२९

{अथोनत्रिंशोध्यायः ।उन्नुम्बेरेद्}

वेणु-नादं श्रुत्वा\ऽगतानां गोपीनां श्री-कृष्णेन सह संवादः, रासारम्भः, तासां मानापनोदाय भगवतो\ऽन्तर्धानं च । {#वेणु-नादं-श्रुत्वागतानां-गोपीनां-श्री-कृष्णेन-सह-संवादः-रासारम्भः-तासां-मानापनोदाय-भगवतोन्तर्धानं-च ।उन्नुम्बेरेद्}

॥ १०.२९.१ ॥

श्री-शुक उवाच—

भगवान् अपि ता रात्रीः शरदोत्फुल्ल-मल्लिकाः ।

वीक्ष्य रन्तुं मनश् चक्रे योगमायाम् उपाश्रितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ऊनत्रिंशे तु रासार्थम् उक्ति-प्रात्युक्तयो हरेः ।

गोपीभी रास-संरम्भे तस्य चान्तर्धि-कौतुकम् ॥अ॥

ब्रह्मादि-जय-संरूढ-दर्प-कन्दर्प-दर्पहा ।

जयति श्री-पतिर् गोपी-रास-मण्डल-मण्डनः ॥ब्॥

ननु विपरीतम् इदम्, पर-दार-विनोदेन कन्दर्प-विजेतृत्व-प्रतीतेः । मैवम्, योग-मायाम् उपाश्रितः [भा।पु। १०.२९.१], आत्मारामोऽप्य् अरीरमत् [भा।पु। १०.२९.४२], साक्षान् मन्मथ- मन्मथः [भा।पु। १०.३२.२], आत्मन्य् अवरुद्ध-सौरतः [भा।पु। १०.३३.१७] इत्य्-आदिषु स्वातन्त्र्याभिधानात् । तस्माद् रास-क्रीडा-विडम्बनं काम-विजय-ख्यापनायेत्य् एव तत्त्वम् । किं च, शृङ्गार-कथापदेशेन विशेषतो निवृत्ति-परा इयं पञ्चाध्यायीति व्यक्तीकरिष्यामः । ता रात्रीः याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति प्रतिश्रुता इत्य् अर्थः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपीभिः सह हरेः उक्तिः पूर्व-पक्षः । प्रत्युक्तिर् उत्तर-पक्षः । रासस्य नृत्य-विशेषस्य संरम्भे प्रारम्भे । उत्सवे वा कर्तव्य इति शेषः । तस्य हरेः । अन्तर्धेर् अन्तर्धानस्य कौतुकं कुतूहलं च ॥अ॥

ब्रह्मादीनां जयेन संरूढः प्राप्तो दर्पो यस्य एतादृशश् चासौ कन्दर्पः कामः, तस्य दर्पं गर्वं हन्तीति तथा । मण्डयति शोभयतीति मण्डनः ॥ब्॥

रासानौचित्यं शङ्कते—नन्व् इति । इदं रास-क्रीडनम् । परिहरति—मैवम् इति । न हि प्राकृतवद् भगवतो विनोदः, स्वातन्त्र्याद् अनन्याधीनत्वात् । विडम्बनम् अनुकरणम् । अपदेशः छद्म । निवृत्ति-पराः निवृत्ति-तात्पर्यिका । आत्मा कामाद् विरज्येत कामानाम् अतिसेवयाइत्य्-आद्य्-उक्तेः । ऐहिकामुष्मिक-सर्व-विषय-त्याग-पूर्वक-व्रजाङ्गना-कृत-भगवत्-पर-प्रेम्णो निवृत्तेः परावस्थत्वं स्फुटीभविष्यति । ताः काः ? या इत्य् एवं प्रतिश्रुताः प्रतिज्ञातः । इत्य् अर्थ इति—न त्व् इह तच्-छब्दः प्रसिद्धि-पर इति ज्ञेयम् ।

यद् वा, ता अज्ञाः प्रजा वीक्ष्य । किम्भूताः ? रात्रीः रात्रिवत् तमो-व्याप्ताः । तथा शर इव द्यन्ति खण्डयन्तीति शरदा दुःखदा पुत्राद्यास् तेषु उत्फुल्ल-मल्लिकादिवत् सुख-बुद्धयः, ताः । स्व-रमणादि विना तद्-उद्धारम् अपश्यन् । अयोगेषु या माया कृत्वा, ताम् । अशुभाद्य्-अयोगाय वा स्वस्मिन् योगाय या माया, ताम् उपाश्रितः । माया कृपायां लालायां मूलाज्ञाने छले तथा इति शाश्वतः

यद् वा, ता जिज्ञासु-रूपाः प्रजाः । किं-भूताः ? रा दाने इत्य् अस्मात् त्री रा-त्रीः उदारास् त्याग-शीला आत्म-निवेदिका वा । तथा शर इव द्यन्ति उत्फुल्ल-मल्लिकोपलक्षिताणि विषय-सुखानि याः, ता विरक्ताः, तासाम् अयोगाय उपाध्य्-अध्यास-बाधाय कृपाम् आश्रितः ।

यद् वा, योगाय ब्रह्माभेदाय या मा प्रमा, तद्-अर्थं ताभिर् उपाश्रितो वा

यद् वा, ता गोपी रात्रीः स्वात्म-समर्पिकाः । स्व-वियोगे शर इव द्यति इति शरदा, ताः उत्फुल्ल-मल्लिका यासां ताः, तासां कुल-लज्जादिभिर् अयोगाय स्वस्मिन् योगाय वा कृपाम् आश्रितः ।

यद् वा, अयोगा अन्यायोग्या स्वस्यैव योग्या वा, या मा तद्-अङ्ग-शोभा, तस्यां दत्त-चित्तः ।

यद् वा, यो भगवान् याम् उपाश्रितः सा राधा । किं-भूता ? अगमा नित्या मा अङ्ग-शोभा यस्याः सा । योगे संयोग एव मा शोभा यस्यास् तस्यां दत्त-चित्तः सोऽपि । समानम् इतरत् ।

यद् वा, योगाय व्रज-सुन्दरीणां संयोगाय मायः शब्दो यस्याः सा योग-माया वंशी । माङ्-शब्देऽपि इत्य् अस्य घञि रूपम् । ताम् उपाश्रितः जठर-पटयोर् अन्तरतो निष्कास्याधरे दधौ ।

यद् वा, योगस्य संभोगस्य मा शोभा तां याति प्राप्नोति योगमाया श्री-राधा तां मनसोपाश्रितः रास-क्रीडायाश् च तद्-धेतुत्वाद् इति ।

यद् वा, योगैर् योगिभिर् ब्रह्मादिभिर् मीयते ज्ञायत इति योग-मा राधा, यच् चिन्त्यम् अखिलेश्वरैः इति ब्रह्माण्डे नारदोक्तिः ।

यत्-तेजः रन्तुं मनश् चक्रे । याम् उपाश्रितो भगवान् अपि रन्तुं मनश् चक्रे इत्य् अर्थः । किं कृत्वा ? उत्फुल्ल-मल्लिका वीक्ष्य । किं-भूताः ? तारा नक्षत्राणि त्रपन्ते लज्जन्ते याभ्यस् तास् ता रात्रीः । तारोपपदात् त्रपतेर् औणादिको डट् । केन साधनेन ? शरेभ्यः काम-बाणेभ्यो दयते रक्षतीति शरत् स्त्री-सङ्घः, तेन शरदा । क्विप्य् आर्ष आ-लोपः । गोपी-समूहेनेत्य् अर्थः ।

यद् वा, यो भगवान् श्री-कृष्णः आपिता रक्षकान्तर-रहितः स्वतन्त्र इति यावत् । सोऽप्य् अगमाय कामाय जेतुं रन्तुं मनश् चक्रे । अग्रे हिमाद्रौ मीयते हिंस्यते शिवेनेत्य् अगमः, तस्मै, क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति चतुर्थी । एतद् वृत्तं शैवे स्फुटम् । किं कृत्वा? अरात् काम-शास्त्रात् त्रायन्त इत्य् अर्तात्र्यस् ताः । स्त्री-पङ्क्तीर् इत्य् अर्थः । याम् आश्रित्येन्द्रियारातीन् दुर्जयान् [भा।पु। ३.१४.१९] इत्य्-आद्य्-उक्तेः । किम्-भूताः ? उत्फुल्ल-मल्लिकाः तत्-पुष्पाणि यासु ताः । कृत-शृङ्गारा इत्य् अर्थः । वीक्ष्य ।

यद् वा, शराच् छरवद् दारणत्व-भावात् संसाराद् दयते पालयतीति शरदाः शुद्ध-बुद्धिः, तया । अमनम् आमु संसारे भ्रमणं, ततः पातीत्य् आमुपं ज्ञानम्, तद्-आश्रितः । अयं कामः स्त्रीभिर् लीला-मिषेण मया जेय इति बुद्ध्या विचार्य रमणं चक्र इति भाव इत्य् अलं प्रपञ्चेन ॥१॥

अत आरभ्यैतत् *-चिह्नतः परं विश्वनाथ-चक्रवर्ति-कृतां स-वैष्णव-तोषणी-रास-पञ्चाध्यायी-व्याख्यां सर्वाम् एव प्रतिपद्य निवेशयामः । एतद् अल्प-पर्यायैर् अपरितोषात् ।1


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भगवान् अपीत्य् आदि । भगवान् अपि कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थोऽपि तस्मिन् रास-विलासे दुर्घटन-घटना-पटीयसीं योगमायाम् उपाश्रितः । अत्र भगवत्या यद् दुर्घटं तत् समर्थनीयम् इत्य्-आदिष्टवान् सन्, रन्तुं मनश् चक्रे इत्य् अन्वयः । योगमाया-कार्यं तु, कार्यार्थे सम्भविष्यति [भा।पु। १०.१.२५] इति दिशा सर्वम् एवेदम् । तथा हि गोपीनां गृहाद् विनिर्गमे तत्-पति-पुत्रादीनाम् अगोचरत्वम्, मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३८] इत्य्-आदि तेषां तथा ज्ञानम् । अश्नन्तोऽपास्य भोजनम् [भा।पु। १०.२९.६] इत्य्-आदिना यथा-स्थितागमनादिषु, रास-लास्य-समये तत्-तद्-अनुकूल-वेश-भूषादि सम्पादनम् । तादात्म्य-दशायां प्रतिकूल-पूतनादि-रूप-ग्रहणं, रासान्ते जल-विहारानन्तरं वस्त्र-भूषान्तरादि-सम्पादनम्, एवम् अन्यद् अप्य् ऊह्यम्

ता रात्रीर् इत्य् अत्र बह्वीनां रात्रीणाम् एकदा दर्शनाभावात् । अयम् एवार्थः—तथा हि वस्तुतस् तु बहु-रात्रि-सम्पाद्येयं रास-लीला, तेन बह्व्य एव रात्रय एकत्र मिलिता भवन्त्व् इति यः सङ्कल्पः कृतः, तेन तत्-क्षणम् एव तथा मूर्तिमतीर् बद्धाञ्जलीर् उपस्थिता रात्रीर् वीक्ष्येति बहु-वचन-द्योत्यं वस्तु सर्व-नाम्नो मर्यादा चेयम् । शरदा संवत्सरेण या रात्रीर् इति वा । उत्फुल्लानि मल्लिका-कुसुमानि यासु । यद् वा, उत्फुल्ला उल्लसिता मल्लिका हंस-विशेषा यासु शरत्-कालीया रात्रीर् इत्य् अर्थः । तेन शरत्-काले या रात्र्यो रात्रयस् ता इति वा ॥१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नमः श्री-रास-रसिकेभ्यः । अत्र टीकायां रास-संरम्भ इति तन्-निमित्ते रासारम्भ-सम्बन्धिनं मानं वीक्ष्येत्य् अर्थः । कन्दर्प-जेतृत्व-प्रतीतेर् इति कन्दर्प-कर्तृकस्यैव जेतृत्वस्य प्रत्ययाद् इत्य् अर्थः ।

अथ मूले श्री-बादरायणिर् उवाचेति वक्ष्यमाण-महा-महिम्नः प्रसङ्गस्यास्य बलात् तद् इदं लम्भयति, बदरिकाश्रमे महा-तपश्-चरणात् भगवान् श्री-बादरायणः वेद-व्यासः, तच् च तपः श्री-कृष्णोपासन-लक्षणम् एव सर्वज्ञस्य तस्य परमोत्तमे तस्मिन्न् एव व्यवसायौचित्यात् तस्य तादृश-तपः-फल-रूपः पुत्र इति सर्वज्ञत्व-श्री-भगवत्-प्रेम-रसमयत्वादिकं तत्राधिकं यद्यपि स्फुरति, तथापि तन्-नाम-निरुक्तेर् माहात्म्य-पर्यवसानम् अत्रैव जातं । ततस् तादृश-भक्त्यैव तत् श्रोतव्यम् इति व्यञ्जितम् । श्री-शुक उवाचेति पाठे तु परमोज्ज्वल-रसत्वाभाव्येन परम-कोमलालापता दर्शिता । ततस् तादृश-चित्ततयैव श्रोतव्यम् इदम् इति व्यञ्जितम् ।

तथा हि सर्वातिशायि-प्रेमवतीनां श्री-व्रज-सुन्दरीणां मनोरथ-परिपूरणम् एव प्रिय-मात्र-सुखार्थं सर्वं कुर्वतः श्री-भगवतो मुख्यतर-प्रयोजनम् इति दर्शयन् तद् एव तस्य सर्वातिशायि-सुखम् इति च प्रकटयन् तत्र च—साक्षान् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इति, त्रैलोक्य-लक्ष्म्यैक-पदं वपुर् दधत् [भा।पु। १०.३२.१४] इति, गोप्यस् तपः किम् अचरन् [भा।पु। १०.४१.३१] इति दृष्ट्या सर्वात्मारामैर् अपि दुर्लभानां भगवद्-रूप-रस-गन्ध-स्पर्श-शब्दानां वैशिष्ट्येनानुभवात् तदीय-रसस्याधरामृतस्य तु सर्वथैवान्यत्रासम्भवात् प्रेम-विशेस-विस्तार-सुसिद्ध्या तद्-योग्याभिस् ताभिः सह रास-क्रीडां पञ्चेन्द्रिय-तुल्य-प्रियैः पञ्चभिर् अध्यायैर् वर्णयति—यत्र पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैः [भा।पु। १०.१५.४४] इत्य्-आदिना, गोपीनां परमानन्द आसीद् गोविन्द-दर्शने [भा।पु। १०.१९.१६] इत्य्-आदिना, इत्थं शरत् स्वच्छ-जलम् [भा।पु। १०.२१.१] इत्य्-आदिना, हेमन्ते प्रथमे मासि चरम् [भा।पु। १०.२२.१] इत्य्-आदिना च तासां तस्य च नव-रागं विशिष्य स्वेन वर्णित-चरम् ।

शरद्-उदाशये साधु जात सत् सरसिज [भा।पु। १०.३१.२] इत्य्-आदिना, प्रहसितं प्रिय [भा।पु। १०.३१.१०] इत्य्-आदिना, दिन-परीक्षये [भा।पु। १०.३१.१२] इत्य्-आदिना, रहसि संविदं हृच्-छयोदयम् [भा।पु। १०.३१.१७] इत्य्-आदिना च ताभिः स्वयं वर्णयिष्यमाणं च स्मृत्वातिविशिष्टतया वर्णयितव्यत्वेन नव-सङ्गमं स्मरन्न् आह—भगवान् अपि इति ।

अपि-शब्देन तासां पूर्व-पूर्व-वर्णितं नव-रागं विस्मारयति—पूर्वेण वाक्येन तु सङ्गमस्यास्य नवत्वम् एवावगमयति—एतावन्तं कालं ता अनुराग-चपल-चित्ततया रन्तुं मनः कुर्वन्त्य एवासन् । भगवांस् तु जातानुरागत्वेऽपि धैर्येण समय-विशेषं प्रतीक्षमाणो न चक्रे । सम्प्रति ताः कैशोर-मध्य-प्राप्ताः सर्व-सुख-प्रदतया सर्व-मङ्गलतया प्रकटित-वेणु-शिक्षादि-विशेषतया च विलक्षणः कुमारीषु च मयेमा रम्यथ क्षपाः [भा।पु। १०.२२.२७] इति प्रतिश्रुता रात्रीर् वीक्ष्य तत्रापि राका-रात्रेर् आगमनारम्भ दीप्तानुरागत्वेन गलित-धैर्यतया तच् चक्र एवेति प्रतिपत्तेः श्लेषेण, आत्मारामाश् च मुनयः इत्य्-आदिवत् भगवन् सर्वार्थ-परिपूर्णोऽपि ता रात्रीर् वीक्ष्य उद्दीपनत्वेनानुभूयेति कैमुत्येनालम्बन-रूपाणं तासां प्रेम-महिमा दर्शितः । तत एव व्यक्त-सर्वार्थं तस्य कैशोरम् अपि मानितं जातम् इति श्री-विष्णु-पुराणे दर्शितम्—

सोऽपि कैशोरक-वयो मानयन् मधुसूदनः ।

रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः ॥ [वि।पु। ५.१३.६०] इति ।

हरि-वंशे—

युवतीर् गोप-कन्याश् च रात्रौ सङ्कल्प-कालवित् ।

कैशोरकं मानयानः सह ताभिर् मुमोद ह ॥ [ह।वं। २.२०.१८] इति ।

इत्य् अत्र कालविद् इत्य् अस्य व्याख्यातं ता रात्रीर् वीक्ष्य इति सह ताभिर् मुमोद ह इत्य् अस्य सूचकं रन्तुं मनश् चक्रे इति आत्मनेपद-निर्देशः । खल्व् अयं स्वार्थ-क्रियतां बोधयति स्वरितञ् इतः कर्त्र्-अभिप्राये क्रिया-फले [पा। १.३.७२] इति विशेष-विध्य्-आश्रयणात् तद् एवं ता इत्य् अनेन स्वस्यापि चमत्कार-करं काल-वैशिष्ट्यं व्यज्य तद्-उज्ज्वलितां श्री-वृन्दावन-शोभाम् अपि दर्शयति—शरद- इति । शरदा हेतुना उच्चैः फुल्ला मल्लिका यासु, ताः परस्पर-योगाप्रसिद्धेर् अनेनास्याः शरदो मल्लिकानां चापूर्वत्वं व्यञ्जितम् । तेन च सर्वान्य् एव पुष्पाणि लक्ष्यन्ते इत्य् आलम्बन-काल-देशानां श्री-कृष्णाय प्रेम-मय-परम-सुख-प्रदत्वं दर्शितं यस्मात् ह्लादिनी-शक्तिर् विलास-लक्षण-तत्-प्रेम-विशेष-मय्य् एवैषा रिरंसा, न तु प्राकृत-काममयीति तेषां कन्दर्प-दर्पहा इति व्याख्यानम् अपि तथा युक्तम् एव । निवृत्ति-परा इयं पञ्चाध्यायी इत्य् अपि स्वयम् एव च वक्ष्यति—

द्वात्रिंशे विरहालाप-विक्लिन्न-हृदयो हरिः ।

तत्राविर्भूय गोपीस् ताः सान्त्वयामास मानयन् ॥

स्व-प्रेमामृत-कल्लोल-विह्वली-कृत-चेतसः ।

सद् अयं नन्दयन् गोपीर् उद्गतो नन्द-नन्दनः ॥ [भा।भा।दी १०.३२.१] इति ।

श्री-मुनीन्द्रेणापि इदम् एव वक्ष्यते—विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः [भा।पु।१०.३३.४०] इत्य्-आदौ तत्र दुर्घट-घटनां समादधद् आह—योगमाया पराख्याचिन्त्य-शक्तिः ताम् उप सामीप्येन आश्रितः, यत्र यत्र विहरति तत्र तत्रैव तां सूर्यः स्व-दीधितिम् इव सदा प्राप्त इति स्वाभाविक-तादृश-शक्तित्वं व्यञ्जितम् । तेन च दुर्घट-तल्-लीला च सेत्स्यतीति भावः । श्लेषेण योगः संयोगः तद्-अर्थं माया कृपा, माया दम्भे कृपायां च इति विश्वः । ताम् उप आधिक्येन आश्रितः

किं च, ताः वीक्ष्य क्रमेण राका-पर्यन्तम् अधिकम् अधिकं मनोरथं चक्र इत्य् अर्थत्वे लब्धे विशेषोऽयम् अपि ज्ञेयः । तस्यां राकायां सायं गृहम् आगतो भोजनादिकं विधाय, मातुः स्थानात् शय्या-गृह-चन्द्र-शालिका-द्वारं गतः सन् सद्यः सम्पाद्यत्वेन निश्चितवान् इत्य् अर्थः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नमः कृष्णाय रास-रसिकाय । श्री-युक्त-बादरायणिर् उवाच इति । बदरिकाश्रमे महा-तपश्-चरणाद् भगवान् श्री-व्यासो बादरायणः । तस्य तपः-फल-रूपः पुत्र इति सर्वज्ञत्व-श्री-भगवत्-प्रेम-रसमयत्वादिकं ध्वनितम् । तेनोक्तत्वाद् अस्याख्यानस्य सर्वथा यथा साधन-साध्यत्वं प्रेम-रस-मयत्वं चाभिप्रेतम् । अतो भक्त्यैतच् छ्रोतव्यम् इति भावः ।

इदानीं श्री-गोपिका-मनोरथ-परिपूरण-द्वारा प्रेम-विशेष-विस्तारण-रूपं तद्-अवतार-मुख्यतर-प्रयोजनं दर्शयन्,

ताभिः सह विहरणम् एव तस्य सर्वातिशायि सुखम् इति च प्रकटयन्,

तत्र चाधरामृत-पानादिना स्त्री-सदृशीनाम् एव श्री-भगवद्-रूपादि-माधुरी-विशेषानुभवात् प्रेम-विशेष-विस्तार-सुसिद्ध्या तद्-योग्याभिः सह श्री-रास-क्रीडां पञ्च-प्राण-तुल्य-पञ्चाध्याय्या वर्णयन्, आदौ तत्-सामग्रीर् दर्शयन्,

तत्र च श्री-गोपिका-वर्गाकर्षणं कथयन्,

तद्-धेतुत्वेन श्री-भगवतो भाव-विशेष-प्राकट्यम् आह—भगवान् इति ।

एषा च क्रीडा तद्-उचित-काले कैशोरे ज्ञेया । तथा चोक्तं श्री-विष्णु-पुराणे—

सोऽपि कैशोरक-वयो मानयन् मधुसूदनः ।

रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः ॥ [वि।पु। ५.१३.६०] इति ।

श्री-हरि-वंशे च—

युवतीर् गोप-कन्याश् च रात्रौ सङ्कल्प-कालवित् ।

कैशोरकं मानयानः सह ताभिर् मुमोद ह ॥ [ह।वं। २.२०.१८] इति

तच् च रासारम्भे तस्य सौन्दर्यादि-विशेष-स्मारणेन परम-मोहनत्वात् श्री-बादरायणिना—ततश् च पौगण्ड-वयः-श्रितौ व्रजे [भा।पु। १०.१५.१] इत्य्-आदिवद् व्यक्तं वक्तुं न शक्तम् । क्रीडा सा च समग्रम् एव कैशोरं व्याप्येत्य्-आदिकं सर्वम् अग्रे यथा-स्थानं विवरणीयम् तत्रोपलक्षणार्थं कैशोरारम्भे प्रथमैक-रात्र-क्रीडेयम् उच्यते।

भगवान् इति रास-क्रीडायां निजाशेष-भगवत्ता-सार-प्रकटनाभिप्रायेण । नन्दादयः परमानन्द-निर्वृताः [भा।पु। १०.२८.१७] बभूवुः । भगवान् अपि स्वयं परमानन्द-निर्वृतो भवितुं रन्तुं क्रीडा-विशेषं कर्तुं मनश् चक्रे ऐच्छद् इति अपि-शब्दार्थः ।

ता रात्रीर् इति तैर् व्यञ्जितार्थम् एव । यद् वा, ता अनिर्वचनीयाः सर्व-काल-श्रेष्ठतराः परमानन्द-रस-मयीस् तत्-क्रीडा-योग्या इत्य् अर्थः । बहु-वचनेन बह्वीषु रात्रिष्व् एव तत्-क्रीडा बोध्यते, तच् चास्ते स-विशेषं व्यक्तं भावि । शरदा कृत्वा उच्चैः फुल्ला विकसिता मल्लिका यासु ताः, यद्यपि सर्व-र्त्व्-आश्रये श्री-वृन्दावने सदा सर्व-पुष्पाण्य् उद्भवन्ति, विशेषतश् च शरदि जाति-कुमुद-कमलादीन्य् अपि विकसन्ति, तथाप्य् उत्फुल्ल-मल्लिका इति रात्रि-विषयक-विकास-विशेषाभिप्रायेण । एवम् अग्रेऽपि कुमुद्वन्तम् [भा।पु। १०.२९.३] इत्य् उद्दीपनानि वीक्ष्य रति-योग्या इति आलोच्य योगमाया पराख्य-सच्चिदानन्द-शक्ति-विशेषस् ताम् उपकरणत्वेनाश्रितः प्रकटितवान् सन्, इति सर्व-लीलातो विशेषेण रास-क्रीडायाः परमानन्द-विशेषादिकम् अभिप्रेतम्। सर्वस्या अपि लीलायाः सच्चिदानन्द-रूपत्वं प्राग् अष्टमाध्याये बाल्य-लीलायां विवृतम् एवास्ति ।

यद् वा, योग ऐश्वर्यं तद्-युक्ता माया दया, माया दम्भे कृपायां च इति विश्वः । ताम् उपाश्रित उपाधित्वेन प्राप्तः सन् रास-क्रीडया स्वस्यैश्वर्यं कृपां च विस्तारयामासेत्य् अर्थः।

यद् व, अपि-शब्दस्यात्रैवान्वयः, योग आत्मारामता माया आवरणात्मिका वा कापट्यं वा, योग-युक्तां मायाम् उप सामीप्येन नित्यम् आश्रितोऽपि इति तदानीं योगो माया च नातिष्ठन् । किन्तु निज-पदाब्ज-प्रेम-सम्पद्-विस्तारण-रूप-सत्य-स्वभावो व्यक्तोऽभूद् इत्य् अर्थः ।

यद् वा, योगे संयोगे या माया यज्ञ-पत्नीष्व् इव वञ्चना, ताम् उपाश्रितोऽपि । इति तदानीं तस्य सङ्गमे माया न निवृत्तेत्य् अर्थः । सर्वाभिर् एव गोपीभिः सह साक्षात् संयोग-विशेष-सिद्धेः, सिद्धिं गताभिर् अपि तत्-प्राप्तेः ।

यद् वा, युनक्ति नित्यं वक्षसि संयोगं प्राप्नोतीति योगा या मा लक्ष्मीः, तस्यां नित्यं वर्तमानः, तया सदा सेव्यमानोऽपीत्य् अर्थः । इति रास-क्रीडा तया न सम्पद्येत, तद्-दुर्लभा च सेत्य्-आद्य् अभिप्रेतम् ।

यद् वा, योगाय संयोगाय मायः-शब्दो यस्याः, सा योगमाया वंशी । मां माने शब्दे च इत्य् अस्य घञि रूपं, ताम् उपाश्रितः ।

यद् वा, योगस्य संयोगस्य मायो मानं पर्याप्तिर् यस्यां, सा योगमाया श्री-राधा । अथवा योगस्य संयोगस्य मा लक्ष्मीः सम्पत्तिर् इति यावत् तां याति प्राप्नोतीति योगमाया श्री-राधैव, तां मनसा उपाश्रितः, रास-क्रीडायास् तद्-धेतुकत्वात् तत् पाद्मे प्रसिद्धम् एव ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् अपि इत्य् अपि-शब्देन तत्-प्रेयस्योऽपीति समुच्चीयन्ते । ता निज-माधुर्येणाप्य् अस्मन्-मनो-हारिणीः । शरदा अपि मल्लिकोत्फुल्ल-तादृश-रस-मय-लीला-समय-रूपत्वात् । योगमायां दुर्घट-घटना-शक्तिम् । उप समीपे आश्रितः । तादृश-तत्-सेवावसरापेक्षया निकटस्थ-तादृश-शक्तिम् इत्य् अर्थः ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ ब्रह्मेन्द्राग्नि-वरुणादीनां दर्पं शमयित्वा कन्दर्पस्य दर्पं शमयितुं युगपद् अनेक-रमणी-कदम्ब-संवलितं रासाख्यं लास्यम् आरिप्सुर् भगवान् एकदा स्व-योग-वैभवं प्रादुश्चकार । तत्र रासस्य लक्षणं यथा—

नर्तकीभिर् अनेकाभिर् मण्डले विचरिष्णुभिः ।

यत्रैको नृत्यति नटस् तद् वै हल्लीशकं विदुः ॥

तद् एवेदं ताल-बन्ध-गति-भेदेन भूयसा । रासः स्यान् न स नाकेऽपि वर्तते किं पुनर् भुवि ? इत्य् अस्य दुष्करतया परम-रमणीयतया च बहु-काल-साम्याच् च तथा च बह्वीर् एव रात्रीर् एकत्र कर्तुं कृत-सङ्कल्पत्वात् तत्-कालं समुपस्थिताः, रात्र्य्-अभिमानिनीर् बह्वीर् एव देवताः पुरतो वीक्ष्य रन्तुम् इच्छां चकार इत्य् आह—भगवान् अपि इत्य्-आदि । भगवान् अचिन्त्य-वैभवोऽपि योग-मायाम् उपाश्रितः सन् रन्तुं मनश् चक्रे

अयं भावः—अस्मिन् विलासे बह्व्य एव दुर्घट-सङ्घटनाः सम्भाव्याः, तास् तु केवलं योगैश्वर्य-साध्याः स्वयम् इच्छा-मात्रेण कर्तुं शक्या अप्य् अग्रिम-रसस्य मधुर-कोमलतायाम् ऐश्वर्य-प्रकाशनं नातिसुरसम् इति तत्-तत्-कर्मणि कार्यार्थे सम्भविष्यति [भा।पु। १०.१.२५] इति प्राग् एवावतीर्णां मूर्तिमतीं स्व-योग-शक्तिं, "त्वयास्मिन् विलासे सर्वम् एव समर्थनीयम्" इत्य् उपाश्रितः, विधेयत्वेन उपाश्रित आज्ञप्तवान् इत्य् अर्थः । इत्य् अयम् अपेर् अर्थः ।

किं कृत्वा ? ता रात्रीर् वीक्ष्य "ताः पूर्व-सङ्कल्पिता अनेका रात्रय एकत्र मिलिता भवन्तु" इति मनसि कृत्वेत्य् अयं तच्-छब्दार्थः । अनेकानां रात्रीणां क्रमाद् आगामिनीनां युगपद् दर्शनाभावात् रात्रीर् इति रात्राधिष्ठातृ-देवता इत्य् अयं बहु-वचनार्थः । आनन्द-घने श्री-विग्रहेऽन्तः-करणाभावाद् इच्छा-शक्ति-मात्रस्यैव सम्भवाद् अलौकिक-कृति-साध्य-क्रिया-विषयत्वेऽपि लौकिक-कृति-साध्य-क्रिया-विषयत्वाय मनश् चक्रे, मनः स्वीचकारेति मनः-शब्दार्थः । मनः-स्वीकारान् मनोभवस्यापि स्वीकारः ।

रात्रीः कीदृशीः ? शरदोत्फुल्ल-मल्लिकाः । शरत्-सम्बन्धिन्यः शारद्यः । उत्फुल्ल-मल्लिका उन्मल्लिकाः फुल्ल-मल्लिकाश् च । वसन्ते उन्मुख-मल्लिकाः । ग्रीष्मे फुल्ल-मल्लिकाः । पश्चात् कर्म-धारये पुंवद्-भावात् सिद्धम्। एतेन शरद्-वसन्त-ग्रीष्म-सम्बन्धिन्यो रात्रय एकत्र मिलिताः सत्यो अशीत्य्-उत्तर-शत-रात्र्य्-अभिमानिन्यो देवता एव युगपद् आगता इत्य् अर्थः । न केवलं शारद्य एव, भगवान् इति ऐश्वर्य-परम् । तथा सति माता-पितृ-समीपे पूर्ववद् एक-रात्रम् इव शयितवद् आसीत् । इदं हि तस्यैश्वर्यम् ॥१॥


जीव-गोस्वामी (प्रीति-सन्दर्भः २९६) : योग-मायां तासाम् असङ्ख्यानाम् असङ्ख्य-वाञ्छा-पूरिकां स्व-शक्तिं स्वभावत एव आश्रित्य इत्य् अर्थः ॥१॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) :

वन्दे गुरुं कृपा-सिन्धुं सच्-चिद्-आनन्द-विग्रहम् ।

प्रापुर् भागवतं ज्ञानं बहवो यद्-अनुग्रहात् ॥

सर्व-वेदान् समुन्मथ्य क्षीर-बाद्धैर् इवामृतम् ।

तच्-छ्री-भागवतं ज्ञानं प्रोक्तं भगवता स्वयम् ।

तत्-सार-भूत-निखिला पञ्चाध्यायी निगद्यता ॥

तत्र तावत् दशम-स्कन्धार्थो निरोधो निर्णीतः । अतोऽत्र पञ्चाध्यायां श्री-कृष्ण-प्रिय-वर्गयोः परस्पर-निरोधोऽनुवर्ण्यते । स तु इतर-रसाभिभव-पूर्वकं विलासात्मकं प्रेमणि देहेन्द्रिय-मनसा स्थितिः निरोध इति । प्रेम-लक्षणं रसार्णवे—स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनम् [र।सु। २.११२] इति ।

अत्र प्रेम्णि श्री-कृष्ण-प्रिय-वर्गयोः क्षीर-नीरवद् आश्लेषः सामरस्यान् न्यूनाधिक-भावेन विवेक्तुं न शक्यते । तद् उक्तम्—

स्वान्तयोः सर्व-भावेन सेव्य-सेवकयोस् तथा ।

क्षीर-नीरवद् आश्लेषो विषयाधारता तथा ॥

अङ्गानाम् अपि तादृक्त्वं स प्रेमा विनिगद्यते ।

द्वाविंशति-विधः श्लेषो विज्ञेयोऽत्र सुबुद्धिभिः ॥

तथा हि, प्रिय-वर्ग-श्री-कृष्ण-मनसोः सर्वांशेन संश्लेषः क्षीर-नीरवत् अन्यत् सर्वं भक्ति-रस-तरङ्गिण्यां विवृतम् एव । तत्र हृदयेन्द्रिय-मनसां श्री-कृष्ण-देहेन्द्रिय-मनःसु एकीकरणं, व्रज-देवीभिः स्व-हृदयम् एवोद्वादितं वक्ष्यमाण-श्लोकेन—

चित्तं सुखेन भवतापहृतं गृहेषु

यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये ।

पादौ पदं न चलतस् तव पाद-मूलात्

यामः कथं व्रजम् अथो करवाम किं वा ॥ [भा।पु। १०.२९.३४]

स्व-चित्तेन संश्लेषो व्रज-देवी-कर्तृकः । श्री-कृष्ण-कर्तृकम् आह—बाहु-प्रसार-परिरम्भ- [भा।पु। १०.२९.४६] इत्य्-आदिनोक्तः । अन्यत्र गत्यानुराग- [भा।पु। १०.३०.२] इति । अयं संश्लेषस् तु निरोधेनैव, तत्रोदाहरणम्—

कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ ।

दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ इति ।

तत्र,

भोगार्थं सृष्टिर् इत्य् अन्ये, क्रीडार्थम् इति चापरे ।

देवस्यैव स्वभावोऽयम् आप्त-कामस्य का स्पृहा ॥ [गौडपाद-कारिका १.९] इति ।

लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] सुत्राच् च कुत्रचित् लीला, कुत्रचित् क्रीडा, कुत्रचित् कर्मेति। तत्र योगमाया-कर्तृका क्रिया लीला, प्रिय-वर्गैः सहाविर्भाविता क्रिया (क्रीडा?) । क्रीडा-सामान्यात् तु शरीर-व्यापारं कर्मेति । एतत् त्रितयम् अपि विलासं न व्यभिचरति । मधुर-रसाविर्भाविता क्रिया-विलास इति लक्षणान्त-लीलोदाहरणं, योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः प्रविष्टेन [भा।पु। १०.३३.३] उक्तिः । अनायासेन तत्-तन्-मध्ये प्रवेशो लाघव-शक्त्या, सा लीला विलास एव ताभिः समेताभिर् उदार-चेष्टितः [भा।पु। १०.२९.४३] इति ।

क्रीडा विलास एव । ततश् च कृष्णोपवन [भा।पु। १०.३३.२५] इति सामान्यतः शरीर-व्यापारोऽपि विलास एव । अन्यत्र स तु भिन्नान्य् अधिकारिणि वत्सल-सख्यादि-रसेषु इह तु समानाधिकरणत्वम्, एवं भिन्न-रसालम्बनेभ्यो निरोधम् उक्त्वात्र सजातिभ्यो निरोध उच्यते । आजग्मुर् अन्योन्यम् अलक्षितोद्यमा [भा।पु। १०.२९.४] इति [देहःसु]{।मर्क्} ऐश्वर्यात् ।

श्री-कृष्णस्य निरोध उच्यते मुनीन्द्रेण—भगवान् अपि, सम्बन्ध-विषय-प्रयोजन-विशिष्टेन ग्रन्थस्योत्कर्षम् आह—प्रतिपाद्य-प्रतिपादकः सम्बन्धः । तत्र प्रतिपाद्यं प्रिय-वर्ग-श्री-कृष्णयोर् विलासः । प्रतिपादकः श्री-शुकः । तस्य विलास-प्रतिपादने प्रवृत्तिः निरोधेनैव । तद् उक्तं—

परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।

गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ [भा।पु। २.१.९] इति ।

आत्मारामोऽप्य् अरीरमत् [भा।पु। १०.२९.४२], भगवान् अपि इति ऐश्वर्यान् निरोधः । यथा श्री-कृष्णस्य ऐश्वरान् निरोधेनैव विलासे प्रवृत्तिः, तथा मुनीन्द्रस्यापि विलास-व्याख्याने प्रवृत्तिः । अतः प्रतिपाद्य-प्रतिपादक-सम्बन्धस्योत्कर्षम् आह—प्रिय-वर्गस्य श्री-कृष्णो विषय आधारश् च चन्द्र-चन्द्रिकावत्, श्री-कृष्णस्य प्रिय-वर्गो विषय आधारश् च । अन्यथा एकतराभावे आभासः स्यात्, प्रिय-वर्ग-स्वान्तस्य श्री-कृष्णो विषय आधारश् च चन्द्र-चन्द्रिकावत् । श्री-कृष्ण-स्वान्तस्य प्रिय-वर्गो विषय आधारश् च । प्रिय-वर्गस्य श्री-कृष्णाङ्गं विषय आधारश् च । प्रिय-वर्ग-स्वान्तस्य श्री-कृष्णो विषय आधारश् च । श्री-कृष्ण-स्वान्तस्य प्रिय-वर्गो विषय आधारश् च प्रिय-वर्गस्य श्री-कृष्णाङ्गं विषय आधारश् च । प्रिय-वर्ग-स्थितस्य श्री-कृष्ण-चित्तं विषय आधारश् च । श्री-कृष्णस्य प्रिय-वर्गाङ्गं विषय आधारश् च । श्री-कृष्ण-चित्तस्य प्रिय-वर्ग-चित्तं विषय आधारश् च । प्रिय-वर्ग-चक्षुषः श्री-कृष्णो विषयः श्री-कृष्ण-चक्षुषश् च । एवम् अन्योन्यस्य विषयी-विषयस्यावस्थोक्ता ग्रन्थस्यापि स एव विषय उक्तो नान्य इति ।

अनेन विषय-वैशिष्ट्यम् उक्तं प्रयोजन-वैशेष्यम् आह—नित्य-किशोर-विलास-स्फूर्त्या हृद्-रोगस्य प्राकृत-कामस्य शान्ति-द्वारा लौकिक-कामेन श्री-कृष्ण-प्रिय-वर्गयोः परस्पर-विहार-दर्शनौत्कण्ठ्य-तद्-अनुकूलत्वं चेदम् एव प्रयोजनम् अग्रे वदिष्यति—विक्रीडितं व्रज-वधूभिर् [भा।पु। १०.३३.४२] इति । एतद्-अनुसन्धानवान् मुनीन्द्रः स्वाभिप्रेतं विलासं कथयिष्यन् तावच् छ्री-कृष्णस्य मानसीं लीलां विवृणोति—भगवान् इति । तत्रादौ भावोत्पत्तिम् आह—तद् उक्तं रसार्णवे—निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया [र।सू। १.१९२] । साहित्य-दर्पणे—निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया [सा।द। ३.९३] ।

प्रेम-लक्षणं—स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनम् [र।सू। २.११२] इति । भाव-विशेष एव प्रेमा, द्वयोर् अपर-पर्यायत्वम् । यद्यप्य् अखण्डो नित्य-सिद्ध एव प्रेमा तत्-साधकाश् च नित्य-सिद्धा एव, तथाप्य् अङ्गाङ्गिनोः क्रमेण सम्बन्धस्योत्पत्तिः सम्बन्धिन्य् उपचर्यते, राज्य-सम्बन्धवत् । अथावधि-भूतो भाव उच्यते । तद् उक्तं तत्र—

प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।

सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥ [भ।र।सि। १.३.२]

भ्रू-नेत्रादि-विकारैस् तु सम्भोगे वा प्रवर्तकः ।

भाव एवाल्प-संलक्ष्य-विकारो हाव इष्यते ॥

हाव एव विलासस्य पूर्णतां प्रतिपद्य वै ।

हेला नाम समाख्याता प्रेम पूर्वं गताग्गता ॥

तत्र विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।

विषयैः परिचारयंश् च कृष्णे हि रतिम् आप्नुयात् ॥

तत्रालम्बन-विभावः श्री-कृष्णः प्रिय-वर्गश् च । उद्दीपन-विभावश् चन्द्र-चन्द्रिका-चन्दन-लेपन-शरद्-ऋतु-मल्लिकाद्याः । परस्परं यूनोर् भ्रू-नेत्रादि-विकारा अनुभावाः । व्यभिचारिणस् तु त्रयस्त्रिंशत्-नेत्रागोचरे प्रिये ग्लानि-मोह-मूर्च्छा-दैन्यादयः । विषयास् त्व् अन्योन्यम् उभयोर् अङ्गादीनि, परिवारस् तु सखी इत्य्-आदि । एतैः स्थायी-भाव एष्यते । भावस् तु मानसो धर्मः । उद्दीपन-विभावेन मनसि विकारम् आपन्ने सति भावोद्बोधः । तस्मिंश् च सति उज्ज्वल-स्थायि-भावः सिध्यति । तस्मिंश् च सिद्धे श्री-कृष्ण आत्मानन्द-पूर्णं मन्यते, अतस् तद्-अर्थं मयारम्भः ।

तत्राचार्यैर् उपोद्घातत्वेनोक्तं पद्यं व्याख्यायते—

ब्रह्मादि-जय-संरूढ-दर्प-कन्दर्प-दर्पहा ।

जयति श्री-पतिर् गोपी-रास-मण्डल-मण्डनः ॥ [भावार्थ-दीपिका १०.२९.१ब्]

तथा-भूतो जातः ।

यद् वा, गोपी-रास-मण्डलं मण्डनं यस्य, स साधारणो भूषण-भूष्य-भाव इत्य् उक्तात् प्राकृत-कामस्येदं पौरुषं यच् चरम-धातु-पातेन ब्रह्मादीन् अप्य् अभिभवतीति कामस् तु श्री-कृष्णेनाभिभूतः । अग्रे वक्ष्यते—आत्मन्य् अवरुद्ध-सौरतः [भा।पु। १०.३३.२६] इति लिङ्गात् निरोध-लक्षणेन अलौकिकेन कामेन जित एव, यतः श्रीपतित्वम् उपेक्ष्य गोपी-रास-मण्डल-मण्डनो जातः । वक्ष्यति च—आत्मारामोऽप्य् अरीरमत् [भा।पु। १०.२९.४२] । अपि च आत्मारामता गौणीकृता दृश्यते, गोपी-रमणेन मधुर-रस-स्फूर्त्या स्वरूप-लाभस्य विवक्षितत्वाच् च ।

किं च, साक्षात् मन्मथ [भा।पु। १०.३३.१] इत्य् अनेन मन्मथस्यापि मोहेन सामर्थ्याभावोऽत्र आत्मन्य् अवरुद्ध-सौरतः [भा।पु। १०.३३.२६] इत्य् अयम् एव चित्रम्। यद् व्रज-सुन्दरीणां विलासैः श्री-कृष्ण-मनसि निरुद्धे सति मनो-जन्य-कार्यस्यापि निरोधोऽतो मनः-कार्य-विशेषस्य चरम-धातोर् अपि निरोधो जात इति । अयम् अर्थः इति ज्ञेयम्,अन्यथानेक-यूथवतीनां व्रज-बल्लवीनां समाधानं न स्याद् इति तासां निरोधस्य वैलक्षण्यान्तरं निरूपयिष्यते—

तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः

केशान् दुकूलं कुच-पट्टिकां वा ।

नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो

विस्रस्त-मालाभरणाः कुरूद्वहः ॥ [भा।पु। १०.३३.१८] इति ।

प्रस्तुतम् आह—

लीलात्र त्रिविधा प्रोक्ता मानसी वाचिकी तथा ।

शरीरेण तृतीया च तासां भेदा पृथक् पृथक् ॥

मानसी लीला, यथा—

आगतासु विधास्येऽहं स्वागतं तासु सुन्दरम् ।

भयं प्रदर्शयिष्येऽहम् इहामुत्र च यन् महत् ॥

पश्चाद् धर्मं प्रवक्ष्यामि तासां हार्द-परीक्षया ।

श्रोष्यामि तासु युक्तिं च धैर्य-च्युतिम् अहं पराम् ॥

रास-क्रीडां करिष्यामि ताभिः सर्वाभिर् अद्भुताम् ।

आलिङ्गनं नखोल्लेखं संलाप-नर्म चोत्तमम् ॥

ताभिः सह करिष्यामि वर-दानं यथा कृतम् ।

एवं हि मानसी लीला ध्यानानन्द-मयी स्वयम् ॥

किं च—

स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।

तासां भाव-परीक्षार्थम् इत्य् आद्या वाचिकी स्मृता ।

बाहु-प्रसारितेत्य् आद्या शरीरा बहुधा मता ॥ इति ।

ननु यदि वेद-पुराण-प्रमान्या लीला नित्यत्वं श्रूयते2 विष्णु-पुराणे—सोऽपि कैशोरक-वयो मानयन् मधुसूदनः [वि।पु। ५.१३.६०] इति । सदा रास-रसोन्मत्तः, तद् व्रज-देवी-कदम्ब-स्थः क्रीडत्य् एव सादिवद् रास-क्रीडा कथम् उच्यते ? तत्राह । यथोक्तं—पुण्यं मधुवनं यत्र सांनिध्यं नित्यदा हरेः [भा।पु। ४.८.४२] । अन्यच् च, मथुरा भगवान् यत्र नित्यं संनिहितो हरिः [भा।पु। १०.१.२८] इति मथुरायां नित्याधिष्ठानत्वे देवक्याम् आविर्भावेन सादित्वम् इव वर्ण्यते ।

तथात्र कुमारीणां वर-दान-प्रयुक्तोऽयम् रास-विलासः सादिर् इव निरूप्यते । अत्र वृन्दारण्ये त्व् ऋतवो देश-विभागेन तदावर्तन्त एव तथा शरद्-ऋतु-निवास-प्रदेशे शरत्-सम्पादितां श्रियं दृष्ट्वा प्रतिश्रुता रात्रयः स्मृति-पथम् अवतीर्णाः, मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति ताः प्रतिश्रुता रात्रीर् वीक्ष्य शरदा उत्फुल्ला-मल्लिकाश्वीक्ष्य रात्रि-विशेषणम् । भगवान् अपि ऐश्वर्य-सुपूर्णोऽपि तद् उपेक्ष्य निरोधात्मक-विलासेनैव व्रज-सुन्दरीभिः सह रमणे मनश् चक्रे मनश् चकारेत्य् अर्थः

व्रजे पञ्च-विधा गोप्यः—नित्य-सिद्धाः, उपासना-सिद्धाः, श्रुतयः, ऋषयः, देव्यश् च । नित्य-सिद्धा दृष्टाः । श्रुतीनां रिरंसाजनि । तद् उक्तं बृहद्-वामन-पुराणे—तत्-कदम्बक-मध्य-स्थः किशोराकृतिर् अच्युत इति तं दृष्ट्वा रिरंसा जाता । ताभ्यो भगवता वरो दत्तः—पुरा सारस्वते कल्पे व्रजे गोप्यो भविष्यथ । एता कुमार्यस् तु श्रुतय इदानीम् अपि पूर्वानुरागं दृष्ट्वा कात्यायन्य्-अर्चन-प्रभव-पुण्या व्याजेन वरो दत्तो मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति । तास् तु कुमार्यो नवानुरागेण रिरंसया तं कालं प्रतीक्ष्यमाणा एव स्थिताः— "कदास्मान् आहूय रमयिष्यति ?" इति । अतः तस्मिंस् तस्मिन् प्रतिश्रुते समये ताः प्रतिश्रुता रात्रीर् वीक्ष्य रन्तुं मनश् चक्रे । इदानीं शरत्-कालीना रात्रय एव भावोद्बोधिका जाता इति भावः । भावोद्बोधे लिङ्गे अग्रे वक्ष्यति—जगौ कलं वाम-दृशां मनो-हरम् [भा।पु। १०.२९.३] इति । यद्यपि व्रजे द्वादशा रसाधिकारिणो वर्तन्ते, सर्वैर् अपि ध्वनिर् आकर्णत्, तथापि वेणु-ध्वनिना मधुर-रसाधिकृतानाम् एवाकर्षणं नान्येषाम् इति ।

ननु वर-दान-समय एव किम् इति नाभिरमिताः ? तत्रायम् अभिसन्धिः पूर्वम् अल्प-वयस्कत्वेन रमणार्थम् आकारणं नोचितम् इति । अधुना रमणानुकूल-वयस्त्वेन योग्या दृष्टा आकारिताः । श्री-कृष्णस्य सदा कैशोरकम् एव वयो जातं ततो रमण-योग्यता जाता । एतद् उक्तं पराशरेण—

सोऽपि कैशोरक-वयो मानयन् मधुसूदनः ।

रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः ॥ [वि।पु। ५.१३.६०] इति ।

हरि-वंशे—

युवतीर् गोप-कन्याश् च रात्रौ सङ्कल्प-कालवित् ।

कैशोरकं मानयानः सह ताभिर् मुमोद ह ॥ [ह।वं। २.२०.१८] इति ।

उत्फुल्ल-मल्लिका इत्य् अनेन वृन्दावन-लतानाम् उद्दीपनत्वं सूचितम् । शरदा इति शरद्-ऋतोऽपि साहय्यं सूचितम् ।

नन्व् एकेन श्री-कृष्णेन बहूनां तासां रमणं कथम् ? सर्वासाम् एवैकदैव सांनिध्यं च कथम् ? वक्ष्यति चाग्रे—तासां मध्ये द्वयोर् द्वयोः प्रविष्टेन [भा।पु। १०.३३.३] इति चेत्, तत्राह—योगमायाम् उपाश्रित इति । तत्र केचिद् वाहुः—योगमाया लीलोपयोगिनी काचिद् अचिन्त्य-शक्तिः । अग्रे वक्ष्यति योगेश्वरेण [भा।पु। १०.३३.३] अचिन्त्य-शक्तिमतेति । ताम् उप समीपे आश्रितः । सा च कृष्ण-स्व-स्व-रसाधिकारेषु ते ते निरुद्ध्यन्ते । अग्रे वक्ष्यति—मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३७] इति ।

यद् वा, योगे संयोगे या माया कृपा स्नेह इति यावत्, ताम् उपाश्रितः, स्यात् कृपा-दम्भयोर् माया इति विश्वः ।

यद् वा, योगो व्रज-सुन्दरीभिः संयोगः । तस्मिन् या मा लक्ष्मीः शोभेति यावत्, तस्या आयः प्राप्तिः यया मुरल्या, तां मुरलीम् उप समीपे आश्रितः । कदाचिद् अपि न त्यजति । यथान्योऽपि नायको नायिकाभिसरणे रतिम् आश्रितो भवति, तथा श्री-कृष्णोऽपि मुरलीं सहचरीम् इव मन्यमानस् तद्-आश्रित एव तिष्ठति । जगौ कलम् [भा।पु। १०.२९.३] इति लिङ्गाच् चेति ।

यद् वा, योगस्य ऐश्वर्यादेर् मा सम्पत्, तत्र उपाश्रितोऽपि रन्तुं मनश् चक्रे

यद् वा, योगस्य ऐश्वर्यादेर् मा सम्पत्, तस्याम् उप समीपे स्थितायाम् अपि ताम् अनादृत्येत्य् अर्थः। रमणानुकूलत्वेन वीक्ष्य प्रतिश्रुता रात्रीर् एव आश्रित इत्य् अन्वयः ।

यद् वा, योगमायां योगे वक्षसो योगे निमित्ते सप्तमी वर्तमाना या मा लक्ष्मीस् तथा स्थितायाम् अपि ताम् उपेक्ष्येत्य् अर्थः । याभिः सह रमणं चिन्तनं ता एव आश्रित इत्य् अर्थः । आर्थिकोऽयम् अर्थः व्यञ्जना-वृत्त्या वा ।

यद् वा, योगमायां कांचिद् वृद्धां तपस्विनीं रमणानुकूलाम् उपाश्रितः

यद् वा, अभिज्ञास् त्व् एवं वदन्ति—योगे सम्भोग-लक्षणे संयोगे या माया अघटित-घटना-चातुरी, ताम् उप आधिक्येन आश्रित, उपाधिके चेति कर्म प्रवचनीयत्वं, यया एकेन स्वरूपेण बह्वीनां सांनिध्यं तासां मध्ये द्वयोर् द्वयोः [भा।पु। १०.३३.३] इति वक्ष्यमाणत्वाच् च स्वैक-निकटत्व-मान इति ।

यद् वा, योगे माया स्वाभाविकी लाघव-शक्तिर् एवेति, रात्रीर् वीक्ष्य इति रात्रयोऽपि स्त्रियः, शरद् अपि स्त्री, मल्लिका अपि स्त्री-जातयः । अतः एवं-भूते पुरुष-प्रवेश-शून्ये वृन्दावन-प्रदेशे रमण-योग्यां नित्य-सिद्धां सामग्रीं दृष्ट्वा व्रज-देवीभिः सह रन्तुं मनश् चक्रे पूर्ण-मनोरथं चकारेत्य् अन्वयः । तस्य सत्य-कामत्वात् सत्य-सङ्कल्पत्वाच् च—सत्य-कामः सत्य-सङ्कल्पः [छा।उ। ८.७.१] इति श्रुतेः ।

यद् वा, भगवान् अपि, भगो भागः, तद्वान् अपि नन्द-पुत्रत्वात् वात्सल्य-रसालम्बनत्वात् नन्द-यशोदाभ्यां लाल्यमानत्वात् सकल-सुख-पूर्णोऽपि वर्ष-पर्यन्तं धैर्यम् अवलम्बमानोऽपि ता प्रसिद्धाः मधुर-रसोद्दीपका रात्रीर् वीक्ष्य रन्तुं मनश् चक्रे । रात्रि-दर्शनेन धैर्य-च्युतिर् जातेति सूचितम् । तत्रापि विशेषं व्याचष्टे—शरदा इति उत्फुल्ल-मल्लिका इति । शरत्-कृत्-साहाय्यम् इति भावः ।

यद् वा, अयोगे माया दम्भका पद्यम् इति यावत्, ताम् उपाश्रितः व्रजौकसां समीपे कपट-प्रकाशनात् । अयम् अर्थः—व्रज-सुन्दरीभिः सदा सम्बन्धेऽपि नान्योपल-क्षितो विलासं करोत्य् एव यतो रसः परोक्षं प्रकाशते इति श्रुते स्यात् । कृपा-दम्भयोर् माया इति विश्वः । मधुर-रसावलम्बनाश्रयम् अन्तरेण नात्मानं पूर्णं मन्यते । अत एव रन्तुं मनश् चक्रे

यद् वा, योगं भगवान् अपि सोऽप्य् ऐश्वर्यं तिरस्कृत्य रन्तुं मनश् चक्रे । अगमायाम् अङ्गेषु स्थावरेषु तरुषु या माया कृपा, ताम् उप समीप एव आश्रितः, वृन्दावन-तरुषु स्नेहम् आश्रितः । तेषाम् असङ्कोचनं कुर्वन् एते विलासोपयोगिनो मद्-विलास-साक्षिण इत्य् एवं विचार्य तेषां मध्ये स्थितः सन् रन्तुं मनश् चक्रे इति व्रज-सुन्दरी-मनोऽनुरञ्जनानुकूलं सङ्कल्पं कृतवान् इत्य् अर्थः । अहो अमी देव-वरामरार्चितम् [भा।पु। १०.१५.५] इति तरुषु श्री-कृष्ण-स्नेहस्य प्रसिद्धत्वाच् च ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

श्री-राम-कृष्ण-गङ्गा-चरणान् नत्वा गुरून् उरु-प्रेम्णः ।

श्रील-नरोत्तम-नाथ-श्री-गौराङ्ग-प्रभुं नौमि ॥

प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।

लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥

गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।

तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥

अथ पञ्चभिर् अध्यायैः पञ्च-प्राण-समैर् मुनिः ।

रासं प्राह हरेः सर्व-लीला-सम्पच्-छिरोमणिम् ॥

रासो जयति यद् दत्त-सौभाग्या गोप-योषितः ।

धरास्था अधरीचक्रुः सर्वोर्ध्वस्थां रसाम् अपि ॥

ऊनत्रिंशे वेणु-नाद-पारुष्य-विष-वर्षणम् ।

गोपिका-चातकीषाभिः क्रीडान्तर्धिश् च वर्ण्यते ॥

इह खलु सप्त-वर्ष-वयसि वर्तमानेन भगवता कार्तिकस्यामावस्यायां कर्म-वादोत्थापनेन इन्द्र-मख-भङ्गः कृतः । तच्-छुक्ल-प्रतिपदि गोवर्धन-मखोत्सव । द्वितीयायां यमुना-तीरे भ्रातृ-द्वितीया-भोजनोत्सवः, श्री-मुनीन्द्रेणावर्णितोऽपि ज्ञेयः । तत्रैव वर्णिता इन्द्र-कोपोक्तयश् च, तृतीयाम् आरभ्य नवमी-पर्यन्तं गोवर्धन-धारणम् । दशम्यां गोपानां विस्मय-कथा-बाहुल्यं, एकादश्यां गोविन्दाभिषेकं, द्वादश्यां वरुण-लोक-गमनं, पौर्णमास्यां ब्रह्म-लोक-गमनम् । ततश् च शरदः समाप्तत्वात् तद्-उत्तरे वर्षे अष्ट-वर्ष-वयस्त्वे सत्याश्विन-पूर्णिमायां रासोत्सवः सर्व-लीलोत्सव-मुकुट-मणिः, तं वक्तुम् आरभते—भगवान् अपि षड्-ऐश्वर्य-पूर्णोऽपि रन्तुं मनश् चक्रे रमणस्योद्दीपनालम्बनानां काल-देश-पात्राणां शरद्-यामिनी वृन्दावन-व्रज-वनितानां सर्वोत्कृष्ट-माधुर्येणाकृष्टत्वाद् इति भावः ।

शत-कोटि-विलासिनीनाम् उज्ज्वल-रस-चिन्तामणीनां सौस्वर्य-सौन्दर्य-सौकुमार्य-सौरभ्य-माधुर्य-वैदग्ध्य-तौर्यत्रिकाणि बहु-विधानि परम-रुचिराणि स्वीय-श्रोत्रादीन्द्रियैर् जिघृक्षुः स्वीय-सौन्दर्यादीनि तदीय-श्रोत्रादिभिस् ता जिग्राहयिषुश् च बभूव, प्रेम-वश्यत्वाद् एकस्याम् एव रजन्याम् अव्यवधानेन यदा, तदा सत्य-सङ्कल्पता-शक्त्या प्रेरितया योगमायया दुर्घट-घटना-पटीयस्या शक्त्या प्रहर-चतुष्टयवत्यास् तस्या एव रात्रेर् मध्ये तावद्-विलास-समापयित्र्यः परः शत-कोटि-रात्र्य आनीय दर्शिताः । अत एव ता रात्रीर् वीक्ष्य इति बहु-वचनम् । ब्रह्म-रात्र उपावृत्त [भा।पु। १०.३३.३८] इत्य् अग्रेऽपि वक्ष्यते प्रसिद्धार्थ-तत्-पदोपन्यासान् नाना-गुणवतीर् इति रात्रीणाम् उत्कर्षः । शरदा तावन्तः शरदायाम् अपि उत्फुल्ला मल्लिका यासु ताः । शरद्य् अपि मल्लिकाः कुन्द-स्रजः कुल-पतेर् इह वातिगन्धः इति कुन्दान्य् अपि । रेमे तत्-तरलानन्दि-कमलामोद-वायुना इति रात्राव् अपि कमलानि पुष्पन्तीति वृन्दावनस्योत्कर्षः । "शरदोत्फुल्ल-मल्लिकाः" इति पाठे शारद्यश् च ता उत्फुल्ल-मल्लिकाश् चेति ता रन्तुम् आरेभे । रेमे इत्य् उक्ते आत्मारामस्य स्वत एव पूर्ण-कामस्य भगवतस् तस्य व्रज-वनितासु रमणं बाह्यं नव-विडम्बनम् एवेति कश्चिद् व्याचक्षतेत्य् अतो रन्तुं मनश् चक्रे इत्य् उक्त्या रमणम् इदम् आन्तरम् एव, न तु बाह्यम् इति ज्ञापितम् । सत्यम् आन्तरम् एवेदं रमणं किन्तु व्रज-सुन्दरीणां भक्तत्वात् तद्-अनुरोधेनैवेति कश्चिद् व्याचक्षीतेत्य् अतश् चक्र इत्य् आत्मने-पदं प्रयुक्तम् । रमणस्य स्व-सुखार्थकत्वं बोधयति, ततश् च इत्थम्भूत-प्रेमाणो व्रज-सुन्दर्यो यत् तासु भगवान् स्वतः सर्व-सुख-पूर्णोऽपि रन्तुं मनश् चक्रे—आत्मारामाश् च मुनयः [भा।पु। १.७.११] इत्य् अत्र इत्थम्भूत-गुणो हरिः इतिवत् । अतो व्रज-सुन्दरीणाम् अपि परमोत्कर्षः । तथा—

सोऽपि कैशोरक-वयो मानयन् मधुसूदनः ।

रेमे ताभिर् अमेयात्मा क्षपासु क्षप्ताहितः ॥ [वि।पु। ५.१३.६०] इति ।

युवतीर् गोप-कन्याश् च रात्रौ सङ्कल्प-कालवित् ।

कैशोरकं मानयानः सह ताभिर् मुमोद ह ॥ [ह।वं। २.२०.१८]

इति श्री-विष्णु-पुरान-हरि-वंशयोर् मानयन् आदृतं कुर्वन्न् इत्य् अर्थः । ताभिः सह विहाराभावे स्वीय-कैशोरयोऽप्य् अवमानितं स्याद् अत एवोक्तम् अभियुक्त-महानुभावैः । कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः [भ।र।सि। २.१.२३१] इति सर्वथैव व्रज-वनितानाम् अप्य् उत्कर्षो ध्वनितः । तत्र चोक्तानुक्त-सर्वेति कृत्य-समाधानार्थम् आह—योगमायां स्वीयाचिन्त्य-चिच्-छक्ति-वृत्तिम् उप आधिक्येन आश्रित इति स्वाश्रितानाम् अपि ताम् आश्रित इति प्रयोगात् तस्या अप्य् अत्र सौभाग्याधिक्यम् ॥१॥


॥ १०.२९.२ ॥

तदोडु-राजः ककुभः करैर् मुखं

प्राच्या विलिम्पन्न् अरुणेन शन्तमैः ।

स चर्षणीनाम् उदगाच् छुचो मृजन्

प्रियः प्रियाया इव दीर्घ-दर्शनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा तस्मिन्न् एव क्षणे तत्-प्रतीतये उडु-राजश् चन्द्र उदगाद् उदितः । किं कुर्वन् ? दीर्घ-कालेन दर्शनं यस्य स प्रियः स्व-प्रियाया मुखम् अरुणेन कुङ्कुमेन यथा विलिम्पति तथा प्राच्याः ककुभो दिशो मुखं शन्तमैः सुखतमैः करै रश्मिभिर् अरुणेनोदय-रागेण विलिम्पन्न् अरुणीकुर्वन्न् इत्य् अर्थः । स प्रसिद्ध उडु-राजः । तथा चर्षणीनां जनानां शुचस् ताप-ग्लानीर् मृजन्न् अपनयन् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा भगवतो रिरंसा-समये । तस्य हरेः प्रीतये । तमसि गोपाङ्गना-स्फुट-दर्शनं स्याद् इत्य् अभिप्रेत्येत्य् अर्थः । उडुभिस् ताराभिः राजत इति । यथाहम् उडुभी राकेशे राजे तथा भगवान् अपि व्रजाङ्गनाभी राजत्व् इत्य् अभिप्रायक उडुराज इति शब्दः । दीर्घं बृहत् दर्शनं स्वरूपं यस्य सः । पूर्णिमेन्दोः पूर्ण-कलत्वाद् इत्य् अर्थः । प्रियः भर्ता । स्व-प्रियायाः । अरुणं कुङ्कुमे रक्ते सन्ध्या-रागे\ऽर्क-सारथौ इति धरणिः । प्राच्याः ककुभ इन्द्रेशाञाः । पर-पत्न्याः इत्य् अर्थः । अनेन, यद् यद् आचरति श्रेष्ठः [गीता ३.२६] इति न्यायेन यद्य् यस्मद्-वंश-प्रवर्तकश् चन्द्र इन्द्र-भार्यायाः प्राच्या मुखं विलिम्पति, तदा कुल-परम्परा-गतत्वाद् अस्माकम् एतत् सदृश-कर्मणि न दोष इति विमृश्य भगवान् प्रीतो भवत्व् इत्य् उक्तं स्वामि-चरणैः—तत्-प्रीतये इति । इत्य् अर्थ इति—अरुणतापादनम् एवात्र विलिम्पन-पदार्थः । चर्षणीनां मनुष्याणां वा सस्यानां,

अर्यम्णो मातृका-पत्नी तयोश् चर्षणयः सुताः ।

यत्र वै मानुषी जातिर् ब्रह्मणा चोपकल्पिता ॥ [भा।पु। ६.६.४२] इत्य् उक्तेश् चर्षणयो मनुष्याः ।

चर्षणिर् मानुषे सस्ये श्रान्ते चाध्वनि वाहने इति निरुक्ति-कोशः । सस्य-पक्षे खर-किरण-सन्ताप-म्लान-रूपाः शुच इति ज्ञेयम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तदेत्य् आदि । तदा तस्मिन्न् एव समये यदा रन्तुं मनश् चक्रे तदैवेत्य् अर्थः । सेवा समयम् आकलय्य भृत्य इवोपसन्न इति यावत् ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं निज-रिरंसया चन्द्रम् अपि प्राची-दिशा स प्रियम् एव रन्तुम् उद्यतं मन्यमानस्य श्री-भगवतो भावम् अभिव्यञ्जयन्न् इव तद्-रिरंसा-स्मरणेनोदित-भाव-विशेषः प्राची-दिशा नायिकया सह चन्द्रस्य नायक-भाव-प्रदर्शनेनोदयम् आह—तदेति । यदा मनश् चक्रे तदानीम् एव उडूनां तारकाणां राजेति ता अपि तत्-परिवारत्वेनोदगुर् इति ध्वनितम् । तासां च पूर्ण-चन्द्र-रात्राव् अल्प-प्रकाशता-विवक्षया परिवारत्वापेक्षया चोदयस्य गौणतयोक्तिः । विशेषेण लिम्पन्न् इति पूर्ण-चन्द्राभिप्रायेणैव पूर्णत्वं च तस्य पौर्णमास्या किं वा तया विनापि तिथ्य्-अन्तरे भगवद्-रिरंसापेक्षया,शन्तमैर् अमृत-मयैर् इत्य् अर्थः । सर्व-तापापहारित्वात् स काम्य् अम्बुराशि-परिवर्धनतया प्रसिद्धः ।

न केवलम् एवम् अमुना प्राची-दिश एव तापो\ऽपहृतःकिन्तु सर्वेषां जनानाम् अपीत्य् आह—चर्षणीनाम् इति शुचः शरद्-अर्क-ज-सन्ताप-दुःखानि एतच् च श्री-भगवतो रिरंसोद्दीपन-द्वारा प्रायो गोप-कन्या-वर्ग-चिर-विरह-तापापनोदनाभिप्रायेण, जगत्-पूज्यानां तासां शुग्-अपनोदनेन जगताम् एव स्वतः शुग्-अपनोदन-सिद्धेः । प्रियः प्रियाया इवेति स-रागत्व-साधुत्वानन्यत्वादिनान्योन्यं प्रीति-विशेषेषो दर्शितः । अत एव परिजनानां शोकाश्रूणि मार्जयन् यथासौ परम-सुखमय-करेण लिम्पति । दीर्घ-दर्शन इत्य् अनेन परम्-औत्कण्ठ्यं सूचितम् । एवं सर्वम् इदं श्री-भगवद्-रिरंसाविर्भावनम् ऊह्यम् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं निज-रिरंसया चन्द्रम् अपि प्राची-दिशा प्रियः प्रिययेव रन्तुम् उद्यतं मन्यमानस्य श्री-भगवतो भावम् अभिव्यञ्जयन्न् तासां रात्रीणाम् उत्तमाङ्ग-रूपायाम् अस्याम् अभिव्यक्त-सर्व-मङ्गल-सूचकम् अन्यद् अप्य् आह—तदेति । उडूनां राजेति ता अपि तत्-परिवारत्वेनोदगुर् इति ध्वनितम् । रश्मिभिर् अरुणेनेति करण-द्वयम् उभयेषाम् अपि साधकतमत्वात् रश्मि-धृतेन रागेणेत्य् अर्थः । विशेषेण लिम्पन्न् इति पूर्ण-चन्द्राभिप्रायेणैव ततो राकैवेयं तिथिः पूर्णत्वं च तस्य तिथ्य्-अन्तरे श्री-भगवद्-इच्छापेक्षया तदेत्य् उक्त्या स्वारस्यात् । किं वा, उत्फुल्ल-मल्लिका-रात्रीर् वीक्ष्येतिवत् तस्याप्य् उद्दीपनत्वेन सहजोद्गमौचित्यात् । राकेश-कर-रञ्जितम् इति वक्ष्यमाणानुसारेण तत्-तिथाव् एव तात्पर्यात् स इति ता इतिवत् न केवलम् एवम् अमुना प्राची-दिश एव तापोपहृतः, किन्तु सर्वेषां जनानाम् अपीत्य् आह—चर्षणीनाम् इति । शुचः शरद्-अर्क-ज-सन्ताप-दुःखानि । यद् वा, मनो-दुःखानि भगवतः सर्व-शक्त्य्-आश्रय-परम-शक्ति-रूपाणां तासाम् अनुल्लासोल्लासाभ्यां स्वत एव सर्वेषां तत्-तद्-भावात् श्री-कृष्ण-जन्म-दिनादिवत् प्रियः प्रियाया इवेति स-रागत्व-साधुत्वानन्यत्वादिनान्योन्यं रुचि-विशेषेषो दर्शितः । अत एव तत्-परिजनानां शोकाश्रूणि मार्जयन् यथासौ परम-सुख-करेण लिम्पति । तथेति व्यञ्जितं दीर्घ-दर्शन इत्य् अनेन परमौत्कण्ठ्यं च सूचितम् । एवं सर्वम् इदं श्री-भगवतो रिरंसाविर्भावनम् ऊह्यम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : करैर् अरुणेन तद्-गतोदय-रागेण ॥२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तदोक्त-प्रकारासु सर्वास्व् एव रात्रिषु पूर्णत्वेन चन्द्रमा अप्य् एक एव नायकत्वेनासीद् इत्य् आह—तदोडुराज इत्य्-आदि । तदा तस्मिन्न् एव समये यदा भगवान् रन्तुं मनश् चक्रे । तदैव सेवकस्येयम् एव रीतिर् ईश्वरेच्छा सम-कालम् एवोपसत्तिर् इति यत्, स इति पूर्णत्वेन प्रसिद्धः । उडुराज उदगाद् उदियाय । किं कुर्वन् ? करैः किरणैः प्राच्याः ककुभो मुखम् अरुणेन अरुणिम्ना, गुण-वचनोऽयम् । विलिम्पन् रञ्जयन्न् इत्य् अर्थः । यद्यपि बह्वीनां रात्रीणां पतिस् तथापि प्राची दिग् एव तस्य प्रियेति ताम् एवादौ सादरम् अनुनयन् । पुनः किं कुर्वन् ? चर्षणीनां जनानां शुचौ मृजन् निर्मलीभावं कुर्वन् । तत्र दृष्टान्तः । प्रियः श्री-कृष्णः सर्वासां व्रज-देवीनां वल्लभोऽपि चर्षणीनां सखी-जनानां शुचो मृजन् अरुणेन कुङ्कुमेन करैः कर-व्यापार-विशेषैः प्रियाया राधाया मुखं लिम्पन्न् इति वाक्यार्थोपमा । कीदृशः ? उडु-राजः प्रियो वा दीर्घ-दर्शनः । बह्वीषु रात्रिषु परिपूर्णतयैक-रूपेयेण वर्तिष्यमाणत्वाद् दीर्घम् अपरिच्छिन्नं दर्शनं यस्य। पक्षे प्रियया सह दीर्घं सर्व-कालीनं दर्शनं यस्य, स्वाधीन-भर्तृकत्वात् तस्याः । अथवा, दीर्घ-दर्शनो दीर्घ-लोचन इत्य् अर्थः ॥२॥


**नारायण-भट्टः (श्री-रसिकाह्लादिनी) :**तद् एवं श्री-कृष्ण-मनसि रिरंसा-पूर्णेऽपि भाव-रूपां प्रथम-विक्रियाम् आपन्ने सति चन्द्रस्यापि तत्-कार्यत्वाद् उद्दीपन-विभावत्वाच् च चन्द्रमा मनसो जात इति श्रुतेः । कार्योन्मुखे सति कार्यं स्वयम् एवोदेति । यथा रात्री-शरन्-मल्लिकानाम् उद्दीपन-विभावत्वं तथा चन्द्रस्यापि उद्दीपन-विभावत्वम् । अतः तस्योदयम् आह—तदेति । तास्व् अनुराग-शैथिल्यं कुर्वन्, यथा श्री-कृष्णो रमायाम् अनुराग-शैथिल्यं कृतवान् तथैव चन्द्रोऽपि स्वकीयासु पूर्णम् उज्ज्वल-रसं प्राप्नुवत् परकीयायां प्राच्यां दिशि पूर्णं रसम् अनुभवितुम् उदत् । प्राची इन्द्रस्यैव स्याद् दिग्-देवानाम् इति श्रुतेः । किं कुर्वन् ? प्राच्याः ककुभो मुखं शन्तमैः करैर् अरुणेन विलेपनं प्राची पूर्वानुरागवती । अतस् तस्याः सूर्येण सम्बन्ध-मात्रं ज्ञात्वा सक्रोध इवारुण्यम् अभिव्यञ्जन् उदगात् फुल्लैः कुमुद-कुन्दादिभिर् मुख-विकासेन पूर्वानुरागं विचिन्त्य ताम् अनुसरन् शन्तमैः करैर् अस्माभिः कर-तुल्यैह् प्रणय-कोपं कुर्वन् तेनोदय-रागेण तस्याः ककुभो मुखं विलिम्पन् दिवाकरे तस्या अनुराग-भावम् आलक्ष्य यत् परित्यज्यान्यत्र गतत्वात् वस्तुतस् तु श्री-कृष्ण-मनसोऽनुराग एव चन्द्रमस्यम् इत्य् उक्तम् आसीत् मनः कार्यत्वात् नव-कुङ्कुमारुणम् इत्य् उत्तर-श्लोके वक्ष्यति—"कारण-गुणा हि कार्य-गुणान् आरम्भन्ते" इति न्यायात् ।

पुनः किं कुर्वन् ? चर्षणीनां कृताकृत-ज्ञानवतां जनानां शुचः दिवा शरद्-अर्कांशुजां तापान् मृजन्न् आशयन् यद् वा चर्षणीनां सर्वत्र यदि भ्रमतां भगवद्-भजनम् अन्तरे क्वचिद् दैत्य-भय-प्राप्नुवतां जनानां शुचः पश्चात् तापान् मृजन् दूरीकुर्वन् भगवद्-आनन्दस्य पूर्ण-चन्द्र-द्वाराभिव्यञ्जितत्वात् तस्मिन्न् एव समये सर्वेषां व्रजौकसां ताप-मार्जनं जातम् इति भावः । अन्यार्थेऽप्य् आकुला भवेयुर् इति । वक्ष्यति च मन्यमाना स्व-पार्श्व-स्थान् इति । तस्मिन्न् उदिते सर्वेषां परमानन्दो भवत्य् एव । ताप-हरणम् अवान्तर-व्यापार अन्धकार-निवृत्तिश् च किं च यथा श्री-कृष्णस्य व्रज-वल्लवी-मनोऽनुरञ्जनम् उद्देश्यं तथा चन्द्रस्यापि प्राचितापापनोदनम् उद्देश्यं सर्व-जनतां पाप-हरणम् आनुषङ्गिकमिति । चन्द्रेण कार्य-द्वयं साधितम् इत्य् अत्रानुरूपं दृष्टान्तम् आह—प्रियः प्रियाया इवेति दीर्घ-कालेन दर्शनं यस्य स प्रियः प्रीति-विषयः दीर्घोत्कण्ठा-युक्तः प्रिया-दर्शनेन गत-व्यथः प्रियाया विरह-तापम् अपनेष्यन् नव-कुङ्कुमेन मुखं विलम्पतीतिवत् अनेन विरह-ताप-हरणं परमानन्द-दातृत्वं च कार्य-द्वयं सूचितम् इति ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदैवोद्दीपनान्तरं च प्रादुर्बभूवेत्य् आह—तदा उडु-राजश् चन्द्र उदगात् । किं च, न केवलम् अयम् उद्दीपन एव अपि तु गोप-स्त्री-रमणस्य तस्य प्रमाणीभूत इत्य् आह—ककुभ इति । दीर्घ-कालेन दर्शनं यस्य स प्रियो रमणः प्रियायाः स्व-रमण्या मुखम् अरुणेन कुङ्कुमेन स्वकर-धृतेन यथा विलिम्पति तथा प्राच्याः ककुभो दिशः मुखं शन्तमैः सुखतमैः करैः किरणैर् धृतेन अरुणेन उदय-रागेण लिम्पन्न् अरुणीकुर्वन्न् इत्य् अर्थः । स प्रसिद्ध एव चर्षणीनां—अर्यम्नो मातृका पत्नी तयोश् चर्षणयः सुताः यत्र वै मानुषी जातिर् ब्रह्मणा परिकल्पिता [भा।पु। ६.६.४२] इति षष्ठोक्तेर् मानुष-जातीनां शुचः सन्तापान् मृजन् अपनयन् । अयम् अर्थः—कृष्णस्य स्व-कुलादि-पुरुषः स पुरातनोऽपि द्विज-राजोऽपि रमणार्ह-बहुतर-स्व-स्त्रीमान् अपि प्राच्या दिश इन्द्र-भार्यात्वात् पर-स्त्रियो मुखं स्व-करैः स्पृशति, स्पृशन्न् एव स्वयं तस्याम् अनुरक्तस् ताम् अप्य् अनुरागवतीं करोति यदि तदा कृष्णस्य तद्-वंशस्य नवीन-वयसो गोप-जातेर् अलब्ध-विवाहत्वात् स्वीय-स्त्री-रहितस्यार्थं च स्व-सौन्दर्येण मानुषी जातीर् आनन्दयतो गोप-स्त्री-रमणे कः खलु दोष इति ॥२॥


॥ १०.२९.३ ॥

दृष्ट्वा कुमुद्वन्तम् अखण्ड-मण्डलं

रमाननाभं नव-कुङ्कुमारुणम् ।

वनं च तत्-कोमल-गोभिर् अञ्जितं

जगौ कलं वाम-दृशां मनोहरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमुत् कुमुदं विकसनीयं विद्यते यस्य तं कुमुद्वन्तम् । न खण्डं मण्डलं यस्य तम् । रमाया आननस्याभेव आभा यस्य तम् । नव-कुङ्कुमम् इवारुणम् एवं-विधं चन्द्रं दृष्ट्वा । तथा वनं च तस्य कोमलैर्गोभी रश्मिभी रञ्जितं दृष्ट्वा कलं मधुरं जगौ अगायत । कथम् ? वाम-दृशां वामा मनोहरा दृशो यासां, तासां मनोहरं यथा ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुमुदं रात्रि-विकाशि कमलम् । विकसनीयं प्रकाशनीयम् । यद् वा, कौ भूमौ मुद् यतः सा प्रभा तद्वन्तम् । तस्य चन्द्रस्य । गोभिः किरणैः । नृ-स्त्रियो स्वर्ग-वज्राम्बु-रश्मि-दृग्-बाण-लोमसु इति केशवोक्तेः । रञ्जितं मण्डितम् । कलम्, कलं शुल्के त्रिष्व् अजीर्णे नाट्योक्त-मधुर-ध्वनौ इति मेदिनी ।

गूढार्थस् तु—वाम-दृक् ई-कारस् तद्-युक्तं कलं क्लीम् इति बीजम् । अं वासुदेवं मानयति विज्ञापयतीति, अं मनः सान्तोऽयं द्वितीयाया अ-लुग् आर्षः । तच् छ्रुत्वा वासुदेवो वादयतीति ज्ञायते । पुनः औ अ-कारौ हरति त्यजतीत्य् अ-हरम् । कलम् इत्य् अत्र अ-कारयोस् त्याग-पूर्वकम् ई-कार-सङ्गत्या क्लीम् इति सम्पद्यते । तथा च—काम-बीजं जगौ । वंश-पर्व-द्वारा विरह-कर्षित-प्रेम-रसार्द्र-तद्-धृदय-क्षेत्रे कामम् उद्भावयामास वपनेनेवेति तत्त्वम् ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वनं चेत्य् आदि । तत् कोमल-गोभिर् अञ्जितं म्रक्षितं तत्-कोमल-गोभिर् अञ्जितम् इति समस्तं वा पदम् । जगौ कलम् इति गानम्, अतो मुरली-करणकम् इति ज्ञेयम् । चुकूज वेणुम् [भा।पु। १०.२१.२] इति पूर्व-पूर्वोक्तत्वात् । कलम् इत्य् अस्यायं भावः—ध्वनौ तु मधुरास्फुटे कलः । अस्फुटत्वे सति सर्वासाम् एव मन्-नाम्ना गीतम् इति प्रतीतिर् अभूत् ॥३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च भाव-विशेषाविर्भावेन श्री-गोपीनाम् आकर्षणार्थं मोहन-मन्त्रम् इव वेणुना किञ्चिद् गीतम् अगायद् इत्य् आह—दृष्ट्वेति । कुमुत् कुमुदम् । तथा च विश्वः—कुमुदे\ऽपि कुमुत् प्रोक्तम् इति तद्वन्तम् इति । कुमुदानि च तदानीं विकसितानीत्य् अर्थः । अत एव वक्ष्यते श्री-गोपीभिः—वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये [भा।पु। १०.४७.४३] इति । यद् वा, कुः पृथिवी तस्या मुत् हर्षः । तद्वन्तम् इति तद्-उदयेन सर्वेषाम् एवानन्दो\ऽभूद् इत्य् अर्थः । तत्र हेतवः—अखण्ड- इत्य्-आदीनि । अखण्ड-मण्डलत्वाद् रमाननाभम् इति । लक्ष्मी-मुख-स्मारणेन रिरंसा विभावितेति ज्ञेयम् ।

ननु रमाननं सदा सत्-कुङ्कुमाक्तं, चन्द्रस् तु शुक्ल एव । तत् कथं तत्-सादृश्यम् ? तत्राह—नवेति । एतच् च प्रथमोदय-मात्र-विवक्षया । नव-कुञ्कुमस्य भावोद्दीपनत्वेनैव प्रयोगः । एवं कालस्य इति योग्यतां प्रदर्श्य स्थानस्यापि दर्शयति—वनं चेति । तस्य चन्द्रस्य कोमलैः प्रथमोदयेनाल्प-मात्र-प्रकाशवद्भिर् गोभिर् अभितो रञ्जितं रक्तीकृतम् अनुराग-विषयीकृतं वा ।

यद् वा, गोभिर् इति तृतीयान्तं पदं, अञ्जितं म्रक्षितम्, अत्रापि स एवार्थः । एवं भावोद्दीपनम् एव दर्शितम् । कलं मधुरं किञ्चिद् गीतम् ।

यद् वा, कलं यथा स्यात् तथा जगौ वेणुनेति ज्ञेयम् । का स्त्र्य् अङ्ग ते कल-पदामृत-वेणु-गीत [भा।पु। १०.२९.४०] इत्य्-आदि-वक्ष्यमाणत्वात् । वामा मनोहरा दृशो नेत्राणि यासां, परम-सुन्दरीणाम् इत्य् अर्थः ।

यद् वा, वामा कुटिला दृक् दृष्टिर् यासां परम-विदग्धानाम् इत्य् अर्थः । एतच् च स्वरूप-निरूपण-मात्रम् । व्रज-स्त्रीणां सर्वासाम् एव स्वभावतस् तादृशत्वात् मनो हरति आकर्षति सङ्केत-विशेषेण राग-तालादि-विशेषेण वा मनोहरं तद् यथा स्यात् इति दिनान्तरापेक्षया तदानीं गान-विशेषो\ऽभिप्रेतः । दिनान्तरेषु वेणु-गीतेन तादृशत्वावृत्तेः ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तं दृष्ट्वा भाव-विशेषाविर्भावेन वनम् आगत्य तच् च तद्-राश्मिभी रञ्जितं दृष्ट्वा तत्र यमुना-तीर-भागम् अद्यापि रासौलीति प्रसिद्ध श्री-वज्र-स्थापितं ग्राम-चत्वरम् आगत्य चाकर्षण-वेणुना किम् अपि गीतम् अगायद् इति पूर्ववत् तस्यां रात्रौ प्रकटित-वेणु-शिक्षा-विशेषत्वम् अप्य् आह—दृष्ट्वेति ।

तं च रमाननाभं रमयन्तीति रमाणां परम-रमा-रूपाणाम् एव वा तासां तत्-प्रेयसीनां मध्ये परम-प्रेयसी या राधा यत्-प्राप्त्य्-अर्थम् एव वेणु-शिक्षा-विशेषं प्रकटयितुं नूनम् एतावन्तं कालं तासाम् अपि सङ्गमे शिथिलो\ऽभूत्, तस्या यत् आननं तद्-आभं दृष्ट्वा तत् तया वितर्क्य तेन तत् स्मृत्वा वा स्व-प्रकाशनाय कलं जगाव् इत्य् अन्वयः ।

वितर्कापद्य् उपादनाय साम्येन विशेषणानि—कुमुत् कुमुदम् । तथा च विश्वः—कुमुदे\ऽपि कुमुत् प्रोक्तम् इति तद्वन्तम् इति वा स्व-प्रकाशनाय कुमुदानि च तदानीं विकसितानीति ध्वन्य्-अर्थः । अत्र विशेषणैर् एव विशेष्यश् चन्द्रो लभ्यते । अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् इतिवत् । आननस्य पक्षे, कोः पृथिव्याः मुत्-कर्तव्यत्वेन विद्यते यस्य तद् इति विशेष्य-वशाल् लिङ्ग-विपरिणामेन ज्ञेयम् । परम-रमा-रूपत्वात् तस्याः ।

अखण्ड-मण्डलं षोडश-कलम् । पक्षे, यथावत् परिमाण-संवलितं मण्डलम् अवयव-वृन्दं यत्र नव-कुङ्कुम-रागेणारुणम् ।

एवं कालस्य रति-योग्यतां प्रदर्श्य स्थानस्यापि दर्शयति—वनं चेति । तस्य प्रथमोदयेनाल्प-मात्र-प्रकाशवद्भिर् गोभिर् अभितो रञ्जितम् । यद् वा, भावे निष्ठा तैर् अभिरञ्जितं, अर्थात् कृष्णस्याभिरञ्जना यत्र तत् दीर्घत्वाभावः छान्दसः । एवं भावोद्दीपनम् एव दर्शितम्

कलं मधुरम् अस्फुटं च यथा स्यात् तथा जगौ वेणुनेति ज्ञेयम् । का स्त्र्य् अङ्ग ते कल-पदामृत-वेणु-गीत [भा।पु। १०.२९.४०] इत्य्-आदि-वक्ष्यमाणात् । तत्र मधुरत्वं मनोहरणाय अस्फुटत्वं सर्वासाम् अपि तासां स्व-स्व-नाम-मयत्वादि-भ्रमाय अन्येषां वेणु-वाद्यम् इदम् इति विशेषानवधारणाय च ।

ननु मधुरत्वेन कथं सर्वेषाम् एवाकर्षणं नाभूत् ? तत्राह—वाम-दृशां तादृश-भाववतीनाम् एव मनोहरं यथा स्यात् तथेत्य् आदि-रस-मात्रोद्दीपनं राग-विशेषं जगाव् इत्य् अर्थः । वक्ष्यते च अनङ्ग-वर्धनम् इति । नूनं मध्यमादि-नामा यत उक्ते मौडव-राग-भेदे—

मध्यमादिर् म-ग्रहान्तो मध्यम-ग्राम-रागजः ।

अयं सायं तु गातव्यः शृङ्गारे ऋ-ध-वर्जितः ॥ इति ।

मेति मध्यमः ऋ-धेति ऋषभ-धैवतौ स्वरौ—ग्रहः स्वरस इत्य् उक्तो यो गीतादौ समर्पितः इति पूर्वं तु, इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् इति सामान्य-विषयकत्वात् स्वभावानुसारेण तासां मोहन-मात्रं जातम् । अधुना तु रस-विशेषोद्दीपनत्वाद् आकर्षणम् इति तत्र तत्र वंश्या अपि वैशिष्ट्यम् अस्ति, यथोक्तम्—

अर्धाङ्गुलान्तरोन्मानं तारादि-विवराष्टकम् ।

ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम् ॥

शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका ।

नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः ॥

दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः ।

महानन्देति व्याख्याता तथा संमोहिनीति च ॥

भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता ।

आनन्दिनी तदा वंशी भवेद् इन्द्रान्तरा यदि ॥

गोपानां वल्लभा सेयं वंशुलीति च विश्रुता ।

क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा ॥ [भ।र।सि। २.१.३६८-७२]

अतो द्वादश्याङ्गुलान्तरे तार-मुख-रन्ध्रा हैमीयं ज्ञेया । एवं गान-वैशिष्ट्यम् अपि ज्ञेयं वाम-दृशाम् इति । श्लेषेण स्वस्मिन् कुटिलम् एव पश्यन्तीनां तासां मनो-रूप-मूलाकृष्ट्या दृष्ट्यादि-सर्वेन्द्रिय-वृन्दम् एवाकृष्टम् इवेत्य् अर्थः ।

अत्र श्लेषेण काम-बीजं जगाव् इति रहस्यं, यतो वाम-दृक्-सम्बन्धि यत् तत् सहितं कलम् इति प्रथमाक्षर-त्रयं व्यञ्जितं । कीदृशं ? मनोहरं मनः-शब्देन तद्-अधिष्ठाता चन्द्र उच्यते । स च तद्-आकारत्वेन लवकः, तं हरति आकर्षतीति तत्-संवलितम् इत्य् अर्थः । नाद-युक्तत्वं तु वेणु-नाद-स्वाभाव्याद् एवेति भावः । तद् उक्तं, कला तु माया लवका तु मूर्तिः कल-क्वणद्-वेणु-निनाद-रम्यः इति ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महा-लक्ष्मी-रूपत्वेन । यद् वा, श्री-कृष्ण-स्मरण-हेतुत्वेन रमात्र श्री-राधा—इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् [भा।पु। १०.२९.६] इति पूर्वोक्तात् । वैशिष्ट्यम् आह—वाम-दृशां मनोहरम् इति । आदि-रसोद्दीपन-गान-विशेषाद् इति भावः ॥३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवान् अपि तम् उदितं दृष्ट्वा विहारार्थं क्षणम् अपि विलम्बं नाकरोद् इत्य् आह—दृष्ट्वेत्य् आदि । कुमुद्वन्तं प्रकाश्येन कुमुदं वर्तते अस्येति कुमुद्वान्। नडादित्वाद् अतो लोपः । चन्द्रस् तं दृष्ट्वा कलं जगौ गीतवान् वेणुनेति शेषः, चुकूज वेणुम् इत्य्-उक्तेः । किं जगौ ? इत्य् अत्राह—वाम-दृशां मनोहरं यत् तद् एवेत्य् अर्थः । वाम-दृशाम् इत्य् अस्यायम् अर्थः । यज् जगौ तद् वाम-दृश एव शुश्रुवः, न तु पूर्व-पूर्वोक्तवत् सर्व-भूत-मनोहरम् इति । तथा सति सर्व एवाश्रोष्यन् । तन् न चेद् वाम-दृश एवाजग्मुर् न तु सखायः, सखीनां तु मते पित्रोर् गृह एव वर्तते । पित्रोर् अपि तथैव पूर्व-पूर्व-दिनवत् यथा-स्थानं यथा-कालं शयनादि-क्रियां कुर्वन्न् एवास्ते । दृश्यते च ताभ्याम् । तथेदृश्य् एव तस्य योग-शक्तिर् अचिन्त्या । अनयैव दिशा वृन्दावन-स्थो नित्य इति यन् मतं तद् अपि साधयितव्यम् ।

कुमुद्वन्तं कीदृशम् ? अखण्ड-मण्डलं पूर्णम् । पुनः कीदृशम् ? रमाननाभं रमां विहाय गोपीभिः सह क्रीडायां तस्याः सदैव कोपेनारुणम् आननं तत्-समानम् । तद् एव प्रकटयति—नव-कुङ्कुमारुणम् । न केवलं तं दृष्ट्वा, वनं च कीदृशम् ? तत्-कोमल-गोभिर् अञ्जितं तस्य कोमलैर् गोप्भिः किरणैर् अञ्जितं म्रक्षितम् । अभिरञ्जितम् इति समस्तं वा पदम् । अत एव नव-कुङ्कुमारुणम् इति वनस्य च विशेषणम् अवगन्तव्यम् ॥३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवम् उद्दीपन-विभावस्योदयम् उक्त्वा विलासाधिकरणस्यापि श्रैष्ठ्यम् आह—उद्दीपन-विभावं दृष्ट्वा शब्दात्मिकालीलां प्रादुश्चकार दृष्टेति कुमुद्वन्तं चन्द्रं दृष्ट्वा कलं यथा स्यात् तथा जगौ वेणुं वादितवान् इति । आकाश-स्थितोऽपि कौ पृथिव्याम् उत् आनन्दो विद्यते यस्य स कुमुद्वान् पृथिव्याम् इति पृथिवी-स्थ-जनेष्व् आनन्द-दातृत्वं सूचितम् इति । यद् वा कुमुत् कुमुदं विकसितं यस्मिन् अन्योपलक्षणं रात्री-विकाशिनि अन्यान्य् अपि पुष्पाणि विकसितानीत्य् अर्थः । श्री-कृष्ण-मनसि रस-पूर्णे अखण्डने सति चन्द्रस्याप्य् अखण्डत्वं जातं तत्-कार्यत्वाद् इत्य् आह—न खण्डं मण्डलं यस्य । अनेन सर्व-जने पूर्णानन्द-दातृत्वं सूचितम् ।

पुनः किं-भूतं ? रमाया आननस्येवाभा यस्य लक्ष्मी-सहोदरत्वात् । अत एव चन्द्र-दर्शने रमा-मुख-स्मरण-हास्य-भावोद्दीपकत्वं व्यञ्जितम् । मुनीन्द्रोऽपि मत्य्-अभिज्ञया सादृश्यं वदतीति । यद् वा, रमयतीति रमा या काचिद् व्रज-देवी तद्-आनन-तुल्यं । पुनः कथम्-भूतं ? नव-कुङ्कुमारुणम्, अस्य दर्शनेनैतत् सूचितं रमाननं विवाह-समये नव-कुङ्कुमेन रञ्जितम् । अत एवारुणं चन्द्रस्योदयारुण्यं नरस्याननस्याप्य् आरुण्यम् अनुमीयते । उद्दीपके पुनः कुङ्कुमस्यापि गणितत्वात् वनम् अपि मधुर-रसोद्दीपकं दृष्ट्वा, तच् च तस्य चन्द्रस्य कोमलैः सुख-स्पर्शेन नवानुराग-संवलितैर् गोभिः किरणैः अभि निशङ्कं यथा स्यात् तथा रञ्जितं । यद्यपि पत्राणां हरितत्वं पुष्पाणां श्वेतत्वं, तथापि किरणै रुद्धयारुण्येनारुणी-कृतम् इति पोषकत्वम् उक्तम् । यद् वा, तस्य कोमलैः सुख-स्पर्शैर् उदय-राग-पिञ्जीरितैर् गोभिर् अञ्जितं कान्ति-विशेषं शयितम् । अञ्जु-व्यक्ति-ग्लक्षण-कान्ति-गतिषु इति धातुः । न केवलं वनम् एव रञ्जितं किन्तु श्री-कृष्ण-मनोऽपि रञ्जितं यतः कोमलम् अव्यक्तं मधुरं जगौ वेणुं वादितवान् ।

अयं भावः—कृष्णस्यापि मनः कृष्णम् एव तेन चन्द्रमसा स्वस्योदय-रागेण रक्तं कृतम् इतीदम् एव चित्रम् । यद् वा, कुं मुखं लाति गृह्णातीति कलं मुखं पूर्णम् इत्य् अर्थः । तच् च गानं, कीदृशं वाम-दृशां मनोहरं वामा मनोहरा दृशो यासां तासाम् । यद् वा, वामा वक्रा दृशोर् अपाङ्गा यासाम् । यद् वा, वामा शोभना दृशो दर्शनानि ज्ञानानीति यावत् यासाम्, मुनीनाम् अपि मनोहर-मोहकम् इत्य् अर्थः । अयम् अभिप्रायः व्रजे द्वादश रसाधिकारिणो वर्तन्ते तथापि मधुर-रसाधिकृतानां निरोधो वर्णितः तद्-अवधि-कृतानां सुख-विशेषानुभवे तन्-निरोधो वर्णितः तत्रैव स्थिता यतो वेणु-ध्वनि-मार्गेणागता ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तद्-दर्शनेनाद्भुत-कन्दर्प-विकारो, यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः [गीता ३.२१] इति स्मृत्वा स्व-कुलादि-पुरुषस्य तस्य धर्मं स्वस्मिन्न् अपि पश्यन् निःशङ्कम् एव पर-स्त्रीर् आनेतुं कम् अप्य् अमोघं यत्नम् अकरोद् इत्य् आह—दृष्ट्वेति । कुमुत् कुमुदं, कुमुदेऽपि कुमुत् प्रोक्तम् इति [विश्वः]{।मर्क्} । तद्-विकासनीयत्वेन वर्तते यस्य तम् आत्मानं च दृष्ट्वेत्य् अपि व्याख्येयम्, विशेष्य-विशेषणानुक्तेः, न अखण्ड-मण्डलं विश्वं स्वरूपं यस्य तं पूर्णम् इत्य् अर्थः । रमा लक्ष्मीस् तद्-भातृत्वात् तद्-आननाभम् । यद् वा, सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा इति स्मृतेः रमा श्री-राधा । रमन्ते रमयन्तीति वा रमा गोप्यश् च तासाम् आननस्येवाभा यस्य तम् इति । तद्-दर्शनेन ताः स्मृति-पथारूढा इति भावः । पक्षे, रमाणां तासाम् आनने आभा अन्तः-कन्दर्प-विकार-द्योतनी सम्यक् कान्तिर् यतस् तम् आत्मानं, उदय-राग-व्याप्तत्वात् नव-कुङ्कुम-पिण्डवद् अरुणम् । पक्षे, नव-कुङ्कुम-चर्चया अरुणम् ।

तथा वनं च तस्य कोमलैर् गोभिः किरणै रञ्जितं म्रक्षितम् अभिरञ्जितम् इति समासो वा । पक्षे, तैः प्रसिद्धैर् गोभिः स्वाङ्क-कान्तिभिः स्व-पाल्यमान-गवीभिर् वा अभिरञ्जितम्, अभिरञ्जित-चरम् इत्य् अर्थः । टजभाव् आर्षः । इत्य् उद्दीपनालम्बन-विभावौ दृष्ट्वा कलं मधुरम् अगायत वेणुनेति शेषः—का स्त्र्य् अङ्ग ते कल-पदामृत-वेणु-गीते [भा।पु। १०.२९.४०] इत्य् अग्रिमोक्तेः ।

कथम् ? वामा मनोहरा दृशो यासां तासां युवतीनाम् एव मनोहरं यथा स्यात् तथा गायन्तं स्त्रियः कामयन्त इति श्रुतेः । श्लेषेण कलं क-कार-ल-कारं वाम-दृशाम् इति लुप्त-विभक्तिकं पदं वाम-दृक् चतुर्थः स्वरः, तया सह पञ्च-दश-स्वरं काम-बीजं जगाव् इति रहस्यम् । मनोहरं मनस आकर्षकत्वात् स्व-स्वरूप-भूत-महा-मन्मथ-मन्त्रम् इत्य् अर्थः ॥३॥


॥ १०.२९.४ ॥

निशम्य गीतं तद्-अनङ्ग-वर्धनं

व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः ।

आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः

स यत्र कान्तो जवलोल-कुण्डलाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असापत्न्याय अन्योन्यम् अलक्षितो न ज्ञापित उद्यमो याभिस् ताः । स कान्तो यत्र, तत्र गीत-ध्वनि-मार्गेण आजग्मुः3जवेन वेगेन लोलानि चञ्चलानि कुण्डलानि यासां ताः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : असापत्न्याय सापत्न्य-निवृत्तये । सहगमने त्व् ईर्ष्या स्याद् इत्य् अर्थः । कृष्णः । यत्र स्थाने । कुण्डलानां रथत्वं पक्षत्वम् अङ्कुशत्वं च, किं वा भूमिः सङ्कुचिता सैवाग्रे विवृता भविष्यतीति । जव-लोल-कुण्डला इत्य् अनेन ध्वनितम् ॥४॥ (विश्वनाथ, तोषणी)


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अनङ्ग-वर्धनम्—अनङ्गो मत्-कामो\ऽङ्गी प्रेम्णा अङ्गे वर्धनम् इत्य् अर्थः । अन्योन्यम् अलक्षितोद्यमा इति संवाद-विरहात् । यद् वा, पत्य्-आदिभिर् अलक्षितोद्यमाः सत्यो\ऽन्योन्यं मिलित्वा आजग्मुः । जव-लोल-कुण्डला इति जवेनापि कुण्डलयोर् एवे लोलत्वं, तेन मान्थर्यातिशयस् तेन च कलहंस-गामित्वम् । कुण्डलानां च पाश्चात्य-देशीय-कुण्डल-विजातीयत्वम् । यद् वा, अजव-लोल-कुण्डलाः—न जवेन लोलानि कुण्डलानि यासां ताः, ईषल्-लोला इत्य् अर्थः ॥४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-पूर्वोक्त-प्रकारं श्री-कृष्ण-वेणूद्गतम् अनङ्गं श्री-भगवद्-विषयकं कामं प्राग्-वर्तमानम् एवाधुना वर्धयतीति तथा तत् । यद्यपि वाम-दृशां मनोहरम् इत्य् अनेनानङ्ग-वर्धनत्वम् आयातम् एव, तथापीयं विशेषोक्तिस् तद्-अतिशय-विवक्षया अनङ्ग-शब्द-प्रयोगश् च तासां प्रेम-रूप-काम-विशेषेण ग्राम्य-धर्म-हेतु-प्राकृत-कामांशाभाव-विवक्षया ।

यद् वा, श्री-भगवद्-विषयत्वेनानङ्गस्यापि साङ्गीभावाद्य्-अभिप्रायेणेति दिक् । व्रजस्य व्रजे वा याः स्त्रियो नव-युवत्यस् ताः । कृष्णेन परमाकर्षकेण पूर्वम् एव गृहीतम् आकृष्टम् आविष्टं वा मानसं मनस् तदीयाशेषं वा यासां ताः । विशेषतश् चेदानीं तादृशं गीतं श्रुत्वा आजग्मुः ।

यद् वा, स्व-यूथे मिथः सख्यवतीनाम् अपि तासाम् अन्यो\ऽन्यम् अलक्षितोद्यमत्वे हेतुः—कृष्णेति । तदानीं कृष्णाकृष्ट-चित्तत्वेन विचारागमाद् इति भावः ।

यद् वा, तेनैव प्रेम-विशेष-स्वाभाविक-तद्-विलासात्मक-सापत्न्यस्य यूथान्तरे प्रादुर्भावात् ।

यद् वा, गमने\ऽत्यन्त-त्वरया तज्-ज्ञापनाशक्तेः, अत एव जवेन गमन-वेगेन लोलानि कुण्डलानि कर्ण-भूषणानि यासां ताः । आजग्मुर् इति श्री-बादरायणेः श्री-कृष्णान्तिके सदैवात्म-स्थितेः परिस्फूर्तेः ।

किं वा, तासां तद्-गमन-वार्तया भाव-विशेषोदयेन तस्मिन्न् इव स्वस्यापि तत्र गमन-स्फूर्त्या साक्षाद् इव श्री-कृष्णान्तिकतायाः परिस्फूर्तेः ।

यद् वा, आजग्मुर् अभिसस्रुर् इत्य् अर्थः । यद् वा, आ सम्यक् सर्व-परित्यागेन जग्मुर् ययुर् इत्य् अग्रे बहुशो वक्ष्यमाणत्वात् । स परम-मोहन-वेणु-गीत-गायकः । यद् वा, चिरं व्रतादिनाभीप्सितः, यतः कान्तः स्वामी निज-मनोहर इति वा । यद् वा, कस्य सुखस्यान्तो निष्ठा यस्मात् सः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्ये तु च तद्-गीतं न श्रुतवन्तः किन्तु तेन ता एव चाकृष्टा इति तस्य शक्ति-विशेषं द्योतयन्न् आह—निशम्येति । तत्-पूर्वोक्तं प्रकारं श्री-कृष्ण-वेणूद्गतम् अनङ्गं श्री-भगवद्-विषयं कामं प्राग्-वर्तमानम् एवाधुना वर्धयतीति तथा तत् । यद्यपि वाम-दृशां मनोहरम् इत्य् अनेनानङ्ग-वर्धनत्वम् आयातम् एव, तथापीयं विशेषोक्तिस् तद्-अतिशय-विवक्षया अनङ्ग-शब्द-प्रयोगश् च पूर्वं बीजाङ्कुर-रूपेणैव स्थितः सम्प्रति तु पल्लवित इत्य् अर्थं बोधयति । एतेन तद्-गानस्यामृत-सेकत्वम् अप्य् उत्प्रेक्ष्यते । सद्यस् तथाभावात् व्रजस्य स्त्रियस् तद्-विशेषाः प्रकारण-बलात् । अत एव कृष्णेन परमाकर्षकेण पूर्वम् एव गृहीतम् आकृष्टम् मानसं मनस् तदीयाशेषं वा यासां ताः । विशेषतश् चेदानीं गीतं श्रुत्वा आजग्मुः अन्योन्यालक्षितत्वे हेतुस् तैर् व्याख्यातः ।

यद् वा, स्व-यूथे मिथः सख्यवतीनाम् अपि तासाम् । तत्र हेतुः—कृष्णेति । तदानीं कृष्णाकृष्ट-चित्तत्वेन विचारागमाद् इति भावः । अत एव जवेनेति आजग्मुर् इति श्री-बादरायणेः श्री-कृष्णान्तिके सदैव स्व-स्थिति-स्फूर्तेः । किं वा, तासां तद्-गमन-वार्तया भाव-विशेषोदयेन तासाम् इव स्वस्यापि तत्र गमन-स्फूर्त्या साक्षाद् इव श्री-कृष्णान्तिकतायाः स्फुरणात् । अग्रे तु ययुर् इति चलनार्थकम् एव स इति रमणः यत्रेति तत्रैव परम-सुखमय-स्थान इत्य् अर्थः । तस्य वेणु-वाद्यस्य परमाकर्षण-विद्या-रूपत्वाद् अन्यत्र भ्रमणादिकम् अपि नासीद् इति भावः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आजग्मुः प्राप्तवत्यः ॥४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वाम-दृशां मनोहरम् इति यद् उक्तं, तद् एवानन्य-साधारण्यम् आह—निशम्येत्य् आदि । यत् कलं वेणु-गीतं व्रज-स्त्रियो निशम्य श्रुत्वा आजग्मुः । नान्यः कोऽपि—तच्-छ्रवणाभावात् । कुत्र आजग्मुर् इत्य् आह—स यत्रेत्य् आदि । स कीदृशः ? कान्तः कमनः । कीदृशं गीतम् ? अनङ्ग-वर्धनम् । अङ्गं काम-कला, अङ्गी प्रेमा । अतोऽनङ्ग-वर्धनम् अङ्गि-वर्धनं प्रेम-वर्धनम् इति यावत् । ताः कीदृश्यः ?कृष्णेन गृहीतं मानसं यासाम् । तेन तत्रानङ्गस्य नावसरः । अन्योन्यम् अलक्षित उद्यमो याभिः । आकस्मिकत्वेन पूर्व-संवादाभावात्, न त्व् ईर्षया । यद्यप्य् एवं तथापि सर्वा एक-सूत्र-नद्धा दारु-पुत्रिका इव एकदैव जग्मुर् न तु पौर्वापर्य-क्रमेण । जवेन वेगेन लोलानि कुण्डान्य् एव यासां तादृश-वेगवता गमनेनापि कुण्डलानाम् एव लोलतासीद् इति गमनस्य स्वाभाविक-गाम्भीर्य-सूचनम् ॥४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ततो वेणु-गीत-स्व-स्व-नामाङ्कितम् आह्वानं श्रुत्वा किं कृतम् इत्य् अपेक्षाम् आह—निशम्येति । तद्-गीतं निशम्य व्रज-स्त्रिय आजग्मुः । सर्वा एवागता यद्यपि श्री-कृष्णेन याभ्यो वरो दत्तस् ता एवाकारितास् तथापि पूर्वानुभूत-कृष्णानन्दाः सर्वा एव समागताः । कीदृशं गीतम् ? अनङ्ग-वर्धनं श्री-कृष्ण-विषयकम् अलौकिकं कामम् एव वर्धयति पूर्व-सिद्धम् एवेदानीं वृद्धिं प्राप्तः । अनङ्ग-वृद्धौ आकारण-संवलित-वेणु-गीतस्यैवासाधारण-कारणत्वम् । अनङ्गस् तु मानसो धर्मो मनो भवत्वात् नान्योपलक्ष्यः । पूर्वं श्री-कृष्णस्यैवम् अनङ्ग आविर्भूतो यतो रन्तुं मनश् चक्रे स एवानङ्गो वेणु-नाद-द्वारा व्रज-सुन्दरी-सञ्चारितः । एतासां पूर्व-सिद्धो सुरूपो वर्तत एवातोऽनेन सह सम्भूय महतीं वृद्धिं प्राप्त इति भावः । श्री-कृष्णस्य कामेनैव तासां कामं स्वस्मिन् क्रोडीकृतस् तद्-द्वारा आसां श्री-कृष्णेनैव गृहीतम् आकृष्टं मानसं यासां ता मनस्य् आकृष्टे सति मनो धर्मस्य स्वत एवाकर्षणादीत्य् अर्थः ।

यद् वा, तद्-अनङ्ग-वर्धनं तस्य श्री-कृष्णस्यैव पूर्वम् अनङ्गं वर्धयतीति तथा । यद् वा, तत् मोहनार्थं प्रयुक्तं गीतम् अनङ्गा नित्य-सिद्धः स्थित एवालौककस् तं कामं वर्धयति उच्छलितं करोतीति । तथा मोहनार्थं प्रयुक्तो कृष्णेन स्वरूपेण माधुर्येण च गृहीतं मानसं यासां ताः न तु केवलेन मोहन-गीतेन ।

यद् वा, अन्योन्यम् अनङ्ग-वर्धनं, यथाजग्मुर् इति प्रवक्तृणा श्री-शुकेन स्वानुभवोक्तिः कृतेति, यद्यपि स्व-स्व-यूथेन चलिताः, तथापि अन्योन्य-ज्ञापकम् अलक्षितोद्यमाः श्री-कृष्णाकृष्टं मनस् तेन देहेन्द्रियाणाम् अप्य् आकर्षणात् परस्परम् अलक्षितो न ज्ञापित उद्यमो याभिस् ता इन्द्रियाणां मध्ये वाग्-इन्द्रियस्यापि तेनाकर्षणात् स्वाभीष्टं नोक्तवत्त्य इति भावः । शरीरानुसन्धानम् अकुर्वत्यो यतो वेणु-गीतम् आगतं तेनैव मार्गेणागताः कुत्रेत्य् अपेक्षायां स इति समये दृष्ट-चरः कान्तः कोटि-कन्दर्प-कमनीय-स्वरूपस् तत्रानुराग-संवलितो वर-दान उद्दीपन-विभाव-संस्कृते रहसि प्रथमं कुमार्य एवागता अनास्वादित-रमणानन्दास् तल्-लिङ्गं जव-लोल-कुण्डलाः, कुमारीणाम् एव कुण्डल-धारणम्, अन्यासां सामान्य-पूर्वाणां ताटङ्क-धारणम् इति विवेकः

यद् वा, यत्र कान्तः कस्य रमणात्मकस्य परम-सुखस्यान्तः परा काष्ठा यस्मिन् सः । यद् वा, अधिकरणस्यैव विशेषणम् ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कल-गीत-सूत्र-गुम्फिताः पञ्चालिका इव ताः कृष्णान्तिकम् आयाता इत्य् आह—तद् गीतं मनोहरम् अपि मनोज-वर्धनम् । किं च, कृष्णो हि वेणु-गीताख्यं महा-चौरं व्रजे प्रेषितवांस् तेन च व्रज-स्त्रीणां निष्कपाटेन कर्ण-द्वारेणान्तःकरणं कोषागारं प्रविश्य मनसा सह धैर्य-लज्जा-भय-विवेकादीनि महा-धनान्य् अपहृत्य झटित् एवानीय कृष्णाय दत्तानीत्य् आह—कृष्णेन गृहीतानि मानसानि मनांसि च मानसानि मनः-सम्बन्धीनि धृति-स्मृति-विवेक-लज्जा-भीतिमतादीनि यासां ता आजग्मुः महा-चौर-चक्रवर्तिनः कृष्णात् तानि स्व-स्व-धनानि प्रार्थयितुम् इवेति भावः । तदैवं मन्ये तं महा-चौरं धर्तुं व्यग्राणाम् अन्योन्यं न लक्षित उद्यमो यासां ताः । चौरस्य पश्चात् पश्चाद् एवाजग्मुः । क्व ? स कान्तो यत्र जवेन वेगेन लोलानि कुण्डलानि कुण्डलोपलक्षितानि कङ्कण-किङ्किण्य्-आदीन्य् अपि यासां तास् तेन सह तासां बहिष्करण-गृह-स्थितानिधनान्य् अल्प-मूल्यत्व-बुद्ध्या चौरेण तेन नापहृतानीति भावः ॥४॥


॥ १०.२९.५-७ ॥

दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।

पयोऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः ॥

परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः ।

शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् ॥

लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश् च लोचने ।

व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्ण-सूचक-शब्द-शर्वणेन तत्-प्रवण-चित्तानां तत्-क्षणम् एव त्रैवर्गिक-कर्म-निवृत्तिं द्योतयन्त्य इवार्धावसितं कर्म विहाय ययुः । तद् आह—दुहन्त्य इति । पयः स्थाली-स्थं चुल्ल्याम् अधिश्रित्यैतत् क्वाथमप्रतीक्षमानाः काश्चिद् ययुः । संयावं गोधूम-कणान्नं पक्वम् अनुद्वास्यानुत्तार्य ॥५-६॥

अन्याः प्रमृजन्त्यः अङ्गोद्वर्तनादि कुर्वन्त्यः । काश्च काश्चित् कृष्णतुष्ट्यर्थं कर्म तदासक्तम् अनसामन्यथा कृतम् अपि फलत्य् एवेति द्योतयन्न् आह—व्यत्यस्तेति । स्थानतः स्वरूपतश् चोर्ध्वाधोधारणेन विपर्ययं प्राप्तानि वस्त्राभरणानि यासां ताः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्री-कृष्ण-सूचक-शब्दो वेणु-नादः । तस्मिन् श्री-कृष्णे प्रवणं संलग्नं चित्तं येषां ते, तथा प्रवणं नत-लग्नयोः इति धरणिधरः । तत्-क्षणं भगवत्-सम्बन्धि-शब्द-श्रवण-क्षण इत्य् अर्थः । हरि-संलग्न-मनसाम् अपि लोक-सङ्ग्रहार्थं त्रैवर्गिक-कर्म कार्यम् इति सूचयितुम् इव-शब्दम् आह—द्योतयन्त्य इवेति । अर्धावसितम् अर्ध-समाप्तम् । अवसितम् ऋद्धे ज्ञातेऽप्य् अवसान-गते च वाच्य-लिङ्गं स्यात् इति मेदिनी । तत् अर्धावसितम् । चुल्ल्याम् अग्नि-संरोध-यन्त्रे उद्धाने, चुल्ली चितायाम् उद्धाने इति मेदिनी । अधिश्रित्य श्रपयितुम् आरोप्य । एतत् क्वाथं पयः-क्वथनम् । प्रतीक्षमाणाः काल-विलम्बम् असहमानाः । अनवतार्य अनन्वरोप्य ॥५॥

परिवेषयन्त्यः भुञ्जानानां पात्रेषु भोक्तव्यं विन्यस्यन्त्यः । सुतान् पयः क्षीरं पाययन्त्यः । स्तन-पानं कारयन्त्य इत्य् अर्थः । शुश्रूषन्त्यः पाद-संवाहनादिना । अश्नन्त्यः भुञ्जानाः । अपास्य हित्वा ॥६॥

तद्-आसक्त-मनसां कृष्णासक्त-चेतसाम् । स्थानतो विपर्ययः पाद-भूषणं बाह्वोर् बाहु-भूषणं पादयोः । उपर्य्-अङ्गावरकम् अधोऽङ्गे, अधोऽङ्गावरकम् ऊर्ध्वाङ्गे इति । स्वरूपतो विपर्ययः अधो-वस्त्रस्योर्ध्व-भागेन धृतिर् ऊर्ध्व-वस्त्रस्याधो-भागेन । एवं भूषणेष्व् अपि ज्ञेयम् ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परम-मोहन-तद्-गीतेन निज-देह-दैहिकाद्य्-उपेक्षया आत्म-कर्म-लोक-धर्मादिकं परित्यज्य गता इति श्लोक-त्रय्या वर्णयन् तत्रादौ कासाञ्चित् स्व-जाति-कर्म-परित्यागम् आह—दुहन्त्य । दुहन्त्यो गा दोहं दोहनं दुग्धं वा । तदानीम् अत्र गोपीनाम् अपि कृष्णार्थं गो-दोहने प्रवृत्तेः । यद् वा, अन्तर्भूत-ण्य्-अन्तं दोहयन्त्य इत्य् अर्थः ।

अभिययुः वेणु-गीताभिमुखं ययुः । काश्चिद् इत्य्-आदिकं बहुल-यूथ-भेदापेक्षया, वनिता-शत-यूथपः [भा।पु। १०.२९.४४] इति वक्ष्यमाणत्वात् । तत्-तन्-नाम्नाम् अग्रहणं गौरव-भरात् । किं वा, तेषां स्मरण-विशेषत्वेन प्रेम-वैकल्पादन-भयात् । एतच् च श्री-भागवतामृत-पूर्व-खण्डे विवृतम् एव ।

तथाभियाने हेतुः समुत्सुकाः काल-विलम्ब-सहनाद्य्-असमर्थाः । एष हेतुर् अग्रेऽपि सर्वत्रानुवर्त्यः । अपरा इत्य् अस्य पूर्वेण परेणाप्य् अन्वयः । एवम् अग्रेऽपि । अन्यत् तैर् व्याख्यातम् ।

यद् वा, पयश् चुल्ल्याम् अधिश्रित्य अनुद्वास्य पक्वम् अपि ततो नोत्तार्य संयावं चाधिश्रित्यानुद्वास्येति ॥५॥

एवं कासाञ्चित् सायन्तन-मुख्य-कर्म-त्रय-परित्यागम् उक्त्वा, तत्रैव कासाञ्चिल् लोक-धर्म-त्यागं पाद-त्रय्या वदन् । तत्रादौ कासाञ्चित् सामान्य-बन्धु-भृत्यादि-परित्यागम् आह—परीति पादेन । परिवेषयन्त्यः बन्धून् भृत्यादींश् च प्रति अन्नादिकं संविभाज्यार्पयन्त्यः स्थिताः। तत्-परिवेषणं हित्वा ययुर् इति पूर्वेणैवान्वयः । यद्यप्य् एतद् अपि सायन्तन-कृत्यान्तरेव प्रविशति, तथापि स्त्रीणां भर्तुर् बन्धु-भृत्याद्य्-उपेक्षया लोक-धर्म-त्यागान्तरेव सुखं सङ्गच्छेतेति दिक् ।

अनुपेक्ष्याणाम् अपि परित्यागं कासाञ्चिद् आह—पाययन्त्य इति पादाभ्याम् । हित्वेत्य् अनुवर्तते । शिशून् भगिनी-पुत्रादीन् हित्वा । एवं लोक-परित्यागम् उक्त्वा धर्म-परित्यागम् आह—शुश्रूषन्त्यः शुश्रूषमाणाः, स्नानाद्य्-अर्थोष्णोदकार्पणादिना सेवमानाः । अश्नन्त्य आशयन्त्य इत्य् अन्तर्-भूत-ण्य्-अन्त्यम् । पतीन् भोजयन्त्यो भोजनं भोजयितृत्वम् ।

यद् वा, एवं पूर्वं धर्मादि-पराणाम् अपि परम-सतीनां लोक-धर्म-त्याग उक्तः । एवं कासाञ्चित् सायन्तन-मुख्य-कर्म-त्रय-परित्यागम् उक्त्वा तत्रैव कासाञ्चित् लोक-धर्म-त्याग उक्तः । कासाञ्चित् देहापेक्षात्यागम् आह—अश्नन्त्य इति पादैस् त्रिभिः । अश्नन्त्यो भुञ्जानाः । एवं भोजन-त्यागेन भगवत्-प्रीणनस्य देहस्योपेक्षोक्ता । अनेन तत्-प्रेमाविष्टेषु दैहिक-शुद्ध्य्-अशुद्धि-विचारो नास्तीति गम्यते । लिम्पन्त्यश् चन्दन-पकादिना निज-देहानुलेपं कुर्वत्यः । लेपनादिकम् अपास्येति ज्ञेयम् । एवं भोग-संस्कारस्यापि त्यागेन देहोपेक्षा सिद्धवः ॥६॥

कासाञ्चिच् च परमोत्कण्ठया श्री-भगवत्-सन्तोषणार्थं तद्-भजन-साधन-निजाङ्ग-भूषण-परित्यागम् अप्य् आह—लिम्पन्त्य इत्य्-आदिना लिम्पन्त्योऽङ्ग-रागं कुर्वत्यः लेपनादिकम् अप्य् अपास्येति ज्ञेयम् । अन्या इत्य् अस्य लिम्पन्त्य इति पद-त्रयेणान्वयः । तत्रैव हेतुं दर्शयन् किं वक्तव्यम् ? दैहिक-देहाद्य्-अपेक्षा परित्यक्तेति । कासाञ्चिद् देहाविस्मृतिर् अपि जातेत्य् आह—व्यत्यस्तेति । पूर्वोक्त-सर्व-त्याग-भावकस्यौत्सुक्यस्य विभ्रमाख्योऽयम् अनुभावः । यथोक्तं—

वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।

विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ [उ।नी। ११.३९] इति ।

अनेन तद्-विधानां प्रेम-भगवतो यथापेक्षितं न तथावेशाद् इति गम्यते, किन्तु पश्चात् तेनैव परिहितस्य स्वयं यथावत् परिधापितम् इति ज्ञेयम् । एवं दोहनादीनाम् एषाम् अवश्यापेक्ष्यत्वेन यथोत्तरं श्रैष्ठ्यम् ऊह्यम् ।

यद् वा, केवलम् अत्र प्रारब्ध-निज-निज-कर्म-परित्याग एव तात्पर्यम् । तत्र च व्यत्यस्त-वस्त्राभरणत्वे वस्त्रादि-धारण-रीति-त्याग एव, सर्वत्र च तत्र तत्र हेतुः—कृष्ण-गृहीत-मानसा इति । समुत्सुका इति च प्रोक्तम् । एवं सर्वा अपि कृष्णस्य परमाकर्षकस्य श्यामसुन्दरस्य श्री-यशोदा-नन्दनस्य अन्तिकम् एव ययुः । न तु लज्जादिना विघ्नादिना वा दूरे तस्थुर् इत्य् अर्थः, परम-मोहितत्वात् । यद्यपि स यत्र कान्तस् तत्राजग्मुर् इत्य् अनेन तद्-अन्तिक-गमनम् एवोक्तं, तथापि परम-मोहेनातिवेगेनात्यन्त-निकट-गमन-विवक्षया पुनर् विशेषोक्तिर् इति दिक् ॥७॥

तद् एवं सर्वा अपि कृष्णस्यान्तिकं प्रति ययुः प्रस्थितवत्यः ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तत्-प्राप्तिम् उक्त्वापि परम-मोहन-तद्-गीतेनावेगान् निज-देह-दैहिकाद्य्-उपेक्षया आत्म-कर्म-लोक-धर्मादिकं परित्यज्य चलितानां श्लोक-त्रय्या विशेष-प्रतिपत्तये पुनः प्रस्थानोद्यमम् एव वर्णयन् तत्रादौ कासाञ्चित् स्व-जाति-कर्म-परित्यागम् आह—दुहन्त्य इति युग्मकम् इदम् । दुहन्त्यो गाः अन्तर्भूत-ण्य्-अर्थत्वम् दोहन्त्य इत्य् अर्थः । अभिययुः वेणु-गीताभिमुखं ययुः । काश्चिद् इत्य्-आदिकं बहुषु यूथेषु कासाञ्चिद् एक-कार्या-सङ्घट्टनात् । वनिता-शत-यूथपः [भा।पु। १०.२९.४४] इति वक्ष्यमाणत्वात् । दोहं दोहनं दुग्धं वा । तथाभियाने हेतुः समुत्सुकाः काल-विलम्ब-सहनाद्य्-असमर्थाः । एष हेतुर् अग्रेऽपि सर्वत्रानुवर्त्यः । अपरा इत्य् अस्य पूर्वेण परेणाप्य् अन्वयः । एवम् अग्रेऽपि । अन्यत् तैः ।

यद् वा, पयश् चुल्ल्याम् अधिश्रित्य अनुद्वास्य पक्वम् अपि ततोऽनवतार्य संयावं च अधिश्रित्यानुद्वास्येति ।

एवं कासाञ्चित् सायन्तन-मुख्य-कर्म-त्रय-परित्यागम् उक्त्वा तत्रैव कासाञ्चित् लोक-धम-त्यागं पाद-त्रय्या वदन् । तत्रादौ कासाञ्चित् सामान्य-बन्धु-भृत्यादि-परित्यागम् आह—परीति पादेन । परिवेषयन्त्यः बन्धु-भृत्यादिभ्यः इति शेषः । तत्-परिवेषणं हित्वा ययुर् इति पूर्वेणैवान्वयः । अतिस्निग्ध-परित्यागम् अपि कासाञ्चिद् आह—पाययन्त्य इति पादेन । हित्वेत्य् अनुवर्तते । वक्ष्यमाणानुसारेण भ्रातृ-पुत्रादीन् हित्वा । अन्यथा रसाभासापत्तेः । एवं लोक-परित्यागम् उक्त्वा धर्म-परित्यागम् आह—शुश्रूषन्त्यः शुश्रूषमाणाः स्नानाद्य्-उष्णोदकार्पणादिना सेवमानाः स्थापयिष्यते । कासाञ्चिद् देहापेक्षा-त्यागम् अप्य् आह—अश्नन्त्य इति । अश्नन्त्यो भुञ्जानाः अनेन तत्-प्रेमाविष्टेषु दैहिक-शुद्ध्य्-अशुद्धि-विचारो नास्तीति गम्यते ॥५-६॥

कासाञ्चिच् चाहरहस् तत्-प्रत्याशया विरहेऽपि अङ्गेष्व् आभरणं करोति बहुशः इति गीत-गोविन्द-रीत्या श्री-भगवत्-प्रेम-विलसितस्यापि निजाङ्ग-वेषस्य परमोत्कण्ठया परित्यागम् आह—लिम्पन्त्य इत्य्-आदिना । लिम्पन्त्यः अङ्ग-रागं कुर्वत्यः लेपनादिकम् अप्य् अपास्येति ज्ञेयम् । अन्या इत्य् अस्य लिम्पन्त्य इति पद-द्वयेनान्वयः । तत्रैव हेतुं दर्शयन् किं कर्तव्यं दैहिक-देहाद्य्-अपेक्षा परित्यक्तेति । कासाञ्चिद् देहावयव-विशेषाननुसन्धानम् अपि जातम् इति व्यनक्ति—व्यत्यस्तेति । पूर्वोक्त-सर्व-त्यागानुभावस्यौत्सुक्यस्य विभ्रमाख्योऽयम् अनुभावः । यथोक्तं—

वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।

विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ [उ।नी। ११.३९] इति ।

अनेन तद्-विधानां प्रेम-भगवतो यथापेक्षितं न तथावेशाद् इति गम्यते, किन्तु पश्चात् तेनैव परिहितस्य स्वयं तथावत् परिधापितम् इति ज्ञेयम् । एवं दोहनादीनाम् एषाम् अवश्यापेक्ष्यत्वेन यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । तद् एवं सर्वा अपि कृष्णस्यान्तिकं प्रति ययुः प्रस्थितवत्यः ॥७॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३४४) : आवेगश् चित्त-सम्भ्रमे दुहन्त्य इत्य्-आदि । स्पष्टम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दुहन्त्यो दोहयन्तोऽभिययुश् चलितवत्यः ॥५॥ शिशून् भगिनी-यातृ-पुत्रादीन् । पयो गव्यं सुतान् स्तनम् इत्य् उक्तेर् आलम्बन-वैरूप्यात्, सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [भा।पु। १०.३३.२५] इति वक्ष्यमाण-रसाश्रयत्वे विरोधाच् च । शुश्रूषयन्त्य इत्य् अन्तर्-गृह-रीतिकाः काश्चिद् एव ज्ञेयाः । अन्यासां, यत् पत्य्-अपत्य-सुहृदाम् [भा।पु। १०.२९.३२] इत्य्-आदिना तद्-अस्वीकारात् ॥६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तासाम् औत्कण्ठ्याधिक्य-प्रकटनाय पूर्वम् आजग्मुर् इत्य् अतीत-कालं निरूप्य पुनर्-आगमन-प्रकारम् आदितः कथयन्न् आवेग-नामानं भावं दर्शयति—दुहन्त्योऽभिययुर् इत्य्-आदि बभुभिः । दुहन्त्यो इत्य् अन्तर् णिज्-अन्तम् । भ्रात्रादि-द्वारा दोहयन्त्य इत्य् अर्थः । दोहं हित्वेति दोह-स्थानात् पुनर् गृहं न गतास् तत एवाययुर् इत्य् अर्थः । पराः पयोऽधिश्रित्य, न त्व् अपाश्रित्य । अपराः संयावम् अनुद्वास्य नावतार्य, काश्चित् परिवेषयन्त्यो भुञ्जानेषु गुरुषु परिवेषणं कुर्वत्यः । तद्-अपराः शिशून् बालान् रक्ष्य-तोकान् गव्यं पयः पाययन्त्यो लिम्पन्त्योऽनुलेपनं कुर्वत्योऽन्याः प्रमृजन्त्यः प्रकर्षेणाङ्ग-मार्जनं कुर्वत्योऽञ्जन्त्यो नयनम् अञ्जनेन रञ्जयन्त्यः, काश्चित् पतीन् पत्य्-अभिमानिनः शुश्रूषयन्त्य उपचारादिनानुरञ्जयन्त्यः । अन्या अश्नन्त्यो भोजनं कुर्वत्यस् तद् अपास्य ॥५-७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं कृष्णाकृष्ट-मनस्त्वेन सामान्यतो गमनम् उक्त्वा देह-दैहिकाद्य्-अनादरं कुर्वन्त्य ऐहिक-पारलौकिक-कर्मस्व् अभिनिवेशेम् अकुर्वन्त्यो योगिन इवाप्रत्यभिपत्ति-रूपेण गृहादि-त्यागेन ययुर् इत्य् आह दुहन्त्य इति । तत्र काश्चिद् दुग्धाभिनिवेशवत्त्वं स्व-जीवन-भूत-दुग्धाग्रहं हित्वा चलिता इत्य् आह दुहन्त्य इति, उपासनासिद्धानाम् आगमनम् उक्तम् । दुहन्त्य णिज्-अर्थोऽन्तर्भूत एव दोहयन्त्य इत्य् अर्थः । दुह्यत इति दोहो दोहन-कर्म दुग्धं वा पात्रं वा तत्रैव त्यक्त्वा कथं भविष्यतीत्य् अनुसन्धानम् अप्य् अकुर्वन्त्यो ययुः अभिनिशङ्कं यथा तथा पत्य्-आदिभ्यो भयम् अकुर्वन्त्यो ययुर् इति यतः समुत्सुकाः काल-विलम्बम् असहमानाः काश्चित् पय आनीतं दुग्धं चुल्याम् अधिश्रित्य क्वथितम् अप्रतीक्षमाणा ययुः । अपराः संयावं गो-धूम-कणाम् अपक्वम् अप्य् अनुनूर् ययुः । समुत्सुका इति सर्वासां विशेषणम् ॥५॥

एवं लौकिक-जीवनोपाय-युक्तानां गृहं त्यक्त्वा कासाञ्चिद् गमनम् उक्तम् । इदानीं पत्यादि-शुश्रूषण-लक्षणस्य धर्मस्य त्यागम् आह—परिषेवयन्त्य इति । काश्चित् सिद्धम् अन्नं बन्धुभ्यः परिवेषयन्त्यस् तेष्व् अपेक्षितम् अदत्त्वा ययुः परिषेवयन्त्य इति ऋषि-रूपाणाम् आगमनम् उक्तम् । काश्चित् वात्सल्य-प्रेम-विषयान् स्तनन्धयान् शिशून् स्तन्यम् अपाययन्त्यस् तेषां तृप्तिम् अप्रतीक्षमाणाः स्नेहं त्यक्त्वा ययुः । पाययन्त्य इति दण्डकारण्य-वासि-रूपाणाम् उक्तम् । काश्चिद् पतीन् शुश्रूषन्त्यस् तच् छुश्रूषा-लक्षणं धर्मं त्यक्त्वा ययुः । शुश्रूषन्त्य उपासना-सिद्धाणां मुनि-रूपाणाम् आगमनम् उक्तम् । यद्यपि पति-शुश्रूषणया धर्मः सिद्ध्यतीति काम-ताप-शान्तिश् च भवति । तथा च, लौकिक-धर्मेण लौकिक-धर्मेति रसम् उक्तम् । लौकिकतापापनोदन-हेतूनाम् अपि—अलौकिक-काम-तापः निर्वायते सामर्थ्याभाव-सूचितः । काश्चिद् अश्नन्त्यो भोजनं कुर्वत्यस् तद् अपास्य त्यक्त्वा ययुः । उदर-पूर्तिम् अप्रतीक्ष्यमाणाः ॥६॥

एवं तावद् देह-पर्यन्तं श्री-कृष्णाकृष्टं मनस् तेन सर्व-सङ्ग-परित्यागम् उक्त्वा भूषितम् एतद्-अङ्गं रमण-योग्यं स्याद् इत्य् अननुसन्धानवत्यः स्वाङ्ग-भूषाम् अप्य् अनादृत्य ययुर् इत्य् आह—लिम्पन्त्य इति । काश्चिल् लिम्पन्त्यः स्वाङ्गे चन्दनादिना लेपं कुर्वन्त्यः । तद्-अर्धावसितम् अपास्य ययुः । अन्या प्रमृजन्त्य अङ्गोद्वर्तनादि कुर्वन्त्यः सर्वावयवोद्वर्तनम् अप्रतीक्षमाणा ययुः । काश्चिल् लोचने अञ्जनम् अञ्जं त्यक्त्वा ययुः । काश्चिद् व्यत्यस्त-वस्त्राभरणाः । एवं देह-दैहिकाननुसन्धान-जाते वस्त्राभरणादाव् अपि हस्त-पादादिषु उद्ध्वार्ध-धारणादि-व्यत्ययेन विभ्रमो वार्णितः स चौत्सुक्य एव क्रीडा-कृतः । एवं सर्वा अपि कृष्णान्तिकं ययुः । कुमार्यस् तु प्रतीक्षन्त्य एवाप्रमत्ताः स्थिताः । तास् तु गृह-त्यागम् एव कृत्वागता अन्य-पूर्वास् तु देह-गेह-सम्बन्धिष्व् अनुसन्धानं त्यक्त्वा ययुर् इति ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां तत्-पार्श्व-गमन-काले परमोत्कण्ठया विलम्बस्यासह्यत्वात् ममताहन्तास्पद-कर्मापेक्षाभावं श्लोक-त्रय्या वदन् कासाञ्चित् स्व-जाति-धर्म-परित्यागम् आह—दुहन्त्यो गा दोहयन्त्यस् तं दोहं दोहन-कर्म हित्वा अभिययुः अभिसस्रुः । पयो दुग्धं पात्रस्थं चुल्ल्याम् अधिश्रित्य अध्यारोह्य एतत् क्वाथम् अप्रतीक्षमाणाः काश्चित् संयावं गोधूम-कणान्नं पक्वम् अप्य् अनुद्वास्य अनवतार्य ॥५-६॥

स्त्री-मात्र-धर्म-त्यागम् आह, परिवेषयन्त्यस् तत्-परिवेषणं पतीन् उष्णोदक-प्रदानादिना शुश्रूषन्त्यः कासाञ्चिद् आवश्यक-दैहिक-वेश-त्यागम् आह—लिम्पन्त्यः देहे अनुलेपं चन्दनादिना कुर्वत्यः प्रमृजन्त्यः उद्वर्तनादिकं कुर्वत्यः कासाञ्चिद् आवेग-वशाद् देहावयव-विशेष-परिचयस्याप्य् अभावम् आह—व्यत्यस्तेति । विभ्रमाख्येऽनुभावोऽयम् । यद् उक्तं—

वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।

विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ [उ।नी। ११.३९] इति ॥७॥


॥ १०.२९.८ ॥

ता वार्यमाणाः पतिभिः पितृभिर् भातृ-बन्धुभिः ।

गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च कृष्णाकृष्ट-मनसां विघ्नाः प्रभवन्तीत्य् आह—ता वार्यमाणा इति ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हरि-परायणानां सर्व-विघ्न-हानिर् इत्य् आह—न चेति । प्रभवन्ति समर्था भवति । पतिभिः पत्नी-शुभाशुभ-भागित्वाद् वार्यमाणा धर्मोपदेशेन हस्तादिना वा, स्नेहात् पितृभिः, दुष्कीर्ति-भयात् स्नेहाच् च भ्रातृभिः, कुल-दोष-शङ्कया बन्धुभिर् इति । रक्षेत् कन्यां पिता प्रौढां पतिः पुत्रस् तु वार्धके, अभावे ज्ञातयस् त्व् एवम् इति स्मृतेश् चत्वारा रक्षकाः । प्रायः पुत्रानुत्पत्तेस् तेऽत्र नोक्ता इति भावः । गोविन्देनापहृत आत्मा जीवाख्यो यासाम् इति । निवृत्तौ जीवनेन विच्छेदः स्याद् इति जीवनार्थं गता इति भावः । मोहिता मोहावेश-वशाद् अपि निवृत्ति-ज्ञान-शून्या बभूवुर् इति भावः ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ता वार्यमाणा इत्य्-आदि । पद्य्-आदिभिर् वार्यमाणा बभूवुर् इति । न-कारेण दूरेणान्वयः । अतो मा न्यवर्तन्त, यत ऊहितास् तर्किताः । किं गृहे तिष्ठसि ? किं कार्यान्तराय क्वचिद् गता इति वितर्किताः । श्री-कृष्ण-मुरली-नादापहृत-चेतसस् तत्र गच्छन्तीति न ज्ञाताः । अतः मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३८] इति वक्ष्यमाण-सङ्गतिः ।

अथवा, ता वा इति च्छेदः । पत्य्-आदिभिस् ता वा अर्यमाणा गम्यमाना न, वा-शब्दो\ऽत्र काकु-परः । पत्य्-आदयस् तासाम् अनुगता नेत्य् अर्थः । कुतः ? मोहिताः । मा ऊहिताः न वितर्किताः । यतो गोविन्दापहृतात्मानः, गोविन्देनापहृत्य आत्मानो देहा यासाम् । अतस् तैर् न लक्षिताः । अथवा, पत्य्-आदिभिर् वार्यमाणाः सत्यो न न्यवर्तन्त, योतो मोहिता मा ऊहिताः ॥८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना स्वीयैः प्रबोध्यमानानाम् अपि श्री-भगवद्-अपहृत-चित्ततया तासाम् अशेष-विचारान्तर्धानम् आह—ता इति । सर्वा एव ताः पत्य्-आदिभिर् वार्यमाणा धर्म-प्रदर्शनादिना हस्त-धारणादिना च गन्तुं निरुध्यमान अपि न न्यवर्तन्त, किन्तु ययुर् एवेत्य् अर्थः । कुतः ? मोहिता हत-विवेकाः । तत् कुतः ? गोविन्देन गोकुलेन्द्रेण । यद् वा, गा इन्द्रियाणि ईश्वरत्वेन विन्दतीति तथा, तेनापहृत आत्मा चित्तं यासां ताः । महत्तमेनापहृते द्रव्ये स्वल्पानां, पक्षान्तरे च अन्तरीश्वरेण महा-मोहनेन प्राण-कोटि-प्रेष्ठेनान्तर् अपहृते बाह्यानाम् अन्येषां तत्-प्रत्यर्पण-सामार्थ्याभावात् । अत्र प्रवाह-वेग-नीयमाना नौर् यथा तटस्थानां तिष्ठ तिष्ठेत्य् आद्य् उक्त्या नाव्-आरूढानां वा नौ-धारणेनापि न तिष्ठेद् इति दृष्टान्तो द्रष्टव्यः । गोविन्देनापहृत आकृष्ट आत्मा जीवाख्यो यासाम् इति निवृत्तौ जीवेन विच्छेदः स्याद् इति जीवनार्थम् एव गता इति श्लेषार्थः ।

तत्रादौ पतिभिर् इति तेषां पत्नी-शुभाशुभ-भागिव्त्वेन मुख्यत्वात्, ततश् च केवलं कन्या-वैगुण्येन दोष-स्पर्शात् स्नेहाच् च पितृभिः, ततश् चदुष्कीर्ति-भयात् स्नेह-विशेषाच् च भ्रातृभिः, ततश् च कुल-दोष-शङ्कया बन्धुभिर् इति ।

रक्षेत् कन्यां पिता प्रौढां पतिः पुत्रस् तु वार्धके ।

अभावे ज्ञातयस् त्व् एवं न स्वातन्त्र्यं क्वचित् स्त्रियः ॥

इति स्मृत्य्-उक्तेश् चत्वारो रक्षका अत्रोक्ताः । तत्र प्रायः पुत्रानुत्पत्तेर् अत्र पुत्रा नोत्काः । पत्य्-आदीनां चैषां यथोत्तरं न्यूनत्वम् ऊह्यम् । तासाम् उत्तरोत्तरं तत्-तद्-वश्यता-सम्बन्धयोर् न्यूनत्वात् । तथापि पूर्व-पूर्वेषां निवारणे प्रवृत्ताव् अपि पर-परेषां तत्र प्रवृत्तिः, कुटुम्ब-समुदायतापेक्षया ।

यद् वा, पूर्व-पूर्वैः परित्यागे कृते पर-पराश्रयण-शङ्कया तैस् तैः क्रमेण निवारणम् । यद् वा, तत्-तद्-अन्तिक-वर्तिभिः पतिभिः काश्चित् पित्रादिभिश् च काश्चन तत्र च पतिभिः पत्न्य एव पित्रादिभिश् च प्रायोऽविवाहिताः स्व-वासिन्यश् च पुत्र्य इति विवेचनीयम् । अन्यत् समानम् ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना स्वैः स्वीयैर् बलात्कारित-बाह्यानुसन्धानाम् अपि तासां कुल-वधू-स्वाभाविकत्वेन परम-दुस्त्यजस्य लज्जादेर् अपि त्यागम् आह—ता इति । सर्वा अपि ताः पत्य्-आदिभिः क्व नु रात्रौ बहिर् गम्यत इत्य्-आदि निर्बन्धेन मुहुर् वार्यमाणा अपि न न्यवर्तन्त, किन्तु ययुर् एवेत्य् अर्थः । कुतः ? मोहिताः हत-विवेकाः । तत् कुतः ? गोविन्देनापहृत आत्मा चित्तं यासां ताः । अयं पत्य्-आदीनाम् अपि शैथिल्ये हेतुर् ज्ञेयः, तद्-भक्ति-मात्रस्य सर्व-विघ्नापहारि-प्रभावत्वात् तत्-तद्-अन्तिक-वर्तिभिः पतिभिः कश्चित् पित्रादिभिश् च काश्चन तत्र च पित्रादिभिर् अविवाहिताः स्व-वासिन्यश् चेति—

रक्षेत् कन्यां पिता प्रौढां पतिः पुत्रस् तु वार्धके ।

अभावे ज्ञातयस् त्व् एवं न स्वातन्त्र्यं क्वचित् स्त्रियः ॥ इति स्मृतेः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु कथं तासां पितृ-पति-भ्रातृभिर् वारणं न कृतम् इत्य् आह—ता वार्यमाणा इत्य्-आदि । ताः पतिभिः पितृभिर् भ्रातृभिर् बन्धुभिश् च न वार्यमाणा बभूवुर् इत्य् अर्थः । ऊढाः पतिभिः, अनूढाः पित्र्-आदिभिः, अत एव न न्यवर्तन्त, बाधकाभावात् । कथं तैस् तैर् न वारिताः ? तत्राह—मा ऊहिता वितर्किता योगमाया-प्रभावात् ते ते तास् ताः समीपस्था एव विदुः । ता एव वा कथं विचारेण न न्यवर्तन्त ? तत्राह—गोविन्दापहृतात्मानः । आत्मनि सति बुद्ध्य्-आदयो गुणाः स्युः । तेषु सत्सु विचाराः प्रवर्तन्ते। आत्म-हरणेन सर्व-हरणम् इत्य् अर्थः । काकाक्षि-गोलक-न्यायेन न-कार उभयत्र योज्यः ॥८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : यदा देह-गेहादि-कार्य-व्यग्राणां पत्य्-आदि-शुश्रूषा-व्यग्राणाम् अपि ममतां त्यक्त्वागमनं दृष्टं तदा काश्चित् पत्य्-आदि-निवारिताः स्मृतिश् च—

रक्षेत् कन्यां पिता प्रौढां पतिः पुत्रस् तु वार्धके ।

अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ [याज्ञ। १.८५]

इति पूर्वम् ऐहिक-पारलौकिको धर्म-त्यक्ता एव कुल-वधूत्वेन लज्जा-युक्ता अपि लज्जां प्रतिबन्धं चावगम्य ययुर् इत्य् आह—ता इति । या ऊधागमन-समयेन बन्धूनां दृष्टि-गोचरम् अवतीर्णास् तास् तु तैर् एव निवारिताः परन्तु न न्यवर्तन्त गता एव यतो मोहिता । अयं भावः—एतास् तु कृष्णेनाहूताः । वेणु-गीत-श्रवणेनासां सम्भ्रमम् आलक्ष्य निवारणे प्रवृत्ता । अनन्तरं वेणु-गीतं श्रुत्वा तेऽपि तासां निवारणात् इथिला जाताः । अत एव दृढ-प्रयत्नेन न निवारिताः । ततोऽनन्यवर्ततन्ते चेद् वेणु-गीत-सुखेति मग्ना न भवेयुस्, तदा पत्यादीन् अवगणय्य कथम् आसाम् आगमनं भवेत्, यत एते मोहिताः । पूर्वम् एवोक्तं योगमायाम् उपाश्रित इति । अग्रे वक्ष्यति च— मन्यमानाः स्व-पार्श्वस्थान् इति । तत्र हेतुम् आह—गोविन्देनापहृत आत्मा चित्तं देहश् च यासां ताः । किं च, यथा गङ्गा समुद्रं गच्छन्ती पर्वतादि-प्रतिबन्धनम् अवगणय्य समुद्रम् एव प्रविशति तस्मिन् प्रेमाधिक्यात् तथा एता अपि पत्यादिभिर् दृष्टा भय-प्रदर्शनेन निबध्यमाना अपि न न्यवर्तन्त किन्तु मोहिताः हत-विवेकाः कृष्ण-प्राप्त्य्-अतिरिक्त-विवेक-रहिताः ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, ताः प्रेम-प्राबल्यात् सर्वापेक्षां तत्यजुर् इत्य् उचितम् एव, तासाम् अपेक्षां तत्-पत्यादयः कथं तत्यजुस् तत्राह—ताः कुल-वध्वः पतिभिः कुल-कन्याश् च ताः पित्रादिभिर् वार्यमाणा अपि न न्यवर्तन्त तत्र हेतुर् गोविन्द इति भय-लज्जादीनां का वार्ता, तासाम् आत्मनाम् अपि गोविन्देनापहृतत्वात्, मोहिता मूर्च्छित इति सूत्र-सञ्चालित-पाञ्चालिका इवेत्य् अर्थः । पत्य्-आदिभिर् गत-प्राणानाम् अपि भार्यादि-देहानाम् अप्रतिष्ठाभयाद् एवान्यत्र सञ्चारो नसह्यत इति चेत् ? सत्यं विप्रतिपत्तिर् इयं योगमायैव सम्हिता ज्ञेया, तच् च समाधानतयैव कल्पितानां तत्-तत्-क्षण एव तादृश-गोपीनां स्व-स्वभार्यादिकत्वेन प्रयायितानां स्व-स्व-गृहान् प्रति पत्य्-आदिभिः परावर्तनम् एव प्रकारश् चाग्रे वक्ष्यते ॥८॥


॥ १०.२९.९ ॥

अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः ।

कृष्णं तद्-भावना-युक्ता दध्युर् मीलित-लोचनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न लब्धो निर्गमो याभिस् ताः । प्राग् अपि तद्-भावना-युक्तास् तदा नितरां दध्युर् इत्य् अर्थः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तर्-गृहं गृह-मध्यं तत्र गतास् तत्र निरुद्धाः काश्चिन् महा-लक्ष्म्य्-अंश-भूताः । विनिर्गमो बहिर्-गमनम् । यद् वा, न लब्धो\ऽन्य-गोपीवत् वीनां पक्षिणाम् इवातिशीघ्रं निःसरणं याभिः । यद् वा, वेः पक्षिणो\ऽपि निर्गमो यस्माच् छिद्रात्, तद् अपि न लब्धं याभिस् तद्-अधिकं कृत्वा तस्करावेशवन् निःसरणार्थम् इति भावः । तस्य कृष्णस्य भावना भक्ति-संस्कारस् तया युक्ताः । प्राक् वेणु-नाद-श्रुतेः पूर्वम् अपि । तदा वेणु-ध्वनि-श्रवण-क्षणे । इत्य् अर्थ इति—त-छ्रवणस्य तद्-आविर्भाव-बोधकत्वेन ध्यान-हेतुतेत्य् अर्थः ॥९॥


कैवल्य-दीपिका : पारवश्य-हेतुकम् आह—अन्तर्-गृह- इति । अलब्धो विनिर्गमो याभिः । तद्-भावना भर्तृ-भावना ॥९॥ फ़्१५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्तर्-गृह-गता इत्य्-आदि । यस्यान्तर्-गृहस्य द्वारि गुरव उपविश्यासन्न् इति बोद्धव्यम् । अथवा, काश्चिद् इति गमनानधिकारवत्यः, अन्यथा शुश्रूषन्त्यः पतीन् काश्चिद् [भा।पु। १०.२९.६] इत्य् अत्र, परिवेशयन्त्यस् तद् धित्वा इत्य् अत्र च, अशनन्त्यो\ऽपास्य भोजनम् इत्य् अत्र चान्तर्-गृह-वर्तित्वं पत्यादि-सन्निहितत्वं किलास्ति । तत् कथं तास् तत्र गताः । यत एता गोप्य एव याः किल बालापत्या इति प्राक् लिखिताः । तासां तद्-अङ्ग-सङ्गे न योग्यतेति भाव इति वा ॥९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदि तास् तादृश-विघ्नेन वारिता अभविष्यन्, तर्हि सद्य एव दशमीं दशाम् अगमिष्यन्न् इति तासां सर्वासाम् एव भाव-विशेषं दृष्टान्तेन प्रदर्शयन् कासाञ्चिद् अवस्था-विशेषम् आह—अन्तर् इति त्रिभिः । काश्चित् महा-लक्ष्म्य्-अंश-भूताः साधन-सिद्धाः वा गृहम् अवस्थिताः, अत एव नाम-मात्र-पत्य्-आदिभिर् द्वारादि-निरोधात् । यद् वा, पित्रादीनां द्वार-देशोपवेशान् न लब्धो विशिष्टः श्री-भगवद्-अभिसरण-योग्यः । यद् वा, अन्य-गोपीवत् वीनां पक्षिणाम् इवातिशीघ्र-गमनार्थं निर्गमो बहिर् निःसरणं पन्था वा । यद् वा, वेः पक्षिणो\ऽपि निर्गमो यस्मात् छिद्रात् तादृशम् अपि याभिस् ताः । अत एव कृष्णं निज-चित्ताकर्षकं परमानन्द-घन-मूर्तिं वा दध्युर् विशेषतश् चिन्तयामासुः । ध्येयम् आपदि [भा।पु। १०.३१.१३] इत्य्-आद्य्-उक्त-न्यायेन । तन् महापन्-निस्तारार्थं, किं वा, अभीष्टाप्राप्त्या स्वत एव तच्-चिन्ता-विशेषोत्पत्तेः । कथं दध्युः ? तस्य प्रस्तुतस्य श्री-कृष्णेन सह विलासस्य । किं वा, सुगोप्यस्य सम्भोगस्य या भावना तया युक्ताः संयुक्ता योगवत्यो वा सत्यः । किं च, मीलित-लोचना अर्ध-मुद्रित-नेत्राः सत्य इत्य् अर्थः । यद् वा, दुःख-विशेषेण ध्यान-विशेषेण वा मुद्रित-नेत्राः सत्यः । यद् वा, मीलितम् अन्तर्हितं लोचनम् अन्याशेष-ज्ञानं यासां तथाभूताः सत्यः ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदि च तास् तादृश-विघ्नेन वारिता अभविष्यन् तर्हि सद्य एव दशमीं दशाम् इव दशाम् अगमिष्यन्न् इति तासां सर्वासां भाव-विशेषं दृष्टान्तेन प्रदर्शयन् तासां प्रस्थितवतीनाम् एव मध्ये कासाञ्चिद् अवस्था-विशेषम् आह—अन्तर् इति त्रिभिः । अयम् अर्थः—श्री-कृष्णस्य व्रजे प्रेयस्यः खलु द्विविधा । नित्य-सिद्धाः साधन-सिद्धाश् च तत्रैकासां नित्य-सिद्धात्वम् अष्टादशाक्षरादौ ताभिर् विशिष्टत्वेनैव तद्-आराधन-विधानाद् व्यक्तं तच्-छ्रुतीनां तद्-आराधनानां चानाद्य्-अनन्त-भावित्वात् अतो ब्रह्म-संहितायां—

चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-

लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।

लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं [ब्र।सं। ५.२९] इति,

आनन्द-चिन्मय-रस-प्रतिभाविताभिस्

ताभिर् य एव निज-रूपतया कलाभिः ।

गोलोक एव निवसति [ब्र।सं। ५.३७] इति ।

श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.५६] इत्य् एता एव तदीय-लक्ष्मीत्वेनोक्ताः । तत्र च श्री-राधिकाया वैशिष्ट्यं, बृहद्-गौतमीये—

देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।

सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।

अत एव ऋक्-परिशिष्टे परस्परम् अव्यभिचारित्वं प्रोक्तं—राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्व् आ इति । अतो मात्स्यादौ—रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति शक्तित्व-साधारण्येनानयोर् गणने\ऽपि वैशिष्ट्यं ज्ञेयम् अथावरासां साधन-सिद्धत्वं यथा पाद्मोत्तर-खण्डे—

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [भ।र।सि। १.२.३०१-२] इति ।

गोकुल इत्य् अस्य हरिं सम्प्राप्येत्य् अत्राप्य् अन्वयात्, ये यथा मां प्रपद्यन्ते [गीता ४.११] इति न्यायाच् च महर्षयः पूर्वं तादृश-भावेन श्री-कृष्णोपासका इत्य् अर्थः । अतो रामं दृष्ट्वेति सारूप्येण जातत्वोपासना-संस्काराः हरिं स्वोपास्यं श्री-कृष्णम् एवोपभोक्तुम् ऐच्छन् लज्जया तु साक्षान् न वृतवन्तः ततश् च कल्प-वृक्षस्येवावदतो\ऽपि श्री-रामस्य प्रसादात्तेषाम् इष्ट-सिद्धिर् जातेत्य् आह—ते सर्व इति । गोकुले गर्भतः स्त्रीत्वम् आपन्ना गोकुल एव समुद्र-भूताः गोकुल एव च हरिं श्री-कृष्णं कामेन स्व-वासनानुसारेण सम्प्राप्य तस्मिन्न् अन्तर्-गृह एव स्वयम् आविर्भूतं लब्ध्वा ततस् तद्-अनन्तरम् एव भवार्णवात् मुक्ता इति, न च वक्तव्यं गोकुल-जातानां प्रापञ्चिक-देहादित्वं न सम्भवतीति अवतार-लीलायाः प्रापञ्चिक-मिश्रत्वात् श्री-देवकी-देव्याम् अपि षड्-गर्भ-संज्ञकानां जन्म श्रूयते इति कदाचित् श्रुतयो गोप्यो जाता इति बृहद्-वामन-प्रसिद्धिः । अत एव तथा व्याख्यास्यते—

स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो

वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भा।पु। १०.८७.२३]

इति गायत्री च तासु जातेति पाद्मे सृष्टि-खण्डे यथा ब्रह्मणा गोप-कन्या-रूपाया गायत्र्या उद्वाहे गोपेषु श्री-विष्णु-वचनम्—

यथा ज्ञाता ततः कन्या दत्ता चैषा विरिञ्चये ।

युष्माकं च कुले चाहं देवकार्यार्थ-सिद्धये ।

अवतारं करिष्यामि मत्-कान्ता तु भविष्यति ॥ इति ।

अतः तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः [भा।पु। १०.१.१३] इत्य् अत्रापि तथा व्याख्यातम् । अत एव तासां च चतुर्विधत्वम् उक्तं पाद्मे—

गोप्यस् तु श्रुतयो ज्ञेया ऋषिजा गोप-कन्यकाः ।

देव-कन्याश् च राजेन्द्र न मानुष्यः कथञ्चन ॥ इति ।

अत्र गोप-कन्या एव नित्याः, न मानुष्याः कथञ्चनेति प्राकृत-मानुषत्व-निषेधात् आसु च पाद्मोत्तर-खण्ड-निर्दिष्टानाम् अन्तर्-गृह-गता इत्य् उक्तानाम् अप्य् एकत्वं मुक्तत्व-सादृश्येन लब्धानां लभ्यते । यत एव शुश्रूषन्त्यः पतीन् काश्चित् [भा।पु। १०.२९.६] इति प्रोक्ताः । इति ज्ञेयाः ।

आसां दोहनादि पृथक्-कर्मानुक्तेः अन्तर्-गृह-गतत्वस्य पति-शुश्रूषायाम् एव तात्-पर्याच् च एतासां च साधकत्वं देह-त्याग-श्रवणात् पाद्मोत्तर-खण्डाच् च कल्प्यते तथा च सति याः काश्चिद् गोकुले समुद्भूताः साधन-वशात् सिद्ध-पूर्ण-भावा, न तु सिद्ध-देहा नितराम् अन्या इव नित्य-सिद्धाः पति-शुश्रूषणार्थम् अन्तर्-गृह-गता एव पत्य्-आदिभिः साग्रह-द्वारादि-निरोधात् न लब्धो विशेषेण केनापि प्रकारेण निर्गमो याभिस् ताः । अत्र तासां साक्षाद् गोविन्द-सङ्गमे तादृश-देह-स्थितेर् एव विग्नत्वात् पूर्ववत् तद्-भक्तेः पति-शैथिल्य-विधानादाव् अप्रवृत्तिर् इति ज्ञेयम् । अलब्ध-निर्गमत्वाद् एव तद्-भावनायुक्तास् तस्मिन् श्री-कृष्णे समुत्कण्ठित-चित्ताः सत्यः कृष्णं निज-चित्तापकर्षकं तम् एव दध्युर् यातवत्यः तत्रानुभावम् आह—दुःख-विशेषेण ध्यानावेशेन च मुद्रित-नेत्राः । यद् वा, मीलितम् अन्तर्हितं लोचनम् अन्याशेष-ज्ञानं यासां ताः ॥९॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १४५) : तद् एवम् एव तासां श्री-कृष्णवद् आनन्द-विग्रहाणां तैर् एव विग्रहैः श्री-कृष्ण-सङ्गः प्रोक्तः । उक्तं च तासां विग्रह-माहात्म्यं तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३३.६] इत्य्-आदिभिः । श्रीमद्-उद्धवेन च तान् नमस्यता प्रथमम् एताः परं तनु-भृतः [भा।पु। १०.४७.५८] इत्य् अनेन तासाम् एव परम-तनु-भृतत्वं प्रदर्श्य, मध्ये क्वेमाः स्त्रियः [भा।पु। १०.४७.५९] इत्य् अनेन परमतम् अनूद्य, तत् खण्डयता नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य् अनेन लक्ष्मीतोऽपि विलक्षणं तासु तत्-प्रेयसी-रूपत्वं प्रदर्श्य परम-नित्यत्वं स्थापयित्वा, तत्र च यः प्रसाद उदगात् इत्य् अनेन तत्-प्रसादस्य सदान्तर्भूय स्थायित्वं सूचयित्वा पुनः आसाम् अहो चरण [भा।पु। १०.४७.६१] इत्य्-आदिना स्वीय-परम-पुरुषार्थ-चरण-रेणुत्वं दर्शितम् । यत्र भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् [भा।पु। १०.४७.६१] इत्य् अनेन यद् एव पुरुषार्थतया स्थापितम्, यत्र वृन्दावने [भा।पु। १०.४७.६१] इत्य्-आदिना वृन्दावनस्य च तादृशत्वं स्थापितम्, तद् एतद् व्यतिरेकेण द्रढयितुम् अन्यासाम् आगन्तुकानाम् असिद्ध-देहानां विग्रह-त्यागेनैव तत्-सङ्ग-प्राप्तिर् इत्य् आह—अन्तर्-गृह-गता [भा।पु। १०.२९.९] इत्य्-आदिकेन, न चैवं विस्मयः कार्यः [भा।पु। १०.२९.१६] इत्य् आद्य्-अन्तेन । अन्तर्-गृह-गताः शुश्रूषन्त्यः पतीन् काश्चित् [भा।पु।१०.२९.६] इत्य् अत्रोक्ता इत्य् अर्थः । अत्र अन्तर् इति स्फुटम् एव ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्तर् इत्य्-आद्य् अष्टकम् ॥९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपत्यवत्यस् त्व् अधिकाराभावात् तद्-वपुर् हित्वा वपुर्-अन्तरेण सद्य एव तत्र गता इति दर्शयन्न् आह—अन्तर्-गृह-गता इत्य्-आदि त्रिभिः । काश्चिद् अपत्यवत्योऽनधिकारवत्यो दैवाद् अन्तर्-गृह-गताः । अनधिकारित्वेनाङ्ग-सङ्गायोग्या अपि दर्शन-मात्र-काङ्क्षया बहिर् गन्तुम् इच्छन्त्योऽप्य् अलब्ध-विनिर्गमास् तद्-भावना-युक्ताः सत्यः कृष्णं दध्युः । भावना-लिङ्गम् आह—मीलित-लोचनाः ॥९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : किं च ताः सर्वाः प्रतिबन्धक-शैथिल्येन कृष्णान्तिकं प्राप्ता यास् तु प्रतिबन्धक-प्राबल्येन निरुद्धास् तासां सद्यो देह-पातं कथयन् ताभ्यः पूर्वम् एव तासां श्री-कृष्णान्तिके प्राप्ति-कारम् आह—अन्तर् इति । काश्चिद् उपासना-सिद्धाः कस्यचिद् गृह-कर्मणश् चिकीर्षयात् गृह-गताः । वेणु-गीत-श्रवणान्तरम् एवान्यासाम् आगमन-सम्भ्रमम् आलोक्य पत्य्-आदिभिर् अवरुद्धा जाता अत एवालब्ध-विनिर्गमा न लब्धो विनिर्गमो याभिस् ताः । तद् उक्तम्—

गोप्यस् तु श्रुतयो ज्ञेया ऋषिजा गोप-कन्यकाः ।

देव-कन्याश् च राजेन्द्र न मानुष्यः कथञ्चन ॥ इति ।

किं च—

नित्यं मे मथुरां विद्धि वनं वृन्दावनं तथा ।

यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥ इति ।

एतास् तु सादयो नित्याश् च प्रतिबन्ध-निरासार्थं कृष्णम् एव दध्युर् ध्यातवत्यः । स-क्रोधं यथा तथा पत्य्-आदि-मुखं पश्यन्त्यो निर्गम-द्वारम् अलभमाना मीलित-लोचना जाताः । कीदृश्यः ? निरोधात् प्राग् अपि तद्-भावना-रहस्य-भावना-युक्ताः । यदा तस्य भावना-युक्ता आसन्—विघ्ने जाते प्रेम-पूरस्य प्राबल्यं भवती इति श्रूयते । यथा नदी-प्रवाहस्य पर्वतादिना प्रतिबन्धत्वं प्रतिवेत्सतीति वेगाधिक्यं भवतीति । अतो, यथा पूर्वं श्री-कृष्णेनाभिरमिताश् चुम्बनालिङ्गनादिभिर् आनन्दिता तयैव भावनया युक्ता दध्युः । न ह्य् अननुभूतं स्मर्यते । यद् वा, तद्-भावना तत्-पूर्व-रमणं भावयन्त्यः । युक्ताः श्री-कृष्ण-स्वरूपे योगं प्राप्ताः । यद् वा, युक्ता योगिन इव । अत्र इवार्थो द्रष्टव्यः । स्व-देह-विस्मरण-पूर्वकं तत्-तद्-अङ्ग-विभावन-पूर्वकं दध्युः स्मृतिवत्यः । कीदृश्यः ? मीलित-लोचनाः । अबहिर्-वृत्ति-नेत्राः । यद् वा, मीलितं शिथिलीकृतं लोचनं विचार-सामर्थ्यं याभिस् ताः । अन्य-ज्ञान-रहिता अपि तम् एव दध्युः श्री-कृष्ण-प्राप्तये ध्यानम् अन्तरेणोपायान्तर-विचारे शैथिल्यं जातम् इति भावः ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रोज्ज्वल-नीलमण्य्-उक्त-रीत्या विविच्यते । गोप्यस् तावद् द्विविधाः—नित्य-सिद्धाः साधन-सिद्धाश् च । साधन-सिद्धाश् च द्विविधाः—यौथिक्योऽयौथिक्यश् च । यौक्थिक्यश् च द्विविधाः—श्रुति-यूथ-भूतत्वात् श्रुति-चर्यः, ऋषि-यूथ-भूतत्वाद् ऋषि-चर्यश् च । ततश् चासां चतुर्विधत्वम् उक्तं पाद्मे—

गोप्यस् तु श्रुतयो ज्ञेया ऋषिजा गोप-कन्यकाः ।

देव-कन्याश् च राजेन्द्र न मानुष्यः कथञ्चन ॥ इति ।

गोपीत्वेनैव मानुषत्वे लब्धेऽपि न मानुष्य इति निषेधस् तासां प्राकृत-मानुषत्वाभावं ज्ञापयति । अत्र गोप-कन्यका एव नित्य-सिद्धास् तासां साधनाश्रवणात् । गोपीत्वे सत्य् अपि कात्यायन्य्-अर्चनस्य तु साधन्त्वं नर-लीलत्वम् एव ज्ञापयति, गोपीत्वस्य सिद्धत्वाद् एवेति तत्-प्रसङ्ग एव प्रपञ्चितम् । तासां नित्य-सिद्धत्वं तु आनन्द-चिन्मय-रस-प्रतिभाविताभिः इति ब्रह्म-संहितोक्त्या तासां ह्लादिनी-शक्तित्व-प्रतिपादनात् । ह्लादिनी या महा-शक्तिः इति बृहद्-गौतमीयाच् च ताभिः सह कृष्णस्य रमणस्यानादित्वाच् च, दशाष्टदशाक्षरादि-मन्त्रेषु तासां निर्देशात् । तन्-मन्त्रोपासनानां तद्-विधायक-श्रुतीनां चानाद्य्-अन्त-काल-भावितत्वाच् च । सम्भवन्त्व् अमर-स्त्रियः [भा।पु। १०.१.२३] इति प्रमाणावगतानां देव-कन्यानां नित्य-सिद्ध-गोपिकांश-भूतत्वं व्याख्यातम् उज्ज्वल-नीलमणौ । श्रुति-चरीणां साधन-सिद्धत्वं—

कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः ।

कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयः ॥

यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः ।

भजन्ति रमणं मत्वा चिकीर्षाजनिनस् तथा ॥

इत्य्-आदि-बृहद्-वामन-वचनेभ्योऽवगतम् । ऋषि-चरीणां च । गोपालोपासकाः पूर्वम् अप्राप्ताभीष्ट-सिद्धयः [उ।नी। ३.४४] इत्य् उज्ज्वल-नीलमण्य्-उक्तानां तथा-भूतत्वम्—

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ इति पाद्मोत्तर-खण्डात् ।

अत्र रामं दृष्ट्वा हरिं भोक्तुम् ऐच्छन्न् इति राम-सौन्दर्य-दर्शनेन स्वोपास्यस्य हरेर् गोपालस्य स्मरनात् तम् एव भोक्तुम् ऐच्छन्न् इत्य् अर्थः । लज्जया तु साक्षात् तं न वृतवन्तः । ततश् च कल्प-वृक्षस्येवावदतोऽपि श्री-रामस्य प्रसादात् तेषाम् अभीष्ट-सिद्धिर् जातेत्य् आह—ते सर्वे इति । हरिं कामेन सम्प्राप्येत्य् अनुसंहितं फलम् । ततः कामाद् एव हेतोर् भवार्णवात् संसारान् मुक्ता इत्य् अननुसंहितं फलम् । अत्र मातरः पितरः पुत्राः [भा।पु। १०.२९.२०] इति, यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.३२] इति, पति-सुतान्वय-भ्रातृ-बान्धवान् इत्य् आद्य्-अग्रिम-ग्रन्थ-दृष्टेर् अपत्यवत्यो गोप्य एवान्तर्गृह-निरुद्धा बभूवुर् इति श्री-कवि-कर्णपूर-गोस्वामि-कृत-दशम-स्कन्ध-टीकायां दृष्टम् । अतस् तद्-अनुसारेण सार्वत्रिकं (मूलार्थम् अवाप्यैव व्याख्यायते) ।

अत्रेदं तत्त्वम्—गोपालोपासका ऋषयस् ते श्री-राम-मूर्ति-माधुरी-दर्शनाद् राग-मय-भक्तेर् निष्ठा-रुच्य्-आसक्तिर् अत्यङ्कुर-भूमिका आरूढाः सम्यग्-अपरिपक्व-कषाया अपि श्री-योगमायया देव्या गोकुलम् आनीय गोपी-गर्भे जनिताः कन्यका बभूवुः । तासाम् एव मध्ये काश्चिन् नित्य-सिद्ध-गोपी-सङ्ग-भूम्ना वयः-सन्धि-दशाम् आरभ्यैव लब्ध-पूर्वानुरागाः स्फूर्ति-प्राप्त-कृष्णाङ्ग-सङ्गाः । दग्ध-सम्यक्-कषायाः प्रेम-स्नेहादि-भूमिका आरूढाः । गोपैर् व्यूढा अपि योगमाययैव तद्-अङ्ग-स्पर्श-दोषाद् रहिताश् चिन्मय-देही-भूताः कृष्णोपभुक्तास् तस्यां रात्रौ वेणु-वादन-समये पतिभिर् वार्यमाणा अपि योगमाया-साहाय्य-प्रसादान् नित्य-सिद्ध-गोपीभिः सहिता एव प्रेष्ठम् अभिसस्रुः । काश्चित् तु नित्य-सिद्धादि-गोपी-सङ्ग-भाग्याभावाद् अलब्ध-प्रेमत्वाद् अदग्ध-कषाया गोपैर् व्यूढा गो-गोपोपभुक्ता अपत्यवत्यो बभूवुः । ताः खलु तद्-अनन्तरम् एव नित्य-सिद्धादि-गोपी-सङ्ग-भूम्ना कृष्णाङ्ग-सङ्ग-स्पृहोद्रेकात् पूर्वरागवत्यस् तासां कृपा-पात्रीभवन्त्योऽपि कृष्णाङ्ग-सङ्गायोग्य-देहत्वेन योग-माययासाहाय्याकरणात् पतिभिर् वारिताः कृष्णम् अभिसर्तुम् अक्षमा महा-विपद्-ग्रस्ताः पति-भ्रातृ-पित्रादीन् स्व-प्राण-वैरीत्वेन पश्यन्त्यो मरण-दशायाम् उपस्थितायां सत्यां यथान्या मात्रादि-स्व-बन्धु-जनं स्मरन्ति । तथैव स्व-प्राणैक-बन्धुं कृष्णं सस्मरुर् इत्य् आह—अन्तर् इति । न लब्धो विनिर्गमो याभिस् ता इति पतिभिर् वार्य् एव स-तर्जनं स-यष्टिकम् उपविष्टत्वाद् इति भावः । सदैव तद्-भावनया युक्ता अपि तदानीं दध्युः—हा हा प्राणैक-बन्धो ! वृन्दावन-कला-निधे ! जन्मान्तरेऽपि त्वत्-प्रेयसी-भूयासम् अस्मिन्न् अन्त-काले त्वन्-मुख-चन्द्रं चक्षुषा नापश्यम् । भवतु, मनसापि पश्यामीति प्रत्येकं स्व-गतम् अनुलपन्त्यो मुद्रित-लोचनाः सत्यो नितरां दध्युः ॥९॥


॥ १०.२९.१०-११ ॥

दुःसह-प्रेष्ठ-विरह-तीव्र-ताप-धुताशुभाः ।

ध्यान-प्राप्ताच्युताश्लेष-निर्वृत्या क्षीण-मङ्गलाः ॥

तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः ।

जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

कृष्ण-कामास् तदा गोप्यस् त्यक्त्वा देहं दिवं गताः ।

सम्यक् कृष्णं पर-ब्रह्म ज्ञात्वा कालात् परं ययुः ॥
पूर्वं च ज्ञान-संयुक्तास् तत्रापि प्रायशस् तथा ।
अतस् तासां परं ब्रह्म गतिर् आसीन् न कामतः ।
न तु ज्ञानम् ऋते मोक्षो नान्यः पन्थेति हि श्रुतिः ॥
काम-युक्ता तदा भक्तिर् ज्ञानं चातो विमुक्तिगाः ।
अतो मोक्षेऽपि तासां च कामो भक्त्यानुवर्तते ॥
अतोदकत्वेन सदा द्वेषिणाम् अधरं तमः ।
मुक्ति-शब्दोदिता चैद्य-प्रभृतौ द्वेष-भागिनः ॥
भक्त्-इमार्गी पृथङ् मुक्तिम् अगाद् विष्णु-प्रसादतः ।
कामस् त्व् अशुभ-कृच् चापि भक्त्या विष्णोः प्रसाद-कृत् ।
द्वेषि-जीव-युतं चापि भक्तं विष्णुर् विमोचयेत् ।
अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात् ॥ इति स्कान्दे ॥

जगत्-प्रपितामहे जार-बुद्धिर् न युक्ता तथापि ब्रह्मतया न सम्यक् ॥११-१३॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तदानीम् एवं तं परमात्मानं कृष्णं ध्यानतः प्राप्ताः सत्यो गुण-मयं देहं जहुर् इत्य् आह श्लोक-द्वयेन—दुःसहेति । ननु कथं जहुः परमात्मेति ज्ञानाभावाद् इत्य् आशङ्क्याह—जार-बुद्ध्यापीति । न हि वस्तु-शक्तिर् बुद्धिम् अपेक्षते । अन्यथा मत्वापि पीतामृतवद् इति भावः । ननु तद् अपि प्रारब्ध-कर्म-बन्धने सति कथं जहुस् तत्राह—सद्यः प्रक्षीण-बन्धना इति । ननु कथं भोगम् अन्तरेण प्रारब्धं कर्म क्षीणं भोगेनैव सद्यः क्षीणम् इत्य् आह—दुःसहेति । दुःसहो यः प्रेष्ठ-विरहस् तेन तीव्रस् तापस् तेन धुतानि गतान्य् अशुभानि यासाम् । तद्-अप्राप्ति-परम-दुःख-भोगेन पापं क्षीणम् इत्य् अर्थः । तथा ध्यानेन प्राप्ता अच्युतस्य आश्लेषेण या निर्वृतिः परम-सुख-भोगस् तया क्षीणं मङ्गलं पुण्य-बन्धनं यासां ताः । अतो ध्यानेन परमात्म-प्राप्तेस् तत्-काल-सुख-दुःखाभ्यां निःशेष-कर्म-क्षयाद् गुण-मयं देहं जहुर् इति ॥१०-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं दध्युर् एव, किन्तु तम् एवापुर् इत्य् आह—किं चेति । तदानीम् एव ध्यान-सम-कालम् एव । गुण-मयं त्रिगुण-कार्यम् । ननु देह-त्यागो\ऽस्तु यथा-कथञ्चिद् भेदेन रूपेण तत्-सङ्गस् त्व् अज्ञानाम् अतिदुःशक इत्य् आशङ्कते—नन्व् इति । वस्तुनो बह्व्य्-आदेः शक्तिर् दाहिकादि-रूपा । बुद्धिम् अयम् अग्निर् दाहक इत्य् एवं-रूप-ज्ञानवन्तम् एव दहति, ज्ञानं नापेक्षते नेच्छति । अन्यथा मत्वापि जलम् इदम् इत्य् एवं ज्ञात्वापि यथा जल-बुद्ध्या पीतामृतो जरामृत्यु-वर्जितो भवति, तद्वद् इति ज्ञेयम् । इति भाव इति तात्पर्यम् । अन्यथा पीतामृतो\ऽपि मृतो भवेद् इति ।

अवश्यम् एव भोक्तव्यं कृतं कर्म शुभाशुभम् इत्य्-आदि स्मृतिम् अनुसृत्य पुनर् आशङ्कते—नन्व् इति । तथापि ज्ञाने सत्य् अपि वस्तु-शक्त्या तत्-प्राप्तिर् अस्तु, देहं कथं जहुर् इति ज्ञेयम् । तत्र प्रश्ने । सद्यः तत्-क्षणम् एव । किं च, बन्धन-ध्वंसो\ऽपि प्रारब्ध-पुण्य-पाप-प्रणाशेनैव दृष्टः स चात्र कथम् इति शङ्कते—नन्व् इति । अत्रोत्तरं—दुःसहेति । दुःसहः सोढुम् अशक्यो यः प्रेष्ठस्य परमात्मनः श्री-कृष्णस्य विरहः सांसारिको वियोगस् तेन तीव्रो\ऽत्युत्कटस् तापो ज्वरानुभवस् तेन धुतानि निरस्तान्य् अशुभानि पापानि । तद्-अप्राप्ति-रूपं यत् परम-दुःखं तद्-भोगेनानुभवेन । इत्य् अर्थ इति—दुःख-भोगेनैव पापं क्षीयत इति तात्पर्यम् । कथम् इत्य् आकाङ्क्षायाम् आह—तथेति । यतः परमात्म-प्राप्तिर् एव गुण-मय-देह-त्यागे हेतुर् अतो हेतोः । यदि कश्चिद् अनारब्ध-फलानां कुतो नाश इत्य् आशङ्कते तं प्रत्य् आह—जारेति । जारः उपपतिः पत्युर् अप्य् अधिक-प्रियो भवति, तं कृष्णं परमात्मानं नारायणम् एव सङ्गताः सम्यग् ज्ञातवत्यः । गत्य्-अर्थानां ज्ञानार्थता-प्रसिद्धेः । अनेन बिम्ब-भूत-हरि-ज्ञानेनारब्ध-कर्मणाम् अपि नाश इति सूचितम् । तद्-अधिगमः—उत्तर-पूर्वयोर् असंश्लेष-विनाशौ इति सूत्रात् । तस्य सुहृदः साधु-कृत्यां द्विषन्तः पाप-कृत्याम् इति श्रुतेः । तस्य ज्ञानिन इत्य् अर्थः । किं चाहि-कञ्चुकवत्-त्यक्त-देहानाम् अप्य् अन्तर्धापनं योगमायया कृतं यावद्-अब्दम् अघासुर-शरीरान्तर्धापनवत्, तथा रोधकानां विस्मृतिश् च जनिता, अन्यथा रोधनादि-कृतो लोकापवादो दुर्वारः स्याद् इति ॥१०-११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दुःसह-प्रेष्ठ-विरह-तीव्र-ताप-धुताशुभाः धुताशुभत्वं क्षीण-मङ्गलत्वं च तद्-देहारम्भकं प्रारब्ध-रूप-दुःख-सुख-भावत्वम् । अतो\ऽमूर् नृ-देहा एव पूर्व-श्लोक-व्याख्या संवादात् स्वभाव-सिद्धानां तु तस्मिन् देहे श्री-कृष्ण-दर्शनादर्शन-जन्य-सुख-दुःखयोस् तु न नाशः, ते तु न नश्वरे नित्ये एव तयोर् द्वयोर् एवानन्दमयत्वात् ॥१०॥

अतो गुण-मयं देहं जहुः, न तु देहे त्यक्त्वा कैवल्यम् अवापुः, निर्गुणं श्री-कृष्णाङ्ग-सङ्कोचितं देहं प्रापुर् इत्य् अर्थः । जार-बुद्ध्या इति जार-शब्दः केवलं प्रतीति-परः । यद् वा, जरयति गुण-मय-देहम् इति जारः । जारा चासौ बुद्धिश् चेति तथा यया बुद्ध्या गुण-मयं देहं जहुः । निर्गुणं देहं प्राप्य किम्भूता बभूवुः ? तत्राह—सङ्गता अपि बभूवुर् इत्य् अर्थः । तं कीदृशम् ? परमात्मानम् । ताः कीदृश्यः ? गोप्यः केवलं गोप-वध्व एव । पुनर् अन्तः अन्तःकरणे लब्ध-विनिर्गमाः । कृष्ण-सङ्गो\ऽनेन देहेन न भावीति लब्धो विनिर्गमो नैराश्यं याभिः पुनर् गृह-गता गृह एव स्थिताः सत्यः । अथवा, गृहं शरीरं मानुष्यं तत्र स्थिताः केवल-गोप-वधूत्वात् पुनः सद्यः प्रक्षीण-बन्धनाः बन्धनं गृहादिः निर्गुण-देह-लाभाद् इति त्रिभिः सहान्वयः । अथवा, जार-बुद्ध्या गुण-मयं देहं जहुः । एतेन गोप्यो विविधा इति प्राग् एवोक्तम् ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च सद्य एव श्री-कृष्णेन सह संयोगं प्राप्ता इत्य् आह—दुःसहेति द्वाभ्याम् । ध्यानेन विशेषतस् तद्-रूप-गुणादि-परिस्फूर्त्या दुःसहः प्रेष्ठ-विरहः । अत एव तेन तीव्र-तापः, तेन धुताशुभाः । परमात्मनम् अपि तं कृष्णं जार-बुद्ध्यैव । प्रेमाग्नि-विशेषेण सदा जरयतीति जार उपपतिस् तद्-बुद्ध्या तद्-भावेनैव । न तु परमात्म-बुद्ध्या सङ्गताः सम्यक् प्राप्तास् तेन सह मिलिता इत्य् अर्थः । इति नित्य-परम-प्रेम-सङ्गो\ऽभिप्रेतः ।

कथं गुण-मयं देहं जहुः ? किं तु गुणातीतं नित्य-भगवत्-प्रेम्-सङ्गति-योग्यं देहं प्रापुर् इत्य् अर्थः । सच्चिदानन्द-घन-रूप-प्राप्त्या सङ्गताः इति भावः । सङ्गतिश् च नित्य-वक्षः-स्थ्ल-स्थ-श्रीवत् महा-शक्त्य्-आदिवद् वा नित्य-संयोग-लक्षणा ज्ञेया । तत्रापि जार-बुद्ध्या सङ्गतत्वाद् विशेषः कश्चिद् ऊह्यः । तथा चोद्धव-द्वारा श्री-भगवद्-उक्तौ—

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भा।पु। १०.४७.३७]

अत्र च कल्याण्य इत्य् अनेन मद्-वीर्य-चिन्तयेत्य् अनेन च प्राप्ति-विशेष एवाभिप्रेतः । तच् चाग्रे तत्रैव व्यक्तं भावि । अन्यत्रैव व्यञ्जितम् एव । तत्र दुःसह-शब्देन तीव्र-शब्देन चानन्त-कोटि-कल्पेषु महा-नरकादि-भोगैर् यावां स्तापस् ततो\ऽपि कोटि-गुणस् तापः सूच्यते । तथा अच्युत-शब्देन निर्वृति-शब्देन चानन्त-कोटि-कल्पेषु साम्राज्य-स्वाराज्यादि-भोगैर् यत् सुखं मोक्ष-सुखं च ततो\ऽधिकम् अपि तत् सुखं ध्वन्यते । श्री-भगवद्-आश्लेष-सुख-महोदधेस् तत् सर्वस्य कर्ण-मात्र-रूपत्वात् । तत्र च श्री-भगवत्-सम्बन्धेन तत्-तद्-वासनाक्षयो\ऽपि ज्ञेयः । अत एव प्रक्षीणेति प्र-शब्दः ।

तथा अशुभं नाम श्री-भगवन्-नित्य-संयोग-प्रतिबन्धक-कर्म-विशेष एव । मङ्गलं च मानादिषु श्री-भगवद्-अनुनयादि-जन्य-सुख-विशेष-हेतुः सत्-कर्म-विशेषः । तत्-तत्-प्रत्क्षयश् च नित्य-संयोग-सिद्धेः । अत एव विरहेण मानादिना च सम्पद्यमान-प्रेमानन्द-विशेषाभावात् तासाम् अत्र स्थिताभ्यो\ऽन्याभ्यः सौभाग्ये न्यूनतोह्या ।

अथवा, ततश् च सर्व-सद्-गुण-मयम् अपि देहं सद्यो जहुः । पत्य्-आदिभिर् गृहान्तर्-निरुद्धेन तेन श्री-कृष्ण-प्राप्तेः । अतस् तद्-योग्य-देहान्तरेण तं श्री-नन्द-किशोरम् एव सङ्गता इत्य् अर्थः । कुतः ? परमात्मानं परम-प्रियम् इत्य् अर्थः । तत्र हेतुः—जार-बुद्ध्येति । अन्यत् समानम् ।

यद् वा, ध्यान-प्रभावेण सद्यः प्रकर्षेण क्षीणानि बन्धनानि पत्य्-आदि-कृत-द्वार-बन्धा यासां तथा-भूता अपि गुण-मयं सर्व-सद्-गुण-मयम् अपि देहं जहुः । दुःसहो यः प्रेष्ठस्य प्रियतमस्य श्री-कृष्णस्यापि विरहः । अत एव तेन यस् तीव्र-तापः, अन्तर्-महा-ज्वरस् तेन धुता नष्टा आशु शीघ्रम् । यद् वा, आशु अभिनवा भा कान्तिर् यासां ताः ।

किं च, ध्याने ध्यानेन वा हेतुना प्राप्तः सङ्गतो यो\ऽच्युतः, मया परोक्षं भजता4 [भा।पु। १०.३२.२१] इत्य्-आदि तद्-वचन-प्रामाण्येन विरहे\ऽपि च्युति-रहितो भगवान् श्री-कृष्णस् तस्य । किं वा, अच्युतेन अविच्छिन्नेन । अर्थात्, प्रेष्ठस्यैवाश्लेषेण या निर्वृतिः परम-सुखम् । किंवा, आश्लेष-रूपा निर्वृतिस् तया ध्यान-विशेषेणैव साक्षात् सम्भोग-सुख-मयत्वेन प्रतीयमानया निर्वृत्या विशिष्टा अपि जहुः ।

कुतः ? क्षीण-मङ्गला अन्तर्-गृहे निरोधाय पत्यादिभिर् धारणादिना बहिर्-निःसरणार्थोद्यमे भित्त-कपाटादि-संसर्गेण वा नष्ट-तिलकादि-मङ्गलाः, महोत्ताप-जर्जरत्वात् । कान्ति-विनाशेन तिलकादि-क्षयेण च तादृङ्-मलिन-प्रक्षीण-देहस्य श्री-भगवत्-सेवायाम् अयोग्यत्व-मननाद् इत्य् अर्थः ।

यद् वा, प्रश्लेषेण ध्यान-प्राप्ताच्युताश्लेष-निर्वर्त्या अक्षीणं क्षयम् अप्राप्तं मङ्गलं रास-क्रीडादि-लक्षणं वा यासां तयैवाशेष-रति-सुख-सिद्धेः, तथाभुता अपि जहुः । कुतः? दुःसह-प्रेष्ठ-विरह-तीव्र-तापेन धुतम् । धुतिर् निधूननं पीडनम् इति यावत् । तद् एवाशुभम् अमङ्गलं महा-दौर्भाग्यं वा यासां ताः । पुनर् विरह-भयाद् इत्य् अर्थः।

यद् वा, धुता कम्पिता अपगता आशुः शीघ्रा अविलम्बा भा प्रतिभा यासाम् । अत्यन्त-विरह-तापेन विचारापगमाद् इति भावः । अत एव सद्यः प्रक्षीण-बन्धनाः । सद्यः सपदि प्रकर्षेण क्षीणं बन्धनम् आशा-बन्धो यासां, देह-रक्षया रासादि-केलिं प्राप्स्याम इत्य् आशा-बन्धो\ऽपि नष्ट इति भावः । अन्यथा अन्य-गोपीवत् श्री-वृन्दावने व्रजान्तः-साक्षाद्-अवस्थित्य्-आदि-परित्यागायोगः । अत एव ताभ्यो\ऽत्र निवसन्तीनां श्री-गोपीनां सौभाग्यम् अधिकम् एव, केवलं नित्य-संयोगेन विरह-दुःखाभावात्, कैश्चिद् भाव-विशेषेणातृप्तास् ताः प्रशंस्यन्ते । विरहे\ऽपि प्रेम-विशेषोदयेनानन्द-विशेषः स्याद् इति श्री-भागवतामृते विवृतम् एवास्ति ।

यद् वा, जहुर् अन्तर्धापयामासुः । यद् वा, तं परमात्मानं जार-बुद्ध्यैव सङ्गम् आसक्तिं प्राप्ता अपि । दुःसह-प्रेष्ठ-विरह-तीव्र-तापेनैव धुताशुभाः धुतं विनाशितं जगताम् एवाशुभं ताप-त्रयं याभिः, तादृक् ताप-विशेषस्य श्री-भगवदीय-गाढ-प्रेमोद्रेकमयत्वात् जगत्-ताप-त्रय-नाशकत्वम् । तथा ध्यान-प्राप्ताच्युताश्लेष-निर्वृत्या अक्षीण-मङ्गलाः । अक्षीणं पुष्टं बुद्धिम् एव गतं जगतां मङ्गलं याभ्यः । तादृग्-ध्यानस्य जगताम् अभ्युदय-कारित्वान् मङ्गल-वृद्धि-कारित्वम् । एवम्भूतः सत्यो गुण-मयं देहं जहुः । गुणा भावास् तत्रान्तरा भावा आर्जव-स्थैर्य-मार्दव-बहिर्-निष्क्रमोपायाज्ञता-गुरु-जनादि-सङ्कोचादयः, बाह्याः सन्तप्तता-गृहान्तस्थता-बद्धतादयः, तन्-मयं तत्-प्रधानं देहं जहुर् इति । तत्-तद्-भाव-त्याग एवात्र देह-त्याग उक्तः । यथा सृष्टि-प्रसङ्गे ब्रह्मणस् तत्-तद्-भाव-त्याग एव देह-त्याग इति तृतीय-स्कन्धे कथितम् । अतः प्रक्षीण-बन्धनाः प्रक्षीणानि बन्धनानि दिनान्तरे श्री-भगवत्-केलि-प्राप्तौ प्रतिबन्धा आन्तरा बाह्या आर्जव-सन्तप्तादयो यासां तद्-रात्रौ अच्युताश्लेष-निर्वृत्या काल-क्षेपाद् अलब्ध-रासाः कल्याण्य इति । एवं ज्ञानेन मोक्षो भवेत्, प्रीति-भक्त्या वैकुण्ठ-लोकः प्रेम्णा च श्री-भगवद्-वशीकरणं, तत्र च जारतया प्रेम-विशेषेण नित्य-प्रेष्ठतया व्रजे संयोग इति सिद्धान्तः । अतस् ताद्र्श-भावोत्पत्तये रास-क्रीडा सर्वथा सर्वैः सेव्येति तात्पर्यम् ॥१०-११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च सद्य एव श्री-कृष्णेन सह संयोगं प्राप्ता इत्य् आहुः—दुःसहेति युग्मकेन । तत्रोत्कण्ठा-परिणामं दुःसहेत्य् अर्धेन ध्यान-परिणामं ध्यानेत्य् अर्धेनाह—उत्कण्ठया दुःसह-संयोगम् प्राप्ता इत्य् आहुः—दुःसह-प्रेष्ठ-विरहः विप्रलम्भाख्यो भावः, तेन तीव्र-तापः, तेन धुताशुभाः । ध्यानेन हेतुना प्राप्ता याच्युतस्य निज-भक्तेषु च्युत-रहितत्वेन प्रसिद्धस्याश्लेष-निर्वृतिः, तया क्षीण-मङ्गलाः । अत्र दुःसह-शब्देन तीव्र-शब्देन च दुःखस्य पराकाष्ठा दर्शिता, अच्युत-शब्देन निर्वृति-शब्देन च सुखस्य । अशुभं भगवन्-नित्य-संयोग-प्राप्ति-प्राचीन-दशायां दुःख-जनिका तद्-विरह-स्फूर्तिः मङ्गलं च तद्-दशायाम् एव सुख-जनिका प्राप्तव्य तत्-संयोग-स्फूर्तिः यावतीभ्यां ताभ्यां वृत्तीभ्याम् एव प्रौढ-भावः साधकः सिद्ध्यति तावत्योश् च तयोः शनैर् भोग्ययोर् अपि सम्प्रति युगपद् एव भोगो जात इति धुतत्वं क्षीणत्वं चोक्तम् ॥१०॥

अतस् तत्रैव तं श्री-कृष्णम् एव सङ्गता मिलिताः, तथा च वासना-भाष्य-धृतं मार्कण्डेय-वचनम्—

तदानीम् एव ताः प्राप्ताः श्रीमन्तं भक्त-वत्सलम् ।

ध्यानतः परमानन्दं कृष्णं गोकुल-नायिकाः ॥ इति ।

तयोः शब्दयोः पाप-पुण्य-पर्यायत्वाभावात् तयोः स्व-स्व-प्रतिनियत-फल-दातृत्वात् पापस्य तु सुतरां भगवद्-विरह-मय-प्रेम-स्फोरकत्वाभावात्, न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते इति पाद्मोत्तर-कार्तिक-माहात्म्य-खण्डानुसारेण तासां सुतरां तत्-प्रारब्ध-जन्मत्वाभावात्, किन्तु गुरु-पुत्रम् इहानीतम् [भा।पु। १०.४५.४५] इति न्यायेन प्रारब्ध-रक्षणारक्षणयोः स्व-प्रेम-वर्धन-विदग्ध-श्री-भगवद्-इच्छैक-मयत्वात् नान्यथा व्याख्यातम् ।

ननु किं जारत्वेन सङ्गताः नेत्य् आह—तादृश-रागौत्सुक्येन सोपानीकृततया जार-बुद्ध्यापि परमात्मानं सर्वांशि-परम-स्वरूपत्वेनापि सर्वेषाम् अपि स्वभावत एव यद् उपपत्य्-आदि-शब्दवत् पालकत्वेन पतित्वे सिद्धे भाव-विशेष-धारिणीनां तासां रमणत्वेनापि पतिर् असाव् इति पति-रूपम् एवेत्य् अर्थः । रमणत्वालाभेनैव जार-बुद्ध्यापि तस्मिन् सङ्गम्यमाने\ऽपि रमणत्व-लिप्साया प्रगल्भत्वात् जारत्वस्य तस्मिन् सर्वांशिन्य् असम्भवात् जिघांसयापि हरय इत्य्-आदिवत् जार-बुद्ध्यापीति हेयतयैव निर्देशात् प्राचीनस्य पत्युर् देहस्य च त्यागात् इति भावः । तथा हि, पटोल-मूले रमणं स्यात् तथा रमणः प्रिय इति विश्व-कोशात्, धवः प्रियः पतिर् भर्ता जारस् तूपपतिः समौ इत्य् अमर-कोशाच् च रमण-पत्य्-आदि-शब्द-वाच्य-जारादि-शब्द-वाच्ययोर् नैकत्वं मन्तव्यं किन्तु पूर्वस्य स्वामित्वाद् उत्तरस्य चोरत्वाद् विरुद्ध-वस्तुत्वम् एव । तत्रापि सभ्य-शब्दान्तरम् अप्रयुज्य प्रयुक्तस्यासभ्यस्य जार-शब्दस्य जिघांसा-शब्दस्येव निन्दा-तात्पर्यम् एव प्रतीयते । जारः पाप-पतिः इति त्रिकाण्ड-शेषादि-कोशाल् लोकाच् च । किन्तु येन रागेण वा जार-भाव-मयं निन्द्यं लोक-धर्म-मर्यादातिक्रमम् अपि ताः कृतवत्यस् तं सूचयित्वा तस्यैव प्रशस्तत्वं दर्शिते चेष्टा-विशेष-साम्यात् कामतया व्यपदिष्टत्वे\ऽपि प्रियानुकूल्य-तात्पर्यत्वेन प्रेमैकरूपत्वं च । तथा च वक्ष्यते—यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु [भा।पु। १०.३१.१९] इत्य्-आदि । अत एवोक्तं तादृशैर् अपि आसाम् अहो चरण-रेणु-जुषाम् इत्य्-आदौ, या दुस्त्यजम् आर्य-पथं च हित्वा [भा।पु। १०.४७.६१] इत्य्-आदि, एताः परम् इत्य्-आदि वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इति ।

एवं हेयांश-परित्याग-पूर्वकम् महा-प्रेम-रसनीय-कृष्ण-लक्षण-परम-पुरुषार्थ-शिरोमणि-प्राप्तिर् दर्शिता तत्रानुषङ्गिकं फलम् आह—गुणमयं च देहं जहुर् इति यतः पूर्वोक्त-प्रकारेण सद्यः प्रक्षीण-बन्धनाः, एवं सच्चिदानन्द-देह-प्राप्तिर् अपि सूचिता। एतद् उक्तं भवति—अपिर् अत्र जार-बुद्धेर् हेयत्वं—जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् [भा।पु। १०.६.३५] इत्य् अत्र जिघांसाया इव व्यनक्ति गर्हा-वचनेन तत्-तच्-छब्देनान्वयात् । अत्र हेतुः परमात्मानम् इति नहि परमात्मा तादृश-निन्द्य-शब्द-वाच्यो\ऽपि भवितुम् अर्हति । तत्र च हेतुः—हरये इति । हरि-शब्दो\ऽत्र कारुण्यादि-महा-गुणैः सर्व-मनोहरता-परः न ह्य् एवं-भूतो जिघांस्यो भवितुम् अर्हति तत्-तद्-अनर्हत्वे\ऽपि सा सा च कथञ्चित् जाता चेत् तर्हि परमात्मत्वाद् धरित्वाच् च सर्वाहित-कारित्वेनासौ परित्याजय-देवायोग्यांशं तस्याम् इवामुषु पुनश् च तस्या भक्त्याभास-वेषं द्वेषं स्तन-दान-मात्रत्वेन भक्तिं मत्वा तद्-उपलक्षितां धात्री-गतिं ददाव् एव अमुषु तु दुःसह-प्रेष्ठ-विरहेत्य् आदि पद्योक्त-महा-भक्ति-विशेषेणान्तः-सङ्गमम् अनुभवंस् तद्-उचित-निज-प्रेयसीं गतिं कथं न दद्याद् इति सङ्गतिश् चेयं पूर्वोक्ते गोलोकाख्ये गोकुल-प्रकाश-विशेषे एव ज्ञेया । अत एवोद्धव-द्वारा श्री-भगवता सन्दिष्टम्—

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भा।पु। १०.४७.३७]

रासश् चायं तद्-दिन-गत एव ज्ञेयः तस्येव विवक्षितत्वात् तस्मिन्न् अपि प्रकाशे गोप-लीलत्वेन दिनान्तरे\ऽपि तत्-सम्भवात् किं त्व् अत्र, नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३८] इति वक्ष्यमाणानुसारेण तत्-पत्य्-आदिषु दुःखाद्य्-अनुपत्तये तन्-माययैव त्यक्तानां देहानाम् अन्तर्धापनं तत्-सदृशी-नाम-न्यासां स्फोरणं च गम्यते । एवं तावत्-कालम् एव तद् रहस्यं लब्ध-रासाः श्री-भगवत्-प्रेयस्यो\ऽपि नाजानन् यावद्-उद्धव-द्वारा यथार्थानुभावक-प्रभावं या मयेत्य् आदि सन्देशं नाशृण्वन्न् इति च ।

अथवा, तासां मुरली-वाद्यानुसरणेन तद्-अन्तिक-गतौ किम् आश्चर्यं, यतः काश्चिन् निरुद्ध्यमाना अप्य् अन्तर्-गृह एव तं प्राप्ता, इत्य् आह—अन्तर् इति । तादृश-तीव्र-तापेन धुतं श्री-कृष्ण-कृपया खण्डितम् अशुभं विरह-रूपं यासां ताः तेन जगताम् अपि धुतम् अशुभं याभिस् ता इति वा, मद्-भक्ति-युक्तो भुवनं पुनाति5[भा।पु। ११.४०.२४] इतिवत् । तथा तादृश-निर्वृत्याक्षीणं क्षीणता-विरुद्धं पुष्टं मङ्गलं निज-तादृश-तत्-संयोग-रूपं यासां ताः । तथा पुष्टं जगताम् अपि मङ्गलं याभ्यस् ता इति वा पूर्ववत् गुण-मयं विरह-भाव-मयं देहम् आवेशम् इत्य् अर्थः । तथा तृतीये सृष्टि-प्रसङ्गे ब्रह्मणो दर्शितम् । अन्यत् समानम् । सङ्गतिस् तस्मिन्न् अन्तर्-गृहे एव तस्य प्राकट्यात् अन्तर्-गृह-गता इत्य् अन्वयात् । अत एव सद्यः प्रक्षीणं बन्धनं सर्व-तत्-सङ्ग-विरोधो यासां ताः । एवम् अलब्ध-रासाः । इति तस्याम् एव रात्रौ ज्ञेयं पूर्व-हेतोर् एव ॥११॥

जीव-गोस्वामी (कृष्ण-सन्दर्भः १४५) : अशुभं श्री-कृष्ण-प्राप्ताव् अन्तराय-रूपं गुरु-भयादिकम् । मङ्गलं श्री-कृष्ण-प्राप्तौ साधनं सख्यादि-साहाय्य-चिन्तनम् । न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते [प।पु। ६.२२९.५८] इति ह्य् उक्तम् एव । दृश्यते चान्यत्रापि तद्-असम्भव-स्थले तच्-छब्द-प्रयोगः—वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः [भा।पु। १०.८९.११] इत्य्-आदौ । तत्र यथा श्री-भगवद्-वाक्य-याथार्थ्यायार्थान्तरम् अनुसन्धेयं, तद्वद् इहापीति ॥१०॥

परमात्मानम् इति ब्रह्म-स्तवान्त-निर्दिष्ट-सिद्धान्त-रीत्या श्री-कृष्णस्य स्वभावत एव परम-प्रेमास्पदत्वं दर्शितम् । जार इति या बुद्धिस् तयापि तन्-मात्रेणापि सङ्गताः, न तु साक्षाद् एव जार-रूपेण प्राप्तिर् इति । तद्-भाव-पुरस्कारेण भजनस्य प्राबल्यं व्यञ्जितम् । जार-शब्देन निर्देशात् लोक-धर्म-मर्यादातिक्रमं दर्शयित्वा तथाविध-भावस्यातिनिरर्गलत्वं दर्शितम् । बन्धनं श्री-कृष्ण-प्राप्ति-विरोधि-गुरु-जन-मध्य-वासादि-रूपम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दुःसहेन प्रेष्ठस्य श्री-कृष्णस्य विरहेण तीव्र-तापस् तेन धूतान्य् अशुभानि यासां तेनाशुभ-कर्म-क्षयः । ध्याने प्राप्तो योऽच्युतस्याश्लेषस् तत्-कृतया निर्वृत्या क्षीणानि मङ्गलानि शुभ-कर्माणि यासां तास् तथा । अनेन शुभ-कर्म-क्षयः । यावद् दुःख-क्षय एकेन कृष्ण-विरह-दुःखेन जात इति तद्-विरहस्य दुःखत्वाधिक्यम् । एवं यावत् सुख-क्षय एकेन कृष्णस्य ध्यानानन्देन जात इति तद्-ध्यानानन्दस्य सर्व-सुखातिरिक्तत्वं व्यङ्ग्यम् ॥१०॥

तथा तदा शुभाशुभ-कर्म-क्षये तद्-आरब्ध-देह-पात उपसन्ने यद् अभूत् तदाह—तम् एवेति । जार-बुद्ध्या गुण-मयं देहं जहुः । अस्मिन् देहे सति असौ जारो भवति, तद् अयं देहस् त्याज्य इति । जार-बुद्धिस् तत्-त्यागे कारणम् । गुण-मयं जहुः । निर्गुणं देहम् अवापुर् इत्य् आक्षेपः । तास् त्व् अन्ते तद्-अङ्ग-सङ्ग-योग्यं वपुर् आसेदुर् इति दर्शयति । सद्यस् तत्-क्षणेनैव तम् एव श्री-कृष्णम् एव परमात्मानं सङ्गता अपि बभूवुर् इत्य् अर्थः । एतेन शुभाशुभ-कर्मारब्धं लौकिकम् एव शरीरम् अलौकिकं तु भक्त-शरीरं श्री-कृष्ण-लीलारब्धम् इत्य् आयातम् अत एतास् तत्-काल-सिद्धाः प्राग्-उक्त-यज्ञपत्नीवत् । अतः प्रक्षीण-बन्धना नित्य-मुक्ताः ॥११॥


**नारायण-भट्टः (श्री-रसिकाह्लादिनी) :**किञ्चिद् इदानीं तासां मनश् चेन्द्रियाणां च श्री-कृष्णाकृष्टत्वेन तन्-निरोधे पत्य्-आदीनां सामर्थ्याभावात् देह-मात्र-प्रतिबन्धे जाते किं वृत्तम् इत्य् अपेक्षायां तद्-वृत्तान्ताभिज्ञो मुनीन्द्रः प्रत्यक्षम् इव दृष्ट्वाह विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिन इत्य् उक्तम् एव । ततश् च प्राकृतानां मानुषी-भाव-प्रतीत्या गुणमयत्वेन प्रतीयमानं देहं पत्य्-आदिम् अनाविष्टम् अन्तर्धाय छाया-मयं तत्रैव स्थापयित्वा सद्य एव श्री-कृष्णं प्राप्ता इत्य्-आदि श्लोक-युग्मेन दुःसहेति । दुःसहः सोढुम् अशक्यः प्रेष्ठस्यातीव-प्रियस्य विरहो विप्रलम्भस् तेन तीव्रो यस् तापस् तेन धूतान्य् अशुभान्य् अमङ्गलानि यासां ताः । दुःसह-शब्देन प्रतिक्रिया-शून्यत्वम् उक्तम् । अन्यत्र विप्रलब्धे सख्योऽपि तैस् तैर् हित-कथनैर् आसां बन्धादिभिः प्राण-रक्षां कुर्वन्ति । अत्र तु सख्यादि-साहचर्याभावात् स्वयम् एव विरह-तापम् अनुभूतवत्यः । यद् वा, दुःसहो यः प्रेष्ठस्य विरहस् तस्मात् तीव्रोऽनिवार्यस् तापस् तेन धूतो निरस्तोऽशुभः श्री-कृष्ण-सङ्गति-प्रतिबन्ध-रूपो शुभाभावनाख्यो वा संस्काराख्यो वादेवत्व-प्रापकं कृत्वादि-जन्यं यासां ताः ।

ननु, कृत्वादि-जन्या पूर्वस्याशुभत्वं कथम् उच्यते । परिणामे स्वर्ग-सुख-जनकत्वात् न त्व् अशुभेन शुभं जन्यत इति च तत्र समाधत्ते साम्प्रतं दुःख-प्रदत्वेन प्रतीयमाणत्वात् शुभत्वं तपोवत् । यथा तपः काय-क्लेश-जनकत्वाद् अशुभम् इव प्रतीयते तेन शुभं स्वर्गादि-सुखं जन्यत एव, तथात्रापि अशुभेन कृत्वाद्य्-अपूर्वेण शुभं मङ्गल-रूपं स्वर्ग-सुखम् उत्साद्यत एव । यथा योगे तम् उभयम् अपि हेयं ब्रह्म-प्राप्ति-प्रतिबन्धकत्वात्, तथा श्री-कृष्ण-प्रियाणाम् अप्य् उभयं प्रतिबन्धकम् एवोक्तम् ।

धुताशुभाः अशुभ-जनस्य शुभस्यापि निरसनम् आह—ध्यानेति । ध्यानेन प्राप्तस्यास्याच्युतस्य क्षण-मात्रम् अपि विलास-च्युति-रहितस्य कृष्णस्याश्लेषालिङ्गन-सर्वायव-संस्पर्शेन या निवृत्तिः सुखम् । यद् वा, ध्याने प्राप्ता अच्युतश्लेष-निवृत्तिः श्री-कृष्ण-सुखं तेन क्षीणं दूरीकृतम् अमङ्गलं शुभं कृत्वादि-फलं स्वर्गादि-सुखं यासां ताः कारण-नाशे कार्य-नाशस्यावश्यं भावित्वात् । अत एव ता शुभात्मकत्वेन प्रतीतं गुणमयं देहं जहुः । शुभाशुभ-परित्यागस्य गुणमय-देहस्यागेनोपचर्यमाणत्वाद् इति ।

ननु, कृष्ण-प्रियाणां देहस्य गुणमयत्वं कथम्, अप्राकृतत्वाद् अलौकिकत्वाच् च ? सत्यं, साकं विजह्रुः कृत-पुण्य-पुञ्जा इतिवत् । उपासना-सिद्धानां पूर्व-कृत-पुण्य-पुञ्जानां देहस्य पुण्य-विशिष्टत्वात् ॥१०॥

अलौकिक्या उपासनया श्री-कृष्ण-विलास-योग्य-देहस्य प्राप्तत्वात् देवत्व-प्रापकं कूट-रूपं तद्-अपूर्वं स्थितम् एवासीत् । अत एव तद्-गुण-मयं देहं जहुर् इति गुण-त्यागे गुण-मयस्यापि त्याग उक्तः—सद्य एव सम्बन्ध-त्यागः सम्बन्धिन्य् उपचर्यते राज्य-त्यागवत्। स्फुटत्व-प्रदर्शनार्थं पृथग् उक्तो गुणमयं जहुर् इति । किं च, यद्य् एतासां कृत्वादि-जन्यं देवत्वद् देवत्वादि-प्रापकम् अपूर्वं नाभविष्यत् तदा पत्य्-आदिभिर् एताः प्रतिबद्धा नाभविष्यन्न् इति क्रियातिपत्या ज्ञायतेऽनुमीयते च । एताः कृत्वाद्य्-अपूर्व-विशिष्टाः पत्य्-आदि-निरुद्धत्वात् प्राकृत-स्त्रीवत् । अत एव कारणस्यापूर्वस्य नष्टत्वाज् जहुर् इति । प्राकृत-गुण-रहितेन विलास-प्रधानेन माधुर्य-पुञ्जात्मकेन नित्य-सिद्ध-व्रज-देवी-सदृशेन देहेन तं प्रापुर् इति ।

नन्व् अलौकिक-देह-प्राप्तौ किं कारणम् इत्य् उक्तम् ? आह—ध्यान-प्राप्ताच्युताश्लेष-निवृत्य्-आलिङ्गना क्षीणं परिपुष्टं मण्डल-प्रवेश-हेतुर् यासां ताः ।

ननु, देह-त्यागे सति चैतन्येन देहान्तरेण वा तत्-प्राप्तेः चेत् तर्हि गुणमयेत्य् उक्ते वैयर्थ्यं देहं जहुर् एतावद् एव वक्तुम् उचितम् । तत्र समाधत्ते—देवाङ्गनानां देवत्वाद् एव नित्यत्वं सिद्धेस् तु नित्येन चैतन्य-घनेन देहेन तत्-प्राप्तिर् उच्यते । न तु देवाङ्गना-सदृशेन तत्र हेतुम् आह—सद्यः प्रक्षीण-बन्धनाः । प्र-शब्देनातिशयोक्तिः स-वासनस्य बन्धनस्य देवत्वादि-संस्कारस्य क्षीणत्वान् नित्य-सिद्धानादि-सदृशेन प्रापुर् एव ताः समञ्जसः । न हि देवांश-रूपया देवानाम् इव पुनर् अपि देवत्व-प्रापकं सर्वदैव तासां कृष्ण-प्रियाणां प्रारब्धम् अस्तीति । न च चैतन्येनाशरीरिणा सर्व-लावण्य-विशिष्टस्यालिङ्गनं रस-जनकं केनाप्य् अत्यपगम्यत इति । यद् वा, दुःसहो यः प्रेष्ठस्य विरहस् तेन यस् तीव्र-तापस् तेन दुतम् अपास्तम् पत्य्-आदि-निरोध-लक्षणम् अशुभं यासां ताः, मधुर-रसस्य विप्रलम्भ-सम्भोगात्मकत्वात् । विप्रलम्भस्य दुःखवत् प्रतीयते। धुताशुभा इति वाचो युक्तिः । वस्तुतस् तु विप्रलम्भस्यापि परिणाम्तः सुख-रूपत्वोक्तेर् मानत्वात् विरह-तापन दुःख-भोगात्रुटिर् द्रष्टव्या बन्धन-विशिष्टं जहुर् इति । जार-बुद्धिस् तु न त्यक्ता रस-विशेष-जनकत्वात् संस्कार-जन्या प्रतीतिः । संस्कार-सिद्धयेऽनुयोगिनम् अपेक्षते न प्रतियोगिनम् इति ।

ननु, जार-बुद्धिर् निन्द्यत एव यस्यां विद्यमानायां नित्य-मण्डल-प्रवेशे सम्भावनानुत्पद्यते तत् कथम् उच्यते तम् एव सङ्गताः ? इति चेत् तत्राह—यद्य् एतासां जार-बुद्धिर् गर्हिता स्यात् तदा परम-तत्त्व-विदा महा-भागवतेनोद्धवेन चरण-रजः-प्रार्थना कथं क्रियत इति ? एताः परं तनुभृतः [भा।पु। १०.४७.५८] इति । अत्र एवाग्रे श्री-मुखेनोद्धवं प्रत्य् उक्तं—

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भा।पु। १०.४७.३७] इति ।

इदम् अत्र तत्त्वम्—याः पत्य्-आदिभिर् निवार्तितास् तास् तेभ्यश् छायामयं दत्त्वा व्यासाय छायाशुकवत् श्री-कृष्ण-ध्यानानुभावेन स्व-देहम् अन्तर्धाप्य तत्-सदृशेन लौकिकेन देहेन तं प्रापुर् इति । अत एवाग्रे वक्ष्यति—मन्यमाना स्वपार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३७] इति तासां पत्य्-आदयोऽपि न दुःखं प्रापणीया इति । एतेऽपि स्व-स्व-रसे आकुलवन्तः पाल्याश् चेति । अस्यानुसन्धानस्य योग-माययैव कृत्वात् । यद् वा, तम् एव देहं ध्रुववद् अलौकिकं विधाय तत्-सदृशं तत्रैव स्थापयित्वा तं प्रापुस् तद्-अभिप्रायेणोक्तं गुणमयं जहुः पत्य्-आदिभ्यः समर्पितवत्य इत्य् अर्थः ।

ननु, कपाटादिभिः संवृत्ते अन्तर्-गृहे रुद्धस्य देहस्यालौकिकत्वे जातेऽपि श्री-कृष्णान्तिके कथं गमनं सम्भवेत् ? तत्र समाधानं—यथार्जुनेन शर-पञ्जरावृते ब्राह्मण-पुत्रस्य दर्शनम् उक्तं महा-काल-पुर-गमनं चोक्तं, न चायं योग-मायाया अतिभारः, तस्या अचिन्त्य-शक्तित्वात् । यद् वा, तद्-भावना-युक्तास् तं ध्यातवत्यस् तद्-विषयक-रमण-भावना-युक्ताः, तद्-रमण-योग्यं देहं जगृहुः । पत्य्-आदिषु रमण-भावना-युक्तं जहुर् इति । अत्र तु भावना-त्यागस्य शरीर-त्यागेन विवक्ष्यमाणत्वात् शरीर-त्यागस् तु सर्वथा न विवक्षित इति शरीरान्तर्धाप्य विवक्षितत्वात् च छाया-मयस्य तत्रैव स्थापितत्वात् यथा ब्रह्मणो भावना-त्याग एव शरीरत्यागत्वेनोक्त इति । अत एव गुण-मय-देह-त्याग-पूर्वक-परमात्म-प्राप्तेर् एव सर्व-जन-प्रतीत्या मुक्ति-पदत्वेनाभिधास्य मानत्वम् इति न किञ्चिद् असमञ्जसम् ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र गोपीनां प्राप्यम् अतिरहस्यं वस्तु बहिरङ्ग-लोकेभ्यो गोपयंस् तान् प्रति बाह्यार्थम् अन्तरङ्गान् भक्ति-सिद्धान्त-विज्ञान् प्रति तु स्वाभीप्सितम् आभ्यन्तरम् एवार्थं ज्ञापयंस् तन्त्रेणाह—दुःसहेति । तत्र बहिर्मुखान् प्रति ताभ्यः कृष्णो मोक्षं ददाव् इत्य् आह—दुःसहो यः प्रेष्ठ-विरहस् तेन तीव्र-तापस् तेन धूतानि गतानि अशुभानि यासां ताः । ध्यानेन प्राप्तस्याच्युतस्याश्लेषेण या निर्वृतिर् आनन्दस् तया क्षीणं मङ्गलं पुण्यं यासां ताः । अतः प्रक्षीण-प्रारब्ध-बन्धनाःजार-बुद्ध्यापि तम् एव परमात्मानं प्राप्ता देहं जहुर्

अन्तर्मुखान् प्रति तु तदानीं स्व-प्रेष्ठ-विरह-संयोगोत्थानि दुःख-सुखान्य् अपरिमितानि प्राप्य लब्ध-मनोरथा एव ताः क्रमेण बभूवुर् इत्य् आह—दुःसहेन प्रेष्ठ-विरहेण यस् तीव्र-तापस् तेन धूतानि कम्पितीकृतान्य् अशुभानि याभिस् ताः यासां प्रेष्ठ-विरह-तापस्य तीव्रतां वीक्ष्य कोटी-ब्रह्माण्ड-स्थवाडवानल-महा-काल-कुटादि-रूपाणि परः-सहस्राण्य् अपि अशुभानि स्व-तीव्रताहङ्कारं परित्यज्य स्व-पराजय-बुद्ध्या चकम्पिरे इत्य् अर्थः । ध्यानेन प्राप्तः स्फूर्त्या आगतो योऽच्युतस् तेन तदैवाद्भुतस्य तस्य प्रेम-पूर्ण-चिन्मयस्य तादृश-स्वभावाभिमानादिमतो देहस्य य आश्लेषस् तेनाश्लेषेण या निर्वृतिस् तया क्षीणानि कृशीभूतानि मङ्गलानि प्राकृताप्राकृतानि यासां ताः, यासां स्फूर्ति-प्राप्त-प्रेष्ठाश्लेषोत्थ-सुखं वीक्ष्य कोटी-ब्रह्माण्ड-गत-विषय-सुख-निर्विषय-ब्रह्मानुभव-सुख-सहस्राणि मङ्गल-शब्द-वाच्यानि क्षीणानि यद्-अपेक्षया निकृष्टान्य् एव बभुवुर् इत्य् अर्थः । भगवद्-विरह-संयोगोत्थ-दुःख-सुखाभ्यां प्रारब्ध-पाप-पुण्यानि नष्टानि तेषां स्व-फल-भोगैक-नाश्यताद् इति व्याख्या तु वैष्णवानां मते न युज्यते ।

भगवद्-विरह-संयोगयोः पाप-पुण्य-फलत्वाभावात् तादृशानां प्रारब्ध-नाशस् तु भजन-दशायाम् एवानर्थ-निवृत्ति-भूमिकारूढानाम् इत्य् आहुः । ततश् च तम् एव परमात्मानं परम-प्रेमास्पदं जार-बुद्ध्या अतिनिकृष्टयापि सङ्गताः । अत्युत्कृष्ट-पति-बुद्धिमतीभ्यो रुक्मिण्यादिभ्यः सकाशाद् अपि सम्यक्-प्रकारेण प्राप्ताः । पति-बुद्धेः सकाशाद् अपि जार-बुद्धौ—या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा [भा।पु। १०.४७.६१] इत्य् आद्य्-उद्धव-वाक्य-निर्धारितात् निरङ्कुश-प्रेमोत्कर्षात् तथास्मिन्न् अवतारे निकृष्ट-वस्तून्य् उत्कृष्टीकुर्वत्य् एव लीला दृश्यते । यथा महा-राज-राजेश्वरत्व-लीलातः सकाशाद् अपि—विजय-रथ-कुटुम्ब आत्ततोत्रे धृत-हय-रश्मिनि तत् श्रियेक्षणीये [भा।पु। १.९.३९] इति भीष्मोक्तेः पार्थसारथित्व-लीलाया उत्कर्षः । तथा उत्कृष्टात् शान्त-रसाद् अपि निकृष्टस्य शृङ्गार-रसस्य तत्रापि दाम्पत्य-भावाद् अपि औपपत्य-भावस्य, तथा उत्कृष्टाद् रत्नालङ्काराद् अपि निकृष्टस्य गुञ्जा-गैरिक-शिखि-पुच्छादेर् उत्कर्षो दृष्ट एवेति । सङ्गताः काश्चिद् योगमायाकृतानुकूल्यान् निरोधम् उक्त्वा अभिसृत्य तस्याम् एव रात्रौ रास-विहारिणं तं प्राप्ताः काश्चिद् अन्यस्याम् अपि।

ननु, पुरुषान्तरो प्रभुक्त-देहाभिस् ताभिः सह भगवद्-विलासो न युज्यत इति । तत्राह—जहुर् इति । देहम् इति जात्य्-अपेक्षया एकत्वम् । तस्य देहस्य योगमाययैवालक्षितम् अन्तर्धापनम् इत्य् एके, अन्ये त्व् एवम् आहुः—अत्र हेयो देहो गुणमय एव भवत्य् अतो गुणमयम् इति विशेषणस्याधिक्यात् तासां देहा वेणु-वादनात् पूर्वं द्विधाभूता गुणमयाश् चिन्मयाश् चासन्न् इति बुध्यते तत्र ये गुणमयाः स्वपत्य्-उपभुक्ता देहास् तान् एव जहुः । अयम् अत्र विवेको गुरूपदिष्ट-भक्त्यारम्भ-दशात एव भक्तानां श्रवण-कीर्तन-स्मरण-दण्डवत्-प्रणति-परिचर्यादि-मय्यां शुद्ध-भक्तौ श्रोत्रादिषु प्रविष्टायां सत्यां—निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इति भगवद्-उक्तेर् भक्तः स्व-श्रोत्रादिभिर् भगवद्-गुणादिकं विषयीकुर्वन् निर्गुणो भवति । व्यवहारिक-शब्दादिकम् अपि विषयीकुर्वन् गुणमयोऽपि भवतीति भक्त-देहस्यांशेन निर्गुणत्वं गुण-मयत्वं च स्यात् । ततश् च—भक्तिः परेशानुभवो विरक्तिः [भा।पु। ११.२.४२] इति तुष्टिः पुष्टिः क्षुद्-अपायोऽनु-घासम् इति न्यायेन भक्ति-वृद्धि-तारतम्येन निर्गुण-देहांशानाम् आधिक्य-तारतम्यं स्यात् । तेन च गुणमय-देहांशानां क्षीणत्व-तारतम्यं स्यात्, सम्पूर्ण-प्रेमण्य् उत्पन्ने तु गुणमय-देहांशेषु नष्टेषु सम्यक् निर्गुण एव देहः स्यात् तद् अपि स्थूल-देह-पातस् तु बहिर्मुखतोत्खाता भावार्थं भक्ति-योगस्य रहस्यत्व-रक्षार्थं च भगवतैव मायया प्रदर्श्यते, यथा मौसल-लीलायां यादवानां क्वचित् तु, भक्ति-योगोत्कर्ष-ज्ञापनार्थं न दर्श्यते च, यथा ध्रुवादीनाम् । अत्र प्रमाणम् एकादशे पञ्चविंशतितमाध्याये श्रद्धादयोनिर् गुणा गुणमयाश् चेति प्रदर्शयता—

येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः ।

भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ [भा।पु। ११.२५.३२]

इत्य् अनेन भक्त्यैव गुणमय-वस्तूनां निर्जयो नाश एवोक्तो भगवता अतएव धुतानि विधुतानि तानि रन्धितानि अशुभानि गुणमय-शरीराणि यासां ता इति आश्लेष-निर्वृत्या अजीर्णानि विवर्धितानि मङ्गलानि चिन्मय-शरीराणि यासां ता इत्य् अप्य् अर्थश् चिकीर्षितो भवति । अतः प्रक्षीण-बन्धना अविद्या-बन्धात् पत्य्-आदि-वारणाच् च योगमायानुकूल्यं प्राप्य विच्युता इत्य् अर्थः । मरण-वशाद् देह-पात एव तासाम् इति तु न व्याख्येयम्—

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भा।पु। १०.४७.३७] इति ।

भगवद्-वाक्ये कल्याण इति पदोपादानात् पतिकृत-वारणान् मद्-विरह-सन्तापाच् च स्व-देहांस् तद्-आजिहासूनाम् अपि तासां परम-मङ्गल-रासोत्सवारम्भे मरणस्यामङ्गलस्य मद्-अनभिमतत्वात् ताः कल्याणवत्य एवाभवन्न् इति भगवद्-अभिप्रायात् तथा—ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः [भा।पु। १०.४०.३८] इति शुक-वाक्याच् च ता ऊचुर् याः पूर्वम् अलब्ध-रासाः । अन्तर्-गृह-निरुद्धा आसन्न् इति तेन मरणं विनैव ता गुण-मयान् देहान् जहुर् इति । विरह-तीव्र-ताप-रन्धितस् तासां गुण-मय-देहा गुणमयत्वं परित्यज्य चिन्मयत्वं ध्रुवादीनाम् इव प्रापुर् एष एव देह-त्याग इत्य् अर्थोऽवगम्यते । तथात्र अलब्ध-विनिर्गमा इति तत्र व्रज आस्थिता इति तथा अत्र ध्यान-प्राप्ताच्युताश्लेषेति । तत्र मापुर् मद्-वीर्य-चिन्तया इति तुल्यार्थतैव । किन्त्व् अत्र सङ्गता इति तत्रालब्ध-रासा इत्य् अर्थ-भेद-दर्शनाद् एवान्तर्-गृह-निरुद्ध-गोपीनां द्वैविध्यं व्याख्यातम् । यथा, सप्ताष्टानां फलानां सम्यक् पाकेऽवगते सत्याम्र-वृक्षोऽयं पक्व-फल इति ज्ञात्वा सर्वाण्य् एव फलानि वृक्षाद् अवैच्त्य गृहम् आनियन्ते । आनीय च यानि यानि समुचित-कालेन सौर-किरणादिना च सौरूप्य-सौरभ्य-सौरस्य-सौकुमार्यवन्ति राज्ञो भोगार्हाणि रोचकानि जातानि तानि फलानि विचक्षण-परिजनेन परिष्कृत्य समये राज्ञो भोगाय परिकल्प्यन्ते, यानि तु अन्तः-पक्वानि बहिर्-अपक्वानि सौरूप्यादि-गुण-रहितत्वाद् अरसनीयानि राज्ञोऽनर्हाणि ज्ञायन्ते, तान्य् उष्म-विशेष-योगेन परिपक्वीकृत्यैव द्वितीय-तृतीय-दिनादिषु राज्ञे समर्प्यन्ते, तथैव गोकुले जनितानां मुनि-चरीणां गोपीनां मध्ये याः प्राकृत-गुण-मय-शरीरतां परित्यज्य प्रथमम् एव शुद्ध-चिन्मयी-भूत-शरीरा अजनिषत, ताः पुरुषान्तरास्पृष्टाः श्री-योगमायया नित्य-सिद्धादि-गोपीभिः सहैवाभिसारिताः, यस् तु बहिर्-गुणमय-शरीरवत् यस् ता अपि श्री-कृष्ण-विरहौष्ण्य् अप्रापणया गुणमय-शरीर-भाव-त्याजनयैव विनष्ट-पुरुषान्तर-स्पर्श-दोषाश् चिन्मयी-भूत-शरीराः काश्चित् तस्यां रात्राव् एव सर्वासां पश्चाद् अभिसारिताः, काश्चिद् ईषन्-मात्र-स्थित-कषायाः प्रेक्ष्य विरहौष्ण्येनैव तन् निवर्तनार्थं रात्र्य्-अन्तरेष्व् एवाभिषरिताः ।

ततश् च ताः प्राप्त-रासादि-विलासा रात्र्य्-अन्ते नित्य-सिद्धादि-गोपीभिः सह पति-गृहम् आगतास् तद् आरभ्य पति-सङ्गतो योगमायैव रक्षमाणाः पत्य्-अपत्यादिषु ममता-शून्याः कृष्ण-प्रेमातिभर-परिप्लुताः शुष्क-पयः-स्तन्यः स्वापत्यान्य् अपुष्णत्यो ग्रह-ग्रस्तत्वेनैव तद्-बन्धुभिः प्रतीयन्ते स्मेति सर्वम् अनवद्यम् । अन्ये तु अन्तर्-गृह-निरुद्धा अपि नापत्यवत्यः अग्रिम-ग्रन्थेषु अपत्यादि-शब्दैः सपत्नी-पुत्रः पोष्य-पुत्रो भ्रातृ-पुत्रो वा लक्षणीय इत्य् आहुः ॥१०-११॥


॥ १०.२९.१२ ॥

राजोवाच—

कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।

गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यथा पति-पुत्रादीनां वस्तुतो ब्रह्मत्वेऽपि न तद्-भजनान् मोक्षः, तथा बुद्ध्य्-अभावाद् एवं कृष्णेऽपि ब्रह्म-बुद्ध्य्-अभावेन तत्-सङ्गतिः कथं मोक्ष-हेतुः ? इति शङ्कते—कृष्णं विदुर् इति । परं केवलं कान्तं कमनीयम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथावद् ब्रह्म-ज्ञानस्य मोक्ष-हेतुत्वात् तासां तद्-अभाव-दर्शनात् कथं मोक्ष इत्य् अजानन् इवाशङ्कते—नन्व् इति । तद्-भजनात् पति-पुत्र-सेवनात् । तथा बुद्ध्य्-अभावात् ब्रह्म-बुद्ध्य्-अभावात् । तस्य कृष्णस्य सङ्गतिः । मुने तत्-तल्-लीला-मनन-शील । परं कान्तं जारं पतिम् । गुणेषु विषयेषु धीः बुद्धिर् यासां ताः । गुण-प्रवाहस्य संसार-प्रवाहस्य उपरमो निवृत्तिः । निवृत्ति-मार्ग-लभ्या प्रवृत्ति-मार्गेण कथं संसार-निवृत्तिः, उत्तिष्ठत जाग्रतैति श्रुतेः । यद् वा, गुणेषु भगवत्-सौन्दर्यादिषु धीर् यासां भक्तानाम् इति यावत् । गुणस्य भगवत्-सेवा-रूपस्य प्रवाहो यस्मिन् स देहस् तस्योपरमः कथं जातः ? त्वयि भक्तस् तु कीटो\ऽपि भूयासम् इत्य्-आदि वाक्यैर् भक्तौ तातर्यम् । भक्ति-वृद्ध्य्-अर्थं न मोक्ष इति भावः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णं विदुः परं कान्तम् इति । कृष्णं परं कान्तम् एव विदुर् न तु ब्रह्मतया । अतस् तासां गुण-प्रवाहोपरमो गुण-धियां संसारिणां कथम् ? ॥१२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-युक्तः परीक्षिद् इत्य् अन्येषां परीक्षणार्थम् इवोवाच, न चाज्ञानेन संशयाद् इति भावः । परं केवलं कान्तं गतिं सुन्दरं वा । यद् वा, परं कान्तं रमणं जारम् इत्य् अर्थः । अत एव गुणेषु तस्य सौन्दर्य-माधुर्य-कारुण्यादिष्व् एव, न तु तत्त्वे धीर् बुद्धिर् यासां तासां गुण-प्रवाहः संसारस् तस्योपरमो निवृत्तिः कथं भवति ? सर्व-पुरुषार्थ-चूडामणिर् मोक्षः कथं घटते ? तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८] इत्य्-आदि श्रुति-प्रामाण्येन भगवत्-तत्त्व-ज्ञानेनैव संसार-निवृत्ति-सिद्धेः । मोक्षस्य सर्वतः श्रेष्ठता-मननेन दौर्लभ्यम् अभिप्रेत्य । किं वा, मोक्षस्य साधनं शास्त्रे यद् उक्तं, तद्-भावम् अवेक्ष्यायं प्रश्नः ।

यद् वा, परं कान्तं कन्दर्प-कोटि-मनोहरम् आत्म-कोटि-प्रेष्ठं वा । अत एव गुणेषु तस्य सौन्दर्य-माधुर्य-वैदग्ध्यानुरागादिष्व् एव, न तु स्व-स्वरूपत्वे धीर् यासां तासां तृणीकृत-मोक्षैः सद्-भक्तैर् अपि सेव्य-पादानां श्री-कृष्ण-प्रेयसीनाम् अतिफल्गुतमो मोक्षः कथं सम्भवेत् ? इति मोक्षस्यातितुच्छता-मननाद् अयं प्रश्नः ।

मुने ! हे सर्वज्ञ ! इति तद्-वृत्तं त्वया ज्ञायत एव, अतस् तत् परिहारस् त्वयैव कर्तुं शक्यते इति भावः । किन्तु वस्तुतस् तु नाथ योनि-सहस्रेषु इति, त्वयि भक्तस् तु कीटो\ऽपि भूयासं जन्म-जन्मसु इत्य्-आदि वचनैर् भक्तानां भक्ताव् एव तात्पर्येणभक्ति-वृद्ध्य्-अर्थं जन्मादि-प्रार्थनात् जन्मादि-लक्षण-संसारोपरमो\ऽनुचितः । अतो निर्वेदादिना भक्ति-पुष्टि-हेतु-गुण-मय-देह-त्यागेन गुणातीत-देह-ग्रहणम् अप्य् अयुक्तम् एवेति सद्-गुण-मयता-पक्षे गुण-धियां गुण-ज्ञानाम् इत्य् अर्थः । गुणानां श्री-भगवत्-सन्तोषण-रूप-लावण्यादीनां प्रवाहो यस्मिन् देहे तस्योपरमः कथं स्यात् ? श्री-भगवत्-सेवायां देहस्यायोग्यत्व-मननात् । असमोर्ध्वं दुःख-भराद् वा तासां तादृश-देह-त्यागायोगात् ।

यद् वा, गुणेषु श्री-कृष्णस्य लावण्य-सौरभ्यादिषु रास-क्रीडादिषु वा धीर् यासां तासाम् अपि गुणो\ऽन्य-गोपीवच् छ्री-वृन्दावने व्रजान्तः-साक्षान्-निवासादि-लक्षणः रास-क्रीडादि-लक्षणो वा सौभाग्य-विशेषस् तस्य प्रवाहः । आवृत्त्या नित्य-नूतनतया वा परम्परा तस्योपरमः कथं स्यात् । सर्व-सद्-गुणमय-देह-त्यागेन तद्-असिद्धेः ? किं च, विचाराद्य्-अपगमात् ताभिस् त्यज्यमानस्यापि तादृश-देहस्य तादृश-निज-स्वभावेन कथं पातः स्यात् ? इत्य् अर्थः॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परि सर्वतो भावेन ईक्षते सर्वेषां भावं जानातीति परीक्षिद् इत्य् अस्यायं भावः । यद्यपि स्वयं तत्-तन्-माहात्म्यं जानास्य् एव तथाप्य् अन्तर्-मुख-सन्दिहानानां सन्देह-निरासार्थम् अर्थ-विशेषेण सन्देह-विशेषः प्रपञ्चितः बहिर्मुख-सन्दिहानानां च सन्देहान्तर-निरसनाय ब्रह्म-ज्ञान-वाद-मय इव सन्देहः प्रपञ्चितः—राजोवाचेति क्वचित् पाठः । अत्रापि सर्व-भाव-वैचक्षण्य एव राज-शब्दस्य तात्पर्यात् तथैवार्थः श्री-मुनीन्द्रेणापि तथैव प्रतिवक्ष्यत इति तत्र बहिर्मुख-रीतिको\ऽर्थः प्रसिद्ध एव अन्तर्मुख-रीत्या त्व् अयम् अर्थः

ननु, गुण-मयं देहं जहुर् इत्य् उक्तम् । तत्र गुण-शब्देन यदि सत्त्वादि-त्रयम् उच्यते, मयट्-प्रययेन विकारः, ततश् चहेयस्य देहस्य स्वतस् तन्-मयत्व-प्राप्तेः । किं तन् निर्देशेन तस्मात् पूर्वेण मानस-साद्गुण्य-परम्परा उत्तरेण तु प्राचुर्यं वाच्यं तत्रेदं पृच्छामः कृष्णं विदुर् इति यदि च प्राप्त-रासानाम् अन्यासां निस्त्रैगुण्य-देहता-सूचनार्थम् आसाम् एव वा प्राप्तव्य-देहस्य तत्-सूचनार्थम् अत्र गुणमयम् इति विशिष्यते, तद् अपि तादृशस्य देहस्योपलक्षणत्वेन मानस-गुण-प्रवाहस्यापि तादृशत्वेन लब्धिः स्यात्, तत्रापि पृच्छाम इत्य् आह—कृष्णं विदुर् इति ।

अर्थश् चायं—तं कृष्णं परं केवलं कान्तं सर्वाश्चर्य-गुण-मनोहरतया परम-प्रेष्ठं विदुः, न तु ब्रह्मतया निर्गुण-तद्-आविर्भाव-विशेषतया तर्हि तासां गुण-धियां ब्रह्म-निष्ठाया अपि त्याजकतया प्रसिद्धेषु तदीय-तादृश-गुणेषु धीर् अन्तः-करणं, यासां तथाभूतानां तद्-एक-निष्ठत्वेन तद्-गुणैकानुबन्ध-तत्-प्रेम-वृत्ति-गुणत्वाद् अप्राकृत-गुणानाम् इत्य् अर्थः । ततो देहस्य तु तासाम् असिद्धत्वाद् भवतु नामोपरमः कथम् अविच्छिदुर् अतादृश-गुण-परम्पराया उपरमः स्याद् इत्य् अर्थः । ब्रह्मोपासकेष्व् इव न तत्-स्वरूप-मात्राविर्भावः, किन्तु गुणैर् अपि सह तद्-आविर्भावः । ततो ब्रह्मोपासकेषु ये गुणास् ते प्राकृत-सत्त्व-मया एवेति तेषाम् एव गुण-प्रवाहोपरमः सम्भवति नाविर्भूत-भगवद्-गुणानां तद्-विधानाम् इति वाक्यार्थः । श्लेषेण चेदं पृच्छति कृष्णं परं केवलं कान्तं विदुः, न तु भाव-मय-गुण-प्रवाहोपरमः गुण-धियां सुन्दरो\ऽयं विदग्धो\ऽयम् इति मात्र-बुद्धीनाम् । मुने हे सर्वज्ञ ! ॥१२॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १४५) : अत्र गुण-मयं देहं जहुर् इत्य् अत्र राज्ञः सन्देहः, कृष्णं विदुर्[भा।पु। १०.२९.१२] इति । हे मुने, ताः श्री-कृष्णं परं केवलं कान्तं निगूढ-वल्लभं विदुः,न तु ब्रह्मेति । तर्हि कथंतासांगुण-प्रवाहस्योपरमः सम्भवति ? यस्य ब्रह्म-भावना स्यात्, तत्र तस्य निर्गुणस्यैवोदयाद् भवेत् प्राचीन-मायिक-गुण-प्रवाहोपरमः । तासु तु कान्ततयैव भावयन्तीषु प्राकृत-गुणातीत-गुणस्यैव तस्योदयात् प्राकृत-गुणाभावेऽपि तद्-गुणानुबन्ध-गुणत्वात् परम-पुरुषार्थानुगतानां तेषां गुणानां कथम् उपरम इत्य् अर्थः ।

यद् वा, तासांगुण-प्रवाहः कथम् उपरमः पारमर्थिको न भवति, येन ततो मुक्तिं कथयसीति भावः । ब्रह्मतया वेदना-वैलक्षण्यं प्रतिपादयति—गुण-धियां ब्रह्म-निष्ठाया अपि त्याजके तस्य परम-सौन्दर्यादि-गुणे धीश् चेतो यासाम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथात्र परीक्षित् स-विस्मयं पृच्छति—कृष्णं विदुर् इत्य्-आदि । हे मुने ! ताः कृष्णं परं कान्तं प्रियतमत्वेन विदुः, न तु ब्रह्मतयेश्वरत्वेन । तत् कथं तासां गुण-प्रवाहोपरमः ? यतो गुण-धियाम् अयं मे कान्त इति गुणे धीर् यासाम् ॥१२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु गुण-मयं देहं जहुर् इत्य्-उक्तेः । यास् तु रुद्धास् ताः ध्यानेन मुक्ता जाता इति सर्वेषां प्रतीतिर् जातास् तत्र ज्ञानाद् एव हि कैवल्यम् इति श्रुतेः । तच् च ज्ञानं कैवल्य-विषयं, न तु गुण-विषयं गुण-विषयत्वे\ऽपि । एतासां जार-विषयं तत्-सद्-भावे सुतरां मुक्ति-सम्भावनापि कुत इति । सर्वेषाम् अपि वैष्णवानां मुक्तेर् हेयत्वम् उक्तं, किम् उत कृष्ण-प्रियाणाम् इति स्व-मनसि संशय-रहितो तासां नित्य-मण्डल-प्रवेशं जानन्न् अपि सर्वेषां मुखाप्रसन्नतया सन्दिहान-चित्त-वृत्ती परीक्षित् पप्रच्छ । प्रश्नं कुतः श्री-कृष्ण-परीक्षणात् सर्वेषां हृद्-वृत्ति-परीक्षणात् रस-परीक्षणाच् च हेतु-त्रयेण परीक्षित् न चाज्ञानेन वा प्रश्नः, किन्तु सर्वेषाम् अनुरोधेनोवाच । परं केवलं कृष्णं कान्तम् ऐश्वर्याद्य्-अमिश्रम् । यद् वा, कान्तं रमणीयं जारम् इत्य् अर्थः । विदुर् ज्ञानवत्य एवं श्रूयते ज्ञानिनां म्क्तिः सम्भवतीति । तत्र च श्री-कृष्णस् तथा ज्ञानतो मुक्तिर् भवति, न तु तद् अस्तीत्य् आह न तु ब्रह्मत्व-ज्ञानवतो वा तत् साधनं परस्य वा मोक्षः सम्भाव्यते । न चतद् अस्तीत्य् आह—गुण-धियां गुणे श्री-कृष्ण-लावण्यादौ धीर् यासाम् । यद् वा, गुणे रहसि श्री-कृष्णेन सह रमणे धीर् यासाम् । यद् वा, गुणे रासोपयोगि-नृत्य-गानादौ धीर् यासां तासां गुण-प्रवाहोपरमः गुणो रास-विलासादिस् तस्योपरमो निर्वृत्तिः कथम् इति प्रश्नः देह-त्यागे स्वत एव तत्-सम्भवात् गुण-प्रवाहः रास-विलासादि-प्रवाहः उपरमः कथम् एतास् तु नित्य-सिद्धाभ्यो\ऽपि कृष्णानन्दास्वाद-विशेषेण स्वादितवत्यः । नित्य-सिद्धानाम् एतादृश-विरह-दुःखाभावात् विप्रलम्भेन रागौत्कण्ठ्यं भवति । उज्ज्वलस्य सम्भोग-विप्रलम्भात्मकत्वात् तद्-उपेक्षया नित्य-सिद्धानां न्यूनत्वम् एतासाम् उत्तमत्वं देह-त्यागेन रास-विलासाप्राप्तेः गुण-प्रवाहो न्यूनत्वं कथम् उक्तं च—

न विना विप्रलम्भेण शृङ्गारं पुष्टिम् अश्नुते ।

काषायिते हि वस्त्रादौ भूयान् रागो\ऽभिजायते ॥ इति ।

यदा गुणमयं देहं जहुस् तदा तम् एव परमात्मानं सङ्गता इत्य् अनेन सायुज्य-लक्षणं मोक्षं प्राप्ता इति सर्वेषां प्रतीतिर् जाता तद्-असम्भावने राज-प्रश्नः रास-विलास-भावना-विशिष्टानां रास-विलास-प्राप्तिर् एवोचिता सायुज्य-ब्रह्म-भावना-युक्तानां सायुज्यम् उचितं न तु रास-विलास-प्राप्तिः । "अन्ते या मतिः सा गतिः" प्रसिद्धेः ।

यद् वा, गुणे गौणे उपपतित्वात् तस्मिन् गुण-प्रवाह-हेतौ धीर् यासां तासां गुण-प्रवाहस्य संसारस्योपरमो नाशो मोक्ष इति यावत् । कथं घटेत एतास् तु देव्य उपासना-सिद्धाः पूर्व-जन्मनि इदानीम् अपीति तत् त्वम् असीत्य् आदि महा-वाक्यालोचन-तत्-साधनम् अन्तरेण मोक्षः कथं जातः ? एताभिस् तु विलास-भावना-कृत-देहं जहुर् इति देहम् अन्तरेण रास-विलास-प्राप्तिर् न घटेतेति । अन्यथा देवत्व-साधकेन कृत्वाघ-पूर्वेण सुरत्वं स्यात् । असुरत्व-साधकेन ब्रह्म-द्रोहेण देवत्वं स्यात् । अति प्रसङ्गात् विनिर्गम-कामात् मोक्षस्य तु दुरवगम् आत्म-तत्त्व-निगमाय [भा।पु। १०.८७.२१] इति श्रुतिभिर् हेयत्वेनोक्तत्वात् । अन्येषाम् अपि वैष्णवानां मोक्षानाम् अनभिरुचेस् तत्र तत्र श्रूयमाणत्वात् । न नाक-पृष्ठम् [भा।पु। १०.१६.३७] इत्य्-आदिना कथितत्वाच् च कृष्ण-प्रियाणाम् एतासां किम् उतेति प्रश्नः । हे मुने ! अस्य मननस्य बहुशो\ऽभ्यस्तत्वात् ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रत्यानां बहिरङ्गाणां केषाञ्चिन् मुख-दर्शनेनैव हृदय-गतं सन्देहम् आलक्ष्य राजा स्वयं शुक-वाक्यस्याभिप्रेतम् अर्थं तत्-प्रसादाज् जानन्न् अपि तेषां सन्देह-निर्वर्तनार्थम् एव सन्दिहान इवाह—कृष्णम् इति । हे मुने, सर्वज्ञ ! कृष्णं परमात्मानम् अपि परं परम-पुरुषं कान्तं स्व-रमणं विदुः । ब्रह्मतया तु न विदुः । अतो गुरु-धियां कृष्णेन सह विहरामेति गुण-विषयक-बुद्धीनां तासां गुण-प्रवाहस्योपरमः कथं तम् एव विदित्वा अतिमृत्युम् एति इति । आत्मानम् आत्मात्मतया विचक्षते इत्य्-आदि-श्रुति-स्मृति-वाक्यैः परमात्म-ज्ञानस्यैव मोक्ष-प्रापकत्वोक्तेः ॥१२॥


॥ १०.२९.१३ ॥

श्री-शुक उवाच—

उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।

द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिहरति—उक्तम् इति । अयं भावः—जीवेष्व् आवृतं ब्रह्मत्वं, कृष्णस्य तु हृषीकेशत्वाद् अनावृतम् । अतो न तत्र बुद्ध्य्-अपेक्षेति ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भक्त्या सन्तत-हरि-महिम-संस्मृति-समुदित-संविदा निवृत्ति-योग्या मुक्तिः, न तु कामादिना । तेन स्वर्गादि-प्राप्तिर् एवेति । कृष्ण-कामास् तदा गोप्यस् त्यक्त्वा देहं दिवं गताः इति विजय-ध्वजेनोक्तेर् नात्रेदं शोभनं प्रतिभाति । किन्तु, स्वामि-चरणोक्त एव परिहारः सुष्ठु इति । तद् आह—परिहरति उत्तरं वक्ति, किञ्चिद् अमर्षादिनाव्यक्त-वाक् । अहो भगवन्-माहात्म्ये सन्दिहानोऽयम् इति क्रुद्ध इवाह—उक्तम् इति।

न ह्य् अस्मद्-आदिवद् भगवतः प्राकृत-रूप इत्य् आह—अयं भाव इति । आवृतम् इन्द्रियादि-रूपेण परिणतेनाज्ञानेन ब्रह्मत्वं ब्रह्म-भाव आच्छादितं भस्मना वह्निर् इव । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५.१५] इत्य्-आद्य्-उक्तेः । हृषीकेशत्वाद् ईश्वरत्वात् सर्व-ज्ञत्वेन वशीकृत-मायत्वात् तत्-कृतावरणं नास्ति । ततस् तस्मात् तत्र श्री-कृष्णे बुद्ध्य्-अपेक्षा साक्षात्-पर-ब्रह्मैवायम् इति ज्ञानापेक्षा नति भाव इति । अनावृतोऽग्निर् यथा प्रकाश-दाहादि-कार्यं करोति, न त्व् आवृतः, एवं जीवानाम् आवृत-ब्रह्म-रूपत्वात् । तत्र तु ब्रह्मात्म-रूप-ज्ञानं द्वारि कृत्वैव मोक्षो, भगवतोऽनावृत-ब्रह्म-रूपत्वात् तादृश-ज्ञानंविनापि मोक्ष-प्रदत्वम् इति तात्पर्यम् ।

किं च, प्रेष्ठ-विरहज-क्षोभातिशयात् ताभिर् देह-ध्वंसोऽङ्गीकृत इत्य् आकूतम् । पुरस्तात् सप्तम-स्कन्धे एतत् तव प्रश्नोत्तरम् । द्विषन्न् अपि द्वेषं कुर्वन्न् अपि यथा सन्ततं वैर-धिया चेतो-निवेशेन सिद्धिं सायुज्यं गतः । अधोक्षज इन्द्रिय-ज्ञानाविषय-साक्षात्-पर-ब्रह्मैव प्रियोऽनुराग-विषयो यासां ताः । सोपाधिको निरुपाधिको वा चेतः-प्रवाहस् तत्-प्राप्ति-हेतुर् इति तत्त्वम् ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तेषां गुण-प्रवाहोपरमो न भवत्य् एवेति पूर्व-पक्ष एव सिद्धान्तः । वक्ष्यति च—

याः सम्पर्यचरन् प्रेम्ण पाद-संवाहनादिभिः ।

जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भा।पु। १०.९०.२७]

इति परम-कान्तत्वेनैव भजनं गुण-प्रवाहोपरमो गुण-प्रवाहोपशमन-कारीति अन्तर्-भूतः सिद्धान्तः कृतः सरस्वत्या । तथापि श्री-शुकः सिद्धान्तयति—उक्तं पुरस्ताद् इत्य्-आदि । साक्षेप-वचनेन पुनः पुनः कथितम् अपि भवान् नावगच्छति । चैद्यः कथं सिद्धिं गतः ? स तु द्विषन्न् अपि द्वेष्टापि, किम् उताधोक्षज-प्रियाः । अधोक्षजस्य श्री-कृष्णस्य । प्रियाः सिद्धिं स्वाभीष्ट-तनुम् ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): श्री-युक्तः शुक इति । किञ्चिद् अमर्षत्वादिना अव्यक्त-वाक्तया कथनेन शुक-तुल्यत्वात् । एवम् अग्रे च विवेचनीयम् । किन्तु राजानं स्वाभिप्राय-विदं जानन्न् अपि तद्-व्याजेन तत्-प्रश्न-हेतून् हेतुकान् काञ्चिद् उद्दिश्य क्रुध्यन्न् इव प्रत्याह—उक्तम् इति ।

तत्र प्रथम-पक्षे भक्तानां संसारोपरमेऽपि राज्ञः शङ्कया श्री-भगवन्-माहात्म्ये तावद् असम्भावनोत्पत्तेः क्रुध्यन्न् इव प्रत्याह—उक्तम् इति । हृषीकेशं सर्वेन्द्रिय-वृत्ति-प्रदत्वेन परमोपकारिणम् अपि । यद् वा हृषी तृण-विशेषः, तद्वत् सूक्ष्म-दीर्घ-विरलाः । किं वा, हृष्यो रश्मयस् तद्वद् दीप्तिमन्तो बहुलाश् च केशा यस्य तं परम-सुन्दरम् इत्य् अर्थः । तादृशम् अपि कृष्णं द्विषन्न् अपि चैद्यः शिशुपालः सिद्धिं गुणातीत-सच्चिदानन्द-विग्रह-प्राप्ति-लक्षणाम् । यद् वा, निजाभीष्ट-सिद्धिं पुनर् भगवत्-पार्षद-लक्षणां मुक्तिं गतः प्राप्तो यथावद् एतत् पुरस्तात् पूर्वे सप्तम-स्कन्धे तु तुभ्यम् उक्तम् एव ।

शकटाधः शयने शकट-पात-शकटाद् विमुक्ततयाक्षात् पुनर् जात इवेत्य् अधोक्षजः । श्री-यशोदा-नन्दनः प्रियो यासां तास् तस्य वा प्रियाः सिद्धिं यान्तीति, किम् उ वक्तव्यम् ? इत्य् अर्थः । अभिप्रायस् तैर् व्यञ्जितम् एव । अतः प्रियतम-विरह-भयेन ताभिर् भक्तान् अभीष्टोऽपि जन्मादि-ध्वंसः स्वीकृत इति सिद्धान्तः ।

द्वितीय-पक्षे, चैद्योऽपि निजाभीष्ट-सिद्धिं प्राप्तः । अधोक्षज-प्रियास् तु पुनर् विरह-भयेनाभीष्टस्य नित्य-तत्-संयोगस्य सिद्धिं प्राप्स्यन्तीति किम् उ वक्तव्यम् इति । तथा दुःसह-विरहार्ति-भयेनैव तादृश-देहस्यापि त्याग इति परिहारः । अहो जन्म-त्रयासुरत्व-प्रापक-मुनि-शापान्ते चैद्यः श्री-कृष्ण-प्रियत्वेन च गोप्यः सिद्धिं याता इति किं वक्तव्यम् । गुणातीत-सच्चिदानन्द-विग्रह-प्राप्ति-लक्षणां, न तु विदेह-कैवल्य-रूपां प्राप्तः । कृष्ण-प्रियास् तु तादृशीं सिद्धिं यान्तीति किम् उत वक्तव्यम् ? अतः प्रेम-विशेषोत्सेक-कृतान् प्रेष्ठ-विरह-ज-क्षोभातिशयाद् भीताभिस् ताभिर् जन्मनादि-ध्वंसः स्वीकृतः । यद् उक्तं गुणातीत-देह-ग्रहणं भक्तानाम् अप्य् अयुक्तम् इति तत्र स-दैन्येन भावितं भाव-विशेषं सर्वोत्तम-बुद्ध्या बृहद्भ्यो भक्त-विशेषेभ्यो गुणातीत-देहः प्रेम-विवर्त-विशेषाभावात् प्रायो न रोचते । श्री-भगवत्-प्रेयसीनां तु प्रणयेनोन्नत-मनसां तत्र नातिशनिर् इति ।

तृतीय-पक्षे, हृषीकेशं द्विषन्न् अपि चैद्यः सिद्धिं निजाभीष्टस्य पूर्तिं पुनर् भगवत्-पार्षद-लक्षणां प्राप्तः । इत्य् अत्र हृषीकेश-नाम-सामान्यस्य श्री-भगवत्-स्वरूपस्य वाचकम् । अधोक्षज-नाम तु प्रोक्त-निरुक्त्या विशेषस्य तत्-स्वरूपस्य । अतस् तस्यावतारेभ्योऽवतारिणश् च कामाप्य् अधिकां माधुरीं प्रकटयतः श्री-व्रज-राज-कुमारस्य प्रियाः परम-मधुर-प्रेम-शालिन्यः सर्वदा यथावद् अन्य-व्रज-देव्य इव व्रजावस्थानेनाभीष्टस्य व्रजे प्रेम-विलासादेः सिद्धिं प्राप्स्यन्तीति किम् उ वक्तव्यम् । एतत् तु हानम् अन्तर्धानतया लक्षयता किं वा भव-त्यागम् एव देह-त्यागतया व्यञ्जयता मया सूचितम् अपि भवद्-विधैर् नावधारितम् इति सर्वम् अनवद्यम् ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-युक्तः शुक इति । परीक्षिद्-वचनस्य बहिर्मुख-प्रतारण-बुभुत्सु-सन्देह-निरसनार्थं प्रवृत्तिम् अवगत्यापि तद्-व्याजेन बहिर्मुखान् भर्त्सयन्न् इव किञ्चित् सामर्षत्वेनाव्यक्त-वचनत्वात् तथैवाह—उक्तं पुरस्ताद् इति । सिद्धिम् अभीष्टां गतिं, पुनः पार्षदतां वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्म्यतां, नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ [भा।पु। ७.१.४६] इति सप्तमात् । ततस् तस्य द्वेषेऽपि जाते लीनतया स्थितैर् अपि पुनः स्व-गुणैर् एव सह तत्-प्राप्तिर् इति सुतराम् एवाधोक्षज-प्रीति-विषयाश्रयाणां तासां वर्धिष्णु-प्रेमतया प्रकटैस् तैर् एव सह तत्-प्राप्तिर् इत्य् अर्थः । मया तु गुण-मयं देहम् इति स्वरूप-शक्ति-वृत्ति-रूपान्तर्-बहिर्-देह-प्राप्त्या स-मूल-प्रकृति-प्राकृत-सद्-गुणैः सौन्दर्यादिभिः संवलितम् अपीत्य् एव विवक्षितं देहस्यैव विशेषणत्वाद् इत्य् अर्थः ।

प्रश्नस्य श्लेषत्वे द्वितीयार्थे त्व् अयम् उत्तरस्यार्थः । ये यथा माम् [गीता ४.११] इत्य् अत्र तान् प्रत्येवान्यान् गुणान् न प्रकाशयामि, स्वतस् तु मम सर्वेऽपि सन्त्य् एवेति विवक्षितम् । अतस् तादृश-भक्तावेशात् तस्यानुसन्धानाभावेऽपि तत्-तच्-छक्तय एव स्वावसरे तान् प्रकाशयन्ति अन्यथा दूरतो भजतां केवल-तन्-माधुर्य-निष्ठानां तद्-अप्राप्तिर् एव स्यात् । तत्र कैमुत्येन दृष्टान्तं शृण्व् इत्य् आह—द्विषन्न् अपीति । अन्यथा तत्राप्य् अन्तेन मोक्षादि-दायकम् ऐश्वर्यं प्रकाशेतेति भावः । तत्-तत्-प्रकाशे नाम-द्वयेन हेतुम् आह—हृषीकेशम् इति, अधोक्षजेति च । उभय-नाम-निरुक्त्या तज्-ज्ञानानपेक्षतयैव तेषां सिद्धये तद्-गुण-विशेषः प्रकाशत इति दर्शितम् ॥१३॥


जीव-गोस्वामी (कृष्ण-सन्दर्भ १४५) : तत्रोत्तरम्—उक्तम् इति । पुरञ्जनेतिहासादिवद् दुरूहत्वात् स्वयम् उक्तस्य व्याख्यानम् इदम् । एवं हि दृष्टान्त-बलेन लभ्यते । यथा चैद्य-शब्देनात्र कारुषोऽपि गृहीतः, तौ च जय-विजयौ, तयोश् च—

देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् ।

देह-सम्बन्ध-सम्बद्धम् एतद् आख्यातुम् अर्हसि ॥ [भा।पु। ७.१३.३४]

इति श्री-युधिष्ठिर-प्रश्न-दृशा त्व् अप्राकृत-विग्रहत्वेनानश्वर-विग्रहयोर् एव सतोः—-

भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।

ब्रह्म-तेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भा।पु। ३.१६.२९]

इति भगवद्-उक्त्य्-अनुसारेण । इत्थं जय-विजयौ सनकादि-शाप-व्याजेन केवलं भगवतो लीलार्थं संसृताव् अवतीर्य इति पाद्मोत्तर-खण्ड-गद्यानुसारेण च स्व-भक्त-चित्ताकर्ष-विनोदाय युद्धादि-क्रीडा-निमित्ततया तस्य दुर्घट-घटना-कारिण्येच्छया एव वार-त्रयं स्वीयस्य अणिमादि-सिद्धि-मय-परम-ज्योतिर्-देहस्य गुणमय-पार्थिव-देहान्तर-प्रवेशः।

अत एव सप्तमे कृष्ण-चक्र-हतांहसौ [भा।पु। ७.१.४५] इत्य् अत्र टीका च—कृष्ण-चक्रेण हतम् अंहो ययोस् तौ । तयोः पापम् एव हतं न तु तौ इत्य् एषा ।

तथा तद्-अर्थम् एव श्री-कृष्णेच्छयैवात्रापि तासाम् अप्राकृत-विग्रहाणाम् एव तद्-अभिसार-प्रतिरोध-समये—

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३७] इतिवत् ।

तात्कालिक-कल्पितो यो गुणमयो देहस् तत्र प्रवेशः । इमम् एवापेक्ष्य दार्ष्टान्तिकेऽप्य् उक्तम् जहुर् गुणमयं देहम् [भा।पु। १०.२९.११] इति, विशेषण-वैयर्थ्यान्, न तु स्वम् इत्य् अर्थः । तत्र च यथा तयोः सह द्वेषाभासस् तस्याप्य् अनुस्मरणस्य (सद्-वेषस्याप्य् अनुस्मरणस्य) प्रभावेन तादृशोपाधि-परित्यागात् ततोऽन्तर्धाय भगवत्-प्राप्तिः, तथा सुतराम् एव सप्रीतेस् तस्य प्रभावेन तत्-प्राप्तिः । अत्र च भक्त-चित्ताकर्षणम् एवं सम्भवति—अहो तादृशोऽसौ श्री-कृष्णे मधुरिमा येन ताः स्व-साक्षात्काराय प्राणान् अपि त्याज्यन्ते स्मेति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रश्नानन्तरं किञ्चिज् जात-क्रोध इव स-गाम्भीर्यं प्रत्युत्तरं दास्यतः श्री-शुकाचार्यस्यायम् आशयः—हे राजन् ! साधयिष्यमाणे हि वस्तुनि सन्देहः प्रवर्तते, न तु सिद्धे । गुण-मयं देहं त्यक्त्वा निर्गुणं देहम् आसाद्य तं सङ्गता इति यद् उक्तम् । तत् सिद्धानुवाद एव कृतः । न तु मयारोप्य कथितम् । तद् अत्र कः सन्देहः ? कृष्णे प्रेमैव तथा सम्पादयति, न तु ब्रह्म-ज्ञानम् । किं बहुना ? आसां तु प्रेमैव । येषां तस्मिन् द्वेषस् तेषाम् अपि गुण-प्रवाहोपरम आसीत् । प्रेम्णः पुनर् अयं महिमा । यद् असौ स्वानुकूलं निर्गुणं शरीरम् आपादयति । एतत् तु सर्वं श्री-कृष्णाधिकरणता-मूलम् एवेति क्रोधावेशं प्रकटयन्न् आह—उक्तम् इत्य्-आदि बहुभिः पुरस्ताद् एवोक्तम् अस्ति । तथापि भ्रान्तोऽसीत्य् अर्थः । किं तद् इत्य् आह—द्विषन्न् अपि चैद्यः सिद्धिं प्राक्-सिद्ध-पार्षद-भावम्, न तु कैवल्यम् । यथा यथावद् गतः, किम् उताधोक्षज-प्रियाः कान्तत्वेन भजन्त्यो हि तस्य प्रिया भविष्यन्तीति यत् तत् किम् उत ? अतः कान्तत्वेन ज्ञानम् एव गुण-प्रवाहोपरमस् तासां न पुनर् ब्रह्मत्वेन ज्ञानम् ॥१३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अधुना राज्ञः प्रश्नं सम्यग् अवधार्य, हेतु-वादिनां केषाञ्चिद् हृद्-वृत्तिं विदित्वा, कृत-प्रश्नं स्वाभिप्राय-विदं राजानं प्रति स्व-मतं स-क्षोभं व्यञ्जयन्न् इव, हेतूक्ति-निपुणाभिर् उत्तरीकरिष्यन् कृष्ण-प्रियाणाम् ईदृक् प्रश्नस्यानौचितीं दर्शयन्, तासां कृष्ण-प्राप्ताव् असम्भावना-विपरीत-भावना-नामानर्थावहत्वं प्रकटयन्, तासां द्वि-त्रि-क्षणादिना व्यवधानम् अङ्गीकृत्योत्तरयति ।

गुण-प्रवाहोपरमो रास-विलास-निवृत्तिः कथम् ? इति प्रश्नस्योत्तरं द्वि-त्रि-क्षण-मात्रोपरमे\ऽपि पुनर् अपि ततो\ऽप्य् आधिक्येन विलास-प्राप्तिर् जातेति सूचयन्न् आह—उक्तं पुरस्ताद् इत्य्-आदिभिः । भगवन्-माहात्म्ये रस-भावना-युक्तान् लक्ष्यीकृत्याह । युधिष्ठिरस्य राजसूयं द्विषतो\ऽपि चैद्यस्य श्री-कृष्णेन परोक्षं प्रवेशं दृष्ट्वापि सन्दिहाना भवतीति । चित्रं पुरस्तात् सप्तम-स्कन्धे ते तुभ्यं मयोक्तम् एव । तत् किं त्वया विस्मृतम् ? इति सानुशयोक्तिः ।

हृषीकेशम् अपि इन्द्रिय-प्रवर्तकम् अपि । अपि-शब्द उभयत्र सम्बध्यते । ईश्वरत्वेन तम् अजानन्न् द्विषन्न् अपि चैद्यो नित्य-पार्षद एव काल-विलम्बेन यथा सिद्धिं पुनः पार्षद-रूपतां गतः, न तु ब्रह्मणि लय-रूपं सायुज्यं गतः । यदि व्रज-देवीनां मुक्तिर् अभिप्रेता स्यात्, तर्हि चैद्यं न दृष्टान्तीकुर्यात् ।

अधोक्षज-प्रियाः, किम् उतेति अधोक्षजेषु अन्तर्मुखेष्व् अक्षेषु इन्द्रियेषु जायते आविर्भवतीति तथा । यद् वा, शकटाधः-शयाने श्री-कृष्णे शकटाद् विमुक्ते सति व्रजेश्वरीं प्रति गोपीभिर् उक्तं—दिष्ट्या तव सुतः पुनर् जात इवेति । तदा यशोदयोक्तं—न मत्तो जातः, किन्तु अधोक्षाज् जातः, अधोक्षज इति । तस्य अधोक्षजस्य यशोदा-नन्दनस्य स्व-प्रियाः सिद्धिं तत्-स्वरूपं गताः, किम् उत वक्तव्यम् इत्य् अर्थः । निर्गुण-स्वरूप-ग्रहणम् अन्येषां भक्तानाम् अयुक्तम् इति । भावना-त्यागस्यैव देह-त्यागत्वेन मया व्यञ्जितत्वात् । अतो भवद्भिर् नैवं-विधः प्रश्नः कर्तव्य इति नियम्यत इति ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-मुनीन्द्रोऽपि नायं वस्तुतो राज्ञः प्रश्न इति मनसा जानन्न् एव त्वम् एवं पृच्छन् मेधा-शून्य एवासीति तद् व्याजेनानभिज्ञानेन तान् भर्त्सयन्न् आह—उक्तम् इति । पुरस्तात् सप्तम-स्कन्धे एव द्विषन्न् अपि इति द्वेष-लक्षण-प्रतिकूल-भावेनापि यदि सायुज्यं लभ्यते तर्हि काम-लक्षणानुकूल-भावस्य का वार्ता इति भावः । हृषीकेशम् इति, निरुपाधि-कृपया स्वयम् अवतीर्य ब्रह्मादीनाम् अपि हृषीकैर् अग्राह्योऽपि मर्त्य-लोकेऽपरमनीचानाम् अपि हृषीकेषु दृष्टैः तावद् इयं स्वाचिन्त्य-शक्त्या विषयीभूतो भवति, तान् उद्धर्तुम् इतीदम् अप्य् एकं तस्य कृपैश्वर्यम् इति भावः । इमास् तु अधोक्षजस्य अतीन्द्रियस्य तस्य प्रियाः प्रीति-विषयाश्रय-भूता एव । अत्र अघः सिद्धिं यथा गत इति प्रत्यासन्नम् अघासुरं हित्वा विप्रकृष्टश् चैद्यो यद् दृष्टान्तितस् तेन राजानं प्रत्य् एतत् स-रहस्यम् आह । चैद्यस्यापि द्वेषाभिनिवेशोद्रेकात् मुनि-शाप-निबन्धन-गुण-मय-देहस्यैवोपरमः अन्तश्-चिन्-मय-पार्षद-देहस् तु तस्यानश्वरो नित्यो वर्तत एव । यद् उक्तम्—विष्णु-चक्र-हतांहसौ [भा।पु। ७.१.४५] इति विष्णु-चक्रेण हतम् अंह एव ययोर् न तु ताव् इति । सिद्धिं गतः अभीष्टां गतिं पार्षदतां प्राप्त इत्य् अर्थः । यद् उक्तं—

वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् ।

नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ इति ॥१३॥


॥ १०.२९.१४ ॥

नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप ।

अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु देही कथम् अनावृतः स्याद् अत आह—नृणाम् इति । गुणात्मनो गुण-नियन्तुः । भगवत एवं-रूपा अभिव्यक्तिर् अतो न देही-सादृश्यम् अत्र वक्तुं युज्यत इति भावः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देह-सम्बन्धेनावृतत्वं वदतो व्याघातो देहावरणस्य मूढेनापि ज्ञातत्वाद् इत्य् आशङ्कते—नन्व् इति । वस्तुतो भगवतो देह एव नास्ति—देहीवाभाति मायया [भा।पु। १०.१४.५५] इत्य् अत्रैव शब्दोपादानात् । अशरीरं वा वसन्तम् इति श्रुतेश् चेत्य् अभिप्रेत्याह—नृणाम् इति । एवं-रूपा प्राकृत-रूपा दिव्या अभिव्यक्तिः अवतारः, प्राकट्यम् इति यावत् । यतो लौकिक-प्रभाव-चिद्-घन-मूर्तिः, अतो हेतोर् न देहि-सादृश्यं प्राकृत-जन-सादृश्यम् । अत्र श्री-कृष्णे । युज्यते युक्तम् । इति भाव इति । भक्त-जनार्ति-प्रशमनार्थं प्रदर्शित-लीला-विग्रहानेक-कोटि-ब्रह्माण्डाधीशेन नन्द-नन्दनेन कथम् अन्यस्य तुल्यता सम्भवेद् इति तात्पर्यम् ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथा कथञ्चित् सम्बन्धेनापि निजाभीष्ट-संसाधकं भाव-विशेषं श्री-भगवन्तम् एव वा श्री-भगवत्-प्रभावेण सर्वे प्रप्नुवन्तीत्य् आह—नॄणाम् इति द्वाभ्याम् । निःश्रेयसं भक्तिः । तद् एवार्थः फलं तस्मै । यद् वा, निःश्रेयसं मुक्तिः, तस्यार्थो भक्तिः । यद् वा, निःश्रेयसं भक्तिर् एव, तस्यार्थः प्रेमा, तस्मै, तत्-प्रदानार्थम् इत्य् अर्थः । व्यक्तिः प्राकट्यम् । इति साक्षाद्-भगवत्त्वम् एवाभिप्रेतम् । अत एव भगवतोऽवतारिणः परमेश्वरस्य । यद् वा, नॄणां निःश्रेयसार्थयैवेति ।

अत्र हेतुः—भगवत इति । अन्यथा भ्रू-विजृम्भ-मात्रेण ब्रह्माण्ड-कोटि-संहार-समर्थस्य भू-भार-कंसादि-वधार्थं व्यक्तेर् अनुपपत्तिर् इत्य् अर्थः । हे नृपेति । यथा नॄणां क्षेमार्थम् एवेतस् ततो भवादृशस्य राज्ञो गमनम् इति भावः ।

भगवत्त्वम् एवाह—अव्यक्तस्येत्य् आदिभिश् चतुर्भिर् विशेषणैः । आत्म-दानादिनापि न व्येतीत्य् अव्ययस् तस्य । कुतः ? अप्रमेयस्य अपरिच्छिन्नस्येत्य् अर्थः । तत् कुतः ? निर्गुणस्य माया-गुणातीतस्य । तच् च कुतः ? माया-गुणानाम् आत्मनः प्रवर्तकस्य ।

यद् वा, नॄणां निःश्रेयसार्थायैव व्यक्तिर् जन्म, अन्यथा तु कथञ्चित् सम्भवेद् इत्य् आह—अव्ययस्य जन्मादि-विकार-रहितस्य । किं च, अप्रमेयस्य, तादृशस्यापि व्यक्तौ हेतुः—गुणात्मन इति । निज-कारुण्याद्य्-अशेष-गुणानां चेतयितुः प्रकटन-परस्येत्य् अर्थः । अन्यत् समानम् ।

अथवा, ननु तर्हि कथं पर-दाराकर्षणम् ? तत्राह—अव्ययस्य पर-दार-विनोदेनापि न किञ्चित् तस्य व्येतीत्य् अर्थः । ननु तथापि तस्य तेन किं नाम प्रयोजनम् ? तत्राह—अप्रमेयस्य दुर्वितर्क्यस्य तस्य लीला केन वितर्कयितुं शक्येत्य् अर्थः । कुतः ? निर्गुणस्य गुणात्मनः । निर्गुणोऽपि सन् यो गुणानाम् आत्मा आश्रयस् तस्य । निर्गुणत्वात् तद्-दोषालेपः । गुणात्मत्वाच् च श्री-गोपीभिः सह रतिर् इति सिद्धान्तः ।

यद् वा, ननु तथाप्य् अस्मत्-प्रीत्य्-अर्थं स्वयं विचार्योच्यताम् इति चेत्, तत्राह—निर्गुणस्यापि जनस्य गुणानाम् आत्मनः प्रवर्तकस्य रास-क्रीडया जगताम् एव परम-प्रेम-सिद्ध्या सर्व-सद्-गुण-सम्पत्तेः । एतद्-अभिव्यक्तिर् अग्रे श्री-परीक्षिच्-छुक-संवादे प्रश्नोत्तराभ्यां भविष्यत्य् एव ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तद्-ध्यान-प्रभाव उक्तः । तत्र भगवद्-व्यक्ति-समये तु भगवत्-पार्षदस्यागन्तुक-दैत्य-प्रभावस्य चैद्यस्य, तथा तादृश-श्री-भगवत्-प्रेमवतीनां तासां तत्-तत्-सम्पादनाय भगवतः साहाय्यम् अप्य् अस्ति कैमुत्येन कारणम् इत्य् आह—नॄणाम् इति । नॄणां जीव-मात्राणां निःश्रेयसार्थाय सर्व-साधन-फलाय तत्-तद्-योग्यता-सम्पत्-पूर्वक-स्व-लीलानन्द-प्राप्ति-रूपाय । तं साधयितुम् एवेत्य् अर्थः । व्यक्तिः प्राकाट्यम् । तद्-अर्थत्वावधारणार्थम् आह—भगवत इति । अन्यथा भ्रू-विजृम्भ-मात्रेण ब्रह्माण्ड-कोटि-संहार-समर्थस्य भू-भार-हरण-मात्रार्थं व्यक्तेर् अनुपपत्तिर् इत्य् अर्थः । हे नृपेति । यथा नॄणां क्षेमार्थम् एव इतस् ततो भवादृशस्य राज्ञो गमनम् इति भावः ।

भगवत्त्वम् एवाह—अव्यक्तस्येत्य् आदिभिश् चतुर्भिर् विशेषणैः । नित्यं नाना-प्रकाशैर् नाना-भक्तेभ्य आत्म-दानादिनापि न व्येतीत्य् अव्ययः तस्य । कुतः ? अप्रमेयस्य अपरिच्छिन्नस्येत्य् अर्थः । तत् कुतः ? निर्गुणस्य माया-गुणातीतस्य । तच् च कुतः ? माया-गुणानाम् आत्मनः प्रवर्तकस्य ।

यद् वा, नॄणां निःश्रेयसार्थायैव व्यक्ति-मात्रं जन्म, अन्यथा तु कथञ्चित् सम्भवेद् इत्य् आह—अव्ययस्य जन्मादि-विकार-रहितस्य । किं च, अप्रमेयस्य तद्-अर्थत्वे हेतुः गुणात्मन इति निज-कारुण्याद्य्-अशेष-गुणानां सुप्तानाम् इव चेतयितुः प्रकटन-परस्येत्य् अर्थः । अन्यत् समानम् ।

श्लोक-द्वयेऽस्मिन्न् अयं भावः [भावार्थ-दीपिकायां १०.२९.१३] इत्य्-आदौ टीकायां बहिर्मुख-सन्देह-निरासार्थः । तेषाम् अयम् अभिप्रायः । ननु, ब्रह्मणि कामादिकम् अपि चेद् अर्थ-करं तर्हि जीवेष्व् अपि चित्-सामान्येनैक्यात् ब्रह्मत्वम् अस्तीति पत्य्-आदिष्व् अपि तादृशं स्यात् ? तत्राह—जीवेष्व् इति । आवृतत्वे हेतुर् वक्ष्यमाण-वैपरीत्य-रीत्या हृषीकाधीन-ज्ञानत्वम् एवेति ज्ञेयम् । तत्र स्वस्मिन्न् आवृतत्वं बहिर् विक्षेपात् परेषूपाधि-मात्र-ग्रहणात् हृषीकेशत्वाद् इति पूर्ववन् न हृषीक-वशस् तद्-उदयः । अतः स्व-प्रकाशता-मय एव ततश् चानावृतम् एव ब्रह्मत्वम् इति स्थिते कामादिना केनापि तत्र प्रवृत्तिर् भवतु वस्त्व्-अनुभवस् तु भवत्य् एवेत्य् अर्थः ।

ननु देहीति पत्य्-आदिवद् देहित्वेन प्रतीयमान इत्य् अर्थः । सिद्धान्तम् आह—भगवत एवेति । तत्-तद्-विशेषेण वैलक्षण्याद् इत्य् अर्थः । एवं-रूपा अनावृत-ब्रह्म-रूपा न देहि-सादृश्यं कुतो देहित्वम् इत्य् अर्थः । तद्-विग्रहस्यैव स्वरूप-शक्ति-सिद्ध-वैचित्रिक-परम-तत्त्वैक-रूपत्वात् । तच् च विद्वद्-अनुभव-सेवित-तत्-तच्-छास्त्र-प्रामाण्यात् । यथा च व्याख्यातम्—नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य्-आदिष्व् इति ॥१४॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १४५) : नॄणाम्इति सामान्यतो जीवानाम् एव निःश्रेयसाय व्यक्तौ सत्यां भक्तानां तु सुतराम् एवेत्य् आयातम् । अन्यथा तस्य व्यक्तिर् एव न सम्भवेद् इत्य् आह—अव्ययस्येतिनिर्गुणस्य प्राकृत-गुण-रहितस्य गुणात्मनः । तत्र ये चैश्वर्यादयो गुणास् ते आत्मनः स्वरूपाण्य् एव यस्य तस्य ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् एव कृष्णस्य महिमा यद् अयं नृणां निःश्रेयसार्थं प्रादुर्भूतस् तेन तादृशीं लीलां करोतीत्य् आह—नॄणाम् इत्य्-आदि । निर्गुणस्य प्राकृत-गुण-रहितस्य गुणात्मनो भक्त-वात्सल्यादि-गुण-प्रयत्नस्य । आत्म-शब्दोऽत्र यत्न-वाची ॥१४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु चैद्यस्य ब्रह्म-शापाल् लब्ध-दैत्य-देहस्य जन्म-त्रयान्ते पुनः पार्षद-रूपतां प्राप्तये लब्ध-सम्भावनस्य देह-पातम् अनन्तरं पार्षद-देह-प्राप्तिर् उचिता । स एतासां गुण-मय-देह-त्यागानन्तरम् एव नित्य-मण्डल-प्रवेशः । कथम् इति चेत्, तत्राह—येन केन मधुर-रसातिरिक्तान्यतर-रस-सानुभावेनापि सम्बन्धः श्री-कृष्णं प्रार्थयति बहुशो दृष्ट-चरत्वाद् इत्य् आह—नृणाम् इति भगवतो\ऽचिन्त्यैश्वर्य-स्वरूपस्य इच्छा-मात्रेणापि भू-भार-हरण-समर्थस्य श्री-कृष्णस्यावतारिणो\ऽभिव्यक्तिः । सामान्यतो भू-चर-मात्राणां निःश्रेयसेन मोक्षेण सहार्थः । परम-पुरुषार्थो भक्ति-योगस् तत्-प्राप्तये ।

यद् वा, निःश्रेयसं भावस् तस्यार्थः परं प्रेमा तत्-प्राप्तये तत्-प्राप्तिम् इत्य् अर्थः । अवतारिणः श्री-कृष्णस्य भू-भार-हरणं मुख्यं प्रयोजनं नास्ति, किन्तु यादृशो भावो व्रजस्-सुन्दरीषु तादृशं भावं सर्वत्र सञ्चारयितुम् अभिव्यक्तिः, नृणाम् इत्य् उपलक्षणं पशु-पक्षि-वृक्षादिष्व् अपि ज्ञेयम् । तथोक्तं, गावस् ततो गोष्ठम् उपेत्य सत्वरं [भा।पु। १०.१३.२४] इति, प्रायो बताम्ब मुनयो विहगा वनेऽस्मिन् [भा।पु। १०.२१.१४] इति, अहो अमी देव-वरामरार्चितं [भा।पु। १०.१५.५] इति । तेष्व् अपि भावस्याभिव्यक्तित्वाद् इति । भगवतः स्वैश्वर्येण ब्रह्मादीन् अपि वशयितुं समर्थस्य अवतारिणो व्यक्तिर् अवतार-कला-विभूतीनां कार्य-करणार्थम् आप ।

हे नृपेति सम्बोधनम् । यथा श्री-कृष्णेन नर-मात्रः प्रेमामृत-दानेनानन्दितः, तथा त्वयात्रत्येषु नर-मात्रेषु भक्ति-प्रवर्तनेन नराः पालनीया इति । निःश्रेयसार्थायेति तादर्थे चतुर्थी । तत्र हेतुत्वेन प्राण-विषय-चतुष्टयम् अव्ययस्येति भक्तेभ्यो निजाङ्ग-दाने\ऽपि व्यय-रहितस्य तत् किम्-अर्थम् आत्मानं ददाति । तत्र हेतुः—गुणात्मनः गुणाः कारुण्यादयस् तैस् तादात्म्यं प्राप्तस्य, अत एव कारुण्येनैव भक्तेभ्य आत्मानं ददाति स्वभावत्वाद् इति ।

नन्व् आत्म-दाने\ऽव्ययत्वं कथं ? तत्राह—अप्रेमयस्यातर्क्यस्यापरिच्छिन्नस्येत्य् अर्थः। परिच्छिन्नस्य दाने व्ययो भवति । किं च, अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् इति । तत् कुतः निर्गुणस्य माया-गुणातीतस्य ? तत्रापि हेतुः—गुणात्मनः माया-गुण-प्रवर्तकस्य ।

यद् वा, निर्गुणस्य स्वयं गुण-रहितस्य गुणात्मनः व्रज-सुन्दरीणां गुणे आत्मनि स्वरूपे यस्य आत्मन आदर्श-स्थानीयत्वे च तासां नृत्य-गानादि-कला-कौशल्यादि-गुणानां प्रतिबिम्बितत्वात् गुणात्मकत्वं जातम् इति भावः ।

यद् वा, गुणात्मनः व्रज-देवीनां गुणाः सौन्दर्यादयः आत्मनि चित्ते यस्य स्वयं निर्गुणस्य आत्मारामस्य, अत एव निर्गुणत्वम् अवगणय्य तद्-गुणाकृष्टत्वेन तासां गुणमय-देहान्तर्धापनेन शङ्कूपरि दिव्य-चक्र-गत-मण्डल-प्रवेशः कारितः ।

ननु, निर्गुणश् चेत्, कथम् एवं कृतवान् ? तत्राह—अप्रमेयस्य, तर्को\ऽप्रतिष्ठानात् इति । यद् वा, निर्गुणस्यापि मादृशस्य गुणात्मनः गुणाः कीर्तनादयस् तत्-प्रवर्तकस्य निर्गुणस्याप्य् अस्मद्-आदीन् राम-क्रीडादि-वर्णन-गुणेषु प्रवर्तयितुं तस्याभिव्यक्तिर् इति भावः । अत एवावसाने विक्रीडितं व्रज-वधूभिः [भा।पु। १०.३३.४०] इति सर्व-जनं स्व-परं कर्तुं रास-क्रीडा-निर्गमनं स्पष्टीभविष्यतीति । अतो यथाकथञ्चित् सम्बन्ध-मात्रं सर्वेषां संसारापगम-हेतुः, किं पुनः कृष्ण-प्रियाणाम् इति ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः श्रेयः-साधन-हीनाम् अपि मयि यत् किञ्चित् सम्बन्ध-मात्रवतो जनान् अहम् उद्धरामीति मनसि कृत्वैव भगवतावतीर्णम् इत्य् आह—नृणाम् इति द्वाभ्याम् । निःश्रेयसं केषुचित् सायुज्यं केषुचित् सालोक्यादिकं केषुचित् प्रेमा च अर्थस् तस्मै भ्रू-विजृम्भ-मात्रेण ब्रह्माण्ड-कोटी-संहार-समर्थस्य भू-भार-भूत-कंसादि-वधार्थम् एव व्यक्तिर् अन्यथा नोपपद्यते इति भावः अव्ययस्य प्रति भक्त-जनं स्वात्म-दानेनापि न व्यतीत्य व्ययस् तस्य । केन प्रकारेण ? इति चेत्, अत आह—अप्रमेयस्य प्रमातुम् अशक्यस्य । कस् तत्र तत्त्वं जानातीति भावः । यतो निर्गुणस्य प्राकृत-गुण-रहितस्य । अथ च गुणात्मनः स्वरूप-भूत-कल्याण-गुणमयस्य न हि अप्राकृत-चिद्-आनन्द-मय-गुण-सागरः प्रमातुं शक्यो भवेद् इति भावः ॥१४॥


॥ १०.२९.१५ ॥

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च ।

नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कामिनः कामित्वं, क्रोधिनः क्रोधित्वम् एव सर्वदा भवति तन्-मयता ।

विमुक्ताव् अपि कामिन्यो विष्णु-कामा व्रज-स्त्रियः ।

द्वेषिणश् च हरौ नित्यं द्वेषेण तमसि स्थिताः ॥ इति च ।

भक्त्या हि नित्य-कामित्वं न तु मुक्तिं विना भवेत् ।

अतः कामितया वापि मुक्तिर् भक्तिमतां हरौ ॥

स्नेह-भक्ताः सदा देवाः कामित्वेनाप्सरः-स्त्रियः ।

काश्चित् काश्चिन्न् अकामेन भक्त्या केवलयैव तु ।

मोक्षम् आयान्ति नान्येन भक्तिं योग्यां विना क्वचित् ॥ इति पाद्मे ।

भक्त्या वा काम-भक्त्या वा मोक्षो नान्येन केनचित् ।

काम-भक्त्याप्सरः-स्त्रीणाम् अन्येषां नैव कामतः ॥

उपास्यः श्वशुरत्वेन देव-स्त्रीणां जनार्दनः ।

जारत्वेनाप्सरः-स्त्रीणां कासाञ्चिद् इति योग्यता ॥

योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति ।

अयोग्योपासना-कर्तुर् निरयश् च भविष्यति ।

तस्मात् तु योग्यतां ज्ञात्वा हरेः कार्यम् उपासनम् ॥ इति भद्रिकायाम् ।

पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च ।

पितामहतयान्येषां त्रिदशानां जनार्दनः ॥

प्रपितामहो मे भगवान् इति सर्व-जनस्य तु ।

गुरुः श्री-ब्रह्मणो विष्णुः सुराणां च गुरोर् गुरुः ॥

मूल-भूतो गुरुः सर्व-जनानां पुरुषोत्तमः ।

गुरुर् ब्रह्मास्य जगतो दैवं विष्णुः सनातनः ।

इत्य् एवोपासनं कार्यं नान्यथा तु कथञ्चन ॥ इति वाराहे ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो यथा कथञ्चित् तद्-आसक्तिर् मुक्ति-कारणम् इत्य् आह—कामम् इति । ऐक्यं सम्बन्धम् । सौहृदं भक्तिम् ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतोऽनावृतं ब्रह्मैव श्री-कृष्णोऽतो हेतोः । यथा कथञ्चित् येन केन प्रकारेण । तत्रासक्तिर् अतिशयेन व्यासङ्गः । कामम् कान्त-प्रेमाणम् । क्रोधं ज्वलनात्मकं, द्वेषम् इत्य् अर्थः । भयम् अयं मे मृत्युर् इति हेतोः सदा तन्-निवृत्त्य्-उपाय-चिन्ता । स्नेहः अनुरागः । ऐक्य-सौहृदे व्याख्याते एव स्वामि-चरणैः । ये विदधते कुर्वन्ति ते तन्-मयतां तत्-सायुज्यं, स्फुटीकृतम् एतत् सप्तम-स्कन्धे । तस्मात् त्वया सामान्यतस् तावद् एष सिद्धान्तोऽवधार्यताम् इत्य् आह—कामं गोपी-जनादयः क्रोधं द्वेषं चैद्यादयः, भयं कंसादयः, स्नेहं वात्सल्यं नन्दादयः, ऐक्यम् आत्मारामाः, सौहृदं वृष्णी-पाण्डवादयः नित्यं विदधते । अधुनापि ते ते तं तं भावं कुर्वन्तस् तन्-मयतां यान्तीति । तासां तासां लीलानां नित्यत्वं ज्ञापयति । तन्-मयतां गोप्य्-आदयस् तदासक्ततां, यथा—स्त्रीमयः कामुक इति । अन्ये सायुज्यम् ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो हरौ यथा कथञ्चित् सम्बन्ध-मात्रेणापि सर्व-चित्ताकर्षके सर्व-दोष-हरे वा । अप्य्-अर्थे एव-शब्दः । कामादिकम् अपि नित्यं कुर्वतस् ते कामादि विदधाना जनाः । यद् वा, कामादिना प्रसिद्धा दण्डकारण्य-वासि-मुनयः केशि-कंसादयश् च

यद् वा, ते तव यो हरिस् तस्मिन्न् इत्य् अन्वयः । विदधते इति क्वचित् पाथः । हि निश्चितम् । तन्-मयतां ध्यानेन हर्य्-एक-निष्ठाम् ।

यद् वा, सारूप्यादि-प्राप्त्या तत्-स्वरूपतां प्राप्नुवन्ति । नित्यम् इति तत्र तत्राभ्यासेन निष्ठया तन्-मयतायाम् अविलम्बत्वं बोधयति । अन्यथा कादाचित्कतया तत्-तद्-आवेशाभावेन शीघ्र-तन्मयत्वासिद्धिः । सारूप्ये च भक्ताभक्तादि-भेदेन सुख-विशेष-लाभ-केवल-दुःख-ध्वंसादिना तथा श्री-वैकुण्ठ-पार्षदत्व-सिद्ध-लोक-वासित्वादिना वैष्णव-सिद्धान्तानुसारेण भेदः स्याद् एव ।

यद् वा, नृणां निःश्रेयसार्थायैवेत्य् अत्र हेतुम् आह—हि यतः कामादिकम् अपि कुर्वन्तस् तन्मयतां यान्तीति । अन्यत् समानम् । सौहृदम् इति दृष्टान्तः । वेति क्वचित् पाठः । ततश् च वा-शब्द उपमार्थ एव । तथा चोक्तं श्री-नारदेन सप्तम-स्कन्धे—

कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।

आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥ [भा।पु। ७.१.२९] इति ।

किं च—

गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।

सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ [भा।पु। ७.१.३०]

इति तत्र गोप्य इति बहिर्-दृष्ट्या केवलम् औपपत्य-काम-मात्रापेक्षया । यद् वा, तन्मयता-प्राप्ति-मात्रापेक्षयैव कामादीनां सर्वेषाम् एकत्र गणना । फलतस् तु महा विशेष एवेति दिक् । एतच् च सर्वं श्री-भागवतामृते विवृतम् एवास्ते, रसामृतार्णवे च महानुभावैस् तत्-तद्-विशेषाभिव्यञ्जनेन विस्तारितम् अस्ति । अत्रापि यथा-स्थानम् अग्रे विवरणीयम् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्तु तावत् तद्-व्यक्ति-समय-गतानां वार्ता, किन्तु सर्वदातनानाम् अपीयं रीतिर् इत्य् आह—कामम् इति । तत्र कामं द्विविधं गोप्य्-आदीनाम् इव प्रेम-मयं सैरन्ध्र्यादीनाम् इव रिरंसा-मयं च । क्रोधं द्वेषं चैद्यादीनाम् इव । भयं कंसादीनाम् इव । स्नेहं वृष्टि-पाण्डवानाम् इव, श्रीमद्-व्रज-वासिनाम् इव वा । ऐक्यम् आत्मारामाणाम् इव सौहृदं क्रथ-कैशिकादीनाम् इव । तत्र भय-द्वेषौ तु नानुमतौ यः खलु कल्याण-गुणम् आत्मानं भीषणं मन्यते गूढं द्विषतोऽपि तस्य भीतस्य तथा मत्सरादिना साक्षाद् अपि द्विषतो धृष्टस्य भद्राय कल्पते तस्मिन् कः पामरः ? तच् च तच् च कुर्यात्, किन्तु स्नेहं सौहृदम् एव वा सर्वेऽपि कुर्युर् इति हि तात्पर्यं तद् इत्थम् एवोक्तं श्री-नारदेन— तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा।पु। ७.१.३१] इति केनापीति तत्र योग्येनेत्य् अर्थः । अतस् तत्रैव तद् उक्तम्—

यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् ।

न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ [भा।पु। ७.१.२६] इति ।

तत्र च शास्त्राज्ञा-गौरवमय-भक्ति-योगम् अतिक्रम्य भाव-मार्गे हेयस्यापि तस्य तन्-मयताकारित्वाय प्राबल्यं दृश्यत इति व्यज्य स्नेह-सौहृदे एवानुमते तद् इत्थम् एवोक्तं द्विषन्न् अपीति तद्वद् ऐक्यं च नानुमतं तत्र तादृश-तद्-गुणास्फूर्तेर् इति । एव-शब्दः एकैकतः कृतार्थीभावाय पाठान्तरे ये विदधते ते हि निश्चितं तन्मयतां तत्-तद्-भाव-समुचिताविर्भावं तद्-एक-स्फूर्तिं चेति वेति च पाठः समानार्थः । किन्तु, श्री-भगवान् खलु भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् [भा।पु। ११.१४.२१] इति श्री-भगवद्-वाक्यात्

योगिभिर् दृश्यते भक्त्या

नाभक्त्या दृश्यते क्वचित् ।

द्रष्टुं न शक्यो रोषाच् च

मत्सराद् वा जनार्दनः ॥ [प।पु। ६.२३८.८३] इति पाद्मोत्तर-खण्ड-वचनात् ।6

नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.१५] इति श्री-गीतातश् च यद्यपि द्वेष्टृ-प्रभृतिभिस् तस्य याथार्थ्यं नानुभूयते किन्तु अन्यथैवेति तथापि तत्-प्रभावात् परम्परयाप्य् उत्तर-काले याथार्थ्यं स्फुरतीति क्रोध-भयेऽप्य् अत्र गणिते, किम् उताधोक्षज-प्रियाः [भा।पु। १०.२९.१३] इत्य् अनेन कामस् तु प्रियत्वातिशयाद् उत्कर्षित इति विवेचनीयम् ॥१५॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १४५) : तर्ह्य् एतादृश-लीलया कथं नॄणां निःश्रेयसं भवति ? उच्यते । एतद्-बोधनेन भवतीत्य् आह—कामम् इति । अत्र तन्-मयता-शब्देन तत्-प्रचुरतोच्यते । तत्र काम-स्नेहादिषु तद्-अनुरक्तात्मतेति पर्यवसानं “स्त्रीमयो जाल्मः” इतिवत् । क्रोध-भयैक्येषु ते प्रायस् तत्-प्रलीनतेति दुग्ध-मयं जलम् इतिवत् । एकस्यैव शब्दस्य विशेषण-वशाद् अर्थ-भेदश् च युज्यते, स्याच् चैकस्य ब्रह्म शब्दवद् [वे।सू। २.३.४] इति न्यायेन । “क्रोध-भययोर्” अत्र पठनम् अन्येषु कैमुत्यापादनायैव, न तु तद्-उपदेश-विवक्षया ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तेन तस्मिन् ये कामादिकम् अपि कुर्वन्ति, तेऽपि तन्-मयतां यान्ति, किं पुनः प्रेमाणम् इत्य् आह—कामं क्रोधम् इत्य्-आदि । कामः कुब्जायाः । क्रोधः शिशुपालादेः । भयं कंसादेः । स्नेहः पित्रोः । ऐक्यं व्रज-बालानाम् । सौहृदं प्रेम गोपाङ्गनानाम् । तन्-मयताम् इति यथाधिकारं बोद्धव्यम् । क्वचित् तन्-मात्र-मूर्तिः, क्वचिल् लयश् च ॥१५॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : व्रज-देवीनां श्री-कृष्ण-प्राप्तौ सन्दिहानान् परति इम अर्थम् अन्यार्थण् निदर्शनेन दृढीकुर्वन् कृष्ण-प्रियासु कैमुत्य-न्यायेन सर्वोत्कृष्टत्वम् आह—तत्र भगवत्-प्राप्तौ इह साधकं तान्य् उक्तानि तावत् तन्-मध्ये द्वेषस्यापि हेतुत्वं तत्-प्राप्तौ चैद्य-दृष्टान्तत्वेन दृष्टार्थकत्वम् उक्तम् । एवम् अन्येषाम् अपि ते तत्-प्राप्ति-साधनत्वं वक्षन् आद्य-त्रिकस्यानूद्यत्वम् अन्त-त्रिकस्य विधेयत्वम् आह । अनूद्य-विधेय-भेदेन विभिन्नानां सह प्रयोग-दर्शनात् । कामोऽनूद्यः स्नेहो विधेयः । कामस्याधिकरणेन स्नेह-विशेष-दर्शनात् । एवं क्रोधम् अनूद्यम् ऐक्यं विधेयं क्रोधाधिकरणेन सह ऐक्यं चेद् भवति तदा क्रोध-निवृत्ति-दर्शनात् । एवं भयम् अनूद्यं सौहार्दं विधेयं यद् उपादानं भयं तेन सह सौहार्दं चेद् भवति तदा भय-निवृत्ति-दर्शनात् गृहं संमाष्टीतिवत् सम्भवत्य् "एक-वाक्यत्वे वाक्य-भेदो हि दूषणम्" इति न्यायात् । कामम् इति हरौ स्व-महिम्ना सर्व-दोष-हरण-शीले कामादिकं विदधतः कुर्वन्तस् तन्-मयतां ते यान्ति, हीति निश्चितम् एव तत् । चैद्य-दृष्टान्तेन तत्र कामं स्त्री-भावेनाभिलाषं कुर्वन्तो दण्डकारण्य-मुनयः स्वाभीष्ट-व्रजे जन्म श्री-कृष्णेन सह रमणं प्रापुः । क्रोधं वैर-भावेन कुर्वन्तः चैद्यादयः स्वाभीष्टं पुनः पार्षदत्वं प्रापुः । भयं कुर्वन्तः कंसादयः कीट-भृङ्गवद् भावेन सारूप्य-लक्षणं मोक्षं प्रापुः । स्नेहं कुर्वन्तो युधिष्ठिरादयो धर्मांश-रूपाः नित्य-सेव्यं यथाभिलषितं कृष्णम् एव प्रापुः । ऐक्यं सम्बन्धं कुर्वन्तो यादवाः देवांश-रूपाः स्वाभिलषित-सिद्ध-लोक-वासत्वादिकं प्रापुः । सौहृदं प्रेम-लक्षणां भक्तिं कुर्वन्तो ये वैष्णवास् ते स्वाभिलषितम् आश्रय-रूपं कृष्णम् एव प्रापुर् इति सर्वत्राभिषज्यते । नित्यं मरण-पर्यन्तं निरन्तरं व्यवधान-शून्यम् इत्य् अर्थः । यद्यपि कामादि-षट्के क्रियमाणे विषय-महिम्ना संसारोपरमो भवत्य् एव परन्तु साधन-भेदात् साध्य-भेदः । एतत्-साधन-कदम्बस्य कदाचित् प्राप्तत्वे तन्-मयत्वं न सिध्येद् इति, न वेनः कतमः इत्य्-उक्तेः । तद् उक्तं सप्तम-स्कन्धे—

कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।

आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥ [भा।पु। ७.१.२९] इति ।

नारद-वाक्य-प्रामाण्यात् अन्येऽप्य् एवं कुर्वन्तो भगवन्तम् एव प्राप्नुवन्ति भावो हि भव-कारणम् इति प्रसिद्ध्या भावस्यैवानन्यथासिद्धम् । किं च,

गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।

सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ [भा।पु। ७.१.३०]

इति कामादीनां पङ्क्तौ सामान्यतो यद्यपि गणनोक्ता तथापि पुनस् तत्रैवोक्तं,

यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् ।

न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ [भा।पु। ७.१.२६] इति ।

वैरानुबन्धस्योत्कर्ष्णौक्तः वैरानुबन्धे विधेये द्वेषाभिनिवेशस्योत्कण्ठा-दर्शनाद् इति । अन्यत्र कामस्याधिकरणेऽभिनिवेशस्य बाहुल्य-दर्शनात् । शास्त्राज्ञा-गौरवे भक्ति-मार्ग-गौरवे कामदेर् अपकृष्टत्वम् एवायाति । तथापि न तथा भक्ति-योगेनेति, अभिनिवेशात् कथने वैरानुबन्धस्यौत्कृष्टत्वम् उक्तम् । ततोऽपि कामानुबन्धे विधेये प्राकृत-कार्य-विषयम् अभिनिवेशाधिक्यं भवत्य् एव अत्र त्व् अलौकिके कामानुबन्धे विधेये योगादिनामलौकिकाभिनिवेशात् । रस-मार्ग-विचारे क्रियमाणे साधन-षट्क-मध्ये कामस्यैवोत्कर्षो विषयोत्कर्षात्, अन्यथा परम-तत्त्व-विदोद्धवेन आसाम् अहो चरण-रजः प्रार्थना कथं क्रियते ? किं च, एताः परं तनु-भृतो भुवि गोप-वध्व इत्य् अभिधानं न स्यात् ।

ननु कामानुबन्धस्य चेद् उत्कर्षस् तर्हि भीष्मेण कथम् उक्तं, प्रकृतिम् अगन् किल यस्य गोप-वध्वः [भा।पु। १.९.४०] इति कामानुबन्धस्यापकृष्टत्वं सत्यं, भीष्मस्य माहात्म्य-ज्ञान एवाधिकारः स्वरूप-निष्ठत्वाभावात् । अन्यथा माधुर्य-पुञ्जे शिरीष-पुष्पाधिक-सौकुमार्ये श्री-विग्रहे शस्त्रैः प्रहारो न सम्भाव्यते, अतो रस-मार्गादिकाराभावाद् एवम् उक्तम्, अतो न विरोधः ।

किं च, कामादि-स्थायि-भावेषु विचार्यमाणेषु श्री-कृष्णाख्य-वस्तु-संस्पर्शाव्यभिचार-भावे तस्या एव रतेर् उत्कर्षः । तद् उक्तम्—

कामं शरीर-सम्बन्ध-विशेष-स्पृहयालुता ।

संनिधानासंनिधान-भेदेन सम्भवेत् द्विधा ॥

तज्-जन्यायां द्रुतौ चित्ते या स्यात् श्री-कृष्ण-निष्ठता ।

सम्भोग-विप्रयोगाख्य-रतिः तासां क्रमाद् भजेत् ॥

क्रोध ईर्ष्या-निमित्तं हि चित्ताभिज्वलनं भवेत् ।

तज्-जन्यायां द्रुतौ सा तु द्वेष-शब्देन कथ्यते ॥

भयं चेतो-व्याकुलत्वं स्वोपद्रवक-दर्शनात् ।

उपद्रवक-नाशार्थं तत्-प्रीत्य्-अर्थं बत द्विधा ॥

तत्राद्यं द्वेष एव स्यात् द्वितीयं रति-शब्द-भाक् । [भक्ति-रसायन २.३-७]

स्नेहः पुत्रादि-विषयः पाल्य-पालक-लक्षणः ।

सेव्य-सेवक-भावोऽन्यः सोऽप्य् उक्तस् त्रिविधो बुधैः ॥

भगवद्-दास्य-सख्याभ्यां मिश्रितं चापरं जगुः ।

या कृष्णाकारिता चित्ते तज्-जन्य-द्रुति-शालिनी ॥

पाल्य-पालक-भावेन सा वत्सल-रतिर् भवेत् ।

सेव्य-सेवक-भावेन या रतिः प्रीतिर् ईर्यते ॥ [भक्ति-रसायन २.९-११]

सम्बन्धजा रतिर् याति पूर्वोक्तां रसतां द्वयी ॥

एका वत्सल-भक्त्याख्या प्रेयो भक्तिस् तथापरा । [भक्ति-रसायन २.६७]

तद्-ऐक्यं प्रीति-सम्भोगात् दृश्यते भोज-वृष्णिषु ॥

सौहृदं सौहार्दं तच् च भक्तिर् एव । तद् उक्तं तृतीये—

मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।

मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥

लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् । [भा।पु। ३.२९.११-१२]

एषु षट्सु साधनेषु आलम्बनोत्कर्षात् काम-जारतेर् उत्कर्षः । श्र्ङ्गार-मिश्रिता भक्तिः कामजा रतिर् इष्यते । यथा वैरानुबन्ध-जरतौ भय-जन्यायां च रतौ वैरानुबन्ध-भय-त्याग-पूर्वकं भगवत्-प्राप्तिः । भगवतो यादवत्वानुकरणे सम्बन्धस्य कारणत्वं तद्-अनुकरण-पुरस्कृते सम्बन्धेत्य् उक्तेः । प्राकृत-सम्बन्ध-त्याग-पूर्वकम् एव कामवत् प्राप्तिः । पाल्य-पालकत्व-पुरस्कृतः स्नेहः पाण्डवेषु स च प्राकृतेषु भावं त्याजयित्वालौकिकेन भावेन भगवत्-प्राप्ति-हेतुर् जातः भक्तेर् माहात्म्यं नारदादिषु च दृष्ट-चरम् एवेति दिक् ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् त्वया सामान्यतस् तावद् एष सिद्धान्तोऽवधार्यताम् इत्य् आह—कामं गोपी-जनादयः । क्रोधं द्वेषं चैद्यादयः । भयं कंसादयः । स्नेहं वात्सल्यं नन्दादयः । ऐक्यम् आत्मारामाः । सौहृदं वृष्टि-पाण्डवादयः । नित्यं विदधतः इत्य् अधुनापि ते ते तं तं भावं कुर्वन्तस् तन्-मयतां यान्तीति तासां तासां लीलानां नित्यत्वं ज्ञापयति तन्मयतां गोप्यादयस् तद्-आसक्ततां यथा स्त्री-मयः कामुक इति अन्ये सायुज्यम् ॥१५॥


॥ १०.२९.१६ ॥

न चैवं विस्मयः कार्यो भवता भगवत्य् अजे ।

योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च भगवतोऽयम् अतिभार इत्य् आह—न चैवम् इति । यतः श्री-कृष्णाद् एतत् स्थावरादिकम् अपि विमुच्यते ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न तत्रेदम् आश्चर्यम् इत्य् आह—न चेति । अतिभारः दुर्घटः । एवं विस्मयः गुण-धियां गुण-प्रवाहोपरमः कथम् ? इत्य् एवं-रूपः सन्देहः । भवतेति । गर्भाद् आरभ्य श्री-कृष्ण-भक्तेन त्वया न कर्तव्योऽन्येन क्रियतां नामेत्य् आह—यतः श्री-कृष्णाद् एतज् जगद् विमुक्तं भवति, यस्य प्रसादात् परमार्ति-रूपाद् अस्मात् संसारान् मुच्यते । नापरेण इति श्रुतेः । स्थावरं वृक्षादि । अत एवोक्तं ब्रह्मणा7—वृन्दावने किम् अपि गुल्म-लतौषधीनाम् [भा।पु। १०.४७.६१] इत्य्-आदि । आदिना पाषाणादि-ग्रहः । तत् प्रसिद्धम् अहल्योपाख्याने रामायणे अवतार-भेदेऽप्य् अवतारिणोऽभेदात्, य एव रामश् च स एव कृष्णः इति चिरञ्जीव-भट्टोक्तेः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्यत्रावतारे विस्मयः कर्तुः युज्यते, नैवात्रेत्य् आह—न चैवम् इति । कृष्णे योगेश्वरेश्वरे एवं विस्मयो न च कार्यः । च-कारः पुनर्-अर्थे । पुनर् न कार्य इत्य् अर्थः । यतो यं वीक्ष्य एतत् तरु-गुल्मादिकम् अपि विमुच्यते । तस्य किं ब्रह्मतया ज्ञानेन ? अतः कृष्णे परम-कान्त-बुद्धिर् यथा सुरसा श्रेयस्करी च भवति, तथास्मिन् ब्रह्मधीर् इति अत्र विस्मयो न कार्य इति महा-वाक्यार्थः ॥१६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशो विस्मयः सन्देहः आश्चर्य-बुद्धिर् वा पुनर् न कार्य इत्य् अर्थः । भवतेति अन्येन क्रियतां नाम, भवता तु गर्भाद् आरभ्य तन्-महिमाभिज्ञेन न कथञ्चिद् अपि कदाचिद् अपि कार्य एवेत्य् अर्थः । अत एव गौरवेण भवतेति, न च त्वयेत्य् उक्तम् । विस्मयाकरणे हेतुः—भगवति अशेषैश्वर्य-युक्ते ।

ननु तर्हि कथं देवकी-गर्भतो जन्म ? तत्राह—अजे जीववन् न जायते, किन्तु स्वेच्छयैव भक्त-वात्सल्यादिना स्वयम् आविर्भवतीत्य् अर्थः ।

ननु तर्हि देवक्य्-आदीनां पुत्रतया कथं प्रतीतिर् अस्तु ? तत्राह—योगो दुर्घट-सुघटनायां सामर्थ्य-विशेषस् तस्येश्वराः । श्री-शिव-सनकादयस् तेषाम् अपीश्वरे । अतः स्वेच्छया स्वयम् आविर्भावेऽपि शक्ति-विशेषेण श्री-देवक्यादि-पुत्रतापि सम्भवेद् इत्य् अर्थः, अचिन्त्यैश्वर्यात् तस्याः । अत एव यतः कृष्णे नराकृति-पर-ब्रह्मणि ।

यद् वा, अत एव कृष्णे दुर्वितर्क्यानन्त-माहात्म्यामृत-सागरतया सुप्रसिद्धे इत्य् अर्थः । अथवा, भगवति परमेश्वरे, अतोऽजे जीववत् प्राकृत-जन्म-रहिते, कृपया स्वयम् एवाविर्भावात् । अत एव योगेश्वराणां भक्ति-योग-निष्ठानां श्री-नारदादीनाम् ईश्वरे भक्त्या सेव्ये भक्ति-विशेष-प्रकटनात् । किं वा, योगेश्वराणां महाश्चर्य-शक्तिमताम् ईश्वरे निजाश्चर्याशेषैश्वर्य-प्रकटनात् । तत्रापि कृष्णे श्री-गोकुलोत्सव इत्य् अर्थः । यतः कृष्णाद् एतच् चराचरात्मकं सर्वम् एव जगद् अशेष-साधन-रहितम् अपि तद्-इच्छा-मात्रेण तदीय-यत्-किञ्चित्-सम्बन्धाभास-मात्रेणापि स्वयम् एव विशेषेण मुच्यते, श्री-वैकुण्ठ-लोकं प्राप्नोतीत्य् अर्थः । एतच् च भावीन्द्रप्रस्थादि-तरु-लतादि श्री-वैकुण्ठ-प्राप्त्य्-अभिप्रायेण, तथा च प्रथम-स्कन्धे श्री-कुन्ती-स्तुतौ—

इमे जन-पदाः स्वृद्धाः सुपक्वौषधि-वीरुधः ।

वनाद्रि-नद्य्-उदन्वन्तो ह्य् एधन्ते तव वीक्षितैः ॥ [भा।पु। १.८.४०] इति ।

अत स्वृद्धा इति पुनर् एधन्ते इत्य् अनेन च श्री-वैकुण्ठ-प्राप्ति-योग्यतैवाभिप्रेता । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ननु बहुल-याग-योगादि-महा-साधनेन दुःसाध्यापि तन्मयता कथं यथा-कथञ्चित् कामादि-सम्बन्धेन सिध्येत् ? तत्राह—न चेति । अर्थः स एव । अतोऽस्या रास-क्रीडायाः श्रवणादौ मुक्त्य्-आदि-परैर् अपि काम-क्रीडा-मयत्व-बुद्ध्या नोदासितव्यम् । किन्तु सर्वैर् एव निजेष्ट-तद्-अतीत-सिद्धये विशेषतो भक्तैः परम-फलत्वेनेयं सदा सेव्यैवेति प्राग् एतत् प्रकरणोत्थापन-तात्पर्यं दृढीकृतम् इति दिक् ।

अथवा, श्री-व्रजेन्द्र-व्रज-गोपीत्वेन भाग्य-विशेषात् ता अपि हत-विघ्नास् तेनैव देहेन सद्य एव श्री-कृष्णं सङ्गतास् तदानीम् एव रास-क्रीडाम् अलभन्तेति व्याख्येयम् । तथा हि—अन्तर्-गृहे गताः पशैर् बद्धाः पत्य्-आदिभिर् गृहान्तः-स्थापिताः, अत एव कथम् अप्य् अलब्ध-विनिर्गमास् तद्-भावना-युक्तास् तस्याः श्री-कृष्णेन सह रास-क्रीडाया भावना-युक्तास् ततश् च प्रक्षीण-बन्धना ध्यानस्य प्रभावेणैव सुश्लथी-भूत-बन्धनाः सत्यो गुण-मयं पत्य्-आदिभिर् बहुधा बद्धत्वात् पाश-मयं पाश-प्रचुरं देहं ध्यानेनैव जहुः । नाहं केनापि बद्धास्मि, किन्तु मुक्तैवेति प्रत्येकं भावितवत्य इत्य् अर्थः । इति भावना-त्यागेनैव देह-त्याग उक्तः । यथा श्री-ब्रह्मणः सृष्ट्य्-आरम्भे तत्-तद्-भावना-त्याग एव तत्-तद्-देह-त्यागः, तथा च तृतीय-स्कन्धे ततश् च ध्यान-प्रभावेण सद्य एव प्रक्षीण-बन्धनं पत्य्-आदिभिः कृतं पाशैर् नियन्त्रणम् ।

किं वा, द्वार-बन्धादि-प्रतिबन्धो यासां तथा-भूताः सत्यः, विशेषणे तात्पर्यम्—देहस्य पाशमयतां जहुर् इत्य् अर्थः । ततश् च परमात्मानम् अपि तं श्री-नन्द-किशोर-रूपम् एव सङ्गताः । तत्र हेतुः—जार-बुद्ध्या विशिष्टा इति ।

यद् वा, परमात्मानं परम-प्रियम् इत्य् अर्थः । अयं जार-बुद्धौ हेतुः, अन्यथा तादृश-प्रियतमतासिद्धेः । ध्यान-प्रभावम् आह—ध्यानेनैव दुःसहो यः प्रेष्ठ-विरह-तीव्र-तापस् तेन धुतं निरस्तं तुच्छीकृतम् अशुभं जगताम् अशेष-दुःखस्याधिक्यात् । अन्यत् समानम् एव ।

ततश् च, या मया क्रीडता रात्र्यां [भा।पु। १०.४७.३७] इत्य् अस्यायम् अर्थः । पत्यादिभिर् बद्धत्वाद् व्रज आस्थिता अपि पश्चान् मद्-वीर्य-चिन्तया अनालब्ध-रासा नाप्राप्त-रासा बभूवुः । किन्तु आपू रासम् एवेति ।

श्री-परीक्षित्-प्रश्नस्य चायम् अर्थः—कान्त-बुद्ध्या ध्यानेन गुणेषु श्री-कृष्णस्य कारुण्यादिषु, न तु गुणातीत-रूपे धीर् यासाम् इति ध्यानस्य न्यूनता सूचिता, तथापि पत्यादिभिर् बन्धनार्थं प्रयुक्तायाः पाश-परम्पराया उपरमो निवृत्तिः कथम् ? इति श्री-शुकदेवश् च, यथा कथञ्चिद् ध्यानेन संसार-बन्धाद् अपि विमुक्तिः स्यात् । श्री-कृष्ण-प्रियतमानां तासां तद्-ध्यान-विशेषेण पाश-बन्धनान् मुक्तिर् जातेति किं वक्तव्यम् इति कैमुतिक-न्यायेनैव । द्वेषादिना ध्यानाद् अप्य् अभीष्ट-सिद्धिम् आह—उक्तम् इत्य्-आदिना । अन्यत् सुसङ्गतम् एव ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न चेति अन्येन क्रियतां नाम भवता गर्भाद् आरभ्य तन्-महिमाभिज्ञेन न कार्य एवेत्य् अर्थः । अत एव भवतेति गौरवेणोक्तं, न तु त्वयेति विस्मयाकरणे हेतु-विशेषः भगवति अशेषैश्वर्य-युक्ते । ननु तर्हि कथं देवकी-गर्भतो जन्म ? तत्राह—अजे जीववन् न जायते, किन्तु स्वेच्छयैव भक्त-वात्सल्यादिना स्वयम् आविर्भवतीत्य् अर्थः । भगवत्त्वाद् एव योगेश्वरेश्वरे तत्रापि कृष्णे सर्वतः परिपूर्णाविर्भाव इत्य् अर्थः ॥१६॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः १४५) : न च श्री-गोपिकादीनां ये कामादयो भावास् तद्-अनुसरणेनान्ये कृतार्था भवन्तीति चित्रम् इत्य् आह—न चेति । किं वक्तव्यम् ? एकेषां विमुक्तिर् जगतोऽपि सम्भवतीत्य् आह—यत इति । एके तु प्रकट-लीलायाम् आराधन-पाकाद् आगन्तुकस्य एवैताः, न तु नित्य-सिद्धवत् सच्-चिद्-आनन्द-देहं प्राप्ताः । ततो न दोष इति वर्णयन्ति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं क्रोधावेशं विहाय शिष्य-वात्सल्याद् उपदिशति—न चैवम् इत्य्-आदि । पुनर् एवं विस्मयो न च कार्यः । नैवं कार्य इत्य् अर्थः । भवता श्री-कृष्ण-प्रभाव-ज्ञानां पौत्रेण । कुत्र ? कृष्णे, अन्यत्र वरं सन्देहः क्रियताम् । कीदृशे ? अजे स्व-प्रकाशे, भगवत्य् अचिन्त्य-परमैश्वर्ये, योगेश्वराणाम् अपीश्वरे कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थे । एतेन तस्मिन् ब्रह्म-ज्ञानेनापि न किञ्चिद् भवति । कान्त-ज्ञानेनापि तद्-अङ्ग-सङ्ग-मङ्गलत्वं भवतीत्य् अन्यथा-कर्तृत्वे योगेश्वरेश्वरता, यत एतत् तरु-गुल्मादिकम् अपि विमुच्यत इति मुक्ति-कर्तृत्वे योगेश्वरेश्वरता, अभक्तानां कृतार्थता-करणे अकर्तृत्वे योगेश्वरेश्वरता ॥१६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तथापि विस्मित-मुखं राजानं तम् आलक्ष्य सोपालम्भ-वचनेन विस्मयम् अपाकरोति—न चैवम् इति । अतो\ऽसम्भावना-विपरीत-भावनाविष्टा भक्त्य्-अभावाद् विस्मयं कुर्वन्तु नाम, भवतो\ऽनुचितम् एतत् । श्री-कृष्ण-माहात्म्यस्य बहुशः श्रुत-पूर्वत्वात् दृष्ट-चरत्वाच् च भवता कृष्णे एवं-विधो विस्मयो न कार्यः ।

कीदृशे भगवति ? अचिन्त्यैश्वर्ये स्वैश्वरेण संसार-हेतुनापि काम-क्रोधादीन् गुण-प्रवाहोपरम-हेतून् विधातुं समर्थे । तद् उक्तं श्री-मुखेन—

न मय्य् आवेशित-धियां कामः कामाय कल्पते ।

भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भा।पु। १०.२२.२६] इति ।

अनुभवाननुभवे यदि चेत् त्वया विस्मयः क्रियते, तदा ह्य् अन्यो\ऽपि करिष्यति अनुभवाननुभवाद् एवेति ।

पुनः कीदृशे ? अजे । यदि शुक्र-शोणित-सम्बन्धेन प्राकृत-जीववत् श्री-कृष्णस्यापि जन्म भवेत्, तदा विप्रतिपत्ति-पूर्वक-प्रश्नः स्यात् । तत् तु नास्तीत्य् आह—यतो अजे प्राकृत-जन्म-रहिते देवक्यां वत्सल-रसालम्बन-भूतायां नित्य-मातृत्वेन सिद्धायां जन्म स्वीक्रियत एव । स्वेच्छया भक्त-वात्सल्येनाविर्भवति । यशोदा-नन्दनेति देवकी-नन्दनेति स्वरूपम् अजत्वं धर्मः । बहिस्थाप्यतः प्रवेश-घटनार्थम् उक्तम् । यथा बहिर् आनन्द-पूर्णत्वेन स्थितिः, तथानन्द-रूपे देवकी-गर्भे प्रवेशो\ऽभिलाषिणेति । अतो\ऽजे विस्मयो न कार्यम् ।

ननु, देवकी-नन्दने प्रसिद्धे\ऽजत्वं कथम् ? इति चेत्, तत्राह—योगेश्वरेश्वरे इति । योगस् तु अघटित-घटना-सामर्थ्यम् । तेन योग-बलेन भोगार्थम् अनेकानि शरीराणि कृत्वा भगवत्-प्रसाद-लब्ध-सामर्थ्याः सन्तो योगिनः काय-व्यूहेन भोगं भुक्त्वा स्वाभिलाषितां गतिम् आप्नुवन्ति । तेषां योगस् त्व् आगन्तुको धर्मः, भगवत्य् अनागन्तुक इत्य् एतावान् एव विशेषः । भगवांस् तु तद्-धर्म-विशिष्टो\ऽपि, अन्येषां योग-फल-दाता योगम् आपद्यतस् तद्-देहानाम् अलौकिकत्वं सम्पादनेन नित्य-मण्डल-प्रवेशे विस्मयो न कार्य इति ।

पुनः कीदृशे ? कृष्णे । कृषिर् भू-वाचक- इत्य् आद्य्-अर्थस् तु यौगिकः, रूढस् तु यशोदा-स्तनन्धये । रूढिर् योगम् अपहरतीति न्यायात् । यशोदा-सम्बन्धेनैव व्रजौकसस् तु स्नेहाधिक्यं सूचितम् । सर्वे सर्वेषु स्व-सम्बन्धिषु स्निग्धो भवन्तीति प्रसिद्धिः । इयं लीला निर्दोष-पूर्ण-गुण-विग्रहे कृता । एतद्-अनुभवायोग्येषु विस्मये विद्यमाने\ऽपि भवता विस्मयो न कार्य इति ।

एतत् सम्बन्ध-वैभवम् आह—यतः श्री-कृष्णाद् धेतोः एतत् स्थावरादिकम् अपि विमुच्यते । अयं भावः—को\ऽनुराजन् निद्रियवान् इति । इन्दिर्यवत् तेनाधिकारे सति, यन् न भजन-क्रिया दृश्यते, तया चेद् अनर्थ-निवृत्तिर् इति सिद्धान्तस्य न काचिद् विप्रतिपत्तिः दृश्यते । दृष्टार्थकत्वेन तदा विस्मयो न कार्यः । यमलार्जुनादौ श्री-कृष्ण-सम्बन्धस्यानन्यथा-सिद्धत्वेन दृष्ट-चरत्वात् । श्री-मुखेनाप्य् उक्तम्—अहो अमी देव-वरामरार्चितं [भा।पु। १०.१५.५] इति बहुशः श्रुतत्वाच् च । श्री-शुकः स्वानुभूतं कथयित्वा राजानम् अपहत-विस्मयं कृतवान् इति ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चेति । अन्येन विस्मयः क्रियतां नाम, अत्रार्थे भवता तु गर्भाद् आरभ्य तन् महिमाभिज्ञेन न कार्यः गोचारकत्वेऽपि भगवति देवकी-पुत्रतेऽप्य् अजे गोप-स्त्री-लाम्पट्येऽपि योगेश्वराणाम् अपीश्वरे कृष्णे शर्वावतारिणि य एतत् स्थावरादिकम् अपि विमुच्यते इति [श्री-स्वामि-चरणाः]{।मर्क्} । यद् वा, तल्-लीला-परिकराद् भिन्नम् अपि जगद् अधुनापि तत्-तत्-काम-स्नेहादि-भावम् अनुस्मृत्य विमुच्यते गुण-प्रवाहान् मुक्तं भवति ॥१६॥


॥ १०.२९.१७ ॥

ता दृष्ट्वान्तिकम् आयाता भगवान् व्रज-योषितः ।

अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तुतम्8 आह—ता दृष्ट्वेति । वाचः-पेशैर् वाग्-विलासैः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृतम् अनुसरति—प्रस्तुतम् इति । वदतां श्रेष्ठः चतुर्मुख-शतमुख-सहस्रमुख-व्यासादि-श्रेष्ठः । ताः गोप्यः । पेशोऽङ्गे दीप्तौ हेलायां चूर्णने पुंसि इति माधवः । उपेक्षा-प्रार्थना-बोधक-द्व्य्-अर्थक-वाक्यैर् विमोहयन्न् अवदत् । तत्रोपेक्षा-द्योतकैर् विशेषेण मोहयन् आमुग्धा इव कुर्वन् । प्रार्थना-गमकैस् तु विशेषेण स्नेहवतीः कुर्वन्न् इति विशेषः । अवाच इति छेदे लज्जया किम् अप्य् अवदन्तीर् इति पेशैः सौन्दर्यैर् इत्य् अर्थः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ता वेणु-गीताकृष्टाः परम-विह्वला व्रजस्य योषितः सर्व एव नव-तरुणीः । यद् वा, व्रज एव स्थातुं योग्याः, न हि बहिर्वनान्तर् आगन्तुम् इत्य् अर्थः । तथापि निजान्तिकम् एवायाताः प्राप्तः, न तु लज्जादिना दूरतः स्थिताः । दृष्ट्वा अवदत् । स्वागतम् [भा।पु। १०.२९.१८] इत्य्-आदिना वक्ष्यमाणम् । किम्-अर्थम् ? वाचः-पेशैर् वाग्-विलासैर् विशेषेण मोहयन् चित्तं हरन्, स्व-विषयकं कामं नितरां वर्धयितुम् इत्य् अर्थः । तच् चाग्रे व्यक्तं भावि ।

ननु, वाग्-विलास-मात्रेण कथं विमोहनं स्यात् ? तत्राह वदतां श्री-चतुर्मुख-सहस्रमुखादीनां वाग्मिनां श्री-व्यासादीनां वा कवीनां मध्ये श्रेष्ठः । कुतः ? भगवान् साक्षात् सर्वैश्वर्य-युक्तः । यद् वा, वचः पेशैर् भङ्गी-विशेषैः । एकैव वाक् समुपेक्षा-मयी सत् प्रार्थना-मयी चेति मिथो विरोध्य् उभय-कोटि-स्पर्शाद् एव कैतव-परिपाटी-पाटवैर् इत्य् अर्थः । साक्षाद्-धर्मादि-बोधन-परत्वेऽपि निजात्यन्त-रिरंसा-तात्पर्येण स्व-विषयक-भाव-विशेष-दृढी-करणात् । तत्र हेतुः—वदतां श्रेष्ठ इति ।

यद् वा, रन्तुं मनश् चक्रे [भा।पु। १०.२९.१] इति, जगौ कलं वाम-दृशां मनोहरम् [भा।पु। १०.२९.३] इत्य्-आदिना तस्य ताभिः सह रिरंसा व्यक्तैव । एवं मनस्य् अन्यद् वचस्य् अन्यद् एव धर्मादि-पर-वाग्-विलासैश् च वचस्य् अन्यद् एवेत्य् एवम् अवहित्थया ता विमोहयन्, वाक्यार्थ-निर्धारणाशक्तेः । वस्तुतस् तु वाचः-पेशैःसौन्दर्यैर् इत्य् उक्ति-परिपाटी-मात्रम् एव तत्, न तु तादृशो भाव इति बोधयत्य् एव ।

यद् वा, सर्वत्रान्तर्भूतोऽपि शब्दार्थो द्रष्टव्यः । तथा हि, व्रज-योषितः सहज-निज-प्रेम-परा अपि, तत्रापि तास् तथा-भूता अपि, तत्रापि तदानीं तत्र निजान्तिकम् आयाता अपि, साक्षाद् दृष्ट्वापि स्वयं च भगवान् सर्वज्ञत्वेन तासां भावभिज्ञोऽपि, वाचः-पेशैः कपट-वाक्यैर् विमोहयन् परम-वैकल्यं प्रापयन्न् अवदत् । किम्-अर्थम् ? वदतां नर्मोक्ति-चतुराणां मध्ये श्रेष्ठः, नर्म-विशेषार्थम् इत्य् अर्थः ।

यद् वा, वाचः-पेशैस् तासां वाग्-विलासैर् हेतुभिस् तच्-छ्रवणार्थम् इत्य् अर्थः । यद् वा, पेशैर् निज-सौन्दर्यैर् विमोहयन्न् अवदत् । कुतः ? अकार-प्रश्लेषेण अवाचो लज्जया किम् अप्य् अवदन्तीर् इत्य् अर्थः । अतस् तासां प्रत्युक्ति-श्रवणानन्दायेत्य् अर्थः । कुतः ? वदतां श्रेष्ठः, उक्ति-भङ्गी-कुशलानां स्वत एव परोक्ति-चातुरी-श्रवण-रसिकत्वाद् इत्य् अर्थः । अन्यत् समानम् । एवं सर्वथा वस्तुतो मिथो भाव-विवृद्ध्य्-अर्थम् एव ज्ञेयम् ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः परम-रसमय-रास-लीला-प्रसङ्गेऽस्मिन्न् अन्तरायानौचित्येऽपि सर्वेषाम् एक-चित्तता-सम्पादनार्थम् एवेदृशः प्रश्नो भवता कृतः । मयापि भवद्-अनुरोधेनैव सिद्धान्त-प्रक्रियेयं व्यञ्जितेति व्यञ्जयन् पुनर् अप्रार्थितोऽपि स्वयम् उत्कण्ठया सहसा प्रस्तुतम् एवाह—ता वेणु-गीताकृष्टाः परम-विह्वलाः, तद् एव दर्शयति व्रजस्य योषितः व्रज एव स्थातुं योग्याः नहि बहिर्वनम् आगन्तुम् इत्य् अर्थः । तत्रापि निजान्तिकम् एवायाताः प्राप्तः, न तु लज्जादिना दूरतः स्थित्वा, दृष्ट्वा अवदन् वाचः पेशैर् वाग्-विलासैः । ते च द्विविधाः शाब्दिका आर्थिकाश् च । पूर्वे तु सुललित-वर्ण-विन्यास-सुगम-सुभग-समुच्चारण-स्मित-वलित-श्री-मुख-लोचन-चिल्ली-चालन-विशेषादयः । उत्तरे रस-भावालङ्कार-वस्तु-रूपाः । एतेऽपि चतुर्विधा उपेक्षा-भङ्गि-मयाः प्रार्थना-भङ्गि-मयाः तद्-युगलार्थ-सन्धापन-मयाः वास्तवार्थ-मयाश् च ।

तथा च सति विमोहयन्न् इति हृत-चित्ताः हृत-विवेकाश् च कुर्वन्न् इत्य् अर्थो यथायथम् ऊह्यः । तत्र पूर्वत्वं शाब्दिक-प्रार्थना-मय-वास्तवार्थमयेषु उत्तरोत्तरत्वं चान्ययोः । तत्र च शाब्दिकाः स्वभावेन विशेषतस् तु भावेन आर्थिकेषु उपेक्षा-मयाः स्वस्मिन्न् उत्कण्ठा-वर्धनार्थम् एव, न तूपेक्षार्थं कृताः । रन्तुं मनश् चक्रे [भा।पु। १०.२९.१], जगौ कलं वाम-दृशां मनोहरम् [भा।पु। १०.२९.३] इत्य् उक्तत्वात् । अत एवैतत् पक्षे वाक्-पेश-मात्रतो, न तु तात्पर्यत इत्य् अर्थः ।

एवं मनस्य् अन्यद् वचस्य् अन्यत् इत्य् अवहित्थया तासाम् उत्कण्ठया विषण्णता-सम्पादनं, तेन च विवेक-हरणम् इति । तत्रापि प्रार्थना-मया निजौत्सुक्य-मात्र-हेतुकाः । तद्-युगलार्थ-सन्धापनं तु नर्म-कौतुकर्थम् इति ।

तथा वचने योग्यतां कैमुत्येनाह—वदतां श्रेष्ठः निखिल-वाग्-वैदग्धी-विदां वरिष्ठः, यतो भगवान् स्वाभाविक-तादृश-ज्ञानादिभिः सर्वातिशायी ।

यद् वा, सर्वत्रान्तर्भूतोऽपि शब्दो द्रष्टव्यः । तथा हि व्रज-योषितः सहज-निज-प्रेम-परत्वेन प्रसिद्धा अपि, तत्रापि तास् तादृशं प्रेम-विकारं प्राप्ता अपि, तत्रापि तदानीं निजान्तिकम् आयाता अपि, साक्षाद् दृष्ट्वापि स्वयं च भगवान् सर्वज्ञत्वेन तासां भावभिज्ञोऽपि वाचः पेशैः कपट-वाक्यैर् विमोहयन् परम-वैकल्यं प्रापयन्न् अवदत् । किम्-अर्थम् ? वदतां नर्मोक्ति-चतुराणां मध्ये श्रेष्ठः, नर्म-विशेषार्थम् इत्य् अर्थः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ प्रकृतम् आह—ता दृष्ट्वेत्य् आदि । भगवान् अवदत् । वदतां वाग्मिनां श्रेष्ठः । किम् कुर्वन् ? वाचः-पेशैर् वाचाम् अवयैर् विमोहयन्, अवयवा नाना-प्रकार-भावाः । पिश अवयवे इत्य् अस्मात् । ते च स्वीकार-ताटस्थ्य-परिहारादिभिर् भेदैः । निषेधे विधिः । विधौ निषेध इत्य्-आदि-विपरीत-लक्षणार्थः ॥१७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं प्रासाङ्गिकं परिसमाप्य प्रस्तुतम् आह—ता इति । या वेणु-नाद-माधुर्येण तन्-नाम्ना आहूताः, दुहन्त्य इत्य्-आदि गृह-कर्म हित्वा, शुश्रूषन्त्यः इति धर्मं हित्वा, अञ्जन्त्य इति दैहिक-संस्कारं हित्वा, केवलं प्रेम्णैव सङ्गता व्रज-योषित इत्य् अनेन पञ्च-विधानाम् आगमनम् उक्तं चातुरी-विशेषानभिज्ञा अन्तिकं समीपम् आगताः, चातुरी-विशेषे\ऽवहित्थया दूरतः स्थितिर् भवेत्, तत् तु नास्तीति स-सम्भ्रमागमनेन जायते ।

किं च, मोहितासु चातुरी-विशेषो नादेति । ता दृष्ट्वा अवदत् । किम् अवदत् ? इत्य् अपेक्षायां मनश् चक्र इत्य् अत्र मानस-लीलायां यच् चिन्तितं पूर्वं तद् अधुना प्रोवाच । किं कुर्वन् ? वाचः पेशैर् विमोहयन् । वाग्-विलासैः विशेषेण मोहं प्रापयन् पूर्वं वेणु-नादेन मोहिताः, इदानीं भाव-परिक्षार्थं स्थूण-निखनन-न्यायेन तम् एव भावं दृढीकरिष्यन् तावद्-वचनेनैव स्वान्तिकम् एव विप्रलम्भम् उत्पाद्य, मधुर-रस-परिपाटी शिक्षयितुं रुक्ष-मुद्रया स्वागतम् इत्य् आद्य् उवाच ।

ननु, वेणु-नादेनास्मान् आहूयाधुना भाव-परीक्षार्थम् एव यथार्थेन वचनेन निवर्तयतीति तासां मनसि कथं न भवेत् ? तत्राह—वदतां वाग्मिनां शेषादीनां मध्ये श्रेष्ठः । तत्र हेतु-गर्भं विशेषणम् आह—भगवान् । वचनेन विप्रलम्भम् उत्पाद्य रसैश्वर्येण परिपोषयितुम् अनेकासु एकेनैव विग्रहेण स्व-विलासं सञ्चारयितुं समर्थः ।

यद् वा, वाचः पेशैः बहिर् धर्म-बोधकैः भय-प्रदर्शनेन निवर्तन-परैः रिरंसा-प्रच्छादकैर् अन्तस् तद्-उद्दीपन-विभाव-प्रदर्शकैः मम धर्माद्य्-उपेक्षा-पूर्वकं रसाधिकरण-पोषकैः कपट-पाटव-दिग्धैर् इत्य् अर्थः । मनस्य् अन्यद् वचस्य् अन्यद् इति विमोहनाभिप्रायः ग्रहण-शक्त्या प्रापयन् ।

यद् वा, पेशैः निजाङ्ग-सौष्ठवैर् विमोहयन् इति कर्तव्यता-शून्या कुर्वन्, अत एव तद्-वपुषस् तेजः-पुञ्जेन प्रताडिताक्षित्वात् युगपत् समग्र-मुख-शोभा-ग्रहणाशक्त्या प्रथमं चरणारविन्दार्पित-लोचनत्वाद् वाच अधो-वदनाः ।

यद् वा, मुखे रुक्ष-मुद्राम् आकलय्य तावत् किम् अपि वक्तुम् अपारयन्तीः । यद् वा, अन्यावेशेनागमन-वशात् श्वासाधिक्येन वाचः नमनादि-तादृग्-व्यवहारम् अपि कर्तुम् अशक्नुवन्तीः । यद् वा, दृष्टिं परिचित्य किं वदिष्यतीति अवाचो मौनम् अवलम्बमानाः प्रत्य् अवदत् ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रासाङ्गिकं विरोधं समाधाय-प्रस्तुतम् आह—ता वेणुनादाकृष्टा वदतां काल-देश-पात्रौचित्येन वचन-चातुर्यवतां मध्ये श्रेष्ठःपेशैर् अवयवैः पिश अवयवे घञ्-अन्तः प्रयोगः । वाचोऽवयवा वाच्य-लक्ष्य-व्यङ्ग्य-बोधका ये रूक्षाः स्निग्धाश् च अंशास् तैर् विमोहयन् वेणु-नादेन मोहिता अपि ता विशेषेण मोहयितुम् अत्र ताः प्रति रूक्षोक्त्यैव भगवतस् त्रयो मनोरथाः सेत्स्यन्ति प्रीति-विषयस्य कान्तस्य ममौदासीन्ये दृष्टेऽप्य् आसां प्रीति-लेशोऽपि न ह्रसतीति प्रीतिः शुद्धतां लोके दर्शयिष्यामीति । तथा सम्प्रयोगे वैपरीत्यम् इवाद्य-नायिका-धर्मम् अवहित्था-मयं वाम्यम् अहं ग्रहीष्यामि । नायक-धर्मौत्सुक्य-प्रकटन-मयं दाक्षिण्यम् एता ग्राहयिष्यामीति । मिलनेऽपि वैपरीत्यं रचयिष्यामीति । तथा परम-लज्जावतीनां युवतीनां स्वाभाविक्या अवहित्थया सङ्गोपितान्य् अप्य् आन्तरणानि वचनानि प्रकृति-विपर्यास-प्रापणया श्रोष्यामीति । यद्यपि कामिनीनां कुचाद्य्-अवयव-वृन्दं वस्त्रावृतत्वेन गूढम् एव चमत्कार-कारकम् इव तासाम् अन्तरीणम् औत्सुक्यम् अपि बहिर् वाम्येनावृतम् एव चमत्कार-कारकं रसज्ञा मन्यन्ते, न तूद्घाटितं तद् अपि कदाचित् कश्चिन् नायकः सम्भोग्याया नायिकाया अनावृतान्य् एवाङ्गानि यथा दिदृक्षते, तथैव वाम्यानावृतम् आन्तरीणम् औत्सुक्य-वचनं च शुश्रूषते, किन्तु पुरुषान्तरस्य स्व-वयस्यादेर् अपि सन्निधौ न दिदृक्षते, नापि शुश्रूषते, तथैव कृष्णोऽदृष्ट-चरान् आवृत-गोपी-सर्वाङ्गः सम्प्रति तासां वाम्यानावृतम् आन्तरीणं वचन-वृन्दं शुश्रूषते इति । अत एव प्रिय-नर्म-सखम् अपि स्व-सङ्गिनं तदानीं न चकारेति ज्ञेयम् ॥१७॥


॥ १०.२९.१८ ॥

श्री-भगवान् उवाच—

स्वागतं वो महा-भागाः प्रियं किं करवाणि वः ।

व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वाः स-संभ्रमम् आगता विलोक्य स-भयम् इवाह—व्रजस्य इति ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भो महाभागाः ! वो युष्माकं वने सुष्ठु आगमनं जातं किम् ? अपि तु न, अतो वःप्रियं किं करवाणि ? न मया किम् अपि कर्तुं शक्यम् । सर्वा गोप्यः स-सम्भ्रमं स-साध्वसं यथा स-भयं प्रत्युच्यते तथाह—व्रजस्य इति । व्रजस्य किं स्वित् अनामयं क्लेशोऽभावोऽस्ति ? एवं सम्भ्रमेण आगमने कारणं ब्रूत इत्य् अपेक्षायाम् ।

प्रार्थनायां तु मम महद्-भाग-रूपा मदीय-भाग्य-रूपा वा महत्य् आभा कान्तिर् यस्याः, सा महाभा राधा, तां गच्छन्ति सखी-भावेनेति तथा । यद् वा, मह्यते पूज्यते मयेति महा राधा, तस्या भा दीप्तिर् आगता यासु, ताः । वः सुन्दरम् आगमनं जातम् । व्रज-गत-पत्य्-आदि-भीतिम् आलक्ष्याह—व्रजस्य व्रज-सम्बन्धिनीनां वः, अनामयम् अभयम् । ते श्रान्ता माया-मोहिताः सुप्ताः स्वागमन-कारणम् आशङ्कितं ब्रूत । यद् वा, आगमनस्य कं सुखं तद् एव अरणं यस्य तं मां किञ्चित् सम्भाषणं कुरुतेति गूढोऽर्थः ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्रादौ स्वीकारम् आह—स्वागतम् इति सुखेनागतम् अत्यनुमोदनेन स्वीकारः । हे महाभागाः ! वो युष्माकं प्रियं किं करवाणि ? भवतीनाम् अनुरागोचितं मया किं कर्तव्यम् ? तद् अहम् ऋणीव इति च स्वीकार एव । ताटस्थ्यम् आह—व्रजस्य इत्य्-आदि आगमन-कारणं ब्रूत ॥१८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रथमम् अवहित्थयौदास्यम् अवलम्बमानः सादरम् आह—स्वागतम् इति । वो युष्माकं शोभनम् आगमनं वृत्तम् इत्य् अर्थः । यद् वा, युष्माभिः सुष्ठु आगतं किम् ? महान् भागो भाग्यं पातिव्रत्यादि-लक्षणं यासां, तासां सम्बोधनम् । अतो वो युष्माकं किं प्रियं करवाणि ? अपि तु न किञ्चित् कर्तुं शक्नोमि इत्य् अर्थः । यद् वा, किं करवाणि, तद् आज्ञापयन्तु इत्य् अर्थः । महा-भागानां प्रियाचरणेन ममापि धर्म-विशेषो भावीति भावाः ।

एतत् सर्वं स्वत एवौदासीन्यं गमयत्य् एव, लोके प्रायो गौरवेणैवैतादृश-प्रश्न-प्रवृत्तेः । अत एव पूर्वं यज्ञपत्नीः प्रत्य् अप्य् एवम् एवोक्तम् । केवलं तासु तत्र ब्राह्मणीत्वेन परमादराद् आस्यताम् [१०.२३.२५]9 इति, आसु तु व्रजाङ्गनात्वेन प्रकृत्यैव प्रियत्वात्, प्रियं वः इति विशेषः । यद् वा, वः किं प्रियं करवाणि इति साक्षान् मुखोक्त्या ताभ्योऽप्य् आसु परमौदासीन्यम् एव सूच्यते ।

वस्तुतस् तु एतासां तादृशागमनं दृष्ट्वा परम-प्रीत्यैवाह—स्वागतम् इत्य्-आदि । महा-भागा इति रास-क्रीडया महा-लक्ष्मीतोऽतिसौभाग्य-विशेषाभिप्रायेण । किं वा, सर्व-परित्यागेन तद्-एकापेक्षया तासाम् आगमनात् स्वस्य च तादृशत्वाभावेन स्वस्माद् अपि महत्त्व-विवक्षयोक्तम् । अतस् तासां प्रेम-पर-वशः सन्न् आह—प्रियम् इति । तच् च प्रिय-जन-वशीकरण-चतुरस्य विदग्ध-शिरो-मुकुट-मणेः स्वाभाविकम् एवेति दिक् । अत एव यज्ञपत्नीषूक्तेर् आसु विशेषः । प्रियं व इति युक्त एवेति ।

अत्रैकैकैव-वाक् समुपेक्षा-मयी सम्प्रार्थना-मयी चेत्य् उक्तं, तत्र समुपेक्षामयीत्वं प्रपञ्चितं, सम्प्रार्थनामयीत्वं श्लेष-रूपेण कथ्यते । तथा हि—हे महाभागाः ! महान् भागो भाग्यं यासां वो युष्माकं स्वागतम् । यतो महाभागाः । ईदृशी ज्योत्स्नी तत्रापीदृशं वनं तत्रापीदृशोऽनुवर्ती जनोऽयम् अनुकूलः । तत्रापीदृशं वो नव-यौवनादि इति महद् भाग्यम् एव । अतो युष्माकं किञ्चित् प्रियं करवाणि । यद् वा, इत्य् अस्य अन्त्य-पदेनान्वयः, निजेष्टं किं करवाणि, किम् अपि साधयिष्यामीति ।

यद्यप्य् अर्थ-श्लेषोक्तौ सम्यग् अक्षरार्थे सङ्गतिर् नापेक्ष्यते, तथापि विदुषां सतां प्रीतये कथञ्चिद् यतेमहि । एवम् आदौ सदाचार-रीत्या समागत-जनेषु वक्तुं योग्यम् उक्त्वा सर्वा एव युगपत् स-सम्भ्रमम् आगता वीक्ष्य स्वयम् अपि कैतवेन सभय-सम्भ्रमम् एव पृच्छति—व्रजस्य इति । अनामयं मङ्गलम् । कच्चित् प्रश्ने ।

ननु—चतुरसिंह ! तथा सति गोपादयोऽप्य् आगताः स्युर् इति चेत् ? सत्यम् । तर्हि अङ्गना-विषयकः केषाम् अपि दैत्यादीनाम् उपद्रवो नूनं भवेद् इति धूर्ततया आशङ्क्येव साटोपम् आह—ब्रूत इति। निजागमनस्य कारणं हेतुं प्रयोजनं वा ।

अथवा, तद्-उक्त्य्-अभिप्रायानिर्धारेण लज्जया वानुत्तरास् ता वीक्ष्य शोक-वेगेनामङ्गलस्याश्राव्यत्वेन वा किञ्चिद् अवदन्तीर् मत्वेव किञ्चिद् अन्यद् एव चोत्थापयन् स-वैयग्र्यम् इव पृच्छति—व्रजस्य इति । एवं सर्वम् अग्रेऽप्य् आशङ्कादिकं कैतवेनैवेति ज्ञेयं, तथाप्य् अवदन्तीः प्रसन्न-मुखीश् चालोक्याश्वस्तताम् अभिनयन् सलज्जम् इवाह—ब्रूत इति । शक्र-कृत-दुर्वृष्ट्य्-आदिनेव मत्-पार्श्वेऽत्र रात्रौ प्रायः सर्वासाम् ईदृश्आगमन-कारणं मद्-दुर्वितर्क्यत्वाद् यूयम् एव स्वयं ब्रूत इत्य् अर्थः ।

वस्तुतश् चेयं नर्म-भङ्गिर् एव । श्लेषार्थश् चायं—किं च, युष्माकम् आगमनेनैव व्रजस्य मङ्गलं व्यक्तम् । अत आगमनकं युष्माकम् आगमन-सुखम् अद् एव अरणं शरणं यस्य तं मां किञ्चित् किं ब्रूत । मया सहालापं किं करिष्यथ ? इत्य् अर्थः । यद् वा, अव्ययानाम् अनेकार्थत्वात् कच्चित् किञ्चिद् ब्रूत इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रथमम् अवहित्थयौदास्यम् अवलम्बमानः सादरम् आह—स्वागतम् इति । वो युष्माकं, शोभनम् आगतं वृत्तम् इत्य् अर्थः । यद् वा, वो युष्माभिः सुष्ठु आगतं कच्चिद् इति प्रश्ने । महान् भागो भाग्यं पातिव्रत्यादि-लक्षणं यासां तासां सम्बोधनम् । अतो वो युष्माकं किं प्रियं करवाणि, अपि तु न किञ्चित् कर्तुं शक्नोमि इत्य् अर्थः । यद् वा, किं करवाणि तद् आज्ञापयन्त्व् इत्य् अर्थः । महा-भागानां प्रियाचरणेन ममापि धर्म-विशेषो भावीति भावः ।

पूर्वं यज्ञपत्नीः प्रत्य् अप्य् एवम् एवोक्तं, किन्तु तत्र आस्यताम् [१०.२३.२५] इति गौरवं विधाय किं कर्तुं शक्नोमि, अपि तु न किम् अपीति केवलम् औदास्यम् । अत्र तु प्रियं किम् इति श्लेषेण साकाङ्क्षत्वम् अपीति विशेषः । वस्तुतस् तु एतासां तादृशागमनं दृष्ट्वा परम-प्रीत्यैवाह—स्वागतम् इत्य्-आदि । महा-भागा इति सर्व-परित्यागेन तद्-एकापेक्षया तासाम् आगमनात् स्वस्य च नाना-प्रिय-जनापेक्षया तादृशत्वाभाव-मननेन स्वस्माद् अपि प्रेम-महत्त्व-विवक्षयोक्तम् । भागोऽत्र भजनम् ।

अतस् तासां प्रेम-पर-वशः सन्न् आह—प्रियम् इति । तच् च प्रिय-जन-वशीकरण-चतुरस्य विदग्ध-शिरोमणेः स्वाभाविकम् एवेति दिक् । तद् इत्थम् एव परत्र च वस्तुत इत्य्-आदिकम् इति-शब्द-पर्यन्तो वास्तवोऽर्थो ज्ञेयः ।

तद्-अनन्तरं तु नर्मादि-मयो ज्ञेयः । तथा हि, स्वागतम् इत्य्-आदिना नर्मणा सद्-आचारम् इवाश्रित्य समागत-जनेषु वक्तुं योग्यम् उक्त्वा सर्वा एव युगपत् स-सम्भ्रमम् आगता वीक्ष्य स्वयम् अपि कैतवेन स-भय-सम्भ्रमम् इव पृच्छति—व्रजस्येतिअनामयं मङ्गलं कच्चित् ।

ननु, चतुर-सिंह ! तथा सति गोपादयोऽप्य् आगताः स्युर् इति चेत् ? सत्यम् । तर्हि अङ्गना-विषयकः केषाम् अप्य् उपद्रवो नूनं भवेद् इति धूर्ततया आशङ्क्येव साटोपम् आह—ब्रूतेतिनिजागमनस्य कारणं हेतुं प्रयोजनं वा ।

अथवा, तद्-उक्त्य्-अभिप्रायानिर्धारणेन लज्जया चानुत्तरास् ता वीक्ष्य, मन्ये शोक-वेगेनामङ्गलस्याश्राव्यत्वेन वा किञ्चित् न वदथेति व्यञ्जयन् किञ्चिद् अन्यद् एव चोत्थापयन् स-वैयाग्र्यम् इव पृच्छति—व्रजस्येति । एवं सर्वम् अग्रेऽप्य् आशङ्कादिकं कैतवेनैवेति ज्ञेयं । तथाप्य् अवदन्तीः प्रसन्न-मुखीश् चालोक्यास्वस्तताम् अभिनयन् सलज्जम् इवाह—ब्रूतेति । भवतु मद्-दुर्वितर्कत्वं, यूयम् एव स्वयं ब्रूतेत्य् अर्थः ।

अत्रैकैकैव वाक् समुपेक्षा-मयी सम्प्रार्थना-मयी चेत्य् उक्तम् । तत्रास्याः समुपेक्षामयीत्वं प्रपञ्चितं, सम्प्रार्थनामयीत्वं कथ्यते। इदम् एव श्लेषार्थतयाग्रेऽपि प्रतिश्लोकं लेख्यम् । तथा हि—हे महा-भागाः ! महान् भागो भाग्यं यासाम् ईदृशी ज्योत्स्नी, तत्रापीदृशं वनं, तत्रापीदृशं वो नव-यौवनादि, तत्रापीदृशोऽनुवर्ती जनोऽयम् अनुकूलः इति महद् एव भाग्यम् इति । तत्रेष्ट-प्रश्न-रूपं प्रार्थना-सोपानम् आह—कच्चित् वो युष्माकं स्वागतं ? प्रार्थनाम् आह—वो युष्माकं किं प्रियं करवाणि । अतो भवतीनां यत् हृद्-गतं किम् अपि प्रियम् अस्ति, तद् एव मम प्रार्थनीयम् इत्य् अर्थः । तत्र निरुत्तरा वीक्ष्य पुनः प्रार्थनार्थं सोपानान्तरम् आह—व्रजस्येति । प्रार्थनाम् आह—ब्रूतेति । मा लज्जतेति भावः ॥१८॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३३२) : उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते [उ।नी। ११.८५] । स यथा—स्वागतं वो महाभागा इत्य्-आदिकम्, व्यक्तं भवान् व्रज-भयार्ति-हरोऽभिजातः [भा।पु। १०.२९.४१] इत्य्-आद्य्-अन्तम् । अत्र श्री-कृष्ण-वाक्येषु प्रथमोऽर्थस् तासु वेण्व्-आदि-मोहितास्व् अपि वाम्यम् आचरन्तीषु सङ्ग-प्रार्थना-रूपः । द्वितीयस् तु परिहासाय तद्-भाव-परीक्षणाय च तद्-आगमन-कारण-स्व-सङ्ग-प्रत्याख्यान-रूपः । तथैव तासां वाक्येष्व् अपि तत्-प्रार्थना-प्रत्याख्यान-रूपः । अत एव पारस्परिक-समान-वैदग्धी-मयत्वाद् अतितरां रसः पुष्यते । स्वागतम् इति उभयत्र समानम् एव ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वागतम् इत्य्-आदिकम् उत्तर-प्रत्युत्तरम् ॥१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रादौ स्वीकार-पूर्वकम् आह—स्वागतम् इत्य्-आदि । हे महा-भागाः! परम-सौभाग्य-भाजः । स्वागतं सुखेनागतम् । प्रियं किं करवाणि वः, वो युष्माकं किं करवाणि युष्माकम् अनुरागोचितं प्रियम् ईश्वरोऽप्य् अहं कर्तुम् असमर्थ एव, तेनाहं व ऋणीवेति स्वीकारः । ताटस्थ्यम् आह—व्रजस्यानामयं कच्चित् ? आगमन-कारणं ब्रूत, किम् अर्थम् आगताः स्थ, तत् कथयत ॥१८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : तावत् तासां भाव-परीक्षार्थे स्वागतम् इत्य्-आदि-वाक्यान्य् आह । व्रजे पञ्च-विधा गोप्यः—नित्य-सिद्धाः, उपासना-सिद्धाः, दण्डकारण्य-मुनि-रूपाः, श्रुति-रूपाः, देवाङ्गनाश् च । क्रमशः पद्य-युग्मेन पृथग् यूथे मुख्याः प्रत्य् आह । तत्र नित्य-सिद्धाः प्रति स्वागतम् इति पद्य-द्वयेन, उपासना-सिद्धाः प्रति मातर इति पद्य-द्वयेन, मुनि-रूपाः प्रति तद् यातेति द्वाभ्यां, श्रुति-रूपाः प्रति भर्तुः शुश्रूषणम् इति द्वाभ्यां, देवाङ्गनाः प्रति अस्वर्ग्यम् [२६] इति द्वाभ्याम् । एवं दश वाक्यानि भवन्ति ।

औदासीन्यम् अकामत्वं सापेक्षत्वं सकामता एकस्मिन्न् एव वाक्ये तु तात्पर्यं हि चतुर्विधम् आद्य-द्वयेन भवति । विप्रलम्भो तु तापकृत् अन्त्य-द्वयेन भवति । सम्भोगस् ताप-शान्ति-कृत्—भो महाभागाः परम-सौभाग्यत्वस्य वो युष्माकं स्वागतं, प्रियं स्वस्मिन्न् आगत-प्राप्तम् एव । अतः परं किं प्रियं वो युष्माकं करवाणि । पूर्णानां कृतेनालम् इत्य् अर्थः । किञ्चिद् अपर्याप्तं चेत्, तर्ह्य् आज्ञापयन्त्व् इत्य् अर्थः । आदर-विशेषेणौदासीन्यं व्यञ्जितं, नास्माकं काम-विशेषोऽस्ति भवतीनां प्रियाचरणम् एव धर्म-विशेष-प्राप्तिर् इति अकामत्वं सूचितम् ।

यद् वा, वास्तवोऽर्थः स्वयम् एव । हे महाभागाः ! महान् भागो भाग्यं यासां ताः । यद् वा, महान् भागो भजनं यासां ताः । यद् वा, महती चासौ भा प्रीतिस् तां गता इति । पत्य्-आदि-त्यागेनागतानां मुखेषु प्रतिभा-विशेषोदयात्, यतः प्रतिबन्धम् अवगणय्य्यागताः । वो युष्माभिः स्वागतं स्वे स्व-स्थाने रमण-स्थाने आगतम् । वो युष्माकं किं प्रियं करवाणि ? वेणु-नाद-श्रवणानन्तरम् एवागताः, तत् सुष्ठु कृतम् । अतः परं यथेच्छं रमणं भविष्यतीति सूचितम् । अतः सापेक्षत्वं सकामत्वं सूचितम् ।

एवं तासाम् आगमनम् अनुमोद्य सम्भ्रमम् आलक्ष्याह—व्रजस्य इति । व्रजस्य भवतीनां निवास-स्थानस्य अनामयं निरुपद्रवं मङ्गलम् इति यावत् । कच्चिद् इति कोमल-प्रश्ने सर्वस्य चेद् उपद्रवोऽभविष्यत्, तदा सर्वे वृद्धा युवानो बालाश् चागतानामयत्वे लज्जाम् आलक्ष्य ताम् अपनुदन्न् आह—आगमन-कारणं ब्रूत कथयत । मम शक्यं चेत्, तदा शान्तिं विधास्ये । नो चेत्, तदा व्याबुध्य गम्यताम् इति । अत्र मम कश्चित् स्वार्थो नास्ति, कामोऽपि नास्ति । व्यञ्जनया वास्तवम् अर्थम् आह—व्रजस्य सर्वस्य भवतीनां पति-पुत्रादेर् अनामयम् आरोग्यम् उपद्रवकत्वाभावो वर्तते । कच्चिद् इति सन्देह-पूर्व-प्रश्ने मया चातुरी-विशेषेण तथैव कृतम्, यथा कश्चिद् अत्र नागमिष्यतीति । शङ्का चेत् कथयत, सङ्कोचेन अकथयन्तीः प्रत्य् आह । आगमन-कारणम् आगमने कारणम् अभीष्ट-विशेषं ब्रूत, येन रमणाभिलाषेणागताः तत् सर्वं मुखेन कथयत, तद् अहं सर्वम् एव सम्पादयिष्ये ।

यद् वा, अनामय-प्रश्नेन वानुरागेण तूष्णीं-भाव-स्थित्या मुख-प्रसत्त्या च उपद्रवाभावम् आकलय्याह । आगमन-कारणम् आगमने तथा यत् कं सुखं, तस्य अरणं शरणम् आश्रयः, तं मां प्रति ब्रूत । यद् वा, आगमनेन स्थित्या यत् कं सुखं तत्र अरणम् आश्रयः स्थलम् इति तावत्, तद् ब्रूत । वने वा पुलिने वा जले वा विहरिष्यथेति कथयत, तथैव सम्पादयिष्ये । व्यञ्जना-वृत्त्या तन्-मनोरथ-[पूर्णं प्रतिश्रुतीत्य्]{।मर्क्} अर्थः । सापेक्षत्व-सकामत्वे दर्शिते ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ स्त्री-पुंसां रसज्ञानां मिलने तावद् इयं रस-रीतिर् यत् पुमांसो रतौत्सुक्याम् आविष्कुर्वते, स्त्रियस् तु तत्रासहिष्णवः कुप्यन्तीत्य् अतस् ताम् एव रस-रीतिं प्रथमम् आश्रित्य कृष्ण आह—स्वागतं वो युष्माकं कच्चित् सुखमयम् आगमनं वृत्तम् ? यतो यूयं महा-भागाः जन्मारभ्य दुःखस्य मुखं भवतीभिः कदापि न दृष्टम् इति भावः ।

यद् वा, नायं प्रश्नः, किन्तु प्रत्युक्तिः । अतो युष्माकं [स्वागतं] शोभनम् आगमनम् अद्य वृत्तम् । यद् अत्रागतं तत् सम्यक् कृतम्, यतो महा-भागा, भाग्यवतीनां हि सर्वाः क्रिया एव सफलीभवन्त्यः, स्वस्य परस्य च सुखदा भवन्तीति भावः । अतो वः किं प्रियं करवाणि ? अधुना रात्राव् अत्र निर्जने वने एकाकिना यूना मया युवतीनां वो यत् प्रियम् आतिथ्यं कर्तुं शक्यं स्यात्, तद् ब्रूत । युष्मत्-प्रिय-चिकीर्षौ मयि सारल्येन स्व-प्रियं कृपया स्पष्टं वक्तव्यम्, यथा निःसन्देहं तत्राहं प्रवर्तेयेति भावः ।

ततश् च, भो महा-साहसिक लम्पट ! अस्मान् अपि पतिव्रताः यद् एवं वक्तुम् उत्सहसे, तत् किं धर्मतो राजतश् च न बिभेषि ? इति समुचितं प्रत्युत्तरम् अप्राप्तवता प्रियं किं करवाणि ? इत्य् अस्य व्यञ्जितेऽङ्ग-सङ्ग-रूपेऽर्थे सम्मति-लक्षणं लज्जा-हेतुकं मौनम् एव दृष्टवता भगवता विचारितं—यद्य् एताभिः स्व-समुचितं वाम्यम् अद्य नाङ्गीक्रियते, तर्हि मयापि स्व-समुचितम् औत्सुक्यं न बहिष्करणीयम्, किन्तु वाम्य-मिश्रम् एव । ततश् च सम्भोग-भेदे सम्प्रयोगे यथा वैपरीत्यम् अपि चारु भवति, तथैव सम्भोग-भेदे सम्मिलनेऽपि वैपरीत्यम् अपि चारु भवतु । किन्त्व् आसां महा-मोहन-वेणु-नाद-माध्वीक-पानोत्थातिवैवश्याद् एव प्रकृति-विपर्यायः, तत एव दाक्षिण्यं मम तु वैवश्याभावात् तद्-अनुरोधाद् एव कृत्रिमं वाम्यं बहिर् एव कार्यम्, अन्तस् तु स्वाभाविकम् औत्सुक्यम् अस्त्य् एवेत्य् आदिकं विचार्य च वाम्य-पदवीम् आरोढुं सभय-सम्भ्रमं पृच्छति—व्रजस्य इति । कच्चिद् व्रजस्यानामयं मङ्गलं न जाने साम्प्रतं व्रजे कश्चिद् इन्द्रादि-कृत उपद्रवो वर्तते, यतः सर्वा एव भवत्यो भीताः पालाय्य स्व-त्राणार्थं मद्-अन्तिकाम् आयाता इति भावः । ततश् च केयम् अद्यतनस्य धूर्तता-लहरीति मिथः सस्मित-सविस्मयावलोकं वितर्कयन्तीषु तास्व् अहो युष्माकं मौनेनैवावगम्यते, नोपद्रवः । तर्हि ब्रूत किम् अर्थम् आयाताः, अहं तु नाभ्यूहितुं समर्थ इति भावः ॥१८॥


॥ १०.२९.१९ ॥

रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता ।

प्रतियात व्रजं10 नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लज्जया मन्द-हसितम् आलक्ष्याह—रजन्य् एषा इति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपाङ्गनानां मन्द-हसितं स्मितम् । रजनी व्यभिचारि-जनानुरञ्जन्य् अप्य् एषा घोराणां भयदानां रूपं प्रकृतो यस्यां सा । तद् एवाह—घोर-सत्त्वा व्याघ्राद्याः, तैर् निषेविता । यद् वा, रात्रि-चरत्वाद् घोर-सत्त्वा राक्षसा वा। स्त्रीभिः भीरु-स्वभावाभिः । यद् वा, घोर-सत्त्वैर् अस्माभिः यष्टि-कम्बल-धारिभिः निषेवितासुमध्यमाः ! क्षीण-कटि-प्रदेशाः ! न गोप-योग्या इति सम्बुद्ध्य्-अभिप्रायः, प्रार्थना-परम् इदम् । तांस् त्यक्त्वा मां सेवध्वम् इत्य् अभिप्रायः ।

द्वितीयोऽर्थः—उदित-पूर्ण-चन्द्रा जनानुरञ्जनी घोर-रूपा । अघोर-सत्त्वा योगिनः, तैर् जन-सम्बाधाभावान् निषेविता । तस्माद् व्रजं प्रति न यात इह स्थेयम् । अन्यत्र तिष्ठन्तु नाम मत्-पार्श्वे स्त्रीभिर् न स्थेयं ममाबाल-ब्रह्मचारित्वेन स्त्री-सङ्ग-परिहारात् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : निषेधे विधिम् आह—रजन्य् एषा घोर-रूपा इत्य्-आदि । एषा रजनी घोरैः सत्त्वैर् निषेविताः । अत इयं रात्रिर् भयङ्करी, तस्माद् इह न स्थेयम्व्रजं यात इत्य् अवस्थाने निषेधः । तत्रैव विध्य्-अर्थश् च—तथा हि, एषा रजनी अघोर-रूपा अघोरैः सत्त्वैर् हरिणादिभिर् एव सेविता, न तु व्याघ्रादिभिः । प्रतियात व्रजं न, इह स्थेयं, हे सुमध्यमाः ! स्त्रीभिः स्त्री-नामीभिर् लक्ष्मीभिर् भवतीभिर् इति ॥१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एषा प्रत्यक्षा । प्रत्यक्षत्वम् एवाह—घोरं स्वरूपं यस्याः सा, तामसत्वात् । किं च, घोरैः सत्त्वैः प्राणिभिर् नितरां सेविता व्याप्ता । अतः प्रतियात, निवृत्त्य गच्छत, नात्र विलम्बो युक्त इत्य् आशयेनाह— इति । इह वने । किं च, हे सुमध्यमाः ! सुन्दरीभिर् अस्मिन् भयानक-काले भय-स्थाने च स्थातुं न युज्यत एवेति भावः । अन्यत् तैर् व्यञ्जितम् एव ।

यद् वा, ननु रसिक-शेखर ! भवान् इव वयम् अप्य् अत्र विहर्तुं पुष्पाद्य् आहर्तुं वा आगताः स्म इति चेत्, तत्राह—रजनी इति । एषा रजन्य् एव, न तु दिनम् ।

ननु, रात्रि-विलासिन् ! ततः को नाम दोषः ? तत्राह—घोर इत्य्-आदि स्वभावतो भय-जनिका, तत्रापि घोर-सत्त्वैर् निषेविता । यद् वा, हे कमल-लोचन ! ज्योत्स्नीयं रात्रिः । तत्राह—घोर-सत्त्व- इति । अतः स्त्रीभिर् इह वने न स्थेयम्, स्थातुं न योग्यम् इति व्रजं प्रतियात

श्लेषेण यूयं यूथशो बह्व्यो व्रज-पुरुष-समूहं स्व-स्व-पतीन् इति यावत् प्रतियात भजत, एकाकिना मया बह्वीनां प्रियाचरणस्याशक्त्यत्वात् । अतोऽत्र न स्थेयम् इति नर्म-विशेषः ।

ननु भीरु-प्रवर ! घोर-सत्त्वेभ्योऽस्माकं न भयम् ? तत्राह—सुमध्यमाः ! हे कृश-मध्याः ! कृशाङ्गीनाम् अबलानां बलिष्ठेभ्यो भयं स्याद् एवेति भावः । वस्तुतश् चैतत् तासां स्व-विषयक-भावस्य द्रढी-करणार्थः । किं वा, नर्मणोत्कण्ठा-विवर्धनार्थं वा । श्लेषार्थ-पक्षे च घोर-सत्त्वादिना अत्र न कोऽप्य् आयास्यतीति भावः ।

किं च, एषा उदित-पूर्ण-चन्द्रमा जनान् रञ्जयतीति रजनी । अ-कार-प्रश्लेषेण अघोर-रूपा । तमोऽपगमात् । यद् वा, शान्ता आसन्न-शुद्ध-सात्त्विक-पुण्य-मास-कार्त्तिक-सम्बन्धात् । इति रास-मङ्गल-योग्यतेत्य् अर्थः ।

किं च, घोरै रस-विधानकत्वेन भय-जनकैः सत्त्वैर् युष्मत्-पत्य्-आदिभिर् दिनवन् निषेविता । यद् वा, अघोरैर् वृन्दावन-स्वभावेन मिथो मित्रत्व-प्राप्त्या भयाजनकैर् एव सत्त्वैः सर्व-प्राणिभिः । किं वा, अघोरैः सत्त्वैर् हरिण-मयूरादिभिर् एव रति-जनकैः । यद् वा, घोरं दुष्टानां भय-जनकम् । किं वा, अघोरं केषाञ्चिद् अपि जनानां भयाजनकं सत्त्वं बलं यस्य ममेति बालाश्वासनार्थम् । किं वा, अघोरं शान्तं सुखदं स्वभावो यस्य, तेन मया निसेविता इति निज-वैदग्धी-विज्ञापनम् । अतः सर्वथा व्रजं न प्रतियातइह एव स्थेयं युष्माभिः । कुतः ? स्त्रीभिः, तत्रापि हे सुमध्यमाः ! परम-सुन्दरीभिर् इत्य् अर्थः । अतो मद्-अन्तिक एवात्र स्थातुं युज्यत एवेत्य् अर्थ इति ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एषा प्रत्यक्षा इति । तासां तर्क-वाग्मिताम् आशङ्क्य द्रढयति—ततः कुल-वधूनां बहिर् वनादाव् आगमनं नोचितम् इति भावः ।

ननु समुदित्य बह्वीनाम् आगमनं न दोष-भाक् । यदि च दोष-भाक्, तर्हि व्रजेऽपि किम् एषा रजनी नास्ति ? तत्राह—घोर- इति । इह वन एव घोरं रूपं तामस-स्वभावाभिव्यक्तिर् यस्याः, न तु व्रजे, इहासहायत्वात् तत्र स-सहायत्वाद् इति भावः । तथा इह घोरैः प्राणिभिर् नितरां सेविता व्याप्ता च । अतो व्रजं प्रतियात, निवृत्त्य गच्छत, नात्र विलम्बो युक्त इत्य् आशयेनाह— इति ।

ननु तर्हि कथम् अत्र भवता स्थीयते ? तत्राह—स्त्रीभिः इति न तु स्त्रिय इव पुरुषा अल्प-सत्त्वा इति भावः । किं च, हे सुमध्यमाः ! इति "यत्राकृतिस् तत्र गुणा वसन्ति" इति न्यायेन सुन्दरीणां गुणवतीनां च भवतीनाम् अत्रावस्थानं न युक्तम् इति भावः । अन्यत् तैः ।

यद् वा, ननु रसिक-शेखर ! भवान् इव वयम् अप्य् अत्र विहर्तुं पुष्पाद्य् आहर्तुं वा समागताः स्म इति छद्मना तासाम् अवस्थितिम् आशङ्क्याह—रजनी इति । एषा रजन्य् एव, न तु दिनम् ।

ननु, रात्रि-विलासिन् ! ततः को नाम दोषः ? तत्राह—घोर- इति । हे कमल-लोचन ! ज्योत्स्नीयं रात्रिः । तत्राह—घोर-सत्त्व- इति । श्लेषेण, यूयं यूथशो बह्व्यो व्रजं तत्र स्थितान् स्व-पतीन् प्रति यात भजत, एकाकिना मया बह्वीनां प्रियाचरणस्याशक्यत्वात् । अतोऽत्र न स्थेयम् इति नर्म-विशेषः ।

ननु भीरु-प्रवर ! घोर-सत्त्वेभ्योऽस्माकं न भयम् । तत्राह—सुमध्यमाः ! हे कृश-मध्याः ! तनु-मध्यत्वात् कृशाङ्गीनाम् अबलानां बलिष्ठेभ्यो भयं स्याद् एवेति भावः ।

वस्तुतश् चैतत् तासां स्व-विषयक-भावस्य व्यञ्जनार्थः । नर्मणोत्कण्ठा-वर्धनार्थं च श्लेषार्थश् चायं भय-सम्भावनया च निजाभीष्टं मा निवर्तयतेत्य् आह प्रथमार्धेन । एषा उदित-पूर्ण-चन्द्रा जनान् रञ्जयतीति रजनी घोर-रूपा इत्य्-आदिकयोस् तस्मात् अत्र न कोऽप्य् आयास्यतीति भावः । तस्मात् इह मम वीरस्यैव सन्निधौ स्थेयम्

यद् वा, अघोर-रूपा तमोऽपगमात् अघोरैर् वृन्दावन-स्वभावेन मिथो मित्रत्व-प्राप्त्या भयाजनकैर् एव सत्त्वैः सर्व-प्राणिभिः दिवस-प्रायत्वाद् अस्या ज्योत्स्न्या अघोरैः सत्त्वैर् भ्रमर-कोकिलादिभिर् एव वा निषेविता

यद् वा, घोरं दुष्टानां भय-जनकम् अ-कार-विश्लेषणे अघोरं केषाञ्चिद् अपि भयाजनकं वा सत्त्वं बलं यस्य मम, तेन निषेविता इति बालाश्वासनार्थं ।

तच् छ्रुत्वा पृष्ठ-वर्तिनीः सखीः स-स्मितं परावृत्य पश्यन्तीः प्रत्याह उत्तरार्धेन । अतः सर्वथा व्रजं प्रति न यातइह एव स्थेयं युष्माभिः । कुतः ? स्त्रीभिः स्त्री-जातीनाम् ईदृश-स्थान एव स्थातुं योग्यत्वाद् इत्य् अर्थः । तत्रापि च, हे सुमध्यमाः ! परम-सुन्दरीत्वान् मद्-अन्तिक एवात्र स्थातुं युज्यते एवेत्य् अर्थ इति ॥१९॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : रजन्य् एषा । यदि कथञ्चिद् आगता एव तद् आधुना तु रजन्या घोर-रूपादित्वात् व्रजं प्रति न यात, यातुं नार्हथ । किन्तु स्त्रीभिर् युष्माभिर् इह मम वीरस्य सन्निधाव् एव स्थेयं स्थातुं योग्यम् इति । सुमध्यमा इति पुनर् गमने खेदम् अपि दर्शितवान् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : परिहास-पूर्वक-निषेधे विधिम् आह—रजन्य् एषा इत्य्-आदि । एषा रजनी घोर-रूपा, यतो घोरैः सत्त्वैः प्राणिभिर् निषेविता । तस्माद् गृहं प्रतियातइह स्त्रीभिर् न स्थेयम्, स्त्रियः स्थातुं नार्हन्ति । अथवा, स्त्रीभिः सह यया न स्थेयम् । यूयं चेन् न गच्छत, तदाहम् एव गमिष्यामीति तत्रावस्थानं प्रति निषेधः । गृहं प्रतियात इति विधिः ।

पुनर् निषेध-विध्योर् विधि-निषेधाव् अत्रैव । रजन्य् एषा अघोर-रूपा, चन्द्रिका-विशदत्वात्, अघोरैः शान्तैर् मृगादिभिः सत्त्वैर् निषेविता । तस्माद् भयाभाव एवात्र । तेन गृहं न प्रतियात, इह वृन्दावने स्त्रीभिर् भवतीभिः स्थेयम् । इतः परं वृन्दावन एव स्थेयम् । गृहं मा गन्तव्यम् इत्य् अर्थः । हे सुमध्यमाः ! यद् वा, स्त्रीभिः स्त्रीणां मध्ये ईभिः लक्ष्मीभिः, स्त्रीणां लक्ष्मीभिर् इति वा ॥१९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : घोर-रूपा घोरं भयङ्करं रूपं यस्यास् तामस-भावत्वात् । घोरैर् भयङ्करैर् हिंस्रैर् इत्य् अर्थः । तैः सत्त्वैः प्राणिभिर् बलिभिः निषेविता । अतो व्रजं प्रतियात गच्छत । स्वयम् एव समाधत्ते इह वने स्त्रीभिः न स्थेयं सामान्यतो भीरु-स्वभावाभिर् अपि किं पुनर् युवतीभिर् भवतीभिः । तत्र साभिप्रायं सम्बोधयन्न् आह—हे सुमध्यमाः ! कृशोदर्यः ! दिनेऽप्य् अत्रावस्थानं नोचितं भवतीनां, किं पुनः रात्राव् इति ।

किं च, युष्माकम् आगमनं दृष्ट्वा ममाप्य् एषा रजनी घोर-रूपा जाता । युष्मत्-सङ्गतं मां यदि कश्चित् पश्येत्, तदा को वेद किं स्यात् ? इति, विजने वने निष्कामस्योदासीनस्यैवं-स्थितिर् उचिता, न तु सकामस्य कृशाङ्गीनां भवतीनां स-साहसागमनं दृष्ट्वा एषा रजन्य् अपि रञ्जन-कर्त्र्य् अपि मम घोर-रूपा जाता । यूथशो मिलितानां भवतीनां सान्त्वनस्याशमत्वात्, अतो निष्कामस्योदासीनस्य मम भवतीभिः सह रहसि स्थितिर् उचिता न भवति । निष्कामत्वम् उदासीनत्वं च सूचितम् ।

सुमध्यमा इति पदेनेदं लभ्यते । घोर-सत्त्व-निषेविता अपि सुन्दरीभिः निषेवितेति चित्रं विरोध-लक्षणं या सापेक्ष-सकामत्वे सूचयन् रात्रेर् एवोद्दीपन-विभावत्वम् आह—एषा परिदृश्यमाना रजनी रञ्जयतीति रजनी सकामानोचितम् इति ।

कीदृशी ? अ-कार-प्रश्लेषेण—अघोर-रूपा चन्द्र-किरणैर् दिव इव प्रकाश्यमानत्वात् । यद् वा, मादृशानाम् अघोर-रूपापि युष्मत्-पत्य्-आदीनां घोर-रूपैव प्रतीयते, यतः कोऽप्य् अत्र नायास्यतीति निःशाङ्कं विहरतेति द्योतितम् ।

किं च, घोरैः स्वरूपेण भयङ्करैः स्वभावेन शान्तैः सत्त्वैः प्राणिभिः निषेविता । तद् उक्तम् अत्रैव—यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः [१०.१३.६] इति । इत्य् अनेन रमण-प्रतिबन्धक-प्राणि-राहित्यं सूचितम् इति । यद् वा, अघोरैः सत्त्वैः पारावतान्यभृत्-सारस-शुक-सारिकादिभिः निषेविता इति उद्दीपन-विभाव-प्रदर्शनम् । यद् वा, अघोरैः सत्त्वैः शान्तिदं काम-ताप-निवर्तकं सत्यं बलं यस्य, तेन पर-कामिना मादृशेन निषेविता । यद् वा, घोरैः राजसैः सत्त्वैर् युष्मत्-सदृशैर् महा-साहसिकैर् निषेविता । अतो व्रजं न प्रतियात

कुत्र स्थातव्यम् ? इति चेत्, तत्राह—इह रहसि स्त्रीभिः स्थेयम्, किं पुनः परम-विदग्धाभिर् भवतीभिः ! इयत् व्यञ्जनया रमणं द्योतितं, स्वस्य कामत्व-सापेक्षत्वे सूचिते ॥१९॥


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "**हन्त हन्त ! कुल-धर्म-धैर्य-लज्जादिकं ध्वंसयित्वा प्रतिदिनम् अस्मान् उपभुञ्जानोऽयम् अद्य वेणु-नादेनाकृष्यानीय कारणं पृच्छति !" इत्य् अपाङ्ग-चालनैर् एव परस्परम् आचक्षाणासु तासु, "सत्यं देव-पूजोपयोगि-रजनी-विकाशि-पुष्पाहरणार्थम् आगच्छामः" इति किं लतास्व् अपाङ्ग-निक्षेपेण ब्रूध्वे, अयुक्तम् इदं काल-देश-पात्रानौचित्याद् आह—रजनी इति । एषा चन्द्रिका-बहुलापि घोर-रूपा रात्रित्वाद् एवेति वल्लि-मूल-पल्लवादिषु सूक्ष्म-सर्प-वृश्चिकादेर् दुर्लक्ष्यत्वात् पुष्पाहरणस्य कालोऽयम् अनुचिता इति भावः । घोर-सत्त्वा व्याघ्रादयः, तैर् निषेविता इति काल-सम्बन्धेन वृन्दावन-देशोऽप्य् अयम् अनुचित इति भावः । तस्माद् व्रजं प्रतियात

ननु, क्षणं विश्राम्य यास्यामः ? तत्राह—नेह स्त्रीभिः स्थेयम् इति । काल-देश-सम्बन्धेन युष्मल्-लक्षणानि पात्राण्य् अप्य् अनुचितानीति भावः । तत्रापि हे सुमध्यमा इति यूयं सुन्दर्यो युवतयः स्थः । अहं च सुन्दरो युवैवात्रास्मि । यद्यपि यूयं परम-साध्व्य एव, "अहं च कृष्णो ब्रह्मचारी" इति गोपाल-तापनी-श्रुति-प्रामाण्येन ब्रह्मचार्य् एवेति सहावस्थानेऽपि न कश्चिद् दोषः, तद् अपि मनः खल्व् अविश्वास्यं युष्माकं मम च" इति भावः । एवं व्यञ्जितम् अन्तरौत्सुक्यं श्लिष्टार्थेनापि स्पष्टीभवति । तद् यथा, आगमन-कारणं लज्जया न ब्रूध्वे चेन्, मा ब्रूत, तद् अहं जानाम्य् एव । तस्मात् तत्त्वं शृणुतेत्य् अत आह—रञ्जयतीति रजन्य् एषा चन्द्रिका-मयत्वाद् अघोर-रूपा, तस्माद् एव अघोर-सत्त्वैर् मृगादिभिर् एव वृन्दावन-स्वभावेनाहिंस्रत्वाद् व्याघ्रादिभिर् अपि निषेविता इति तेनात्र न भेतव्यम् इति भावः ।

यद् वा, नात्र स्व-स्व-पत्य्-आदिभ्यो भेतव्यं यतो घोर-सत्त्व-निषेविता इति तेऽत्र नागमिष्यन्तीति भावः । अतो व्रजं प्रति न यात, इह मद्-अन्तिके स्थेयम् । कुतः ? स्त्रीभिः किं ? स्त्री-मात्रम् एव स्वान्तिके स्थापयसीत्य् अत आह—हे सुमध्यमा इति सौन्दर्ये तारुण्ये च सति याः स्त्रियः शोभन-मध्य-देशा भवन्ति, ताभिर् भवतीभिर् एव नान्याभिः स्थेयम् इति भावः । एवम् उपेक्षमया अपेक्षामयश् चार्थाः कृष्णोक्तीनां ज्ञेयाः ॥१९॥


॥ १०.२९.२० ॥

मातरः पितरः पुत्राः भ्रातरः पतयश् च वः ।

विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मातर इति । विचिन्वन्ति मृगयन्ते । बन्धूनां साध्वसं कृच्छ्रं मा कृध्वं मा कुरुतेत्य् अर्थः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अप्य् आह—इह स्थितौ भवद्-बन्धूनां क्लेशो भवेद् इत्य् आह—किं च इति । मातरः स्नेह-वशात्, पितरो निन्दा-भयात्, पुत्रा बालाः स्तन्यादि-हेतोः, भ्रातरोऽपि निन्दा-भयाद् एव, पतयो व्यभिचार-शङ्कया । भीतिर् भीः साध्वसं भयम् इत्य् अमरः । बन्धूनां मध्ये साधोः साधुत्वस्य असं क्षेपं मा कुरुत, न हि साध्वीनां रात्रौ बहिर् गमनम् उचितम् इति भावः । इत्य् अर्थ इति—साध्वस-परिगामित्वात् परस्मैपद-प्रयोगेणार्थः कार्य इति तात्पर्यम् ।

प्रार्थनायां तु ते अपश्यन्तो विचिन्वन्ति इति बन्धु-भय-प्रयुक्तं साध्वसं मा कृढ्वं, मा कुरुध्वं, यतस् ते मोहिताः । किं च, अत्रागताः युष्मान् मत्-पार्श्वे पश्येयुः, तदा युष्माकं मम च लज्जा-भयं स्याद् एव । अपश्यन्तो मा विचिन्वन्ति, अतो बन्धुभ्यो भयं मा कुरुत । माङ् उभयत्रान्वेति ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मातरः पितरः इति कुमारीः प्रति, पतय इति ऊढाः प्रति, पुत्रा इति पुष्ट-पुत्राः प्रति, अपत्यवतीनां देहान्तरेण गतत्वात् अपश्यन्तो मा विचिन्वन्ति, ते तु तत्रस्था एवेत्य् एवं जानन्ति मत्-प्रभावाद् एवेति बोद्धव्यं—स्वान् स्वान् दारान् व्रजौकसः [भा।पु। १०.३३.३८] इति वक्ष्यमाणत्वात् । अतो बन्धुभ्यः साध्वसं मा कृढ्वम् इति मा-शब्दः काकाक्षि-गोलक-न्यायेनोभयत्र योज्यः । अथवा, बन्धु-साध्वसम् अकृढ्वं छिन्नवत्यः, कृञ् हिंसायाम् इति सिद्धम् । बन्धु-साध्वसं नास्त्य् एवेत्य् अर्थः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, पुरुष-सिंह ! परम-बलीयसस् तवान्तिके स्थितानां नः कुतो भयम् ? इत्य् आशङ्क्य स-शङ्कम् आह—मातर इति । आदौ स्नेह-विशेषात् मातरः, ततस् तासां वने बहु-परिभ्रमणाशक्त्या स्नेहेन कलङ्क-भयेन च पितरः, विवाहित-कन्या-विषयकापेक्षा-विशेषाभावेन तेषां शैथिल्ये सति पुत्राः, पुत्र-तुल्याः । मातृ-दोषेण लज्जा-विशेषोत्पत्तेः, मातृ-जार-सङ्गोपनार्थं धार्ष्ट्य-परिहारार्थं वा बाल्येन बहु-परिभ्रमणाशक्त्या वा तेषां तेषां शैथिल्ये भ्रातरः, स्वभावतः परम-स्निग्धत्वात्, तेषाम् अपि लज्जादिना कथञ्चिच् छैथिल्ये पतयो विचिन्वन्त्य् एव, पत्नी-गुण-दोष-भागित्वात् । एवम् अन्वेषणे तेषां यथोत्तरं श्रैष्ठ्यं, तेन च पतीनाम् अवश्यम् आगमनम् अभिप्रेतम् । यद् वा, काश्चिन् मातरः, काश्चित् पितरः इत्य् एवं यथा-स्थितम् । किं वा, उक्त-युक्त्यैव स्नेहादिना कुत्रापि मातरः, कुत्रापि पितर इत्य् एवं ते सर्व एव अपश्यन्तो गृहेषु वनेषु वा अनालोकयन्तो विचिन्वन्ति, इतस् ततो मृगयन्ते । हि वितर्के ।

अतो यदि कदाचित् ते अत्रागता मत्-पार्श्वे युष्मान् पश्येयुः, तदा युष्माकं मम च लज्जा भयं च स्याद् एवेति भावः । अतोऽत्रावस्थित्या निज-बन्धुभ्यो ममात्मनश् च साध्वसं भयं मा कृढ्वं नोत्पादयत ।

यद् वा, हे महा-मन्त्राभिज्ञ ! तेऽत्र सुदुर्गम-वन-मध्ये नागमिष्यन्ति । आगता अपि न द्राक्ष्यन्त्य् एव । तत्राह—युष्माकम् अप्राप्त्या व्याघ्रादिभ्यो युष्माकम् अनिष्ट-शङ्कया बन्धूनाम् भयं शङ्कां नोत्पादयत, "साधवो बन्धु-वात्सलाः" इति न्यायात् । अतस् तेषु स्नेहेन च निवर्तध्वम् इति भावः ।

यद् वा, वो युष्माम् मापुर् मद्-वीर्य-चिन्तया [भा।पु। १०.४७.३७] इत्य्-आदिवत् मा मां चापश्यन्तो युष्मन्-मात्रादयो विचिन्वन्ति । ननु निर्भय-सिंह ! विचिन्वन्तु पश्यन्तु वा, ततः किम् इत्य् अत्राह—बन्धु-भयम् अकृढ्वम् । अवश्य-कृत्यतापेक्षयातीत-निर्देशः, कुरुत इत्य् अर्थः । अन्यथा स्त्रीणां स्वातन्त्र्य्-आपत्त्या बहु-दोषोत्पत्तिर् इति भावः ।

अथवा, सुव्रत ! त्वत्-पार्श्व-स्थिता न कुतश्चिद् अपि बिभिम इत्य् आशङ्क्य चक्षुर्-मुद्रण-पूर्वकं साभिनयम् आह—इह मत्-पार्श्वे स्त्रीभिर् न स्थेयम्, आबाल-ब्रह्मचारित्वेन मम स्त्री-सङ्ग-परिहाराद् इत्य् अर्थः । अहो बत ! शिव शिव ! बालानां वृद्धानां वा कदाचित् सहवासे दोषोऽपि किल न घटेत, यूयं च नव-यौवनारूढा इत्य् आह—हे सुमध्यमा इति।

ननु, महा-कपट-पटो ! गृहेश्व् अस्माभिः सङ्गो भवतो बहुधा भवत्य् एवेत्य् आशङ्क्य आह—इह इति । इह निर्जने वने समये च प्रदोषे इति दोष-विशेषं श्री-मुख-भङ्गी-विशेषेण सूचयति । अतो\ऽत्रेदानीं युष्मत्-सङ्गान् मम दुष्कीर्तिर् एव बाढं स्याद् इति सर्वथा प्रयातैवेति ।

ननु सुप्रतिष्ठ ! न कोऽपि ज्ञास्यतीति दुष्कीर्तेर् मा भैषीः, तत्राह—मातर इति । अतो नूनम् अत्रागता द्रक्ष्यन्त्य् एवेति भावः । अतो मद्-बन्धूनां मद्-दुष्कीर्तेर् भयं मा सम्पादयत। यद् वा, वो मात्रादयो युष्माकं गृहेभ्यो निर्गमादिना मत्-पार्श्वे गमनम् आशङ्क्य मा मां तत्र कुत्राप्य् अपश्यन्तो विचिन्वन्ति । सामीप्ये वर्तमाना, विचेष्यन्त्य् एवेत्य् अर्थः । ततश् चात्रायातैस् तैर् मयि युष्माभिः सहिते दुष्टे युष्मद्-धेतुक-मद्-दुष्कीर्त्या युष्मान् प्रति क्रुद्धेभ्यो मद्-बन्धुभ्यो भयं कुरुतेत्य् अर्थः । अन्यत् समानम् ।

वस्तुतस् तु तेभ्यो भयाभावं च तासां द्रढयतीति दिक् । श्लेषार्थश् चायम् । एवार्थे हि-शब्दः । अन्धा इव अपश्यन्त एव विचिन्वन्ति, अतो बहु-मार्गणेनापि न द्राक्ष्यन्त्य् एवेत्य् अर्थः । यद् वा, अप्य्-अर्थे हि-शब्दः । अन्धा इव अपश्यन्तोऽपि विचिन्वन्ति किम् ? काक्वा नैवेत्य् अर्थः । भवतीभिस् तेषाम् उपेक्षणात्, अतो बन्धुभ्यो भयं मा कुरुतेति ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, पुरुष-सिंह ! परम-बलीयसस् तवान्तिके स्थितानां नः कुतो भयम् ? इत्य् आशङ्क्य स-शङ्कम् आह—मातर इति । अत्र मातरः पितरो भ्रातर इति कुमारिका दृष्ट्वा भणितं । व्यूढतया प्रतीता दृष्ट्वा तु पतयः पुत्रा इति यद् उक्तं, तत् खलु परिहासार्थं कल्पना-मात्रम् इति स्थापयिष्यते । -शब्द उक्त-समुच्चये । हि निश्चये । अतो यदि कदाचित् तेष्व् एकोऽप्य् अत्रागतो मत्-पार्श्वे युष्मान् पश्येत्, तदोभयेषाम् अपि लज्जा-भये स्याताम् इति भावः । अतोऽत्रावस्थित्या निज-बन्धुभ्यो ममात्मनश् च साध्वसं भयं मा कृढ्वं नोत्पादयत ।

यद् वा, हे महा-मन्त्राभिज्ञ ! ते सुदुर्गम-वन-मध्ये नागमिष्यन्ति । आगता अपि न द्राक्ष्यन्त्य् एव तत्राह—युष्माकम् अप्राप्त्या बन्धूनाम् अनिष्ट-शङ्कातो भयं नोत्पादयत, "साधवो बन्धु-वात्सलाः" इति न्यायात् । अतस् तेषु स्नेहेन च निवर्तध्वम् इति भावः ।

अथवा, श्लोक-द्वयेऽस्मिन् प्रत्यावृत्येदं व्याख्येयं—हे सुवृत्त [सुव्रत] ! त्वत्-पार्श्व-स्थिता न कुतश्चिद् अपि बिभिम इत्य् आशङ्क्य चक्षुर्-मुद्रण-पूर्वकं साभिनयम् आह—नेह इति । मत्-पार्श्वे स्त्रीभिर् न स्थेयम्, आबाल-ब्रह्मचारित्वेन मम स्त्री-सङ्ग-परिहाराद् इत्य् अर्थः । अहो बत ! बालिकानां वृद्धानां वा कदाचित् सहवासे दोषोऽपि किल न घटेत, यूयं तु नव-यौवनारूढा इत्य् आह—हे सुमध्यमा इति ।

ननु, महा-कपट-पटो ! व्रजेऽस्माभिः सङ्गो भवतो बहुधा भवत्य् एव ? तत्राह—इह इति । इह निर्जने वने समये च प्रदोषे इति दोष-विशेषं श्री-मुख-भङ्गी-विशेषेण सूचयति । अत इह इदानीं युष्मत्-प्रसङ्गात्, मम दुष्कीर्तिर् इति वा पाठः कीर्तिर् एव बाढं स्याद् इति सर्वथा प्रयातैवेति ।\

ननु सुप्रतिष्ठ ! न कोऽपि ज्ञास्यतीति दुष्कीर्तेर् मा भैषीः, तत्राह—मातर इति । अतो नूनम् अत्रागता द्रक्ष्यन्त्य् एवेति भावः । अतो मद्-बन्धूनां मद्-दुष्कीर्तेर् भयं मा सम्पादयत। अन्यत् समानं ।

वस्तुतस् तु तेभ्यो भयोत्पादनेन वंशी-वादन-स्थानाद् दूरे सुगुप्त-स्थाने नेतुं तथोक्तम् इति । श्लेषार्थश् चायं—न चात्र स्व-स्व-बन्धु-जनागमनम् आशङ्क्यं, यतः मातर इत्य्-आदि । एवार्थे हि-शब्दः । गहन-वने अस्मिन्न् अन्धा इव अपश्यन्त एव विचिन्वन्ति, अतो बहु-मार्गणेनापि न द्राक्ष्यन्तीत्य् अर्थः । अतश् च बन्धुभ्यो भयं मा कुरुतेति ॥२०॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : न च मत्-सन्निधाव् अवस्थाने बन्धुभ्यो भेतव्यम् इत्य् आह—मातर इति । बन्धुभ्यः साध्वसं मा कृढ्वं यतस् ते मात्रादयो बन्धवो रात्राव् अस्मिन् अपश्यन्त एव विचिन्वन्ति । ततो नास्ति तेषाम् अत्रागमन-सम्भावनेति भावः । पुत्रा देवरं-मन्यादि-पुत्राः सपत्न्य्-आदि-पुत्रा वा ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनः प्रतियात गृहम् इत्य् उक्तस्य युक्तिं वक्ति—मातर इत्य्-आदि । मातरः पितर इति कुमारीः प्रति, पुत्राः पुष्ट-पुत्राः, भ्रातरः पितरश् चेति यथा-तथा-मूढाः प्रति । अथवा, पितरः पुत्रा इति परस्पर-सापेक्षतया पितृणाम् एव पुत्रा इति बोद्धव्यम् । यथा पिता पुत्रश् चागत इति पितुर् एव पुत्रोऽधिगम्यते, तेन पितृ-शब्द-सन्निकृष्ट-पुत्र-शब्देन वैमात्रेय-भ्राताधिगन्तव्यः । भ्रातृ-शब्देन सहोदर इति च । अपश्यन्तः सन्तो विचिन्वन्ति, तस्माद् बन्धु-साध्वसं मा कृढ्वम्, मा कुरुतेत्य् अर्थः ।

न गृहं प्रतियातेति पक्षान्तरे युक्तिः । वो युष्माकं मात्रादयोऽपश्यन्तः सन्तो मा विचिन्वन्ति । मम योग-माया-प्रभावात् पश्यन्त एव वर्तन्ते । कथं विचेष्यन्तीत्य् अर्थः । मन्यमानाः स्व-पार्श्व-स्थान् [भा।पु। १०.३३.३८] इति वक्ष्यमाणत्वात् । तस्माद् बन्धु-साध्वसम् अकृढ्वम् न कुरुत, अ-कारः प्रश्लेषणीयः । अभावे नह्य् अ नो ना इति केवलस्य अ-कारस्य निषेध-वाचकत्वम् ॥२०॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : उपासना-सिद्धाः यूथ-मुख्याः प्रत्याह—मातर इति । ऊढा मातृ-गृहे स्थितास् तत्-स्नेह-परवशा अपि वेणु-नाद-माधुर्येण कृष्टाः प्रतिवदति—मातरो युष्मान् विचिन्वन्ति स्नेह-विशेषात्, गृहेष्व् अपश्यन्त्यो वनेऽप्य् आयास्यन्ति । तदा रस-भङ्गो भविष्यति । तासां वनेषु परिभ्रमणाशक्तिम् आलक्ष्य कुल-कलङ्क-भीत्या पितरोऽपि इतस् ततो विचिन्वन्ति । व्यूढापि भर्तृ-गृह-गमनाभावात् विचिन्वन्तोऽपि कुत्रापि भवतीर् अप्राप्य वनेऽप्य् आयास्यन्ति तदा महान् अनर्थो भविता । प्रौढाः प्रत्य् आह मातुर् उपेक्षणम् आकलय्य—पुत्रा विचिन्वन्ति, तेषां परिभ्रमण-वैफल्यम् आलक्ष्य भ्रातरो विचिन्वन्ति । भ्रातृ-गेहाद् आगताः पतीनां गृहेषु स्थितास् तत एवागताः प्रति वदति—पतयो भवतीर् विचिन्वन्ति, "पत्नी-पापानि भर्तुः" इति कलङ्क-भिया च सर्वत्रान्वेष्यन्ति । अन्येषाम् आगमनं कादाचित्कं, पतीनाम् आगमनं त्व् आवश्यकं सम्भावितम् इति । अतोऽत्रागत्य मन्-निकटे भवतीर् दृष्ट्वा व्रज-राज-पार्श्वे गत्वा यदि निवेदयेयुः, तदा मम महती लज्जा भवेत् । तदा च युष्मास्व् अपि कोऽपि विस्रम्भं न करिष्यति युष्मद्-धेतु-दुष्कीर्तेर् मम भयं यद् धेतुकं कुल-कलङ्काद् भवतीनां भयम् इति । अतो मम युष्माकं च क्षेमाय वनेऽवस्थानम् असाम्प्रतम् एव । अतो बन्धूनां साध्वसं भयं कुत्र गता इति मा कृढ्वं मा कुरुत । भयम् अविगणय्य भवतीनाम् अत्रावस्थानेनोदासीनस्याकामस्य च मम किं प्रयोजनाभावात् ।

अयं शब्दोत्थोऽर्थः सापेक्षत्व-सकामत्व-पक्षेऽर्थोत्थम् अर्थम् आह—युष्माकं मात्रादयो विचिन्वन्ति अन्वेषयन्ति । वाग्-भङ्ग्या श्लेषार्थं प्राह—विचिन्वन्तु, किं तेषाम् अन्वेषणेन ? मया तु तादृशानुसन्धानस्य कृतत्वात्, यथा युष्मान् मात्रादयः पश्यन्तोऽपि अन्धा इव परिभ्रमिष्यन्ति । अत्र नायास्यन्ति यतो भीति-सहिता रतिर् न सुख-प्रदा । अतो निर्भयाः सत्यो मया सह विहरतेति सूचितम् । अन्यथा ममौदासीन्ये मात्रादयोऽत्रागता भवेयुः । तस्माद् अर्थोत्थम् उक्त इति ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, रात्राव् अपि वनेऽपि युवतीनाम् अपि सङ्घशो न गमने दोषो न जनैर् उद्बुध्यते, सत्यम् । तद् अपि बन्धवो भवतीर् अनिष्टाशङ्कया साम्प्रतम् अवश्यम् अन्विष्यन्ति । अतस् तान् मा व्याकुलयतेत्य् आह—मातर इति । वो युष्मान् विचिन्वन्ति मृगयन्ते । तत्र पुत्राः द्वित्रिमास्या एव नान्वेषण-पराः, पाययन्त्यः शिशून् पयः [भा।पु। १०.२९.६] इति क्रन्दन्ति । वत्सा बालाश् चेति पूर्वापरोक्तस् तद् अपि भगवता स्वस्मिंस् तद्-विशेष-ज्ञानाभावम् अभिनीतवतैवोक्तम् इत्य् अदोषः । अतो बन्धूनां साध्वसं युष्मद्-अदर्शनोत्तं भयं मा कृढ्वं नोत्पादयत।

पक्षे, अपश्यन्त्यो विचिन्वन्त्य् एव, न त्व् अतिदूरेऽतिनिविडे वनेऽस्मिन् वो न द्रक्ष्यन्ति । अतो बन्धुभ्यस् तेभ्यः सकाशाद् भयं मा कृढ्वं स्वच्छन्देन मया सह रात्राव् अत्र विलसतेति भावः ॥२०॥


॥ १०.२९.२१-२२ ॥

दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् ।

यमुनानिल-लीलैजत्-तरु-पल्लव-शोभितम् ॥

तद् यात मा चिरं गोष्ठं11 शुश्रूषध्वं पतीन् सतीः ।

क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईषत्-प्रणय-कोपेनान्यतो विलोकयन्तीः प्रत्य् आह—दृष्टम् इति । राकेशस्य पूर्ण-चन्द्रस्य करै रञ्जितम्यमुना-स्पर्शिनोऽनिलस्य लीला मन्द-गतिः, तया एजन्तः कम्पमानास् तरूणां पल्लवाः, तैः शोभितम् ॥२१॥ सतीः ! हे सत्यः ! ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यतो वनम् । उपेक्षायाम्—भवतीभिर् वनं दृष्टम् । किम्भूतम् ? कुसुमानि सञ्जातान्य् अस्येति हासो लक्ष्यते, भवतीनाम् अनुचिताचारं वीक्ष्य वनम् अपि हसतीति भावः । ततोऽपि परावृत्याकाश-दत्त-दृष्टीर् दैवम् उपालम्भन्तीर् इवालक्ष्याह—राक- इति । राकेशोऽपि वनेनैक-रसं योगं कृत्वा हसत्य् एव । पुनर् अतिकोपेन यमुनाभिमुखीर् आलक्ष्याह—यमुना इति । यमुनापि समीर-कम्पित-नीर-तरु-पल्लव-चालन-च्छलेन नेह स्थेयम् [भा।पु। १०.२९.१९] इत्य् उपदिशतीति भावः । पक्षेऽतीव-शोभन-रमणोपयोगि स्थलम् इदं, ततो रमणं कुरुतेति द्योतयति ॥२१॥

यतो युष्मान् अपाश्यन्तो बन्धवो भयम् आप्नुवन्ति, ततो हेतोर् यूयं मा चिरं शीघ्रं गोष्ठं यात । तान् वत्सान् पाययत, गवां पार्श्वे त्यजत । बालांश् च दुह्यत स्वाङ्ग-रसं तेषु पूरयत । दैवादिकत्वं दुहेर् आर्षम् । पक्षे, मा-शब्दस्य सर्वत्रान्वयः। गोष्ठं मा यात । किं-भूतं ? चिरं चिरानुभूतम् इत्य् अर्थः । पतीन् मा शुश्रूषध्वं यतस् ते सुप्ताः । वत्सा मा क्रन्दन्ति, अतस् तान् मा पाययतबालाश्मा क्रन्दति, तान् अपि मा दुह्यत इत्य् अनेन ध्वनितम् अत्रैव रमध्वम् इति ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दृष्टं वनम् इत्य्-आदि । कुसुमितत्व-राकेश-कर-रञ्जितत्वादिना पुनर् उद्दीपन-विभावं प्रतिपाद्य तत् तस्माद् यात मा चिरं विलम्बो कार्यः । एष च विधिः ।

एष निषेधार्थः—तत् तस्मात् मा यात, गोष्ठम् अचिरं तत् कालं विलम्बेन तु यास्यथः । शुश्रूषध्वं पतीन् मा इति सर्वत्र योज्यम् । मा पतीन् गृह-पतीन् शुश्रूषध्वं प्रियतमं तु मां शुश्रूषध्वं यतो भवत्यः सतीः सत्यः प्रथमार्थं द्वितीया । सत्यो हि माम् एव भजन्ति । यद् वा, पतीन् अस्मान् इति, सर्वोत्कृष्टत्वे बहु-गौरवत्वे बहु-वचनम् । अथवा, उद्दीपन-विभावो वनं दृष्टं, आलम्बन-विभावस् त्व् अहम् अपि दृष्टं, तद् यात यातुं चेत् शक्यते, तदा यातेति साक्षेपोक्तिः । दुह्यतेत्य् अन्तं बालाश् चेति परकीया इति बोद्धव्यम् । मां दृष्ट्वापि गृहादि-सम्बन्धोऽद्यापि न दूरीभूत इत्य् असन्तम् अपि गमन-मनोरथम् उद्भाव्य कौतुकत्वेनाक्षिपति ॥२१-२२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुसुमितम् इत्य्-आदि-विशेषणैर् दृश्यतोक्ता । यद् वा, ईषत्-प्रणय-कोपतो वनावलोकनेन च यमुना इति विवेचनीयम् । तत्र यमुना इति तत्-सम्बन्धेन शैत्यम्, लीला इति मान्द्यम् । वनस्य कुसुमितत्वेन स्वत एव सौगन्ध्यम् इत्य् अनिलस्य गुण-त्रयम् ऊह्यम् । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, ननु महा-मोहन-वाक्याद्य्-अतिक्रमेण तेऽस्माभिर् उपेक्षिता एवेति कुतो भयम् ? इति चेत्, तर्हि तादृश-प्रयत्नेन रात्राव् आगमनस्य किं नाम प्रयोजनम् ? इति सकैतवं क्षणं ध्यात्वा, “आं ज्ञातं, दिष्ट्या पूर्ण-चन्द्र-रात्रौ मदीय-श्री-वृन्दावन-शोभा-निरीक्षणार्थम् आगतम् इति । भवतु, तच् च सम्पन्नम् एव” इत्य् स-सान्त्वम् अभिनयेनाह ।

यद् वा, ननु गृह-बन्ध्व्-आद्य्-उपेक्षया श्री-वृन्दावन-चन्द्रं श्री-कालिन्दी-विहार-लीलां चानुभवितुम् आगताः स्म इति कुतो भयम् ? इति चेत्, सत्यम् । तर्हि परम-शोभा-युक्त-वृन्दावनस्य तत्रोदित-चन्द्रस्य तथा सुन्दर-कालिन्दी-विहारि-वात-गति-लीलायाश् च दर्शनम् इदं दिष्ट्या सम्पन्नम् एवेत्य् अङ्गुल्य्-आदिना दर्शयन् स-लीलम् आह—दृष्टम् इति । अर्थः स एव। वस्तुतस् तु साक्षात् तथा तादृश-वनादि-प्रदर्शनेन कामम् एव विवर्धयति।

श्लेषार्थश् चायम्—एतत्-पक्षे दृष्टम् इति द्वाभ्याम् । ईदृशं सर्व-गुण-युक्तं वनं दृष्टम् एव, तत् तस्मात् घोषं मा यात [२२] इत्य् अन्वय इति । यद् वा, एतादृशे वने साक्षाद्-दृष्टेऽपि रात्रौ रतौ विलम्बनम् अयुक्तम् एवेति । तद्-योग्य-यमुना-तीरं प्रयाम इति ॥२१॥

तत् तस्मात् वन-शोभा-दर्शनेन निज-मनोरथ-पूरणात् सदोच्चैर् गीत-दधि-मथन-गवादि-रावैर् घोषयति शब्दं करोतीति । श्लेषेण, सर्वेषां सर्व-वृत्तं घोषयतीति घोषः, तं गोपावासं यातमा चिरम् अचिराद् एवेत्य् अर्थः । यद् वा, तत्र विलम्बं मा कुरुतेत्य् अर्थः । किम्-अर्थम् ? पतीन् शुश्रूषध्वं सेवध्वम् । कुतः ? सतीः ! हे सत्यः ! अन्यथा साध्वीत्व-भङ्गापत्तिः । अतो मत्-पार्श्वे युष्माकम् अवस्थानम् अयुक्तम् इति भावः ।

ननु, परम-सेव्य-त्वत्-सेवाम् असहमानाः सदासूयावन्तो दुष्टतरास् तेऽस्माभिः परित्यक्ता एव, पत्नीत्वम् अपि त्वत्-पादाब्जयोर् निर्मञ्छनीकृत्य दूरतः क्षिप्तम् इत्य् आशङ्क्य स-करुणं पक्षान्तरम् आश्रयन् वत्सादिषु स्नेहं जनयति—क्रन्दन्ति इति । अतस् तान् बालान् पाययत दुग्धं, वत्सार्थं च दुह्यत दुग्धं गा इत्य् अर्थः । वत्सेभ्यो बालेषु स्नेह-विशेषात् तेषां पश्चान् निर्देशः । एवं सर्वत्र निवर्तनार्थं पूर्व-पूर्वस्माद् वाक्याद् उत्तरोत्तरस्य गरिष्ठत्वम् ऊह्यम् । पाययत इत्य् अस्यादाव् उक्तिस् तस्य द्रुतम् अवश्य-कार्यत्वात् ।

यद् वा, गोप-चूडामणे ! वत्सान् गोपैर् गो-दोहनेन पाययिष्यन्त्य् एवेति । अत आह—दुह्यत गाः। गो-दोहने स्वत एव वत्सानां बालानां च तद्-दुग्धस्यैव पानं भावीत्य् अर्थः ।

अत्रेदं तत्त्वम्—श्री-कृष्णैक-प्रिया भगवत्यस् ता गोप्यः कथञ्चित् काश्चिज् जात-विवाहा अपि नाम-मात्रेणैव पतिमत्यो विविध-व्याजेन पतीन् वञ्चयन्त्यस् तैः सह ग्राम्य-धर्माभावेन अजातापत्या एव । केवलं पत्य्-आदीनाम् आग्रहेण निजौत्सुक्य-विशेषेण वा तास्व् एव काश्चित् पर-पुत्रान् पुष्ट-पुत्रतया पालयन्तीति स्वतः स्तन्याभावेन तान् गो-दुग्धम् एव पाययन्तीति । वस्तुतस् तु सर्वम् एतन् नर्मणैव । अत एव सतीर् इति ।

श्लेषार्थश् चायम्—तत् तस्मात् बन्धुभ्यः साध्वसाभावात् वन-शोभादि-रति-सामग्री-सद्-भावाच् च, अ-कार-प्रश्लेषेण अचिरं शीघ्रं मा यात । यदि याथ, तदा विलम्बेन रात्र्य्-अन्त एव यास्यथेत्य् अर्थः ।

यद् वा, चिरं चिरन्तनोऽस्वातन्त्र्यादि-दुःख-प्रदत्वेन बहुशोऽनुभूतो यो घोषः, तं मा यात, पुनर् न यास्यथेत्य् अर्थः । -कारान् मा-शब्दस्याग्रेऽपि सर्वत्र सम्बन्धः । पतीन् मा शुश्रूषध्वं, सतीश् च साध्वीर् मा शुश्रूषध्वं न सेवध्वम्, तत्-पदवीम् अपि न यातेत्य् अर्थः । स्वातन्त्र्यादि-सुख-भङ्गाद् इति नर्मैव । वत्सादयो न क्रन्दन्त्य् एव, गोपादिभिर् गो-दोहनादिना पयः-पान-सिद्धेः । अतस् तान् न पाययिष्यथ, न तु धोक्ष्यतेत्य् अन्य-कृत्याभावेन स्वातन्त्र्यं सूचितम् । यद् वा, इतः-प्रभृति पति-शुश्रूषादि-कर्मसु न प्रवर्त्स्यथेत्य् अर्थः । तेनापि कथञ्चिद् अपि युष्माकं धर्म-विघातो नास्तीत्य् आह—सतीः ! हे साध्व्यः ! इति तत्त्वतस् तेषां पतित्वाभावात् मद्-भजनाच् च ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तासां प्रणय-कोपेन यद् अन्यतो दर्शनं तद्-अन्यथोत्प्रेक्ष्यते— दृष्टम् इति तद् यातेति परेणान्वयः । कुसुमितम् इत्य्-आदि-विशेषणैर् दृश्यतोक्ता । तत्र चेषत्-प्रणय-कोपतो वनावलोकने दृष्टं वनम् इत्य् उक्तं, तत ऊर्ध्वावलोकने च राकेश-कर-रञ्जितम् इति ततः कालिन्दी-तीरावलोकेन तु यमुनेति विवेचनीयम् । अन्यत् तैः ।

यद् वा, ननु महा-मोहन-वाक्याद्य्-अतिक्रमेण तेऽस्माभिर् उपेक्षिता एवेति कुतो भयम् ? इति चेत् तर्हि तादृश-प्रयत्नेन रात्राव् अत्रागमनस्य किं नाम प्रयोजनम् ? इति स-कैतवं क्षणं ध्यात्वा "आं ज्ञातं, दिष्ट्या पूर्ण-चन्द्रायां रात्रौ मदीय-श्री-वृन्दावन-शोभा-निरीक्षणार्थम् आगतम् इति । भवतु, तच् च सम्पन्नम् एव" इत्य् अङ्गुल्य्-आदिना दर्शयन् स-लीलम् आह—दृष्टम् इति । अर्थः स एव। वस्तुतस् तु साक्षात् तथा तादृश-वनादि-प्रदर्शनेन भावम् एव विवर्धयति ।

श्लेषार्थश् चायं—न केवलं तद्-भयाभाव एवात्र, अपि तु परम-सुख-निधानत्वम् अपीति भावोद्दीपनाय स्वयं दर्शयति—दृष्टम् इति । ईदृशं सर्व-गुण-युक्तं वनं दृष्टम् एव, तत् तस्मात् घोषं मा यात इत्य् अन्वय इति ॥२१॥

तत् तस्मात् वन-शोभा-दर्शनेन निज-मनोरथ-पूरणात्, सदोच्चैर् गीत-दधि-मन्थन-गवादि-शब्दैर् घोषयति शब्दायते इति घोषः । श्लेषेण तु सर्वेषां सर्व-वृत्तं घोषयतीति तं गोपावासं यात । "गोष्ठम्" इति क्वचित् पाठः । तत्रैव भवतीनां सर्वा सामग्रीति, तद् एव गन्तुं युज्यत इति भावः । मा चिरम् अचिराद् एवेत्य् अर्थः । यद् वा, तत्र विलम्बं मा कुरुतेत्य् अर्थः । किम्-अर्थम् ? पतीन् शुश्रूषध्वं सेवध्वम् । कुतः ? सतीः ! हे सत्यः ! अन्यथा साध्वीत्व-भङ्गः स्यात् । अतः पर-पुरुषस्य मम पार्श्वे युष्माकम् अवस्थानम् अयुक्तम् इति भावः ।

ननु, परम-सेव्य-त्वत्-सेवाम् असहमानाः सदासूयावन्तो दुष्टतरास् तेऽस्माभिः परित्यक्ता एव, पतिव्रतात्वम् अपि त्वत्-पादाब्जं निर्मञ्छनीकृत्य दूरतः क्षिप्तम् इत्य् आशङ्क्य स-करुणम् इव पक्षान्तरम् आश्रयन् वत्सादिषु स्नेहं जनयति—क्रन्दन्ति इति । अतस् तान् वत्सान् पाययत, बालार्थं च दुह्यत दुग्धं दोहयेत्य् अर्थः । एतच् च तत्-तत्-सन्निधान-मात्र-विश्रम्भित-तत्-प्रिय-गवाद्य्-अपेक्षया

अत्रेदं तत्त्वम्—ताः खलूद्दिश्य स वो हि स्वामी भवति [गो।ता।उ। २.२७] इति गोपाल-तापिन्यां, श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.६७] इति ब्रह्म-संहितायां, दशाक्षरादि-मन्त्राश् च, तथा श्रुत्य्-आगमादौ, कृष्ण-वध्वः [भा।पु। १०.३३.८] इति चात्रैव श्री-कृष्णैक-कान्तानां परम-लक्ष्मीणां तासाम् अन्यत्र विवाहो न सम्भवति । तत्-प्रतीतिश् च तासाम् उत्कण्ठा-वर्धनार्थं, योग-मायाम् उपाश्रितः [भा।पु। १०.२९.१] इत्य्-आदौ तद्-अर्थं निर्दिष्टया योग-माययैवेति गम्यते । यैव खलु तत्-प्रतिरूप-कल्पनया तत्-पतिं-मन्यास् तान् वञ्चयति । वक्ष्यते च, नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३७] इत्य्-आदि । ततस् तैः सहाङ्ग-सङ्गाभावेनाजातापत्या एव केवलं स्नेह-विशेषेण यातृ-भ्रातृ-प्रभृति-पुत्रान् यान् पालयन्ति एव पुत्रा इत्य् उच्यन्ते । तेषाम् अपि लोके पुत्रतया व्यवहाराद् विशेषतस् तथा पाल्यमानत्वात्, श्री-बलदेव-साम्बाव् अप्य् उद्दिश्य, स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः [भा।पु। १०.६८.५२] इति श्री-शुकेनापि प्रयुक्तत्वात् । अतः स्तन्याभावेन गो-दुग्धम् एव तान् पाययन्तीति तान् पाययत दुह्यत इत्य् उच्यते । अत एव मुनिनाप्य् उक्तं—पाययन्त्यः शिशून् पयः [भा।पु। १०.२९.६] इति । अत्र शिशून् इत्य् एव पय इत्य् एव च, न तु सुतान् स्तनम् इति । यदि च तासाम् उदरजा एव ते स्युः, तदा रास-नृत्य-नायिकानाम् आदि-रस-नायिकानां च तासां वैरूप्येण तस्य रास-नृत्यस्य रसस्य च वैरूप्यं स्यात् ।

मातरः पितरः पुत्राः [भा।पु। १०.२९.२०] इत्य् अत्र श्री-भगवद्-वाक्ये केषाञ्चिद् रात्राव् अपि वनेऽपि मात्रादि-विचेतृत्वेन कासाञ्चिद् अर्ध-जरतीत्वम् अप्य् आयाति । तत्र पुनर् अतीव तत् स्यात्, तत् तु श्री-वैशम्पायनस्यासम्मतम्—युवतीर् गोप-कन्याश् च रात्रौ सङ्काल्य कालवित् [ह।वं। २.२१.१८] इत्य् अनेन । तथा तद् इदं तासाम् आलम्बन-रूपाणाम् उद्दीपन-सौष्ठवम् अपि वर्णयता श्रीमन्-मुन्दीन्द्रेण न मतं—भगवान् अपि ता रात्रीः [भा।पु। १०.२९.१] इत्य् आदाव् उद्दीपन-सौष्ठवेनालम्बन-रूपाणां तासां सौष्ठवम् अनुस्मृत्य, रन्तुं मनश् चक्रे [तत्र] इति च गमितम् । वक्ष्यते च तासां सौष्ठवं श्री-भगवन्तम् अपेक्ष्याप्रौढत्वं च— मध्ये मणीनां हैमानां महा-मरकतो यथा [भा।पु। १०.३३.७] इत्य् अनेन, व्यरोचतैणाङ्क इवोडुभिर् वृतः [भा।पु। १०.२९.४३] इत्य् अनेन, तडित इव ता मेघ-चक्रे विरेजुः [भा।पु। १०.३३.८] इत्य् अनेन च । तस्मात् श्री-भगवता तासां पुत्रतया निर्देशस् तु परिहास-पर एव, न तु दोषोद्गार-परः, वाचः पेशैर् विमोहयन् [भा।पु। १०.२९.१७] इति । अतः प्रहस्य सदयं गोपीर् [भा।पु। १०.२९.४३] इत्य् अत्र परिहासस्य स्फुटतरत्वं दृश्यते । यत एव मातरः पितरः पुत्राः [भा।पु। १०.२९.२०] इत्य्-आदिकं च कल्पना-मयम् एव जल्पितं, परिहासं विना तु दोषोद्गारे, निन्दामि च पिबामि च इति न्यायेन तासां स्वीकारे परम-वैरस्यम् एव च स्यात् । आस्तां तावत् तासां स्वयं दोषोद्गारः, तादृशस्यालम्बन-दोषस्यास्तित्व-मात्रेऽपि परम-रस-व्याघातः स्यात्।

तच् चान्यत्रापि सन्-नायके कविभिर् वर्णनीयत्वेन स्वीकृतेन सम्भवति, किम् उत परम-पुरुषोत्तमे महा-कवि-वर्ग-वर्णनीये लीला-रस-विशेष-वर्णनार्थम् अवतीर्णे तस्मिन् । वक्ष्यते च—भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भा।पु। १०.३३.३६] इति, सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [भा।पु। १०.३३.२६] इति च । तस्मात् पतयोऽप्य् आसां माया-मात्र-प्रतीताः, पुत्राश् च गौणार्था इति ।

श्लेषार्थश् चायम्—तत् तस्मात् बन्धुभ्यः साध्वसाभावात् वन-शोभा-रति-सामग्री-सद्-भावाच् च अचिरं शीघ्रं मा यात । यदि याथ, तदा विलम्बेन रात्र्य्-अन्त एव यास्यथेत्य् अर्थः । -कारान् मा-शब्दस्याग्रेऽपि सर्वत्र सम्बन्धः । पतीन् मा शुश्रूषध्वं, सतीश् च साध्वीर् मा शुश्रूषध्वं, तत्-पदवीम् अपि न यातेत्य् अर्थः । स्वातन्त्र्यादि-सुख-भङ्गाद् इति नर्मैव वत्सा बालाश् च मा क्रन्दन्ति, तस्मात् तान् मा पाययत, मा दुह्यत इति च स्वातन्त्र्यं सूचितम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : निजाराम-दर्शनया तासां भावम् उद्दीपयति—दृष्टं वनम् इति ॥२१॥ निगमयति—तद् यात इति । यस्माद् रजन्य् एषा घोर-रूपा [भा।पु। १०.२९.१९] इत्य्-आदिको हेतुः, तत् तस्माच् चिर-कालं व्याप्य घोषं मा यात । अचिरम् अधुनैव मा यातेति वा । ततस् तत्र गत्वा पतीन् युष्मत्-पतित्वेन कॢप्तान् तान् अपि मा शुश्रूषध्वम् । हे सतीः ! सत्यः ! परमोत्तमाः ! ये च वत्सादयस् ते च मा क्रन्दन्ति, ततस् तान् मा पाययत, तद्-अर्थं मा दुह्यत चेति ॥२२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनर् यात गृहम्, न यातेति पक्ष-द्वयम् एव लक्ष्यीकृत्याह—दृष्टं वनम् इत्य्-आदि सार्धेन । वन-शोभा-दिदृक्षया यद् आगताः, तद् दृष्टम्वनं कीदृशम् ? कुसुमितम् इत्य्-आदि-विशेषण-त्रयम् । तस्माद् घोषं यात, मा चिरम्, विलम्बो मा कार्य इत्य् अर्थः । तत्र गत्वा किं कार्यम् ? तत्राह—पतीन् शुश्रूषध्वम् । पतीन् इति पान्तीति पतय इति योगार्थत्वाद् यथा-तथं पालक-मात्रे बोद्धव्यम् । अन्यच् च—क्रन्दन्ति बालाश्वत्साः, तान् पाययत, पश्चाद् दुह्यत इत्य् अर्थः । बाला इति वत्स-विशेषणम् । हे सतीः ! साध्व्यः !

पक्षे, दृष्टं वनम् इत्य्-आदिना उद्दीपन-विभावः प्रकटीकृतः । तत् तस्माद् घोषं मा यात, पतीन् मा शुश्रूषध्वम्बालाश्वत्सा मा क्रन्दन्तितान् मा पाययत, मा दुह्यत चेत्य् अर्थः । चिरम् एव न यात, इहैव सर्वदा तिष्ठतेत्य् अर्थः । प्रति-क्रियं मा-शब्दो योज्यः ॥२१-२२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : शब्दोत्थार्थ-प्रतीत्या वास्तवम् अर्थम् अजानतीः, ऊर्ध्वाधो दृष्टि-प्रसरणेनान्यतो विलोकयन्तीः किञ्चित् संरम्भ-क्षुभित-दृष्टीः प्रत्य् आह—दृष्टम् इति । अतिमुद्राम् आकलय्य ईषत्-प्रणय-कोपेन इतस् ततो विलोकमाना दृष्ट्वा अन्यथोत्प्रेक्षणं निर्वार्य, नूनं गृहेषु पत्य्-आदि-शुश्रूषया व्याकुलत्वेन दुःखम् अनुभूय वृन्दावन-विलोकनौत्सुक्यतयागता एव तर्हि क्षणं वन-दर्शनेन हृदयं निर्वापयन्तु इत्य् आह तीर्यक्-प्रेक्षणेन वन-दर्शनं सम्भाव्याह, निर्धारितम् इवार्थं वदति—वनं दृष्टं तच् च कुसुमितं शोभातिशयोक्तिः सूचिता ।

ऊर्ध्वावलोकन-मन्मथोत्प्रेक्ष्याह—राकेश-कर-रञ्जितम् इति । कालिन्दी-प्रदेश-स्थ-वृक्ष-खण्डेषु प्रसरन्तीर् दृष्टीर् अन्यथोत्प्रेक्षमाणम् आह—यमुन इति । यमुना-संवासिनोऽनिलस्य लीलानायस-कृतिः, तया एजन्तः कम्पमानास् तरु-पल्लवाः, तैः शोभितम् । वृक्षा अपि भवतीम् अत्रावस्थानम् अनुचितं मन्यमाना अङ्गुलि-तुल्यैः पल्लवैर् एव निवारयन्ति वन-दर्शन-विषयिणी उत्कण्ठोपसम्पन्नैव, अतः परं गृहं यात इति वन-निरीक्षणायागता भवतीर् अत्रावस्थापयतो ममोदासीनस्यानौचितीयम् इति ।

सापेक्षत्व-पक्षेऽर्थस् तु—स एवभिप्रायस् त्व् अन्य एव रमणार्थं चेद् अगताः, तर्हि उद्दीपन-विभावं पश्यतेत्य् आह—दृष्टम् इति । वनं दृष्टं काक्वा प्रश्नः । वनं विशिनष्टि—कुसुमितं । भवतीनाम् आगमनं दृष्ट्वा वनस्यापि भाव-विशेषेण रोमाञ्चितत्वम् इव जातं, किं पुनर् मम ? इति भावः । अनेनाग्रे करिष्यमाणम् आकल्प-शय्या-व्यञ्जनादि-रचनं सूचितम् इति ।

वनं कीदृशं ? राकेशस्य करैः किरणैः रञ्जितं, चन्द्रस्यापि अस्मद्-रमणानुकूल्यं दर्शितं, करैः हस्तैः हि मार्दवेन कान्ति-विशेष-योजितम् । अनेन वनस्योज्ज्वलत्वं तमो-नाशकत्वं सूचितम् ।

पुनः कीदृशम् ? यमुना-सम्बन्धिनोऽनिलस्य लीला, तया सञ्चलनं, तेन एजत् कम्पमाना तरूणां पल्लवानि । धुवने कर-धूननम् इव शिक्षयन्तः । यद् वा, ईदृशं सुखं नान्यत्रास्तीति गतागतैः दर्शयन्त इव वनैः पल्लवैः शोभितम् अनेन शरद-र्तुः शैत्येन च युष्मद्-आगमनेन मत्-सम्बन्धेन च वृक्षेष्व् अपि सत्त्विक-भावः सूचितः । ईदृशं सर्व-सद्-गुण-विशिष्टं वनम् इष्टम् एवातो व्रजे गमनम् अयुक्तम् इति तात्पर्यार्थः ॥२१॥

इदानीं मुनि-रूपाः यूथ-मुख्याः प्रति पद्य-द्वयेनाह—तद् यात इति । वन-दर्शनेन मनोरथ-पूर्तिश् चेज् जाता, तर्हि गोष्ठं व्रजं यात । ननु व्रजं त्यक्तैवायाताः । पुनस् तत्रैव गमनेन किं प्रयोजनम् ? इति चेत्, तत्राह—व्रजे धर्मार्थ-काम-लाभो भविष्यतीत्य् उपदिशन्न् आह—हे सतीः ! सत्यः ! पति-शुश्रूषणं त्यक्त्वायाताः, अतो धर्म-हानिर् जाता । धर्म-मूला काम-प्राप्तिः, धर्मे नष्टे काम-हानिर् अपि जाता । दुग्ध-हान्य्-अर्थ-नाशोऽपि जातः । स्तनन्धय-त्यागेनोपलालनादि-सुख-नाशोऽपि जातः । एतच्-चतुष्टय-प्राप्त्य्-अर्थं व्रजं यातमा चिरं विलम्बो न कार्यः । यास् तु पतीन् त्यक्त्वागताः, ता यूयं पतीन् शुश्रूषध्वम् । यास् तु दोहं हित्वागताः, तासां वत्सा बद्धा एव क्रन्दन्ति । यासां स्तनन्धया अतृप्ताः क्रन्दन्ति, तान् दुह्यत दोहयतेत्य् अर्थः । अतृप्ता बालाः क्रन्दन्ति, तान् स्तनं पाययत । उदासीनस्य मम निकटे स्थित्या धर्मादि-हानिर् भविष्यति, तत्र गतानां सर्वं सम्पत्स्यत इति रहस्योपदेशः स्वस्य सापेक्षत्वम् ।

पक्षे व्यङ्ग्यार्थम् आह—हे सतीः ! सत्यः ! मुख्य-पत्यौ स्निग्धत्वात् पारिभाषिक-पतिं त्यक्त्वागतत्वाच् च, एतासां साध्वीत्वं ज्ञातम् । पूर्वं नर्मणा निषेधम् उक्तम् । इदानीं वास्तवम् अर्थम् आह—तत् तस्मात् चिरं बहु-काल-पर्यन्तं गोष्ठं मा यात, किन्तु मया सहात्रैव रमध्वम् ।

यद् वा, चिरं बहु-काल-पर्यन्तं माम् आयात प्राप्नुवत । यद् वा, अचिरं शीघ्रं गोष्ठं व्रजं मा यात, गमने दोषस्य बहुशोऽनुभूतत्वात्, रात्र्य्-आदि-दुःखम् अनुभूयागतत्वात् । अन्यथा दुःखं तद् अवश्यम् एव भविष्यति । यदि पत्य्-आदीनां सङ्कोचः, तदा पूर्णं रमणं विधाय रात्रि-शेषे यास्यथ । मा-शब्दस्य सर्वत्रान्वयः । पतीन् मा शुश्रूषध्वं, मद्-रूपेण तेषां बहुशः प्रातिकूल्यानुभवस्य सिद्धत्वात् ।

ननु क्रन्दतो वत्सान् बालान् त्यक्त्वागताः, अतस् तत्-स्मरणे रमणस्य विफलत्वं भविष्यति ? इति चेत्, तत्राह—वत्सा बालाश्न क्रन्दन्ति, तद्-अर्थस्यान्यथा-सिद्धत्वात् । गोपैर् एव गो-दोहनस्य कृतत्वात्, पयसोऽपि तद्-अपेक्षितत्वाच् च, तच्-चिन्ता न कार्या । बालानां सान्त्वनस्य वृद्ध-धात्री-प्रभृतिभिर् एव कृतत्वात्, अतस् तच्-चिन्ता न कार्या । स्पष्टार्थम् आह—तान् बालान् पयो मा पाययत, वत्सान् मा दुह्यत मा दोहयत, तस्यार्थस्य स्वत एव सिद्धत्वात् । अतो निःशङ्कं मया सह रमतेत्य् अर्थः ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ता लज्जया परितो विलोकयन्तीर् आह—दृष्टम् इति । "आं ज्ञातं वन-दर्शनार्थम् आगताः" इति ततश् च तासाम् ऊर्ध्वावलोकने सत्य् आह—राकेश इति । यमुना-दिग्-अवलोकने सत्याह—यमुना-स्पर्शिनोऽनिलस्य लीला मन्द-गतिः, तया एजन्तः कम्पमानास् तरूणां पल्लवाः पुष्पितैस् तैः शोभिताम् इत्य् अभीप्सितं वनादि-दर्शनम् अपि निर्व्यूढम्, अतो मा विलम्बध्वम् इति भावः ।

पक्षे, वृन्दावनम् इदं सर्वोत्कृष्टं, तत्रापि पूर्ण-चन्द्रा रजनी, तत्रापि चतुर्दिक्षु यमुना, तत्रापि शैत्य-मान्द्य-सौगन्ध्यवन्तोऽनिला इत्य् उद्दीपन-विभावा एते । आलम्बन-विभावश् चाहं वर्त एवेत्य् अद्य युष्माकं रसिकता परीक्षिता भविष्यतीति ॥२१॥

तत् तस्मान् मा चिरं यात, अपि तु शीघ्रम् एव यातेत्य् अर्थः । सतीः पतिव्रताः अपि शुश्रूषध्वं तद्-धर्म-ग्रहणार्थं ता अपि भजनीया एवेति भावः । इति परोढा उक्ता कुमारीः प्राह—वत्सा गवां क्रन्दन्ति, तान् दुह्यत दोहयत । मुनिचरीः प्राह—बालाः क्रन्दन्ति, तान् पाययत

पक्षे, तत् तस्माच् चिरं समस्ताम् अपि रात्रिम् अभिव्याप्य मा यात, मया सह रमध्वम् इति भावः । पतीन् साध्वीश्मा शुश्रुध्वं, विधात्रा दत्तस्यैतादृश-सौन्दर्यस्य यौवनस्य च वैयर्थ्य-प्रापणानौचित्याद् इति भावः । एवं मा दोहयत मा पाययत मद्-अनुरागिणीनां भवतीनां किं तैः ? इति भावः ॥२२॥


॥ १०.२९.२३ ॥

अथवा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।

आगता ह्य् उपपन्नं वः प्रीयन्ते मयि12 जन्तवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : संरम्भ-क्षुभित-दृष्टीः प्रत्य् आह—अथवा इति । यन्त्रिताशया वशीकृत-चित्ताः । उपपन्नं युक्तम् । प्रीयन्ते प्रीता भवन्ति ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संरम्भः कोपावेशाः, तेन क्षुभित-दृष्टीर् भ्रान्तेक्षणाः । अथवा इति निपात-द्वयं सम्भ्रमे मङ्गले वा । मयि विषये जन्तवो जीव-मात्राणि । अतो रमध्वम् इति पक्षः॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनस् ताटस्थ्यम् आह—अथवा इत्य्-आदि ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मयि यः अभिस्नेहः प्रीति-विशेषः, तस्माद् इति मधुर-प्रेमाख्यः पुं-स्त्री-भाव-विशेषो निरस्तः । अत एव सौदास्यम् आह—हि यतः सर्वेऽपि प्राणिनो मयि प्रीतिं कुर्वन्तीति । मद्-अभिस्नेहाद् इति साक्षाद्-उक्त्या तम् अपि श्लथयति । अत एव गौरवेण भवत्य इति ।

यद् वा, ननु प्रियंवद-प्रवर ! तर्ह्य् अस्माकम् अभीष्टं सम्पाद्यताम् । तत्राह—प्रीतिम् एव कुर्वन्ति इति प्रीतेर् भक्ति-विशेषत्वाद् अङ्ग-सङ्ग-कर्मणालम् इति भावः । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, अहो बत परित्यक्ता एव, ते सर्वे । तत् किं पुनस् तन्-नाम-ग्रहणेन ? इत्य् आशङ्क्य स-श्लाघं पक्षान्तरम् आह—अथवा इति । अर्थस् तथैव । यद् वा, मम यो युष्माभिर् अभिस्नेहस् तस्मात् तेनेत्य् अर्थः ।

अ-कार-प्रश्लेषेण अयन्त्रिताशयाः परम-साध्वीत्वात् । यद् वा, मद्-विषयकाभिस्नेहेन अयन्त्रिताशयाः । पातिव्रत्येन पर-पुरुषे स्नेह-विषयायोगात् । एवम् उभयथा भाव-विशेषो निरस्तः, तथाप्य् आगता यत् । अन्यत् समानम् । वस्तुतस् त्व् एवम् औदासीन्यं चातुर्य-भङ्ग्या भाव-विवर्धनार्थम् एव ।

श्लेषार्थश् चायम्—अहो परमानुरकास्व् अपि भवतीषु किम् उद्दीपन-गर्भैः प्रार्थनैर् इत्य् आह—अथवा इति । अभि-शब्देन स्नेहस्य सम्यक्त्वोक्त्या मधुर-प्रेमैव लक्ष्यते । सामान्यतः सर्वेऽपि प्राणिनो मम प्रीयन्ते यतः, अतः सर्वोत्तमा गोप्यो भवत्यो मद्-अभिस्नेहाद् यन्त्रिताशया वशीकृत-चित्ताः सत्यः । किं वा, पत्य्-आदि-भयेनास्वच्छन्दा अपि मद्-अभिस्नेहाद् धेतोर् आगता यत्, तद् उपपन्नम् एव, सर्वतोऽपि विशिष्ट-मद्-विषयक-प्रीतिमत्त्वात्। अत एव आदरेण भवत्य इति । अतोऽधुना मया सह स्वच्छन्दं रमध्वम् इति भावः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ संरम्भ-क्षुभित-दृष्टीस् ता निवर्तयितुम् इव जन्तु-मात्र-साधारणता-निर्देशेनातिक्षोभयन्न् आह—अथवा इति । पक्षान्तरम् इदं, दृष्टं वनम् [२१] इत्य्-आदि निरसनापेक्षया । मयि योऽभिस्नेहः प्रीति-सामान्यातिशयः, तस्मात् इति । रत्य्-अर्थः पुं-स्त्री-भाव-विशेषो न गृहीतः, विशेषेणाभावात् । अत एव सहौदास्यम् आह—हि यतः सर्वेऽपि प्राणिनो मयि प्रीतिं कुर्वन्तीति । मद्-अभिस्नेहाद् इति साक्षाद्-उक्त्या तम् अपि शिथिलयति । अत एव गौरवेण—भवत्यः इति । अन्यत् तैः ।

यद् वा, अहो बत परित्यक्ता एव ते सर्वे, तत् किं पुनस् तन्-नाम-ग्रहणेन ? इत्य् आशङ्क्य स-श्लाघं पक्षान्तरम् आह—अथवा इति । अर्थस् तथैव । वस्तुतस् तु एवम् औदासीन्यं चातुर्य-भङ्ग्या भाव-विवर्धनार्थम् एवेति ।

श्लेषार्थश् चायम्—एवं यद्यप्य् अन्य-प्रयोजनायागताः, तथापि मत्-प्रार्थनया कियन्तं क्षणम् अत्र विश्राम्यतेति । एवम् उक्त्वा पक्षान्तरम् आह—अथवा इति । अभि-शब्देन स्नेहस्य सम्यक्त्वोक्त्या रत्य्-आख्य-भाव एव सूच्यते । ततश् च यदि वा मद्-अभिस्नेहाद् आगताः, तर्हि तद् एतद् उपपन्नं युक्तम् एवेत्य् अर्थः । तत्र हेतुः—जन्तवः प्राणि-मात्राणि, मम मत्-सम्बन्धे, प्रीयन्ते मयि प्रीता भवन्तीत्य् अर्थः । ततस् तादृश-भाववतीनां वा का वार्तेति भावः । अत एव प्रेमादरेण भवत्य इति । अतोऽधुना मया सह स्वच्छन्दं रमध्वम् इति भावः ॥२३॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : यदि स्वयम् एव भवत्यो मद्-अनुरागेणैवागता न तत्र मत्-प्रार्थनापेक्षापि, तदा तद् अतीव युक्तम् आचरितम् इत्य् आह—अथवा इति । मम मयि । यदि जन्तु-मात्राण्य् एव मयि प्रीयन्ते, तदा भवतीनां कामिनीनां कान्त-भावात्मक एव सः स्नेहो भवेद् इति भावः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनर् व्रजं यात इत्य् अस्यैवानुकूलं वदति—अथवा इत्य्-आदि । न वनादि-दिदृक्षया समागताः स्म । तद्-दर्शनार्थम् एव आगताः स्म इति चेत्, तद् उपपन्नम् एव, मद्-अभिस्नेह-यन्त्रितत्वं हि साधूनाम् एव, यतः प्रीयन्ते मयि जन्तवः । प्राणि-मात्रम् एव मयि प्रीयते, किं पुनर् भवत्यः । तन् मद्-दर्शनं तु उपपन्नम् एव । सम्प्रति घोषं यात इत्य् अर्थः ।

पक्षान्तरे—भवत्यो मद्-अभिस्नेहाद् यन्त्रिताशया इति जानीमः, तेनागताश् च । अतोऽतः परं यद् उचितं तद्-उपपन्नं भविष्यत्य् एव । यतो मयि जन्तवः प्रीयन्ते, प्रीता एव भवन्ति, तद् यूयं यत् प्रीता भविष्यथ, तत् किम् इति । मा घोषं यात इत्य् अर्थः ॥२३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु पत्य्-आदि-स्नेह-त्याग-पूर्वकं त्वय्य् अनुरक्तत्वात् त्वां सेवितुम् आगताः । त्वं तु कथम् अस्मान् निवर्तयसि ? इति यथा-श्रुतार्थ-ग्रहणेन संरम्भेण रुक्ष-मुद्राम् अवलम्बमानाः प्रत्य् आह, जन्तु-मात्र-साधारण्य-निदर्शनेन स्वस्य औदासीन्यम् आविष्करोति—अथवा इति ।

ननु कथम् अस्मान् अत्राहूय विडम्बयसि ? इति चेत्, तत्राह—अथवा इति । पक्षान्तरम् । मद्-अभिस्नेहाद् अत्रागताः, भवत्य इति गौरवोक्तिः, मयि योऽभितः स्नेहः, तस्मात् पत्य्-आदिषु यः स्नेहः, तस्माद् आकृष्य मय्य् अर्पितत्वात् । अत एव यन्त्रिताशया वशीकृत-चित्ताः । अतः परम-साध्वीत्वात्, न तु रमणार्थम् आगताः । अथवा, एवं वो मत् मन्-निमित्तम्, अभि निःशङ्कं, यथा तथा स्नेहाद् वा आगताः । यतोऽयन्त्रिताशया अस्वाधीन-चित्ताः सत्यः । अत एव चित्त-नियमनम् उपदिशति, चित्त-नियमेन कृते सति पर-पुरुषे मयि भाव-विशेषम् उदयेन सतीत्व-भङ्गो न भविष्यतीति भावः । पूर्वं मनसोऽनियमने यज् जातम् एव, अधुना मद् अभि मम सम्मुखम् आगताः, स्नेहात् यन्त्रितो बद्ध आशयश् चित्तं यासां, ताः । तद् वो युष्माकम् उपपन्नं युक्तम् एव जातम् । यतः केनापि न प्रतिबद्धाः ।

यद् वा, वो युष्माकम् अपि उपपन्नं युक्तम् एव । यस्य यस्मिन् प्रेम-विशेषः, तद्-अन्तिके तस्य गमनम् अयुक्तं न भवतीति स्वस्याकामत्वं व्यञ्जयति—यतो मयि जन्तवः प्राणि-मात्राः प्रीयन्ते प्रीतिं कुर्वन्ति ।

ननु, तेषु अङ्ग-सङ्गं क्रियते प्रयोजनाभावात् । मम ब्रह्मचर्यं भवतीभिः श्रुत-पूर्वम् एव, अतो व्याबुध्य यात इति शब्दोत्थोऽर्थः । इदानीम् अर्थोत्थम् अर्थम् आह—अथवा तद् यात इति । पूर्व-श्लोकोक्त-व्रज-गमन-निषेधम् अबुद्ध्वा क्षुभित-दृष्टी सान्त्वयन् सापेक्षत्वं व्यञ्जयन् वने रमणं द्रढयति । पद्यार्थस् तु स एव, भावार्थो भिन्न एव । मम अभि भय-रहितः स्नेह-प्रसूताख्यश् चतुर्थो रत्य्-आख्यो भावः, तस्मात् तं प्राप्येत्य् अर्थः । यन्त्रिताशयाः मयैव यन्त्रितो निरुद्ध आशयश् चित्तं यासां, ताः । चित्ते निरुद्धे स्वत एव आगताः । मम चित्तेन भवतीनां चित्तम् आश्लिष्टं, क्षीर-नीरवत् । केवलं शरीर-मात्रम् अनाश्लिष्टम् । तद् इदानीं रमणं सर्वं सेत्स्यतीति भावः, यस्मात् आगताः, तद् उपपन्नम्, वो युष्माभिर् उचितं कृतम् इति । मनश् चक्रे [१०.२९.१] इति पूर्वं चिन्तनम् एव आगमन-मात्रं प्रतीक्ष्यमाणेन मया तथा तत् सम्पन्नम् । अतो यावद्-आकाङ्क्षं रमणं भविष्यतीति भावः । युक्तार्थत्वे कैमुत्य-न्यायेनाह—यतो जन्तवः प्राणी-मात्राः मम प्रीयन्ते मद्-विषयां प्रीतिं कुर्वन्ति, किम् उत मत्-प्रेम-रत्न-मञ्जूषा भवत्य इति । तद् उक्तं, को नु राजन्न् इन्द्रियवान् [भा।पु। ११.२.२]13 इति । प्रीतौ इन्द्रियवत्त्व-मात्रम् एवाधिकारि-विशेषणम् इति ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथवा इति । हन्त मया वृथैवैतान्य् आगमन-कारणानि कल्पितानि । अधुनैव कारणम् अवगतम् इत्य् आह—मयि यो\ऽभि सर्वतो-भावेन स्नेहः, तस्मात् यन्त्रिताशयाः वशीकृत-चित्ताः, अत एव आगताः, तद् उपपन्नं, मद्-दर्शन-लाभात् सिद्धं, यतो मयि जन्तवः प्राणि-मात्राणि प्रीयन्ते इत्य् औत्पत्तिकं मे सौभाग्यं, न त्व् औपायिकम् इति भावः । तेन भवत्यो मयि प्रीति-सामान्यवत्य एव, न तु कामोपाधिक-प्रीति-विशेषवत्य इति ध्वनितम् ।

पक्षे, मद्-अभिस्नेहः कान्त-भाव-मयं प्रेमा, तस्माद् धेतोर् यन्त्रीकृत आशयो याभिः, ताः । भवतीनां मनसा यन्त्रेणैवाहम् आकृष्टो वर्ते इत्य् अर्थः । तद् आगमनम् उपपन्नम् उचितम् एव, न तूपपत्ति-रहितम् इत्य् अर्थः । मयि जन्तवो\ऽपि प्रीयन्ते, किम् उत भाववत्यो भवत्य इति भावः ॥२३॥


॥ १०.२९.२४ ॥

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया ।

तद्-बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्टादृष्ट-भय-प्रदर्शनेन निवर्तयति—भर्तुर् इत्य्-आदि श्लोक-त्रयेण ॥२४-२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शास्त्र-सिद्धान्तम् आह—दृष्टं भयं राज-निन्दादि, अदृष्टं नरकादि । अमायया अवञ्चनया । तद्-बन्धूनां भर्तृ-बन्धूनां श्वशुरादीनाम् । प्रजानां सन्ततीनां पालनं च परो धर्मः शास्त्र-विहितत्वात् । अन्यथा कल्याणं नश्यतीति सम्बुद्ध्याह—हे कल्याण्यः ! इति । भर्तुः सर्व-पालकस्य मम अमायया नैष्कापट्येन सेवनं परोऽत्युत्तमो धर्मः, मम प्रसाद-हेतुत्वात् । अमाययानुवृत्त्या वै तुष्यत्य् आत्म-प्रदो हरिः14 [भा।पु। ११.३.२२] इत्य्-आद्य्-उक्तेः । तद्-बन्धूनां देवानां ब्रह्मादीनां च यज्ञादिना सेवनं, प्रजानां स्थावर-जङ्गमानां यथोचितम् अनुपोषणं पौनःपुन्येन पालनं, स्थावराणां नित्यं जलादि-प्रसेचनेन, जङ्गमानाम् अन्न-वस्त्रादि-प्रदानेनेत्य् अर्थः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : परिहारम् आह—भर्तुर् इत्य्-आदि । यात यात, भर्तारः शुश्रूष्यन्ताम् इति विधिः । तत्र निषेधः—भर्तुर् इत्य् एक-वचनेन स्वस्यैव भर्तृत्वं सूच्यते । भर्तुस् त्रैलोक्य-भर्तुर् मम शुश्रूषणं क्रियताम् । मच्-छुश्रूषणम् एव परो धर्मःस्त्रीणां लक्ष्मीणां भवतीनां पूर्ववत् । तद्-बन्धूनां तस्य मम बन्धवो भवद्-विधा एव, बन्धु-शब्दात् स्त्रियाम् उङ्-प्रत्ययः । तासाम् अन्यो\ऽन्यासां प्रजानां प्रकृष्ट-जन्मनां मया सहावतीर्णानाम् इत्य् अर्थः । अनु अन्योन्यं पोषणं प्रतिपालनं च परो धर्मः, यद्-भजनं मद्-उक्त-सौहृदं च परो धर्म इत्य् अर्थान्तरम् ॥२४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शुश्रूषणं धर्मः । स च अमायया शुद्ध-भावेन धर्मैकापेक्षया वा चेत्, तर्हि पर उत्कृष्ट इत्य् अर्थः । हि निश्चितम् । तद्-बन्धूनां श्वश्रू-श्वशुरादीनां च शुश्रूषणम् । तथा प्रजानां पुत्र-भृत्यादीनाम् अनु पत्य्-आदि-शुश्रूषान्तरं पोषणंधर्म एव । अमायया चेत्, पर एव । -काराभ्यां द्वयोर् अपि मुख्यतया साम्यम् अपि सूच्यते । कल्याण्यः ! हे साध्व्यः ! तद् एव युष्माकम् उचितम् इति भावः । यद् वा, हे शुभादृष्टवत्यः ! अतो युष्माकम् एव तत् सिध्यतीति भावः । एतच् च कैतवेनैव प्रोत्साहनम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, जन्तवः प्रीयन्ते नाम, किं वा आगता यत्, तद् युक्तम् एव, किन्तु परम-धर्मेणैवाहं लभ्येय, न त्व् अन्यथेति । तम् एव शिक्षा-मुद्रया बोधयन्न् आह—भर्तुर् इति । अर्थः स एव । वस्तुतश् चेर्ष्ययोपहास एव, तस्य परम-धर्मत्वाभावात् । द्वितीय-पक्षेऽपि नर्मैव । तुच्छीकृत-चतुर्-वर्ग-श्रवणादि-भक्ति-साध्य-प्रेमैक-लभ्यस्य तस्य पति-शुश्रूषादि-बाह्य-धर्मेणालभ्यत्वात् । अतस् तस्य धर्मस्य परत्वोक्तिर् अपि नर्मत एवेति । अत एवोक्तं गीतादौ, सर्व-धर्मान् परित्यज्य [गीता १८.६६] इत्य्-आदि ।

श्लेषार्थश् चायम्—न केवलं भर्तुस् तद्-बन्धूनां मद्-विधानां च शुश्रूषणं परो धर्मः । यद् वा, हे कल्याण्यः ! परम-वैष्णव्यः ! स्त्रीणाम् अन्यासां प्राकृत-योषिताम् एव धर्मः, न तु सर्व-स्त्री-वर्ग-श्रेष्ठानां युष्माकं भक्तौ प्रवृत्तानाम् अपि स्व-धर्मानादरात् तथोक्तं—त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेः [भा।पु। १.५.१७] इत्य्-आदिना । एतत् तु हरि-भक्ति-विलासे एकान्ति-लक्षणादौ बहुशो विवृतम् एवास्ति ।15

यद् वा, भर्तुर् जगत्-पतेर् मम । किं वा, परमात्मत्वात् तत्त्वतो भर्ताहम् एव, तस्य । यद् वा, वृष्ट्य्-आदिभ्यो गोष्ठादि-रक्षणात् साक्षाद् अहम् एवात्रत्यानां सर्वेषां भर्ता, तस्य । अप्य्-अर्थे -शब्दः । किं वक्तव्यम् ? भर्तुर् मम शुश्रूषणम् इति । मद्-बन्धूनां श्री-नन्द-बलदेवादीनाम् अपि तत् शुश्रूषणम् । तथा प्रजानां मद्-भृत्यानां श्रीदामादीनां श्री-नन्द-गृह-दासादीनाम् वा । किं वा, सामान्यतः सर्व-वैष्णवानाम् अनुपोषणम् अपि परो धर्मः । अन्यत् समानम् ।

अतः शुद्ध-भावेन मम सेवा क्रियताम् इति । यद् वा, अतोऽत्र आगता यत्, तद् युक्तम् एवेति भावः। किं च, श्री-भगवतो रसोपयुक्तेऽर्थे प्रयुक्ताम् अपि वाचं बहवोऽर्था अनुवर्तन्ते, तत्रैश्वर्य-रूपोऽयम् अर्थः । यद् वा, धर्म-रहस्य-सार-सर्वस्वं शृणुतेति परमार्थम् एव नर्मणैवाह—भर्तुर् इति त्रिभिः ।

व्रज-स्त्रीणां युष्माकं भर्तुः शुश्रूषणम् अधर्मः पापम् । अमायया तु परोऽधर्मो महा-पापम् एव, भक्ति-पराणां श्रवणादि-भक्ति-रूप-स्वधर्म-परित्यागेन पति-सेवादि-पर-धर्म-प्रवृत्त्या महानर्थोत्पत्तेः । तथा चोक्तं गीतासु, स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावः [गीता ३.३५] इति । यद् वा, -कारो विष्णुर् अहम् एव, तस्मिन् मयि मायया भक्त्य्-आदि-त्यागेन वञ्चनया यद् भर्तुः शुश्रूषणम् इति । अन्यत् समानम् ।

भगवद्-भक्ति-हीनानां सर्व-कर्मणो वैफल्याद् वैपरीत्याच् च । तथा चोक्तं बृहन्-नारदीये16

किं वेदैः किम् उ शास्त्रैर् वा किं वा तीर्थ-निषेवणैः ।

विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥

स्कान्दे च रेवा-खण्डे17

धर्मो भवत्य् अधर्मोऽपि कृतो भक्तैस् तवाच्युत ।

पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे ॥ इति ।

एतच् च भक्ति-विलासे श्री-वैष्णव-माहात्म्यादौ18 व्यक्तम् एव ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु यद्य् अस्माकं भवद्-अभिस्नेहो निश्चितः, तदा भवच्-छुश्रूषापि युक्तेत्य् आशङ्क्य धर्म-शास्त्रेण भावयति—भर्तुः इति त्रिभिः । भर्त्र्-आदीनाम् एव शुश्रूषादिकं धर्मः, न तु तद्-इतरेषाम् अस्माकम्, स चान्य-धर्मापेक्षया परः ।\

ननु तद् अप्य् अस्माभिर् यथा-युक्तं कार्यत एव ? तत्राह—अमायया एवेति । पर-पुरुषस्य मम भजने स-कपटम् एव स्यात्, ततः सोऽपि दुष्यद् इति भावः । कल्याण्यः ! हे साध्व्यः ! तद् एव युष्माकम् उचितम् इति भावः। एतच् च कैतवेन प्रोत्साहनम् । वस्तुतस् तूपहास एव, तस्य परम-धर्मत्वाभावात्,

एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।

भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ [भा।पु। ६.३.२२] इति श्री-धर्म-राज-वाक्याद् इति ।

श्लेषार्थश् चायम्—न केवलं मद्-अभिस्नेह-हेतोर् एवोपपन्नम्, अपि तु धर्म-हेतोर् अपीत्य् आह—भर्तुः इति । अमायया कल्याणीभिर् निज-सद्-भाव-वृत्तत्वेनैव, न तु बलाद् आपादितत्वेन । यो भर्ता तस्यैव शुश्रूषणं परो धर्मः, तथा तद्-बन्धूनां इत्य्-आदि । अन्यत्र परम-धर्म-विदा श्री-भीष्मेणाम्बायाः परित्यागाद् धर्मतो भर्तृत्वासिद्धेः । तद् एवं सद्-भावावृतत्वेन ते मायया कपटेनैव भर्तारः सद्-भाव-वृत्तत्वेन त्व् अहम् एव सत्य-भर्ता भवतीभिः शुश्रूषणीय इत्य् अर्थः । अत्र बाल्यम् आरभ्य भवतीनां हृदयम् एव मम साक्षीति भावः । वस्तुतस् तु स एष एवार्थः स्थापयिष्यते ॥२४॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : ननु भर्तृ-शुश्रूषण-परित्यागे स्त्रीणां दोषः ? तत्राह—भर्तुः शुश्रूषणम् इति । अमायया यो भर्ता, तस्यैव शुश्रूषणं परो धर्मः । तथा तद्-बन्धूनां च । युष्माकं तु अनुपभुक्तात्वेन लक्ष्यमाणानां दाम्पत्य-व्यवहाराभावात् केनापि माययैव तत् कल्पितम् इति लक्ष्यते । ततो न दोष इति भावः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं वा प्रार्थना-पक्षे भर्तुर् इत्य् अमायया अमिथ्यात्वेनैव यो भर्ता, तस्य कौमारम् आरभ्य भवतीनां मय्य् एव, न तु तत्-कान्त-भाव इति मिथ्यैव भर्तुर् इत्य् अर्थः । कन्य-वैमत्येन बलात् पतित्वाभावात् परम-धर्म-विदा श्री-भीष्मेणाम्बायाः परित्यागाद् इति भावः ॥२४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनः, तद् यात मा चिरं घोषं [भा।पु। १०.२९.२२] इति यद् उक्तं, तद् अनुकूलं वक्ति—भर्तुः इत्य्-आदि सुगमम् । पक्षे, भर्तुर् ममेत्य् अर्थः, एक-वचन-प्रयोगात् । अमायया अकैतवेन । हि निश्चितम् । हे कल्याण्यः ! तस्य मम बन्धूनां मत्-सुहृदां प्रजानां प्रकृष्ट-जन्मनाम् अनुपोषणम् अन्योन्य-परिपालनं च धर्मः परमः । मच्-छुश्रूषणम् अन्योन्य-प्रीतिश् चेति द्वयं परमो धर्म इति वाक्यार्थः । तेनान्योन्य-सौहार्द-पुरःसरं मच्-छुश्रूषणम् एव कुरुतेति भावार्थः ॥२४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं श्रुति-रूपा यूथ-मुख्याः प्रति भाव-जिज्ञासार्थं धर्म-निरूपणम् आह । बृहद्-वामन-पुराणे भृगुं प्रति ब्रह्म-वाक्यं—

न स्त्रियो व्रज-सुन्दर्यः पुत्र ताः श्रुतयः किल ।

नाहं तेन चानन्तो न च श्रीस् तत्-समा क्वचित् ॥ इति ।

भर्तुर् इति भर्तुः पोषण-कर्तुर् लौकिकस्य पत्युः शुश्रूषणं, प्रजानां पुत्र-कन्या-दास-दासीनां तद् अनु यथोचितं शुश्रूषणं धर्मः । हे कल्याण्यः ! मङ्गल-रूपाः ! अहं तु लौकिक-पतिर् न भवामि, स्त्रीणां ये देवताराधनादयो धर्मोक्ताः, तद्-अपेक्षया पति-शुश्रूषणं धर्मस्योत्कृष्टत्वं, न तु भगवद्-धर्मापेक्षयोत्कृष्टत्वम् । अतो निरपेक्षस्योदासीनस्य च मम भजनेन तद्-असिद्धेः ।

वास्तवम् अर्थम् आह—भर्तुः शुश्रूषणं स्त्रीणां साधारण-स्त्रीणाम् एव परः श्रेष्ठो धर्मः, न तु मत्-प्रियाणां भवतीनाम् । हे कल्याण्यः ! शुभ-रूपाः ! भवतीनां मद्-आराधनम् एव परमो धर्मः । यस् त्व् अलौकिको भर्ता रस-पोषण-कर्ता अहम् एव, लौकिक-पत्य्-आदीनां शुश्रूषणस्य परम-धर्मत्वाभावात् । अतस् तेष्व् अनिष्ट-निवारण-सामर्थ्याभावाद् भर्तृत्वं तद्-वधूनां बन्धुत्वं पारिभाविकम् एव, तद् उक्तम् अत्रैव—

गुरुर् न स स्यात् स्वजनो न स स्यात्

पिता न स स्याज् जननी न सा स्यात् ।

दैवं न तत् स्यान् न पतिश् च स स्यान्

न मोचयेद् यः समुपेत-मृत्युम् ॥ [भा।पु। ५.५.८] इति ।

तस्मान् मच्-छुश्रूषणं परो धर्मस् तद्-वधूनाम् । तस्य मम बन्धवो मत्-सहचराः । यद् वा, मम बन्धवो वैष्णवाः, तेषाम् अपि शुश्रूषणे पर्यवस्यति । तद् उक्तं,

साधवो हृदयं मह्यं साधूणं हृदयं त्व् अहम् ।

मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [भा।पु। ९.४.६४] इति ।

यद् वा, भर्तुः पालकस्य मम शुश्रूषणं प्रियाचरणं रमणम् इति यावत् स्त्रीणां मत्-प्रियाणां भवतीनाम् अमायया अप्रतारणेन चेद् भवति, तर्हि परो धर्मः । प्राकृतस्य भर्तुः शुश्रूषणं स्त्रीणां भवतीनाम् अमायया अकृपया स्नेहाभावेन चेद् भवति, तदा परो धर्मः स्यात् । कृपा-दम्भयोर् माया इति विश्वः । स्नेहस्य मयि निर्बन्धत्वात् । तद् उक्तम्—

विषयाविष्ट-चित्तानां कृष्णावेशः सुदूरतः ।

वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥ इति19

किं च—त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः [भा।पु। १.५.१७] स्व-धर्म-त्यागेन मच्-छुश्रूषणं स्व-धर्मत्वं यदा स्वीक्रियते, तदा अधर्म-त्यागेन मद्-आराधनस्य को वा धर्मत्वं स्वीकुर्यात् ? न ह्य् अधर्म-त्यागेन धर्मो भवति, केनाप्य् अभ्युपगतं शक्यते ।

ननु लोक-प्रतीत्या पत्य्-आदि-शुश्रूषणस्य धर्मत्वं श्रूयते ? सत्यम्, तथापि स्व-धर्म-त्याग-पूर्वक-मद्-भजनस्य परम-धर्मत्वं प्रसिद्धेः । तद् उक्तं गीतायां—सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [गीता १८.६६] इति मयैवोक्तत्वात् । यतः पत्य्-आदिषु स्नेहस्य त्यक्तात् त्याग-दर्शन-लिङ्गेन तस्मान् मच्-छुश्रूषणम् एव भवतीनां मुख्यो धर्मः ।

यद् वा, तद्-बन्धूनां तस्य मम बन्धूनां मत्-सहचरीणां सखीनां शुश्रूषणम् आनुकूल्येनानुरञ्जनं, तद् अनु प्रजानाम् अप्य् अनुरक्तानां दासीनां मनो\ऽनुरञ्जनं भवतीनां परमो धर्म इति । किं च, मच्-छुश्रूषणस्य त्यागेन इतर-धर्माचरणस्य कुत्राप्य् अश्रूयमाणत्वात् । अतः सापेक्षे\ऽपि रमणानुकूल-व्यापार-कर्त्रीभिर् भाव्यम् इति अर्थोत्थार्थ इति ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भवद्-अभिस्नेहवत्यो वयं भवाम इति चेज् जानासि, तर्हि "तद् यात गोष्ठम्" इति मुहुः किं ब्रवीषि ? न हि स्नेहाशयो जनः स्नेह-विषयं जनं त्यक्तुं शक्नुयात् ? सत्यं, येन धर्मः सिद्ध्येत्, तद् एव स्नेहवतापि व्रज-जनेन कर्तव्यम् इति शास्त्र-मतम् एतद् ब्रवीमि, इत्य् आह—भर्तुर् इति । पर उत्कृष्टः । अमायया इति, न तु पुंश्चलित्वे सतीत्य् अर्थः । तद्-बन्धूनां श्वश्र्व्-आदीनाम् ।

पक्षे, स्त्रीणां प्रस्तुतत्वात् स्त्री-विशेषाणां व्रज-सुन्दरीणां भवतीनाम् इत्य् अर्थः । भर्तुः शुश्रूषणं परो धर्मः, न त्व् आत्मीयः । अतः स नानुष्ठेय इति भावः । यद् उक्तं—

विधर्मः पर-धर्मश् च आभास उपमा छलः ।

अधर्म-शाखाः पञ्चेमा धर्म-ज्ञोऽधर्मवत् त्यजेत् ॥ [भा।पु। ७.१५.१२] इति ।

मम विष्णुत्वाद् भवतीनां च वैष्णवीत्वान् मद्-भजनम् एव भवतीनां स्वधर्मः । अन्यस् तु पर-धर्म एव । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः [भा।पु। ११.११.३२] इति धर्मान्तर-त्याग-पूर्वकस्य मद्-भजनस्य विधिर् इति भावः ॥२४॥


॥ १०.२९.२५ ॥

दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनोऽपि वा ।

पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पत्युः दौःशील्यादि-सत्त्वेऽपि स्त्रीभिस् त्यागो नोचित इत्य् आह—दुःशील इति । दुःशीलः कलहादि-ज्ञान-सम्पन्नः । दुर्भगो निर्वीर्यः, कान्ति-हीनो वा । वृद्धः प्रवयाः। जडः कर्तव्याकर्तव्य-ज्ञान-हीनः । रोगी भग्नाङ्गोऽल्पाङ्गो वा । यद् वा, कुष्ठादि-व्याध्य्-आर्तः । दौशल्यादि-सत्त्वेऽपि [अपातकी] ब्रह्म-हत्यादि-पञ्च-महा-पातक-रहितश् चेत्, तर्हि शुचिर् एवेति । आ शुद्धेः सम्प्रतीक्ष्यो हि पतिः पातक-दूषितः इति याज्ञवल्क्योक्तेः । लोकेप्सुभिः स्वर्गादि-फलेच्छुभिः ।

पक्षे, एतादृशोऽप्य् अहं चेत्, तर्हि न त्याज्यः, पातीति पतिः तद्वत्त्वात् । किं वा, पतिर् व्रजवासी युष्माभिर् न हातव्यो न गन्तव्यः । ओहाङ् गतौ ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : दुःशील इत्य्-आदि । लोकेप्सुभिर् एव, न तु मद्-ईप्सुभिः । मद्-ईप्सवस् तु माम् एव भजन्ति, लभन्ते च । यान्ति मद्-याजिनो\ऽपि माम् [गीता ९.२५] इतिवत् ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु परोपदेश-पण्डित ! सर्वथा पतयः परित्यक्ता एव । अधुना किं तदीय-शुश्रूषाद्य्-उपदेशेन ? तत्राहुः—दुःशील इति । दुःशीलो चौर्यादि-रतः । दुर्भगः भाग्यादि-हीनः, निष्फलोद्यम इत्य् अर्थः । वृद्धो जराभिभूतः । जडः कर्मादिषु सामर्थ्य-हीनः । रोगी महा-रोग-ग्रस्तः । अधनोऽतिदरिद्रः, निजोदर-भरणेऽप्य् असमर्थ इत्य् अर्थः । अपि-शब्दस्य प्रत्येकम् अन्वयः । दौःशील्यादि-युक्तोऽपि न हेयः, व्रज-वासी तु सर्व-सद्गुण-युक्त एवेति कथं त्याज्यः स्यात् ? इत्य् अपि-शब्दार्थः ।

दुःशील इत्य्-आदीनां यथोत्तरम् अधमत्वं द्रष्टव्यम् । तत्र दुःशीलात् दुर्बलात् दुर्भगोऽधमः, दैव-कृतत्वेन दौर्भाग्यस्य अपरिहार्यत्वात् । तस्माद् अपि वृद्धः, वृद्धत्वस्य सर्व-शक्ति-ह्रासात्, कामिनीनां प्रायोऽप्रियत्वाद् गृह-कर्माद्य्-असिद्धेश् चाधमत्वम् एव । तस्मात् अपि जडो धर्माधर्माज्ञानेन सत्-कर्म-साधनाशक्त्या च सर्व-दोष-सम्भवात् । तस्मात् अपि रोगी स-घृणादिना सर्व-लोकैः सदानादरात् । तस्मात् अप्य् अधमः क्षुद्-वैकल्येन अशेष-गुण-मर्यादादि-लोपाद् इति दिक् । स्त्रीभिर् इति तासां पत्य्-एक-गतित्वात् । अतः सेवकैः कदाचिद् धेयोऽपीति सूचितम् ।

लोकेप्सुभिः लोक-द्वयापेक्षावतीभिः । अन्यथा इह-लोके दुष्कीर्त्य्-आदिकम्, परत्र च नरकादिकम् इत्य् अर्थः । तत्र च महा-पाप-रत एव परित्याज्य इत्य् आह—अपातकी इति । तथा च स्मृतिः—पतिं त्व् अपतितं भजेत् [भा।पु। ७.११.२८] इति । अतोऽत्रत्यानां सर्वेषाम् अप्य् अपातकित्वान् न हातुं योग्य एवेति भावः । वस्तुतस् तु पश्चात् कदाचित् कुतोऽपि धर्मादि-विचारे सति स्व-विषयक-भाव-विशेषे शैथिल्यं सम्भवेद् इति । तन्-निरसनेन स्वयम् एवादौ धर्म-श्रावणेन तासां भावो दृढीकृत इति ।

यद् वा, इदम् अपि पूर्ववन् नर्मैव, तद्-भजनापेक्षया सौशील्यादि-षड्गुण-युक्तस्यापि पत्युर् हेयत्वात् तन्-निरूपितम् एव ।

श्लेषार्थश् चायम्—आपद्भ्यः पाति इति पतिर् अहं, दौःशील्यादि-युक्तोऽपि सन्, तथा अपातकी धर्माद् अपतितोऽपि सन् । लोक-द्वयेप्सुभिर् अपि पति-पुत्रादीच्छुभिर् अपि वा, स्त्रीभिर् व्रजाङ्गनाभिर् युष्माभिर् न हातुं योग्य एव । किन्त्व् आलिङ्गनादिना सदा सङ्गम्य एवेत्य् अर्थः । अहं तु न तादृशो भवाम्य् एव, सर्व-सद्-गुणवत्त्वेन युष्मद्-एक-प्रियत्वेन च तद्-वैपरीत्यात् । यूयं च मद्-अपेक्षया लोकानपेक्षिका एव, तद् अधुनापि कथं नालिङ्ग्येय ? इति भावः ।

यद् वा, प्राकृतस् तादृश-षड्-दोष-युक्तोऽपि पतिर् न हेयः । अहं तु तत्त्वतः पतिर् एव, साक्षात् षड्-गुणैश्वर्य-युक्तश् च, कथं हेयः स्याम् ? इति । सर्व-त्यागेन यूयम् आगता यत्, तद् उपपन्नम् एव ।

यद् वा, लोकेप्सुभिर् एव न हातव्यः । परमार्थेप्सुभिस् तु सौशील्यादि-युक्तोऽपि अपातक्य् अपि हातव्यः । भवत्यस् तु मयि परमानुरागाकृष्टत्वाल् लोक-द्वय-मर्यादातिगा एवेति भावः । तत्र सिद्धान्तो लिखित एव ।

यद् वा, गोपेभ्योऽभ्यसूयन्न् आह—स्त्रीभिर् व्रज-स्त्रीभिर् अपातक्य् अपि दुःशीलादि-रूपः पतिर् न हातव्यः, न गन्तव्यः, ओहाङ् गतौ इति । अस्य दुःशीलः क्रोधनः, दुर्भगः कुरूपः, वृद्धो जीर्णः, जडो मूर्खः, रोगी सदा व्याधितः, अधनो बहु-गोधन-हीनः, लोकेप्सुभिर् मल्-लोक-कामाभिः ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु परोपदेश-पण्डित ! सर्वथा पतयः त्यक्ता एवाधुना किं तदीय-शुश्रूषाद्य्-उपदेशेन ? तत्राहुः—दुःशील इति । दुःशीलश् चौर्यादि-रतः । दुर्भगः भागादि-हीनः, निष्फलोद्यम इत्य् अर्थः । वृद्धः जराभिभूतः । जडः कर्मादिषु सामर्थ्य-हीनः । रोगी महा-रोग-ग्रस्तः । अधनोऽतिदरिद्रः, निजोदर-भरणेऽप्य् असमर्थ इत्य् अर्थः । अपि-शब्दस्य प्रत्येकम् अन्वयः । दौःशील्यादि-युक्तोऽपि न हेयः । व्रज-वासी तु सर्व-सद्गुण-युक्त एवेति कथं त्याज्यः स्यात् ? इत्य् अपि-शब्दार्थः । लोकेप्सुभिः लोक-द्वयापेक्षावतीभिः । अन्यथा इह-लोके परत्र च दुःखम् एवेत्य् अर्थः । तत्र च, पातक्य् एव परित्याज्य इत्य् आह—अपातकी इति । पातकं पतन-हेतुः पाप-विशेषः । तथा च स्मृतिः—पतिं त्व् अपतितं भजेत् [भा।पु। ७.११.२८] इति । अतोऽत्रत्यानां सर्वेषाम् अपि पाप-मात्राभावान् न हातुं योग्य एवेति भावः । वस्तुतस् तु तासां निश्चितेऽपि दृढ-भावे उत्कण्ठा-वर्धनार्थम् एव तथोक्तम् इति ।

श्लेषार्थश् चायम्—तस्मात् वस्तुतोऽहम् एव पतिर् इति स्थिते, दुःशील- इत्य्-आदि वचनानुसारेण तत्-तद्-दोष-युक्तोऽपि पतिर् न हातव्य इति स्थिते, निखिल-कल्याण-गुण-युक्तः पतिर् अहं कथं हातव्यः ? ते पुनस् तत्-तद्-दोष-युक्ता न च पतय इति कथं न हातव्याः ? इत्य् आह—दुःशील इत्य्-आदि ॥२५॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३३२) : अङ्गीकृत्यापि पतित्वं प्रकारान्तरेण तत्-सेवां स्मृति-वाक्य-द्वारापि परिहरति—दुःशीलः इति । अपातकी एव न हातव्यः । ते तु पातकिन एवेति सासूयो भावः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् एव दुःशील इत्य्-आदि योज्यम् ॥२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनस् तेनैव क्रमेणार्थ-द्वयं प्रकाशयति—दुःशील इत्य्-आदि । प्रकृत-पक्षे सुगमम् । तस्माद् घोषं गत्वा पतीन् एव शुश्रूषध्वम् इति भावः । पक्षे—लोकेप्सुभिर् इवेदम्, न तु मद्-ईप्सुभिः । मद्-ईप्सुभिस् तु पतीन् हित्वाप्य् अहम् एव भजनीयः, ममैव वास्तव-पतित्वात् । तस्मान् मा घोषं व्रजत, इहैव हित्वा मां भजतेत्य् अर्थः ॥२५॥


**नारायण-भट्टः (श्री-रसिकाह्लादिनी) : "**आत्म-शुश्रूषणं त्याजयित्वा पत्य्-आदि-शुश्रूषणम् उपदिशति" [इति] शाब्द-प्रतीत्या मन्यमानाः, "पित्ताक्रान्त-रसनायां सितां त्याजयित्वा कना-प्रयोगं कुर्वन्न् इवेति किम् अस्मान् क्षारम् इवार्पयन् दुःखी-करोति ?" इति वीक्षमाणाः प्रति आत्म-शुश्रूषणं द्रढयितुं पुनर् अपि तम् एव धर्मं कथयति । [***] फलादर्शनात् वृद्धः वयः-परिणामवान् कर्म-करणैः शिथिलः, मूढत्वात्, रोगी राजरोगाक्रान्तः, पूर्व-जन्मनि महा-पातकीत्वात्, ब्रह्महा क्षय-रोगाद् इति स्मृतेः । अधनः दरिद्रः निजोदर-भरणे\ऽप्य् अपर्याप्तत्वात्। षड्-दोष-युक्तो\ऽपि पतिश् चेत् पालकश् चेत् तदा स्त्रीभिर् अन्याभिः लौकिकीभिर् न त्याज्यः, तेन स्वत एव त्यक्ताभिर् अपि । अपि-शब्दः, यतो लोकेप्सुभिः लोक-द्वयम् इच्छतीभिः, इह लोके निन्दा-श्रवणात्, पर-लोके नरक-दुःख-श्रवणाच् च । महा-पातक-सम्बन्धश् चेत्, तदा त्याज्य एवेत्य् आह—अपातकी चेत् न त्याज्यः, पातकी त्याज्यः । तथा भवतीनां पतयस् तु नैवं-विधाः, किन्तु सुशीलाः, शुभगाः, तरुणाः, कर्म-करणे दक्षाः, अरोगाः, बहु-गोधन-धान्य-युक्ताः, भवतीषु स-स्पृहा अपातकीनश् च । ते कथं त्याज्याः ? एकस्यापि दोषस्य सद्-भावे सर्वथा उचितो नान्यथेति । अन्यच् च सदा निरपेक्षे औदासीन्य-युक्ते\ऽप्य् अनुरागो नोचित इति भावः ।

इदानीं वास्तवम् अर्थम् आह—दुःशील इत्य्-आदि षट्-दोष-युक्तो\ऽपि पतिः स्त्रीभिः साधु कुर्वतीभिर् भवतीभिर् न हातव्यः, किम् उताहं सुशीलत्वादि-गुण-युक्तः । अन्यैः षड्-गुणैः युक्तत्वात् मुख्य-पतिर् अहम् एवातिवृष्ट्य्-आदि-भय-निवारण-समर्थत्वात् । युष्मत्-सदृशीभिर् मत्-सदृशः पतिर् न हातव्यःपातकी इत्य् अस्यायम् अभिप्रायः—व्रजे पाप-मात्र-स्थायि-सम्भावना नास्ति, किम् उत महा-पातक-सम्भवः । सत्यां निषेधः सम्भवतीति । तद्-उक्तं—

अवैष्णव-नमस्काराद् अयमाना जनार्दने ।

वैष्णवे कलहाच् चैव पतन्तीह न संशयः ॥

ता वार्यमाणाः पतिभिः [भा।पु। १०.२९.८] इत्य् उक्त्वा कलहेन निवारणे जाते इति कलहात् पातक-सञ्चारो जातः । मत्-प्रणववितानां निवारणात् मद्-ईर्ष्याकुलत्वात् ममाप्य् अपमानो महा-पातक-सञ्चारो जातः, तस्मात् सर्वथा त्याज्या एवेति लोकेप्सुभिः । लोक्यते प्रकाश्यते इति लोको रमणानन्द-प्रकारः, तद्-इच्छुभिर् युष्माभिः निजाभीष्ट-प्रदः पतिर् अहं न हातव्यः, किं तु दयालुना मया सह रमध्वम् इति गूढो\ऽभिप्राय इति ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भवद्-अभिस्नेहवतीनाम् अस्माकम् अननुरूपाः प्रतिकूल-शीला अरोचकास् ते पतयः कथं सेव्या भवन्तु ? इत्य् अत आह—दुःशील इति । अपातकी इति, पतिस् त्व् अपतितं भजेत् [भा।पु। ७.११.२८] इति स्मृतेः । पतन-हेतु-पातकवान् एव पतिस् त्याज्य इत्य् अर्थः । लोकेप्सुभिः पति-लोक-सुख-वाञ्छावतीभिः ।

पक्षे, लोकेप्सुभिः इह-लोके पर-लोके चातिक्षुद्र-कीर्ति-सुखाद्य्-अपेक्षावतीभिर् एव न हातव्यः, युष्माभिस् तु लोक-द्वयाय जलाञ्जलीर् दत्त्वा मन्-माधुर्य-सुख-वारिधौ खेलन्तीभिः प्रथमत एव पतिस् त्यक्त एव ॥२५॥


॥ १०.२९.२६ ॥

अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् ।

जुगुप्सितं च20 सर्वत्र औपपत्यं कुल-स्त्रियाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : फल्गु तुच्छम् । कृच्छ्रं दुःसंपाद्यम् । औपपत्त्यं जार-सौख्यम् ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कामस्य पुरुषार्थत्वेन पति-दोषेण तद्-अप्राप्त्या जन्मनो नैष्फल्यापनुत्तये प्रकारान्तरेण किं जन्म-साफल्यं न कार्यम् ? इति चेत्, तत्र बाधकम् आह । चोऽवधारणे। उपपतिः पत्युः प्रतिनिधिर् उपपतिर् जारः, जारस् तूपपतिः समौ इत्य् अमरः । तत्-सम्बन्धि कर्म ग्राम्य-लक्षणम् । तत् कुल-स्त्रियाः सर्वत्र पत्युर् उत्तमाधम-मध्यमेषु पुरुषेषु जुगुप्सितं गर्हितम् एवेत्य् अन्वयः ।

कथम् ? तद् उच्यते—अस्वर्ग्यं स्वर्ग-विरोध्य् एव, प्रत्युत सप्त-सूर्म्य्-आदि-यातना-प्रदम् । किं च, अयशस्यम् इहामुत्र दुष्कीर्ति-करम् । तथापि न बहुलं, फल्गु तुच्छ-फलम् । अल्प-काल-विषयत्वात् कादाचित्कत्वेनेत्य् अर्थः । कृच्छ्रम् इति व्याख्यातं स्वामि-पादैः—दुःसम्पाद्यम् इति कर्तुर् अतिश्रम-साध्यत्वात् । भयावहं मरणादि-भय-करम् । निधुवने तत्-पत्य्-आदि-समागमादिनेत्य् अर्थः ।

पक्षे, उप समीपे पतिर् यस्याः सा उपपतिः, तस्या भवस् तत्त्वम् । अष्ट-यामं पति-सामीप्यम् । कु कुत्सितं लात्य् आददातीति कुला सा चासौ स्त्री च, तस्या एव, न तु मन्-निष्ठानां युष्माकम् । ताराहल्यादीनां तु व्यभिचाराद् अप्य् औपपत्यं जुगुप्सितं न जातं, पुनः पतिभिर् अङ्गीकरणाद् इति ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पति-त्यागस् तु महद् दूषणम् इत्य् आशङ्क्याह—अस्वर्ग्यम् इत्य्-आदि । सर्वत्र प्रपञ्चे, सर्व-शब्दो\ऽत्र विश्व-परः । सर्वत्र ब्रह्मादि-पर्यन्ते\ऽपि औपपत्यम् अस्वर्ग्यम् अयशस्यादि, सर्वातीते मयि तु न तथेति । द्वितीयो\ऽर्थः—मम औपपत्यं नास्ति, पतिर् एवाहम् इति भावः । तथा च लक्ष्मीः—स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य [भा।पु। ५.१८.१९], स वै पतिः स्याद् अकुतोभयः स्वयं [भा।पु। ५.१८.२०] इत्य्-आदि ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु श्री-व्रज-युवराज ! भवद्-आज्ञया नैव पतयस् त्याज्याः, किं तु नाम्नैव खलु तेषां पतित्वम् । पतित्व-व्यवहारस् तु त्वया सहैवास्ताम् इत्य् आशङ्क्य तासां दीर्घाभीष्ट-निन्दनेन परमाप्रियम् अवहित्थया साभ्यसूयम् इवाह—अस्वर्ग्यम् इति स्वर्गाप्तौ प्रतिकूलम्, किं वा पूर्व-पुण्यार्जित-स्वर्ग-नाशकम् इत्य् अर्थः । अयि कामिन्यः ! अदृष्टत्वान् मास्तु स्वर्गापेक्षा । लोके यशोऽपेक्षा त्व् अस्त्य् एव । तद्-बाधकं चेत्य् आह—अयशस्यम् इति । पूर्व-सञ्चित-यशसोऽपि लोपकम् इत्य् अर्थः ।

ननु लोकातीत ! सुगुप्तम् एतत् को नाम जानातु ? तत्राह—फल्गु तुच्छम् अस्थिरत्वात् ।

ननु भो अच्युत ! त्वया सहास्माकं तत् सुस्थिरम् एव, तत्राह—कृच्छ्रं दुःसाध्यम् इत्य् अर्थः।

ननु स्वैर-सिंह ! व्रजे श्री-वृन्दावने च स्वच्छन्द-विहरणात् सुख-साध्यम् एव ? तत्राह—भयं स्वाम्य्-आदिभ्यो नरकादिभ्यश् च, तद् सम्यग् वहति प्रापयतीति तत् ।

यद् वा, लोके परमार्थेऽपि जुगुप्सितं निन्दितम्, लज्जा-करत्वाद् घृणावहत्वाद् वा । हि निश्चितम्।

ननु तत्त्वज्ञेन्द्र ! निजाभीष्ट-सिद्ध्या जुगुप्सापि सुसह्यैव, तत्राह—कुल-स्त्रिया इति । जाताव् एकत्वम् । कुल-कलङ्कतस् तत्-स्त्रीणां परमानुचितम् इति सर्वथा परिहार्यम् एवेति भावः । वस्तुतस् तु पूर्ववद् स्व-विषयक-भाव-दार्ढ्यार्थम् एव ।

श्लेषार्थश् चायम्—अप्य्-अर्थे -कारः । अस्वर्ग्यादि-रूपम् अप्य् औपपत्यं कुल-स्त्रिया अपि भवत्य् एव । ताराहल्यादीनाम् अपि तच्-छ्रवणात् । अतः साधारण्यापत्त्या दोष-विशेषो नास्तीति भावः ।

किं च, [कुल-स्त्रियाः] कुत्सितं लाति आददातीति कुला या स्त्री, तस्या एव अस्वर्ग्यादिकम् । युष्माकं तु निखिल-सर्वस्व-सारं मद्-भावम् आददानानां तन् नेति तात्पर्यं नर्म च ज्ञेयम् । यद् वा, नर्म आह—उप समीपे पतिर् यस्याः, सा उपपतिः । तस्या भाव औपपत्यं, पत्युः सामीप्यम् इत्य् अर्थः । तत् सर्वथा अस्वर्ग्यादि-दोष-युक्तम् । कुल-स्त्रिया इति राधाम् उद्दिश्योक्तम् ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु श्री-व्रज-युवराज ! भवद्-आज्ञया नैव पतयस् त्याज्याः, किं तु सदा नाम्नैव तेषां पतित्वं, पतित्व-व्यवहारस् तु त्वया सहैवास्ताम् इत्य् आशङ्क्य तासां दीर्घाभीष्ट-निन्दनेन परमाप्रियम् अवहित्थया साभ्यसूयम् इवाह—अस्वर्ग्यम् इति ।

अस्वर्ग्यं सर्ग-प्राप्तौ प्रतिकूलम् । अयि कामिन्यः ! दृष्टत्वाभावान् मास्तु स्वर्गापेक्षा, इह-लोके यशोऽपेक्षा त्व् अस्त्य् एव तद्-बाधकं चेत्य् आह—अयशस्यम् इति, पूर्व-सञ्चित-यशसोऽपि लोपकम् ।

ननु सुगुप्तम् एवैतत् को नाम जानातु ? तत्राह—तथापि फल्गु तुच्छम् अस्थिरत्वात् ।

ननु भो अच्युत ! त्वया सहास्माकं तत् सुस्थिरम् एव, तत्राह—तथापि कृच्छ्रं दुःसाध्यम्।

ननु स्वैर-सिंह ! व्रजे श्री-वृन्दावने च स्वच्छन्द-विहरणात् सुख-साध्यम् एव, तत्राह—तथापि भयावहं, भयं पर-लोकात् कदाचित् स्वाम्य्-आदिभ्यश् च तत् आ सम्यग् वहति प्रापयतीति तत् ।

ननु अमृत-निर्मञ्छनीय-मधुराधर ! त्वद्-अपेक्षयास्माभिः सर्वम् उपेक्षितम् एवेति । कुतोऽपि न भयं, तत्राह—तथापि सर्वत्र स्व-देश-पर-देशयोर् व्यवहार-परमार्थयोश् च जुगुप्सितं निन्दितम् । हि निश्चितम् ।

ननु तत्त्व-ज्ञेन्द्र ! निजाभीष्ट-सिद्ध्या जुगुप्सापि सुसहैव, तत्राह—कुल-स्त्रिया इति । जाताव् एकत्वम् । कुल-कलङ्कतोऽपि कुल-स्त्रीणां परमानुचितम् इति सर्वथा परिहार्यम् एवेति भावः । वस्तुतस् तु पूर्ववद् उत्कण्ठा-वर्धनार्थम् एवेति ।

श्लेषार्थश् चायम्—पूर्ववद् एव धर्मोपात्तः पतिस् तद्-विपरीतस् तूपपतिर् इति । अथ च लोकेऽप्य् अन्यथा-प्रसिद्धम् आलक्ष्य स्मृति-वाक्यम् इदं छलार्थतया नर्म व्यञ्जयति । उप समीपे पतिर् यस्याः सा उपपतिः, तस्या भाव औपपत्यम्, पत्युः सामीप्यम् इत्य् अर्थः । तत् सर्वथास्वर्ग्यादि-दोष-युक्तम् इति । एवं भर्तुः शुश्रूषणम् इत्य् अत्र परः सर्वाधिक एवाधर्म इति व्याख्येयम् ॥२६॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अपातकित्वाङ्गीकारम् आशङ्क्य छलेन स्मृति-वाक्यान्तरम् अन्यार्थतया व्यञ्जयन्न् अपि तत्-सेवां प्रत्याचष्टे—अस्वर्ग्यम् इति । उप समीपे पतिर् यस्याः सा उपपतिः, तस्या भाव औपपत्यं पति-सामीप्यम् इत्य् अर्थः । तत् खल्व् अस्वर्ग्याद् इति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनस् तेनैव क्रमेणाह—अस्वर्ग्यम् इत्य्-आदि । कुल-स्त्रिया औपपत्यम् उपपति-करणं सर्वत्र अस्वर्ग्यम् इत्य्-आदि । तस्माद् घोषं गत्वा पतीन् भजतेत्य् अर्थः ।

पक्षान्तरे—कुल-स्त्रिया औपपत्यं सर्वत्रास्वर्ग्यम् इत्य्-आदि, न तु सर्वातीते मयि, औपपत्याभावात् । वास्तवः पतिर् अहम् एव । तस्माद् अविचारम् एवेह स्थित्वा मां भजतेत्य् अर्थः ॥२६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : अधुना यूथ-मुख्या देवीः प्रत्य् आह— अस्वर्ग्यम् इति। औपपत्यं उपपति-जनितं सुखं । कुल-स्त्रिया इति जाताव् एकवचनं कुल-स्त्रीणां अन्यासाम् अपि सर्वत्र जुगुप्सितं निन्दितम् इति । निन्दा-भयम् अवगणय्यागतानां निन्दा न किञ्चित् करोति चेत्, तत्राह—अस्वर्ग्यम् स्वर्ग-प्राप्ति-प्रतिबन्धकं यागादि-जन्य-पुण्य-विनाशकत्वात् ।

ननु स्वर्गापेक्षा-रहितानां किं स्वर्ग-साधनेन इति चेत् तत्राह—अयशस्यं दुःकीर्ति-सम्पादकं विगीताचरणात्, संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते [गीता २.३४] इति गीतोक्तेः ।

ननु केनाप्य् अलक्षितागमनम् अत्र को वा ज्ञास्यति ? इति चेत् तत्राह—फल्गु तुच्छं अनल्प-काल-भोग्यत्वात् ।

ननु भवतो यावद्-आकाङ्क स्थास्याम इति चेत्, तत्राह—कृच्छ्रं दुःख-साध्यं लण्टक-हिंस्रादि-वल्ल्य्-आवृत-प्रदेशात् ।

ननु वृन्दावनस्य सुख-रूपत्वात् त्वया सह स्वेच्छा-रमणात् सुखम् एव प्राप्स्याम इति चेत्, तत्राह—भयावहम् । इह लोके पत्य्-आदि-भयं तस्मिन् भये प्रतिकार्ये\ऽपि राज-भयं दुःपरिहरम् इति । अमुत्र भ्यम् अप्रतीकार्यम् एव भय-संवलित-सुखेन रत्य्-आदिकं भयानकस्य बलवत्त्वात् भयम् अगणयन्तीः प्रत्य् आह—सर्वत्र स्व-देशे पर-देशे च जुगुप्सितं निन्दितं च कुल-कलङ्कावहत्वात् । तस्मात् कुल-स्त्रीणां साध्वीनां तत् परिहार्यम् एवेति । तद् उक्तं—अस्वर्ग्ये लोक-विद्विष्टं धर्मम् अथाचरेन् न तु ।

अयं भावः—निरपेक्षस्योदासीनस्य ममाविगीते\ऽपि वृत्तिर् नास्ति । विगीते राग-भावस्य नित्य-सिद्धत्वाद् इति । इदानीं वास्तवम् अर्थम् आह—औपपत्यं सर्वत्र सर्व-देशेषु सर्वेषु पुरुषेष्व् एव कुल-स्त्रीणां जुगुप्सितं निन्दितं मम तु सर्वान्तरत्वान् मुख्य-पत्युः सम्बन्धेनाविगीतम् एव, विक्रीडितं व्रज-वधूभिर् इदं [भा।पु। १०.३३.४०] इत्य् अग्रे वक्ष्यमाणत्वात् । कीदृशम् ? अस्वर्ग्यम्, अन्येषाम् अपि मद्-भक्तानां स्वर्गे इच्छानुदयात् किं पुनर् मत्-प्रियाणाम् इति । तद् उक्तं—स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.२८] इति भवत्यस् तु पूर्वं देव्यः मत्-सम्बद्धं औपपत्यं स्वर्ग-गति-प्रतिबन्धकं जातम् इत्य् अर्थः । एताः परं तनु-भृतः [भा।पु। १०.४७.५८] इति । वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् [भा।पु। १०.४७.६३] इत्य्-आदिभिस् तूभयमानत्वात् । अत एव भवतीनां उत्तमाधिकार-सम्पादकम् इति । फल्गु अल्पं कृच्छ्रं यत्र कण्टकित-प्रदेशोल्लङ्घनात् परिणामे बहु-सुख-प्रदत्वात् । किं च, भयावहं भयं न वहति प्रापयतीति । वेणु-नादेन सर्वेषां मोहितत्वात् । अत्र कस्यापि भयम् आकुरुत निःशङ्कं रमतेत्य् अर्थः । यद् वा, कुल-स्त्रीणां भवतीनां औपपत्यं पत्युर् मम समीपे यत् सुखं, तद् अस्वर्ग्यं, स्वर्गं न भवतीति । अत्रैव सुखं नास्त्य् अन्यत्रेति । पुनः कीदृक् ? अयशस्यं अयेन शुभ-दृष्टेन शस्यत्य् उत, अयः शुभावहो विधिः इति कोषः ।

किं च, फल्गु अत्यल्पं कृच्छ्रं दुःखं यत्र व्यभिचारि-भावानां दुःखवत् प्रतीयमानत्वात् । भयावहं भयं काल-भयं न वहति प्रापयतीति । सर्वदा निकट-स्थितेः सर्वत्र मद्-व्यतिरिक्तेषु पुरुषेषु युष्मद्-व्यतिरिक्तानाम् अन्यासां स्त्रीणां औपपत्यं जुगुप्सितं, औपपत्यं रस-वृद्धि-हेतुत्वान् मया स्वीकृतं, अन्यत्र नरक-हेतुत्वात् । वक्ष्यति च न,

नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः ।

विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो\ऽब्धि-जं विषम् ॥ [भा।पु। १०.३३.३१] इति ।

औपपत्यं रस-वृद्धि-हेतुत्वान् मया स्वीकृतम् इत्य् अभिप्रायः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयि स्नेह-सामान्यवत्यो भवत्यः स्वभावाद् भवन्त्य् एव, किन्तु धर्म-प्रतिकूल-स्नेह-विशेषस् तु सर्वथैव त्याज्य इत्य् आह—अस्वर्ग्यम् इति। मास्तु स्वर्ग इति चेत्, अयशस्यं । यशोऽपि मास्त्व् इति चेत्, फल्गु मिथ्यैव ब्रूषे । नेदं फल्गु । सर्वोत्कृष्टत्वेनानुभूतत्वाद् इति चेत्, कृच्छ्रं पत्य्-आदि-वारण-कष्ट-मयम् ।

ननु,

वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।

तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ [उ।नी। ३.२०] इति ।

दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते [उ।नी। १४.१२६] इति रस-शास्त्रोकेः । प्रत्युत तत् कृच्छ्रं रागवतीनाम् अस्माकं सुखातिशय-हेतुर् एवेति चेत्, भयावहं लोक-शास्त्र-निषिद्धत्वाद् ऐहिक-पारत्रिक-भय-प्रदम् । ननु,

यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।

तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥ [उ।नी। ३.२१] इति रस-शास्त्रोक्तेः ।

प्रत्युत रसाधायकम् एवैतत् ? इति । तत्राह—जुगुप्सितम् इति । सर्व-देशे सर्व-काले औपपत्यम् उपपति-कर्तृकं कर्म कुल-स्त्रियाः जुगुप्सितम् इति सर्वत्र तद्वती कुल-स्त्री निन्द्यत इत्य् अर्थः । तत्र यद्यपि युष्माभिः स्वाभीष्ट-सिद्ध्या स्व-निन्दापि सुसहैव, तथापि मत्-प्रणयास्पदानां युष्माकं निन्दा मया कथम् उत्पादनियेति, अतो गोष्ठम् एव यातेति भावः ।

पक्षे, सर्वत्र इति जुगुप्सितम् इदं सार्वत्रिकम् एव । प्रस्तुते तु मम नारायण-समत्वं गर्ग-मुख-परम्परया युष्माभिः श्रुतम् एवेत्य् अतो मम औपपत्येऽपि नैव निन्दा, परमेश्वरत्वेन शुभाशुभ-कर्मातीतत्वाद् इति भावः ॥२६॥


॥ १०.२९.२७ ॥

श्रवणाद् दर्शनाद् ध्यानान् मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहान्21

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, श्रवणाद् इति ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-प्रीति-साधनम् आह—किं च इति । अन्यद् आहुः । तव मुख्य-भर्तृत्वात् त्वत्-सेवनं जार-सेवनवद् अस्वर्ग्यादि न, किन्तु पति-सेवनतोऽपि मुख्यं स्वर्ग्यादि-साधनम् एवेति चेत्, तथापि मच्-छ्रवणादिना मयि भावो भक्तिः स्यान् न तथा सन्निकर्षणात्यन्त-समीप्येन तेजस्विनाम् अत्यन्त-सामीप्यं वह्निवद् भयङ्करम् इति तात्पर्यम् । अतो गृहान् अवाप्य मद्-भक्तिर् विधेयेत्य् आह—प्रतियात इति । पक्षे, श्रवणादिना तथा न, यथा संनिकर्षेण ततोऽगृहान् अकृत-दार-गमनान् प्रति यात भजत । किं वा, गृहान् मदीय-कुञ्ज-भवनानि विशतेत्य् अर्थः ।

ननु कथम् अन्यथा सम्भावयसि ? न वयं त्वद्-अङ्ग-सङ्गार्थम् आगताः, किन्तु गर्गोक्ति-प्रामाण्यान् नारायणस्य समो नान्यः [भा।पु। १०.८.१९] इत्य् अतस् त्वाम् एव नारायणं ज्ञात्वा त्वद्-भक्ति-कामा वयम् आगतास् तद् अद्यतनीं रात्रिं स्व-समीप एवास्मान् स्थापयित्वा कृपया स्व-चरण-सरोजं परिचारयेति चेत्, तत्राह—श्रवणाद् इति । शुद्ध-भक्ताः खलु सामीप्य-सालोक्यादिकम् अपि न कामयन्ते, यथा श्रवण-कीर्तनादिकम् इति प्रसिद्धिर् भवतीभिर् वैष्णवीभिः श्रुतैवेति भावः ।

पक्षे—श्रवणादिभ्यो भावः कन्दर्पस् तथा न भवति, यथा सन्निकर्षेण त्य् अतो गृहान् प्रति न यातेति तत्र आवृत्त्यान्वयः । यद् वा, नञ्-पर्यायस्याकारस्य प्रश्लेषेणागृहान्, न गृहान् प्रति यात इत्य् अर्थः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्रवणाद् इत्य्-आदि चेद् अनुरक्ताः स्थ, तदा श्रवणादिभिर् एव स्थीयताम् इति बाह्योऽर्थः । आन्तरं तु श्रवणादिना मयि भावो न तथा यथा सन्निकर्षेण संयोगेन, ततः प्रतियात गृहान् इति बाह्योऽर्थः । आन्तरस् तु अगृहान् अकृत-दारान् अस्मान् इति बोद्धव्यम् । प्रतियात इति पूर्ववद् बहु-वचनम् । अगृहान् त्यक्त-गृहान् भवद्-विधानां सङ्गार्थम् एव वनं गतान् इति वा ॥२७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, प्रेमैक-लभ्य ! सर्व-साध्य-प्रेम्णा बाह्यान्तरङ्गं किल स्व-धर्म इति चेत्, तर्हि मच्-छ्रवणादिकम् एवानुष्ठीयताम् इति । यद् वा, श्री-पुरुषोत्तम ! त्वत्-प्रसाद एवापेक्ष्यते, नान्यत् किञ्चित् कुलादिकम् एवेति चेत्, तर्हि मत्-प्रसादो मद्-विषयक-प्रेम्णैव सिध्यति । स च श्रवणादिनैव सम्पद्यते । न त्व् अङ्ग-सङ्गेनेत्य् आह ।

यद् वा, ननु सर्वार्थ-साध्य-सौहृद ! त्वत्-प्रेम्णि सम्पन्नेऽपि न किञ्चित् जुगुप्सादिकं परम-पुरुषार्थ-सिद्धेर् इति चेत् तर्हि तद्-उपाय एवानुष्ठीयताम् इति शास्त्र-रीतिम् अभिनयन् दुःसहौदास्य विशेषेण परम-प्रियं स-विवेकम् आह—श्रवणाद् इति ।

श्रवणादीनां समुच्चयो विकल्पो वा । तेषाम् एकतरेणापि भाव-सिद्धः । तच् च श्री-भागवतामृतोत्तर-खण्डादौ विवृतम् एव । तत्र श्रवणं भगवत्-कथादेः । दर्शनं श्री-मूर्त्य्-आदेः, दूरतो ममैव वा । अनुकीर्तनं निरन्तरं मन्-नाम-प्रधान-कीर्तनम् । एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो [भा।पु। ११.२.४०] इत्य्-आदिना, तस्यैव भावोदयेऽन्तरङ्गत्वोक्तेः । दर्शनार्थं सन्निकर्षोऽपेक्ष्यत एवेति । तत्-परिहारार्थं तद्-दर्शनस्य गौणता विवक्षया आदौ निर्देशः ।

एषां च हेतु-हेतुमत्ता यथोत्तर्म् ऊह्या । तत्रादौ श्रवणम् [२७] एव । तेन विना सर्वाज्ञानात् । अत एव—श्रोतव्यः कीर्तितव्यश् च [भा।पु। १.२.१४] इत्य्-आदौ । तस्यैवादौ विधेयताद्य्-अभिधानम् । श्रवणान्तरं श्री-भगवद्-दिदृक्षया श्री-मूर्त्य्-आदि-दर्शनं, तस्माच् च ध्यानं सुखम् एव सम्पद्यतेतराम् । तस्माच् च अनुकीर्तनं स्वत एवोदेति मनो\ऽभिनिवेश-सम्पत्तेः । तस्माद् धेतोर् यथा मयि भावो भवति, तथा सन्निकर्षेण सान्निध्येनाङ्ग-सङ्गेन वा न भवति । सन्निकर्षो हि मर्त्यानाम् अनादरण-कारणम् [भा।पु। १०.८४.३१]22 इत्य्-आदि न्यायात्, शास्त्राविरुद्धत्वेन मनः-सङ्कोचाद् वा । तथा इत्य् अनेन तादृशो न भवति, किन्तु ततो न्यून एवेति।

किं वा, तेन प्रकारेण न भवति, किन्तु लोक-धर्मातिक्रमेण सर्वोपेक्षया परम-प्रयत्नादिनैव भवति । अतः सन्निकर्ष-त्यागेन श्रवणादिकम् एव कार्यम् इति भावः । अतस् तद्-अर्थं गृहान् एव यात [२७], सर्व-सङ्कोचाद्य्-अभावेन तत्रैव तत्-सुख-सिद्धेः । वस्तुतस् तु सर्वम् एतत् परम-कौतुकित्वात् । किं वा, निरन्तर-प्रेम-भर-सुकोमलित-सरल-स्वभावानां तासां प्रेम-वैयग्र्य-दर्शनार्थम् एवेति दिक् ।

श्लेषार्थश् चायम्—उक्त-न्यायेन सर्वथा मयि भावः [२७] असङ्कोचेन युष्माभिः सदा कार्य एव, न च वक्तव्यं श्रवणादिनापि प्रेमाख्यो भावः सम्पद्यते इति । यतोऽङ्ग-सङ्गेनैव नितरां सिध्यति, न च श्रवणादिनेत्य् आह—श्रवणादेर् हेतोर् न तथा यथा सन्निकर्षेण भवतीति योज्यम् । ततस् तस्मात् धेतोः, अ-कार-प्रश्लेषेण अगृहेण अगृहस्थान् अकृत-दारान् अस्मान् प्रति यात भजतेत्य् अर्थः । तासां वशीकरणार्थम् आत्म-माहात्म्य-विवक्षया बहुत्वं साक्षाद्-आत्मानुक्तिर् वैदग्ध्यादिना ।

यद् वा, अगृहान् गृह-व्यतिरिक्त-प्रदेशान् यमुना-पुलिनादीन् । यद् वा, गृहान् मदीयान् निकुञ्ज-रूपान् प्रविशतेत्य् अर्थः । गृहान् इत्य् अनेन निकुञ्जादीनाम् एव क्रीडा-गृहत्वेन निज-गृहत्वेन वा सदैतेष्व् एव वस्तव्यम् इत्य् अभिप्रैति ।

दश-श्लोकेन्धनैस् तासां प्रेम-कोमलितात्मनाम् ।

आशासु सर्वास्व् औदास्य-वह्निं कौतुक्य् अजृम्भयत् ॥

तत्रोत्क्रमेणैते श्लोका द्रष्टव्याः । अधो दिशि श्रवणाद् इति श्लोकः, तेन सन्ताप-विशेषाद् ऊर्ध्व-शिखाधः प्रज्वालिताग्निर् एव । अस्वर्ग्यम् [१८अब्] इत्य् ऊर्ध्व-दिशि तद्-अभीष्ट-निन्दनेन शिरो-ज्वरवद् दुःख-भरात् । एवं पूर्वाद्य्-अष्ट-दिक्षु दुःशील इत्य्-आदयो यथा-यथम् उत्क्रमेणैव विवेचनीयाः । अन्यथा दाहन-त्यागाद्य्-एकादशधा यूथश आगतानाम् एकादश-विधानां तासां मध्ये काश्चित् प्रति कश्चनेत्य् एवं दश-श्लोकास् तत्र प्राग् उत्क्रमेणैव कतिचित् पश्चात् क्रमेणापीत्य् एवं यथायथं विवेक्तव्याः । तत्रादौ व्यत्यस्त-वस्त्राभरणाः [१०.२९.७] प्रति तासां तथा-भूतत्वेन परम-सम्भ्रम-दृष्ट्या व्रजस्य [१८च्द्] इति पूर्वार्धं चास्य प्राक् सर्वाः प्रत्य् एव । तथान्ये अस्वर्ग्यम् इत्य्-आदि द्वयं च । तत्राद्यः सर्वासाम् एव तद्-एकाभिमतत्वात्, परश् च सामान्यतो भावोदय-प्रकारोपदेशात् । अञ्जन्तीः [१०.२९.७] प्रति रजन्य् एषा [१०.२९.१९] इति लोचनाञ्जनेन घोर-सत्त्वादि-दृष्ट्याभिप्रायेण, प्रमृजन्तीः [१०.२९.७] प्रति मातरः [१०.२९.२०] इति देहापेक्षया देह-सम्बन्धिनाम् अपि बन्धूनाम् अपेक्षोपपत्तेः । लिम्पन्तीः [१०.२९.७] प्रति दृष्टम् [१०.२९.२१] इति गन्धापेक्षया पुष्पापेक्षाया अपि योग्यत्वात् । अश्नन्तीः [१०.२९.७] प्रति तद् यात [१०.२९.२२अ] इति पादः, स्त्री-भोजनस्य सङ्क्षेपे इङ्गिताभ्याम् एव कथ्यत्वात् । पतिं शुश्रूषन्तीः [१०.२९.६] प्रति शुश्रूषध्वम् [१०.२९.२२] इति नित्यत्व-विवक्षया विधेय-मात्रत्वेनादौ सङ्क्षेपोक्तिः । अग्रेऽस्य विस्तारो भावी । शिशून् पाययन्तीः [१०.२९.६] प्रति पाययत [१०.२९.२२] इति तत्र शैघ्र्यार्थम् । क्रन्दन्ति [१०.२९.२२] इत्य्-आदि भर्तृ-शुश्रूषायाम् अपेक्षितायाम् एव तद्-एक-हेतुक-दोहनादि-गेह-देह-कर्मस्व् अपेक्षा स्याद् इत्य् अतः सर्व-मूल-भूतायास् तस्या विस्तरेणाग्रे गुणादेः कथ्यत्वाद् आदौ सूची-कटाह-न्यायेन । दुहन्तीः [१०.२९.५] प्रति दुह्यत [१०.२९.२२] इति । अधुना भर्तुः शुश्रूष-दार्ढ्यार्थं सामान्यतः सर्वा एव प्रति अथवा [१०.२९.२३-२५] इति त्रयम् । तत्र अथवा इति स्व-विषयक-प्रीत्य्-अपेक्षया भर्तृ-शुश्रूषं त्याज्यम् इत्य् आशङ्का-निरासार्थं कण्टकोद्धार-न्यायेन निज-प्रीत्य्-उत्थापनं पयोऽधिश्रयणं संयाव-पाक-परिवेषण-कर्त्रीस् त्रिविधाः [१०.२९.५-६] प्रति तत्-तत्-कर्मणां भर्तुः तद्-बन्ध्व्-आदि-शुश्रूषाद्य्-अर्थकत्वेन भर्तृ-शुश्रूषादिकम् अपि तद्-बन्धूनां चेत्य् आदिष्टम् । अन्योन्यम् अभेदात् । अन्यथा कौतुक-भरेण नर्माद्य्-अर्थम् एव तत्-तद्-उक्तेः । तथा तासाम् अन्योन्यम् ऐकमत्येन एकां प्रत्य् उक्तम् अन्याम् अपि व्याप्नोतीति सर्वेषाम् एव वचनानां परस्परं सर्वास्व् एव पर्यवसानात् । सर्वाण्य् अपि वचनानि सामान्यतः सर्वाः प्रत्य् एव द्रष्टव्यानि । तत्-प्रकारः प्राग्-लिखित एवेति दिक् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं बहुधा प्रत्याख्यानेऽप्य् अनिवृत्तिम् आशङ्क्य भावापलापेनाप्य् औदास्यं विधत्ते—श्रवणाद् इति । श्रवणादिना यथा भावो भवति, तथा संनिकर्षेण अङ्ग-सङ्गेन न स्यात् । विरहे समुत्कण्ठया झटिति तद्-वृद्धिः, संयोगे तूत्कण्ठा-शैथिल्याद् इति भावः । एवं परां काष्ठाम् आपन्नोऽपि तासां भावोऽसिद्धता-निर्देश-भङ्ग्यापलपित एव । तत्र पूर्व-रागे प्रायः पूर्वं श्रवणं, ततो दर्शनं, ततः संयोग-प्राप्त्या निरन्तर-तत्-स्फूर्तिः, ततश् च तत्-कथैवेति क्रमेणैव निर्दिष्टम् । वस्तुतस् तु परम-कौतुकित्वान् निरन्तर-प्रेम-भर-सुकोमलित-दक्षिण-स्वभावानां तासां प्रेम-वैयग्र्य-दर्शनार्थम् एवेति ।

श्लेषार्थश् चायम्—ननु, येन सद्-भावेन स्वस्य भर्तृत्वं तद्-वैपरीत्येन तेषाम् अभर्तृत्वं स्थापितं, स एव न सम्भवति तव विप्रकृष्टत्वात्, तेषां तु सन्निकृष्टत्वाद् इत्य् अत्राह—श्रवणाद् इति । यथा येन रस-विशेष-प्रकारेण मयि श्रवणादितोऽपि भावो भवति, तथा सन्निकर्षेणापि न । येऽन्ये संनिकृष्टाः पतिं-मन्यास् तेष्व् अपि न स्याद् इत्य् अर्थः । मिथः प्रेम-योग्ययोर् यथा संनिकर्षेण प्रणय-बन्धो भवति, तथा न श्रवणादिनेति लोक-प्रसिद्धत्वाद् अन्य-पदम् अर्थायत्तम् । प्रथमत एव तथोपक्रान्तत्वात् प्रकरण-प्राप्तं च। तस्माद् गृहान् प्रतियात इत्य् उभयत्रापि नञोऽन्वयः ।\

यद् वा, प्रतिषेध-प्रत्याख्यान-प्रतिपक्षादिषु प्रकृतार्थ-विरोधेऽपि प्रति-शब्दो दृष्टः । ततश् च प्रतियात गमन-विरोध-विषयान् कुरुतेत्य् अर्थः । एवं तासां पूर्ववत् संलापो द्विधा । कासुचिद् यथार्थम् एव, कासुचिच् चानुराग-विवर्तेन नवीभावाद् इति ज्ञेयम् ॥२७॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथ मय्य् अपि जातो भावः क्लेशायैव भवतीत्य् आशङ्क्यापि मा पराङ्मुखीभवतेत्य् आह—श्रवणाद् इति । यथा श्रवणादिना मद्-भावो मद्-अप्राप्त्या दुःख-मयः, तथा सन्निकर्षेण मत्-प्राप्त्या भवति । ततस् तस्माद् गृहान् गृह-सदृशान् कुञ्जान् प्रति यात प्रविशत । पर्युदासोऽत्र नञ् इति । तद् एवं श्री-कृष्ण-वाक्यस्य प्रार्थना-रूपोऽर्थो व्याख्यातः । अर्थान्तरं तु प्रसिद्धम् । तत्र पुत्रा इति स-परिहास-दोषोद्गारेणापि प्रत्याख्यानम् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पुनस् तेनैव क्रमेणार्थ-द्वयेनोपसंहरति—श्रवणाद् इत्य्-आदिना । एष मद्-भावः सुरसो भवति, तु सन्निकर्षेण । यथेत्य् अनेन तथा-शब्दो गम्यते । श्रवणादिना यथा सुरसः, तथा न सन्निकर्षेण । तस्माद् गृहान् प्रतियात । पक्षे—यथा सन्निकर्षेण मयि भावः, तथा न श्रवणादिना । यतः श्रवणादेर् अपि साक्षात्कारं फलम्, ततो गृहान् अप्रतियाति, अभावे नह्य नो ना इति केवलस्याकारस्य निषेध-वाचित्वात् ॥२७॥


श्रवणाद् दर्शनाद् ध्यानान् मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहम् ॥

नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं पूर्वानुभूतं रमण-सुखं स्मारयितुम् औदासीन्य-स्थित्या संश्लेष-सुखाच् छ्रवणादि-सुखस्योत्कर्षम् आह—श्रवणाद् इति । श्रवणं नायक-शिरोमणेः सद्-गुणानाम् । दर्शनं लावण्य-सारस्य श्री-विग्रहस्य, यथा बर्हापीडम् [भा।पु। १०.२१.५] इत्य्-आदिनोक्तम् । ध्यानं तत्-तद्-अङ्ग-विभावनम् । कीर्तनं मम जन्म-कर्म-गुणानां कथनं, एतत् समस्तं व्यस्तं वा भावोत्पत्तौ प्रयोजकम् । कुत्रचिच् छ्रवणाद् एव भावोदयः, यथा रुक्मिण्य्-आदेः, यः श्रुत्वा गुणान् [भा।पु। १०.५२.३७] इति । कुत्रचिद् दर्शनात्, यथा भौम-गृहे,

तं प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः ।

मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ [भा।पु। १०.५९.३४] इति ।

कुत्रचिद् ध्यानात्, यथा देवहूतेः—

तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् ।

बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ [भा।पु। ३.३३.२२] इति ।

कुत्रचिद् अनुकीर्तनात्, यथा नारदस्य—

प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भा।पु। १.६.३४] इति ।

एषां समुच्चयो वा विकल्पो वा भावोदय-हेतुः । अन्यतर-सद्-भावोऽपि भावोदय-दर्शनम् इति चेन् [मयि]{।मर्क्} तेषां सम-फलत्वेऽपि श्रवणस्य सर्वत्रानुस्त्यूतत्वेनैतद् एव मुख्यत्वम् । यद्यपि सन्निकर्षस्यापि हेतुत्वम् श्रूयते, तथापि श्रवणादीनां यथानन्यथा सिद्धत्वं तथैतस्य न तद् उक्तम् । संनिकर्षोऽत्र मर्त्यानादर-कारणम् इति । दृढतर-भावोत्पत्तौ हेतुत्वाभावात् । अत्र तु सन्निक्षरोऽङ्ग-सङ्गः । तस्मिंश् च सति भाव-शैथिल्य-दर्शनाच् च । ततो हेतुर् गृहान् प्रतियातेति शब्दोत्थार्थेन स्वस्यौदासीन्यम् अकामत्वं च व्यञ्जितम् ।

इदानीम् अर्थोत्थार्थम् आह—नन्व् अत्र विधेयं, किं भावो वा विधेयः संनिकर्षो वा विधेयः तत्रोच्यते । भावस्यैव विधेयत्वम् । तत्रैव श्रवणादि—चतुष्टयस्यैवानन्यथा-सिद्धत्वं, न तथा संनिकर्षेणेत्य् उक्तेः । मधुर-रसस्य विप्रलम्भ-सम्भोगात्मकत्वात् । विप्रलम्भे श्रवणादीनां भाव-साधकत्वं निर्णीतम् एव । यत्र तु संनिकर्षस्यापि भावोदयं प्रति हेतुत्वं श्रूयते, यथा कुररि विलपसि त्वम् [भा।पु। १०.९०.१५] । तन् न कदाचित्कत्व-विवक्षयोक्तम् इति । तस्मात् भावस्यैव विधेयत्वं संनिकर्षस्य भावं प्रति न हेतुत्वं, न च पृथग्-विधेयत्वम् इति ।

नन्व् एवं चेत्, तदा सर्वथा सर्वदाङ्ग-सङ्गाभावे मधुर-रसस्य विकलाङ्गत्वं भवेत् । तस्य चोभयात्मकत्वात् तस्मात् संनिकार्षेऽपि विधेयः । तथा सति वाक्य-भेदः स्यात्, तस्मात् संनिकार्ष्योद्देश्यत्वं भावस्य विधेयत्वम् । संनिकार्षोऽत्र फलं न हि कुत्रापि फलस्य विधेयत्वं श्रूयते । यथा यागेन स्वर्गं भावयेत् इत्य् अत्र स्वर्गम् उद्दिश्य यागस्य विधेयत्वं यागम् उद्दिश्य माकपुरोडशादि-निर्वपणस्य विधेयत्वं तथात्रापि संनिकार्षम् उद्दिश्य भावस्य विधेयत्वं भावम् उद्दिष्य श्रवणादि-चतुष्टयस्य विधेयत्वम् । अतः सम्यग् उक्तं न तथा संनिकर्षेणेति, न हि कुत्राप्पि केनाप्य् उद्दिश्य विधेयत्वम् अभ्युपगम्यत इति पूर्वं श्रवणादि-जन्य-भावोदयेन संनिकर्ष-फल-रूपो जात एव । अतः फलं त्यक्त्वा गृहान् न प्रतियात न-कारस्योभयत्राप्य् अन्वयः ।

यद् वा, श्रवणादि-हेतु-चतुष्टयाद् अपि संनिकर्षाभावे जाते सति, तथापि भावो न भवति । श्रवणादीनाम् अनैकान्तिकत्वेन भावासिद्धस् तस्मिन्न् असिद्धे सुखम् । कुतः ? यद् वा, श्रवणादेर् हेतोर् मयि जात एव तथानेन प्रकारेण संनिकर्षे मत्-समीप-गृहान् विलास-स्थानानि वन-पुलिन-यमुना-जलादीनि, न प्रतियातेति, किन्तु सातत्येन प्रतियात । तथा भवतीनां मनोरथ-पूर्तिर् भवेद् इति तात्पर्यंआर्थः । एवं स्वस्यौदासीन्यं परिहृत्य व्यञ्जनावृत्त्या गृह-गमन-निषेध-पूर्वकं रमणार्थं वै मध्ये स्थितिं दृढीकृत्वा अयम् अर्थोत्थ इति ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, कथम् अन्यथा सम्भावयसि ? न वयं त्वद्-अङ्ग-सङ्गार्थम् आगताः, किन्तु गर्गोक्ति-प्रामाण्यान् नारायणस्य समो नान्य [१०.८.१९] इत्य् अतस् त्वाम् एव नारायणं ज्ञात्वा त्वद्-भक्ति-कामा वयम् आगताः, तद् अद्यतनीं रात्रिं स्व-समीप एवास्मान् स्थापयित्वा कृपया स्व-चरण-सरोजं परिचारयेति चेत्य् अत आह—श्रवाणाद् इति । शुद्ध-भक्ताः खलु सामीप्य-सालोक्यादिकम् अपि न कामयन्ते, यथा श्रवण-कीर्तनादिकम् इति प्रसिद्धिर् भवतीभिः वैष्णवीभिः श्रुतैवेति भावः । पक्षे, श्रवणादिभ्यो भावः कन्दर्पस् तथा न भवति यथा सन्निकर्षेण इति, अतो गृहान् प्रति न यात इति । नञ् आवृत्यान्वयः । यद् वा, नञ्-पर्यायस्याकारस्य प्रश्लेषेण अगृहान् न गृहान् प्रति यात इत्य् अर्थः ॥२७॥


॥ १०.२९.२८ ॥

श्री-शुक उवाच—

इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-भाषितम् ।

विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति श्रुत्वा भगवान् पुनः किम् उक्तं ताभिर् इति पृच्छन्तं परीक्षितं श्री-शुक उवाच इति । इति इत्थम् । प्रतियात, नेह स्थेयं सुमध्यमाः [१०.२९.१९] इति प्रकारम् । विप्रियं चित्तौत्सुक्य-निवर्तकम् । विषण्णाः स्थातुं गन्तुं वाशक्ताः। भग्नः सङ्कल्पो नन्दनन्दनेन रंस्यामह इत्य् एवं-रूपो मनोरथो यासां, ताः । चिन्तां दुःखेन मनसोऽस्वास्थ्यम् । दुरत्ययां विना भगवत्-प्रसादम् अनिवार्याम् ।

पक्षे, विशेषेण प्रियम् । विगतं सन्नम् अवसादो यासां, ता विषण्णाः, ताश् च ता अभग्न-सङ्कल्पाः सञ्जात-मनोरथाः, तास् तथेत्य् एकं पदम् । दुरत्ययां मनोभव-कृत-दुःख-हरां चिन्तां चर्चां विचारं वा । चिन्ता चर्वा-विचारयोः इति यादवः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इति विप्रियम् इत्य्-आदि । इति गूढार्थं ततो विप्रियम् इव आकर्ण्य चिन्ताम् आपुः । अभिप्रायम् अबुद्ध्वा चिन्तिता बभूवुर् इति भावः ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतत् । गोविन्दस्य गोकुलेन्द्रत्वेन निज-सहज-प्रेम-भर-विषयस्य भाषितं, तेनोक्तं वा विप्रियं परम-प्रेम-वेगतः सद्यस् तात्पर्यानवधारणेन अप्रियार्थस्य दर्शनेन वा अनिष्टं । किं वा, प्रिय-विपरीतं विद्विष्टम् आकर्ण्य । यद् वा, अर्थ-द्वय-स्पर्शित्वेनानिश्चिताशयत्वाद् उत्कण्ठा-भरेण तासां विप्रियत्वेनैव ज्ञातम् इत्य् अर्थः ।

विषण्णा अतस् तप्ताः सत्यः । यतो भग्नः सङ्कल्पास् तद्-भजन-विशेष-विषयक-मनोरथो यासां ताः । अतो दुरत्ययाम् अनन्ताम् अनतिक्रम्यां वा चिन्ताम् इष्टानवाप्ति-जन्यं ध्यानम् आपुः । अयं प्रेमार्द्र-कोमल-स्वभावोऽपि परम-काठिन्यम् अस्मद्-दौर्भाग्येन गतः । तद् अधुना किं स-पाद-ग्रहण-काकुभिर् अयम् अनुनयेम ? किं वा, प्रतिवचनेन प्रयत्नतः क्षणं धैर्यावलम्बनेन वा शाठ्यतो व्रजं प्रतिनिवृत्त्या वा दुरवगाह-गाम्भीर्यस्यास्याशयं निर्धारयेम ? किं वा, सद्य एव प्राणान् परित्यजेम । अत्र चास्य साक्षाद् एव परोक्षं वा । यमुना-प्रवेशादिनेत्य्-आदि चिन्तयामासुर् इत्य् अर्थः ।

यद् वा, "अहो बत किं करवाम ? कुत्र याम ?" इत्य्-आद्य-विशेषां चिन्तां वैकल्य-लक्षणाम् । यद् वा, विषण्णाः सत्यश् चिन्ताम् आपुः । विषण्णत्वे हेतु-द्वयम् । विप्रियम् आकर्ण्य इत्य् एकः । प्रियतम-जनस्य विप्रियोक्ति-श्रवण-मात्रेण स्वयम् एव परम-दुःखोत्पत्तेः । किं च, भग्न- इत्य् अन्यः । विषयतोऽशेषोपेक्षया निज-चिराभीष्टार्थस्य भङ्गाद् इत्य् अर्थः ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति एतद् गोविन्दस्य गोकुलेन्द्रत्वेन गोकुल-मात्रे हि तस्यापि किम् उत स्वेषु भाषितं स्फुटम् एव वचनं विप्रियम् इति । अर्थ-द्वयस्य स्पर्शितत्वेनानिश्चिताशयत्वात् । उत्कण्ठा-स्वभावेन तासाम् उपेक्षैव स्फुरितेति विषण्णाः । अतस् तप्ताः सत्यः । यतो भग्नः सङ्कल्पस् तद्-अङ्ग-सङ्ग-विषयश् चिरन्तन-मनोरथो यासां ताः । अतो दुरत्ययाम् अनतिक्रम्यां चिन्ताम् इष्टानवाप्ति-जन्यं ध्यानम् आपुः । अयं प्रेमार्द्र-कोमल-स्वभावोऽपि परम-काठिन्यम् अस्मद्-दौर्भाग्येन गतः । तद् अधुना किं स-पाद-ग्रहण-काकुभिर् अमुम् अनुनयेम ? उत प्रतिवचनेन वा, प्रयत्नतः क्षणं धैर्यावलम्बनेन वा, शाठ्यतो व्रजं प्रति निवृत्त्या वा, दुरवगाह-गाम्भीर्यस्यास्याशयं निर्धारयेम । किं वा, सद्य एव प्राणांस् त्यजेम ? अत्र चास्य साक्षाद् एव परोक्षं वा । यमुना-प्रवेशादिनेत्य्-आदि चिन्तयामासुर् इत्य् अर्थः ॥२८॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथ तादृश-कृष्ण-वाक्य-श्रवणानन्तरं तासाम् अवस्था-वर्णनम् इति विप्रियम् आकर्ण्य इत्य्-आदिभिस् त्रिभिः । अर्थ-द्वितयस्यैव तर्केण तद्-अभिप्राय-निश्चयाभावाद् उत्कण्ठा-स्वाभाव्येन प्रत्याख्यानस्यैव सुष्ठु स्फुरितत्वात् तद्-वाक्यस्य विप्रियत्वं, तासां विषादादिकं च । तत्रोभयत्रापि चिन्ताया युक्तत्वात् मुख-नमनादि-चेष्टास्व् अपि न रस-भङ्गः । पदा भ्रू-लेखनं चात्र नायिकया स्वयम् अभियोगेऽप्य् उक्तम् अस्ति ॥२८-३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवद्-वचसां गाम्भीर्यात् स्वकीयौत्कण्ठ्य-गाढत्वाच् च विशेष-विदग्धा अपि यथा-श्रुतम् एवार्थं विदित्वा अनिष्टा-शङ्कीनि बन्धु-हृदयाणि इति न्यायेन तद्-वचसः काठिन्यम् एव जानन्त्यो याम् अवस्थाम् आपुस् ताम् आह—इति इत्य्-आदि । गोप्यो गोविन्द-भाषितम् आकर्ण्य चिन्ताम् आपुः । कीदृशम् ? इति विप्रियम् एवं प्रकारं विप्रियम् । पक्षे—एवं प्रकारकं विशिष्टं विविधं वा प्रियम् अपि । इत्य् अपि-शब्दोऽध्याहार्यः ॥२८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं श्री-कृष्णाभिप्रायम् अजानतीनां गोपीनां विरह-ताप-तप्तानां हृद्-वृत्तिम् आकलय्य सर्वान् श्रावयित्वा शुको वदति पूर्वोक्त-प्रकारं कथयति । प्रतियात इत्य् आग्रहेणोक्ते\ऽस्मत्-परित्यागं करोतीत्य् अर्थे निर्धारिते सति, पुनर् गृह-गमनं वान्तत्वम् इव मन्यमानाः, व्रजेश्वर-पुत्रत्वात् तद्-वाक्यम् अनुल्लङ्घ्यम् इत्य् अपि मन्यमानाः, प्रिय-कलङ्क-भीत्या शरीर-त्याग-चिकीर्षा-रहिताः, स्व-स्व-नामाङ्कित-वेणु-नादामृताह्वान-स्मृत्या किञ्चिद् आश्वस्ताः, मयेमा रंस्यथ क्षपाः [१०.२२.२७] प्रतिश्रुतार्थ-स्मरणेन तद्-अप्राप्ताः, प्रिया-विषये व्याकुलाः, वन-मध्ये प्रसह्य अस्मत्-स्थित्या श्री-कृष्णस्यान्यत्र गमनम् आशङ्कमानाः, अत्राहूय विडम्बयसीति प्रतिवचनम् अनुचितम् इति मन्यमानाः, अभ्रंलिहे ज्वलने पतितम् आत्मानम् ईक्षमाणा इति कर्तव्यता-शून्याः, गोप्यश् चातुर्य-विशेषानभिज्ञाः । यद् वा, स्वानुरागं परस्परम् अकथयन्त्यः । यद् वा, रुक्ष-वाक्ये रस-भङ्गं गोपयन्त्यः । यद् वा, तेन सह रसं क्षपयन्त्यः ।

दुरत्ययां पर्यवसान-रहितां चिन्ताम् आपुः । चिन्ता-प्राप्तौ हेतुम् आह—गोविन्द-भाषितं गोकुल-रक्षा-बद्ध-व्रतो गोविन्दः—गोपाये स्वात्म-योगेन सो\ऽयं मे व्रत आहितः [भा।पु। १०.२५.१८] इत्य् उक्तात् । यद् वा, गा इन्द्रियाणि भोग्यत्वेन विन्दतीति गोविन्दः । यद् वा, गाः श्रुतिर् उपनिषद्-रूपा स्व-परिग्रहत्वेन विन्दतीति गोविन्दः । तस्य भाषितं वचनं विप्रियं विगतं प्रियं यस्मात् रुक्षोक्त्या वस्तुतस् तु विप्रियं विशिष्टं प्रियं यस्मिन् तात्पर्य-वृत्त्या स्थापनस्यादृढीकृतत्वात् । इदानीं तात्पर्यावलोकनात् । अप्रियम् एव ज्ञानं बलवद् अनिष्टानुबन्धित्वात् । प्रियस्यास्मत्-प्रेम-विषयस्याप्रियम् आश्चर्यम् इवाकर्ण्य विषण्णं विषादं प्राप्तास् तद्-अनुरूपोत्तरं दातुम् अपारयन्त्यः वा वाग्-आदीन्द्रिय-वृत्तीनां तेनैव विरुद्धत्वात् मनसि जाड्यं प्राप्ते सति कर्तव्यता-शून्यत्वात् मरण-निश्चयाम् आवाद् अपि कुड्यादि सादृश्यं प्राप्ताः । तद् उक्तं रसार्णवे—

प्रारब्ध-कार्यानिर्वाहाद् इष्टानवाप्तेर् विपत्तितः ।

अपराध-परिज्ञानाद् अनुतापस् तु यो भवेत् ॥

विषादः स त्रिधा ज्येष्ठ-मध्यमाधम-संश्रयात् ।

सहायान्वेषणोपाय-चिन्ताद्या उत्तमे मताः ॥

अनुत्साहश् च वैचित्त्यम् इत्य् आद्या मध्यमे मताः ।

अधमस्यानुभावाः स्युर् वैचित्र्यम् अवलोकनम् ।

रोदन-श्वासित-ध्यान-मुख-शोषादयोऽपि च ॥ [र।सु। २.१०-१३]

तत्र हेतुमद्-विशेषणम् आह—भग्न-सङ्कल्पाः । भग्नः सङ्कल्पो मनोरथो यासां ताः । मनोरथम् एवाह—

गत्वा वृन्दावनं देशं कृष्णं द्रक्ष्यामहे किल ।

प्रियेण सह संलापस् त्व् अपाङ्गेन समीक्षणम् ॥

आलिङ्गनं नखोल्लेख-स्परश्वापि तथा विधः ।

अधरामृत-पानं च भोगो रोमोद्गमस् तथा ॥

स्वाभीष्ट-कथनं तत्राघ्राणं चापि सर्वतः ।

तद्-अन्तिक-गति-नित्यम् एवं तद्-भावनं सदा ॥

एतादृशस्य मनोरथस्य भग्नत्वात् चिन्तां प्रापुः । वर-दानावसरे नैवं-विधो ज्ञातः, अधुना अस्मद्-दैव-वैमुख्याद् अप्रियोक्ति-चतुरो जातः । इदानीं व्रजं प्रतिगमने कृते सति को वेद किं स्यात् ? इति । अत्र क्षणम् अपि स्थातुं न शक्यते । निषेध-वाक्य-प्राबल्यात् कुत्र यामः ? किं वा करवाम ? इति दुरन्तां चिन्तां प्रापुर् इति ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गाः नाना-विधान् वाग्-विलासान् प्रयोक्तुं विन्दते लभन्ते इति गोविन्दः, तस्य भाषितं, भाष व्यक्तायां वाचि इत्य् अतो व्यक्त-वाक्यं विप्रियम् आकर्ण्य, तद् एव ध्वनि-श्लेष-युक्तम् अव्यक्तं तस्य प्रियत्वे बुद्ध्या सम्यग्-अवगते\ऽपीत्य् अर्थः । व्यक्त-वाक्यस्य विप्रियत्वे कारणम् अदृष्ट्वा अव्यक्त-वाक्यस्यापि प्रियत्वे सन्दिहानास् ता अनुराग-स्थायि-भावोत्थ-दैन्योदयात् सत्यम् अयोग्या अस्मान् अयम् उपेक्षते स्मैवेति निश्चित्य विषण्णाः । "यद्-अर्थम् अहो पति-कुल-पितृ-कुल-धर्म-धैर्य-भय-लज्जादिकम् उपेक्ष्यागताः, स खल्व् अस्मान् उपेक्षते" इति भग्न-सङ्कल्पाश् चिन्ताम् आपुः—"किं स-काकु-पाद-ग्रहणम् इमम् अनुनयेम ? किं वा प्रयत्नतो धैर्यम् अवलम्ब्य कृत्रिम-शाठ्येन व्रजं प्रति निवृत्त्या दुरवगाह-गाम्भीर्यस्यास्याशयं निर्धारयेम ? किं वा प्राणान् परित्यजेम ? तत्र चास्य साक्षाद् एव परोक्षं वा यमुना-प्रवेशादिना वा ? हन्त प्राणांस् त्यक्त्वास्य श्री-मुखं कथं पश्येम ? अतस् त्यक्त्वा वा कथम् अत्र स्थातुं प्राप्स्याम एतद्-आदिष्टं पत्यादि-भजन-रूपं वान्त-भक्षणं कर्तुं वा कथं प्रभवाम ? क्व याम किं करवाम ?" इत्य् आदीति कर्तव्य-विमूढा बभूवुर् इत्य् अर्थः ।

आहूय गोपी-तति-चातकावलीः

स्व-वेणु-नादेन ववर्ष यद् विषम् ।

कृष्णस् तद् एवाशु पपुः सुविस्मिताः

विश्वस्य ताः का जहति व्रतं निजम् ॥२८॥


॥ १०.२९.२९ ॥

कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद्

बिम्बाधराणि चरणेन लिखन्त्यः ।

अस्रैर् उपात्त-मसिभिः कुच-कुङ्कुमानि

तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चिन्तां प्राप्तानां स्थितिम् आह—कृत्वा इति । शुचः शोकाद् उद्गतेन श्वसनेन शुष्यन्तो बिम्ब-फल-सदृशा अधरा येषु मुखेषु, तानि अव अवाञ्चि कृत्वा तथाऽङ्गुष्ठेन महीं लिखन्त्यः । तथा गृहीत-कज्जलैर् अश्रुभिः कुच-कुङ्कुमानि क्षलयन्त्यस् तूष्णीं स्थिताः । यत उरु-दुःखस्य भरो भारो यासां ताः ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चिन्ता-युताः कीदृश्यो बभूवुः ? इति चेद् आह—कृत्वा इति । उद्गतेन निःसृतेन श्वसनेन प्राण-वायुना । बिम्ब-फलम् अतिमृदुल-रक्तम् । अधरा ओष्ठाः—अधरस् तु पुमान् ओष्ठ हीनेऽनूर्ध्वे च वाच्यवत् इति मेदिनी । अन्तर्गत-शोकाग्नि-तापेन शुष्यद्-ओष्ठा जाता इति भावः । अत्र—

काम-बाण-प्रविद्धाङ्गी स्विन्न-योनिर् वराङ्गना ।

पादाङ्गुष्ठ-नखेनाधो-वदना लिखती भुवम् ॥

इति काम-शास्त्र-प्रसिद्धं भावं दर्शितवत्य इति ज्ञेयम् । अस्रैर् इति नेत्र-द्वारान्तस्थां काम-पीडां बहिर् आविर्भावयामासुर् इति सूचितम् । कोमले मुखे कर्कश-वचनस्य अनौचित्यादर्शो ध्वनितः—मुखान्य् अधः कृत्वा इति । तूष्णीं स्थिता वितर्कयन्ति । अयं प्रेमार्द्र-कोमल-स्वभावोऽपि परम-काठिन्यम् अस्मद्-दौर्भाग्येन गतः सपाद-ग्रहण-चिबुक-स्पर्शादिभिर् अनुनीयते ।

किं वा, प्रतिवचनेन प्रयत्नतः क्षणं धैर्यावलम्बनेन वा, शाठ्यतो व्रजं प्रति निवृत्त्या दुरन्त-गाह-गाम्भीर्यस्यास्याशयं निर्धारयेम । किं वा, सद्यः प्राणान् परित्यजेम, तत्र चास्य प्रत्यक्षं परोक्षं वा यमुना-प्रवेशादिना वेति तर्काः । किं च, किं वास्मद्-भ्रान्त्यान्या एवागतास् तास्व् एवायम् एवं वदतीति मौग्ध्येनात्मनोऽवलोकनाय । किं वेदानीं किं विधेयम् इति निजस्य पृच्छायै । किं वा, अतिनिष्ठुरम् ईद्र्शं वाक्य-जातं निशम्याधुनापि जीवाम इति स्व-वीक्षाय । किं मुख-दर्शनेन दुःखाग्नि-श्वास-धूमेनाधर-बिम्ब-मुख-पद्मानां शोषः मुकुलित-प्रायत्वं तिरश्चीनत्वात् । किं वा, निजानां चन्द्रत्वानुभवात् तद्-दर्शनेन नेत्र-कमल-सङ्कोचात् स्वादर्शनं भ्रम-निवारणायेत्य् एवं बहुधान्येऽपि सन्तीत्य् अलं प्रपञ्चेन ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : चिन्ताम् एवाहुः—कृत्वा इत्य्-आदि । एतास् तु सर्वा उक्त-प्रकारेण धीराधीरादि-भेदेन त्रिधा । तथा च—

प्रियं सोत्प्रास-वक्रोक्त्या मध्या धीरा दहेद् रुषा ।

धीराधीरा तु रुदितैर् अधीरा परुषोक्तिभिः ॥ [सा।द। ३.७२]

सम्भूय युगपद् भाषणे सर्वासां त्रिविधानाम् एव त्रिविधं भाषणम् । अस्रैर् उपात्त-मसिभिः इति । नेत्रे प्रमृज्य [भा।पु। १०.२९.३०] इत्य्-आदौ धीराधीराः, संरम्भ-गद्गद-गिरः [भा।पु। १०.२९.३०] इत्य् अधीराः, पादौ पदं न चलतः [भा।पु। १०.२९.३४] इति वक्ष्यमाणे मध्या धीराः॥२९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव तूष्णीं तस्थुः । क्षणं परम-चिन्तावेशेन वाग्-आदीन्द्रिय-वृत्त्य्-अस्फूर्तेः । शुच इत्य् अनेन शुष्यद् इत्य् अनेन च श्वासस्य उष्णता दीर्घता च ध्वनिता । बिम्ब- इति पक्व-बिम्ब-फल-सादृश्येन अरुणता कोमलता च । अतोऽधराणाम् अतिशोषो म्लानता च सूचिता । चरणेन वाम-पादेन भूमि-लिखनं चिन्ता-विशेष-कार्यम् । "हे भूमे ! विदीर्णा भव, प्रविशामो वयम्" इत्य् अस्य भावः । एवम् ऊर्ध्वावस्थितिर् एव गम्यते । उपात्त-मसिभिर् इति कुच-कुङ्कुमानि मृजन्त्य इति चास्राणां धारा सूच्यते । तस्या अपि बाहुल्य-विवक्षया बहुत्वम् । तत्र सर्वत्र हेतुः—उरु-दुःखस्य विषादस्य भरो भारो यासु, ताः । अनेन अनुक्तम् अपि सन्ताप-क्लेशादिकं गृह्यते । तेन वैवर्ण्य-स्तम्भादयोऽपि जाता इत्य् अर्थः । स्म इति प्रसिद्धौ । नर्मोक्त्यापि तासां तादृश-शोके त्वया सम्भावना कार्या इति भावः । यद् वा, विस्मये तयापि तादृश-दुःखम् अभूत्, अहो प्रेम-महिमा ! इति । एते च चिन्तानुभावा न तासां वक्ष्यमाण-निषेध-रूप-प्रतिवचनार्थ-विशेष-भञ्जकाः, कामि-कृत-प्रार्थनायां कुलवतीनां तत्-सम्भवात्, तासां रसाविरोध-भावोदय-स्वभावाच् च ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव तूष्णीं तस्थुः । क्षणं परम-चिन्तावेशेन वाग्-इन्द्रिय-वृत्त्य्-अस्फूर्तेः । शुच इत्य् अनेन शुष्यद् इत्य् अनेन च श्वासस्य उष्णता दीर्घता च ध्वनिता । शतृ-प्रत्ययेन शोषाविच्छेदः । बिम्ब- इत्य् अरुणता कोमलता च । अतोऽधराणाम् अतिशोषो म्लानता च सूचितैव । चरणेन वाम-पादाङ्गुष्ठेन भू-लिखनं चिन्तानुभावः । "हे भूमे ! विदीर्णा भव, प्रविशामो वयम्" इत्य् अस्य भावः । एवम् ऊर्ध्वावस्थितिर् एव गम्यते । उपात्त-मसिभिर् इति कुच-कुङ्कुमानि मृजन्त्य इति चास्राणां धारा सूच्यते । तस्या अपि बाहुल्य-विवक्षया बहुत्वम् । तत्र सर्वत्र हेतुः—उरु-दुःखस्य विषादस्य भरो भारो यासु, महा-दुःख-व्याप्ता इत्य् अर्थः । यद् वा, बाह्य-स्थिति-प्रकारम् उक्त्वा आन्तरम् अप्य् आह—उर्व् इति । अनेन मूर्च्छा-तुल्यावस्था बोध्यते । तस्याश् च दुःश्रवत्वात् साक्षाद् अनुक्तिः । स्म इति प्रसिद्धौ । नर्मोक्त्यापि तासां तादृश-शोकेऽसम्भावना न कार्येति भावः । यद् वा, विस्मये तयापि तादृश-दुःखम् अभूद् अहो प्रेम-महिमेति । यद् वा, अव्ययानाम् अनेकार्थत्वात् खेद एव ॥२९॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३५५] : ध्यानं चिन्तेति भण्यते—कृत्वा मुखान्य् अव शुच इत्य्-आदि ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : चिन्ता-प्रकारम् आह—कृत्वा इत्य्-आदि । मुखानि अव अधः कृत्वा । कीदृशानि ? शुचः शोकाद् धेतोर् यः श्वसनः श्वासः, तेन शुष्यन्तोऽधरा येषु, एतेन श्वासस्य दीर्घोष्णत्वं व्यङ्ग्यम् । चरणेन भुवम्, न तु भुवि किम् अपि बुद्धि-पूर्वं लिखन्त्यः । उपात्त-मसिभिर् गृहीताञ्जनैर् अस्रैर् लोचन-जलैः कुच-कुङ्कुमानि मृजन्त्यस् तूष्णीं तस्थुः, न किञ्चिद् ऊचिरे । कथं नोचुः ? तत्राह—उरूणां दुःखानां भरो यासु दुःख-भर-भावितत्वेन कण्ठ-रोधाद् राग-प्रवृत्तेः । स्म इति निश्चयः ॥२९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : यथा-श्रुतार्थ-ग्रहणेन चित्ताभिभूतानां बाह्याभ्यन्तर-स्थितिम् आह—कृत्वा इति । क्षण-मात्रं तूष्णीं तस्थुः, चिन्ता-जन्य-जाड्ये सति प्रतिवचनास्फूर्तेः । किं कृत्वा ? मुखानि अवाञ्चि कृत्वा श्री-कृष्ण-मुखे रूक्षतां दृष्टम् असहमानत्वात् । तत्र हेतु-गर्भं विशेषणम् आह—उरुर् महान् दुःखस्य भरो भारो यासां ताः, अन्योऽपि भाराक्रान्तो मुखम् अवाग् एव करोति, तद्वद् इति शुचः शोकाद् उद्भूतेन श्वसनेनातीवोष्णेन शुष्यन्ति—बिम्ब-फल-सदृशान्य् अधराणि, येषु मनसि दुःख-भरेण तप्तेन सति श्वास-वायोर् अपि तप्तत्वं जातं तेनाधराणाम् आरुण्य-कोमलत्वे शोषिते व्यभिचारि-भावानाम् अयम् एव स्वभाव इति दैन्यं सूचितम् इति । चरणेन लक्षणेन पादाङ्गुष्ठ-नखेन भुवं लिखन्त्यः, विवर-प्रवेशम् इवाभिकाङ्क्ष्यन्त्यः । यद् वा, "भूर् अपि वराह-भोग्यतां प्रत्युपालम्भसि, पत्युर् औदासीन्येन यद् दुःखं भवति, तत् त्वम् अपि न जानासि किम् ? इत्य् अस्मत्-प्रवेशाय स्थानं न ददासि ?" इत्य् अभिप्रायेण भूमेः उल्लिखनम् । यद् वा, "भर्तुर् औदासीन्येन दुःख-भराक्रान्ताया सीता-देव्याः यथा स्थानं दत्तवती, तथैवास्मभ्यं स्थानं दातुम् अर्हसि" इति । कीदृश्यः ? उपात्त-मषिभिः, उपात्ता गृहीता मषि कज्जलं यैः, तै रसैः कुच-कुङ्कुमानि मृजन्त्यः क्षलयन्त्यः श्री-कृष्णोपेक्षितानां कज्जलेन कुच-कुङ्कुमेनालम् इति भावः । अनेन वैवर्ण्य-स्तम्भादयो व्यभिचारिणो भावा ज्ञेया इति । किं च, उरु-दुःख-भरा इत्य् आन्तर-मूर्च्छादयो ज्ञेया इति । तूष्णीं तस्थुर् इत्य् अनेनानुत्साह-वैचित्त्ये दर्शिते ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चिन्ताया अनुभावान् आह—कृत्वा इति । मुखानि अव अधः कृत्वेत्इ लज्जा ध्वनिता । प्रेम्णोऽनुरोधाद् अस्माकं23 स्वाभाविक-लज्जा-त्याग एव सम्प्रति लज्जां प्राप, यतः कुलवतीनां पुञ्जी-भूत-लज्जानाम् अप्य् अस्माकं लज्जा-त्यागः खलु प्रेम-हेतुक एव । स च प्रेम-रस-विदां मते सङ्गीत एव, न तु विगीतः । प्रेम्णस् तु लक्षणम् एतद् एव । यत् स्व-विषयं परमेश्वरम् अप्य् अतिशयेन वशीकरोति, तत् प्रेमेति । ततश् च, यद्य् अस्माकं प्रेम-विषयोऽयं कृष्णो न वशोऽभूत्, तदास्माकं प्रेमैव नास्तीत्य् अवगतम् । लज्जा-त्यागोऽयं किं हेतुकोऽभूत् ? इति—अनुतापो लज्जा चिन्ता च ।

तत्रानुतापं विवृण्वन् मुखानि विशिनष्टि । मुखानि कीदृशानि ? शुचः शोकाद् उद्भूतेन श्वसनेन्अ उष्ण-श्वासेन शुष्यन्तो बिम्बाधरा येषु तानि, सूर्यातपेन पक्व-बिम्ब-फलानां शोषे सति स्थौल्यस्यापगमः स्पष्ट-मलिनत्वं च यथा भवेत्, तथा अधरानाम् अप्य् अभूद् इति भावः ।

लज्जा-चिन्ते विवृणोति—चरणेन वाम-पादाङ्गुष्ठेन भुवं लिखन्त्य इति, “हे धारित्रि ! विदीर्णा भव, त्वयि वयं प्रविशाम” इति भावः ।

शोक-सन्तापौ विवृणोति—उपात्त-मसिभिः कज्जलाक्तैर् अस्रैःकुचयोः कुङ्कुमानि मृजन्त्यः, तेन विच्छेद-वर्धकिना महानुताप-क्रकचेन द्विधा विदारयितुं श्याम-सूत्र-रेखे दत्ते इति सम्भावना ध्वनिता । अस्रैर् इति बहु-वचनेन मृजन्त्य इति वर्तमान-कालेन चास्राणां प्रवाहवती धारा सूचिता । तावद्भिर् अप्य् अस्रैर् अन्तरीय-वस्त्राण्य् आर्द्रयन्ति इत्य् अनुक्त्या एवं सम्भाव्यते । नयनोत्थ-यमुना-द्वय-हृदयोत्थ-सन्तापानलयोर् निर्वापण-शोषण-कामयोर् विवादे न कस्यापि जयः पराजयो वा दृष्ट इति उरु-दुःखस्य भरो भारो यासां तास् तूष्णीम् इति भारासहिष्णुतयेव चेतनाया अपगमाद् इति भावः । ततश् च तस्थुर् इति तासां गत-चेतनानां पाञ्चालिकानाम् इवोर्ध्वावस्थितिर् एव गम्यते ॥२९॥


॥ १०.२९.३० ॥

प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं

कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः ।

नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्

संरम्भ-गद्गद-गिरोऽब्रुवतानुरक्ताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, प्रेष्ठम् इति । किञ्चित् संरम्भेन कोपावेशेन गद्गदा गिरो यासां, ता अब्रुवत स्म । संरम्भे कारणं—प्रेष्ठम् इत्य्-आदि । प्रियेतरम् इव प्रतिभाषमाणं प्रत्याचक्षाणम् ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं तूष्णीं-भावम् आश्रित्य स्थिता एव, अपि तु किञ्चिद् ब्रुवतेत्य् आह—किं च इति । दुःख-कथनं त्व् अतिप्रियायोचितम् इत्य् आह—प्रेष्ठम् इति । गद्गदाः स्खलिताक्षराः । संरम्भ-पदेनाधर-दशनं सूचितम् । प्रियेतरं शत्रुम् । प्रत्याचक्षाणं खण्डयन्तम् । "चिन्तां त्यजत, मा रुदत, स्वस्था भवत, गृहान् यात" इत्य्-आदि तदानीम् अपि वदन्तम् इत्य् अर्थः । तद्-अर्थं कृष्ण-कृते विनिवर्तितास् त्यक्ताः सर्वे कामा यस्मात् स सर्व-कामः पतिः वाञ्छित-विषयो वा याभिः, तास् तथा । रुदितेन रोदनेन उपहते क्लिष्टे । अनुरक्ताः तत्-परित्यागं कर्तुम् अशक्ताः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेष्ठं प्रियतमम् अपि प्रियेतरम् इव, अप्रिय-जनवत् प्रत्याख्यानं कुर्वन्तम् । ननु तर्हि तस्मान् मनो निवर्त्यताम् ? तत्राह—तद्-अर्थं श्री-कृष्ण-प्राप्तये, किं वा, तस्मै अनिर्वाच्याय सुगोप्याय वा अर्थाय, तेन सह क्रीडा-विशेषाय विशेषेण निवर्तिताः, स्वभावतोऽनुलग्ना अपि बलान् निरस्ताः सर्वे कामा विषय-भोगाः, तद्-अतिरिक्ताशेषाभिलाषा वा याभिः, ताः । अतस् तं विना कथञ्चिद् अप्य् अन्यत् किञ्चिन् न रोचत इति भावः । कुतः ? कृष्णं परमानन्द-घन-मूर्तिं चित्ताकर्षकं श्री-यशोदानन्दनम् । अत एवानुब्रुवेण स्वेत्य् अत्राप्य् अयि प्रसिद्ध्य्-आद्य्-अपेक्षयोक्तम् । यद् वा, पश्चाद्-अर्थे, उरु-दुःख-भरेण सद्यः प्रत्युक्त्य्-अनुदयात् पश्चाद् अब्रुवन् ।

ननु अतिनिर्बन्धेन कदाचित् तस्यावज्ञापि शङ्क्यते, तत्राह—अनुरक्ता अनुरागेण तच्-छङ्का-निरसनात् । यद् वा, अवज्ञायाम् अपि सत्यां तत्-त्यागाशक्तेः । विचारापगमाद् वेत्य् अर्थः ।

ननु उरु-दुःखाक्रान्ताः कथं वक्तुम् अपि शक्ताः ? तत्राह—रुदितैर् महा-दुःखेन स्वयम् एव गलद्-अस्रैर् उपहते व्याप्ते नेत्रे विशेषेण मृष्ट्वा शोधयित्वा अश्रूण्य् अपसार्य । पाठान्तरे, "प्रमृज्य" इति पाठेऽप्य् अर्थः, स एव । परम-प्रयत्नेन क्षणं धैर्यम् आलम्ब्येत्य् अर्थः । यद् वा, उरु-दुःखेऽप्य् उक्ति-शक्ताव् अनुराग एव हेतुर् भाति । प्रेम्णो विचित्र-विलासत्वात् । ततश् च नेत्रे विमृयेति स्नेह-जननाय प्रेमोद्रेक-स्वभावतः एव वा किञ्चिच् छ्री-मुखावलोकन-पूर्वकोक्त्य्-अर्थम् इति परमार्त्या लज्जापगमम् अपि गम्यते । किञ्चिद् इति संरम्भस्याल्पत्वं स्वतः प्रेष्ठत्वात् । निज-प्रेम-कोमल-शीलत्वाद् वा । यद् वा, अनिर्वचनीया महा-संरम्भेण गद्गद-गिरः, यतोऽनुरक्ताः । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, किञ्चित् संक्षिप्तम् एवम् एवम् इत्य्-आदिकम् अब्रुवन् । कुतः ? संरम्भ-गद्गद-गिरः। प्रणय-कोपावेशेन बाष्प-रुद्ध-कण्ठत्वाद् इत्य् अर्थः । तत् कुतः ? अनुरक्ताः । पूर्वम् अपि स्वभावत एव रक्ताः । अधुना च तादृशोक्ति-श्रवणाद् अधिकोत्कण्ठया विशेषतो जाताधिक-रागा इत्य् अर्थः । यद् वा, कृत-राग-विशेषा न तूपेक्षयापि निर्विण्णा इत्य् अर्थः ।

यद् वा, किञ्चिद् अनिर्वचनीयम् अनुरागेण तत्-तद्-उक्त्या तस्यापि मनोहरत्वात्, तादृग्-उक्तौ हेतुः—प्रेष्ठम् इत्य्-आदि । अप्रियं प्रतिपदं भाषमाणम् इति पूर्वम् एव । किं वा, वर्तमान-निर्देशेन तदानीम् अपि "चिन्तां त्यजत । मा रुदित । स्वस्था भवत । गृहान् यात" इत्य्-आदिकम् अनिष्टं प्रतिक्षणं वदन्तम् इत्य् अर्थः । इवेति तत्त्वतस् तात्पर्य-विचारेण नर्मादौ पर्यवसानात् । तच् च पूर्वं लिखितम् एव—

यासाम् एव प्रसादेन या सात् श्री-नागरेश्वरे ।

उक्तेर् विज्ञायतेऽर्थस् ता वन्दे श्री-नागरेश्वरीह् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेष्ठं प्रियतमम् अपि प्रियेतरम् इव प्रिय-मात्राद् इतरम् इव प्रत्याख्यानं कुर्वन्तम् । ननु तर्हि तस्मात् मनः कथं न न्यवर्तयन् ? तत्राह—तद्-अर्थं श्री-कृष्णाप्तये विषयेण निवर्तिताः । पुनर् यथा सम्बन्ध-गन्धोऽपि तेषां न स्यात्, तथा निरस्तास् तद्-व्यतिरिक्ता शेषाभिलाषा याभिस् ताः । अतस् तन् निवर्तयितुं नाशक्नुवन्न् इति भावः । कुतः ? कृष्णं परमानन्द-घनतया सर्व-चित्ताकर्षकतया च तन्-नाम्ना प्रसिद्धं श्री-व्रजेन्द्र-नन्दनम् ।

ननु उरु-दुःखाक्रान्ताः कथं वक्तुम् अपि शक्ताः ? तत्राह—संरम्भ- इति । अमर्षेण विषाद-कार्येणैव विषादावरणाद् इति भावः । तत्र नेत्र-मार्जनं भाव-द्वय-सन्धिजं तच् च प्रणय-कोप-स्वभावतः किञ्चित् श्री-मुखावलोकन-पूर्वक-वचनार्थम् इति परमार्त्या लज्जा-शैथिल्यम् अपि गम्यते किञ्चिद् इति विषादांशस्यान्तर्भूतत्वात् तद्-द्वय-कार्यं गद्गदत्वम् अनुरक्ता इति विषण्णतादौ सर्वत्रैव हेतुः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ भगवद्-वचसोऽर्थ-द्वयवत्तायां तत्-तत्-स्मरण-संस्कारतः । इदं वा इदं वा इति परामर्शो नोत्तरस्यापि घटमानत्वम् आशङ्क्य किञ्चिच् छिथिल-दुःख-भरतया वक्तुं शक्तिर् जातेति तासां विवक्षां प्रकटयति—प्रेष्ठम् इत्य्-आदि। प्रेष्ठः प्रेयान् अयं कदाचिद् अपि नैवम् अप्रियं वक्ष्यति । तदा कथम् अवादीति विमृश्य—प्रियेतरम् इव इति । इव-शब्दः कृष्णम् अब्रुवत इत्य् अन्वयः । कीदृश्यः ? तद्-अर्थं विनिवर्तिता विशेषेण निवृत्तिं प्रापिताः सर्वे कामा याभिः । किं कृत्वा ? नेत्रे विमृज्य, तन्-मुख-दर्शनार्थम् अर्थान्तरम् अत्रासीद् इति निर्णीय संरम्भो जातः, तेन गद्गदा अर्ध-स्फुटा गिरो यासाम् । नेत्रे कीदृशे ? रुदितेनोपहते उच्छूनारक्ते अनुरक्ता इति स्वरूप-कथनम् । स्म इति वैचित्र्ये । बहु-वचनम् अत्र क्रमशः सर्वा एवोचुः, नैकदेति मन्तव्यम् ॥३०॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : व्यभिचारि-भावोदये विप्रिय-वर्णनम् एव हेतुर् उक्तः । इदानीं स्थायि-भावस्य दृढत्वात् किञ्चिल् लब्ध-श्वासाः कोपावेश-स्फुरद्-अधराः सत्यो वाग्-आरम्भं कृतवत्यः इत्य् आह—प्रेष्ठम् इति । प्रेष्ठ अतिप्रियम् अपि प्रियेतरम् इव अप्रियम् इव न त्व् अप्रियं तासां भाव-परीक्षया, न तु हृद्-वृत्त्या । स्थूण-निखनन-न्यायेन तम् एव भावं द्रढीकर्तुं प्रतिभाषमानं प्रतीचक्साणम् अपि प्रीति-विषय-स्थायि-भावस्य दृढत्वात् व्याबुध्य गृहं गन्तुं पारतन्त्र्यः कृष्णं यशोदानन्दनं सदानन्दं, न तु कृषिर् भू-वाचक इत्य् अर्थ-गोचरं, रूढिर् योगम् अपहरति इति न्यायात् कृष्ण-शब्दस्य यशोदा-नन्दने रूढत्वात् । व्रजेश्वरी-प्रोषितत्वात् सर्वासां मनोरथ-पूर्तौ समर्थं घोर-लालित्य-गुणैर् युक्तम् । लक्षणं रसार्णवे—

पितृभ्यां ग्रामतोऽत्यन्तं नैश्चिन्त्यः प्रेयसी-प्रियः ।

विदग्धो नव-तारुण्यो धीर-लालित्य-धर्म-भाक् ॥

स्वरूपम् एतद् आख्यातं गुणाः सर्वे गुणा मताः ॥24

ननु प्रत्याख्याने लाते कथं गृहं न गताः ? तत्राह—तद्-अर्थ-विनिवर्तिताः सर्वे कामाः, स एवार्थः । पुरुषार्थस् तत्-प्राप्तये विनिवर्तितास् त्यक्ताः सर्वे कामा ऐहिकामुष्मिका विषया याभिस् ताः । पूर्वानुभूत-रमणानन्द-स्फूर्त्या तेषाम् आच्छादितान्नवद् भासमानत्वात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ।आ।उ। ४.३.३२] इति श्रुते अनन्य-गतित्वात् । तत्रैव स्थिताः कथञ्चिद् धैर्यम् अवलम्ब्य पूर्वं दुःख-भराक्रान्तत्वाद् वाक्-स्तम्भो जातः । इदानीम् अपीषत् कारुण्येन सङ्कुचितां दृष्टिम् आलक्ष्य अब्रुवन् प्रत्युत्तरं दत्तवत्यः । यतोऽनुरक्ताः, दृढतरानुरागेण नायक-दोषास्फूर्तेर् इति भावः । किं कृत्वा ? रुदितोपहते नेत्रे विमृज्य, औत्सुक्येन समग्र-लावण्य-दर्शन-प्रतिबन्धकत्वाद् अश्रु-मार्जनं कृत्वा इत्य् अर्थः । तत्र चानुराग-भर-गर्वितत्वात् प्रत्याख्यान-स्मृत्या किञ्चित् संरम्भे गद्गद-गिर ईषत्-प्रणय-कोपेन गद्गदा अस्फुटा [गीः] यासां ताः । न तु निर्विण्णा जाता इति भावः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च किम् अरण्य-रोदनं कुरुध्वे ? प्रसन्न-मुख्यः सत्यः स्व-स्व-गृहं किं तूर्णं न गच्छत इत्य् उच्चैर् उच्चारितेन भगवद्-वाक्येन कर्णाध्वनान्तः-प्रविष्टवता मूर्च्छातस् ताः प्रबोधिताः किञ्चिद् विज्ञापयामासुः इत्य् आह—प्रेष्ठं पूर्वं बहुशः कृताङ्ग-सङ्गत्वात् प्रियतमम् ।

प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं

कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः ।

नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्

संरम्भ-गद्गद-गिरोऽब्रुवतानुरक्ताः ॥

अथ च कारणं विनैव प्रियेतरम् इव प्रतिकूलं स्व-स्व-पतिं भजध्वम् इत्य् अतिकठोरं भाषमाणम् । एतच् च नैव सम्भवेत्, यतस् तद्-अर्थं विशेषेण पुनर् यथा सम्बन्ध-गन्धो\ऽपि तेषां न स्यात्, तथा निवर्तिताः सर्वे कामा याभिस् ताः । अत्रान्य-शब्दस्याप्रयोगात् सर्व-शब्द-प्रयोगाच् च भगवत्-सुखार्थकः काम-शब्देन नोच्यते इति श्री-शुकाभिप्रायः । रुदितेन उपहते अन्धीभूते नेत्रे विमृज्येति अयम् अन्त-कालो\ऽस्माकम् आगतस् तत् सकृद् अप्य् एतस्य मुख-कमलं दृष्ट्वा म्रियामहे इत्य् आकाङ्क्षयेति भावः । "हन्त हन्त ! प्रेयसापि भूत्वा विनैवापराधं कथम् एतावान् प्राणान्तो दण्डः क्रियते ?" इति संरम्भस् तथा "वयम् एतद् अनुरूप-रूप-गुणाद्य्-अभावाद् अङ्ग-सङ्गायोग्य एव भवामः, अतस् त्यजामहे" इति मननात् संरम्भाभावश् चेति । अतः किञ्चित् संरम्भेण गद्गदा गिरो यासां ताः । ननु, उभयथापि प्रेम-शून्यास् तस्मान् निवृत्तिर् एवोचिता ? इत्य् अत आह—अनुरक्ता इति अनुरागान्धा हि विचारं न सहन्त इति भावः ॥३०॥


॥ १०.२९.३१ ॥

गोप्य ऊचुः—

मैवं विभोऽर्हति भवान् गदितुं नृशंसम्

सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् ।

भक्ता भजस्व दुरवग्रह मा त्यजास्मान्

देवो यथादि-पुरुषो भजते मुमुक्षून् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नृशंसं क्रूरम् । हे दुरवग्रह स्वच्छन्द । तव पाद-मूलंभक्ताः सेवितवतीर् अस्मान् भजस्व मा त्यजेति ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभो प्राण-नाथ ! नृशंसं वज्र-सारवत् काठिन्येन हृदय-विदारकम् । मा इति प्रयोगो दुःख-वैषम्येन स्त्री-स्वभावाद् वा । भक्ता अस्मान् मा भजस्व, अन्यथा ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इत्य् उक्तिर् व्यर्था स्यात् । हे स्वेषु दुरवग्रह दुराग्रहः । यद् वा, हे स्व ! हे बन्धो ! दुरवग्रहं हठम् समन्तात् त्यज इति । दृष्टान्तः—आदि-पुरुषो महा-विष्णुः यथा मुमुक्षून् मुक्ति-कामनया भजतो न त्यजति, ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्य्-आद्य्-उक्तेः । वस्तुतस् तु अवग्रहो वृष्टि-विघातस् तद्-रहितो दुरवग्रहः । भक्ताभीष्ट-वर्षण-शीलेत्य् अर्थः ।

यद् वा, भानि नक्षत्राणि गभस्तयो वा विद्यन्तेऽस्येति भवांश् चन्द्रः । भा भयदा दूताः सन्त्य् अस्येति भवान् यमराजः । चन्द्रेणापि रोहिणी प्रीत्यान्या भार्यास् त्यक्ताः । यमश् च लोकानां दुःख-प्रदोऽस्त्य् एव । स च स च नृशंसं गदितुम् अर्हति, यतस् त्वं ताभ्याम् अन्योऽतो मैवम्एवं मा वद इत्य् अर्थः ॥३१॥


कैवल्य-दीपिका : सञ्जल्प-सम्भोगम् आह—गोप्य इति । हे विभो ! स्वामिन् ! एवं तद् यात मा चिरं घोषम् [भा।पु। १०.२९.२२] इत्य् एवं-रूपं नृशंसं कठिनं । भक्ता भजनं कर्तुम् आरब्धाः, आदि-कर्मणि क्तः कर्तरि च [पा। ३.४.७१] । दुरवग्रहः दुराराध्यः । यद्यपि वयं तवाननुरूपाः, तथापि सर्वस्व-त्यागेन भजतः सर्वस्यापि स्वीकार एव सत्-पुरुष-धर्म इति दृष्टान्ते व्यङ्ग्यम् ॥३१॥ [मु।फ। ११.२५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मैवम् इत्य्-आदि । आसां हि दुःखानुभव-दशायाः श्री-कृष्णो समग्रैश्वर्य-बहु-प्रतीतिः केवल-सुखानुभव-दशायाः परम-प्रियत्व-स्फूर्तिः । न हि प्रेम्णा ईश्वर-स्फूर्तिर् बाध्यते, ईश्वरत्वाज्ञानं हि भ्रम-जन्यम् । प्रेमा तु भ्रम-ज्ञान-नाशकः । प्रमाया हि करणं प्रेमा श्री-कृष्णे तु दुःखानुभूतेर् अबाधेश्वरत्व-स्फूर्तौ यथार्थम् एवाहुः—हे विभो !

न वयं कुत्रापि सापेक्षाः, केवलं त्वद्-एक-परायणा एव इत्य् आह—सन्त्यज्य सर्व-विषयान् सर्व-त्यागेन त्वत्-पाद-मूलं भक्ता अस्मान् मा त्यज । न वयं कामुक्यः त्यागे लिङ्गम् आह—नृशंसं क्रूरं यतो गदसि, अतो मैवं नृशंसं गदितुम् अर्हति भवान् इति धर्मज्ञत्वेनाक्षेपः । एतावन्तं कालं धर्मम् एवोपदिष्टवान् असि, अधुना वयं ते धर्मम् उपदिशामः । भक्ता भजस्व । भक्त-त्यागो ह्य् अधर्म एव ।

स्वतन्त्रस्य मम किं धर्माधर्माभ्याम् ? तत्राह—दुरवग्रह स्वच्छन्द ! यथा आदि-पुरुषो मुमुक्षून् भजते, तथा त्वम् अपि नोऽस्मान् भज। आदि-पुरुषो नारायणः । स तु मुमुक्षून् न त्यजति । पक्षे, स्वतन्त्रो न भवति, तथा कथं भजति ? इत्य् अर्थः । तर्हि भक्त-स्वीकारोऽयं धर्म एव । स तु मुमुक्षून् अपि न त्यजति, त्वं भक्तान् अपि त्यजसीत्य् अहो ते काठिन्यम् इत्य् आक्षेपः ॥३१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवता यज्ञपत्नी-युक्ताद्य-पद्याद्य-पादस्यात्र सम्यग्-उक्तत्वाद् इव भगवत्यः श्री-गोप्योऽपि तथैव यज्ञपत्न्य्-उक्त-पद्याद्य-पादम् आहुः [१०.२३.२९25] । वस्तुतस् तु तस्य वञ्चनोक्तेस् तासां चार्त्य्-उक्तेः साम्येन संवादापत्तेः—मैवम् इति ।

मा इति निषेधस्यादौ प्रयोगः । परमार्ति-वैयग्र्येणैवम् ईदृशं कथञ्चिद् एतद्-वचन-सदृशम् अपि । किम् उ वक्तव्यम् एतद् इत्य् अर्थः । कुतः ? नृशंसं वज्र-सारवत् काठिन्येन हृदय-विदारकम् इत्य् अर्थः ।

यद् वा, साक्षान्-मारकम् । नृशंसो घातुकः क्रूरः इत्य् अमरः । गदितुं व्यक्तं वक्तुं, किं वा, गदितुम् अपि, किम् उत व्यवहर्तुम् अर्हति । तत्र च भवान् प्रेमार्द्र-स्वभावः । अतोऽन्यो वदतु नामेत्य् अर्थः । भवान् इति प्राग् अनुनयार्थ-स्तुत्या गौरवात् । श्लेषेण भानि नक्षत्राणि तद्-ईशतया तद्वान् चन्द्रः, कामाब्धि-वर्धनत्वाच् चन्द्रो यः, स नार्हति एवेत्य् अर्थः । तत्रापि—हे विभो ! अस्मत्-प्राण-प्रभो ! किं वा, बहिर्-अन्तर्-व्यापकेति त्वम् अस्माकं सर्व-भावं जानास्य् एव । अतोऽस्मान् प्रति नार्हति एवेति भावः ।

एवं स्वागतं वो महाभागाः [भा।पु। १०.२९.१८] इत्य्-आदिकं भवता सादरं स-न्यायं मृदूक्तम् अपि प्रेम-रस-विघातकत्वात् विवर्तनार्थम् एवोक्तत्वाच् चार्थतो विपरीतम् एवेति भावः । अनेन स्वागतम् [१८अ] इत्य् आद्य-पादस्योत्तरम् ऊह्यम् ।

ननु भो प्रिय-वादिन्यः ! तर्हि किं कर्तुम् अर्हामि ? इत्य् अपेक्षायाम् आहुः—अस्मान् भजस्व, मनोरथ-पूरणेनानुवर्तस्व । यद् वा, सेवस्व नित्यं प्रीत्योपभुङ्क्ष्वेत्य् अर्थः । कुतः? तव पादयोर् मूलं तलं रजः पादुका वेत्य् अर्थः । अब्जादि-रूपकानुक्तिर् नृशंसोक्त्या काठिन्याद्य्-अभिप्रायेण ।

यद् वा, पाद एव मूलं सर्वार्थस्य कारणम् आश्रयो वा । तद्-भक्ताः, आदि-कर्मणि क्तः कर्तरि च [पा। ३.४.७१] तद्-भजनं कर्तुम् आरब्धाः । अद्यापि समग्र-भजनासम्पत्तेः । एषा दैन्य-विनयोक्तिर् दासीत्वेच्छया । यद् वा, सेवितवती आश्रिता इत्य् अर्थः । अन्यथा, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इत्य्-आदि वचनानां वैयर्थापत्तिः । अनेन प्रियं किम् [१८ब्] इति पादस्योत्तरम् ।

ननु, श्री-गोप-गृहिण्यः ! सदा विषयासङ्गेन गृहाभिरतत्वात् दुर्लभ-सङ्गा यूयं किम् इति मया भजनीयाः ? अविरक्तानां युष्माकं कुतो मद्-भक्तत्वं नाम ? तत्राहुः—सन्त्यज्य इति । सर्वान् विषयान् इन्द्रियार्थान् पत्य्-आदि-द्वारा साध्यान् सम्यक् स-मूलतया अपुनर्-अङ्गीकार-दार्ढ्येन च त्यक्त्वा सर्वार्थ-मूल-त्वत्-पादाब्ज-प्राप्त्यैव सर्वार्थ-सिद्धेः, त्वद्-भजन-प्रातिकूल्याद् वा । विषय-त्यागेन पद्यादि-त्यागोऽपि ज्ञापित एव, पत्य्-आदीनां तन्-मूलकत्वात् ।

यद् वा, ननु तत्त्वज्ञ-पूज्य-पादाः ! कथं विषय-सुखम् इच्छथ ? तत्राहुः—सन्त्यज्य इति। अतो वयं परमार्थ-सुखम् एवेच्छाम इति भावः । त्वया सह क्रीडा-विशेषस्य प्रेम-परिपाक-विलास-रूपत्वेनाशेष-पुरुषार्थ-सार-सर्वस्वात्मकत्वाद् इति । ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्य् एतन् निज-वचनस्य सत्यतापेक्षया त्वम् अप्य् अस्मद्-वदन्याशेष-त्यागेनास्मान् भक्तुम् अर्हसीति गूढोऽभिप्रायः । अनेन व्रजस्यानामयम् [१८च्] इत्य् अस्योत्तरम् ऊह्यम् । सर्व-विषय-त्यागेन तस्याप्य् उपेक्षापत्त्या तन्-मङ्गल-कथनेनालम् इति तात्पर्यात् ।

ननु चपलाः ! अधर्माद् बिभेमि । तत्र सेव्यम् आहुः—दुरवग्रह ! हे स्वैर-शिरोमणे ! दुराग्रह ! इति वा । अस्मान् प्रपन्ना अनन्य-गतीर् मा त्यज । दुरवग्रहत्वेन प्रपन्न-परित्यागाद् अधर्मस्यैवोत्पत्तेः, विशेषतश् च सुव्रतत्वादि-प्रतिज्ञा-हान्य्-आपत्तेः, परमेश्वरत्वात् त्वाम् अधर्मो न स्पृशत्य् एव । प्रतिज्ञा-हानिस् तु परमानुचितैवेति भावः । यद् वा, दुरवग्रहं दुराग्रहम् । सम्यक् त्यज

ननु, वाचालाः ! यूयं कामिन्यो मद्-योग्या न भवथेति चेत्, सत्यम् । तथापि सर्व-त्यागेन भजतां जनानां सर्वेषाम् अपि स्वीकारो महा-पुरुष-धर्म इति दृष्टान्तेनाहुः—देव इति । देवत्वेनावश्यं स्व-भक्तेष्ट-पूरणं कार्यम् इत्य् अभिप्रेतं, तत्रापि आदि-पुरुषः पुरुषोत्तमः । तेन भक्त-मनोरथ-पूरणावश्य-कृत्यत्वात् । तत्रापि मुमुक्षून् अपि, किम् उत तद्-एकेप्सून् ।

किं वा, अ-कार-प्रश्लेषेण अमुमुक्षून् भक्त्य्-एक-निष्ठान् इत्य् अर्थः । यथासौ भजते स्वीकरोति, तथा भजस्व इत्य् अन्वयः । यथावद् इति वा, तथाप्य् अर्थापत्त्या दृष्टान्त एव पर्यवस्यति । यथासौ तान् भजन-मात्रापेक्षया सर्वान् एव भजते स्वीकरोति, तथा त्वम् अप्य् अस्मान् भज इति भावः ।

यद् वा, ननु साध्व्यः ! तत् कर्म ममानुचितम् इति चेत्, तत्राहुः—देवो भजतोऽर्चापेक्षको ऽपि आदि-पुरुषोऽपि मुमुक्षून् अपि भजते, मुक्ति-दानेनापि तन्-मनोरथं पूरयतीत्य् अर्थः। अतो भक्तेच्छानुसार-व्यवहारेण न दोषो घटत इति भावः । अन्यत् तैर् व्याख्यातम्।

यद् वा, श्री-गोपेन्द्र-नन्दनत्वेनैव कृष्णे लब्ध-निष्ठानां व्रज-सुन्दरीणाम् आन्तरीणं महा-भाव-वैचित्री सहचरी-परमैश्वर्यं स्व-प्रयोजनानुपयुक्तम् अपि वर्णयति, अन्यथा व्रज-सुन्दर्यो भगवत्-स्वरूपानभिज्ञा इति ते मन्येरन् । तच् चैश्वर्य-वर्णनं परमार्ति-समय एव, न त्व् आनन्द-समये, तद्-ऐश्वर्य-ज्ञानस्यापि तासाम् असुखानुभव एव पर्यवसानात्, तत्रापि निज-भाव-माधुर्यस्यान्यथात्वं नास्त्य् एव । यदैश्वर्य-वर्णनेऽपि सख उदेयिवान् [भा।पु। १०.३१.४] इत्य्-आदौ सख्यस्याव्यभिचारः । तथा हि—विभो, हे बहिर्-अन्तर्-व्यापक ! इति भवान् अस्माकं सर्वं भावं जानात्य् एव । अतस् तव पाद-मूलं भक्ता आश्रिता अस्मान् भजस्व । अन्यथा, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इत्य्-आदि-वचनानां वैयर्थापतिः ।

यद् वा, स-प्रणय-शेषम्26 आहुः—हे भक्ताभज ! भजतीति भजः, न भजः अभजः । हे भक्तानाम् अप्य् अभज, भक्ताभज ! भक्तान् अपि न भजतीति तथाभूत ! हे स्वेष्व् अपि दुरवग्रह ! इति सर्वान् विषयान् भोगान् । यद् वा, साम्राज्य-प्रभृति-वैकुण्ठ-विधि-पदानि सन्त्यज्यापि तव पाद-मूलम् अमुमुक्षून् भोक्तुम् अनिच्छून् अशकुन्वतो जनान् त्वत्-पाद-मूलस्य सर्वतो माधुर्य-विशेषाद् भज स्वीकुरु । यतो देवो जगत्-पूज्यत्वम् अन्यथा देवत्वासिद्धिः, तत्रापि यथावत् सम्पूर्णतया आदि-पुरुषो भगवान् । अन्यथा निज-भगवत्ता-प्रकटनासम्पत्तिः । सामान्येनोक्तिर् युक्ति-प्रदर्शनेन निज-स्वीकार-दार्ढ्यार्थम् । अतस् ते त्वदीया अस्मान् मा त्यज । अन्यत् समानम् ।

आर्त्य्-उक्तेर् अपि गोपीनां श्लेषार्थं भारती सखी ।

रक्षन्ती गौरवत् तासां कृष्ण-भक्तेषु गायन्ती ॥

तथा हि, ईदृशम् अप्रियं नृशंसं करवाणि, मया सह किञ्चिद् ब्रूत इत्य्-आदिकं वक्तुं नार्हति । तत्र हेतुः—सन्त्यज्य इत्य्-आदि विषय-परित्यागेन प्रपन्नानां नः पुनस् तद्-भोगे प्रवर्तनस्य दोषत्वाद् इत्य् अर्थः । किं च, दुरवग्रहं दुराग्रहम् । आ त्यज । अतो यथा मुमुक्षून् आदि-पुरुषो भजते, तथैव अस्मान् भजस्व, परमं पदं देहि, न च विषय-सुखम् इत्य् अर्थः । तदैवास्माकं स्वागतत्वं महा-भागत्वं च व्रजस्यानामयम् [भा।पु। १०.२९.१८] इति । यद् वा, याः सर्व-विषयान् सन्त्यज्य तव पाद-मूलं भक्ताः, ता एव दुरवग्रहं स्वच्छन्दं यथा स्यात्, तथा भजस्वअस्मान् आ त्यज सम्यक् त्यज, प्रभवस् तु भक्त-जनान् एव भजन्ते, न त्व् अभक्त-जनान् इत्य् अत्र दृष्टान्तम् आहुः—देव इति ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-गोप्य ऊचुर् इति । अत्रैवं विवेचनीयं—यद्यपि समान-भावापन्नत्वेन युगपत् समान-वचन-स्फूर्तिर् अपि सम्भवति, तथाप्य् एकदोक्तावति-कोलाहलतया नातिरसाधायकत्वात् कासाञ्चित् मुख्यानाम् एव वचनं ज्ञेयम् । तच् च युगपद् वा तत्-तन्-महा-वाक्योपसंहारे, तन् नः प्रसीद वरद [भा।पु। १०.२९.३३], सिञ्चाङ्ग [भा।पु। १०.२९.३५] इति, प्रसीद वृजिनार्दन [भा।पु। १०.२९.३८] इति, तन् नो निधेहि [भा।पु। १०.२९.४१] इति स्व-स्व-विवक्षितं वचन-चतुष्टयान्तं क्रमशो वा पूर्व-पूर्वासां वाक्य-स्थापन-पूर्वकम् एवोपन्यस्तम् अस्ति । चतुष्टयत्वं च यूथशो दिक्-चतुष्टय-स्थितत्वात् । तासां तथापि सर्वासां तत्-सम्मुखत्वं च, कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् अभ्यानना [भा।पु। १०.१३.८] इतिवत्

यासाम् एव प्रसादेन यासां श्री-नागरेश्वरे ।

जल्प-तत्त्वं ज्ञायते ता वन्दे श्री-नागरीश्वरीः ॥

॥ श्री-गोपी-गण-प्राण-वल्लभाय भगवते नमः ॥

अथ पत्य्-आदि-परित्यागेन त्वद्-भजनेऽस्माकं धर्मोऽधर्मो वेति पश्चाद् विचारयिष्यते । अहो तवैव तावद् अस्मत्-परित्यागे धर्म-दोषो दुष्परिहर इत्य् आहुः—मैवम् इति । मा इति निषेधस्यादौ प्रयोगः परमार्ति-वैयग्र्येण । एवम् ईदृशं कथञ्चिद् एतद्-वचन-सदृशम् अपि किम् उ वक्तव्यम् एतद् ? इत्य् अर्थः । कुतः ? नृशंसं वज्र-सारवत् काठिन्येन हृदय-विदारकम् इत्य् अर्थः । यद् वा, साक्षान्-मारकं, नृशंसो घातुकः क्रूरः इत्य् अमरः । गदितुं व्यक्तं वक्तुं । किं वा, गदितुम् अपि किम् उत व्यवहर्तुम् अर्हति । तत्र च भवान् प्रेमार्द्र-स्वभावतया प्रसिद्ध इत्य् अर्थः । तत्रापि, विभो ! हे अस्मत्-प्राण-नाथ ! अतोऽस्मान् प्रति नार्हत्य् एवेति भावः । अत्र संरम्भ-गद्गद- [२९] इत्य् उक्तत्वात् । सर्वत्र शब्देन स्वरेण वा दैन्यादाव् अपि प्रणय-कोपो व्यञ्जनीयः ।

एवं स्वागतं वो महाभागाः [भा।पु। १०.२९.१८] इत्य्-आदिकं भवता सादरं स-न्यायं मृदूक्तम् अपि निवर्तनार्थम् एवेति रस-विघातकत्वाद् अर्थतो विपरीतम् एवेति भावः । अनेन स्वागतम् [१८अ] इत्य्-आद्य-पादस्योत्तरम् ऊह्यम् ।

ननु, भो प्रिय-वादिन्यः ! तर्हि किं कर्तुम् अर्हामि ? इत्य् अपेक्षायाम् आहुः—अस्मान् भजस्व मनोरथ-पूरणेनानुवर्तस्व । कुतः ? तव पादयोर् मूलं तलं भक्ता इति दैन्योक्तिः । अब्जादि-रूपकानुक्तिर् नृशंसतोक्त्या काठिन्याद्य्-अभिप्रायेण । अनेन प्रियं किम् [१८ब्] इति पादस्योत्तरम् ।

ननु, श्री-गोप-गृहिण्यः सत्यम् एव भजामि, किन्तु भवत्-पत्य्-आदि-हिताचरण-रूपम् एव युक्तं, न त्व् ईदृशम्, इति तत्राहुः—सन्त्यज्य इति । सर्वान् विषयान् इन्द्रियार्थान् पत्य्-आदि-रूपान् सम्यक् अपुनर्-अङ्गीकार-दार्ढ्येन त्यक्त्वा, तेषां त्वद्-भजने प्रातिकूल्यात् । अनेन व्रजस्यानामयम् [१८च्] इत्य्-आदिकस्य, दुह्यत [२२द्] इत्य्-अन्तस्य सर्वस्याप्य् उत्तरम्, तेषां सर्वेषाम् अपि विषयान्तः-पातात्, तत्-त्यागेन देहेऽपि गलित-प्रेमत्वात् । तत्-प्रेम विना रजन्य् एषा [१९अ] इत्य्-आदि वाक्यस्याप्य् अनुपादेयत्वात् ।

व्यतिरेकेणाहुः—हे दुरवग्रह दुराग्रह ! अस्मान् अनन्य-गतीर् मा त्यज इत्य् अर्थः, अन्यथैव दोषः स्याद् इति भावः । कथम् ? इत्य् आशङ्क्य धर्माधर्मातीतस्य ईश्वरस्यापि तद्-धर्म-पालनावश्यकता-दर्शनात्, इत्य् आहुः—देव इति । तत्रापि मुमुक्षून् अपि किम् उत तद्-एकेप्सून् । किं वा अमुमुक्षून् मोक्षम् अप्य् अनिच्छून् भक्त्य्-एक-निष्ठान् इत्य् अर्थः ।

यद् वा, मुमुक्षून् तस्माद् अन्यत् सर्वं त्यक्तुम् अनिच्छून्, यथा असौ भजन-मात्रापेक्सया सर्वान् एव भजते स्वीकरोति, तथा त्वम् अस्मान् भजस्व इति । "भजतः" इति द्वितीयान्तः क्वचित् पाठः । तत्र तु मुमुक्षून् इति विशेषणं साधन-साध्ययोर् द्वयोर् अप्य् अवस्थयोस् तेषाम् आत्म-सात्-करणात् स-कामान् व्यावर्तयति—यथा तान् भजते न त्यजतीत्य् अर्थ-वशाद् भजस्व इत्य् अस्य विभक्तिं विपरिणमय्य व्याख्येयम् । अत्र श्री-गोपेन्द्र-नन्दनत्वेनैव कृष्णे लब्ध-निष्ठानाम् अपि, यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य् उक्तत्वात् ।

हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।

भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥

इति श्री-नारद-पञ्चरात्रोक्तानुसाराच् च नादृतम् अपि सर्वं ज्ञानादिकं, ताः परिचरति । तस्मात् केवल-प्रेम-मयोऽपि वचसि पारमैश्वर्य-ज्ञान-मयोऽप्य् अयम् अर्थः । तासाम् एव महिम-सूचनार्थं ज्ञानादि-शक्ति-प्रेरितया भक्त-विशेषाणां चमत्काराय स्फुरति ।

अथवा, दैन्येन महिम-स्फूर्तेर् ईश्वरत्वं सम्भाव्येदृशं वचनम् । तथा हि—विभो ! हे बहिर्-अन्तर्-व्यापक ! इति भवान् अस्माकं सर्वं भावं जानात्य् एव । अतस् तव पाद-मूलं भक्ता आश्रिता अस्मान् भजस्व । अन्यथा, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इत्य्-आदि-वचनानां वैयर्थ्यापत्तिः ।

ननु, तत्त्वज्ञ-पूज्य-पादाः ! कथं विषय-सुखम् इच्छथ ? तत्राहुः—सन्त्यज्य इति । अतो वयं परमार्थ-सुखम् एवेच्छाम इति भावः । त्वया सह क्रीडा-विशेषस्य तस्य प्रेम-परिपाक-विलास-रूपत्वेन अशेष-पुरुषार्थ-सार-सर्वस्वात्मकत्वाद् इति । ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्य् एतन् निज-वचनस्य सत्यतापेक्षया त्वम् अप्य् अस्मद्वद् अन्याशेष-त्यागेनास्मान् भक्तुम् अर्हसीति गूढाभिप्रायः ।

हे दुरवग्रह ! स्वच्छन्द ! अस्मान् प्रपन्नान् मा त्यज परमेश्वरत्वात् त्वाम् अधर्मो न स्पृशत्य् एव सत्य-सङ्कल्पत्व-श्रुति-विरोधात् [छा।उ। ८.७.१, ३.१४.२ इत्य्-आदि] प्रतिज्ञा-हानिस् तु परमानुचितैवेति भावः । सर्वान् विषयान् साम्राज्य-प्रभृति-वैकुण्ठावधि-पदानि सन्त्यज्य अपि ते त्वाम् अमुमुक्षून् मोक्तुम् अनिच्छून् अशक्नुवतो जनान् अन्यान् अपि भज स्वीकुरु । द्वितीयायां षष्ठी ते तुभ्यं त्वां प्राप्तुं, मुमुक्षून् इति च चतुर्थी वा, यतो देवो जगत्-पूज्यस् त्वम्, अन्यथा देवत्वासिद्धिः । तत्रापि यथा यथावत् सम्पूर्णतया आदि-पुरुषो भगवान् इति ।

अत्र चाभिर् अपि यज्ञपत्न्य्-उक्ताद्य-पद्याद्य-पादानुवाद [भा।पु। १०.२३.२९] आर्ति-साम्यांशेन ज्ञेयः ।

आर्ताव् अपि स्वभावेन वैदग्धी-वलितात्मनाम् ।

प्रार्थने गोप-रामाणां निषेधार्थोऽपि वीक्ष्यते ॥

तथा हि—एवम् ईदृशं किञ्चित् प्रियं करवाणि [भा।पु। १०.२९.१८] मया सह किञ्चिद् ब्रूत [तत्र] इत्य्-आदिकं नृशंसं वक्तुं नार्हति । तत्र हेतुः—सन्त्यज्य इति याः सर्व-विषयान् सन्त्यज्य तव पाद-मूलं भक्तास् ता एव दुरवग्रहं स्वच्छन्दं यथा भवति, तथा भजस्व, अस्मान् सर्वांशेनैव त्यज । प्रभवो भक्त-जनान् एव भजन्ते, न त्व् अभक्तान् इत्य् अत्र दृष्टान्तम् आहुः—देव इति । अस्मिन्न् अर्थे वस्तुतस् तु सर्वम् एतन् नर्मैवेति भाव एव व्यञ्जित इति ॥३१॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथ तासाम् अपि तद्-अनुरूपं वाक्यं—मैवम् इत्य्-आदि । मा इति तत्-प्रार्थना-निराकरणे सर्व-विषयान् पति-पुत्रादीन् सन्त्यज्य यास् तव पाद-मूलं भक्ताः, ता एव दुरवग्रहं निरर्गलं यथा स्यात्, तथा भजस्वपाद-मूलम् इति तासु निजोत्कर्ष-ख्यापनम् । अस्मान् पुनर् अतथा-भूतान् सम्यग् दर्शन-प्रसङ्गादिष्व् अपि त्यज । तत्रान्यासां भजने स्वेषां त्यागे च सद्-आचारं दृष्टान्तयति—देव इति । स हि त्यक्त-विषय-कर्मादितया स्वं भजतो मुमुक्षून् एव भजति, नान्यान् इति ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत् किम् ? इत्य् आह—मैवम् इत्य्-आदि । एता मध्या धीराः । तेन विभो इति वक्रोक्त्या सम्बोधनम् । भवान्—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति सत्य-प्रतिज्ञः । एवं नृशंसं क्रूरं गदितुं नार्हति । तर्हि किं कर्तव्यम् ? इत्य् आहुः—अस्मान् भजस्वमा त्यजस्वेत्य् आत्मने-पदं कर्त्र्य्-अभिप्राये क्रिया-फले । अस्मद्-भजने स्व-प्रतिज्ञा-रक्षणम् एव फलम् । केन प्रकारेण भजिष्ये ? तत्राहुः—आदि-पुरुषो नारायणो देवो यथा मुमुक्षून् भजते, तथेत्य् अर्थः । स तु तेभ्य आत्मानम् एव ददाति ।

ननु, स तावत् तेभ्यो मोक्षम् एव ददाति । भवत्यश् चेत् तद्-आकाङ्क्षिण्यस् तदा दास्याम्य् एव । गृहं यात, नेत्य् आहुः—तव पाद-मूलम् भक्ताः श्रिता वयम् । भक्तास् तु मोक्षं कदापि नाद्रियन्ते । तेन दृष्टान्त-गम्यं तावद् इदम् एव मोक्षे यथा न पुनर्-आवृत्तिस् तथास्माकम् अपि गृहे न पुनर्-आवृत्तिर् भवतु । सहैव स्थातव्यम् इति यत्, तद् एव किं कृत्वा भजनीया भवत्यः ? तत्राहुः—सर्व-विषयान् सन्त्यज्य तांस् तथैवेत्य्-आद्य् उक्तेः । यतो वयम् अपि तथा। हे दुरवग्रह ! दुष्प्राप ! ॥३१॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं श्री-कृष्णस्य रूक्ष-मुद्रा-स्थित्या संश्लेष-सुखम् अलभमानाः क्षणम् अपि नेतुम् अपारयन्त्य उपालम्भ-रीत्या वदन्त्यो मानम् अपि कर्तुम् अजानन्त्यो अतिवार्ताः सत्यः प्रत्युत्तरम् ऊचुः—मैवम् इति । हे विभो ! व्रजेन्द्र-सुतत्वाद् अस्मद्-उपेक्षानुचितेत्य् अर्थः । भवान् भवच्-छब्दः पूज्यार्थः, एवं स्वागतं वः [१८अ] इति गौरवेण गदितुं नार्हति यत् इयम् उक्तः, स्वागतं केष्व् अतिथिष्व् एवोचिता नास्मासु ।

ननु मया स्वागत-प्रश्नेनादर एव कृत इति चेत्, तत्राह—नृशंसं क्रूरं परिणाम-दुःख-जनकत्वात् मधु-विषय-संयुक्तान्नवत् । गदितम् इत्य् अस्यायम् अभिप्रायः । गद व्यक्तायां । वाचि धातुः मनसापि विचारयितुं किं पुनर् गदितुं रस-पाकानभिज्ञा एवानर्हा भवान् परम-रसज्ञः । हे विभो ! मधुर-रस-परिपाटीम् अस्मान् विशेषेण शिक्षयितुं समर्थः । न तु येन रसेन भवता आकृष्टा वयम् आगताः, तं रसं विघटयितुम् आह । मधुर-रसालम्बनेषु सादरं वाक्यं स्थायि-भाव-विघटकम् इति भावः ।

ननु स्वागत-प्रश्ने मया किम् अपराधं ? तद् अपि किम् इत्य् आक्रोशः क्रियत इति चेत्, तत्राहुः—भवता प्रतिश्रुतं प्रियं किं करवानि वः [१८ब्] इति स्मृति-पथम् अवतीर्णं चेत्, तदा अस्मान् भजस्व इति सुन्दर-पात्राणि चेद् विषं तदा किं ? भजनम् एव तु चित्तानुवृत्तिर् इत्य् अर्थः । अस्मच्-चित्तानुवृत्त्या रमस्वेति, अन्यथा प्रतिज्ञा-भङ्गः स्याद् इति भावः ।

किं च, व्रजस्यानामयं कच्चिद् इति वचनं तव नोचितम् इत्य् आहुः—सर्वान् विषयान् सन्त्यज्य तव पाद-मूलं भक्ताः सर्वेन्द्रियार्थान् अप्रत्यापत्ति-रूपतया त्यक्त्वा तव पाद-मूलं सेवितुम् आगताः दासीभवितुम् इत्य् अर्थः । विषय-भोगस् तु पत्य्-आदि-मूलकः स तु सकारणस् त्यक्त एव ।

ननु गृह-स्वामिनो विहाय किम् इति दास्यं स्वीक्रियते ? इति चेत्, तत्राहुः—यत् सुखं त्वद्-भजने गृह-स्वामिना, तत्-सुखस्य गन्धोऽपि न इति पूर्वम् एव तारतम्यं ज्ञात्वा पत्य्-आदयस् त्यक्ताः । त्वद्-भजनं सुखावधि-रूपं, विषय-सेवनं दुःखावधि-रूपम् । अत एव त्वद्-भजन-प्रातिकूल्यात् स-कारण-विषयांस् त्यक्त्वा दुःख-रूपत्वानुसन्धानेन तद्-उपेक्षयागतानां पुनर् अपि दुःख-रूपस्य अनामय-प्रश्नेन दुःखस्यानुस्मरण-कार्यं तु सुख-रूपात् त्वद्-भजनाच् च यावयितुं तव नोचितम् इति भावः । यद् उक्तं—ब्रूतागमन-कारणम् [१८द्] इति तद् उत्तरयन्ति अस्मान् मा त्यज अस्मत्-स्वीकारं कुर्व् इत्य् अर्थः। स्वीकारं कारयितुम् आगता विद्धि । कीदृशस् त्व् अदेवोऽसि सेवनार्थोऽसि वयं दास्यार्हाः । इदं त्व् अतिदैन्यं निवेदितम् ।

यद् वा, देवः क्रीडास्वभावः । क्रीडा तु स्वकीय-सापेक्षतोऽस्मत्तः को वा तव स्वकीयोऽस्ति ? प्रिय-वर्गैः सहाविर्भाविता क्रिया क्रीडेति प्रिय-वर्गो दुःखे निमज्जनीय इति कस्यापि मनस्य् उदेति ? इति काक्वा प्रश्नः । हे दुरवग्रह ! वारं वारं गेयसि गृहान् प्रतियातेति ।

यद् वा, दुष्टेष्व् अपि पूतनादिषु अव अवनं पचाद्यं च इति ग्रहो\ऽभिनिवेशो यस्य। जिघांसयापि हरये स्तनं दत्त्वाप तद्-गतिम् [भा।पु। १०.६.३५] इत्य् उक्तत्वात् ।

यद् वा, दुःखस्य अव अवरक्षणम् इति यावत् । तद्-रूपो ग्रह आग्रहो यस्य अनामय-प्रश्नेन स्व-रहस्योच्चाटितत्वात् । एके दुष्टाः मारणीयाः, एके दुष्टा रक्षणीया इति वैषम्यं तव नोचितम् इति भावः ।

ननु, निरपेक्षस्यौदासीनस्य मम किं फलं भविष्यति युष्मद्-भजने ? इति चेत्, तत्राहुः—आदि-पुरुषः पुरुषोत्तमोऽपि निर्लिप्तोऽपि यथा भजतो भजमानान् भक्ति-पूर्णान् स्वीय-पाद-पद्म-मकरन्द-दानेन भजते । अथ च, मुमुक्षून् मुक्ति-दानेन भजते । त्वं तु देवः क्रीडा-प्रधानोऽसि, क्रीडा तु स्वकीय-सापेक्षातोऽस्मन्-मनोरथ-पूरणे तव दोषो न घटतीत्य् अर्थः ।

यद् वा, हे विभो ! सर्वान्तर्यामिन् ! अस्माकम् अन्तः-करण-वृत्तिं जानात्य् एवातो भक्तानाम् अभजने भजनस्य लोप-प्रसङ्गः स्यात्, तस्मान् मच्-छरणं गोष्ठम् [भा।पु। १०.२५.१८] इति व्रत-लोपेनाधर्मोत्पत्तेः

नन्व् ईश्वरस्य मम कोऽयम् अधर्म इति चेत्, तत्राहुः—हे दुरवग्रह ! दुष्ट आग्रहो यस्य। तथा हि भक्त-भजन-रूपस्य धर्मस्य त्यागः स्व-प्रतिज्ञा-हानि-रूपस्य स्व-व्रज-जन-त्याग-रूपस्याधर्मस्य स्वीकार इति । तद् दुराग्रहं त्यक्त्वा, न मे भक्तः प्रणश्यति [गीता ९.३१] इत्य् आग्रहेण अस्मान् भजस्व, अस्मन्-मनोरथं पूरयेत्य् अर्थः ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मान् धर्मम् उपदिशस्य् अथ च स्वयं पाप-राशिं चिकीर्षसीत्य् अनुचितम् इत्य् आहुः—मैवम् इति । नृशंसं घातुकं साक्षान्-मारकं यथा स्यात्, तथा गदितुं भवान् प्रतिपुरुषं धार्मिकत्व-ख्यातिमतो नन्दस्य पुत्रः सन् नार्हति। अन्यस् तु प्रतिपुरुषं मानुष-मारण-वृत्तिको वरम् अर्हतु नामेति भावः । नृशंसो घातुकः क्रूरः इत्य् अमरः । त्वया कोटि-सङ्ख्या अप्य् अस्मान् प्रति वाक्-शरांस् तथा एकदैव निःक्षिप्ता यथा अधुनैव शरीराणि परित्यज्य यम-पुरं सर्वा एव वयं यामो, न तु त्वद्-उपदिष्टं गोष्ठ-पुरम् । त्वं तु शत-कोटि-स्त्री-वध-पातकानि गृहीत्वा स्वयम् एव गोष्ठं याहि। स्त्री-वधान् नो चेत् जिघृक्षसि, तर्हि सर्व-विषयांस् त्यक्त्वा त्वत्-पाद-मूलं भक्ताः सेवितवतीर् अस्मान् भजस्व । अत्रान्य-विषयान् इत्य् उक्त्वा भगवद्-अङ्ग-सङ्गो हि विषयो न भवतीति ध्वनितम् ।

भोः कामिन्यः ! किं स्व-स्व-पतिभ्यो भवतीनां कामो नोपशाम्यति ? यतस् तान् परित्यज्य माम् एव भजध्वे ? तत्राहुः—हे दुरवग्रह ! अवे ग्रहो वर्ष-प्रतिबन्धे [पा। ३.३.५२] इति पाणिनि-स्मरणात् । दुष्टो अवग्रहो वृष्टि-प्रतिबन्धोऽनावृष्टीर् यस्येत्य् अत्रान्य-पदार्थस्य मेघस्यैवोपयुक्तत्वात्, दुःख-प्रयोगाच् च । हे विष-मात्र-वर्षक-मेघ ! इत्य् अर्थः । तेन चातकीनाम् अस्माकं दूरस्थोऽपि त्वम् एव कृष्ण-मेघो बन्धुस् त्वं दैव-दोषाद् अद्य विषं वर्षसि अवग्रहत्वात् । सलिलं न चेद् वर्षसि, तर्हि मा वर्ष । तद् वृष्टं विषम् एव पीत्वा वयं म्रियामहे, न तु निकट-स्थानां ह्रदादीनाम् अपि जलं पिबाम इत्य् अस्माकं भावं जानीहि इति भावः ।

अतोऽस्मान् मा त्यज । यद्य् आत्मनः कृतद्यत्वं दधासीति भावः । ननु च सत्यं चातक्यो मेघम् अपेक्षन्तां नाम, मेघस् तु चातकीर् नापेक्षते । चातक्यो म्रियन्तां जीवन्तु वा, मेघस्य न कापि हानिर् इति चेत्, सत्यं, न त्वं जडात्मको मेघ एव, किन्तु विदग्ध-चूडामणिर् नारायण-समो नारायण-देव वर्तस्वेत्य् आह—देव इति । मुमुक्षून् त्वद्-उपासनार्थं सर्व-विषयांस् त्यक्तुम् इच्छून् अपि त्वद्-अभीष्टोपपादनया भक्त-वश्यत्वात् भजते । अस्मांस् तु त्वद्-अर्थं सन्त्यक्त-सर्व-विषय-श्रेणीका अपि त्वं कथं न भजसि ? इत्य् अर्थः ॥३१॥


॥ १०.२९.३२ ॥

यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग

स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् ।

अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे

प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च यद् उक्तम्पत्य्-अपत्य इत्य्-आदि त्वया धर्म-विदा इति सोपहासम् एव । एतद् उपदेशानां पदे विषये त्वय्य् एवास्तु । उपदेश-पदत्वे हेतुः—ईश इति । विविदिषा-वाक्येन सर्वोपदेशानाम् ईश-परत्वावगमाद् इति भावः । ईशत्वे हेतुः—आत्मा किल भवान् इति । भोग्यस्य हि सर्वस्य भोक्ता आत्मैवेश इत्य् अतः प्रेष्ठो बन्धुश् च भवान् एवेति सर्व-बन्धुषु करणीयं त्वय्य् एवास्त्व् इत्य् अर्थः ।

अथ वा, धर्मोपदेशानां पदे स्थाने धर्मोपदेष्टरि त्वयि सति, अस्मासु च धर्मं जिज्ञासमानासु सतीषु त्वया धर्म-विदा यद् उक्तम् एवम् एतद् अस्तु । न तु त्वं धर्मोपदेष्टा, किन्तु भवान् आत्मा इति ।

अथ वा, यद् उक्तम् एतद् उपदेश-पदे तद्-गोचरे पुरुषेऽस्तु नाम, त्वयि तु ईशे स्वामिनि सत्य् एवम् । काक्वा नैवम् इत्य् अर्थः । यतस् तनु-भृतां त्वम् आत्मा फल-रूप इति ।

यद् वा, यद् उक्तं “पत्य्-आदि-शुश्रूषणं धर्म” इति एवम् एतत् त्वय्य् एवास्तु । कुतः ? उपदेश-पदे शुश्रूषणीयत्वेन उपदिश्यमानानां पत्य्-आदीनां पदेऽधिष्ठाने । कुतः ? ईशे, न हीश्वरम् अधिष्ठानं विना कोऽपि पति-पुत्रादिर् नामेति । अन्यत् समानम् । अलम् अतिविस्तरेण॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शुश्रूषध्वं पतीन् सतीः [भा।पु। १०.२९.२२] इति यद् उक्तं, तत्राहुः—अपि च इति । धर्म-विदा स्त्री-धर्म-शास्त्र-विदा इति । सोपहासम् इति—आर्त-त्राणं परो धर्मः इति स्मृतेर् अस्मान् आर्तास् त्यजतस् तेन धर्मोपदेशो हास्यास्पदम् एवेत्य् अर्थः । एवम् एतद् यथोक्तम् इदम् । उपदेश-पदत्वे उपदेश-विषये इति भाव इति । तम् एतं वेदानुवचनेन यज्ञेन दानेन तपसा नाशकेन ब्राह्मणा विविदिषन्ति [बृ।आ।उ। ४.४.२२] श्रुत्या सर्वे वेदाभ्यास-यज्ञ-दानाद्य्-उपदेशाः परमेशाव् आप्तय एवेति तात्पर्यम् ।

भोक्तैवेश इति । भोक्तारं विना भोग्यानां वैयार्थ्यात्, अनीश-गृहवत् । यत आत्मा, अत एव प्रेष्ठो बन्धुः, निरतिशय-प्रेमास्पदत्वात् । तथा च श्रुतिः—तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्माद् आन्तरतरं यद् अयम् आत्मा [बृ।आ।उ। १.४.८] इति । सर्वात्मत्वाद् इति भावः।

किं च, सत्य् उपदेष्टृ-पार्थक्ये उपदेशोऽन्याय्यो न त्व् ऐक्ये इत्य् आहुः—अथ वा इति । यद् उक्तं धर्म-शास्त्रेण एतद् वचस् तस्य उपदेशस्य गोचरे पुरुषे प्राकृत-जनेऽस्तु नाम भवतु, त्वयि स्वामिनि परमेशाने एवम् उपदेश-गोचरत्वम् अस्ति किम् ? नास्तीत्य् अर्थः । पूर्वोक्तेर् अन्यथा-करणं, काकुः स्त्रियां विकारो हि शोक-भीत्य्-आदिभिर् ध्वनैः इत्य् अमरः ।

ईशस्योपदेश-विषयत्वं कुतो न तत्राह—यत इति । साधकस्यैवोपदेश-विषयत्वेन साध्यस्योपदेश-प्राप्यत्वम् अस्तीत्य् उक्तम् । फल-रूप इति । यद्यपि त्वयापत्यादि-सेवा धर्मत्वेनोक्ता सापि, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१३] इत्य्-आद्य् उक्त-रीत्याधिष्ठाने ऽर्चिते ऽधिष्ठेयाः स्वयम् एवार्चिताः स्युर् इत्य् आहुः—यद् वा इति । हेतुम् आशङ्कते—कुत इति । अधिष्ठाने अधिकरणे । तत्रापि हेतुम् आशङ्कते—कुत इति । अधिष्ठानाभावे \ऽधिष्ठेयानाम् अभावात् । अन्यद् अवशिष्टम् ।

यद् वा, पत्य्-आदीनाम् अनुवृत्तौ रङ्गो रागो यासां स्त्रीणां, तासाम् एव स्व-धर्म इति, न त्व् अस्माकं त्वद्-भक्तानाम् इति भावः । तेषाम् अविधि-गोचरत्वाद् इति भावः । ईशे वृन्दावने ब्रह्मेन्द्रादिभिर् अपि स्तूयमाने । यद् वा, बन्धुराः प्रेम-शृङ्खला-बन्ध-युक्ता आत्मानो जीवा यस्मिन् स तथा ।

यद् वा, तनु-भृताम् आत्मा परमात्मैव बन्धुर् न त्व् अन्येऽपत्यादयः, बन्धुर् गुरुर् अहं सखा [भा।पु। ११.१९.४३] इत्य् उद्धवं प्रति वक्ष्यमाणत्वात् । आत्मैव ह्य् आत्मनो बन्धुः [गीता ६.७] इत्य्-आद्य् उक्तेश् च ॥३२॥


कैवल्य-दीपिका : ननु किं मद्-भजनेन ? भर्तुः शुश्रूषणम् इत्य् उक्तम् । स्वधर्म एवाद्रियताम् इति चेत्, तत्राहुः—यत् पत्य्-अपत्य- इति । हे अङ्ग ! यत् पत्य्-आद्य्-अनुवृत्तिः स्त्रीणां निज-धर्म इति यत् त्वयोक्तम्, तत् त्वय्य् एवास्तु, न तु प्राकृते पत्य्-आदौ । किल यस्मात् त्वं प्रेष्ठः, नान्यवत् प्रिय-मात्रत्वम् । तनु-भृतां प्रेष्ठो नान्यवद् द्वित्राणाम् । बन्धुः सुहृत् । आत्मा इति त्वद्-भजनाद् अपत्यं भजनम् एव भविष्यति । आत्मैव ह्य् अपत्य-रूपः । त्वं च सर्वात्मा । न चैवं विशेषात् पत्य्-आदि-भजनम् एव कार्यम् इति वाच्यम् । त्वं हि धर्म-वित् यथा-स्थितं धर्मं वेत्सि । उपदेश-पदं गुरुः, यथा-ज्ञानं कथयसीत्य् अर्थः । ईशः कथितुं कर्तुम् अकर्तुं च योग्य-फल-दाने क्षम इत्य् अर्थः । पत्य्-आदयस् त्वम् एवं-रूपाः । तस्माल् लाघवेनैव फल-सिद्धौ किं गौरवेण इत्य् अर्थः ॥३२॥ [मु।फ। ११.२६]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किं च, त्वं धर्म-वित् । वयं स्त्रियः, तत्रापि गोप्यः । तथापि यत् क्रमस् तत् किं धर्मम् अधर्मं वा जानीहीति काश्चित् प्रौढा ऊचुः—यत् पत्य्-अपत्येत्य्-आदि । स्त्रीणाम् इति सामान्य-परं न त्व् आत्म-परम् । स्वासाम् एवापत्यासम्भावनया । हे अङ्ग ! धर्म-विदा त्वयेत्य् आक्षेपः । उक्तम् इत्य् अस्यायं भावः—वचसि को दरिद्रः? इति न्यायाद् उक्तेन किम् अनुभावयितुं यदि शक्यते, तदैवोपदेशत्वं भजति । अतोऽयम् उपदेशो ऽनुभवाय न भवति । कथं भवति ? इत्य् आह—अस्त्व् एवम् इत्य्-आदि । एतद् उपदेश-वचनं त्वयि ईशेऽस्तु । तदैवोपदेशः सार्थको भवतीति भावः।

अथवा, मे इति प्रत्येकोक्तिः, मे मह्यं तत् तवोपदेश-वचनं त्वय्य् एव अस्तु । एव-कारः सर्वत्र योज्यः । त्वय्य् एव ईश एव अस्त्व् एव मा स्खलत्व् इत्य् अर्थः । गौरवाल् लाघवम् एवाभीष्टं प्रत्येकं पत्य्-आदीनाम् अनुवृत्ति-गौरवम् आपादयति, त्वयानुवृत्तिस् तु सर्वत्रैव व्यापिनीः । अतो लाघवात् सैव कार्येति भावः । यतस् त्वं तनु-भृताम् आत्मा बन्धुः प्रेष्ठःकिल निश्चितम् । त्वत्-सम्बन्धेनैव सर्वे प्रिया बान्धवा आत्मानो भवन्ति । अपत्यानुवृत्तिर् अपि त्वय्य् एवेति रसाभासता नाशङ्कनीया, सामान्य-स्त्री-परत्वोक्तेः । तेन सखि-मातॄणां तथात्वं त्वयि जात-प्रेम्णाम् । किम् अन्येषु पति-पुत्रादिष्व् अपेक्षयेत्य् एवम् एव तात्पर्यम् ॥३२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, सद्-आचार-वर्गार्च्याः ! युष्माभिस् त्यज्यतां नाम विषयाः । स्वधर्मस् त्व् अवश्यम् अपेक्ष्य एव । तत्र सोपहासम् आहुः—यद् इति । अङ्ग इति स-प्रेम-सम्बोधने । ईशे परमेश्वरे, वृन्दावने परमेष्टि-पुरन्दरादिभिर् अपि स्तूयमानस्य दृष्ट-श्रुतत्वात् । यद् वा, सर्व-व्रजस्य नाथे त्वयि, ईशे इत्य्-आद्य्-उक्तिः । तद्-उक्त-परिहारायैव, न तु निज-भावानुसारतः । सच्चिदानन्द-घन-मधुर-मूर्ति-श्री-नन्द-नन्दनत्वेनैव तस्य तासु सदा परिस्फूर्तेः । प्रेष्ठः प्रियतमः, न त्व् अन्यवत् प्रिय-मात्रम्। तत्र च तनुभृतां सर्वेषाम् अपि जीवानां, न चान्य इव द्वित्राणाम् । बन्धुश् च हित-कारी सुहृद् वा, यत आत्मा परमात्मा । किल निश्चितम् । त्वत्-सेवैव परमो धर्मस् तद्-अपेक्षयान्यत् सर्वं त्याज्यम् एवेति भावः । तथा चोक्तं—तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदि तत् प्राग् लिखितम् एव । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, धर्म-विदा धर्म-तत्त्वाभिज्ञेनापि त्वया स्वधर्म इति यद् उक्तं, तत् पत्य्-आदीनाम् अनुवृत्तौ सेवायाम् अनुकूलेऽपि वा रङ्गो रागो यासां स्त्रीणां, तासाम् एव, न त्व् अन्यासाम् अस्माकं त्वद्-एक-प्रियाणाम् इत्य् अर्थः । अतस् तद्-अपेक्षया सर्वम् एवान्यद् उपेक्ष्यम् एवेति भावः । तत्र हेतुं दर्शयन्त्यः सर्वतोऽधिकतरं तस्य प्रियत्वं वदन्त्यः स-न्यायं प्रार्थयन्ते—अस्त्व् इति । तनु-भृतां सर्वेषाम् अपि प्राणिनां प्रेष्ठः, किम् उत अस्माकम् ! प्रेष्ठत्वे हेतुः—बन्धुर् हित-कारी, आत्मा च स्वतः प्रीति-विषय इत्य् अर्थः । चेतयितेति वा, इति बहिर्-अन्तर्-उपकारित्वम् उक्तम् ।

यद् वा, बन्धुराः प्रेम-शृङ्खल-बन्ध-युक्ता भक्त्या सुन्दरा वा आत्मानो जीवा यस्मिन् सः । अत एतद् अस्माकं सर्व-तनु-भृतां वा स्व-धर्म इति यत् त्वय्य् एवास्तु, तत्र च एवम् अस्मद्-अभिमत-प्रकारेणेत्य् अर्थः । सुगोप्यत्वात् साक्षात्-तद्-अनुक्तिः । तत्र हेतुः—उपदिश्येते सर्वैः शास्त्रैर् गुरुभिर् वा सर्व-त्यागेन भजनीयतया कथ्यते इत्य् उपदेश्योपदेशौ पदौ श्री-चरणौ27 यस्य, तस्मिन्न् इति । इति त्वत्-पादाब्जापेक्षया स्वधर्मोऽपि परित्याज्य इति युक्तम् एवेति भावः ।

अन्यथा, ननु सारज्ञास् तर्ह्य् अपेक्षितम् अभिव्यज्यताम् इत्य् अत्र स-वैयग्र्यं प्रार्थयन्ते । एवम् उक्त-प्रकारेण, अत इति वा, तनु-भृतां सर्वेषाम् अपि जीवानाम् अनुचरादीनां च, किम् उतास्माकं भवान् आत्मा स्वयम् एव, न त्व् अवतारादि-द्वारा प्रेष्ठः प्रियतमो बन्धुश् च हित-कारी अस्तु । पद-द्वयेनान्योन्यं प्रीतिर् अभिप्रेता । किम्-अर्थम् ? त्वयि निमित्ते । कथम्-भूते ? एतस्यास्मद्-अभिप्रेत-भजन-विशेषस्य यो गुर्व्-आदिभिः सख्यादिभिर् वा उपदेशः, तस्य पदे विषये, धार्ष्ट्य-परिहाराय साक्षात्-तद्-अनुक्तिस् तत्-सिद्धय इत्य् अर्थः । तत्र स्त्रीणां स्वत एव तत्-सिद्धिः, पुंसां तु भाव-मात्रेण । किं वा, तत्रैवोत्कट-रागाणां दण्डकारण्य-वासि-मुनीनाम् इव जन्मान्तरे ज्ञेया । एषा सामान्येनोक्तिर् अत्यन्त-प्रेमोत्कण्ठया ।

यद् वा, एतद् उपदेश-पदे त्वयि ईशे अस्मद्-विधानां नाथे अस्तु । यतो भवान् बन्धुरात्मा सुन्दर-स्वभावः । अत एव तनु-भृतां सर्वेषां प्रेष्ठः । यद् वा, अस्त्व् एवम् इति साभ्यसूयाभ्युपगमः । उपदेशानां त्वद्-भजन-पर-गुर्व्-आदि-वाक्यानां सर्वेषाम् एव पदे, यत ईशे परमेश्वरे परम-स्वतन्त्रे वा । यद् वा, तत्राप्य् अस्मत्-प्राणेश्वरे त्वय्य् अपि एतद् एतादृशं नृशंसत्वं तनु-भृतां देह-धारिणीनां सतीनाम् अस्माकं किल किम् आत्मा देही देहो वा, बन्धुः प्रियः ? अपि तु नैव, किन्तु भवान् एव प्रेष्ठः । यद् वा, देह-धारणाद्आत्मा एव बन्धुः

अ-कार-प्रश्लेषेण भवांस् तु अप्रेष्ठः किं ? किल इति वितर्के वा । तथापि काक्वा स एवार्थः । वयं देहं त्यक्तुं न शक्नुम इति किं भवता वितर्क्यते ? इत्य् अर्थः । मुक्त-देहा इव वयम् अपि त्वद्-अर्थेऽधुनैव देहं त्यक्ष्याम इति भावः । अनेन रजन्य् एषा [१९] इत्य् अस्योत्तरम् । देहानपेक्षया घोरादिभ्यो भयाभावात् तवैव भजनीयत्वेन व्रजं प्रति गमन-प्रयोजनाभावाच् च । तद्-ऐश्वर्यं विनेदम् अर्थ-त्रयम् ।

अत्र नर्मेदम्—तत् त्वय्य् एवास्तु, त्वम् एव स्त्री भूत्वा पत्य्-आदि-सेवा-धर्मम् आचरेत्य् अर्थः । कुतः ? उपदेश-पदे गुराव् इत्य् अर्थः । अन्यथा गुर्व्-अननुष्ठिते कर्मणि शिष्याणाम् अप्रवृत्तिः स्यात् । तत्र च त्वम् एव समर्थः, इत्य् आहुः—ईशे परम-समर्थे, न च कृत्रिम-स्त्रीत्वे न कोऽपि त्वयि प्रीतिं कुर्याद् इति मन्तव्यम् । स्वभाव एव सर्व-श्रेष्ठत्वाद् इत्य् आहुः—प्रेष्ठ इति ।

श्लेषार्थश् चायम्—"पति-पुत्र-सुहृदाम् अनुवृत्तिः स्त्रीणां स्व-धर्मः । तत्र सुहृद् अहं तद्-बन्धूनां च कल्याण्यः [२४] इत्य् उक्तत्वात् । अतो मे कामः पूर्यताम्" इति धर्मविदा त्वया यद् उक्तम्, अपि कृष्ण अस्त्व् एवम् एतत्, अस्तु-एवम्-एतत्-इति चत्वारि पदानि । तद् एव मे मम ईशे पत्याव् एवास्तु, यत उपदेश-पदे सर्वेषां पतिर् एव गुरुः स्त्रीणाम् इत्य्-आदीनां शास्त्र-साध्ऊपदेशानां पदे

भोः साध्व्यः ! भवतु, पतिर् एवानुवर्त्यताम्, किं त्व् अद्य शरज्-ज्योत्स्निकायां सुन्दरे वृन्दावने सुहृत्त्वेन सर्वैर् व्रज-वासिभिः प्रेमास्पदत्वेन स्वीकृतस्य मे पार्श्वे निःशङ्कं वनादि-दर्शन-सुखम् अनुभवन्तु, तत्राहुः—प्रेष्ठ इति । भवान् तनु-भृतां व्रज-सम्बन्धिनां प्रेष्ठोऽपि बन्धुरात्मा, विषम-स्वभावः, विषम-स्वभावत्वात् त्वयि न विश्वास इत्य् अर्थः ।

यद् वा, पत्य्-आदीनाम् अनुवृत्तिः स्त्रीणां स्वधर्मः सुष्ठु अधर्म इति यत् धर्मविदा त्वयोक्तम्, एवम् एतत् त्वय्य् एवास्तु, यत उपदेष्टरि । कथम्-भूते ? ईशे सर्वं वक्तुं कर्तुं च समर्थे, न च तथोपदिशन्तं त्वां जना परिवदेयुः, प्रेष्ठ इति तनुभृतां प्रेष्ठादि-रूपत्वान् न कोऽपि त्वां परिवदिष्यन्ति ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, उक्तो भर्तुः शुश्रूषणम् [भा।पु। १०.२९.२४] इत्य्-आदिना स्वधर्मः कथम् अतिक्रम्यते ? इति तस्य कर्म-मीमांसा-मतम् आशङ्क्य तद्-उपमर्दि ब्रह्म-मीमांसाम् आलम्ब्य प्रतिभावत्वेन तस्मिन्न् आत्मत्वम् आरोपयन्त्यस् तन्-मत-दूषणेन अस्माकम् अधर्म इति प्रतिपादयन्ति—यत् पत्य्-अपत्य- इति ।

धर्मविदा इति सोपहासम् एव सर्व-शास्त्र्ओपदेशानां पदे, शास्त्र-योनित्वात् [वे।सू। १.१.१३], तत् तु समन्वयात् [वे।सू। १.१.१४] इति न्यायेन तत्-तात्पर्य-विषये । तत एव ईशे त्वय्य् एकस्मिन्न् एव एवं शुश्रूषण-प्रकारेण एतद् उपदेश-वाक्यम् अस्तु

ननु मयि तत्-पदत्वम् एव कथम् ? तत्र स-च्छलम् आहुः । किल वितर्के । भवान् आत्मा परमात्मा । कथं तादृशत्वम् अपि ? तत्राहुः—तनु-भृतां सर्वेषाम् एव प्रेष्ठः निरुपाधि-प्रेमास्पदत्वं ह्य् आत्मत्वं, तत् तस्मात्, आत्मा तत्रापि सर्वेषां प्रेष्ठत्वात् परम्आत्मेति । तथा बन्धुः सर्वेषां निरुपाधि-हितकारी परमात्मा च सर्वावभासकत्वेन तादृशः । ततश् च भवान् एव स इति अनेनेशत्वम् अपि सिद्धं, तस्मात् त्वम् एव शुश्रूषीय इति भावः ।

अथवा, ननु सद्-आचार-वर्ग-पूज्याः ! युष्माभिस् त्यज्यतां नाम विषयाः, स्वधर्मस् त्व् अवश्यम् अपेक्ष्यः । तत्र सासूयम् आहुः—यत् पति- इति । एवम् उपदेश-कर्तरि त्वय्य् एवैतद् उपदेशास्पदत्वम् अस्तु, त्वम् एव तद्-योग्यो भवसीत्य् अर्थः ।

ननु, कथम् एतत् ? तत्राहुः—प्रेष्ठ इत्य्-आदि । तनु-भृतां प्राणि-मात्राणां प्रेष्ठः

चित्ताकर्षकः, बन्धुः सर्वाभिलषित-हितकारी । अत एव आत्मा, स एव हृदयाधिष्ठाता तत्-प्रेरयिता वा, तस्माद् अस्माकं वा को दोषः ? किन्तु भवत एवेति । प्रत्युत भवान् एव तादृश-दोष-परित्याजनायोपदेश्य इत्य् अर्थः ।

अथ पूर्ववद् ऐश्वर्य-पक्षोऽपि युज्यते । स च तैर् व्याख्यात एव । तत्र विवर्त-वादम् अवलम्ब्यार्थ-द्वयम् अविशेषेणात्माभ्युपगमात्, तथाप्य् अत्र भोक्ट्र्त्वम् ईशितृत्वम् एव ज्ञेयम् । राज-निर्देश-भोक्तृत्ववत् । अन्यथा जीवत्वापाते विवक्षितत्वासिद्धेः । सामान्यतो निर्देशस् तु जीवस्य दृष्टान्तत्वापेक्षया तस्य सर्वस्व-रूपत्व-स्थापनापेक्षया च ।

द्वितीयेन त्व् इत्य्-आदिकं काकु-गम्यं । तथा पर एवोपदेष्टा भवति, न ह्य् आत्मन आत्मैवेत्य् अनुपदेष्टृत्वम् । ततश् चास्माकम् उपदेष्टृत्वाभावे साक्षात्कृतात्मत्वे च न पति-शुश्रूषादि-विधि-गोचरत्वम् इति भावः ।

श्री-वैष्णव-मतेनान्यद् अर्थ-द्वयम् । अथवा “यद्॥। उक्तम्” इति तत्र प्रथमार्थे स्वामिनि आश्रयत्वेन वृत इत्य् अर्थः । देवर्षि-भूताप्त-नॄणां पितॄणाम् [भा।पु। ११.५.४१] इत्य्-आदेः । तद् एवं तद्-उपासना-महिम-द्वारा धर्मं प्रत्याख्याय वस्तु-विचार-द्वारापि प्रत्याख्यायते।

यद् वेति, अधिष्ठानत्वं तत्-तत्-स्फूर्त्याभयत्वं, यस्य भासा सर्वम् इदं विभाति [क।उ। २.२.१५] इति श्रुतेः । अत्रैश्वर्यार्थेषु किल इति निश्चितम् । उपदेश-पद इति शास्त्र-गुरूपदेश्य-चरणारविन्द इत्य् अर्थः । इत्य् अपि व्याकुर्वन्ति । अत्र नर्मेदं “तत् त्वय्य् एवास्तु । त्वम् एव मोहिनी-रूपेणाजितवत् स्त्री भूत्वा पत्य्-आदि-सेवा-धर्मम् आचर” इत्य् अर्थः । कुतः ? उपदेश-पदे गुराव् इत्य् अर्थः । अन्यथा गुर्व्-अननुनिष्ठिते कर्मणि शिष्याणाम् अप्रवृत्तिः स्यात् । तत्र च त्वम् एव समर्थ इत्य् आहुः—प्रेष्ठ इति । बन्धुरात्मा मनोहर-स्वभावः । निषेधार्थश् चायम् ।

अङ्ग हे कृष्ण ! पत्य्-आदीनाम् अनुवृत्तिः स्त्रीणां स्वधर्मः सुष्ठु अधर्म इति यत् धर्म-विदापि त्वयोक्तं, अन्यथादृश-योजनया छलेन प्रतिपादितम् इत्य् अर्थः । अमायया यो भर्ता इत्य्-आद्य्-अभिप्रायात् । एवम् एतत् ईश एव सत्य् उपदेष्टरि सर्वं वक्तुं व्यवहर्तुं च समर्थ इत्य् अर्थः । तस्मिंस् त्वय्य् एव अस्तु, तेन त्वम् एवोपदेश्यो भवेत्य् अर्थः ।

कथम् ? तत्राहुः—तनु-भृतां श्री-वृन्दावनादि-स्थित-चतुर्विध-प्राणिनाम् अपि प्रेष्ठः प्रेम-विषयः । बन्धुः प्रेम-कर्ता । अत एव आत्मा, साधवो हृदयं मह्यं, साधूनां हृदयं त्व् अहम् [भा।पु। ९.४.६४] इतिवत् परस्पर-हृदयाश्रय इत्य् अर्थः । तस्मात् यदि त्वम् एवैतेष्व् अनन्तेषु विरक्तः स्याः, तदा वयम् अपि स्वेषु स्वल्प-प्रमाणेषु यथा-स्थित-योजनया धर्म-प्राप्तेषु च स्यामैवेत्य् अर्थः । तत्र चास्मास्व् एव तावद् विरक्तो भवेति नर्म-तात्पर्यम्।

यद् वा, यथा तथा वा योजना भवतु, भर्तुः शुश्रूषणम् [२४] इत्य्-आदिना यत् पत्य्-आदीनम् अनुवृत्तिः स्त्रीणां स्त्रियो धर्म इत्य् उक्तम्, एतद् उपदेश-कर्तरि त्वयि ईश एवम् अस्तु, अनुज्ञायां लोट् भवितुं योग्यम् इत्य् अर्थः । यतः प्रेष्ठ इत्य्-आदि । भर्तृ-विचारस् त्व् अस्माभिर् एव ज्ञायते इति भाव इति ॥३२॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथ शास्त्रार्थ-द्वारा तद्-उपदेशं निराकुर्वन्ति—यत् पत्य्-अपत्य इति । स्वधर्मः सुष्ठु अधर्मः । धर्म-विदेति सोपहासम् । उक्तं छलेन प्रतिपादितम् । भर्तुः शुश्रूषणम् [२४] इत्य्-आदाव् अन्यथा-योजनाभिप्रायात् । एतद् अधर्म-निराकरणोपदेश-वाक्यम् । तत्-पदे उपदेष्टरि ईशे स्वतन्त्राचारे त्वय्य् एवास्तु, त्वम् एवाधर्मान् निवर्तस्व इत्य् अर्थः । ततो युष्माकं किम् ? इत्य् अत आहुः—प्रेष्ठ इति । बन्धुरात्मा सुन्दर-स्वभावो भवान् प्राणि-मात्राणां किल प्रेष्ठः । ततस् तेनैव सर्वे वयं मङ्गलिनः स्यामेत्य् अर्थः ॥३२॥ स्वयं-दूत्य-विशेषेण प्रार्थना-रूपो व्यङ्ग्योऽर्थः ४१-पद्य-टीकायां द्रष्टव्यः


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अनन्तरं जुहुर् गुण-मयं देहम् [भा।पु। १०.२९.११] इति प्राकृत-देह-त्यागेन तत्-काल-सिद्धा अपि अधीराभावेनैवाहुः—यत् पत्य्-अपत्य- इत्य्-आदि । हे अङ्ग ! स्त्रीणां पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् धर्म इति यद् उक्तं धर्म-विदा त्वया, एतद्-उपदेश-पदे उपदेश-कर्तरि त्वय्य् एवास्तु, नास्मासु । स पुनर् अस्माभिः शरीरैः सार्धं त्यक्तः । त्वय्य् अस्त्व् इति परुषोक्तिः, "त्वं तथा-विध-दुःख-भाग् भव" इत्य् अर्थः । तद् दुःखं तवैव समुचितम्, ईशत्वात् सर्वम् एव सोढुं समर्थोऽसीत्य् आह—ईश इति । अथ "क्रोध-वशाद् अनुचितम् एवोक्तम्" इति परामृश्य, "शान्तं शान्तम् । तत् कदापि तव न भूयात्, यत् त्वं तनु-भृतां प्राणि-मात्रस्यैव प्रेष्ठो बन्धुर् आत्मा च" । किल निश्चितम् इति क्रोध-भाव-शान्तिः । एतेन त्वय्य् अनुरक्तानां स्त्रीणां पत्य्-अपत्याद्य्-अनुवृत्तिर् महती यातनैव । सा कदापि कस्यापि मा भवत्व् इत्य् अर्थः ॥३२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु परिणाम-विरसत्वाद् विषयाः । त्यक्तास् तत्-साधु-कृतं पत्य्-अपत्यादि-शुश्रूषण-लक्षणो धर्मस् त्यक्तस् तद् असाधु-कृतं धर्मस्य परिणामे सुख-जनकत्वात् औपपत्यस्य स्वीकारो न साधु परिणामे दुःख-जनकत्वात् इति चेत्, तत्र श्री-कृष्णोक्ति-क्रमम् उल्लङ्घ्य धर्मोपदेशं सोढुम् अपारयन्त्यस् तावत् भर्तुः शुश्रूषणं स्त्रीणाम् [२४] इत्य् अस्योत्तरं सोपहासम् आहुः—यत् पति- इति ।

अङ्ग हे सखे ! इति सम्बोधनेन धर्मोपदेशेन त्वया महान् उपकारः कृत इति ज्ञायते । यतः यस्मात् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिः स्त्रीणां स्व-धर्म इति । एवं-विध-धर्म-विदा त्वयोक्तं तत् सर्वं त्वय्य् एव अस्तु । कुतः ? ईशे ब्रह्मादीनां नियन्तरि तान् अपि नियन्तुं समर्थे, किं पुनर् अस्मान् ? यद् वा, गर्गोक्त्या, नारायण-समो गुणैर् [भा।पु। १०.८.१९] इति गोवर्धनोद्धरणादिना च प्रकटित-सामर्थ्येऽत एव ईशे, सर्वस्य व्रजस्य स्वामिनि व्रजेन्द्र-पुत्रत्वात्, उपदेश-पदे स्थाने आश्रय इत्य् अर्थः । यस् तु प्रभुर् भवति, स तु सर्वेभ्यो धर्मोपदेशं करोति । अत एव प्रभुत्वात् पत्य्-आदिषु करणीयं शुश्रूषणादि तत् सर्वं त्वय्य् एव अस्तु । तद् उक्तं—यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१४] इति । त्वय्य् आराधिते सर्वम् आराधितं भवतीति श्रुति-रूपाः कुमार्यो वदन्ति सिद्धान्तम् इति, यतः सर्वेषां तनु-भृतां सर्व-प्राणिनां बन्धुश् चात्मा च त्वम् एव, त्वद्-आराधनेन सर्वं प्राणिनाम् आराधनं भविष्यत्य् एव, किं पुनर् अस्मत्-पत्य्-आदीनाम् ? अतः त्वद्-आराधन-द्वारेण त्वद्-उक्त-पत्य्-आदि-शुश्रूषणं कियत् ? एवं त्वद्-आराधनम् अन्तरेण क्रियमान-पत्य्-आदि-शुश्रूषणम् अशुश्रूषण-पर्यवसार्थे भवेत् शाखा-सेचनवत् ।

यद् वा, अस्मत्-सम्बन्धिनां पत्य्-अपत्य-सुहृदां स्त्रीणाम् अस्माकं च अन्येषां तनु-भृताम् ईशेऽनुवृत्तिः स्व-धर्म इति त्वया एव उक्तम्

अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।

साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ [गीता ९.३०-३१] इति ।

अन्यच् च, स्त्रियो वैश्यास् तथा शूद्रास् तेऽपि यान्ति परां गतिम् [गीता ९.३२] इति त्वयोक्तम् एतत् त्वय्य् एवास्तु, यतो भवान् प्रेष्ठः प्रीति-विषयः, प्रीति-विषयेषु यत् कर्तव्यं तत् त्वय्य् एव अस्तु। तत्त्वतो न कोऽपि प्रीति-विषयः इति भावात् । बन्धुश् च परस्परं प्रेम्णा बध्नातीति बन्धुः, स एवं-भूतस् तु भवतोऽन्य-बन्धुषु यत् कर्तव्यं तत् त्वय्य् एव अस्तु । किं च, भवान् आत्मा इति यद् आत्मनि कर्तव्यं, तत् त्वय्य् एव अस्तु

यद् वा, यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तं, न तु मादृशीनां भवत्-प्रियाणाम् एतद् उपदेशः । तेषाम् उपदेशानां पदे स्थाने एवम् एवास्तु, नैतद् उपदेश-स्थानं, किन्तु रमण-स्थानम् ।

किं च, त्वयीशे नियन्तरि सति प्रतिवचनस्यापि नावकाशः । यतः त्वं तनु-भृतां त्वद्-अर्थ्यम् एव देह-धारिणीनां नः प्रेष्ठो बन्धुश् चात्माभवान् एव, अतस् त्वय्य् एवं-गुण-विशिष्टे आत्मनि स्नेहम् अन्तरेण किञ्चित् न प्रतिभातीति भावः ।

यद् वा, स्व-मतं कुमार्य उपन्यस्यन्ति । त्वद्-भजनम् अन्तरेण स्त्रीणां नान्यो धर्मःत्वया तु स्व-भजनं त्याजयित्वा पत्य्-आदि-शुश्रूषणं स्व-धर्म इत्य् उक्तम् । अस्मन्-मते तु पत्य्-आदीनाम् अनुवृत्तिस् त्वद्-भजनम् अन्तरेण सुतराम् अधर्मः । त्वद्-भजन-त्याग-लक्षण एकोऽधर्मः, द्वितीयस् तु तत्-त्याग-पूर्वक-पत्य्-आदीनाम् अनुवृत्ति-लक्षणोऽधर्मःएतद् अधर्म-द्वयं नास्माभिर् अभ्युपगन्तुं शक्यते । अत एतद् उपदेशस्य पदे विषये त्वय्य् एव एतद् अधर्म-द्वयम् अस्तु तिष्ठतु, नास्मासु योग्यतास्ति ।

कीदृशे त्वयि ? ईशे ईश्वरे धर्माधर्मयोः ज्ञानाज्ञानयोर् अवस्थिति-श्रवणात्, येषां त्वयि ईश्वरत्व-स्फूर्तिः, तेषाम् एव भवत्-प्रेरितानाम् अधर्मेषु प्रवृत्तिर् अस्तु । अस्माकं तु भवान् स्व-दृष्टान्तेन सर्वेषाम् एव तनु-भृतां प्रेष्ठो बन्धुर् हित-कर्ता प्रतीयते ।

यद् वा, पत्य्-अपत्य-सुहृदां स्त्रीणां च अन्येषां तनु-भृतांअनुवृत्तिः शुश्रूषणं तद्-अनुकूलत्वं, तत् स्व-धर्मः स्वस्य तव इव धर्मेन अस्माकम् इति धर्म-विदा त्वयोक्तम्। तद् उक्तं गीतायां—समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः [गीता ९.२९] इत्य् उपदेश-पदे उपदेश-विषये एतत्-सम-दृष्टितया सर्वेषाम् अनुवृत्तिर् अनुरञ्जनं, तत् त्वय्य् एव अस्तु । उपसादिनारान् अपेक्षेप-कारकः (सिच्) । आत्मा अन्तर्यामितया प्रेरकश् च ईदृशं धर्मं त्यक्त्वैव वात्रागतानां त्वया प्रेरितानाम् अपि पुनर् नैतस्मिन् धर्मे प्रवृत्तिर् भविष्यतीति भावः ।

यद् वा, पत्य्-आदि-शुश्रूषणेन किम् अपि न प्राप्तम् इत्य् अश्रद्धया इत्य् उक्त्वा इदानीम् एताः स्त्री-धर्म-शिक्षणीया इति विचार्यास्मासु शिष्यत्वम् आरोप्य स्त्रीणाम् अयं धर्म इति धर्म-विदा गुरु-रूपेण त्वयोक्तम् । उपदिष्ट-धर्म-विदा इति मोहिनी-रूपेण स्त्री-धर्म-विदा इति सोल्लुण्ठं वचनं तदा त्वया एके वाञ्चता एके अमृतं पायिता इति वचनं कृतवता किम् उपदिष्ट तत् स्मर्तव्यं स्व-दृष्टान्तेनेदानीम् अपि वचनम् एव शिक्षणीयम् । न तु पत्य्-आदि-शुश्रूषणम् इति। अधुना परोपदेशं पदे पाण्डित्यम् इत्य् उपदिशता गुरु-रूपेण स्थीयते । तत् त्यक्त्वा स्त्री-धर्मम् आश्रित्यास्मत्-पत्य्-आदयस् तावत् शुश्रूषणीया इति । तद् उक्तं—यद् यद् आचरति श्रेयान् इतरस् तत् तद् ईहते [गीता ३.२१] इति न्यायेन एतद् उपदेशस्य पदे विषय त्वय्य् एव अस्तु, यत् ईशो सर्वं कर्तुं समर्थो, न हि तव किञ्चिद् अप्य् अशक्यम् इत्य् अर्थः । भवान् प्रेष्ठोऽपि एतद्-उपदेशेनाप्रिय इव तनु-भृतां बन्धुर् आत्मा एव भाति बध्नाति । स्व-सेवनं त्याजयित्वा पत्य्-आदि-सेवनं प्रवर्तयति । बन्धुर् आत्मा अविद्या तस्या आत्मा अपरैकोऽस्ति । अत एवं-विध-स्वरूपं विजानतीनां,आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। ४.५.६] इति दृढतर-संस्कारवतीनाम् एतद् उपासना-त्याग-पूर्वकं शकृतानां शुश्रूषणोपदेशोऽकिञ्चिद् एतद् उपदेशस्य पदे आश्रये त्वय्य् एव अस्तु

न त्व् अस्मासु पर्यवस्यति यतो भवान् सर्वेषां तनु-भृतां प्रेष्ठः चित्ताकर्षकः ई बन्धुर् अभीष्ट-फल-दाता आत्मा चेतयिता । अतस् त्वद्-एक-जीवनानां त्वत्-प्रेरितानाम् एव पत्य्-आदि-सेवन-लक्षणो धर्मः सिध्येत् च, अन्यथा शास्त्र-फलयोक्त-रीति-न्यायेन अन्यथात्रात्विजन् अपि तत् फलं स्याद् इति । स्वस्य निर्दोषत्व-ख्यापनायोपदिश्यमानं पत्य्-आदि-शुश्रूषणं नास्माकं धर्मः, किन्तु तवैव धर्मः । पत्य्-आदयोऽपि त्यक्ताः, धर्मोऽपि त्यक्तः । अतोऽस्माकम् उपहेयत्वाभावे निर्णीते तवोपदेष्टृत्वाभावोऽपि निर्णीतवान् अधिकारात् । तद् उक्तम् एकादशे—

देवर्षि-भूताप्त-नृणां पितॄणां

न किङ्करो नायम् ऋणी च राजन् ।

सर्वात्मना यः शरणं शरण्यं

गतो मुकुन्दं परिहृत्य कर्तम् ॥ [भा।पु। ११.५.४१] इति ।

नास्मासु विधि-किङ्करत्वम् । अत एवोपदेश्याभावे उपदेष्टृत्वम् अरण्य-रोदनवद् अनर्थम् इति भावः । अत्रेदं तत्त्वं बुद्धि-वृत्ति-प्रवर्तकेन त्वया प्रेर्यमाणाभिर् अस्माभिः क्रियमाणं त्वच्-छुश्रूषणम् अस्मासु फलिष्यति । बाह्य-वृत्त्योपदिश्यमानं पत्य्-आदि-सेवनं नास्मासु सञ्चरिष्यति ।

यद् वा, पत्य्-आदि-सेवनं स्त्रीणां स्वधर्मः आत्म-धर्मः । देह-धर्मम् आत्म-धर्मत्वेनोपदेशता त्वया यद् उक्तं, जन्तुर् न समञ्जसं यत आत्म-धर्मं विजानाति इति। नास्माकम् अग्रे एतत् सर्वम् उपदेशस्य आत्म-सेवन-रूप-पदेऽधिष्ठाने त्वय्य् एव अस्तु । यतो भवांस् तनुभृतां सर्वेषाम् अपि बन्धुर् आत्मा । अतोऽस्माभिर् उपदिश्यमानो भवान् पत्य्-आदि-सेवन-रूपं धर्मम् अनुतिष्ठतु, धर्म-पालकत्वात् मुख्य-कर्तृत्वाच् च । त्वद्-उपदेशम् अन्तरेणापि विविदिषा वाक्येन स्वयम् एव विचार्य त्वद्-आराधनम् एवाचरिष्यामेति । वास्तवम् अस्माकम् उपदेष्टृत्वम् इति भावः । किं च, पत्य्-आदीनाम् अनुवृत्तिः स्त्रीणां स्वधर्म इति धर्म-विदा इति सोपहासम् इत्य्-आदि श्रीधराचार्यैर् इव व्याख्यातम् । अलम् इति विस्तरेण ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ काश्चित् प्रखरास्28 तद्-वचनेनैव तं पराजेतु-कामा आहुः—यद् इति । पत्य्-आदीनाम् अनुवृत्तिः स्त्रीणां स्व-धर्म इति यत् त्वयोक्तम्, एतद् एवम् अस्तु अनेन प्रकारेण भवतु, नात्र विवदामहे । एतद् एवास्माभिः प्रतिक्षणं क्रियते इति भावः ।

ननु, केन प्रकारेण ? तत्राहुः—उपदेशस्य पदे आस्पदे धर्मोपदेश-कर्तरि त्वयि अनुवर्तिते सत्य् एव पत्य्-आदीनाम् अनुवृत्तिर् उचितेत्य् अर्थः । प्रथमं धर्मोपदेष्टा आचार्य उपसेव्यते, पश्चात् तद्-उपदिष्ट आचरणीयो धर्म इति न्यायात् आचार्यानुवृत्त्यैव निष्कपटया धर्मः सिध्येद् इति च शास्त्रम् । अत्रापि ईशे परमेश्वरे, यद्य् आचार्य एव परमेश्वरः स्यात्, तर्हि किम् उतेति ।

किम् च, ईश्वरत्वाद् एव तनुभृतां त्वम् आत्मा । आत्मत्वाद् एव प्रेष्ठः, प्रेष्ठत्वाद् एव बन्धुर् इति । अयम् अर्थः—पत्य्-आदीनां परमात्म-सहितानाम् एव अनुवृत्तिः शास्त्रोक्ता । आत्म-राहित्ये तु सति सद्य एव गृहान् निःसारितानां तेषां नद्य्-आदेस् तटे मुखानि दह्यन्ते इति धर्म-शास्त्रम् । अतो मूर्तस्यात्मनस् तवैवानुवृत्त्या पत्य्-आद्य्-अनुवृत्ति-सिद्धिः । किम् अन्यैस् तत्-प्रतिकूलत्वाद् एव निरात्मकैर् दग्ध-मुखैः पत्य्-आदिभिर् इति ।

ननु, पूर्ण-प्रेम्न ऐश्वर्य-ज्ञानावरकत्वाद् आसां च सम्पूर्ण-प्रेमवत्त्वात् कथम् एतादृशम् ऐश्वर्य-ज्ञानं सम्भवेत् ? उच्यते नारद-पञ्चरात्राद्य्-उक्त-लक्षणो भक्ति-रसामृतादिषु व्याख्यातः प्रेमा ह्य् अनिश-नैसर्गिकौष्ण्य-शैत्यवान् विरह-संयोग-रसाद् अनुभावकोऽपि ।

ब्रह्मानन्दो भवेद् एष चेत् परार्ध-गुणीकृतः ।

नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ [भ।र।सि। १.१.३८]

इति रसामृतोक्तेर् ब्रह्मानन्दानुभवः पर-परार्धाधिकोऽपि विरहे तीव्रांशु-कोटेर् अप्य् अधिकं सन्तापन् नैश्वर्य-माधुर्य-सम्बन्धिनः सर्वान् एव भगवतो गुणान् प्रद्योतयत्य् एव, न तु कांश्चिद् आवृणोति, विरहस्य सूर्य-तुल्यत्वेन सर्व-प्रदोतकत्वात् । संयोगे तु शुधांशु-कोटेर् अप्य् अधिकम् आह्लादयन् माधुर्य-मयान् एव भगवतो गुणान् प्रद्योतयति । संयोगस्य सुधांशु-तुल्यत्वेन सुधया मादनादेर् ऐश्वर्यावरणात् यत्र संयोगेऽप्य् ऐश्वर्यं प्रद्योतते । तत्र प्रेम्ण एवापूर्णत्वम् अवगन्तव्यम् । अत्र त्व् आसां भावि-विरह-भावनावतीनां विरह एव इयं माहात्म्य-स्फूर्तिर् अपि प्रेम-कृतैव प्रेमा ह्य् असद् अपि माहात्म्यं स्फोरयति । किम् उत सत्, अतस् तद्-अतिशयस् तु तद्-अतिशयम् एव यथादि-भरत-चरिते—किं वा अरे आचरितं तपस् तपस्विन्या, यद् इयम् अवनि [भा।पु। ५.८.२३] इत्य्-आदि । इति श्री-जीव-गोस्वामि-चरणाः ॥३२॥


॥ १०.२९.३३ ॥

कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्

नित्य-प्रिये पति-सुतादिभिर् आर्तिदैः किम्? ।

तन् नः प्रसीद वरदेश्वर29 मा स्म छिन्द्या

आशां भृतां30 त्वयि चिराद् अरविन्द-नेत्र ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् सद्-आचारेण द्रढयन्त्यः प्रार्थयन्ते—कुर्वन्ति इति । कुशलाः शास्त्र-निपुणाः। तथा च शास्त्रम्—किं प्रजया करिष्यामो येषां नोऽयम् आत्माऽयं च लोकः [बृ।आ।उ। ४.४.२२] इति ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् पूर्वोक्तम् । तनु-भृताम् आत्मैव बन्धुर् [३२] इत्य् एतत् । सद्-आचारेण सतां प्रवृत्त्या । शास्त्र-निपुणाः सारासार-विवेक-पटवः । आत्मन्न् इति सप्तम्य्-अन्तम्, आऋषत्वान् ङि-लोपः परमे व्योमन् [तै।उ। २.१] इतिवत् । स्वे आत्मनि अनिमित्त-बन्धौ, पत्य्-आदयस् त्व् अनित्य-प्रिया, अत एव आर्तिदा इति । अनित्य-प्रियाणाम् आर्तिदत्वं, प्रियं त्वां रोत्स्यति इति श्रुतिर् आह । प्रियम् अनित्य-प्रियम् । वियोगि पुत्र-धनादि । नित्य-प्रियस्यात्मनो वियोगाभावाद् रति-विषयत्वम् उचितम् एव अनेन क्रन्दन्ति वत्सा बालाश् च [२२] इति प्रत्युक्तम् ।

प्रजादि-त्यागे श्रुतिम् आह—किं प्रजया इति । येषाम् अस्माकम् आत्मा लोके आत्म-दर्शनम् संसृति-हरम्, न पुत्रादिर् इति तद्-अर्थः । अरविन्दवद् रात्राव् अप्रकाशमाने नेत्रे यस्यातः परम-सुन्दरीष्व् अस्मासूपेक्षा युक्तैवेति सम्बुद्ध्या सूचितम् । आशां तद्-रूपां लतां प्रेम-जल-सेचनार्हां वचन-कुठारेण मा छिन्द्या इति भावः ।

परमेश्वर इति—ईश्वरोऽप्य् आशां पूरयति राजादिः, किम् उत परमेश्वरस् त्वम् । ततो नायं परमेश-धर्मो यद् आश-च्छेद इति सम्बुद्ध्याहुः । "वरदेश्वर" इति पाठे मयेमा रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति वरं दत्त्वाधुना वर-खण्डको जात इति पूर्ववद् अभिप्रायः सम्बुद्धेः । भुङ्क्ते परत्र दुःखानि कल्प आशापहारतः इत्य्-आदि-वाक्यात् समर्थानाम् आशा-पूरणम् एव धर्म इति बोध्यम् ॥३३॥


कैवल्य-दीपिका : किं च, अतोऽपि त्वद्-भजनम् एव श्रेय इत्य् आहुः—कुर्वन्ति इति । कुशला दीर्घ-दर्शिनः । स्वे बन्धौ स्वादिभिः सप्तम्य्-अन्तैः पत्य्-आदयः त्रय उक्ताः । हे नित्य ! त्वं नित्यः, पत्य्-आदयस् तु अनित्यत्वाद् आर्तिदाः । ततस् तैः किम् ? नो किम् अपि इत्य् अर्थः । तत् तस्माद् अन्य-भजनस्य स-दोषत्वात्, त्वद्-भजनस्य सुगमत्वाच् च । आशाम् अङ्ग-सङ्ग-स्पृहाम् । चिरात् आ-शरीर-ग्रहणात् । अरविन्द-नेत्रत्वात् आशा वरदेश्वरत्वेऽप्य् अस्मद्-आशा-च्छेदनम् अकीर्तिकरम् इति भावः ॥३३॥ [मु।फ। ११.२७]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदं तु स-प्रमाणम् एवेत्य् आह—कुर्वन्ति हि इत्य्-आदि । कुशलाः सारासार-विवेक-चतुरास् त्वयिहि त्वय्य् एव रतिं कुर्वन्तिकुशला इति कुमारीर् उद्दिश्य वदन्ति । एतास् त्वय्य् एव रतिं कुर्वाणाः पत्य्-आदिषु निःस्पृहा बभूवुः । अन्य-पत्य्-आकाङ्क्षायाः सुताकाङ्क्षायाश् चासम्भवः, प्राकृतत्वात् । त्वत्-पतित्वे तु न तथा, तैः किम् अपराद्धम् ? इत्य् आहुः—पति-सुतादिभिर् आर्तिदैः किम् ? ते केवलम् आर्तिदाः, न तु त्वम् । त्वं केवलं प्रिय एवेत्य् आहुः—नित्य-प्रियो नित्यश् च प्रियश् चेति तथा । अतोऽस्माभिर् विवेक-कौशलाद् एव पत्य्-आदीन् हित्वा त्वय्य् एव रतिः कृता । ततोऽस्मभ्यं किं-रूपः प्रसाद इत्य् अपेक्षायाम् आहुः—मा स्म छिन्द्या आशाम् इत्य्-आदि । हे अरविन्द-नेत्र ! प्रसन्नया दृष्ट्या नो विलोकयेति भावः । नेत्र-सङ्कोचनेन कथम् ईक्षसे ? रात्रौ अरविन्दस्य सङ्कोचाद् अरविन्द-नेत्रेति सङ्कोच-परम्, स च दर्शने तात्पर्यम् इत्य् ऊढ-मात्राणाम् उक्तिः ॥३३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कामाब्धि-चन्द्र ! न केवलम् अस्माभिः कामेनैवेदम् उच्यते, किन्तु सद्-आचारादि-विचाराद् अपीति रुदत्यः स-काकु प्रार्थयन्ते—कुर्वन्ति हि इति । हि एव । त्वय्य् एव, न त्व् अन्यत्र, रतिं प्रेम, न तु श्रद्धा-मात्रम् । तत्र हेतुः—स्वे बन्धौ, आत्मन् आत्मनि चेतयितरि च, अतो नित्य-प्रिये बहिर्-अन्तर्-उपकारित्वात् सुख-प्रदत्वाच् च।

यद् वा, हे आत्मन् ! हे नित्य ! इति सम्बोधनम् । तेन च पत्य्-आदीनां जडत्वम् अनित्यत्वं च । तथा सा इति प्रिय इति च क्रमेण हित-कारितया स्वाभाविकतया च प्रियत्वोक्त्या वैपरीत्यम् अपि तेषां ध्वनितम् । अतोऽस्माकं पति-सुतादिभिः किम् ? अपि तु न किञ्चित् प्रयोजनम् इत्य् अर्थः । पत्य्-आदि-प्रयोजनस्य तद्-अधिकस्यापि त्वत्त एव सुसिद्धेः । विशेषतश् च आर्तिदैः, संसार-हेतुत्वात् नश्वरत्वेन शोकादि-जनकत्वाच् च । आदि-शब्देन जननी-पितृ-भ्रात्र्-आदयः । यद् वा, आर्तिदैर् अपि, दो अवखण्डने, ते दुःखं सम्यग् अवखण्डयितुं न शक्ता एव । कथञ्चित् कदाचिद् वा किञ्चिद् दुःखं खण्डयन्तु, तथापि तैः किम् ? इत्य् अर्थः । अन्यत् समानम् ।

यद् वा, कुशलाश् चतुरा नित्य-प्रिये सर्वदा प्रेमास्पदे त्वयि रतिं कुर्वन्ति, स्व आत्मन् स्वात्मनि स्वात्म-विषये आर्तिदैर् दुःखदैः पत्य्-आदिभिः किं प्रयोजनम् ? इत्य् अर्थः । तत् तस्मात् सद्-आचार-प्राप्तित्वेनान्येषाम् आर्तिदत्वेन च त्वद्-रतेर् एव कार्यत्वात् । नः त्वद्-भक्ता अस्मान् प्रति प्रसीद, स्वीकार-प्रसादं कुरु ।

ननु भूषण-प्रियाः प्रायोऽङ्गनाः स्युर् इति कश्चिद् अन्यो मत्तो भूषणादि-प्रसादो गृह्यताम् । तत्राहुः—वरदानां ब्रह्मादीनां सर्वेषाम् अपि ईश्वर इति, अतोऽसाधारण-प्रसाद एव तवोपयुज्यत इति भावः । तम् एवाभिव्यञ्जयन्ति—मा स्म इति । स्म इति प्रसिद्ध्या दृढीकरणम्। चिरात् आ बाधोदयात्, आ शरीर-ग्रहणाद् वा, धृतां नैश्चल्येन कृतां रत्य्-आशाम् इति पतिभिः सह तत्-सम्बन्धो निरस्तः । मा छिन्द्याः किन्तु सफलयेत्य् अर्थः । अन्यथा तच्-छेदेन तद्-एकावलम्ब-जीवानाम् अस्माकं सद्यो जीवन-च्छेदापत्तिर् इति भावः । धृताम् इत्य् अत्र हेतुः—हे अरविन्द-नेत्र ! इति परम-सुन्दर ! इत्य् अर्थः । अतोऽग्रेऽपि गास्यते—शरद्-उदाशये [भा।पु। १०.३१.२] इत्य्-आदि । यद् वा, अरविन्द-रूपकेण दृष्ट्येव सर्वेषां ताप-हारित्वादिकं ध्वनितम् । अतोऽस्मासु तद्-वैपरीत्यम् उक्तम् इति भावः ।

किं च, वरदेश्वर इति पूर्वं वस्त्र-हरणे दत्तो वरोऽपि स्मारितः । श्लेषेण वरद स्व-दत्त-वर-च्छेदक ! तच् च युक्तम् एवेत्य् आहुः—ईश्वर ! परम-स्वतन्त्र ! इति । एषा प्रणय-कोपोक्तिः । यद्यपि कृत-कात्यायनी-व्रताः कुमारीः प्रत्य् एव वरो दत्तोऽस्ति, तथापि "छत्रिणो गच्छन्ति" इत्य्-आदि-न्यायेन, अन्या अपि सख्येन साम्यात् गृहीताः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अहो महा-नागर ! कथञ्चिन् मुग्धा वा त्वां भजन्तु, वयं कथं त्वां न भजेम ? इत्य् आहुः—कुर्वन्ति इति । कुशला विदग्धाः, अतो विदग्धानाम् अस्माकं तैः किम् ? इत्य् अर्थः । विशेषतश् चास्मान् प्रति त्वया वरो दत्तोऽस्तीत्य् अभिप्रायेणाहुः—तद् इति । अन्यत् समानम्।

अनेन मातरः [२०] इत्य् अस्योत्तरं, तेषाम् आर्तिदत्वेनोपेक्ष्यत्वात् । यद् वा, पूर्वोक्तान्त्य-पक्षानुसारेण मरणम् एव द्रढयन्त्यः प्रार्थयन्ते—कुर्वन्ति इति । स्वे गो-लक्षण-धने आत्मा चित्तं यस्य, तत्-सम्बोधनम् । अलूक्-समासः । तेनावैदग्ध्यादिकम् अभिप्रेतम् । न विद्यते प्रियः कोऽपि यस्य, तस्मिन् अप्रिये त्वयि, इति हेतोर् आर्तिदैर् दुःख-च्छेदकैः पत्य्-आदिभिः सह वर्तमानाः कुशलाश् चतुरा अस्मादृश्यः किम् ? इति कुतो रतिं कुर्वन्ति ? अपि तु अस्थाने कर्तुं नार्हन्तीत्य् अर्थः । तद् अस्मान् प्रति मा प्रसीद, आशांछिन्द्याः, गां विन्दतीति गोविन्दवत् अरं परम-तीक्ष्णं प्रान्ते अङ्गतया विन्दति इत्य् अरविन्दं चक्रं, तद्वत् छेदके नेत्रे यस्येति । श्लेषेण परम-घातकत्वं च सूचितम् । एषा मुमुर्षया कोपोक्तिः ।

किं च, अरविन्दवत् रात्राव् अप्रकाशमाने नेत्रे यस्येति, अतः परम-सुन्दरीष्व् अप्य् अस्मास्व् अधुनोपेक्षा युक्तैवेति भावः । अतस् त्वया मातर [२०] इत्य्-आदिना यत् तेषाम् अपेक्षणम् उक्तम्, तद् युक्तम् एवेति । एवम् असूयाभ्युपगम-द्वारा तद्-उत्तरम् ऊह्यम् ।

श्लेषार्थश् चायम्—कुशला मङ्गल-रूपाः साध्व्य इति यावत्, नित्य-प्रियेआत्मनि निज-स्वरूपे विषये आर्ति-प्रदैर् अपि पत्य्-आदिभिर् हेतुभिः किं त्वयि रतिं कुर्वन्ति ? अपि तु नैव । तत् तस्मात्, हे वरद ! हे ईश्वर ! नः प्रसीदचिराद् वयम् अत्र मा स्म मा तिष्ठाम शीघ्रं गृह-गमनाय अनुज्ञां देहीत्य् अर्थः । त्वयि तु अयि इति च्छेदः । अयि अरविन्द-नेत्र ! अस्मद्-अङ्ग-सङ्गार्थं त्वया स्वयं धृतां तु आशां छिन्द्याश् छिन्दि । यद् वा, आशां व्रज-गमन-दिशं मा स्म छिन्द्याः, मा वर्त्म पातयेत्य् अर्थः । मा निह्नुष्व ।

ननु स्वयम् एव निरीक्ष्य गृहीध्वं, तत्राहुः——त्वयि धृतां, धृङ् अवस्थाने इत्य् अस्य त्वय्य् एव स्थितां त्वयाक्रान्ताम् इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं शास्त्र-बलेन पत्य्-आदौ शुश्रूषणं प्रत्याख्याय सदाचार-बलेनापि प्रत्याचक्षाणा, मातरः पितरः पुत्राः [२०] इत्य्-आदिना प्रपञ्चितं, तत्-स्नेह-निगडां विषयः परिहरन्ति—कुर्वन्ति हीत्य् अर्धकेन । हि प्रसिद्धौ । कुशलाः, य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः [भा।पु। १०.८.१८] इति श्री-गर्ग-वाक्यानुसारेण सारासार-विवेक-चतुराः, त्वयि नित्य-प्रिये स्वाभाविक-प्रेमास्पद-रूपे रतिं प्रीतिं कुर्वन्ति

इति तस्य स्वस्मिन् परस्मिंश् च सुखमय-स्फुरणम् अभिप्रेतं, पत्य्-आदीनां तद्-वैपरीत्यम् आहुः—स्वे आत्मीये आत्मन् आत्मनि च आर्तिदैः दुःख-प्रदैः तादृश-भगवद्-विमुखतापादकास्मन्-निवारण-तात्पर्यात् । अतस् तैः पत्य्-आदिभिर् अस्माकं किं प्रयोजनम्? स्व इति सर्वनामत्वेऽपि पूर्वादित्वेन स्मात्-स्मिनोर् विकल्पात् । तद् एवं प्रथम-दिक्-स्थिता, भक्ता भजस्व [३१] इत्य् उपक्रमानुरूपं विवक्षितम् उपसंहरन्ति । तत् तस्मात् नः अस्माकम् सम्बन्धे अस्मान् प्रतीत्य् अर्थः ।

प्रसादस्यैवावश्य-कार्यताभिप्रायेण व्यतिरेक-मुखेनाभिव्यञ्जयन्ति—मा स्म इति । चिरात् आ बोधोदयात् धृतां नैश्चल्येन कृताम् इति पतिभिः सह तत्-सम्बन्धो निरस्तः । मा छिन्द्याः, किन्तु सफलयेत्य् अर्थः । अन्यथा तच्-छेदेन तद्-एकालम्बन-जीवनानाम् अस्माकं सद्यो जीवन-च्छेदः स्याद् इति भावः ।

आशाम् एव विशेषेण व्यञ्जयन्ति—हे वरद ! कुमारीषु सङ्कल्पो विदित [भा।पु। १०.२२.२५] इत्य्-आदिना दत्त-वर-विशेष ! हे ईश्वर ! अन्यासाम् अपि दुर्घटं मन-आदि-घटनादि-विशेष-समर्थ इति । चिराद् धृताम् इत्य् अत्र हेतुः—हे अरविन्द-नेत्र ! इति । शरद्-उदाशय [भा।पु। १०.३१.२] इत्य्-आदि-वक्ष्यमाणात् । अरं चक्र-प्रान्तं तद् इव अरं, तत्-पत्राग्र-भागः हृदय-च्छेदकत्वेन तद् विन्दतीति तु संरम्भस्यान्त-स्थितेः ।

श्लेषश् च, अरविन्दवत् रात्राव् अप्रकाशमाने नेत्रे यस्येति । अतः परम-सुन्दरीष्व् अप्य् अस्मासु सम्प्रति तवोपेक्षा युक्तैवेति नर्म-द्योतना च । किं च, अरविन्द-रूपकेण दृष्ट्यापि सर्वेषां ताप-हारित्वं ध्वनितम् । अतोऽस्मासु तद्-वैपरीत्यम् अयुक्तम् इति भावः ।

ऐश्वर्यार्थस् तु—हि शास्त्र-प्रसिद्धौ कुशलाः श्री-नारदादयः रतिं भावं, न तु श्रद्धा-मात्रम् । तच् च योग्यम् इत्य् आहुः—नित्य-प्रिये । कुतो नित्यत्वं प्रियत्वं च ? तत्राहुः—स्वे आत्मनि अपि विषये । आत्मनि परमात्मनि इत्य् अर्थः, कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भा।पु। १०.१४.५५] इत्य्-उक्तेः । एतेन तस्य सुख-रूपत्वं च ध्वनितम् । अन्यथा निरुपाधि-प्रेमास्पदत्वं न स्यात् । अतोऽस्माकं पत्य्-आदिभिः किम् ? अपि तु न किञ्चित् प्रयोजनम् इत्य् अर्थः ।

ननु भवतीनां पत्य्-आदयोऽपि मादृशा नित्य-प्रिया एव ? नेत्य् आहुः—आर्तिदैः । तादृश-कुशल-वृन्दाभिलषितास्मदीय-भगवद्-भजन-विरोधिभिः किं ? हे वरदेश्वर ! इति वरदस्याव्यभिचारित्वं दर्शितम् इति । एवम् उत्तरत्राप्य् ऊह्यम् ।

निषेधार्थश् चायम्—ननु अहं तनु-भृतां प्रेष्ठश् [३२] चेत्, तर्हि स्व-स्वोचित-प्रेम-कर्तारस् त इव भवत्योऽपि स्वोचितं रत्य्-आख्यं भावम् एव मयि कुर्वताम् इत्य् आशङ्क्याहुः—कुशलाः मङ्गल-रूपाः साध्व्य इति यावत्, आर्तिदैः दुःखावखण्डकैः पत्य्-आदिभिर् हेतुभिः स्वे गृहादौ आत्मनिनित्य-प्रिये सति किं त्वयि रतिं कुर्वन्ति ? अपि तु न तत्र स्वादि-नाशापत्तेः । तत् तस्मात् हे वरद ! वाञ्छित-प्रद ! ईश्वर ! गोकुल-स्वामिन् ! नः प्रसीद । प्रसादम् एवाहुः—चिराद् वयम् अत्र माऽऽस्म न तिष्ठाम । अस्तेर् लुङि लङवत् प्रयोग आर्षः । शीघ्रं गृह-गमनायानुज्ञां देहीत्य् अर्थः । तथा त्वयि धृताम् अवस्थिताम् आशां चास्मद्-अङ्ग-सङ्गेच्छा-रूपां छिन्द्याः छिन्धि, धृञ् अवस्थाने इति । अत्र वरदेश्वर इत्य् अत्र "परमेश्वर" इति पाठोऽपि ईश्वरवत् सङ्गमनीयः । छिन्द्या इत्य् अत्र "छिन्द्यात्" इति पाठे तु भवान् इत्य् अध्याहार्यम् ॥३३॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथवा मद्-अभिस्नेहाद् [भा।पु। १०.२९.२३] इत्य्-आदिकं निराकुर्वन्ति—कुर्वन्ति हि इति । आर्तिं द्यन्ति छिन्दन्ति इति तादृशैः पत्य्-आदिभिर् हेतु-भूतैः स्वे आत्मनि देहादौ नित्य-प्रिये सति याः कुशला भवन्ति, ताः किं त्वयि रतिं कान्त-भावं कुर्वन्ति ? अपि तु नैवेत्य् अर्थः । तत् तस्मात् नोऽस्मभ्यं प्रसीद इमं दुराग्रहं त्यजेत्य् अर्थः । तत्र वरदेश्वर ! इति सोपलम्भं सम्बोधनम् । एष एव वरोऽस्मभ्यं दीयताम् इति बोधकम्।

तद् एव व्यञ्जयन्ति—त्वयि चिराद् धृता अवस्थिता या आशा तृष्णा, तां व्याप्य वयं मा स्म मा भवाम । तस्यां त्वन्-मनः-स्थितायां तृष्णायां वयम् उदासीना एव भवाम इत्य् अर्थः । ततस् तां छिन्द्या इति । अरविन्द-नेत्र ! इति । एतादृशेऽपि नेत्रे कौटिल्यं न युक्तम् इति भावः । मा\ऽ\ऽस्म इत्य् अस्तेर् मा-योगे लङि रूपम् । आशायाः कर्मत्वं च गो-दोहम् अस्तीतिवत् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : साध्व्यः खलु त्वय्य् एव रतिं कुर्वन्ति, नान्य-पतिषु नापत्यादिषु च । तस्माद् अयम् उपदेशो न कार्यः । नाप्य् अस्माकम् आशा छेद्येति रुदन्-मुख्यः काश्चिद् धीराधीरा आहुः—कुर्वन्ति हीत्य् आदि । कुशलाः कल्याण्यः । त्वयि हि त्वय्य् एव रतिं कुर्वन्ति । कीदृशे त्वयि ? आत्मन् आत्मनि । आत्मन्न् इति सम्बोधनं वा ।

पुनः कीदृशे ? नित्य-प्रिये नित्य-सुहृदि, तासाम् आर्तिदैः पति-सुतादिभिः किम् ? ताः पत्य्-अन्तरे सुतादौ च तुच्छ-बुद्धिम् एव कुर्वन्ति । अतः कुमार्य एव कुशलाः । यतस् त्वयि नित्य-प्रिये रतिं कुर्वाणाः पत्य्-अपत्यादि तुच्छीचक्रुः, त्वद्-इतरानङ्गीकारात् । तत् तस्मान् नोऽस्मभ्यं प्रसीद, मैवं ब्रूयाः । हे वरदेश्वर ! चिरात् त्वयि धृताम् आशां मा स्म छिन्द्याः । आशा-लता यथा फलवती, तथा हे अरविन्द-नेत्र ! प्रसीद इति पुनर् आवृत्तिः ।

अरविन्द-नेत्र इति सम्बोधनम् । रात्राव् अव्रविन्दस्य सङ्कोचान् मुद्रित-नेत्रता गम्यते, तेन कटु-भाषितं प्रसन्नया दृष्ट्या न कथ्यत इति लोक-व्यवहारात् । तथैव श्री-कृष्णेन च कथितम् इति गम्यते ॥३३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : किं च, आत्मारामाश् च मुनयः [भा।पु। १.७.११] इति मुक्ता अपि भजन्तो दृश्यन्ते । तत्र सद्-आचारं त्याजयित्वा पत्य्-आदि-शुश्रूषाम् उपदिश्यत इति कोऽयम् आग्रहः ? इति । मातरः पितरः पुत्रा [२०] इति तेषाम् आगमन-शङ्काम् उत्पादयता त्वया कथम् अस्मिन् निवारणं कार्यते ? वयं तु त्वद्-आश-हृदयाः सद्-आचार-प्रवृत्ति-दृष्टान्तेन दृढतरानुरक्ता वचन-मात्रेण कथं निवृत्ता भविष्यामः ? इत्य् आशयेनाहुः—कुर्वन्ति ईति ।

कुशला विवेचन-निपुणा नारदादयस् त्वयि रतिं प्रीतिं परमाराध्य-पुरस्कृतत्वेन कुर्वन्ति। कथं-भूते त्वयि ? आत्मनि लुप्त-सप्तम्य्-अन्तं स्वे सर्व-स्वरूपे । किं च, नित्य-प्रिये प्रीति-हेतुर् आद् (?) औदासीन्ये विद्यमानेऽपि त्यक्तुम् अनर्थ्य-स्वभाव-महिम्नान्तर-सुख-प्रदत्वात् ।

यद् वा, हे आत्मन् ! आत्मारामाणाम् अपि देहेन्द्रिय-मनसाम् अध्यक्ष ! यद् वा, कुशला विवेकवत्यो याज्ञिक-पत्न्यः त्वयि रतिम् उज्ज्वलस्य स्थायि-भावं कुर्वन्तिहि इति निश्चयम् । कीदृशे ? स्वे आत्मनि स्वकीये आत्मनि अन्तर्यामिणि स्वरूपे । तद् उक्तं श्री-मुखेन—साधवो हृदयं मह्यम् [भा।पु। ९.४.६८] इति । अत एव पत्य्-आदिषु शक्त्यैवान्तर्यामिनि मधुर-रसाधिकं कृतेषु स्वरूपेणेति । अत एव नित्य-प्रिये सर्वदा स्वाभाविक-परम-प्रेमास्पद-रूपे स्वरूपे नित्य्आर्तिदैस् तत्-प्रतिकूलैः पति-सुतादिभिः किम् ? कियत् सुखं भविष्यति ? न किञ्चिद् इत्य् अर्थः । न हि धर्मस्य हेतवो भावाः दुःख-प्रदाः प्रभवितुम् अर्हन्ति इति भावः। यद्य् एते दुःख-प्रदाः भवेयुः, तर्हि त्यागार्हा न स्युर् इति । यास् तु कुशला अविदग्धाः, ता एव पत्य्-आद्य्-अनुवृत्तिं कुर्वन्ति । आत्म-सुखानभिज्ञानां तद् एवोचितं, विदग्धानाम् अस्माकम् अग्रे पत्य्-आदि-सेवनोपदेशस् त्व् अकिञ्चित्करः, ऊषरे बीजोप्तम् इव निष्फलः ।

किं च, आत्मनो वै कामाय सर्वं प्रियं भवति [बृ।आ।उ। २.४.५] इति श्रुतेः । आत्म-कामा विषयत्वावसितेति । प्रियाः यत आर्ति-प्रदानां सेवा आर्ति-प्रदा, सुख-प्रदानां सेवा सुख-प्रदा। तव तु सुख-प्रदत्वात् त्वत्-सेवा सुख-रूपैवानुभव-सिद्धा ।

किं च, आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः [भा।पु। ११.७.२०] इति स्मृत्या स्वयम् एवात्मानुसन्धानवतीनाम् अस्माकं न गुरुणा कृत्यम् इत्य् अर्थः, सुख-दुःखाभावयोर् एव पुरुषार्थत्वात् । पत्य्-आदीनां सेवनं न सुखं, न च दुःखाभावः । अतस् त्व् अपुरुषार्थत्वान् नोपादेयत्वम् ।

किं च, कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भा।पु। १०.१४.५५] । अन्यच् च, तच् चात्मने प्रतिबिम्बस्य यथा मुख-श्रीः [भा।पु। ७.९.११] इति निर्धारितम् एव नोऽस्माकम् आर्तिदैर् अस्मिन् निवारणेन त्वयि प्रतिकूलैः किं प्रयोजनम् ? न किम् अपि । नोचितं किं पुनः सेवनम् इति । अत एव तेषु नात्म-सम्बन्ध-गन्धोऽपीत्य् अर्थः । तस्मात् नोऽस्माकं प्रसीद औदासीन्यं परित्यज्येति ।

स-काकु-दैन्यं ज्ञापयन्ति—हे वरद ! हे ईश्वर ! इति पद-द्वयम् । अन्यथा रमणे विलम्बो नास्मृति-पथम् अवतरति । इदानीम् एव कुमारी-सङ्गतत्वात् सर्वा अपि नो नर्मोक्त्या किम् इति व्याकुलयसीति । मयेमा रंस्यते क्षपाः [भा।पु। १०.२२.२७] इति कुमारीष्व् अपि प्रतिश्रुतम्, तत्-परिपालनेन प्रसीद कौटिल्यं त्यजेत्य् अर्थः । यत् त्वं वरदः ईश्वरः समर्थश् च ईशितव्यानां काम-सम्पादने ईश्वरत्वं न सिद्ध्येत् । वरदानां त्व् असम्भवे जनाभावः पर्यवस्येत्

नन्व् ईश्वरत्वेन मयि ज्ञाते सति यत्र कुत्र स्थिता मच्-चिन्तनं कार्यतां किम् अत्रावस्थानेन ? इति चेत्, तत्राहुः—हे अरविन्द-लोचन ! नेत्र-ताप-हर-विलोचन ! अयं भावः—अस्माकं सर्व-लावण्य-पुञ्ज-स्वरूपो भासि ईश्वरत्वं वैभवावस्थोपासकानां स्वरूपोपासकानां लावण्यम् एव विषयः, न त्व् ईश्वरत्वं प्रेमाभिभूतत्वात् क्वचिद् उक्तिम् उद्गारात् । नारायण-समो गुणैः [भा।पु। १०.८.१९] इति गर्गोक्त्या वा, दावाग्नि-पानाद्य्-अमानुष-कर्म-परिशीलनेन वा, परन्तु तत् ज्ञानं परोक्षम् इव भासते । तद् उक्तं,

गोप्यो हि नित्यम् उदित-हसित-प्रेक्षणं मुखम् ।

पश्यन्त्यो विविधास्व् आयास् तरन्ति स्म श्रमं मुदा ॥ इति ।

प्रत्यक्षे यथा चन्द्रे देवत्वम् अमृत-रूपत्वं च चकोरस्यामृत-रूपत्वं विषयं न देवत्वं, तथा श्री-कृष्णोऽपि, यद्यपि सर्वदा ताप-हर-विलोचनत्वेन प्रतीतः, तथापि दासीनां कथं ताप-कर-विलोचनत्वेन प्रतीयसे ? इदम् एव चित्रं यद् एव संयोगे शैत्य-हेतुः, तद् एव विप्रलम्भे ताप-हेतुर् इति प्रतीमः ।

यद् वा, वरदेश्वर ! वरदानाम् अस्माकम् ईश्वर व्रजेश्वर-पुत्रत्वात्, तदा कदम्बाधिरूढाय तुभ्यं वरो दत्तः, श्यामसुन्दर ते दास्यः करवाम तवोदितम् [भा।पु। १०.२२.१५] इति । अस्मत्-प्रतिश्रुतानन्तरं, मयेमाः रंस्यथ क्षपाः [भा।पु। १०.२२.२७] इति त्वयापि प्रतिश्रुतम् । तत्-प्रभृति ध्र्टाम् आशां त्वद्-अङ्ग-सङ्गेच्छाम् । ततोऽपि प्राक् पूर्व-जन्मनि श्रुति-रूपाभिर् अस्माभिः प्रार्थितः । चिकीर्षा-जनित-सातत्वया च वरो दत्तः । पुरा सारस्वते कल्पे व्रजे गोप्यो भविष्यथ इति । तत्-प्रभृति चिरात् धृञ् अवस्थाने इति धातो रूपं धृग्-अवस्थितां श्रावयितुम् अशक्यां भवान् इति शेषः ।

मा स्म छिन्द्याःस्म इति वितर्के । मा छिन्धि महा-काल-रूढ-ज्वाला-कराले क्षणम् अपि तद्वद् इहाग्नौ पतितं शरीरं सद्य एव भस्मीभूतं स्यात् । तद् एव यदि जीवित-हेतोर् आशा न स्याद् इति । तव प्रतिश्रुते आशा जाता, सा च बद्ध-मूला । इदानीं प्रतिश्रुताकरणे आशा छिन्ना भवेत् । अस्मच्-छरीर-पाते तव रमणं कुत्र भविष्यति ? इत्य् अभिप्रायः ।

किं च, देह-पातेऽप्य् अवश्यं त्वां प्राप्स्यामः । परं तु अमूर्तेनास्माकम् आत्मना मूर्तस्य रमणं कथं सम्भविष्यति, रमण-स्वभावत्वात् तव ? इति भावः ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काश्चित् तद्-अनुवादिन्यस् तम् एवोक्तम् अर्थं सद्-आचारेणापि द्रढयन्ति कुर्वन्ति इति कुशलाः

य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८]

इति गर्गोक्ति-विश्वासात्। चतुरा न च रतिं कुर्वन्ति इत्य् अपि वस्तुतो वाच्यं यतस् त्वयि रतिः स्वाभाविक्य् एव कुशलानाम् इत्य् आहुः । स्वे स्वीये इति त्वम् एव तेषां ममतास्पदम् आत्मनीति त्वम् एवाहन्तास्पदं चात एव नित्य-प्रिये इति प्रीतिर् अपि त्वयि नित्यैव, पति-सुतादिषु तु औपाधिकी, अत एवानित्या अस्माकं तु तेषु सापि नास्तीत्य् आहुः । आर्तिदैस् त्वद्-अभिसार-वारकत्वाद् दुःखदैः तत् तस्मान् नोऽस्मभ्यम् अस्मान् जीवयितुं प्रसीद । यदि वा अस्मान् अन्योढा मा जीवय । एताः अनूढास् त्वं किं रोदयसि ? इत्य् आहुः—हे वरद ! सङ्कल्पो विदितः साध्व्यः [भा।पु। १०.२२.२५] इत्य्-आदिना एताभ्यस् त्वं वरम् अदा एवेत्य् अर्थः ।

ननु, एतासु प्रसादे कात्यायन्य्-अर्चनम् एव कारणं, भवतीषु मत्-प्रसादे किं कारणम् ? तत्र निष्कारणम् एव प्रसीद इति स-काकु-प्रार्थनम् आहुः—हे ईश्वर ! स्व-चिकीर्षिते स्व-पर-तन्त्र । चिरात् बाल्यम् आरभ्य त्वयि धृताम् आशाम् आशा-कल्प-लतां सम्प्रति फलवतीं मा च्छिन्द्याः, फलवती लता हि सत्-पुरुषेण छेदं नार्हतीति चिराद् इति छिन्द्या इति पदाभ्यां द्योतितम् ।

एषा ह्य् आशा-लताप्य् अस्मन्-मनः-केदारिकायां त्वयैवारोपितेत्य् आहुः—हे अरविन्द-नेत्र ! अस्मद्-वयः-सन्ध्यारम्भे प्रथम-दर्शन-समये अरविन्द-तुल्याभ्यां नेत्राभ्यां त्वत्-प्रेषिताभ्याम् अस्मन्-नेत्र-रन्ध्रेषु प्रविश्य हृदय-क्षेत्रे भावाभिधानम् आशा-लता-बीजम् आहितम् इति ध्वनितम् । चक्षु-रागः प्रथमं चित्तासङ्गस् ततोऽथ सङ्कल्पः31 इति रस-शास्त्रोक्त-रीत्या सैवाशा-लता गुण-रूप-श्रवण-दर्शनादिना वर्धिता फलवती भुक्त-भुज्यमान-फलापि कठोरोक्ति-कुठारिकया कथम् अद्य छिद्यते ? विष-वृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुम् असाम्प्रतम् [शि।पु। २.३.१६.२२; पञ्चतन्त्र १.२६८, कु।सं। २.५५]32 इति न्यायं जानास्य् एवेत्य् अनुध्वनितम् ॥३३॥


॥ १०.२९.३४ ॥

चित्तं सुखेन भवतापहृतं गृहेषु

यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये ।

पादौ पदं न चलतस् तव पाद-मूलात्

यामः कथं व्रजम् अथो करवाम किं वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, प्रतियात [१०.२९.१९] इति यद् उक्तं, तद् अशक्यं, त्वयैव चित्तादीनाम् अपहृतत्वाद् इत्य् आहुः—चित्तम् इति । यद् अस्माकं चित्तम् एतावन्तं कालं सुखेन गृहेषु निर्विशति, तत् त्वया अपहृतम्कराव् अपि यौ गृह्य-कृत्ये निर्विशतः, ताव् अपि । सुखात्मना त्वयेति वा ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निवृत्तौ प्रयोजनाभाव-पूर्वकं साधनाभावम् आहुः—किं च इत्य्-आदिना । गृह-कृत्य-निष्पत्त्य्-अर्थं सुखार्थं च गृहे वासो भवति । तच् च सर्वं चेतसा भवति । तत् तु त्वयापहृतम् । तत् किं करिष्यामस् तत्र गत्वा ? इति प्रयोजनाभावः । यद् वा, भवता येन संसार-क्लेशेन हृतम् अपि यच् चित्तम् इति योज्यम् । गृहे भवं गृह्यं, तच् च तत् कृत्यम् इति तथा, तस्मिन् मार्जनोपलेपनादि-लक्षणे । कृत्यानां बहुत्वम् अपेक्ष्य चित्ते सन्तापो भवति । न सुखम् इत्य् अरुच्या विशिनष्टि—सुखात्मना सुख-रूपेण भवता इत्य् अस्य प्रतिपदं त्वया इति विशेष्यम् ।

पादयोर् अपि स्तम्भो जात इत्य् आहुः—पादाव् इति । गति-साधनाभावाद् गमनं कथं स्यात् ? इति भावः । अत्रायम् आशयः—त्वत्-काठिन्येनात्र स्थातुम् अपि न युज्यते । गन्तुं च न शक्यते । हा कष्टम् ! अधुना किं कार्यम् ? इति ॥३४॥


कैवल्य-दीपिका : एवम् अपि गमनादेशे गन्तुम् अपि न शक्यत इत्य् आहुः—चित्तम् इत्य्-आदि । सुखेन सुख-रूपेण । निर्विशति व्यापिपर्ति । उत अहो यौ करौ निर्विशतः, ताव् अपि हृतौ । आस्तां तावत् गृह-गमन-वार्ता । गृह-प्राप्तिर् अप्य् अशक्या इत्य् आहुः—अतः कथं यामः ? अतो न यामश् चेत् किं करवाम ? तव स्वीकारं विनेति भावः । करवाम इति सम्प्रश्ने लोट् ॥३४॥ [मु।फ। ११.२८]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : काश्चिन् मध्या धीरा आहुः—प्रियं सोत्प्रास-वक्रोक्त्या इत्य्-आदि पूर्वोक्तेः । सुखेन अनायासेनैव भवता हृतं यद् यस्माद् गृहेषु न निर्विशति । नहि धर्म-विदा परकीयं द्रव्यम् अपह्रियते, तत्रापि स्त्रीणां चित्तं हृत्वा, प्रतियात ततो गृहान् [२१] इति गृह-गमनं चोपदिश्यते । इयं ते धूर्तता, न केवलं चित्तम् अपहृतम्कराव् अपि हृतौ यतस् तव पाद-मूलात् गृह-कृत्ये न विशतः, त्वत्-पाद-मूल-लग्नौ पादयोः संवाहनं विना नान्यद् अभिलषत इत्य् अर्थः । चित्तं हृतं, करौ च हृतौ, तद् दृष्ट्वा पदौ च पादं न चलतः, अनयोस् तवान्यायं दृष्ट्वा स्तम्भो जातः । कथं व्रजं यामः? स्थित्वा वा तवौदासीन्य-कठिना वाचः कति श्रोतव्याः ? तर्हि मरणम् एव शरणम् इति भावः ॥३४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुखात्मकेन इति गृहादीनां दुःखात्मकत्वं ध्वनितम् । सुखेन सहितम् इति वा । पादौ यौ गृह-कृत्ये गतौ वा निर्विशतः, ताव् अप्य् अपहृतौ । अतस् तव पाद-मूलात् पदम् एकम् अपि न चलतः, गन्तुं न शक्नुत इत्य् अर्थः । करयोः पादयोश् चापहारस् तत्-तद्-इन्द्रिय-शक्त्य्-अपहारात् ।

यद् वा, ननु मिथ्या-वादिन्यः ! तर्हि कथम् अत्रागताः ? इति चेद्, अयुक्तं, तद्-गीतेनाकर्षणात्, न तु स्व-शक्तेः, अन्यथा अधुना गमनं सम्भवेत् ? इत्य् आहुः—पदम् इति । अर्थः स एव । अथो अस्माद् धेतोः कथं व्रजं यामः ?

ननु अबलाः ! मयैव कथञ्चित् प्रेष्यध्वम् ? तत्राहुः—किं करवाम ? इति । वा-शब्द उक्त-समुच्चये, कटाक्षे वा । यद् वा, अनुक्त-समुच्चये, ततश् च किं वा अनुसन्दधीमहि ? कुत्र वा याम इत्य् अर्थः । चित्तादीनां भवतापहृतत्वात् कर्मस्व् अप्रवृत्तेः । कथञ्चिच् छक्तौ सत्यां वा कर्मभिः प्रयोजनाभावाद् इति भावः । यद्यपि चित्तापहारेण सर्वेन्द्रियापहारोऽप्य् आयाति, तथापि विशेषतः कर-पादापहारोक्तिः पति-शुश्रूषणादि-गृह-कर्म-कृत्यस्यान्यत्र निज-गमनस्य च परिहाराय । अन्यत् तैर् व्याख्यातम् ।

यद् वा, गृहेश्वर्यस् तर्हि गृह-कृत्यम् अनासक्त्यैव क्रियताम् । तत्राहुः—कराव् अप्य् अपहृतौ गृह-सम्बन्धि-कृत्ये न निर्विशतः । ननु तर्हि तत्र गत्वा केवलम् अधिष्ठातृत्वेन स्थीयताम् । तत्राहुः—पादौभवतापहृतौचलतः इति । अन्यत् समानम् ।

अतस् त्वय्य् एव चित्तम्, त्वद्-अर्थ-कृत्य एव करौ, त्वत्-स्थान एव पादौ प्रविशन्ति, नान्यत्रेति च सूचितम् । यद् वा, भवः संसारः, तेन तापः, तेन हृतं नाशितम् अपि चित्तं लोकानां सुखेन अनायासेन, स्वत एवेत्य् अर्थः, गृहेषु निर्विशत्य् एव । कराव् अपि गृह-कृत्ये निर्विशत एव, अतः पति-शुश्रूषाद्य्-अर्थं तव प्रेरणयालम् इति भावः ।

ननु तत्त्व-वादिन्यः ! तर्हि गम्यताम् इति चेत्, तत्राहुः—पादौ इति । किन्तु त्वत्-काठिन्येनात्र स्थातुम् अपि न युज्यते, गन्तुं च न शक्यते । अहो बत ! अधुना किं कार्यम् ? इत्य् आर्त्या स-वैयग्र्यम् आहुः—किं करवाम इति । अनेन दृष्टं वनम् [२१] इत्य् अस्योत्तरम् । चित्ताद्य्-अपहारेण पुष्पादि-ग्रहणाद्य्-अशक्तेस् तद्-दर्शनस्यापि वैफल्यात्, किं तेन ? इति । द्वितीय-पक्षे च वन-दिदृक्षादौ सत्य् अपि पादापहरणाद् भ्रमणाशक्त्या सम्यग्-दर्शनासिद्देः किं तद्-दर्शनेन ? इति ।

श्लेषेण नर्मदम्—वनेऽस्माकं प्रयोजनाभावात् तद्-दर्शनार्थं नागताः स्मः, किन्तु चित्त-वित्तस्य भवतापहरणात् तद्-उद्देशेनात्रागताः । चोरं भवन्तम् प्राप्ता अपि ग्रहीतुं नेतुं च, तथा क्रोशनार्थं कुत्रापि गन्तुम् अपि न शक्नुमः, भवता कर-पादापहरणाद् इति भावः ।

श्लेषार्थश् चायम्—परतो वर्तमानस्य न-कारस्य सर्वत्रैवान्वयः । सुखात्मकेन अपि भवता यद्य् अस्माकं चित्तम् अपहृतं भवति, तस्माद् गृहे तन् निर्विशत्य् एव, यत् करौ पादाव् अपि अपहृतौ न भवतः, अतो गृह-सम्बन्धि-कृत्ये तौ तौ निर्विशत एव । अतः पदं निज-स्थानं व्रजं प्रति तौ चलत एव । अथो अतः कथं यामोऽन्यत्र ? कुतो वा करवाम त्वद्-उक्तिम् इति । इति तेन श्लेषोक्तं यमुना-तीर-गमनादिकं निरस्तम् ।

यद् वा, गृहेषु भवता उद्भवता सुखेनापहृतं चित्तं यद् यस्मात् गृह-कृत्ये निर्विशति, गृहेषु भवता सुखेन एव अपहृतौ कराव् अपि गृह्य-कृत्ये निर्विशतः, पदं निश्चितं यथा स्यात्, तथा पादाव् अपि तथा तस्माच् चलतो धर्म्याद् विचलतस् तव पाद-मूलात् कथं व्रजं न यामः ? किं वा करवाम ? इति ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु गृह-वास-सुख-रक्षार्थम् अपि न पत्य्-आदि-त्यागो विधेय इत्य् आशङ्क्य, तथापि तस्यैव दोषोट्टङ्कन-पूर्वकम् आहुः—चित्तम् इति । सुखेन सुख-रूपतया स्व-दर्शकेनेति तदानीं गृहादीनां दुःख-स्वरूपता-स्फूर्तिर् ध्वनिता । सुखेन सहितम् इति वा । पादौ यौ गृह-कृत्ये गमने वा निर्विशतः, ताव् अप्य् अपहृतौ । अतस् तव पाद-मूलात् पदम् एकम् अपि न चलतः, गन्तुं न शक्नुत इत्य् अर्थः । करयोः पादयोश् चापहारस् तत्-तद्-इन्द्रिय-शक्त्य्-अपहारात् । अत आगमनं च त्वद्-गीताकर्षण-मात्रेणेति भावः । अथो अस्माद् धेतोः कथं व्रजं यामः ?

ननु अबलाः ! एवं चेत्, अथैवाग्रे गच्छता सह गम्यताम् । तत्राहुः—तत्र गत्वा किं वा करवाम ? इति । वा-शब्दः समुच्चये । यद्यपि चित्तापहारेण सर्वेन्द्रियापहारोऽप्य् आयाति, तथापि विशेषतः कर-पादापहारोक्तिः पति-शुश्रूषणादि-गृह-कृत्यस्यान्यत्र निज-गमनस्य च परिहाराय । अन्यत् तैः ।

यद् वा, यच् चित्तं सुखे विषये वा पूर्वं स्थितं तद् भवतापहृतं सत्, उत अपि, प्रविशत्य् अपि । कुतस् तस्मिन् कृत्ये करादिकं प्रवेशयेत् ? इत्य् अर्थः ।

ननु गृहेश्वर्यः ! तथापि तद्-विचार-बलेन प्रवेश्यतां, तत्राहुः—कराव् अप्य् अपहृतौ **गृह-**सम्बन्धि कृत्ये न निर्विशतः

ननु तथाप्य् अत्र तु स्थातुम् अयुक्तम् इति गच्छतैव, तत्राहुः—पादौभवतापहृतौ स्वाभिमुख्येनाकृष्टौ पदम् अपि न चलत इति । अन्यत् समानम् ।

अतस् त्वय्य् एव चित्तं, त्वद्-अर्थ-कृत्य एव करौ, त्वत्-स्थान एव पादौ प्रविशन्ति, नान्यत्रेति सूचितम् ।

अत्र नर्मेदम् । वनेऽस्माकं प्रयोजनाभावात् तद्-दर्शनार्थं नागताः स्मः, चित्त-वित्तस्य भवतापहरणात् तद्-उद्देशेनात्रागताश् चौरं भवन्तं प्राप्ता अपि ग्रहीतुं नेतुं च तथा क्रोशनार्थं कुत्रापि गन्तुम् अपि न शक्नुमः, भवता कर-पादापहरणात् । अतो हृत-धनाः कथं व्रजं यामः ? किं वा करवामः ? स्तम्भनादि-महा-मन्त्रज्ञ-चोर-वरे कस्याप्य् उपायस्याप्रभावाद् इति भावः ।

निषेधार्थश् चायम्—ननु वेणु-गीतेन मया गृहाद् आकृष्टाः सुष्ठु भ्रान्ताश् च कथं गन्तुं शक्नुथ ? तत्राहुः—गृहेषु भवता उद्भवता सुखेन अपहृतं चित्तं यत् यस्मात् गृह-कृत्ये निर्विशति । यद् वा, चित्तं सुख एव, तु भवतापहृतं, यस्मात् गृहेषु निर्विशति एव । कराव् अपि गृह्य-कृत्ये निर्विशतः । परिश्रान्तत्वम् आशङ्क्याहुः—पादौ पदम् अपि कथं न चलतः ? अपि तु दूरम् अपि चलत एव । ततः कथं न यामः, अपि तु याम एव । अत्र च किं करवाम ? इति ॥३४॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : श्रवणाद् दर्शनाद् [भा।पु। १०.२९.२७] इत्य्-आदि-सूचितं निज-भाव-जन्मापलपन्ति—चित्तम् इति । नोऽस्माकं चित्तं सुख एव वर्तते, न तु भवता तस्माद् अपहृतम् । यस्माद् गृहेषु निर्विशति । तत्र चिह्नं कराव् अपि गृह-कृत्यार्थं निर्विशत इति । यद् उक्तं सुमध्यमा [१९] इति तत्राहुः—पादौ कथं तव पाद-मूलात् पदम् अपि न चलतः । ततः कथं व्रजं न यामः ? अपि तु याम एवेत्य् अर्थः । यत् तूक्तं व्रजं प्रति न यात किं त्व् इहैव स्थीयताम् [१९] इति तत्राहुः—करवाम किं वा ? इति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वयं तवाज्ञा-भङ्ग-कारिण्यो न भवामः । तेन गन्तुं च शक्यते । किन्तु तवैव दोषात् तन् न घटत इति पुनर् अतिविदग्धा मध्या-धीरा आहुः—चित्तं सुखेन इत्य्-आदि । चित्तं भवता सुखेनापहृतम् अनायासेन चोरितम्, न तु चोरान्तरेण त्वत्-प्रयत्न-विशेषेण, यच् चित्तं गृहेषु निर्विशति, अतश् चित्ताभावात् तन् न भवति । किम् अस्माकं दूषणम् ? तर्हि चित्तं दीयत् ।

स-चित्ताः सत्यो गृहं व्रजतेत्य् आशङ्क्याहुः—उत विस्मये । कराव् अपि गृह्य-कृत्ये न निरिव्शतः । अतः परं त्वत्-सेवायाम् एव करौ निर्विशतः, न गृह्य-कृत्य इत्य् अर्थः । तेन तत्र गत्वैव किं प्रयोजनम् ?

ननु, तथापि मद्-अज्ञातो यात, वरं गृह-कृत्यं मा कार्षम् इत्य् आशङ्क्याहुः—पादाव् इति । तव पाद-मूलात् चरण-समीपात् पदम् अपि पादौ न चलतः । तयोः स्तम्भो जातः । कथं याम इत्य् आहुः—यामः कथम् ? इति । न गत्वा किं करिष्यथेत्य् आहुः—करवाम किं वा ? तद् एव न विद्महे, किं वा करिष्यामः ?

अथवा, यच् चित्तं गृहेषु निर्विशति, तद् भवतापहृतम् । संसार-ताप-तप्तम् अस्माकं तु चित्तं भवतापहृतम् । अतो गृहेषु सुखे सुख-निमित्तं न निर्विशति । सर्वम् अन्यत् समम् ॥३४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु मद्-आज्ञोल्लङ्घनेनेहावस्थाने महद् अनिष्टं स्यात् । ततो यद् वह्निना भव [?] दर्शनार्थम् आगतानां भवतीनां गृह-गमनम् एवोचितम् इति चेत्, तत्राहुः अशक्यत्वात् त्वद्-अधीनम् इति चित्तम् इति । भवद्-दर्शनात् प्राक् चित्तं गृहेषु गृह-कृत्येषु निविष्टम् आसीत् । तच् चित्तं सुखेन स्वरूपेण भवतापहृतम् । यद् वा, सुखेन गृह-सुखेन सह अपहृतं सुखम् अपहृतम् एव । अतो दुःखात्मकत्वाद् गृहास् त्यक्ताः ।

किं च, भवन्त्यः वन-दर्शनार्थम् आगताः, तद् अपि च जातं, दर्शन-व्यापारस्य चित्ताधीनत्वात् । एतावत्-पर्यन्तम् [करौ] एवापि गृह-कृत्ये निविष्टौ, अस्तां, तयोर् अपि कर्म-करण-सामर्थ्यस्य त्वयैवापहृतत्वाद् इदानीं गृह-कृत्ये न निविशतः । एतावत्-पर्यन्तं पादाव् अपि इतस् ततो गमने निविष्टौ, आस्तां, ताव् अपि गमने [न?] निविशतः, तयोर् अपि गतेस् त्वयैवापहृतम् । पादौ पदं स्वकीयं स्थानं प्रति न चलतः । तव पाद-मूलाद् व्रजं कथं यामः ? अथ येन केनाप्य् अमानेन (?) गत्वा किं करवामः ? करयोः पादयोश् च शून्यत्वात् ।

यद् वा, तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः [भा।पु। १०.२९.२२] इति तदेदम् अप्य् अशक्यम् इत्य् आहुः—तच् चित्तं भवद्-अपहारात् प्राक् सुखेन यत्नेन गृहे तत्-तद्-व्यापारेषु निविष्टम् आसीत्, तच् चेतनापहारिणा भवतापहृतम्, इदानीं न निर्विशति । स्याम सुन्दर ते दास्यः करवाम तवोदितम् [भा।पु। १०.२२.१२] इति प्रतिश्रुतं दास्यः सत्यो वो\ऽस्माभिः क्रिये, तद् अपि चित्तम् अपहृतं न भवेत्, शून्य-चित्तासु तव योगस्य अकिञ्चित्करत्वात्, किञ्चित् पत्य्-आदि-शुश्रूषा कराधीना तयोर् अपि क्रिया-शक्तेस् त्वयैवापहृतत्वात्, क्रिया-शक्तिम् अन्तरेण पत्य्-आदि-सेवनस्याशक्यत्वात् न तु न किञ्चिन् नियुज्यते ।

इतो व्रजं यात इति तत्राहुः—पादौ इतः तेपाद-मूल-स्थानात् एकम् अपि पदं न चलतः, गमनम् अप्य् अशक्यं, न दूरतः कर्म करणम् इत्य् अर्थः । गतिम् अन्तरेण पादयोर् विद्यमानत्वेन यदि गमनं सम्भाव्यते, तदा पादपानाम् अपि गमनं सम्भवेत्, तेषाम् अपि पदानां विद्यमानत्वात् ।

अयं भावः—इयं लीला निरोधात्मिका । व्रज-देवीनां चित्तं स्वयम् आकृष्य स्व-चित्ते निवेशितं क्षीर-नीरवद् आश्लिष्टम् । ततो निष्काशयितुम् अशक्यम् । चित्तम् इति सर्वेन्द्रियोपलक्षणम् । अतः सर्वस्वम् अपहृत्य प्रस्थानं नर्मणैवेति ।

ननु वेणु-नादात्मकेन महा-मोहन-मन्त्रेणास्मान् वने आहूय किम् इति विडम्बयसि ? इति मनसि निधायाहुः—चित्तं सुखेन रमण-सुखेन निमित्तेन भवतापहृतम् । अत एव तव गृहेषु कुञ्जादि-मन्दिरेषु यस्मात् निविशति रन्तुं प्रविशति, कराव् अपि गृह्य-कृत्येषु पुष्प-शय्यादि-रचनासु निर्विशतः, पत्य्-आदि-शुश्रूषणस्य त्यक्तत्वात् । पादौ तव पाद-मूलाद् अन्य-पदं स्थानं प्रति न चलतः, इहैवावस्थानाध्यवसायस्य कृतत्वात् । तव चरणेन सह नृत्यं करिष्यतः । तस्मात् व्रजं कथं यामः ? किम्-अर्थं यामः ? न किञ्चिद् अपि, व्रजस्य त्यक्तत्वात् । अन्यथा वान्ताशिन्यो भवेम । अथो\ऽस्माकम् अध्यवसायं ज्ञात्वा विलासोपयोगिनी-कृत्ये नियुङ्क्ष्वेति । किं च, अभीष्टं करवाम इति दासीभवितुम् आगता विद्धि ।

यद् वा, चित्ताद्य् अपहृत्य व्रज-प्रस्थापने कृते सति तव किम् अभीष्टं भविष्यति ? अस्मद्-अवस्था-दर्शनेन पत्य्-आदिभिः पृष्टाः किं वदिष्यामः ? अतः किं दास्यं करवाम ? इति स्वीकृते\ऽस्मान् नियुङ्क्ष्वेति भावः ।

यद् वा, तद् यात इति यदि सर्वात्म-भावेन व्रज-गमनं प्रत्य् अनुज्ञा दीयते, तर्हि अस्माकं यच् चित्ताद्य् अपहृतं, तत् पुनः प्रत्यर्पयेति । तच् च तवाशक्यं, यथा नीर-क्षीरं तद् एव पृथक् कर्तुं न शक्यम्, तथास्मच्-चित्ताद्य् अपहृत्य स्व-चित्तादिष्व् एकीकृतं, पुनः पृथक्कृत्य तस्य प्रत्यर्पणं तवाशक्यम् इति । तथा व्रज-गमनम् अस्माकम् अपीति ॥३४।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यास् तु स्वीय-प्रेमाणं सरसं द्योतयन्त्यो भोश् चौर-चक्रवर्तिन् ! न वयम् अन्यार्थम् आगताः, किन्तु त्वया चोरितं प्रतिस्वं धनम् एव जिघृक्षव इत्य् आहुः, चित्तं भवता अपहृतम् । न च तत्रान्य-चोरस्येव तव कोऽप्य् अधिकः प्रयत्नोऽभूद् इत्य् आहुः—सुखेन इति । वेणु-रन्ध्रेषु फुत्कार-मात्रेणैवेत्य् अर्थः ।

न च तच् चित्त-धनम् अस्माकम् अल्पतरम् इत्य् आहुः—यच् चित्तं गृहेषु सर्वेष्व् एव निःशेषेण विशति, अतस् तद्-अपहारेण त्वयास्माकं चित्ताभावात् तानि ज्वलन्तु समृद्ध्यन्तु वा, किम् अस्माकं तैः ? इत्य् अनुध्वनितम् । अतिशयोक्त्या गृहेषु श्रोत्रादीन्द्रियेषु तत्-तत्-साफल्यार्थं यत् निर्विशति, यद् विना सर्वेन्द्रियाण्य् अपि विफलीभवन्तीति भावः । अतश् चित्तापहाराद् एव सर्वेन्द्रियाण्य् अपि त्वया अपहृतानीत्य् आहुः । कराव् अपि यौ गृह-कृत्येषु निर्विशतः । ते तु नेत्रे श्रोत्रे अपि एतानि सर्वाण्य् अप्य् अपहृतानीत्य् अर्थः ।

ननु, भो अद्य तावद् गच्छत श्वः पर-श्वो वा विविच्य वश् चित्तं दास्यामीति तत्राहुः—पादाव् अस्माकं पदम् एकम् अपि न चलतः यद् विनेत्य् अर्थः । अतश् चित्तं देहि, तत एव याम इति भावः ॥३४॥


॥ १०.२९.३५ ॥

सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण

हासावलोक-कल-गीतज-हृच्-छयाग्निम् ।

नो चेद् वयं विरहजाग्न्य्-उपयुक्त-देहा

ध्यानेन याम पदयोः पदवीं सखे ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः अङ्ग ! हे कृष्ण ! नोऽस्माकं तवाधरामृत-पूरकेण तवैव हास-सहितेन अवलोकेन कल-गीतेनजातो यो हृच्-छयाग्निः कामाग्निः, तं सिञ्चनो चेद् अयं तावद् एकोऽग्निः, तथा विरहात् जनिष्यते योऽग्निः, तेन च उपयुक्त-देहा दग्ध-शरीरा योगिन इव ते पदवीम् अन्तिकं ध्यानेन याम प्राप्नुयामः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाभीष्टं निवेदयन्त्य आहुः—सिञ्च इति । यतस् त्वया वयं सर्व-व्यवहार-साधनापहारेणासमर्थाः कृताः । अतस् त्वम् एव नः कामाग्निं निर्वापयेत्य् आहुः । **कल-गीत-**पदं पूर्वं व्याख्यातम् । यद् वा, कल-गीतेन मधुर-गानेन हृच्-छय एव सन्ताप-जनकत्व-साम्याद् अग्निर् हृच्-छयाग्निः, तम् । अधर-निष्ठामृत-प्रवाहेण सिञ्च निर्वापय । नो चेद् अन्यथा । तावद् अधुना । तेन द्वितीयेन च । पदवीं सामीप्यम्, पदवी निकटे मार्गे विष्णौ च पाद-रक्षके इति शाश्वतः । "अन्ते या मतिः सा गतिः" इति न्यायेन वयं तु त्वां प्राप्स्याम एव। हस्ताव् एव मर्दयतस् तव शाठ्य-मात्रं स्त्री-वध-मात्रं चावशेक्ष्यतीति भावः । दृष्टान्तो\ऽत्र दीक्षित-पत्नी ॥३५॥


कैवल्य-दीपिका : तस्माद् अयम् अस्मत् प्रणयो मान्य इत्य् आहुः—सिञ्चाङ्ग इति । अङ्ग अहो ! अमृतं सुधा पूरकः प्रवाहो हृच्छयाग्निं कामाग्निम् । हासादिभिर् इन्धनैर् उद्दीपितम् । कलं मधुरम् । अधर-सुधां पाययस्वेत्य् अर्थः । नो चेन् न सिञ्चसि चेत्, तत्राहुः—उपयुक्तं दग्धं शाब्द्य-मात्रं तवावशेक्ष्यति । वयं तु तत्-पाद-सन्निकृष्टा भविष्याम एवेत्य् अर्थः ॥३५॥ [मु।फ। ११.२९]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मरणम् एव शरणम् इति निश्चित्य मध्या आहुः—सिञ्चाङ्ग न इत्य्-आदि । हे हासावलोक ! हासेन सहितो\ऽवलोको यस्य, हे तथाभूत ! कल-गीतेन जनितो यो हृच्-छयाग्निस् तं सिञ्च निर्वापय । हृदि शेते इति हृच्-छयो मनोरथः । स एवाधुनाग्निर् अभूत्, दाहकत्वात् । केन सेकः ? तत्राह—त्वद्-अधरामृत-पूरकेण

ननु तेन सेके स तु वर्धिष्यते ? वैद्युतस्याग्नेर् वर्षा-जलेन सेको हि वर्धापक एव, न तु तच्-छामन इति प्रसिद्धिर् इति चेद् वर्धतां नाम । त्वद्-अधरामृत-सिक्त-हृच्-छयाग्निना वयं न दह्यामहे, विरहानिना दह्यामह इत्य् आहुः—नो चेद् इत्य्-आदि । नो चेद् यदि न सिच्यते, तदा विरहजाग्न्य्-उपयुक्त-देहाः सत्यस् तव ध्यानेन तव पादयोः पदवीम् अन्तिकं याम गच्छेम इत्य् आक्षेपयेत्य् अर्थः । ध्यानेनेत्य् अस्यायम् अर्थः—मरणे या मतिः, सा गतिर् इति ॥३५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सिञ्च निर्वापयेत्य् अर्थः । जल-प्रवाहेण अग्निम् इवेति रूपकतो ज्ञेयम् । आदौ क्रिया-निर्देशः परमार्ति-वैयाग्र्येण । इत्य् अस्य हृच्छयाग्निना समासान्तः प्रविष्टेनापि सम्बन्धः । त्वच्-छब्दस् त्वया जनिताग्नेस् त्वयैव निर्वापणं सम्भवेद् इति विवक्षया पूर-शब्देन अग्नेर् महत्तापि ध्वनिता । अन्यथा अल्पेनैव जलेन निर्वापण-सिद्ध्या पूरकेण इत्य् अनुपयोगः । स्वार्थे कः ।

हासादीनां क्रमेण धृतेन्धन-वातत्वं ध्वनितम्। हृदि शेते वसतीति हृच्-छयः कामः । अतस् तन्-निवर्तकौषधस्याप्य् अन्तः-प्रवेशनापेक्षया अधरामृत-पूरस्य पानं, तथानन्य-प्रतिकार्यत्वं च सूचितम् ।

यद्यपि नायिकानां नायके सम्भोग-प्रार्थनं व्यङ्ग्यतयैवोपयुज्यते, न तु साक्षाद् व्यक्ततया, तथापि लोकोत्तर-प्रौढानुरागाणां तासां परमार्ति-भरेण विचारापगमात् तन् नात्र विरुध्यते ।

यद् वा, त्वद्-अधरामृत-पूरकेण त्वद्-अधरामृतेन वर्णमयताम् इव गतेन श्रोतृ-जनान् पूरयति आप्यायतीति त्वद्-अधरामृत-पूरकं वचनं, तेन हृच्-छयाग्निं हृदय-वर्ति सन्तापं सिञ्च नाशयेति वचनामृतेनास्माकं तापं नाशयेत्य् अर्थः । नो चेत्, यदि न सिञ्चसि, ध्यानेन इति "मरणे या मतिः सा गतिः" इत्य्-आदि न्यायेन निजेष्ट-सिद्धौ परमोत्कण्ठया साधन-विशेष उक्तः । याम इति सम्भावनायाम्, प्राप्स्याम वेत्य् अर्थः । तत्र चासम्भावना त्वत्-सख्य-प्रभावेन नास्तीत्य् आशयेन सम्बोधयन्ति—सख इति । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, त्वत्-पादयोर् एव ध्यानेन चिन्तया यो विरहाग्निः, तेन उपयुक्त-देहाः । तत्र ध्यानेन इति विरहाग्नेर् अधिकोद्दीपने साधनम् । यद् वा, विरहजाग्न्य्-उपयुक्त-देहानां गोपीनाम् एव ध्यानेन पदयोः पदवीम् अन्तिकं नित्यात्यन्त-संयोगम् इत्य् अर्थः । याम यास्याम एव । अतः शाठ्य-मात्रं च स्त्री-वध-मात्रं च तवावशेक्ष्यति । वयं तु त्वत्-संयोगम् अवश्यं प्राप्स्याम एवेति ।

यद् वा, विरहजाग्न्य्-उपयुक्त-देहा अपि पदयोः पदवीं मोक्ष इत्य् अर्थः । याम इति प्रार्थना । ननु, कथं मद्-भक्तानां मोक्षः स्यात् ? तत्राहुः—ध्यानेन मोक्षस्यैव चिन्तया वाञ्छयेत्य् अर्थः । ननु, तथापि नासौ वो घटेत, तत्राहुः—सखे इति । सख्येनेदम् एव हितं नः क्रियताम् इत्य् अर्थः । इति महार्त्यात्यन्ताभाव-प्रार्थनम्, मोक्षस्यात्यन्ताभावताश्री-भागवतामृतोत्तर-खण्डे विवृतैव ।

यद् वा, ध्यानेन पदवीं वैकुण्ठाख्य-पदं तां याम इति कदाचिद् भक्तादीनां केनचिद् दुःखेन मोक्षादि-प्रार्थनम् इव वृन्दावन-विहारैक-प्रियाणां तासां श्री-वैकुण्ठ-लोक-प्रार्थनम् अपि दुख-भराद् एव ।

यद् वा, ध्यान-विषयं या विरहजाग्न्य्-उपयुक्त-देहा गोप्यः, ता अपि भवत्-पदाब्जान्तिकं नयामः, प्रापयिष्यामः, किम् उतात्मनः ? इत्य् अर्थः । इयं प्रेम-मदोक्तिः । किं वा, नयाम इति सख्येन प्रार्थनम् एव ।

यद् वा, तव पदयोर् ध्यानेन विरहजाग्न्य्-उपयुक्त-देहा या गोप्यः, तासां पदवीं याम मरिष्याम इत्य् अर्थः । ततस् त्वम् अप्य् अनुतप्स्यस इत्य् अभिप्रेत्याहुः—सख इति । तासां तेनैव देहेन रास-क्रीडा-प्राप्ति-पक्षे च पत्य्-आदिभिर् बद्धत्वात् तन्-मोचनार्थ-ध्यानाच् च, क्षणं तासाम् अनागमनेनान्त्य-दशा-मननाद् इति दिक् ।

यद् वा, ध्यानेनापि तव पादयोर् अन्तिकं यास्यामः किं ? काक्वा । अपि तु त्वया पश्चात् प्रार्थिता अपि न यास्याम एवेति । किं वा, सर्व-सामग्री-युक्ते\ऽस्मिन् जन्मनि तद्-असिद्ध्या परस्मिन् तस्यासम्भाव्यत्वाद् इति भावः ।

यद् वा, जन्मान्तरे ध्यानेनापि ते पदयोर् अन्तिकं मार्गम् अपि न याम इति प्रेमार्ति-भरेण प्रार्थनम् । तत्र च सखीत्वेनैव इत्य् आशयेन सम्बोधयन्ति—सखे इति । अलम् अतिविस्तरेण, अनेन तद् यात इत्य् अस्योत्तरम् । हृच्-छयाग्नि-निर्वाणे सति यत्नाद् यातुम् अपि शक्नुमः । अन्यथा च मरिष्याम एवेति । किं तत्र यानादिना ? इति ।

श्लेषार्थः—अङ्ग ! हे महा-लम्पट ! नः अस्माकं हासावलोक-कल-गीतेन सहजेन जातो यस् तव हृच्-छयाग्निः, तं त्वद्-अधरामृत-पूरकेण एव सिञ्च । अस्माकं मध्ये सा काचिन् नास्त्य् एव, यस्या अधरामृतेन स्व-कामाग्निं सेक्ष्यतीत्य् अर्थः । इति स्व-वर्ग्याणां सर्वथा नैरपेक्ष्यं सूचितम् ।

अथ च स्वाभीष्ट-परम-मधुर-वस्तुनि दुर्लभे सति लुब्धैः स्वस्यैवाधर-पुटी लिह्यते इति परिहास-भङ्गी व्यङ्ग्या—नो चेत् यद्य् एवम् अश्रुत्वा दुराग्रहान् न विरतो\ऽसि, तदा वयं स्व-पति-विरहजाग्न्य्-उपयुक्त-देहा वयं भवेम, वरं म्रियेमहीत्य् अर्थः । तथापि सखे सेन्द्रिये ध्याने चिन्तने\ऽपि तव पदयोः पदवीम् अपि न याम न यास्याम इत्य् अर्थः॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं द्वितीय-दिक्-स्थिता अपि पुनर् आशाम् एवोत्कण्ठा स्फुटम् एव वदन्त्यस् तत्-पूर्तेर् अप्य् अवश्यम्-भावितां प्रौढ्या निर्दिशन्त्यस् तद्-आपात-प्रत्याख्यानेन त्वयि दोष-मात्रं पर्यवस्यतीति रीत्या विवक्षितम् उपसंहरन्ति—सिञ्च इति निर्वापयेत्य् अर्थः । आदौ क्रिया-निर्देशः परमार्ति-वैयाग्र्येण नः इत्य् अस्य हृच्-छयाग्निनैव सम्बन्धः । तत्-पुरुषस्योत्तर-पद-प्रधानत्वात् हासस्य सम्बन्धि-पदं तवेत्य् एव लभ्यते प्रकरण-बलात्, विनापि **त्वच्-**छब्दम् अर्थ-बोधे सति तन्-निर्देशस् त्वया जनिताग्नेस् त्वयैव निर्वापणं युक्तम् इति विवक्षया पूर-शब्देनाग्नेर् महत्त्वम् अपि ध्वनितं, स्वार्थे कः ।

हासावलोक-कल-गीतयोः क्रमेण धृत-वातत्वं ध्वनितम् । हृदि शेते वसतीति हृच्-छयः कामः, अतस् तन्-निवर्तनौषधस्याप्य् अन्तः-प्रवेशनापेक्षया अधरामृत-पूरस्य पानं, तथानन्य-प्रतिकार्यत्वं च सूचितम् ।

इदं च सम्भोगस्य साक्षात् प्रार्थनं तदीय-वेणु-तनु-माधुर्य-मधु-मत्त-चित्तानां लोकोत्तर-प्रौढानुरागार्ति-नर्तित-महोत्कण्ठावगुण्ठितानां रसेनापि न विरुद्ध्यते, निषेधार्थाच् छन्नतयैवोक्तत्वात् तु नितराम् इति । व्यतिरेकेण तद् एव दृढयन्ति—नो चेद् इति । यदि न सिञ्चसि, तदापि ध्यानेन इति "मरणे या मतिः सा गतिः" इत्य्-आदि-न्यायेन याम सम्प्रत्य् एव प्राप्स्याम इत्य् अर्थः । प्राप्त-काले लोट् । तत्र च, सखे ! इति सम्बोध्य स्वेषु स्नेहम् उद्बोधयन्ति । अत्रान्वय-क्रमेणाभिप्रायाश् चैते ।

ननु, हासादिज-हृच्-छयाग्नि-सेकं साधनं मम जल-भाजनम् अत्र किम् इव दृश्यते ? इति परिहासम् आशङ्क्याहुः—अमृत- इति । अमृतेनैव तत् सिक्तं स्यात्, न तु जलादिना । तत्रापि तस्य पूरेण, न तु यत्-किञ्चिन्-मात्रेण । स्वार्थे कन् । तेनैवेत्य् अर्थः ।

ननु, तद् अपि दुर्लभं, कुत्र लप्स्ये ? तत्रापि तस्य पूरस्य अत्यन्तासम्भव इत्य् आशङ्क्य कथम् इदं गोपयसीत्य् आहुः—त्वद्-अधर- इति । अहो नान्येन अमृतेन तच्-छान्तिः स्यात्, किन्तु त्वद्-अधर-सम्बन्धिनैव । तत्रापि तस्याग्नेर् अत्यन्त-वृद्धेर् युवती-कोटिभिर् अप्य् अपरिसमाप्येन तत्-पूरेणैवेति महा-तृष्णा सूचिता । एवम् अग्रे वक्ष्यमाणस्यामृतस्य च परम-वैलक्षण्यम् ।

ननु, ध्यानेन याम इति झटिति देह-त्यागं सूचयन्तीनां भवतीनां तत्-साधनं च दृश्यते। तत्राहुः—विरह- इति । "अये ! अन्या इव किं वयम् अनुराग-हीनाः, येन बाह्यम् अग्न्य्-आदिकं तत्-साधनं मृगयामः ? किन्त्व् अन्तर् एव स्वत एव तद् उदेष्यति" इति भावः । अन्यत् तैः।

यद् वा, एवं विवक्षितम् उपसंहरन्त्यः, ननु दुर्घटे\ऽस्मिन्न् अर्थे कथम् अतित्वरयथ? इत्य् आशङ्क्यातिदुःखात् दुर्घटत्वम् एव सत्यम् इत्य् आहुः—नो चेद् इति । ध्याने\ऽपि एव याम, यतः विरहजाग्नेर् एव उपयुक्ता उचिता देहाः, न तु संयोगामृत-योग्या यासां ताः । अधुनात्र तद्-असिद्ध्या कालान्तरे\ऽपि जन्मान्तरे\ऽपि विरहस्यैव निश्चितत्वाद् इति भावः । सखे इति तस्यापि तत्र भावि-दुःखं दर्शयन्ति ।

यद् वा, झटिति तत्-प्राप्त्य्-अभावेन देह-त्यागं सूचयन्त्य आहुः—जन्मान्तरे\ऽपि ध्यानेन अपि ते पदयोर् अन्तिकं मार्गम् अपि वा याम इति प्रार्थनम् । तत्र च सखीत्वेनैवेत्य् आशयेन सम्बोधयन्ति—सखे इति । अनेन सुमध्यमा [१९] इत्य् अस्योत्तरं भवद्-आशयेदृश-सद्-गुण-देहो\ऽपि त्याज्यः, त्यक्ते\ऽपि तस्मिन् भवान् न त्याज्य इति श्लोक-द्वयम् इदम् ऐश्वर्यमयार्थे\ऽपि प्रायः समानम् ।

निषेधार्थश् चायं—तस्माद् अङ्ग ! हे महा-लम्पट ! नः अस्माकं हासावलोक-कल-गीतेन सहजेन जातो यस् तव हृच्-छयाग्निः, तं त्वद्-अधरामृत-पूरकेण एव सिञ्च । अस्माकं मध्ये सा काचिन् नास्त्य् एव, यस्या अधरामृतेन स्व-कामाग्निं सेक्ष्यतीत्य् अर्थः । इति स्व-वर्ग्याणां सर्वथा नैरपेक्ष्यं सूचितम् ।

अथ च स्वाभीष्ट-परम-मधुर-वस्तुनि दुर्लभे सति लुब्धैः स्वस्यैवाधर-पुटी लिह्यते इति नर्म-भङ्गी व्यङ्ग्या नो चेत् यद्य् एवम् अश्रुत्वा पन्थानम् अस्माकं निरुन्धन् दुराग्रहान् न विरमसि, तदा वयं स्व-पति-विरहजाग्न्य्-उपयुक्त-देहा भवेम, वयं म्रियेमहीत्य् अर्थः । तथापि ध्याने चिन्तने\ऽपि तव पादयोः पदवीम् अपि न याम, न यास्याम । सखे इति बाल-क्रीडायां प्राप्त-सख्यत्वेनास्मद्-धर्म-निष्ठां जानास्य् अपीति भावः ।

यद् वा, चेद् इति निश्चये । धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा।पु। ११.४.१०] इतिवत्। ततश् च नैव विरहजाग्न्य्-उपयुक्त-देहा वयं ततो ध्याने\ऽपि नैव याम इति ॥३५॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३३२) : अगृहान् प्रतियात [२७] इति स-तृष्णं यद् उक्तं, तत्राहुः—सिञ्च इति । अङ्ग, हे कामुक, नोऽस्माकं स्वाभाविकात् हासावलोक-सहितात् कल-गीताज् जातो यस् तव हृच्-छयाग्निः, तं त्वद्-अधरामृत-पूरकेण एव सिञ्च । अस्मदीयस्य तस्य कथञ्चिद् अप्राप्यत्वाद् इति । अन्योऽपि रस-लुब्धो लोभ्य-वस्तुनोऽप्राप्तौ निजौष्ठम् एव लेढीति नर्म च व्यञ्जितम् ।

तत्र हेतुम् आह—नः इति । धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा।पु। १०.४.१०] इत्य्-आदिवत् अत्र चेच्-छब्दोऽपि निश्चये । ततश् च यस्मात् निश्चितम् एव वयं ते तव विरहजाग्न्य्-उपयुक्त-देहा नो भवामः । ततो ध्याने विषयेऽपि तव पदयोः पदवीम् अपि न यामः न स्पृशामः । सखे इति सम्बोध्य प्राचीन-मिथो-बाल्य-क्रीडा-गत-सौहृद्य-प्रकटनेन निज-वचस आर्जवं प्रकटितवत्यः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे विभो ! करणीयं वर्तते, करिष्यामश् च । तद् एव त्वं यद्य् एवं करोषि, तदा तत् करिष्याम एव । किं मया कर्तव्यम् ? इति चेत्, श्रूयताम् इति पुनर् मध्या-धीरा एवाहुः—सिञ्चाङ्ग न इत्य्-आदि । हे अङ्ग ! नो गीतजं कथनजं हृच्-छयाग्निं सिञ्च । हृदि शेते हृच्-छयो योऽग्निर् भवद्-उपेक्षा-प्रतिपादक-वचन-रूपः अग्निः, तं निर्वापय । केन ? त्वद्-अधरामृत-पूरकेण, प्रशंसायां कः । हे हासावलोक ! कल-हास-सहिता अवलोक-कला निरीक्षण-सौष्ठवं यस्य । नो चेद् यद्य् एवं न करोषि, तदा विरहजाग्न्य्-उपयुक्त-देहा ध्यानेन ते तव पदयोः पदवीं याम, न तु यास्यामः । एकोऽग्निर् योऽयं वर्तते, स तु दाहक एव, न मारकः । मारकस् तु विरहज एव । अयं तु गीतजत्वाद् वाग्ज एव । तेनानेन शुष्कास् तेन तत्-क्षणम् एव भस्मीभविष्याम इति वाक्यार्थः ॥३५॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं दैन्य-निवेदनेन श्री-कृष्णस्य चित्त-मार्दवाम् अलक्षयन्त्यो विरहाग्निना दह्यमानाशयास् तं सोढुम् अपारयन्त्यः प्रार्थयन्ते—सिञ्च इति । अङ्ग ! भो कृष्ण ! नो\ऽस्माकं सिञ्च तर्पय । किम् इति प्रेक्षायां प्रस्तुतं निवेदयन्ति—तवेति प्रकरण-वशात् ज्ञातव्यम् । तवैव हास-सहितो\ऽवलोकः कल-गीतं च, ताभ्यां जातो यो हृच्-छयः कामः, स एव अग्निः दाहकम् इति ।

केन साधनेन निर्वापनीयः ? इत्य् अपेक्षायाम् आहुः—तवैवाधरामृतस्य पूरः प्रवाहः, तद् एव कं जलं, तेनेत्य् अर्थः ।

किं च, काम-रूपस्य हृद्-रोगस्य निदानं जानीमः, तन्-निवर्तकम् औषधम् अपि जानीमः । परन्तु निदानम् अपि त्वद्-अधीनम् औषधम् अपि त्वद्-अधीनम् इति । अतो\ऽयम् अधुनैवोत्थितः अग्निः अस्माकं दग्धुम् उपक्रान्तो\ऽस्ति । यावन् निःशेषं न दहति, तावत् प्रतीकारं क्रियताम् । यथा कालिय-दमने दावाग्नि-पानेन सर्वेषां व्रजौकसां रक्षा कृता, तथा अस्माद् अपि वह्नेर् अस्मान् रक्ष ।

किं त्व् अयम् अग्निः पातुं न शक्यो, यतो\ऽन्तर् एव दाहको, न बहिः । अतस् त्वया पाते सति अस्माकम् इव तवाप्य् एतद् दाहो भविष्यतीति पाने भवान् न युज्यते । किं चान्तर-दाहकत्वम् अस्माभिर् एवानुभूतम् । स तु दावाग्निः केनाप्य् असुरेणोत्पादितः । अयम् अग्निस् तवैव हासावलोक-कल-गीताभ्यां जनितः, अतस् तवैवाधरामृत-पूरकेण शैत्य-हेतुना दावाग्नेर् अपि एतस्याग्नेर् महत्त्वम् आलोक्य निर्वापयेति । दावाग्नेः सर्वाक्षि-गोचरत्वं दृष्टम्, एतस्याग्नेः कस्याप्य् अक्षि-गोचरत्वं न । अधरामृत-पानेनान्तस्-ताप-निवृत्तौ सत्यां स्वयम् एवाग्निः निर्वाणं गमिष्यतीति भावः ।

इदम् अत्र तत्त्वम् । निदाने निवृत्ते रोगो\ऽपि निवर्तत इति प्रसिद्धेः । रहस्य् अस्माभिः क्रियमाणेन अधरामृत-पानेन सुखोत्पत्तौ जातायां तवाक्षि-निमीलने जाते सति हासावलोक-कल-गीतयोर् अपि क्षण-मात्रोपरमो भविष्यति । अत एव निदानोपरतौ केनाप्य् अलक्षितो हृच्-छयाग्नेर् अप्य् उपरमो भविष्यतीति भावः । यद्यपि नायिकानां स्वयम् एवाधरामृत-प्रार्थनं काम-शास्त्र-विरुद्धं रस-जनकं न, तथापि मोहितानां परम-प्रेमवतीनां युक्तायुक्त-कथन-विवेक-रहितानाम् आसां हृच्-छयाग्नि-ज्वालावलीढत्वाद् एवम् उक्तम् ।

व्यतिरेके तव महतीयं कीर्तिर् अस्माकं च महती सत्-कीर्तिर् भविष्यतीत्य् आहुः—नो चेत् । यदि हृच्-छयाग्निं न निर्वापयसि, तदा वयं तव पादयोः ध्यानेन पदवीम् अन्तिकं याम यास्यामेत्य् अर्थः । यद् वातो ध्यानेन पदयोः पदवीं मार्गयामः, इदानीम् एव प्राप्नुयामः, न तु कालान्तरे ।

तत्र मरणे व्यवसायात्मकानां भगवद्-विमुखानां पत्य्-आदीनां सङ्ग-जनित-दोषस्य प्रायश्चित्तान्तरेणानिवर्त्यत्वम् आशङ्क्य, अग्नि-प्रवेश-जनित-शुद्ध्या श्री-कृष्ण-प्राप्ति-योग्यतां सम्भाव्याहुः—विरहज- इति । विरह-जाग्न्य्-उपयुक्त-देहा इति हृच्-छयाग्निर् अन्तर-दाहकः मनो दग्ध्वा भस्मनि जाते तस्माद् अवशिष्टेन केनचिद् विस्फुलिङ्गेन हेतुना, अतस् तथा शुष्के शरीरे काष्ठ-प्राये जाते, तस्मिन् पतिते नान्य एवाग्निर् उत्पद्यते, तम् एवाहुः—अधरामृताप्राप्ता विरहा जनिष्यते । अतो\ऽग्निना उपयुक्ता दग्धा देहा यषां ताः, वयम् ।

यद् वा, विरहजाग्नेर् एव उपयुक्ता अनुचिता, न तु रमण-योग्या देहा यासां, ताः, भगवद्-विमुखानां संसर्गेण मलिनत्वात् । अत एव मलिनस्य रमणायोग्यत्वम् आलक्ष्य, भवता प्रत्याख्याताः, तद् यात [१९] इति । इदानीम् अयोग्यं देहं दग्ध्वा ते पदयोः ध्यानेन हेतुना पदवीं साम-योग्यं स्थानं रमण-योगेन शुद्ध-देहेन यास्यामः । हे सखे ! इति सम्बोधनेनैतत् ज्ञायते । यस् तु सखा, स तु सखीनां वञ्चको न भवति ।

ननु, मया किं वञ्चनं कृतम् ? इति चेत्, तत्राहुः—हृच्-छयाग्नि-निर्वापके औषधे विद्यमाने\ऽपि न ददासीदम् एव । यद् वा, योगिन इव ध्यानेन इदानीं ते पदयोः पदवीं सान्निध्यं यामः, प्राप्नुमः । क्षणान्तरे **विरहाग्नि-**दग्ध-देहास् ते पदयोः पदवीं शुद्ध-चैतन्येन अव्यवहितं सांनिध्यं प्राश्यामः । अस्मिन् देहे दग्धे सति, त्वयि निर्घृणत्वं दुःकीर्तिमत्त्वं पर्यवस्यति ।

अयम् अभिप्रायः—हासावलोकः सन्धुक्षणं, कल-गीतं च वायुः । अत उभाब्यां जनितो हृच्-छयाग्निः स चालौकिकः तवाधरामृत-पूरकेन उपशाम्यति, अधरामृतस्याप्य् अलौकिकत्वम् । अत एवालौकिकेनामृतेनालौकिकाग्नि-प्रशमं, न तु देव-भोग्यामृतेनोपशमः, तस्य संसार-ताप-हेतुत्वात् । यतः स एव हृच्-छयाग्निर् अधरामृत-पानाभावे विरहाग्निम् उत्पाद्य देहं भस्मीकरोति । अतो हृच्-छयाग्नि-युक्ता एव त्वां प्राप्स्यामः । तदा स तापस् त्वय्य् अपि सञ्चरिष्यतीति ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो सम्प्रयोग-समयान्य-समयो\ऽपि सुन्दरीणां निर्वस्त्राः काया दिदृक्षिता ये आसन्, ते चीर-हरण-दिने दृष्टाः, तथैव मधु-पानान्य-समये\ऽपि भाववतीनाम् आसां निर्लज्जं वचनं शुश्रूषितम् आस्ते । तद् अधुनापि न श्रूयते । हन्त हन्त वेणु-नादेन काम-मयेन नोन्मादिताः । पुनश् च वाचः पेशैर् विह्वलीकृताः । यच् चालम्ब्य लज्जा-विवेक-धर्म-धैर्यादीनि तिष्ठन्ति, तच् चित्तम् अप्य् अपहृतः । तद् अप्य् एताः प्रायः सलज्जम् एव भाषन्ते, न त्व् आभ्यन्तर-भावम् अधुनापि वाचा सम्यग् उद्घाटयन्तीति मनसि परामृशति सति श्री-कृष्णे काश्चिन् मुख्यतमा उन्माद-सञ्चारि-प्राबल्येन विपर्यस्तीकृत-प्रकृतय आहुः—सिञ्च इति ।

अत्र हास- इत्य् अस्य सम्बन्धि-पदम् अर्थात् तवेत्य् एव लभ्यते । ततश् च अङ्ग ! हे कृष्ण ! तव हास-सहितेन अवलोकेन कल-गीतेनजातः प्रोद्बुद्धः प्रोद्दीप्तो यो हृच्-छयः काम एव अग्निः, तं तवैव अधरामृत-पूरेण सिञ्च निर्वापय, स्वार्थे कः । येनैवाग्निः प्रोद्दीप्यते, तेनैव प्राप्त-विवेकेन यदि निर्वाप्यते, तदैव तद्-अपराधोपशमः । अन्यथा अग्नि-दाता गृहादि-दाहोत्थं पापं प्राप्नोत्य् एवेति भावः ।

अत्र कामम् इत्य् अप्रयुज्य हृच्-छय-पद-प्रयोगेनैवं ध्वन्यते—अस्माकं कामो हि हृदि शेते एव, तं च त्वया विना को\ऽपि प्रबोधयितुं न शक्नोति । त्वं च वंशी-नादेन सहास्मत्-कर्ण-रन्ध्र-द्वारा हृदयं प्रविश्य तत्र शयानं कामाग्निं प्रबोध्य हासावलोक-घृत-मधुभ्यां कल-गीति-वातेन च प्रोद्दीप्य तत्रत्यान् अरमत् प्राणान् दग्धुम् उपक्रमसे । अतस् तद्-दाह-पापाद् बिभेषि चेत्, तं निर्वापय । न च तत्-प्रोद्दीपने तन्-निर्वापने वा तवायास-लेशो\ऽपि, यतस् ते हासावलोकस् तस्याग्नेर् उद्दीपकः । अधरामृतं च तस्य निर्वापकम् इति । तद् वस्तु-द्वयं तव मुख-चन्द्र एव वर्तते, अतो दुर्लील-राज-पुत्रस्य तवाग्नि-ज्वालन-निर्वापनात्मिकैव खेला भूयसी भूरिशो दृष्ट्वा, न त्व् अग्नि-ज्वालन-मय्य् एव । एषा त्व् अद्यैव दृश्यत इति ।

ननु, एतानि मे साहजिकान्य् एव हासावलोक-कल-गीतानि । एतैर् यदि युवतयो ज्वलेयुः, तदा कुत्र कुत्र कतिशो वा मया स्वाधरामृतैश् चिकित्सा कर्तव्येति चेत्, सत्यम् । परः-सहस्र-स्त्री-वधे प्राप्त एव तव तद्-अद्भुताद् अनुतापाद् अयं हठो यास्यतीत्य् आहुः—नो चेद् इति । विरहाग्निना उपयुक्त-देहा दग्ध-शरीरा योगिन्य इव ध्यानेन तव पादयोः पदवीं याम, अधुनैव प्रानुयाम ।

अयम् अर्थः—वयं पूर्व-जन्म-स्वकृत-तपस्कान् एवात्मनो जानीमः । यद् एतज्-जन्मनि त्वं नाङ्गीकुरुषे, तस्माद् अधुना तपश्चरणार्थं न बाह्यं लौकिकं वह्निं गृह्णीमः । हृच्-छयाग्नि-त्वद्-विरहाग्न्योः स्वत एव सत्त्वात् । तत्रापि तद्-विरहाग्निना अतिप्रबली-भविष्णुना हृच्-छयाग्निर् अपि मन्दीकरिष्यत एवातो विरहाग्नाव् एव प्राणेषु हूयमानेष्व् अस्माकम् ।

सङ्कल्पश् चायं—भो ! कृष्ण-विरहाग्ने ! कृष्ण-पाद-स्पर्शम् आशासाना वयं त्वयि स्व-प्राणान् जुहुमः । तस्मात् कृष्णस्य पादयोः पदव्याम् अन्य-जनैर् अलक्षिता अस्मांस् तथा स्थापय, यथा अस्मत्-कुचयोर् उपर्य् एव तस्य पादौ पतेताम्, न तु भूमाव् इति । ततश् च त्वत्-पाद-भारेणैवोपशान्त-हृच्-छयाग्नयो वयं सिद्ध-मनोरथा एव भविष्यामह् । त्वं चानिच्छन्न् अप्य् अस्मत्-कुच-स्पर्श-सुखं प्राप्नुवन्न् अपि स्त्री-वधानुतापम् एव भूयां सम्प्राप्स्यसीति ।

सखे इति सख्याद् एवैवं चिकीर्षामः, सखीर् अप्य् अस्मांस् त्वम् एव सन्तापयसि चेत्, वयम् अपि त्वां सखायम् एवं कथं नानुतापयाम इति ध्वनिः । किन्तु प्रेम-हतकः खलु तद् अपि त्वद्-अनुताप-दुःखं कोटि-गुणी-कृत्यास्मभ्यम् एव दास्यत इति जानीमः । किं कुर्मो\ऽस्माकं दग्ध-ललाटम् एवं-विधम् एव विधात्रा सृष्टम् । तस्माद् अपरिणाम-दर्शिन् ! कृपा-सिन्धो ! स्वानुताप-वल्लि-बीजं किम्-अर्थं वपसि ? कथं वा तत्-फल-भोगिनीर् अस्मांश् च करोषि ? मुञ्च हठम्, अस्मान् अङ्गीकुर्व् इति भूयांस एवानुध्वनयः ॥३५॥


॥ १०.२९.३६ ॥

यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया

दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य ।

अस्प्राक्ष्म तत्-प्रभृति नान्य-जन-समक्षम् अञ्जः33

स्थातुं त्वयाभिरमिता बत पारयामः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु स्व-पतीन् एवोपगच्छत । त एनम् अग्निं सिञ्चेयुर् इति चेत्, तत्राहुः—यर्हि इति । रमाया लक्ष्म्या दत्त-क्षणं दत्तोत्सवं दत्तावसरं वा । तद् अपि क्वचिद् एव न सर्वदा । अरण्य-जनाः प्रिया यस्य, तस्य तव । अरण्य-जन-प्रियत्वाद् अरण्ये क्वचिद् यर्ह्य् अस्प्राक्ष्म स्पृष्टवत्यो वयं, तत्र च त्वयाभिरमिता आनन्दिताः सत्यस् तद् आरभ्य अन्य-समक्षं स्थातुम् अपि न पारयामः । तुच्छास् ते न रोचन्त इत्य् अर्थः ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कामाग्नि-शमने तु युष्माकं पतय एव समर्था इत्य् आह—नन्व् इति । एनं कामजाग्निम् इत्य् उक्ते प्रत्युत्तरम् आहुः—न केवलं रमाया एव दत्तोत्सवम् अस्माकं भक्तानाम् अपि तथात्वात् । अत आह—दत्तावसरं दत्तावकाशं वेति । तद् अपि अवकाश-दानम् अपि । अरण्य-जनाः गोपाः, वन-शैल-निवासिनः [१०.२४.२४] इत्य्-उक्तेः । यर्हि यदा । तत्र च वने च । इत्य् अर्थ इति—न हि समुद्र-तरण-शीलस्य क्षुद्र-खातक-तरणेच्छा भवतीति भावः ।

यद् वा, अरण्य-जनाः संन्यासिनः प्रिया यस्य स तथा । तथा च वयम् अपि सर्वांस् त्यक्त्वा वनम् एवागतास् त्वत्-प्रियार्थम् इति हेतोर् अस्मान् गृहाणेति । यद् वा, रमत्य् आनन्दयति त्वाम् इति रमा श्री-राधा, तस्याः पाद-तलं तव दत्त-क्षणं, अतीव मृदुल-सौभगवत्त्वेनेत्य् अर्थः । यर्हि अस्प्राक्ष्म तत्-प्रभृति वयम् अप्य् अन्य-समक्षं स्थातुं न पारयामः, किम् उत सेति । अनेन तवाङ्ग-स्पर्शनानतरम् अन्याङ्ग-स्पर्श-शङ्का निरस्तेति ध्वनितम् ॥३६॥


कैवल्य-दीपिका : तथाप्य् अज्ञान-रक्तेषु जनेषु प्रसङ्गोऽनुचित इव, तत्राहुः—यर्हि इति । दत्त-क्षणं दत्तावसरम् । क्वचित् कस्मिन्न् अपि सङ्केत-स्थाने अस्प्राक्ष्म पृष्टवत्यः । त्वत्तोऽन्यं न जानीम इत्य् अर्थे कृत-दिव्याः । अरण्य-जन इत्य् आत्मानं निर्दिशन्ति । एतेन रमा-रमणस्यापि ते स्वानुरागम् एवेक्ष्येदम् अस्माभिर् दिव्यं कृतम् । न स्व-रुचि-मात्रेणेत्य् उक्तम् । तत्-प्रभृति अन्येषां पतीनां समक्षं स्थातुम् अपि न पारयामः न शक्नुमः, किम् पुना रन्तुम् ! अञ्जसा स्वारस्येन बलाद् उपभुञ्जते ते । बत निश्चितम् । अतस् त्वय्य् एवानुराग इत्य् अर्थः ॥३६॥ [मु।फ। ११.३०]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननूपभुक्तं मद्-योग्यं न भवति, कथम् उपभोक्तव्या भवत्य इत्य् ऊढ-मात्राः काचिद् ऊचुः—यर्हि इत्य्-आदि । हे अम्बुजाक्ष ! यर्हि विवाह-दिवस एव तव पादाम्बुजं क्वचित् कुत्रापि स्थले समये वा अस्प्राक्ष्म, तत्-प्रभृति पूर्वं स्वीकृत्य सम्प्रति त्यक्तुं न युज्यते । अञ्जः सुव्यक्तम् एतत् तवापि । पाद-तलं विशिनष्टि—रमाया दत्त-क्षणं क्वचित् कदाचिद् एवेति वा । दत्तोत्सवं दत्तावसरं वा क्वचिद् इत्य् अस्य हेतुः—अरण्य-जनस्य वृन्दारण्य-जनानाम् अस्माकम् एव प्रियत्वात्, तव तस्यास् तद् दुर्लभम् एव ॥३६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, महा-कामिन्यः ! तर्हि श्री-बलदेवेऽपि युष्माकं भक्तिर् दृश्यते । अतस् तम् एव काम-पालं यात, किं वा अन्यदीया यूयं मया कथं स्वीकार्या इत्य् आशङ्क्य स-शपथम् आहुः—यर्हि इति । हे अम्बुजाक्ष ! इति । परम-सौन्दर्यादिकं पूर्ववत् सूचितम् । तलं स्वरूपे भूतलादिवत् । किं वा, अधो-भागस् तद् अस्प्राक्ष्म, तद्-ईषत्-सम्बन्ध-प्राप्ता स्म इत्य् अर्थः । एषा प्रेम्णा विनयोक्तिः । सदा रमयतीति रमा, लक्ष्म्यास् तस्या अपि, क्वचिद् एव दत्त-क्षणम्, अतोऽरण्य-जनानाम् अस्माकं त्वद्-रमण-योग्यत्वाभावेऽपि ते प्रिया यस्येति परम-कारुण्यं सूचितम् । अन्य-समक्षम् इति यदि कदाचित् कथञ्चिद् अन्येषाम् अन्तिके तिष्ठेमः, तथा परोक्षम् एव, न तु साक्षात् सम्मुखे । अञ्ज इति । यदि वा कथञ्चित् समक्षं तिष्ठेम, तदा च परम-दुःखेनैवेत्य् अर्थः । स्थातुम् अपि किम् उत उपवेष्टुं शयितुं वेत्य् अर्थः । तच् च त्वयैव नागर-शेखरेण सम्पादितम् इत्य् आहुः—त्वयाभितो रमिता इति । बत खेदे निश्चये वा । अन्यत् तैर् व्याख्यातम् ।

यद् वा, रमायाः सेव्यम् अपि तव पाद-मूलम् अरण्य-जन-प्रियत्वाद् अरण्य-जनानाम् एव दत्त-क्षणम् । अतः क्वचित् कस्मिंश्चित् स्थाने काले वा यर्हि यावद् अस्प्राक्ष्म क्वचिद् दत्त-क्षणम् इति वा । ततश् च क्वचिद् इति क्वचिद् अनिर्वचनीय-देश इत्य् अर्थः । तावद् आरभ्य त्वयाभिरमिताः सन्तोषिताः । यद् वा, स्वप्नादौ रति-विशेषं कारिताः सत्यः । अन्यत् समानम् ।

यद् वा, अहो महा-मोहन ! कालान्तरे त्वद्-अङ्ग-सङ्गाशया वा, गृहे गत्वा तिष्ठेम, तद् अपि न घटते, महा-धूर्तेन त्वया गृह-सुखस्याशेषस्यैव विलुण्ठनाद् इत्य् आहुः—यर्हि इति । स्पर्शने हेतु-द्वयम्—रमाया दत्त-क्षणम् इति । रमाय रमणाय आदत्त-क्षणं गृहीतावसरम् अरण्य-जनानां प्रियस्य इति च, त्वयाभिरमिताः सत्यः कदाचिद् अस्प्राक्ष्म इति तत्र निजाविवेक-दोषो निरस्तः । अतस् तत्-प्रभृति किम् अप्य् अन्यन् न रोचते, कथं गृहं याम ? इति भावः ।

यद् वा, अरण्य-जन-प्रियस्य तव या रमा श्री-राधा, तस्या पाद-तलम् । अन्यत् समानम् । यद्यपि तत्रैव सापि समागतास्ति, तथा तत्-सङ्गावस्थिति-निष्ठा-विज्ञापनेनान्याः सर्वा अपि तस्याम् इव स्वेषु तस्य प्रीतिं जनयितुं तथोचुर् इति ज्ञेयम् । अनेन अथवा इत्य् अस्योत्तरम् । स्वाभाविक-प्रेम-विशेषेणैवागताः स्म । न त्व् अन्य-जनवत् साधारण-प्रेम्णेति ।

श्लेषार्थः—हे अरण्य-जन ! सदा अरण्य-चरत्वात् अरण्यम् एव जनः परिजनो यस्येति वा, प्रियस्य पत्युः, पाद-तलं यर्हि अस्प्राक्ष्म । कथम्-भूतं ? तव रमाय रमणाय क्वचित् कुत्राप्य् अंशे अदत्त-क्षणम् अदत्तावसरं तत्-प्रभृति त्वयाभिरमिताः । तु अयाभिर् अमिताः, अनेन शुभावहेन विधिना अभिरमिताः, वयं तु अन्य-समक्षं स्थातुम् अपि अञ्जस् तत्त्वेन न पारयामः

ननु, स्वप्न एवायं भवन्तीनाम् अन्यथा नित्यम् अपि तथाद्यापि तत् स्यात् ? तत्राहुः—अरण्य-जनेषु पुलिन्दी-हरिण्य्-आदिष्व् एव सन्तत-निज-दशनादि-दानेन प्रीति-कर्तुः, न तु व्रज-जनेषु ततोऽस्माकं तु सुतराम् एव दुर्लभस्येत्य् अर्थः । इति रमाया अस्माकं च योग्यानां परित्यागात् तादृशानां च स्वाकाराद् उपालम्भश् च सूचितः । तद् एवं यर्ह्य् अस्प्राक्ष्म तत्-प्रभृति, नान्येषां समक्षं स्थातुम् ऋद्ध्र्वावस्थानम् अपि कर्तुं पारयाम । अन्य-दर्शनम् अस्मश्य न रोचत इत्य् अर्थः । अत एव एष कोऽप्य् उच्चाटन-विद्या-मयः स्पर्श-गुण इति भावः ।

ननु, मिथ्या-वादिन्यः । सदा गोष्ठ-जन-मध्ये वसथैव, तत्राहुः—अञ्जः सुखेन अनायासेन ततो बलाद् एव तत्र वसाम इति भावः । अन्यैश्वर्य-पक्षे क्वचित् स्पर्शने हेतुः क्वचित् केषुचिद् आविर्भावेषु रमाया दत्त-क्षणं स्वयं तु अरण्य-जन-प्रियस्य वृन्दावन-वासिनां श्री-गोपादीनां प्रेम्णा तद्-अव्यभिचारिणः, अहो अभाग्यं, तथापि यर्हि कदाचिद् एव अस्प्राक्ष्म । अन्यत् समानम् ।

अत्र तेषां व्याख्यान् अरण्य- इति तज्-जन-सम्बन्धेनैवेत्य् अपि दैन्यम् एवेति अनेनाथवेत्य् अस्योत्तरं स्वाभाविक-प्रेम-विशेषेणैवागताः स्म, न त्व् अन्य-जनवत् साधारण-प्रेम्णेति निषेधार्थश् चायम्—अये साधु स्मारितं सखे ! इत्य् अनेन यतो बाल्य-क्रीड-सख्ये भवतीनां स्पर्शोऽपि जातोऽस्तीत्य् आशङ्क्याह—यर्हि इति । यर्हि यदा तव बाल्ये वानरादि-प्रियस्य एव सतः पाद-तलं रमाया रमण्या दत्तावसरं तद्-अभिसारोन्मुखं बभूवेत्य् अर्थः । तत्-प्रभृति तद् अपि न अस्प्राक्ष्म, किम् उतान्यद् अङ्गं । कथम्-भूता अपि त्वया अभिरमिता ? बाल्ये कारित-क्रीडा अपि । अत एव अन्येषां श्वश्र्व्-आदीनाम् अपि समक्षं स्थातुं पारयामः । अन्यथा तैर् अपि द्विष्येमहीति भाव इति ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, कथं निरपराधे मय्य् अपराधः कल्प्यते ? मदीय-स्वाभाविक-सौन्दर्यादि-दर्शनेन कामिनीनां वश् चित्तादिकं क्षुभ्यति तत्राहं किं करवाणि ? किं च, यदि गृह-कल्प्येषु न शक्तितस् तथापि कुल-वधूनां युष्माकं तत्रैवावस्थानं युक्तम् । तत्राहुः—यर्हि इति ।

हे अम्बुजाक्ष ! इति यदा अस्मद्-अनिर्वचनीय-पुण्योदय-समये क्वचिद् अपि दुर्लभे देशे त्वयाभिरमिता निज-भाव-व्यञ्जनया नन्दिता सत्यस् तव पाद-तलम् अस्प्राक्ष्म सूचकेन वाक्येन इति ।

पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग-

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन [भा।पु। १०.२१.१७]

इत्य् अत्र पूर्व-कृत-व्याख्यानुसारेण कयापि तया यथा-कथञ्चित् लब्धस्य पाद-तल-स्पर्शस्य तद्-गोष्ठीष्व् एव प्रसिद्धः कृत-कात्यायनी-व्रतानां तु तत्-स्पर्शाङ्गी-करण-मात्र-तथापि आच् च प्राप्त-सङ्गा अपि प्राप्त-सङ्गाभिर् आत्मैक्यं प्रकल्प्य ताभिर् मिलित्वा प्रोचुर् इति ज्ञेयम् । कीदृशं ? पाद-तलं रमाया दत्त-क्षणं तस्याम् अपि नूनम् अर्पित-महोत्सवम् इत्य् अर्थः ।

ननु, स्वप्न एवायं भवन्तीनाम् अन्यथा नित्यम् अपि तथाद्यापि तत् स्यात् ? तत्राहुः—अरण्य-जनेषु पुलिन्दी-हरिण्य्-आदिष्व् एव सन्तत-निज-दशनादि-दानेन प्रीति-कर्तुः, न तु व्रज-जनेषु । ततोऽस्माकं तु सुतराम् एव दुर्लभस्येत्य् अर्थः । इति रमाया अस्माकं च योग्यानां परित्यागात् तादृशानां च स्वाकाराद् उपालम्भश् च सूचितः । तद् एवं यर्ह्य् अस्प्राक्ष्म तत्-प्रभृति नान्येषां समक्षं स्थातुं ध्रुवावस्थानम् अपि कर्तुं पारयामः । अन्य-दर्शनम् अस्मभ्यं न रोचत इत्य् अर्थः । अत एव एष कोऽप्य् उच्चाटन-विद्या-मयः स्पर्श-गुण इति भावः।

ननु, मिथ्या-वादिन्यः ! सदा गोष्ठ-जन-मध्ये वसथैव ? तत्राहुः—अञ्जः सुखेन अनायासेन ततो बलाद् एव तत्र वसाम इति भावः । अन्यैश्वर्य-पक्षे क्वचित् स्पर्शने हेतुः क्वचित् केषुचिद् आविर्भावेषु रमाया दत्त-क्षणं स्वयं तु अरण्य-जन-प्रियस्य वृन्दावन-वासिनां श्री-गोपादीनां प्रेम्णा तद्-अव्यभिचारिणः, अहो अभाग्यं तथापि यर्हि कदाचिद् एव अस्प्राक्ष्म । अन्यत् समानम् ।

अत्र तेषां व्याख्याने अरण्येति तज्-जन-सम्बन्धेनैवेत्य् अपि दैन्यम् एवेति अनेनाथवेत्य् अस्योत्तरं स्वाभाविक-प्रेम-विशेषेणैवागताः स्म, न त्व् अन्य-जनवत् साधारण-प्रेम्णेति निषेधार्थश् चायम्—अये साधु स्मारितं सखे ! इत्य् अनेन यतो बाल्य-क्रीड-सख्ये भवतीनां स्पर्शोऽपि जातोऽस्तीत्य् आशङ्क्याह—यर्हि इति । यर्हि यदा तव बाल्ये वानरादि-प्रियस्यैव सतः पाद-तलं रमाया रमण्या दत्तावसरं तद्-अभिसारोन्मुखं बभूवेत्य् अर्थः । तत्-प्रभृति तद् अपि नास्प्राक्ष्म, किम् उतान्यद् अङ्गम् । कथम्-भूता अपि? त्वया अभिरमिता बाल्ये कारित-क्रीडा अपि । अत एव अन्येषां श्वश्र्व्-आदीनाम् अपि समक्षं स्थातुं पारयामः । अन्यथा तैर् अपि द्विष्येमहीति भाव इति ॥३६॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : ननु सख्येन बाल्य-क्रीडायाम् अपि स्पर्शादिकं जातम् एवास्ति, तर्हि कथम् अहो इदानीम् उदासीनाः स्थ ? तत्राहुः—यर्हि इति । हे अम्बुजाक्ष ! अरण्य-जनाः पशु-पक्ष्य्-आदयः, तेषां प्रियस्य बाल्य-भावेन तैर् एव कृत-मैत्रस्य तव यर्हि यदा क्वचिद् अपि रमाया रमण्या दत्तावसरं पाद-तलं जातं, तद्-अनुगताव् उन्मुखं बभूवेत्य् अर्थः । तत्-प्रभृति एव वयं तद् अपि न अस्प्राक्ष्म न स्पृष्टवत्यः, किम् उतान्यद् अङ्गम् । तद् एवं निज-दाढ्येनैव पूर्वं त्वया अभिरमिताः कारित-बाल्य-क्रीडा अपि वयम् अधुना अञ्जसः अनायासेन अन्येषां गुरु-जनादीनां समक्षं स्थातुं पारयामःबत इति शङ्कायाम् । अन्यथा तैर् अपि त्यज्येमहीति भावः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु, उपभुक्तं द्रव्यम् अस्मद्-उपयुक्तं न भवति । भवत्यश् च पतिमत्यः । तेन अस्मद्-योग्या न भवथेत्य् आशङ्क्याह । पतिमत्य ऊचुः—यर्हि इत्य्-आदि । हे अम्बुजाक्ष ! यदि यदा कदाचित् कुत्रापि धूलि-खेलादौ बाल्ये तव पाद-तलम् अस्प्राक्ष्म स्पृशाम, तत्-प्रभृति अन्य-समक्षं स्थातुं न पारयामः । अस्तु तव सम्पर्कः । तद् इदम् अन्य-सम्बन्धित्वम् अस्माकं लोक-प्रथैव, न वास्तवम् । त्वत्-प्रिया एव वयम् । तव कीदृशस्य ? अरण्य-जन-प्रियस्य वृन्दावन-जन-दयितस्य, अत एवास्माकं स्पर्शो जातः । पाद-तलं कीदृशम् ? रमाया दत्त-क्षणं दत्तोत्सवं दत्तावसरं वा । अवसरे हि सा तत्-स्पर्शं लेभे । वृन्दावन-जनास् तु सदैव स्पृशन्तीत्य् अरण्य-जन-प्रियत्वम् । न चान्यत्र, किं प्रमाणम् ? यद् अन्य-समक्षं स्थातुं न पारयथेति स्व-विशेषण-द्वाराहुः। वयं कीदृश्यः ? त्वयाभिरमिताः, त्वया सर्व-शिरोमणिना । कथम् अन्यथा स्वीकरिष्यामहे ? अत उचितम् एव अन्य-समक्षं स्थातुम् असामर्थ्यम् अस्माकम् इति शेषः ॥३६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : नन्व् अहं भवतीनां मित्रं परम-कारुणिकश् च । मयि असूया नोचिता दुःशील इत्य्-आदिना धर्मोपदेशत्वात् । अत्रावस्थानं बलवद् अनिष्ठानुबन्धि, अतो व्याबुद्ध्य तान् एवोपयन्तु, अत एवैनम् अग्निं निर्वापयिष्यति चेत्, तत्राहुः—यर्हि इति । हे अम्बुजाक्ष ! हृच्छयाग्नि-तापोपशमन-विलोचन ! किं पुनर् अधरामृत-दानेनेति सूचितम्। तर्हि यदा यदा तव पाद-तलम् अस्प्राक्ष्म स्पृष्टवत्यो वयम्

कीदृशं पाद-तलम्? रमाया लक्ष्म्याः क्वचिद् देशे काले वा दत्त-क्षणं दत्तानन्दं दत्तावसरवान् सर्वदा, यतो वृन्दावन-प्रदेशेषु रतत्वात् नैवात्र लब्ध-पदम् । श्रीः सुपर्यङ्के शयानं पारमेष्ट्यं श्रिया विराजमानम् एव परिचरति, न तु गोचारणादौ । यद्यपि लक्ष्मीर् नित्यं वक्षसि वसति, तथापि पाद-पद-सौभाग्यम् अधिकं ज्ञात्वा चरण-तल एव साभिलाषा भवति, न तु सर्वदाप्नोति । यतस् तस्या गौरवम् एव करोति । अतः सदा सेवितुम् अवसरं न ददासि । अहो अचिन्त्यः पाद-तल-रसस्य महिमा ! यद् एष सर्वतः सर्वान् एव निरुणद्धि । यथा श्रीर् अपि पाद-परागाशया अरण्य-जनो भवितुम् इच्छति, तथा वयम् अपि अरण्य-जना भवितुम् इच्छामः ।

कथं-भूतस्य ? अरण्य-जन-प्रियस्य, अरण्यस्य वृन्दारण्यस्य जनाः पुलिन्द्याद्याः प्रिया यस्य, कन्द-मूलाद्य्-उपहार-समर्पण-शीलत्वाद् धन्याः, पूर्णाः पुलिन्द्य [भा।पु। १०.२१.१७] इति पूर्वम् अप्य् उक्तत्वाद् इति साभ्यसूयं वाक्यं, न त्व् अस्मद्-आदयो व्रज-जनाः प्रियाः । अतः क्वचिद् वयम् अत्र, हे अम्बुजाक्ष ! तत्-प्रभृति तद् आरभ्य अन्य-समक्षं स्थातुम् अपि न पारयामः, किं पुनः रमणापेक्षया तद्-उचिते स्थाने\ऽपि उपवेष्टुम्34 इति । तस्माद् अस्माकं तन् न रोचत इत्य् अर्थः । विशेषतस् त्वया अभिरमिताः, अत एव तद्-रमणम् अनुभूय स्मृत्वा चागताः, न ह्य् अननुभूतं स्मर्यते । तस्माद् वृन्दावने वासं कर्तुम् आगतानां त्यागो\ऽनुचित इति, तव त्व् अरण्य-जन-प्रियत्वात् । वयम् अपि तथा भवितुम् आगता विद्धि ।

यद् वा, अरण्यं वृन्दावनम् । तस्मिन् जायत इति जनाः मृग-पक्ष्य्-आदयः, ते\ऽपि प्रिया यस्य । तद् उक्तं—प्रायो बताम्ब [भा।पु। १०.२१.१४] इति, धन्याः स्म मूढ-मतयो\ऽपि हरिण्यः [भा।पु। १०.२१.११] इत्य् उक्तत्वात् । अस्मद्-भोग्यं वस्तु एते वृन्दावन-वासिनो दर्शनादिना आस्वादयन्तीत्य् अमर्षेणैवागता न त्यक्तुम् अर्हसीति भावः ।

यद् वा, अरण्य-जनानां प्रियस्य इति । अत एव व्रजं त्यक्त्वा तेषु प्रीतिं कर्तुं वृन्दारण्ये कृत-निवासस्य । व्रज-वासिनस् तु मत्सर-ग्रस्तत्वात् समक्षे तन् न सहते, अरण्य-जनानां मत्सरादे राहित्यं ज्ञात्वागतानाम् अस्माकं रमणं देहि । यत् त्वया पूर्वम् अभिरमिताः । यतो\ऽत्र को\ऽपि प्रतिबन्धको नास्ति । तस्मान् निःशङ्कं विलासे प्रवृत्तिर् भविष्यतीति । तद् उक्तं यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः [भा।पु। १०.१३.६०] इति । अङ्ग इति सम्बोधनेनैतत् सूच्यते । त्वं त्व् अस्मत्-सहाय-कर्तानुकूलश् च । एतावत्-पर्यन्तम् ईद्र्शो भूत्वा प्रतिकूल-सङ्गं कारयितुम् इच्छसीति चित्रम् । बत इति खेदे ।

अञ्ज इति पाठे, दिवा तु अरण्य-जन-प्रियस्य अरण्य-जना गोपाः प्रियाः, यस्य रात्रौ त्वया अभि निःशङ्कं रमिताः, तदा पाद-तलम् अस्प्राक्ष्म, तत्-प्रभृति अञ्जः स्व-भावेनैव अन्य-समक्षं स्थातुं न पारयामः। किन्तु त्वत्-समीपे एव स्थातुं रोचते च । त्वयास्माकं स्वभावो\ऽन्यथा कर्तुं शक्यत इति भावः । रमण-संस्कारस्य त्वयैव जनित्वात् रमणम् अन्तरेण ज्ञानम् अपि नेतुं न शक्नुम इत्य् अर्थः ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तर्हि स्व-स्व-पतीन् एवोपगच्छत त एवैनम् अग्निं सिञ्चेयुस् तत्राहुः । यर्हीति हे अम्बुजाक्षेति त्वन्-नयन-दर्शन-क्षणम् आरभ्यैव वयं भ्रमरीभूय स्थिताः स्म इति । चक्षु-रागः प्रथमं चित्तासङ्गस् ततोऽथ सङ्कल्पः इति रस-शास्त्रोक्तेः। प्रथमं लोचना-लोचनि दर्शनम् एवास्माकं पूर्व-राग-प्रवर्तकम् इति भावः । तत्रापि यर्हि यस्मिन्न् एव क्षणे तव पाद-तलं क्वचिद् गोवर्धनादि कुञ्ज-प्रदेशे अस्प्राक्ष्म कुचाभ्यां स्पृष्टवत्यो वयम् । कीदृशम् ? रमाया दत्त-क्षणं वैकुण्ठ-वासिन्या लक्ष्म्या नारायण-प्रियाया अपि रमणाभिलाष-मयोत्सव-दायकं, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इति नागपत्नी-वचनाद् गर्गादि-मुखतः श्रुतात् । अतो वन-वासिनीनां गोप-स्त्रीणाम् अस्माकम् अभिलाषमयोत्सव-दायकम् अत्राभिलाषे किम् आश्चर्यम् इति भावः ।

ननु, लक्ष्म्या अप्य् अभिलषणीये वस्तुनि कुतो वः प्राप्ति-योग्यता ? इत्य् अत आहुः—अरण्यजा गोप-जातय एव प्रिया यस्य, तस्य तव तत्-प्रभृति तं क्षणम् आरभ्य अन्येषां स्व-स्व-पतीनां गोप-स्त्रीणाम् अस्माकं समक्षं स्थातुम् अपि न पारयामः, तान् दृष्ट्वा अद्धा मनसि घृणोत्पद्यते इति भावः । किं च, न केवलं वयम् अस्प्राक्ष्म एव । अपि तु, त्वया अभि सर्वतो-भावेन रमिता यथेष्टं सम्भुज्य पुरुषायतीकृता अपीत्य् अर्थः । तेन सम्भुक्त-पूर्वाः अस्मान् अन्यत्र न प्रस्थापय, पादयोस् ते पताम इति काकुर् ध्वनितः ॥३६॥


॥ १०.२९.३७ ॥

श्रीर् यत्-पदाम्बुज-रजश् चकमे तुलस्या

लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् ।

यस्याः स्व-वीक्षण-कृतेऽन्य35-सुर-प्रयासस्

तद्वद् वयं च तव पाद-रजः प्रपन्नाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वत्-पाद-सौभाग्यं त्व् अतिचित्रम् इत्य् आहुः—श्रीर् इति । वक्षस्य् असापत्न्यं स्थानं लब्ध्वापि, तुलस्या सपत्न्या सह तव पादाम्बुज-रजः कामयते स्मभृत्यैः सर्वैर् जुष्टम् इति सौभाग्यातिरेकोक्तिः । यस्याः स्व-वीक्षण-कृते श्रीर् आत्मानं विलोकयत्व् इत्य् एतद्-अर्थम् अन्येषां [सुराणां] ब्रह्मादीनां तपोभिः प्रयासः, सा तद्-रजः, तद्वद् वयम् अपि प्रपन्ना इति ॥३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सौभाग्यं सौन्दर्यम् । अतिचित्रं निखिल-देव-प्रसाद्यः लक्ष्म्या काङ्क्षित-धूलित्वाद् इति । श्रीयते सेव्यते निखिलैर् इति श्रीर् लक्ष्मीः । असापत्न्यम् एकाकिन्या लब्धत्वात् । भृत्यैः ऐकान्तिक-भक्तैर् नारदादिभिः । भगवतो विश्वम्भरत्वेन सर्व-पालकत्वात् तद्-अपेक्षया निखिलानां भृत्यत्वम् एवेत्य् अभिप्रेत्य स्वामि-चरणैर् भृत्य-पदं सर्वार्थ-परतया विशेष्यार्थम्—भृत्यैः सर्वैर् इति । अतिरेकः आधिक्यम् । यस्याः लक्ष्म्याः । स्वान् आत्मनः प्रति वीक्षणं स्व-वीक्षणम् । आत्मनोऽस्मान् प्रपन्नास्तव पाद-रजः-सेवनाय प्राप्ता इत्य् अर्थः ॥३७॥

अतः परं विश्वनाथः।


कैवल्य-दीपिका : आस्ताम् अङ्ग-सङ्गः, तत्-पाद-शुश्रूषणम् अप्य् अनुमन्यस्व, इत्य् आहुः—श्रीर् इति । यत् यस्मात् श्रीर् अपि पाद-रज एव चकमेवक्षसि स्थानं लब्ध्वापि । किं-भूतं रजः ? भृत्यैर् जुष्टम्, तथा तुलस्याः सम्बन्ध्य् अपि । किल प्रसिद्धौ । यस्याः श्रियः । उत इत्य् अप्य्-अर्थे । अन्ये ब्रह्मादयः । प्रयासः तपः-क्लेशः । तद्वत् श्रीवत् । वक्षसि स्थितापि श्रीः भृत्योपभुक्तं सपत्नी-सम्बन्ध्य् अपि पाद-रज एव चकम इत्य् अतिशयः ॥३७॥ [मु।फ। ११.३१]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : रमायाः क्वचिद् एव दत्त-क्षणं, न सर्वदेति यद् उक्तं, तद् अन्याः प्रपञ्चयन्ति—श्रीर् इत्य्-आदि । हे सखे ! वयं तव पाद-रजः-प्रपन्नाः पाद-धूलीं प्रपद्यामहे इत्य् अर्थः । केवलं नमस्कुर्म एव तत्, तत्रापि भृत्यैर् जुष्टम्यस्याः श्रिय इति श्रियो महिमानं प्रपञ्चयति—तत् कथं वयं प्राप्स्यामः ?

ननु तर्हि यूयं किं प्रार्थयत ? तत्राहुः—तद्वत् त्वत्-पाद-रजो वर्तते यत्र, तत्-स्थलम् अभिलषाम इति दैन्यम् । अथवा, पाद-रजः-प्रपन्नाः स्मः ।

एवं चेद् यत्र कुत्रापि पद-पद्धतौ रजो गृह्यताम् ? तत्राहुः—तद्वत् तत्-सहितम् एव पाद-स्थम् एव रजः । अयम् अर्थः—पाद-संवाहनं कुर्वत्यः, तत्र स्थिताः कुच-कुङ्कुम-रजः इत्य् अर्थः । केवलं रज एव भृत्य-जुष्टं, तद् एव तुलस्या सह स्पर्धमाना श्रीः कामयते । अतस् तया सहास्माकं स्पर्धापि न भविष्यति ।

अथवा, यत्-पदा यस्य पदा हेतुना श्रीः अम्बुज-रजश् चकमे । तत्-सादृश्यात् पद्म-वन एव तस्थाव् इति भावः । वक्षसि पदं स्थानं लब्ध्वापि । पदं कीदृशम् ? भृत्य्-अजुष्टं भृतिः सेवा-मूलं, तया अजुष्टं सेवनालब्धम् इति । अपि तु स्वभाव-सिद्धं यस्या इति तत्-तुल्यम् एव वयं , वयं तु, -कारस् त्व्-अर्थे । तद्वत् तुलसी-सहितम् एव पद-रजः प्रपन्नाः, तया सह विरोधो न क्रियत इत्य् औत्कण्ठ्योदयः असूया-शान्ति-दैन्यादेः शवलता ॥३७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, उदार-शिरोमणे ! मा सिञ्च अधरामृतार्पणेन अस्माकं हृच्-छयाग्निं निज-दास्य-मात्रम् अपि देहीति चेत्, तथापि भोः मुग्ध-बुद्धयो मयैका द्वि-त्रा वा स्वीकार्याः । अन्यथा युष्माकम् अत्यन्त-बाहुल्येनान्योन्यं निरन्तर-सापत्न्योदयाद् आयताव् अपि दुःखं भवितैवेत्य् आशङ्क्य दृष्टान्तेन तत् परिहरन्त्यः परमार्त्या दास्य-मात्रेच्छयाहुः—श्रीर् इति ।

उत अपि । यस्याः स्व-वीक्षणे निमित्तेऽप्य् अन्येषां त्वद्-व्यतिरिक्तानां सर्वेषाम् एव सुराणां ब्रह्मादीनां प्रयासः । इति माहात्म्य-विशेषेण मात्सर्य-सम्भवात् सपत्नी-सङ्गासहिष्णुना सूचिता । अयम् अन्य-शब्दाभिप्रायः । एवं तस्य तस्याम् अनासक्तिश् च ध्वनिता । तथापि सा श्रीर् अपि सपत्न्या सहितापि पदाम्बुज-रज एव यच् चकमे, तच् चोक्तं नागपत्नीभिः, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इति ।

श्री-सनकादिभिश् च तृतीय-स्कन्धे,

यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर्

अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः ।

धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो

लोकं मधुव्रत-पतेर् इव काम-याना ॥ [भा।पु। ३.१६.२०] इति ।

तत्र हेतुः—भृत्यैर् जुष्टम् इति । सर्वतोऽधिक-प्रीति-पात्र-दास-वर्ग-सेवितत्वेन रजस एव परमोत्कृष्टत्व-मननाद् इत्य् अर्थः ।

यद् वा, वैकुण्ठ-नाथस्य वक्षसि पदं लब्ध्वापि श्रीर् यस्य तव पदाम्बुज-रजः । किल निश्चये । असमोर्ध्व-माधुरी-भर-मोहितत्वाच् चकमे, तद्वत् श्रीवत् पाद-रज एव तद् वयं प्रपन्नाः शरणागतत्वेनाश्रिताः । तत्र पाद-रजसा दास्यं लक्षितम् । तत्र च परम-भक्त्या निज-नीचत्व-विवक्षया पाद-रज इत्य् एव, न तु साक्षाद् दास्यम् इत्य् उक्तम् । तत्र च परम-दौर्लभ्येन किञ्चिन्-मात्र-विवक्षया एकत्वम् ।

यद् वा, दास्ये सत्य् एव पाद-रजः प्राप्यते । किं वा, तस्मिन् प्राप्त एव दास्यं सम्पाद्यत इति पाद-रजसः कामना तत्-प्रपन्नता च, यत्-तदोर् नित्य-सम्बन्धाद् यच्-छब्दानीत-तच्-छब्देन श्रीवत् तद्-एक-कामना-निष्ठा बोध्यते ।

यद् वा, यत् यस्माद् इति पूर्वम् अम्बुज-रूपक-प्रयोगः । श्रियस् तेन सर्व-ताप-हरणाद्य्-अभिप्रायेण आत्मनि च तद्-अभावात् तद्-अप्रयोगः ।

यद् वा, लक्ष्मीस् तादृश-माहात्म्य-साक्षात्-पादाब्ज-रज एव कामयाञ्चक्रे । वयं तु नीचास् तद्-योग्यता-हीनाः पदं पादाब्ज-चिह्नं, तत्-सम्बन्धि रज एव यत्र कुत्रचिद् दूरे पतितम् अपि प्रपन्नाः । एषा परम-दैन्योक्तिः । पाद-रजसः पुनर्-उक्तिर् दास्य-मात्रैकापेक्षा-बोधनार्थम् । सा यथा सापत्न्य-दोषं त्वद्-दास्य-लालसया न मेने, तथा वयम् अपीति भावः।

यद् वा, अग्रे दास्यं प्रार्थयितुं तस्य सर्वाराध्य-महा-लक्ष्मी-काम्यत्वेन परमोत्कर्षं प्रतिपादयन्त्यस् तद् एव प्रपद्यमाना आहुः—श्रीर् इति । अर्थः स एव । अन्यत् तैर् विशेष्यथाम् ।

यद् वा, तुलस्याः सम्बन्धि तस्या गोविन्द-चरण-प्रियत्वेन सदा तत्रैव निवासाद् भृत्यैर् अनन्तैर् जुष्टम् इति । तत्र बहूनां सङ्घर्षोऽपि दर्शितः । सारङ्गाणां पदाम्बुजम् [भा।पु। १.११.२६] इत्य्-उक्तेः । अन्येषां सुरेतराणां दैत्यादीनां सुराणांप्रयासः इति । अन्यत् समानम् ।

अनेन भर्तुः [२४] इत्य् अस्योत्तरम् । भर्तुः शुश्रूषणादिकं न हि परमो धर्मः, किन्तु त्वद्-दास्यम् एव । ब्रह्मादि-प्रार्थ्य-कृपा-कटाक्षया श्रियापि तस्य प्रार्थ्यत्वाद् इति ।

यद् वा, यत्-पदाम्बुज-रजो यस्य नारायणस्य पाद-पद्म-रजः श्रीश् चकमे, तद्वत् तत् स इव यस् त्वं यस्य तव पाद-रजो वयंप्रपन्नाः । तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः [भा।पु। १०.८.१९] इत्य् उक्तत्वात् । शेषं समञ्जसम् एव । एतद् ऐश्वर्यं विनायम् अर्थः ।

श्लेषार्थः—तादृशी सत्य् अपि तादृश-स्थानं लब्ध्वापि तादृशं पाद-रज एव श्रीश् चकमे, न तु प्राप्नोतीति तस्या अविवेकः सूचितः । यस्या इति बहु-जन-काम्यतया कश्चिद् दोषोऽप्य् आरोपितः । अतो निबुद्ध्यानन्यता-रहितया । तथैव त्वद्-दास्यं काम्येतेति युक्तम् एव ।

यद् वा, यस्याः स्व्-अवीक्षणे सुष्ठु अवीक्षणे अन्येषां सुराणां च सात्त्विकानाम् अपि "मां श्रीर् न वीक्षताम्" एतद्-अर्थं प्रयासः । स्थिति-काले मद्-आदिभिर् अन्धीकरणात्, त्याग-काले गच्छन्त्या तया मूर्च्छा-करणाच् च, सा श्रीर् एव चकमे । कृष्णस्य वक्षसि वामे पीता सूक्ष्मा कापि रेखास्ति, सा च गर्गादिभिर् लक्ष्मीर् इति व्रजे ख्यापिता । तद्-अभिप्रायेण तासां सेर्ष्यं वचनम् । वयं च तद्वत् तादृश्यः किं यत् तव पाद-रजः-प्रपन्ना भवेम, अपि तु सुबुद्धयः स्थिर-प्रकृतयो भर्तृ-शुश्रूषणाद्य्-अर्थं गृहं किल यास्याम एवेति भावः ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, मादृश-तुल्य-कुल्या एव यूयं, ततो बत कथं पाद-तलम् अस्प्राक्ष्मेति वदथ ? इत्य् आशङ्क्य निजाभीष्टोत्कण्ठावगुण्ठिततयैव अतिदैन्येनाहुः—श्रीर् इति । यत् यस्य नारायणस्य वक्षसि पदं लब्ध्वापि पाद-पद्म-रजः श्रीश् चकमे, प्रेयस्य्-उचितं सेवाभिलाष-विशेषं परित्यज्य दासोचितम् एवेष्टवतीत्य् अर्थः । यत एव दासानां बहूनां तत्र सङ्घट्टम् अप्य् अङ्गीचकारेति भावः ।

कीदृश्य् अपि सा ? तत्राहुः—यस्या इति । तद् एवं दृष्टान्तम् उक्त्वा दार्ष्टान्तिकम् आहुः—तद्वद् इति । तस्मान् नन्दात्मजो\ऽयं ते नारायण-समो गुणैः [भा।पु। १०.८.१३] इत्य् उक्तत्वात् स नारायण इव यस् त्वं, तस्य तव पाद-रजो वयं च सत्-कुलादि-सम्पत्त्या प्रेयसी-पद-योग्यतां लब्ध्वापि प्रपन्नाः । तस्य तव च गुण-महिमैवायं यत् तस्या अस्माकं च लब्ध-तादृश-पद-सत्त्वेऽपि न्यूनताभिमानम् एव कारयतीत्य् अर्थः ।

तत्र श्रीर् अम्बुज-सादृश्यम् उपाधिम् अवलम्बमाना तस्य पदाम्बुज-रजश् चकमेवयं तु तद्-उपाधिम् अनपेक्ष्यमाणास् तव पाद-रजः-प्रपन्ना इति स्वेषां तत्-पादस्य च वैशिष्ट्यम् अम्बुज-रूपकारूपकाभ्यां दर्शितं ध्वनितम् ।

[अथवा, नन्व् एवं पूर्वोक-हेतोर् आशङ्क्यते निजेन्द्रिय-तर्पण एव तत्-परा यूयं, न तु ममानुकूल्यायां प्रीतौ ? इति तत्राहुः—श्रीर् इति । यत् यस्मात् हेतोः, तस्मात् एवेत्य् अर्थः । एवं सा यथा स्व-पत्यौ तादृश-रसाधिकृतापि तत्-सेवा-मय-यद्-दास्याभिलाषवती तथा त्वयि वयम् अपीति वाक्यार्थः ।]36

एवं क्षीरोद-मथने यथान्वपरित्यागेन श्रियास् तद्-एक-भजनं, तथास्माकम् अपि त्वद्-एक-भजनम् इति ज्ञापितम् ।

अथवा, ननु नाहं स्वप्नेऽपि भवती-स्पर्शं स्मरामि । भवतु वा, तथाप्य् अविचारेण सकृत् स्खलनेऽपि न भूयः कर्तुम् उचितं, तच् चानौचित्यं भवतीनां साध्वी-कुलाचार-लङ्घनेन मम च तादृश-भवद्-आचार-ध्वंसनेनेत्य् अत्र साध्वी-कुल-शिरोमणिं श्रियम् एव दृष्टान्तयन्त्यः प्रत्युत्तरयन्ति—श्रीर् इति । वक्षसि स्व-भर्तुर् हृदये पदं स्थानं लब्ध्वापि श्रीः किल प्रसिद्धौ असमोर्ध्व-माधुरी-भर-मोहितत्वात्, तथापि तवाङ्ग-सङ्गे निजायोग्यता-मननाच् च । यद् इति यस्य वृन्दावन-सम्बन्धि-**पाद-रजो-**मात्रं चकमे । तस्य तव पाद-रजो वयम् अपि प्रपन्ना इत्य् अन्वयः । तद् उक्तं, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इति तादृश-प्रसिद्धि-श्रवणात् । वक्ष्यते च स्वयं, जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि [भा।पु। १०.३१.१] इति पाद-रजः-शब्दस्य पुनर्-उक्तिर् अत्युत्कण्ठया ज्ञेया ।

[तद् उक्तं पक्ष-द्वयेऽपि] रूपकाप्रयोगाश् च पूर्ववद् एव ज्ञेया पक्ष-द्वयेऽपि । सा च न केवला, किन्तु तुलस्या लीला-रूपया वृन्दयापि सहसा च तुलसी तत्-प्रेयस्य् अपि चकमे, पाद्मं कार्तिक-माहात्म्ये जालन्धरोपाख्याने तस्या अपि तत्-प्रेयसीत्व-श्रवणात् । तथा स्कान्द-मथुरा-माहात्म्ये—

वृन्दावनं द्वादशमं वृन्दा-देवी समाश्रितम् ।

हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति ।

वाराहे तन्-माहात्म्ये च—

वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।

मम चैव प्रियं भूमे सर्व-पातक-नाशनम् ॥ इति ।

तद्-आश्रितत्व-श्रवणाच् च । कथम्-भूतम् अपि रजः ? भृत्य-जुष्टं त्वद्-भृत्य-गण-सेवितावशिष्टम् अपि । पुना रज एव विशेषयितुं तस्या वैशिष्ट्यान्तरम् आहुः—यस्या इति । स्व-वीक्षणं स्व-पति-प्रेम-पर्यन्त-सम्पत्ति-पदे अन्य-सुराः श्री-विष्वक्सेन-गरुडादयः, तेषाम् अपि प्रयासः । यदि तस्याः तस्याश् च अप्य् एवं तदा अस्माकम् एव को दोषः ? इति भावः ।

ऐश्वर्य-पक्षेऽपि प्रायः पूर्ववद् एवार्थः, किन्तु पूर्वत्र प्रेम-कृतोत्कर्ष-दृष्टि-प्राप्तत्वेन । उत्तरत्र तु ज्ञान-प्राप्तत्वेनेति भेदः । तद् एवं भर्तुः शुश्रूषणं स्त्रीणाम् [२४] इत्य्-आदेर् उत्तरं ज्ञेयम् । निषेधार्थश् चायम् ।

ननु श्री-वृन्दे अपि स्व-पति-परित्यागेन मद्-आशया मद्-वने तिष्ठतः । काः यूयम् ? इत्य् अत्राहुः—श्रीर् इति । यत् या श्रीः तुलस्या वृन्दया सदात्र वने स्थितं तव पदाम्बुज-रजश् चकमे, तत्-कामनयात्र वासं कृतवतीत्य् अर्थः । तद्वद् इति सहैव वयं च वयम् अपि पाद-रजः प्रपन्नाः, काक्वा नैवेत्य् अर्थः । चपलात्वेन ख्यातया लक्ष्म्या यच् चापलं, तथा जालन्धर-भार्यात्वम् अपि लब्धाया वृन्दाया यद् व्यभिचारित्वं, तत् तद् युक्तम् एव । नास्माकम् एतादृशीनाम् इति भावः । अत्रापि भर्तुर् [२४] इत्य् अस्यैवोत्तरम् इदम् इति ॥३७॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथ प्रीयन्ते मयि जन्तवः [भा।पु। १०.२९.२३] इत्य् अत्र कामिन्यो यूयं कान्त-भावात्मकम् एव स्नेहं कर्तुम् अर्हथेति यद् अभिप्रेतं, तत्र लक्ष्म्य्-आदि-रूपम् उदाहरणम् आशङ्क्य परिहरन्ति—श्रीर् इति ।

श्रीर् अपि वक्षसि, तथा प्रसिद्धेः श्री-विष्णोर् उरसि पदं लब्ध्वापि यस्य तव श्री-गोकुल-वृन्दावन-स्थितं पदाम्बुज-रजस् तुलस्या वृन्दया सह चकमे । त्वज्-जन्मत आरभ्य नन्दस्य व्रजो रमाक्रीडो बभूवेति37 तुलसी-लक्षण-रूपान्तरा वृन्दा-देवी वृन्दावने नित्य-वासम् अकरोद् इति च मुनि-जन-प्रसिद्धेः । कथम्-भूतम् ? अपि रजश् चकमेभृत्यैर् व्रज-सम्बन्धिभिर् जुष्टं शिरो-धारणादिना उपभुक्तम् अपि । सा तु कीदृङ्-महिमापि ? यस्याः स्व-विषयक-कृपा-वीक्षणेउत अपि। अन्य-सुराणां तत्-पार्षदादीनाम् अपि प्रयासस् तादृश-महिमापि । वयं इति च-शब्दः काकु-सूचकस्य अपि-शब्दस्य समानार्थः । ततो यथा श्रीर् यथा च वृन्दा तद्वद् वयम् अपि मुग्धाः सत्यः, तस्य तव पाद-रजः-प्रपन्नाः, अपि तु नैवेत्य् अर्थः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् एवार्थम् अन्याः प्रकटन्त्यो लक्ष्मीतोऽप्य् अधिकत्वेनालौकिकत्वम् आत्मनो निरूपयन्ति—श्री यद् इत्य्-आदि द्वाभ्याम् । वक्षसि पदंलब्ध्वापि श्रीर् यत् पादाम्बुज-रजश् चकमे कामयामास, न तु लब्धवती । कुतो न लब्धवती ? यतस् तुलस्या एव त्वद्-भृत्य्-अजुष्टं स्वाभाविकम् । भृतिः कर्म-मूल्यम्, तेन अजुष्टं कर्म-फलं न तत् । सैव कीदृशी ? इत्य् आहुः—यस्या इति । स्व-वीक्षणे स्वं प्रति दर्शनेऽन्येषां सुराणां प्रयास एव । वयं तद्वत् तत्-स्वरूपाः, किन्त्व् इयान् विशेषः—सा तु चकम एव, वयं तु तव पाद-रजः-प्रपन्नाः प्राप्ता एवेति ततोऽधिका अपि वयम् इत्य् अलम् अन्यथा-शङ्कया ॥३७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : त्वयाभिरमिता [३६] इत्य् उक्ते सति कदाचित् क्षुभेत । पदे ता उत्तमाधिकारं प्राप्तुम् इच्छतीति मनसि विचार्य, यथा लक्ष्मीर् [उतस्य माधि]{।मर्क्} परित्यज्य पाद-रजः कामयते, तद्वद् भवामेति प्रार्थयन्त्यः प्राहुः—श्रीर् इति । श्रीर् अपि यस्य तव पादाम्बुज-रजः सेव्यत्वेन चकमे कामितवती, वक्षसि असापत्न्यं स्थानं लब्ध्वापि । श्रीस् तु उत्तम-नायिका परम-विदग्धा च पाद-तलस्य सौभाग्यातिशयं विचार्य पदाम्बुज-रज एव सेवते स्म, असापत्न्यं स्थानं त्यक्त्वा सपत्न्या तुलस्या सह सेवते । वक्षसि एक एव रसः, चरण-तलं सर्व-रसस्याश्रय-भूतं राग-सारस्य चरणाश्रितत्वात् । एवं सर्व-रसानां रागे स्वादु-विशेषम् अभिलाषमाणा चरण-रजः सेवते ।

नन्व् आसां श्री-सेव्यत्व-ज्ञानं कथम् ? इति चेत् तत्राह—एतास् तु श्रुतयः पूर्व-जन्मनि ज्ञातैश्वर्याः । अतः श्री-सेव्यत्वम् उदाहरन्ति । यद् वा, नारायण-समो गुणैः [भा।पु। १०.८.१३] इति गर्गोक्त्या श्री-सेव्यत्वोक्तिर् इति न किञ्चिद् अनुपपन्नम् । कीदृशं पाद-रजः? भृत्य-जुष्टं रस-विशेषेण भृत्या पोष्या द्वादश-रसालम्बन-रूपाः, तैर् जुष्टम्

ननु यदि तुलस्या अन्यैर् भृत्यैश् च सेवितं, तर्हि कथं श्रियः स्पर्धा न जाता ? तत्र समाधत्ते—यथा तुलसी श्री-कृष्णस्यातीव प्रिया अन्यैर् भृत्यैः सेव्यमानं दृष्ट्वा तस्या मनसि स्पर्धा न जाता किन्त्व् अतीव हर्षेण सेवते स्म, तथा श्रियोऽपि वृन्दावन-माहात्म्येन स्पर्धावसरो उक्तं च, यत्र नैसर्ग-दुर्वैरा इति । सेवा-सुख-निमग्नानां परस्परानभिज्ञानाम् इव निर्मत्सराणां चरण-रजः सेविनां मनसि स्पर्धनावकाशं लभते इति भावः । सेवयैवाधिकार-दार्ढ्यं नान्यथेति । यस्या श्रिया स्व-वीक्षण-कृते श्रीर् अस्मान् अवलोकयन्न् एतद्-अर्थम्, अन्येषां सुराणां ब्रह्मादीनां प्रयासः, तपोभिर् उद्यमः।

सा यथा क्षीरोद-मथने उद्भूता कामयमानान् ब्रह्मादीन् हित्वा चरण-रज इव सेवते स्म, तथा श्री-सादृश्ये कामायमानान् पत्य्-आदीन् विहाय वयम् अपि पाद-रजः प्रपन्नाः शरण-प्राप्ताः, वयं तु नोत्तमाधिकारिण्यः किं तु दास-दासीनां स्वामि-सेवा-धर्मः स्वामि-सम्बन्धिनां तद्-अनुकूलानां च सेवा-धर्मः । अस्मत्-पत्य्-आदयस् तु, न त्व् अनुकूलाः, प्रत्युत अपकारिणः । अत एव तेषां त्याग एवोचितः । यद्यपि वैकुण्ठ-लक्ष्मीश् चापल्य-दोषम् अपहाय सदा वैकुण्ठ-नाथं भजत्य् एव, तथा वृन्दावन-विलासिनस् तव चरण-रजः सेवने गुणाधिक्यम् आकलय्य वृन्दावन-भूमौ वसतिम् अभिलाषमाणा तथा करोति । उक्तं च—रमाक्रीडम् अभून् नृप [भा।पु। १०.५.१८] इति । अन्यच् च,

यद्-वाञ्छया श्रीर् ललनाचरत् तपो

विहाय कामान् सुचिरं धृत-व्रता [भा।पु। १०.१६.३६] इति ।

अनेन भर्तुः शुश्रूषणम् [२४] इत्य् अस्याप्य् उत्तरं दत्तम् एव ।

यद् वा, श्रीर् अपि तु भार्यापि लस्यानुद्गणेन भृत्य-जुष्टम् पादाम्बुजश् चकमे, न तु प्राप । भृत्यास् तु निश्चला यद्यपि तया चापलं त्यक्तां तथापि निष्किञ्चनानां तेषां मनो-रोधेन तस्याम् आदर-विशेषानुदयात् । यस्याः स्व-वीक्षण-कृते स्वस्मिन् श्रियाम् इत्य् अर्थः । वीक्षणं भृत्या मां विलोकयन्तु, सारङ्गानां पदाम्बुजम्38 [भा।पु। १.११.२६] इत्य् उक्तत्वात् । तेषां सर्वस्वम् अत एव प्रसन्नैस् तद्-अर्थे पाद-रजसि तेषां कृपयाधिकारिणी स्याम् इति मनसि निधाय श्रीः प्रयासं करोति । तद्वद् भृत्य-जनवत् वयं तव रजः स्वत एव धन्यत्वं तव पाद-सम्बन्धेनातीव-धन्यत्वम् इति भावः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं त्वयैव वयं स्व-प्रेयसी-कृताः, किन्तु त्वच्-चरण-सेवाम् एव वयम् आशास्महे इति स-दृष्टान्तम् आहुः—श्रीर् लक्ष्मीर् यस्य नारायणस्य पदाम्बुज-रजश् चकमे, तद्वत् तत्-तुल्यस्य तवापि वयं पदाब्ज-रजः प्रपन्नाः । ततश् च गर्गोक्ति-गम्येन तव नारायण-तुल्यत्वेनास्माकम् अपि श्री-तुल्यत्वं स्वत एवायातम् इति भावः ।

किं च, वक्षसि सर्वोत्तमे स्थलं पदम् आस्पदं लब्ध्वापि तुलस्याः सपत्न्याः पदम् अपि भृत्यैर् जुष्टं सेवितम् इति पुरुष-जन-सङ्घट्टवद् अपि तस्य पाद-रजश् चकमे स्वाभाविकीं प्रेयसी-भाव-समुचितां लज्जाम् अपि परित्यज्य स्व-न्यूनताम् अप्य् अङ्गीकृत्य कामयते स्मेति तस्याः प्रेयसी-भावाद् अपि दासी-भावो यथाभीप्सितः, तथैवास्माकम् अपीति । अतस् तव रक्तक-पत्रकादि-दासैः सहापि लज्जां परित्यज्य पादौ संवाहयितुम् इच्छामः । तथा वृन्दावनीय-पुलिन्दीनां कर्म तृण-लग्न-त्वच्-चरण-कुङ्कुमेन स्वीय-भाल-प्रलेपनम् अपि स्व-न्यूनताम् अप्य् अङ्गीकृत्य चिकीर्षामः ।

किं च, श्रीमन्-नारायण-देवेन प्रतुष्यता नित्य-निवासार्थं तस्यै स्व-वक्ष एव दत्तं । त्वया तु रसिक-शेखरेण अस्मभ्यं स्व-पद-तल-निकट-प्रदेशेऽपि क्षणम् अपि न दीयते, इत्य् अस्माकम् एव दग्ध-ललाटम् इति ध्वनिः । स्व-यशः-प्रेप्सुर् गर्गोक्ति-प्रामाण्येन यदि नारायण-तुल्यो बुभूषसि, तदास्मान् वक्षसा वह इत्य् अपि भाव-गाम्भीर्य-स्पर्शी ध्वनिः ।

ननु सा लक्ष्मीः यथा चञ्चला, तथैव यूयम् अपि पुण्यवतां जनानां गृहे गृहे चाञ्चल्य-धर्मम् अप्य् अङ्गीकुरु, इति नर्माशङ्क्य केन मूखेनोच्यते—श्रीश् चञ्चलेति । सा तु परम-धीरैवेत्य् आहुः—यस्याः श्रियः स्वेषु वीक्षण-कृते वात्सल्य-रस-मय-कृपावलोकन-प्राप्ति-कृते अन्य-सुराणां ब्रह्मादीनां तत्-पुत्र-तुल्यानां प्रयास एव, सा तु तद् अपि तान् अपि प्रायो नावलोकते, किन्तु तच्-छक्तिर् एव काचित् तेभ्योऽभीप्सितां सम्पदं दत्त इति ॥३७॥


॥ १०.२९.३८ ॥

तन् नः प्रसीद वृजिनार्दन तेऽङ्घ्रि-मूलं

प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः ।

त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम-

तप्तात्मनां पुरुष-भूषण देहि दास्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे वृजिनार्दन39 दुःख-हन्तः ! त्वद्-उपासने त्वद्-भजन एव आशा यासां ता वयं वसतीर् गृहान् विसृज्य हित्वा योगिन इव प्राप्ताःतव सुन्दर-स्मित-विलसित-निरीक्षणेन यस् तीव्रः कामः, तेन **तप्त-**चित्तानाम् । हे पुरुष-रत्न ! दास्यं देहि ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् तव पाद-रजः-प्रपन्नाः, तत् तस्मात् । यद् वा, त्वद्-उपासनं त्वत्-समीप उपवेशनं, तत्र आशा यासाम् इति ताः । यद् वा, वसति-विशेषणम् । त्वद्-उपासस्य नाशो यासु, ता विसृज्य इत्य् अन्वयः । योगिनः सन्न्यासिनः । यद् वा, दुःखिता आमन्त्रयन्ति पुरुषस्य जीवस्य भूः स्थानं हृदयं मोषते पीडयतीति पुरुष-भूषण इति । यद् वा, पुरुष-भुवि वसतीति तथा । बहिर्-अन्तर्-ज्ञस्यैतद् उचितम् इति भावः । दास्यं दासी-भावम् । अनेन सङ्गादि लक्ष्यते ॥३८॥

अतः परं विश्वनाथस्य पूर्णा टीकोद्धृता।


कैवल्य-दीपिका : तन् न इति । तत् तस्मात् श्रियापि काम्यमानत्वात् । हे वृजिनार्दन ! दुःख-नाशक ! वसतीर् गृहान् तव सुन्दराभ्यां स्मित-निरीक्षणाभ्यां यस् तीव्रः कामः, तेन तप्त-चित्तानाम् अस्माकम् ॥३८॥ [मु।फ। ११.३२]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्माकं कुत्रापि स्पर्धा नास्ति, नापि गर्वः, केवलं त्वय्य् एव रतिः, तस्माद् अस्मान् प्रति प्रसन्नो भूया इत्य् अन्या ऊचुः—तन् नः इत्य्-आदि । हे वृजिनार्दन दुःखार्दन । तत् तस्मात् नोऽस्मभ्यं प्रसीद

नन्व् अकिञ्चनेभ्य एव प्रसीदामीति चेद् वयम् अपि च तथैवेत्य् आहुः—हे पुरुष-भूषण ! दास्यं देहि दासीभावं देहि, येनोपासनां कर्तुं शक्यते । कीदृशीनाम् अस्माकम् ? त्वं त्वत्तः सकाशात् हेतोर् वा तप्तात्मनां त्वत्-कृतस् तापस् तद्-उपासनयैव याति । हे सुन्दर-स्मित-निरीक्षण ! हे तीव्र-काम ! तीव्रस् तीक्ष्णः कामोऽपि यस्मात्, कामाद् अपि परम-मधुर इत्य् अर्थः ॥३८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तस्मात् रजः-प्रपन्नत्वात् प्रसादं कुरु । तम् एवाहुः—दास्यम् एव देहि इति । ननु नव-यौवनोन्मत्ताः ! दास्यम् अपि लक्ष्म्य्-आदि-प्रार्थ्यं कथं देयम् ? इति चेत्, तत्र स-दैन्यम् आहुः—त्वद्-उपासनाशाः सत्यो वसतीः सर्व-बन्धु-परिच्छद-सहित-गृहान् विसृज्य अङ्घ्रि-मूलं प्राप्ता वयम् । अतः सर्व-परित्यागेन प्रपन्नानाम् आशाम् अवश्यम् पूरयितुम् अर्हसि इति भावः । अन्यथा चास्माकं महद् दुःखं स्यात् । तच् च तवानुचितम् इत्य् आहुः—हे वृजिनार्दन ! इति । तत्र च हे रसिक-शेखर ! रस-विशेष-मयम् एव दास्यं देयम् इत्य् आशयेनाहुः—त्वद् इति । तच् चोचितम् एवेत्य् आहुः—हे पुरुष-भूषण ! इति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, "ननु गृहिण्यः ! तर्हि गृहेषु गत्वैव मद्-भृत्यैर् गोपैः सह भक्त-वर्गवन् मद्-भजनं क्रियतां, तत्रैव तद्-अशेषोपकरण-सम्पत्तेः ?" इति चेत्, तत्र स-काक्व् आहुः—वसतीर् विसृज्य इति । तत्र हेतुः—तवोपास उपास्तिः, तस्य नाशो यासु नाह्, तत्र तद्-भजनासिद्धेर् इत्य् अर्थः ।

किं च, "हे महा-मोहन ! नान्य-भक्तवद् अस्माभिर् दास्यं प्रार्थ्यते यद् गृहेषु गोप-वर्गैः सह सिध्येत्, किन्तु दास्य-विशेष एव" इत्य् आशयेनात्यन्तार्त्याभिनय-पूर्वकम् आहुः—पुरुषो जीवस् तस्य भूः स्थानं हृदयं, तत् ऊषते पीडयति । ऊष रुजायाम् इति । हे तथा-भूत ! तव सुन्दराभ्यां स्मित-निरीक्षणाभ्याम् । किं वा, हे सुन्दर स्मित-निरीक्षण ! अतो धूर्ततयैवेदं वदसीत्य् अवहित्थया गुह्यमानं भावं वाक्-चातुर्याभिव्यञ्जयन्ति । त्वत् त्वत्तो यस् तीव्रः कामः, तेन तप्त आत्मा देही यासां नः, अतस् तत्-प्रतीकारम् आदौ द्रुतं कुरु, अन्यथा अन्त्य-दशोपस्थितेर् इति ।

यद् वा, तत्-प्रतीकार-रूपं दास्यं देहीति भावः ।

यद् वा, ननु मद्-व्रज-स्त्रियः ! मद्-भक्त-वराणां गोपानां कन्यात्व-भार्यात्वादिना युष्माकं स्वतः-सिद्धं मद्-दास्यम् अस्त्य् एव । किं तत्-प्रार्थनेन ? इति चेत्, सत्यम्, किन्तु असाधारणम् अस्मद्-उचितं तद् देहीति स-वैयाग्र्यम् आहुः—तप्तात्मनां योग्यं यत् तद् दास्यम् इत्य् अर्थः । साक्षाद् आत्म-निर्देशो विनय-लज्जादिना । किं वा, नः इति पूर्वस्यानुषङ्गः ।

यद् वा, अत्यन्तार्त्या स-तृण-ग्राहम् आहुः—तप्तात्मनां स्त्रीणां कासाञ्चिद् अपि दास्यं देहि अस्मभ्यम् । एतादृशीनां दास्ये प्राप्तेऽपि तव प्रसाद-विशेषोऽवश्यं भवितैवेति भावः । अनेन दुःशील- [२५] इत्य् अस्योत्तरम् । त्वद्-उपासनाशया सत्-पतेर् अपि त्यागो युक्त एव । तत्-सिद्धान्तो लिखित एव, विशेषतश् च वसतीनां त्वद्-उपासनाशत्वेन । तत्र च तत्-स्वामिनां तेषां सम्बन्धेन त्वद्-भजन-पातात् ते पातकिन एवेति त्याज्या एव ।

किं च, त्वत्-काम-तप्तात्मनां तत्-त्यागे कथं वा विचारो दोषो वा ? महा-भुजङ्ग-ग्रस्तानां को नामास्तु ? इति ।

श्लेषार्थः—वृजिनं पापम् । अन्येषाम् अपि पाप-नाशनोऽसीति वयं त्वद्-अङ्घ्रि-मूलं प्राप्ताः । अधुना च तवैव पापे मतिर् लक्ष्यते, अतः प्रसीद । अस्माकम् अत्रागमनापराधं क्षमस्व । मनोऽवष्टभ्य पुण्ये निधेहीत्य् अर्थः ।

यद् वा, ननु मद्-दास्यं लक्ष्म्या अपि दुर्लभं कृपया दीयमानम् अङ्गीकुरुतेति चेत् तत्र साभ्यसूयम् आहुः—या वसतीर् विसृज्य त्वद्-उपासनाशाः सत्यस् तवाङ्घ्रि-मूलं प्राप्ताः, दास्य इवाश्रिताः, तासां तीव्र-काम-तप्तात्मनाम्, चतुर्थ्य्-अर्थे षष्ठी, ताभ्यो दास्यं देहि । अस्माकं पति-व्रतानां तेनालम् इत्य् अर्थः । पुरुषान् सखीन् एव, न तु स्त्रियो भूषयति इति तथा-भूत ! अतस् त्वया किम् अस्माकम् ? इति । किं वा, हृदय-दाहकेति पूर्ववद् अर्थः । तत् किं त्वयि भक्त्यापि इति भावः ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तृतीय-दिक् स्थिता अपि विवक्षितम् उपसंहरति—तन् नः इति । तत् तस्मात् पूर्वोक्ताद् धेतोर् एव प्रसादं कुरु तम् एवाहुः दास्यम् एव देहि इईति ।

ननु नव-यौवनोन्मत्ताः ! दास्यम् अपि तादृशं दुर्लभम् इति चेत् कथं देयम् ? इत्य् अत्र स-दैन्यम् आहुः—प्राप्ता इत्य्-आदि । अतः सर्व-परित्यागेन प्रपन्नानाम् आशाम् अवश्यम् पूरयितुम् अर्हसि इति भावः । अन्यथा चास्माकं महद् दुःखं स्यात् । तच् च तवानुचितम् इत्य् आहुः—हे वृजिनार्दन ! इति । तत्र च निज-भावोच्छलित-चित्ताः सत्यः । हे रसिक-शेखर ! रस-विशेष-मयम् एव दास्यं देयम् इत्य् आशयेनाहुः—त्वद् इति ।

यद् वा, तत् तादृश-निरीक्षण-तप्तात्मनाम् अपि दास्यम् एव देहि इति । तत्-ताप-हरणेऽप्य् आशा परित्यक्तेत्य् अर्थः । दास्यं चोचितम् एवेत्य् आहुः—हे पुरुष-भूषण ! इति । सर्वत्रैवाथ तव उपास उपास्तिः, तस्य नाशो यासु ता इति । श्लेषेण वसति-विशेषणं च ।

किं वा, हे सुन्दर-स्मित-निरीक्षण ! अतो धूर्ततयैवेदं वदसीत्य् अवहित्थया गुह्यमाणं भावं वाक्-चातुर्याभिव्यञ्जयन्ति । त्वत् त्वत्तो यस् तीव्रः कामः, तेन तप्त आत्मा यासां, तासां नः । अनेन दुःशीलः [२५] इत्य् अस्योत्तरं त्वत्-काम-तप्तानां तत्-त्यागे कथं विचारो दोषो वा ? न हि काम-महा-भुजङ्ग-ग्रस्तानां तयोर् एकतरोऽपि सम्भवतीति ।

निषेधार्थश् च—तत् तस्मात् नोऽस्माकं सम्बन्धे प्रसीद आग्रहं त्यजेत्य् अर्थः । हे वृजिनार्द न इति छेदः । यतः त्वद्-उपासनाशाः सत्यो वसतीर् विसृज्य तवाङ्घ्रि-मूलं न प्राप्ता वयं, तस्मात् यास् त्वत्-सुन्दर- इत्य्-आदि-लक्षणाः, तासां ताः प्रति दास्यं देहि, अस्माकं तु न तेन प्रयोजनम् इत्य् अर्थः । तासाम् अपि नात्यन्त-तद्-अङ्गीकारात् सम्प्रदानत्वाभाव इति षष्ठ्य्-अभिप्रायः । पुरुषान् सखीन् एव तत्-तद्-उत्कण्ठया तत्-तद्-गोकुल-वधू-वेषेण भूषयसि ता इति तत्राप्य् असम्भावना दर्शिता ।

यद् वा, पुरुष-भूः, तत्-सत्ता पुरुष-सामान्य इत्य् अर्थः । हे तस्य ऊषण ! पीडक ! तज्-जाति-मात्र-कलङ्क-कारिन्न् इति स-कोप-सम्बोधनम् । ऊष रुजायाम् इति ॥३८॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३३२) : प्राक्तनं वाक्यं निगमयन्ति—तन् नः इति । वृजिनार्दन इति कर्मण्य् अन् एव—हे सर्व-दुःख-निवारक ! ततस् तस्मात् नोऽस्मान् प्रति प्रसीद इमां दुर्दृष्टिं त्यजेत्य् अर्थः ।

ननु यूयम् अपि गृहादि-त्यागेनात्रागत्य तद्वद् एव मत्-पाद-रजः प्रपन्नाः ? तत्राहुः—न तेऽङ्घ्रि-मूलम् इति । तद्वद् असतोर् विसृज्य त्वद्-उपासनाशाः सत्यस् तवाङ्घ्रि-मूलं न प्राप्ता अपि तु कौतुकेनैव ज्योत्स्नायां वृन्दावन-दर्शनार्थम् आगता इत्य् अर्थः । अतस् त्वदीय-तादृश-निरीक्षण-जात-तीव्र-कामेन तप्तात्मानो याः, तासाम् एव दास्यं देहि, न तु मादृशीनाम् । अत्र षष्ठी चात्यन्त-दानाभावे सम्प्रदानत्वं न भवतीति विवक्षया । अतस् तद् अपि दानं गोकुलेऽस्मिन् नातिस्थिरीभविष्यतीति भावः ।

पुरुष-भूषण ! इति सम्बोधनं च श्लिष्टम् । पुरुषान् गोकुल-गतान् सखि-जनान् एव भूषयति, न त्व् अद्यापि गोकुल-रमणीं काञ्चिद् अपि । अतस् तादृश-तप्तात्मानोऽपि नायिकाः कल्पना-मात्र-मय्य इति भावः । अत्र भावान्तरेण आगति-सूचनात् दृष्टं वनं कुसुमितम् [भा।पु। १०.२९.२१] इत्य् अनेन तद्-भावोद्दीपनम् अपि नादृतम् ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्माद् अस्मभ्यं प्रसीदेत्य् आहुः—तन् नः इत्य्-आदि । तस्माद् अन्यथा-शङ्का-निरासतो नोऽस्मभ्यं प्रसीद । हे वृजिनार्दन ! दुःखार्दन ! वयं कीदृश्यः? वसतीर् विसृज्य त्वद्-उपासनाशाः सत्यस् तवाङ्घ्रि-मूलं प्राप्ताः । तस्माद् दास्यं देहि, अर्थाद् अस्माकम् इत्य् आशयः । कीदृशीनाम् ? त्वत् त्वत्त एव तप्तात्मनाम् । हे सुन्दर ! हे स्मित-निरीक्षणेन तीव्रोऽतिशयोग्रः कामोऽपि यस्मात्, यत्-स्मित-निरीक्षणेन कामोऽपि कुपितो यत इत्य् अर्थः ॥३८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इदानीं विरहाग्नि-ज्वालावली-दृढ-मनस्त्वेन धैर्यं कर्तुम् अपारयन्त्यः स-काकु-दैन्यम् आवेदयन्त्यः प्रार्थयन्ते—तन् नः प्रसीद इति । यस्मात् तव पाद-रजः सेवनम् एव पुरुषार्थावधिः । लक्ष्मी-दृष्टान्तेन च गतानुगतिकत्वेन तव चरण-रजः-सेवनम् एव गृहे स्थिताभिर् एव व्यवसितम् । तस्मान् नोऽस्मान् प्रति प्रसीद प्रसन्नो भव । वाग्-भङ्ग्या कौटिल्यं त्यजेति । हे वृजिनार्दन ! दुःख-हन् ! गोवर्धनोद्धरणादिना परिशीलित-व्रत !

कीदृशीर् नः ? तवाङ्घ्रि-मूलं चरणान्तिकं प्राप्ताः । किं कृत्वा ? वसतीर् गृहान् विसृज्य त्यक्त्वा त्वद्-उपासनाशाः, तवोपासने आशा यासां ताः ।

नन्व् एकान्ते वन-मध्ये एकाकिना मया स्थीयते । भवतीषु कथं प्रसादः कर्तव्यः ? इति चेत् तत्राहुः—तेऽङ्घ्रि-मूलं प्राप्ताः । यस् तु चरण-मूलम् उपास्ते, स एव प्रसाद-पात्रं भवति । तत्र वयं वसतीर् विसृज्य प्रत्यापत्तितया त्यक्त्वा आगताः । किं च, ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् [भा।पु। १०.४६.४] इति त्वयैवोक्तत्वात् । वसतीर् इति स-परिच्छद-सर्व-लब्ध-परित्यागोऽपि विवक्षित इति ।

वृजिनार्दन ! इति कृपालुत्वम् उक्तम् । त्वं कृपालुः, वयम् आर्ताः । आर्तानां दुःख-निवारणे तद्-असिद्धेः गृह-त्यागे हेतुः—त्वद्-उपासनाशाः । यतः सर्व-सङ्ग-परित्यागेन योगिन इव निवृत्ताभिमानतया तवोपासनं कर्तुम् आगताः । आशा नो छेत्तव्येति । अन्यथा तव प्रतिज्ञा-भङ्गोऽपि भविता । ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति त्वयैवोक्तम् । अतो दास्यं देहि । यद् वा, कीदृशीर् वसतीस् त्वद्-उपासंस् तव समीप-स्थितिः, तस्या नाशो यासु ताः । गृह-स्थित्या तद्-असिद्धिर् इत्य् अर्थः । यद् वा, कीदृशीर् वसतीः त्वद्-उपासनां त्वत्-सेवन-रूपां भक्तिं स्यति तनुकुर्वन्ति, तुच्छीकुर्वन्तीत्य् अर्थः । सो तनु-करणे धातोर् इति ।

ननु, गृह-स्वामिनं विहाय दास्यं किम् इति प्रार्थ्यते ? तत्र स्वीयाम् आर्तिं निवेदयन्त्यस् तच्-छान्ति-हेतुं दास्यम् एवाभिलषन्त्य आहुः—त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम-तप्तात्मनाम्—तव सुन्दरं स्मित-पूर्वं निरीक्षणं, तेन तीव्रोऽसह्य एव यः कामः, तेन तप्तः आत्मा मनो यासां नः ।

यद् वा, हे सुन्दर-स्मित ! त्वत् त्वत्तो हेतोर् निरीक्षणं तवावलोकनं, तेन तीव्रो अनिवार्यो यः कामः, तेन तप्त आत्मा क्षेत्रज्ञो यासां, तासां तव कपट-स्मितेन मोहितानां, स्व-दृष्टान्तेन त्वयि शुद्ध-भाव-विजानतीनाम्, इदानीं तव धर्मोपदेशेन औदासीन्यं जानतीनाम्, अत एव रमण-भिन्नान्यत्र निस्पृहानां, नोऽस्माकं दास्यं देहि । दास्यं दत्ते त्वयि व्रजेश्वरादिर् नासूयां करिष्यति । दास्येऽस्माभिर् लब्धे सति पत्य्-आदिर् अपि नासूयां करिष्यति इति भावः ।

यद् वा, हे वृजिनार्दन ! ये त्वां प्रपन्नाः, तेषां पाप-निरसनम् । वयं तु तव पाद-मूलं प्रपन्नाः, तथाप्य् अस्मासु काम-कृतस् तापः । इदम् एव चित्रं, येन पापेन पत्य्-आदि-सङ्गो जातः, तत् पापं तव चरण-दर्शनेन विनष्टम् । यतः पाप-मूला गृहा एव त्यक्ताः, सम्प्रति तव सुन्दराभ्यां स्मित-निरीक्षणाभ्यां जातो यस् तीव्रोऽप्रतीकार्यः कामः, तेन तप्तात्मनां पीडित-चित्तानां हृद्-रोगस्य त्वम् एव निदानम् । तस्य निवर्तकम् औषधं त्वद्-दास्यम् एव । दशम्य्-अवस्थायाः प्राग् एव देह-गृहादिकं दुःख-निदानम् इति ज्ञात्वा प्राग् एव त्यक्तम् । त्वं तु काम-तापं ददद् अपि त्याजयितुं न शक्यः । अतो दास्यं दत्त्वास्मान् रक्षेति प्रार्थना ।

हे पुरुष-भूषण ! पुरुषाणां सखानां गोपानाम् अलङ्करणं सर्वदा सखिभिः सह विहर्तुं पुष्प-पल्लव-गैरिकादिभिस् तान् अलङ्करोषि । तथैव कदाचिद् अस्मान् अप्य् अलंकुर्व् इति भावः । यद् वा, हे पुरुष ! अस्माकम् अन्तर्यामिन् ! अस्मासु जातां पीडां जानिषे । अतो निवर्तय । हे भूषण ! वयं भूष्याः, त्वं तु भूषणम् । अतस् त्वम् अस्मान् भूसयेति । दास्यस् तु स्वामि-सेवया लब्ध-प्रसादा अकुतो-भयाः सत्यो विचरन्ति । अतो दास्येनालङ्कुर्व् इति प्रार्थना ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् गृह-कुटुम्बादिकं परित्यज्य नारायणस्य भक्ता इव वयं तव दास्यम् एव कामयामहे इत्य् आहुः—तन् नः इति । यतस् त्वं नारायण-तुल्यः, तस्माद् अस्मान् प्रति प्रसीद

ननु, मत्-प्रसाद-प्रतिकूलं दुःखादृष्टं भवतीनाम् अस्तीत्य् अतः कथं प्रसादः ? नारायणोऽपि किं सर्वत्रैव प्रसीदति ? इत्य् अत आहुः—हे वृजिनार्दन ! तद् अपि दुःखं त्वम् एवार्दय । नारायणो ह्य् अवश्यम् एव प्रपद्यमानानां दुःखम् अर्दयति । वयं च तेऽङ्घ्रि-मूलं प्राप्ताः । तत्रापि कामनान्तर-राहित्येनैवेत्य् आहुः—विसृज्य वसतीः इति ।

ननु, गार्हस्थ्य-सुखं परित्यज्यापि मत्तः सुखं किञ्चनावश्यम् अर्थयध्वे इति जानीमः ? तत्राहुः—त्वद्-उपासनायाम् एव आशा, न तूपासनायाः फले कस्मिंश्चन सुखे त्वया दास्यमाने आशा यासां ताः । अयम् अर्थः—उपासनाया त्वां सुखयाम इत्य् एवाभिप्रायेऽपि त्वत्-सुख-दर्शनोत्थं यदि नः सुखम् आकस्मिकं भवेत्, तर्हि को दोषः ? इति ।

ननु, तर्हि कथम् उक्तम् अस्माकं हृच्-छयाग्निं सिञ्च [३५] इति ? सत्यं, तद्-अग्नि-ज्वालाया अपि त्वम् एव कारणम् इत्य् आहुः—तव सुन्दर-स्मित-निरीक्षणेन यस् तीव्र-कामः, तेन तप्त आत्मा यासां, तासाम् अस्माकं दास्यं दासीत्वम् एव देहि, न तु पत्नीत्वम्

अत्र श्रीमद्-वल्लभाचार्य-चरणानां व्याख्या—अतो दास्यार्थिन्य एव वयं, न तु विवाहार्थिन्यः । अत उपनयनाद्य्-अपेक्षापि न लोक-व्यवहारेण इत्य् एषा । ततश् चास्माकं कन्यात्वे परोढात्वे वा न कापि क्षतिः, उभयीभावेऽपि त्वद्-दास्य-सम्भवाद् इति भावः ।

प्रकृत-वैष्णव-तोषण्यां श्री-सनातन-गोस्वामि-चरणानाम् अपि—विवाहे सति पत्नीत्वेन भजनाद् अप्य् औपपत्न्येन भजनं परम-महा-सुखम् । तच् च श्री-भागवतामृत- काव्यालङ्कारादौ च प्रसिद्धम् एव । अत एवात्र दास्य-विशेष एव प्रार्थितः । अधुना च प्रार्थ्यते दास्यो भवामः [३९] इत्य् एषा ।

कथं भावः ? काम-महोदधित्वाद् एव स्त्री-लम्पटस्य तवास्माभिर् युवतिभिर् उपासनां स्वाङ्गैर् एव त्वत्-सुखोत्पादन-लक्षणा खल्व् एषैवेत्य् अतो हृच्-छयाग्नि-सेक-प्रार्थनापि त्वद्-उपासना-प्रार्थनैव । कामाग्निर् अप्य् अस्माकं त्वद्-उपासनोपकरणम् एव मुख्यम् इति । अत एव समुचितम् एव सम्बोधन-पदम्—हे पुरुष-भूषण ! गौराङ्गीनाम् अस्माकम् इन्द्रनील-मणि-मय-सर्वाङ्गालङ्कारेति ॥३८॥


॥ १०.२९.३९ ॥

वीक्ष्यालक-वृत-मुखं तव कुण्डल-श्री-

गण्ड-स्थलाधर-सुधं हसितावलोकम् ।

दत्ताभयं च भुज-दण्ड-युगं विलोक्य

वक्षः श्रियैक-रमणं च भवाम दास्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, गृह-स्वाम्यं विहाय दास्यं किम् इति प्रार्थ्यते ? त आहुः—वीक्ष्य इति । अलकावृत-मुखं केशान्तरैर् आवृत-मुखम् । तथा कुण्डलयोः श्रीर् ययोः, ते गण्ड-स्थले यस्मिन्, अधरे सुधा यस्मिन्, तच् च तच् च तव मुखं वीक्ष्य, दत्ताभयं भुज-दण्ड-युग्मं वक्षश् श्रिया एकम् एव रमणं रति-जनकं वीक्ष्य, दास्य एव भवाम इति ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयोग्यार्हं दास्यं यूयं योग्याः किम्-अर्थम् इच्छथ ? इत्य् आशङ्कते—ननु इति। अलकाश् चूर्ण-कुन्तलाः इत्य् अमरः । अतिसुभगत्वात् तव सर्वेश्वरस्य दास्यम् एवोचितम् इति भावः । केचित् त्व् अत्र अलकावृत-मुखस्य जालत्वम्,

कुण्डलयोर् वंसिकात्वं, गण्ड-स्थलस्य विशाल-भूमित्वम्, अधर-सुधाया लोभकत्वं, हसितावलोकस्य मोहिनीत्वम्, वेणु-गीतस्य भैरव-रागत्वम्, गोपी-जनानां वन-चरत्वं, नेत्राणां खञ्जनत्वं कल्पयन्तीति ॥३९॥

अतः परं विश्वनाथ-टीका सामस्त्येन उद्धृता।


कैवल्य-दीपिका : ननु सन्त्य् अत्र पुरुषान्तराणीति किं ममैव प्रार्थनया ? इति चेत्, तत्राहुः—वीक्ष्य इति । अलकाश् चूर्ण-केशाः । कुण्डल-श्रीश्गण्ड-स्थलंअधर-सुधा चेति द्वन्द्वैक्यम् । हसितंअवलोकश्श्रिया एक-रमणम् । आर्षोऽवर्णागमः सन्धिर् वा । अन्यान्यापेक्षं वक्षः श्री-प्रलोभकम् इत्य् एक-शब्दार्थः । भवाम इत्य् आशिषि लोट् ॥३९॥ [मु।फ। ११.३३]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपासनाशाः इति यद् उक्तं, तत् कीदृशम् ? इत्य् अन्या ऊचुः—वीक्ष्यालकावृतम् इत्य्-आदि । अलकावृत-मुखं, तव गण्ड-स्थलं च, अधर-सुधा-हसितम् अवलोकं, भुज-युगं, वक्षश्वीक्ष्य दास्यो भवामः । एतेषाम् उपासना-योग्या भवाम इत्य् अर्थः । वक्रोक्तिः ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु दास्य-रसिकाः ! तर्हि प्रायः एतादृश-भावानां श्रीदाम-सुबलादीनाम् इव दास्यम् अङ्गीकुरुत ? इति चेत्, तत्र किं वा दास्य-विशेष-प्रार्थने हेतुं स-भावम् आह—वीक्ष्य इति । साक्षाद् अन्तिके दृष्ट्वा प्राधान्येन श्री-मुखस्य भुजयोर् वक्षसश् च वर्णनं गण्ड-चुम्बनाधरामृत-पान-गाढालिङ्गनाद्य्-अभिप्रायेण, तत्र च अलकैर् ललाटोपरि विलसद्भिर् आवृतम् इत्य् ऊर्ध्व-भागस्य, कुण्डल-श्री इति द्वयोः पार्श्वयोः, हसितेन अवलोको यस्मिन्न् इति अधो-मध्य-भागयोर् इत्य् एवं सर्वत्र शोभोक्ता । स्थल-रूपकेण गण्डयोर् दर्पणादिभ्योऽपि सौन्दर्यं ध्वनितम् । दत्तम् अभयं भक्तानां दैत्य-वधादिना येन इत्य्-आदि बलिष्ठत्वादि-गुणः । तेन च चातुर्येण पत्य्-आदिभ्यो भयं परिहृतम् । वस्तुतस् तु गाढाश्लेषेण कामादि-भय-हरत्वम् अभिप्रेतम् ।

दण्ड-रूपकेण सुवृत्त-पृथु-दीर्घत्वाद्य्-आकार-सौष्ठवम् । श्रिया लक्ष्म्या निज-शोभया वा कृत्वा, एकं श्रेष्ठम् अद्वितीयं वा रमणम् इति परम-सौन्दर्यं शोभाधिक्यं चोक्तं -कार-द्वयम् । विलोक्य इति पुनर् उक्तिश् च श्री-मुखवद् भुज-वक्षसोर् अपि प्राधान्य-विवक्षया ।

किं वा, दासीत्वे तद्-दर्शन-मात्रैक-हेतुतोक्त्या तत्-तत्-परम-मोहनतैव दर्शिता । अतो दासीत्वेन तत्-तद्-रस-विशेषस्य यथायथं साक्षाद्-अनुभव-संसिद्ध्या दास्य एव भवाम इत्य् अर्थः । वर्तमानायां पञ्चमी ।

गूढोऽयम् अभिप्रायः—विवाहे सति पत्नीत्वेन भजनाद् अप्य् औपपत्येन भजनं परम-महा-सुखम् । तच् च श्री-भागवतामृते काव्यालङ्कारादौ च प्रसिद्धम् एव । अत एवात्र दास्य-विशेष एव प्रार्थितः । अधुना च प्रार्थ्यते—दास्य एव भवाम इति । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, कुण्डलयोः श्रीः शोभा येन, तन् मुखम् । केषाञ्चिन् मते श्री इति दीर्घः पाठः । ततश् च कुण्डलयोः श्री-स्वरूपे गण्ड-स्थलेऽधर-सुधां च द्वन्द्वैक्यम् । तथा हसितंअवलोकं च इति सर्वेषां प्राधान्यं द्योतितम् । तच् -काराभ्यां व्यञ्जितम् एव । विलोक्य सुदृश्यम् परम-सुन्दरम् ।

यद् वा, जागताम् एव विशेषेण लोक्यं दृश्यं यद् वक्षः, तत्, पुंसाम् अपि मनोहरत्वात् । अत एवोक्तं श्री-कपिल-देवेन—

वक्षोऽधिवासम् ऋषभस्य महा-विभूतेः

पुंसां मनो-नयन-निर्वृतिम् आदधानम् । [भा।पु। ३.२८.२६]

अस्यार्थः—ऋषभस्य सर्व-श्रेष्ठस्य श्री-कृष्णस्येत्य् अर्थः । निजाशेष-भगवत्ता-प्रकटनात् पुंसाम् अपि, किम् उत स्त्रीणाम् ? साक्षात् तथानुक्तिर् मातर्य् उक्तेर् इति ।

अप्य्-अर्थे -शब्दः । श्रिय एक-रमणं क्रीडा-स्थानम् अपि सदा तत्र निवासात् । किं वा, सुख-प्रदम् अपि सदा तद्-आश्लेषात् ।

यद् वा, श्रियः शोभाया अप्य् एकं श्रेष्ठम् अद्वितीयं वा रमणम् । विसर्ग-लोपेऽपि सन्धिर् आर्षः । ततश् च, -कारोऽन्वाचये40 प्रथमः, अप्य्-अर्थे द्वितीयः । एवं श्री-मुखाद् भुजयोर् गौणत्वम् । ततोऽपि वक्षसोऽभिप्रेतं शोभा-सुखातिशयवत्त्वेऽपि तस्य लक्ष्म्य्-आक्रान्तत्वेन सापत्न्याद् असूयया गौणत्वम् अधिकम् ।

यद् वा, -काराभ्यां पूर्ववत् सर्वेषाम् एव प्राधान्यं द्योतितम् । सर्वेषाम् अपि प्रत्येकं प्राधान्येन दासीत्वे हेतुत्वात् । यद् वा, पूर्वं दास्य-विशेष-प्रार्थने जारत्वेनैव भजनम् अभिप्रेतम् ।

ननु, लोल-प्रकृतयः ! तद् एव कथं प्रार्थ्यते ? कृत-कात्यायनी-व्रत-कुमारी-वर्गवत् सर्वा अपि विहार-द्वारा पत्नीत्वं मे न कथम् इष्यते ? इत्य् अत्र स-वैदग्ध्यम् आहुः—वीक्ष्य इति । दास्य एव भवाम, औपपत्येनैव त्वां भजाम इत्य् अर्थः । आशिषि पञ्चमी [लोट्] । अनेनैव निर्भर-प्रेम-रसाविर्भूत्या यथा-यथं तन्-मधुर-रसानुभव-विशेष-सुसिद्धेः । तच् च श्री-भागवतामृते वर्णितम् एव, काव्यालङ्कारादौ च प्रसिद्धम् । एतेन अस्वर्ग्यम् [भा।पु। १०.२९.२६] इत्य् अस्योत्तरम् । त्वच्-छ्री-मुखादि-वीक्षणेन औपपत्ये जन्यते, तत्रास्माकं को नाम दोषः ? इति ।

किं वा, औपपत्येन तद्-भजने मोक्षाद् अपि वैकुण्ठ-लोक-सुखाद् अपि लक्ष्म्य्-आदि-भजनानन्दाद् अपि च परम-सुख-विशेष-सिद्धेः, किं नाम अस्वर्ग्यत्वादिकम् ? अतः कुल-स्त्रीणाम् एव त्वया सह तद् उचितम् इति ।

श्लेषार्थः—एतादृशं तव श्री-मुखादिकं वीक्ष्य अपि तव दास्यः कर्म-कार्योऽपि भवाम सम्बावनायां पञ्चमी । भवेम किम् ? काक्वा, अपि तु नैवेत्य् अर्थः । तत्र हेतुः—श्रिय एव एकं रमणम् इति सर्वेषाम् एव विशेषणं, चञ्चल-प्रकृतेस् तस्या एव, न तु स्थिर-प्रकृतीनां पतिव्रतानाम् अस्माकं त्वन्-मुखादिना रमणम् इति ।

यद् वा, कुण्डल-श्री इत्य्-आदि-रूपम् अलकावृत-मुखं तव त्वया वीक्ष्य विशेषेण ईक्षयित्वा दर्शयित्वा, भुज-दण्ड-युगं च विलोक्य विशेषेण लोकयित्वा दर्शयित्वा, वक्षश् च दर्शयित्वा भयं प्रति वयं दत्ताः । भयाय समर्पिता वयम् इत्य् अर्थः । अतोऽस्माकं बह्याभावाय अस्मद्-आस्यो मद-रहित-मुखो भव ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु भवत्यो न धनादिना मूल्येन क्रीताः, न वा दत्त-भृतयः । कुतो दास्यो भवेयुः ? उच्यते—अन्यत्रैव खल्व् असाव् अन्योऽन्येन स व्यवहारः । भवति तु स्व-मुखादि-दर्शन-दानम् एव मूल्यं भृतिश् चेत्य् आहुः—वीक्ष्य इति । विशेषेण दृष्ट्वा विशेषम् एवाहुः—अलकावृत- इत्य्-आदि विशेषणैः । तत्र च अलकैर् ललाटोपरि विलसद्भिर् आवृतम् इत्य् ऊर्ध्व-भागस्य । कुण्डल-श्री- इति द्वयोः पार्श्वयोः । हसितेनावलोको यस्मिन् इति अधो-मध्य-भागयोर् इति । एवं सर्वत्र शोभोक्ता स्थल-पूर्वकेण गण्डयोर् विस्तीर्णत्वं, कुण्डल-श्री इत्य् अनेन स्वच्छत्वं च ध्वनितम् । अधरेसुधानुमानं दर्शन-मात्राल् लोभ-विशेषोत्पत्तेः सौरभ्य-विशेषानुभवाच् च ।

तथा दत्तम् अभयं भक्तानां दैत्य-वधादिना येन इत्य्-आदि बलिष्ठत्वादि-गुणः । तेन च चातुर्येण पत्य्-आदिभ्यो भयं परिहृतम् । वस्तुतस् तु गाढाश्लेषेण कामादि-भय-हरत्वम् अभिप्रेतम् । दण्ड-रूपकेण सुवृत्त-पृथु-दीर्घत्वाद्य्-आकार-सौष्ठवम् । अत्राप्य् एवं वैशिष्ट्यम् उक्तम् । तथा श्रिया वाम-भाग-स्थ-स्वर्ण-वर्ण-लक्ष्मी-रेखा-रूपया लक्ष्म्या कर्त्र्या एकं श्रेष्ठं रमणं यस्मिन्न् इति परम-सौन्दर्यादि-सम्पत्ति-निधानत्वम् उक्तम्। -कार-द्वयं विलोक्य इति पुनर् उक्तिश् च निज-वास-भुज-वक्षसोर् विशेषाश्रयता-विवक्षया । तथोत्तरयोर् द्वयोर् एका क्रिया चैक-सम्प्रयोजन-जनकत्वात् तादृश-गण्डाधर-मण्डिते श्री-मुखे हि चुम्बन-पाने भुज-वक्षसोश् चालिङ्गन-मात्रम् अभिलषितम् इति ।

अत्रालकादीनाम् उक्ति-क्रमेण इदं गम्यते—प्रथमतो मुखस्य तत्-तत्-सौन्दर्य-दर्शने जातेऽपि लज्जया न चातुरक्षणे दर्शनं, किन्त्व् अत्युत्कण्ठया । पश्चाद् एव तत इच्छा-विशेषेण येन भुजौ दष्टौ, तस्य तु विश्रामो वक्षस्य् एवेति तथा क्रमो ज्ञेयः । एवं दासीत्वे हेतुः परम-मोहनतैवेति ध्वनितम् ।

किं च, भृतिर् मूल्यं च खलु विषय-दानम् एव लोके दृश्यते, तत् तु त्वयि तत्-तद्-रूप-शोभावति मधुराधर-सुधे लोभनीय-भुजादि-स्पर्शे पूर्ण-लक्ष्मी-निधान-वक्षसि लब्धे, स्वतः-सिद्धम् एवेति, तथापि वीक्ष्य इति स्वेषां नेत्र-खञ्जन-बन्धोऽपि ध्वनितः । तत्र अलकानां पाशत्वं, कुण्डलयोस् तद्-अन्तिम-कुण्डलिका-रूपत्वं, गण्डयोस् तन्-निधान-स्थलत्वम् अधर-सुधाया लोभ्याहारत्व-हसितावलोकस्य विश्वास-जनक-स्व-पालित-खञ्जन-द्वयाविलासत्वम् । तत्र भुज-दण्ड-युगस्यदत्ताभयत्वम् एव पल्लव-युक्तत्वाद् इति भावः । तादृश-वक्षसश् च सुख-चार-प्रदेशत्वम् इत्य् अपि ज्ञापितम् । अन्यत् तैः ।

यद् वा, कुण्डलयोः श्रीः शोभा येन, तन् मुखं । केषाञ्चिन् मते श्री इति दीर्घः पाठः । ततश् च कुण्डलयोः श्री-हेतु**-गण्ड-स्थले** च अधर-सुधा च, तासां द्वन्द्वैक्यं, तथा हसितंअवलोकश् च, तत् तच् च वीक्ष्य इति सर्वेषां प्राधान्यं द्योतितं । विलोक्य सुदृश्यम् इति निषेधार्थस् तु ।

ननु यद्य् एवं, तर्हि कथं ममाङ्गानि मुहुर् वीक्षमाणा एव तिष्ठथ ? तत्र साटोपम् आहुः—वीक्ष्य इति । अत्रापि काक्वैव निषेधो व्यङ्ग्य इति ॥३९॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : अथ श्रवणाद् [भा।पु। १०.२९.२७] इत्य्-आदौ दर्शनान् मयि भावः इत्य् अनेन यन्-निज-सौन्दर्य-बलं दर्शितं तत्राहुः—वीक्ष्य इति । अत्राप्य् अन्त्यश् -शब्दः काक्वा । पूर्वस् तु तत्-तद्-उक्त-समुच्चये । एतद् अपि एतच् चापि विलोक्य दास्यो भवाम, अपि तु न सर्वथैव इत्य् अर्थः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अद्य किं दास्यं दास्यसि ? दास्यस् तु वयं भवाम एवेति सिद्धवद् अन्या आहुः—वीक्ष्य इत्य्-आदि । तव मुखं वीक्ष्या दर्शनीया येऽलकाः, तैर् आवृतम् । पश्चात् कर्मधारयः । कुण्डलयोः श्रिया युक्तं गण्ड-स्थलं यस्य तत् तथा । अधरे सुधा यस्य तत् तथा । [विलोक्यं] दर्शनीयं वक्षश् च कर्मधारयः । कीदृशम् ? श्रिया हेतु-भूततया एक-रमणम् । एतानि यथा स्वभाव-सिद्धानि भवन्ति, तथा वयम् अपि दास्यो भवाम इत्य् अर्थः । अथवा, वीक्ष्य विलोक्य इति पूर्व-काले ल्यप्, तन् नातिसुरसम् ॥३९॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु, पूर्वं पद-रजः-सेव्यत्वेन प्रार्थितम् । इदानीम् अन्यद् अपि भिक्षु-प्रसारिका-न्यायेन प्रार्थयन्त्यो व्याजेन दास्यम् एव स्वीकुर्वन्ति इति ज्ञात्वा पृच्छन्ति । गृह-त्यागे को वा दोषः ? दास्यो भवामः

कीदृशं मुखम् ? कुण्डलयोः श्रीर् ययोः, ते गण्ड-स्थले । यस्मिन् अधरे सुधा यत्र, तत्र। पुनः कीदृक् ? हसितं हासस् तद्-विलसितोऽवलोको यस्मिन् । ततः प्रथमं तासां मनसि सुखम् एव मुख्य-स्वाद्यं तेनाभिप्रेतम् । अतस् तद् एव वर्णयन्ति—अलकावृतम् इति । अलि-कुलावृत-नीलोत्पल-सादृशेन वर्णितं मकरन्दाधिक्येन पेयत्वम् अभिप्रेतम् । कुण्डल-श्री इति पार्श्व-द्वयं पीन-युगावृतत्वेन शोभातिशयः सूचितः । गण्ड-स्थले स्वच्छत्वं द्योतितम् । अधर-सुधा इति लोभाश्रयत्वं सूचितम् । हसितावलोकम् इति विलास-प्रकाश-भरः सूचितः ।

भुज-दण्ड-युगं च विलोक्य । कीदृशं ? दत्ताभयम् । भक्तेभ्यो दत्तम् अभयं येन स्व-सामर्थ्येन गोवर्धनोद्धरणादिना—न त्रास इह वः कार्य [भा।पु। १०.२५.२१] इति त्वयैवोक्तत्वात् । बहुशोऽनुभूतत्वाच् च विलोक्य । कीदृक् ? श्रिय एकम् एव रमणं रति-जनकम् । यद् वा, श्रिया शोभया अस्माकम् एव रमणम् इति शोभातिशय उक्तः । मधुर-रसालम्बनम् एतत् सर्वं दृष्ट्वा दास्यं स्वीकार्यम् । एतद् वेशेनाप्य् अलं, किम् उत समुचितम् एतत् सर्वम् इति । गृह-स्वाम्ये न किञ्चिद् दास्ये सर्वम् एव सम्पत्स्यते । अत एव अमूल्य-क्रीता दास्यो भवाम इति ।

यद् वा, अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् [भा।पु। १०.२९.२६] इति च तत्रोत्तरम् अन्यत्र औपपत्यं जुगुप्सितम् एव । इह तु न, यत एते दोषाः गुणत्वेन परिणताः, नव-भृत्येषु स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिन [भा।पु। ६.१७.१८] इति तव मुख-दर्शने जाते स्वर्गस्य हेयत्व-दर्शनाद् इष्टापत्तिर् एव मुकुर-स्थानीययोर् गण्डयोः स्व-प्रतिबिम्ब-दर्शनाय स्वीकृतत्वाज् जात्व् एवौपपत्यं स्वीकृतम् ।

अत्रापि देव-भोग्यायाः सकाशाद् उत्कृष्टाया अधर-सुधाया भोग्यत्व-दर्शनात् औपपत्य-स्वीकारः । हसितावलोकम् इति । अन्यत्रौपपत्यं यशसो मलिनत्वं भवति । अत्र तु हसितम् अप्य् उज्ज्वलम्, अवलोकोऽप्य् उज्ज्वलः । अयशसोऽप्य् उज्ज्वलत्वम् । अतः स्वीकृतम् अन्यच् च फल्गु स्वल्प-काल-भोग्यम् अपि अभयदेन भुज-द्वन्द्वेन रक्षितत्वात् स्वीकृतं कृच्छ्रं दुःसाध्यम् अपि श्री-सेव्यत्वात् स्वीकृतं बहु-दोषाक्रान्तत्वेन प्रतीतम् अप्य् औपपत्यम् अस्मच्-चित्ताभिप्रायेण सुखात्मकम् एव प्रतीयते । अन्येषां जुगुप्सितम् अप्य् अस्माकम् अजुगुप्सितम् एवेति । गृहोचितं सुखं स्वर्ग्यं यशस्यं बहु-काल-भोग्यं सुख-साध्यम् । अजुगुप्सितम् च एतादृशम् अप्य् अस्माभिस् त्यक्तम् । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिन [भा।पु। ६.१७.१८] इत्य् उक्तत्वात् । अयशस्यं यशो हि स्वर्गस्य मूलं—यावत् कीर्तिर् मनुष्यस्य पुण्या लोकेषु गीयते । तावत् प्रमोदते स्वर्गे [म।भा। ५.३५.४] इति स्वर्ग-हेतुत्वाद् यशोऽपि त्यक्तम् । अस्वर्ग्यं स्वर्ग्यस्याकाम्यमानत्वात् । अन्येऽपि भक्ताः स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिन [भा।पु। ६.१७.१८] इत्य् उक्तात् ।

यद् वा, फल्गु स्वल्प-काल-भोग्यम् अपि स्वीकृतं, बहु-सुख-पूर्णत्वात् । कृच्छ्रं दुःसाध्यम् अपि स्वीकृतं, त्वत्-पद-प्राप्ति-हेतुत्वात् । जुगुप्सितम् अपि स्वीकृतं पत्य्-आदिभिर् अस्मत्-त्यागस्य करिष्यमाणत्वात् । बहु-काल-भोगस्यापि परिणाम-विरसवत्त्वात् । तद् उक्तं—न नाक-पृष्ठम् [भा।पु। १०.१६.३७] इति । अन्यासं पति-व्रतानां षट्-दोषाकृआन्तम् अप्य् औपपत्यम् अस्माकं षड्गुण-युक्तम् एव जातम् । तद् उक्तं—क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः [भा।पु। ११.२१.१६] इति । यथा ब्राह्मणस्य अध्ययनम् अध्यापनं च गुणः, शूद्रस्य तु दोषः। एवम् अन्यासां दोष-बुद्ध्य्-औपपत्तौ विमुखानाम् अप्रवृत्तौ सत्यां तव भजनो धर्म इति जानतीनाम् अस्माकम् औपपत्यं गुण एव । अन्याभिर् अनास्वादितत्वाद् दोष एव । अतस् तास्व् एवम् अयम् उपदेशः । अत इयं विभीषिका नास्मास्व् अवकाशं लभत इति वाक्यार्थः । यतस् तव दास्यं परम-पुरुषार्थ-साधकं, न हि परम-पुरुषार्थ-साधकं पाप-साधकं भवति । मुखादि-वीक्षण-रूपेण मूल्येन क्रीता दास्यो भवाम । उपभोगस् तु भवत्-प्रसाद-लभ्य एव । तस्मिन् जाते किम् अलभ्यम् ? इति मुखादि-दर्शनेनास्मद्-औपपत्य-व्यवसायं दृढीकृत्य इदानीम् अस्वर्ग्यम् इत्य्-आदि विभीषिकाम् उत्पादयन् किं न लज्जसे ? इति भावः ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यूयं यन् मम दास्यो भवथ, तत् किं मया मूल्येन क्रीताः स्थः ? स्वीय-दत्त-भृतयो वा ? तत्र भवता अस्मत्-समुचित-मूल्यात् कोटि-कोटि-गुणितेन अस्मद्-अदृष्टाश्रुत-चरेण महानर्घ्येण हसितावलोक-चिन्ता-रत्नेनास्मान् वयः-सन्ध्य्-आरम्भ एव क्रीत्वा स्वीय-कुञ्ज-मन्दिरम् आनीय नील-निधि-पद्म-निधि-जाम्बुनद-मकर-युगल-चिन्तामणि-मय-स्थली-मणि-स्तम्भ-लक्ष्मी-विलासास्पद-नीलमणि-मन्दिराण्य् अलकादि-व्याजेन स्व-सम्पत्तीर् दर्शयित्वा देवैर् अपि दुर्लभम् अमृतं प्रतिदिनं भोजयसीत्य् आहुः—वीक्ष्य इति ।

यदा शोण-वक्रोष्णीषं शिरसि बध्नासि, तदा दासी-जनेन कङ्कतिकया उत्कृष्योर्ध्व-नयनात् त्वया च स्वाङ्गुल्या यत्नान् निरुद्ध्योन्नीयोष्णीषान्तः-प्रवेशनात् भाल-वाम-दक्षिण-प्रान्तयोर् एव दृश्यमाण-मूल-भागैर् अलकैर् आवृतम् अनाच्छन्नं मुखं वीक्ष्य इति । यदा चूडां बध्नासि, तदा भालाग्र-वाम-दक्षिण-भागेष्व् अपि कुञ्चितैर् अनतिदीर्घैर् अलकैर् आ ईषद् आवृतं मुखं वीक्ष्य । अभ्यङ्गोद्वर्तनादि-समये सम्प्रयोग-भर-समये च अलकैर् आ सम्यक् प्रकारेणैव आवृतम् आच्छन्नं मुखं वीक्ष्य, ईक्षणाभ्याम् आस्वाद्यमान-माधुर्य-भरी-कृत्य वयं दास्यो भवामः

मुखं कीदृशम् ? कुण्डलाभ्यां समय-भेदेष्व् अलकैर् अनावृताभ्याम् ईषद् आवृताभ्यां सम्पूर्णावृताभ्यां च । अचपलाभ्याम् ईषच् चपलाभ्याम् अतिचपलाभ्यां च श्रीः पृथक् पृथक् शोभा यत्र तत् ।

हसित-प्रहसित-समये गण्डयोर् अपि सृक्वण्योर् विततत्वात् । गण्ड-स्थलेऽपि अधर-सुधा अधर-माधुर्याच् छलनं यस्य तत् । गण्ड-स्थलात् गण्ड-स्थलम् अधिरुह्य गोपी-नयन-चकोरैः पीयमाना अधर-सुधा यस्य तत् । रहस्य-समय-भेदे तु गोपीनां गण्ड-स्थले अधर-सुधा यस्य तत् । गण्ड-स्थलयोर् गोपीनाम् अधर-सुधा यस्य तत् ।

यद् वा, कुण्डलयोः श्रीः प्रतिबिम्ब-रूपा शोभा ययोः, ते गण्ड-स्थले यस्मिन् अधरे सुधा यस्मिन्, तच् च तच् च तद् इत्य् एक-पदं । हसित-युक्तोऽवलोको यत्र तद् धसितं, प्रफुल्लता गोपीनां कुमुदानां च अवलोकाद् यस्माद् इति वा ।

ननु, युष्मत्-पतय एतद्-असहिष्णवः फुत्कारेण कंस-राजतो मम भवतीनां च भयम् उत्पादयिष्यन्ति ? तत्राहुः—दत्तम् अभयं महेन्द्र-दर्पकादिभ्योऽपि पर्वत-धारणादिना येन, तथा-भूतं भुज-दण्ड-युगम् इति तथा चेत् त्वद्-भुज-दण्ड एव कंस-पशोः प्राण-हारको भविष्यतीति भावः । एवं च व्यञ्जितेन वीर-रसेन शृङ्गार-रसः पुष्टो भवति स्म ।

ननु, पर-नारीर् न दासीः करोषि, किन्तु नारायणस्य नारीं लक्ष्मीम् अपि वैकुण्ठाद् बलाद् आनीय स्व-वक्षसा वहसीत्य् आहुः—वक्ष इति । श्रिया लक्ष्म्या कर्त्र्या लज्जा-वशात् सुवर्ण-रेखा-रूपया एकं मुख्यं रमणं यत्र तत् । तस्माद् अधुना ते कियद् वयो बभूव चतुर्दश-भुवनेषु मध्ये तद्-ऊर्ध्व-लोकेष्व् अपि ब्रह्माण्डाद् बहिर् महा-वैकुण्ठ-लोकेष्व् अपि मध्ये कस्यापि काम् अपि सुन्दरीं नारीं त्वं न त्यक्ष्यसीति जानीम इति व्यञ्जितं भवति ॥३९॥


॥ १०.२९.४० ॥

का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन41

सम्मोहिताऽर्य-चरितान्42 न चलेत् त्रिलोक्याम् ।

त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं

यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु जुगुप्सितम् औपपत्यम् [भा।पु। १०.२९.२६] इत्य् उक्तम्, तत्राहुः—का स्त्री इति । अङ्ग ! हे कृष्ण ! कलानि पदानि यस्मिंस् तद् आयतं दीर्घं मूर्च्छितं स्वरालाप-भेदः, तेन । पाठान्तरे, "कल-पदामृत"-मयं "वेणु-गीतं", तेन संमोहिता का वा स्त्री आर्य-चरितान् निज-धर्मान् न चलेत् ? यन्-मोहिताः पुरुषा अपि चलिताः । किं च, त्रैलोक्य-सौभगम् इति यद् यतः अबिभ्रन्न् अबिभ्रुः । त्वद्-द्योतक-शब्द-श्रवण-मात्रेणापि तावन् निज-धर्म-त्यागो युक्तः, किं पुनस् त्वद्-अनुभवेनेति भावः ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वोक्तौपपत्ये जुगुप्सितत्वं परिहरन्त्य आहुः—कलानि व्यक्त-मधुराणि । निज-धर्मात् पातिव्रत्य-लक्षणात् । कल-पद-गान-श्रवणजानन्द-मग्नानां धर्माधर्म-स्मृतिर् एव नोदेतीति भावः । गवादयोऽन्तश्-चेतनाः । येन वेणु-नादेन मोहिताः पुरुषा अपि शक्र-शर्व-परमेष्ठि-पुरोगाः [भा।पु। १०.३५.१५] इत्य्-उक्तेः शङ्कर-प्रभृतयः स्त्री-वेशं कृत्वा गोपी-वृन्दे मिलिता अभूवन्न् इति, स्त्रीणां तु का वार्ता ? इति भावः ।

न केवलं मनुष्याणाम् एव मोहोऽपि तु तद्-इतरेषाम् अपीत्य् आहुः—किं च इति । त्रैलोक्यस्य सौभगम् अलङ्कारम् इदम् अस्मद्-दृग्-गोचरी-भूतं रूपं सुन्दरतरावयवोपकॢप्तम् आकारम् ।

इति भावः इति । त्वद्-द्योतक-शब्दस्य मधुसूदन-मुरारि-गोविन्देत्य्-आदि-शब्दस्य श्रवण-मात्रेण विनष्टा खिल द्वन्द्वानां विधि-निषेध-कैङ्कर्याभावान् निज-धर्मस्य वर्ण-क्रमाद् आगतस्य त्यागो युक्तः । एवं,

यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्-

सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः । [भा।पु। १०.४७.१८] इत्य्-उक्तेः ।

श्रवण-वर्णन-भावम् अथापि वा न हि भवामि यथा विधि-किङ्करः [भावार्थ-दीपिका १०.८७.४१] इति वक्ष्यन्ति स्वामि-चरणाः । पुनस् त्वद्-अनुभवेनाहं ब्रह्मास्मीति साक्षाद्-आत्म-साक्षात्-कारेणेत्य् अपि तात्पर्यम् । यथा-श्रुतं तु त्वद्-द्योतक-शब्दे वेणु-ध्वनिर् इमं कृष्णो वादयत्य् एवं-रूप इति ॥४०॥


कैवल्य-दीपिका : तथापि पर-पुरुष-प्रसङ्गाच् च सन्-मार्गातिक्रमोऽनुचित इति चेत्, तत्राहुः—का स्त्री इति । कलैर् मधुरैः पदैर् अमृतं सुधीभूतं यद् वेणु-गीतम् । तेन सम्मोहिता उत्पन्न-सम्मोहाख्य-नवम-स्मर-दशा त्रैलोक्यस्य सौभगम् सौभाग्यं जन-प्रियत्वं यस्मिन् रूपेयत् यस्मात् वेणु-गीताद् रूपाद् वा गवादयः पुलकान्य् अबिभ्रत् नितरां धृतवन्तः । द्विजाः पक्षिणः । अयोग्येष्व् अपीति मङ्क्षु भावाविर्भावात् । का कथा अस्माकम् स्मर-वैवस्याद् इदं चेष्टितं स्याद् इति भावः ॥४०॥ [मु।फ। ११.३४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् एवम् एवोपासना, भद्रं भो भद्रम्। तर्हि स-रागा एव भवत्यः ? नहि नहि, मद्-भक्ता इत्य् आशङ्क्य मध्या धीराः प्रौढा आहुः—का स्त्र्य् अङ्ग ते इत्य्-आदि । हे अङ्ग ! अयं तु तवैव वेणु-ध्वनेस् तव रूपस्य चायं दोषः, न स्त्रीणां, यद् यस्माद् गो-द्विज-द्रुम-मृगा अपि पुलकानि बिभ्रति, तेन कल-पदायत-वेणु-गीतेन एव संमोहिता सती त्रैलोक्य-सौभगम् इदंरूपं निरीक्ष्य का स्त्री न चलेद् आर्य-चरितात् कुल-व्रतात् ? आर्य-चरिताद् वेद-वर्त्मनो वा, आर्यस्य तव चरितात् हेतोर् इति वा न चलेत् अस्थिरा न भवति । एतेन स्त्रीणां न दोषः । स्त्रियस् तु त्वयि निरुपाधि-रतिमत्य एव । त्वम् एव वेणु-ध्वानेन तासु रागान्तरं जनयसीति प्रागल्भ्यम् ॥४०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु शिष्ट-वर्ग-शिरो-धार्याः, तथापि महद्वल् लोक-शिक्षार्थम् अवश्यं सद्-आचारः पालयितुं युज्यते । तत्र स-दैन्य-रोषम् आहुः—का इति । त्रिलोक्यां वर्तमाना का स्त्री न चलेत् ? अपि तु सर्वैव चलेद् इत्य् अर्थः । श्री-शिवाङ्कस्थ-पार्वत्य्-आदीनाम् अपि मोह-शरणात् । तच् च स्कन्दादौ प्रसिद्धम् एव । अत्रापि—देव्यो विमान-गतयः [भा।पु। १०.२१.१२] इत्य्-आदिना सूचितम् एव ।

कदाचिद् वा वेणु-गीतं नोदेतु नाम, रूपं च परम-मोहनं सदा विराजते इति स-विकारम् आहुः—त्रैलोक्य- इति । त्रैलोक्यस्य ऊर्ध्वाधो-मध्य-वर्तमान-लोक-त्रयस्य सौभगं सौभाग्यं जन-प्रियत्वं सौन्दर्यं वा यस्मिन् यस्माद् वा, तद् इदं प्रत्यक्ष-वर्तमानम् इत्य् अन्यथात्वं निरस्तम् ।

यद् वा, असाधारणम्, अनेन श्री-रघुनाथस्य यत् सौन्दर्यं दृष्ट्वा मुनयोऽपि मोहिता भाव-विशेषं गताः । तथा च पाद्मोत्तर-खण्डे—

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।

दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥

ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।

हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ इत्य्-आदि ।

महा-कौर्मे च—

अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।

भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ।

ततोऽपि वैशिष्ट्यम् अभिप्रेतम् । अधुना निजाशेष-भगवत्ता-प्रकटनात्

यद् वा, इदम् अनिर्वचनीयं परमाद्भुतम् इत्य् अर्थः । प्रतिबिम्बादौ दर्शनात् तवापि भाव-विशेषोत्पादनेन विस्मापनात्, तथा चोक्तम् उद्धवेन—विस्मापनं स्वस्य च [भा।पु। ३.२.१२] इति । निरीक्ष्य इति वेणु-गीतस्येव श्रवण-स्मरणादिनापि मोहः स्याद् एव, तत्रापि साक्षाद् दृष्ट्वा का वा न चलेत् ? इत्य् अर्थः ।

यद् यस्मात् रूपात् । गो-शब्देन वृष-वत्स-महिष्य्-अजादयोऽपि ग्राम्य-पशवो लक्ष्यन्ते, गावः पशुत्वेन विवेक-हीना अपि । पुलकानि इति बहुत्वेन सर्वाङ्गेषु सदैवेति द्योत्यते, तैश् चान्येऽपि विकारा उपलक्ष्याः, अस्पन्दनं गतिमतां पुलकस् तरूणां [भा।पु। १०.२१.१९] इत्य्-आद्य्-उक्तेः। अबिभ्रन् भाव-विशेषोदयाद् इति वेणु-गीताद् अपि रूपस्य परम-मोहनत्वम् उक्तम् । यच् च श्री-रुक्मिण्या देव्या वक्ष्यते—रूपं दृशां दृशिमताम् अखिलार्थ-लाभं [भा।पु। १०.५२.३७] इति, उद्धवेन चोक्तं—विस्मापनं स्वस्य च [भा।पु। ३.२.१२] इति । तत्-तद्-वचनाद् अप्य् अस्य वैशिष्ट्यं ज्ञेयम् ।

चक्षुष्मतां सौन्दर्य-ग्रहण-सम्भवात्, तथा परम-विदग्ध-शिरोमणेस् तस्य सद्-असद्-विचार-निष्ठा-सद्-भावेनाश्चर्य-विशेष-दृष्ट्या विस्मय-सम्भवाच् च । अत्र च गवादीनां तत्-तद्-अभावेऽपि प्रेम-विकारोक्तेर् इति दिक् । अन्यत् तैर् व्यञ्जितम् ।

तत्र पुरुषा अपि चलिता इति द्विज-द्रुम-मृगाणाम् अपि पुलकोद्भेदस्य । किं वा, शक्र-शर्व-परमेष्ठि-पुरोगाः कश्मलं ययुः [भा।पु। १०.३५.१५] इति वक्ष्यमाणस्य देवादीनाम् अपि मोहस्यानुसारेणेति ।

अथवा, यद् इत्य् अव्ययम्, याभ्यां वेणु-गीत-रूपाभ्याम् इत्य् अर्थः । वेणु-गीतस्य मोहनत्वं विशेषत एकविंशत्य्-अध्याये व्यक्तम् एवोक्तम्, पञ्चत्रिंशे च वक्ष्यते । अन्यत् समानम् ।

एवं तस्य वेणु-गीत-रूपयोः परम-मोहनत्वम् उक्तम् । कृष्ण-नाम्नो मोहनत्वम् अङ्ग इत्य् अनेन सूचितम् एव । परम-मोहनत्वेन "श्री-कृष्ण" इति साक्षात् कुत्राप्य् असम्बोधनात् । अतोऽशक्त्या शिष्टाचार-परित्यागे कोऽपि दोषो नाम न घटेत इति भावः । वस्तुतस् तु तादृश-जनानां सदाचारेऽनधिकारात् । तच् च पूर्वं विवृतम् एव । अत एव श्री-स्वामि-पादैर् लिखितम्—तद्-द्योतक-शब्द-श्रवण-मात्रेणापि तावन् निज-धर्म-त्यागो युक्तः इति । ईश्वरस्य च सर्व-शक्तिमत्त्वाल् लोक-सङ्ग्रहार्थं सदाचार-परिपालनं तस्य सम्भवेद् एव । तत् प्रेम-विवशानां चाशक्त्या कथं सम्भवेत् ? एवम् एव तेषां माहात्म्य-विशेषो निगूढोऽपि तेनैव निरपेक्षं मुनिं शान्तं [भा।पु। ११.१४.१६] इत्य्-आदि-वचनैर् अभिव्यञ्जित इति दिक् ।

अनेन श्रवणात् [भा।पु। १०.२९.२७] इत्य् अस्योत्तरम् । पुरुषाणां तत्रापि मुनीनाम् अपि पूर्वावतारे अत्र च गवादीनाम् अपि साक्षात् मोहो यत्र स्यात्, तत्रास्मादृशीनां का वार्ता ? इति विवेक-हानाव् अस्माकं न दोष इति ।

किं वा, यस्य निरीक्षण-वेणु-गीत-श्रवण-मात्रेण गवादीनाम् अपीदृशानन्द-लक्षणं सम्पद्यते, तस्य यथा-यथं साक्षाद् उपभोगेन प्रेम-विशेष-लक्षणः परमानन्दः सम्पद्यत एवेति सन्निकर्षो हि युक्त एवेति । वस्तुतस् तु यस्य श्रवणादिनापि भावः स्यात्, तस्य सन्निकर्षेण भावो विशेषतः सम्पद्येतैवेति ।

श्लेषार्थः—का स्त्री आर्य-चरिताच् चलेत्, अपि तु न कापीत्य् अर्थः । यन् निरीक्ष्य गवादयः पुलकानि बिभ्रति स्म, इदम् ते तव रूपं सौन्दर्यं त्रिलोक्यां नास्ति किम् ? काक्वा, अपि त्व् अस्त्य् एवेत्य् अर्थः । अतोऽनेन त्वं मा गर्वम् आवह इति भावः ।

यद् वा, हे कल-पदायत-वेणु-गीत ! हे सम्मोहित ! काम-सम्मोहित ! इत्य् अधैर्यम् उक्तम् । ते त्वत्तः सकाशात् का न चलेत्, गृहं न यायात् ? किं-भूतात् ? आर्य-चरितात् परम-धार्मिकाद् इति सोल्लुण्ठम् ।

यद् वा, हे कल-पदायत-वेणु-गीत-सम्मोहितार्य ! इति परम-धार्ष्ट्यम् उक्तम् । ते तव चरितात् पारदारिकत्व-लक्षणात् का न चलेत् नापयायात् ? का इदं स्वीकुर्यात् ? इत्य् अर्थः । अन्यत् समानम् ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं पतिव्रताभिर् उपहसनीया भविष्यथ तत्र स्फुटम् एव स-रोष-दैन्यम् आहुः—का स्त्री इति । त्रिलोक्यां वर्तमाना का स्त्री न चलेत् ? अपि तु सर्वैव चलेद् इत्य् अर्थः । तच् च देव्यो विमान-गतयः [भा।पु। १०.२१.१२] इत्य्-आदिना सूचितम् । कल- इति पूर्वं व्याख्यातम् [१०.२९.३] । पद इति प्रतिपदम् अपि तादृशं बोधयन्ति—आयत इति । तत्र श्री-कृष्णस्य निर्बन्धं बोधयन्ति स्वेषां च धैर्येणापि तत्-काल-क्षेपं वारयन्ति । पाठान्तरे तस्यालौकिक-स्वादत्वं व्यञ्जयन्ति ।

तत्रादर्शन एव वार्ता दर्शनेऽपि तथैवेत्य् एवं सर्वतो मार एवेति स-भयम् इवाहुः—त्रैलोक्य- इति । त्रैलोक्यस्य ऊर्ध्वाधो-मध्य-वर्तमान-यावल्-लोकस्य सौभगं सौभाग्यं वा यस्मिन् यद्-अन्तर्-भूतम् इत्य् अर्थः, तद् इदं प्रत्यक्ष-वर्तमानम् इत्य् अन्यथात्वं निरस्तम् । यद् वा, इदम् एतादृशम् असाधारणम् इत्य् अर्थः ।

निरीक्ष्य इति । यस्य श्रवणादिनापि मोहः स्याद् इति कैमुत्यं बोधयन्ति—का स्त्री इति । यत्र पुरुषा अपि स्वयं भगवान् अपि मुह्येयुर् इति भावः, शक्र-शर्व-परमेष्ठि-पुरोगाः कश्मलं ययुः [भा।पु। १०.३५.१५] इति वक्ष्यमाणात्, विस्मापनं स्वस्य च [भा।पु। ३.२.१२] तृतीयोक्तेश् च । अहो अस्तु तावत् तादृश-सारासार-विदां तेषां वार्ता ! यद् याभ्यां वेणु-गीत-रूपाभ्यां गव्-आदयोऽपीति श्रवण-दर्शने लभ्येते, ते स्व-प्रकाशत्वान् नासम्भाव्ये । अनेन लोकेप्सुभिर् [भा।पु। १०.२९.२५] इत्य् अस्योत्तरम् । निषेधार्थश् चायम् ।

ननु, यदि ममाङ्ग-दर्शने युष्माकं न क्षोभः, तर्हि कथम् इतश् चलितुम् इच्छा ? तत्राहुः—का स्त्री इति । का स्त्री तज्-जाति-मात्रं कल- इत्य्-आदि-लक्षणापि आर्य-चरितात् सद्-आचाराद् धेतोः ते त्वत्तः सकाशात् न चलेत्, नापयायात् ? तथा यत् यस्मात् गवादयोऽपि पुलकान्य् अबिभ्रन्, तत इदम् ईदृशं रूपं निरीक्ष्य च समलोक्यापि तस्माद् एव हेतोः का नापयात् ? अपि तु सर्वैवापयायाद् इत्य् अर्थः । सुन्दरीणां सुन्दर-पर-पुरुष-निकटे स्थितिर् हि बाढं लोक-विगान-हेतुर् इति । तद् एवं यद्यपि तत्-संमोहिता नापि सम्यक् तद्-वीक्षण-कारिकाः, तथाप्य् अपयास्याम इति भावः ॥४०॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : ननु यद्य् एवं दृढ-व्रता भवथ, तर्हि कथम् इहैव सर्वां रात्रिं न तिष्ठथ ? इत्य् आशङ्क्य पुनः स-शङ्कम् आहुः—का स्त्र्य् अङ्ग ते इति । यद्यप्य् एवं, तथापि अङ्ग हे कल-पदायत-वेणु-गीत, हे सम्मोहित सम्मोहनाख्य-काम-बाण-मोहित, त्रिलोक्याम् एषा का स्त्री या ते त्वत्तः सकाशात् आर्य-चरितात् सद्-आचाराद् धेतोर् अपि न चलेत् ? अस्त्व् अस्माकं परम-साधु-मर्यादा-व्रतानां दूरतो वार्ता ।

तद् एवं ततश् चलने हेतुं सम्बोधन-द्वयेन गुण-गतं भाव-गतं च तदीयं दोषम् उक्त्वा, रूप-गतं चाहुः—त्रैलोक्य- इति । तथा आर्य-चरिताद् एव हेतोर् इदं च रूपं विलोक्य का न चलेत्यत् यस्मात् गो-द्विज- इति । सुन्दरीणां सुन्दर-पर-पुरुष-निकट-स्थितिर् हि बाढं लोक-विगानाय स्याद् इति ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु यद्य् एवं भवत्यः स्वभाव-सिद्धाभिमानिन्यः, तदा कथं मद्-वचसाम् अभिप्रायानभिज्ञाः सत्यः किं तप्यथ ? तत्राप्य् अन्या आहुः—का स्त्री इत्य्-आदि । हे अङ्ग ! ते तव कल-पदायत-वेणु-गीत-सम्मोहिता सती आर्यस्य तव चरिताद् धेतोर् न चलेन् न भ्रमेत् । एवम् एव तव भ्रामकं चरितम्, येन त्रिलोक्यां का स्त्री न चलेत् ? सर्वैव चलति । अत्र स्त्रीणां न दूषणं, तवैवेत्य् अर्थः । न केवलं तव चरिताद् एव । इदं रूपं निरीक्ष्य च, यतो रूपाद् गो-द्विज-द्रुम-मृगा अपि पुलकान्य् अबिभ्रन् पुलकिनो भवन्ति ॥४०॥


का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन43

सम्मोहिताऽर्य-चरितान्44 न चलेत् त्रिलोक्याम् ।

त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं

यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रत् ॥

नारायण-भट्टः (श्री-रसिकाह्लादिनी) : ननु यथाहं लोक-सङ्ग्रह-परः, तथा भवतीभिर् अपि सदाचारः पाल्यः । प्रमाण-पङ्क्ति-सिद्धम् अप्य् एतद् व्यवसितं न कार्यम् ? इति चेत्, तत्र सामर्षम् आहुः—अङ्ग इति सम्बोधनेनैतत् ज्ञाप्यते यदि त्वम् अस्मद्भ्योऽभविष्यस् तवैवं नावदिष्यः । अतोऽस्मद्-आर्तिम् अज्ञात्वैवोपदिशसि परोपदेशे पाण्डित्यम् [पञ्च। १.११७]45 इति स्मृतेः। त्रैलोक्याम् सा का स्त्री या आर्य-चरितान् निज-धर्मान् न चलेत् ? निज-धर्मं न परित्यजेद् इत्य् अर्थः । न काचिद् इत्य् अर्थः । ते कल-पदायता वेणु-गीतेन सम्मोहिता कलानि अव्यक्तानि मधुराणि गीतेन तेन मोहिता । यद् उक्तं—देव्यो विमान-गतयः स्मर-नुन्न-साराः [भा।पु। १०.२१.१२] इति ।

त्वद्-उद्भावित-पर्ययो भवतीति न चित्रम् आहुः—त्रैलोक्य- इति । त्रैलोक्य-स्थ-सौभगं सौन्दर्यं, यस्मिन् त्रैलोक्ये सौभगं यस्माद् इति वा । इदं प्रत्यक्ष-सिद्धं रूपं निरीक्ष्य यत् यस्मात् मोहिताः पुरुषा अपि चलिताः, श्री-रघुवीरस्य सौन्दर्यं दृष्ट्वा दण्डकारण्य-वासिनो मुनयोऽपि मोहिताः । तद् उक्तं पाद्मे—

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ।

ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ॥ [प।पु। ६.२४५.१६४]

प्रत्यभिज्ञया संस्कार-वशा एव वदन्तीति ज्ञायते । यद् वा, इदं रूपं तवापि विस्मय-जनकम् । तद् उक्तं—विस्मापनं स्वस्य [भा।पु। ३.२.१२] इति ।

यद् वा, हे कल-पद ! कं सुखं लाति गृह्णाति पदं स्वरूपं यस्य, वेणुर् वानेन यत् सुखं भवति, तत् तावत् स्व-स्वरूप एव निमग्नो भवति । पश्चाद् अन्यत्र सञ्चरति । हे अमृत-वेणु-गीत-संमोहित ! यतः सदैव वेणुं वादयसे, न कदाचिद् विरमसि, अस्मास्व् एव केयं शङ्का ? यतो वेणु-गीतेन त्वम् अपि मोहितोऽसि । यद् वा, हे अमृत-वेणु-गीत ! हे मोहित ! इति पद-द्वयं मोहितत्वात् सात्त्विक-भावोदयः । अत एव तन्वितम् अनुकूलं वदन्न् अस्मान् निवारयसीति न चित्रं यत् तस्मात् विजातीया अपि गो-द्विज-द्रुम-मृगाः । गो-शब्देन वृषभ-वत्स-वत्सतरी-प्रभृतयो ज्ञेयाः । द्विजाः पक्षिणः । तद् उक्तं—प्रायो बताम्ब विहगा मुनयः [भा।पु। १०.२१.१४] इति । द्रुमाः—अहो अमी देववर [भा।पु। १०.१५.५] इति श्री-मुखेनोक्तम् । धन्याः स्म मूढ-मतयोऽपि हरिण्यः [भा।पु। १०.२१.११] इति भाव-विशेषोदयेन पुलकान् अस्मत्-सदृशीनां भाव-विशेष-ज्ञापकान् धर्मान् अबिभ्रन्

किं च, वेणु-गीतेन मोहयित्वा निज-धर्मस् त्याजितः । मोहितत्वात् सदाचार-परित्यागेनास्मासु दोषः स्थाप्यते । धर्म-त्यागस्य त्वयैव कारितत्वात् त्वय्य् एव दोषम् आवहेद् इति शास्त्र-फलं प्रयोक्त-रीति-न्यायेन अन्यच् च । वयं तु श्यामसुन्दर ते दास्यः [भा।पु। १०.२२.१५] इति प्रतिश्रुतम् अर्थं संस्मृत्य दास्यो जाताः । दासीनां स्वामि-वचनात् साध्व्-असाधु-करणेन गुण-दोषौ स्वामिनि स्वामि-सेवा-व्यग्राणां दासीनां श्रवणाद् इत्य् अस्याप्य् उत्तरं दत्तम् इति वेदितव्यम् । त्वं तु मयेमा [भा।पु। १०.२२.२७] इति प्रतिश्रुतं दातुम् अस्वीकुर्वन् प्रतियातेति प्रसह्य दुःख-वारिधौ मज्जयसीति कस्मात् ? इति न जानीम इति भावः ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, युष्माभिर् धर्म-मार्गाय जलाञ्जलिर् दत्त एव । तत् किम् अन्या अपि पतिव्रता "विदूषयति निर्लज्जः स्वयं दुष्टः परान् अपि" इति न्यायेन दूषयथ ? मद्-वक्षस्य् औत्पत्तिक्य् एव येयं लक्षण-विशेष-रूपा सुवर्ण-रेखा भ्राजते, तां च दृष्ट्वा पति-व्रता-शिरोमणिं लक्ष्मीं दूषयन्त्यस् तस्याम् अप्य् अपराधिन्यः कथं भवथेति । तत्र न काम् अपि दूषयामः, किन्तु त्रिजगताम् अपि धर्म-ध्वंसनाय विधात्रा त्वं सृष्टोऽसीति स-रोष-चापलम् आह—का स्त्री इति ।

अङ्ग ! हे श्री-कृष्ण ! कलानि पदानि यत्र तद्-अमृत-रूपं यद् वेणु-गीतं, तेन । "कल-पदायत-मूर्च्छितेन" इति पाठे आयतं दीर्घं मूर्च्छितं स्वरालाप-भेदः, तेन संमोहिता इति न स्त्री दूष्यते, किन्तु त्वत्-कर्तृकं गीतम् एवेति भावः । आर्य-चरितात् पातिव्रत्य-लक्षण-निज-धर्मान् न चलेत्, अपि तु सर्वैव चलेद् इति । धर्म-त्याजन-लक्षण-प्रत्यवायं त्वं प्राप्स्यस्य् एवेति भावः । न केवलं त्वद्-गुणस्यैव धर्म-ध्वंसकता, अपि तु तद्-रूपस्यापीत्य् आहुः—त्रैलोक्य- इति ऊर्ध्वाधो-मध्य-देश-वर्तिषु प्राकृताप्राकृत-लोकेष्व् अपि सौभगम् एव यस्य तत्, न तु धर्म-ध्वंसकत्व-हेतुकः कस्याप्य् अत्र द्वेष इति भावः ।

न च स्त्रीणां स्वाभाविकः कामोऽपि मोहे हेतुर् अस्तीति वाच्यम् । यतो जङ्गम-स्थावराणां सर्वेषाम् अपि वैवश्य-प्रापकौ तव रूप-गुणाव् इत्य् आहुः—यत् । यतो गीत-रूपाभ्याम् अबिभ्रन् न बिभरुः । अस्मात् हे राजन् ! किं बहुना, शक्र-शर्व-परमेष्ठि-पुरोगाः कश्मलं ययुः [भा।पु। १०.३५.१५] इति वेणु-गीताध्यायात् परम-तत्त्व-विदाम् अपि मोहः, विस्मापनं स्वस्य [भा।पु। ३.२.१२] इति च तव तस्यापि चमत्कारो दृष्ट इति श्री-शुकोक्तिर् अप्य् आसीद् इति ज्ञेयम् ॥४०॥

(उज्ज्वल-नीलमणौ ११.८१ श्लोकेऽपि टीका द्रष्टव्या ।)


॥ १०.२९.४१ ॥

व्यक्तं भवान् व्रज-भयार्ति-हरो46ऽभिजातो

देवो यथादि-पुरुषः सुर-लोक-गोप्ता ।

तन् नो निधेहि कर-पङ्कजम् आर्त-बन्धो

तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यक्तं निश्चितम् ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्व-स्वामित्वेन तवास्मद्-भर्तृत्वात् समान-कुल-जातत्वेन सम्बन्ध-योग्यत्वाद् अस्माकं तव सङ्गत्यौपपत्य-दोषो नास्ति, कुतो निन्द्यत्वम् ? इत्य् अभिप्रेत्याहुः—व्यक्तम् इति । यथा आदि-पुरुषः सुर-लोक-गोप्ता वा मनो जातः, तथा स एव आदि-पुरुषो भवान् अधुना व्रजस्य सर्व-भक्त-समुदायस्य ।

यद् वा, अस्माकं व्रजस्थानां भयं संसृतिजम्, आर्तिर् आध्यात्मिका-रूपादि-रूपा त्रिविधा ते हरतीति तथाभिजात इति । व्यक्तम् असन्दिग्धम् ।

एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ॥ [भा।पु। १०.८.१६]

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ॥

नारयो\ऽभिभवन्त्य् एतान् [भा।पु। १०.२६.२१] इत्य्-आदिना श्री-गर्गाचार्योक्तेः ।

अरयः कामादयः । यत इत्थं तत् तस्मात् सहज-शीतलत्वात् सन्ताप-हारित्वाद् आनन्दस्य आस्रावित्वात् कर एव पङ्कजः, तम् । यद् वा, पङ्कं क्लेशं जयतीति पङ्कजः कर एव पङ्कजः, तम् । तव करः पङ्क-हरोऽस्ति अन्यथा आर्त-बन्धुत्व-हानिः स्याद् इति सम्बुद्ध्य्-अभिप्रायः ।

किङ्करीणाम् इति सर्वत्राभयार्थं दासीत्व-दार्ढ्यार्थम् एवोक्तम् । यद् वा, किङ्करी-तापः स्वामिनैवापह्रियत इति । त्वं चास्माकं स्वामीति । अन्यथा, हितान् न यः संशृणुते स किं प्रभुः इति न्यायेन तव किं प्रभुत्वं च स्यात् ? इति भावः ॥४१॥


कैवल्य-दीपिका : व्यक्तम् इति । व्यक्तं स्पष्टम् । भयं पर-हेतुकम् । आर्तिर् मनः-पीडा । अभेदेऽपि देवो यथेति भेदोपमया सम्मोहितत्वं विवृतम् । तत् तस्मात् । शब्द-द्वयम् उभयत्र प्राधान्य-द्योतनार्थम् ॥४१॥ [मु।फ। ११.३५]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपसंहरन्त्य् आहुः—व्यक्तं भवान् इत्य्-आदि । व्रजस्य भयम् आर्तिः, अर्तिर् वा पीडेति यावत् । उभयोर् एव हरण-कृत त्वम् अभिजातः प्रादुर्भूत इति व्यक्तं स्फुटं सर्व एव जानन्ति । देवः क्रीडा-परः सन्, यथा आदि-पुरुषो नारायणः सुर-लोक-गोप्ता त्वं तद्-अधिको\ऽपि दृष्टान्तान्तराभावात् तेन सहैवोपमा क्रियते । अतो व्रजस्यापि सुर-लोकाधिकत्वम् । तत् कथं स्वयम् एवार्तिं जनयस्य् अस्माकम् ? तत् तस्मात् नो\ऽस्माकं, हे आर्त-बन्धो ! तप्त-स्तनेषु च शिरःसु च कर-पङ्कजं निधेहि इत्य् उपदेशः ॥४१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रतिवचनैस् तद् उक्तं सर्वं क्रमेण परिहृत्य, अधुना तस्यावतार-प्रयोजनं प्रदर्शयन्त्यः परमार्त्या स-काकु प्रार्थयन्ते—व्यक्तम् इति । व्रजस्य भयं दावादितः, आर्तिश् च त्वद्-अप्राप्तेः । यद् वा, भयं त्वद्-अर्थं पूतनादिभ्यो दावादिभ्यश् च, आर्तिश् च वर्ष-वातादिभ्यः । यद् वा, भयं त्वद्-विरह-शङ्कया, आर्तिस् त्वद्-उपेक्षया । पाठान्तरे "व्रज-जनानाम् आर्तिः" बाह्यान्तराशेष-बाधा । इदं न सर्व-सम्मतम् । एतच् चात्मोद्देशेनोक्तम् ।

किं वा, व्रजस्य जनाः कालान्तरेऽप्य् एतद् व्रज-भूम्य्-आश्रिता ये जनाः, तेषाम् अपि, किम् उतास्माकम् ? तद्-धरः सन् तन्-नाशनायेत्य् अर्थः । अभितोऽशेष-भगवत्ता-प्रकटन-विशेषेण जातः प्रादुर्भूतः । यद्यपि भू-भार-हरणादिकम् अपि प्रयोजनम्, तथापि व्रज-भयार्ति-हरणम् एव मुख्यं प्रयोजनम् । तत्र तद्-अर्थ-कृत-लीलयैव सर्वत्र मुख्य-प्रयोजनं, निज-प्रेम-रस-विस्तार-सिद्धेः ।

तद्-अर्थं दीन-कारुण्य-विशेषेण धर्मातिक्रमोऽपि कार्य इति दृष्टान्तेन बोधयन्ति—देवो जगताम् एव पूज्यः । यत आदि-पुरुषो जगत्-कारण-भूतः परमेश्वरः । सोऽपि यथा सुर-लोक-गोप्ता, सुर-लोकः स्वर्गः, तेन तत्रत्या लक्ष्यन्ते । यद् वा, सुराश्लोकाश् चान्ये निज-जनाः, तेषां गोप्ता तत्-प्रतिपक्षादि-मारणेन रक्षकः सन् यथा जायते, गोप्ता यथा भवतीति वा, तथा तथा सर्वत्र तस्य साम्येऽपि भक्तापेक्षया वैषम्यम् अपि स्यात्, तथार्तानाम् अस्माकम् अपेक्षया धर्मस् त्वया लङ्घ्य एव, तत्र च यथा तस्य न दोषो घटते, किन्तु गुण एव महान्, तवापीति भावः ।

यद् वा, देवोऽपि आदि-पुरुषोऽपि सुर-लोक-गोप्ता अपि भवान् व्रज-भयार्ति-हरः सन्, अत एव श्री-गोपेन्द्र-नन्दनत्वेन यथावद् आभिजातः, तच् च व्यक्तं निश्चितं स्पष्टम् एवेत्य् अर्थः । तत् तस्मात् कर एव पङ्कजं सहज-सुशीतलत्वात् सन्ताप-हरत्वाद् आनन्द-रस-स्रावित्वाच् च, तद् आदौ नस् तप्तेषु स्मर-ज्वराक्रान्तेषु स्तनेषु निधेहि, तदार्ति-नाशनार्थं पश्चात् शिरःसु निधेहि, सर्वत्राभयार्थम् दासीत्व-स्वीकार-दार्ढ्यार्थं वा । -कार-द्वयम् उभयत्रापि प्राधान्य-बोधनार्थम् । त्वद्-एक-प्रियाणाम् अस्माकं भयार्ति-हरणेनैव सर्व-व्रजस्य भयार्ति-हरणम् । ततश् चाशेष-भगवत्ता-सार-प्रकटन-रूपं तवावतार-प्रयोजनम् अपि सिध्येद् इति भावः ।

ननु तप्तेषु कथं करो निधेयः ? तत्राहुः—आर्त-बन्धो ! दीन-वात्सल्येन दुःखादिकम् अपि सह्यम् एवेति भावः ।

ननु पतिव्रतानां व्रत-पराणां शिरसि कर-निधानाद् बिभेमि । तत्राहुः—किङ्करीणाम् इति । आर्त-बन्धौ त्वयि साक्षाद्-विराजमाने त्वद्-दासीनां तापोऽनुचित इति च सूचितम् ।

यद् वा, ननु काम-मत्ताः ! जित-कामेन मया कथं स्तनेषु करो निधेयः ? अतः शिरःस्व् एव निधेयः । तत्राहुः—आर्त- इति । कामेन मा निधेहि, किन्तु आर्त-बन्धुत्वेन निधेहीत्य् अर्थः । अन्यथा सद्योऽस्माकम् अन्त्य-दशापत्त्या तवार्त-बन्धुत्व-यशो-हानिः । गूढोऽयम् अभिप्रायः—अवहित्थयाच्छाद्यमानोऽपि मनोभवोऽस्मद्-अङ्गेषु हस्तार्पणेन स्वयम् एवोद्भवितेति ।

ननु बह्वीनाम् अपि तासाम् एकस्मिंस् तस्मिन् तादृश-प्रार्थनं तच्-छक्ति-विशेष-परिस्फूर्त्या । किं वा, नः क्रमेणापि निधेहीत्य् आशयेनेति दिक् ।

श्लेषार्थः—भवान् अभिजात आभिजात्य-युक्तो व्रजेन्द्रात्मजत्वात्, देव इत्य्-आदि-पद-त्रयेणाधर्मे तव प्रवृत्तिर् अनुचितेत्य् उक्तम् । यथा आदि-पुरुषः सुर-लोक-गोप्ता सुर-लोक-भय-हरः, तथा भवान् व्रज-भयार्ति-हर इति सतीनाम् अस्माकं बलाद् अभिभवेन व्रजस्य त्वत्तो भयम् आर्तिर् भवितैवेति, तच् च तवायुक्तम्, निज-प्रयोजन-प्रातिकूल्यात् । नो निषेधे । आर्त-बन्धो ! इति वयं नार्ता यद् अस्माकं बन्धुर् भविष्यसीति भावः । अ-कार-श्लेषेण कामाद्य्-अभावात् । अतप्तेषु स्तनेषु, अत एव न निधेहि

यद् वा, हे तप्त ! कामाग्नि-दग्ध-हृदय ! यद् वा, तप्तः सन् स्तनेषु कर-पङ्कजं नो निधेहि नार्पय । अप्य्-अर्थे -कारः । तव राज-कुमारत्वेन चास्माकम् अपि व्रजे निवासेन दासीत्वम् इव प्राप्तानाम् अपि शिरस्य् अपि न निधेहि इत्य् अर्थः । यद् वा, किङ्करीणां व्रजेन्द्र-गृह-दासीत्वेन वर्तमानानां किशोरीणाम् अपि, किम् उत मद्-विधानाम् ।

एवं दश-श्लोक्या प्रत्युत्तरेण तं निर्जित्यैकादशेनानेन आर्त्य्-उद्रेकतो निजेष्टं स्पष्टम् एव प्रार्थितम् । अत्र च श्लेषार्थोऽपि क्रमेण तद्-उक्त-श्लेष-परिहारतयैव ऊह्यः । स च तत्र तत्रैव लिखितः । अथवा तद्-उक्त-दश-श्लोकार्थस्य वैदग्धी-विशेषेण एकादशानां श्लोकानाम् एषाम् एकैकेनैवोत्तरम् ऊह्यम् । तत्र पौनःपुन्यं तथा तद्-उक्ततोऽप्य् अधिकम् एकं पद्यम्। तत्र च दीर्घ-च्छन्दस् तद्-अत्यन्त-निर्जयार्थम् । किं वा, प्रणय-शेषावेशेनोरु-दुःख-भरणैव वा ज्ञेयम् ।

तथापि विभो47 [भा।पु। १०.२९.३१] ! हे प्रभो ! इति स्वागतम् [१८] इत्य् अर्धस्य निज-दासीषु । तत्रापि भवान् इति अस्मद्-उपेक्षावरं नृशंसं वक्तुं नार्हति एवेति । सर्व-विषयान् सन्त्यज्य इति पादस्य, तेनाधुनास्माकं प्रयोजनम् इति किं तद्-वार्तया इति । तव पाद-मूलं भक्ता इति रजनी [१९] इत्य्-आदि-श्लोक-द्वयस्य त्वद्-आश्रितत्वेन घोर-सत्त्वादिभ्यो बन्धुभ्यश् च भयं नास्तीति, भक्ता इति दृष्टम् इत्य् अस्यापि तव भजनार्थम् एवागताः, न तु वन-दर्शनार्थम् इति । एतेन ब्रूत [१८] इति पादस्यापि सिद्धं त्वद्-भजनम् एवागमन-कारणम् इति ।

तथा तद् यात [२२] इत्य् अस्यापि व्रज-गमनादि-निरस्तेः । भजस्व इति निज-भाव-विशेषः सूचितः । अनेनाथवेत्य् अस्य तेनैवागताः स्मः, न त्व् अन्य-जनवत् सामान्य-स्नेहेनेति । दुरवग्रह इति भर्तुर् इत्य्-आदि-द्वयस्य युक्त्य्-उक्त-भर्तृ-शुश्रूषणाग्रहस्य निरसात् । मा त्यज इति अस्वर्ग्यम् अयशस्यम् [२६] इति युक्ति-सिद्धस्यापि स-दैन्य-प्रार्थनया परिहार-सिद्धेः । देवो यथा इति तत्र युक्तिर् अपि दर्शितैवेति । तत्-तद्-विशेषस्-तु पूर्व-लिखितानुसारेण ज्ञेय एव । एवम् अग्रेऽपि ।

यत् पति- [भा।पु। १०.२९.३२] इति मातरः [२०], तद् यात [२२], भर्तुः [२४] दुःशीलः [२५] इति चतुष्टयस्य सर्व-बन्धेषु कृत्यानां तस्मिन्न् एव प्रार्थनया तेषाम् उपेक्षणात्, किं तत् साध्वसादिना इति त्वयीशे इति व्रजस्य [१८] इति पादस्य त्वत्-प्रभावेनैव तत्रत्य-मङ्गलम् इति । एतेन रजनी [१९] इत्य् अस्यापि त्वन्-नैकट्येन भयाभावात् । तथा ब्रूत [१८] इति पादस्यापि त्वद्-अर्थम् एव गमनम् इति तात्पर्यात्, तथा स्वागतम् [१८] इत्य् अर्धस्यापि पूर्ववत् ईशितव्य-जनेषु तादृशोक्तेर् अयोग्यत्वात् । एवम् इति अथवा [२३] इत्य् अस्य निज-भाव-विशेष-सूचनात् । उपदेश-पदे इति अस्वर्ग्यम् [२६] इत्य् अस्य सर्वत्र सर्वर्था सर्वैर् भजनीयतयोपदिश्यमानस्य तवैव भजनाभासतः सर्व-दोष-हानेः, सर्व-गुण-सिद्धेश् च । प्रेष्ठ इत्य्-आदिना तत्त्वत औपपत्यम् [२६] अपि निरस्तम् । अनेन श्रवणाद् [२७] इत्य् अस्यापि परमात्मत्वादिना परमार्थ-रूपस्य तवाङ्ग-सङ्गोऽपि परमार्थ-रूप एवेति न्यायात् । अन्यथा तेजस्-तिमिरयोर् इव सम्बन्धो न घटेतैवेति । प्रेष्ठ इति दृष्टम् इत्य् अस्यापि तत्-प्रेष्ठत्वेनैवास्य प्रेष्ठत्वम्, न तु पृथक्त्वेन । अतः किं केवलं तद्-दर्शनेन ? इति । अत्र च तद्-उक्त-परिहारावेशेन, तत्र च मुहुर् उद्यत्-प्रेम-रोषेण तन्-निर्जयार्थं प्रत्युत्तर-मात्रापेक्षया क्रमोऽपि नापेक्षितः । एवम् अग्रेऽपि ।

कुर्वन्ति [भा।पु। १०.२९.३३] इति स्वागतम् [१८] इत्य् अर्धस्य कुशलानां रति-विषयस्य तव नृशंसोक्तेर् अयोग्यत्वम् इति । यद् वा, तादृशस्य तवान्तिकागमनात् स्वागतं महाभागाः [१८] च सत्यं वृत्ताः स्मः, नान्यथेति तात्पर्यात् । पति- इति व्रजस्य [१८] इति पादस्य, तथा पूर्ववन् मातरः [२०] इत्य्-आदि-चतुर्णां, स्व आत्मन्न् इति रजनी [१९] इत्य् अस्य प्राण-नाथ-बन्धोस् तव नैकट्येनाकुतोभयत्वात् । परम-बन्धु-पाऋश्व-स्थेयत्वाच् च । वरदेश्वर इति, अथवा [२३] इत्य् अस्य पूर्व-दत्त-वरानुसारेण प्रेम-विशेषेणैव आगताः स्म इति । अनेन दृष्टम् [२१] इत्य् अस्यापि तद्-अर्थम् एवात्र आगताः स्मः, न तु वन-दर्शन-मात्रार्थम् इति । प्रसीद इति अस्वर्ग्यम् [२६] इत्य् अस्य तव प्रसादे सति सर्व-गुण-सिद्धेर् दोष-हानिश् चेति । मा स्म छिन्द्या इति शरणाद् इत्य् अस्य अङ्ग-सङ्ग एव । चिराशा-धारणाद् इति विभाव्यम् इति ।

सुखेन [भा।पु। १०.२९.३४] इति स्वागतम् [१८] इति पादस्य सुख-घन-मूर्तेस् तव दुःखात्मक-नृशंसोक्तिर् न युक्तेति । पूर्ववद् इति वा । चित्तम् अपहृतम् इति व्रजस्य [१८] इति पादस्य, रजनी [१९] इत्य्-आदि-त्रयस्य च चित्त-हरणेन तत्-तद्-अनुसन्धानापगमात् । इति तात्पर्येण निजेष्टं व्यञ्जितम् एव । तेन च प्रियम् इति ब्रूत इति पादयोः हृत-चित्तास्व् अस्मासु यत् कर्तुम् उचितं, तद् एवास्माकं प्रियम् आगमन-कारणं चेति । करवाम इति तद् यात इत्य् अस्य भर्तुर् इत्य्-आदि द्वयस्य च विशेषतः कर्माशक्तेर् इति चित्तम् इत्य् अनेनैव अथवा [२३] इत्य् अस्यापि सिद्धं, भवता चित्त-हरणाद् एवागताः स्म, न त्व् अन्यजनवत् स्नेह-मात्रेणेति । पादौ इत्य् अर्धेन अस्वर्ग्यम् [२६] इत्य्-आदि-द्वयस्य तस्य परम-मोहनत्व-सूचनेन निजाविव्केकादि-दोष-परिहारात्, तथा करवाम किं वा इति कर्मान्तरस्य हेयत्वं, तत्-सन्निकर्षस्य चोपादेयत्वं सूचित एवेति ।

सिञ्च [भा।पु। १०.२९.३५] इति स्वागतम् [१८] इति पादस्य अभ्यागतानां महा-भागानां हिताचरणोपपत्तेः । अनेन प्रियम् [१८] इति ब्रूत [१८] इति पादयोश् च पूर्ववत् । तथा अथवा [२३] इत्य् अस्यापि एतद्-अर्थम् एवागताः स्म इति । नो चेद् इति अन्येषां सर्वेषाम् एव सद्यो मरिष्यन्तीनां किम् अन्य-चिन्तया ? इति ।

यर्हि [भा।पु। १०.२९.३६] इति अम्बुजाक्ष इति स्वागतम् [१८अ] इति पादस्य दृष्ट्यैव सर्व-ताप-हरस्य नृशंसोक्तिर् अयुक्तेति । यद् वा, सहज-शीतल-मधुर-दृष्ट्या अवलोकयसि चेत्, तदैव स्वागतत्वं महाभागत्वं च ।

यद् वा, अम्बुजाक्षस्य परम-मनोहरस्य तव सन्दर्शनाद् एव तत् तद् वृत्तम् इति । अरण्य-जन-प्रियस्य इति रजनी [१९] इत्य् अस्य प्रिय-जन-पार्श्वे प्रिय-जनानाम् अकुतो-भयात् स्थेयत्वाच् च, अनेन दृष्टम् [२१] इत्य् अस्यापि पूर्ववत् । तत्-प्रभृति इत्य्-आदि वाक्येन व्रजस्य इति पादस्य पूर्ववत् । मातर [२०-२३] इत्य्-आदि चतुष्टयस्य च तेषु रुच्य्-अभावेनालं तद्-वार्तयापीति । अभिरमिता इति अथवा [२३] इत्य् अस्य त्वद्-अभिरमण-भाव-विशेषेणैव आगताः स्म इति । एतेन अभिरमणम् एव नित्य-प्रियम् [३३] इति सूचितम् । तेन प्रियम् [१८] इति ब्रूत [१८] इति पादयोः । रमाया दत्त-क्षणं पाद-तलम् अस्प्राक्ष्म इति अस्वर्ग्यम् [२६-२७] इत्य्-आदि-द्वयस्य रमा-पतेर् अस्माकं पत्नीत्वासम्भवाद् औपपत्येनैव भजन-सिद्धेः । तत्र च महत्तमायास् तस्या प्राप्यस्य प्राप्ताव् अस्माकं सिद्धायां, किं नामास्वर्ग्यत्वादिकम् ? इति । किं च, यथा तया सह तथास्माभिः सहाङ्ग-सङ्गो घटेत एव, तेन च भावो नितरां सम्पद्येतैव, अन्यथा परम-प्रेमवत्या भक्त-वर्ग-पूजायां तद्-अनुपपत्तेर् इति ।

श्रीर् यत् [भा।पु। १०.२९.३७] इति । व्रजस्य [१८च्] इति पादस्य, रजनी [१९अब्] इत्य्-आदि-द्वयस्य, तद् यात [२२] इत्य् अस्य, भर्तुः [२४अब्] इत्य्-आदि-द्वयस्य च ब्रह्मादि-प्रार्थ्य-कटाक्षापि सर्वोपेक्षया यथा श्रीश् चकमे, तथा सर्वोपेक्षया वयम् अपि प्रपन्नाः इति किम् अन्य-वार्तया ? इति । अनेन अथवा [२३] इत्य् अस्यापि तत्-सदृश-प्रेम्णैव आगताः स्मः इति । दृष्टम् [२१] इत्य् अस्यापि त्वत्-प्रियत्वावेक्षयैव यथा तस्याः क्षीर-समुद्रादि, तथास्माकं श्री-वृन्दावनम् अप्य् एतत् । अतोऽस्य केवल-दर्शनेनैव न प्रयोजनम् इति । तथा अस्वर्ग्यम् [२६] इत्य्-आदि द्वयस्य च पूर्ववद् एव । अतोऽस्माकं त्वद्-दास्यम् एव काम्यम् इति तात्पर्येण प्रियम् [१८ब्] इति ब्रूत [१८द्] इति पादयोर् अपि सिद्धम्, तथा सत्य् एव महाभागाः स्मः । स्वागत-प्रश्नस्य च योग्या इति स्वागतम् [१८अ] इति पादस्येति ।

तन् नः [भा।पु। १०.२९.३८] इति । प्रसीद इति स्वागतम् [१८अब्] इत्य् अर्धस्य पूर्ववत् । अनेन प्रियम् [१८च्द्] इत्य्-आदि-पादयोश् च त्वत्-प्रसादे एवास्माकं प्रियस् तर्थम् एवागमनम् इति । वृजिनार्दन इति व्रजस्य [१८च्] इत्य् अस्य रजनी [१९अब्] इत्य् अर्धस्यापि तस्य दुःख-भय-नाशन-शीलत्वात् । अङ्घ्रि-मूलं प्राप्ता इति प्रतियात [२७द्] इत्य् अर्धस्य त्वद्-अङ्घ्रि-मूलं प्राप्तानाम् अन्यत्र यानानुपपत्तेः, तत्रैव स्थेयत्वाच् च । विसृज्य वस्तीः इति पूर्ववन् मातर [२०] इत्य्-आदि चतुष्कस्य । त्वद्-उपासनाशा इति दृष्टम् [२१] इत्य् अस्य त्वत्-सेवार्थम् एवागताः स्मः, न तु वनं द्रष्टुम् इति । त्वत्-सुन्दर इति वाक्येन अथवा इत्य् अस्य काम-तप्तात्मत्वेनैव आगताः स्मः इति । पुरुष-भूषण इति अस्वर्ग्यम् [२६] इत्य्-आदि द्वयस्य तव पुरुषोत्तमत्वाद् औपपत्ये कोऽपि न दोषः । तत्त्वतस् तवैव पतित्वात् परम-साध्यत्वाच् च । अतोऽङ्ग-सङ्गेन भावो वर्धतैव, सन्निकर्षो हि मार्त्यानाम् [भा।पु। १०.८४.३१] इत्य्-आदि-न्यायोऽन्य-विषयक एवेति ।

वीक्ष्य [भा।पु। १०.२९.३९] इति । तव श्री-मुखादिकं वीक्ष्य दास्यो भवाम इति व्रजस्य [१८च्] इति पादस्य रजनी [१९-२२] इत्य्-आदि चतुष्कस्य । भर्तुः [२४-२५] इत्य्-आदि द्वयस्य च त्वद्-दासी-भूतानां किम् अन्यैर् इति । अनेन अथवा [२३] इत्य् अस्यापि दासी-भावेनैवागताः स्म इति । श्रियैक-रमणम् इति अस्वर्ग्यम् [२६] इत्य्-आदि द्वयस्य पूर्ववत् । एवं स्वागतम् [१८अब्] इत्य् अर्धस्य ब्रूत [१८द्] इति पादस्यापि सिद्धम् त्वद्-दास्यम् एवास्माकं प्रियं, तद्-अर्थम् एवागमनं, तत्-सिद्धौ स्वागतत्वादिकं चेति ।

यद् वा, दत्ताभयम् इति व्रजस्य [१८च्] पादस्य, रजनी [१९अब्] इत्य्-आदि-द्वयस्य, भर्तुर् इत्य्-आदि-त्रयस्य च इह लोके घोर-सत्त्वेभ्यो बन्धुभ्यश् च परम्स्मिंश् च यमादिभ्योऽप्य् अभय-सिद्धेः । अनेन तद् यातेत्य् अस्यापि न्यायेन भर्तृ-शुश्रूषणादेर् वैयर्थ्यात् त्यक्त-सङ्ग्रहेण दोषावहत्वाच् च । मुखं वीक्ष्येत्य् अनेनैव दृष्टम् इत्य् अस्यापि एतादृश-त्वच्-छ्री-मुख-वीक्षणेनान्य-दिदृक्षाया अप्य् अनुदयात् श्रियैक-रमणम् इति श्रवणाद् इत्य् अस्य । अन्यत् समानम्।

का स्त्री [भा।पु। १०.२९.४०] इति । स्वागतम् इत्य् आद्य् अष्टकस्य तद्-वेणु-गीत-सम्मोहितानां किं स्वागतत्वादिना ? किं वा प्रियादि-प्रश्नेन ? किं वा धर्मादि-बोधनेन ? इति । त्रैलोक्येति अस्वर्ग्यम् [२६] इत्य्-आदि द्वयस्य एतादृश-सौन्दर्योपभोग-विशेषे किं नामाहो अस्वर्ग्यत्वादिकं भावोऽपि । स्वत एव वर्धिष्यतेतराम् इति । यद् इति माहात्म्य-विशेषेण तस्यालौकिकतोक्त्या सन्निकर्षे लौकिक-न्यायाद्य्-उक्त-दोषश् च परिहृतः ।

व्यक्तम् [भा।पु। १०.२९.४१] इति व्रज-भयार्ति-हर इति व्रजस्येति पादस्य रजनीत्य् आदि द्वयस्य तद् यातेत्य् अस्य भर्तुर् इत्य्-आदि द्वयस्य च पूर्ववत् कुतोऽपि भयासद्-भावात् । देव इत्य्-आदि अस्वर्ग्यम् [२६] इत्य्-आदि द्वयस्य दीन-वात्सल्यापेक्षया तवाप्य् अत्र न दोषः । कश्चित् तथा तवादि-पुरुषस्य सङ्गाद् अस्माकम् अपि न कथञ्चिद् अपि आदि-पुरुषत्वेन । तत्त्वतस् तस्यैव पतित्वेनौपपत्यस्य तथा प्राकृतत्वेनाङ्ग-सङ्गस्याप्य् अप्राकृततया सर्व-दोषस्य पूर्ववत् परिहारात्, साध्यत्व-बोधनाच् च । तन् नो निधेहीति प्रियम् इति ब्रूतेति पादयोः । किङ्करीणाम् इति अथवेत्य् अस्य दास्य-विशेषेणैवागताः स्म इति । अनेन दृष्टम् इत्य् अस्यापि दासीनां वन-दर्शनम् आनुषङ्गिकम् एव । स्वामि-सन्दर्शनम् एव मुख्यम् इत्य् अत्रैव चिरात् प्रार्थितं सम्पादयेति, तदैव स्वागतम् इत्य्-आद्य्-उक्तम्तव यथार्थ-प्रियं च स्याद् इति तत्-पादस्याप्य् उत्तरं ज्ञेयम् इत्य् एषा दिक् । अलम् अतिविस्तरेण ग्रन्थ-बाहुल्य-दोषात् बिभिमः ॥

श्री-गोपी-प्रिय-पादाब्ज-प्रसाद-रमितात्मभिः ।

यथाचुच्यन्यथाप्य् अत्र कृतोऽर्थः स्यात् पदे पदे ॥

अन्योऽन्यं तस्य तासां च वाचोऽर्थोऽन्योत्यम् एव हि ।

हृद्-वेद्योऽप्य् अधिया धार्ष्ट्याल् लिखितः प्रीतये सताम् ॥

इत्थं च पूर्वम् अङ्ग-सङ्गो नूनं न वृत्तोऽस्तीति गम्यते, अन्यथा तस्य तासां च तत्-तद्-उक्त्य्-अनुपपत्तिः । अत एव (द्वादशाध्याये) श्री-मुक्ता-फल-ग्रन्थ-कारादिभिः पूर्व-रागे एकविंशाध्यायोक्तम् अक्षण्वतां फलम् [भा।पु। १०.२१.७] इत्य्-आदिकं सङ्गृहीतम् । अत एव श्री-स्वामि-पादैर् अपि व्याख्यातम् त्वयाभिरमिता आनन्दिताः [भा।पु। १०.२९.३६] इति मुख्यार्थत्वेऽपि श्री-वल्लभ-भट्ट-पादादिभिः स्वप्नादाव् इति व्याख्यातम् । तत् तच् च लिखितम् एव । एवं पञ्चदशे तं गो-रजश् छुरितम् [भा।पु। १०.१५.४२] इत्य्-आदि पद्य-द्वयम् । ऊनविंशे, गोपीनां परमानन्दः [भा।पु। १०.१९.१६] इति पद्यम् । अन्यच् च अन्यत्रत्यं तादृशं तत्रैवोह्यम् ।

यद् वा, अङ्ग-सङ्गः पूर्वम् अपि सकृत् द्वि-त्र-वारान् वा, तद्-एक-रसिकत्वाद् वृतोऽस्त्य् एव । एवं सति अभिरमिता इत्य् अस्य मुख्यार्थ एव । अधुना चासकृत् तद्-आचरणे रास-विलास-विशेषे वा, तस्य तासां च तादृश्य् उक्तिर् मन्तव्या ।

यद् वा, परम-प्रेम-रस-मग्न-मनसा तासां यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम्, पदे पदे [भा।पु। १.११.३४] इत्य्-आदि न्यायेनासकृत् कृतम् अपि तं परम-मधुर-वस्तुनस् तादृश-स्वभावात् सदा नूतनम् इव मन्यमानानां, तथा तादृशस्यैव रसिक-शिरोमणेस् तस्यापि तत्-तद्-उक्तिर् घटेतैव, ततश् च अभिरमिताः इत्य् अस्य श्री-स्वामि-पाद-कृत-व्याख्यपि सङ्गच्छतैव । एतच् च श्री-भागवतामृतोत्तर-खण्डे विवृतम् एवास्ति ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं चतुर्थ-दिक्-स्थिता अप्य् आत्मनि धर्मादि-दोषं परिहृत्योपक्रमवद् एव प्रत्युत तस्मिन्न् एव धर्म-दोषापत्तिम् उपसंहरन्त्यः पुनर् विवक्षितम् एवाहुः । किं च, ननु भवतु तत् तत् सर्वं, मम तु नारायण-सम-गुणत्वेन पूर्ण-कामत्वात् नान्यत्र प्रवृत्तिः स्यात्, किम् उतेदृशे कर्मणीत्य् आशङ्क्याहुः—व्यक्तम् इति । व्रजस्य यद् भयं पूतनादिभ्यो दावादिभ्यश् च त्वद्-अर्थस् त्रासः आर्तिश् च वर्ष-वातादिभ्यः पीडा, तथा भय-त्वद्-विरह-शङ्कया आर्तिस् त्वद्-विरहेण तद्-उभय-हरः सन् ते खण्डयितुम् इत्य् अर्थः ।

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।

गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८] इति ।

स्वयम् एव विभाव्य पर्वत-भारस्य ग्रहणात् क्वाचित्क-पाठान्तरे व्रज-जनानाम् आर्तिः बाह्यान्तराशेष-बाधा अभिजातः सत्-कुलाज् जात इति तत्रापि वैशिष्ट्यम् अतोऽस्माकं नाशे तत्रापि त्वद्-एक-हेतुक-नाशकत्वे व्रत-भङ्गापत्तितोऽप्य् अधिकोऽधर्म-दोषः स्याद् इति भावः । ईश्वरस्य पूर्ण-कामस्यापि तादृश-व्रत-रक्षा तादृश-कामना च दृश्यत एवेत्य् आहुः—देव इति । सर्वथा दीव्यति विराजत इति देवः । आदि-पुरुषः सर्व-पुरुषेषु श्रेष्ठः सोऽपि यथा सुर-लोक-गोप्तास्वेच्छयैव तज्-जन-मात्रस्य रक्षितासन्न् अदित्य्-आदाव् अभिजातो भवति । तत् तस्मात् करस्य पङ्कजत्वं ताप-हारिता-मात्रांशे रूपितं, वस्तुतस् तु तापस्य तद्-अप्राप्ति-मात्र-निदानत्वात् तद् आरम्भ एवापगमः स्याद् इत्य् अभिप्रेत्यैव तप्तेष्व् अपि स्तनेषु परम-स्निग्धाभिर् अपि ताभिस् तन्-निधान-प्रार्थनम् इति ज्ञेयम् पूर्ववत् स-दैन्यम् अप्य् आहुः—शिरःसु च किङ्करीणाम् इति । उत ऊर्ध्वं चास्मान् आत्म-सात्कुर्व् इति विवक्षितं—हे आर्त-बन्धो! इति आर्त-बन्धो साक्षाद्-विराजमाने त्वद्-दासीनां तापोऽनुचित इति सूचितम् । तथा कामेन च मा निधेहि, किन्तु आर्त-बन्धुत्वेनैव निधेहीति च ।

गूढोऽयम् अभिप्रायः—अवहित्थयाच्छाद्यमानोऽपि मनोभवोऽस्मद्-अङ्गेषु हस्तार्पणेन स्वयम् एवोद्भवितेति निषेधार्थश् चायं, तथापि तं बलाद् इव स्पृशन्तम् आशङ्क्याहुः—व्यक्तम् इति । तत्र पूर्वाद् धेतोः धर्म-भयादितोऽपि रक्षा त्वोचिता, न तु तन्-नाश इति भावः। नो निधेहि मा निधेहि आर्त-बन्धो ! इति स्वेषां धर्म-भयाद् आर्तिं व्यञ्जयन्ति तप्त हे कामाग्नि-सन्तापित-हृदय ! किङ्करीणां स्व-गृह-दासीनाम् अपि, किम् उत मादृशीनां, तत्रापि शिरःसु च नो निधेहि मा निधेहि, किम् उत स्तनेष्व् इत्य् अर्थः । तद् एवं स्वागतम् इत्य्-आदि प्रकरणं संलापाख्योऽनुभावो ज्ञेयः । उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते इत्य् उक्तेर् इति ॥४१॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ३३२) : रजन्य् एषा [भा।पु। १०.२९.१९] इत्य्-आदौ इह वीरस्य मम सन्निधौ स्थेयम् इत्य् अत्र बलाकारम् अप्य् आशङ्क्य सस्तुतिकम् इव प्रार्थयन्ते—व्यक्तं भवान् इति । यस्माद् ईदृशो जातः, तस्मात् । हे आर्त-बन्धो ! धर्म-च्युति-भयतोऽपि व्रज-जनांस् त्रायमाणः, किङ्करीणां गृह-दासीनाम् अपि भवद्-दर्शन-जातकाम् अतप्तेष्व् अपि स्तनेषु कर-पङ्कजं नो निधेहि नार्पय । अस्तु तावत् स्तनानां वार्ता, तासां शिरःसु च मा निधेहि । तद् एवं सति मादृशीनां तु सत्-कुल-जातानां परम-सतीनां तत्-तद्-वार्तां मनसापि न निधेहीति भावः॥

तद् एवं श्री-कृष्ण-प्रार्थना-प्रत्याख्यान-रूपोऽर्थो व्याख्यातः । स्वयं-दूत्य-विशेषेण प्रार्थना-रूपो व्यङ्ग्योऽर्थश् च प्रायः प्रसिद्ध एव । तत्र धर्म-शास्त्रोपदेश-बलेन यत् पत्य्-आदीनाम् अनुवृत्तेर् नित्यत्वं श्री-भगवता स्थापितं, ज्ञान-शास्त्रम् आलम्ब्य तन् निराकर्तुं प्रतिभाव-चलनेनैव तस्य परमात्म-तत्त्वं कल्पयन्त्यः सर्वोपदेशानां तद्-अनुगताव् एव तात्पर्यं स्थापयन्ति—यत्-पत्य्-अपत्य [भा।पु। १०.२९.३२] इति । एतत् स्वधर्मोपदेश-वाक्यं सर्वोपदेश-वाक्यानां तात्पर्यास्पदे त्वय्य् एवास्तु, त्वद्-भजन एव पर्यवस्यत्व् इत्य् अर्थः ।

कथम् अहं तद्-आस्पदम् ? तत्राहुः—त्वम् आत्मा परमात्मेति । ततः तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति [बृ।आ।उ। ४.४.२२] इत्य्-आदि-शास्त्र-बलेन त्वम् एव तद्-

आस्पदम् इत्य् अर्थः ।

अथ मम परमात्मत्वम् अपि कुतः ? तत्र स-प्रतिभम् आहुः—किल प्रसिद्धौ तनु-भृतां प्रेष्ठः निरुपाधि-प्रेमास्पदं, बन्धुर् निरुपाधि-हित-कारी च भवान् इति । तच् च द्वयं परमात्म-लक्षणत्वेन आत्मनस् तु कामाय सर्वं प्रियं भवति [बृ।आ।उ। २.४.५] इत्य्-आदि-ज्ञान-शास्त्रे प्रसिद्धम् । तस्मात् त्वम् एव परमात्मेति सिद्धम् । तस्मात् त्वद्-उपासनोन्मुखानाम् अस्माकं ब्राह्मणो निर्वेदम् आयात्, नास्त्य् अकृतः कृतेन [मु।उ। १.२.१२] इति बलवत्तर-ज्ञान-शास्त्रोपदेशेन स्वधर्म-परित्यागेऽपि न दोष इति भावः ।

तासां तद्-ऐश्वर्य-ज्ञानं च तन्-माधुर्यानुभवातिशयेनोदेतुं न शक्नोतीति पूर्वम् एव दर्शितम् । तत्र च विशेषतः सद्-आचारं प्रमाणयन्ति—कुर्वन्ति हि [भा।पु। १०.२९.३३] इति । कुशलाः सारासार-विद्वंसः सन्तः । हि प्रसिद्धौ । विशेषत इत्य् अर्थः । स्व आत्मनि परमात्मनीति पूर्वाभिप्रायेण । स्वे आत्मनि अन्तःकरणे नित्य-प्रियत्वेनानुभूयमानो यस् त्वं, तस्मिंस् त्वयीत्य् अर्थः । इत्य् अभिप्रायेण वा । यस्मात् ते चैवम्भूते त्वय्य् एव रतिं कुर्वन्ति, न तु धर्मादौ तद्-धेतौ गृहादौ वा ।

तस्माद् अस्माकं पत्य्-आदिभिः किम्? यर्ह्य् अम्बुजाक्ष [भा।पु। १०.२९.३६] इत्य्-आदिषु रमा-आदि-शब्दाः श्रीर् यत्-पदाम्बुज- [भा।पु। १०.२९.३७] इत्य्-आदिवद् एव व्याख्येयाः । इति वाचिकानुभावेषु संलाप-व्याख्या ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतः प्रथमतो वेणु-गीतेनैव सम्मोहिताः । तद् अनु तव चरिताद् एव भ्रान्ताः । तद् अनु त्रैलोक्य-सौभगम् इदं रूपं च निरीक्ष्य मूर्च्छिताः । अतः परम् अपि त्वया सहोक्ति-पराः स्मः । इतः परं किम् अस्माकं धैर्यम् ? तस्मान् मा परं भ्रामय । प्रसीदेत्य् उपसंहरन्त्योऽन्या आहुः—व्यक्तं भवान् इत्य्-आदि । व्रजस्य भयम् आर्तिश् च तद्-धरत्वेन भवान् प्रादुर्भूत इति व्यक्तम् एव । सुर-लोक-गोप्ता देव आदि-पुरुषो यथांश-रूपेण भवान् एव यथादि-पुरुषत्वेन सुर-लोकं गोपायसीत्य् अर्थः । व्रजे तु स्वयम् एवेति भवच्-छब्दार्थः । अतस् तवाधिक्यं करुणाया भवितुम् अर्हति । यद् वा, देवो यथादि-पुरुषः सुर-लोक-गोप्ता, तथा त्वं व्रज-भयार्ति-हर इति । तस्मान् नोऽस्माकं किङ्करीणां तप्त-स्तनेषु शिरःसु च कर-पङ्कजं निधेहि । हे आर्त-बन्धो ! व्रजार्ति-हरत्वेन समुचितम् एवास्माकम् आर्ति-हरणम् इत्य् उपसंहारः ॥४१॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं यद् उक्तं सर्वम् अनूद्य तस्यावतार-कार्यं कथयन्त्यः परमार्ताः स्वकीयार्ति-शमनं प्रार्थयन्ते—व्यक्तम् इति । प्रतियात [२७]

क्षते क्षारम् इवासहमानाः स्व-मुखेन संनिकर्षम् एव याचन्ते—व्यक्तम् इति ।

एतद् व्यक्तं निश्चितं भवान् व्रज-जनार्ति-हरोऽभिजातः, विश्व-पालनायावतीर्ण इति केचिद् वदन्ति । तत्र विश्व-पालनम् अवतारान्तरेणापि भवति, व्रज-जनार्ति-हरण-प्रयोजनः सन्न् अवतीर्णः, गोवर्धनोद्धरणादिना सर्वेषां बाह्याभ्यन्तरार्ति-हरणे जातेऽस्मद्-अन्तरार्ति-हरणाभावेन त्वयि वैशम्यं भविष्यतीति । प्रीति-कर्तृषु आर्तेषु सत्सु त्वयि प्रीतिं कोऽपि न करिष्यतीति भावः । भू-भार-हरणं तु तवेच्छयैव भवेत् ईश्वरत्वात्, सामान्यतो व्रज-जनार्ति-हरणम् अस्मत्-सम्बन्ध-पुरस्कारेण मुख्यम् अस्मद्-आर्ति-हरणम् एव प्रयोजनम् । अस्मद्-आर्ति-हरणे मधुर-रस-रक्षा भवेत् । मधुर-रसे रक्षिते परमानन्द-पूर्णं तव स्वरूपं सुरक्षितं भविष्यतीति भावः ।

किं न्यायम् ? आहुः—यस् तु यस्मिन् प्रपन्नो भवति, स तु तेन पाल्यो रक्षणीयाश् च भवति । तद् यथा—आदि-पुरुषः श्री-नारायणो वामनादि-यज्ञावतारैः सुर-लोक-गोप्ता, सुरान् देवान् तत्-तल्-लोकांश् च गोपायति रक्षति । देवः सर्व-पूज्योऽपि मोहिनी-रूपेण दैत्यान् वञ्चयित्वा देवेभ्योऽमृतं दत्तवान् । यद्यपि परमेश्वरस्य सर्वत्र समस्य वैषम्यं नास्ति, तथापि स्वकीयेषु प्रीतिं प्रकटयता तथा कृतम् । दिव्यते क्रीडति इति देवः, क्रीडा-प्रधानः सापेक्षश् च। कथम् अस्मान् वञ्चयसि ? त्वं तु व्रजेश्वर-पुत्रत्वात् सेव्यः, वयं सेवक्यः।

ननु कथम् आर्ति-हरणं भवेत् ? तत्र विशेषेण कथ्यताम् इति चेत्, तत्राहुः—तद् अस्मात् तावत् कर-पङ्कजम् आर्ति-हरण-शीलत्वात् अति शीतलत्वान् नोऽस्माकं मन्मथाग्नि-ज्वालावलीढत्वात् नः स्तनेषु ताप-शान्त्य्-अर्थं निधेहि । काम-ज्वरस् तु स्त्रीणां स्तनयोर् एव तिष्ठति । हृदय-शैल्ये जाते सति शिरःसु कर-पङ्कजं निधेहि स्थापय, अस्मद्-आर्ति-निग्रहे तवावतार-प्रयोजन-जातम् इति प्रसिद्धिं करिष्यामः ।

ननु "बाल्यात् प्रभृति नैष्ठिक-ब्रह्मचारी अहं भवतीनां कुच-स्पर्शादि बिभेमि" इति चेत्, तत्राहुः—किङ्करीणाम् इच्छति किङ्करी-कुच-स्पर्शे कस्यापि न भयं, न च सङ्कोचः । आ बाल्याद् व्रतस्य ब्रह्मचर्यस्य च फलं भविष्यतीति भावः । हे आर्त-बन्धो ! वयम् आर्ताः, त्वं बन्धुर् आर्ति-नाशनः त्वयि बन्धौ विद्यमानेऽपि चेद् आर्तिः, तदा कृपालुत्वं न सेत्स्यते । यद्यपि त्वं निष्कामः, तथापि त्वया परमार्तो गजेन्द्रो यथोद्धृतस् तत्रार्त-बन्धु-प्रसिद्ध्या तव कीर्तिर् जातैव । ततः स्व-कीर्ति-रक्षणार्थम् अधुनापि नोऽस्माकं शिरसि हस्त-पङ्कज-धारणेन स्तनयोस् ताप-शान्त्या च औचितीं विधत्स्व ।

यद् वा, भवान् व्रज-जनार्ति-हरः व्रजस्य जनानां चार्ति-हर इति व्यक्तं सर्व-लोकेषु प्रसिद्धं, कालिय-दमनादिना । अभिजातः अभिजातेनास्मान् अवेक्ष्य व्रजेश्वर-पुत्रत्वात् ।

ननु, भवत्यो न ताप-तप्ता आगताः, किन्तु चापल्यात् स्त्री-स्वभावाद् अत्रागताः ? इति चेत्, तत्राहुः—ततः स्तनेषु शिरःसुकर-पङ्कजं निधेहि हस्तं न्यस्य प्रतीयतां, स्वयम् एव तापोऽभिव्यक्तो भविष्यतीति भावः । किङ्करीणाम् इति अस्मत्-तापानपगमेऽन्योऽपि तव कैङ्कर्यं न करिष्यतीत्य् अर्थः । एवं प्रार्थनेन व्यञ्जनयाङ्ग-सङ्गः स्वयम् एव प्रार्थितः ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् अलं चातुरी-प्रपञ्चेन मुञ्चावहित्थम् इत्य् आहुः—व्यक्तं, न तु कुत्राप्य् एतद् आख्यानं गुप्तम् इत्य् अर्थः । किं तत् ? भवान् व्रजस्य यद् भयं दावानलादिभ्यः, आर्तिः पीडा च वर्ष-वातादिभ्यस् ते हरतीति सः । "व्रज-जनार्ति-हरः" इत्य् अपि पाठः । अभि सर्वतो-भावेन नन्द-गृहे जातः । यथा नारायण इति सर्व-लौकिकैर् उद्घुष्यते । अद्य यदि शत-कोटि-सङ्ख्या एता गोप्यो मरिष्यन्ति, तदा व्रज-जनानाम् एतत्-पित्र्-आदीनाम् आर्तिः कथम् एकदैवैता वन-मध्ये मृता इति भयं च भविष्यतीति भावः । तर्हि किम् अभीप्सितं वः ? तत्राहुः—तत् तस्मात् हे आर्त-बन्धो ! अस्माकं तप्तेषु स्तनेषु कर-पङ्कजम् अर्पय ।

ननु तर्हि मृदुलम् एतन् मे ज्वलिष्यति ? इति तत्राहुः—किङ्करीणाम् इति । त्वत्-परिचारिकाणाम् अस्माकं तप्ताव् अप्य् एतौ त्वत्-परिचर्या-साधनाव् एव पङ्कजस्यापि सूर्योदय-तापो न तापकः, प्रत्युत सुखद एवेति भावः । शिरःसु चेत्य् अतः परं वो मत्-त्याग-भयं मास्त्व् इति ज्ञापयितुम् ॥४१॥


॥ १०.२९.४२ ॥

श्री-शुक उवाच—

इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।

प्रहस्य स-दयं48 गोपीर् आत्मारामोऽप्य् अरीरमत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विक्लवितं पारवश्य-प्रलपितम् । गोपीर् अरीरमद् रमयामास ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासाम् आर्ति-श्रवणाद् उद्विग्नं राजानं प्रेक्ष्य तच्-छान्त्यै श्री-शुकः पर-सन्तापापहार-कारिण्या श्रिया सहितः परम-मुनिर् उवाच इति ।

इति इत्थम् । तासां गोपीनाम् । योगिनः सनकाद्याः, तद्-ईश्वराः शङ्कराद्याः, तेषाम् ईश्वरः श्री-यशोदानन्दनः । अनेन परमोत्कृष्ट-दयालुतोक्ता । दयालवो योगिनः, परम-दयालवो योगेश्वराः, परमोत्कृष्ट-दयालुः श्री-कृष्ण इति । स-दयं स्व-हस्तेन तासां अश्रु-मार्जनादि-पूर्वम्। गोपीनाम् अपि, ता मन्-मनस्का मत्-प्राणाः [भा।पु। १०.४६.४] इति भगवद्-उक्तेस् तद्-रूपत्वान् नात्मारामत्व-हानिर् इति ध्येयं विद्वद्भिः । वक्ष्यत्य् अपि—यथार्भकः स्व-प्रतिबिम्ब-विभ्रमः [भा।पु। १०.३३.१७] इति । पारवश्येन कामायत्तत्वेन प्रलपितं प्र-पूर्व-लपेर् अनर्थक-वचः परत्वम्, प्रलापोऽनर्थकं वचः इत्य् अमरः । इत्य् उक्त्या स्वामि-चरणैस् तासाम् अपि वस्तुतोऽतथात्वं ध्वनितम् । अतथात्वं कामादि-पीडा-राहित्यम् ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इति इत्य्-आदि । प्रहस्य इति प्रत्युत्तरान्तर-दाने प्रतिभा-लोपात् हास एव जातः । योगेश्वरेश्वर इत्य्-आदिना सर्वासां युगपत् मनोरथ-प्रतिपादकत्वम् । आत्मारामोऽपि इत्य्-आदि-शब्देन आत्मारामत्वम् अनासङ्गत्वम् अपहायेत्य् अर्थः । अथवा, आत्मसु आत्म-भूतासु आरमत इत्य् आत्मारामः, स्वयं रममाणोऽपि ता अरीरमत् रमयाञ्चकार ॥४२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतद् विक्लवितं वैकल्योक्तं वाचाम् उभय-कोटि-स्पर्शाद् उभयत्र सङ्गतं स-मयं49 प्रकर्षेण हसित्वा इति हासो जनोन्माद-करी च माया [भा।पु। २.१.३१] इत्य् उक्ते वञ्चना निरस्ता, तद्-इष्टस्यैव ताभिः प्रतिपादनात् । यद् वा, स-मयं स्व-हस्तेन तासाम् अश्रु-मार्जनादि-पूर्वकम् अरीरमद् इति । तत्रौदासीन्यं निरस्तं, प्रीतिश् च दर्शिता । यतो गोपीः प्रेम-विशेषेण तादृश-प्रसाद-योग्या इत्य् अर्थः । प्रहस्य इति निजाभिप्रायाज्ञानेन तासां वैकल्योक्तेः । तेन निजावहित्था-सार्थकत्वाच् च ।

यद् वा, प्रतिवचनेन प्रहर्षोदयात् शुद्ध-भावे हसित्वा । किं वा, तासां तद्-उक्त्यावहित्थापगमने काम-विकारोदयात् । हासो हि शृङ्गारस्य व्यभिचारी ।

ननु परस्परम् आसक्त्या वैदग्धी-प्रकटनेन रतिः सम्पद्यते । तच् च तस्याम् आत्मारामत्वादिना न घटेत । तत्राह—योगश् चित्तैकाग्रता, तस्य ईश्वरा वशीकृत-योगाः सनकादयः, तेषाम् ईश्वरोऽपि आत्मारामोऽपि इति विचित्र-वैदग्धी-प्रकटनेन योग-निष्ठा आत्मारामता च तदानीं न स्थितेत्य् अर्थः ।

यद् वा, पूर्ववत् विक्लवितेन योगेश्वरेश्वरता, रमणेन चात्मारामता अपगतेति विवेचनीयम् । अन्यथा तच्-छ्रवण-रमणासम्भवः । यद् वा, योग- इत्य् अनेनैकोऽपि बहु-रूपः सन्न् इव पृथक् पृथक् युगपद् रमयामासेति सूचितम् । अन्यत् तुल्यम् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति निजोक्तिवद् उभयार्थ-स्पर्शात्मकम् एतद् विक्लवितं [प्रमेव]{।मर्क्} वैक्लव्य-मय-रोष-दैन्योक्तिं श्रुत्वा तच्-छ्रवणेन स्वाभिलाषं पूरयित्वेत्य् अर्थः । ततः प्रहस्य परिहासेऽपि तासां वैक्लव्य-विशेषोदयात्, ततो निजाभीष्ट-श्रवण-सिद्धेः, तत्रापि स्व-वचन-सदृश-प्रतिवचन-सौष्ठवात्, ततोऽवहित्थापगमेन रत्य्-आख्य-भावोदयाच् च । प्रकर्षेण चेतो-विकाशि-रूपतया रस-शास्त्र-प्रसिद्ध-मुख-प्रसादानुभावं भाव-विशेषं लब्ध्वेत्य् अर्थः । तद् एव च स-प्रेम-दैन्य-वचनं श्रुत्वा सदयं चित्तार्द्रता-सहितं यथा स्यात्, तथा गोपीर् अरीरमत् । रन्तुं स्वयम् एव प्रयोजयामास अत्याग्रहं चकार इत्य् अर्थः । एवं तस्यैव च तत्रेच्छा-वैशिष्ट्यं लक्ष्यते । समानम् अपि क्रीडत्सु बालकेषु प्रयोजक-बालकस्येवेति भावः । अत एव परस्मैपदम् । अणाव् अकर्मकाच् चित्तवत् कर्तृकात् [पा। १.३.८८] इति कर्त्र्-अभिप्रायेत् तद्-विधानात् ।

ननु किम् एतद् आश्चर्यं नागरेषु ? तत्राह—आत्मारामोऽपि । अहो तासां प्रेम-गुण-प्राबल्यं यतः आत्मारामाश् च मुनयः [भा।पु। १.७.११] इत्य्-आदौ हरि-गुणेन आत्माराम-गण इव तेन सोऽप्य् आत्म-वशीचक्रे इति भावः । अत एव अपि-शब्दः सार्थकः स्यात्, अन्यथा तु प्रत्युत विरुद्ध एव । यद्यपि नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना [भा।पु। ९.४.६४] इति सामान्य-भक्त-परम् अप्य् अस्ति वचनं, तथाप्य् अत्र वैशिष्ट्य-विवक्षया तथोक्तम् इति न पौनरुक्त्य-वैयर्थ्यम् ।

ननु कथम् एकः सन्न् असङ्ख्या रमयामास ? तत्राह—योगेश्वरेश्वर इति । योगेश्वरा अपि काय-व्यूहादिकं विधाय युगपन् नाना-कृत्यं विधातुं शक्नुवन्ति । स तु तेषाम् अपि ईश्वरत्वेन अचिन्त्य-स्वाभाविक-शक्तित्वात् तद्-आदिकं विनापि शक्नोतीति । वक्ष्यते च श्री-नारदेन—

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।

गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२] इति भावः ।

गोपी-शब्देन तत्-तन्-महा-मन्त्र-प्रसिद्धं तासां तदीय-नित्य-वल्लभात्वं स्मारयित्वा तत्रापि नात्याश्चर्यतां सूचयतीति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इति पूर्वोक्त-प्रकारेण विक्लवितं प्रेम-वैवश्य-वचः श्रुत्वायोगेश्वरेश्वर इति तत्-तद्-अलौकिक-कर्म-समाधायकाचिन्त्य-शक्तिर् इत्य् अर्थः । आत्मारामोऽपि इति तासां प्रेम-गुण-प्राबल्यम् आत्मारामश् च मुनय [भा।पु। १.७.११] इतिवत् । अरीरमत् रन्तुं प्रयोजयामासेति तस्यैव तत्रासक्तिर् मुख्या दर्शिता, क्रीडत्सु बालकेषु प्रयोजक-बालकस्येव ॥४२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद्-अनन्तरं यद् अभूत्, तत् श्री-शुकाचार्यः प्रकटयति—इति इत्य्-आदि । योगेश्वरेश्वरोऽपि आत्मारामोऽपि आत्मनि स्व-सुखे आरमत इत्य् आत्मारामः । तथा-भूतोऽपि प्रहस्य इत्य् अस्य कोऽर्थः ? मम योगेश्वरेश्वरता, आत्मारामता च गलितेति प्रहासं कृत्वा अरीरमत् । न तु रेमे । उक्तोक्त-प्रकारेण स्वाधिकरणकेश्वरता-ज्ञान-निरास-पूर्वकं सङ्कोचाभावेन यथा-रुचि सर्वा एव मया सह रमन्ताम् इति णिच्-प्रत्यय-महिमा ॥४२॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं गोपीनां प्रतिवचनेन निरुत्तरीकृतः, तासाम् आर्ति-प्रलपनेन द्रव-सात्त्विक-भावेन जात-क्षोभः, तत्रापि किञ्चिद् अनुक्त्वेव यतवान् । ततो मुनीन्द्रस् तद्-दशाभिज्ञः कथयति—इति इति । इत्य् अनेन प्रकारेण श्री-कृष्णोक्त-वञ्चनानां तद्-अनुरूपोत्तरैः प्रतिष्टम्भेन तासां विक्लवितं प्रणय-रोष-गर्भ-सदैन्यं स्वाभिलाष-पूर्ण-प्रार्थनं श्रुत्वा, समनन्तरं प्रहस्य इति, मया तु धर्मोपदेशेन भय-दर्शनेन चैतासां भाव-परीक्षार्थम् अन्तः-स्नेह-पूर्णैर् बहिर्-औदासीन्य-व्यञ्जकैर् वचनैः कोप-कारिताः । मद्-अभिप्रायम् अनालोच्य स-काकु-दैन्यम् आवेदयन्ति । अतः परमावहित्थया अलम् इत्य् उच्चैर् हास्यं कृत्वा । हासस् तु चित्त-विकार-व्यञ्जकः । तद् उक्तं रसार्णवे—निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया [र।सु। १.३२३] इति । हासेन स्व-हृदि स्थितं भावं लक्षयित्वा सदयं यथा भवति, तथा । दया तु निरुपाधिर् अदुःख-प्रहानेच्छा, तत्-सहितं यथा तथा आत्मारामोऽपि आत्मारामत्वं तिरस्कृत्याक्षीन्द्रियेणात्मना सुख-विशेषम् अनुपलभमानोऽपि ता अरीरमत् रमयामास । कीदृशः ? योगेश्वरेश्वरः । अन्ये हि योगिनो लब्ध-भगवत्-प्रसादाः परिचिताद्य्-अभिज्ञा भवन्ति । अयं तु तेषाम् अपीश्वरः । गोपीनां चित्त-वृत्तिं जानन्न् अपि तासां तथा-विधं वाचं श्रोतुम् इच्छन्न् औदासीन्यं प्रकटितवान् ।

यद् वा, योगः स-योगः, तस्य ईश्वराः महा-विलासिनः परम-शक्ति-रूपिणः । तेषाम् अपि ईश्वरः परम-विदग्धावधिर् महा-शक्त्रूपीत्य् अर्थः । औदासीन्य-व्यञ्जनेन विप्रलम्भम् उत्पाद्य परिपूर्णं मधुर-रसम् अनुभवितुं तथा कृतवान् इति भावः ।

यद् वा, अन्ये योगिनो योगज-धर्म-प्रत्यासत्त्या अन्येषां कायेषु प्रविश्य स्व-शरीरम् अन्तरेणापि तदीयैर् एव शरीरेन्द्रियैः सुखम् अनुभवन्ति । अयं तु न तथा, किन्तु शरीरेणैव सर्व-संनिहितः सन् यूथशस् ता वह्नीः रमयामासेति चित्रम् । अत एवाग्रे वदिष्यति, तासां मध्ये द्वयोर् द्वयोः [भा।पु। १०.३३.३] इति शक्ति-विशेषेण लाघवेन सर्व-संनिहितत्वं सूचितम् इति ।

विक्लवितम् इति । श्रवणेन आत्मारामतया निरोधः सूचितः । अयं तु दक्षिणो नायकः । तद् उक्तं रसार्णवे—नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते [र।सु। १.१२६] इति । प्रहस्य इति—शुचौ हास्यस् तथा प्रेयान् अद्भुतश् च सुहृद्-वरा [?]50 इत्य् एतेषां मधुर-रस-पोषकत्वं सूचितम् । किं च, भवतीभिर् ममौदासीन्यम् आकलय्यैवं प्रत्युत्तरितं तद् औदासीन्यम् आत्मना क्रोडीकृतम् । तद् वयम् अपि त्यक्तम् अपि प्रहस्य गोपीः बहुशोऽनुभूतम् अपि । श्री-कृष्णानन्दं गोपायतीति अनुरागौत्कण्ठ्यं दर्शितम् । किं च, आराध्य-गुणैर् आराधका आकृष्यन्ते । तथा श्री-कृष्णोऽपि व्रज-सुन्दरीणां प्रेमाकृष्टः आत्मारामतां शिथिलीचकारेति तात्पर्यार्थः ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विक्लवितं वैक्लव्य-व्यञ्जकं वाक्यं श्रुत्वा तच्-छ्रवणेन स्वाभिलाषं पूरयित्वेत्य् अर्थः । प्रहस्य—"अहो भाववत्यो यूयं प्रतिदिनम् एव मिलन-समये वाम्यम् अपारं कुरुध्व एव । अहं त्व् एकस्मिन्न् एव दिने अद्यैवावहित्थया यत् किञ्चिद् वाम्यम् अकरवं, तद् अपि दाक्षिण्य-गर्भम् एव । तेनाप्य् एतावद् वैक्लव्यवत्यो लज्जायाः श्राद्धं कृतवत्यो मां हासयध्वे । तस्मात् युष्मत्-प्रात्यहिकावहित्था-सिन्धु-चुलुकीकरण-चुञ्चुना मयैव जिताः स्थ । भोः सुबुद्धि-शेखरं-मन्याः ! जिताः स्थ । तत् स्वयम् एवागत्य प्रैबन्धक-लज्जा-धृत्य्-आद्य्-अभावान् मत्-कण्ठे कनक-मणि-मालायिता भूत्वा साधर-सुधाः पाययत । चिराद् उद्भूत-महा-तृष्णो\ऽ

स्मि" इति परिहस्य सदयः शुभावहो विधिर् यत्र तत्, स-स्नेहं वा यथा स्यात् तथा आत्मारामोऽपि ता गोप-स्त्री रमयामास । इत्थं-भूत-प्रेमाणो गोप-स्त्रिय इति । आत्मारामाश् च मुनयः [भा।पु। १.७.११] इति पद्ये, इत्थं-भूत-गुणो हरिः इतिवत् । गोपीनां तदीय-स्वरूप-भूत-ह्लादिनी-शक्ति-वृत्तित्वात् ता अप्य् आत्मान इत्य् आत्म-भूताभिस् ताभी रमणं सम्भवत्य् एव ।

यद्यपि, न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् [भा।पु। ११.१४.१५] इति, नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना [भा।पु। ९.४.६४] इत्य्-आदि भगवद्-उक्तेस् तस्य स्वात्मतोऽपि भक्तानाम् आनन्द-प्रदत्वाधिक्यावगमाद् आसां च गोपीनां सर्व-भक्त-शिरोमणित्वाद् आत्मारामस्यापि तस्यानन्दाधिक्यार्थम् एवेताभी रमणम् इति ज्ञेयम् ।

ननु प्रमदा-शत-कोटिभिर् आकुलित [क्र।दी। ५.५३] इति क्रम-दीपिकाद्य्-आगम-दृष्ट्या शत-कोटि-सङ्ख्याभिस् ताभिर् एकत्रैव एकदैव एकस्य तस्य रमणं नोपपद्यते ? तत्राह—योगिनः सौभर्यादयः, योगेश्वरा रुद्रादयः, तेषाम् अपि ईश्वर इति । सौभर्यादयः काय-व्यूहं कृत्वैव रमन्ते, कृष्णस् त्व् अतर्क्य-चारतस् तं विना । यद् वक्ष्यते, चित्रं बतैतद् एकेन वपुषा [भा।पु। १०.६९.२] इत्य्-आदीति ॥४२॥


॥ १०.२९.४३ ॥

ताभिः समेताभिर् उदार-चेष्टितः

प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः ।

उदार-हास-द्विज-कुन्द-दीधितिर्

व्यरोचतैणाङ्क इवोडुभिर् वृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रियस्य ईक्षणेन उत्फुल्लानि मुखानि यासां, ताभिः । उदार-हासश्द्विजाश् च तेषु कुन्द-कुसुमवद् दीधितिर् यस्य सः । एणाङ्कश् चन्द्रः ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [समेताभिः] मया शोभया सह वर्तमाना समा श्री-राधा, ताम् इताभिः प्राप्ताभिः । उदाराण्य् अङ्ग-स्पर्श-पुष्पाद्य्-अपर्ण-कटाक्ष-पात-रूपाणि चेष्टितानि यस्य, सः । प्रियेक्सण- इति मुखानां कमल-वनत्वम् ईक्षणस्य च भास्करत्वं सूचितम् । तेषु उदार-हास-युक्त-द्विजेषु दन्तेषु । यद् वा, द्विजा एव कुन्दा माध्य-पुष्पाणि द्विज-कुन्दाः । उदार-हासेन उत्कृष्ट-हास्येन द्विज-कुन्दानां दीधितिर् मरीचिर् यस्य सः । भानुः करो मरीचिः स्त्री इत्य् अमरः । कुन्दा माध्ये\ऽस्त्री मुकुन्द-समिनिध्य्-अन्तरेषु ना इति मेदिनी । एणः कुरङ्गो हरिणः इति हलायुधः । एणाङ्कश् चिह्नं यस्य स तथा । कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् इत्य् अमरः । एतेन हरेः कान्त्या तासाम् आच्छादित-कान्तित्वम् उक्तम् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रमण-प्रकारम् एव—ताभिर् इत्य्-आदिभिश् चतुर्भिर् वर्णयन्न् आदौ ताभिः सह प्रेम-सङ्गमेन तस्यापि शोभा-विशेषं स-दृष्टान्तम् आह—ताभिर् इति । समेताभिर् अत्यन्तान्तिकं गताभिः । यद् वा, प्रणय-कोपादि-परित्यागेन मिलिताभिः । यद् वा, मा शोभा परम-सौन्दर्यं, तया सह वर्तते समा, परम-सुन्दरी श्री-राधा, तया इताभिः प्राप्ताभिः । एतेन प्रथमम् उक्ति-प्रत्युक्ति-समये तासां मध्ये श्री-राधा नासीत्, किन्तु कृष्णस्यावहित्थागमे जात एव सा मिलितेति ताभिर् वृतः परिवृतो वेष्टितः सन् ।

अच्युतः कामादिभिर् अनिर्जितोऽपि । तथा च विश्वः—अनिर्जिते चाच्युतस् तु इति । यद् वा, कथम् अपि कस्याश्चिच् छोभाया न च्युत इत्य् अच्युतोऽपि । यद् वा, रस-प्रसरात् कथम् अपि न च्यवते इत्य् अशेष-रस-पूर्णतोक्ता । अत एव विशेषेण अरोचत अशोभत ।

समेतत्वे हेतुः—उदाराणि रस-विशेषोद्दीपक-विचित्र-वैदग्ध्यादि-मयत्वेन सर्वोत्कृष्टानि परम-सुख-प्रदानि वा चेष्टितानि स्पर्शन-पुण्याद्य्-अर्पण-कटाक्षादि-रूपाणि यस्य सः । यद् वा, प्रहस्य [४२] इति पूर्वोक्तो हेतुस् तत्र विराजत एव । यद् वा, प्रहस्य अरीरमत् रञ्जयामास, रते रागार्थकत्वात् । तथा च विश्वः—रतिः स्मर-प्रियायां च रागे च सुरते रतिः इति । अयम् एव सङ्गतौ हेतुः ।

ततश् च उदार-चेष्टितः इति वक्ष्यमाण-रमणोपकरणं विरोचन-कारणं च ज्ञेयम् । अत एव प्रियस्येक्षणं स्व-कर्तृकं तत्-कर्तृकं वा । एवं शक्ति-विशेषेण ऐश्वर्यम् अपि दर्शितम् । परितो वर्तमानास् ताः प्रति साम्येन युगपद् ईक्षणात् । उत्फुल्ल-शब्देन मुखस्य कमलत्वम् ईक्षणस्य भास्करत्वं ध्वनितम् ।

एवं तासां रस-विशेष-प्रकाश उक्तः । तस्यापि तम् आहुः—उदारे हासे द्विजेषुकुन्द-पुष्प-दीधितिर् यस्य सः । इति हासस्य विशुद्धता दन्तानां च शुभ्र-कान्तिर् उक्ता । यद् वा, उदार-हासे द्विज-कुन्दानां दीधितिर् यस्य । यद् वा, उदारो हासो यया सा द्विज-कुन्द-दीधितिर् यस्येति श्रीमद्-दन्तानां प्रकाशेन हासस्याधिक-शोभोक्ता ।

स्वतः परम-काष्ठा-प्राप्तस्य नित्य-शोभा-मयस्यापि ताभिः शोभा-विशेषं दृष्टान्तेन साधयति—एणाङ्कः इति । पूर्ण-चन्द्रस् ताराभिः सर्वतो विराजमानाभिः सतीभिर् वृतः सन् यथा विरोचते, तद्वद् इति । एवं ताभिः सह तस्यान्योऽन्यं शोभनत्वं प्रेष्टत्वं नित्य-साहित्यं च सूचितम् ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रमण-प्रकारम् एव ताभिर् इत्य्-आदिभिश् चतुर्भिर् वर्णयन् तत्-प्रयोजक-कर्तृतां च दर्शयन्न् आदौ ताभिः सह प्रेम-सङ्गमेन तस्यापि शोभा-विशेषं स-दृष्टान्तम् आह—ताभिर् इति । समेताभिः स्वयम् एव श्री-कृष्णेन कर्त्रा समागताभिः अरीरमद् इत्य्-उक्तेः । ततस् ताभिस् तादृशीभिर् वृतः परितो वेष्टितः सन् व्यरोचत विशेषेणाशोभत । तत्राप्य् अच्युतः सर्वाभिः प्रत्येकम् अपि सङ्गमे च्युति-रहितः सन् । अत एव उदार-चेष्टितः रूपाणि यस्य सः । अत एव प्रियस्य वीक्षणं स्व-कर्तृकं तत्-कर्तृकं वा ज्ञेयम् । उत्फुल्ल-शब्देन मुखस्य कमलत्वं व्यञ्जितं, तद्-ईक्षणे तद्-अन्तःकरण-तमो\ऽपगमेन तदीय-दिवसतः प्राप्तेर् इति भावः ।

एवं तासां रस-विशेष उक्तः । तस्यापि तम् आह—उदारो हासो यया सा । द्विज-कुन्द-दीधितिर् यस्येति श्रीमद्-दन्तानां प्रकाशेन हासस्याधिक-शोभोक्ता । स्वतः परम-काष्ठा-प्राप्त-नित्य-शोभामयस्यापि ताभिः शोभा-विशेषं दृष्टान्तेन साधयति—एणाङ्क इति । चन्द्रस्य पूर्णत्वं—एणाङ्कस्यैणाकारत्वेनोपलम्भाद् एणाङ्कः पूर्ण-चन्द्रस् ताराभिः सर्वतो विराजमानाभिः सतीभिर् वृतः सन् यथा विरोचते, तद्वद् इति । एवं ताभिः सह तस्यान्यो\ऽन्यं शोभनत्वं प्रेष्ठत्वं नित्य-साहित्यं तासां ततस् तन्वीत्वं च सूचितम् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रयोजकत्वम् एवाह—ताभिर् इति चतुर्भिः । समेताभिः श्री-कृष्णेनैव कर्त्रा सङ्गताभिः ॥४३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्-प्रकारम् आह—ताभिर् इत्य्-आदि । समेताभिः सह मिलिताभिर् वृतोऽच्युतो रराज । उदारं चेष्टितं लीला यस्य । ताभिः कीदृशीभिः ? प्रियेक्षणं प्रिय-कर्तृकं प्रिय-कर्मकं वा यद् दर्शनं, तेन उत्फुल्लानि मुखानि यासाम् । उत् उत्कृष्ट आरः प्रसरणं यस्य । स चासौ हासश् चेति, तथा तस्मिन् द्विज-कुन्दानां दीधितिर् यस्य । कः काभिर् इव ? एणाङ्कश् चन्द्र उडुभिर् इव । स कीदृशः ? उदारम् ऊर्ध्वम् इयर्तीत्य् उदारं चेष्टितं यस्य । प्रिय- इति तुल्यम् । अच्युतोऽनेक-रात्रि-व्यापी उदारो महान् यो हासः प्रकाशः, तेन द्विजानां कुन्दानांदीधितिर् इव दीधितिर् यस्य । उडु वा स्त्रियाम् इति लिङ्ग-विशेषणम् ॥४३॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : आदौ युगपद् एव तासां बह्वीनां सङ्गमं वर्णयन् अग्रे करिष्यमाणं दीर्घ-रमणं सूचयिष्यन् सङ्क्षेपतो रमण-शोभा-विशेष-पुरस्कृतं कथयति—ताभिर् अमिताभिः सह अच्युतः श्री-कृष्णो विशेषेण अरोचत अशोभत विप्रलम्भ-खिन्नायां यासां विक्लवितं श्रुतवान्, ताभिः पूर्व-भावना-कलनात् तु दूरे स्थिताः इदानीं प्रहस्यतीति भावः । आकलय्य समेताभिर् अन्तिकम् आगताभिः । अच्युतो विलास-च्युति-रहितः । मानसे लीलायां सर्वम् आकलितम् एव । अन्य-रसालम्बनैः सहाविनाभ्यो लीलाभ्यो विशेषेण आधिक्येन अरोचत इति । अन्यत्र लीला धर्मेण कृता, अत्र तु धर्मिणा कृता लीला मधुर-रस-भाविता । अत एव विशेषा उक्ता । सजातीयेभ्य एव न विजातीयेभ्य इति ।

यद् वा, पूर्वं रमणाधिकेन शोभितः कीदृक् ? उदार-चेष्टितः । सर्वासां तासां युगपद् एव संमानन-निपुणं सर्वेन्द्रियास्वाद्य-रस-विशेष-भावनानुभवयितुम् उदार-चेष्टितं कर-चरणादि-चालनं प्रेक्षणादिकं च यस्य । यद् वा, उदारम् अविद्यां सर्वासां एक-जातीयभावत्वात् । तद् उक्तं रसार्णवे—उक्त-वाक्ये गुणोत्कर्ष-प्रतिभानम् उदारता [र।सु। १.४३२] इति ॥

{wइद्थ्=“६.५इन्” हेइघ्त्=“१.७०४८६११११११११११२इन्”}

पुनः कीदृशः ? उदार-हास-द्विज-कुन्द-दीधितिः उदारः सर्वतः प्रसरण-शीलो हासो येषु ते द्विजा दन्ताः, तेषां कुन्द-कुसुमवत् दीधितिः यस्मिन् । यअद् वा उदारः प्रकटो हासो द्विजानां दन्तानां कुन्द-दीधितौ यस्य । दन्ताः कुन्द-कुसुम-रूपम् ईयते । तेषाम् उपमानायोग्यत्वम् आलक्ष्य हसतीति भावः । हासस्योज्ज्वलत्वेनोज्ज्वल-रसस्य पल्लवितत्वं सूचितम् ।

कीदृशीभिः ? प्रियेक्षणोत्फुल्ल-मुखीभिः प्रियस्य प्रीति-विषयस्य कृष्णेक्षणं तत्-कर्तृकं तत्-कर्मकं वा तेन उत्फुल्लानि अतिविकसितानि मुखानि यासां ताभिर् वृतः व्यरोचत एकादश-रसालम्बनेभ्यो\ऽधिक-शोभत तत्रानुरूप-दृष्टान्तमाहुः—उडुभिर् नक्षत्रैर् वृत एणाङ्कश् चन्द्र इव अत्र श्री-कृष्णे भूष्यस् तास् तु भूषण एव परस्परं भूषणं भूष्यत्वं नित्य-संनिहितत्वं च सूचितम् । किं च, एणाङ्क इति पदेनोपादेये स-कलङ्कत्वं व्यञ्जितम् । बहुषु प्रेम-युक्तत्वान् नैक-निष्ठत्वं इदम् एव कलङ्कत्वेनोच्यते । गोपीनाम् एक-निष्ठत्वान् निष्कलङ्कत्वं इति निष्कलङ्काभिः सकलङ्कस्यापि तस्य कलङ्काच्छादनं कृतं ताभिर् वृतत्वाद् एको हि दोषो गुण-सन्निपाते निमज्जनीन्दोः किरणैर् इवाङ्क इति प्रसिद्धेः ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उदारं तासां रति-सुख-प्रदं भाव-भक्तानां तच्-छ्रवणाद्यैः प्रेम-प्रदं च चेष्टितं लीला यस्य, सः अच्युतः युगपद् एव तत् प्रत्येकं रमण-निष्ठा-च्युति-रहितः । उदारैस् तासां सुख-प्रदैर् महद्भिर् वा हासैर् द्विजानां दन्तानां कुन्दानाम् इव प्रकाशिता दीधितिर् यस्य सः ॥४३॥


॥ १०.२९.४४ ॥

उपगीयमान उद्गायन् वनिता-शत-यूथपः ।

मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपगीयमानो गोपीभिः । स्वयं च चन्द्रमसम् उद्गायन्न् अधिकं वर्णयन्—

कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् ।

जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥ [वि।पु। ५.१३.५१] इति टीकान्तरोक्तेः ।

शत-शब्दोऽनेक-वाची । यूथस् तु—

अर्बुद-दश-कोटीनाम् एकं भवति शैलजे ।

दशार्बुदं भवेद् यूथम् इति सङ्ख्या-विदो विदुः ॥ इति तन्त्रोक्तेः ।

वैजयन्ती-लक्षणं पूर्वम् उक्तम् ॥४४॥

अतः पश्चात् विश्वनाथः।


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उपगीयमान इत्य्-आदि-त्रिभिर् व्यतिक्रमेणान्वयः । नद्याः पुलिनम् आविश्य वनं मण्डयन् रमयाञ्चकार [४५] इति परेणान्वयः । अन्यथा केवल-पुलिन-स्थले तथा-विध-रमणं न रम्यम् । अतो व्यचरन्न् इति क्रियान्तं पृथग् वाक्यम् । वनिता-शत-यूथप इति वनिता जनितात्यर्थानुरागायां च योषिति [अमरः] इत्य्-आदि तथा-भूतानां शतं यूथपा यत्र, स तथा । यूथो हि सजातीयानाम् अपरिमितो व्यूहः, तान् पातीति यूथपाः, तासां शतम् । शत-शब्दो\ऽप्य् असङ्ख्य-परः । प्रधान-भूतास् तव यूथपाः असङ्ख्या यूथानाम् अनन्तत्वे गणनायाः का कथा ? इति भावः ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं शोभा-विशेषोदयेन श्री-वृन्दावनम् अपि शोभयन् गीतेन पुष्पादि-प्रदर्शनेन च कामम् उद्दीपयितुम् । किं वा, रति-योग्य-श्री-यमुना-पुलिनं गन्तुं, गमन-क्रमेण बभ्रामेत्य् आह—उप- इति । रूप-गुण-लीलादि-वर्णनेन स्तूयमानः । यद् वा, बहुधा तद्-गीत-गानेन उप चतुर्षु पार्श्वेषु गीयमानः । अतो हर्षेणोच्चैर् गायन्वनिताः जनित-पुरुषात्यन्तानुरागाः स्त्रियः । तथा च विश्वः—वनिता जनित-पुरुषात्यन्तानुरागाः स्त्रियः । तथा चामरः—वनिता जनिताऽत्यर्थाऽनुरागायां च योषिति इति । तासां शतानि यूथानि पाति सर्व-दुःखाद् रक्षति । यद् वा, पिबति । “पिबन्त इव चक्षुर्भ्याम्” इत्य्-आदिवद् आसक्त्या सेवते इति । यद् वा, अधरामृत-पानादिना साक्षात् पिबतीवेति तथा सः । तासां निज-निज-भाव-साजात्यानुसारेण वर्गशो यूथत्वम् । तत्र श्री-गोलोकादि-वर्तिन्यो नित्य-प्रियाः काश्चित् तेनैव सह ततोऽवतीर्णाः, काश्चित् तद्-अंश-भूता देव्यः । या उद्दिश्य श्री-ब्रह्मणादिष्टं—सम्भवन्तु सुर-स्त्रियः [भा।पु। १०.१.२३] इति । काश्चिच् च बहुल-प्रयत्नैर् भाव-विशेष-सिद्ध्या साधन-द्वारा श्री-गोपीत्वं प्राप्ताः । ते द्विविधाः—मुनयः श्रुतयश् च । दण्डकारण्य-वासिनो मानस-सरस्-तीर-महा-तपस्विनश् चेति मुनयः । श्रुतयश् च महोपनिषद्-आद्याः काश्चित् । तत्-तद्-वृत्तं पाद्म-बृहद्-वामनादौ व्यक्तम् एव । तत्रैव भाव-विशेषेणावान्तर-भेदं प्राप्ताः, इत्य् एवं विभागशो वर्तमाना अपि सर्वासां प्रायो भाव-साजात्यात् सर्वा एव ताः साम्येन रमयामासेत्य् अर्थः

वैजयन्ती पञ्च-वर्ण-पुष्प-ग्रथितां, “पञ्च-वर्णा वैजयन्ती” इति वचनात् । नव-रत्न-खचिताम् इति केचित् । यद्यपि रिरंसया पूर्वं धृतान्य् अन्यान्य् अपि भूषणानि विद्यन्ते, तथा चाग्रे वक्ष्यते—वलयानां नूपुराणां किङ्किणीनां च योषिताम् स-प्रियाणां [भा।पु। १०.३३.५] इत्य्-आदि, तथापि तां बिभ्रद् इति रात्रौ तया शोभा-विशेषाभिप्रायेण । किं वा, ताभिः सद्यस् तत्रैव विरचय्य समर्पितत्वाद् व्याचरत् परिबभ्राम ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं शोभा-विशेषोदयेन श्री-वृन्दावनम् अपि शोभयन् गीतेन पुष्पादि-प्रदर्शनेन च भावम् उद्दीपयितुं रति-योग्यं यमुना-पुलिनं गन्तुं च गमन-क्रमेण बभ्रामेत्य् आह—उपगीयमान इति । उद्गायन् भावोद्दीपनं चन्द्रादिकं हर्षेणोच्चैर् गायन् । ताभिश् च उपगीयमानः, उपगायन-रीत्या तैर् एव गीतैर् अनुक्रियमाणैर् वर्ण्यमानः, श्लेषेण तत्रैव सङ्गमितार्थत्वात् । तच् चैवं ज्ञेयम् । यथा श्री-रसामृत-सिन्धौ—

अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।

कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥ [भ।र।सि। १.१.१] इति ।

क्वचिद् एक-द्व्य्-अक्षर-परिवर्तनाच् च । यथा,

यामिनी-कृत-रुचिः शुचि-कान्तिश् चन्द्रकावलि-विभावि-कच-श्रीः ।

षाट्पदालि51-कलितैः कल-गीतैः पश्य भाति कुमुदाकर एषः ॥

यद् वा, तदीय-स्वर-तालादि-युक्तेन तन्-नाम्नै तद् उपगायन् तया गीयमानः, मनसि तद्-एकाविष्टतया, वचसि तद्-एक-स्फूर्तेः । यथोक्तं श्री-विष्णु-पुराणे—

कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् ।

जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥ [वि।पु। ५.१३.५१] इति ।

तत्रार्थ-द्वयम् अपि रसनीयम् इति । कृष्णश् च नाम च कृष्ण-नाम, तद् एवैकं केवलं जगाव् इति च व्याख्येयम् । वनिता जनिताऽत्यर्थाऽनुरागायां च योषिति इत्य् अमरः । तासां शतानि यूथानि पातीति तन्-नायक इत्य् अर्थः । श्लेषेण यानि पिबति पिबन्त इव चक्षुर्भ्याम् इत्य्-आदिवत् । आसक्त्या सेवते अधरामृत-पानादिना साक्षात् पिबति वेति तथा स तासां निज-निज-भाव-साजात्यानुसारेण वर्गशो यूथत्वम् । वैजयन्ती पञ्च-वर्ण-पुष्प-ग्रथितां पञ्च-वर्णा वैजयन्तीति वचनात् । यद्यपि वलयानां नूपुराणाम् [भा।पु। १०.३३.५] इति वक्ष्यमाणाद् अन्यान्य् अपि भूषणानि विद्यन्ते, तथापि तां बिभ्रद् इति वन-विहार-योग्याङ्गत्वेनोक्तम् । सा च ताभिर् एवाशु निर्माय समर्पिता तद्-वन-देव्या वृन्दयैव वा तद्-अर्थं तत्र तत्र कुञ्जादौ स्थापितेति ज्ञेयम् । व्याचरत् परिबभ्राम ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उपगीयमानस् तदीय-स्वर-तालाद्य्-अनुरूपेण तन्-नाम-गानेनोपगायक-रीत्या गीयमानः । तद् उक्तम् श्री-विष्णु-पुराणे—

कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् ।

जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥ [वि।पु। ५.१३.५१] इति ॥४४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रथमतो हर्षोत्कर्षात् तेन च ताभिर् अपि गानम् आरब्धम् । वस्तुतस् तु सङ्गीत-प्रधानोऽयं रास-विलासः । सङ्गीतं च गान-प्रधानम् । तेनासां मध्ये काः कथं गायन्तीति प्रत्येकं गान-शुश्रूषया स्वयम् अपि गायन् वन-विहारं कृतवान् इत्य् आह—उपगीयमान इत्य्-आदि द्वाभ्याम् । उपगीयमान इत्य् अर्थात् ताभिर् एव । गायन्न् इत्य् अर्थात् ता एव । वनितानां शतं यूथपं मुख्यं यस्य, एकैकस्या यूथपायाः कोटिर् यूथत्वेन ज्ञेया । प्रमदा-शत-कोटिभिर् आकुलितः [क्र।दी। ५.५३] इत्य् उक्तत्वत् । वनं मण्डयन् व्यचरत् । मालां बिभ्रद् इति शुकदेवस्य स्फूर्ति-सौभाग्यम् ॥४४॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पूर्वं श्री-मुखेनोक्तं दृष्टं वनम् [भा।पु। १०.२९.२१] इत्य्-आदौ मानस-लीलायां विलासाधिकरणत्वेन वनस्य विचार-गोचरक्षतत्वात् विहारम् आह—उपगीयमान इति । ताभिर् उप समीपे गीयमानः पूर्वं कृष्ण-सम्मानितानाम् अनुरागाधिक्येन गानम्, तद् एव श्री-कृष्ण-गानोद्दीपकं जातम् इति । अत एव श्री-कृष्ण-निष्ठां रूप-गुण-लीलास् ताभिर् गीयमाना श्रुत्वा स्वयम् अप्य् उच्चैर् गायन्, तासां सर्वासां रूप-गुणोत्कर्ष-प्रबन्धत्वेन गानं कुर्वन् । कीदृशः ? वनिता-शत-यूथपः वनिताः उत्पन्न-नवानुरागास् तासां शतानि असङ्ख्यातानि यूथानि पातीति सः । नवानुराग एव षड्जादि-स्वरालापं भेद-विशेषवान् आविर्भूत इति भावः । काश्चिद् उपनिषदः, काश्चिद् दण्डकारण्य-मुनयः, काश्चिद् उपासना-सिद्धाः, काश्चिद् देव्यः, काश्चिन् नित्य-सिद्धाः । एवं पञ्च-विधास् तासां भाव-साम्यात् रसं पुष्णत् पातीति । पुनः कीदृक् ? वैजयन्तीं पञ्च-वर्ण-पुष्प-ग्रथितां नृत्योपयोगिनीं मालाम् उरसि बिभ्रत्

अयम् अभिप्रायः—पञ्च-विधा गोप्यः पञ्च-विधा एव भूषण-सत्त्वेऽपि वृन्दावनोद्भव-माल्य-धारणेन वनस्यापि संमाननं कृतम् इति भावः । अत उक्तं वनं मण्डयन् अलङ्कुर्वन् व्यचरन्, विशेषेण विजहार । लतादि-पिहित-गह्वर-परिशीलनेन रस-माधुर्य-पराकाष्ठां प्रापयन्न् अलं चकार पुष्प-पल्लवादि-निर्मितासु शय्यासु प्रविश्य प्रियाः पुष्पाद्य्-अलङ्कृतिं लम्भयन् ताभिर् अलङ्कृतो बभूवेति भावः ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ताभिर् उप आधिक्येन गीयमानः राग-स्वर-तालाद्यैः । तत्र ताल-त्रयेण गीतं, यथा—

वदनं मधुरिम-सदनं

चलनं दलनं करीन्द्र-कीर्तीनाम् ।

हसितं सुदृग्-अभिलषितं

तव सवयः पातु माम् अनिशम्52 ॥ [निकुञ्ज-केलि-विरुदावली ४८] इति ।

स्वयं च वनितानां शत-यूथानि पान्ति यास् ता मुख्यतमाः श्री-राधा-चन्द्रावल्याद्यास् तद्-अनुगान-रीत्या तेनैव गीतेन प्रत्येकम् उद्गायन् । क्वचिद् एक-स्वर-परिवर्तेन परस्पर-गानम् उद्गीतं, यथा—

त्वद्-वदनं सदनं मधुरिम्णां

तत्र हन्त दृगन्त-विलासाः ।

तेष्व् असमां सुषमाम् उपजग्मुः

सुन्दरि काम-कलाः सकलास् ताः ॥ इति ।

कान्ते त्वद्-आस्योदय-दत्तम्

इन्दुर् मृगच्-छलाद् दुर्यश एव धत्ते ।

जानोपहासा सह नो\ऽथवा किं

द्विजो\ऽपि मूढो गरलं जघास ॥ [कृ।भा। १९.७०-७१] इति ।

अत्र सुन्दरीत्य् अत्र सुन्दरेति कान्ते इत्य् अत्र कान्त इति प्रयुञ्जानः प्रेयसी-जनो\ऽनुगायति स्मेति रीतिः । वैजयन्तीं—पञ्च-वर्ण-पुष्प-ग्रथितां पञ्च-वर्णा वैजयन्ती इति वचनात् ॥४४॥


॥ १०.२९.४५ ॥

नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् ।

रेमे53 तत्-तरलानन्द54-कुमुदामोद55-वायुना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नद्याः कालिन्द्याः । हिमाः शीतलाः वालुकाः सिकता यत्र तत् तथा । तस्या नद्याः तरलैर् मद-कल्लोलैर् आनन्दयितुं शीलम् अस्यास्तीति तत् तरलानन्दी । कुमुदानाम् आमोदो यत्र, स वायुः कुमुदामोद-वायुः । तत्-तरलानन्दी चासौ कुम्दामोद-वायुश् चेति तथा तेन । यद् वा, तया नद्या तरलानि नृत्यन्तीव स्थितान्य् आनन्दीन्य् उत्फुल्लानि कुमुदानि, तत्-तरलानन्दि-कुमुदानि, तेषाम् आमोदेन सौरभेण सम्पृक्तेन वायुना । एतेन मद-सुगन्धि-शीतलत्व-वैशिष्ट्यं वायोर् ध्वनितम् ।

ननु तावति पुलिने शत-कोटि-स्त्रीभिः कथं विजहार ? दुर्घट-घटना-पटीयस्या भगवन्-मायया सर्वस्यापि सुकरत्वात् । वृन्दावनैक-देशे ब्रह्मणा कोटिशो ब्रह्माण्डानां दृष्टत्वाच् च । तद् उक्तं—

स तु माथुर-भू-रूपः परिच्छिन्नोऽप्य् अथाद्भुतः ।

स्फारः सङ्कुचितश् च स्यात् कृष्ण-लीलानुसारतः ॥

अत्रैवाजाण्ड-मालापि पर्याप्तिम् उपगच्छति ।

वृन्दावन-प्रतीकेऽपि यानुभूतैव वेधसा ।

इत्य् अतो रास-लीलायां पुलिने तत्र यामुने ।

प्रमदा-शत-कोट्योऽपि ममुर् यत् ते किम् अद्भुतम् ॥ [ल।भा। १.५.५०८-५१०]

इति भागवतामृतादौ स्फुटम् ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः श्री-यमुना-पुलिने ता नीत्वा वैदग्धी-विशेष-प्रकटनेन रमयामसेत्य् आह—नाद्य इति द्वाभ्याम् । नद्याः कालिन्द्याः । पुनः पुलिनम् आगत्य कालिन्द्याः [भा।पु। १०.३०.४५] इति वक्ष्यमाणत्वात् । तस्या वनस्य च नामाग्रहणं तत्र तयोः प्रसिद्धत्वेन तथोक्त्यापि सुज्ञेयत्वात् । यद् वा, निर्जनत्व-मात्रापेक्षया वनत्वेन तस्य प्रवाहवत्त्वेन च पुलिनोत्तमत्व-मात्रापेक्षया नदीत्वेनैव तस्या उक्तिः । गोपीभिः सह आविश्य प्रीत्या प्रविश्येत्य् अर्थः । हिमाः शीतलाः वालुकाः यस्मिन् तत् । इति श्रमापनोदनत्वेन कोमलत्वेन च रति-शय्या-योग्यता तस्य दर्शिता । तस्या नद्यास् तरलैस् तरङ्गैर् आनन्दी सुख-विहारी चासौ कमलामोद-युक्त-वायुश् च, तेन । यद् वा, तत्-तरलैर् आनन्दी रात्रौ मुद्रितानाम् अपि कमलानां कम्पनेन प्रकाशमाणः सुख-कारको वा आमोदो यस्मिन् वायौ, तेन जुष्टं सेवितम् । कुमुद- इति पाठः केषाञ्चित् सम्मतः । तरङ्गेण सम्बन्धेन शैत्यम् एणईत्य् अनेन जुष्टम् इत्य् अनेन वा मान्द्यं सौरभ्यं च व्यक्तम् एवेति गुण-त्रयम् उक्तम् इति सर्वथा पुलिनस्य रति-भू-योग्यत्वं तेन कामोद्दीपनत्वं चोक्तम् ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः श्री-यमुना-पुलिने ताः प्रापय्य वैदग्धी-विशेषेण रमयामसेत्य् आह—नाद्य इति युग्मकेन । हिम-वालुका कर्पूरः तद्वद् वालुका यत्र तत् शक-पार्थिवादि । एवं पूर्वत्र वनम् अपि वृन्दावनम् एव । तस्या नद्यास् तरलैस् तरङ्गैर् आनन्दी सुख-विहारी चासौ कमलामोद-युक्त-वायुश् च, तेन निशायाम् अपि कमल-विकाशः शरदि मल्लिका-विकाश इव तदीय-तादृश-लीला-रस-मय-प्रभावेनानन्दीति जुष्टम् इति च मान्द्यम् । सौरभ्य-शैत्ये स्पष्टे । कुमुदेति आनन्देति च पाठः एकेषाम् । जुष्टम् इत्य् अत्र रेम इति क्वचित् । अत एव पृथग्-अङ्कः कृतः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : किं कृत्वा वनं मण्डयन् व्यचरत् ? तत्राह—नद्याः पुलिनम् आगत्य । काभिः सह ? गोपीभिः । किम्भूतम् ? हिम-वालुकेव वालुका यत्र मध्यम-लोपी । हिम-वालुका कर्पूरं तत्-प्रसिद्धम् । तरलानि आनन्दीनि यानि कुमुदानि, तेषाम् आमोदा यत्र, तथा-भूतेन वायुना जुष्टं सेवितम् अपीति । अपि-शब्दोऽद्याहार्यः ।

अयम् आशयः—प्रथमं तावद् आभिः सुरत-लीलैव । पश्चाद् एव रास-लास्यम् । पश्चाज् जल-क्रीडेति त्र्य्-अङ्गवतीयं लीलातिरहस्या । सा तु पुलिने न सम्भवति, अनावृतत्वात् । विमान-चारि-दृश्यत्वाच् चेति कृत्वा रास-लास्य-लीलैवात्र कार्येति पुलिनं दृष्ट्वैव पुनर् वनम् अगाद् इति । आगत्य इति पूर्व-कालार्थः ॥४५॥

नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् ।

रेमे56 तत्-तरलानन्द57-कुमुदामोद-वायुना ॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं कुञ्जेषु प्रविश्य माल्यैर् एवालङ्कृतिं विधाय यमुना-पुलिने विहर्तुं यत् कृतवांस् तद् आहुः—नद्या इति वन-मध्ये वनिता-यूथानाम् अनन्तत्वात् सङ्कोचेन विहृतम् । पुनः कालिन्द्याः पुलिनं विस्तीर्णम् आलक्ष्य तत्रासङ्कोचेन रन्तुं गोपीभिः सह नद्याः कालिन्द्याः पुलिनम् आविश्य रेमे । कीदृशम् ? हिम-वालुकं हिम-जल-सम्बन्धात् शीतल-वालुका यस्मिन् तत् कोमलतया स्पर्श-मात्रेण सुख-हेतुत्वं सूचितम् इति भावः । पुनः कीदृक् ? तस्याः कालिन्द्यास् तरलैस् तरङ्गैर् आनन्दो यस्मिन् चलत् तरङ्गानां भावोद्बोधन-हेतुत्वं सूचितम् इति भावः । पुनः कीदृक् ? कुमुदामोद-वायुना उपलक्षितायां रात्रौ विकसितानां कुमुदानाम् आमोदः सौरभ्यं यत्र, तेन वायुनेति । अनेन वायोस् त्रैविध्यम् उक्तं, श्रमापनोदं चोक्तम् । "जुष्टम्" इति पाठे रमयाञ्चकार इति अग्रिम-श्लोकेनान्वयः । नदी-तरल-सम्बन्धेन वायौ शैत्यम् उक्तं, वन-नैकट्यात् मान्द्यं, कुमुद-सम्बन्धात् सौगन्ध्यं चोक्तम् इति वनाद् अपि पुलिनस्य विलासाधिकरणत्वं भावोद्दीपकत्वं च सूचितम् इति भावः ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्या नद्यास् तरलैस् तरङ्गैर् आनन्दी इति शैत्य-मान्द्याभ्याम् आनन्द-दायकश् च रात्राव् अपि प्रफुल्लानां कमलानाम् आमोदो यतः, स च तेन वायुना रेमे । "जुष्टम्" इति पाठे रमयाञ्चकारेत्य् उत्तरेणान्वयः । "कुमुदामोद" इति "तरलानन्द" इति च क्वचित् पाठः ॥४५॥


॥ १०.२९.४६ ॥

बाहु-प्रसार-परिरम्भ-करालकोरु-

नीवी-स्तनालभन-नर्म-नखाग्र-पातैः ।

क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम्

उत्तम्भयन् रति-पतिं रमयाञ्चकार ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बाहु-प्रसारश्परिरम्भश्करादीनाम् आलभनं स्पर्शश् च नर्म परिहासश् च नखाग्र-पातश् च तैः । क्ष्वेल्या क्रीडया । अवलोकैश्हसितैश् च कामं तासाम् उद्दीपयंस् ता रमयामास ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परिरम्भ आलिङ्गनम् । करादीनां स्पर्शः काम-शास्त्र-विहित-मोचन-लक्षणो ज्ञेयः । यद् वा, क्ष्वेल्या अवलोक-हसितैः बाल-सिंह-नाद-निरीक्षण-मन्द-हासैः । तद् उक्तं माघे—

बाहु-पीडन-कुच-ग्रहणाद्यैर्

आहितेन नख-दन्त-निखातैः ।

बोधितस् तनु-शयस् तरुणीनाम्

उन्मिमील शनकैर् अपि मारः ॥ [शि।व। १०.७२] इति ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : व्रज-सुन्दरीणां रति-पतिम् आत्मानम् उत्तम्भयन् वर्धयन् नानेकभवन् आलिङ्गन-शैघ्र्यात् पूर्वोक्त-योगेश्वर-प्रतिपादनं वा। अथवा, व्रज-सुन्दरीणां रति-पतिम् कामं प्रादुर्भावयन् । अथवा, रतिः प्रेम, तस्याः पतिम् आत्मानं रमयाञ्चकार ॥४६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बाहु-प्रसारादिभिर् उत्तम्भयन्न् इति सहज-लज्जादिनाच्छाद्यमानम् अपि प्रकाशयन् । यद् वा, प्रेम-विशेष-विलास-रूपत्वेन वर्तमानम् एवाधुना विशेषतो वर्धयन्न् इत्य् अर्थः । अत एव श्लेषेणोक्तम्—रतेः प्रेमैक-लक्षणायाः पतिं पालकम् इति । तथा रतिपतिम् इति दग्धाङ्गस्यापि कामस्य रति-सुखार्थं पुनर्-जननेनैव सामग्र्यम् अभिप्रेतम् इति रतौ तस्यासक्तिर् वैदग्धी च परमा दर्शिता । तत्र बाहु-प्रसारो दूरस्थानाम् आकर्षणार्थं, प्राक्-परिरम्भानुकरणं वा । यद् वा, तासाम् एव बाहूनां प्रसारेण परिरम्भो गाढालिङ्गनम् इत्य् अर्थः । क्ष्वेलीः प्रस्तोभनादि-रूपा अधर-पान-दंशनादि-रूपा वा । व्रज-सुन्दरीणाम् इति तासाम् अपि तादृशम् एव वैदग्ध्यं सूचितम् । अन्यथा तस्य तादृशी-वैदग्धी-प्रकाशनासम्पत्तिः । रमणे च निज-शक्ति-विशेषेणान्योऽन्यम् अलक्षितं युगपद् एव ज्ञेयम् ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सहज-लज्जादिनाच्छाद्यमानम् अपि रतेः कान्तोचित-प्रीति-लक्षणायाः पतिं तद्-उचित-महा-भावाह्वयं परम-प्रेमाणं वा बाहु-प्रसारादिभिर् उत्तम्भयन् इति तस्य रत्य्-आसक्तिर् वैदग्धी च परमा दर्शिता । तत्र बाहु-प्रसारः परिरम्भारम्भः । यद् वा, बाहु-प्रसारेण परिरम्भः गाढालिङ्गनम् इत्य् अर्थः । क्ष्वेलिः प्रस्तोभनादि-रूपा । व्रज-सुन्दरीणाम् इति तद्-योग्यं सौन्दर्यम् अत्र विवक्षितम् । तेन च यत्राकृतिस् तत्र गुणा वसन्ति इति न्यायात् तादृशं वैदग्ध्यम् अप्य् उपलक्ष्यते रमणं च निज-मोहनता-शक्ति-विशेषेणान्योऽन्यम् अलक्षितं ज्ञेयम् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ प्रथम-लीलाम् आह—बाहु-प्रसारेत्य् आदि । बाह्वोः प्रसारेण यः परिरम्भस् तेन करयोर् अलकानां चोर्वोश् च नीव्याः स्तनयोश् चालभनेन स्पर्शनेन नर्मणा च नखाग्र-पातैश् च क्ष्वेल्या क्रीडयावलोकेन हसितेन च व्रज-सुन्दरीणां रति-पतिम् उत्तम्भयन् वर्धयन् रमयाञ्चकार । वस्तुतस् तु तासां प्रेमैव साहजिकः, न तु कामः । तद्-अभावे सा लीला सुरसा न भवतीति स्वयम् एव तासाम् असन्तम् अपि कामं वर्धयामासेत्य् अर्थः । स च कामः प्राकृतो न भवति, अपि तु स एव भगवान् येनांशेन कामावतारो भवति, स एवांशस् तासां मनस्य् आवेशितः । किं वा रतिः स्थायी भावः, तस्याः पतिं शृङ्गार-रसम् । अथवा, सेवा-समयोऽयं ममेति उपपन्नं काम-देवम् । उत् उत्कर्षेण स्तम्भयन् केवलं धात्व्-अर्थ एव निरस्यन्न् इत्य् अर्थः । त्वया सहायेन मा भूयतां स्वत एव सुरसेयं लीलेति किं त्वयेति तज्-जयो बोद्धव्यः ॥४६॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : एवं पुलिन-दर्शनेन भावोद्बोधने जाते ताभिः सह कृतां विलास-परिपाटीं वक्तुम् आह—बाहु-प्रसारेति । बाहु-प्रसारः पश्चात् परिरम्भ आलिङ्गनं, तद् अनु श्री-कृष्णेन कराभ्याम् अलकोरु-नीवि-स्तनालभनं नर्म नखाग्र-पातैः अलकोरु-नीवी-स्तनानां काम-वसति-स्थितानाम् आलम्भनं स्पर्शस् तेन नर्म च नखाग्र-पातैश् च एतैः। तद् उक्तं रसार्णवे—परिहास-प्रधानं यद् वचनं नर्म तद् विदुः [र।सु। ३.४५] इति । क्ष्वेल्या प्रस्तोभनादि-रूपया क्रीडया अधर-पान-दंशादि-रूपया वा अवलोके यानि हसितानि तैः ।

यद् वा, अवलोकैर् हसितैश् च रति-पतिम् उत्तम्भयन् । अयम् अर्थः—प्राकृत-कामस्येयं प्रक्रिया धातु-पाताद् ऊर्ध्वेन न वर्धते । अयं त्व् अलौकिकः कामः धातु-पातम् अन्तरेणापि उत्तरोत्तरं वृद्धिं प्राप्नुवत्, न विश्रान्तो भवतीति भावः ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाहु-प्रसारस् तासां स्व-स्व-वक्षसि स्वसिकीभूतानां भुजानां प्रसारणं च परिरम्भश् च करादीनाम् आलभनं स्पर्शश् च नर्म-परिहासश् च नखाग्र-पातश् च, तैः क्ष्वेल्या क्रीडोक्त्या अवलोकैश् च हसितैश् च रतिपतिं प्रेमात्मकं कामं तासां स्वस्य च उत्तम्भयन् उद्दीपयन्, तावद्भिर् एव स्वप्रकाशैः प्रत्येकं रमयाञ्चकार ।

ननु च तावत्य् एव पुलिने बहु-गोपी-जन-सङ्घट्टे निरावरणत्वात् सौरत-तल्पाद्य्-अभावाच् च प्रत्येकं ताभिः शत-कोटि-प्रमदाभिः सह-सम्प्रयोग-लीला न सङ्गच्छते ? सत्यं, भगवन्-मूर्तेर् इव वृन्दावन-भूमेर् अपि विभुत्वात् तिलमात्र-प्रदेशस्याप्य् अतिस्फारत्वं सावरण-विविध-कुञ्जवत्त्वं, गन्ध-माल्य-ताम्बूलादि-सहित-विचित्र-सौरत-पुष्प-तल्पवत्त्वं च दुर्घट-घटना-पटीयस्या योगमायैव प्रकाशितं, लीलान्ते पुनर् आवृतं चेति सुसङ्गतिकम् एवैतत् ॥४६॥


॥ १०.२९.४७ ॥

एवं भगवतः कृष्णाल् लब्ध-माना महात्मनः ।

आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महात्मनो विमुक्त-चित्तात् ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं बाहु-प्रसारादिना । विमुक्त-चित्ताद् अनासक्तत्वात् । स्त्रीणाम् अभ्यधिकं भू-लोकान्तर्गत-सुन्दरीषु वयम् अभ्यधिक-सुन्दर्य इत्य् एवं मानिन्यो रूपादि-गर्वोत्सेकाः ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना प्रेम-विशेषोद्रेकेणाग्रे क्रीडा-विशेषार्थं विप्रलम्भ-रूप-विशेषं वक्तुम् आरभते—एवम् इति । उक्त-वैदग्धी-विशेष-प्रकटन-प्रकारेण महात्मन आत्मारामाद् अपि लब्धो मानः सम्मानश् चित्त-समुन्नति-लक्षण-भाव-विशेषो वा याभिस् ताः । तत्र हेतुः—भगवत इति । रस-विशेषानुभवार्थं निज-भगवत्ता-प्रकटनाद् इत्य् अर्थः । अत एव कृष्णाद् विचित्र-महा-रसार्णवात् परम-चित्ताकर्षकाद् वा । अतो मानिन्यः सत्यो भुवि वर्तमानानां स्त्रीणां मध्ये आत्मानम् अभ्यधिकं परम-श्रेष्ठं ता मेनिरे

यद् वा, भुवि विहार-भूमाव् इति सर्वासां सामान्यम् एवाभिप्रेतम् । तथापि स्त्रीणां तासाम् एव गोपीनां मध्ये प्रत्येकम् आत्मानम् अभ्यधिकं मेनिरे, तेनैव तथा रमणात् । अतो मानिन्योऽपि बभूवुर् इति पृथक् वाक्यं वा, मद-मानयोर् वक्ष्यमाणत्वात् [१०.२९.४८] । वस्तुतस् तु परम-विदग्धानां तासां विदग्ध-वर-प्रिय-सन्तोषार्थं रस-स्वभाव-कृतं सेवा-विलास-रूपम् एव तद् ऊह्यम् ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना,

न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते ।

कषायिते हि वस्त्रादौ भूयान् रागो\ऽभिवर्धते ॥ [उ।नी। १५.३]

इति भरत-न्यायात् प्रेम-विशेषोद्रेकाद् अग्रे क्रीडा-विशेष-वर्णनार्थं विप्रलम्भ-रूप-रस-विशेषं वक्तुम् आरभते—एवम् इति । महात्मनो दिव्यातिदिव्य-सर्व-नायक-वृन्देभ्यः परमात् । तत्र हेतुः—भगवतः स्वयं भगवत इत्य् अर्थः । कृष्णात् तथैव प्रसिद्धात् तस्माद् इत्य् अर्थः । एवं पूर्वोक्त-तत्-प्रेम-वशता-प्रकारेण लब्धो मानः संमानः सौभाग्यं याभिः, तथा-भूता भूत्वा मानिन्यो लब्ध-प्रणय-मानाः सत्यो भुवि अन्यत्र चात्र च याः स्त्रियः, तासां सर्वासां मध्ये प्रत्येकम् आत्मानम् एवाधिकं मेनिरे । तं प्रति मानिन्यो बभूवुः, स्त्रियः प्रति गर्वित-चित्ता बभूवुर् इत्य् अर्थः ।

तत्र मानः—

दम्पत्योर् भाव एकत्र सतोर् अप्य् अनुरक्तयोः ।

स्वाभीष्टाश्लेष-वीक्षादि-निरोधी मान उच्यते ॥ [उ।नी। १५.७४]

अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् ।

अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [उ।नी। १५.१०२]

रस-शास्त्रानुसारात् गर्वश् च अन्यत्रत्यानां तादृश-नायकालाभात् अत्रत्यानां तल्-लाभेऽपि स्व-सदृश-सौभाग्य-लाभामननात् । यथोक्तं—

सौभाग्य-रूप-तारुण्य-गुण-सर्वोत्तमाश्रयैः ।

इष्ट-लाभादिना चान्य-हेलनं गर्व ईर्यते ॥ [भ।र।सि। २.४.४१] इति ।

सञ्चारयन्ति ये भावा ते तु सञ्चारिणो मताः ।

उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अम्बु-निधाव् इव ॥

इति रस-तन्त्रात् गर्वोऽपि तादृश-तत्-प्रेम-विशेषस्य स्थायिनः सञ्चारि-भावत्वात्, तन्-मय एव ज्ञेयः । अस्य हि रसस्यैवम् एव स्थितिर् उत्कर्षश् चेति ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महात्मनो दिव्यातिदिव्य-सर्व-नायकेभ्यः परम-श्रैष्ठ्यात् । मानिन्यः सत्यो भुव्य् अन्यत्र च याः स्त्रियः, तासां मध्ये आत्मानम् अभ्यधिकं मेनिरे, तस्मिन् प्रणय-मानवत्यो बभूव, स्त्रीषु च गर्वं धृतवत्य इत्य् अर्थः । अन्यत्रत्यानां तादृश-कान्तालाभात्, तत्रत्यानां च तादृश-सौभाग्य-लाभामननाद् इति भावः ।४७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इयं तु लीलातिरहस्या वर्णनीया न भवति, तथापि शुकदेवेन संक्षेपाद् उक्त्वोपसंह्रियते स्म—एवम् इत्य् अनेन । एवम् इत्य् एवं-प्रकारिकया बहु-विधया लीलयेति वाग्-विषयत्वाभावाद् दूरगम्ययेत्य् एवं-शब्दार्थः । कृष्णाद् भगवतो लब्ध-माना लब्ध-पूजाः । महात्मनो महेच्छस्य बहु-मान-प्रदत्वात् । मानिन्यः सम्मानवत्यः । तद्-दत्त-मानत्वात् स्त्रीणाम् अभ्यधिकं मेनिरे, "कृतार्था वयम्" इत्य् एवं मेनिरे ॥४७॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : पूर्वं वन-गमन-मात्रेण विप्रलम्भम् उत्पाद्य, पुनः रस-माधुर्येण पोषितास् ततः स्वाधीन-पतिका जाताः स्व-वैदग्धी-प्रकटनेन आत्मानं गरिष्ठं मन्यमाना रमणे मन्थरां दृष्ट्वा सामान्यतः रस-वृद्धये तद् अनु विप्रलम्भेन रस-विशेषं प्रापणीया इति प्रकरणार्थं शुकोऽनुवदति—एवम् इति । एवं पूर्वोक्तेन बाहु-प्रसार- [भा।पु। १०.२९.४६] इत्य्-आदि-प्रकार-सम्माननेन कृष्णात् शृङ्गार-सर्वस्व-रूपात् । कीदृशात् ? भगवतः षड्गुणैश्वर्यं तिरोधाय रसैश्वर्येण विराजमानात् । एवम् अपि महात्मनः सर्वासु सुन्दरीषु मधुर-रसं चारयितुम् उदार-चित्तान् कृष्णात् लब्धो मानः सौभाग्यं सम्पत् याभिस् ताः । अतो मानिन्यो भूत्वा भुवि सर्वासां स्त्रीणां मध्ये । यद् वा, भुवि व्रज-भूमौ सजातीयानां व्रज-सुन्दरीणां मध्ये आत्मानम् अप्य् अधिकम् "अहम् एव प्रेष्ठा नान्या" इति स्वं स्वं मेनिरे । श्री-कृष्णेन तथैव सम्मानितत्वात् मानिन्यो गर्व-युक्ता बभूवुर् इति । तद् उक्तं रसार्णवे58

दम्पत्योर् भाव एकत्र सतोर् अप्य् अनुरक्तयोः ।

स्वाभीष्टाश्लेष-वीक्षादि-निरोधी मान उच्यते ॥ [उ।नी। १५.७४]

अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् ।

अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [उ।नी। १५.१०२]

सौभाग्य-रूप-तारुण्य-गुण-सर्वोत्तमाश्रयैः ।

इष्ट-लाभादिना चान्य-हेलनं गर्व ईर्यते ॥ [भ।र।सि। २.४.४१] इति ।

गर्वस्यापि सञ्चारि-भावान्तर-गतत्वात् ।

सञ्चारयन्ति ये भावं तेऽत्र सञ्चारिणो मताः ।

उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अम्बु-निधाव् इव ॥

न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते ।

कषायिते हि वस्त्रादौ भूयान् रागो हि वर्धते ॥ [उ।नी। १५.३] इति ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधुना,

न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते ।

कषायिते हि वस्त्रादौ भूयान् रागो\ऽभिवर्धते ॥ [उ।नी। १५.३]

इति भरत-न्यायाद् रस-पुष्ट्य्-अर्थं लीला-शक्त्यैवाविर्भावितम् । विप्रलम्भ-व्याजम् आह—एवम् इति । महात्मनः दिव्यातिदिव्य-नायक-वृन्देभ्यः श्रेष्ठात् भगवतः । तत्रापि कृष्णात् स्वयं-रूपात् लब्ध-मानाः प्राप्तादराः श्री-कृष्ण-रमण-प्राप्त्या भुवि भूतल-स्थानाम् एव स्त्रीणां मध्ये आत्मानं प्रत्येकम् एव स्वम् अभ्यधिकं मेनिरेमानिन्यः प्रत्येकम् "अहम् एवातिसुभगा" इति मननान् मानिन्यो गर्ववत्यः ॥४७॥


॥ १०.२९.४८ ॥

तासां तत्59 सौभग-मदं वीक्ष्य मानं च केशवः ।

प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् सौभगेन मदम् अस्वाधीनताम् । मानं गर्वम् । केशवः कश् च ईशश् च, तौ वशयतीति तथा सः ॥४८ ॥

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे पूर्वार्धे

भावार्थ-दीपिकायां टीकायाम् एकोनत्रिंशोऽध्यायः ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां गोप-सुन्दरीणाम् । केशव इत्य् उक्ते ब्रह्म-शिवयोः सर्वेश्वरयोर् अपि वश-कर्तारं को वशयेत् ? इति ध्वनितम् । वयं श्री-राधा-समा यतोऽस्मान् अपि तत्-सदृशम् एव मनुत इत्य् अतस् तासां सौभग-मदम् । समान-विहारेण च राधाया मानं च वीक्ष्य, मानं च प्रशमनाय श्री-राधायाः प्रसादाय तत्रैव व्रज-सुन्दरी-समूहे कृष्णा-तटे वा अन्तरधीयत । तासां दृष्ट्या अदृश्यो बभूवेत्य् अर्थः । अन्तर्धानम् अपि सम्भोग-समृद्ध्य्-अर्थम् एव । तद् उक्तं—

न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते । [उ।नी। १५.३]

अहो राज्ञः कुटिलेव प्रेम्णः स्वभावः कुटिला भवेत् ॥ इति60

अन्तरधीयत इत्य् अत्रैकत्वेनाग्रिमाध्याये, कस्याः पदानि चैतानि याताया नन्द-सूनुना [भा।पु। १०.३०.२७] इत्य् उक्तेर् द्वयोक्तिर् विरुद्धा नानुसन्धेया प्रसादायेत्य् उक्तेः । प्रसादस् त्व् एकान्त एवोचितस् तया सहैवान्तर्धानं बोध्यम् ।

यद् वा, द्वयोर् ऐक्याभिप्रायेणैकत्वम्—राधा कृष्णात्मिका नित्यं कृष्णो राधात्मको ध्रुवम् इति ब्रह्माण्डोक्तेः । तस्माज् ज्योतिर् अभूद् द्वेधा राधा-माधव-रूपकम् इति संमोहनोक्तेश् च ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रशमायेत्य्-आदि । सौभग-मदस्य प्रशमाय प्रसादाय प्रशम-प्रसादायेत्य् अर्थः । सौभग-मदे हि चित्तस्य उत्तालता भवति, तस्यां तु रसस्य द्रव-रूपत्वात् । उत्ताले ह्य् असद्-भावः, तेन न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते [उ।नी। १५.३] इत्य्-आदि दिशा पुनः सम्भोग-पुष्टि-करणाय तत्रैव अन्तरधात्, न तु स्थानान्तरं गतः, अन्तर्हित एव तत्रैव स्थित इत्य् अर्थः । यद् वा, प्रसादाय प्रसादः प्रसन्नता, उत्कण्ठां वर्धयित्वा मान-क्षपणाय अन्योन्य-सौहृदाय च । तं विशिनष्टि—प्र-गतः शम उपरमो यस्माद् इति तथा तस्मै ॥४८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : [तत्] तेन निज-वैदग्धी-भरेण । यद् वा, उक्तेन "अहम् एवानेन रमिता" इति रमण-प्रकारेण यत् सौभगं सौभाग्यं, तेन । यद् वा, तं स्व-प्रीत्य्-अर्थकम् अपि सौभगेन मदं वीक्ष्य, तस्य प्रशमाय । अन्यथा स्वाधीनत्वाभावेन निजेष्ट-रास-विलासासिद्धिः । मानंवीक्ष्य प्रसादाय मान-रूप-केलिना सन्तोषात् प्रसाद-विशेषं कर्तुम् अन्तर्धानं विना रासार्ह-प्रेम-विशेष-सम्पत्तेर् इति विवेचनीयम् । यद् वा, मद-मानयोः प्रशमाय । प्रशमः किम्-अर्थम् ? तद् आह—प्रसादाय इति, रासेन अनुग्रह-विशेषाय।

यद् वा, अन्तर्धान-द्वारा, न पारयेऽहं निरवद्य- [भा।पु। १०.३२.२२] इत्य्-आदिना वक्ष्यमाण-निज-तद्-अधीनतातिशय-विज्ञापन-रूपाय । यद् वा, तस्मात् यत् सौभगं, तेन मदो मत्तता हर्षो वा । तथा च विश्वः—मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः इति । तद्-रूपं मानं मानसोल्लास-विशेषं वीक्ष्य । अत एव प्रकृष्टः शमः सुखं रास-क्रीडात्मकं, तस्मै । प्रसादाय च, अन्तर्धानेऽपि तद्-अपरित्याग-तद्-भजन-विशेषाद्य्-अनुग्रहाभिव्यञ्जनाय । तच् चाग्रे व्यक्तं भावि । यद् वा, प्रशमाय प्रकृष्ट-सुखाय यः प्रसादः, तस्मै । अन्यत् समानम्।

एवं सर्वथानुरञ्जन-विशेषार्थम् एवान्तर्धानम् । न त्व् आत्मारामत्वादिनासूयया वेति ज्ञेयम्। विदग्ध-वरस्य विदग्ध-वरासु तद्-अव्यवहार्यत्वात् । अत एव तेनैवाग्रे वक्ष्यते—मया परोक्षं भजता तिरोहितं [भा।पु। १०.३२.२१] इत्य्-आदि । तत्रैव इति साक्षात् कुत्राप्य् अगमनात्, अकस्माद् एवादर्शनाच् च । तच् च तस्याशक्यं न स्याद् इत्य् आशयेन परमेश्वरत्वम् आह—केशव इति ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तासां तादृशीनां तद् इति तं सौभग-मदं सौभाग्य-हेतुकं गर्वम् । तथा च विश्वः—मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोर् इति तं मानंवीक्ष्य विशेषेण दृष्ट्वा, तत्र गर्व-पक्षे युक्त्य्-अन्तरासाध्यं मत्वा, मान-पक्षे कृतैर् अप्य् अनुनयादिभिर् असाध्यं दृष्ट्वेत्य् अर्थः । गर्वं प्रति प्रशमाय, माणं तु प्रति प्रसादाय प्रसादनाय तत्रैवान्तरधीयत अन्तरधात् । धीञ् अनादर इति हि दैवादिकः, न त्व् अन्यत्र गच्छन् दृष्ट इत्य् अर्थः । अत्र वक्ष्यमाणानुसारेण श्री-राधयैव सहान्तर्धानं ज्ञेयं, तच् च तस्य तद्-इच्छायां जातायां योग-माययैव सम्पादितम् इति । यद्यपि स-हेतुकस्येर्ष्या-मानस्यैव शान्तये क्वचित् नायकोपेक्षापेक्ष्यते—

हेतुजोऽपि शमं याति यथा-योगं प्रकल्पितैः ।

साम-भेद-क्रिया-दान-नत्य्-उपेक्षा-रसान्तरैः ॥ [उ।नी। १५.११२] इत्य्-उक्तेः ।

निर्हेतुकस्य प्रणय-मानस्य तु विनैव प्रतीकारेण यत्-किञ्चित्-प्रतीकारेण वा, तथापि तच्-छान्त्य्-अर्थम् उपेक्षेयं परस्पर-गर्व-सम्बन्धेन गाढतापत्तेः । तत उभय-भाव-शान्त्य्-अर्थम् एव । सा प्रेम-विपाकयोर् अपि तयोः शमनेच्छा च स्वेच्छा-मय-लीलेच्छया युगपद् एव सर्वा एव प्रति महा-रस-दान-मय-रासेच्छया च । तथा चायं विप्रलम्भः परम-प्रेमार्थम् एवोपयोक्ष्यतीति । वक्ष्यते च नाहं तु सख्य [भा।पु। १०.३२.२०] इत्य्-आदि। अन्तर्धाने मूलं कारणं त्व् एकयैव तया सह लीलाया लालसैव ।

अत्र केशव इति—

अंसवो ये प्रकाशन्ते मम ते केश-संज्ञिताः ।

सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तम ॥ [म।भा। १२.३२८.४३]

इति भारतीय-वाक्यात् परम-दीप्तिमान् इत्य् अर्थः । ततश् च तद्-अन्तर्धाने सर्वासु शोभासु विद्यमानास्व् अपि तत्र सहसैव शोभा-राहित्यं व्यञ्जितम् इति ॥४८॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ३८६) : अथ निर्हेतुः प्रणय-मानः । निर्हेतुत्वं च केवल-प्रणय-विलसित्वेन हेत्व्-अभावान् मन्यते । एष नायकस्यापि भवति । भगवत्-प्रीति-मये रसे स तूद्दीपनोऽपि प्रसङ्गाद् अत्रोदाहरणीयः । यथा तासां तत्-सौभग-मदं वीक्ष्य मानं च केशवः इत्य्-आदि-प्रकरणं योजनान्तरेण मन्यते । तत्र मानः प्रणय-मानः । तस्य हेतुः सौभग-मदः । ततो मानस्य प्रशम-रूपाय तासां प्रसादाय स्वयम् अपि प्रणय-मानेनैव अन्तरधीयत ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सौभग-मदं सौभाग्य-जनितं गर्वम्, तस्य प्रशमनाय मानस्यप्रसादनायप्रशमाय इति न तूपेक्षा रसान्तरैः इति रस-शास्त्रोक्तत्वात् । अत्र प्रणय-मानत्वेन उपेक्षाया अयोग्यत्वेऽपि तत्-कृति-गर्व-साहित्यत्वेन गरिष्ठत्वात् ॥४८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथाभिमानेन पूर्णाभिः सह पुनः क्रीडा सुरसा न भवति । चेतसः प्रवणत्वं हि रस-पोषकम् । तथा च—न विना विप्रलम्भेन सम्भोगः परिपुष्यते [उ।नी। १५.३] इति तत्रैव अन्तर्धान-लीलां चकारेत्य् आह—तासाम् इत्य्-आदि । तासां तं तथाविधं सौभग-मदम् । तथाविधं मानं चित्त-समुन्नतिं वीक्ष्य प्रशमाय तयोर् उपशमाय तत्रैव तत्रस्थ एव अन्तरधीयत अन्तर्दधे । कर्तरि कर्म-प्रत्ययः । यथा, कर्म-कर्ता तथा कर्तृ-कर्म च बोद्धव्यम् । यथा, विकार-हेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः इत्य्-आदि । तत्रस्थ एव तासाम् अदृश्यो बभूवेत्य् अर्थः । प्रशमाय कीदृशाय ? प्रसादाय प्रसाद-रूपाय । तयोः प्रशम एव प्रसादः ॥४८॥


नारायण-भट्टः (श्री-रसिकाह्लादिनी) : इति गर्वोपशमन-द्वारा रस-वृद्धिं कारयितुं श्री-कृष्ण-चिकीर्षितम् अन्तर्धान-प्रकारम् आह—तासाम् इति । यासां बाहु-प्रसारण- [भा।पु। १०.२९.४६] इत्य्-आदिना सम्माननं कृतं, तासां तत् सौभग-मदं सौभाग्य-हेतुकं गर्वं वीक्ष्य, मदो रेतसि कस्तूर्यां गर्वे हर्षेभ-दानयोः इति विश्वः । मानं च स्वाधीनतां च वीक्ष्य मद-मानयोः प्रशमाय, सत्त्वे रास-विलासानुदयात् कृतेऽपि सम्मानने रस-वृद्धिर् न जाता । अत एव मद-मान-निवृत्तौ सत्यां प्रसादाय विलास-विशेष-वैदग्धी-प्रकटनेन प्रसाद-विशेषं दातुं तत्रैव गोपी-मण्डल एव अन्तरधीयत, तासाम् अदृश्यो भूत्वा, न त्व् अन्यत्र गतः । तासां प्रेमालापान् श्रोतुं रसोत्कर्षं सम्पादयितुं तत्रैव दृष्ट्य्-अगोचरत्वेन स्थितः । अयम् एव प्रेम-विवर्तो यत् पुरः स्थितोऽपि प्रेष्ठो न दृश्यत इति ।

यद् वा, प्रशमाय सुखाय अग्रे सुखं दातुं, प्रसादाय विशेषेणानुरञ्जनं कर्तुम् । यद् वा, प्रशमाय मनोरथाप्राप्ति-जनित-परिताप-शान्तये मद-मान-सत्त्वे तद्-अयोगात्, ततस् तत्-फलाय तासां प्रसादाय रमणस्य फलं तत्-प्रसन्नता । अग्रे वक्ष्यति च—न पारयेऽहं निरवद्य-संयुजाम् [भा।पु। १०.३२.२२] इति ।

नन्व् अनेक-यूथानां मद-मानम् एकेन कथं शक्यम् ? इति चेत्, तत्राह—केशवः । कश् च ईशश् च केशौ तौ वशयतीति केशवः । अनेन सर्व-सामर्थ्यम् उक्तम् । यद् वा, प्रशस्ता केशा यस्येति केशवः । यद् वा, कस्य सुखस्य उत्तरोत्तर-शत-गुणितस्येश नियन्तुर् अवधि-भूतं स्वरूप-सुखम् इत्य् अर्थः ।

ननु वाति गच्छति प्राप्नोतीत्य् अर्थः । वा गति-गन्धयोर् इति धातुः । अन्तर्धानं तु मद-मान-निवृत्त्यै उपवने त्व् आत्मारामतया आत्मारामोऽप्य् अरीरमत् [भा।पु। १०.२९.४२] इत्य् उक्तार्थम् एव आत्मारामतया तु पूर्वम् उपेक्षितैव । तद् उक्तं मानो मदश् चेति ।

हेतुजोऽपि शमं याति यथा-योग्यं प्रकाशितैः ।

साम-भेद-क्रिया-दान-नत्य्-उपेक्षा-रसान्तरैः ॥ [उ।नी। १५.११२] इति ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च सर्वासु तासु भगवतः साधारण्येनैव रमणात् या सर्व-मुख्यतमा वृषभानु-कुमारी, सा सहसोद्भवद्-ईर्ष्या कषायिताक्षी मानिनी बभूव । ततो न्यूना अन्याः सौभाग्य-गर्ववत्यो बभूवुर् इत्य् अद्भुते वैमत्ये सति भगवतैव यत् तत्र समाहितं, तद् आह—तासाम् इति ।

ताश् च सा चेत्य् एक-शेषेण तासां व्रज-सुन्दरीणां तस्या वृषभानु-कुमार्याश् चेत्य् अर्थः, क्रमेण तत् तं सौभग-मदं मानं च वीक्ष्य, स चासौ सौभग-मदश् च तम् इति समासो वा । तं सौभग-मदम् इति वा पाठः । प्रशमाय, तासां सौभग-मदं प्रशमयितुं, प्रसादाय तां मानवतीं प्रसादयितुं च ।

केशवः को ब्रह्मा ईशश् च ताव् अपि वयते प्रशास्तीति तस्य सौभग-मद-प्रशमने कः प्रयासः ? इति भावः । केशान् वयते संस्करोतीति केश-प्रसाधनादिना तस्याः प्रसादनायां रसिक-शेखरस्य तस्य चातुर्यम् अस्त्य् एवेति भावः । अन्तरधीयत इत्य् आर्षम्, अन्तरदधाद् इत्य् अर्थः । धीञ् अनादर इति दैवादिकस्य वा रूपम् । अत्राग्रिम-ग्रन्थ-दृष्ट्या श्री-वृषभानु-नन्दिनीं बलाद् गृहत्वैवेति ज्ञेयम् । तत्रैव, न त्व् अन्यत्र गच्छंस् ताभिर् दृष्ट इत्य् अर्थः । तच् च तस्य तद्-इच्छायां जातायां योगमाययैव सम्पादितम् ॥४८॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

ऊनत्रिंशोऽपि दशमे सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां

दशम-स्कन्धे रास-क्रीडा-वर्णनं

नामैकोनत्रिंशोऽध्यायः ।

॥ १०.२९ ॥


(१०.३०)


  1. अवश्यम् पौनरुक्त्यात् बाहुल्य-भयाच् च तत् तद् अत्र न निवेशितम् । इति सम्पादकः । ↩︎

  2. वेद-पुराण-प्रामाण्य-लीला-नित्यत्वं श्रूयते ? ↩︎

  3. जग्मुर् इति वक्तव्ये आजग्मुर् इत्य् उक्तिः शुकस्य कृष्णान्तिके स्वावस्थान-स्फूर्तेः ॥ ↩︎

  4. एवं मद्-अर्थोज्झित-लोक-वेद-

    स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः ।

    मया परोक्षं भजता तिरोहितं

    मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ ↩︎

  5. वाग् गद्गदा द्रवते यस्य चित्तं

    रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।

    विलज्ज उद्गायति नृत्यते च

    मद्-भक्ति-युक्तो भुवनं पुनाति ॥ ↩︎

  6. कृ।सं। १०६, भक्ति।सं। ३२५, प्री।सं। ७। ↩︎

  7. वस्तुतस् तु इदम् उद्धवस्य वाक्यम् । ↩︎

  8. रसमयरासलीलाप्रसङ्गे ईदृशस् ते प्रश्नः समाधानप्रपञ्चश् च रसविघातकत्वाद् अनुचित इति व्यञ्जयन् स्वयम् एवोत्कण्ठया प्रस्तौति॥ ↩︎

  9. स्वागतं वो महा-भागा आस्यतां करवाम किम् ।

    यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः ॥ ↩︎

  10. गृहं ↩︎

  11. घोषम् इति श्री-जीव-गोस्वामिनां पाठः । गृहम् इति कैश्चित् । ↩︎

  12. मम इति केचित्। ↩︎

  13. को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् ।

    न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः ॥ ↩︎

  14. तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।

    अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्मदो हरिः ॥ ↩︎

  15. कर्माधिकार-निरसनत्वं। हरि-भक्ति-विलास ११.५५३-५५५। एकान्ति-लक्षणानि— सा च सर्व-नैरापेक्ष्येण तद्-एक-निष्ठता-रूपा एकान्तिता चतुर्धा चतुर्भिः प्रकारैः । एको धर्मानादरः, अन्यश् च कर्म-ज्ञानाद्य्-अशेष-निरपेक्षता, अपरो विघ्नाकुलत्वे\ऽपि रति-परता, अपरश् च प्रेमैक-परतेति । [ह।भ।वि। १०.५९-८२] । एकान्ति-कृत्याणि [ह।भ।वि। २०.३६९-३८५] इत्य्-आदि द्रष्टव्यम्। ↩︎

  16. ह।भ।वि। १०.३०२ ↩︎

  17. ह।भ।वि। १०.९१ ↩︎

  18. ह।भ।वि। १०। ↩︎

  19. ओफ़्तेन् अत्त्रिबुतेद् तो विष्णु पुराण, बुत् नोत् फ़ोउन्द् थेरे। सेए भक्तिस् १४७। ↩︎

  20. हि ↩︎

  21. गृहं ↩︎

  22. सन्निकर्षो\ऽत्र मर्त्यानाम् अनादरण-कारणम् ।

    गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये ॥ ↩︎

  23. प्रेम्णोऽनुरोधो नास्माकम् । ↩︎

  24. थिस् इस् नोत् थे देफ़िनितिओन् गिवेन् इन् रसार्णव-सुधाकर। ↩︎

  25. मैवं विभो\ऽर्हति भवान् गदितुं नृशंसम्

    सन्त्यज्य सर्व-विषयं तव पाद-मूलम् ।

    प्राप्ता वयं तुलसि-दाम पदावसृष्टं

    केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ ↩︎

  26. श्लेषं ? ↩︎

  27. पदे श्री-चरणे (?) ↩︎

  28. काश्चिन् मुखराः पाठः । ↩︎

  29. परमेश्वर इति च पाठः । ↩︎

  30. धृतां ↩︎

  31. चक्षू-रागः प्रथमं चित्तासङ्गस् ततो ऽथ सङ्कल्पः

    निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नसः ।

    उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ [सोउर्चे उन्क्नोwन्] ↩︎

  32. ततो नैव वधो योग्यो यतो वृद्धिम् उपागतः ।

    विष-वृक्षो\ऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम् ॥

    ततः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम् ।

    विष-वृक्षो \ऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ॥ ↩︎

  33. अङ्ग ↩︎

  34. चोर्रेच्तेद् फ़्रोम् उपवेष्टितम्। ↩︎

  35. कृतोऽ (वि); उतान्य- (प्रा।पा।) ↩︎

  36. इन् ब्रच्केत्स् इन् थे पुब्लिस्हेद् एदितिओन्। ↩︎

  37. तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।

    हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥ [भा।पु। १०.५.१८] ↩︎

  38. श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम्

    बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ↩︎

  39. निषेध-पक्षे वृजिनार्द न इति च्छेदः, गृहादि त्यक्त्वा न प्राप्ता वयम् इति योजना । ↩︎

  40. चोन्नेच्तिन्ग् ओफ़् अ सेचोन्दर्य् अच्तिओन् wइथ् थे मैन् अच्तिओन् ↩︎

  41. कल-पदायत-वेणु-गीत- (ब्); कल-पदामृत-वेणु-गीत- (वि) ↩︎

  42. पदवीं ↩︎

  43. कल-पदायत-वेणु-गीत- (ब्); कल-पदामृत-वेणु-गीत- (वि) ↩︎

  44. पदवीं ↩︎

  45. परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।

    धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥ ↩︎

  46. "व्रज-जनार्ति-हर" इति विश्वनाथ-धृत-नारायण-भट्ट-वीरराघव-सम्मत-पाठान्तरः । ↩︎

  47. गोपीनाम् एकादश-श्लोकानां कृष्णस्य दशश्लोकानाम् एकैकशः प्रत्युत्तर-रूपेण पुनर् व्याख्यायते । ↩︎

  48. समयं इति सनातनस्यानुसृत-पाठः । ↩︎

  49. स-दयं ↩︎

  50. शुचेर् हास्यस् तथा प्रेयान् सुहृद् अस्य प्रकीर्तितः ॥ इति रसामृत-सिन्धौ ४.८.७। ↩︎

  51. थे वेर्से इस् रेपेअतेद् wइथ् ओन्ल्य् थिस् wओर्द् छन्गेद् तो सत्-पदालि। ↩︎

  52. हरतु हरे मामकं हृदयम् इति आकरे। ↩︎

  53. जुष्टम् इति वीरराघवादि। ↩︎

  54. *आनन्दि इति वल्लभादि-सम्मत-पाठः । सङ्गि इति वीरराघवस्य । ↩︎

  55. कमलामोद- इति सनातनादि। ↩︎

  56. जुष्टम् इति वीरराघवः । ↩︎

  57. *आनन्दि इति वल्लभादि-सम्मत-पाठः । सङ्गि इति वीरराघवस्य । ↩︎

  58. नोने ओफ़् थे वेर्सेस् चितेद् हेरे चन् बे फ़ोउन्द् इन् ओउर् एदितिओन् ओफ़् रसार्णव-सुधाकर। ↩︎

  59. तं, तत्- ↩︎

  60. अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् ॥ [उ।नी। १५.११२] ↩︎