विकाले\ऽवगाहनाद् वरुण-दूतेन वरुणालयं नीतस्य नन्दस्य भगवता पुनर् आनयनम् ।
॥ १०.२८.१ ॥
श्री-शुक उवाच—
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दस् तु कालिन्द्या द्वादश्यां जलम् आविशत्॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टाविंशे ततो नन्दानयनं वरुणालयात् ।
वैकुण्ठ-दर्शनं चाथ गोपानाम् अनुवर्ण्यते ॥
गोवर्धनं समुद्धृत्य वशे कृत्वामरेश्वरम् ।
नन्दानयनतः कृष्णो वरुणं च वशेऽनयत् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः सप्तविंशाध्यायोत्तरम् । अनयत् अकरोत् । निराहारः व्रत-घ्नाहार-रहित उपोषितो वा ।
अष्टैतान्य् अव्रत-घ्नानि ह्य् आपो मूले पयो दधि ।
हविर् ब्राह्मण-काम्या च गुरोर् वचनम् औषधम् ॥ इति हेमाद्रिः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रसङ्गाद् अद्भुत-चरितम् एवानुवर्णयन्न् आदौ ऐश्वर्य-मादानर्थताम् एव दर्शयन् इन्द्रस्येव वरुणस्याप्य् अपराधं वक्तुं तत्-प्रसङ्गम् आरभते—एकादश्याम् इत्य्-आदिना मुदम् इत्य्-अन्तेन । एकादश्याः वृद्ध्या ह्रासेन किञ्चिन् मात्र-निष्क्रान्तायां तस्याम् इति ज्ञेयम्, पारणाहे किञ्चिन् निष्क्रान्त-द्वादश्यपेक्षयारात्रौ स्नानार्थं जल-प्रवेशात्, किं च, सम्यग् अभितो\ऽर्चयित्वा परम-भागवताग्र्यत्वेन यथाविधि सजागरण-पूजा-विशेषं कृत्येत्य् अर्थः । जनैर् भक्तेर् अर्द्यते अतृप्ततया नित्यं भक्त्य् अथ याच्यत इति तथा तम्, इति परम-कृतार्थस्यापि तस्य निराहारत्वेन समभ्यर्च्यने हेतुः, अत एव कालिन्द्यात् भगवद् भक्ति-विवर्धिन्यां स्नातु जलम् आविशत्, भक्त्या जले निममज्जेत्य् अर्थः । इन्द्रो\ऽसौ कृष्णं त्यक्त्वा स्वाराज्यम् उपभोक्तुं ययौ, नन्दस् तु पुत्रत्वेन प्राप्त-कृष्णो\ऽपि भगवद् धर्मम् अपि न त्यजतीति तु-शब्दार्थः । यद् वा, परवाक्यापेक्षया तु-शब्दः, स्नानन्तु भक्त्य् अर्थम् एव चक्रे ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसङ्गाद् अद्भुत-चरितम् एवानुवर्णयन् आदौ ऐश्वर्य-मदानर्थताम् एव दर्शयन् इन्द्रस्येव वरुणास्यापराधं वक्तुं तत्-प्रसङ्गम् आरभते—एकादश्याम् इत्य्-आदिना मुदम् इत्य् अन्तेन । एकादश्यां वृद्ध्या ह्रासेन वा किञ्चिन् मात्र-निष्क्रान्तायां तस्यां षट्-प्रहराव् एव तद् यतन-कालं व्याप्येत्य् अर्थः । द्वादश्यां पारणाह निःक्रान्ते किञ्चित् द्वादश्यादि-प्रहरद् वयावसरतद्यन-क्ल इत्य् अर्थः ।
किं च सम्यक् अभितोऽर्चयित्वा परम-भागवताग्र्यत्वेन यथा-विधि सजागरण-पूजा-विशेषं कृत्वेत्य् अर्थः । जनैः भक्तैर् अर्द्यते अतृप्ततया नित्यं भक्त्य् अर्थं याच्यत इति तथा तम् इति परम-कृतार्थस्यापि तस्य निराहारत्वेन समभ्यर्चने हेतुः अत एव कालिन्द्यां भगवद् भक्ति-विवर्धन्यां स्नातुं जलम् आविशत् तु-शब्देनान्यो नाविशत् किन्तु गृह एवसस्नाव् इति व्यञ्जयित्वा तस्य यमुना-स्नानाग्रहं बोधयति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एकादश्यां स्वल्प-मात्रैकादश्य्-उपलक्षित-षट्-प्रहर-तद्-उत्तर-तद्-अद्यतन-कालं व्याप्येत्य्-अर्थः । द्वादश्यां पारणा ऽनिष्कान्त-किञ्चिद्-द्वादश्य्-आदि-प्रहर-द्वयारब्ध-तद्-अद्यतन-काल इत्य् अर्थः । तु-शब्देनान्यो नाविशद् इति व्यज्य तस्य तादृश-भगवद्-धर्म-तत्त्व-ज्ञतां बोधयति अवज्ञाय अनादृत्य तत्-क्रोशनम् उपश्रुत्य पितरं च वरुणाहृतं विज्ञायेति शेषः ॥१.४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्टाविंशेऽभवन् नन्दाहरणं वरुण-स्तुतिः ।
गोपीनां विस्मयौत्सुक्यं ब्रह्म-वैकुण्ठ-दर्शनम् ॥
इन्द्रस्यागश् च तत्-क्षतिम् उक्त्वा स्व-स्मृतिम् आगते ।
वरुणस्यापि ते वक्तुम् आह लीलान्तरं मुनिः ॥
जलम् आविशद् इत्य् अरुणोदयाद् अपि पूर्वे कला-मात्रावशिष्टायां द्वादश्यां पारणा-प्राप्त्य्-अर्थं शास्त्राज्ञा-बलेनैवेति ज्ञेयम् । तथा च शास्त्रम्—
कलार्धां द्वादशीं दृष्टा निशीथाद् ऊर्ध्वम् एव हि ।
आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भु-शासनात् ॥ इति ॥१॥
॥ १०.२८.२ ॥
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।
अविज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कला-मात्रायां द्वादश्यां पारणादराभिनिवेशेनासुरीं वेलाम् अविज्ञायारुणोदयात् पूर्वम् एव शास्त्र-बलेन निश्युदकं प्रविष्टं तद् अनभिज्ञो वरुणस्य भृत्योऽनयद् इति । तथा च शास्त्रम्—
कलार्धां द्वादशीं दृष्ट्वा निशीथाद् ऊर्ध्वम् एव हि ।
आमध्याह्नाः क्रियां सर्वाः कर्तव्याः शम्भु-शासनात् ॥ इत्य्-आदि ।
वक्ष्यति च वरुणः—अजानता मामकेन [१०.२८.७] इति, भगवद्-धर्मम् अजानतेत्य् अर्थः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नन्दम् । तद्-अनभिज्ञो भगवद्-धर्मानभिज्ञः । निशीथान् अर्ध-रात्रात् । कलार्धां त्रिंशत्-पली-मताम् । शम्भुः शङ्करः ऋषिर् वा । यामौ द्वौ मध्यमौ रात्रेर् आसुरः समयो मतः इत्य्-उक्तेर् अर्ध-रात्रात् परयामावशेष-निशातः परं प्रविष्ट इत्य् अवधेयम् । इत्य् अर्थ इति । सर्वज्ञोऽपि भगवद्-धर्मानभिज्ञोऽज्ञ एवेति भावः । असुर एवासुर-वेलायां जलारक्षायां नियुक्त इत्य् उक्तम् असुर इति । यद् वा, सुर-भिन्नोऽसुर यक्ष एवेत्य् अर्थः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देव-प्रवरस्य लोक-पालस्य वरुणस्य भृत्यस् तु तं धृत्वा अनयद् इत्य् अहो ऐश्वर्य-मदान्धेति भावः । असुर इति जात्यैव वैष्णव-धर्माज्ञत्वम् उक्तम्, तथासुर्यां बेलायां जल-रक्षणे बलिष्ठस्य तस्यैव योग्यत्वं च दर्शितम् ।
ननु तर्हि वरुणस्य को नाम दोषः ? तत्राह—वरुणस्येति । भृत्यस्य दोषेण स्वामिनो\ऽपि दोषापत्तेः । श्री-नन्दानयनार्थं भगवद्-इच्छयैव तेन तन्-नयनं बोध्यम् । अन्यथा कथम् अपि तद्-असम्भवात्, तच् चाग्रे व्यक्तं भावि । अवज्ञाय अनादृत्य ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असुर इति जात्यैव वैष्णव-धर्माज्ञत्वम् उक्तम् । तथासुर्यां बेलायां जल-रक्षणे बलिष्ठस्य तस्यैव योग्यत्वं च दर्शितम् । वरुणस्य भृत्य इति स्य दोषेण स्वामिनो\ऽपि दोषापत्तेः, श्री-नन्दानयनार्थं भगवद् इच्छयैव तेन तन् नयनं बोध्यम्, अन्यथा कथम् अपि तद् असम्भवात्, तच् चाग्रे व्यक्तं भावि । अवज्ञाय अनादृत्य ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरुणस्य भृत्योऽसुरः वरुणस्यान्तिकम् अनयत् । तत्र हेतुः—आसुरीं वेलाम् अविज्ञाय उदकं प्रविष्टम् इत्य् अज्ञानेनैव तस्मिन् दोष-कल्पनं श्री-नन्देन तु शास्त्राज्ञा-बलेनैवोदकं प्रविष्टत्वात् अत एवाग्रे वक्ष्यते—अजानता मामकेन मूढेन [१०.२८.७] इति ॥२॥
॥ १०.२८.३ ॥
चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः ।
भगवांस् तद् उपश्रुत्य पितरं वरुणाकृतम् ।
तद्-अन्तिकं गतो राजन् स्वानाम् अभयदो विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वानां भगवद्-धर्म-पराणाम् अभय-दो मा भैष्टेत्य् अभयं ददत् ॥३॥।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नन्दम् । गोपका रात्रौ स्नानार्थं गतस्य रक्षकाः । तद्-गोपाक्रोशं पितरम् आनेतुम् इति । तद्-अन्तिकं वरुण-समीपम् । विभुः सर्वतो दीप्तिमान् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण रामेत्य् एवं चक्रुशुः । उच्चैर् अकीर्तयन्, परमार्त्या भगवन्-नाम-मात्रैक-स्फूर्तेः । तत्र कृष्ण-नाम्ना आदौ क्रोशनं स्वभावतस् तस्मिन् प्रीति-विशेषात्, तस्य माहात्म्य-विशेषाच् च । यद् वा, हे कृष्ण हे रामेति द्वाव् एव भ्रातराव् उच्चैर् आह्वयामासुः । गोपकास् तत्-सङ्गे स्नानार्थं गता गोपा एवेत्य् अर्थः । यद् वा, महाराजस्य तस्य चतुर्-दिग्-रक्षका जनाः ।
तत्-क्रोशनं पितरं च वरुणाहृतम् उप समीप एव श्रुत्वा, इति श्री-भगवन्तम् अपि तत्-पश्चात् तत्रैव गच्छन्तं बोधयति । यद् वा, तत् तस्मात् क्रोशनात्, अतो दूरे\ऽपि समीपवच् छ्रवणात् क्रोशनस्याविष्टत्वं सुचितम् । हे राजन्न् इति—यथा अश्वत्थाम्नो\ऽस्त्रात् क्रोशतां त्वत्-पितामहानाम् अभयं दत्तस् तथेति भावः ।
यद् वा, राजमानः कोपेनाविर्भूत-तेजो-विशेषात्, यतो विभुर् व्रज-जनैक-प्रभुः । यद् वा, व्यापकस् तत्रैव वर्तमाने\ऽपि स्नेहाद् अतित्वरया सद्य एव तत्र गत एवेत्य् अर्थः । भगवान् इति जगद्-धितार्थं निज-कारुण्याद्य्-अशेष-गुण-प्रकटन-पर इत्य् अर्थः । अयं भावः—यद्य् अपीच्छा-मात्रेण सद्य एवासुरात् नन्दं मोचयितुं शक्तः, तथापि परम-कृपया वरुणस्य हितार्थं नन्दानयन-च्छलेन तत्र गत इति ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चक्रुशुर् इत्य् अर्धकम् । गोपकाः महाराजस्य तस्य चतुर्दिक् रक्षका जनाः ॥ तत् क्र्शनं दूर-गो\ऽपि उप समीप एव श्रुत्वा पितरं वरुणाहृतं च ज्ञात्वेति शेषः तद् अन्तिकं गतः तत्र कैमुत्येन हेतुः विभुर् व्यापक इति स्वानां गोप-ज्ञाति-मात्राणाम् अभयदः किम् पुनः पितुर् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोपकाः स्नानार्थं रात्रौ गतस्य तस्य रक्षकाः । तत्-क्रोशनं उपश्रुत्य तदानीं दूरतः पुष्प-शय्यायां शयानोऽपि उप निकट एव श्रुत्वेति तस्य सर्व-देश-वर्तित्वात् पितरं वरुणाहृतं ज्ञात्वेति शेषः । तदानीम् एव रक्षक-गोपानां निकटम् एत्य क्व मे तातो निममज्जेति दृष्ट्वा, तत्रैव तटात् स-झम्पं निमज्ज्य तद्-अन्तिकं वरुणान्तिकं गतः । स्वानाम् अभयदः । ततः सकाशान् नन्दम् आनीय ज्ञातीनाम् अभयं दास्यन्न् इत्य् अर्थः ॥३॥
॥ १०.२८.४ ॥
प्राप्तं वीक्ष्य हृषीकेशं लोक-पालः स-पर्यया ।
महत्या पूजयित्वाऽह तद्-दर्शन-महोत्सवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-पर्ययार्हणेन ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :लोक-पालो वरुणः । तद्-दर्शनेन कृष्ण-दर्शनेन महान् उत्सवो यस्य स तथा ॥३-४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृषीकेशं सर्वेन्द्रिय-वृत्त्य्-अगोचरम् अपि प्राप्तं पार्श्वागतं वीक्ष्य साक्षात् दृष्ट्वा, लोक-पाल इति महा-सपर्या-सामर्थ्यं द्योतितम् । यद् वा, तदैव लोक-पालत्वं सफलं वृत्तम् इत्य् अर्थः । महा-सपर्यया तत्-पूजनात् । किं वा, तल्-लोक-वर्तिनां भगवद्-दर्शनादिना चक्षुः-साफल्यादि-सिद्ध्या परम-कृतार्थता-सम्पत्तेः । तद्-दर्शनेन महान् उत्सव आनन्दो यस्य, अयं महा-सपर्यया पूजने हेतुः । यद् वा, तद्-दर्शनम् एव महोत्सवो यस्य स इति परम-भक्तत्वम् उक्तम् । अतस् तद्-दर्शनार्थम् एव श्री-नन्द आनायित इति भावः । व्रजे तद्-अर्थं तन्-निकट-गमने अयोग्यत्वान् महा-पूजन-सम्पत्तेश् च विशेषतो निज-गृहान्तस् तत्-सन्दर्शने सुख-विशेषाच् चेति, वक्ष्यमाणस्य तद्-वचनस्याप्य् उत्तमत्वं ध्वनितम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हृषीकेशं सर्वेन्द्रिय-प्रवर्तकम् इतीन्द्रिय-वृत्त्य्-अगोचरम् अपि प्राप्तं वीक्ष्य निकटम् आगतं ज्ञात्वेत्य् अर्थः । ततश् चोपव्रज्येति ज्ञेयं लोक-पाल इति महा-सपर्यया सामर्थ्यं द्योतितं, ततस् तदैव लोक-पालत्वं सफलं वृत्तम् इति च तद् दर्शनेन महान् उत्सव आनन्दो यस्येति तादृश-पूजने हेतुः । एतद् उक्तं भवति, पूर्वं श्री-भगवतो दुर्जनानुचरे तस्मिन् क्रोध एव जातः सङ्गत्य तु तं सभयतायाम् अपि नातिव्यग्रं सदण्डवन्न् अतितयोपव्रजन्तं च दृष्ट्वा निश्चित-स्वाभीष्ट-लब्धितया तस्य तत्र क्षमाबलित-वृष्टिर् जाता ततश् च तस्य तद् दर्शन-महोत्सवो जातः ततश् च स्तुति-पूजादिकं तेनारब्धम् इति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.२८.५ ॥
वरुण उवाच—
अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो ।
त्वत्-पादभाजो भगवन्न् अवापुः पारम् अध्वनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्येदानीं मे मया देहो निभृतो धृतः । यदा त्वद्-दर्शनं जातं, तदैव देह-साफल्यं प्राप्तम् इत्य् अर्थः । यद् वा, निभृतः पूर्ण-मनोरथ इत्य् अर्थः । किं च, अद्यैवार्थोऽधिगतः । सर्व-रत्नाकर-पतिना पीतः पूर्वं नैवं-विधोऽर्थः प्राप्त इत्य् अर्थः । किं च, संसारोऽपि निवृत्त एवेत्य् आशयेनाह—त्वत्-पाद-भाज इति । अध्वनः पारं मोक्षम् ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य्-आदि इति । अद्य मे सफलो देहस् त्वत्-पादाम्बुज-दर्शनात् इत्य्-आदिना बल्य्-आदिभिर् उक्तत्वाद् इति भावः । जन्म-साफल्येऽपि मनोरथानाप्तौ किञ्चिद् वैकल्यम् एवेत्य् अरुच्याह—यद् वेति । इत्य् अर्थ इति । निश्चले निभृतो मतः इत्य्-उक्तेर् अपूर्ण-मनोरथस्य नैश्चल्यं न सम्भवतीति भावः । मनोरथ-पूर्तेर् अप्य् अधिक-लाभम् आह—किं चेति । सर्वेषां रत्नानां वज्र-मुक्तादीनाम् आकरः समुद्रस् तत्-पतिनापि । तितस् त्वद्-दर्शनात् । एवं-विधः त्वद्-दर्शन-सदृशः । इत्य् अर्थ इति । दुःख-प्रद-प्राय-वज्राद्य्-अपेक्षया परमानन्दावाप्ति-रूप-नित्य-समृद्धि-प्रदं त्वद्-दर्शनम् एव भावः । तद् एवाह—किं चेति । अध्वनः भवाटव्याः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रभो ! हे जगदीश्वर ! इति परम-दौर्लभ्यादिकम् उक्तम् अवापुः—अवहेलयैव लेभिरे । अन्यत् तैर् व्यञ्जितम् । यद् वा, नितरां भृतं मुहुर् देह-धारणस्य फलम् अद्येव सम्यक् लब्धम् इत्य् अर्थः । कुतः ? अर्थो मोक्ष-लक्षणः, अधिगतो\ऽधिकं प्राप्तः, तत्र हेतुम् आह—त्वद् इति । यद् वा, भक्ति-लक्षणो\ऽधिकारितया प्राप्तः । किं वा, अर्थो निज-प्रहोजनं त्वद् भक्ति-लक्षणम् अद्यैव ज्ञातम् । ततः किम् इत्य् अपेक्षायां तत् फलं दर्शयन् भक्ति-माहात्म्यम् आह—त्वद् इति, तत् पादौ यथा-कथञ्चिद् अपि ये भजन्ति ते\ऽपीत्य् अर्थः । अध्वनः पारं सर्वोपरि-स्थितं वैकुण्ढ-लोकम्, तच् च युक्तम् एवेत्य् आह—भगवन् हे निज-माहात्म्य-विस्तारकेति । यद् वा, अहो किम् अपरं वक्तव्यम् ? मया त्व् अद्य परम-दुर्लभम् एव प्राप्तम् इत्य् आशयेनाह—त्वद्भक्ता वैकुण्ठम् एव प्राप्नुवन्ति, मया तु भगवतः श्री-नन्द-नन्दस्य तव साक्षाद् दर्शनं स्व-गृहान्तर् एव प्राप्तम् इत्य् अर्थः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभो ! हे जगद्-ईश्वर ! इति परम-दौर्लभ्यादिकम् उक्तम् अवापुः अवहेलनेन लेभिरे अन्यत् तैः तत्र पूर्ण-मनो-रथ इति पक्षे मे ममेति पूर्णो मनो-रथो यत्रेति चव्याख्येयम् । यद्य् अपि पूर्वस्य हेतु-वाक्यम् उत्तरार्धं तथापि अस्यार्थस्यापि लाभाद् इत्य् अभिप्रायेणाह-किं च, संसारोपीति । यद् वा, नितरां मृतः मुहुर् देह-धारणस्य फलम् अद्यैव सम्यक् लब्धम् इत्य् अर्थः । कुत ? अर्थः परम-विचारेनात्रो नाम यः सोऽद्यैव मया प्राप्तः तत्र हेतुः त्वत् पाद-भाजस् त्वच् चरण-कमलं प्राप्तवन्त एवाध्वनः प्राप्य परम्पराया अन्तं अव समन्ताद् आपुर् इति तदैव स्वयं भगवत्त्वाद् इति भावः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नितरां भृतः अत्रैव सम्यक् साफल्यात् कुतः अर्थः परमविचार्येणार्थो नामः य सो ऽध्यैव मया प्राप्तः तत्र हेतुः त्वत्पादभाजः त्वच्चरणकमलं प्राप्तवन्तः एताध्वनः पारं प्राप्य परम्परया अन्तम् अव समन्तात् आपुर् इति तवैव स्वयं भगवत्त्वाद् इति भावः ॥५.६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अद्य नितरां भृतो धृतः एतावद्-दिन-पर्यन्तं सहस्रशो देहा वृथैव धृता त्वद्-दर्शन-लाभाभावाद् इति भावः । अर्थोऽप्य् अद्यैवाधिगतः । सर्व-रत्नाकर-पतिनापि इतः-पूर्वं नैवं-विधोऽर्थः प्राप्त इति भावः । त्वत्-पादौ भजन्त एवाध्वनः संसारस्य पारम् अवापुः । अहं त्व् एतादृशं दर्शनम् अपि प्राप्त इत्य् अहो मद्-भाग्यस्य पराकाष्ठेति भावः ॥५॥
॥ १०.२८.६ ॥
नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवते निरतिशयैश्वर्याय । ब्रह्मणे पूर्णाय । परमात्मने सर्व-जीव-नियन्त्रे इति । तत्र हेतुः—न यत्रेति । लोक-सृष्टिं विकल्पयति या माया, सा यत्र न श्रूयते । अविद्यमानेव तिष्ठतीत्य् अर्थः ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र परमात्मत्वे । यत्र त्वयि । लोक-सृष्टिं विश्व-रचनाम् । विकल्पयति विविधं करोति । माया बन्धक-शक्तिः । इत्य् अर्थ इति—स्व-कार्य-करणम् एवाविद्यमानत्वम् । विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया [२.५.१३] इत्य्-आद्य्-उक्तेः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न यत्र इत्य्-आदि । यत्र त्वयि माया न श्रूयते । तद्-दर्शनं तु दूराद् आस्ताम् ॥६.१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् तन्-माहात्म्यं वर्णयन् भक्त्या प्रणमति—नम इति । भगवत्त्वादीनां यथोत्तरं हेतु-हेतुमत्तोह्याः । अन्यत् तैर् व्यञ्जितम् ।
यद् वा, ननु परमेश्वरस्य पर-ब्रह्मणः परमात्मनो गोपासकानां वैकुण्ठ-प्राप्तिस् तत्-साक्षात्-कारेणालभ्य-लाभश् च सत्यं सम्पद्यत एव, अहं तु ततोऽन्यो गोप-कुमार एव । तत्राह—नमस् तुभ्यम् इति । त्वम् एव भगवद्-आदि-रूप इत्य् अर्थः । तत्र भगवत्त्वेऽपि परमात्मत्वेऽपि च ब्रह्मत्व-विवक्षया—ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते [भा।पु। १.२.११] इत्य्-उक्त-क्रमानपेक्षया ब्रह्मण इत्य् अस्य मध्य-निर्देशः । न च मायया तत्-तद्-रूपत्वम् इत्य् आह—न यत्रेति । तत्र हेतुम् आह—लोकेति । जीवानाम् एव सृष्टिं सा विवर्तया कल्पयितुं शक्नोति । न चेश्वरे त्वयि सा प्रभवतीत्य् अर्थः । एवं च ऐश्वर्य-रूप-गुणादि-भेद-विकल्पिका सच्-चिद्-आनन्द-शक्तिर् व्यवच्छिन्ना । अतः परमात्मत्वेऽपि माया-सम्बन्ध-राहित्येन पर-ब्रह्मत्वम् एव घटते । तथा निज-शक्ति-विशेषणैकस्यापि तत्-तद्-रूपता घटेतैवेति भावः । अत एतादृशस्य तव निज-गृहाभ्यन्तर एव सन्दर्शनेनाद्य परम-कृतार्थोऽस्मीति तात्पर्यम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् तन्-माहात्म्यं वर्णयन् भक्त्या प्रणमति—नम इति । भगवते पूर्ण-षड्-गुणैश्वर्येण स्व-लोकादौ विराजमानाय परमात्मने सर्वान्तर्यामि-रूपाय ब्रह्मणे क्वचिद् अधिकारिणि अप्रकाशित-तत्-तच्-छक्तये, सत्यं ज्ञानम् अनन्तम् [१०.२८.१६] इत्य् एवं केवलं प्रकाशमानाय, न च मायया तत्-तद्-रूपत्वम् इत्य् आह—न यत्रेति । तत्र हेतुम् आह—लोकेति । जीवानाम् एवं सृष्टीं विविधतया कल्पयितुं शक्नोति न चेश्वरे त्वयि प्रभवतीत्य् अर्थः । एवं चैश्वर्य-रूप-गुणादि-भेद-विकल्पिका स्वरूप-शक्तिर् अन्यास्तीति दर्शितम् । अत एव तादृशस्य तव निज-गृहाभ्यन्तर एव सन्दर्शनेनाद्य परम-कृतार्थोऽस्मीति तात्पर्यम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ गोवर्धनोद्धरणावलोकनेन परम-विस्मितानां गोकुल-वासिनां पुनर् अपि अतिविस्मयं दर्शयितुं वरुणस्य भगवत्-स्तवम् आह—नमस् तुभ्यम् इत्य्-आदि । भगवते ब्रह्मणे नमः । स-विशेषत्वं दर्शयति—अनन्त-शक्तये अनन्ता अपरिमिता शक्तिर् यस्य, यत्र त्वयि माया न श्रूयते । सा कीदृशी ? लोक-सृष्टेर् विकल्पनं यया सा तथा ॥६.११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्त्या ज्ञानेन योगेन च त्वम् एवोपास्य इत्य् आह—नम इति । माया-शाबल्याद् एव तव भगवत्त्वादीत्य् आचक्षाणा भ्रान्ता एवेत्य् आह—न यत्रेति । लोक-सृष्टेर् विविध-कल्पनं यतः सा ॥६॥
॥ १०.२८.७ ॥
अजानता मामकेन मूढेनाकार्य-वेदिना।
आनीतोऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजानता मद्-भृत्येन त्वत्-पित्राहरणं यत् कृतं तद् इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं नन्दः । कार्यं कर्तुम् उचितं न वेत्तीत्य् अकार्य-वेदी, तेन अजानतेति । त्वत्-पित्यायम् इत्य् अजानता । द्वादश्या अल्पत्वे\ऽरुणोदयात् प्राग् अपि जले प्रवेष्टव्यम् इति भक्ति-शास्त्रम् अजानता वेति । भृत्यापराधेन ममैवापराधः, तन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि इत्य् उक्तेः । अत एव मूढेन अकार्य-वेदिना मम भृत्योऽपि मत्-कार्यं न जानातीत्य् अर्थः । तव पिता आनीतः । अयम् इति रत्न-चतुष्किका-मध्यासीनं स्वेन पूजितं स्वेष्ट-देव-स्मरणरतं श्री-नन्दं स्वाञ्जलिना दर्शयति, क्षन्तुम् अर्हसीति । तव क्षमा-सिन्धुत्वात् मम त्व् अपराध-सिन्धुत्वात् दण्डयिष्यसि चेत् यथेष्टं दण्डयताम् इति भावः ॥ इति विश्वनाथः ।
यच् च नन्दं च मोक्ष्यस्ति भयाद् वरुणस्य पाशाद् इति तत्र च पाशाद् भयं तस्माद् विमोक्ष्यति, न तु पाशाद् इति पाश-सम्बन्द्भो निरस्त इति तोषणी ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न यत्र इत्य्-आदि । यत्र त्वयि माया न श्रूयते, तद्-दर्शनं तु दूराद् आस्ताम् ॥७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो महापराधो\ऽपि मे त्वया क्षन्तुं युज्यत एवेत्य् आह—अजानतेति, यतो मूढेन मूर्खेण ।
ननु तर्हि कथं रात्रि-स्नान-दोषं ज्ञात्वा मत् पिता नीतः ? तत्राह—अकार्यं कर्तुम् अयोग्यम् एव वेदितुं शीलम् अस्येति तथा तेन यद् वा, तत् पितेत्य् अजानता ।
ननु अन्यो\ऽपि तदानीं स्नानाद् आनेतुं न युज्यते, तत्राह—मूढेन भगवद् धर्म-ज्ञान-हीनेनेत्य् अर्थः । न केवलं मूढेन, परम-दुर्बुद्धिना चेत् आह—अकार्येति । अयं पूज्यवन् मद् अग्रे वर्तमान इति तद्-बन्धनानयादिकं निरस्तम्, यतस् तव पिता, यच् चोक्त श्री-ब्रह्मणा द्वितीय-स्कन्धे—नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् [भा।पु।२.७.३१] इति तस्य वरुणान्तिक-नयनेन वरुण-पाशाद् यद् भयं तस्माद् विमोक्ष्यतीत्य् अर्थः । अतस् तद् भयम् अपि तेन न प्राप्तम् इति सिद्धम् एव । [तत्]{।मर्क्} आनयन् आगः, आगो\ऽपराधः, तत् तस्माद् इति वा, क्षन्तुं महापराधम् ।
ननु महापराधो\ऽयं क्षन्तव्यो न स्यात् । तत्राह—हे प्रभो ! परम-समर्थ ! त्वया सो\ऽपि क्षन्तुं शक्यत इति भावः । यद् वा, हे अस्मत् स्वामिन् ! अतो दासानाम् अस्माकम् अपराधः सर्व एव त्वया क्षन्तुं युज्यत एवेति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो महापराधोऽपि मे त्वया क्षन्तुं युज्यत एवेत्य् आह—अजानतेति । यतो मूढेन मूर्खेण ।
ननु, कथं तर्हि रात्रि-स्नान-दोषं ज्ञात्वा मत् पिता नीतः ? तत्राह—अकार्यं कर्तुम् अयोग्यम् एव वेदितुं शीलम् अस्येति तथा तेन । यद् वा, त्वत् पित्वेत्यजानता । किं च, मूढेन भगवद् धर्म-ज्ञान-हीनेन चेत्य् अर्थः । न केवलं मूढेन परम-दुर्बुद्धिना चेत्य् आह—अकार्येति अकार्यम् असत्कार्यम् अयम् इति । स्वगृहे रक्षितं तञ्जलि-प्रसारणया निकट [मे] मिव तं निर्दिशति—स्वगृहे एव रक्षितत्वे हेतुः तव पितेति यत् तूक्तं द्वितीये नन्द च मोक्ष्यति भयाद् वरुणस्य पाशात्[भा।पु। २.७.३१] इति । तत्र च पाशात् यद् भयं तस्मात् विमोक्ष्येति न तु पाशात् इति पाश-सम्बन्धो निरस्तः तद्-आनयनागः
ननु, महापराधोऽयं क्षन्तव्यो न स्यात् ? तत्राह—प्रभो, हे परम-समर्थ ! त्वया सोऽपि क्षन्तुं शक्यत इति भावः । यद् वा, हे अस्मात् स्वामिन् ! अतो दासानाम् अस्माकम् अपराधः सर्व एव त्वया क्षन्तुं युज्यते एवेति भावः । तद् भवण् क्षन्तुम् अर्हतीति क्वचित् पाठः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अयम् आदरणीयत्वेन निजाग्रत एव वक्ष्यमाणः, नन्दं च मोक्ष्यति भयात् वरुणस्य पाशात् [भा।पु।२.७.३१] इति पाशात् । भयं यस्मात्, न तु पाशाद् इत्य् अर्थः ॥७.८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं भो मामेवं स्तुवन् लज्जसे ? सत्यं महापराधो मे जात एवेत्य् आह—अजानता द्वादश्या अल्पत्वे अरुणोदयात् पूर्वम् अपि जले प्रवेष्टव्यम् इति भक्ति-शास्त्राभिज्ञेन । मामकेनेति भृत्यापराधेन ममैवापराध इति भावः । अत एव मूढेन अकार्य-वेदिना मम भृत्योऽपि मत्-कार्यं न जानातीत्य् अर्थः । तव पिता आनीतः । अयम् इति रत्न-चतुष्किका-मध्यासीनं स्वेन पूजितं स्वेष्ट-देव-स्मरणरतं श्री-नन्दं स्वाञ्जलिना दर्शयति, क्षन्तुम् अर्हसीति । तव क्षमा-सिन्धुत्वात् मम त्व् अपराध-सिन्धुत्वात् दण्डयिष्यसि चेत् यथेष्टं दण्डयताम् इति भावः ॥७॥
॥ १०.२८.८ ॥
ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेष-दृक् ।
गोविन्द नीयताम् एष पिता ते पितृ-वत्सल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्दं विमुच्य समर्पयति—गोविन्देति ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोविन्देति । महापराधिनापीन्द्रेण कृतस्य गोविन्दतयाभिषेकस्य स्वीकारेण परम-कारुण्यं सूचितवान् । पितृ-शब्दो\ऽत्र पूज्य-परः । त्वद्दतपूज्यत्वाधिकारस्य ममापर्यपि वत्सलतैवोचितेति सम्बुद्ध्य् अभिप्रायः । तद् एवाह—ममापीति । अशेष-दृग् इत्य् उक्त्या निजापराधाभावं ध्वनयतीति भावः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथाप्य् अन्तः क्रोधं श्री-भगवन्तं दृष्ट्वा भीतः श्री-नन्द-प्रदर्शनादिना प्रशमयन्न् आह—गोविन्देति । गां स्वर्गम् इन्द्रत्वेन विन्दतीत्य् एवं निज-प्रभुत्वम् एव साधितम् । यद् वा, महापराधिनापीन्द्रेण कृतस्य गोविन्दतयाभिषेकस्य स्वीकारेण परम-कारुण्यादिकं सूचितम् । तव पिता एष साक्षाद् वर्तते, अत एतद् अग्रे\ऽपि पितृ-भक्तस्य तव क्रोधो न युज्यत इति भावः । अतो नीयतां गृहीत्वा गम्यताम् इत्य् अर्थः । यद् वा, गोविन्दत्वेन तव एष एव पिता पितृत्व-योग्य इत्य् अर्थः । अत एव, हे पितृ-वत्सल ! नीयताम् । यद् वा, एष नीयतां सत्वरं निज-स्थानं प्राप्यताम्, द्वादश्य्-अन्तर् एवास्य पारणापेक्षणात् ।
पितृ-वत्सलेत्य् अत्र गूढो\ऽयं भावः—पितृ-वत्सलत्वात् पित्र्-अर्थम् एव श्री-भगवान् अग्रागच्छेत्, तत एव निज-गृहान्तः स्वच्छन्देन तत्-सन्दर्शनं महार्चनं च सम्पद्यत, न चान्यथेति मन्त्रणयायम् अत्रानीतः, पूज्यतया भक्त्या निजान्तिक एव स्थापितः, तद् अभिप्रेतम् अस्माकं सिद्धम्, अतो\ऽधुना नीयताम् इति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तद् एव गृहम् आनीय तं दर्शयन्न् आह—गोविन्देत्य् अर्धकेन । तत्र गोविन्देति महापराधिनापीन्द्रेण कृतस्य गोविन्दतयाभिषेकस्य स्वीकारेण परम-कऋउण्यादिकं सूचितम्—हे पितृ-वत्सलेति पितृ-पुत्रौ तोषयति—तथा वयम् एतज् जानीम एव स्व-गृहे परम् ईदृश-भागधेयाकाङ्क्षयैवैतावन्तं क्षणं रक्षित आसीद् इति व्यञ्जयन्ति ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.२८.९ ॥
श्री-शुक उवाच—
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः।
आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-विधया । ईश्वराणां हिरण्यगर्भादीनाम् अपीश्वरो नन्दनन्दनः । बन्धूनां गोपानाम् । अवहत् प्रापयामास । ईश्वरेश्वरत्वं दर्शयति—तथा हि । बीजाङ्कुर-तरूपमेष्व् ईश-सूत्र-विराट्स्व् अनन्त-बीज-गर्भ-फलोपमः श्री-कृष्णोऽनन्त-कोटि-ब्रह्माण्ड-नायक इति प्रसिद्धम् ।
अयम् एवार्थः—श्री-शङ्कर-भगवत्-पादैर् वेदान्त-सारे वन-वृक्ष-दर्शनेन समष्टि-व्यष्टि-रूपेण स्थूल-सूक्ष्म-कारणानि प्रतिपाद्य समष्टि-वन-दर्शनेन प्रतिपादितः । शास्त्रेऽप्य् अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.२०] इति,
अथ य एषोऽन्तर् आदित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य-श्मश्रुर् हिरण्य-केश प्रणखात् सर्व एव सुवर्णस् तस्य यथा कप्यासं पुण्डरीकम् एवाक्षिणी तस्योद् इति नाम, स एषा सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । [छा।उ। १.६.६-७]
इति नाम-रूपवन्तम् आदित्य-मण्डलान्तर्-वर्तिनं नारायणम् उदाहृत्य तस्य च ऋक्-साम-चगेष्णाव् इति नारायणस्य कृत्स्न-प्रपञ्चात्मके ऋक्-सामे अङ्गुलि-पर्वणी इत्य् उक्तं, ततोऽनन्त-कोटि-ब्रह्माण्डाश्रयत्वं सूर्याकृतेर् ब्रह्मणो युज्यते । अयम् एव नन्द-नन्दनो महा-मायावी सुप्ति-प्रलय-कैवल्येषु कर्मोप्रकृते सति जगद् इन्द्रजालं स्व-मूर्त्या सह तिरोधायापास्त-समस्त-विशेषं ब्रह्मात्मानं प्रापयति कर्म-शेष-सत्त्वे पुनर् उद्भावयति च । ततश् चास्य स्वाविद्याभावाद् असङ्गत्वं परा-विद्या-कल्पितोपाधि-सम्बन्धात् प्रतिमायाभोजकत्ववन् नियन्तृत्वम् अविद्यायाश् चाद्यन्त-शून्यत्वात् तन्-नित्यत्वं चेति सिद्धम् । नन्व् असङ्गस्य, अस्थूलम् अनणु निष्क्रियं शान्तम् [बृ।आ।उ। ३.८.८] इत्य्-आदि-श्रुतेः सर्व-विशेष-शून्यस्य नाम-रूप-नियन्तृत्वादिकं च कथं घटेतेति चेत्, अत्र ब्रूमः,
कौलिके प्रतिमा-द्वारा चैत्रे भोग इवेशता ।
असङ्गे भूम्नि जीवौघ-कल्पितोपाधि-योगतः ॥
अनादौ संसारे जीवेश्वर-विभागस्याप्य् अनादित्वाद् रज्ज्वां भुजङ्ग इव जीवौघस्याविद्यया शुद्धेऽपि चिद्-आत्मनीश-सूत्रादिकं कल्पितम् इदं ब्रह्मणः शरीरम् । यथा कौलिकः प्रतिमां कृत्वेदम् एव चैत्र-शरीरम् इति भावयति, तद्वत् । यथा च प्रतिमा-द्वारा चैत्रस्य सुख-दुःखादि-भोगो भवति, तस्या हस्त-वेधे चैत्रस्यापि हस्त-वेधो जायते, तस्य पायसे समर्पिते चैत्रस्यापि पायस-भोगो जायते एवं शुद्धायाम् अपि चिति जीवौघ-कल्पितोपाधि-द्वारा ईशनादिकं भवति । इयांस् तु विशेषः—जीवस्य स्वाविद्यया कल्पितं शरीरान्तरम् अस्तीति प्रतिमा-निमित्तकोऽपि भोगः स्व-देहावच्छेदेनैव जायते न प्रतिमावच्छेदेन } चितस् तु तद्-अभावाद् विभुत्वाच् च पर-कल्पितोपाध्य्-अवच्छेदे नैव नियन्तृत्वादिकं भवति । तच् चाकर्मजत्वाच् चितौ न संसृज्यते यथा जीवे भोगः, यथा वा कल्पित-सर्प-गतं भीषणत्वं रज्ज्वाम् । एवं च व्यवहारतः संसारस्याद्य्-अन्त-शून्यत्वात् तत्-करणीभूतस्येशादेर् अपि तथात्वं वक्तव्यम् । किम् उतेशादि-कारणीभूतयाः ।शक्त-मूर्तेः । ईशः समष्टि-कारणोपाधिः सूत्रात्मा समष्टि-सूक्ष्म-शरीरोपाधिः विराट् समष्टि-स्थूलोपाधिः । ते च बीजोपमे ईशः, अङ्कुरोपमः सूत्रात्मा, वृक्षोपमो विराद् इत्य् एवं ज्ञेयाम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण व्यवहारेण वचनेन व्यवसायेन च । ननु एतावन् महापराधे तावन् मात्रेणैव कथं प्रसन्नो\ऽभूत् ? तत्राह—भगवान् सर्वज्ञः, तत्त्वतस् तद् दोषो नास्ति, विशेषतश् च मत्सन्दि-दृक्षयैव तथा कृतम्, पितुर् अपि भय-दुःखादिकं विचारयन्न् इत्य् अर्थः, भगवत्त्वे हेतुः—अखिलानाम् इन्द्रादीनाम् ईश्वरः प्रवर्तकः । यद् वा, जगतां बहिर् अन्तः प्रभुः
यद् वा, जगदीश्वरो\ऽपि स्वस्य पितरम् इति तस्मिन् भक्ति-विशेषः, तस्य च तत्—पितृत्वे स्वत एव भय-विकाराद्य् अभावो दर्शितः, अत आदाय हस्ते धृत्वा स्व-स्थानम् आगतः, अत एव बन्धूनां व्रजजनानां मुदं प्रवाह-रूपेण निरन्तरं प्रापयाम् आसेत्य् अर्थः, च-शब्दात् श्री-नन्दस्य द्वादश्यन्तः पारणामहोत्सवश् च एवेत्य् उक्तम्, न च प्रसादित इति महापराधेनान्तः प्रसादनाशक्तेः, अत एव वरुणस्य भक्त्य् अपेक्षया तद्-गृहे भगवतो गमनम् इति ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण व्यवहारेण वचनेन व्यवसायेन च । ननु, एतावन् महापराधे तावन् मात्रेणैव कथं प्रसन्नोऽभूत् ? तत्राह—भगवान् सर्वज्ञः तत्त्वतस् तद् दोषो नास्तीति विज्ञानादवित भावः भगवत्त्वे हेतुः अखिलानाम् ईश्वरः प्रवर्तकः ईश्वरेश्वर इति पाठः क्वचित् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतो\ऽनुपाहित-शुद्ध-चैतन्यं भगवान् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अगाद् इति सूर्योदयात् पूर्वं एवेति ज्ञेयम् ॥९॥
॥ १०.२८.१० ॥
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोकपाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतीन्द्रियम् अदृष्ट-पूर्वं लोक-पालस्य महोदयम् ऐश्वर्यम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :अति चमत्कारवन्ति इन्द्रियाणि यतस् तम् । महोदयं महैश्वर्यम् । तेषां लोक-पालानाम् । अब्रवीद् इति द्वादशी-मध्य एव पारणं कृत्वा आस्थान्याम् उपवेश्यैवेति ज्ञेयम् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं निज-भक्तानां देवानां मनोरथ-पूरणम् उक्त्वा परम-प्रियाणां व्रज-जनानां तद् वदन्, तत्राग्रे श्री-गोपिकानां वक्ष्यन् सूची-कटाह-न्यायेनादौ गोपानाम् आह—नन्दस् त्व् इत्य्-आदिना । तु-शब्दो भिन्नोपक्रमे । तत्-तद्-उक्त्या ज्ञातीनाम् औत्सुक्यार्ति-विवर्धनात् लोक-पालानाम् अपि महान्तम् उदयं वैभवं दृष्ट्वा, तेषाम् अपि कृष्णे सन्नतिं परम-भक्तिं च दृष्ट्वा, इति वरुण-लोकाद् आगच्छन् पथीन्द्रदीनाम् अपि महोदयं सन्नतिं चापश्यद् इति बहुत्वेन बोध्यते ।
यद् वा, तेषां वरुणादीनां वरुण-लोके\ऽन्येषां च सुर-श्रेष्ठानां वृत्तेस् तद्-अपेक्षया बहुत्वम् । यद् वा, महोदयादि-दृष्ट्या महत्त्वेन बहुत्वेन बहुत्वम् । अतीन्द्रियम् इन्द्रियाग्राह्यं विचित्रानन्त-रूपम् इत्य् अर्थः । विस्मितः, तेषां तादृश-सन्नत्य्-असम्भवात्, अतो ज्ञातिभ्य उपनन्दादिभ्यस् तं तां चाब्रवीत् । यद् वा, अव्ययानाम् एकार्थत्वाद् अप्य्-अर्थे तु-शब्दः । अ-कार-प्रश्लेषश् च तादृशं तं तां च दृष्ट्वापि अविस्मितः, केवलं ज्ञातीनां सन्तोषार्थं तान् प्रत्य् अब्रवीत् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं यद् गोविन्दत्वं दर्शितं, तस्यैव महिम-दर्शनाय तद्-आस्पदस्य महिमानं दर्शयति—नन्दस् त्व् इत्य्-आदिना । तु-शब्दो भिन्नोपक्रमे । तेषां वरुणस्य तल्-लोक-वासिनां च । विस्मित इति केवल-मधुर-नर-लीला-वेशाद् इति सिद्धान्तितम् एव । श्री-कृष्ण-प्रेमैव हि सर्वोत्कर्ष-हेतुर् न सम्पद्-आदय इति तद्-अपेक्षा चेत्, तेऽपि हि दर्शयिष्यन्त इति भावः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्मित इति केवल-मधुर-नर-लीलावेशाद् इति सिद्धान्तितं—नन्दस् त्व् इत्य्-आदिना ॥१०.१२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
कृष्ण-सन्दर्भः- तद् एवं वृन्दावन एव तस्य गोलोकाख्य-प्रकाशस्य दर्शनेनाभिव्यनक्ति—नन्दस् त्व् इति । अतीन्द्रियम् अदृष्ट-पूर्वम् । लोक-पालो वरुणः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतीन्द्रियं अतिचमत्कारवन्ति इन्द्रियाणि यतस् तम् । महोदयं महैश्वर्यम् । तेषां लोक-पालानाम् । अब्रवीद् इति द्वादशी-मध्य एव पारणं कृत्वा, आस्थान्याम् उपवेश्यैवेति ज्ञेयम् ॥१०॥
॥ १०.२८.११ ॥
ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : औत्सुक्य-युक्ता धीर् येषां ते । अपि किं स्व-गतिं स्व-स्थानं सूक्ष्मां ब्रह्माख्यां चोपाधास्यद् उपाधास्यति । नोऽस्मान् प्रापयिष्यतीति सङ्कल्पितवन्त इत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वगतिं स्वोपासकानाम् । सूक्ष्मां ब्रह्मानन्द-रूपां वैकुण्ठाप्ति-रूपं वा । उपधास्यति नोऽस्मान् प्रापयिष्यते । भो व्रज-राज त्वयैव पूवं गर्गोक्त्यास्य नारायण-साम्यम् उक्तं न तु नारायणत्वम्, सम्प्रति तु वरुणस् तुल्या साक्षाद् दृष्ट्वा यदि नारायणत्वम् एव निर्धारयसि तदा बन्धूनाम् अस्माकं सांसारिकाणाम् अप्य् अवश्यम् एव मनोरथमयं पूरयिष्यत्य् एव । यतस् तव पुत्र एव मम भ्रातुः पुत्रोऽस्य भगिनी-पुत्रोस्य दौहित्रः परमेश्वरोऽयम् अस्मिन्न् एते वं स्निह्याम एव, अयम् अप्य् अस्मास्वासज्जत्य् एव । तद् भो गोपाः परमेश्वरत्वाद् अस्मात् स्वस्ववाञ्छनीयं यथेष्टं गृहीतेत्य् उक्ते केचिद् आहुर् वयं मुक्ता एव बुभूषाम इति, अन्ये वयं वैकुक्ण्ठ-वासिन एव बुभूषामेति पृथक् पृथग् विविध-मतयो विविध-सङ्कल्पवन्तो बभूवुर् न तु यूवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भा।पु। १०.८५.१८] इति, तत् ते गतोऽस्म्य् अरणम् अद्य पदारविन्दम् [भा।पु। १०.८५.१९] इति, सखेति मत्वा प्रसभं यद् उक्तम् [गीता ११.४१] इत्य् आद्य् उक्तिमन्तो वसुदेवार्जुनादय इव ऐश्वर्य-ज्ञानो परागात् स्व-सम्बन्ध-शैथिल्यवन्तो बभूवुर् इत्य् अर्थः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपाः स्वभावतः प्रेम-विवशा अपि, हे राजन्न् इति स्नेह-भराकृआन्त-चित्तानाम् अपि तेषां तथा-मननेन कौतुकात् सम्बोधनम् । अन्यत् तैर् व्यञ्जितम् ।
यद् वा, औत्सुक्य-धियः कौतुकाक्रान्त-चित्ता बभूवुः, यतो गोपाः कृष्णवत् विचित्र-विनोद-परा । कथम्? तद् आह—अपीति, स्व-गतिम् आत्म-तत्त्वं सूक्ष्मां तद्-दर्शनाद्य्-अपेक्षया स्वल्पतराम् अपि नो\ऽस्मान् अपि किम्-उपायत्वेन भक्त्य्-उपकरणत्वेन बाधास्य दर्शयिष्यति ।
ननु, परम-पद-दातासौ स्वल्प-द्रव्यम् एतत् कुतो दास्यति ? तत्राहुः—अधीश्वरो भक्तानाम् अस्माकं परम-प्रभुः । यथानेकामूल्य-रत्नादि-विभूषितेनापि बालकेन कदाचित् क्रीडा-कौतुकेन प्रार्थ्यमानं काच-खण्डम् अपि पिता स्नेहेन दद्यात्, तद्वद् इति भावः ।
यद् वा, स्वस्य तस्य गतिं गम्यं स्थानं सूक्ष्म-व्यक्तं प्रपञ्चतीतं वास्मान् प्रापयिष्यति किम् ? न तु तस्य स्थानम् इदम् एव, तथाहुः—अधीश्वरो ब्रह्मादीनां सर्वेषां लोक-पालानाम् अपीश्वरः, अतो ब्रह्मादीनाम् इव तस्याप्य् ऐश्वर्यानुरूपम् अस्मद्-अगम्यं स्थानान्तरं भविष्यतीति भावः । इति कौतुक-विशेषेणैव तद् दिदृक्षैषाम् इति ।
यद् वा, सूक्ष्माम् अस्माद्-दुर्वितर्का स्वेषां निज-प्रिय-जनानां गतिं गम्यं पदं वैकुण्ठम् ।
यद् वा, वैकुण्ठस्योपरितन-प्रदेश-स्थं गोलोकाख्यम् अस्मान् न प्रापयिष्यति किम् ? स व्रज-जनाखिल-मनोरथ-परिपूरण-व्यग्रः, स्वयम् इति तैर् लज्जादिना साक्षाद् अविज्ञापितम् अपि स्वयम् एव विज्ञाय कृपयेव केवलं पितृ-स्नेहाक्रान्त-पुत्र-न्यायेन एतद् वक्ष्यमाणम् अचिन्तयत् । अन्यथा स्व एव तेषां तद् अशेष-सम्पत्त्या सङ्कल्प-सिद्ध्य्-अर्थं चिन्तनानुपपत्तेः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, इति उक्त प्रकारम् औत्सुक्यधीत्वं स्वानां व्रज-जनानाम् अशेष-दृक् सर्व-तत्त्वं जानन्न् अपीत्य् अर्थः । विज्ञाय तेषाम् औत्सुक्य-भरेण साक्षाद् इवानुभूय, यतो भगवान् सर्वैश्वर्य-युक्तः । अन्यत् समानम् ॥११-१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते तादृश-तन्-नित्य-परिकरा अपि प्रेम-विशेषेण गोपाः केवल-तद्-बान्धव-गोपत्वाभिमानिनः, अत औत्सुक्य-धियः लोक-पाल-मात्रस्य तादृशं लोकादि-वैभवम् अस्य वास्मदीय-रूपस्याप्य् अधीश्वरस्य कीदृशं स्यात् ? इत्य् उत्कण्ठित-धियः । अतः स्व-गति-शब्देनात्र स्व-स्थानम् इत्य् एव लभ्यते, न तु ब्रह्माख्याम् । सूक्ष्माम् इत्य् अनेन च न सा प्रोच्यते, स्व-गतिम् इत्य् अस्यैव विशेषणत्वेन प्रतीतेः । शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभाव इति न्याय-विरोधाद् अस्यैव पुनर्-आवृत्तिश् च न स्याद् इति सूक्ष्मां दुर्ज्ञेयाम् । तद् एवम् एषां तादृश-स्वगति-दिदृक्षा च तत्-प्रेम्णैव अधीश्वरता-ज्ञाने\ऽपि स्वाभाविक-पुत्रतादि-विज्ञानानुपमर्दात् ॥११॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११६) : स्व-गतिं स्व-धाम । सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यत् उपधास्यति नोऽस्मान् प्रति प्रापयिष्यतीति सङ्कल्पितवन्त इत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं स्तुत्वा ब्रह्माख्यां सूक्ष्मां शक्तिं दिदृक्षवस् ते मनोरथं चक्रुर् इत्य् आह—अपि न इत्य्-आदिः । अपिः सम्भावनायाम् । अधीश्वरः सर्वेश्वरः । सूक्ष्मां स्व-गतिं स्व-पदवीम् अपि उपाधास्यद् दर्शयेद् इति स्वानां ज्ञातीनां स स्वयं भगवान् श्री-कृष्णः सर्वज्ञो विज्ञाय विशेषेण ज्ञात्वा कृपयैतद् अचिन्तयद् इति परेणान्वयः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : औत्सुक्य-युक्त-धीर् येषाम् ते । स्व-गतिं स्वोपासकानाम् । सूक्ष्मां मायातीतां ब्रह्मानन्द-रूपां वैकुण्ठ-प्राप्ति-रूपां च । उपाधास्यात् उपधास्यति नोऽस्मान् प्रापयिष्यते । भो व्रज-राज ! त्वयैव पूर्वं गर्गोक्त्यास्य नारायण-साम्यम् उक्तं, न तु नारायणत्वम् । सम्प्रति तु वरुण-स्तुत्या साक्षाद् दृष्ट्वा यदि नारायणत्वम् एव निर्धारयसि, तदा बन्धूनाम् अस्माकं सांसारिकाणाम् अप्य् अवश्यम् एव मनोरथम् अयं पूरयिष्यत्य् एव । यतस् तव पुत्र एव मम भ्रातुष्-पुत्रोऽस्य भगिनी-पुत्रोऽस्य दौहित्रः परमेश्वरोऽयम् अस्मिन्न् एते वयं स्निह्याम एव, अयम् अप्य् अस्मास्व् आसज्जत्य् एव । तद् भो गोपाः ! परमेश्वरत्वाद् अस्मात् स्व-स्व-वाञ्छनीयं यथेष्टं गृह्णीतेत्य् उक्ते केचिद् आहुर् वयं मुक्ता एव बुभूषाम इति । अन्ये वयं वैकुण्ठ-वासिन एव बुभूषामेति पृथक् प्र्ठग् विविध-मतयो विविध-सङ्कल्पवन्तो बभूवुर् न तु, युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भा।पु। १०.८५.१८] इति, तत् ते गतोऽस्म्य् अरणम् अद्य पदारविन्दम् [भा।पु। १०.८५.१९] इति, सखेति मत्वा प्रसभम् यद् उक्तम् [गीता ११.४१] इत्य्-आद्य्-उक्तिमन्तो वसुदेवार्जुनादय इव ऐश्वर्य-ज्ञानोपरागात् स्व-सम्बन्ध-शैथिल्यवन्तो बभूवुर् इत्य् अर्थः ॥११॥
॥ १०.२८.१२ ॥
इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत्॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवं-भूतं स्वानां तेषां सङ्कल्पम् अखिल-दृक् सर्व-ज्ञः स्वयम् एव विज्ञाय तेषां सङ्कल्प-सिद्धये कृपयैतद् वक्ष्यमाणम् अचिन्तयत् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वानां स्वेषां ज्ञातीनां स्वोऽर्थ-ज्ञात्य्-अन्य-वाच्य् अपि इत्य् उक्तेः । अज्ञाति-धनाख्यायम् इत्य् उक्तेः अज्ञाति-धनाख्यायाम् इत्य् उक्तेः सर्व-नाम-कार्याभावः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वानां ज्ञातीनां स्वम् अज्ञाति-धनाख्यायाम् इति शब्द-स्मृतेः इति कृष्णस्य तथैव तत्-प्रेममयाभिमानं दर्शयति । स व्रज-जनाखिल-मनो-रथ-परिपूर्ण-व्यग्रः स्वयम् इति तैर् लज्जादिना साक्षाद् अविज्ञापितम् अपि स्वयम् एव विज्ञाय ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् एवं-भूतं स्वानां ज्ञातीनां सङ्कल्पं विज्ञाय तु स्वयम् अखिलं ब्रह्मानुभवं सुखं वैकुण्ठ-वास-सुखं व्रज-प्रेम-सुखं च पश्यति जानातीत्य् अखिल-दृक् । स्व-परिकर-प्रेम-तारतम्यत्वे तत्-सान्निध्ये ऐश्वर्यावरण-तारतम्यवत्त्वेऽपि तदानीं लीला-शक्ति-प्रेरण-वशाद् एव सम्पूर्ण-सर्वज्ञत्वोदयात् गोपानां, तेषां तु तत्-प्रेम-माधुर्य-कणिकयापि ब्रह्म-सुख-वैकुण्ठ-सुखयोर् नीचीनीकृतत्वेऽपि तेषां नर-लीलात्वेन मुग्धानां सङ्कल्प-सिद्धये तत्-सङ्कल्पितं ब्रह्म-सुखं वैकुण्ठ-सुखं च तान् अनुभावयिष्यन्न् इदम् अचिन्तयत् ॥१२॥
॥ १०.२८.१३ ॥
जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविद्या देहाद्य्-अहं-बुद्धिः, ततः कामः, ततः कर्म, तैर् उच्चावचासु देव-तिर्यग्-आदिषु भ्रमन् स्वीयां गतिं न वेद ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतस्मिन् लोके सांसारिक-सञ्चार-स्थाने स्वां स्व-बिम्ब-भूत-नारायणावाप्ति-रूपाम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतस्मिन् लोके मर्त्य-लोके । किं वा, प्रपञ्चे वर्तमानः सर्वोऽपि । वै प्रसिद्धौ । अन्यत् तैर् व्यञ्जितम् ।
तत्रायं भावः—अन्यो जनो न वेदैव, एते च योगीन्द्र-पूज्य-पादाः सर्व-ज्ञान-सेविता वैकुण्ठ-नित्य-पार्षदेभ्योऽपि मन्-नित्य-प्रियतमास् तिल-मात्र-मद्-विरहासहिष्णवो मया कदाचित् कथञ्चित् क्षणम् अपि त्यक्तुम् अशक्याः परम-परिपूर्णार्था एव, तथापि प्रेम-भरातृप्त्या कौतुक-स्वभावेनैव वा याम् इच्छां कुर्युस् तम् अप्य् अवश्यं पूरयिष्याम्य् एवेति ।
यद् वा, जनो मत्-सेवको गोप-वर्ग-लक्षणो वा अयम् । विद्या मद्-भक्ति-तत्त्वादि-ज्ञानं, ततः कामो मद्-विषयक-विचित्र-मनोरथः, ततः कर्म मत्-परिचर्या-लक्षणं, तैर् उच्चावचासु गतिषु प्रेम-विलासेषु मया सह नृत्यादि-विहारेषु वा भ्रमन्, सदा परिवर्तमानोऽपि स्वां गतिम् आत्म-तत्त्वं स्व-गम्य-वैकुण्ठ-लोकं न न वेद, नेञ्-द्वयेन वेदैवेत्य् अर्थः । मत्-प्रियतां सर्वेषाम् एव ज्ञान-ज्ञेयानाम् अन्तर्-भावात् तथाप्य् एषाम् औत्सुक्यं सफलं करिष्याम्य् एवेति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जन इति । अत्र स्वां स्वीयां गतिम् । स्वरूपम् इत्य् उच्यते चेत् पूर्वोक्त-स्व-गतिम् इत्य् अस्यानुवादो न स्यात् । स्व-स्वरूपं ज्ञानम् इति पक्षे च स्व-शब्देनात्र नात्मोच्यते । तत्र तस्य नपुंसकत्वात् गति-शब्देन ज्ञानं नोच्यते, वेद इत्य् अनेन पौनरुक्त्यात्, तद्-वाचकत्वे हि स्वं न वेदेत्य् एवावक्ष्यत । सङ्कल्प-सिद्धये [११] तेषाम् इत्य् उक्तत्वश् च न तद्-अर्थता घटते । नन्दस् त्व् अतीन्द्रियं दृष्ट्वा [१०] इत्य् अत्र हि तेषां लोक-पालस्य लोकादि-महोदयस्य तथापि कृष्णे सन्नतेश् च श्रवणेन तल्-लोकादि-महोदय-दर्शनस्य विवक्षितत्वात् स्व-गतिं सूक्ष्माम् इत्य् अत्र च द्वयोः सामानाधिकरण्यम् एवाव-गम्यते सूक्ष्मां दुर्ज्ञेयाम् तस्मात् जन-शब्देनापि न प्राकृतो जन उच्यते तेषां संसार एव गतिर् न तु तल् लोकादिर् इति । यदि च स एवोच्यते । तर्हि सर्वस्यापि तस्य तथा कृपा-प्राप्ति-प्रसङ्गः स्यात्, किन्तु तच्-छब्देन तदीय-स्वजन एवोच्यते, सालोक्य-सार्ष्टीत्य्-आदि-पद्यं जना इतिवत् । अत्र तु प्रस्ताव-बलात् व्रज-वासि-जन एवोच्यते । तस्य हि तदीय-परम-स्वजनत्वं स्वयम् एव श्री-भगवता भावितम्—
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रज आहितः ॥ [१०.२५.१८] इति ।
उक्ते च तदीय-स्वजने तस्याविद्यादि-मयोच्चावच-गतेः सिद्धान्तासिद्धत्वात् प्रस्तुत-स्वयम् एवार्थो जनो व्रज-वासि-लक्षणो मदीय-स्वजन-समूहो\ऽयम् अविद्यादिभिर् हेतुभिर् या उच्चावचागतयो देव-तिर्यग्-आदयः, तास्व् अभिव्यक्तत्वेन स्वां गतिं भ्रमन् तन्-निर्विशेषतया जानन् ताम् एव स्वां गतिं न वेद न जानति, अहो कष्टम् इति यन् माधुर्यावेशेन ज्ञानांशावरणात् इति भावः ।
यद् वा, जनो व्रज-वासी मदीय-स्वजनोऽयम् एतस्मिन् सम्प्रति स्वावताराङ्गीकृते लोके प्रापञ्चिके अविद्या मल्-लिलावेशाद् अन्याननुसन्धानं, कामः मद्-विषयक-विचित्र-मनो-रथः, कर्म मदीयानुकूल्यमय-क्रिया, नाविदन् भव-वेदनाम् [१०.११.५८], यद् धामार्थ-सुहृत् [१०.१४.३५] इत्य्-आदि-दर्शनात्, तैर् उच्चावचासु-नाना-विधासु गतिषु प्रेम-जनेषु स्वां गतिं अनादि-सिद्धां परम-गोलोकादि-वैभव-रूपां भ्रमन् विस्मरन्, ताम् एव स्वां गतिं न वेद न जानातीत्य् अर्थः । अविद्यादि-शब्देनोपादानं च कारुण्य-कृतानुतापेनाधिक्षेपाद् एव ॥१३॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११६) : जन इति । जन-शब्देन तदीय-स्वजन एवोच्यते । सालोक्य-सार्ष्टि [भा।पु। ३.२९.१३] इत्य्-आदि पद्ये जना इतिवत् । अत्रैते मत्-सेवनं विना प्राप्यमाणा सालोक्यादि-परित्यागेन तत्-सेवैक-वाञ्छा-व्रताः साधका एवेति लभ्यते । न वेद स्वां गतिं इत्य् अत्र तु श्री-भगवता तस्मिन् लोके स्वीयत्व-तदीयत्वयोर् एकत्व-मननेन स्वाभेद एव प्रतिपादित इति परम एवासौ तदीय-स्वजनः। अत एव,
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८]
इति स्वयम् एव भगवता मत्-परिग्रहम् इत्य् अनेन स्वस्मिंस् तत्-परिकरता, मच्-छरणम् इत्य्-आदि-क्रम-प्राप्त-बहुव्रीहिणा दर्शिता, सोऽयं मे व्रतः इत्य् अनेन स्वस्य तद्-गोपन-व्रतता च । तद् एवं व्रजवासि-जन एव लब्धे, तं प्रत्य् एव करुणया दर्शितवान् । न त्व् अन्यान् स्वां गतिम् इति सामानाधिकरण्ये एव व्यक्ते । न तु ताभ्यां पदाभ्यां वस्तु-द्वयम् उच्यते । स्व-गतिं सूक्ष्माम् इति पूर्वोक्तम् अपि तथा । तस्मात् तल्-लोक-दर्शनम् एवोभयत्र वैकुण्ठितम् । वैकुण्ठिते च तल्-लोके स तु जन-मात्रस्य स्व-गतिर् न भवतीति च जन-शब्देन तद्-विशेष एव व्याख्यातः।1 तद् एवं सत्य् अयम् अर्थः—जनोऽसौ व्रज-वासी मम परम-2स्वजनः ।
एतस्मिन् प्रापञ्चिक-लोके । अविद्यादिभिः कृता या उच्चावचागतयो देव-तिर्यग्-आदयः, तासु स्वां गतिं भ्रमन् ताभ्यो निर्विशेषतया जानन्, ताम् एव स्वां गतिं न वेदेत्य् अर्थः । ततो माम् अपि सर्वोत्तमतया प्रेम-भक्त्या सर्वोत्तमतया द्रष्टुर् एतस्य यद्यपि तत्-तल्-लीला-रस-पोषाय मदीय-लीला-शक्त्यैव भ्रमादिकं कल्पितम् । न पुनर् अविद्यादिभिः ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] इति ।
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.२५] इत्य्-आदि । तथाप्य् एतस्येच्छानुसारेण क्षण-कतिपयम् एतदीयाम् ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् वा, जनो व्रजवासी मदीय-स्वजनोऽयम् एतस्मिन् सम्प्रति स्वावताराङ्गी-कृते लोके प्रापञ्चिके अविद्या मल्-लीलावेशेनान्याननुसन्धानं, कामः मद्-विषयक-विचित्र-मनोरथः, कर्म मदीयानुकूला क्रिया, नाविन्दन् भव-वेदनां [भा।पु। १०.११.५८], यद्-धामार्थ-सुहृत्-प्रियात्म- [भा।पु। १०.१४.५५] इत्य्-आदि-दर्शनात् । तैर् उच्चावचासु नाना-विधासु गतिषु प्रेम-जनेषु स्वां गतिम् अनादि-सिद्धां परम-गोलोकादि-वैभव-रूपां भ्रमन् विस्मरन्, ताम् एव स्व-गतिं न वेद न जानातीत्य् अर्थः ।
अत्रेदं विवेचनीयम्—अत्र स्व-शब्देन स्वरूपं नोच्यते, तत्र तस्य नपुंसकत्वात् । गति-शब्देन च ज्ञानं नोच्यते, वेदेत्य् अनेन पौनरुक्त्यात् । तद्-वाचकत्वे हि स्वं न वेदेत्य् एव वक्ष्यते । सङ्कल्प-सिद्धये तेषाम् इत्य् उक्तत्वाच् च, न तद्-अर्थता घटते, नन्दस् त्व् अतीन्द्रियं नन्दस् त्व् अतीन्द्रियं दृष्ट्वा इत्य् अत्र हि तेषां लोक-पालस्य लोक-पालादि-महोदयस्य, तथापि कृष्णे सन्नतेश् च श्रवणेन तल्-लोकादि-महोदय-दर्शनस्य वैकुण्ठितत्वात्।
स्व-गतिं सुक्ष्माम् इत्य् अत्र च द्वयोः सामानाधिकरण्यम् एवावगम्यते । सुक्ष्मां दुर्ज्ञेयां तस्माज् जन-शब्देनापि न प्राकृतो जन एव उच्यते । तेषां संसार एव गतिः, न तु तल्-लोकादिर् इति, किन्तु तच्-छब्देन भागवतो जन उच्यते, सालोक्य-सार्ष्टि- [३.२९.१३] इत्य्-आदि-पद्ये जना इतिवत् । उक्तं च भागवते जने रस्याविद्यदि-मयोच्चावच-गतेर् असिद्धान्तत्वाद् उक्त एवार्थः समञ्जसः ॥१३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनः प्रस्तुतत्वान् मत्-पित्र्-आदि-व्रजवासी एतस्मिन् भूर्-लोके अविद्या आत्म-स्वरूप-ज्ञानं, ततः कामस् ततः कर्म तत उच्चावचासु गतिषु वरुणादि-देव-लोक-गत-सुखैश्वर्य-मयीषु भूर्-लोक-गत-मनुष्य-तिर्यग्-आदि-दुःखानैश्वर्य-मयीषु च दृष्टासु भ्रमन् नर-लीलत्वाद् एव स्वेषां सांसारिकत्व-बुद्ध्या भ्रमं प्राप्नुवन् स्वां गतिं सर्वैर् अपि दुर्लभां वर्तमानां स्व-पदवीं न वेद । यद् अयं मत्-पिता वरुण-लोकं गतस् तत्रत्यां मायिकीम् एव सम्पदं दृष्ट्वा निखिल-वैकुण्ठ-सारम् अपि वृन्दावनं तस्माद् अपि न्यूनं मन्यते । यथा मुग्धः कश्चित् कृत्रिम-मुक्ताया आकार-तेजः-सौष्ठव-दृष्ट्या लब्ध-चमत्कारो वास्तवानर्घ्य-मुक्तां ततो न्यूनं वेत्ति । तथैव ब्रह्मादि-दुर्लभ-चरण-रेणुम् अप्य् आत्मनो वराकाद् वरुणाद् अपि निकृष्टान् एव मन्यते । तथैव नित्यम् आस्वाद्यमान-महा-माधुर्यान् मद्-विषयक-पुत्रादि-भाव-मय-प्रेमवतोऽपि मुक्ति-वैकुण्ठ-लोकावधिकौ मन्यते । तौ खलु मद्-अधीनाद् एव, न तु तयोर् अहम् अधीनः । केनचित् क्वचिद् दृष्टः प्रेम्णस् त्व् अहम् अधीन एव सर्वैर् दृश्यमान एवास्मीत्य् अपि विवेकं न भजते ।
किं च, मुक्तौ खलु ब्रह्मैवास्वाद्यते । तच् च ब्रह्म यस्य प्रभा प्रभवत इत्य् अत्र, तद् ब्रह्म निष्कलम् अनन्तम् इति ब्रह्म-संहितोक्तेः, ब्रह्मणो हि प्रतिष्ठाहम् [१४.२७] इति मद्-उक्तेः, मदीयं महिमानं च परं ब्रह्मेति शब्दितम् [८.२४.३८] इति मद्-अंश-मत्स्य-देवोक्तेश् च मदीयं निर्विशेषं व्यापकम् अतीन्द्रियं ज्योतिर् एव । सोऽहम् एव यस्य प्रेम-करणकास्वाद-विषयी-भूत-माधुर्यःपुत्रादि-रूपतया सदा वर्ते एव ।
तथा अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी इति पाद्मोक्तेर् मथुरा-मण्डल-मध्य-वर्तीदं वृन्दावनं वैकुण्ठाद् अपि श्रेष्ठं, यस्य निवासतया सदा वर्तत एव । न च महा-प्रलयेऽप्य् अस्य काचित् क्षतिः, भू-गोल-चक्रे सप्त पुर्यो भवन्ति । तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी हि इति, यथा सरसि पद्मं तिष्ठति तथा भूम्याम् इति गोपाल-तापनी-श्रुतेः ।
प्राकृते प्रलये प्राप्ते व्यक्तेऽव्यक्तं गते पुरा ।
शिष्टे ब्रह्मणि चिन्-मात्रे काल-मायातिगेऽक्षरे ।
ब्रह्मानन्द-मयो लोको व्यापी वैकुण्ठ-संस्थितः ।
निर्गुणोऽनाद्य् अनन्तश् च वर्तते केवलेऽक्षरे ॥ इति बृहद्-वामन-वाक्याच् च ।
तद् अपि मुक्ति-वैकुण्ठ-लोकाव् अदृष्ट-चरत्वाद् एव यल् लब्धं स्पृहयति, तद् एनं तौ सम्प्रति साक्षाद् उपलम्भयामीति भावः ।
अत्र "जनोऽयं व्रज-वासी अविद्या-काम-कर्मभिर् उच्चावचासु देव-तिर्यग्-आदिषु भ्रमन् पुनः पुनः पर्यटन् स्वां गतिं मया दास्यमानं मुक्तिं वैकुण्ठ-स्थितिं च न वेद" इति कुव्याख्यानं न घटते । व्रज-वासिनो नन्दादेः कृष्णे पुत्रादि-भाववतो नित्य-सिद्धत्वाद् एवाविद्या-काम-कर्म-घटितः संसारो न सम्भवेत् । यद् उक्तं,
तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणं ।
न पुनः कल्पते राजन् संसारोऽज्ञान-सम्भवः ॥ [१०.६.४०] इति ।
न च मुक्ति-वैकुण्ठ-स्थित्योर् अपि दास्यमानत्वं एषां घोष-निवासिनाम् उत भवान् किं देव रात [१०.१४.३५] इति ब्रह्मोक्तेर् एवेत्य् अखिलं पूतना-वधान्ते स-युक्तिकं व्याख्यातं द्रष्टव्यम् ॥१३॥
॥ १०.२८.१४ ॥
इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वं ब्रह्म-स्वरूपं लोकं वैकुण्ठाख्यं च । तमसः प्रकृतेः परम् ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् उक्त-विधया । प्रकृतेः परम् अप्राकृतम् इत्य् अर्थः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इति सञ्चिन्त्य भगवान् इत्य् अस्यायं भावः—अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः [भा।पु। १०.२८.१२] इत्य् अत्र स्व-गतिं स्व-स्थानं सूक्ष्मां प्रकृतैर् अदृश्यां ब्रह्म-भूतां वा, स्व-स्थानम् एव तस्य ब्रह्म, क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः [भा।पु। ११.२०.३७] इति वक्ष्यमाणत्वात् । इति तेषां सङ्कल्पं विदित्वा, अहो एषां भ्रमः, मां दृष्ट्वापि द्रष्टव्यान्तराय स्पृहयति ! इति तेषां मोहे करुणावान् सन् स्वं लोकं दर्शयामास । कीदृशम् ? तमसः परम् ॥१४॥
दिग्दर्शिनी (बृ।भा। १.१.४४) : अस्यार्थः—तमसः प्रकृतेः परं लोकम् एव विशिनष्टि—सत्यम् इति । ब्रह्म व्यापकं । यद् वा, सत्यादि-रूपं यद् ब्रह्म तत्-स्वरूपम् इत्य् अर्थः । अत एव “यद् ब्रह्म” इति पाठे\ऽपि यद् इति ब्रह्म-विशेषणत्वान् नपुंसकत्वम् अव्ययत्वाद्, यम् इति वा । मुनयः आत्मारामाः । पश्यन्ति ज्ञान-चक्षुषा केवलं, न तु लभन्त इत्य् अर्थः ॥४४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् उक्तं सञ्चिन्त्य विचार्य सङ्कल्प्य वा । तत्र हेतुः—महा-कारुणिक इति । कृपयेतिवद् उक्तार्थम् एव, पुनर् अपि स एव हेतुः, कृपातिरेक-व्यतिरेकेण हेत्व्- अन्तरासम्भवात् । स्वं स्वकीयं लोकं स्वरूपं गोपानां गोपान् प्रति दर्शयामास साक्षात्कारयामास । तम् एव विशिनष्टि—तमसः परम् इत्य्-आदिना । भगवान् सर्वैश्वर्य-परिपूर्ण इति, तद्-दर्शने अनायासो\ऽभिप्रेतः, यतो विभुर् व्यापकः, विभूतित्वेन ब्रह्मणो\ऽपि तद्-अधीनत्वाद् इत्य् अर्थः ।
यद् वा, दर्शयामास इत्य् अत्र हेतुः—भगवान् साक्षात् परमेश्वरस् तत्रापि महा-कारुणिको विशेषतः कृपा-भर-प्रकटन-पर इत्य् अर्थः । तत्रापि, गोपानां विभुः प्रभुः, तेषां प्रेम-परवश इत्य् अर्थः, तादृश-सञ्चिन्तने हेतुश् च पूर्वम् उक्त एव—कृपयेति । सत्यम् [१५] इत्य्-आदिना ब्रह्मणः प्रपञ्चाद् वैलक्षण्यम् उक्तम् । तत्र यथोत्तरं हेतु-हेतुमत्तोह्याः । हि यतः एवेति वा । यद् एवेति तद्-दर्शनं निरस्तम्, अप्य्-अर्थे च-कारः । कृष्णेनोद्धृता अपि ब्रह्मणो लोकं [१६] स्व-स्वरूपम् एव ददृशुः । तत्र मग्नतया परमाभिनिविष्टत्वात्, यत्र यस्मिन् कृष्णे विषये ब्रह्मणो लोकम् अक्रूरो\ऽध्यगात्, अंशत्वेन कृष्णान्तर्-भूतम् एव ज्ञातवान् । इति भक्तेषु परम-कारुणिकत्वं तथा भगवत्त्वं विभुत्वं त्व् अभिव्यञ्जितम् एव । तत्र ब्रह्मणो लोके कृष्णं सच्-चिद्-आनन्द-घन-मूर्तिं भगवन्तं रश्मि-जाले तेजो-घन-सूर्याम् इव दृष्ट्वा न चात्र सन्देह इत्य् आह—छन्दोभिः स्तूयमानं [१७] तथैव सङ्कीर्त्यमान-महात्म्यम् इत्य् अर्थः । ब्रह्म स्व-स्थानं चेति द्वय-सङ्कल्पन-पक्षे द्वयम् इव दर्शयामासेति तैर् व्यञ्जितम् एव ।
वैकुण्ठ-स्थ-गोलोकस्य वा प्राप्ति-सङ्कल्प-पक्षे चायम् अर्थः—स्वं स्वकीयं लोकं वैकुण्ठाख्यम् । यद् वा, गोपानां स्वं स्वाधीनं गोलोकम् इत्य् अर्थः । प्रकृतेः परम् इत्य्-आदि-विशेषण-बलाद् वैकुण्ठम् । किं वा, गोलोकम्, प्रसङ्ग-बलात् गोपान् प्रत्य् एवेति प्राप्तं स्याद् एव ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपानां सम्बन्धि स्वं लोके श्री-गोलोकम् इत्य् अर्थः । तस्य प्रकृति-विकारेऽभिव्यक्तत्वम् अपि निषेधति—तमसः परम् इति । क्वाहं तम [७.९.२६]3 इत्य्-आदौ तमः-शब्देन प्रकृति-निर्देशात् विभुर् इति तस्य तादृश-वैभवस्य सदा सर्वत्र सिद्धत्वाद् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११६) : ततोऽयं भ्रमो यद्यपि तत्-तल्-लीला-पोषायैव मदीय-लीला-शक्त्या कल्पितः, तथापि एतस्येच्छानुसारेण क्षण-कतिपयम् एतदीयां सर्व-विलक्षणां स्वां गतिं दर्शयन् तम् अपनेष्यामीति भावः । वैलक्षण्यं चाग्रे व्यञ्जनीयम् । गोपानां स्वं लोकं श्री-गोलोकं । यः खलु गोपी-गोपैर् असङ्ख्यातैः सर्वतः समलङ्कृतम् इति मृत्यु-सञ्जय-तन्त्रे वर्णितम् । तथा—
पद्माकृति-पुरो-द्वारि लक्ष-मण्डल-नायिकाः ।
रामादयस् तु गोपालाश् चतुर्-दिक्षु महेश्वराः ॥
इति नारद-पञ्चरात्रे विजयाख्याने वर्णितः । चिन्तामणि-प्रकर-सद्मसु [ब्र।सं। ५.४०] इत्य्-आदि ब्रह्म-संहितादिषु वर्णित4-व्यक्त-वैभवातिक्रान्त-प्रपञ्च-लोक-महोदयस् तम् एवेत्य् अर्थः । तमसः प्रकृतेः परं प्रपञ्चानभिव्यक्तत्वेन तदीयेनाप्य् असङ्करम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्राविद्यादि-शब्द-प्रयोगस् तु कारुण्यातो निर्वेदाद् एवेति ज्ञेयम् । गोपानां सम्बन्धि स्व-लोकं तस्य प्रकृति-मयत्वं निषेधति—तमस इति ॥१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : दर्शयामि न वेति चिन्तयन् यद् अकरोत् तद् आह—इति सञ्चिन्त्येति । इति सन्देहतः सञ्चिन्त्य स्व-लोकं दर्शयामास । कुतः ? तत्राह—महा-कारुणिकः । तत्-सामर्थ्यम् आह—विभुः सर्व-शक्ति-सम्पन्नः । कीदृशम् ? तमसः परं निर्गुणम् । तमः-शब्दोऽत्र गुण-मात्र-परः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति सञ्चिन्त्य स नित्यास्पदस्य श्री-वृन्दावनस्य सर्वोत्कर्षं ब्रह्म-वैकुण्ठ-सुखानुभावनयैव साम्प्रतं ज्ञापयामीति विचार्य स्वं ब्रह्म-स्वरूपं लोकं च वैकुण्ठाख्यं दर्शयामास । वृन्दावनाद् वियोज्य पञ्चषा क्षणात् ते एव प्रापयामासेति भावः। यतो महा-कारुणिकः । व्यतिरेकेणैव वृन्दावनस्य माधुर्यं ताभ्याम् अप्य् उत्कृष्टं ज्ञापयितुम् इति भावः ।
ननु, ब्रह्म-दर्शनेनैव ब्रह्म-प्रापणा सैव सायुज्य-मुक्तिस् तेषां ततो निष्क्रमणासम्भवात् । कथं तेषाम् पुनर् वृन्दावनीय-माधुर्ये ऽनुभावना ? इत्य् अत आह—विभुः सायुज्य-मोक्षात् वैकुण्ठाच् च निष्क्रामयितुम् अपि समर्थ इत्य् अर्थः । स्वं लोकं च विशिनष्टि—तमसः प्रकृतेः परम् ॥१४॥
॥ १०.२८.१५ ॥
सत्यं ज्ञानम् अनन्तं यत् ब्रह्म ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देहादि-पिहितानां दर्शनम् अशक्यम् इति प्रथमं देहादि-व्यतिरिक्तं ब्रह्म-स्वरूपं दर्शयाम् आस । तद् आह—सत्यम् इति । सत्यम् अबाध्यं ज्ञानम् अजडम् अनन्तम् अपरिच्छिन्नं ज्योतिः स्व-प्रकाशं सनातनं शश्वत् सिद्धं ब्रह्मगुणापाये गुणापोहे ज्ञानिनो यत् पश्यन्ति, तत् कृपयैव दर्शयाम् आस ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देहादि-पिहितानां देहादिष्व् आत्म-दृष्टीनाम् । यद् गुणापाये तद्-आवरण-सङ्क्षये मुनयः पश्यन्ति तद् इति द्वयोर् अन्वयः । अबाध्यं ज्ञानान्तरेण विषयासत्त्व-प्रतीतिर् बाधः, तद्-योग्यं बाध्यम्, तद्धीनम् अबाध्यम् इत्य् अर्थः । अन्त इयत्ता, तद्-रहितम् अनन्तम् । सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य्-आदि-बहु-श्रुति-प्रतिपादितं दर्शयामासेति पूर्वेणान्वयः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सत्यं ज्ञानम् अनन्तं सनातनं ज्योतिर् यद् ब्रह्म, यद् धि ब्रह्म गुणापाये मुनयः पश्यन्ति, स एव तस्य लोकः ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोकत्वे\ऽपि सच्-चिद्-आनन्द-रूपतां वदन् तम् एव विशिनष्टि—सत्यम् इति । ब्रह्मत्वम् एव साधयति—यद् इति, एवार्थे हि शब्दः । यद् यस्मात् मुनयो योगेश्वरा अपि गुणापाये माया-गूणातिक्रमे सत्य् एव, तत्रापि समाहिताः समाधि-पराः सन्त एव पश्यन्ति । यत् यम् इति वा, अतो गुणातीततया तस्यापि सच्-चिद्-आनन्द-रूपत्वेन ब्रह्मत्वं सिद्धम् एव । यद् वा, अ-कार-प्रश्लेषेण अगुणो मोक्षः, तस्यापोहे त्यागे सत्य् एव आत्मारामा अपि भक्तौ सावधानाः सन्तो यत् पश्यन्ति । तथा चोक्तं द्वितीय-स्कन्धे—
तस्मै स्व-लोकं भगवान् समाजितः
सन्दर्शयामास परं न यत् परम् ।
व्यपेत-सङ्क्लेश-विमोह-साध्वसं
स्व-दृष्टवद्भिर् विबुधैर् अभिष्टुतम् ॥
प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः ।
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ [भा।पु।२.९.९-१०] इति ॥
इतिहास-समुच्चये मुद्गलोपाख्याने—
ब्रह्मणः सदनाद् ऊर्ध्वं तद्-विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति तद् विदुः ॥ इति ॥
ब्रह्मणः सदनं ब्रह्म-रूप सदनम्, राहोः शिरः इति वद-भेदे\ऽपि षष्ठो, विरजापरम-व्योम्नोर् मध्यस्थ-मुक्ति-पदम् इत्य् अर्थः ।
तथा च पाद्मोत्तर-खण्डे—
प्रधान-परम-व्योम्नोरन्तरे विरजा नदी ।
तस्याः पारे परव्योम त्रिपाद्-भूतं सनातनम् ॥
विरजा परम-व्योम्नोर् अन्तरे केवलं स्मृतम् ।
तत् स्थानम् उपभोक्त-व्यम-व्यक्त-ब्रह्म-सेविना ॥
तस्मात् श्री-नारद-पञ्चरात्रे श्री-ब्रह्म-नारद-सम्वादे जितन्ते-स्तोत्रे—
लोकं वैकुण्ठ-नामानं दिव्य-षड्-गुण-संयुतम् ।
अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥
नित्य-सिद्धैः सम्यकीर्णं तन्-मयैः पाञ्चकालिकैः ।
सभा-प्रासाद-संयुक्तं वनैश् चोपवनैः शुभम् ॥
वापी-कूप-तडागैश् च वृक्ष-षण्डैः सुमण्डितम् ।
अप्राकृतं सुरैर् वन्द्यम् अयुतार्क-सम-प्रभम् ॥ इति ॥
दिव्यैर् लोकातीतैर् अप्राकृतैः षड्-गुणैर् ऐश्वर्यदिभिः संयुतं श्री-भगवत् तुल्यत्वात्, नित्य-सिद्धैः श्री-गरुडादि-नित्य-पार्षदैः, पाञ्चकालिकैः पञ्चसु प्रातर्-आदिषु कालेषु सेवा-परैः । ब्रह्माण्ड-पुराणे श्रीमज्-जन्माष्टमी-माहात्म्ये श्री-वैकुण्ठ-लोक वर्णने—
तम् अनन्त-गुणावासं महत् तेजो दुरासदम् ।
अप्रत्यक्षं निरुपमं परानन्दम् अतीन्द्रियम् ॥ इति ॥
अनन्तानाम् अपरिच्छिन्नानाम् अनन्तस्य वा श्री-भगवतो गुणानाम् आवासं वसति स्थानम्, महतां श्री-ब्रह्मादीनां तेजसा प्रभावेणापि दुरासदम् अलभ्यम् । यद् वा, महद् अपरिच्छिन्नं यत् तेजः परम-ब्रह्म तत् स्वरूपं सच्-चिद्-आनन्द-घनम् इत्य् अर्थः । अत एव दुरासदम्, यतो\ऽप्रत्यक्षं चक्षुर्-अग्राह्यम् अतीन्द्रियं मन-आदि-वृत्त्य्-अतीतम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तमसः परं किं नाम वस्त्व् इत्य् अपेक्षायां तत् तावत् सामान्यतो निरूपयति—सत्यम् इति ॥१५॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११६) : अत एव सच्चिदानन्द-रूप एवासौ लोक इत्य् आह—सत्यम् इति । सत्यादि-रूपं यद् ब्रह्म यच् च मुनयो गुणात्यये [गुणापाये] पश्यन्ति, तद् एव स्वरूप-शक्ति-वृत्ति-विशेष-प्राकट्येन5 सत्यादि-रूपाव्यभिचारिणं गोलोकं सन्तं दर्शयामासेति पूर्वेनान्वयः । यथान्यत्रापि वैकुण्ठे भगवत्-सन्दर्भोदाहृतं पाद्मादि-वचनं ब्रह्माभिन्नता-वाचित्वेन दर्शितं, तद्वत् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तमसः परः किं नाम वस्तु ? इत्य् अपेक्षायां तत् तावत् सामान्यतो निरूपयति—सत्यम् इति ॥१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एव विशिष्य वर्णयति—सत्यं ज्ञानम् इत्य्-आदि । सत्यं ज्ञानम् अवबोध-स्वरूपं, अनन्तम् अपरिच्छिन्नं, ब्रह्म चैतन्य-रूपं, ज्योतिः स्व-प्रकाशकम्, सनातनं नित्यं सत्-स्वरूपम् । यद् धि गुणापाये मुनयः पश्यन्ति, तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः [ऋ।वे। १.२२.२०], क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः [भा।पु। ११.२०.३७] इति च । ब्रह्माख्यं किम् अपि वस्तु ? तद् एव तस्य स्व-लोकः। उक्तं च—कैवल्यम् इव मूर्तिमत् इति वैष्णव-सिद्धान्त-मतानुवादः । उक्तं च भगवतैव—वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् [भा।पु। २.९.२०] इत्य् अत्र मनीषिता तस्यैवेच्छा । एवं सति वृन्दावनम् एव तथैव ददृशुः । भौमाभौम-वैकुण्ठं यत् प्राग् उक्तं तत्र भौमत्वं तिरोधाप्याभौमत्वं दर्शयामासेत्य् एषैव सूक्ष्मा गतिः पदवी । तस्यान्यथा अपि नः स्व-गतिं सूक्ष्मां [भा।पु। १०.२८.१२] इत्य्-आदिना कृत-मनोरथेभ्यस् तेभ्यः स्व-लोकं दर्शयामासेति वृन्दावनस्य स्व-लोकाभावाद् विपरीतत्वम् आपद्यते ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यम् अवाध्यं ज्ञानम् अजडम् अनन्तम् अपरिच्छिन्नं सनातनं शश्वत् सिद्धम् । यत् मुनयो ज्ञानिनः गुणापाये गुणातीतत्वे सति पश्यन्ति । वृन्दावनस्यापि ब्रह्मानन्द-स्वरूपत्वेनैतादृशत्वेऽपि माया-विभूति-मध्य-वर्तित्वेनैव माधुर्याधिक्यं, यथा दीप-ज्योतिषस् तमो-मध्य-वर्तित्वेन । अत एव तमसः परं, न तु तमो-मध्य-वर्ति-सत्य-ज्ञानादि-रूपं ज्योतिर् दर्शयामास ।
किं च, ब्रह्म-स्वरूपतोऽपि विचित्र-लीला-मयं भगवत्-स्वरूपम् अतिमधुरं शुकदेवादि-भक्तात्मारामानुभवाद् अवसीयते । तच् च भगवद्-वपुः सर्व-व्यापकम् अपि परिच्छिन्नं यद् विकार-रहितम् अप्य् अप्राकृत-जन्मास्तित्व-वृद्ध्य्-आदि-सहितं तरङ्गादि-दोष-शून्यम् अपि क्षुत्-पिपासा-प्रस्वेद-भय-मोह-सङ्ग्रामिक-शस्त्र-घातादि-सहितम् अतर्क्यानन्त-शक्तित्वाद् एव यथा तथैव, पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् इति भगवद्-उक्तेः । वृन्दावनम् अपि ब्रह्म-दृष्टानन्त-कोटि-ब्रह्माण्ड-व्यापकम् अपि परिच्छिन्नम् स्मरेत् पुनर् अतन्त्रितो विगत-षट्-तरङ्गाम्बुधः इत्य्-आगमादि-वाक्यात् तरङ्गादि-दोष-रहितम् अपि क्षुत्-पिपासा जन्म-जरा-च्छेद-भेदादिमन्-मनुष्य-पशु-खग-नगादिकम् अपि नित्यम् एवेत्य् अनन्त-चमत्काराश्रयम् इति ॥१५॥
॥ १०.२८.१६ ॥
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं ब्रह्म-ह्रदं ब्रह्मैव ह्रदवद् ध्रदः । तत्र निमग्नस्य विशेष-विज्ञानाभावात् तं ब्रह्म-ह्रदं ते तु नीताः प्रापिताः, तस्मिन् मग्नाश् च । तु-शब्दोक्तं विशेषम् आह—पुनः कृष्णेनोद्धृताः समाधेर् इवोत्थापिताः सन्तो ब्रह्मणस् तस्यैव लोकं वैकुण्ठाख्यं ददृशुर् इति ।
ननु ब्रह्म-निमग्नानां पुनर् लोक-दर्शनम् अघटितम् एवेत्य् आशङ्क्याह—यत्रेति । यत्र यस्मिन् कृष्णे निमित्ते सति पूर्वम् अक्रूरोऽध्यगाद् दृष्टवान् । शुक-परीक्षित्-संवादात् प्राक्तनत्वाद् भूत-निर्देशः । न ह्य् अतर्क्यैश्वर्ये भगवति किञ्चिद् अप्य् असम्भावितम् इति भावः ।
अथवा, अक्रूरो यत्र दृष्टवांस् तस्य यमुना-ह्रदस्य ब्रह्म-ह्रद इति नाम । तं ह्रदं नीताः सन्तो ब्रह्मणो लोकं ददृशुः । पुनश् च कृष्णेनोद्धृताः पूर्ववत् तं दृष्ट्वा विस्मिता बभूवुः । व्यवहितान्वयोऽप्रसिद्ध-कल्पना च सोढव्येति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-दर्शनम् आक्षिपति—नन्व् इति । तत्रोत्तरम्—यत्रेति । शास्त्र-स्थानादित्वाद् व्यासादीनां प्राकट्य-कर्तृत्वेन भूत-निर्देशो नानुचित इति समाधेयम् । इति भाव इति—न ह्य् अचिन्त्याद्भुत-वैभवस्य किम् अप्य् अघटितम् इति तात्पर्यम् । ब्रह्मणि ह्रदत्व-कल्पनातः कालिन्द्यां ह्रदत्व-कल्पना वरीयसी प्रसिद्धा च । ब्रह्मणि चाप्रसिद्धाप्रसिद्धेः । प्रसिद्धिर् एव वरेत्य् आशयेनाह—अथवेति । अत्रेतिहास-कल्पनापि विजयध्वज-कृतास्ति, तथा हि—हे कृष्ण यदि त्वं परं ब्रह्म, तर्हि नः स्व-लोकं दर्शयेति गोपैः प्रार्थितेन श्री-कृष्णेनोक्तम्—यदि मल्लोक-दिदृक्षा, तर्हि शुद्धेन चक्षुषा भाव्यम् । अतो\ऽस्याः कालिन्द्या ह्रदे मज्जनानन्तरं द्रक्ष्यथेत्य् उक्तास् तथा कृत्वा शुद्ध-चक्षुषा तत्र स्थितं ब्रह्माभिन्नं कृष्णम् अपश्यन्न् इति । उद्धृताश् च—ब्रह्म-लोकात् पुनस् तद्-अभिप्रायेण व्रजम् एवापिता इत्य् अर्थश् चाद् अनुक्त-समुच्चायकाज् ज्ञेयः । तद्-अभिप्रायश् च,
कालिन्दी न तथैव नास्ति पुलिनं गोवर्धनो नो गिरिर्
वेणुर् नास्ति न चास्ति गोप-सुखदो वंशीवटाख्यो वटः ।
अस्मिन् नास्ति च कृष्ण-केलि-विपिनं नो वा गवां चारणं
किं कुर्मो मधुसूदनस्य नगरे सर्वे\ऽपि तूष्णीं स्थिताः ॥
इत्य् अभियुक्तोक्ति-बोधित-लक्षणो बोध्यः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ते त्व् इत्य्-आदि । ब्रह्मैव ह्रदः । पुनर् उत्थानाभावात् कृष्णेन ब्रह्म-ह्रदं नीतास् ते अस्मिन् ह्रदे मग्नाः, पश्चात् सुहृदो मे विपन्नाः कैः सह क्रीडितव्यम् इति कृत्वा पुनस् तेनैवोद्धृता उत्तारिताः । ब्रह्मणि मग्नानां कुतः पुनर् उत्थानम् ? इति नाशङ्कनीयम्—उभयोर् अपि तत्-कर्तृकत्वात्, तस्य चाचिन्त्य-शक्तित्वात् । एवम्-भूताः सन्तास् ते पुनः किं कृतवन्त इत्य् आह—ददृशुर् इत्य्-आदि । लोकं वैकुण्ठं ब्रह्म-भूतं लोकं ददृशुर् एव, न तु परमानन्दम् अवापुः । पुनः श्री-कृष्णम् एवालोक्य परमानन्दम् अवापुः । न विद्यते क्रुरा माया यस्य स, तथा अक्रुरो नित्य-पार्षद-वर्गः, पुरा पूः शरीरं तया नित्य-विग्रहः सन् अध्यगात् सेवितवान् ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्मणो ह्रदं महा-निधानं ब्रह्म-घन-रूपं वैकुण्ठम् इत्य् अर्थः । नीता दर्शन-द्वारा साक्षाद् इव प्रापिताः । अत एव मग्नाः, तद्-दर्शनाशक्ताः कृष्णेन तत उद्धृताः, आत्मना सह श्री-वृन्दावन-क्रीडा-रस-विघातकतया नात्यभीष्टाद् इव तद्-दर्शनाद् उत्थापिता अपि ब्रह्मणो लोकं विवर्तं विना ब्रह्मोपादानकं सच्-चिद्-आनन्द-रूपं वैकुण्ठ-लोकम् एव ददृशुः । तद्-आवेशेन कृष्णस्येव सर्वतः परिस्फूर्तेः, साक्षात् श्री-कृष्णं पश्यतां तेन सह विक्रीडतां तेषां वैकुण्ठ-दर्शनं नाम कियद् एतद् इत्य् आह—व्रज-जन-विरह-दुःख-हेतुर् अक्रूरो\ऽप्य् अध्यगात्, अन्यत् तैर् व्यञ्जितम् एव ।
यत्रेत्य् अव्ययत्वेन यम् इति वा, अध्यगाद् इत्य् अनेन ज्ञान-द्वारासौ ददर्श, एते च साक्षाद् एवाक्षिभिर् ददृशुर् इति तस्माद् अप्य् एषां महात्म्यं दर्शितम् ।
यद् वा, कस्मिंश्चित् स्थाने कथम् अपश्यन्न् ? इत्य् अपेक्षायाम् आह—ते त्व् इति । मग्नाः स्नाता इत्य् अर्थः, पश्चात् तस्मात् कृष्णेनोद्धृताः, वैकुण्ठ-लोक-दर्शनासक्त्या श्री-यमुना-प्रावाहेण नयन-शङ्कातः, ब्रह्म-ह्रदे नयनं च रस-विशेषमय-व्रज-भूमेर् बहिर् एव तद् दर्शनोपपत्तेः । अन्यत् समानम् । यद् वा, ब्रह्म-हृदं नीताः सन्तो वैकुण्ठ-लोकं ददृशुः, तद् दर्शने निमग्नाश् च सन्तः कृष्णेनोद्धृतास् तस्माद् विरमय्य क्रीडार्थं निज-स्थानं नीता इत्य् अर्थः एवं व्यवहितान् वयादिकं तैर् एव व्यञ्जितम् अस्ति ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ विशेषतोऽपि तन् निरूपयंस् तादृशं दर्शनम् आह—ते त्व् इति । ब्रह्म पूर्वोक्त-प्रकृत्य्-अनभिव्यक्त-प्रकाशं यत्, तद् एव दुरवगाहत्वादिना ह्रद इव ह्रदः ते नीताः स्व-शक्त्या तद्-अनुसन्धानं गमिताः, तत एव ते मग्नाः, तन् मात्रानुभवावस्थाम् इति प्राप्ताः पुनस् तस्माद् अपि तेनोद्धृताः प्रथमजां सामान्याकार-तत्-स्फूर्तिम् अतिक्रम्य स्वरूप-शक्त्याभिव्यक्त-विशेषाकार-तत् स्फूर्त्याप्य् उत्कर्षिताः सन्तो ब्रह्मणो नराकृति-परब्रणस् तस्यैव लोकं ददृशुः चक्षुषापि साक्षात् कृतवन्तः नचाश्रुत-चरमेतद् इत्य् आह—यत्र प्रकाशे अक्रूरो\ऽपि अध्यगात् वैकुण्ठ-लोकं दृष्टवान्, तं स्तुतवान् वा । द्वितीये च—
तस्मै स्व-लोकं भगवान् सभाजितः
सन्दर्शयामास परं न यत्-परम् ।
व्यपेत-सङ्क्लेश-विमोह-साध्वसं
स्व-दृष्टवद्भिः पुरुषैर् अभिष्टुतम् ॥
प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः ।
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ [२.९.९-१०]
इत्य्-आदि तयोर् मिश्रं रजस् तमः सहचरं प्राकृत-सत्त्वम् इत्य्-अर्थः । इतिहास-समुच्चये मुद्गलोपाख्याने—
ब्रह्मणः सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति तद् विदुः ॥ इति ।
तस्माद् ऊर्ध्वम् आवृत्ति-रहित-देश इत्य् अर्थः । श्री-नारद-पञ्च-रात्रे जितन्तेस्त्रोत्र—
लोकं वैकुण्ठ-नामानं दिव्य षाड्गुण्य-संयुतम् ।
अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥ इति ।
ब्रह्माण्ड-पुराणे—
तम् अनन्त-गुणावासं महत् तेजो दुरासदम् ।
अप्रत्यक्षं निरुपमं परानन्दम् अतीन्द्रियम् ॥ इति ।
श्रुतयश् च—परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति [कैवल्य उपनिषद् १.३] इत्य्-आद्याः ।
अथवा, ब्रह्म-ह्रदम् अक्रूर-तीर्थं नीताः तत् तीर्थ-महिम-ज्ञापनाय कौतुकाय वा प्रापिताः । ततस् तत्-प्रेरणया मग्नाः, पुनस् तेनैव तस्माद् उद्धृताः उत्थापिताः ददृशुः श्री-वृन्दावनम् एव विलक्षणत्वेनापश्यन् इत्य्-आदि । यत्र तीर्थे तद् एवं सर्व-प्रमाण-चूडामणिना श्रीमद्-भागवतेन प्रोक्तेनात्र प्रसिद्ध्य्-अनादरम् अपेक्ष्यं क्रम-व्याख्यानाच् च न परत्र व्यवहित-योजना चापतद् इति गम्यम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ विशेषता ऽपि तन्-निरूपमं तादृशं तद्-दर्शनम् आह—ते त्व् इति । ब्रह्म पूर्वोक्त-सामान्याकारात् नीता अनुसन्धापिता मग्नास् तन्मात्रानुभवं गताः । अनन्तरम् उद्धृताः विशेषाकार-तत्-स्फूर्त्याप्य् उत्कर्षिताः सन्तो ददृशुः । ब्रह्मण इत्य्-आदि यत्र प्रकृतेः परोऽत्र अक्रुरोऽप्य् अगात् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ श्री-वृन्दावने च तादृश-दर्शनं कतम-देश-स्थितानां तेषां जातम् इत्य् अपेक्षायाम् आह—ब्रह्म-ह्रदम् अक्रूर-तीर्थं कृष्णेन नीताः पुनश् च तद्-आज्ञयैव मग्नाः, पुनश् च तस्मात् तीर्थात् श्री-कृष्णेनैव उद्धृताः । उद्धृत्य वृन्दावन-मध्य-देशम् आनीतास् तस्मिन्न् एव नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य लोकं गोलोकाख्यं ददृशुः । कोऽसौ ब्रह्म-ह्रदः ? तत्राह—यत्रेति । पुरा इत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति कोष-काराः । यत्र च ब्रह्म-ह्रदेऽध्यगाद् अस्तौत अधिगतवान् इति वा। सर्वत्रैव श्री-वृन्दावने यद्यपि तत्-प्रकाश-विशेषोऽसौ गोलोको दर्शयितुं शक्यः स्यात्, तथापि तत्-तीर्थ-माहात्म्य-ज्ञापनार्थम् एव वा विनोदार्थम् एव वा तस्मिन् मज्जनम् इति ज्ञेयम् ॥१६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ तेऽपि तत्रैव ब्रह्माख्ये लोके मग्नास् तद् वासि-पार्षदवत् प्राणमनोवृत्ति-रहितत्वेन केवलानन्द स्वरूपा यद् आभवन्, तदा कृष्णएनैव पुनर् उद्धृताः प्राप्तेन्द्रियवृत्तयः कृताः सन्तः पुनरमदेव ददृशुर् इत्य् आह—ते त्वित्य्-आदि । ते गोपाः प्राञ्मग्नास् तत्रव ब्रह्मानन्दे मग्नाः पश्चात् कृष्णेन त उद्धृत्य ब्रह्म-ह्रदं च नीता ब्रह्मणो लोकं नारायण-लोकं ददृशुः । कोऽसौ ब्रह्मद्रुमः ? तत्राह—यत्राक्रूरोऽध्यगात् पुरा । शक परीक्षित कथनकालात् पूर्वम् इति पुरा अक्रूरो यत्र यमुना ह्रदे मग्नः सन् यथा शेषपर्यङ्कशायिनं नारायणं ददर्श, पश्चात् श्री-कृष्णमणि ददर्श, तथैवामी इति । अथवा, यत्राक्रूरो द्रक्ष्यतीति कथयिष्यते तत्रैव पुरा पूर्वं ते ददृशुः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं ब्रह्म-ह्रदं ब्रह्मैव ह्रद इव ह्रदस् तत्र निमग्नस्य विशेष-ज्ञानाभावात् तं ब्रह्म-ह्रदं ते व्रज-वासिनो नीताः प्रापिताः । तदा ते तस्मिन् मग्नाः कृष्णेन तु उद्धृताः स्वातर्क्य-शक्या ब्रह्म-सायुज्याद् अपि उद्धृतस् तस्माद् उत्थापिताः सन्तस् तस्यैव ब्रह्मणो लोकं वैकुण्ठञ् च ददृशुः । लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म [२.७.३१] इति द्वितीयोक्तेः । उद्धृता इति यथान्ये संसार-ह्रदाद् उद्धृताः सन्तो ब्रह्मानुभवन्ति तथैवामी प्रेमवन्तो गोपाः ब्रह्म-ह्रदाद् उद्धृता वैकुण्ठ-लोकं ददृशुर् इति सर्वस्व-नाशवत्याः सायुज्य विपदः सकाशात् वैकुण्ठो निर्वृति-करः इति भावः । प्रेम-रहिताद् ब्रह्म-सुखानुभवात् प्रेम-सहितो वैकुण्ठ-सुखानुभवः श्रेष्ठस् ततो ऽपि प्रेम-मयो गोकुल-सुखानुभवः श्रेष्ठ इति सिद्धान्तो ज्ञापितः । यत्र वैकुण्ठे पुरा अक्रूरोऽध्यगात् गतवान् स्वाभीष्ट-देवं दृष्टवान् इति वा । शुक-परीक्षित्-सम्वादात् प्राक्तनत्वाद् भूत-निर्देशः ॥१६॥
॥ १०.२८.१७ ॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णं । तत्र ब्रह्म-लोके । छन्दोभिः मूर्तिमद्भिर् वेदैः स्तूयमानं दृष्ट्वा परमानन्द-निर्वृता अत्याह्लाद-मग्ना अपि पुनः पूर्व-वर्तं यादृक् पूर्व-वेष-स्वभावं गोप-रूपं दृष्ट्वा सुविस्मिताः अत्यद्भुताकुला बभूवुः—अहो अस्य वैभवं क्षणे परमैश्वर्यं प्रदर्श्य क्षणेन पुनस् तत् तिरोदधाव् इति । व्यवहितान्वयस् त्वाद्यपादान्तस्थेन तं दृष्ट्वेत्य् अनेन सुविस्मिता इत्य् अन्तापादान्तस्थेन सम्बन्धात् । स च काव्य-दोषो\ऽस्ति । अप्रसिद्ध-कल्पना तु कालिन्दी-ह्रदस्य ब्रह्म-ह्रदेति नाम-कल्पनेति ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदानीं ते\ऽप्य् अवतीर्णा इत्य् अतीत-काल-विशेषः, अतो महा-कारुणिकत्वं पूर्वोक्तं यत् तद् एव स्फुटीकृतम्, अस्य दर्शनं तु ब्रह्म-साक्षात्काराद् अपि परमानन्द-करम् इति कृत्वा तथा कृतम् ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं गोपानाम् इष्ट-सिद्ध्या पर्मानन्दो जात इत्य् आह—नन्दादय इति । तं वैकुण्ठ-लोकं गोलोकं वा, परमानन्देन निवृता निःशेषेण व्याप्ता बभूवुः, स्वदिदृक्षित-तदीय-स्थान-विशेष-दर्शनात्, तत्रापि स्वलोकत्वेन स्वाधीनता-ज्ञानोत्पत्तेः । अप्य् अर्थे चकारः । तत्र ब्रह्म-लोके\ऽपि कृष्णं दृष्ट्वा सुविस्मिता बभूवुः, यद् वा, तत्र छन्धोभि स्तूयमानं कृष्णं निज-पार्श्वे\ऽपि स्तूयमानं पूर्ववत् दृष्ट्वा परम-विस्मयं प्राप्ता इति तैर् व्याख्यातम् एव ।
यद् वा, तु-शब्दो भिन्नोपक्रमे, सर्वे गोपा औत्सुक्यधीत्वेन वैकुण्ठ-लोकं दृष्ट्वा सुखं प्रापुर् एव, श्री-नन्दादयः प्रियतम-जनास्तु तत्र ब्रह्म-लोके छन्दोभिः स्तूयमानं कृष्णं दृष्ट्वा सुविस्मिता अपि तं निज-पार्श्वे पूर्ववद् वर्तमानं परम-बन्धुं जीवन-प्रभुं दृष्ट्वैव परमानन्द-निर्वृता न तु ब्रह्म-लोकम् इत्य् अर्थः, आदि-शब्देन श्री-यशोदा श्री-दामादि-सहचराः श्री-राधादि-गोप्यश् च । यद् वा, तत्र तैः स्तूयमानम् अपि कृष्णं तं पूर्ववन् निज-पार्श्वे वर्तमानं दृष्ट्वैव परमानन्द-निर्वृताः सन्तः, अत एव सुशोभनं विशेषतः स्मितं येषां तथा-भूता बभूवुः,
यद् वा, तं निज-प्रियतमं कृष्ण तत्र छन्दोभिर् अपि स्तूयमानं दृष्ट्वा परमानन्द-निर्वृताः । यद् वा, तं गोलोकं भूर् लोकस्थ-गोकुल-सदृशम् एव दृष्ट्वा परमानन्द-निर्वृता बभूवुः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथाप्य् अक्रूरतः श्री-मन् नन्दादीनां दर्शन-वैशिष्ट्यवद् आनन्द-वैशिष्ट्यम् अपि जातम् इत्य् आह—नन्देति । तं तेषाम् एव सम्बन्धिनं श्री-कृष्ण-लोकम् अतः स्वभावत एव परमानन्द-निर्वृता बभूवुः कृष्णं चेति तथाप्य् अव्यभिचारि-पुत्र-भावतो विस्मिताश् च बभूवुर् इति छन्दोभिः कर्तृ-भूतैः करण-भूतैर् वा उभय-भूतैर् एव वा श्री-गोपाल-तापन्यादिभिः अत्र स्वगतिम् इति तैः स्व-शब्दस्य श्री-कृष्णैकाभिप्रायेणैवोक्तिः गति-शब्दस्य च वरुण-लोक-दर्शनेन तल् लोक-दर्शनाभिप्रायेणोक्तिः अत्र स्व-गतिम् इति तैः स्व-शब्दस्य श्री-कृष्णैकाभिप्रायेणैवोक्तिः गति-शब्दस्य च वरुण-लोक-दर्शनेन तल् लोक-दर्शनाभिप्रायेणोक्तिः तथा श्री-कृष्नेन च स्वां गतिम् इति भीगोपसम्बन्धितानिर्देशः गति-शब्दस्य च वरुण-लोक-दर्शनेन तल् लोक-दर्शनाभिप्रायेणोक्तिः तथा श्री-कृष्नेन च स्वां गतिम् इति भीगोपसम्बन्धिता-निर्देशः श्री-मुनीन्द्रेण च गोपानाम् इति षष्ट्या साक्षाद् एव तत् सम्बन्ध-निर्देशः कृष्णं चेति साक्षात् श्री-कृष्ण-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य परम-गोलोकम् एव स्थापयति अत एव अह्न्यापृतं निशि शयानम् अतिश्रमेण लोकं विकुण्ठम् उपनेऽयति गोकुलं स्म इति श्री-ब्रह्म-वाक्येऽपि ब्रह्म-ह्रदस्याक्रूर-तीर्थत्वपक्षे यद् धामार्थ-सुहृत् प्रियात्मतनय-प्राणाशयास् त्वत् कृते इति न्यायेन दिवसे तद् एकार्थ-व्यापार-युक्तं तत् परिश्रमेण रात्रौ च तद् एक-समाधि-रूप-निद्रापन्नं ब्रह्मानुभव-पक्षे श्री-व्रजेश्वरान्वेषणार्थं तस्मिन्न् अह्नि नाना-व्यापार-युक्तं तत् परिश्रमेण रात्रौ शयानं सत् गोकुलं तद् वासिजनं विकुण्ठं गोलोकाख्यम् उप समीपे तत्रैव दर्शयिष्यतीत्य् अर्थः । स यथा ब्रह्म-संहितायाम्—
ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
अनादिर् आदि-गोविन्दः सर्व-कारण-कारणम् ॥
सहस्र-पत्रं कमलं गोकुलाख्यं मत् पदम् ।
तत् कर्णिकारं तद्धामं तद् अनन्तांश-सम्भवम् ॥ इत्य्-आदि ।
तत्राग्रे ब्रह्म-स्तवे—
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षा-वृतेषु सुरभीर् अपि पालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
गोलोकानाम्नि निज-धाम्नि तले च तस्य
देवी-महेश-हरिधामसु तेषु तेषु ।
ते ते प्रभाव-निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य्-आदि ।
गोलोक एव निवसत्य् अखिलात्म-भूतः च इत्य्-आदि अन्ते च—
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो-
द्रुमा भूमिश् चिन्ता-मणि-गणमयी तोयम् अमृतम् ।
कथा-गानं नाट्यं गमनम् अपि वंशी-प्र्य-सखी
चिदानन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
स यत्र क्षीराब्धिः सरति सुरभीभ्यश् च सुमहान्
निमेषार्धख्यो वा व्रजति नहि यत्रापि समयः ॥
भजे श्वेत-द्वीपं तम् अहम् इह गोलोकम् इति यम्
विदन्तस् ते सन्तः क्षिति-विरलचाराः कतिपयाः ॥ इति ।
एवं स्कान्दे मोक्ष-धर्मस्य नारायणीयोपाख्याने च—
एवं बहु-विधै रूपैश् चारामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय ! गोलोकं च सनातनम् ॥ इति ।
तथा हरि-वंशे यथाह शक्रः—
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां साध्यास् तं पालयन्ति हि ।
उपर्युपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥
गतिः शम-दमाद्यानां स्वर्गः सुकृत-कर्मणाम् ।
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ॥
गवाम् एव तु गोलोको दुरारोहा हि सा गति ।
स तु लोकस् त्वया कृष्ण ! सीदमानः कृतात्मना ॥
धृतो धृइमता वीर ! निघ्नतोपद्रवान् गवाम् ॥ इति ।
अस्यार्थः स्वर्ग-शब्देन स्वर्लोकम् आरभ्यः सत्य-लोक-पर्यन्तं लोक-पञ्चकम् उच्यते—
भूर् लोकः कल्पितः पद्भ्यां भुवर् लोकोऽस्य नाभितः ।
स्वर् लोकः कल्पितो मूर्द्ध्ना इति वा लोक-कल्पना ॥ इति द्वितीयात् ।
तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोकः परब्रह्मणो भवतो लोकः ददृशुर् ब्रह्मणो लोकम् इत्य् उक्तत्वात् एवं द्वितीये मूर्धभिः सत्य-लोकस्तु ब्रह्म-लोकः सनातनः इति व्याख्यातं च तैः ब्रह्म-लोको वैकुण्ठाख्यः सनातनोऽपि नित्यो न तु सृज्य-प्रपञ्चान्तर्वर्तीत्य् अर्थः । इति ब्रह्माणि मूर्तिमन्तो वेदाः ऋषयश् च श्री-नारदादयः गणाश् च श्री-गरुड-विष्वक्सेनादयः तैर् निषेवितः एवं नित्याश्रितानुक्त्वा तद् गमनाधिकारिण आह—तत्र ब्रह्म-लोके उअमया सह वर्तते इति सोमः श्री-शिवः तस्य गतिः ज्योतिश् चरणाभिधानात् [१.१.१५] इति न्यायेन ज्योतिर् ब्रह्म तद् ऐकात्म्य-भावानां ज्ञानि-जीवन्-मुक्तानाम् इत्य् अर्थः । अत्र समास-प्रविष्ट्यापि गति-पदस्याकर्ष आर्षः सोमेति छान्दस एव वा षष्ट्या लुक् न तु तदृशानाम् अपि सर्वेषाम् एवेत्य् आह-महात्मनां महाशयनां मोक्ष-निरादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य् अर्थः—
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥
इत्य् आदौ तेष्व् एव महत्तापर्यवसानात् तस्य च ब्रह्म-लोकस्योपरि सर्वोर्ध्व-प्रदेशे गवं लोक इत्य् अर्थः । तं श्री-गोलोकं साध्या अस्माकं प्रापञ्चिक-देवानां प्राप्तव्य-सायुज्य-मूल-रूपा नित्य-तदीय-देव-गणाः पालयन्ति तत्र दिक्पालत्वेनावरण-रूपा वर्तन्ते ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः इति श्रुतेः
तत्र पूर्वे ये च साध्या विश्वे-देवाः सनातनाः ।
ते ह नाकं महिमानः सचन्ते शुभ-दर्शनाः ॥ इति ।
वैकुण्ठ-वर्णने पाद्मोत्तर-खण्डाश् च हि प्रसिद्धौ स श्री-गोलोकः सर्व-गतः श्री-कृष्णवत् सर्व-प्रापञ्चिक-वस्तु-व्यापकः अत एव महान् भगवद् रूप एव महान्तं विभुम् आत्मानम् इति श्रुतेः । तत्र हेतुः महा-काशः परम-व्योमाख्यं ब्रह्म-विशेषण-लाभात् आकाशस् तल् लिङ्गात् [१.१.२२] इति न्याय-प्रसिद्धेश् च तद् गतः ब्रह्माकारतयोदयानन्तरं तत् प्राप्तेः ।
यद् वा, महाकाशः परम-व्योमाख्यो महा-वैकुण्ठः तद् गतः तद् ऊर्ध्व-भागस्थितः गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवी-महेश-हरि-धामसु इति ब्रह्म-संहितायां तद् वर्णने व्युत्क्रमोक्तः एवम् उपर्युपरि सर्वोपर्यपि विराजमाने श्री-गोलोकेऽपि तव गतिः नाना-रूपेण वैकुण्ठादौ क्रीडतस् तव तत्रापि श्री-गोविन्द-रूपेण क्रीडा विद्यत इत्य् अर्थः सा कीदृशी तपोमयी अनवच्छिन्नैश्वर्यमयी परमं यो महत् तअपः इति वत् अत एव ब्रह्मादि-दुर्वितर्कत्वम् अप्य् आह—याम् इति । अधुना तस्य गोलोक इत्य् आख्याबाजम् अभिव्यज्जयति, गतिर् इति । ब्राह्म्ये ब्रह्म-लोक-प्रापके तपसि विष्णु-विषयक-मनः-प्रणिधाने युक्तानां रतचित्तानां प्रेम-भक्तानाम् इत्य् अर्थः । ब्रह्म-लोको वैकुण्ठ-लोकः परा प्रकृत्यतीता गवाम् इति मोचयन् व्रज-गवां दिन-तापम् इत्य् उक्तानुसारेण गोकुल-वासि-मात्राणां स्वतः तद् भावानां च साधनवशेनेत्य् अर्थः । अत एव तद् भावस्यासुलभत्वात् दुरारोहा धृतो रक्षितः श्री-गोवर्धनोद्धरणेनेति अत्रार्थान्तरे सप्त-लोकता चेत् तर्हि स्वर्गाद् एवोद्ध्वं सत्य-लोको न भवति महर् लोकादि-ब्यावधानात् तथा सोम-गतिर् इत्य्-आदिकं न सम्भवति ध्रुव-लोकाधस् ताद् एव तद् गतेः अवर-साध्यगणानां तुच्छत्वात् सत्य-लोक-पालनेऽप्य् अनर्हात् तथा प्राकृत-गोलोकस्य सर्व-गतत्वं चासम्भाव्यम् अत एव तत्रापि तव गतिर् इत्य् अपि-शब्दो विस्मये प्रयुक्तः यां न विद्म इत्य्-आदिकं च तस्मात् प्राकृतताद् अन्य एवासौ गोलोकः य एव पूतना-मोक्षादौ निरूपितः य एव च प्रापञ्चिक-जीव-कृपया वृन्दावनादि-रूपेण प्रपञ्चे\ऽप्य् अभिव्यक्तः सदा विराजते स तु लोकस् त्वया वीर ! निघ्नतोपद्रवान् गवां धृत इत्य् अभेदेनोक्तत्वात् भगवद् वद् अचिन्त्य-शक्तिमयत्वेन तस्यैकस्याप्य् एकत्राप्य् अनन्तधा प्रकाश-सामर्थ्याच् च योग-माया-विभूति-वर्णने युगपत् प्रातर् आदि-नाना-समयादि-वर्णनमयत्वेन तथैव द्वारकाया अपि दर्शितम् इति गोलोकस्योर्द्ध्व-लोकोपरितनत्वं च महिम-दृष्ट्य् अपेक्षयाविर्भावात् वस्तुतस् तु सहि सर्वतत इत्य् एवोक्तम् अतो वाराहे\ऽप्य् अस्याम् एव वृन्दाटव्यां प्रापञ्चिकेन्द्रिय-मात्रैस् तद् वस्तु-मात्रैश् चास्पृष्टा नित्य-सिद्धाः पृथि-व्याप्य् अज्ञाताः कदम्बादयो वर्ण्यन्ते, यथा—
तत्रापि महद् आश्चर्यं पश्यन्ते पण्डिता नराः ।
कालिय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः ॥
शत-शाखं विशालाक्षि ! पुण्यं सुरभि-गन्धि च ।
स च द्वादश-मासानि मनोज्ञः सुख-शीतलः ॥
पुष्पायति विशालाक्षि ! प्रभासन्तो दिशो दश ॥ इति ।
शत-शखम् इति द्विगुः तद् यत्र वर्तते इत्य् अर्थः । प्रभासन्तः प्रभासयन् इत्य् अर्थः । तत्रैव ब्रह्म-कुण्डल-माहात्म्ये—
तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे ! ।
लभन्ते मनुजां सिद्धिं मम कर्मपरायणाः ॥
तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः सित-प्रभः ।
वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ।
स पुष्पति च मध्याह्ने मम भक्त-सुखावहः ।
न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥ इत्य्-आदि ।
आदि-वाराहे च।
कृष्ण-क्रीडा सेतु-वन्धं महा-पातक-नाशनम् ।
बलभीं तत्र क्रीडार्थं कृत्वा देवो गधाधरः ॥
गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने ।
तत्रैव रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।
तत्रैव गोलोक एव निवसत्य् अखिलात्म-भूतः इति नियमः श्रूयते । स्कान्धे मथुरा-माहात्म्ये—
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥
इति च श्रूते । बृहद् गौतमीये च श्री-कृष्ण-वाक्यम्—
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र मे पशवः पक्षि-मृगाः कीटा नरामराः ॥
ये वसन्ति ममाधिष्ठे मृता यान्ति ममालयम् ।
अत्र या गोप-कन्याश् च निवसन्ति ममालये ॥
योगिन्यस्ता मया नित्यं मम सेवापरायण ।
पञ्च योजनम् एवास्ति वनं देह-रूपकम् ।
कालिन्दीयं सुषुम्णाख्या परमामृतवाहिनी ॥
अत्र देवाश् च भूतानि वर्तने सूक्ष्म-रूपतः ।
सर्व-देवमयश् चाहं न त्यजामि वनं क्वचित् ॥
आविभावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजोमयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।
तस्मात् सदा प्रकृतावनाभिव्यक्ते श्री-वृन्दावनस्यैवास्य प्रकाश-विशेषे गोलोकाख्ये यो नित्यं तैर् एव नित्य-परिकरैः सह विहरति, स एव श्री-कृष्णः प्रापञ्चिक-निज-भक्त-कृपया प्रकृताव् अभिव्यक्तेस्मिंस् तत् प्रकाशे तैर् एव स कदाचित् व्यक्ती भवति तस्य तत् परिकरत्व-नियमश् च तत् परिकरत्वेनैवोपासना-शस्त्रादि दर्शनात् एवं षोडश-सहस्र-विवाहे श्री-वसुदेवादिवद् यदा ते प्रपञ्चाभिव्यक्त-प्रकाशे प्रकाशान्तरेण व्यक्ती-भवन्ति तदा लीला-रस-पोषाय लीला-शक्तिर् एव प्रेम-वैवश्यादि-द्वारा तत्र तत्र प्रकाशे पृथग् अभिमानं परस्म्परम् अननुसन्धानं च सम्पादयति यतो नित्य-सिद्धम् अपि तं निज-वैभवादिकं तदा ते नानुसन्दधिरे तद् एवम् अत्रैव स्थितस्यैव श्री-वृन्दावनस्य प्रकाश-विशेष श्री-गोलोकं दर्शयामास प्रकाश-भेदे कन्दर्प्यजेतृत्वे इति जीवानां काम-निवृत्त्य् अर्थः । न तान् विना नान्यांशान्तरङ-परिकरान् दर्शयमास छन्दसां तु बहिरङ्गत्वम् एव वन्दि-जन-साधर्म्यात् छन्दोभिः स्तुतेर् दर्शनं चेदं प्रामाण्यार्थम् एवेति सर्वं शान्तम् ॥१७॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः (११६): नन्दादय इति कर्त्र्-अन्तरा-निर्देशाच् छन्दोभिर् एव मूर्तैः कर्तृभिः । तद्-अभिज्ञापनार्थं तज्-जन्मादि-लीलया स्तूयमानम् । अन्तरङ्गाः परिकरास् तु पूर्व-दर्शित-रीत्या गो-गोपादय एव । अत एव कृष्णं यथा ददृशुस् तथा तत्-परिकरान्तराणां दर्शनानुक्तेस् तत्र क एव तत्र परिकरा इत्य् अभिव्यज्यते । त एव च पूर्व-दर्शित-मृत्यु-सञ्जयादि-तन्त्र-हरि-वंशादि-वचनानुसारेण प्रकटाप्रकट-प्रकाश-गततया द्विधा-भूताः सम्प्रत्य् अप्रकट-प्रकाश-प्रवेशे सत्य् एक-रूपा एव जाता इति न पृथग्-दृष्टाः ।
यदा तत्-प्रकाश-भेदो भवति, तदा तत्-तल्-लीला-रस-पोषाय तेषु प्रकाशेषु तत्-तल्-लीला-शक्तिर् एवाभिमान-भेदं परस्परम् अननुसन्धानं च प्रायः सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे ।
अत एवोक्तं न वेद स्वां गतिं भ्रमन् इति । तथा च सति इदानीं श्री-व्रज-वासिनां कथञ्चिज् जातया तादृशेच्छया तेभ्यस् तेषाम् एव तादृश-लोक-प्रकाश-विशेषादिकं दर्शितम् इति गम्यते । न च प्रकाशान्तरम् असम्भावनीयम् । परमेश्वरत्वेन तच् च श्री-विग्रह-परिकर-धाम-लीलादीनां युगपद् एकत्राप्य् अनन्त-विध-वैभव-प्रकाश-शीलत्वात् ।
अत्र स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-शब्दयोर् निर्देशः । कृष्णम् इति साक्षात् तन्-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य श्री-गोलोकम् एव प्रतिपादयति । अत एव तेषां तद्-दर्शनात् परमानन्द-निर्वृतत्वं सुविस्मितत्वम् अपि युक्तम् उक्तम्, तस्यैव पूर्णत्वात् । तथा तेषां पुत्रादि-रूपेणोदयाच् च । तद् एवम् उक्तोऽर्थः समञ्जस एव ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैकुण्ठं दृष्टवान् । छन्दोभिः श्री-गोपाल-तपन्य्-आदिभिः ॥१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत् पुनर् विशिष्य वदति—नन्दादय इत्य्-आदि । तं नारायण-लोकम्, तत्रैव छन्दोभिः स्तूयमानं नारायण-रूप-ग्रहीतारं श्री-कृष्णं दृष्ट्वा सुविस्मिता वभूवुः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं वैकुण्ठ-लोकं दृष्ट्वा तु परमानन्द-निर्वृताः । वैकुण्ठीय-गोलोक-स्थ-वृन्दावनस्य वृन्दावन-साधर्म्य-दर्शनाद् इति भावः । यथा हि कोटीश्वराः कदाचिन् नष्ट-सर्व-धनाः सन्तो दैवात् क्वचिद् दृष्ट-स्वधन-चिह्नाः परमानन्द-निर्वृता बचन्ते, तथेत्य् अर्थः । ततश् चास्मत्-प्राण-कोटि-निर्मञ्छनीय-मुखारविन्द-प्रस्वेद-बिन्दुः कृष्णः क्वेति तद्-अन्वेषणानुसन्धानवत्त्वे सति तं च ददृशुर् इत्य् आह—कृष्णं तत्रत्यैश् छन्दोभिर् मूर्तिमद्भिः स्तूयमानं दृष्ट्वा सुविस्मिताः । हंहो क्वागच्छामस् तावद् एते ज्योतिर्मयाः स्तावका अत्र वृन्दावने स्वल्प-परिचीयमानाः प्रष्टुम् अस्माभिर् अशक्याः के ? तन्-मध्य-वर्ती कृष्णश् चायम् अस्मान् अनेकान् पित्रादीन् दृष्ट्वापि बाल्य-विलासं प्रपञ्चयन् न सन्निधत्ते, नापि भुजाभ्यां नः कण्ठं धत्ते, वयम् अपि सन्निधातुम् एनम् उत्सङ्गम् आरोहयितुं च सङ्कुचामः । किम् अनेनाद्य क्षुत्-पिपासा-वैक्लव्यं विस्मृतम् । मातास्य कथम् एनम् अभोजयन्ती जीविष्यतीत्य् एवं-विधान् विस्मयान् दधानास् ते लीला-शक्ति-प्रेरितया योगमाययैव पुनर् वृन्दावनम् आनिन्यिरे इति शेषः ।
एतत्-प्रकरणस्यायम् एवार्थः, श्रीमत्-प्रभु-वरै रूप-गोस्वामि-चरणैः स्तवमालायाम् उपश्लोकितः । स च श्लोको, यथा—
लोको रम्यः कोऽपि वृन्दाटवीतो
नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गं ।
वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो
गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ इति ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम्
अष्टाविंशो ऽपि दशमे सङ्गतः सङ्गतः सताम्
इदानीं ते\ऽप्य् अवतीर्णा इत्य् अतीत-काल-विशेषः, अतो महा-कारुणिकत्वं पूर्वोक्तं यत् तद् एव स्फुटीकृतम्, अस्य दर्शनं तु ब्रह्म-साक्षात्काराद् अपि परमानन्दकरम् इति कृत्वा तथा कृतम् ॥ [१५श-श्लो] ॥१८॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे
अष्टाविंशोऽध्यायः ॥
॥ १०.२८ ॥