्य् आशङ्क्याहुः—कृष्ण-पदवीम् इति । वाक्-प्रयोगं विनापि पल्लवादि-व्यापारेणापि पदव्याः कथन-सम्भवात् । तस्मात् पदवीं पन्थानम् एव तस्य कथयत, न तु तम् । रहितात्मत्वेन निज-दैन्य-प्रकटनम् ॥९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : चूतेति । चूताम्रयोः रस-भेदेन भेदः । कदम्ब-नीपयोः वर्ण-भेदेन भेदः । नीपो धूलि-कदम्बे स्याद् इति विश्वः । पराग-प्रधानो महा-पुष्पो नीपः कदम्बस् तुल्य-प्रमाण-पुष्प इति । प्रियलश् चारु-बीजतयाख्यातः पनसः कटङ्की-फलः । असनः पीत-शालाख्यः, कोविदारश् चमरिकः इत्य् अमरः । बृहत्-पत्रं काञ्चनार इति ख्यातः । जम्ब्व्-आदयः प्रसिद्धा एव । मधूक-नारिकेल-करीर-पूग-ताल-तमाल-प्रभृतयः ते सर्वे नोऽस्माकं कृष्ण-पदवीं शंसन्तु ।
ननु कृष्ण-चूचने को वास्माकं लाभो भविष्यति ? इति चेत् तत्राहुः—परार्थ-भवकाः परार्थं परोपकारार्थम् एव भवो जन्म येषां ते । भाविका इति पाठे परार्थम् एव भाविकं मङ्गलं प्रशस्ताचरणम् इति यावत् । एषां ते—
नित्यं प्रशस्ताचरणम् अप्रशस्तस्य वर्जनम् । > एतद् धि मङ्गलं प्रोक्तं स्वयम् एव स्वयम् भवेत् ॥
पुनर् अपि कथनार्थं तेषां प्रशंसाय यमुनोपकूलाः यमुना भक्ति-रूपा इव तस्याः जलेन सिक्ताः । अतो भक्ता एव श्री-कृष्ण-दर्शनार्थं यमुना-कुल-वासिनः कृपालवश् चातः कथयन्तु ।
ननु स्वयम् एव किम् इति न मृग्यते किं प्रश्नेन ? इति चेत् तत्राहुः—रहितात्मनां शूण्य-चित्तानां कन्दिशीकानां स्वयम् एवान्वेष्टुम् अशक्तानाम् इत्य् अर्थः । यद् वा, रहितो विरहित आत्मा श्री-कृष्णो यासु तासां कृष्णेन त्यक्तानां दीनानां नः कृष्ण-पदवीं कृष्ण-प्राप्त्य्-उपायं शंसन्तु । यथा भवद्भिः श्री-कृष्णः प्राप्तस् तम् एवोपायं कथयन्त्व् इति भावः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो एताः स्व-सपत्न्यास् तुलस्यास् तस्मात् कृष्णाच् च भीत्या जानन्तो\ऽपि न ब्रुवते, तद् अलम् एताभिः परतन्त्राभिर् इत्य् अन्यतो गत्वा सत्यम् इमे एव यमुना-तीर्थ-वर्तिनो निष्पन्दत्वेनैवानुमीयमान-विष्णु-स्मरणवन्तो भवन्ति, अतो न मृषा वदिष्यन्तीति विश्वस्याहुः—चूतेति ।
चूताम्रयोर् लता-वृक्ष-जातित्वेन भेदः । नीपो धूलि-कदम्बो बृहत्-पुष्पः । कदम्बः क्षुद्र-पुष्पो\ऽतिसुगन्धः । प्रियालः शाल-भेदः । असनः पीत-शालः । कोविदारः काञ्चनार-भेदः । अर्को निकृष्टो\ऽपि गोपीश्वर-प्रियत्वात् तत्-समीपे सदा वर्तमानः। अन्ये नारिकेल-गुवाकादयः ते भवन्तः आत्म-शून्यानां नः कृष्ण-मार्गं कथयत ।
ननु कस्मै प्रयोजनाय कथयामः ? तत्राहुः—परार्थम् एव भविकम् अभ्युदयो येषां ते । यमुना उपकुले येषां ते इति गड्व्-आदि ॥९॥
॥ १०.३०.१० ॥
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि ।
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा
आहो वराह-वपुषः परिरम्भणेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे क्षिति क्षिते ! त्वया किं तपः कृतं या त्वं केशवाङ्घ्रि-स्पर्शोत्सवा ? केशवस्याङ्घ्रि-स्पर्शेनोत्सवो यस्याः सा । कुतः ? अङ्ग-रुहैर् उत्पुलकिता रोमाञ्चिता विभासि शोभसे । तत्र विशेषं पृच्छति—अपि किम् अयम् उत्सवोऽङ्घ्रि-सम्भवोऽधुना तवैक-देशाङ्घ्रि-स्पर्श-सम्भूतः ? यद् वा, नैतावत् किन्तु उरुक्रम-विक्रमात् पूर्वम् एव त्रिविक्रमस्य पदा सर्वाक्रमणात् । आहो अथवा । नैतावद् एव, अपि तु ततोऽपि पूर्वं वराहस्य वपुषः परिरम्भणेनेति । अतस् त्वया नूनं दृष्टस् तं दर्शयेति ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्जाति-विज्ञापनाय विवशतया निपत्योचुः—हे क्षितीति । गुणाभाव आर्षः । उत्सवः कथं ज्ञातः ? इत्य् आशङ्कते—कुत इति । अङ्गरुहैः रोमभिः । तत्र उत्सवे । एक-देशे श्री-कृष्णाङ्घ्रि-स्पर्शेणोद्भूतः । अथवार्थको यद् वेति द्वितीयो विकल्पः । आहो स्विद् इत्य् अर्थे तृतीयो विकल्पः । यद् वा—वरम् आहवं सुरत-सङ्ग्रामं पुष्णातीति तस्मान् नन्द-किशोराद् एवेति । इह केशवेति प्रशस्त-केशं श्री-कृष्णम् एव वक्ति गोपीनाम् अर्थान्तरस्यानभीष्टत्वाद् इति विजयध्वजः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं ते कृतं क्षिति तप इत्य्-आदि । क्षिति हे क्षिते ! निवास-गत्योर् इति क्षयन्त्य् अस्याम् इत्य् औणादिकस् ति-प्रत्ययः । तस्माद् ई-प्रत्ययः क्षिती सम्बोधने क्षिते । त्वया किं तपस् तप्तं यतः केशवाङ्घ्रि-स्पर्शोत्सवा । उत्सवस्य लिङ्गम् आह—अङ्ग-रुहैर् द्रुमैर् उत्पुलकिता सती विभासि । अपिः प्रश्ने । एक-देश-वर्तिनः केशवस्याङ्घ्रि-सम्भवो\ऽयम् उत्सवः। किम् उरुक्रमस्य विक्रमाद्वा वामनस्य विशेष-क्रमण-रूपाद् भाग्यात् । अथवा वराह-वपुषः परिरम्भणेन भाग्येन ? अन्यथा इतस् तपस्या-फलम् एतत् ते न भवतीति भावः ॥१०-१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं निजार्ति-विज्ञापनेनाधिक-दुःखोदय-विवशतया भूमौ निपातात् । किं वा, पदवी-प्रार्थनेन पदवी-स्मरणाद् भूमौ दृष्टीं निधाय तस्याः स्निग्ध-दूर्वाङ्कुराद्य्-उद्गमं दृष्ट्वा श्री-कृष्ण-पादाब्ज-स्पर्श-जात-पुलक-जातं सम्भाव्य, तस्याः परम-सौभाग्यं मत्वा, परमार्त्या आहुः—किम् इति ।
केशव- इति परमेश्वरत्वं पूर्ववत् । किं वा, प्रकृष्टाः केशाः सन्त्य् अस्येति व्युत्पत्त्या परम-सौन्दर्यं सूचितम् । विशेषेण भासीति शोभा-विशेषेणानन्य-हेतुकोत्सवत्वम् अभिप्रेतम् । अङ्घ्र्य्-अब्जादि-रूपकाप्रयोगः कोमलत्वादि-गुण-नैरपेक्ष्येणापि केवल-तत्-तल-स्पर्श-मात्रेणैव तद्-उत्सव-विवक्षया । ईदृश उत्सवः केवलम् अङ्घ्रि-सम्बन्ध-मात्रेण न स्यात्, किन्तु सम्भोगेनैवेति पक्षान्तरम् आहुः—आहो इति । अन्यत् तैर् व्यञ्जितम् ।
यद् वा, तादृश-शोभा-दृष्ट्या श्री-कृष्ण-पादाब्ज-स्पर्शेनैव तम् उत्सवं सम्भाव्य तस्य सर्वोत्कृष्टतां सूचयन्त्यस् तस्याः सौभाग्यम् अधिकं वर्णयन्ति—अपीति । अङ्घ्रि-सम्भवो\ऽयम् उत्सवः । अपि किं त्रिविक्रमस्य लोक-त्रयाक्रमणार्थं प्रकटितैश्वर्यस्य श्री-विष्णोः पादेन सर्वाक्रमणाद् बभूव ? अपि तु नैव, तदानीम् ईदृशोत्सव-शोभा-विशेषासम्पत्तेः । अहो न भवतु वा, पाद-स्पर्श-मात्रात् त्वद्-उद्धारार्थं प्रकटित-महा-वराह-मूर्तेर् भगवतः साक्षात्-सम्भोगे\ऽपि न सिद्ध इत्य् आहुः—आहो इति ।
यद् वा, अङ्घ्रि-सम्भव उत्सवस् त्रिविक्रम-पाद-स्पर्शात् कारणात् । किं वा, वराह-मूर्ति-परिरम्भणेन कारणेन बभूव । तत् कथयेति शेषः । इति सर्वथा श्री-कृष्णस्य तत्-तत्-सकाशान् माहात्म्य-विशेषः सूचितः । अतस् तद्-विरहं कथं सहेमहीति। किं वा, त्वं परम-सुभगा, वयं च तद्-रहिता दुर्भगा एवेति कृपया तत्-पदवीं सम्यग् दर्शयेति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पदवी-प्रार्थनेन पदवी-स्मरणाद् भूमौ दृष्टीं निधाय तस्याः सर्व-व्यापकत्वेनावस्य तद्-दर्शनं सम्भाव्य तस्यां स्निग्ध-दूर्वाङ्कुराद्य्-उद्गमं पुलक-जातं मत्वा, तच् च श्री-कृष्णस्य पादाब्जस्य स्पर्शोत्सवेनैव सम्भाव्य, तस्य सर्वोत्कृष्टतां सूचयन्त्यस् तस्याः सौभाग्यम् अधिकं वर्णयन्ति—किं ते इति ।
तपो\ऽत्र पुण्य-जनकं कर्म । अपीति अङ्घ्रि-सम्भवो\ऽयम् उत्सवः । अपि किं त्रेधा विष्णुर् विचक्रम इति श्रुति-वर्णितस्य त्रिविक्रमस्य लोक-त्रयाक्रमणार्थं प्रकटितैश्वर्यस्य श्री-विष्णोश् चरण-विक्षेपेण सर्वाक्रमणाद् बभूव । अपि तु नैव, तदानीम् ईदृशोत्सव-शोभा-विशेषासम्पत्तेः । आहो न भवतु वा, पाद-स्पर्श-मात्रात् त्वद्-उद्धारार्थं प्रकटित-महा-वराह-मूर्तेर् भगवतः साक्षात्-सम्भोगे\ऽपि न सिद्ध इत्य् आहुः—आहो इति ।
यद् वा, तप एव विकल्पयन्ति केशवाङ्घ्रि-स्पर्श-सम्भव उत्सवस् त्रिविक्रम-पाद-स्पर्शात् कारणात् । किं वा, वराह-मूर्ति-परिरम्भेण कारणेन बभूव । तत् कथयेति शेष इति । श्री-कृष्णस्य तं तम् अतिक्रम्य माहात्म्य-विशेषः सूचितः । अतस् तद्-विरहं कथं सहेमहीति। किं वा, त्वं परम-सुभगा, वयं च तद्-रहिता दुर्भगा एवेति कृपया तत्-पदवीं सम्यग् दर्शयेति भावः ॥१०॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३१२) : स्वभावः खल्व् अयं प्रीति-परमोत्कर्षस्य यत् स्व-विषयं सर्वत उत्कर्षेणानुभावयति । यथादि-भरतेन मृग-प्रेम्णा तदीय-खुर-स्पर्शात् पृथिव्या अपि महा-भागधेयत्वं वर्णितम्—किं वा अरे आचरितं तपस् तपस्विन्या यद् इयम् अवनिः [भा।पु। ५.८.२३] इत्य्-आदिना । एवम् एव—किं ते कृतं क्षिति इति ॥
अत्र पूर्वार्धे प्रेम्णा श्री-कृष्ण-माधुर्य-महिमोक्तिः । उत्तरार्धे तेनैवान्यत्र हेयतोक्तिः । अत्र च अपीति किम्-अर्थे । ततश् च एषोऽङ्घ्रि-सम्भवो हर्ष-विकारः उरुक्रमस्य त्रिविक्रमस्य विक्रमाद्वापि पाद-विक्षेपाद् वापि किं जातः ? आहो इति पक्षान्तरे । वराह-वपुषः कान्त-भावतोऽपि परिरम्भणेन वा एषोऽङ्घ्रि-सम्भवः किं जातः ? न हि न हीत्य् अर्थः । अपीति स्तोकार्थे वा सर्पिषोऽपि स्याद् इतिवत् । ततश् च उरुक्रम-विक्रमाद् अपि एषोऽङ्घ्रि-सम्भवो विकारः स्यात् । किन्तु स्तोक एव स्याद् इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : किं ते इति ॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! अमी तावन् निःस्पन्दतया तद्-एक-ध्यान-निष्ठा अस्माकं वचनम् अपि न शृण्वन्ति, किं पुनः कथयिष्यन्ति । तद् एतान् इत्वा क्षितिम् एव पृच्छामः । इयं तावत् तद्-विज्ञैव यत्र यत्र गच्छतु नास्याः अगोचरः स दृश्येत च । तद्-देश-चरत्व-गमकं पुलकम् अस्या इति तथा कुर्वन्ति—किं ते कृतम् इत्य्-आदि ।
हे क्षितिते त्वया किं तपः कृतम् ? ननु, तपः कृतम् इति कथम् अनुमितं ? तत्राहुः—बत हर्षे केशवाङ्घ्रि-स्पर्शेन उत्सवो यस्याः सा तथा त्वम् । उत्सव एव कथम् अनुमितः ? तत्राहुः—अङ्ग-रुह-प्रायैस् तरुभिः पुलकिता सती चेद् विभासि स्व-सुकृतं स्वयम् अकथनीयम् इति चेन् न कथयसि तद् अस्याभिर् एव तत् कथ्यते शृण्व् इत्य् आहुः—अपीत्य् आदि । उरुक्रमो वामनस् तस्य विक्रमात् पाद-स्पर्शाद् वा । आहो वराह-वपुषः वराहावतारस्य भगवतः परिरम्भणेन । उभयोः कारणयोर् एकतरेण भवितव्यं मिलितम् एव वा, एकस्य चरण-स्पर्शः, अन्यस्य सर्वालिङ्गनम् इति । तस्माद् दृष्टः त्वया श्री-कृष्णः कथ्यतां क्वास्ते इति शेषः ॥१०-१३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इतोऽप्य् उत्तरम् अलब्ध्वा पदवी-कथनेन दृष्टि-पथम् अवतीर्ण-क्षितिं दृष्ट्वा रोमाञ्चितत्वात् त्वयेवावश्यं दृष्ट एव श्री-कृष्ण इति सम्भाव्याहुः—किं ते कृतम् इति । हे क्षिति ! ते त्वया किं तपः कृतं, यतः परम-सौभाग्यवत्य् असि ।
ननु भवतीभिः कथं ज्ञातम् ? तत्राहुः—केशवेति । कश् च ईशश् च केशो तौ वशयति, अन्यस्य का कथा ? प्रशस्त-केश-युक्तस्य वा तस्याङ्घ्रि-स्पर्शेनोत्सवो यस्याः, सा त्वं विभासि। तत्र लिङ्गम् अङ्ग-रुहैस् तृणाद्य्-अङ्कुरैर् उत्पुलकिता रोमाञ्चितातीव शोभसे । रोमाञ्चं दृष्ट्वा भावोत्पत्तिः सम्भाव्यते, भावम् अन्तरेण रोमाञ्चो न भवति । अङ्घ्रि-स्पर्शम् अन्तरेण भावोत्पत्तिर् न भवति ।
अतो नूनम् अङ्घ्रि-स्पर्शो नास्ति, तत्रोत्प्रेक्षन्ते—अपीति । सम्भावनायाम् अयम् उत्सव इदानीम् एवाङ्घ्रि-स्पर्श-सम्भवः । एतावद् एव न, तत् कुतः ? नवनीताद् अपि कोमलाङ्घ्रि-स्पर्श-मात्राद् अयम् उत्सवो न सम्भाव्यते, यतस् त्वं कोमलत्वादि-गुण-निरपेक्षासि ।
अथवा, नैतावत् इतः पूर्वम् उरुक्रम-विक्रमात् त्रैलोक्याक्रमणार्थम् आविष्कृत-त्रिविक्रम-मूर्तेः पादेन सर्वाङ्गाक्रमणाद् धेतोर् अयम् उत्सव इत्य् अपि न, तदानीम् ईदृश-शोभाया असंयते । आहो स्वित् पाद-स्पर्श-मात्र-जनितो न भवति, किं तु ततः पूर्वं तवोद्धरणार्थम् आविष्कृत-वराह-मूर्तेर् भगवतः सर्वाङ्गेषु परिरम्भणम् आलिङ्गनं वा, अयम् उत्सवश् चरण-सम्भव इत्य् अत्र सन्देहं नास्ति । कारण-विशेषं पृच्छामस् त्वं परम-सुभगासि दुर्भगानाम् अस्माकं कृपया पदवीं दर्शयेति ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो किम् एते विष्णु-समाधिमत्त्वाद् अस्मत्-प्रश्नं न शृण्वन्ति ? किं वा, तीर्थ-वासिनो\ऽप्य् अमी कठोरा एव यतः किम् अपि न प्रतिवदन्ति ? हंहो के जानन्ति के वा तं न जानन्तीत्य् अनिश्चित-तत्त्वास् तीर्थ-वासिनो\ऽमी कथं व्र्था निन्द्यन्ते ? यो जनस् तम् अपश्यत् जानात्य् एवेति निश्चित-तत्त्वो भवति, स पृच्छ्यताम् इति कयाचिद् उक्ते—प्रिय-सखि ! स एव जनः खलु कः ? तं किं त्वं जानासीति सर्वाभिः पृष्टा सा तर्जन्या पृथिवीं दर्शयामास । ततश् च सत्यम् एव त्वं ब्रूषे यत्र तत्र स वर्तते सा पृथिव्य् एवेति पृथिव्या अस्यास् तद्-विच्छेदो नास्तीति कृष्णस्य पितृ-वर्ग-सखि-वर्ग-प्रेयसी-वर्ग-दास-वर्गेभ्यो\ऽपि विरह-दुःखानभिज्ञत्वात् पृथिव्य् एव धन्येत्य् अतो\ऽस्यां पूर्व-पूर्वेष्व् इव प्रश्नो न घटते । किन्त्व् अस्याः प्राचीनं तप एव जिज्ञास्यम्, यत् कृत्वा कृष्ण-विरहात्यन्ताभाववत्यो वयम् अपि भवाम इति विमृश्य पृच्छन्ति—किम् इति ।
हे क्षिति क्षिते ! त्वया किं तपः कृतम् यतस् त्वं केश्वस्याङ्घ्रि-स्पर्शेन उत्सवो यस्याः सा त्वं विभासि । यतो\ऽङ्गरुहैस् तृणाङ्कुरैर् उद्गच्छद्भिर् उत्पुलकिता उत्कृष्ट-पुलक-युक्ता यत्र यत्र स वर्तते, तत्रैव त्वाम् अङ्घ्रिभ्यां स्पृष्ट्वेव तिष्ठतीति कृष्णाङ्ग-सङ्ग-सुखं तव रात्रिन्दिवं व्याप्यैव यतो\ऽभूत् तपो वक्तुम् अर्हसि । वयं विरहिण्यो दुर्भगास् तच् छ्रुत्वापि कृतार्थीभवाम इति भावः ।
तद् अब्रुवाणां ताम् अभिलक्ष्य पुरा-वृत्त-स्मरणात् स्वयम् एवाभ्यूहन्ति—अपीति । उरुक्रमस्य त्रिविक्रम-देवस्य विक्रमात् यो\ऽङ्घ्रि-सम्भवः अङ्घ्रि-प्राप्तिः भू-प्राप्तौ संपूरः तत्र यदि तदीय-महा-भार-सहन-लक्षणं यत् तपः, तद् एव किम् ? इत्य् अर्थः । वै इति निश्चये, पाद-पूरणे वा । आहो स्वित् महा-वराह-वपुषः परिरम्भणेन तदीय-दृढ-परिरम्भणोत्थ-पीडा-प्राप्ति-लक्षणं यत् तपः, तद् एव किम् ? इत्य् अर्थः । अन्याभिर् दुर्लभं तवैतद् उत्सव-प्राप्ति-साधनं यत् तपः, तद् अपि स्त्रियास् तव पुरुष-सङ्ग-लक्षणत्वात् सुख-मयम् एवेति नास्ति त्वत्तो\ऽन्या धन्येति भावः ॥१०॥
॥ १०.३०.११ ॥
अप्य् एणपत्न्य्9 उपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः ।
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिण्या दृष्टि-प्रत्यासत्त्या कृष्ण-दर्शनं सम्भाव्याहुः—अपीति । हे सखि एण-पत्नि ! अपि किम् उपगतः समीपं गतः ? गात्रैः सुन्दरैर् मुख-बाह्व्-आदिभिः । प्रियया सहेति यद् उक्तं तत्र द्योतकम् । कान्ताया अङ्ग-सङ्गः, तेन तत्-कुच-कुङ्कुमेन रञ्जितायाः कुन्द-कुसुम-स्रजो गन्धः । कुलपतेः श्री-कृष्णस्य । वात्य् आगच्छति ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एण-पत्नि मृग-जाये ! कान्ताया अङ्गयोर् अवयवे सङ्गो ययोस् तौ कुचौ, तयोः कुङ्कुमेन रञ्जिताया अरुणी-भूतायाः । यद् वा, कान्तस्य हरेर् अङ्ग-सङ्गो यस्याः, तस्याः कुचौ तयोः कुङ्कुमेति पूर्ववत् । कान्तायाः कमनीयाया वेति । कुलपतिर् गोपी-समूह-नाथः, तस्य । गन्धोऽस्यास्तीति गन्धो गन्धवान् वायुः । मत्व्-अर्थीयोऽच् । गन्ध इह वाति स्वयं च न दृश्यते तत्-सद्-भावो विज्ञायत इति व्यङ्ग्यालङ्कारोक्तिः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इयम् अपि श्री-तुलसीवत् तस्य नित्य-प्रिया सापत्न्यात् तद्-इच्छानुसाराद् वा न कथयेद् इति सख्येन विश्वस्य एणीं पृच्छन्ति—अपि इति । हे एणस्य पत्नि ! इति त्वयापि प्रिया-विरह-दुःखं ज्ञायत एव, अतः कथ्यताम् इति भावः । एकत्वं विरहार्ति-भरेण दूरे दृष्ट्य्-प्रसरणाद् एकस्या एव दृष्टेः । दृशाम् इति व इति च बहुत्वम् अच्युतोपगमेन गौरवात् । यद् वा, एकत्वं जात्य्-अपेक्षया । किं वा, बह्वीषु तासु मध्ये\ऽन्तिक-वर्तिनीम् एकां प्रत्य् एव प्राधान्येन प्रश्नात् ।
प्रियया लक्ष्म्या कयाचिद् गोप्या वा सह । प्रियया इति सह-गमनात् तेन ईर्ष्ययैव वा गात्रैर् दृशां सुनिर्वृतिं परम-सुखं तन्वन्न् इति । अन्यथा विशाल-प्रसन्न-नेत्राणाम् असाफल्यम् । किं वा, अन्यथेदृश-दृष्ट्य्-असम्भव इति भावाह् । सु-शब्दो मोक्ष-सुखाद् अपि वैशिष्ट्य-विवक्षया । तेनात्यन्तान्तिक-सन्दर्शनम् अप्य् अभिप्रेतम् । अन्यथा सुनिर्वृत्य्-असम्पत्तिः ।
हे सखि ! इति तस्या अपि श्री-कृष्ण-विषयक-सानुराग-दृष्ट्या वने सह-विहारादिना वा । अतो\ऽस्मासु वञ्चना नैव कार्येति भावः ।
अच्युतः इति सुनिर्वृति-विस्तारणे । किं वा, इह उपगमने विच्युतिर् नास्तीति भावः । तद् एवाभिव्यञ्जयन्ति—कान्त- इति । तद् धि जानन्ति तद्-विदः इति न्यायेन तासां तद्-गन्ध-परिचयो\ऽस्तीति । तथोक्तं—मालां बिभ्रद् वैजयन्तीं [भा।पु। १०.२६.४४] इति पूर्वम् उक्तम् । ततश् च सह त्व् आलि-कुलैर् बिभ्रत् [भा।पु। १०.३०.७] इति तुलसी-माला । अधुना च कुन्द-स्रज इत्य् एवं माला-त्रयं गम्यते । यद् वा, वैजयन्त्याम् अन्यत्रापि तुलसी-सम्भवात् तद्-धारणं ज्योत्स्न्यां रात्रौ कुन्द-मालायाः शोभा-भराद् वैजयन्ती-परित्यागेनाधुना तस्या एव धारणं ज्ञेयम् ।
कुलपतेर् गोकुलेन्द्रस्य । किं वा, गोपी-गण-स्वामिनः । लज्जया वैदग्ध्या वा साक्षात् तथानुक्तिः । अतस् "तद् एक-पतीनाम् अस्माकं तद्-अभावेन प्राण-रक्षा न स्याद् इति सर्वथा शीघ्रं कथय" इति भावः । श्लेषेण कुत्सितं लाति आददति यो जनस् तस्यैव पतिर् इति तया साहित्यं युक्तम् एवेतीर्ष्योक्तिः । अन्यत् तैर् व्याख्यातम् । यद् वा, प्रियया उपगतः सङ्गतः सन्न् इह आस्ते ।
ननु तर्ह्य् अन्विष्य दृश्यताम् ? तत्राहुः—गात्रैर् इति । परम-धन्य-युष्मच्-चक्षुर्भिर् एव दृश्यते, न त्व् अस्माभिर् द्रष्टुं शक्यते इत्य् अर्थः । ननु तर्हि नात्र वर्ततैव नेत्य् आहुः—कान्त- इति । अन्यत् समानम् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथात्रेति विचार्यते—काम् अप्य् आदाय श्री-भगवान् अन्तर्-हित इति व्यक्तीभविष्यद् अपि पूर्वं यन् मुनीन्द्रः स्वयं न स्फुटम् उक्तवान्, तस्यायम् अभिप्रायः—सत्स्व् अपि नाना-भगवद्-आविर्भावेषु मम स्वयं भगवति श्री-कृष्ण-रूप एव तस्मिन्न् आग्रह-विशेष इति । तथा सत्स्व् अपि नाना-तत्-तत्-परिकरेषु श्री-व्रज-वासिष्व् एव स इति । तथा सत्स्व् अपि तेषु श्री-व्रज-देवीष्व् एव ततो\ऽप्य् अधिकतरः स इति रहस्यं सर्वे\ऽपि ज्ञातवन्त एव । किन्तु तास्व् अपि सतीषु श्री-राधिकायाम् एवाधिकतमः स इति न ज्ञातवन्तः । तद् एतन् मद्-आग्रह-तारतम्यं च तत्-तद्-उत्कर्ष-तारतम्याद् एव । अस्याः परम-रहस्यायास् तद् एतत् तु साक्षाज् ज्ञापयितुं सङ्कुचति मच्-चित्तम् । ज्ञान-खलता-भिया विज्ञापयितुम् अपीच्छति । तस्माद् अस्याः सखीनां वचनात् तत्राप्रतीतौ च प्रतिपक्षाणाम् अपि वचनाद् व्यञ्जनयैव वृत्त्या यथावसरं मध्ये मध्ये प्रकटयिष्यामः । यदि च जातु स्वयम् अप्य् आवेश-वशात् प्रकटयिष्यामः, तदा नाम तु तस्याः साक्षान् न वक्ष्यामः । एतस्यास् तत् पुनर् आस्ताम्, अन्यासाम् अपि न ।
किं च, व्यञ्जना-वृत्तिर् एव सर्वत्र नाना-रस-प्रकाशिनी, न तु मुख्या । सा च यदि प्रसङ्गे अवधारिते विशेष-व्यञ्जनार्थम् अभ्युदयते, तदातीव चमत्कारिणी स्याद् इति । तद् एतद् अभिप्रेत्य प्रथमं सखी-द्वारेदं ज्ञापयति—यदा ताम् आदाय श्री-भगवान् सहसान्तर्हितः, तदा सख्याः सख्यस् तु संशयाना एवासन्, किन्तु केवल-बलानुजान्वेषण-पराभिस् ताभिः सहचारित्वे\ऽपि किञ्चिद् उन्माद-धारित्वे\ऽपि तन्-मिथुनान्वेषण-व्यग्रतया पृथग्-अवस्थित-स्व-यूथतया तद्-अवधान-दूर-स्फुरद्-ईहाः सत्यः पर्यटितवत्यो वक्ष्यमाणं तत्-पाद-चिह्न-दर्शनं विनापि क्वचित् किञ्चिद् उपलब्धवत्यश् च । तथा हि तासां वाक्यम्—अप्य् एणपत्नि इति ।
अत्राखण्डस्य वाक्यस्य निखिल-पदानाम् अप्य् अनुमोदन-व्यञ्जक एवार्थः प्रतिपद्यते । ततः सख्यम् एवासां तन्-मिथुनम् अनुलक्ष्यते, तद्-दर्शनोत्कण्ठा च तत्र वाक्यार्थः । अपि इति सम्भावनायाम् । तद् इदं सम्भावयाम इत्य् अर्थः । अथवा अपि इति प्रश्ने । तद् एतत् पृच्छाम इत्य् अर्थः । किं तत् ? तत्राहुः—हे सखि ! अच्युतो वो युष्माकम् उपगतः समीपं प्राप्तः ।
ननु वन-विहारिणस् तस्य नव्यानाम् अस्माकं समीप-प्राप्तौ किम् आश्चर्यम् ? तत्राहुः—प्रियया सहेति ।
ननु तत् खल्व् आश्चर्यम् एव, किन्तु यत्र तस्य दर्शनं, तत्र तस्याः सहयोगेन किम् आश्चर्यम् अधिकं सुखं नाम ? तत्राहुः—तयैव सह गात्रैस् तादृशानन्द-व्यञ्जक-नानानुभाव-विचित्रैर् अङ्गैर् वो युष्माकं भवत्या भवत्-सम्बन्धिनीनां च दृशां सुनिर्वृतिं केवलस्य तस्य दर्शनाद् अपि तत्-साहित्य-दर्शने परमानन्दं तन्वन् विस्तारयन्न् इति तद् इदं च नास्मासु गोपयितुम् अर्हसि । वयं हि तद्-अन्तरङ्ग-धर्म-विदः सहचर्यः, तद्-गन्धवाह-मात्रेणापि तदीयं सर्वं ज्ञातुं शक्नुम इत्य् आहुः—कान्ताङ्ग- इति । प्रथमं तावत् कुलपतेस् तस्य, तत्र कान्तायास् तस्याः, तत्र तद्-अङ्ग-सङ्गस्य, तत्र तत्-कुच-सङ्गि**-कुङ्कुमस्य,** तत्र च तल्-लिप्त-कुन्द-स्रजः स एष गन्धः स्फुटम् अत्रायाति स-काकु सम्भावन-गिरा तत्रोत्कण्ठां व्यानञ्जुः ।
एणपत्नि इति जात्यैव दृष्टि-प्रशंसा । एण-पत्नीत्य् अनेन, पत्युर् नो यज्ञ-संयोगे [पा। ४.१.३३] इति पाणिनि-स्मृतेर् एणानां याज्ञिकत्वं, तस्या यज्ञ-पत्नीत्वं व्यञ्जितम् इति द्रष्टुं प्रशंसा । उपगतः समीपम् अपि प्राप्त इति तद्-भाग्य-प्रशंसा । तत्रापि प्रियया इति द्रष्टृ-दृश्ययोर् द्वयोर् अपि प्रशंसातिशयः । गात्रैर् मिथः सङ्गमेनासाधारणतां प्राप्तैर् इति पूर्ववद् एव तन्वन् दृशां सखि सुनिर्वृतिम् इत्य् एभिर् दृष्टेश् च तद्-अतिशयः । अच्युत इति प्रियया सह विचार-राहित्येन पुनर् दृश्य-प्रशंसा । व इति यत्र भवतीदृशी तत्र भवत्-सङ्गिनीनाम् अपि ईदृशत्वं युक्तम् इति द्रष्टुं प्रशंसा ।
अथ कान्ता- इति दृश्यायास् तस्यास् तद्-अङ्ग-सङ्ग- इति लब्ध-दुर्लभस्य दृश्यस्य कान्तस्य । कुच-कुङ्कुम- इति तत्-संयोग-लब्ध-भाग्यस्य दृश्यस्य कुङ्कुमस्य तद्-रञ्जिताया इति । तत्-सम्बन्धेन लब्ध-शोभातिशयायाः दृश्यायाः कुन्द-स्रजः शुभ्रतया तद्-उदय-शोभा-योग्यायाः स्वरूपेण च तस्या एव । कुलपतेर् इति दृश्यस्य कान्तस्य । इह इति लब्ध-तद्-गन्ध-सौभाग्यस्य दृश्यस्य तत्-स्थानस्य । वाति इति वातम् अप्य् आत्म-सात्-कृत्य स्वयम् एव सर्वतश् चलतीति गन्ध-विलसितस्य । गन्ध इति तत्-तद्-विशेष-योगात् तस्य च प्रशंसावगतेति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अपि इति द्वयम् ॥११-१३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६९) : अथ साक्षात् तद्-अनुमोदनात्मक-पूर्ण-कान्त-भावस्योदाहरणम् आह—अप्य् एणपत्नि इत्य्-आदि-द्वयम् । [श्री-राधा-सखीनां वाक्यम् एतत् ।] एणपत्नि ! एणत्व-प्रयोगेण हे प्रशस्त-नेत्रे ! पत्नीत्व-प्रयोगेण बुद्ध्या तु, हे मादृश-मानुषी-तुल्ये ! इत्य् अर्थः । तत्रापि हे सखि ! वक्ष्यमाण-सौभाग्य-भरेण हे लब्ध-मद्-विध-सख्ये ! प्रियया सह अच्युतः श्री-कृष्णः, श्लेषेण तस्याः सकाशाद् अविश्लिष्टः सन्, गात्रैर् उभयोः परस्परम् आसङ्गेन शोभा-विशेषं प्राप्तैर् अङ्गैः कृत्वा वस् त्वादृशीनां दृशां नेत्राणां सुनिर्वृतिं केवल-श्री-कृष्ण-दर्शनजानन्दाद् अपि अतिशयितम् आनन्दं तन्वन् विस्तारयन् उत्तरोत्तरम् उत्कर्षयन् अपि किम् उपगतः युष्मत्-समीपं प्राप्तोऽभूत् ।
ननु कथम् इदं भवतीभिर् अनुमितम् ? इत्य् आशङ्क्यानुमान-लिङ्गं तन्-मिथुन-श्लाघा-गर्भ-वचनेनाहुः—कान्ता- इति । कुल-पतेर् व्रज-नाथ-वंश-तिलकस्य या कुन्द-स्रक्, तस्या गन्धः सौरभ्यम् इह वाति वायु-सङ्गेन प्रसरति । कथम्भूतायाः स्रजः ? कान्ता सर्व-साद्गुण्येन तस्यापि लालसास्पद-रूपा या स्यात्, तस्या अङ्ग-सङ्गे कुच-कुङ्कुमेन रञ्जितायाः । अतः सन्तत-परिचय-विशेषेण तत्-तत्-सौरभ्य-विशेषस्यात्रास्माभिर् अवधारितत्वात् भवतीनाम् अत्र चरन्तीनां समीपं प्राप्त एवासौ तया युत इत्य् अर्थः ।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं स्थावरेभ्य उत्तरं प्रलब्धा जङ्गमान् प्रश्न-कृत-निश्चया सत्यो हरिणीं दृष्ट्वा अराद् एव स्थितां सख्येन विश्रम्य पृच्छन्ति—अप्य् एण-पत्नि इति । हे एण-पत्नि ! कृष्ण-सार-पत्नि ! त्वम् अपि पति-सङ्गजं सुखं विरहजं दुःखं जानासि, अतः कथयेति । कदाचित् प्रियया सह उपगतस् त्वत्-समीपे गतस् त्वया दृष्टः [इति] काश्चित् सेर्ष्यं कथयन्ति । किं कुर्वन् ? गात्रैः कर-चरणाद्य्-अवयवैः दृशां सुनिर्वृतिं तन्वन्, अन्यथा नेत्राणां प्राणदस्यासिद्धेः । अन्यत्र आत्यन्तिक-संनिकर्षाभावे\ऽत्यन्त-कष्ट-सुखस्याप्रसिद्धेः । हे सखि ! इति सम्बोधनेन श्री-कृष्ण-विषयकानुराग-सम्भावनया विस्रब्धा पृच्छन्ति । सतां सप्त-पदा मैत्री इति प्रसिद्धेः । अतो वञ्चनं तवानुचितम् । अच्युतो विलास-च्युति-रहितः । प्रियया इति व्यञ्जना-वृत्त्या कथयन्ति । कुलपतेः गोकुल-पतेः गोकुल-नाथस्य । यद् वा, गोपी-कुल-नाथस्य ।
कुन्द-स्रजः कुन्द-कुसुम-मालाया इह गन्धो वाति आगच्छति । पूर्वं वैजयन्ती-धारणम् उक्तम् । मालां बिभ्रद् वैजयन्तीम् [भा।पु। १०.२९.४४] इति । इदानीं यया सहान्तर्हितः, तया विरचय्य समर्पितत्वात् प्रीत्या कुन्द-स्रज-धारणम् उक्तम् । सौगन्ध्यातिशयेन लिङ्गम् आहुः—कान्ता इति । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः क्रीडा सैव तस्या अङ्ग-सङ्गे न लग्नं यत् कुच-कुङ्कुमं काश्मीरं, तेन रञ्जिताया गन्ध एव कुङ्कुमायितां ज्ञापयति, सात्त्विक-भावोदयात् । तत् क्षणम् एव रचना-विशेष-प्राकट्याद् वेति । यद्यपि कुन्द-कुसुम-गन्धाल्पत्वं, तथापि कुच-गत-काश्मीर-सम्बन्धेन सौरभ्याधिक्यं सूचितम् इति । तद् अस्माकं सोढुम् अशक्यं, त्वं तु सभाग्याय तया प्रियया सह विलासं कुर्वन् दृष्टः सौरभ्यम् आघ्रातं च, तव तु निर्मत्सरत्वात् सर्वं शुभम् इति सेर्ष्योक्तिर् इति ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चाहो हन्त तेन स्व-कान्तेन ध्वज-वज्राङ्कुशादिभिश् चिह्नैर् विचित्रिताङ्गी निहरन्ती स्वाधीन-भर्तृका-महा-गर्वान्धा कथम् अमांस्तम् एवाचक्षीतेत्य् अग्रतो गत्वा काम् अपि हरिणीम् आलक्ष्याहुः—अपि इति ।
हे सखि ! एण-पत्नि ! प्रियया त्वया किम् उपगतः स्व-समीपे सम्प्राप्तः ? सम्बोधन-पद-साहचर्याद् एवात्र त्वयेति लभ्यते । एणस्य पत्नी भवन्त्य् अपि त्वम् अस्मत्-तुल्या तस्यैव प्रिया, तम् एव प्रियं मन्यसे इति भावः । यतः गात्रैर् मुख-बाह्व्-आदिभिर् वा दृशां सुनिर्वृतिम् अत्यानन्दं तन्वन् सन्, व इति दृशाम् इत्य् आदरे बहुत्वम् । अच्युत इति स्व-दृग्-आनन्द-लोभात् त्वया तद्-अनुगमनाद् एव हेतोस् त्वत्तः स न विच्युत इति भावः ।
ततश् चाग्रतः स्वभावाद् एव गच्छन्तीं ताम् आलक्ष्य—हंहो स दृष्ट इति किं ब्रवीमि ? तं वो दर्शयाम्य् एव मद्-अनुपथम् आगच्छतेति ब्रुवाणेवाग्रत इयं गच्छन्ती ग्रीवां परावृत्य मुहुर् अस्मान् पश्यति । किं न दृश्यते ? इति पृष्टाह् काश्चिद् आहुः—तर्हि कृष्णो\ऽत्रैव । कापि वर्तते हरिणी तु कृष्णाद् बिभ्यतीति स्वीय-सूचकत्व-दोषापलापार्थं क्वापि निह्नुताभूद् इति वितरयन्त्यो दैवाद् आयातं सौरभ्यम् अनुभूय—अहो सत्यं सत्यम् एतद् एव तत्त्वम् इति स-हर्षं मुहुर् आहुः—कान्ताया अङ्ग-सङ्गतस् तत्-कुच-कुङ्कुमेन रञ्जितायाः कुन्द-पुष्प-स्रजो गन्धः वाति आगच्छति । अत्र कान्तयोर् गात्र-द्वयस्य च कुचयोश् च कुङ्कुमस्य च कुन्दस्य च गन्धस् तासां नासाभ्याम् एव निश्चीयते स्मेति भावः । कुलपतेर् गोपी-कुल-रमणस्येति कुल-पतिस् त्व् अनिष्टां परित्यज्य सम्प्रत्य् एकयैव कयाचित् कान्तया रममाणस्य तस्यान्यायं \ऽ
पश्यतेति भावः ॥११॥
॥ १०.३०.१२ ॥
बाहुं प्रियांस10 उपधाय गृहीत-पद्मो
रामानुजस् तुलसिकालि-कुलैर् मदान्धैः ।
अन्वीयमान इह वस् तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : फल-भारेण नतांस् तरून् कृष्णं दृष्ट्वा प्रणता इति मत्वा प्रियया सह तस्य गति-विलासं सम्भावयन्त्यः पृच्छन्ति—बाहुम् इति । तुलसिकाया अलि-कुलैर् अतस् तद्-आमोद-मदान्धैर् अन्वीयमानोऽनुगम्यमान इह चरन्न् इति ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विट-वृत्तिं श्रितवतो मालत्य्-आदि-समीपे पुष्प-जिघृक्षया जिगमिषा-समये प्रश्नस् तान् प्रति कथञ्चिद् उपयुज्यते\ऽपि अश्वत्थादि-प्रश्नः कथम् उपयुज्यते ? अतस् तत्-सम्भवं दर्शयितुम् आहुः—बाहुम् इति । प्रणाम-प्रदक्षिणादिना संसारात् तारयन्तीति तरवो\ऽश्वत्थादयः, तान् प्रत्य् आहुः—हे तरवः ! रामानुजो मदान्ध-सङ्गी एकं बाहुं प्रियांसे निधाय, परेण प्रिया-मुख-पद्म-लोभि-भ्रमर-निवारणाय गृहीत-पद्मः । यद् वा, हस्तेन गृहीत-पद्मः वः प्रणामं प्रणयावलोकैर् अभिनन्दति स्वीकरोति । किं वा इत्य् अनेन स्थावराणां भक्त्य्-अतिशयो ध्वनितः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरिणीनां निरीक्षणाभिनिवेशेन निज-विरहार्ति-दृष्ट्या तासाम् अप्य् आर्ति-भरोदयात् स्तब्धतां मत्वा, ता विहाय फल-पुष्पादि-भरेण नतान् वृक्षान् वीक्ष्य विनय-भर-प्रणयान् परम-साधून् मत्वा, सर्वान् एव तान् पृच्छन्ति—बाहुम् इति । बाहुं प्रियांस उपधाय इत्य्-आदिकं पूर्वोक्त-गन्ध-प्राप्त्या प्रियया सहागमनं सम्भाव्य, तत्र च स्त्री-स्कन्ध-सौरभ्य-मिश्रित-श्रीमद्-बाहु-सौरभ्यं, तथा श्री-हस्तामोदाक्त-पद्म-गन्धं, तथा भ्रमर-गन्ध-संवलितं तद्-अङ्ग-तुलसी-गन्धं च प्राप्योक्तम् । किं वा, नागरीणाम् ईदृशी परिपाटी भवेद् इति युक्त्या तथोक्तम् ।
तुलसिकाया अलि-कुलैर् इति तस्या एव सर्वतो मधुरामोद-विशेषात् । अत एव मदान्धैस् तैर् अन्वीयमान इत्य् अनेन बाहुम् इत्य्-आदिना च रस-विशेष-प्रकटनम् । तथा तुलस्याः सौभाग्यं तत्-सम्बन्धाद् अलीनां च सूचितम् । अन्वीयमानत्वेनैव मदान्धानां तेषां महा-ध्वनिना निज-निह्नुति-लीला-भङ्ग-शङ्कया युष्मद्-विध-व्यवधानेन तान् परिहर्तुम् । किं वा, युष्मत्-पुष्पेषु सञ्चारयितुम् इह चरन् ।
यद् वा, स्थावर-जात्या तुलसी-साम्येन निज-प्रयोजनापेक्षयापि समय-विशेषे\ऽस्मिन् युष्मास्व् अपि तत्-कृपा सम्भाव्यते इति । अतः विशेषतश् च प्रणत-वत्सलत्वाद् अत्रैव चरन् सन्न् इति भावः ।
प्रणयावलोकैः किम् अभिनन्दति, अनुमोदनेन स्वीकरोति वा ? इति तेषां सुदुर्लभत्वात् । किं वा इति सकटाक्ष-प्रश्ने, अतस् तत् कथयेति शेषः । अन्यत् तैर् व्यञ्जितम् ।
अथवा, तच्-छ्रीमत्-पदानि तत्र च वामे संमिलित-स्वीय-पदानि वीक्ष्य, दक्षिणे चाश्वास-प्राप्त्या इवाधिक-नतान् वृक्सान् तेन श्री-दक्षिण-हस्ते पद्म-ग्रहणं सम्भाव्य क्वचिच् च भयाद् इवाग्रतो द्रुत-पतितान्य् अधिक-मग्नान्य् आकुलानि च प्रिया-पदानि वीक्ष्य तेन च मदान्ध-भ्रमरानुगमनं सम्भाव्य । किं वा, तत्-तत्-पदोपरि भ्रमर-मुख-निर्गत-मधु-कणान् सर्वतो वीक्ष्य तथा तथोक्तम् इति ज्ञेयम् ।
यद् वा, केवलम् उन्मत्ततयैव तत्-तद्-उक्तिः । न च किञ्चिद् दर्शन-विचारादिनेति, इत्य् उन्मत्त-वचः [भा।पु। १०.३०.१४] इति वक्ष्यमाणत्वात् । श्लेषेण मदान्धा एव तम् अनुसरन्तीति तथा तेषां सम्बन्धात् सो\ऽपि मदान्ध एवेति प्रणय-कोपोक्तिः । यद् वा, मदान्धैर् अपि, अतो गत-मानाभिर् अस्माभिर् यद् अयम् अनुगम्यते, तद् अयुक्तम् एवेति भावः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तस्या मौन-मय-विलोकनाभिनिवेशेन आशङ्कितान् निज-विरहार्ति-दृष्ट्य्-आर्ति-भरोदयात् स्तब्धतां मत्वा तां विहाय, फल-पुष्पादि-भर-नम्रान् वृक्षान् वीक्ष्य विनय-भर-प्रणयान् मत्वा, सर्वान् एव तान् पृच्छन्ति—बाहुम् इति ।
इहापि तत्-तत्-प्रशंसयानुमोदनं व्यज्यते । तत्र वाक्यार्थेन, यथा—हे तरवः ! रामानुजो वो युष्माकं प्रणामं किं वा प्रणयावलोकैर् अभिनन्दति ? इति स्व-स्नेहस्य तत्-कृपायाश् च योग्यास्पदतां सूचयित्वा, तेषां द्रष्टॄणां गुण-प्रशंसा कथं नाभिनन्देत्? इत्य् आशङ्क्य तत्र तस्य तया सह मधुर-विलासावेशं कारणम् आहुः । तज्-ज्ञाने च कारणं गन्ध-मात्रेण पूर्ववन् निज-तद्-अन्तरङ्ग-धर्म-विज्ञताम् आहुः—बाहुम् इत्य्-आदिना । तत्राभिनन्दने सामान्यतः कारणं चरन्न् इति तत्-तत्-क्रीडा-स्थान-गमन-व्यग्र इत्य् अर्थः ।
ननु सदा सर्वत्र भ्रमति पश्यति चास्मान् अद्य वा को विशेषः ? तत्राहुः—बाहुं प्रियांस उपधाय इति । प्रियायाः स्वस्मिन् परम-स्निग्धाया अंसे स्कन्धे उपधाय कोमलेयम् इति यत् किञ्चिद् आधाय इति ।
ननु, ताम् एवास्मान् दर्शयितुम् आगतः कथम् अस्मत्-प्रणामं नाभिनन्देत् ? इत्य् आशङ्क्याहुः—तुलसिकालि-कुलैर् अन्वीयमानः सन् गृहीत-पद्मः प्रियायास् तान् निवारयितुं दक्षिणेन भुजेन लीला-पद्म-धूननासक्त इत्य् अर्थः । तर्हि कथम् अभिनन्देत् ? इति भावः।
अत्र तु तुलसिकालि-कुलैर् इति तत्-क्रीडानन-तुलसीनां सर्व-सुगन्धित उत्कर्षो द्योतितः । तथा च वक्ष्यते—दिव्य-गन्ध-तुलसी-मधु-मत्तैः [भा।पु। १०.३५.१०] इति । अत एव मदान्धैस् तद्-रस-पान-मदेनान्धैर् अपि तैर् अन्वीयमान इति प्रियाङ्ग-सङ्घर्षेण परिमल-विशेष-प्रकाशो दर्शितः । इतीत्थम् अत्रापि पूर्ववत् तत्-तत्-प्रशंसा दर्शिता । अथ च मालां बिभ्रद्-वैजयन्तीम् [भा।पु। १०.२९.४३] इति या वैजयन्ती प्रोक्ता, मध्ये कच्चित् तुलसी- [भा।पु। १०.३०.७] इत्य्-आदौ त्वां बिभ्रद् इत्य् अनेन तत्-प्राशस्त्यातिशय-प्रस्तुतत्वाद् या च तुलसी-माला सूचिता । पुनश् च कुन्द-स्रजः [भा।पु। १०.३०.११] इत्य् अनेन या कुन्द-स्रक् च दर्शिता, सम्प्रति तस्यास् तस्याः स्खलन-हेतवो विहाराश् च व्यञ्जिताः । तद् इत्थं वाक्यार्थेन तत्-तत्-प्रशंसयानुमोदनम् एव व्यञ्जितम् ।
अथ पदानाम् अर्थैर् अपि पूर्ववद् अनुसन्धेयम् । तद् एवं वक्रीणां सख्यम् एव लब्धम् । तस्या अमूनि नः क्षोभम् [भा।पु। १०.३०.३०] इत्य्-आदौ विरोध-मुखेन च तद् एव हि निश्चितम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (प्रीति-सन्दर्भः ३६९) : अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन दुःखेन च स्थगित-वचनम् आशङ्क्य तेन च तयोः सङ्गमम् एव निर्धार्य परमानन्देन तद्-अवसरोचितं तदीय-विलास-विशेषं वर्णयन्त्यस् तत्र पुष्पादि-भर-नम्राणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-भावेन तन्-नमस्कारम् उत्प्रेक्ष्य पुनस् तेषाम् एव तत्-सन्निधि-जन्य-सौभाग्य-विशेषं तान् प्रत्य् एव पृच्छन्त्यस् तयोस् तादृश-विलासावेशातिशयम् आहुः—बाहुं प्रियांस इति । अन्वीयमानः अनुगम्यमानः । परस्परं प्रणयावलोकैश् चरन् क्रीडन् । इह वो युष्माकं प्रणामं किं वाभिनन्दति सादरं गृह्णाति । अपि तु विलासाविष्टस्य तस्य तद्-अभिनन्दनं न सम्भावयाम इत्य् अर्थः ॥१२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : हरिणीनां स्वभावतश् चाञ्चल्येन प्रदेशान्तर-स्थितौ सत्यां परस्परं संमन्त्र्य, एताः किम् इति स्वानुभूतं कथयिष्यन्ति ? इति । फल-पुष्प-भरेण नतान् साधून् श्री-कृष्ण-सुतान् सर्वान् एव परोपकारिणो मत्वा तरून् पृच्छन्ति—बाहुम् इति। कुङ्कुम-गन्ध-लिङ्गेन कयाचित् सह विहरति, तस्या अंसे स्कन्धे स्खलन-शङ्कया वामे बाहुम् उपधाय संस्थाप्य विलास-भर-मन्थरत्वात् इति । दक्षिणेन बाहुना गृहीत-पद्मः । अन्यच् च तुलसिकायाः सम्बन्धिभिर् अलि-कुलैर् अन्वीयमानः अनुगम्यमानः । तस्यास् तुलस्याः मकरन्द-पानेन यो मदः, तेन अन्धैः अनेनैतत् सूचितम् ।
बाहु-सौरभ्यं प्रिया-सौरभ्यं पद्म-सौरभ्यं तुलसी-सौरभ्यं च एतत् सौरभ्यं चतुष्टयं लब्ध्वा, सम-प्रदेश-स्थिताभिः पर-पङ्क्तिभिर् उत्प्रेक्ष्य, विलास-भव-झङ्कार-श्रवणेन अलीनाम् अनुमत्ततां सम्भाव्य, प्रियायाः सौभाग्यं तुलस्याः सौभाग्यम् अलीनाम् अपि सौभाग्यम् एतत् त्रितयं मनसि परिकल्प्य, तरूणां नम्रत्वं दृष्ट्वा पृच्छन्तीति—हे तरवः ! वो युष्माकं प्रणामं प्रणयावलोकैः किम् अभिनन्दति अनुमोदते ? पुष्पैः फलैश् चास्मद्-उपकारिण अस्मद्-विलासापह्नुति-कारिण इति मनसि विचार्य युष्मान् स करोति । किं वा, नवेति स-कटाक्ष-प्रश्ने किं कुर्वन् भवत्-सन्निधाव् एवं विहरन् अनभिनन्दनम् एव । पुनः पुनः पृच्छा भाव-हेतुः । एतेन तस्मिन् कृतघ्नत्वं मय्य् आरोपितं भवति ।
गृहीत-पद्मः इत्य् अस्यायम् अभिप्रायः—प्रियाश्वास-वायु-सौरभ्य-लोभेनाप्तताम् अलीनां निवारणाय तरुषु सञ्चारणाय पद्म-भ्रामणम् उक्तम् । अतस् तन्-निवारण-व्यग्रतया युष्मत्-प्रणमानभिनन्दनम् एव निश्चितम् इति ।
ननु पूर्वं चूत-प्रियाल- [भा।पु। १०.३०.९] इति प्रश्ने कृतेऽपि उत्तरम् अलब्ध्वा पुनर् अपि वृक्षेषु कथं प्रश्नः ? विरह-व्याधि-व्याकुलितत्वात् पुनः प्रश्नः कृतः इति । तद् उक्तं—कामार्ता हि प्रकृति-कृपणा चेतनाचेतनेषु [मेघदूत ५]11 । अतः कथयत । भवद्भिः कथयिते विस्रब्धाः सत्योऽग्रेऽन्विष्याम इति भावः ।
रामानुज इति निर्भयत्वं चोक्तम् । कस्यापि न सङ्कोच इत्य् अपि सूचितम् । मदान्धैर् इति मदान्धा एव तम् अनुगच्छन्ति । वयं गत-मदाः किम्-अर्थ्[आभि]{।मर्क्} प्रयोजनं सेत्स्यति ? इति क्षणं निर्वेदालम्बिता विरह-व्याकुलिल्तत्वात् ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य तत्रैव वर्तमानत्वे\ऽन्यद् अपि लक्षणं मिथो ज्ञापयन्त्यस् तरून् फल-पुष्प-भार-नम्रान् प्रणतान् मत्वा स-वितर्कम् आहुः—बाहुम् इति । हे तरवः ! इह चरन् कृष्णः फल-पुष्पादि-कर-प्रदायिनां वः प्रजा-रूपाणां प्रणामं किं प्रणय-पूर्वक्आवलोकैर् अभिनन्दति न वा ? हन्त हन्त ! युष्मद्-विधेषु सात्त्विक-साधुषु लोकेषु कुतस् तस्य प्रीत्यावलोकनावकाशः ? इति सासूयम् आहुः—रामानुजो मत्तः तत्रापि प्रियाया अंसे बाहुं वाम-भुजम् उपधाय इति सम्प्रयोग-श्रम-वशात् श्लथ-दुर्बलः प्रिया-स्कन्धार्पितं बाहुम् एव कोमलम् उपधानं कृत्वा तस्या मुख-गन्धेनोत्पतिष्णूनां भ्रमराणां विद्रावणार्थम् एव दक्षिण-पाणि-गृहीत-नील-कमलः । अतस् तत्-सेवैकतान-मानसस्य तस्य नान्यत्र दृष्टि-पात-सम्भव इति भावः । तुलसिकानां कोमल-तुलसी-काननस्य अलि-कुलैः अन्वीयमानः तुलसिकाः परित्यज्य इह अत्रैव स अन्विष्यत । इतस् ततः स क्वचिद् अत्रैव निह्नुतो विहरतीति भावः ।
ननु तर्हि अलि-कुलानाम् एवानुपदं गच्छामः ? तत्राहुः—मदान्धैर् इति । न हि मदान्धानाम् अनुगतिर् भव्य-जनैः कर्तुम् उचितेति भावः ॥१२॥
॥ १०.३०.१३ ॥
पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः ।
नूनं तत्-करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काश्चिद् आहुः—हे सख्यः ! इमा लताः कृष्णेन सङ्गता नूनम्, अत इमाः पृच्छत । ननु स्व-पति-सङ्गतौ तत्-सङ्गतिर् दुर्घटा, न । वनस्पतेः पत्युर् बाहुना आश्लिष्टा अपि अहो भाग्यं नूनं तन्-नखैः स्पृष्टा यत उत्पुलकानि बिभ्रति । न हि स्व-पति-सङ्गताव् ईदृक्-पुलक-सम्भव इति भावः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः कृष्णेन सङ्गता । अतो हेतोः । अत्राशङ्कते—नन्व् इति । तत्-सङ्गतिः कृष्ण-सङ्गतिः । दुर्घटा अशक्या । न इत्य् आह—तन्-नखैः कृष्ण-नखैः स्पर्शः कथं ज्ञातः ? तत्राहुः—यत इति । उत्पुलकान्य् ऊर्ध्व-रोमाणि । अन्यथा तद्-असम्भवम् आहुः—न हि इति । इति भाव इति यादृक्-पर-पुरुष-स्पर्शे स्त्रीणाम् आनन्दस् तादृक्त्व-पति-सङ्गेनेति तात्पर्यम् ।
अन्यद् अपि लक्षणम् अन्या दर्शयन्त्य आहुः—पृच्छत इति । हे सख्यः ! इमा लता एव कृष्ण-सङ्गम-लक्ष्म-धारिणीः पृच्छत । न च स्व-पति-सङ्गतौ तत्-सङ्गतिर् दुर्घटेति वाच्यम् । यतो वनस्पतेः पत्युर् बाहून् सम्यग् आश्लिष्टा अपि अहो कामोद्रेकः । नूनं तन्-नखैः स्पृष्टा एव उत्पुलकानि बिभ्रति । न हि स्व-पति-सङ्गताव् ईदृक्-पुलकं स्यात् । अत एव तल्-लक्षणस्य अस्मद्-दृश्यमानत्वात् पूर्व-पूर्वा इव न वयं तद् अद्राक्ष्मेति मिथ्या वक्तुं प्रभविष्यन्तीति भावः ।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एते हि तद्-भक्तास् तन्-मतम् अनुसरन्तो नूनं न कथयेयुर् नाम, तर्हि स्त्रीत्वेनात्मीया लता एवैताः पृच्छाम इत्य् अन्योन्यम् आहुः—पृच्छत इति । बाहुना आश्लिष्टा इत्य्-आदिकं सर्वं निज-भावानुसारेण ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एतत् सर्वं कस्याः पदानि चैतानि [भा।पु। १०.३०.२७] इति या वक्ष्यन्ति तासाम् अवधानास्पदम् एव न बभूवेति लभ्यते । संशयासम्भवात् काश्चित् तु किञ्चित् कृतावधाना अपि राग-द्वेषाभावात् तद्-अश्रुत्येव स्वाभीष्टम् एव दर्शयन्ति । मुनीन्द्रश् चात्र पूर्वाभ्यस् तासां वासना-भेद-दर्शनाय तद्-उदासीनतां व्यञ्जयति—पृच्छतेमा लता इति। वनस्पति-रूपस्य पत्युर् बाहून् अप्य् आश्लिष्टा इमा एव लताः पृच्छत । नन्व् एवं चेत्, तर्हि कथम् आसां तत्-सङ्गतिस् तर्क्यते ? तत्राहुः—नूनं वितर्के तस्य श्री-कृष्णस्य करजैः स्पृष्टा इति । ननु तद् इदम् अपि कथं वितर्कितम् ? तत्राहुः—उत् उच्चैः पुलकान्य् अङ्कुर-रूपाणि बिभ्रति, बिभ्रत्य एवासते अहो इत्य् अपूर्वतायाम् । नन्व् एवं पुरेत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (प्रीति-सन्दर्भः २८६) : तटस्था यथा—पृच्छतेमा इति । अत्र सखी-वचनं श्रुत्वापि तत्रौदासीन्यात् ताटस्थ्यम् एव व्यक्तम् । एवम् अनयाराधितो नूनम् [भा।पु। १०.३०.२८] इति सुहृद्-वाक्यानन्तरम् अपि, धन्या अहो अमी आल्यः [भा।पु। १०.३०.२९] इत्य्-आदि-वाक्ये च ॥१३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पुनर् अपि धैर्यम् अवलम्ब्य व्याकुलतया तरून् अवगणय्य एते वेणु-जाती-कठिनास् तद्-अनुकूलाः किम्-अर्थं कथयिष्यन्तीति विचार्य स्त्रीत्वेनास्मात् दुःखाभिज्ञा एता लताः कथयिष्यन्तीति सम्भाव्य अन्योऽन्यं संमन्त्रयन्त्यः कथयन्ति— पृच्छत इति । इमा लता पृच्छत किम् इति वनस्पतेः पत्युर् बाहुनाश्लिष्टा अपि उत्पुलकानि बिभ्रति अङ्कुराद्य्-उत्पन्न-लिङ्गान् तत्-करजैर् नखैः स्पृष्टा इति । नूनं निश्चितं प्रियायाश् चूडा-बन्धार्थम् अविचिन्वती तेन सङ्गतिर् जाता । अत एता धन्याः, वयं तु दुर्भगा इति श्री-कृष्ण-स्पर्शम् अन्तरेण नैतादृक्-पुलक-सम्भव इति स्वानुभवं तास्व् आरोप्योक्तम् । इतः परम् उत्तराप्राप्त्या विरता इत्य् अर्थः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यद् अपि लक्सणम् अन्या दर्शयन्त्य आहुः—पृच्छत इति । हे सख्यः ! इमा लता एव कृष्ण-सङ्गम-लक्ष्म-धारिणीः पृच्छत, न च स्वपति-सङ्गतौ तत्-सङ्गतिर् दुर्घटेति वाच्यम् । यतो वनस्पतेः पत्युर् बाहून् सम्यग् आश्लिष्टा अपि, अहो कामोद्रेकः ! नूनं तन्-नखैः स्पृष्टा एव उत्पुलकानि बिभ्रति । न हि स्व-पति-सङ्गताव् ईदृक्-पुलकं स्यात् । अत एव तल्-लक्षणस्य अस्मद्-दृश्यमानत्वात् पूर्व-पूर्वा इव न वयं तम् अद्राक्ष्मेति मिथ्या वक्तुं प्रभविष्यन्तीति भावः ॥१३॥
॥ १०.३०.१४ ॥
इत्य् उन्मत्त-वचो गोप्यः कृष्णान्वेषण-कातराः ।
लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्-आत्मिकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उन्मत्तवत् प्रपच्छुर् इत्य् एतत् प्रपञ्चितम् इदानीं—रमा-पतेस् तास् ता विचेष्टा जगृहुस् तदात्मिकाः [भा।पु। १०.३०.२] इति यद् उक्तं तत् प्रपञ्चयति—इतीति । उन्मत्त-वचो गोप्यः उन्मत्त-वचसश् च ता गोप्यश् च । कृष्णस्यान्वेषणेन कातरा अतिविह्वलाः । अनुचक्रुर् अनुकृतवत्यः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकं प्रतिश्रुतं प्रपञ्च्य द्वितीयं प्रक्रमते—इत्य् उक्त-रीत्या । अनुकरण-धृताभिवृद्ध-वह्नि-ज्वालानां कथम् आत्मा अतिष्ठत् ? तत्राह—तद्-आत्मिका इति ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इत्य् उन्मत्त-वचो गोप्य इत्य्-आदि । उन्मत्त-वचो भवति, तथा तद्-आत्मिकाः सत्यः श्री-कृष्णस्य भगवतस् तास् ता इत्य् अनुकूलाः । प्रतिकूलास् तु पूतनादि । तादात्म्य-रूपाः सर्व-नाम्नो बुद्धि-स्थ-वृत्तित्वाद् अनुकूला एव बोद्धव्याः ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति उक्त-प्रकारेण । यद् वा, इति ईदृशम् उन्मत्तवद् वचो यासां गोपीनां, ता उन्मत्त-वच इत्य् उक्तानुवादः । तत्-तद्-वाक्यानि केवलम् उन्मत्ततयैवेति पूर्वोक्तोन्मत्तकवद् इत्य् अस्य दार्ढ्यार्थम् । तत्र च उन्मत्त-वचस्त्वम् अयोग्येष्व् अपि प्रश्नात् तत्र च तथा तथा तत्-तत्-प्रश्नाद् इति । अनुचक्रुर् इत्य् अत्र हेतुः—कृष्णस्य परमाकर्षककस्य अन्वेषणाय विरहेण कातरा इति । अतः कातर्येणैव तत्-तद्-अनुकरणम् । न च स्वाच्छन्द्येन सुखादि-बुद्ध्येत्य् अर्थः । तत्रैव हेतुः—तद्-आत्मिकास् तेन हृत-चित्ता इत्य् अर्थः । यद् वा, तच्-छब्देन लीलाः परामृश्यन्ते । ततश् चानुकरणे\ऽभिनिवेशेन तत् सम्यक्त्वम् अभिप्रेतम् ।
यद् वा, ननु तल्-लीला-स्मरणेनापि विरहार्तानां प्राणा दुर्धराः । अनुकरण-घृतेन च विवृद्ध-विरह-वह्नि-ज्वालानां तासां हृदि कथम् आत्मा अतिष्ठत् ? इत्य् आशङ्क्याह—तस्मिन्न् एव आत्मा यासां ताः । अतः सुशीतलामृतार्णव-सम्बन्धेन न निःसृतः । अन्यथा स्व-स्थान-स्थः सन् दग्धो\ऽभविष्यद् एवेत्य् अर्थः । श्री-कृष्णाविष्ट-चित्ता इति तत्-तद्-अनुकरणं पारवश्येनैव, न तु स्वच्छन्देनेत्य् अर्थः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति पूर्वोक्त-प्रकारकम् उन्मत्तस्य वच इव वचो यासां, तादृश्यो गोप्यः कृष्णान्वेषणे कातरा विरह-दुःखेन, तद् अपि कर्तुम् असमर्था इत्य् अर्थः । तथा सत्यो गायन्त्य उच्चैर् [भा।पु। १०.३०.४] इत्य्-आद्य्-अनुसारेण गानानुवृत्ति-प्राप्ता या याः पूतना-वधादि-लीलाः, तास् ता अपि मध्ये मध्ये\ऽनुचक्रुर् इत्य् अर्थः ।
तत्र हेतुः—तद्-आत्मिकाः । तस्मिन् श्री-कृष्णे आत्मा चित्तं यासां ताः, गाढं तद्-आसक्ता इत्य् अर्थः, तत्र कृष्णानुकरणं स्फुटम् एव तद्-आत्मकतया । तत्र च स्वभावापरित्यागेन नाति-तद्-अभेद-स्फूर्तिः, यतन्त्य् उन्निदधे\ऽम्बरम् [१०.३०.२०] इत्य् अत्र यत्न-कथनात्, कृष्णो\ऽहं पश्यत गतिम् [भा।पु। १०.३०.१९] इति सर्वस्मिन् कृष्णत्व-साधनार्थं तच्-छब्द-प्रयोगाच् च । पूतनाद्य्-अनुकरणं च कृष्ण-विषयक-तद्-धेतुक-भयेनेति तद्-आत्मकतयैव यथा भावेन तस्य बाल्य-भावनयावृतत्वात्, किन्तु प्रीति-सामान्यातिशयाल् लब्ध-कृष्ण-भावत्वेन ततो भयाद् एव । ततस् तस्याभावेन न मातृ-भाव-स्पर्शः, किन्तु कृष्ण-भावेनैवेति न मिथः स्पर्शानुचितयोर् भावयोर् युतिः । सर्वम् एतत् तासु तदानीम् उन्मादस्यानुगतत्वात् सहसैव समपद्यत, नान्यद् एवेति च ज्ञेयम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इति पूर्वोक्त-प्रकारेण उन्मत्तस्य वच इव वचो यासां तादृश्यो गोप्यः कृष्णान्वेषण-कातरा भीता इव भीताः । विरह-दुःखेन तद् अपि कर्तुम् असमर्था इत्य् अर्थः । तथा सत्यो गायन्त्य उच्चैः [भा।पु। १०.३०.४] इत्य्-आद्य्-अनुसारेण गानानुवृत्त्या या याः प्राप्ताः पूतना-वधादि-लीलाः, तास् ता अपि मध्ये मध्ये\ऽनुचक्रुर् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इति प्रत्येकं पृष्ट्वा कस्यापि प्रत्युत्तरम् अनासाद्य चोन्मादे जाते सति, "कृष्णो नान्यत्र गतवान्, मय्य् एव प्रविष्टः, तद् अहम् एव कृष्णः" इति प्रत्येकं तादात्म्यम् अभूद् इति दर्शयति—इत्य् उन्मत्त-वच इत्य्-आदि । इत्य् एवं प्रकारेण उन्मत्त-वचो यथा भवति, तथा कृष्णान्वेषण-कातराः सत्यस् तास् ता भगवतः कृष्णस्य लीला अनुचक्रुः । तास् ता इति पूर्व-पूर्वानुभूताः । अनुकरणे हेतुः—तद्-आत्मिकास् तादात्म्यं गताः ॥१४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पूर्वम् उक्तम् उन्मत्तकवत् पप्रच्छुर् अयोग्येष्व् अपि प्रश्नान् अचेतनेषु प्रश्नस्यानौचितिं मन्यमाना लीलानुकरणं श्री-कृष्ण-प्राप्त्य्-उपायं निश्चित्य अनुचक्रुर् इत्य् आहुः—इत्य् उन्मत्त- इति । पूर्वोक्त-प्रकारेण उन्मत्तस्य इव वचो यासां ताः । उन्मत्त-वचसस् ताश् च ता गोप्यः । भगवतो रसैश् चर्येण विराजमानस्य अत एवावधीर् इति । षड्-गुणस्य तास् ताः प्रसिद्धाः पूतना-प्राण-शोषणादिका लीला अनुचक्रुः । यतः कृष्णान्वेषण-कातरा इति मुख्यो हेतुर् अनुकरणे, न तु स्वातन्त्र्येणेति । लीला-स्मरणम् अपि विरह-ताप-निर्वापकं कृतं लीलानुकरणेनेति चेत्, तत्राह—तद्-आत्मिकाः, स एवात्मनि मनसि यासां ताः । यद् वा, तस्मिन्न् एवात्मा क्षेत्रज्ञो जीवो यासां ताः । स एव प्राण-रक्षक इति ।
अयम् अर्थः—तासाम् आत्मा यदि स्व-देहे तिष्ठेत्, तदा विरहाग्निना दह्येतैव तस्य शीत-लतया मृताश् च तुल्ये श्री-कृष्णे स्थितत्वात्, न दग्ध इत्य् अर्थः । एतासां देहा एव तद्-आवेशात् । लीला अनुकुर्वति, न त्व् आत्मा तस्य तु श्री-कृष्णस्यात्मनि क्रोडीकृतत्वात् । अतो न किञ्चिद् अनुपपन्नम् इति ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इमा आनन्द-जाड्यान् न किम् अपि ब्रुवते इत्य् एवम् अचेतनेष्व् अपि प्रश्न-कामादि-दर्शनाभ्याम् उन्मत्तानां वचांसीव वचांसि यासां ताः । ततश् च तस्य अन्वेषणे\ऽपि कातरास् तन्-मध्ये काश्चिद् एवं प्रत्येकं पराममृशुः । सम्प्रत्य् अहम् एव स्वरूप-चेष्टाद्य्-अनुकरणेण आत्मानं कृष्णाकारं दर्शयित्वा अतिकातराणाम् आसां स्वस्याश् च मौहूर्तिकीम् अपि निर्वृतिं निष्पादयाम इति मनसि कृत्वा तस्य सर्वा एव लीलाः क्रमेण स्मृत्य्-आरूढीकृत्य पूतना-वध-लीलाम् अनुचक्रुस् तस्मिन्न् एव आत्मा मनो यासां ताः । तत्र च प्रतिकुलानाम् अनुकरणं योग-मायैव तन्-मध्य एव गोपी-स्वरूपा भूत्वा तत्-तल्-लीला-सिद्ध्य्-अर्थं चकार । अनुकूलानुकरणं तु गोप्यश् चक्रुर् इति ज्ञेयम् ।
नो नः कथा वद सदःस्व् इति तन्-निषिद्धो\ऽप्य्
आनन्द-निघ्न इह ता यद् अरोचम् एव ।
नामानि तु प्रथयितास्मि तद् अत्र नासाम्
इत्थं मुनिर् मनसि सम्प्रति निश्चिकाय ॥१४॥
॥ १०.३०.१५ ॥
कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् ।
तोकायित्वा रुदत्य् अन्या पदाहञ् छकटायतीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कस्याश्चिद् इत्य्-आदिभिश् चतुर्भिर् अनुकरणं प्रपञ्च्यते । ततश् चतुर्भिस् तन्मयत्वं पुनर् एकेनानुकरणम् इति विवेकः । पूतनायन्त्याः पूतनावद् आचरन्त्याः कृष्णवद् आचरन्ती स्तनम् अपिबत् । तोकायित्वा तोकवद् आत्मानं कृत्वा ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूतनेवाचरतीति पूतनायते । पूतनायत इति पूतनायन्ती कर्तुः क्यङ् स-लोपश् च [पा। ३.१.११] इति क्यङि पुनः तङ्-अन्ताच् छानचि प्राप्ते शतृ-प्रत्ययस् त्व् आर्षः । श्यप्-श्यनोर् नित्यम् इति नुम् । तोक इवाचरतीति तोकायते तोकाय्यत इति तोकयित्वा, अव्यय-कृतो भावे इति भावे क्त्वा । शकातायतीम् इह नुम्-अभावस् त्व् आर्षः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि पूतनादि । तादात्म्यं कस्याः ? इत्य् आह—कस्याश्चिद् इत्य्-आदि । ननु तादात्म्यं तावत् प्रेम्णः परया मर्यादया चेतसो वृत्त्य्-अन्तराभावेन तन्-मयी-भावाह्। तत्र कथं विजातीयेषु पूतनादिषु प्रेम्णोऽभावाद् अनभिनिवेशेन तत् तादात्म्यम् ? लीलायाः प्रतिपक्ष-सापेक्षत्वम् अस्त्य् एवेति चेत् तद्-आत्मिका इति न सङ्गच्छते, अनुभवे च विरोधः । तर्ह्य् एवं विचारणीयं—कस्याश्चिद् इत्य् अत्र पूर्ववत् सर्वनाम्नो बुद्धि-स्थ-वृत्तित्वात् । किं-शब्देनात्र योगमाया बोद्धव्या । योगमायाम् उपाश्रित [भा।पु। १०.२९.१] इत्य् अस्यैवासौ मर्यादा । तद्-अवधि भगवद्-इच्छा-वशाद् आसां सर्व-साहाय्या-कारिण्य् एव संयोगे वियोगे च योगमाया बभूव । अतस् तासां तद्-आत्मकत्वेन तल्-लीलानुकारे लीला-सामग्री-समवधान्ययैव विजातीय-भावं प्रकटयति ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुकरणम् एव प्रपञ्चयति—कस्याश्चिद् इति । तद्-विवेकस् तैर् व्यञ्जित एव । तत्र च अनुचक्रुर् इत्य् उक्ते\ऽनुकरणस्यैव प्रपञ्चने कार्ये\ऽपि तन्मयत्वस्य प्रपञ्चनम् अनुकरणस्यैव सम्यक्त्व-बोधनार्थम् इति । तत्र चादौ दैहिक-चेष्टायाः प्रायो देह-चेष्टयैवानुकरणं वाक्-चेष्टा-संवलितायाः प्रायस् तथैव मानस-चेष्टा-संवलितायाश् च तथैवेत्य् एवं त्रिधानुकरणम् । तत्र यद्यपि प्रायो भावनयैव सर्वत्रानुकरणं, तथापि तत्र तत्र तत्-तत्-प्राधान्यापेक्षया त्रैविध्यम् ।
तत्रादौ देह-चेष्टा-प्रधानानुकरणम् आह त्रिभिः । पूतनायन्त्याः पूतनायमानायाः पूतनाद्य्-अनुकरणं केवलं भावनयैव किञ्चित् तत्-तद्-मुद्राद्य्-आचरणेन, न तु वेशादिना, सर्वथा तद्-असम्भवात् । अत एव वक्ष्यते—कृष्णार्भ-भावनाम् [भा।पु। १०.३०.१६] इति । तद् अपि विरह-वैवश्येन, यद्यपि न सुसिध्येत्, तथापि विरहार्ति-भर-स्वभावेन तत्-तल्-लीलाभिनिवेशात् स्वयम् एव सम्पद्यते इति ज्ञेयम् । तत्र यद्यपि परम-वैष्णवीनां तासां दैत्यानुकरणं न युज्यते, तथापि केनापि सुदुरूहेण भाव-वैचित्री-विशेषेणाविष्टास् ताः कृष्णस्यैव लीला अनुचक्रुः। तासां प्रिय-सख्यस् तु तत्-तद्-भावाविष्टास् ता वितर्क्य तत्रैव तच्-चित्तासञ्जनेन महा-दुःखापनोदनार्थं तास् ता लीलाः कर्त्र्यो विरह-विह्वलाः सर्वा एव गोपीस् तद्-आत्मिका लीलामयीश् चक्रुः । अतस् तत्-तल्-लीला-परिकरत्वाद् दैत्याद्य्-अनुकरणं युक्तम् एवेति तासां सर्वम् अनवद्यम् ।
स्तनम् अपिबद् इति चानुकरण-मात्रम्, न तु तत्त्वतः, अनुकरणस्यैवापेक्ष्यत्वात् । एवम् अग्रे\ऽन्यद् अप्य् ऊह्यम् । शकटायतीं शकटायमानाम् । एवम् अग्रे\ऽपि शकटानुकरणं तोकायमानाया उपरि शकटवत् कथञ्चिद् अवस्थानं ज्ञेयम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-आत्मकत्वेनानुकरणस्य प्रपञ्चम् आह नवभिः—पूतनायन्त्या इति। तथापि स्वभाव-स्थितत्वेन पूतनावद् आचरन्त्या एव, न तु तत्-तद्-विरुद्ध-भावाया इत्य् अर्थः । कृष्णायन्तीत्य् अत्र तु कृष्णार्भ-भावनाम् [भा।पु। १०.३०.१६] इति वक्ष्यमाणानुसारेण भावतो\ऽपि तद् आचरन्तीति लभ्यते । एवम् उत्तरत्रापि । स्तनम् अपिबद् इति चानुकरण-मात्रं तन्-मात्रस्योपेक्षितत्वात् । शकटायतीं शकटायमानां तादृशत्वं च हस्त-पादाभ्यां भुवम् अवष्टभ्याधो-मुखतयैवोच्चैर् अवस्थानम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : तत्र तास् ता इत्य्-उक्तेः सर्वा एव लीला इत्य् आयाते मूलतः प्रभृति पूतना-मोक्षादि-लीलानुकरणस्य उपस्थितौ तद् एवाह—कस्याश्चिद् इत्य्-आदि बहुभिः । ननु तद्-आत्मिक इति तादात्म्य-भाजः । तादात्म्यं तु प्रेम्णो मर्यादया चेतसो वृत्त्य्-अन्तर-राहित्येन तन्-मयी-भावः । न च तद्-आत्मिका इति लीलात्मिका इति वक्तुं शक्यते । लीला भगवतस् तास् ता ह्य् अनुचक्रुः [भा।पु। १०.३०.१४] इत्य्-उक्तेः । न हि लीला भूत्वा लीला अनुचक्रुर् इति सम्भवति । तेन कृष्णावेशात् कृष्ण-तादात्म्यम् एव । तदा कथं प्रतिकूलेषु पूतनादिष्व् अभिनिवेशाभावात् पूतनायन्त्य इति ॥१५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : लीलानुकरणम् एव प्रपञ्चयति—कस्याश्चिद् इति । लीलायास् त्रैविध्यं—मानसी वाचकी दैहिकी लीला-द्वये प्रतियोगित्वेन पूतनादीनां स्फुरणम् इत्य् अभि कथयति । पूतनायन्त्याः पूतनावद् आचरन्त्याः कस्याश्चित् । कृष्णायन्ती कृष्णायमाना अपि इति । वाचिक्यां लीलायां कथाम् अहं कृष्णः कयाचिद् उक्तम्, अहं पूतनास्याः स्तन-पानादीनाम् अनुकरणम्। तथापि श्री-कृष्णम् अङ्के स्थाप्य सा यथा कृतार्था अभूत्, तथैव पूतनायन्ती कृष्णायन्तीम् अङ्के स्थाप्य सुखम् अन्वभवत् । कृष्ण-स्पर्श-मात्रापेक्ष्यैव पूतनानुकरणम् इति भावः ।
पूर्व-पद्येनोक्तम् अनुचक्रुस् तद्-आत्मिका इति । स एव तासाम् आत्मा जातो\ऽतः स्वातन्त्र्याभावात् तासां प्राण-रक्षार्थं तत् तथैव कृतं कृष्णेनेति लीला तया साद्गुण्यार्थं प्रिय-सखीभिः पूतनावद् आचरितम् । यथा ग्रह-गृहीतस्य स्वातन्त्र्यं नास्ति । ग्रह एव तस्या देहे प्रविश्य स्वकीया एव चेष्टाः करोति, तद्वद् इयं लीलेति । एवम् अन्यत्राप्य् ऊह्यम् ।
शकट-भङ्ग-लीलाम् आह—अन्या काचिद् व्रज-देवी आत्मानं तोकायित्वा शकटायन्ती शकटवद् आचरन्ती । यदा पादेन अहन् तु ताडितवती पाद-स्पर्शाशया शकटवद् अन्वकरोद् इति भावः॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अनुकरणं चतुर्भिर् आह—पूतनायन्त्याः पूतनावद् आचरन्त्याः कृष्णवद् आचरन्ती स्तनम् अपिबत् पानम् । तोकायित्वा तोकवद् आत्मानं कृत्वा ॥१५॥
॥ १०.३०.१६-१७ ॥
दैत्यायित्वा जहारान्याम् एका कृष्णार्भ-भावनाम् ।
रिङ्गयामास काप्य् अङ्घ्री कर्षन्ती घोष-निःस्वनैः12 ॥
कृष्ण-रामायिते द्वे तु गोपायन्त्यश् च काश्चन ।
वत्स्यायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दैत्यायित्वा दैत्यवत् तृणावर्तवद् आत्मानं कृत्वा एका कृष्णार्भ-भावनां कृष्णस्यार्भं बाल्यं भावयति या, ताम् अन्यां जहार ॥१६-१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रिङ्गयामास हस्त-जानुभ्यां चचाल । घोर-निस्वनैः मञ्जीरादि-ध्वनिभिः सह ॥१६॥ कृष्ण-रामाव् इवाचरत इति कृष्ण-रामायेते । ततो भावे क्ते इति च कृष्ण-रामायिते । तत्र तासु । अनु पश्चात् । एका कृष्णायन्ती ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : घोषाः किङ्किण्यः, तेषां निस्वनैः कृत्वा, सहिता इति वा, तच् च साक्षाद् एव तासाम् अपि पादेषु नूपुर-सद्-भावात् । एतच् च घोष-प्रघोष-रुचिरम् [भा।पु। १०.८.२२] इत्य्-आद्य्-उक्त-रिङ्गण-ललितानुकरणम् ॥१६॥ गोपायन्त्य इति गोप-बालायन्त्य इति ज्ञेयम् । तदानीं बालकैर् एव वत्स-चारणात् । च-कारात् अघायतीं च हन्ति अहन्, सामीप्ये वर्तमाना ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णस्य आर्भ-भावना बाल्य-वासना सैव, सा यस्याः, तां जहार तद्-भयावेशेन तद्-धरणम् अनुकृत्य दर्शितवतीत्य् अर्थः । घोषाः किङ्किण्यः, तेषां निस्वनैः कृत्वा सहिता सेविता वा, तच् च साक्षाद् एव तासाम् अपि पादेषु नूपुर-सद्-भावात् । एतच् च घोष-प्रघोष-रुचिरम् [भा।पु। १०.८.२२] इत्य्-आद्य्-उक्त-रिङ्गण-ललितानुकरणम् ॥१६॥
द्वे विचिक्रीडतुः । तत्र काश्चन गोपायन्त्यः गोपालायन्त्यश् चिक्रीडुः, तदानीं बालकैर् एव वत्स-चारणात् । तस्याम् एव सभायां लीलान्तरम् आह—वत्स- इति । अन्या कृष्णायमाना तत्र तस्मिन् सति एका च कृष्णायमाना हन्ति हननानुकरणम् अनुकरोति, अहन्न् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तृणावर्त-लीलाम् आह—दैत्य- इति । एका काचिद् दैत्यायित्वा तृणावर्तवद् आत्मानं विधाय, कृष्णार्भ-भावनाम् अन्यां जहार । कृष्णस्यार्भं बाल्यं भावयति काचित् हृतवती तृणावर्तस्य वक्षसि कृष्ण-स्पर्शाशया तथा कृतवती इति तात्पर्यम् । ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [भा।पु। १०.८.२२] इति स्मृति-पथम् अवतीर्णां लीलाम् अनुकुर्वन्ति । कापि कृष्णायन्ती घोषाः किङ्किण्य्-आदयः, तेषां निस्वनैः कृत्वा अङ्घ्री कर्षन्ती रिङ्गयामास, जानु-पाणिभ्यां चलति स्म ॥१६॥
अन्यद् अप्य् आह—वृन्दावन-प्रदेशे काश्चन गोपायन्त्यो वत्सप-रूपम् अनुकुर्वन्त्यः द्वे गोप्यौ कृष्ण-रामवद् आचरिते । एवं सर्वास् ते परिवृढौ कृत्वा यथा क्रीडितवन्तः स्म, तद्वद् एव ताश् चिक्रीडुः । अन्या काचित् कृष्णवद् आचरन्ती वत्सवद् आचरन्तीं हन्ति स्म, हननम् अन्वकरोत् । तत्र तासु मध्ये एका कृष्णवद् आचरन्ती बकवद् आचरन्तीम् अहन् हननानुकरणम् अकरोत् ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैत्यायित्वा तृणावर्त-दैत्यवद् आचरन्ती एका कृष्णस्यार्भं बाल्यं भावयति या, ताम् ॥१६-१७॥
॥ १०.३०.१८ ॥
आहूय दूरगा यद्वत् कृष्णस् तम् अनुवर्ततीम्13 ।
वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दूरगाः दूरे वर्तमाना गाः । यद्वद् यथा कृष्णस् तथा आहूय तं कृष्णम् अनुवर्तमानाम् । "अनुकुर्वतीम्" इति वा पाठः ॥१८-१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुवर्तनं त्व् अनुकरणं विनापि स्यात्, अत आह—अनुकुर्वतीम् इति वा इति ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना वाक्-प्रधानानुकरणं पञ्चभिर् वक्ष्यन्न् आदौ प्रलम्ब-वधात् प्राक्तन-ग्रीष्मा-कृत-विचित्र-लीलानुकरणम् आह—आहूय इति द्वाभ्याम् अत्र वाक्-प्रधानानुकरणत्वात् । किं वा, अनुकरणे क्रमशो\ऽत्यन्तावेशेन तद्-आत्मकत्वात् कृष्णायन्ति [भा।पु। १०.३०.१५] इत्य्-आदिकं पूर्वं नोक्तम् । दूरगा इति तैर् व्याख्यातम् एव । यद् वा, दूर-वर्तिनीर् व्रजादि-स्थिता गोपीर् वेणु-नाद-सङ्केतेन यथा कृष्ण आह्वयति, तथा आहूय इति । एवम् अनुवर्ततीं काञ्चित् क्रीडन्तीं च गानादि-क्रीडां कुर्वतीम् । अन्या गोप-भावनापन्ना इति ज्ञेयम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् अनुकरण-मात्रम् उक्तम् । अधुना प्रलम्ब-वध-प्राक्तन-ग्रीष्म-कृत-विचित्र-लीलानुकरणे शृङ्गारालम्बन-रूप-तदीय-कैशोराविर्भावात् । पुनर् अपि प्रियानुकरण-रूपं लीलाख्यम् अनुभावम् आह—आहूय इति द्वाभ्याम् । दूरगा इति समायान्त-विधेर् अनित्यत्वात्, दूर-गवीर् इत्य् अर्थः । अन्या गोपं-मन्याः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : सख्य-रसे कृतां लीलाम् अनुकुर्वन्तीति—आहूय इति । दूरे स्थितां गां यथा कृष्ण आह्वयति तद्वत् । यद् वा, दूरे व्रजे स्थिता गा व्रज-देवीर् यथा वेणु-नादेन आह्वयति, तम् अनुकुर्वन्ती कृष्णवद् आचरन्ती वेणुं वादयन्ती सखीवद् आचरन्तीभिः सह क्रीडन्ती । अन्या मित्रायमानाः "साधु" इति शंसन्ति स्म ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दूरगाः दूर-वर्तिनीर् गाः यद्वद् कृष्ण आह्वयति, तत् तद् एवाहूय तं कृष्णम् अनुवर्ततीम् । "अनुकुर्वतीम्" इति च पाठः ॥१८॥
॥ १०.३०.१९ ॥
कस्याञ्चित् स्व-भुजं न्यस्य चलन्त्य् आहापरा ननु ।
कृष्णोऽहं पश्यत गतिं ललिताम् इति तन्-मनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ललिताम् अतीव-रम्याम् । तन्-मनाः कृष्ण-चेता आह इति ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु निश्चितम् एव आह । अतः "कृष्णो\ऽहम्" इत्य् उक्तौ न सन्देहः कार्य इति भावः । यद् वा, ननु हे गोपा गोप्यो वा पश्यत गतिं मम चेष्टां गमनं वा ललितां मनोहराम् । तन्मनाः श्री-कृष्णाभीष्ट-चित्ता इत्य् अर्थः । अनेन "कृष्णो\ऽहम्" इति दोषो निरस्तः । कृष्णः सर्व-गुण-रूपादि-सम्पूर्णो\ऽहम् । अतो ममाश्रय-भूतां ललिताख्यां गोपीं पश्यत । इत्य् एतत् तद्-उक्तम् अहो किं स्मरत ? इति शेषः । तच् च तेन कदाचित् केनापि भावेन पूर्वम् उक्तम् अस्तीति पूर्ववत् बोद्धव्यम् । ननु कुतो वाक्यं न समापितम् ? तत्राह—तन्मनाः कृष्ण-हृत-चित्ता इति । यद् वा, अनेनानुकार-सम्यक्तैव पूर्ववद् एवाभिप्रेता ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गतिं नृत्य-लीलाम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : दैहिक-लीलाम् आह—कस्याञ्चिद् इति । अपरा कृष्णवद् आचरन्ती गोपवद् आचरन्त्यां कस्याञ्चित् स्वभुजं न्यस्य चलन्त्य् आह—कृष्णोऽहम् । हे गोपाः ! मम ललितां गतिं पश्यत इत्य् आहुः, यतस् तन्-मनास् तद्-एक-चित्ताः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चान्या अपि लीलानुचिकीर्षन्तीनाम् अपि तासां तद्-ध्यानाधिक्य-वशेनोन्माद-सञ्चारि-प्राबल्येन चात्मानुसन्धानापगमात् कृष्ण-तादात्म्यम् आह चतुर्भिः—कस्याञ्चिद् इति । अहं सुबल-स्कन्धार्पित-बाहुः कृष्णः प्रसिद्धः, तस्मान् मम ललिताम् अतिरमणीयाम् ॥१९॥
॥ १०.३०.२० ॥
मा भैष्ट वात-वर्षाभ्यां तत्-त्राणं विहितं मया ।
इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधेऽम्बरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतन्ती प्रयत्नं कुर्वती अम्बरम् उत्तरीयं वस्त्रम् उन्निदधे ऊर्ध्वं धृतवती ॥२० ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वात-वर्षातस् त्राणं तत्-त्राणम् इति ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वात-वर्षाभ्याम् इति । अनुकरण-वशाद् वाङ्-मात्रेणैव । किं वा, तत्-तल्-लीलावेशेन साक्षाद् इव वातादि-स्फूर्तेर् इति ज्ञेयम् । एवम् अग्रे दावाग्निं पश्यत [२२] इत्य् अपि । यतन्ती इति विरहार्त्या बल-हानिः सूचिता । उन्निदधे उद्यच्छन्तीति वा श्री-गोवर्धनवद् ऊर्ध्वं नितरां धृतवती ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वात-वर्षाभ्या इति । तत्-तल्-लीलावेशेन साक्षाद् वातादि-स्फूर्तेः । एवम् अग्रे दावाग्निं पश्यत [२२] इत्य् अपि । अत्र त्रासातिरेकेण शृङ्गार-रस-सङ्कोचान् न तल्-लीलोदाहरणम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : गोवर्धनोद्धरण-लीलाम् आह—मा भैष्ट इति । काचित् कृष्णायन्ती गोपवद् आचरन्तीं प्रत्य् आह । व्यभिचारिभिर् भावैर् वात-वर्षाभ्यां पीड्यमाने च दुःखं स्वयं सहमाना वदति । वात-वर्षाभ्यां भयं मा कुरुत । मया तत्-त्राणं विहितं मया कृतम् एवेत्य् उक्त्वा यतन्ति इयं तं कुर्वति । एकेन हस्तेन गोवर्धनवद् अम्बरं स्वोत्तरीयम् उन्निदधेऊर्ध्वं धृतवती ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतन्ती प्रयत्नं कुर्वती अम्बरम् उत्तरीय-वस्त्रम् उन्निदधे ऊर्ध्वं धृतवती ॥२०॥
॥ १०.३०.२१ ॥
आरुह्यैका14 पदाक्रम्य शिरस्य् आहापरां नृप15 ।
दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्ड-धृक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : खलानाम् उच्छृङ्खलानाम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु निश्चये, सम्बोधने वा । "नृप" इति पाठे आश्चर्येण सम्बोधनम्। दुष्टाहे ! रे कालिय ! गच्छ इतो निःसर, अन्यथा दण्डं करिष्य इत्य् आह—जात इति । ननु निश्चितम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पदाक्रमण-पूर्वकम् आरुह्य इत्य् अर्थः । ननु निश्चये, सम्बोधने वा । "नृप" इति पाठे आश्चर्येण सम्बोधनं । दुष्टाहे इति कालियस्य न्यक्कारेण सम्बोधनम् । गच्छ इतो निःसर, अन्यथा दण्डं करिष्य इत्य् आह—जात इति । ननु निश्चितं तल्-लीलायाम् एतद् वाक्यं भावे\ऽत्यनुकरणं तत्रस्थस्य वाक्यस्य शेषेण तात्पर्येण वा ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : कालीय-दमन-लीलाम् आह—आरुह्य इति । एका कृष्णवद् आचरन्ती श्री-कृष्ण-चरण-स्पर्शाशया कालियवद् आचरन्तीं प्रत्य् आह । तिरस्कृत्य सम्बोधयति— अहे ! दुष्ट ! गच्छ ! अतो निःसर ! ननु निश्चितं खलानां त्वद्-विधानां दण्ड-धृक् अहं जातः । किं कृत्वोक्तवती ? आरुह्य पदेन शिरस्य् आक्रम्य इति । हे नृप ! इति अद्भुत-श्रवणे अवधानं कारयति । अयम् अभिप्रायः—सञ्चारिणो भावाः कुत्रचित् पूटनादिवत् प्रतीयमानाः, कुत्रचिद् दावाग्निवत् कालियवत् प्रतीयमाना दुःख-हेतु-कृत्वात् । अत्र तद्-उपशमनार्थम् एवैतासां यत्नः । अतो न किञ्चिद् विरुद्धम् इति ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुष्टाहे ! हे कालिय ! ॥२१॥
॥ १०.३०.२२ ॥
तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् ।
चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपिदध्वं निमीलयत ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तासु । वो युष्माकम् ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र च इति । च-कारान्वयः कालिय-दमन-लीलानुकरणे त्व् इत्य् अर्थः । एवं तत्र कृतं चक्षूंषि इत्य्-आद्य्-उक्तेश् च । मुञ्जाटव्याम् अपि कृतं दावतो रक्षणं द्विविधम् एवानुकृतम् इति ज्ञेयम् । यद् वा, तत्र तासु मध्ये च ततश् च मौञ्जाटविक-तद्-अनुकरणम् एव । पाठान्तरं स्पष्टम् एव । अञ्जसा अनायासेनैव ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र च इति । च-कारेणान्वयः, कालिय-दमन-लीलानुकरणे त्व् इत्य् अर्थः । "तत्रैकोवाच हे गोपा" इति पाठस् तु बहुत्रैव । रे-शब्दस् त्व् अहृद्यत्वान् नाद्रियते । एवं श्री-कृष्णेनापि तत्र च चक्षुः-पिधानम् आदिष्टम् इति गम्यते । दावाग्निं पश्यतोल्बणम् इति तु तत्र हेतु-वाक्यम् । उल्बणं चक्षुस्-तेजो-हरम् इत्य् अर्थः । तच् च निमीलनार्थ-व्याजाद् एव । एवं मुञ्जाटवी-सम्बन्ध्य् अपि सम्बन्धनीयम् इति पृथग् न वर्णितम् इति ज्ञेयम् । अपिदध्वम् इति दधस् तथोश् च [पा। ८.२.३८] इति स्मरणाद् अभ्यासस्य भष्-भाव-प्राप्तेर् अपिदध्वदम् इति वक्तव्ये\ऽपिदध्वम् इति पाठ आर्षो लेखक-प्रमादजो वा भष्-भावो वर्ग-चतुर्थत्वम् । अञ्जसा अनायासेनैव ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : दावाग्नि-पान-लीलाम् आह—तत्र इति । कालिय-दमन-दिने ह्रद-तीरे रात्रौ गोकुल-वासि-जनस्य नाश-हेतुम् उत्थिते दावाग्निं स्मृत्वा काचिद् आह । वस्तुतस् तु सञ्चारिणो भावा एवादाहकास् तास्व् एव दावाग्नि-बुद्धिं विधाय, एका कृष्णवद् आचरन्ती गोपवद् आचरन्तीं प्रत्य् आह—हे गोपाः ! उल्बणम् अतीव भयङ्करं दावाग्निं पश्यत चक्षूंषि आशु अपिदध्वं निमीलयत अञ्जसा दावाग्नि-पानेन वो युष्माकं क्षेमं विधास्ये ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।।
॥ १०.३०.२३ ॥
बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले ।
भीता सुदृक् पिधायास्यं भेजे भीति-विडम्बनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदृक् सुनयनम् आस्यं पिधाय । सुदृक् वराक्षीति वा । भीति-विडम्बनं भयानुकरणम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तासां मध्ये सम्भवत्वात् स्त्रिया अपि विशेषणम् इत्य् आह—वराक्षी इति ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं बद्धान्यया स्रजा काचिद् इत्य् अन्तं विजातीयम् आह ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना मानस-चेष्टा-प्रधानानानुकरणम् आह—बद्धा- इति । अन्यया ताभ्यो भिन्नया पश्चाद् आगतया दूती-रूपया कयाचिद् वृद्ध्या तन्-मतानुसारिण्या । यद् वा, अन्यया जगद्-विलक्षणया परम-मृदुलयेत्य् अर्थः । पूर्वं मात्रापि परम-कोमल-गो-बालादि-रज्जुभिर् एव बद्धत्वात् । यद् वा, पूर्वं स्रजया एकया पश्चाद् अन्यया च तयैव बद्धा पूर्ववद् बहुधा बन्धार्थं तासां स्रजो\ऽपि बन्धन-सामर्थ्यं तन्-मतानुसारित्वं च सम्भवेद् एव ।
तन्वी विरहार्त्या सद्य एव कार्श्यं प्राप्ता । अत एव प्रेम-विशेषात् तया श्री-भगवद्-भक्त-वश्यता-गुण-विशेष-मय-लीलानुकरणम् । तत्रानुकरणे तास्व् इति वा ।
उलूखल इति उलूखलानुकारिण्यां कस्याञ्चिद् इत्य् अर्थः । सुदृग् इति दृग्भ्याम् अपि चकित-निरीक्षणादिना भयम् अनुचक्रुर् इत्य् अर्थः । मुखं पिधाय स्व-हस्ताभ्याम् । एतच् च बालक-स्वाभाविक-भय-लक्षणं भीति-विडम्बनं कम्प-पुलकादि-किञ्चिद्-रोदन-काकु-वाक्यादि च । एवं प्रायो भयादिना मानस-चेष्टानुकरणम् एव द्योतितम् । भयस्य मनो-विषयकत्वात् । एवम् अत्यन्त-भक्त-वश्यता-मयी श्री-दामोदर-लीला सर्वासां लीलानां मध्ये श्रेष्ठतमेति तद्-अनुकरणं "मधुरेण समापयेत्" इति न्यायेन सर्वान्ते प्रोक्तम् ।
धेनुक-प्रलम्बयोर् वधः श्री-बलदेव-कृतत्वान् नानुकृतः । कुमारी-वस्त्र-हरणं यज्ञपत्नी-गणाकर्षणं च लज्जया । किं वा, तत्-तल्-लीला-रसस्यात्मन्य् एव पर्यवसानात् तत्-तद्-अनपेक्षया । यमलार्जुन-भञ्जनं च श्री-दामोदर-लीलान्तर्गतत्वात् पृथङ् नानुकृतम् इति पूर्वोक्त-लीला-क्रमातिक्रमश् च तासां विरह-विह्वलता-वर्णनेन श्री-बादरायणेर् अपि तादृश-भावापत्त्या तद्-अनुसन्धानापगमात् । किं वा, लिखित-न्यायेन चेष्टादीनां त्रयाणाम् उत्तरोत्तरस्मिन्न् एकैकस्य समवेततया केवलत्व-संवलितत्वयोस् तत्रापि न्यूनाधिकत्वयोः क्रमापेक्षयोक्तेः । यद् वा, तास्व् एव केवलत्व-संवलितत्वादि-क्रमेणैव तत्-तल्-लीलानां परिस्फूर्तेः । यद् वा, विरह-कातरतया तन्-मनस्तया वा पौर्वापर्यानुसन्धानाभावाद् इत्य् एषा दिक् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यया पूर्वम् उक्तेर् व्रजेश्वरी-चेष्टा-मात्रं कुर्वत्या तन्वी विरहार्त्या सद्य एव कार्श्यं प्राप्ता तत्र अनुकरणे । उलूखल इति उलूखलानुकारिण्यां कस्याञ्चिद् इत्य् अर्थः । सुदृग् इति दृग्भ्याम् अपि चकित-विलोकनादिना भयम् अनुचकारेत्य् अर्थः । मुखं पिधाय हस्ताभ्याम् एव बालक-भय-स्वभावः भीतिः कृष्णस्य भय-कार्ष्यं कम्पादि-किञ्चिद्-रोदन-वाक्यादि च तद्-अनुकरणं भेजे । एवम् अन्यासाम् अपि लीलानाम् अनुकरणं यथार्हम् ऊह्यम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तत्र लीलानां क्रमो न उन्मत्त-तुल्यत्वात् कुत्रचित् कस्याश्चित् लीलाया विस्मृतिः, यथासुरस्य वधानुक्तिः, तथा वत्सापहरणस्य प्रलम्ब-वधस्यानुक्तिः । विरहाग्नि-ज्वालावलीढत्वात् अनुकृतिर् न जाता । यद्यपि उलूखल-बन्ध-लीला प्रथमम् एव जाता, तथापीदानीम् एव स्मृति-पथम् अवतीर्णा । पूर्व-लीलेयं सुख-रूपा, यथा व्रजेश्वर्या बद्ध उलूखलेन तद्-वशवर्ती जातः, तथानया लीलयास्मद्-वशवर्ती भविष्यतीत्य् अभिप्रायेणान्तेऽनुचक्रुः ।
बद्धा इत्य् अन्यया यशोदा-भावनावत्या काचित् तन्वी श्री-कृष्णवद् आचरन्ती उलूखलवद् आचरन्त्यां कस्याञ्चित् स्रजा मालया बद्धा । विरह-कृत-दाहात् कृश-तन्वी जाता तापिष्यतीति भीता भयानुकरणं सञ्चारि-भाव-कृतम् एव । सुदृक् आस्यं पिधायभीति-विडम्बनं भीत्य्-अनुकरणं भेजे । सुदृक् सुन्दराक्षी वा यमलार्जुन-भङ्गादिं क्रमते लीलान्तर्गतत्वात् पृथक् नोद्दिष्टम्, विरह-विह्वलितत्वाद् वा विस्मृतम् तन्-मते तुल्यत्वोक्तम् । एवम् अन्यासां लीलानुकरणम् उन्नेया ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतश् चाकस्माद् उन्मादस्य प्राबल्ये शान्ते सति कृष्ण-तादात्म्यस्यापि शैथिल्यम् अभूत् । ततश् च अहं गोपीत्य् आत्मानम् अनुसन्दधानां काञ्चिद् भाण्ड-स्फोटन-हैयङ्गव-मोषण-लीलानुकरणोद्यताम् आलक्ष्य योगमायैव श्री-यशोदायमाना तद्-उचितं चकारेत्य् आह—बद्धा इति । हैयङ्गव-मुषं तु त्वां बध्नामीत्य् उक्त्वा अन्यया काचित् स्रजा बद्धा सुदृक् आस्यम् आच्छाद्य भीति-विडम्बनं भयानुकरणं भेजे इत्य् अन्वयः ॥२३॥
॥ १०.३०.२४ ॥
एवं कृष्ण-पृच्छमाना वृन्दावन-लतास् तरून् ।
व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं पुनर् अपि वृन्दावने लतास् तरूंश् च कृष्णं पृच्छन्त्यो वनोद्देशे वन-प्रदेशे । व्यचक्षत अपश्यन् ॥२४॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वनोद्देशे वन-प्रदेशे ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भावेऽप्य् अधिगन्तव्यम्—एवम् इत्य्-आदि । एवं तादात्म्यास् ते प्रकृताः सत्यः ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् इति पूर्वोक्त-प्रश्न-प्रकारेण । यद् वा, तत्-तल्-लीलानां पूर्वोक्त-प्रकारक-पुनः-पुनर्-अनुकरणेन । तत्र हेतुः—कृष्णं चित्ताकर्षकम् इति पदानि व्यचक्षत, पुनर् भूमौ दृष्टि-निपाताद् विशेषेणाचक्षतेति । केशवाङ्घ्रि-स्पर्शोत्सव- [भा।पु। १०.३०.१०] इत्य्-आद्य्-उक्तौ पूर्वं केवलं सम्भावनयैव, अधुना तु साक्षाद् एवापश्यन्न् इत्य् अर्थः । साक्षाद् दृष्ट-पक्षे च पूर्वं साक्षाद् दृष्टान्य् अपि विरह-विह्वलतया अनुसन्धानाभावाद् अदृष्टानीव स्युः । अत एव नानुसृतानि । अधुना च तन्मयत्वेनानुकरणात् किञ्चित् तद्-उपशान्त्या बुद्ध्य्-उपायेनानुसन्धान-पूर्वकम् अपश्यन्न् इत्य् अर्थः । अत एव वि-शब्दः परमात्मनः परम-प्रियतमस्येति रात्राव् अपि तल्-लक्षणैस् तद्-दर्शने हेतुः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, प्रदोषे गते शारद-पूर्ण-चन्द्रस्य चन्द्रिकासु विस्तृतासु दूराद् अपि स्पष्टतया तद्-दर्शनम् । यद् वा, एवम् इत्य्-आदिकम् अनुवाद-मात्रं, प्रश्न-मध्य एव पद-दर्शन-विवक्षया ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तत्-तल्-लीलानां पुनः पुनर् गानानुकरणयोः प्रकारेण तत्-प्रकार-विशिष्टं प्रश्नं कुर्वाणा इत्य् अर्थः । परमात्मनः सर्वेषाम् अपि मूल-स्वरूपस्य पदानि वनोद्देशे व्यचक्षत इत्य् आश्चर्ये यस्य मुनयो वेदेऽपि यथा कथञ्चिद् एव सूचकतया शब्द-रूपाण्य् एव पदानि तर्कयन्ति मात्रं, तस्यैव ताः स्व-विहार-वनोद्देशे साक्षाच्-चरण-चिह्न-रूपाण्य् एव पदानि व्यचक्षत इति । अहो एतन्-मात्रांशेऽपि वयं सर्वेऽपि मुनयो न तासां साम्यं प्राप्नुमः, किम् पुनस् तादृश-प्रेम-विशेषासादित-नित्य-तदीयत्वाद्य्-अंश इति भावः। अन्तर्हिते [भा।पु। १०.३०.१] इत्य्-आदि-प्रकरणे तेषां व्याख्यायां प्रथमं ताप-मात्रं, द्वितीयं गान-सहितान्वेषणं, तृतीयं पूतना-वधाद्य्-अनुकरणं, चतुर्थं पुनर् अप्य् अन्वेषणं, पञ्चमं पद-दर्शनम् इति क्रमः । स्व-व्याख्यायां प्रथमं ताप-मात्रं, द्वितीयं बाहु-प्रसार- [भा।पु। १०.२९.४६] इत्य्-आद्य्-अनुकरणं, तृतीयं गान-सहितान्वेषणं, तत्रैव मध्ये मध्ये पूतना-वधाद्य्-अनुकरणे, चतुर्थं पद-दर्शनम् इति विवेचनीयम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परमात्मनः सर्वेषां मूल-स्वरूपस्य, पदानि वनोद्देशे व्यचक्षत इत्य् आश्चर्यम् इत्य् अर्थः । अन्तर्हिते [भा।पु। १०.३०.१] इत्य्-आदि प्रकरणे तेषां [श्रीधर-स्वामिनां] व्याख्यायां प्रथमं ताप-मात्रं, द्वितीयं गान-सहितान्वेषणम्, तृतीयं पूतना-वधाद्य्-अनुकरणं, चतुर्थं पुनर् अप्य् अन्वेषणं, पञ्चमं पद-दर्शनम् इति क्रमः । स्व-व्याख्यायां प्रथमं तापः, द्वितीयं बाहु-प्रसार- [भा।पु। १०.२९.४६] इत्य्-आद्य्-अनुकरणं, तृतीयं गान-सहितान्वेषणम्, तत्रैव मध्ये मध्ये पूतनाद्य्-अनुकरणम्, चतुर्थं पद-दर्शनम् इति विवेचनीयम् ॥२४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् इति । एवं पूर्वोक्त-प्रकारेण लीलानाम् अभ्यासेन कदाचित् वृक्षान् प्रति प्रश्नः, कदाचिल् लताः प्रति, कदाचित् पूर्व-कृत-लीलाम् अनुकरणं, कदाचित् विस्मृतानां, पुनर् अपि वृन्दावन-लतास् तरून् पृच्छमाना विरह-कातर्येणानुसन्धानाभावात् । पुनः पुनः पृच्छन्त्यो वनोद्देशे विहार-योग्ये प्रदेशे परमात्मनः परम-प्रेष्ठस्य पदानि चरण-चिह्नानि व्यचक्षत अपश्यन् । लीलानुकरणस्य फलम् एतद् एवेति । व्यचक्षत परीक्षण-पूर्वकं सम्यक्तया दृष्ट्वा तर्कितवत्यः ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अनेन प्रकारेण । कृष्णं पृच्छमाना इत्य् अयम् अत्र प्रकार-वैप्रलम्भिकस्योन्मादस्य प्रौढिमनि आत्म-विम्सृतौ सत्यां स्व-प्रेष्ठ-तादात्म्यम् एव स्यात् । यद् उक्तं—प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः असाव् अहं त्व् इति [भा।पु। १०.३०.३], कृष्णोऽहं पश्यत गतिं [भा।पु। १०.३०.१९] इत्य्-आदि अस्यैव मध्यत्वे यत् किञ्चिद् आत्मानुसन्धानवत्त्वे सत्य् अनुकरणम् । यद् उक्तं प्रह्लाद-चरिते—क्वचित् तद्-भावना-युक्तस् तन्-मयोऽनुचकार ह [भा।पु। ७.४.४०] इति । अत्राप्य् उक्तं— कृष्णायन्त्य् अपिबत् स्तनम् [भा।पु। १०.३०.१५] इत्य्-आदि । तस्यैव मान्द्ये आत्मानुसन्धानस्य प्रायिकत्वे अचेतनेष्व् अपि तरु-गुल्मादिषु प्रश्नः ॥२४॥
॥ १०.३०.२५ ॥
पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः ।
लक्ष्यन्ते हि ध्वजाम्भोज-वज्राङ्कुश-यवादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यक्तं स्फुटम् । परमात्मनः श्री-कृष्णस्य वा एतानीति कथं ज्ञातम् ? तत्राह—ध्वजे तावत्-पर्यन्तं श्री-कृष्णेनैवाङ्के निधाय तस्या नयनात् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् चान्योन्यम् आहुः—पदानि इति । पद-चिह्नानि व्यक्तं निश्चितम् । एतानि नन्द-सूनोर् एव भवन्ति, नान्यस्य हि, यतो ध्वजादिभिर् विलक्ष्यन्ते । तत्रैव हेतुम् आहुः—महात्मनः महा-पुरुषत्वाद् इत्य् अर्थः । आदि-शब्दाच् चक्र-शङ्खादयः । अत्र विशेषः श्री-विष्णु-पुराणे—
विलोक्यैका भुवं प्राह गोपी गोप-वराङ्गना । > पुलकाञ्चित-सर्वाङ्गी विकासि-नयनोत्पला ॥ > ध्वज-वज्राङ्कुशाब्जाङ्क-रेखावन्त्य् आलि पश्यत । > पदान्य् एतानि कृष्णस्य लीलालङ्कृत-गामिनः ॥ [वि।पु। ५.१३.३१-३२] > इति ।
ध्वजादीनां धारण-प्रयोजनम् उक्तं स्कान्दे—
दक्षिणस्य पदोऽङ्गुष्ठ-मूले चक्रं बिभर्त्य् अजः । > तत्र नम्र-जनस्योग्र-संसार-च्छेदनाय सः ॥ > मध्यमाङ्गुली-मूले तु धत्ते कमलम् अच्युतः । > ध्यातृ-चित्त-द्विरेफाणाम् लोभनायातिशोभनम् ॥ > पद्मस्याधो ध्वजं धत्ते सर्वानर्थ-जय-ध्वजम् । > कनिष्ठा-मूलतो वज्रं भक्त-पापाद्रि-भेदनम् ॥ > वार्ष्णि-मध्येऽङ्कुशं भक्त-चित्तेभ-वश-कारिणम् । > भोग-सम्पन्-मयं धत्ते यवम् अङ्गुष्ठ-पर्वणि ॥ > तथा वाम-पदाङ्गुष्ठ-मूलतस् तन्-मुखं दरम् । > सर्व-विद्या-प्रकाशाय दधाति भगवान् असौ । > पद्मादीन्य् अपि चिह्नानि तत्र दक्षिण-पादवत् ॥ इति ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चान्योन्यम् आहुः—पदानि इति । पद-चिह्नानि व्यक्तं स्फुटम् एव तानि नन्द-सूनोः पदानि लक्ष्यन्ते । कैः ? ध्वजादिभिः हि प्रसिद्धो ध्वजादीनि तत्र प्रसिद्धान्य् एवेत्य् अर्थः । ध्वजादि-योगे हेतुः—महात्मनः परम-पुरुषोत्तमस्येत्य् अर्थः । आदि-शब्दाद् अन्यान्य् अपि । तत्र पाद्मे ब्रह्म-नारद-संवादे श्री-कृष्णम् अधिकृत्य—
षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे । > दक्षिणे चाष्ट चिह्नानि इतरे सप्त एव च ॥ > ध्वजा पद्मं तथा वज्रम् अङ्कुशो यव एव च । > स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणं तथैव च ॥ > सप्तान्य् अन्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम । > इन्द्र-चापं त्रिकोणं च कलशं चार्ध-चन्द्रकम् ॥ > अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् । > षोडशं च तथा चिह्नं शृणु देवर्षि-सत्तम । > जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥ इति ।
क्रम-दीपिकायां—मत्स्याङ्कुशार-दर-केतु-यवाब्ज-वज्र- [क्र।दी। ३.१४] इति । श्री-गोपाल-तापिन्यां—शङ्ख16-ध्वजातपत्रैस् तु चिह्नितं चरण-द्वयम् [गो।ता।उ। २.५९] इति । आदि-वाराहे मथुरा-मण्डल-माहात्म्ये—
यत्र कृष्णेन सङ्कीर्णं क्रीडितं च यथा-सुखम् । > चक्राङ्कित-पदा तेन स्थाने ब्रह्म-मये गुणे ॥ इति ।
एवं चक्र-शङ्खातपत्रैर् अधिकैर् ऊनविंशतिश् चिह्नानि । स्कान्दे तु यच् चक्रादि-षट्क-मात्रम् उक्तं, तत् तु श्री-विष्ण्व्-आदाव् एव । यत उक्ते षोडश-चिह्न-प्रसङ्ग एव पाद्मे—
अङ्कान्य् एतानि भो विद्वन् दृश्यन्ते तु यदा कदा । > कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ॥ > द्वयं वाथ त्रयं वाथ चत्वारि पञ्च चैव च । > दृश्यन्ते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥ इति ।
तेषां नियमो यथा तत्र वा—
मध्ये ध्वजा तु विज्ञेया पद्मं त्र्य्-अङ्गुल-मानतः । > वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्-अग्रतः ॥ > यवोऽप्य् अङ्गुष्ठ-मूले स्यात् स्वस्तिकं यत्र कुत्रचित् । > आदि चरणम् आरभ्य यावद् वै मध्यमा स्थिता ॥ > तावद् वै चोर्ध्व-रेखा च कथिता पाद्म-संज्ञके । > अष्ट-कोणं तु भो वत्स मानं चाष्टाङ्गुलैश् च तत् ॥ > निर्दिष्टं दक्षिणे पादे इत्य् आहुर् मुनयः किल । > दक्षिणेतर-स्थानानि संवदामीह साम्प्रतम् ॥ > चतुरङ्गुल-मानेन त्व् अङ्गुलीनां समीपतः । > इन्द्र-चापं ततो विद्याद् अन्यत्र न भवेत् क्वचित् ॥ > त्रिकोणं मध्य-निर्दिष्टं कलशो यत्र कुत्रचित् । > अष्टाङ्गुल-प्रमाणेन तद् भवेद् अर्ध-चन्द्रकम् ॥ > बिन्दुर् वै मत्स्य-चिह्नं च आद्य्-अन्ते वै निरूपितम् । > गोष्पदं द्विखुरं ज्ञेयम् आद्य्-आद्य्-अङ्गुलि-मानतः ॥
इत्य् एतल्-लक्षणं तत्रैव पद्माकारा ध्वजा प्रोक्ता प्रान्ते त्रैकोणिकानघ ॥ इत्य्-आदि । व्याख्यायते त्र्य्-अङ्गुल-मानतः । मध्यमाङ्गुल्य्-अग्रात् तावन् मानं परित्यज्येत्य् अर्थः, वक्ष्यमाण-युक्तेः । पद्मस्याधो ध्वजं धत्ते इति स्कान्द-संवादाच् च । यत्र कुत्रचिद् इति यथा-शोभं बहुत्रेत्य् अर्थः । आदिं चरणम् अङ्गुष्ठ-तर्जन्योर् अन्तरालं यावन्-मध्यं मध्य-देशं तावद् व्याप्य स्थिता । तत् तस्याष्ट-कोणस्य मानम् अष्टाङ्गुलैर् ज्ञेयम्। अग्रतोऽष्टाङ्गुलीः परित्यज्येत्य् अर्थः । स्वरूप-माने स्थानासमावेशः स च चरणस्य दैर्घ्यं चतुर्दशाङ्गुल-प्रमाणत्वं विस्तरो षड्-अङ्गुलि-प्रमाणत्वम् इति हयशीर्ष-मत्स्यादि-प्रसिद्धत्वात् । एतद्-अनुसारेण त्र्य्-अङ्गुल-मानत इत्य् अपि व्याख्यातम् ।
व्याख्यास्यते चान्यत्र इन्द्र-चापत्वं निर्गुणत्वात्, तादृश-वर्ण-मयत्वाच् च । चतुरङ्गुल-मानेनेति तावन्-मान-परित्यागत उक्तं, मध्यमाङ्गुल्य्-अधः स्थितत्वात् । तथा दैर्घ्यतोऽपि ज्ञेये शोभापयोगात् मध्य-निर्दिष्टं चरण-मध्ये स्थितम् अष्टाङ्गुल-प्रमाणेन त्रिकोणस्याध इत्य् अर्थः । तत्-कोटि-द्वयस्य किञ्चित् त्रिकोण-ग्रासित्वात् । बिन्दुर् अम्बर-पर्यायः । अयं च बाह्याभ्यन्तर-मण्डल-द्वयात्मकः, द्विरेखासु समन्वितम् इति तत्रैव तल्-लक्षणोक्तेः । सर्व-चिह्नानाम् उपरि बिन्दुः, मत्स्यः सर्व-चिह्नानाम् अधः द्विखुरं द्विशफम् आद्याद् बिन्दोर् द्व्य्-अङ्गुल-मानत इति । इन्द्रचापादय इत्य् अर्थः । पद्माकारावर्त-तुल्या प्रान्ते त्रैकोणिकं पताका-स्थानीयं यस्यां, सा । सप्तम्या अलुक् । एतच् च त्रैकोणिकं दक्षिणत एव ज्ञेयं, वामत ऊर्ध्व-रेखोपहतेः । षोडशं चिह्नं पाद-द्वय एव ज्ञेयम् अनियमेनोक्तत्वात् । जम्बू-फल-समतया निर्देशेण तद्-वर्ण-तद्-आकार-मयम् एव तच् चिह्नं, न तु रेखाकारं चक्र-शङ्खौ तु—
विलोक्यैका भुवं प्राह गोपी गोप-वराङ्गना । > पुलकाञ्चित-सर्वाङ्गी विकासि-नयनोत्पला ॥ > ध्वज-वज्राङ्कुशाब्जाङ्क-रेखावन्त्य् आलि पश्यत । > पदान्य् एतानि कृष्णस्य लीलालङ्कृत-गामिनः ॥ [वि।पु। ५.१३.३१-३२] > इति ॥२५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३१०) : पदाङ्कः—पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः इत्य्-आदि ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पूर्वम् अन्योन्यं निर्णेतुं कथयति—पदानि इति । नन्द-सूनोर् एतानि पदानि नान्यस्येति । व्यक्तं निश्चितम् । तत्र लिङ्गम् आहुः—ध्वजाम्भोज-वज्राङ्कुश-यवादिभिर् उपलक्षितानि । आदि-शब्दाद् अन्यान्य् अपि षोदाश-चिह्नानि सन्ति । यद् उक्तं नारदं प्रति ब्रह्मणो वाक्यम्—
यैर् एवं ज्ञायते देवो भगवान् भक्त-वत्सलः । > तान्य् अहं वेद नान्योक्तिं सत्यम् एतन् मयोदितम् ॥ > षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे । > दक्षिणे चाष्ट चिह्नानि इतरे सप्त एव च ॥ > ध्वजा पद्मं तथा वज्रम् अङ्कुशो यव एव च । > स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणं तथैव च ॥ > सप्तान्य् अन्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम । > इन्द्र-चापं त्रिकोणं च कलशं चार्ध-चन्द्रकम् ॥ > अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् । > अङ्कान्य् एतानि भो विद्वन् दृश्यं ते तु यदा कदा ॥ > षोडशं च तथा चिह्नं शृणु देवर्षि-सत्तम । > जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥ > कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः । > तच् चिह्नं षोडशं प्रोक्तम् इत्य् आहुर् मुनयोऽनघाः ॥ इति । > द्वयं चाथ त्रयं चाथ चत्वारि पञ्च चैव हि । > दृश्यन्ते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥ इति ।
तथोक्तं धारण-हेतुत्वं स्कान्दे—
दक्षिणस्य पदाङ्गुष्ठ-मूले चक्रं बिभर्त्य् अजः । > तत्र नम्र-जनस्यारि-षड्-वर्ग-च्छेदनाय सः ॥ > मध्यमाङ्गुलि-मूले तु धत्ते कमलम् अच्युतः । > ध्यातुश् चित्त-द्विरेफाणां लोभनायातिशोभनम् ॥ > पद्मस्याधो ध्वजं धत्ते सर्वान् अर्थ-जय-ध्वजम् । > कनिष्ठा-मूलतो वज्रं भक्त-पापाद्रि-भेदनम् ॥ > पार्ष्णि-मध्येऽङ्कुशं भक्त-चित्ते भव-शकारिणम् । > भोग-सम्पन्-मयं धत्ते यवम् अङ्गुष्ठ-पर्वणी ॥ > तथा वाम-पदाङ्गुष्ठ-मूलतस् तन्-मुखं वरम् । > सर्व-विद्या-प्रकाशाय दधाति भगवान् असौ ॥
पदान्य् अपि चिह्नानि तत्र दक्षिण-पादवत् अन्योन्याप्य् एवम् ऊह्यानि ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं त्रिविधम् उन्मादं निर्वर्ण्य तद्-अनन्तरैवाकस्मात् कृष्णस्य पद-चिह्नान्य् आलक्ष्य सानन्द-वितर्कम् आहुः—पदानि इति । ध्वजादीनां धारण-स्थानं प्रयोजनं चोक्तं स्कान्दे—
दक्षिणस्य पदोऽङ्गुष्ठ-मूले चक्रं बिभर्त्य् अजः । > तत्र नम्र-जनस्यारि-षड्-वर्ग-च्छेदनाय सः ॥ > मध्यमाङ्गुलि-मूले तु धत्ते कमलम् अच्युतः । > ध्यातृ-चित्त-द्विरेफाणां लोभनायातिशोभनः ॥ > पद्मस्याधो ध्वजं धत्ते सर्वानर्थ-जय-ध्वजम् । > कनिष्ठा-मूलतो वज्रं भक्त-पापाद्रि-भेदनम् ॥ > पार्ष्णि-मध्येऽङ्कुशं भक्ति-चित्तेभ-वश-कारणम् । > भोग-सम्पन्-मयं धत्ते यवम् अङ्गुष्ठ-पर्वणि । > वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्-अग्रतः ॥ इति ।
तत्रैव स्कान्दे कृष्णम् अधिकृत्योक्तत्वात् कनिष्ठा-मूलेऽङ्कुशस् तत्-तले वज्रम् इत्य् आहुः साम्प्रदायिकाः । पार्ष्णाव् अङ्कुशस् तु नारायणादेर् ज्ञेयः । तद् एव चक्र-ध्वज-कलस-वज्राङ्कुश-यवा इति षट्-चिह्नानि कृष्णस्य दक्षिण-चरणेऽन्यान्य् अपि चिह्नानि वैष्णव-तोषणीं दृष्ट्वा लिख्यन्ते—अङ्गुष्ठ-तर्जनी-सन्धिम् आरभ्य यावद्-अर्ध-चरणम् ऊर्ध्व-रेखा । चक्रस्य तले छत्रम् । अर्ध-चरण-तले चतुर्दिग्-अवस्थितं स्वस्तिक-चतुष्टयम् । स्वस्तिक-चतुः-सन्धिषु जम्बू-फल-चतुष्टयम् । स्वसिक-मध्ये\ऽष्ट-कोणम् इत्य् एकादश-चिह्नानि
तथा वाम-पदाङ्गुष्ठ-मूलतस् तन्-मुखं दरं सर्व-विद्या-प्रकाशाय दधाति भगवान् असौ इति । मध्यमा-मूले\ऽम्बरम् अन्तर्-बाह्य-मण्डल-द्वयात्मकम् । तद्-अधः कार्मुकं विगतज्यम् । तद्-अधो गोष्पदम् । तत्-तले त्रिकोणम् । तद्-अभितः कलसानां चतुष्टयं क्वचित् त्रितयं च दृष्टम् । त्रिकोण-तले\ऽर्ध-चन्द्रो\ऽग्र-द्वय-स्पृष्ट-त्रिकोण-कोण-द्वयः । तद्-अधो मत्स्यः । इत्य् अष्टौ मिलित्वा ऊनविंशतिः ॥२५॥
॥ १०.३०.२६ ॥
तैस् तैः पदैस् तत्-पदवीम् अन्विच्छन्त्योऽग्रतोऽबलाः ।
वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपृक्तानि संमिश्राणि ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वासां वाक्यम्—तैस् तैः इति । ध्वजाद्य्-उपेतैर् इत्य् अर्थः । तस्य कृष्णस्य । पदवीं मार्गम् । अन्विच्छन्त्योऽन्वेषयन्त्यः । वध्वा नार्याः । पदैः चरण-निक्षेपैः । ईर्ष्यया आर्ताः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तैस् तैः ध्वजादि-लक्षितैः । वीप्सा बाहुल्यस्य कैवल्यस्य वा विवक्षया। अबला विरहान्वेषाणाभ्यां बल-हीना अपि तस्य कृष्णस्य पदवीं वर्त्म अग्रतोऽन्विच्छन्त्यो मृगयमाणाः । अग्रतो विलोक्येति वा । वध्वाः कस्याश्चिद् गोप्याः । यद् वा, स्वभावतः एव लज्जा-शीलत्वात् स्नुषावत् सर्वतः सङ्कोचितत्वेन । किं वा, श्री-यशोदाया मनोरथ-विशेषेण वधूर् इति । कदाचित् तन् मुखोद्गत्या गोकुले वधूत्वेन प्रसिद्धायाः श्री-राधाया एव तन्-नामाग्रहण-कारणं लिखितम् एव । वधू-पद-लक्षणम् उक्तं श्री-विष्णु-पुराणे—
कापि तेन समं याता कृत-पुण्या मदालसा । > पदानि तस्याश् चैतानि धन्यान्य् अल्प-तनूनि च ॥ [वि।पु। ५.१३.३२] > इति ।
सुष्ठु पृक्तानि मिलितानि पदानि, अंस-न्यस्त-प्रकोष्ठत्वात् । एवम् आत्मारामत्वादिना तासां मानतोऽसूयया वान्तर्हित इति निरस्तम् । तासाम् एकस्या नयनात् । तच् च तत्रैव ताभिः सह स्थितया तया केनापि सङ्केतेन ततो निःसारितया तद्-अर्थं दूरे प्रादुर्भूतस्याग्रे कियत्-पद-प्रयाणान्तरं मिलनाद् इत्य् ऊह्यम् । आर्ताः स्व-परित्यागेन तद्-एक-परिग्रहात् । यद् वा, विरहेण आर्ता अपि सम्यग् विचारादि-पूर्वकम् अब्रुवन्, अन्योन्यम् ऊचुः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तैस् तैः ध्वजादि-शोभितैः । वीप्सा मध्ये मध्ये दूर्वामय्य्-आदि-भूमौ विच्छिन्नत्वात् स्थान-बाहुल्यस्य विवक्षया । अग्रत इति तावत् पर्यन्तं कृष्णेनैवाङ्के निधाय तस्यानयनात् । अबला विरहान्वेषाणाभ्यां बल-हीना अपि तस्य कृष्णस्य पदवीं वर्त्म अन्विच्छन्त्यः मृगयमाणाः । वध्वा श्री-राधायास् तस्या एव परम-सौभाग्यवतीत्वेन स्थापयिष्यमाणत्वात् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् असाधारणैश् चिह्नैः श्री-कृष्णस्यैतानि पदानीति निश्चित्य तन्-मार्गेणान्यतो गता इत्य् आह—तैस् तैः इति । ध्वजादीनां क्षितौ पुनः पुनर् यद् दर्शने पदैश् चरण-चिह्नैर् अन्विच्छन्त्यो मृगयमाणाः, कृष्णेनोपेक्षिता अबला अन्तर्-ध्यानेन गर्वस्यापहृतत्वात् । अग्रतः कस्मिंश्चित् प्रदेशे कस्याश्चिद् वध्वा व्रज-देव्याः पदैः सम-देश-स्थितैः सुपृक्तानि विलोक्यार्ताः परस्परं समब्रुवन् कथितवत्यः ।
यद्यपि मुनीन्द्रेण तन्-नाम ज्ञायते, तथापि सभायां श्री-कृष्ण-प्रियाणां नामोक्तिर् असाम्प्रतम् इति नोक्तं, पूर्वं विरह-विह्वलितत्वात् । आर्ति-संवलिता एव मृग्यमाणास् ततोऽप्य् आर्ति-भरोदय-हेतुर् वधू-पद-संयुक्त-पद-दर्शनम् अभूद् इति । अत एव तासाम् अग्रतोऽन्वेषणं प्रतिबन्धोऽपीर्ष्या-वशाद् एव जात इत्य् अर्थः । स्व-परित्याग-पूर्वक-तत्-परिग्रहाद् एवेर्ष्योदय इति ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुपृक्तानि मिश्रिताणि ॥२६॥
॥ १०.३०.२७ ॥
कस्याः पदानि चैतानि याताया नन्द-सूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेन अंसे न्यस्तः प्रकोष्ठो यस्याः । करेणोर् हस्तिन्याः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कस्याः सुभाग्यायाः । प्रकोष्ठः कर-तल-मूल-भागः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं ? तद् आह—कस्या इत्य्-आदिना ध्रुवम् इत्य् अन्तेन । नन्द-सूनुना सह याताया एतानि कस्याः पदानि ? परिचीयन्ताम् इति शेषः । श्री-भगवता स्वांसे तत्-प्रकोष्ठस्य न्यसनं च रस-विशेषेण । किं वा, रात्रौ स्खलन्त्यास् तस्याः सुख-गमनार्थं बलाद् दूरे नयनार्थं वा । अनेन तस्याम् अधिक-प्रीतिः सूचिता । ताम् एव दृष्टान्तेनाहुः—करेणोर् इति । तयोर् अपि काम-मदेन प्रीत्या तथैव गमनात् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र सर्वा एवाहुः—कस्या इति । अत्र स्त्रीत्व-ज्ञानं तत्-पादानां लघुत्वात्, निम्नत्व-तद्-उचिताङ्ग-लक्षितत्वादिना च इति ज्ञेयम् । नन्द-सूनुना इति पूर्ववद् एतानि कस्याः पदानि परिचीयन्ताम् इति शेषः । श्री-भगवता स्वांसे तत्-प्रकोष्ठ-न्यसनं च यद्यपि रस-विशेषेणैव, तथापि रात्रौ स्खलन्त्यास् तस्याः सुख-गमनार्थं बलाद् दूरे नयनार्थं च भवति । अनेन तस्याम् अधिक-प्रीतिः सूचिता । ताम् एव दृष्टान्तेनाहुः—करेणोर् इति । तयोर् अपि काम-मदेन प्रीत्या तथैव गमनात् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कस्याः पदानि इत्य्-आदि ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (प्रीति-सन्दर्भः ४२९) : अथ सर्व-सौभाग्यवतीम् ऊर्ध्व-मणेः श्री-राधिकायाः सम्बन्धिनीं लीलां वर्णयन्ति—कस्या इति अष्टभिः श्लोकैः । अत्र कस्या (२७) इति सर्वासां वाक्यम् । अनया (२८) इति सुहृदाम् । धन्या (२९) इति तटस्थानाम् । तस्या (३०) इति प्रतिपक्षाणाम् । न लक्ष्यन्ते (३१) इति ताः खेदयन्तीनां सखीनाम् । इमानि (३२) इति तद्-असहमानानां प्रतिपक्षाणाम् । अत्रावरोपिता (३३) इति सार्धं पुनः सखीनाम् । केश- (३४) इति पुनः प्रतिपक्षाणाम् अर्धम् । तानि (३४) इति पुनः सखीनाम् इति ज्ञेयम् । तन्-मिथुन-विषयक-तत्-तच्-छब्द-प्रयोगेण सौहृदादि-व्यञ्जनात् । या तु विलोक्यार्ताः समब्रुवन् [भा।पु। १०.३०.२६] इति सर्वासाम् एवार्तिर् उक्ता सापि स्वस्योत्कण्ठा-विशेषेण सर्वत्र सङ्गच्छत एव ॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एतावत्-पर्यन्तं स्व-स्व-मत्य्-अनुसारेणान्योन्य-सम्मतिम् अन्तरेण अचेतनेषु प्रश्नं लीलानुकरणं च कुर्वाणा मृग्यमाणा आसन् । इदानीं वधू-पद-दर्शनेन बहूनां सञ्चारि-भावानाम् उदयात् आर्ति-भराक्रान्ता निर्णेतुम् इच्छन्त्योऽन्योन्यं पृच्छन्ति—कस्या इति । एतानि पदानि कस्याः पत्न्याः श्री-कृष्णस्य स्नेहातिशये।
ननु भवतीभिः कथं लक्षितः ? तत्राहुः—नन्द-सूनुना इति पर-दुःखानाभिज्ञत्वं सूचितम् । अस्मत्-सङ्ग-परित्यजनेन सहायतया प्रभु-सम्माननेनास्मत्-सङ्कोचोऽपि तया न कृत इति भावः । अंस-न्यस्त-प्रकोष्ठायाः तेनैव स्वांसे न्यस्तः प्रकोष्ठ्[ओ चल]{।मर्क्}-स्थानं यस्याः । तत्रोत्प्रेक्षन्ते—दूर-देश-परिभ्रमणेन श्री-कृष्णाङ्ग-संस्पर्श-जनित-सात्त्विक-भावोदयेन चाङ्ग-शैथिल्ये जाते श्री-कृष्णेनैव स्वांस-प्रकोष्ठं न्यसनं कृतं, तत्-पदानाम् असमग्रत्वाद् असम्यग्-धारणाच् चेति भावः ॥
यद् वा, तस्या एव एतानि पदानि, तस्या एव अंसे न्यस्तः श्री-कृष्णेन स्थापितः प्रकोष्ठो मणि-बन्ध-स्थानं यस्यां, तस्याः स्पर्शेन सात्त्विक-भावोदयात् संवलत्-पद-पङ्क्त्या लिङ्गेन तस्यां प्रेमातिशयो जात इति भावः । यदि भावैकतानता नाभविष्यत्, तदा सात्त्विक-भावेन स्तम्भन-प्रतिबद्धो नाभविष्यद् इति । क्रिया-निष्पत्त्या ज्ञायते संवलत्-पाद-गतितयैव नीत इति । न चास्मद्-यूथाद् विच्युता काचिद् इदानीम् एव सङ्गतेति वाच्यं, यतो\ऽसौ विलासम् अन्तरेणापि अन्तर्धान-सामर्थ्यं जातम् इति चित्रम् ।
तत्रानुरूपं दृष्टान्तम् आहुः—स्पर्श-सुखं गज एव जानाति, अतस् तं दृष्टान्तीकुर्वन्ति—करेणोः हस्तिन्याः स्कन्धे करिणा हस्तिना हस्तो यथा न्यस्यते, तद्वत् । करेणोर् अङ्ग-सङ्गेन करिणा यथा सुखं प्राप्यते, तद्वद् इति वा । अतो\ऽस्मद्-यूथ-मध्यस्थैव तेन सहैव काचिद् गता, तस्या एव पदानि बहुशो दृष्ट-चराणि परिचीयताम् इत्य् अर्थः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अंश-न्यस्त- इति । यस्याः स्कन्धे नन्द-सूनुना वाम-प्रकोष्ठो न्यस्त इत्य् अर्थः ॥२७॥
॥ १०.३०.२८ ॥
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रह एकान्त-स्थानम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पद-चिह्नैस् तां श्री-वृषभानु-नन्दिनीं ज्ञात्वा तस्याः सुहृदां वाक्यम् । यद् वा, तं वासुदेवं नयति चोरयतीत्य् अत्र । ओणादिको डः । तया अस्माकं सर्वस्वं हरन्त्या यत् यतः हरिर् अपि सर्व-हरणोऽपि, ईश्वरोऽपि राधितो वशीकृतः । गोविन्द इति भक्त-वात्सल्यम् आह । भक्त्य्-ऋणापकरणाय गोचारणम् अप्य् अङ्गीकृतवान् यः, तस्यान्यद् अपि नाकार्यं किञ्चिद् इति भावः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कस्याः पदानि चैतानीति सन्देहानन्तरं निश्चिन्वन्ति—अनया इति । अनया सह नीतया भगवान् श्री-कृष्णो राधितः । राधाम् आख्यातवान् राधाम् आचष्टे राधयतीति राधि-धातोः क्ते सिद्धम् । सर्वाभ्यो ह्य् अस्याम् एव गरीयसी प्रीतिर् इति राधैवेयं तत्-सङ्गे ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चाच् च श्री-राधा-देव्यास् तानि पदानि परिचित्याश्वस्तास् तन्-नाम-निरुक्ति-द्वारा तस्या भाग्यं सहर्षम् आहुः—अनयेति । नूनं वितर्के निश्चये वा । हरिः सर्व-दुःख-हर्ता । भगवान् श्री-नारायणः । ईश्वरो भक्तेष्ट-प्रदान-समर्थः, स्वतन्त्रो\ऽपि वा । अनयैवाराधितः आराध्य वशीकृतः, न त्व् अस्माभिः । अन्यथा अस्माकम् एतद्-विरहार्त्य्-आद्य्-असम्भवः । राधयति आराधयतीति श्री-राधेति नाम-करणं च दर्शितम् । यद् यस्माद् गोविन्दो गोकुलेन्द्रत्वेन तस्या अस्माकं च तुल्यो\ऽप्य् असौ नो\ऽस्मान् विशेषेण हित्वा दूरतो निशि वनान्तस् त्यक्त्वा । तत्रापि रहः अस्मद्-अगम्ये एकान्त-स्थाने याम् अनयत् ।
यद् वा, गोविन्द एवासाव् अनया आराधितः । तस्याः परम-भाग्य-बोधनार्थं गोविन्दम् एव विशिनष्टि—भगवान् निजाशेषैश्वर्य-प्रकटन-परः । अतो हरिः सर्वार्ति-हर्ता । किं वा, रूप-गुणादिना सर्व-मनोहरः । ईश्वरो व्रज-जन-प्राण-नाथः । अतस् तद्-अनुभवस् तयैव कृत इति भावः । अन्यत् समानम् ।
यच्-छब्द-द्वयं हेतोस् तस्यैव दाऋढ्यार्थम् । किं वा, यत् प्रीतः । तस्माद् याम् अनयद् इति वाक्य-द्वय-कल्पनया योज्यम् । एवम् अग्रे\ऽप्य् ऊह्यम् । यद् वा, यद् रहो गच्छन् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र सखीनाम् अन्तरङ्गत्वेन गाम्भीर्यात् प्रतिपक्षाणाम् आपाततो दुःख-व्याप्तत्वात् तटस्थानां च तद्-अनभिनिवेशात् प्रथमं तस्याः सुहृद एवाहुः—अनया इति । नूनं वितर्के निश्चये वा । हरिः सर्व-दुःख-हर्ता । भगवान् श्री-नारायणः । ईश्वरः भक्तेष्ट-प्रदान-समर्थः स्वतन्त्रो\ऽपि वा । अनयैव आराधितः आराध्य वशीकृतः, न त्व् अस्माभिः । राधयति आराधयतीति राधेति नाम-कारणं च दर्शितम् । तत्र हेतुर्—गोविन्दः नो\ऽस्मान् विशेषेण हित्वा दूरतो निशि वनान्तस् त्यक्त्वा । तत्रापि रहः अस्मद्-अगम्ये एकान्त-स्थाने याम् अनयत् । यद् वा, सर्वा अप्य् अस्मान् विहाय यन् गच्छन्न् अपि याम् एव रहो\ऽनयद् इत्य् अर्थः ॥२८॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १०९) : अथ तत्रैव श्री-राधा-देव्याः, आदि-पुराणे—
त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुनः । > तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ इति ।
पाद्मे कार्त्तिक-माहात्म्ये—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । > सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।
अत एव तस्या एव प्रमाधिक्यं वर्णितम् आग्नेये वासना-भाष्योद्धृतं वचनम्—
गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् । > हरि-लीला-विहारांश् च तत्रैकां राधिकां विना । > राधा तद्-भाव-संलीना वासनाया विरामिता ॥ इति ।
नवमावस्था-प्राप्तत्वेन प्रश्नादि-वासनाया विरामिता, तस्याम् असमर्थेत्य् अर्थः । तस्माद् अनेन सर्व-व्रज-देवीष्व् अपि श्रैष्ठ्यादि-चिह्नेन श्री-रास-विहारे ताभिर् एव स्वयं कस्याः पदानि [भा।पु। १०.३०.२७] इत्य्-आदिना वर्णित-सौभाग्यातिशया श्री-राधिकैव भवेत् । अतस् तन्-नाम्नैव ताः सूचयामासुः—अनयाराधित इति ।
अनया राधया भगवान् राधितः साधितो वशीकृत इत्य् अर्थः । नूनम् इति वितर्के । यतश् च राधयतीति निरुक्त्या तस्या राधेति संज्ञापि जातेति भावः । राधितत्वे हेतुः—यन् न इति । गोविन्दः श्री-गोकुलेन्द्रः ॥२८॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २८५) : अथ ता लीलावस्था-भेदेनैकैका अभिसारिका, वासक-सज्जा, उत्कण्ठिता, खण्डिता, विप्रलब्धा, कलहान्तरिता, प्रोषित-भर्तृका, स्वाधीन-भर्तृका इत्य् अष्टौ नामानि भजन्ति । तथा परस्परं भावानां सादृश्य-किञ्चित्-सादृश्यास्फुट-सादृश्यानि । विरोधित्वं चैतद् भेद-चतुष्टयात् पुनश् चत्वारि सखी, सुहृत्, तटस्था, प्रातिपक्षिकी चेति । भाव-भेदाश् च स्थायि-निरूपणे ज्ञेयाः ।
तत्र सखी, यथा अप्य् एण-पत्नी [भा।पु। १०.३०.११] इत्य्-आदि द्वये पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिम् इति स्वीय-तद्-दिदृक्षा-द्योतनात् । सखीति तद्-दर्शन-सुखोपभोग-सौभाग्य-भागिता-साम्येन तस्यां सख्यारोपणात् कान्तेति कृष्ण-सङ्गिन्याः सौभाग्यातिशयस्य चानुमोदनात् सख्यम् एव स्पष्टम् । अत एव तल्-लीलानुमोदनम् अपि बाहुं प्रियांसा- [भा।पु। १०.३०.१२] इत्य्-आदिना ।
सुहृद् यथा—अनयाराधित इति । अस्याश् च तद्-भाग्य-मात्र-प्रशंसनात् व्यक्तं सौहृद्यम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : यद् यस्मात् प्रीतस् तस्याम् इति शेषः ॥२८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं स्वस्मिन् दोष-सद्-भावं चाकलय्य परित्याग-लिङ्गेन तस्यां दोषाभावं गुण-सद्-भावं चाकलय्य परिग्रह-लिङ्गेन तस्याः सौभाग्यं बहुधा वर्णयन्त्यो\ऽन्योन्यम् आहुः—अनया इति । यया सहान्तर्हितः, तया अनया इति अङ्गुल्या पद-पङ्क्तिं दर्शयित्वाहुः—यस्या एतानि पदानि इति । नूनं निश्चयेन । ईश्वर आराधितः ईश्वराराधनाच् च सौभाग्या जाता । कीदृशी ? हरि-सम्बन्धेन सर्व-सौख्य-विशिष्टा यद्य् अस्माभिर् आराधितस् तथापि तया प्राप्तम् आराधन-फलं यत्, तद् अस्माभिः प्राप्तम् इति प्रकार-विशेष-ज्ञानात् । अनाराधित एवाभावात् यतो\ऽस्माभिर् विरह-दुःखम् अनुभूयते । यद्य् अस्माभिर् आराधितो\ऽभविष्यत्, तदास्माकं विरह-जनित-दुःखं नाभविष्यद् इति । क्रियातिवत्यानुमीयते । यतो नो\ऽस्मान् विहाय गोविन्दः गोकुलेन्द्रः सर्वत्र समो\ऽपि प्रीतः स्वां प्रीतिं प्रकटयन् यां रहः अस्मद्-दृग्-अगोचरे देशे\ऽनयन् प्रापितवान् ।
यद् वा, भगो भाग्यं तद्वान् नन्द-पुत्रत्वात् सर्व-सुख-पूर्णः हरिः दावाग्नि-पानादिना सर्व-व्रजस्य दुःख-हरण-शीलः । ईश्वरः कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थः । तथा हि, यूथशो मिलितासु मधुर-रसं सञ्चारयितुं समर्थत्वात् मूल्यम् अन्तरेण दासी भवितुम् आगतानाम् अस्माकं दास्यम् अङ्गीकर्तुं समर्थत्वाद् इति । अस्माकम् एतद् वैपरीत्यं जातं तुल्यत्वे\ऽपि गोविन्दस्य गुणाः यथा तेन तस्माद् अनुकूला जाताः । अस्माकं दौर्भाग्येन प्रतिकूला जाता इति । तया कृते गोविन्दाराधने ज्ञाते सति अस्माभिर् अपि तथानुष्ठेयम् इति तात्पर्यार्थः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाद-चिह्नैर् एव तां श्री-वृषभानु-नन्दिनीं परिचित्यान्तर्-आश्वस्ता बहु-विध-गोपी-जन-सङ्घट्टे तत्र बहिर् अपरिचयम् इवाभिनयन्त्यस् तस्याः सुहृदस् तन्-नाम-निरुक्ति-द्वारा तस्याः सौभाग्यं स-हर्षम् आहुः—अनया इति । नूनम् इति निश्चये । हरिर् भक्त-जन-दुःख-हर्ता, भगवान् नारायणः, ईश्वरो भक्ताभीष्ट-दान-समर्थ आराधितः । नस् त्व् अस्माभिः यतो नो विहाय इत्य्-आदि । ततश् च राधयत्य् आराधयतीति राधा इति नाम व्यक्तीबभूवेति। मुनिः प्रयत्नेन तदीय-नामाप्य् अधात्, परं किन्तु तद्-आस्य-चन्द्रात् स्वयं निरेति स्म । कृपा नु तस्याः सौभाग्य-भेर्या इव वादनार्थम् ।
यद् वा, हे अनयाः ! अतिमहीयस्या तया सह वृथैव साम्याहङ्काराद् अनीतिमत्यः ! नूनं हरिर् अयं राधितः राधाम् इतः प्राप्तः । शकन्धादित्वात् पर-रूपम् । भगवान् सुन्दरः कामातुरः स्व-कीर्तिं प्रख्यापको वा । भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्क-कीर्तिषु इत्य् अमरः । ईश्वरः युष्मान् वञ्चयितुं समर्थः । यद् यस्मान् नः सुन्दरीर् विहाय गोविन्दः गास् तस्या इन्द्रियाणि रमणार्थं विन्दति विन्दयतीति वा सः ।
तस्याश् च पद-चिह्नानि उज्ज्वल-नीलमणि-तट्-टीका-दृष्ट्या लिख्यन्ते—वाम-चरणस्याङ्गुष्ठ-मूले यवः । तत्-तले चक्रम् । तत्-तले छत्रम् । तत्-तले वलयम् । तर्जन्य्-अङ्गुष्ठ-सन्धिम् आरभ्य वक्र-गत्या यावद्-अर्ध-चरणम् ऊर्ध्व-रेखा । मध्यमा-तले कमलम् । तत्-तले ध्वजः स-पताकः । तद्-उपरि वल्ली पुष्पं च । कनिष्ठा-तलेऽङ्कुशः । पार्ष्णाव् अर्ध-चन्द्रः। इत्य् एकादश । दक्षिण-चरणे\ऽअङ्गुष्ठ-मूले शङ्खः । तत्-तले गदा । कनिष्ठा-तले वेदी । तत्-तले कुण्डलम् । तत्-तले शक्तिः । तर्जन्य्-आद्य्-अङ्गुलि-तले पर्वतः । पर्वत-तले रथः। पार्ष्णौ मत्स्यः इत्य् अष्टौ । मिलित्वा ऊनविंशति ॥२८॥
॥ १०.३०.२९ ॥
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः ।
यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे आल्यः सख्यः ! अहो धन्या अतिपुण्या गोविन्दाङ्घ्र्य्-अब्ज-रेणवः । तत्र हेतुः—यान् इति । अस्माभिर् अप्य् एतद् रेण्व्-अभिषेकेण तथैव कृष्णः प्राप्तुं शक्य इति भावः॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आलिः सत्रे सखी-पङ्क्त्योः इति यादवः । धन्या निरपेक्षाः स्व-सङ्गि-पुरुषाणां षाधनान्तरं विनैव पावन-समर्थाः । निरपेक्षो गुणैः पूर्णो धन्य इत्य् उच्यते बुधैः इति यादवः । तत्र धन्यत्वे । इति भाव इति मूर्ध्नि धृत-कृष्ण-पाद-रेणुना हत-सर्व-पापानां शुद्धान्तः-करणानां कृष्ण-प्राप्तिर् न दुर्घटेति तात्पर्यम् । इदं तटस्थानाम् वाक्यम् ।
[विश्वनाथः] तटस्थ-पक्षास् तु तत्रानवदधानाः कृष्ण-पदान्य् एवालक्ष्याहुः—धन्या इति । ब्रह्माद्या अघ-नुत्तये विच्छेद-दुःखापनयनाय यान् मूर्ध्नि दधुर् इत्य् अपराह्णे गोष्ठागमन-समये कृष्ण-सहचर-बालकैः प्रत्यहं ते स्वर्गाद् अवरुह्य कृष्ण-पाद-धूलि-ग्राहिणो दृश्यन्त एव । यद् वक्ष्यते—वन्द्यमान-चरणः पथि वृद्धैः [भा।पु। १०.३५.२२] इति । वन्दिनस् तम् उपदेव-गणा ये [भा।पु। १०.३५.२१] इति च । वयं तु लज्जयैव यद् धर्तुं न शक्नुमः, तेनैव तावद् अघं प्राप्नुम इति भावः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अघ-नुत्तये इत्य् अघं दुःखं तद् वयम् अपि गृह्णीमः । विशद-ज्योत्स्नायां स्पष्टम् एव पद-लक्ष्म लक्ष्यते ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमी इमे । आल्य इति सम्बोधनम् । तत्र सर्वासाम् ऐकमत्यार्थं भक्ति-विशेष-जननार्थं वा धारणे सर्वेषां प्राधान्य-विवक्षया च-शब्दाप्रयोगेऽपि तेषां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । कृष्णस्य पश्चात् पादाब्ज-रेणून् गृह्णन्तो ब्रह्मेशादयः सदैव ताभिर् दृश्यन्ते । अतो दृष्टम् एव वर्ण्यते—न त्व् ऐश्वर्याभिप्रायेण ।
देवी इति श्री-वृषभानु-गोप-नन्दिनी-व्यावृत्त्य्-अर्थम् । यद् वा, तद्-रेणु-धारणेन लक्ष्म्यां भक्त्य्-उदयेनोक्तं—देवी पूज्येति । यद् वा, श्री-राधाया लक्ष्म्याश् च प्रायः पदानि तुल्यत्वात् सन्देहो व्यवच्छिद्यते—देवीति । देवीत्वेन लक्ष्म्या भूम्य्-अस्पर्शत्वात् । यद् वा, देवी व्रज-देवी श्री-राधैव । मूर्ध्नीति भक्ति-भरं द्योतयन्ति । अघम् अपराधो विरहादि-दुःखं वा । अतस् तेऽनघा एव । अस्माकं च भक्त्या तद्-अधारणाद् अघं मुक्तम् एवेति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, रेणव एव धन्या उत्तमाः, श्री-कृष्ण-रूप-परम-धन-दान-योग्या वा । यद् वा, अमी वैकुण्ठादौ वर्तमाना गोष्ठाङ्गन-पतिना वा पूर्व-दृष्टा वा । अस्याः पदैर् स्पृष्टास् त एव धन्याः । एषा मात्सर्योक्तिः । यद् वा, इमे रेणव आल्यश् च इमा धन्याः । गोविन्द-नीतत्वाद् गौरवेण बहुत्वम् । एवं दृष्टान्तत्वेन रेणूनाम् इव तस्या अपि धन्यत्वम् अभिप्रेतम्॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तटस्था आहुः—धन्या इति । अमी इमे । आल्यः इति सम्बोधनं सम-दुःखत्वेन प्रायः सर्वासाम् एक-भावात्, सर्वासाम् एव युगपत् सम्बोधनं चमत्कारातिशयात्। दधुर् इति अतीत-निर्देशो निश्चय-ज्ञापनार्थः । ब्रह्मादीनां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । रमायास् तु विशेषणं तथापि श्रैष्ठ्य-बोधनार्थं मूर्ध्नीति भक्ति-भरं बोधयति । अघम् अपराधो विरहादि-दुःखं वा । धन्यत्वे हेतुः—गोविन्दाङ्घ्रीति सुपां सुलुग् इति षष्ठी-लुक् छान्दसः । तत्-सम्बन्धेन धन्या इत्य् अर्थः । अत एव यान् इति । अतो रेणवो\ऽपि तत्-सम्बन्ध-लाभेन धन्याः, वयं तु तद्-अभावात् ततो\ऽपि तुच्छा इति भावः । इयं च तत्-पाद-रेणूनां माहात्म्य-भावना प्रेम-कृतैव । प्रेमा ह्य् असद् अपि माहात्म्यं स्फारयति किम् उत सत् । ततस् तद्-अतिशयस् तु तद्-अतिशयम् एव । यथाभीष्ट-चरिते । किं वा, अरे आचरितं तपस् तपस्विन्या यद् इयम् अवनिः [भा।पु। ५.८.२३] इत्य्-आदि गद्ये तेन स्व-मृग-पद-स्पर्शेन पृथिव्या भाग्यं वर्णितम् ॥२९॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३११) : [उद्दीपनेषु] पद-धूलिः—धन्या इति । अत्र प्रेमैव तद्-उत्कर्षं गमयति, न त्व् ऐश्वर्य-ज्ञानम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : चरण-रजो\ऽभिनन्दन्त्य ऊचुः—धन्या इत्य्-आदि । अघं दुःखम्, तन्-नुत्तये तन्-नाशाय । धन्याः सुखदा इत्य् अर्थः । यान् ब्रह्माद्या मूर्ध्ना दधुः, तस्माद् वयम् अपि तथा कुर्म इत्य् अर्थः ॥२९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : विरहार्ति-भरेण विप्रुष्ट-चेतनास् तस्या भाग्यम् अभिनन्द्य गूढ-मात्सर्या तटस्थताम् अवलम्ब्य परस्परं कथयन्ति—धन्या इति । हे आल्यः हे सख्यः ! इति सम्बोधने । रेणु-धारणे सर्व-सम्मत्य्-अवधारणार्थम् । अहो इति दुर्लभ-लाभे । अमी दरीदृश्यमानाः गोविन्दस्य चरणाब्ज-सम्बन्धिनो रेणवो धन्या उत्तमाः पुण्या इत्य् अर्थः। यद् वा, धन्या धन-वहा रेणु-धारिणो धन-लाभो भवति । अत्र धनं किं रति-मुखं तद् अस्माकं हस्ताद् गलितम् एतद्-रेणु-धारणे तल्-लाभो भविष्यतीति तात्पर्यार्थः । यान् रेणून् ब्रह्मा ब्रह्माण्डाधिकारी, ईशः संहाराधिकृतः, रमा लक्ष्मीः सर्व-सम्पत्ति-दानाधिकृता, देवी द्योतमाना भार्यात्वात् । यान् रेणून् मूर्ध्नि दधुः धारयामासुः ।
प्रयोजनम् आहुः—अघ-नुत्तये पाप-नाशार्थम् । यद्यपि तेषां पापं विशेषतो नोपलभ्यते, तथापि विचारयन्ति । तथा हि, ब्रह्मणः पापं किं ? भगवत्-प्रतिकूलेभ्योऽसुरेभ्यो वर-दानम् । तल्-लक्षणम्, रुद्रस्य पाखण्ड-प्रवर्तन-लक्षणं पापं, रमाया असुर-राक्षसेभ्यो विभूति-वितरण-लक्षणं पापं, तस्या अपनुत्तये ।
यद् वा, व्यभिचारि-भाव-सृष्टत्वात् ब्रह्मणः पापम्, एतेषां भावानां तामस-हराद् रुद्रस्य पापम्, अस्मत्-सहाय्याकरणात् रमायाः पापम् । एतेषां पापानां नुत्तये नाशाय । एते ब्रह्मादयो रेणून् दधुः । अस्माकं पापासम्भवात् किम्-अर्थं धारयिष्यामः ? इति भावः ।
यद् वा, पुनर् अप्य् आत्म-न्यायं सम्भाव्याहुः—यथैते रेणु-धारणेन निष्पापाः जाताः, तथा वयम् अपि अस्माभिर् अपि मान-लक्षणम् अधमाचरितस्य फलं विरह-दुःखम् अनुभूयते । एतद्-रसाभिषेकेन निष्पापानाम् अस्माकं स्वत एव विरह-दुःख-निवृत्तिर् भविष्यतीति व्यञ्जितम् इति ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तटस्थ-पक्षास् तु तत्रानवदधानाः कृष्ण-पदान्य् एवालक्ष्याहुः—धन्या इति । ब्रह्माद्या अघ-नुत्तये विच्छेद-दुःखापनोदनाय यान् मूर्ध्ना दधुर् इत्य् अपराह्णे गोष्ठागमन-समये कृष्ण-सहचर-बालकैः प्रत्यहं ते स्वर्गाद् अवरुह्य कृष्ण-पाद-धूलि-ग्राहिणो दृश्यन्त एव । यद् वक्ष्यते—वन्द्यमान-चरणः पथि वृद्धैः [भा।पु। १०.३५.२२] इति । वन्दिनस् तम् उपदेव-गणा ये [भा।पु। १०.३५.२१] इति च । वयं तु लज्जयैव यद् धर्तुं न शक्नुमः तेनैव तावद् अघं प्राप्नुम इति भावः ॥२९॥
॥ १०.३०.३० ॥
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो17 भुङ्क्तेऽच्युताधरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्या आहुः—तस्या इति । गोपीनां सर्वासाम् । अयं भावः—भवेद्18 एवं, यदि तस्याः पदानि सम्पृक्तानि न भवेयुः, तानि तु नो दुःखं कुर्वन्ति इति ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याः प्रतिपक्षाः । ननु कृष्ण-रेणुं धृतवतीनां कुतः शोकः ? तत्राहुः—तस्या इति । अयं भाव इति—भवेद् एवं शोकाभावो नापि स्यात्, सपत्न्याः सुखं दुःसहम् इत्य् अर्थः । अच्युतं सतत-स्यन्दमानामृतम् अधरम् इति तस्याः सन्दश्याधर-पातं संस्मृत्य नः क्षोभ इति ।
[विश्वनाथः] प्रतिपक्ष-सख्य आहुः—तस्या इति । उच्चैः कुर्वन्ति जनयन्ति । गोपीनां सर्वासाम् एवास्माकं भोग्य्आच्युताधरम् एकैव रहश् चारयित्वा भुङ्क्ते। तयैव कामिन्या केनापि कर्मणैनं वशीकृत्यास्मान् प्रेमवतीस् त्याजयित्वा कृष्ण एतावद्-दूरम् आनीत इति भावः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्या अमूनीत्य्-आदि । इयम् अन्यासाम् उक्तिः । एते रेणवो ग्रहीतुं युज्यत एव। किन्तु तस्या अमूनि पद-चिह्नानि नः क्षोभं यत उच्चैः कुर्वन्ति तस्मान् न ग्रहीतव्याः । तया किम् अपराद्धम् ? इत्य् आह—यैकेत्य्-आदि । सा सर्वाधिका तयैव न गणितम् । कथम् आत्म-सरवीर् इमाः स्वयम् एकाहम् अस्य साङ्गे गच्छामीति एवं न गणयित्वा अच्युताधरं सर्वासाम् एव गोपीनां धनं, धिवि-प्रीणने इत्य् औणादिक-प्रत्यये सिद्धम् । रहो रहसि एका सती भुङ्क्ते ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-चन्द्रावल्याः सखीनाम् उक्तिः—तस्या इति । उच्चैर् अधिकं क्षोभं वैकल्यं पूर्वोक्तेर् धैर्य-हानिं वा । यद् वा, उच्चैर् गर्वाद् उच्चतराण्य् अस्मान् मूर्ध्नोपर्य् अर्पितानि वेत्य् अर्थः । अपहृत्य इति एकाकित्वेन रहसि भोगात् । यद् वा, चौर्येण तया नीतत्वाद् एव सोऽस्मान् विहायात्रागतः । अन्यथा कथम् आगच्छेत् ? इति भावः । गोपीनां सामान्यतः सर्वासाम् एव । “धनम्” इति पाठस् तेषां सम्मतः, “सर्वस्वम्” इति व्याख्यानात्19 । अन्यथा “गोपीनां भोग्यम्” इत्य् एव व्याख्यातं स्यात् । अच्युतस्य तां त्यक्त्वान्यत्र क्वाप्य् अगच्छतोऽधरम् इति । यद् वा, तस्माद् अच्युता अविच्छिन्ना सतीति चिरं भोगोऽभिप्रेतः । श्लेषेण च्युतोऽस्मन्-मुखाद् गलितो योऽधरः, तम् इति निजोच्छिष्ट-भोगस् तस्याः सूचितः । इमे रेणव आल्यश् च इमा धन्या इत्य् एतत्-पक्षे उच्चैर् अस्मद्-अतिक्रमणाद् उच्चान्य् अपि क्षोभं कुर्वन्ति किम् ? काक्वा, अपि तु नैवेत्य् अर्थः । एवम् एषा सर्वासाम् एवोक्तिर् ज्ञेया ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रतिपक्षा आहुः—तस्या इति । उच्चैर् अधिकम् । क्षोभम् अतिदुःखम् । अपहृत्य इति एकाकित्वेन रहसि भोगात् । यद् वा, चौर्येण तया मायाविन्या नीतत्वाद् एव सोऽस्मान् विहायात्रागतः । अन्यथा कथम् आगच्छेत् ? इति भावः । गोपीनां सामान्यतः सर्वासाम् । अस्माकम् एव धनम् इति पाठः क्वचित् । स च प्रायः सर्वत्वम् इति तेषां व्याख्याम् अवीक्ष्य । “रहः” इति पाठस् तु सर्वत्र । अच्युतस्य तां त्यक्त्वान्यत्र क्वाप्य् अगच्छतोऽधरम् इति ॥३०॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २८७) : अथ प्रातिपक्षिका यथा—अस्या इति । अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री-हरिवंशादौ पारिजात-हरणे श्री-रुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् ॥ (३६०) असूयान्योदय-द्वेषे—तस्या अमूनि नः क्षोभम् इत्य्-आदौ ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : अन्याः काश्चिद् ऊचुः—तस्या इत्य्-आदि । एते रेणवो मूर्ध्नि धर्तुं युज्यन्ते एव । किन्तु तस्या अमूनि पदानि नोऽस्माकं क्षोभं कुर्वन्ति । तया किम् अपराद्धम्? इत्य् आहुः—यैकेत्य्-आदि । गोपीनां सर्वासाम् एव धनम् अच्युताधरम् अपहृत्य या एका सती भुङ्क्ते । प्रधानाया नैतद् उचितम् इति नैकाकी मिष्टम् अश्नीयात् इत्य्-उक्तेः ॥३०॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : केवलस्य गोविन्दस्य पदाब्ज-रेणूनाम् एतादृश-माहात्म्यं तया संवलितस्य नैतादृशं परिणाम-विरसत्वात् मधु-विष-सम्पृक्तान्नवत् इति परीक्षन्त्य आहुः—तस्या अमूनि पदानि नोऽस्माकं क्षोभं कुर्वन्ति, विरह-दुःखाद् अप्य् अधिकं दुःखं ददतीत्य् अर्थः। यद् वा, तस्याः पदानि उच्चैर् इति श्री-कृष्ण-पदोपरि विलास-विशेषेण निक्षिप्तानि नोऽस्माकम् उच्चैर् अधिकं क्षोभं कुर्वन्ति । विरह-दुःखाद् अप्य् अधिकं दुःखं ददतीत्य् अर्थः । नोऽस्माकं क्षोभं धैर्य-च्युतिम् अन्वेषण-प्रतिबन्धं कुर्वन्ति।
तत्र हेतुम् आहुः—यत् यस्मात् या एका गोपीनां सदा सुरक्षितम् अपि सर्वस्वं, चौर्येणापहृत्य रहः अस्मत्-प्रवेशायोग्येऽच्युताधरं क्षणम् अपि विलास-च्युति-रहितस् तस्याधरम् अस्मान् अपृष्टैव भुङ्क्ते इति साभिलाषेर्ष्यं वचनम् । अतो रेणु-धारणम् अस्माकं नोचितम् इति भावः ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिपक्ष-सख्य आहुः—तस्या इति । उच्चैः कर्तुं जनयन्ती गोपीनां सर्वासाम् एवास्माकं भोग्यम् अच्युताधरम् एकैव रहश् चोरयित्वा भुङ्क्ते, तयैव कामिन्या केनापि कर्मणैनं वशीकृत्य अस्मान् प्रेमवतीस् त्याजयित्वा कृष्ण एतावद् दूरं नीत इति भावाह् ॥३०॥
॥ १०.३०.३१ ॥
न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-असम्पृक्तान् केवलं कृष्ण-पाद-रेणून् एव विचिन्वत्यस् तान् दृष्ट्वा पुनर् अत्यन्तं समतपन् । तद् आह श्लोक-त्रयेण—न लक्ष्यन्त इति । खिद्यती सुजाते सुकुमारे अङ्घ्रि-तले यस्याः, ताम् उन्निन्ये स्कन्धम् आरोपितवान् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-असम्पृक्तान् तस्याः पादैर् अमिश्रितान् । तत् तापम् आह—उदूह्य नयनेन भा-सम्बन्धाभावात् पदादर्शनम् अपि । शोकस् त्व् एतादृश-प्रेमा नास्मास्व् इति हेतोः ॥३१॥ [एतद्-अनन्तरं विश्वनाथः]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उन्निन्ये स्कन्धम् आरोपितवान् [भा।दी।] इति स्कन्ध आरुह्यताम् [भा।पु। १०.३०.३९] इति वक्ष्यमाणानुसारेण तैर् व्याख्यातम् । प्रेयसीं प्रियतमां प्रिय इति पैशुन्योक्तिः। अन्त्य-पक्षे चान्योन्यं प्रियत्वेन, तत्रापि प्रेयसीत्वेन सर्वाभ्यस् तस्यां प्रीतिर् अधिका सूचिता । अत उन्नयनं युक्तम् एवेति भावः । यद् वा, उन्निन्य इति हस्ताभ्याम् उत्थाप्याङ्के कृत्वा वा निन्य इति ज्ञेयम् । तथा सत्य् एव तादृशालिङ्गनादि-रस-सम्पत्त्या प्रेयसीत्वं सुसिध्येद् इति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न लक्ष्यन्ते इति । मत्सरोक्तित्वात् स्कन्धम् आरोपितवान् इति तैर् व्याख्यातम् । अत्र तान् दृष्ट्वेति तद्-असम्पृक्तान् दृष्ट्वेत्य् अर्थः । यद् वा, सख्योऽप्य् आहुः—नेति । सखी-वाक्यत्वाद् एव—खिद्यद् इत्य्-आदि प्रेयसीम् अतिशयेन तत्-प्रीति-विषयाम् इत्य् अर्थः । उन्निन्ये हस्ताभ्याम् अङ्के विधाय निन्य इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : कियद् दूरं गत्वा न चलितवती, यतस् तृणाङ्कुरैः खिद्यत्-सुजाताङ्घ्रि-तलाम् । कथम् अनुमितम् ? तत्राहुः—न लक्ष्यन्त इत्य्-आदि । प्रियत्वात् प्रेयसीत्वाच् च योग्यम् एवैतत् ॥३१॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : प्रदेशान्तरे गत्वा तान्य् अनालक्ष्य तर्कयन्ति । एतावत्-पर्यन्तं तस्याः पदाणि श्री-कृष्ण-पदैः सह समागतानि इतो\ऽग्रे न [तल्]{।मर्क्} लक्ष्यन्ते । तत्र हेतुं कल्पयन्ति—न लक्ष्यन्ते केवलम् अस्य पदानि लक्ष्यन्ते\ऽतो रेणून् धारयिष्याम इति । लक्ष्यन्ते न तस्याः, तत्र मात्सर्येण हेतुं कल्पयन्ति । बहु-तृणवत् प्रदेश-परिभ्रमणेन तृणाङ्कुरैः खिद्यन्ती सुजाते अङ्घ्रि-तले यस्याः, ताम् उन्निन्ये हस्ताभ्याम् उत्क्षिप्यद् ऊर्ध्वम् उन्नीतवान् । तथा सत्कृत्यालिङ्गन-चुम्बनादि-सुख-विशेषं दत्तवान् । स्वयम् अपि प्रिय इति ।
ननु प्रभुश् चेत् कथम् उन्निन्ये ? तत्राहुः—प्रेयसीं मादृशीभ्यस् तस्यां प्रीत्य्-अतिशयः सूचितः । स्वयम् अपि तस्याः प्रियः, तस्याः अभीष्ट-सम्पादनात् एवं सुदूर-गमनेनान्यो\ऽन्यं प्रीतिर् आविष्कृतेति भावः ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो मत्सर-महा-रोग-ग्रस्ताः ! मा खिद्यत । नात्र तस्याः पदानि सन्तीति तस्याः प्रिय-सख्य आहुः—नेति । ताः प्रत्य् एव सहर्षापाङ्गम् अन्याः सख्यो नीचैः स-वितर्कम् आहुः—नूनम् इति । उन्निन्ये भुजाभ्याम् उद्गृह्य स्व-वक्ष आरोहयामासेत्य् अर्थः । यतः प्रेयसीम्, अतिप्रीति-विषयत्वात् तच्-चरण-तल-खेदस्यासह्यत्वात् । इह खलु तत्-सखीनाम् उभय-विधं सुखं, तस्यास् तादृश-सौभाग्य-दर्शनोत्थं, विपक्षाणां तादृश-दुःख-दर्शनोत्थं चेति ज्ञेयम् ॥३१॥
॥ १०.३०.३२ ॥20
इमान्य् अधिक-मग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः): [विश्वनाथस्य टीकात्रोद्धृता]
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तल्-लक्षणम् आहुः— इमानि इति । हे गोप्यः ! इति विदग्धाभिर् युष्माभिर् एतल् लक्ष्यत एवेति भावः । कामिन इति । अन्यथा तद्-असम्भवः । ईर्ष्योक्तिर् एषा । वस्तुतस् तु काम-युक्तत्वेनैवाधिकात्म-तद्-अपेक्षा सूचिता । अन्त्य् उपलक्षे च तस्याम् आसक्तिर् अभिप्रेता । एतत् पद्यं बहु-पुस्तकेषु न दृश्यते ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ प्रतिपक्षाः सासूयम् आहुः—इमानि इति । हे गोप्यः ! इति विदग्धाभिर् युष्माभिर् एतल् लक्ष्यत इति भावः । कामिनः केवल-काम-परतन्त्रस्य, न तु प्रेम-रस-विदग्धस्येत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : हे सख्यः ! असिद्धो\ऽयं हेतुः, स-व्यभिचारात् । तत् कुतो\ऽप्य् अत्र गतेति तद्-पदानि न लक्ष्यन्ते । ताम् उन्नयनान् नैवम् । पश्य पश्य व्यभिचार्य् एवायं हेतुः । तथा हीत्य् आहुः—इमानि इत्य्-आदि । अधिक-मग्नानि वधूं वहतश् चेत्, यतो भावाक्रान्तस्य । वहने हेतुः—कामिनः ॥३२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अस्य श्लोकस्य व्याख्या न प्राप्यते।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो असमीक्ष्य-भाषिण्यः ! मा खिद्यतेति किं ब्रूध्वे ? तत्-पादानां दर्शनाद् अप्य् अदर्शनम् अतिदुःखाकरम् अस्मत्-प्राणानाम् अदर्शनं सम्भावयतीति द्योतयन्त्यः प्रतिपक्षा आहुः—इमानि इति । वधूम् इत्य् अनुपनीतेनापि कृष्णेन वने\ऽत्र सा स्व-वधूर् एव कृतेति भावः । अत एव भाराक्रान्तस्य, गृहस्थाः खलु कलत्र-भाराक्रान्ताः इतस् ततो भ्रमन्त्य् एवेति भावः । कामिनः न तु प्रेमिणः । प्रेमवतीनाम् अप्य् अस्माकं त्यागाद् इति । अत एव काम एव तं तां वाहयेत्, अन्यथा व्रजेन्द्र-कुमारो ह्य् अतिसुकुमारः किं गोपालिकाया वाहनो भवेत् ? इति भावः ॥३२॥
॥ १०.३०.३३ ॥
अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना ।21
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ।
प्रपदाक्रमणे एते पश्यतासकले पदे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रपदाभ्याम् आक्रमणं क्षौणी-मर्दनं ययोः । अत एव असकले पदे पश्यत इति ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न प्राप्यते।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चाद् अग्रे तस्याः पदानि वीक्ष्याहुः—अत्रेति । महात्मना विदग्ध-शिरोमणिनेत्य् अर्थः । श्लेषेण महान् पर्वतवत् स्थूल आत्मा बुद्धिर् यस्य इतीर्ष्योक्तिः । इदं पद्यार्धं क्वचिद् एव दृश्यते ।
प्रियार्थे प्रेयसा इत्य् अनेन पूर्वोक्तस्य प्रेयसीं प्रिय [भा।पु। १०.३०.३१] इत्य् अस्य वैपरीत्योक्त्या अन्योन्यं तुल्या एव प्रीतिः सूचिता । यद् वा, उन्नयनापेक्षया पूर्वं प्रेयसीम् इत्य् उक्तम् । इदानीं च प्रेयसेति प्रियतमत्वेन तया कृतेनादेशेन पुष्पावचयः कृत इत्य्-आद्य् अभिप्रेतम् । तत्र पदे इति द्वित्वं श्री-वृन्दावन-वर्ति पुष्प-वृक्षाणाम् एकतमस्यैक-देशे स्थित्यापि बहुल-पुष्पावचय-सिद्धेः । किं वा, स्थाने स्थाने बहूनाम् अप्य् उदितानां पदानाम् एकत्र द्वि-द्वि-दृष्टेः । अत एव विष्णु-पुराणे—
पुष्पावचयम् अत्रोच्चैश् चक्रे दामोदरो ध्रुवम् । > येनाग्राक्रान्त-मात्राणि पदान्य् अत्र महात्मनः ॥ [वि।पु। ५.१३.३४] > इति ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनः सख्य आहुः—अत्रेत्य् अर्धम् । महात्मना विदग्ध-शिरोमणिनेत्य् अर्थः । तद् एतत् सार्ध-पद्यं क्वचिन् न दृश्यते च । अतो नाङ्का कृतः ॥
अथान्याः सख्य आहुर्—अत्र प्रसूनेति । प्रेयसा अतिशयेन प्रीति-कर्त्रा । पूर्वत्र लिङ्गम् आहुः—प्रपद- इत्य् अर्धेन । पदे इति प्रति पुष्प-वृक्षम् इति शेषः । अत एव बहुत्वं श्री-विष्णु-पुराणे—
पुष्पावचयम् अत्रोच्चैश् चक्रे दामोदरो ध्रुवम् । > येनाग्राक्रान्त-मात्राणि पदान्य् अत्र महात्मनः ॥ [वि।पु। ५.१३.३४] > इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : कियद् दूरम् अन्यतो गत्वा पद-लक्ष्म प्रकारान्तरम् आलोक्य स-निर्णयम् आहुः—अत्र इत्य्-आदि । प्रियार्थे प्रिया-निमित्तम् अत्र स्थले तेन प्रसूनावचयः कृतः । तल्-लिङ्गम् आह—असकले खण्डे पदे पश्यत । कीदृशे ? प्रपदाक्रमणे प्रपदं पादाग्रं, तेन आक्रमणम् अवष्टम्भनं ययोः ॥३३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : किं च, अग्रे गत्वा पदाग्र-दर्शनेन पुष्पावचयनं सम्भाव्याहुः—अत्र इति। अत्र [क्षावः]{।मर्क्}-प्रदेशे प्रेयस्या स्वालङ्कारार्थम् आदिष्टेन प्रियतमेन प्रियार्थे तत्-सन्तोषाय तद्-आदिष्टं बहु-मानयता प्रसूनावचयः कृतः । एवम् अन्योन्यं सामरस्यं सूचितम् । स्थाने उच्च-प्रदेशे स्थितानां पूस्पाणाम् अवचयं कुर्वतः प्रपदाभ्यां भू-भागस्याक्रमणे असकले असमग्रे पदे पश्यत । तयास्मि भागान् अभिव्यक्तेश् चेति बहूनां पदानां मध्ये एकत्र द्वयोर् द्वयोर् असमग्र-दर्शनाद् इदं सम्भाव्योक्तम् इति । तद् उक्तं पराशरेण—
पुष्पावचयम् अत्रोच्चैश् चक्रे दामोदरो ध्रुवम् । > येनाग्राक्रान्त-मात्राणि पदान्य् अत्र महात्मनः ॥ [वि।पु। ५.१३.३४] > इति ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनः सख्यः आहुः—अत्र इति । महात्मना विदग्ध-शिरोमणिनेत्य् अर्थः । यद् वा, महे तत्-प्रसाधनोत्सवे आत्मा मनो यस्य, तेन । पुष्प-हेतोः पुष्पार्थम् अवरोपिता इत्य् अशोक-वृक्षो\ऽयम् अस्याह् पाद-स्पर्शं प्राप्य सद्यः पुष्प्यति, यथा “अहम् एतत्-पुष्पैर् इमां प्रसाधयेयम्” इति बुद्ध्येत्य् अर्थः । अत एव महात्मना महा-बुद्धिमता अत्राशोक-शाख्यायां प्रसूनानाम् अवचय इत्य् अत एवात्र प्रसूनानि न सन्तीति भावः । किञ्चिद् दूर-शाखाया हस्ताप्राप्यायाः पुष्पावचयार्थं प्रपदाभ्याम् आक्रमणं क्षौणि-सम्मर्दनं यतस् ते पदे । अत एव असकले सम्पूर्णयोस् तयोर् भुवि चिह्नादर्शनात् ॥३३॥
॥ १०.३०.३४ ॥
केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता22 कान्ताम् उपविष्टम् इह ध्रुवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्याः कृष्ण-जान्व्-अन्तर् उपविष्टायाश् चिह्नं दृष्ट्वाहुः—केश-प्रसाधनम् इति । कान्ताम् अधिकृत्य तानि प्रसूनानि चूडयता चूडानुकारेण बध्नता ध्रुवम् उपविष्टम् ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : केश-मार्जन्या केश-संस्कारः केश-प्रसाधनम् । अत्र स्थले । कामिन्याः अतीव-कमनीयायाः । कामिना पूर्णानन्दवतापि । ध्रुवं निश्चितम् । तत् स्थलम् अधुना शृङ्गार-वट इति प्रसिद्धम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केशानां प्रसाधनं संस्करणम् । तच् च स्वाङ्गुलिभिस् तद्-अर्थात्म-शिरो-न्यस्त-कङ्कतिकया वा । तु-शब्दो भिन्नोपक्रमे । “हि” इति पाठे निश्चितम् । प्रसाधन-प्रयोजनं सूचयति—कामिन्याः कामिना इति । काम-क्रीडा-सुखार्थम् इत्य् अर्थः । किं वा, पूर्वोक्त-कामिन इतिवत् तु । ध्रुवं निश्चितम् इति साक्षात्-तल्-लक्षणाभिव्यक्तेः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गर्भकाख्य-माल्य-खण्ड-पतनं दृष्ट्वा पुनर् विपक्षा आहुः—केश- इत्य् अर्धेन । तु-शब्दो भिन्नोपक्रमे । “हि” इति पाठे निश्चयम् । **प्रसाधन-**प्रयोजनं सूचयति—कामिन्याः कामिना इति काम-क्रीडा-सुखार्थम् इत्य् अर्थः । तादृशोपवेशं दृष्ट्वा सख्यस् त्व् अःउः—तानि इत्य् अर्धेन । चूडयता इति ज्ञानं तु स्व-देशे तादृश-वेशस्य प्रायशो दृष्ट्वेति ज्ञेयम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : ततः क्वापि गत्वोपवेश-चिह्नम् आलोक्य काश्चिद् आहुः—केश-प्रसाधनम् इत्य्-आदि । तु निश्चितम् । अत्र कामिन्याः कामिना तेन केश-प्रसाधनं कृतम् । तत्र हेतुम् आहुः—तानि इत्य्-आदि । तान्य् अवचितानि प्रसूनानि चूडयता इह उपविष्टम् । ध्रुवं साक्षाद् एव दृश्यताम् इत्य् अर्थः ॥३४॥
केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता23 कान्ताम् उपविष्टम् इह ध्रुवम् ॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ततो\ऽन्य-माल्य-ग्रथने सर्वतो विशीर्णानां खण्डितानां दलानां सञ्चारं दृष्ट्वा प्रकारान्तरेणोत्प्रेक्षमाणा आहुः—केश- इति । अत्र इति श्रोणी-भरण-चिह्नं दृष्ट्वा तर्कयन्ति—कृष्णम् आचन्त उपविष्टाया कामिन्याः प्रिय-कृत-प्रसाधने श्री-कृष्ण-कर-स्पर्शे साभिलाषायाः केश-प्रसाधनं वेण्यां करेण आपीड्य करेण कृतम् । कामिना इति चुम्बनादि-कटाक्ष-दर्शनादिषु साभिलाषेण काम-क्रीडा-प्रदर्शनार्थं, तथा कृतम् इत्य् अर्थः । तु-शब्दोक्त-विशेषम् आहुः । अन्या स्थलान्तरं दर्शयन्ति—इह इति रहः-स्थले तानि पुष्पाणि कान्तां चूडयता चूडां करं ग्रथनेन अलङ्कुर्वता उपविष्टं ध्रुवं निश्चितं नात्र सन्देहः, साक्षात् तल्-लक्षणाभिव्यक्तेः । एवं रसाभिवृद्ध्य्-अर्थं तस्या रहः प्रापणं पुष्प-सम्पादनम् अलङ्करणं चोक्तम् इति ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-जान्व्-अन्तर्-उपविष्टायास् तस्याश् चिह्नं दृष्ट्वा पुनर् विपक्षा आहुः—केशानां प्रसाधनम् अत्रत्य-वन-देवता दत्त-कङ्कतिकयेति बुद्ध्यते । कामिन्याः, न तु प्रेमवत्याः, स्व-सखीर् अपि वञ्चयित्वा कामुकं नीत्वा रहो गतत्वात् । कामिना, न तु प्रेमवता, प्रेमवतीनाम् अप्य् अस्माकं विरह-पीडाननुसन्धानात् । ततश् च तानि तैः प्रसूणैः केशैर् वा कान्तां कामिनीं चूडयता नर्मणा पौरुषं व्यञ्जयितुं चूडावतीं कुर्वता इह ध्रुवम् उपविष्टम् इति रहः-केलि-वार्ताप्य् अभूद् इति भावः । विन्-मतोर् लुग् इति मतुपो लुक् ॥३४॥
॥ १०.३०.३५ ॥
रेमे तया स्वात्म-रत24 आत्मारामोऽप्य् अखण्डितः ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रेमे इत्य्-आदि शुकोक्तिः । आत्म-रतः स्वतस् तुष्टः । आत्मारामः स्व-क्रीडः । अखण्डितः स्त्री-विभ्रमैर् अनाकृष्टोऽपि । तथा चेत् किम् इति रेमे ? अत आह—कामिनाम् इति ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथा चेत्—अनाकृष्टश् चेत् । तत्राशङ्कायाम् आह उत्तरं—कामिनाम् इति । रेमे सुरत-लीलाम् अनुबभूव । आत्मनि स्वरूपानन्दे रतः । आत्मन्य् आरामः क्रीडा यस्य सः । आत्म-रत आत्म-क्रीड [मु।उ। ३.१.४]25 इति श्रुतेः । अनेन विशेषण-द्वयेन विट-वृत्ति-निषेधो\ऽसूचि मुनिना । भगवत्-प्रीति-साधन-भक्ति-ज्ञानादि-तारतम्यात् प्रीति-तारतम्यं सूच्यते\ऽत्र । तथा चान्या गोप्य इन्द्रिय-वृत्तयः, कृष्ण-नीता तु भक्तिर् बुद्धिर् वा ज्ञेया । बुद्धिमता तत्-पदानि तत्-तद्-अर्थ-बोधकत्वेन योज्यानीति सन्तोष्टव्यम् । शोकादिकं च गुण-निमित्तम् । अत एव अखण्डित इत्य् उक्तम् ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : रेमे तया स्वात्म-रत इत्य्-आदि श्री-शुकोक्तिः । अस्यायम् अर्थः—स्वात्म-रतः स्वात्मारामोऽप्य् अखण्डितोऽपि तया सह रेमे । आत्मारामत्वादिभिर् युक्तः कथं सर्वाः परित्यज्य केवलं तया सह रमते ? इत्य् आह—कामिनाम् इत्य्-आदि । ये कामिनो भवन्ति, ते दीना भवन्ति । यास् तु स्त्रियो भवन्ति, ता दुरात्मानो भवन्ति । नायं कामी, नैता अपि स्त्रियः स्त्री-प्रकृतयः । एताः किल चिद्-आनन्द-शक्ति-रूपाः । आसां पार्थक्यं नास्ति । एकया सह रमणम् एव सर्वासां रमणम् इति बोधयन् ।
यद् वा, आसु परित्यक्तासु आत्मना आत्म-तादात्म्येन रमणं यस्य, अतोऽखण्डितः । न विद्यन्ते खण्डितेत्य्-अवस्था-भेद-सम्ज्ञा-भेदान् नायिका यस्य । अतस् ता अपि रमयति, तया सह च रमते । अतः परमाचिन्त्य-महिमत्वं, तेन कामिनां दैन्यं दर्शयन् । कामिनः खलु एवं कर्तुं न शक्नुवन्ति, प्राकृतत्वात् । स्त्रीणां च दुरात्मताम्, स्त्रियश् च दुरात्मानः यत एवं-विधं मां न भजन्ति, जीवच्-छवम् एव भजन्ति ।
यद् वा, आत्मारामोऽप्य् अखण्डितोऽपि न विद्यते खण्डितं यस्मात्, एक-रसोऽपि कामिनां दैन्यं पाद-पतनादि-वैयग्र्यं दर्शयन् । तथापि तस्याः प्रसादो न जातः इत्य् आलक्ष्य स्त्रीणां च दुरात्मतां दुःसाध्यताम् एव, यथा यथा दैन्यं करोति, तथा तथा सापि वैमुख्यं करोति । कथं मत्-सख्यस् त्यक्ताः ? इति रोषं प्रकटयति । इति-द्वयं दर्शयन् सम्पादयन् तथैव भक्त-वशता-लीलां प्रकटयति ।
यद् वा, कामिनो यथा दैन्यं कुर्वन्ति, तथा दर्शयन् आत्मासक्तो भूत्वा रेमे । एवं स्त्रीणां परित्यक्तानां गोपीनां दुरात्मतां दुःखात्मकतां दर्शयन् । अयम् अर्थः—"अहम् एवं तवातिवशीभूतः । त्वं यद्य् अत्र गर्वम् उद्वहसि, तदा ता इव भविष्यसि" इति भाव्य्-अर्थ-सूचनम्।
यद् वा, यो यः कामी, स स दीनः । यथा कामी यो नैवं, स नैवं यथाहम् । एवं या याः स्त्रियः, तास् ता दुरात्मानः । यथा स्त्रियः या नैवं, ता नैवं यथा गोप्यः इति व्यतिरेकानुमानेन कामिनां दैन्यं स्त्रीणां च दुरात्मतां दर्शयन् रेमे । अप्राकृतं यथा स्यात्, तथा रेमे इत्य् अर्थः । स्त्रीणाम् इति न हि केश-स्तनवत्त्वं स्त्रीत्वम्, अपि तु आच्छादकत्वेन बद्ध-हेतुत्वं स्तृणातेर् अढि-सिद्धः, अवयवार्थ एव । अन्यथा उत्पन्न-तत्त्व-ज्ञानासु देवहूत्य्-आदिषु व्यभिचारात् ।
यद् वा, कामिनां दैन्यं यथा भवति, तथा रेमे । स्त्रीणां त्यक्तानां बाह्यतां स च मेन इति ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वस्मिन् आत्मनि आत्मना स्वयम् एव । यद् वा, आत्मना स्वभावेनैव रतस् तुष्टः । “च” इति पाठे रेमे चेत्य् उक्त-समुच्चये च-कारः । ततश् च आत्मनैव रतस् तुष्टस् तादृशो\ऽपि रेम इति । तादृशत्वम् अधुना न स्थितम् इति पूर्ववद् अर्थः । पुनः पुनस् तथोक्तिस् तद्-दार्ढ्याय । अतस् तयैव तुष्टः, तयैवारमत तद्-विभ्रमैर् वशीकृतश् चेति तात्पर्यम् । अतः प्रेम-निर्जितत्वेन तस्यां स्वं सर्वस्वम् अर्पितम् इति सूचितम् । तच् च भक्त-वत्सल-वरस्य प्रिय-जन-प्रेम-परवशस्य तस्य न दोषः कश्चित्, प्रत्युत निज-भगवत्ता-सार-प्रकट-रूप-महा-गुण एवेति पूर्वं बहुशो लिखितं, श्री-भागवतामृते च विवृतम् एव ।
यद् वा, स्वात्मनः सख्येन आत्म-तुल्याः । किं वा, स्वस्यात्मनः प्रिया गोप्यः, तासु रतो\ऽपि अखण्डितः सम्पूर्णः सन् काय-मनो-वचनासक्त्या साकल्येन रेमे इत्य् अर्थः । अन्यत् समानम् ।
न चैवं केवलं निज-प्रिया एव आनन्दिताः, अन्येषाम् अपि हितं कृतम् इत्य् आह—कामिनाम् इति । काम-वशैः स्त्री-वशैश् च न भाव्यम् इति लोकान् शिक्षयामासेत्य् अर्थः । तत्र यथा श्री-भगवान् निजाचरितेन पुंसः शिक्षयति, तथा तत्-प्रियापि स्त्रियः शिक्षयन्ती दुरात्मतां दर्शयामास इत्य् आह—सा चेति । यद्यपि तादृशो व्यवहारो मानश् च न दुरात्मतया, किन्तु केवलम् उभयोर् महा-नागरयोर् अन्योन्यं प्रेम-विवर्धनो विशेषतश् च स्वाधीन-भर्तृकात्वे नोचित एव, तथापि दर्पस् तत्-कृतोक्ति-विशेषश् [चेश्वरे\ऽनुचित]{।मर्क्} एवेति वैधोपासना-शास्त्र-परैस् तथा व्याख्यायते । तद्-दोषो\ऽपि परिहृत एव, तयोर् लोक-शिक्षा-परत्वात् ।
यद् वा, कामिनाम् इन्द्रादीनां दैन्यम् ईदृग्-असूया-भावाद् दर्शयन् प्रेयसीकृत्य तादृग्-विकासादि-सुखाभावात् । स्त्रीणां च दुरात्मतां दुर्बुद्धित्वं श्री-कृष्णेतर-कुत्सित-पति-भजनात् । अथवा, कामिनः प्रति दैन्यं स्त्रियश् च प्रति दुरात्मताम् एव दर्शयन् शिक्षयन्न् इत्य् अर्थः ।
अयं भावः—यदि काम-क्रीडायां रसिकतास्ति, तदा रिरंसुभिः पुम्भिर् ईड्र्शं श्त्री-वश्यतम् अदीनैर् एव भाव्यम् । स्त्रीभिश् च सुरतादिषु लज्जादिकं परिहृत्य पुरुषं च वशीकृत्य स्वातन्त्र्य-रूप-दुश्चेष्टा-पराभिर् भाव्यम् इति । एतच् च तयोर् वक्ष्यमाण-वचन-व्यवहारादेः । किं वोक्त-व्यवहारस्याभिप्रायेण ।
यद् वा, अत्रोक्त-रमण-प्रकार एवायं दर्शितः । ततश् च वैदग्धी-विशेषेण काम-शास्त्रोक्तं विविध-बन्धादौ स्कन्ध-द्वयोपरि स्त्री-पाद-द्वय-निर्धारणादिना दैन्यं दौरात्म्यं चाधर-दंशन-नर-वक्षसि केश-ग्रहण-पुरुषायितादिनोह्यम् । दैन्य-दुरात्मता-शब्द-प्रयोगश् च ज्ञानादि-निष्ठ-मुनि-विशेषापेक्षया । वस्तुतस् तु, निज-रस-विशेषेण उक्ति-भङ्ग्यैवेति।
यद् वा, आत्म-रत इति सप्तम्य्-अन्तम् । तेन सह अनयोर् अन्वयः । ततश् च भावे क्तः । आत्म-रतौ दैन्यं दुःखम् एवेति कामिनः प्रति दर्शयन्, तया काम-भोगाद्य्-असिद्धेः । आत्म-रतौ दौरात्म्यम् एवेति स्त्रियश् च प्रति दर्शयन्, तया स्वामि-सेवाद्य्-असिद्धेः । अत एवात्मारामतानादरेण तया सह स्वयं रेम इत्य् एषा दिक् । अलम् अतिविस्तरेण ।
एवं तद्-वचनं तासां श्री-व्रज-देवीनां सङ्गच्छते, श्री-भगवत्-तत्त्व-ज्ञाने\ऽपि निज-भावाव्यभिचारेण रस-विशेषमयत्वाच् च ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं श्री-गोपी-जन-मुखेनैव तया सह तल्-लीलां प्रशंस्य स्वयम् अपि प्रशंसति—रेम इति । स्वैः स्वांश-रूपैर् वैभवैः । वैकुण्ठीय-लक्ष्म्य्-आदिभिर् गोष्ठ-सम्बन्धि-प्रेयस्य्-आदिभिश् च हेतुभिर् अपरापेक्षा-रहिततया तत्-तद्-अंशिनि आत्मनि स्वस्मिन्न् एव रतः, स्वेनैव पूर्ण-काम इत्य् अर्थः । तादृशो\ऽपि तथा आत्मारामः स्वरूपानन्दावेश-तत्-पर इत्य् अर्थः । तादृशो\ऽपि तथा हेतुना रेमे, तत् तद् अनादृत्य नन्दति स्म । तत्र हेतुः—तयेत्य् अर्थः । तच्-छब्दस्य वक्तृ-बुद्धि-स्थ-वैलक्षण्य-व्यञ्जकत्वात् सर्वाधिक-तत्-प्रेमाश्रय-विषय-रूपयेत्य् अर्थः ।
“रेमे तया चात्म-रतः” इति पाठे आत्माराम-शब्देन पौनरुक्त्यापातात् तत्-पूर्ण-कामात्मकत्वाद् एवात्म-रत इति लभ्यते । च-शब्दश् च यथा तया तस्य रमणं ताभिर् वितर्कितम् । तथा रेमे च इति बोधयति । तद् एवम् अपि पूर्ववद् एव विवक्षितम् ।
ननु ताभिर् लक्ष्म्य्-आदिभिः प्रेयस्य्-आदिभिर् अपि तस्य रमणं दृश्यते ? तत्राह—अखण्डितः, अनया हेतुना यथा ततस् ततः खण्डितः स्यात्, स्व-पतेः सकाशात् खण्डिता-नायिकावन् मनसा विच्युतः स्यान् न तथास्याः सकाशाद् अयं लक्ष्म्य्-आदिभिर् हेतुभिर् न कदाचिद् अपीत्य् अर्थः । अतः प्रेम-निर्जितत्वाद् अनेन विवृतम् । तद् एवं तस्या एतादृश-प्रेमा येन तादृशो\ऽप्य् असौ वशीचक्रे । तस्य चैतादृशः, येन तादृशात्मारामतापि तिरश्चक्रे ।
तद् एवं तादृशालम्बन-स्व-प्रेम-वशत्व-विहीनाः कामिनः कामिन्यश् च स्व-महिम्ना परास्ततया दर्शिता इत्य् आह—कामिनां दर्शयन्न् इति । कामिनाम् इति मल-मूत्रादितया परिणामिभिर् अन्न-जलादिभिस् तर्प्यमाणो यो देहस् तत्-तर्पणेच्छा-रूप-काम-स्वभावानां, न तु सच्चिदानन्द-विग्रहतया स्वतस् तृप्तानां, न तु तस्यापि रमणे हेतुतावगत-सच्चिदानन्देत्य्-आदि-लक्षणानाम् इत्य् अर्थः । तथा च तासां तद्-विरोचन-योग्यता वक्ष्यते, ताभिर् विधूत-शोकाभिर् [भा।पु। १०.३२.१०] इत्य्-आदिना ।
तद् अन्य-स्त्रीणां दुरात्मतां तादृश-दुर्गत-नायकं वशीकृत्य हर्ष-गर्वादि-दुष्ट-स्वभावताम् इत्य् अर्थः । तद् उक्तं श्री-रुक्मिणी-देव्या—
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् > मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् । > जीवच्-छवं भजति कान्त-मतिर् विमूठा > या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [भा।पु। १०.६०.४५] इति > ।
अत्र श्री-कृष्णस्य तावद् वैलक्षण्यम् उक्तम् एव । या ते पदाब्ज- इत्य्-आदौ तद्-वैलक्षण्यानुभव-योग्याश् च काश्चिद् एव तद्वद् विलक्षणा एव भवन्तीति च ज्ञापितम् ।
तद् एवं तेषां च दैन्यं, तासां दुरात्मतां दर्शयन्न् इति दर्शयद् विधु-पराजयं रमा-वक्त्रान् उल्लसति धृत-लाञ्छनम् इतिवत् । सत्-सरसिजोदरे श्री-मुषा दृषा [भा।पु। १०.३२.२] इतिवच् च । वाग्र-भङ्ग्या स्वतस् तत्-तन्-निष्कर्षातिशय एव प्रतिपादितः । न तु बुद्धि-पूर्विका तेन तद्-दर्शना सति स्वात्मरतत्वादिके कामि-दैन्यादि दर्शनार्थम् उपहासक-जनवत् तद्-अनुकरणम् अपि न घटते इत्य् अन्यथा तु न व्याख्यातम् । भक्त-प्रेम-वशता तु नाहम् आत्मानम् आशास [भा।पु। ९.४.६४] इत्य्-आदिषु बहुषु सम्मतैव ॥३५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २८८) : अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्य-बुद्धिः, न तु वस्तुत एव तद् दौरात्म्यं, प्रेमैक-विलास-रूपत्वात् । श्री-मुनीन्द्रोऽपि तद्-भावानुसारित्वेनैव तद्-वाक्यम् अनुवदति—तया कथितम् आकर्ण्य [भा।पु। १०.३०.४२] इत्य्-आदि । स्वयं तु पूर्वं तस्मिंस् तदीये मदे दोषं प्रत्याख्यातवान् अस्ति । यथा—रेमे तया चात्म-रत इति ।
स्वात्म-रतः स्वतस् तुष्टोऽपि आत्मरामः स्व-क्रीडोऽपि अखण्डितः । तस्यां सततासक्तः सन् रेमे । तादृशश् चेत् किम् इति तद्-आसक्तो बभूव, तथा रेमे च । अत आह—तया, इत्थम्भूत-गुणो हरिः [भा।पु। १.७.१०] इतिवत् तथा-भूत-गुणतया तदीय-प्रेम-सर्वस्व-सार-रूपयेत्य् अर्थः । अतस् तस्यान्येन तादृशत्वासम्भवात् प्रेम-विशेष एवासौ स्फुरति, न तु कामः ।
स च प्रेम-विशेष ईदृश-प्रबलः यत् कामिवद् एव दैन्यादिकं तयोः प्रकटीभवतीत्य् आह—
कामिताम् इति । मद-मानाद्य्-आत्मके कामिनीनां प्रेम्णि कामिनां यद् दैन्यं लोक-प्रसिद्धं, तद् एव स्व-द्वारा तत्-प्रेम-विशेष-पारवेश्येन दर्शयन् प्रकटयन् रेमे ।
यद् वा, ययैव लीलया स्वयम् एव तुच्छीभूताः सर्वेऽप्य् अन्ये नागरं-मन्या इत्य् आह—कामिनाम् इति । स्व-लीला-महिम्ना कामिनां प्राकृतानां दैन्यं रस-सम्पत्ति-हीनत्वं, स्त्रीणां च प्राकृतानां तं विनान्यस्य भजनेन दुरात्मतां दुष्ट-भावतां दर्शयन्न् इति । दर्शयद् विधु-पराजयं रमा-वक्त्रम् उल्लसति धूत-लाञ्छनम् इतिवत् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव स्वयम् अपि तया सह तल्-लीलां प्रशंसति—रेम इति ॥३५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तस्या एव वृत्तान्तं श्री-शुकदेवः प्रस्तौति—रेमे तया इत्य्-आदि। तया सर्वा विहाय या नीतेत्य् अर्थः । न तु तस्य वैषम्यम् इत्य् आहुः—आसु विरहितासु गोपीष्व् आत्म-रत आत्मना मनसा रतं रमणं यस्य । भावे क्तः । तया सह नीतया सह रेमे ।
ननु कथम् एतज् ज्ञातम् ? इत्य् आहुः—आत्मारामो\ऽचिन्त्य-परमैश्वर्यः । अत एवाखण्डितो\ऽखण्ड-प्रेमातुल्य-प्रेमेत्य् अर्थः । दक्षिण-नायकत्वात् । मया परोक्षं भजता तिरोहितम् [भा।पु। १०.३२.२१] इति तस्य स्वोक्तेश् च । तेन तासु मानसं रमणं, अस्यां कायिकम् इति । किं कुर्वन् ? कामिनां दैन्यं दर्शयन्, स्त्रीणां च दुरात्मतां दर्शयन्, अनुमान-प्रयोगेन बोधयन् ।
तथा हि—यो यः कामी, स स दीनः, अनीश्वरत्वात् । यत्र यत्रानीश्वरत्वं, तत्र तत्र दीनत्वं, पुरूरव-ययाति-प्रभृतिवत् । यो यो नैवं, स स नैवं, यथाहम् इत्य् अन्वय-व्यतिरेकिणानुमानेन कामिनां दैन्यम् । एवं गोप्य्-आदयो न दुरात्मानः, मद्-अङ्ग-सङ्गवत्त्वात् । यत्र यत्र मद्-अङ्ग-सङ्गवत्त्वं, तत्र तत्र न दुरात्मत्वम्, यथा लक्ष्म्य्-आदिः। या मद्-अङ्ग-सङ्गवत्यो न भवन्ति, ता दुरात्मानो भवन्ति, यथा गोप्य्-आदि-भिन्नाः स्त्रियः । इत्य् अन्वय-व्यतिरेकाभ्यां सामान्य-स्त्रीणां दुरात्मतां च दर्शयन्न् इति यावत् । एतेन नाहं कामी, नैताश् च स्त्रीत्वेन दुरात्मानः । अपि तु मल्-लीलौपायिकत्वाद् आसां स्त्रीत्व-भावाद् वाम्यादि । मम त्व् आसाम् अनुवर्तनं लीलैवेति वाक्यार्थः । आत्मस्व् आत्म-प्रायासु गोपीषु रमत इत्य् आत्मारामः ॥३५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : यद्-अर्थम् एतावत् कृतं तद् आहुः—रेमे इति । एवं व्रज-देवीनां तर्कानुकर्णेन स्वानुभवेन च निर्णीतं विलासं प्रतिपाद्य श्री-शुकः परीक्षितं प्रति श्री-कृष्णस्य प्रेमैक-वश्यतां रस-वर्त्मना बोधयति—रेमे इति । अपि-शब्दः सर्वत्रानुषज्यते । आत्मा-रत आत्मा-रतो\ऽपि, आत्मनि स्व-स्वरूपे रतो\ऽपि । यद् वा, आत्मना स्वभावेन रतः, प्रिय-वर्गेषु रतो प्रीति-युक्तो\ऽपि । यद् वा, आत्मनि मनसि रतः सन्तुष्टो\ऽपि, विषयापेक्षा-रहितो\ऽपि । आत्मारामो\ऽपि आत्मन्य् एवाराम आरमणं क्रीडा यस्य । यद् वा, आत्मना सहारामो यस्य, बाह्यं किम् अपि नापेक्षते, तथापि तया सह रेमे, आत्मरतत्वम् आत्मारामत्वम् अवगणय्य रेमे ।
अयम् अभिप्रायः—"आत्म-रतौ आत्मारामतायां च कियत् सुखम् ?" इति तारतम्यं जानन् तया सह रेमे । देहेन्द्रियैः सह स्वकीयेषु रमणे यत् सुखं, तद् रमणं । तत् सुखं निरीन्द्रिये आत्मनि कुतः ? अत एव सर्वज्ञः सर्व-रस-विवेकः ज्ञानवान् तथा चक्रे इति । यतो\ऽखण्डितः, परिपूर्णो\ऽपि रेमे ।
अयम् अर्थः—गोपी-जन-रमणात् प्राक् आत्मा-रतत्वम् आत्मारामत्वं च नास्ति, उभयेषाम् अनहितत्वात् । तथापि आत्म-रतत्वात्मारामत्वयोश् चैतन्य-धर्मत्वं, स्वकीयेषु रमणं देहेन्द्रिय-विशिष्टस्य विग्रहि-धर्मः । उभये सामानाधिकरण्ये\ऽपि न विरोधः । ईश्वरे यथा ज्ञानाज्ञानयोर् धर्माधर्मयोर् न विरोधः, तद्वद् अत्रापि । अत एव यथा ज्ञानाज्ञानयोर् धर्माधर्मयोस् तारतम्ये, तथा गोपी-रमणात्मारामत्वयोस् तारतम्यं ज्ञात्वा सजातीयैर् गोपीजनैः सह रमणं स्वीयम् आनन्दं स्वकीय-कला-कौशलं चावधि-भूतं रस-वर्त्मनाविश्चकार । स्वीयाम् अखण्डितताम् अप्य् आविश्चकार । अन्यथा योगमायाविर्भावितं परिपूर्णत्वम् अन्तरेण बह्वीनां यूथ-पतीनां कथम् एकेन सम्भाव्येतेति । यथान्यो नायकः सङ्केते प्रियागमनं प्रतीक्षन् अगमने खण्डितो भवति, तथा नायं बहु-रमणत्वात् खण्डितो न भवति, यतो\ऽसाव् अच्युत इति, श्री-कृष्णस्य दक्षिण-नायकत्वात् । तद् उक्तं रसार्णवे—नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते [र।सु। १.८३] इति । किं च, अहो अस्या लावण्यं प्रेम च ! वशीकृतः श्री-कृष्ण आत्म-रतत्वम् आत्मारामताम् अवगणय्य तया सह रेमे इति।
स्व-प्रयोजनम् उक्त्वा प्रयोजनम् आह—कामिनाम् इति । अन्येषां प्राकृतानां मल-मूत्र-भाजनानाम् ऐ कामिनाम् [मनोद्रेकात्]{।मर्क्} प्रिया-मुख-रुक्षता-कलनात् सञ्चारि-भावोदयेन दैन्यं पारवश्यं प्रसादनं च । तादृशीनाम् एव स्त्रीणां दुरात्मतां दुःख-भावतां स्वाधीन-पतिकतया हर्ष-मान-गर्वारूढतां दर्शयन् रेम इति ।
अयम् अभिप्रायः—सच्चिदानन्द-विग्रहः श्री-कृष्णः । सच्चिदानन्द-रूपा व्रज-देव्यो\ऽतस् तद्-एक-निष्ठत्वम् अनुकरणं न, किन्तु तात्त्विकम् एव । इदं तु कैमुत्य-न्यायेनोच्यते । प्राकृते\ऽपि मानारूढत्व-लक्षणा दुरात्मनां मद-मानारूढता भवेद् इति । किं पुनः कृष्णे मूर्तिमति मधुर-रसे दैन्यं तत्-परत्वं न भवेद् इति ।
श्री-शुकस्यायम् आशयः आचार्यैस् तद् व्याकृतं तादृश-कृत्य् अनभिज्ञान् श्री-कृष्ण-माहात्म्यानभिज्ञान् अपि । तस्य स्वातन्त्र्यं निर्लेपता च गोपीनाम् अन्य-स्त्री-दृष्टान्तेन चानभिज्ञतां स्थपयितुम् इदम् उक्तं—कामिनाम् इति । अतो न किञ्चिद् असमञ्जसम् इति श्री-कृष्णस्यायम् आशयः । यथा स्वागतं वो महाभागाः [भा।पु। १०.२९.१८] इति यथा श्रुतेः तासां प्रतीतिर् जाता, तथात्रापि कामिनाम् इति । कामिभिः स्त्री-वशैर् न भाव्यं स्वीयाचरितेन लोकान् शिक्षयामास । तस्याः आचरितेन स्त्रीणां दुरात्मतां स्थापयामासेति । यद्यपि तादृश-मानो न दुरात्मतया किन्तु केवलम् उभयोर् अन्योन्यं प्रेम-विवर्धनाय स्वाधीन-पतिकाया उचित एव, तथापि मर्यादा-मार्गोपासनायाम् ईश्वरावज्ञान-हेतु-गर्वोक्तिर् अनुचितेति धर्मः । मर्यादा-मार्गे त्याकं शिक्षयन् रस-मार्गे\ऽपि एवं शिक्षयति । यदि मधुर-रसे रिरंसास्ति, तदा रसिकैर् दीनैः स्त्री-वश्यतया भाव्यं, यदि काम-कला-कौशल-भक्तिः, तदा लज्जा-परिहार-पूर्वकं स्व-पतिं वशीकृत्य स्वातन्त्र्येण मान-दर्प-पराभिः स्त्रीभिः दुरात्मतया भाव्यम् इत्य् उभयत्र शिक्षणम् । इदं रहस्यं ज्ञान-कर्मादि-निष्ष्ठ-मुनि-मुख-निरीक्षणेन नोद्घाटितम् इति । अत एव काम-शास्त्रानुसारेणात्मारामत्वम् अनादृट्य तया सह रेमे । आत्मारामतया सुख-विशेषानुदयात् अलम् इति ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं गोपीनाम् उक्तिभिर् एव तस्याः सौभाग्यातिशयं दर्शयित्वा स्वयम् अपि तम् उपपादयति—रेमे इति । आत्मारामो\ऽपि तया सह रेमे । तत्र हेतुः—स्वात्म-रतः । तया सह शोभमानम् आत्मनो रमणं यस्य सः । आत्मारामतायां तथा सुखं न तस्य भवेत्, यथा तया सह रमण इत्य् अर्थः । "चात्म-रतः" इति पाठे आत्माराम-शब्देन पौनरुक्त्यापाताद् एवं व्याख्येयम् । च एवार्थे । तयैव सह आत्मना यत्नेन रतं रमणं यस्य सः । आत्मा यन्तो धृतिर् बुद्धिः इत्य् अमरः । आत्मारामतायां तादृश-सुख-लाभाभावाद् एव तावान् यत्न इति भावः।
ननु तर्हि तस्यां पूर्णत्वं प्रसक्तम् ? अत आह—अखण्डितः । तद् अपि पूर्ण एव, न तु खण्डितः । तस्याह्लादिनी-शक्तित्वेन स्वरूप-भूतत्वाद् इति भावः । ह्लादिनी-शक्तित्वे\ऽपि सर्वाह्लाद-सारो यः प्रेमा तस्यापि परमावधिर् यो महा-भावस् तद्-रूपत्वाद् एव हेतोर् भगवत आत्मारामत्वेन ह्लाद-मात्र-रमणाद् अपि ह्लाद-महा-सार-भूतया तया सह रमणस्याधिक्यम् अस्त्य् एव । यद् उक्तं तन्त्रे—
ह्लादिनी या महाशक्तिः सर्व-शक्ति-वरीयसी । > तत्-सार-भूता राधेयम् इति । > महाभाव-स्वरूपेयं गुणैर् अति वरीयसी । इति ।
ततश् च आत्मारामो\ऽपि तया सह स्वात्म-रतः । स्वात्म-रतो\ऽप्य् अखण्डितः पूर्ण एव रेमे इत्य् अन्वयः । तेन च भगवत्-तत्त्वानभिज्ञानां प्राकृत-विवेकिनां हितं च तेभ्यः स्व-विलास-तत्त्वस्य गोपनं च चकारेत्य् आह—कामिनाम् इति काम-वशैः स्त्री-वशैश् च, न भाव्यम् इति लोकान् शिक्षयामासेत्य् अर्थः । काम-वशत्वे सति पुमांसो दीनाः स्युः, दैन्ये च सति स्त्रियो दुरात्मनः स्युर् इत्य् अर्थे भगवान् भगवत्-प्रेयसी च प्रमाणयति यतस् ते इतस् ततो जल्पन्त उज्ज्वल-प्रेम-रस-तत्त्व-गोपनस्य हेतवो बभूवुर् इति भावः । तथा दर्शयन्न् एव प्रेम-रस-तत्त्वं च गोपयन्न् इति चैव-शब्दाभ्याम् एव व्याख्येयम् ।
यद् वा, कामिनां सम्बन्धे दैन्यं दर्शयन्—आत्मवन् मन्यते जगत् इति न्यायेन ये कामिनस् तं दीनम् एवापश्यन् । याश् च स्त्रियः कामिन्यस् तां दुरात्मानम् एवापश्यंस् तत्-प्रयोजकीभवन्न् इत्य् अर्थः ।
यद् वा, कामिनां दैन्यं दर्शयन्न् इति कामिभिः सुरत-प्रार्थनादिना दीनैर् भवितव्यम् । स्त्रीभिस् तत्रासम्मत्या दुरात्मभिर् भवितव्यम् इति दर्शयन् रसिक-जनान् ज्ञापयन् । एवम् एव रस-पोषो नान्यथेति भावः ॥३५॥
॥ १०.३०.३६ ॥
इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः ।
यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राक्षस्या बुद्धेः स्वभावम् आह—इत्य् एवं पूर्वोक्त-धिया ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेणेति ईदृशानि तयोर् अन्योन्यं क्रीडा-लक्षणानि दर्शयन्त्यो यथा-क्रमं वा तत्-तद्-अर्थो ज्ञेयः । इति ईदृशं वदन्त्य एवं दर्शयन्त्यश् च ता विरहार्ताः । अत एव विचेतसो हत-विवेकाः सत्यः । यतो गोप्यस् तद्-एक-प्रेम-वशाश् चेरुर् इतस् ततो गता इति वा । यद् वा, विरह-वशाः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् चैवं तादृश-भावे हि तासां द्विधा मानावस्था सम्भवति—कान्तैक-स्फुरणे हर्षादि-प्रचुरं स्थायि-मयी, कथञ्चिद् अन्य-स्फुरणे गर्वादि-प्रचुर-स्थायिमयीति । अतस् तस्या गाढानुराग-प्राधान्येन तद्-एक-स्फूर्ति-मयी बहु-कालं व्याप्य हर्षादि-मय्य् एव जाता । सम्प्रति कथञ्चिद् बाह्ये जाते तु परेति । आत्म-वरिष्ठत्वे हेतुः गोपीः सर्वा एव तत्रापि कामयाना अपि हित्वा असौ अनिर्वचनीय-विचित्र-माहात्म्यः परम-स्वतन्त्रोऽतिदुर्लभ इत्य् अर्थः । तत्रापि प्रियः मद्-एक-प्रेम-कर्ता सन् भजतेऽनुवरते । अत्रान्य-स्फुरणेऽपि गोपीनाम् एव स्फूर्तिर्, न तु पूर्वास्व् इव सामान्य-स्त्रीणाम् इत्य् एतद्-अंशेऽपि वैशिष्ट्यं दर्शितम् ॥३६॥ [मोवे तो ३७?]{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पुनर् अपि सर्वासां मार्गेण प्रकारं कथयन् तस्या मान-दर्प-हेतुकं विप्रलम्भं कथयिष्यन् रहो-वृत्तम् आह—इत्य् एवम् इति । इत्य् एवं श्री-कृष्ण-लीलानुकरणेन अन्योन्यं प्रदर्शयन्त्यस् तत्र विलास-चिह्नानि निर्णीतवत्यो विचेतसो जाताः सत्यश् चेरुः बभ्रमुः । एवं तासां विह्वलत्वं प्रतिपाद्य, तस्याः समान-निर्मितां मानारूढतां निरूपयति । वने विलास-योग्ये प्रदेशे अन्याः स्त्रियः असम्पन्न-मनोरथाः विहाय पत्या जात-मान-दोषा गोपी रहो\ऽनयत् ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृषभानु-नन्दिन्याः सर्वाधिकम् उज्ज्वल-रसस्य सम्भोगम् अंशं निर्वर्ण्य, विप्रलम्भम् अंशम् अपि वर्णयितुं तद् बीजम् उत्थापयति—याम् इति ॥३६॥
॥ १०.३०.३७ ॥
सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् ।
हित्वा गोपीः कामयाना माम् असौ भजते प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्रीणां दुरात्मताम् आह—सा च इति द्वाभ्याम् । कामो यानम् आगमन-साधनं यासां, ता गोपीर् हित्वा मां भजत इति हेतोर् आत्मानं वरिष्ठं मेने इति ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वरिष्ठं सर्वोत्कृष्टम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सा च राधा सर्वाः सखीर् अनुस्मृत्य मनसि चकार । किं तत् ? सर्व-योषितां वरिष्ठम् आत्मानं मेने । कोऽर्थः ? अहं सर्व-प्रधान-भूतः, ममैतन् न युज्यते । तत् किम् ? तद् आह—हित्वा इति । सर्वा हित्वा माम् असौ यद् भजते, प्रधानस्येदम् अनुचितम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं तयोक्तं प्रेमाणं प्रशस्य प्रकृतं तादृशं तद्-विलासम् एव वर्णयति—सा च इति । तदा मेन इत्य् अनेन पूर्वं तासु मध्ये वर्तमानाया अपि तस्या तादृशो मानो नासीत्, इदानीम् एव जात इति लभ्यते । तच् चैवं तादृश-भावे हि तासां द्विधा मानावस्था सम्भवति—कान्तैक-स्फुरणे केवल-स्थायि-मयी, कथञ्चिद् अन्य-स्फुरणे गर्वादि-सञ्चारि-प्रचुर-स्थायि-मयीति । अतस् तस्या गाढानुराग-प्राधान्येन बहु-कालं व्याप्य केवल-स्थायि-मय्य् एव जाता । सम्प्रति कथञ्चिद् बाह्ये जातेति परेति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र इत्य् एवम् इति पद्यार्ध-द्वयं तेषाम् असम्मतम् । पूर्वार्धे सति रेमे तया [भा।पु। १०.३०.३५] इत्य् अस्य शुकोक्तित्वासङ्गतेः । उत्तरार्धे सति सा च इति मात्रोत्थापनासङ्गतेः । तद् एवं तयोस् तं प्रेमाणं प्रशंस्य प्रकृतं तादृशं तद्-विलास-मयं मानं तत्-प्रसादनादिकम् अपि तत्-पोषणार्थं वर्णयति—सा च इति स-पाद-त्रय-द्वाभ्याम् । सा च तदा मेन इत्य् अनेन पूर्वं तासु मध्ये वर्तमानाया अपि तस्यास् तादृशो मदो नासीत्, इदानीम् एव जात इति लभ्यते ।
सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् ।
हित्वा गोपीः कामयाना माम् असौ भजते प्रियः ॥
तच् चैवं तादृश-भावे हि तासां द्विधा मानावस्था सम्भवति । कान्तैक-स्फुरणे हर्षादि-प्रचुरं स्थायिमयी कथञ्चिद् अन्य-स्फुरणे, कथञ्चिद् बाह्ये जाते तु परेति । आत्म-वरिष्ठत्वे हेतुः गोपीः सर्वा एव तत्रापि कामयाना अपि हित्वा असौ अनिर्वचनीय-विचित्र-माहात्म्यः परम-स्वतन्त्रो\ऽतिदुर्लभ इत्य् अर्थः । तत्रापि प्रियः मद्-एक-प्रेम-कर्ता सन् भजते\ऽनुवर्तते । अत्रान्य-स्फुरणे\ऽपि गोपीनाम् एव स्फूर्तिः, न तु पूर्वास्व् इव सामान्य-स्त्रीणाम् इत्य् एतद्-अंशे\ऽपि वैशिष्ट्यं दर्शितम् ॥३७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तदा मेन इति पूर्वं तासु मध्ये वर्तमानाया अपि तस्यास् तादृशो मानो नासीत्, इदानीम् एव जात इति केचिद् व्याचक्षते । वस्तुतस् तु तदा तादृश-रतौ सत्याम् इत्य् अर्थः । यद् वा, तं तेन तथा रमितम् आत्मानम् । सर्वासां योषितां व्रज-स्त्रीणां माने हेतुः—गोपीः सर्वा एव तत्रापि कामयानाः कामयमानाः हित्वा । असाव् अनिर्वचनीय-विचित्र-माहात्म्यः, परम-स्वतन्त्रो\ऽतिदुर्लभ इत्य् अर्थः । तत्रापि प्रियो मद्-एक-प्रेम-कर्ता सन् । यद् वा, सर्वासाम् एव प्रियो\ऽपि माम् एव भजते प्रीत्यानुवर्तते । अयं च स्वाधीन-भर्तृकाया विदग्ध-वर्याया मानस् तद्-रस-परिपोषको युक्त एवेति तद्-अनुरूप-तत्-प्रसादश् चाग्रे भविष्यतीत्य् एव ॥३७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ सा राधापि सर्वा विहाय मय्य् एवासौ रत इत्य् आत्मनोऽनौचित्यं मनसि कुर्वती यद् अचेष्टत, तत् कथयति—सा च इत्य्-आदि । सा राधा तदा आत्मानं वरिष्ठं मेने, वरिष्ठैव सा, तथापि मेने इति यद् उक्तं, तस्यायम् अभिप्रायः—“अहं सर्व-प्रधाना, ममैतन् नोचितम्” । किं तत् ? इत्य् आह—हित्वा इत्य्-आदि । सर्वा विहाय माम् असौ भजते प्रधान-जनस्य नैतद् उचितम् । तर्ह्य् एवम् अत्रैव विलम्बयामि यावत् सर्वा मिलन्तीति ॥३७॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : सा तदा आत्मानं सर्व-योषितां वरिष्ठं मेने यावत् पर्यन्तं यूथ-मध्ये स्थिता आसीत्, तावत् तस्य मानो नाविर्भूतः, इदानीं कृष्ण-सम्मान-हेतुको जातः [[॥।+++]{।मर्क्}] कामायमाना इत्य् अर्थः । यद् वा, कामस्य यानं प्रापणं यासु काम-वसतीर् इत्य् अर्थः । ता हित्वा असौ प्रियो माम् एव भजते सर्वासु समोऽपि मद्-गुणाकृष्ट-चित्तः मद्-अधीनतया अनुवर्ततेऽतोऽहं सर्वाधिकार-स्वाधीन-पतिका जाता ॥३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा च इति । पूर्वे सर्वाः सौभग-मद-युक्ता आसन्न्, अधुना सा च । तत्र हेतुः—हित्वा इति । कामयानाः कामायमानाः । यद् वा, कामो यानम् आगमन-साधनं यासां ताः । अत एवान्य-गोपी-सौभाग्य-हेतुको यः पूर्व-मान उद्भूतः । सोऽपि निःशेषेणैव शान्तः ॥३७॥
॥ १०.३०.३८ ॥
ततो गत्वा वनोद्देशे दृप्ता केशवम् अब्रवीत् ।
न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्त्या लभ्यो नान्यथेति भावं दर्शयति—तत इति । ततो वरिष्ठत्व-मननात् दृप्ता । केशवं सर्वेश्वरम् । न पारये न शक्नोमि । सर्वथाहं तवाधीनेत्य् आह—नय इति ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि एवं करोमि—न पारयेऽहं चलितुम् इत्य् उक्तेऽत्रैवायं स्थास्यति । तावत् ता अप्य् आगत्य मिलिष्यन्तीत्य् आशयेनाह—ततो गत्वा वनोद्देशं दृप्ता केशवम् अब्रवीत्, न तु सान्निध्यम् । न पारयेऽहं चलितुम् इत्य्-आदि । न पारयसि चेत्, तदा किं भवतु? तत्राह—नय माम् इत्य्-आदि । कुत्र नेष्ये ? यत्र ते तव मनो मनो-मात्रम् । अर्थात् परित्यक्तानां मत्-सहचरीणां पार्श्वम् इति तास् त्यक्त्वा दूरं गन्तुं न पारयामीति पूर्वोक्तानुगुण्यम् । तव मनस् तत्रैव, मयैतात् ज्ञायते केवलं सन्निधि-मात्रं यत्र, तथापि ममातीवोत्कण्ठां झटिति तत्र गन्तुम् इति रहस्यम् ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो मानानन्तरं तस्माद् वा मानात् रति-स्थानाद् वा दृप्ता गर्विता सती वनोद्देशं वनमय-स्थानानि तेनैव सह गमन-क्रमेणाग्रतो गत्वा । यद् वा, मद्-अनुगोऽयम् अवश्यं भवितेति दृप्तत्वात् स्वयम् एव गत्वा, केशवं परमेश्वरम् अपि । किं वा, केशि-मथनाद् व्रज-हिताचरण-परम् इति । यद् वा, केशवम् इत्य् उक्त-न्यायेन तदीय-सौन्दर्य-मोहितेति भावः । अत एव अब्रवीत् । किं ? तद् आहुः—न पारये इति । रत्या परिश्रान्तत्वाद् इति भावः । लज्जया साक्षात् तथानुक्तिः । किं वा, दृप्तत्वाद् एव तथोक्तिः । ननु, “मुग्धे ! ताभ्यो दूरम् अग्रे स्थानान्तरं हृद्यं गन्तव्यम्” इति चेत्, तत्राह—नय इति । पूर्ववद् अङ्कादौ निधाय त्वम् एव नयेत्य् अर्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततो वरिष्ठं मानानन्तरं वन-प्रदेश-विशेषं तेनैव सह गमनं क्रमेणाग्रतो गत्वा दृप्ता गर्विता सती केशवं केशान् तदीयान् वयते ग्रथ्नाति । अत एवाब्रवीत् किम् ? तद् आहुः—न पारये इति । बहु-परिभ्रमणेन परिश्रान्तत्वाद् इति व्याज-मयी हेतु-व्यञ्जना । ननु, मुग्धे ! ताभ्यो दूरम् अग्रे स्थानान्तरं हृद्यं गन्तव्यम् इति चेत्, तत्राह—नयेति । पूर्ववद् अङ्के निधाय त्वम् एव नयेत्य् अर्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : अथ तथैव मनसि कृतत्वात् स्फुटाक्षरम् एवाह—तत इत्य्-आदि । वनोद्देशे वन-मध्यं गत्वा केशवम् अब्रवीत् । कीदृशी ? दृप्ता निःसाध्वसा। किं तत् ? इत्य् आह—नय इत्य्-आदि । अहं चलितुं न पारये । अस्या अयं भावः—“यद्य् अहं न चलामि, तदायम् अपि न चलिष्यति । तावत् ता अपि सर्वा मिलिष्यन्तीति । तत् साधूक्तम्—न पारय इति । "न पारयसि चेत्, तदा किं कर्तव्यम् ?” इत्य् आशङ्क्याह—नय माम् इत्य्-आदि । मां नय, "क्व नेष्ये ?" यत्र ते मनः । ते तव मनो यत्र यात्व् इत्य् अर्थः । मनस् तु तव विरहितास्व् एव तासु, मयि तु तव श्री-विग्रह एवेति वक्रोक्तिः । अतस् तत्रैव नय । किम्-अन्तेन निर्मम-व्यापारेण व्यवहारेणेति बहिर् वाम्य-प्रकाशः ॥३८॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : मान-परिपाकम् आह—तत इति । ततो रति-स्थानात् तत्र मृग्यमानानाम् अन्यासाम् आगमनं सम्भाव्य वनोद्देशं वन-प्रदेशान्तरं गत्वा दृप्ता गर्विता केशवं ब्रह्मेश-वशयितारं, किं पुनर् एतस्याः ? यद् वा, केशान् वाति सुगन्धीकरोति धूप-दानेनेति परम-शृङ्गारिणम् इत्य् अर्थः । तम् अब्रवीत् । किम् अब्रवीत् ? तद् आह—अहं चलितुं न पारये । वनोद्देश-परिभ्रमणेन रति-खेद-व्याकुलितत्वेन नख-पदाभ्यां गन्तुं न शक्नोमि।
नन्व् अत्र सर्वा एवायास्यन्ति इत्य् अग्रे विलास-योग्ये स्थाने गन्तव्यम् ? इति चेत्, तत्राह—यत्र ते मनः तत्र त्वया गन्तव्यं, तत्र मां नय । लज्जया साक्षाद् अकथयन्ती व्यञ्जनया माम् उत्क्षिप्य स्वयम् एव नेष्यतीति मनसि निधाय मां नय प्रापयेति कथितवती ॥३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वनस्य उत्कृष्ट-प्रदेशं गत्वा केशवं, केशान् वयमानं प्राकृत-नर्म-द्योतक-चूडाम् उन्मोचयन्त्यास् तस्याः विचित्र-वेणीत्वेन ग्रथ्नन्तं, अत एव दृप्ता स्वाधीन-कान्तया दर्प एव रसम् आवहतीति भावः । चलितुं न पारये इति बहु-वन-भ्रमणोत्थो मे श्रमोऽभूद् इति भावः । ननु “मुग्धे ! ताभ्यो दूरम् अग्रे हृद्यं स्थानान्तरं गन्तव्यम्” इति चेत्, तत्राह—नय इति । पूर्वं माम् वहन्न् इत्य् अर्थः । ननु, किम् अग्रिम-प्रदेशे अन्य-जन-दुष्प्रवेशं कुञ्जान्तर्गतं पुष्प-तल्पं तां नयामि, किं वा पौष्पाभरणार्थं पुष्पोद्यानं ? तत्राह—यत्र ते मन इति ॥३८॥
॥ १०.३०.३९ ॥
एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति ।
ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कामिनां दैन्यं [भा।पु। १०.३०.३५] दर्शयति—एवम् उक्त इति । अखण्डितत्वम् आह—ततश् च इति । तस्यां स्कन्धारोहोद्यतायाम् अन्तर्हित इत्य् अर्थः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुद्ध-बुद्धेः स्वभावं दर्शयितुम् आह—सा वधूर् इति । ततः स्कन्धारोहानुज्ञानन्तरम् । इत्य् अर्थ इति निज-स्वातन्त्र्यं बोधितवांस् तस्या इति भावः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ईश्वरस् तज् ज्ञात्वापि तस्या अपि सर्व-प्रधानत्व-मदं खण्डयितुं विपरीत-बोधम् अभिनीयाह—यदि चलितुं न पारयसि, तदा स्कन्धम् आरुह्यताम् । एतावन्-मात्रम् अवशिष्यते, सर्वम् अन्यद् वृत्तम् अस्ति । एतद् अपि क्रियताम् इत्य् उक्तवान् । न केवलम् इदम् उक्तवान्, अन्तर्हितश् चेत्य् आह—ततश् चान्तर्दधे इत्य्-आदि ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्कन्धे मद्-अंसे आरुह्यताम् इत्य् आह । इदं च नर्मणैव प्रियाम् इत्य्-उक्तेः । यद् वा, कायो मदीयं वक्षः, कटीरं वा, किं वा, समूहः । गोपी-वृन्द इत्य् अर्थः। तथा च विश्वः—स्कन्धः प्रकाण्डे काये च बाहु-मूल-समूहयोः इति । ततश् च, आरुह्यताम् इति, उच्च-प्रदेशे श्री-[यमुनोत्स्रातो]{।मर्क्} देशे वा तासां तदानीं स्थितेः । किं वा, मानेन तासाम् उच्चता-विवक्षयैवेति दिक् । ततः पश्चात् । किं वा, तस्मात् स्थानात्, तस्याः सकाशाद् वा । त्व्-अर्थे च-कारः, भिन्नोपक्रमे । अन्तर्दधे च इति समुच्चये वा अन्तर्धानं प्रयोजनं पूर्वम् एवोक्तम् । तद् एव सूचयति—कृष्णः परमानन्द-घन-मूर्तिर् इत्य् आनन्द-विशेषार्थम् एवेत्य् अर्थः । अत एवोक्तं प्रियाम् इति । अत्र च कश्चिद् विशेषः श्री-विष्णु-पुराणे—
पुष्प-बन्धन-सम्मान-कृत-मानाम् अपास्य ताम् । > नन्द-गोप-सुतो यातो मार्गेणानेन पश्यत ॥ > अनुयातेऽसमर्थान्या नितम्ब-भर-मन्थरा । > या गन्तव्ये द्रुतं याति निम्न-पादाग्र-संस्थितिः ॥ > हस्त-न्यस्ताग्र-स्तेयं तेन याति तथा सखि । > अनायत्त-पद-न्यासा लक्ष्यते पद-पद्धतिः ॥ > हस्त-संस्पर्श-मात्रेण धूर्तेणैषा विमानिता । > नैराश्यान् मन्द-गमिन्या निवृत्तं लक्ष्यते पदम् ॥ > नूनम् उक्ता त्वरामीति पुनर् एष्यामि तेऽन्तिकम् । > तेन कृष्णेन येनैषा त्वरिता पद-पद्धतिः ॥ [वि।पु। ५.१३.३५-३९] > इति ।
सा दृप्ता तद्-दर्शनैक-जीवना वान्वतप्यत मुहुर् विललाप ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तस्याः स्वाधीन-भर्तृकात्वोचितं कृत्रिमालस्यादि-मयं तत्-प्रवचनं श्रुत्वा स्वयम् अपि सनर्मैवान्तर्हित इत्य् आह—एवम् इति पाद-त्रयेण ।
स्कन्धे मद्-अंस आरुह्यताम् इत्य् आह । इदं च नर्मणैव प्रियाम् इत्य्-उक्तेः । तथा हि—यो\ऽन्य-मुखे दुर्वादः, प्रियतम-वदने स एव परिहासः । इतरे\ऽन्धनजो धूमः। सो\ऽयम् अगुरु-सम्भवो धूप इति । यद् वा, स्कन्धः प्रकाण्डे काये च बाहु-मूल-समूहयोर् इति विश्व-प्रकाशात् । कायः स च युक्तत्वाद् वक्षो-भाग इतीदम् अपि नर्मैव । ततस् तद्-अनन्तरम् । त्व्-अर्थे च-कारः, भिन्नोपक्रमे । अन्तर्दधे च इति समुच्चये वा । तस्याः सकाशाद् अप्य् अन्तर्धाने\ऽस्मिन्न् ईर्ष्यापगमात् । सपत्नीनाम् ऐकमत्यम् अपि प्रयोजनं ज्ञेयम् । पूर्वान्तर्धाने\ऽपि तद् अपि चिकीर्षितम् इति । एवम् एकयैव क्रिययानेक-दुर्घट-सम्पादनेन परम-चातुरी दर्शिता । अहो उपर्य् उपरि बुद्धीनां चरन्तीश्वर-बुद्धयः इति भावः । तद् एवं सम्भोगाचितां स्वाधीन-भर्तृकात्वमयी प्रेम-पराकाष्ठां दर्शयित्वा स-नर्मण्य् अपि विप्रलम्भे परम-दैन्य-मोहात्मिकां तत्-पराकाष्ठां दर्शयंस् तत्-प्राशस्त्यम् एव सूचयति—सा इति स-पादेन । सा तद्-दर्शनैक-जीवना अन्वतप्यत मुहुर् विललाप ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं तस्याः स्वाधीन-भर्तृकात्वोचित-कृत्रिमम् आलस्यादि-मयं नर्म-वचनं श्रुत्वा स्वयम् अपि स-नर्मैवान्तर्हित इत्य् आह—एवम् इति पाद-त्रयेण । तद् एवं सम्भोगोचितां स्वाधीन-भर्तृका-मयीं प्रेम-पराकाष्ठां दर्शयित्वा नर्मणापि विप्रलम्भे परम-दैन्य-मोहात्मिकां तत्-पराकाष्ठां दर्शयंस् तत्-प्राशन्त्यम् एव सूचयति—सा इति स-पाद-श्लोकेन ॥३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवान् अपि तम् अभिप्रायं विदित्वापि विपरीत-बोधम् अभिनीय यद् अकरोत्, तद् आह—एवम् उक्त इत्य्-आदि । प्रियां राधां स्कन्ध आरुह्यताम् इत्य् आह—तया तु कपट-रोषोक्तिः, तेन तद्-असम्पाद्यान्तर्धाने स्वोक्तेर् वैयर्थापत्तेः । कपटत्वेनाकलितत्वम् एव सत्यम् । न केवलम् एतद् आह, अन्तर्दधे चेत्य् आह—तत इत्य्-आदि । ततस् तत्रैवेत्य् अर्थः सप्तम्यां तसिल् । अन्यथा निर्दयत्वापत्तेः । स्वयं पश्यति, सा न पश्यति, एवं यथा भवति, तथान्तर्दध इत्य् अर्थः । तद्-अनन्तरं सा वधूर् अन्वतप्यत ॥३९॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तद्-दर्पोक्त्य्-अनन्तरं किं जातम् ? तद् आह—एवम् इति । एवम् उक्तः प्रियाम् आह—स्कन्ध आरुह्यताम् इति । एवं सौभाग्य-गर्वितया जात-मान-दोषया उत्थाप्य नयनम् उक्तः । प्रियां स नर्म-विनयं वचनम् आह—स्कन्धे मद्-अंसे आरुह्यताम् इति । नर्मोक्तिम् अविज्ञाय मोहात् तथा चिकीर्षमानां दृष्ट्वा ततो\ऽनन्तरम् एव सम्भोग-स्थानाद् वा कृष्णो\ऽन्तर्दधे । विप्रलम्भम् उत्पाद्य रस-वृद्धये तद्-दृष्ट्य्-अगोचरो\ऽभूत् । सा का यस्याः केश-प्रसाधनादिना सम्माननं कृतं ? वधूर् इति कृष्ण-परिग्रहेणोक्ता कृष्णैक-जीवना अन्वतप्यत । तत्-स्वातन्त्र्यम् अजानन्त्या मयैतद् उक्तम् इति पश्चात् तापम् अकरोद् इति॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च कृष्णेन मनस्य् एवं विचारितम्—अहो अनया स्वाभाविकः स्व-धर्मः परित्यक्त एव । नहि, सन्-नायिका पुष्प-तल्पं प्रति स्व-नयने वचसा नायकाय सम्मतिं दत्ते । यदि चानया वाम्य-रूप-स्वधर्मस् त्यक्तः, तदा मयापि सन्-नायकेन सम्भुक्त-कान्तानुवर्तित्व-लक्षणो दाक्षिण्य-मयः स्वधर्मस् त्यक्तव्य एव । नहि द्वयोर् एव दाक्षिण्ये वाम्ये वा रसः सुरसः स्यात् । न चात्र रसिक-लोकैर् अहं दूषणीयः । रसो हि नायिका-प्रक्रान्त-परिपाटीक एव साधुर् भवेत् ।
किं च, महा-प्रेमवत्या अस्या मद्-विप्रलम्भ-जनित-दशा-विशेष-दिदृक्षा साक्षाद् एव या चिरं मे वर्तते, साप्य् एतद्-अवसरे पूर्णा भविष्यति । मत्-संश्लेष-जनितम् अस्याः सौभाग्याधिक्यं ताभिर् अनुभूतम् एव । मद्-विश्लेष-जनिताम् अपि प्रेमोद्रेक-परमाधि-व्यञ्जिकां दशाम् असाधारणीं दृष्ट्वा, ताः परम-चमत्कार-सिन्धु-निमग्ना भवन्तु । तस्या मद्-विरह-बाडवानल-ज्वालाया अग्रे तासां मद्-विरहो दीप-दहनायितो भवतु । ततश् चास्याः पूर्णतमाभ्यां सम्भोग-विप्रलम्भाभ्यां शृङ्गार-रसोऽप्य् अद्य पूर्णतमत्वम् आपद्यताम् । अस्यापि विरहे मत्-सम्पादिते सर्व-विरहोपशान्त्य्-अनन्तरं सर्वासाम् ऐकमत्ये सति विधित्सितोऽद्य रासोऽपि सेत्स्यति, अन्यथात्वे तत्-सङ्ग-रङ्गिणा मया तासां मानोऽद्य सर्वथैव दुरुपशम इत्य्-आदीनि बहूनि प्रयोजनानि पर्यालोचयन् सहसैवान्तर्धित्सुर् आह—स्कन्ध इति । अन्तर्दधे तत्रैव स्थित्वा तां पश्यन्न् अपि तन्-नयन-गोचरतां जहाव् इत्य् अर्थः।
अत्र नय मां यत्र ते मनः [भा।पु। १०.३०.३८] इति वदन्त्या वृषभानु-नन्दिन्या मनस्य् एवं विचारितम्—"विलास-श्रम-वन-विहार-श्रम-खिन्नाया मम क्षणं सुषुप्सा वर्तते । अस्यापि स्वापाभावेनैव सर्व-रजनी-यापनम् अकल्याणम् असुखोदर्कम् एव । अतः पुष्प-तल्पं नयति चेन्, नयतु । आवां तत्र स्वप्स्यावः" इति । अतस् तत्रासम्मतिर् न कृता । तत्र भगवतस् तद्-अन्तः-करण-विज्ञता प्रेम-रस-मय-लीला-शक्त्यैव तिरोधापिता तत्-तल्-लीला-सिद्ध्य्-अर्थम् इति ज्ञेयम् । अन्वतप्यत मुहुर् विललाप ॥३९॥
॥ १०.३०.४० ॥
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज ।
दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुतापम् आह—हा नाथ इति ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हा विषण्णास्मि वने, हा विषाद-शुग्-आर्तिषु इत्य् अमरः । नाथ ! आशा-प्रद ! रमण ! रति-प्रद ! प्रेष्ठ ! अतीव-प्रिय ! महाभुज ! त्रस्त-भय-वारक ! ते दास्याः शिक्षार्हायाः । कृपणायाः कृपार्हायाः । सख इति नाथं सखि-धर्मो यो भय-स्थाने सखी-त्याग इत्य् आह ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विलापम् एवाह—हा इति । हा खेदे आर्ति-सम्बोधने वा । ततश् च सर्वत्र योज्यम् । नाथ ! प्राणेश्वर ! रमण ! भर्तः ! रति-दायक ! प्रेष्ठ ! प्रियतम ! महाभुज ! गाढालिङ्गन-दातः ! इत्य् अर्थः । एषां यथोत्तरं हेतु-हेतुमत्तोह्या ।
यद् वा, नाथ ! प्रभो ! न केवलं तथा, किन्तु रमण ! सुख-प्रद ! विविध-क्रीडा-कारक ! इति वा । अतः स्वभावत एव वा प्रेष्ठ ! आत्मनोऽपि सकाशात् परम-प्रिय ! इत्य् अर्थः । यतो महाभुज ! परम-मनोहर-सच्चिदानन्द-घन-मूर्ते ! इत्य् अर्थः । यद् वा, परम-भोग-कर्तः ! इति सततं रत्य्-आदि-सुख-सम्पत्तिर् बोधिता ।
यद् वा, व्रजेश्वरत्वेन नाथ ! इति । तत्रापि भर्तृ-प्रयोजन-सिद्ध्या रमण ! इति । तत्रापि जारत्वेन प्रेष्ठ ! इति । तत्रापि परम-सुन्दरत्वादिना महाभुज ! इति । यद् वा, क्वासि ? क्वासि ? इति परमार्त्या विलपन्ती सुविह्वला भूमौ निपतन्ती तद्-आलिङ्गनम् इच्छन्ती स्मरन्ती चाह—महाभुज ! इति ।
"न च दूरे स्थित्वा, अत्राहम् अस्मि" इति वक्तव्यम् इत्य् आह—मे मां प्रति तव सन्निधिं दर्शय सन्निहितो भवेत्य् अर्थः । कुतः ? दास्याः, तत्रापि कृपणायाः । अन्यथा मद्-अन्त्य-दशायां सत्यां त्वयानुतप्यत एवेत्य् आशयेनाह—हे सखे ! परम-प्रिय ! इति ।
यद् वा, सन्निधि-दर्शने च क्वापि वञ्चना पूर्ववन् न कार्या इत्य् आह—सखे ! हे परम-विश्वासास्पदेति ।
अथवा, ननु "प्रियतमे ! त्वां हित्वा नाहं कुत्रापि गतोऽस्मि । त्वद्-अन्तिकम् एव वर्ते" इति चेत्, तर्हि "त्वाम् अहं मुग्धा नैव पश्यामि । सख्येन त्वम् एवात्मानम् अभिव्यञ्जय" इत्य् आह—दास्या इति । अन्यत् समानम् ।
यद्यपि विरह-वैकल्येनानुसन्धानापगमाद् विलापेऽर्थ-सङ्गतिर् नापेक्षेत, असङ्गतिश् च गुण एव, तथापि तादृशीनां यत्-किञ्चिद्-वाक्यम् एव सर्वार्थं सेवत इति यथा-भक्ति26 किञ्चिल् लिख्यते। एवम् अग्रेऽपि ज्ञेयम् । ततश् च सा विमुह्यन्ती हन्त भूमाव् अपतद् इति ज्ञेयम्, अग्रे मोहिताम् [भा।पु। १०.३०.४१] इत्य्-उक्तेः । अथवा, स्कन्ध आरुह्यताम् [भा।पु। १०.३०.३९] इत्य्-उक्तेः ।
प्रेमौत्कण्ठ्य-कृतेन वैचित्त्येन पुरो वर्तमानस्यापि कृष्णस्य तथानवलोकनात् । अन्तर्दधे कृष्णः [३९] इत्य् उक्तम् । वस्तुतस् तु कौतुकत्वाद् एव स तत्र तूष्णीं स्थितः । ततः प्रेम-वैचित्त्य-भाजस् तस्या अनुतापः । तथान्या गोपीः सन्निहिता दृष्ट्वा कृष्णेनान्तर्हितम् एवेति ज्ञेयम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विलपम् एवाह—हा नाथ ! इति । हा खेदे आर्ति-सम्बोधने वा । ततश् च सर्वत्रैव योज्यम् । नाथ ! स्वामितया पालक ! रमण ! कान्तोचित-सुख-प्रद ! प्रेष्ठ ! मद्-विषयकत-चित-प्रेम-विस्तारक ! क्वासि ? एवम् एवं मयि स्निग्धोऽपि सम्प्रत्य् एकाकी क्व वर्तसे ? हा हा तद्-अज्ञानेन मम चित्तं क्षुभ्यतीति भावः । वीप्सापि वैयग्र्येण पुनर् आलिङ्गनादि-निज-सौभाग्य-स्मारकेण निज-रसोद्दीपक-तद्-अङ्ग-विशेष-सौन्दर्य-स्मरणेन मुह्यन्तीवाह—महा-भुज इति । पुनर् अतिदैन्येनाह—दास्या इत्य्-आदि ।
तत्रैव किं पुनर् अपि ममालिङ्गनादि-लाभाय मम वासं मृगयसीत्य् आशङ्क्य—नहि नहीत्य् आह—सखे दत्त-निज-साहचर्य-सौभाग्य सन्निधिं निज-सन्निधानम् अपि दर्शय ज्ञापय मात्रम् । साहचर्य-दानेन भवतैव जनित-व्यसनानि सम्प्रति तत्र मा गृह्णामि, किन्तु त्वम् अत्र विद्यस इति मनसापि निश्चयतः स्वस्था भवेयम् इति भावः ।
तत्र हेतुः—दास्याः सख्यादाव् अयोग्यायाः, किन्तु तादृश-त्वत्-कृपयैव बलाद् उत्पादित-त्वद्-एक-सुखानुकूल्यात् पर्याया इत्य् अर्थः । तत्रापि कृपणायाः तद् इदं दुःखं सोढुम् अशक्तायाः परिहर्तुं चाजानत्या इत्य् अर्थः । अतो न मयि वञ्चना कार्या । नापि निजानुताप-बीजं वप्तव्यम् इति भावः । औदार्य-नामा चानुभावोऽयम् । यथोक्तम्—औदार्यं विनयं प्राहुः सर्वावस्था-गतं बुधा [उ।नी। ११.१५] इति । ततश् च सा विमुह्य हन्त भूमाव् अपतत् इति ज्ञेयम् । अग्रे मोहिताम् इत्य्-उक्तेः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : अनुताप-प्रकारम् आह—हे नाथ इति । हे महाभुज ! सन्निधिं दर्शय । यद्यपि सन्निधिस् तवानुमीयते, अत्रैवासि, न क्वापि गतो\ऽसि, तथापि तं दर्शय इत्य् अर्थः । महा-भुज इति भुज-स्पर्श-सुखानुभव-सूचकम् अन्तर्धाय भुजाभ्यां परिरभ्य स्थित इति बोद्धव्यम् । तच् च स्वप्न-लब्ध-सुहृद्-आलिङ्गनवत् । तत् क्वासि क्वासि ? भुज-स्पर्श एवानुभूयते, न तु त्वम् । पश्चात् पुरतः पार्श्वतो वासीति नोपलभ्यसे । तस्मात् सन्तम् अपि सन्निधिं दर्शय इत्य् अर्थः ॥४०॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : विप्रलम्भे यथा तासाम् अवस्था जाता तथैवैतस्या अप्य् अभवद् इति तस्याः विलापम् आह—हा नाथ इति । हा इत्य् आर्ति-ज्ञापनार्थम् । हे नाथ ! हे स्वामिन् ! प्राण-नाथ ! मयायुक्तं कृतं, त्वया क्षन्तव्यम् । यतस् त्वम् अस्मत्-स्वामी ह्य् असि । अहं दासी त्वया न त्याज्येति । हे रमण ! रति-प्रदस् त्वं भोक्ता, वयं भोग्याः । अतो यथा रमणं भवेत्, तथा त्वया समीप एव स्थातव्यम् इति हेतोः । हे प्रेष्ठ ! प्रियतम एवं कृतवत्य् अपि त्वय्य् एव प्रीति-विषय इति न चान्य-प्रीति-विषयो\ऽस्ति ।
अतिताप-व्यक्तया विक्लव-वचनम् आह—क्वासि ? दुःख-महार्णव-निमग्नां माम् उद्धर्तुम् अर्हसीत्य् आशयेनाह—हे महाभुज ! दीर्घ-भुजाभ्यां दृढम् आलिङ्ग्योद्धर्तुं त्वम् एव योग्यो नान्य इति ।
नन्व् अहम् अत्रैव वर्ते किम् इति विलपयसि ? इति चेत्, तत्राह—ते दास्याः सन्निधिं दर्शय स्व-नैकट्य-दर्शने दास्य-सम्भवात् । हे सखे ! सता सप्त-पदं मैत्रम् [] इति वचनात् । अहं तव सखी चिर-सहचर्या, अतो न वञ्चनीयेति । कृपणाय त्वां त्यक्तुम् अशक्नुवत्या दशम्य्-अस्वस्था-संनिहिताया मे मम सन्निधिं समीचीनं निधिं तव मुखारविन्दं दर्शय । दशम्य्-अवस्थातः प्राग् एव, अन्यथा वास्या लोपे सति पश्चात् तप्स्यसे । अतः शीघ्रं दर्शय इति ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विलापम् एवाह—हा नाथ इति । त्वद्-वियोग-महाग्निना दह्यमानाद् अस्माद् देहान् मे प्राणाः सम्प्रति निःसृत-प्रायाः । यत्नेनापि मया रक्षितुं न शक्यन्ते । एषां तु त्वम् एव नाथः, अतो दर्शनं दत्त्वा शीघ्रम् एतान् रक्षेति भावः। न चैषां रक्षाम् अहं स्वार्थम् एव प्रार्थये, किन्तु त्वद्-अर्थम् एवेत्य् आह—हे रमण इति । सर्वा अप्य् अन्या गोपीस् त्यक्त्वा रमण-सुख-विशेषार्थं याम् एतावद् दूरं रहः समानैषीः, तस्यां मयि मृतायाम् एवं रति-सुखम् अन्यत्रालभमानो मां स्मरंस् त्वम् अपि दुःखेन विलपिष्यसीति भावः ।
नन्व् अस्तु मद्-दुःखं, तेन तव किम् ? तत्राह—हे प्रेष्ठ इति । तव मत्-प्रेष्ठत्वात् तदीयं तद् दुःखं कोटीगुणीभूय मय्य् एव फलिष्यति । मत्-प्राण-कोटी-निर्मञ्छनीय-पादाब्ज-नखरैक-देशस्य तव तद् दुःखम् अहं मृत्वापि सोढुं न पारयिष्यामि । अतः कृपया सन्निधाय तद् एव दुःखं दूरीकुरु इति भावः ।
ननु यदि निःसृत-प्राया एव प्राणास् तदा तान् अहम् अपि कथं निवर्तयितुं प्रभविष्यामि ? तत्राह—हे महाभुज इति । त्वद्-भुजस्य मृत-सञ्जीवनौषधस्य स्पर्श-मात्रेणैव सुस्थ-सुशीतली-भूते देहे\ऽस्मिन् प्राणाः स्वयम् एवागत्य स्थास्यन्तीति भावः ।
ननु मां विना स्वस्या गतिम् एवं जानासि चेन्, महाराज-कुमारं परम-सुकुमारम् आदरणीयं मां "नय मां यत्र ते मनः" [भा।पु। १०.३०.३८] इत्य्-आदिष्टवती किम् अकोपयः ? तत्र सकाकु-वैयग्र्यम् आह—दास्यास् ते कृपणाया मे इति । तदानीं विलास-श्रम-निद्रालस्याभिभूतयैव दीनया मया तथोक्तम् । क्षमस्व मा कुप्येति भावः ।
किं च, अयोग्ययापि मया सह त्वम् एव दृढं यत् सख्यम् अकरोः, तेनैव तथाहम् अवोचम् इत्य् आह—हे सखे इति । हे प्रिये, तर्हि प्रसन्नो\ऽभूवं मत्-समीपम् एहीति चेत्, सम्प्रत्य् अनुताप-दुःखेनान्धास्मि । त्वं क्व वर्तसे ? इति न पश्यामीत्य् आह—दर्शय सन्निधिम् इति । एतावद् एव विलप्य विरहोद्घूर्णा-वशात् संमुह्य भूमाव् अपतद् इति ज्ञेयम् । अग्रे मोहिताम् [४१] इत्य्-उक्तेः ॥४०॥
॥ १०.३०.४१ ॥
अन्विच्छन्त्यो भगवतो मार्गे गोप्योऽविदूरतः ।
ददृशुः प्रिय-विश्लेषान् मोहितां दुःखितां सखीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्विच्छन्त्यो मृगयमाणाः । अविदूरतः समीपे ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गां दृष्टिं पान्ति रक्षन्ति दुर्विषय-गमन-राहित्येनेति गोप्य इन्द्रिय-वृत्तयः शास्त्र-विषयाः । भुक्तेः पूर्वम् अपरोक्ष-बुद्धेर् आविर्भाव-तिरोभावौ क्वचित् स्याताम् इति दर्शनाय—प्रिय-विश्लेषात् इति । दुःखिताम् इति—भू-तल-लुठन-लग्न-धूलि-कण्टक-क्षत-रक्त-स्वेद-बहुलाश्रु-धाराभिर् दुःखिनीत्य् एवं ज्ञापितम् ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विदूरतोऽत्यन्त-दूरेऽपि पूर्वं ददृशुः, तस्याः कान्ति-विशेषतः । यद् वा, विदूरतोऽन्विच्छन्त्यः, अग्रतो दूरं गत्वा अन्वेषयन्त्य इत्य् अर्थः । यद् वा, अ-कार-प्रश्लेषेण अविदूरतो निकट एव ददृशुः । ततश् च निज-वैकल्य-भरेण निकटेऽपि पूर्वं तस्यास् तम् आर्त-नादं न शुश्रुवुर् इति ज्ञेयम् । प्रियस्य श्री-कृष्णस्य विश्लेषाद् विच्छेदाद् दुःखितां पश्चान् मोहितां च भू-तल-विलुठन-लग्न-धूलि-कण्टक-क्षत-रक्ताक्त-सर्वागतादीनां बहुलाश्रु-धारालापं किल मुख-स्तनत्वादीनां लक्षणानां तादृश-मोहस्य च तद्-विश्लेषं विनान्यथानुपपत्तेः । मोहिताम् इत्य् अनेन सर्वाभ्योऽन्याभ्योऽस्याः प्रीति-विशेषोऽपि दर्शितः । तासां हि विरहार्त्या लीलानुकरणम्, अस्याश् चान्त्य-दशा-तुल्यो मोह इति । सखीं मिलितां तादृग्-अवस्थापन्नां दृष्ट्वा, सख्येन तुल्य-व्यथा एव विशेषतश् च तद्-द्विगुणित-निज-वेदनाः सर्वा अपि परिवृत्य रुरुदुर् इत्य् अर्थः । ततश् च पूर्वोक्त-मात्सर्यादिकं सर्वासाम् एव दूरे स्वयम् एवापगतम् इति तथा पश्चाद् बहु-प्रयत्नैस् तां स्व-संज्ञां विचित्र-चातुर्यैश् च स्वस्थतां शनैर् ईषत् प्रापयामासुः । ततश् चास्य तद् वृत्तं पप्रच्छुर् इति ज्ञेयम् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अविदूरतो नातिदूरत इत्य् अर्थः । अतिदूरे व्यवधान-सद्-भावात् । राकेश-शोभा-विजयि-शोभा-विशेषेण दूरेऽपि दर्शन-सम्भवात् । दुःखिताम्, अत एव मोहितां मूर्च्छितां सम-दुःख-भावनया विशेषतस् तस्या एकाकिन्या अपि परित्याग-दर्शनेन सुतराम् ईर्ष्यापगमाद् ऐकमत्याच् च सखीम् इत्य् उक्तं, किन्तु निज-सखीनाम् अत्र प्रेमावेश-विशेषो ज्ञेयः ॥४१॥
जीव-गोस्वामी (प्रीति-सन्दर्भः २८८) : ननु भगवद्-भक्तेषु परस्परं प्रतिपक्षित्वम् असम्भवम् अहृद्यं च। तथा तासां तत् सौभग-मदम् [भा।पु। १०.२९.४८] इत्य्-आदौ तद्-ईर्ष्या-मद-मानादि-दूरीचिकीर्षा श्री-भगवतोऽपि दृश्यते । तथा श्रीमता मुनिना स्वयम् अपि ताभिस् तत्र दौरात्म्य-शब्दः प्रयुक्तोऽस्तीति ।
तत्रोच्यते—सर्वैव हि श्री-भगवतः क्रीडा प्रीति-पोषायैव प्रवर्तते, भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भा।पु। १०.३३.३६] इत्य्-आदि । श्रुत्वापि इत्य् अर्थः । तत्र शृङ्गार-क्रीडायाश् चास्याः स्वभावोऽयं यत् खल्व् ईर्ष्या-मद-मानादि-लक्षण-तत्-तद्-भाव-वैचित्री-परिकरतयैव रसं पुष्णाति । यत एव तादृशतयैव कविभिर् वर्ण्यते, श्री-भगवता च स्व-लीलायाम् अङ्गीक्रियते । स्वस्मिन्न् अपि दक्षिणानुकूल-शठ-धृष्टतेति चतुर्-भेद-नायकत्वं यथा-स्थानं व्यज्यते । तस्मात् तल्-लीला-शक्तिर् एव तासु तत्-तद्-भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अत एव यदा सर्वासाम् एव तद्-विरहो भवति, तदा दैन्येनैक-जातीय-भावत्वापत्त्या सर्वत्र सख्यम् एवाभिव्यज्यते । यथा—अन्विच्छन्त्यो भगवत इति ।
इत्य् अत्र तस्यां पूर्वासाम् एव सखीत्व-व्यञ्जना । विरह-लीला च तासां झटिति श्री-कृष्ण-विषयक-तृष्णातिशय-वर्धनार्थैव । नागर-चूडामणीन्द्राय श्री-कृष्णाय च तासां तद्-वृद्धिर् अत्यर्थं रोचते । यथोक्तं, नाहं तु सख्यो भजतोऽपि जन्तून् [भा।पु। १०.३२.१०] इत्य्-आदिना । तस्मान् मध्ये विरहोऽपि भवति । तदा श्री-कृष्णस्य मद-मानादि-विनोदम् अतिक्रम्यापि तद्-अध्यवसायः स्यात् । ततो मद-मानयोः प्रशमाय [भा।पु। १०.२९.४८] स्व-विषयक-तृष्णातिशय-रूप-प्रसादाय चेति तासां तत्-सौभग- [तत्र] इत्य् अत्रार्थः । सर्व-समुदित-रास-लीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय प्रसादनायेत्य् अर्थो वा । ततस् तद्-वर्धनेच्छाप्य् आनुषङ्गीति समानम् ॥४१॥ (प्रीति-सन्दर्भ-२८८-सङ्ख्यकानुच्छेदस्य पश्चाद्-भागः १०.३०.३५ श्लोकस्य व्याख्यायां द्रष्टव्यः)
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : अथ तस्याः पूर्व-चिन्तितम् एवाह—अन्विच्छन्त्य इत्य्-आदि । प्रिय-विश्लेषाद् विचेतसो विरहिण्यो गोप्यः सखीं तां राधां ददृशुः । कीदृशीम् ? ऊहितां वितर्किताम्। सा चेद् भवति, कथम् एकाकिनी ? सा चेन् न भवति, तदा केयम् अन्या ? इति प्रथमम् ऊहितां, पश्चाद् ददृशुर् ज्ञातवत्यः । किन्तु मा दुःखिताम् आत्मवद् विच्छेद-दुःख-भाजं न ददृशुर् इत्य् अर्थः, प्रच्छन्न-भगवद्-अङ्ग-सङ्गवत्त्वात् ॥४१॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ततश् च विरह-व्याकुलिता भूमाव् अपतत् । ततः किं वृत्तम् ? इत्य् अपेक्षायां प्रेम-विवर्त-स्वभावं कथयन् अन्यासां गोपीनां मार्गणैः तस्याः प्राप्तिम् आह । अयम् एव प्रेम-विवर्तः । यत् समीप-स्थम् अपि प्रेष्ठं न पश्यन्ति, यथा कुररी-विलापे । अतः केनापि कौतुकेन तन्-मण्डले तत्-समीप एव वर्तमानस् तूष्णी-भावेन पश्यति । तत्-प्रेमालापान् शृण्वन्न् अतिष्ठत् । अत उक्तं ततश् चान्तर्दधे कृष्ण [भा।पु। १०.३०.३९] इति। अग्रे श्री-कृष्णो\ऽपि वदिष्यते—मया परोक्षं भजता तिरोहितम् [भा।पु। १०.३२.२१] इति ।
इदानीं तासां तस्याः मिलन-प्रकारम् आह—अन्विच्छन्त्य इति । एवं पूर्वोक्त-प्रकारेण भगवतो मार्गम् अन्विच्छन्त्यो मृग्यमाणाः सर्वा एव गोप्यो\ऽविदूरतो निकट-प्रदेश एव भुवि पतितां सखीं श्री-कृष्ण-त्याग-जनित-दुःख-साम्यात् सखीत्वेन प्रतीतां दुःख-साम्याद् एवेर्ष्यापगमो\ऽपि स्वत एव जातः । प्रिय-विश्लेष-मोहितां प्रियस्य कृष्ण-विश्लेषाद् विरहान् मोहितां स्व-सादृश्यं प्राप्ताम्, यतो दुःखितां मान-विपाकं प्राप्तां ददृशुः॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्विच्छन्त्यः अन्वेषयन्त्यः । विदूरतो\ऽपि ददृशुर् इति तस्या विद्युत्-तुल्य-कान्तिमत्त्वात् सखीम् इति तस्यास् तादृश-दशा-दर्शनेन विपक्षाणाम् अपि तत्र स्नेहोदयात् । किं च, उज्ज्वल-रसस्य स्वभाव एवायं यत् कान्तस्य कान्ता-मात्र-विमुक्तत्वे ज्ञाते सति कान्तानाम् ईर्ष्या-द्वेषाद्य्-अभावः, परस्पर-स्नेहवत्त्वं च । यद् उक्तं—अत एव हि विशेषे स्नेहस् तासां प्रकाशते [उ।नी। ९.४३] इति ॥४१॥
॥ १०.३०.४२ ॥
तया कथितम् आकर्ण्य मान-प्राप्तिं च माधवात् ।
अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ???
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तया सख्या । मान-प्राप्तिं स्कन्धारोह-लक्षणाम् । पक्षे, अपरोक्ष-लक्षणाम् । दौरात्म्यात् अभिमानात् । अवमानं त्याग-लक्षणम् ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दौरात्म्यात् आत्मनः प्राधान्य-मननात् ॥४२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च तया कथितं सर्वम् इति शेषः । यद् वा, पुनर् दुःखोदय-भयेन ताभिर् अपृष्टम् अपि सखीनां समागमात् स्वयम् एव विलाप-रूपेण वर्णितं तद्-वृत्तम् इति शेषः । इति पृथग्-वाक्यम् एकम् एव वा । ततश् च मान-प्राप्तिम् आकर्ण्य च-काराभ्याम् उभयोर् एव प्राधान्यं द्योत्यते । तत्-तत्-प्रकारेण रमणात् । तथाकस्माद् एव रसावसरे अन्तर्धानाच् च । माधवात् लक्ष्मी-कान्ताद् अपीति । यद् वा, मधुना मधुर-रसेन क्रीडति सदेति । तस्मान् मान-प्राप्ति-योग्या मत्तोऽप्य् अधिका काचिद् अन्यैव, न त्व् अहम् । तथापि केवलं तत्-कारुण्य-महिम्नैव, न च निज-गुणैस् तादृश-मानं प्राप्तेति भावः । एवं भद्रं श्री-भगवत्-कारुण्यादि-गुणत एव । अभद्रं च सर्वं निज-दोषाद् एव वक्तव्यं मन्तव्यं चेति । साधून् अपि शिक्षयामासेति ज्ञेयम् । यद् वा, श्री-कृष्णाद् दूरे आत्मा स्वयं श्री-कृष्णो वा यस्याः, सा दुरात्मा, तद्-भावो दौरात्म्यं, तस्मात् । तद्-दूर-गमनाद् इत्य् अर्थः । परमं विस्मयं सद्य एव तादृशानुग्रह-निग्रहाभ्याम् ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव च तया कथितम् आकर्ण्य इति रोदन-संज्ञा-प्रापण-प्रश्नान्तरम् इति ज्ञेयं । कथितम् "कथं भवतीभ्यो विच्छिन्ना बभूवाहम् इति नाज्ञासिषं, किन्तु दूरत एवात्मानुसन्धानम् अकार्षम्" इत्य्-आदि प्रकारकं सर्वं वृत्तम् आकर्ण्य, तत्रापि माधवात्, नूनं लक्ष्म्यापि रमणतया स्पृहणीयात् सर्व-गुणादि-सम्पत्तेः पत्युर् वा तस्मात् स्वत एव परम-सौभाग्य-लाभ-लक्षणां सम्मान-प्राप्तिं च आकर्ण्य, तत्रैव गर्व-लक्षणान् निज-दौरात्म्यात् परित्याग-लक्षणम् अवमानं च आकर्ण्य विस्मयम् इत्य्-आदिकोऽन्वयः ।
अत्र तु दौरात्म्य-शब्द-प्रयोगस् तद्-दैन्य-वचनानुवादात् । वस्तुतस् तु श्री-कृष्णाद् दूरे आत्मा देहो यस्याः, दूरे आत्मा श्री-कृष्णो वा यस्याः, सा दूरात्मा, तस्या भावो दौरात्म्यं, तस्माद् दूर-विश्लेषाद् इत्य् अर्थः । परमं विस्मयम् इत्य्-आदिकस्य तया कथितम् इत्य्-आदिना त्रयेणाप्य् अन्वयश् च । तत्-सहितान्तर्धानादि-सर्व-तच्-चरितस्य स्व-सहित-तच्-चरिताद् अपि दुर्वितर्क्यत्वात् । तत्रापि तादृश-मान-प्राप्तेः । स्वेषु परः-कोटिष्व् अप्य् अदृष्ट-चरत्वात् । तत्र च सति तस्याम् अप्य् अवमानस्य परमासम्भवाद् इति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तया कथितम् आकर्ण्य, तत्रैव सङ्ग-नयनादि-लक्षणां मान-प्राप्तिं चाकर्ण्य, परित्याग-लक्षणम् अवमानं चाकर्ण्य इत्य् अन्वयः । अत्र तु दौरात्म्य-शब्द-प्रयोगस् तद्-दैन्य-वचनानुवादात्, वस्तुतस् तु दूरः श्री-कृष्णस्यानिकट आत्मा देहो यस्याः, तस्या भावो दौरात्म्यं, तस्माद् धेतोर् इति ॥४२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ मिलने सति ताभिः पृष्टया तया सर्वम् एव कथितम् इत्य् एतद् एवाह—तया इत्य्-आदि । तया कथितम् इत्य् एकं वाक्यम्, तया आनुपूर्व्यं सर्वम् एव कथितम् इत्य् अर्थः । तत्र कथने माधवान् मान-प्राप्तिम् आकर्ण्य विस्मयं ययुर् इत्य् अर्थः ॥४२॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तां दृष्ट्वा किं कृतम् ? इत्य् अपेक्षायाम् आह—तया इति । सख्य-भावेन बह्वीभिर् अवबोधितया । अत एव किञ्चिन् मोहाद् उन्मग्नयेति । प्रथमं तद्-वृत्तान्तं पृष्टया पश्चात् कृष्णस्येति । ततस् तया कथितं रमणं पुष्पावचय-केश-प्रसाधनादि-मान-प्राप्तिं वा आकर्ण्य । माधवात् लक्ष्मी-भर्तुः, अनेन वैदग्धी-विशेषः सूचितः । यद् वा, मूर्ताद् वसन्तात् । किं दौरात्म्याद् आत्मनः दर्पादि-लक्षणाद् अवमानम् उपेक्षा-लक्षणं प्राप्तम् आकर्ण्य परमं विस्मयं प्रापुर् इति । तत्-सहितान्तर्धानादि-केश-प्रसाधनादि-चरित-परिकलने\ऽवमान-सम्भवाद् विस्मय इत्य् अर्थः ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च सखीभिर् अत्युच्च-रोदनेन व्यजनादि-परिचर्यया यत्नतस् तत्-प्रबोधे सम्पादिते सति—अयि प्रिय-सखि ! स्व-वृत्तान्तः कथ्यताम् इति ताभिः पृष्टया तया कथितम् अपि प्रिय-सख्याः कथं भवतीभ्यो विच्छिन्नाहम् अभूवम् इति मुग्धाहं परतन्त्रा नाज्ञासिषम् । किन्तु मान-प्राप्तिर् अवमानश् च दौरात्म्याद् एवेति निश्चिनोमि । युष्मान् परः-सहस्राः प्रेमवतीर् अवमत्य स्व-विरहानलेन ज्वालयित्वा मह्यम् एकस्यै यत् सौभाग्यं दत्तम्, इदं तस्य दौरात्म्यं । तं दुर्लील-महाराज-पुत्रं प्रति वराक्य् अपि मुग्धा न पारये\ऽहं चलितुं नय माम् [भा।पु। १०.३०.३८] इति यद् अवोचं, एतत् तु ममैव दौरात्म्यं, यत एतावान् अवमाणः प्राप्त इत्य् उभयथापि मे महा-मनो-दुःखम् एवेति । स्व-कान्ते तासु कस्मिंश् च क्रमेणासूया-विनय-दैन्यानि व्यञ्जितानि । अत्र श्रीमन्-मुनीन्द्रेण दौरात्म्य-शब्द-प्रयोगस् तु तस्य वचनानुवादाद् एव । वस्तुतस् तु श्री-कृष्णात् दूरे आत्मा यस्याः दूरे आत्मा श्री-कृष्णो वा यस्याः सा दूरात्मा, तस्या भावो दौरात्म्यं, तस्माद् विश्लेषाद् इत्य् अर्थः ।
विस्मयं परमं ययुर् इति "प्रिय-सखि ! भवत्याः सौभाग्यम् उचितम् एव । नात्र तस्य दौरात्म्यं रति-श्रान्तायाः स्वाधीन-भर्तृकायास् तव कान्तं प्रत्याज्ञापनम् अपि न , प्रत्युत रसावहम् एव । किन्त्व् अनुकूल-नायकेन सम्भुक्त-कान्ताया यद् आज्ञोल्लङ्घनम् एतादृश-दुरवस्था-प्रापणं च, एतद् एव रस-प्रतिकूलं दौरात्म्य-व्यञ्जकम् । हन्त हन्त महा-रसिक-शेखरस्य महा-प्रेमवतो दया-निधेस् तस्य कथम् एवं चिकीर्षितम् अभूद् इति परमं विस्मयं प्रापुः ॥४२॥
॥ १०.३०.४३ ॥
ततोऽविशन् वनं चन्द्र-ज्योत्स्ना यावद् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः27 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततस् तयापि सहिताः कृष्णान्वेषणाय वनम् अविशन् । ततो अस्यैव28 हरेर् अन्वेषणान् निवृत्ताः ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम इति । पुनर् विरह-वेदनया नेत्रेषु तमः प्रविष्टम् आज्ञाय । यद् वा, तमसि सान्धकार-गह्वर-वने प्रविष्टं श्री-कृष्णं ज्ञात्वेत्य् अर्थः । पौर्णमास्यां शशिनः सार्वरात्रिकत्वात् प्रसिद्ध-तमसोऽसम्भवाद् इति भावः । शास्त्र-विषयास् ता दुःशास्त्रान् निवृत्य सच्-छास्त्राभ्यासाय यत्नं चक्रुर् इति ध्वन्यते । वस्तुतस् तु, तमः-शब्दोपलक्षित-हृदय-गुहा-प्रविष्टं, यो वेद निहितं गुहायाम् [तै।उ। २.१] इति श्रुतेः । आलक्ष्य ज्ञात्वा । हरेस् तद्-उपासनान् निववृतुः ताद्रूप्यम् आपुः ।
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद् अनन्तरम् ॥ [गीता ११.५५] इति स्मृतेः ।
यस्य देवे परा भक्तिः [श्वे।उ। ६.२३] इत्य्-आदि-श्रुतेः । भक्तिर् एवैनं गमयति [माठर-श्रुति] इति श्रुतेश् च । स्त्रिय इति—स्त्रीणाम् अन्धकारावृत-वन-प्रवेशासामर्थ्याद् इति भावः ।
"हरेर्" इति पाठः स्वामि-सम्मतः (?) । तत इत्य् अस्य पुनर्-उक्ति-समाधानाय तत इत्य् अस्यैव हरेर् अन्वेषाणाद् इति व्याख्यानात् । अन्यथा तत इत्य् अस्य प्राग्-विशेषणायोग्यता स्यात् । हरेस् तत इत्य् अन्वयाद्य्-असौष्ठवं च ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि परम-प्रेम-वैयग्र्येण तया सहिताः पुनर् अप्य् अन्वेषयामासुर् इत्य् आह—तत इति । यावद् वनं व्याप्य ज्योत्स्ना विभाव्यते लक्ष्यते, तावद् वनम् आविशन्, प्रविश्य तम् अन्वेषयामासुर् इत्य् अर्थः । तमसि प्रविष्टम् अत्यन्त-घन-वनत्वाद् अन्धकार-मयम् आलक्ष्य ततस् तस्माद् वनान् निवृत्ताह् । तथा च विष्णु-पुराणे—
प्रविष्टो गहनं कृष्णः पदम् अत्र न लक्ष्यते ।
निवर्तध्वं शशाङ्कस्य नैतद् दीधिति-गोचरः ॥ [वि।पु। ५.१३.४३] इति ।
स्त्रिय इति स्त्रीणाम् अन्धकार-वन-प्रवेशे सामर्थ्याभावाद् इत्य् अर्थः
"हरेर्" इति पाठोऽत्र केषाञ्चिन् मतम् । स च श्री-स्वामि-पादानाम् असम्मतो लक्ष्यते । तत इति पुनर्-उक्तेः समाधानार्थं, तत इत्य् अस्यैव हरेर् अन्वेषणाद् इति व्याख्यानात् । अन्यथा तत इत्य् अस्य अन्वेषणाद् इति व्याख्याने तस्य प्राग्-लिखनायोगात् । तथा हरेस् तत इत्य् अन्वयाद्य्-असौष्ठवं च ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः परम-वैयग्र्येण सखीभिर् दत्तावलम्बनया तयैव सहिताः पुनर् अप्य् अन्वेषयामासुर् इत्य् आह—तत इति । यावद् वनं व्याप्य ज्योत्स्ना विभाव्यते लक्ष्यते, तावद् वनम् अविशन् प्रविश्य तम् अन्वेषयामासुर् इत्य् अर्थः । तमसि महा-गहन-गते प्रविष्टं श्री-कृष्णं पद-चिह्नादिना वितर्क्य, ततस् तस्माद् वनान् निवृत्ताह् । तथा च विष्णु-पुराणे—
प्रविष्टो गहनं कृष्णः पदम् अत्र न लक्ष्यते ।
निवर्तध्वं शशाङ्कस्य नैतद् दीधिति-गोचरः ॥ [वि।पु। ५.१३.४३] इति ।
स्त्रिय इति स्त्रीणाम् अन्धकार-वन-प्रवेशनासामर्थ्याद् इत्य् अर्थः, शङ्का-दिग्ध-स्निग्ध-स्वभावतया । निज-दयितस्य स्वेभ्य एवापन्नतया तत्र प्रविष्टोऽयम् इति वितर्कितः । तस्य तस्मात् दुःसञ्चर-स्थलान् निष्क्रमणाय व्यग्राः सत्य इत्य् अर्थः ।
"हरेर्" इति पाठोऽत्र केषाञ्चिन् मतम् । स च टीका-कृताम् असम्मतो लक्ष्यते । तत इति पुनर्-उक्तेः समाधानार्थं तत इत्य् अस्यैव हरेर् अन्वेषणाद् इति व्याख्यानात् । अन्यथा तत इत्य् अस्य प्राग्-विशेषणायोग्यता स्यात् ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : तत्रैकीभूय तत्रैव विचारण-क्रम-सञ्चार-क्रमेण यत्र चन्द्र-ज्योत्स्ना-प्रवेशो नास्ति तद्-वनम् उपस्थितम् इति कृत्वा ततो निवृत्तः प्राग्-दृष्टः पुलिनम् एवाययुर् इत्य् आह—ततो\ऽविशन्न् इत्य्-आदि त्रिभिः ॥४३॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ततस् ताः कृत-तापापनोदनया तया सह पुनर् अन्वेषणं चक्रुर् इत्य् आह—तत इति । ततस् तत्-कथनानन्तरे तद्-अन्वेषणार्थं तया सह तद्-उपदिष्ट-मार्गेण विरल-च्छायं वनम् आविशन् प्रविष्टाः । यावद् व्याप्य चन्द्र-ज्योत्स्ना विभाव्यते प्रकाशते, तस्य वन-प्रवेशं सम्भाव्य मृगयामासुः । अग्रे तमः-प्रविष्टं वनस्पति-निविडत्वात् वर्ण-साम्याद् अविलक्ष्यं श्री-कृष्णं मत्वा ततो हरेर् अन्वेषानात् निववृतुः निवृत्ताह् । तथोक्तं विष्णु-पुराणे—
प्रविष्टो गहनं कृष्णः पदम् अत्र न लक्ष्यते । > निवर्तध्वं शशाङ्कस्य नैतद् दीधिति-गोचरः ॥ [वि।पु। ५.१३.४१] > इति ।
स्त्रीणां भीरु-स्वभावत्वाद् अन्धकार-प्रवेशासामर्थ्याच् चेति । तत इति सार्व-विभक्तिकस् तसि। तस्य हरेर् इति न पौनरुक्तम् । अनेन सञ्चारि-विशेषो निर्वेदो जातः । गृहान् न गताः, न च स्मृतवत्यः रत्याख्य-स्थायि-भावस्य दृढ-मूलत्वाद् इति ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च वैराग्येण सखी-दत्त-हस्तावलम्बया तया सहैव तास् तम् अन्वेषयामासुर् इत्य् आह—तत इति । चन्द्र-ज्योत्स्ना यावता विभाव्यते इति पूर्णिमा-रजन्याम् अपि निविड-वृक्ष-च्छाया-वशाद् एव तमः । यद् उक्तं विष्णु-पुराणे—
प्रविष्टो गहनं कृष्णः पदम् अत्र न लक्ष्यते । > निवर्तध्वं शशाङ्कस्य नैतद् दीधिति-गोचरः ॥ [वि।पु। ५.१३.४१] > इति ।
वस्तुतस् तु "हंहो खेद-सिन्धु-निमग्नाः सख्यः ! घन-श्यामतमे\ऽस्मिंस् तमसि घन-श्याम-वपुषं तमस् तद्-अवलोकन-शङ्कयैव प्रलीनीभूय स्थितम् । मा सङ्कोचयत । यत्र यत्र यूयं यास्यथ, ततस् ततो\ऽन्यत्रैव स पलायिष्यते इत्य् अलम् अतिसुकुमार-शरीरस्य तस्य श्रमोत्पादन-व्यवसायेन" इति विमृश्यैव निववृतुर् इति ॥४३॥
॥ १०.३०.४४ ॥
तन्-मनस्कास् तद्-आलापास् तद्-विचेष्टास् तद्-आत्मिकाः ।
तद्-गुणान् एव गायन्त्यो नात्मागाराणि सस्मरुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तम् अप्राप्ता अपि स्व-गृहान् नैव स्मृतवत्यः । तद्-आत्मिकाः स एवात्मा यासां ताः, तन्-मय्य इत्य् अर्थः ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति ध्यानेन तदात्मतां प्राप्ता इति तात्पर्यम् । सत्त्व-बुद्धीनां स्वभावम् आह—तन्-मनस्का इति । तस्य आलापः कथनं यासां ताः । तद्-गुणान् न तु दोषान् । गायन्त्य इति—मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद इत्य् उक्ते भगवतो गीत-प्रियत्वाद् इति । आत्मागारानि देह-गेहानि ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तन्-मनस्का इत्य्-आदि । तस्मिन् मनो यासाम् इत्य्-आदिना सर्वासाम् एव मन-आदीनाम् एकाधिकरणत्वात् । तासां वासना-पार्थक्यम् एवास्ताम् इति भावः । अतस् तद्-अधिकरणत्वात् नात्मागाराणि सस्मरुः ॥४४॥
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१३४] ततो भगवत्-प्रेम-भरेण तद्-इतराशेष-विस्मृति-रूपं तासां माहात्म्यम्—तन्-मनस्काः [भा।पु। १०.३०.४३] इति । रास-क्रीडारम्भे श्री-भगवत्य् अन्तर्हिते परमार्ताः सर्वतो\ऽन्विष्य तम् अलब्ध्वा शरत्-पूर्ण-चन्द्र-ज्योत्स्ना प्रवेश-हीनान् महान्धकार-व्याप्ताद् घन-वन-प्रदेशान् निवृत्ताः सत्यो\ऽपि गोप्यो वा लौकिक-व्यवहार-युक्ताः । अस्तु तावत् स्व-स्व-गृहाणि यास्यन्ति, अथ च सस्मरुर् अपि । तत्र हेतुः—तस्य गुणान् एव, न तु परित्यागे\ऽपि नैष्ठुर्यादि-दोषान् गायन्त्यः ।
किं च, तस्मिन्न् एव मनो विविध-सङ्कल्प-विकल्पात्मकं यासाम् । तस्मिन्न् एव आलापो विचित्राह्वान-सङ्कीर्तनादिर् यासाम् । यद् वा, गानं रागादिना गीतादि-गानम् आलापो मिथो वार्तेत्य् एवं भेदः कल्पनीयः । तद्-अर्थम् एव विविधा चेष्टा—पुष्प-माला-ग्रन्थन-शय्यास्तरणादि-रूपा यासाम् । एवं मनो-वाक्-काय-वृत्त्या तद्-आत्मिकास् तन्मयाः, तद्-अर्पिता आत्मानो वा सत्यः, यद् वा, गृहेष्व् अपि तद्-अर्थकैस् तद्-एक-निष्ठैर् वा मनो-वाक्-काय-व्यापारैस् तन्मयतया गृह-कृत्यं तद्-अनुसन्धानं च तासां नास्त्य् एवेति ।
तत्र कुतो यान्तु ? अधुना च विरहेण विशेषतस् तद्-गुणान् गायन्त्यो न तानि सस्मरुर् एवेत्य् अर्थः । यद् वा, विरहार्त्यौत्कण्ठ्याद् भगवद्-भावना-विशेषेण ।
किं वा, विचित्र-लीला-महा-कौतुकिनस् तस्य परमावेशेन तस्येव भय-दुःखादि-रहितं मनो यासाम् तस्य एव गम्भीर-स्वर-नर्म-भङ्ग्य्-आदि-युक्त आलापो यासाम्, तस्येव विचित्रालिङ्गन-चुम्बनादि-रूपा चेष्टा यासाम् तस्यैवात्मा देहः त्रिभङ्गानुकरणादिना यासाम् एवं तन्-मयत्वे जाते\ऽपि निर्गुणात्मना योगिनाम् इव तासां स्वभाविकी तद्-भक्तिर् नैव तिरोधत्तेत्य् आह—तद्-गुणान् गायन्त्य एव इति । इत्थं तद्-आविष्टतया नात्मानम् अपि ताः सस्मरुः, कुतस्तरां तत्-सम्बन्धीन्य् अन्यानि ? इत्य् आह—नात्मेति । आत्मानं भोक्तारं आगाराणि च देह-गेहानि भोग-साधन-भाग्यानीत्य् अर्थः ॥१३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि स्व-गृहान् गच्छेयुर् इति किं वक्तव्यम् ? न च स्मृतवत्योऽपीत्य् आह—तन्-मनस्का इति । आत्मनः स्वीयानि विचित्र-सुख-सम्पत्तिमयानि, किं वा, गृह-कृत्यार्थम् अभ्यास-वशेन गम्यान्य् अपि, यद् वा, आत्मानं देहं क्षेत्रज्ञं वा, आगाराणि गृहाणि, देह-गेहानि वेति भोक्तृ-भोग-साधन-भोग्यान्य् उक्तानि ।
तद्-अस्मरणे हेतुः—तन्-मनस्का इत्य्-आदि पद-त्रयेण तस्मिन् मनो-वाक्-कायाभिनिवेश उक्तः । तत्र मनसोऽभिनिवेशस् तद्-गुणादि-स्मरणेन तद्-विषयक-विविध-सङ्कल्पादिना वा । [तद्-आलापाः—] वाचः अन्योन्यं तद्-वार्तया कदाचित् तद्-आह्वानादिना च । [तद्-विचेष्टाः] कायस्य च पूर्ववत् तच्-चेष्टानुकरणेन प्रणामार्थ-दण्डवन्-निपातेन तद्-अर्थ-पुष्प-माला-ग्रथन-शय्यास्तरणादिना चेति । अत एव तद्-आत्मिकास् तन्-मय्यः । किं वा, उक्त-प्रकारेण तद्-अर्पितात्मानः । अतस् तस्य गुणान् एव, न तु परित्यागेऽपि नैष्ठुर्यादि-दोषान् गायन्त्यः । गानं च श्री-भगवतो गीत-प्रियत्वात् । तथा चोक्तं तेनैव—
नाहं वसामि वैकुण्ठे योगिनां हृदये न वा ।
यत्र मद्-भक्ता गायन्ति तत्र तिष्ठामि नारद ॥ इति ।
एवं श्री-भगवद्-वशीकरण-हेतुत्वाद् गानस्य सर्वतः श्रैष्ठ्यम् अभिप्रेतम् ।
यद् वा, तदानीं तासां तद्-अनुसन्धानाभावेन केवलं विरहार्ति-भर-स्वभावाद् एव । तथापि सर्वान्ते निर्देशात् तथा शतृङ्-प्रत्ययान्तत्वेनानुस्मरणे प्राधान्यात् तस्य श्रैष्ठ्यं सिद्धम् एव । तत्र च आलाप-गानयोर् युगपद् असम्भवात् कदाचिद् अलापः कदाचिद् गानम् इत्य् ऊह्यम् । [कासाञ्चिद् आलापः कासाञ्चिद् गानम् इति बोध्यम् ।]
यद् वा, तन्-मनस्का इत्य्-आदि पद-चतुष्केण तासां सदातनः स्वभाव उक्तः । अत एवाधुना विरहार्त्या गायन्त्य इति । तदात्मिका इति पूर्ववद् अन्त्य-दशा-परिहारार्थं वा । यद् वा, तत्-परिहारार्थम् एव ता विशिनष्टि विरहार्ति-विवृद्धि-स्वभावेन तद्-आवेशेन वा । तस्य मन इव भयादि-रहितं मनो यासां, तस्य आलाप इव गम्भीर-मधुराक्षरार्थ-भङ्गी-पूर्वक-नर्मादि-मय आलापो यासां, तस्य चेष्टेव विचित्रालिङ्गनादि-रूपा चेष्टा यासाम् । तस्य आत्मा देह इव त्रिभङ्गानुकरणादिना मनोहर आत्मा यसां ताः । तथापि तद्-गुणान् एव गायन्त्य इति तासां स्वभाव उक्तः । किं च, तेन तेन तत्-प्राप्त्य्-उत्कण्ठा विवृद्धेव, न तु निवृत्तेति च सूचितम् । अन्यत् समानम् ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च ततो निवृत्तास् तत्र प्रविष्टस्य तस्य व्यथते न किं स्वित् कूर्पादिभिः [भा।पु। १०.३१.१९]वक्ष्यमाण-रीत्या दुःख-शङ्कया परम-दुःख-मग्ना बभूवुर् इत्य् आह—तन्-मनस्का इति । तड्र्ग्-अवरोध-स्थलं प्रविष्टे तस्मिन्न् एव मना यासाम् । ततस् तादृशे तस्मिन्न् एव विषये आलापस् तद्-दुःख-स्मरणमयः संलापो यासां । ततस् तस्मिन्न् एव निमित्ते विचेष्टा यत्नान्तरेण तन्-निष्क्रमण-सम्भावनया परितः परिक्रमण-रूपा यासाम् । ततस् तस्मिन्न् एव आत्मा यत्नो यासां तथा भावाः सत्यस् तस्य निलीनता कारणापन्नाः तादृश-वशीभावमय-कृपादि-लक्षणान् गुणान् एव केवलं तया स्फुरितान्, न तु स्व-परित्यागादि-दोषान् गायन्त्यः । गानेन तं श्रावयन्त्यः आत्मानम् अपि न सस्मरुः, किम् उत आगाराणि इत्य् अर्थः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-गुणान् एव गायन्त्यः, न तु स्व-दुःखादिकम् अपि ॥४४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मिन् मनो यासां, समुद्दिश्यालापो यासां, तद्-अर्थम् एव विचेष्टा यासां, स एवाश्रयो यासां, तद्-गुणान् एव गायन्त्यः सत्य आत्मागाराणि शरीराणि न सस्मरुः॥४४॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु कृष्णम् अप्राप्तौ निर्वेदेन कथं गृहान् न गताः ? तत्र हेतुम् आह—तन्-मनस्का इति । ताः आत्मागाराणि आत्मानं क्षेत्रज्ञं देहं वा आगाराणि गृहान् न सस्मरुः, न स्मृतवत्यः । आत्मकं यासां ताः, स्वार्थे कः । यद् वा, तद् एव मनसि कं रमण-सुखं यासां ताः । यद् वा, तस्येव मनो विलास-विषयं यासां ताः । तद्-आलापः, तस्यैवालापो\ऽन्योन्यम् उक्ति-प्रत्युक्ति-रूपो यासां ताः । यद् वा, तस्यैवालापो भाषणं यासां ताः । तद् उक्तम् अत्रैव—मेघ-गम्भीरया वाचा नामभिर् दूरगान् पशून् [भा।पु। १०.१५.१३] इति । यद् वा, तस्यैवालापो गानो यो ध्यात-रूपो यासां ताः । तद्-विचेष्टा तस्यैव तद्-अर्थम् एव कायस्य विविधा चेष्टा पुष्पाद्य्-अवचयेन माल-यष्टि-कन्दुकादि-रचना-रूपा यासां ताः । यद् वा, तस्यैव पूर्ववन् निलायनादि-रूपा विविधा चेष्टा यासां ताः, तन्-मय्य इत्य् अर्थः । यद् वा, तस्मिन्न् एव आत्मा स्वभावो यासां, न तु गृहे ताः । यद् वा, तस्य एव आत्मा विलास-स्वभावो यासां ताः । अत एव तद्-गुणान् एव रूपान् कृष्णस्य गान-प्रियत्वात् गानम् एव चक्रुः, न तु गृह-स्मृतिम् इति ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्-मनस्कत्वेन एव पूर्ववद् उन्मादस्य मान्द्ये तद्-आलापाः दृष्टो वः कच्चिद् अश्वत्थ [भा।पु। १०.३०.५] इतिवत् तम् आलपन्त्यः, उन्मादस्य मध्यत्वे तद्-विचेष्टा कृष्णायन्त्य् अपिबत् स्तनम् [भा।पु। १०.३०.१५] इतिवत् तच्-चेष्टाम् अनुकृतवत्यः । उन्मादस्य प्रौढत्वे तद्-आत्मिकाः कृष्णो\ऽहं पश्यत गतिम् [भा।पु। १०.३०.१९] इतिवद् आत्म-विस्मृतौ तन्-मयी-भूताः । पूर्व-संस्कार-वशाद् एव गायन्त्य उच्चैर् अमुम् एव [भा।पु। १०.३०.४] इतिवत् तद्-गुणान् एवेति ॥४४॥
॥ १०.३०.४५ ॥
पुनः पुलिनम् आगत्य कलिन्द्याः कृष्ण-भावनाः ।
समवेता जगुः कृष्णं तद्-आगमन-काङ्क्षिताः29 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किन्तु पूर्वं यत्र श्री-कृष्णेन सङ्गतिर् आसीत्, तद् एव कालिन्द्याः पुलिनम् आगत्य कृष्णं भावयन्ति ध्यायन्तीति । तथा ताः कृष्णस्यागमनं काङ्क्षितं यासां ताः मिलिताः सत्यः कृष्णम् एव जगुर् इति ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किम् इतस् ततो भ्रमन्त्यो गानं चक्रुः ? तत्राह—किं तु इति । यत्र पुलिने । यत्र त्यक्तास् तत्रैवास्मान् कृपया सान्त्वयितुं नूनम् आगतः स्याद् इति हेतोः पुनस् तत्रागता इत्य् अर्थः । समवेताः न दुःखं पञ्चभिः सह इत्य् उक्तेर् एकीभावं प्राप्ताः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तदा किं चक्रुः ? इत्य् आह—पुनर् इत्य्-आदि । आत्मारामाणां देहा यथा यदृच्छया इतस् ततः सञ्चरन्ति । तथा पुलिनम् आययुः, न तु बुद्धि-पूर्वम् । तदा पूर्व-विरोधः ॥४५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनः पुलिनम् आगमनम् । तत्र परित्यक्ता अस्मान् श्री-कृष्णो नूनं कृपया सान्त्वयितुं तत्रैवागतः स्याद् इति मत्वा । किं वा, तद्-दर्शनाभावेन स्व-सहित-तत्-क्रीडा-स्थानस्यैव दिदृक्षया । अत एवोक्तं—कृष्ण-भावनाः कृष्णः चित्ताकर्षकं परमानन्द-प्रदं वा भावयन्त्यः । तत्र गतं मन्यमानाः । किं वा, कृत-क्रीडं चिन्तयन्त्यः । समवेता इत्य् उच्चैः श्री-कृष्णस्य श्रवणार्थं, न दुःखं पञ्चभिः सह इति न्यायात् विरह-स्वभावाद् एव वा । कृष्णं परमानन्द-घन-मूर्तिम् इति तद्-गानेनैव न किल प्राणा निर्गता इति भावः । तद्-आगमन एव काङ्क्षितं यासाम् इति कथञ्चिद् अप्य् अन्येच्छा न जाता । तद्-आगमनाकाङ्क्षा च न निवृत्ता । तत्र चागमन-शब्देनात्यन्त-विरहार्त्या सन्दर्शन-मात्रम् एवाकाङ्क्ष्यते, न त्व् अन्यद् इति भावः ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तत्रापि स्वैस् तस्यावरोध-शङ्कया सर्वम् अपि तद्-अन्वेषण-मार्गं परित्याज्य सर्वासां समेतानाम् अस्माकं निकटम् इदं निर्व्यवधानतया दूर-प्रसरच्-छब्दं तद् एव लीला-पुलिनं गतानां दैन्योपालम्भादिमयम् उच्चैर् गानम् आकलय्य स्वयम् एव करुणया श्री-कृष्णस् त्वरितम् आगमिष्यतीति तं भावयमानास् तथा चक्रुर् इत्य् आह—पुनर् इति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कीर्तयन्त्यः पुनः पुलिनम् आगमने हेतुः—कृष्ण-भावनाः, तं तत्र गतं मन्यमानाः । पुनर् दूराच् छून्यता-दृष्ट्यैव तद्-आगमनं काङ्क्षितं यासां, तादृश्यः ॥४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनर् इति पूर्वं श्री-कृष्णेन सह यत्र आजग्मुः । तद्-आगमनं तद्-आविर्भावः तत्र काङ्क्षितं, काङ्क्षा यासाम् । भावे क्तः । समवेता हृदयेन संवाद-भाजः । एक-वासनत्वात् । कृष्णे भावना यासां, तास् तथा कृष्णं जगुः । श्री-कृष्णो\ऽप्य् अन्तर्हित एवादृष्टः सन् सहैव तिष्ठतीति मन्तव्यम् ॥४५॥
नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तास् तदा किं कृतवत्यः ? इत्य् अपेक्षायाम् आह—पुनर् इति। यत्र श्री-कृष्णेन विहृतं, तत् कालिन्द्याः पुलिनं पुनर् आगत्य । ननु कृष्णेन यत्र परित्यक्ताः, तत्र कथं पुनर् गताः ? इति चेत्, तत्राह—कृष्ण-भावनाः । श्री-कृष्णो\ऽत्र पुलिने रतिं करिष्यतीत्य् आशया पुलिनम् अस्माकं सङ्गति-प्रदम् इति तत्रैवागताः । कस्य कस्या भाग्य-वशात् कृष्णः साधनान्तरम् अपश्यतः, अस्मद्-दैन्योपताप-संवलितम् उच्चैर् गानम् आकलय्य स्वयम् एवागच्छेद् इत्य् आबद्ध-हृदयाः कृष्णं मूर्त-शृङ्गारम् इत्य् उच्चैर् जगुः । तद्-आगमन-काङ्क्षिताः, दोष-सद्-भावे त्यक्ताः, कृष्ण-गुण-गानेन दोष-निवृत्तौ सत्यां कृष्णः स्वयम् एव प्रादुर्भविष्यतीति । तदा कालिन्दी-पुलिने कृष्णः सफलं भवतीति निश्चित्य तद्-आगमनं काङ्क्षितं यासां ताः । तत्-प्रतीक्ष्यमाणाः कृष्णस्य गान-प्रियत्वात् जगुर् इति ॥४५॥
पुनः पुलिनम् आगत्य कलिन्द्याः कृष्ण-भावनाः ।
समवेता जगुः कृष्णं तद्-आगमन-काङ्क्षिताः ॥
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "**हन्त हन्त यत्र तद्-अन्वेषणार्थं यामः, ततस् ततः स पलायिष्यते । तस्माद् वन-पर्यटन-कष्टं किम् ? तस्योत्पादयिष्यामस् तद्-इच्छां विना स न लभ्यो—यम् एवैष वृणुते तेन लभ्य [क।उ। १.२.२३] इति श्रुतिं प्रमाणी-कुर्वत्य इव तद्-दर्शने तत्-कारुण्यम् एव हेतुः, तत्-कारुण्ये च तत्-सङ्कीर्तनम् एव हेतुः" इति सिद्धान्तं प्रकाशयन्त्य इव पूर्वं यत्र तेन सङ्गतिर् आसीत्, तद् एव स्थानम् आजग्मुः, तम् एव जगुर् इत्य् आह—पुनर् इति ॥४५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रिंशो\ऽध्यायो\ऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यां संहितायां वैयासिक्यां
दशम-स्कन्धे रास-क्रीडायां
कृष्णान्वेषणं नाम
त्रिंशो\ऽध्यायः
॥ १०.३० ॥
(१०.३१)
-
नोत् फ़ोउन्द् इन् म्य् एदितिओन् ओफ़् रसार्णव। ↩︎
-
न्व् इति क्वचिद् दृष्टम् । ↩︎
-
व्यवेदिषुः इति क्वचिद् दृष्टम् । ↩︎
-
विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् ।
वृष-मयात्मजाद् विश्वतो-भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ ↩︎
-
गणयति गुण-ग्रामं भ्रामं भ्रमाद् अपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलत्-तृष्णे कृष्णे विहरति मां विना
पुनर् अपि मनो वामं कामं करोति करोमि किम् ॥१०॥ ↩︎
-
एवं मद्-अर्थोज्झित-लोक-वेद-
स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ ↩︎
-
अहो अमी देव-वरामरार्चितं
पादाम्बुजं ते सुमनः-फलार्हणम् ।
नमन्त्य् उपादाय शिखाभिर् आत्मनस्
तमो-\ऽपहत्यै तरु-जन्म यत्-कृतम् ॥ ↩︎
-
गतो इति प्रायः पाठः । इत इति स्वामि-सम्मतः । ↩︎
-
एण-पत्नीति “पत्युर् नो यज्ञ-संयोगे” इति सूत्राद् एणानां भवान्तर-यज्ञैर् याज्ञिकत्वं । एण्या यज्ञ-पत्नीत्वम् इति दृष्ट-प्रशंसा । ↩︎
-
प्रियायाः स्निग्धाया अंसे स्कन्धे । ↩︎
-
धूम-ज्योतिः सलिल-मरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटु-करणैः प्राणिभिः प्रापणीयाः ।
इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे
कामार्ता हि प्रकृति-कृपणाश् चेतनाचेतनेषु ॥५॥ ↩︎
-
घोषाः किङ्किण्यस् तासां निःस्वनैः सहिताव् अङ्घ्री कर्षन्ती सती रिङ्गयामास । णिज्-अर्थोऽविवक्षितः । ↩︎
-
अनुकुर्वतीम् इति वा पाठः (श्रीधरः) ↩︎
-
क्वचित् आरुह्यैकाम् इति पाठः । ↩︎
-
क्वचित् नन्व् इति पाठः (सनातन-प्रभुभिर् एव धृतः) ↩︎
-
साधारणतः गोपाल-तापनी-श्रुतौ दिव्येति पाठो दृश्यते । ↩︎
-
क्वचिद् धनम् इति पाठः, ↩︎
-
यदि तस्याः पदानि संपृक्तानि न भवेयुस् तर्हि एवं कृष्ण-प्राप्ति-साधनं तत्-पद-रजः-सेवनं भवेत् । तानि नु संपृक्तानि तत्-पदानि नो दुःखं कुर्वन्ति । तस्याः पाद-रजसा मिश्रितत्वात् कृष्ण-पाद-रजस इति भावः । ↩︎
-
थे ओन्ल्य् पेर्सोन् इ सेए wइथ् थिस् इन्तेर्प्रेततिओन् इस् रसिकाह्लादिनी। इत् इस् नोत् श्रीधर। पेर्हप्स् ओने ओफ़् थे ओथेर्स्, चित्सुख? ↩︎
-
एतत् पद्यं बहु-पुस्तकेषु न दृश्यते इति तोषणीकारैः। ↩︎
-
एतत् सार्ध-पद्यं क्वचिन् न दृश्यते च । अतो नाङ्का कृत इति वैष्णव-तोषणी-कारः। ↩︎
-
चूडतया इति क्वचिद् दृश्यते । ↩︎
-
चूडतया इति क्वचिद् दृश्यते । ↩︎
-
चात्म-रतः इति रसिकाह्लादिनी। ↩︎
-
आत्म-क्रीड आत्म-रतिः इस् थे अच्तुअल् फ्रसे। ↩︎
-
शक्ति ↩︎
-
हरेः इति कुत्रचित्। ↩︎
-
गौडीय-टीकाकृद्भिः अत्र अस्यैवेति पठ्यते। ↩︎
-
काङ्क्षिणीः ↩︎