२७

विगत-मदस्येन्द्रस्य श्री-कृष्ण-सन्निधौ क्षमा-प्रार्थनं काम-धेन्व्-इन्द्राभ्यां श्री-कृष्णस्याभिषेकश् च ।

॥ १०.२७.१ ॥

श्री-शुक उवाच—

गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे ।
गो-लोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्त-विंशे तद् आलक्ष्य कृष्णस्य प्राभवं परम् ।

वर्ण्यते सुरभीन्द्राभ्याम् अभिषेक-महोत्सवः ॥

गोवर्धने धृते शैल इति शक्रस्य भयेन आगमने हेतुः, आसाराद् रक्षिते व्रज इति सुरभेर् हर्षेणागमने ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् गोवर्धनोद्धरणादि-रूपम् । परम् अत्युकृष्टम् । प्राभवं प्रभोर् भावः प्राभवं प्रभूताम् ।*। येन गोवर्धनेन गो-व्रज-रक्षा मद-दर्प-हनन-पूर्वकं कृता, स इन्द्रम् अप्य् अन्यं करिष्यतीति भीतेर् इन्द्र आजगामेति । गोलोकात् गवाम् अधिष्थित-स्थानात् । यद् वा, गोलोकात् प्राक् तत्, परम-वैकुण्ठ-रूप-गोलोक-सुरभ्या इन्द्र-सहित्यानुपपत्तेः । यद् वा, गोलोकं व्रजम् उद्दिश्य ल्यब् लोपे इति कर्मणि पञ्चमी । तथाह श्रुतिः—

ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरि-शृङ्गा अयासः । > अत्राहतद् उरुगायस्य वृष्णः परमं पदम् अवभाति भूरि ॥ [ऋ।वे। > १.१५४.६] इति ।

अर्थः—तानि वां युवयोः राम-कृष्णयोर् वास्तूनि रम्य-स्थानानि गमध्यै गन्तुम् उश्मसि उश्मः कामयामहे, न तु तत्र गन्तुं प्रभवामः । यत्र येषु वास्तुषु भूरि-शृङ्गाः महा-शृङ्गवत्यो गावः अयासः सञ्चरन्ति । अत्र भू-लोके अहं निश्चितं तत् गोलोकाख्यं परमं पदं भूरि अत्यन्त मुख्याद् अपि विशिष्टम् अवभाति अत्यन्तं शोभते । वृष्णः आनन्द-वर्षुकस्योरुगायस्य महा-कीर्तेः, श्री-कृष्णस्येत्य् अर्थः । यद् वा, गोलोकात् स्वर्गात् इन्द्र-सुरभ्या आव्रजताम् इत्य् अर्थः । दृग् दृष्टि इत्य्-आदिना गो-शब्दो हलायुधे स्वर्ग-वशकोऽप्य् अस्तीति ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोलोकात् सुरभि-लोकात्, न तु गोलोकाख्य-वैकुण्ठात् ॥१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गाः सुख-भोगादिना नित्यं वर्धयतीति तथा तस्मिन्न् इति महा-वृष्ट्यापि तथा गवां दुःख-शङ्का निरस्ता, प्रत्युत शिलादि-क्षालनेन तृणाद्य्-अधिक-सम्पत्त्या च समृद्धिर् एव जातेति सूचितम् । व्रज-शब्देन तत्रात्या मानुषा पशु-पक्ष्यादयश् च सर्व एव प्राणिनो लक्षिताः । गोलोको नाम वैकुण्ठ-लोकोपरि वर्तमानो गवां लोकः, तथा च श्री-हरि-वंशे शक्र-वाक्ये—

स्वार्गाद् उर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः । > तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥ > तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । > स हि सर्व-गतः कृष्ण महाकाश-गतो महान् । > उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ॥ [ह।वं। २,१९.२९.३१] > इत्य्-आदि ।

स्कान्दे श्री-भगवद् अर्जुन-संवादे—

एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । > ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ इति,

तथा श्री-ब्रह्म-संहितायां चादि-पुरुषस्तोत्रे—

आनन्द-चिन्मय-रस प्रतिभाविताभिस् > ताभिर् य एव निज-रूपतया कलाभिः । > गोलोक एव निवसत्य् अखिलात्म-भूतो, > गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८] इत्य्-आदि > ।

ब्रह्म-लोकः श्री-वैकुण्ठ-लोक इत्य्-आदिकम् एषां व्याख्यानं च श्री-भगवतामृत-गोलोक-माहाहात्म्यान्ते कृतम् एवास्ति । तस्मात् सुरभिः शक्रश् चाव्रजत् । तत्र च गोलोकस्थ-गोकुल-मुख्यां गवां मूल-भूतां सुरभिं श्री-भगवता स्व-वंश-रक्षणात् परम-हर्षेण तद्-अन्तिके श्री-गोवर्धने समागच्छन्तीं दृष्ट्वा, तस्य प्रीति-पात्र-भूतां नत्वा, परम-भक्त्या प्रसाद्य, तया सह शक्रः स्वर्गाद् अगच्छद् इति ज्ञेयम् ।

कपश्य-पत्नी गवापत्या शक्र-विमाता सुरभिस् तु स्वर्गं एव निवसति, अतः सान्यैव गोलोके तस्या वसत्य् असम्भवात् । अप्य्-अर्थे -कारः । महापराधित्वेन लज्जा-भयादिना तस्यागमनं न सम्भवेत्, तथाप्य् आव्रजद् इत्य् अर्थः, अनन्य-गतिकत्वात् । तत्र हेतुः—कृष्णं साक्षाद् भगवन्तम् । यद् वा, शरणागत-वात्सल्यादि-निजाशेष-गुण-प्रकटन-परमतः शरणागतत्वेनाव्रजद् इत्य् अर्थः,

यद् वा, तत् प्रियजन-सङ्गबलाद् आव्रजत्, यतः कृष्णं प्रिय-जनैकवश्यम् इत्य् अर्थः, सुरभि-पक्षे निज-रूप-गुणादिना परमानन्दकरं जगच् चिताकर्षकं चेति, एव-शब्देन तस्य कैवल्यं बोध्यते, भयेन दैन्येन च वाहनादि-परिवार-परिच्छद-त्यागेन एकाङ्कितया गमनात् । अत्र विशेषः श्री-वैशम्पायनेनोक्तः, हरि-वंशे—

स ददर्शोपविष्ट वै गोवर्धन-शिलातले । > कृष्णम् अक्लिष्ट-कर्माणं पुरुहूतः पुरन्दरः ॥ > तं वीक्ष्य बालं महता तेजसा दीप्तम् अव्यवम् । > गोपवेशधरं कृस्णं प्रीति लेभे पुरन्दरः ॥ > तं सो\ऽम्बुज-दल-श्यामं कृष्णं श्रीवत्स-लक्षणम् । > पर्याप्त-नयनः-शक्रः पुनः पुनर् उदैक्षत ॥ [ह।वं। > २,१९.३-५]

किं च—

तस्योपविष्टस्य मुखं पक्षाभ्यां पक्षि-पुङ्गवः । > अन्तर्धानं गतश् छायां चकारोरग-भोजनः ॥ [ह।वं। २.१९.७] > इति ।

श्री-पराशरेणापि—

गरुडं च ददर्शोच्चैर् अन्तर्धान-गतं द्विज । > कृतच्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षि-पुङ्गवम् ॥ [वि।पु। > ५.१२.४] इति ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गा नित्यं वर्धयतीति तथा तस्मिन्न् इति तत् साहय्येन महा-वृष्ट्यापि तया गवां दुःख-शङ्का प्रत्युत तृणाद्य् अधिक-सम्पत्त्या समृद्धिर् एव सूचिता व्रज-शब्देन तत्रत्या मानुषाः पशु-पक्ष्यादयश् च गोलोकात् प्राकृतात्, न त्व् अप्राकृतात् श्री-गोकुल-प्रकाश-विशेषात् । इन्द्रस्य तदीय-सुरभि-सङ्गासम्भवात् अप्राकृता-गोलोकस् त्व् अष्टा-विंशत्यध्यायान्ते दर्शयिष्यते इन्द्रस्य तया सहागमनं श्री-कृष्णस्य गो-प्रियता-ज्ञानात् तत्रापि तस्या आद्यत्वात् अत्र इन्द्रोऽपि तदानयनार्थं तत्र गत्वा तस्माद् आव्रजद् इति सम्बध्यते, ब्रह्मणा चोदिता वयम् इति सुरभि-वाक्यात् तत्र तु ब्रह्मणा प्रेषितः तेनैव सह चङतस् ततश् च सुरभ्या समं ब्रह्माज्ञामादाय गत इति च अप्य् अर्थे चकारः महापराधित्वेन तस्यागमनं सम्भवेत् तथाप्य् आव्रजद् इत्य् अर्थः ।

अनन्य-गतिकत्वात् तत्र हेतुः कृष्ण स्वयं भगवन्तम् अतः शरणागतत्वेनाव्रजद् इत्य् अर्थः सुरभि-पक्षे कृष्णं स्व-सन्तान-प्रियतागुणेनाकर्षकम् एव-शब्देन शक्रस्य केवल्यं बोध्यते वाहनादि-परिवार-त्यागेनागमनात् ब्रह्मर्षि-देव-मातॄणां चातिसङ्घट्टभिया दूरे स्थितत्वात् अत्र विशेषः श्री-वैशम्पायनेनोक्तः—

स ददर्शोपविष्टं वै गोवर्धन-शिला-तले । > कृष्णम् अक्लिष्ट-कर्मणं पुरुहूतः पुरन्दरः ॥ > तं वीक्ष्य बालं महता तेजसा दीप्तम् अवययम् । > गोप-वेष-धरं विष्णुं प्रीतिं लेभे पुरन्दरः ॥ > तं साम्बुज-दलच्चायं कृष्णं श्री-वत्स-लक्ष्मणम् । > पर्याप्त-नयनः शक्रः पुनः पुनर् उदैक्षत ॥ [ह।वं। > २.१९.३-५]

अतः प्रीतिं लेभ इति पूर्वं श्री-कृष्णस्यैकान्ते दर्शनासम्भावनायासीत् तस्याप्य् अपगमाद् इति भावः । किं च, तत्रैव—

तस्योपविष्टस्य सुखं पक्षाभ्यां पक्षि-पुङ्गवः । > अन्तर्धान-गतश्छायां चकारोरग-भोजनः ॥ [ह।वं। २.१९.७] इति > ।

श्री-पराशरेणापि—

गरुडं च ददऋशोच्चैर् अन्तरर्धान-गतं द्विजम् । > कृत-च्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षि-पुङ्गवम् ॥ [वि।पु। > ५.१२.४] इति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गोलोकात् प्राकृताद् एव, न त्व् अप्राकृतात् इन्द्रस्य तदीय-सङ्गो न सम्भवतीति “इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम्” इति सुरभि-वाक्याच्चेदं लभ्यते श्रीब्रह्मपार्श्वे भयाद्गतः शक्रस्तदाज्ञया गोलोकात् सुरभिमानीय पुनस् तथा तदाज्ञयागत इति ॥१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ रक्षणतः परमसन्तुष्टो सुरभिर् गोलोकात् सुरभि-लोकाद् आगता स्वक्षीरैः कृष्णम् अभिषेक्ष्यतीत्य् उपक्रामति गोवर्धने धृत इत्य्-आदि । कृष्णम् आव्रजत् कृष्णम् आससाद । ततः शक्रश् च स्वलोकाद् आव्रजद् इत्य् अर्थः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्तविंशे भयाद् इन्द्र-स्तुतिस् तत्र कृपा हरेः ।

सुरभ्या चाभिषेको यद् गोविन्देत्य् अभिधाभवत् ॥

आसाराद् रक्षिते व्रजे इति शक्रस्य भयेनागमने हेतुः । सुरभेस् तु ब्रह्माज्ञया भगवद्-अभिषेकः शक्र-साहायं च । “ब्रह्मणा चोदिता वयम्” इति तद्-उक्तेः । गोलोकात् प्राकृताद् एव न त्व् अप्राकृताद् वैकुण्ठ-विशेषात् तदीय सुरभेर् इन्द्र-साहित्यानुपपत्तेः ॥१॥


॥ १०.२७.२ ॥

विविक्त उपसङ्गम्य व्रीडितः कृत-हेलनः ।
पस्पर्श पादयोर् एनं किरीटेनार्क-वर्चसा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रेन्द्र आगत्य किं कृतवांस् तद् आह—विविक्त उपसङ्गम्येत्य्-आदिना अथाह सुरभिर् इत्य् अतः प्राक्तनेन ग्रन्थेन । विविक्ते एकान्ते । पादयोः पस्पर्श नमश् चकार ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र व्रजे । तद् आह इन्द्र-कृत्यम् आह । एकान्ते जन-सम्मर्द-रहित-स्थले प्रकट-स्थले मां दृष्ट्वा लोका हसिष्यन्तीति भीतेर् इति भावः । विविक्त इति । हन्त-हन्त शक्र-हतकस्य वज्र-प्रहारैर् मम गोवर्धन-पृष्ठं कीदृग् जर्जरमभूद् इति दिदृक्षया कदाचित् प्रातर् एकाकिनैव कृष्णेन तत्र गमनात् तदैवेन्द्रेणाप्य् आगमनाद् इति बुध्यत । दर्शन स्थानं च हरिवंशे व्यक्तम् स ददर्शोपविष्ट वै गोवर्धन-शिला-तले [ह।वं। २,१९.३] इति । शृणु भो शक्र त्वं प्रथमम् एकैक एव वःअ नादिपरिच्छदं परित्यज्य दीनो भूत्वा स्वापराधं क्षमयितुं प्रभोश् चरणाम्बुजयोर् दण्डवन् निपतेति सुरभ्या प्रेरणाद् उपसङ्गम्य । हन्त भो देवेन्द्र किम् इदं ते मप्य् अपारं वट्सल्यं दृश्यते, यद्-बाल्याद् अज्ञत्वात् त्वन् मख-हन्तारं मम् अनुकम्पितुमायासीति दृग् इङ्गितेनोक्ते सति व्रीडितः । एणं श्री-कृष्णम् ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विविक्त इति लोक-लज्जा-भयात्, सर्वात्मनि तस्मिन् पुनर् लज्जा नास्त्य् एव, पाद-स्पर्शनम् इन्द्राभिमानित्वाल् लोक-दृष्ट्या लज्जाकरं भवति ॥२॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विविक्ते विजन इति । कदाचिद् गोपा द्वयेण शपेयुः, अवज्ञया वोपहसेयुर् इत्य् आशङ्कया, पूर्वम् एव श्री-भगवता कथञ्चित् कुत्रापि तेषां प्रस्थापनात्, निजाभिषेकापेक्षया श्री-बलदेवस्य गौरवेण सङ्गे\ऽनानयनाच् च, उप-समीपे, सम्यक् मूर्ध्नि बद्धाञ्जल्यवनत-मुखत्वादि-प्रकारेण गत्वा, यद्य् अपि सुरभेर् अनुगत्वेन पश्चाद् एव तस्योपसङ्गतिर् युक्ता, तथाप्य् आदौ तस्य सा भगवद् रूपेण वा कर्षणाद् धैर्यहानेः,

यद् वा, भगवता सह प्राक् सङ्गतायाः सुरभेः पश्चाद् एव तस्य सङ्गति-रू-शब्दात् ज्ञेया । यद् वा, उप अनु सुरभेः पश्चात् स्थित्वा सङ्गत्य् एत्य् अर्थः, तथापि भावः स एव । तत्र हेतुः—व्रीडितः प्राप्त-लज्जः, कुतः ? कृतं हेलनं दुरुक्त्यादिना भगवद् अज्ञानेन । यद् वा, पूजा-भञ्चनेन भगवता यस्य सः, अर्कस्येव दूरव्यापि वर्चो यस्य तेन, एवनं गोप-रूपेण वर्तमानस्मत् प्रभुं पादयोः पस्पर्शेति लज्जा-भयादिना दूरत एवाष्टाङ्ग-प्रणामं बोधयति ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विविके विजन इति गोकुले तेषां प्रकटागमन-व्यवहाराभावात् क्षमापणाया एकान्ते व्यवहार-सिद्धत्वाच् च श्री-कृष्नस्यिअकाकित्वेन तत्र स्थितिश् च नभसि दूरतस् तत् सुरभि-सहितं तं दृष्ट्वा केनापि व्याजेनागमनात् विविक्त उपसङ्गम्येति सुरभिं विनेति गम्यते तच् च स्वयम् एवासावेकाकितया दीनो भूत्वा प्रथमं मिलत्विति सुरभ्या एव प्रेरणयेति ज्ञेयम् । तत्र हेत्व् अन्तरं व्रीडितः प्राप्त-लज्जः कुतः ? कृतं हेलनं लुरुक्त्य् आदिना भगवद् अवज्ञा येन किरीटेनेति दण्डवत् प्रणामं बोधयति अर्क-वर्चसेति तस्य तत् पादयोर् उपयोजितस्य शोभां वर्णयति ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विविक्ते विजने श्री-वैशम्पायनेन स्थानं चोक्तम् “स दर्दशोपविष्टं वै गोवर्धन-शिला-तले” इति विविक्तत्वं च दूरतस् तं दृष्ट्वा बहुल-पुष्प-हरणादिक-मिषेण सखीनां दूरतः प्रस्थापनात् श्री-रामस्य च तद्-दिने कथञ्चित् अनागमनाद् इति ज्ञेयम् ॥२.३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उअभयोः समागमे शक्रस्य प्रथम-चेष्टितमाह—विविक्तम् इत्य्-आदि । अभिमानातिरेकात् कदाचिच् चरणपतितं मां गोपाः पश्येयुर् इति लज्जया विविक्तं यथा भवति तथ उप निकटे सङ्गम्य लोकेऽधायि, अपराद्धो जनस् तथैवाचरति । किरीटेनैव पस्पर्श, न तु शिरसा सङ्कोचातिशयात् साक्षात् स्पर्शाक्षमः । अत्र हेतुः व्रीडितः । कुतः ? कृत-हेलनः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विविक्त इति । हन्त हन्त शक्र-हतकस्य वज्र-प्रहारैर् मम गोवर्धन-पृष्ठं कीदृशं जर्जरम् अभूद् इति दिदृक्षया कदाचित् प्रातर् एकाकिनैव कृष्णेन तत्र गमनं, तदैवेन्द्रेणाप्य् आगमनाद् इति बुध्यते दर्शन-स्थानं च हरिवंशे व्यक्तम्, स ददर्शोपविष्टं वै गोवर्धन-शिला-तले [ह।वं। २,१९.३] इति । शृणु, भोः शक्र! त्वं प्रथमम् एक एव वाहनादि-स्व-परिच्छदं परित्यज्य दीनो भूत्वा स्वापराधं क्षमापयितुं प्रभोश् चरणम्बुजयोर् दण्डवन् निपतेति सुरभ्या प्रेरणाद् उपसङ्गम्य । हन्त भो देवेन्द्र! किम् इदं ते मय्य् अपारं वात्सल्यं दृश्यते यद् बाल्याद् अज्ञत्वात्, तन्-मख-हन्तारं सागसम् अपि माम् अनुकम्पितुम् आयासीति दृग्-इङ्गितेनोक्ते सति व्रीडितः ॥२॥


॥ १०.२७.३ ॥

दृष्ट-श्रुतानुभावो \ऽस्य कृष्णस्यामित-तेजसः ।
नष्ट-त्रि-लोकेश-मद इदम् आह कृताञ्जलिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य श्री-कृष्णस्य श्रुतश् चासाव् अनुभावश् च श्रुतानुभावः दृष्टः श्रुतानुभावो येन स इन्द्रः । नष्टस् त्रि-लोकेशोऽहम् इति मदो यस्य सः ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोवर्धन-धारणे स्वाक्षिभ्याम् आदौ तत् प्रभावं दृष्ट्वा पश्चात् स्वस्यपराधित्वं निश्चित्य स्वात्मरक्षार्थं मेरु-पृष्ठस्थ-ब्रह्म-मुखाच् छ्रतोऽयम् एवास्माकं परम-गुरुर् इत्य् एवं लक्षणे यस्य स तथा । स्थित-तेजः दुर्ज्ञेय-प्रभावस्य ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्य श्री-बाल-गोपाल-रूपेण वर्तमानस्य कृष्णस्य नराकार-पर-ब्रह्मणः, अमितम् अनन्तं तेजो तस्येति अर्क-तुल्यकिरीट-तेजो-युक्तो\ऽप्य् असौ अर्क-कोट्य् अधिक-तेजः पुञ्जजाज्ज्वल्यमान-श्री-पादाब्ज-कनिष्ठ-नखाग्रांशु-लहरीलवेन तद् अग्रे दिवा खद्योतायमान इव वृत्त इति सूचयति, अत एव सद्यो नष्ट-त्रिलोकेश-मदः, अमित-तेजस इति पञ्चम्यन्तं वा, हेतौ अर्थः स एव, किं च, दृष्टः साक्षाद् अनुभूतः श्री-गोवर्धन-धारणादिना अत्रागमन-मात्रेण वा, श्रुतो\ऽनुभावो माहात्म्य-विशेषो येन, अत एव कृताञ्जलिर् इदं वक्ष्यन्न् आह । यद् वा, तादृशोक्तिस्फूर्तौ हेतुः—दृष्टो गोवर्धन-धारणादि-लीला-रूप-विशेषानुभावेन, श्रुतश् च शास्त्रादिना अनुभावो यस्य, अतस् तद् अनुरूपं तुष्टावेत्य् अर्थः । इति स्तुतेर् उत्कृष्टता सूचिता ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्य बाल-गोपाल-रूपस्य कृष्णस्य नराकृति-परब्रह्मणः दृष्टः श्री-गोवर्धनोद्धरणेन श्रुतः श्री-ब्रह्मादि-मुखेनानुभावो येन सः अमितम् अनन्तं तेजो यस्य तस्येति अर्क-तुल्य-किरीट-तेजो युक्तो\ऽप्य् असावर्क-कोट्य् अधिक-तेजः पुञ्जजाज्वल्यमान-श्री-पादाब्ज-नखाग्रंशु-लहरीकस्य तस्यात्ग्रे दिवा खद्योतायमान इव वृत्त इति सूचयति, अत एव च सद्यो नष्टत्रिलोकेशमदः अमित-तेजस इति—पञ्चम्यन्त वा हेतौ । अर्थः स एव ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आदौ दृष्टः स्व-नेत्राभ्याम् एव पश्चाद् अपराधित्वं स्वस्य निश्चित्य परित्राणोपाय-जिज्ञासया मेरु-पृष्ठं गत्वा, श्रुतो ब्रह्म-मुखाद् अनुभावः प्रभावो येन सः ॥३॥


॥ १०.२७.४ ॥

इन्द्र उवाच—

विशुद्ध-सत्त्वं तव धाम शान्तं

तपो-मयं ध्वस्त-रजस्-तमस्कम् ।

माया-मयो \ऽयं गुण-सम्प्रवाहो

न विद्यते ते \ऽग्रहणानुबन्धः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र ममापराधं क्षमस्वेति वक्तुं तव तावद् अपराधो नस्त्य् एव त्वयानुग्रह एव कृत इत्य् आह चतुर्भिः—विशुद्ध-सत्त्वम् इति । धाम स्वरूपं । शान्तम् एक-रूपम्, अतश् च तपो-मयं प्रचुर-ज्ञानं सर्वज्ञम् इत्य् अर्थः । कुतः ? ध्वस्त-रजस्-तमस्कं ध्वस्ते अविद्यमाने रजस्-तमसी यस्मिन् । अत एवायम् अस्मद्-आदिषु दृश्यमानो माया-कार्य-रूपो गुण-संप्रवाहः गुणैः संप्रोह्यत इति तथा, संसार इत्य् अर्थः । स ते तव न विद्यते । यतः अग्रहणेन अज्ञानेन अनुबध्यत इति तथा, स सर्वज्ञस्य ते नास्तीत्य् अर्थः । अज्ञान-सम्बन्धो वा ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तदा कृष्ण-पार्श्वे वा । इन्द्र गर्वाद् एव त्वन् मखं विखण्डय त्वत् सम्प्रदानीयनैवेद्यं भोक्तुं गोवर्धन-मखं मिषेण करवम् इति त्वं वेत्स्येवेति वक्रोक्तिं ज्ञात्वा—भो नाथ त्वन् माया-मोहितो\ऽप्य् अहम् अधुना वत्कृपालेशेन त्वत् तत्त्वं किञ्चिज् जानामीत्य् आह-विशुद्धेति । विशुद्ध रजस्तमोभ्याम् अनभिभूतं सत्त्वं यस्मिंस् तत्-तथा । अतश् च शान्तत्वाच् च । इत्य् अर्थ इति । प्राचुर्य मयट् । सर्व-प्रचुर-शब्दौ पर्यायौ, प्रगतः चुरः स्तेयं यस्माद् इति विग्रहाद् इत्य् अर्थः । तत्र हेतुम् आशङ्कते—कुत इति । यस्मिन् धाम्नि । अत एव गुण-सम्बन्ध-राहित्याद् एव । सम्प्रोह्यते सचाल्पते सबध्यते व । इत्य् अर्थ इति । गुण-सम्बस्यैव संसार-पदार्थत्वाद् इति तत्पर्यम् । स संसारः । यतो हेतोः । न हृह्यते वस्तु-याथात्म्यमनेनेत्य् अग्रहणे तेनानुबुध्यते सम्बध्यते प्राप्यते इत्य् अर्थः । इत्यर्थ इति । सर्वज्ञस्येश्वरस्य संसारसत्त्व ईश्वरतैव लालुप्येतेति भावः । कार्पापेक्षया कार्यिणो मुख्यत्वत् मुख्यामुख्ययोर् मुख्ये कार्य-सम्प्रत्ययः इति न्यायेनाह—अज्ञान-सम्बन्धो वेति ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र महापराधिन्य् अपि स्वस्मिन् श्री-भागवतः स्वाभाविक-श्री-मुख-प्रसक्त्या कोपाभावम् अवधार्य आश्वस्तः संस्तं स्तुवन् आदौ निजापराधं क्षमापयितुं परमेश्वरस्य तवास्मासु कोपावज्ञादिकं न कथञ्चित् कदाचिद् अपि घटते, वयं तु त्वन् मायामोहिताः संसारिणो बहुधा नित्यापराधिन एव इत्य् आह—विशुद्धम् इति । यद्य् अपि श्री-भगवद् रूपं गुणातीतं सच्चिदानन्द-घनम् एव, तथापि विशुद्ध-सत्त्वम् इति लोभ-क्रोधादि-रहित-सत्त्व-गुण-स्वभाव-सादृश्य-दृष्टि-मात्रेणोक्तम्, तत्र यद्य् अपि देवा अपि सात्त्विकास् तथापि स्वस्येव तेषां लोभादि-सम्भवनाद् विशुद्धेत्य्-आदि-विशेषणैदात्मादि-देव-वर्त-स्वभावो व्यवच्छिन्नः । अन्यत् तैर् व्याख्यातम्,

यद् वा, विशुद्ध-सत्त्वं चिछक्ति-विलास-भूतं नित्यानन्द-रूपम् । यद् वा, भो विशुद्ध ! सर्व-दोष-रहित । माया-गुण-स्पृष्टेति वा, तव धाम श्री-मूर्तिः सत्त्वं सत्त्व-मात्रं ब्रह्म-धामेत्यनेन ब्रह्म-घनत्व-मायातमेव, कथम्-भूतं सत्त्वम् ? तपः चित्तकाग्र्यं तन् मयं तद् एक-साध्यम् इत्य् अर्थः । कथम्-भूतं धाम ? ध्वस्ते अतिविनष्टे निरस्ते वा रजस् तम् असी सेवकानां यस्याद् येन वा तत्, अतो\ऽयं साक्षाद् अनुभूयमानस्ते तव कारु\ऽन्यादि-गुण्पानां सम्प्रवाहः परम्परा मायामयो न भवति, कुतः ? ग्रहणेन त्वत् स्वीकारेणैवानुबध्यते प्राप्यत इति तथा सः, अनन्य-साध्यतया तस्य स्व-प्रकाशत्व-पर्यवसानेन गुणातीत-त्वासिद्धेः,

यद् वा, ध्वस्त-रजस्तमस्कत्वेन त्वत् सेवकानाम् अपि तेषां गुण-प्रवाहः संसारो नास्त्य् एव, यतस् ते\ऽग्रहणेन त्वद् अज्ञानेनैवानुबध्यत इति,

यद् वा, धाम वसति-स्थानं गोष्ठम् इत्य् अर्थः । अतो\ऽत्रापि मायामयो गुण-संप्रवाहो न विद्यते, अस्यापि त्वत् सदृशत्वात्, अतो मयात्र किं कर्तुं शक्यते, तथापि यत् तादृशं कृतं तन् महाग एव ममेति भावः


यद् वा, विशुद्धं सत्त्वं प्राण्य् एव तव धाम निवास-स्थानम्, कथम्-भूतम् ? शान्तं शान्ति-युक्तम्, अतस् तपोमयं तपः-प्रचुरम्, अत एव तस्मिन्न् अयं नास्ति, अन्यत् समानम्, अतो मम तद्-वैपरीत्येन हृदि तद् अभावात् त्वज् ज्ञानं नाभूत्, सदा संसारो महापराधश् च जात इति भावः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र महापराधिन्य् अपि स्वस्मिन् श्री-भगवतः स्वाभाविक-श्री-मुख-प्रसक्त्या कोपाभावमवधार्यास्वरथः सन् त स्तुवन् आदौ निजापराधं क्षमयितुं परमेश्वरस्य तवास्मासु कोपादिकं न घटते वयं तु त्वन्माया-मोहिताः संसारिणो बहुधा नित्यापराधिन एवेत्य् आह—विशुद्ध-सत्त्वम् इति । विशुद्ध-सत्त्वम् अत्र प्राकृत-सत्त्वानुस्यूत-चिच् छक्ति-वृत्ति-विशेषो ज्ञेयः । यथोक्तं ब्रह्म-संहितायाम्

सत्त्वावलम्बि-पर-सत्त्व-विशुद्ध-सत्त्वम् > गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥ इति ॥

अन्यत् तैः । तत्र विशुद्ध-सत्त्वात्मकं स्वरूपम् इत्य् अर्थः यद् वा, तव धाम प्रकाशोयं विशुद्ध-सत्त्वं तद् आख्यं स्व-प्रकाशता-रूपम् इत्य् अर्थः । विशुद्ध-पदस्य जाड्यांश-परित्यागेऽपि हेतुत्वात् सत्त्व-पदस्याविर्भावार्थत्वात् तच् च शान्तं क्षोभ-रहितं किं च, तपोमयं ज्ञानातिशय-रूपम्—

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्यशेषतः । > भगवच् छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] > इति ।

श्री-विष्णु-पुराण-वचनात् । ज्ञान-प्रचुरं च शान्तत्वे हेतुः ध्वस्त-रजस् तमस्कं विक्षेपावरण-शून्यम् अयम् आत्मापहत-पाप्मा [छा।उ। ८.१५.१] इति श्रुतेः । प्राकृत-सत्त्वं तु तत्र निषिद्धं श्री-विष्णु-पुराणे—

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । > स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। > १.९.४४] इति । > ह्लादिनी सन्धिनी सम्वित् त्वय्य् एका सर्व-संश्रये1 । > ह्लाद-तापकरी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६८] इति > च,

अत स्वयं साक्षाद् अनुभूयमानस् ते तव कारुण्यादि-गुणाना सम्प्रवाह परम्परा मायमयो न विद्यते न भवति । कुतः ? ग्रहणेन त्वत्-स्वीकारेणैव अग्रहणेन इन्द्रिय-करणक-परिच्छेदाभावेनैव वा अनुबध्यते प्राप्यत इति तथा सः ॥४॥


जीव-गोस्वामी (भगवत्-सन्दर्भः) : अयम् अर्थः—धाम स्वरूप-भूत-प्रकाश-शक्तिः । विशुद्धत्वम् आह विशेषण-द्वयेन । ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च । तपोऽत्र ज्ञानं स तपोऽतप्यत इति श्रुतेः । तपोमयं प्रचुर-ज्ञान-स्वरूपम् । जाड्यांशेनापि रहितम् इत्य् अर्थः । आत्मा ज्ञान-मयः शुद्ध इतिवत् । अतः प्राकृत-सत्त्वम् अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न विद्यते । यतोऽसाव् अज्ञानेनैवानुबन्ध इति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विशुद्धं सत्त्वम् इति व्याख्या ॥४.६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


तपो-मयं ध्वस्त-रजस्-तमस्कम् ।

माया-मयो \ऽयं गुण-सम्प्रवाहो

न विद्यते ते \ऽग्रहणानुबन्धः ॥

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गर्वाद् एव त्वन्-मखं विखण्ड्य लोभाद् एव त्वत्-सम्प्रदानीयं नैवेद्यं भोक्तुं गोवर्धन-मख-मिषम् एवाकरवम् अहम् इति मत्-तत्त्वं त्वं जानास्य् एवेति स्वस्मिन् वक्रोक्तिम् आशङ्क्य भो नठ! त्वन्-माया-मोहितोऽप्य् अहं त्वत्-कृपा-लेशेनाधुना त्वत्-तत्त्वम् एतन्-मात्रं त्व् अहं जानामीत्य् आह—विशुद्धम् इति द्वाभ्यां । तव धाम-स्वरूपं शान्तम् अनुग्रं तपोमयं ज्ञान-स्वरूपं तर्हि किं सत्त्व-गुणोत्थं? न, विशुद्ध-सत्त्वं अप्राकृतं चिद्-आनन्दमयम् इत्य् अर्थः । अतो रजस्-तमसोस् त्वयि सम्भावनैव नास्ति प्रत्युतान्य-गतयोर् अपि तयोस् त्वत्तो ध्वंस एवेत्य् आह ध्वस्तं रजस् तमश् च यस्मात् यत्-स्मरणादि-कर्तुर् अपि रजस्-तमसी नश्यत इत्य् अर्थः । अतोऽस्मिन् जगत्य् अस्मद्-आदिषु यो गुणानां सम्यक् प्रवाहः, संसार-रूपः मायामयः अयं ते तव नैव विद्यते । ननु, जीववन् मास्तु किन्तु मायाम् अधीनीकृत्य कदाचित् कौतुक-वशाद् अस्तु नात्र कोऽपि दोषस् तत्राह अग्रहणानुबन्धः न विद्यते ग्रहणस्यानुबन्ध आकाङ्क्षापि यत्र सः ॥४॥


॥ १०.२७.५ ॥

कुतो नु तद्-धेतव ईश तत्-कृता

लोभादयो ये\ऽबुध-लिङ्ग-भावाः ।

तथापि दण्डं भगवान् बिभर्ति

धर्मस्य गुप्त्यै खल-निग्रहाय ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा अज्ञान-तत्-कृत-देह-सम्बन्धौ न स्तस् तदा तत् कृतानां लोभादीनां का वार्तेत्य् आह—कुतो नु इति । तत् कृता देह-सम्बन्ध-कृताः तद्-धेतवः पुनर् अन्यस्य देहस्य हेतवः । ननु ज्ञानिनाम् अपि ते दृश्यन्तेऽत आह—अबुध-लिङ्ग-भावा अज्ञानिनां गमकाः । यावद् रागादि-मत्त्वं तावज् ज्ञानित्वम् एव न सिद्धम् इत्य् अर्थः । लोभाद्य्-अभावेऽपि मन्-मान-भङ्गो दण्डार्थम् इत्य् आह—तथापीति ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कारणाभावे कार्याभावम् आह—यद् एति । तत्-कृतानाम् अज्ञान-कृतानाम् । ज्ञानिष्व् अपि लोभादीनाशङ्कते—नन्व् इति । ते लोभादयः । अतः अत्र । अबुधानां लिङ्गं स्वरूपं भावयन्ति बोधयन्तीत्य् अबुध-लिङ्ग-भावाः । इत्य् अर्थ इति रागादय एवाज्ञानित्वापादका इत्य् अर्थः । भगवतः स्वहितैषित्वम् आह—लोभाद्येति । तथापि लोभाद्य् अभावे\ऽपि । दण्डं शासनम् । यद् वा—दण्डं सन्न्यास-चिह्नीभूतं वेणु-लकुटम् । धर्मस्य प्रव्रज्याधर्मस्य । गुप्त्यै खलस्याज्ञानस्य निग्रहाय त्वं-पदार्थ-विवेकाय सन्न्यासः सर्व-कर्मणाम् इत्य् उक्तेः । इत्य् अभिप्रेत्यैव देवलेनोक्तम्—मुख-जानाम् अयं धर्मो यद् विष्णोर् लिङ्ग-धारणम् इति । विष्णुर् लिङ्गं दण्डः दण्डोऽस्त्री शासने राज्ञा हिंसने लकुटे गुणे । दमने वेणुलकुटे इति यादवः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सद् गुण-निधित्वात् दोषाणाम् अभावात् त्वयि भावकेषु च लोभादयो न सन्तीति कैमुतिक-न्यायेनाह—कुतोन्विति । ईश हे माया-नियन्तः ! आदि-शब्देन क्रोधादयः, लोभस्यादाव् उक्तिः श्री-गोवर्धन-यागे [एतादृश-लोभस्य भक्त-सुखकरत्वाद् अन्येषाम् अदुःखकरत्वात् ईश मन्युलोभादयः इति पाठः श्री-चित् सुखादीनां सम्मतः, अतस् तावकत्व-रहितानाम् अबुधानाम् अस्माकम् एव लोभादयो युक्ता एवेति भावः । अथापि यद्य् अपि तव त्वदीयानां च लोभादयो न सन्ति, तथापीत्य् अर्थः, बिभर्ति भवान्, यतो भगवान्, सर्व-लोक-हितार्थम् अवतीर्णः साक्षात् परमेश्वर इत्य् अर्थः । यद् वा, भगवान् बिभर्तीत्य् अपरोक्षे\ऽपि परोक्षवद् उक्तिर् भय-गौरवादिना ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः कैमुतिक-न्यायेनाह—कुतोन्विति । यदि गुणाः मायामया न भवन्ति तर्हि तद् धेतवो माया-हेतुका दोषाः कुत इत्य् अर्थः । तत्र हेतुः ईश, हे माया-नियन्तः ! नवन्नकूट-भोजनत्वन् मदासहनादिना मयि ते भवद्भिर् अवगता एव कथम् अधुना भयेनापलप्य् अन्ते तत्राह—तत् कृता लोभादयो ये बुध-लिङ्ग-भावा इति । बुध-लिङ्ग-भावा भक्त-भक्ति-माहात्म्यगमकाः भक्त-दत्त-भोजन-समास्वादात्मका लोभादयस् ते तु तत् कृताः कुत इति न मायाकृताः किन्तु कृपा-मात्र-कृता इत्य् अर्थः पत्रं पुष्पं फलं तोयम् इत्य् आदेः

ननु, भवतु तादृशो लोभः भक्त-सुखकरत्वाद् अन्येषाम् अदुःखकरत्वच् च क्रोधस् तु स्व-विशय-दुःखकर एव दण्डात्मकत्वात् कथं तर्हि तत्र च न कृपा तत्राह—एवेति भावः । तथापीति पाठः क्वचित् भगवान् बिभर्तीत्य् अपरोक्षेऽपि परोक्षवद् उक्तिर् भय-गौरवादिना ईश मन्युलोभादय इति चित् सुखादीनां पाठे मन्यु-लोभादीनां च कुतोन्वित्य् अनेनैवान्वयात् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः कैमुतिक-न्यायेनाह—कुत इति । नु भो ईश! यदि तव गुण-प्रवाहे जिघृक्षापि नास्ति, तर्हि कुतस् तस्य गुण-प्रवाहस्य हेतवो गुणाः स्युः, तत्-कृता गुण-प्रवाह-कार्य-भूताः लोभादयः च येऽबुधस्य लिङ्गं चिह्नं भावयन्त्य् उत्पादयन्तीति ते । ननु, तर्हि कथं तन्-मख-भङ्गम् अकरवं ? तत्राह—अथापीति । लोभ-कोपाद्य्-अभावेऽपि ॥५॥


॥ १०.२७.६ ॥

पिता गुरुस् त्वं जगताम् अधीशो

दुरत्ययः काल उपात्त-दण्डः ।

हिताय चेच्छा-तनुभिः समीहसे

मानं विधुन्वन् जगद्-ईश-मानिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्वद्-दण्डे च मम गोप-पुत्रस्य का शक्तिः । किं वा, कारणं, को वा दण्डो मया कृत इत्य् अत आह—पितेति । त्वं पिता जगतां जनकः, गुरूपदेष्टा, अधीशो नियन्ता, इति दण्ड-धारणे हेतु-त्रयम् । कालत्वात् समर्थः, तस्माद् उपात्त-दण्डो हिताय कल्याणाय स्वेच्छा-तनुभिर् लीलावतारैः समीहसे । तव समीहा लीलैव जगद्-ईश-मानिनाम् अस्माकं मान-विधूननम् इत्य् अर्थः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवांस् तस्य महत्त्वं द्योतयन् दण्डे कारणम् आशङ्कते—नन्व् इति । जनको ब्रह्मादि-द्वारा उपदेष्टा मन्वादि-रूपेण, नियन्ता यम-राजादि-रूपेण । मानधूननं माननाशनम् । इत्य् अर्थ इति । मान-निवृत्त्या साधुमार्ग प्रवृत्तिः स्यात् तद् एव भगवल् लोला-प्रयोजनम् इति भावः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो मम हितम् एवाकरोरित्य् आह—चकारात् स्वयं च । यद् वा, च एव, जगतां हितायैव, सम्यक् ईहसे चेष्टसे, विचित्र-लीलां तनुषे, किं कुर्वन् ? जगदीशमानिनां जगदीशा वयम् इति मानवताम् । यद् वा, हे जगदीशेति । तत्र तत्र हेतुः—मानिनाम् अभिमानवताम् अस्माद् दृशाम् अभिमानं निरस्यन्, अन्यथा लोक-पालानाम् अभिमान-दृष्ट्वा लोकानाम् अप्य् अभिमानेन हितासम्पत्तेः,

यद् वा, अप्य् अर्थे चकारः, मानं विधुत्वन्न् अपि तेषाम् अपि हिताय समीहसे । अन्यत् तैर् व्यञ्जितम् । यद् वा, दण्डं बिभ्रतो\ऽपि हितकारित्वं समर्थयति—पितेति, उपत्त-दण्डो दण्डं बिभ्रद् अपि त्वं जगतां पित्रादय एव, यथा पुत्रादि-हिताथ ते\ऽपि दण्डं धारयन्तीत्य् अर्थः । तत्र गुरुः शिष्य-हितार्थम्, अधीशः स्वामी भृत्यस्य, कालो यमस्य सर्व-जीवानाम्, नरकोपभोजनादिना पापादिक्षपणात्, तच् चाजामिलोपाख्यानादौ व्यक्तम् एव, यद् वा, परमाष्वादि-लक्षणः कालः सो\ऽपि जन्म-मरणादिना दण्डं कुर्वन् वैराग्योत्पादनादिनाहितं करोत्य् एव, तत्र कथञ्चित् पित्रादयो वञ्चयितुं शक्यन्ते, न च काल इत्य् आह—दुरत्ययो दुर्लङ्घ्यः, अतः स्वस्य भक्तानां चेछया यास् तनवो\ऽवतारास् ताभिः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो मम हितम् एवाकरोद् इत्य् आह—पिता च गुरुश्चेत्य्-आदिर् अन्वयः । सम्यक् ईहसे विचित्र-लीलां तनुषे अन्यत् तैः तत्र मानधूननम् इत्य् अतिशय-विवक्षयैव भेदानिर्देशः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-गोपन खल-निग्रहाभ्यां पूर्णस्य परमेश्वरस्य मम किं फलम् इति चेत्, जगतां मङ्गलम् एवेत्य् आह—पितेति । तव साहजिक-कारुण्यात् जगतां मध्ये ये धार्मिकास् तेषु त्वं पिता यथा पुत्रस्य देह-द्वये वत्सलः गुरुर् यथा शिष्यस्य जीवात्मनि वत्सलः, अधीशस् तत्-तद्-दुःख-त्राण-सुख-प्रदान-समर्थः ये तु खलास् तेषु त्वं दुरत्ययो दुर्वारः कालः स इव उपात्त-दण्डः दण्ड-प्रदानेनैव तच् चोदक इत्य् अर्थः । अत उभयेषां हितायैव इच्छा-तनुभिः स्वेच्छामयावतारैः समीहसे चेष्टसे तव समीहा लीलैव पूतना-वधादिका दुष्ट संहारिका शिष्ट-पालिका चेत्य् अर्थः । ये त्वधिकृतभक्ता ब्रह्माद्यस् त्वद्-दत्त यत्-किञ्चिद्-ऐश्वर्येणैव मत्ता भवन्ति तेषाम् अपि मद-निरसिनी त्वल्-लीलैवेत्य् आह—मानम् इति ॥६॥


॥ १०.२७.७ ॥

ये मद्-विधाज्ञा जगद्-ईश-मानिनस्

त्वां वीक्ष्य काले \ऽभयम् आशु तन्-मदम् ।

हित्वार्य-मार्गं प्रभजन्त्य् अपस्मया

ईहा खलानाम् अपि ते\ऽनुशासनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् एतद् ? इत्य् अत आह— इति । मद्-विधाश् च ते अज्ञाश् च ते, अतो जगद्-ईश-मानिनः काले भय-कालेऽपि यथाधुनैवातिवृष्टौ त्वाम् अभयं भयम् अगणयन्तं वीक्ष्य आशु तन्-मदं जगद्-ईशा इति मदं हित्वा विगत-गर्वाः सन्तः आर्य-मार्गं त्वद्-भक्ति-लक्षणं भजन्ति । अतस् तव ईहा एव स्वकानाम् अनुशासनं दण्ड इत्य् अर्थः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् जगद्-ईश-मानिनां दण्डेन मान-हननम् । मल्-लीलेति यत् तत् कथम् इत्य् अर्थः । अतः अत्र । मद्-विधाः मत्-तुल्याः । अतः अज्ञत्वात् । तन्-मदं येन मदेन त्वद्-अपराधम् अकार्ष्मेत्य् अर्थः । स च जगदीशाः वयम् इत्य् एवं-रूपः अपगतः स्मयो गर्वा येषां, ते तथा, स्मयः स्यात् स्मित-गर्वयोः इति धरणिः । आर्याणां महतां मार्गम्

वेदोक्तिं योऽनतिक्रम्य कर्माणि कुरुतेऽनिशम् । > स आर्यः प्रोच्यते सद्भिर् अनार्यस्तु ततोन्यथा ॥ इति कौशिकोक्तेः । > चतुर्ष्व् आश्रम-वर्णेषु पूज्येषु वणिजां गणे । > शिष्टाचार-रते पुंसि स्याद् आर्यो गम्य-पद्धतौ ॥ इति मार्केण्देयादौ > ।

यतस् त्वं सर्वदाभयोऽतो हेतोः । ईहा लीलैव । इत्य् अर्थ इति । खलानुशासनार्थम् एव लीलां बिभर्षीति भावः । ईह स्याद् उद्यमे चेष्टा-वाञ्छा-लीलासु च स्त्रियाम् इति नैरुक्तः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, मया स्व-भक्त-विनोदार्थं विविधाश् चेष्टाः क्रियन्ते, न तु त्वादृशानां मान-भञ्जनाय, सत्यम्, तत एवास्मादृशानां स्वत एव मान-भङ्गः स्याद् इत्य् आह—ये इति, तैर् व्यञ्जितम् एव ।

यद् वा, काले कस्मिंचिद् योग्य-समये भयं साक्षाद् भय-रूपं त्वां वीक्ष्य । किं वा, अभयम् आर्य-मार्गं प्रकर्षेण प्रेम-विस्तारणादिना प्रभजन्ति, इति हितम् अभिव्यञ्जितम् । एवम् ईहया चेष्टयापि, न केवलं वाचा, ये खलास् तेषाम् अप्य् अनुशासनं शिक्षा बभूव । ते इत्य् अस्य ये इति पूर्वेणैव सम्बन्धः,

यद् वा, तव ईहायां श्री-गोवर्धनार्चन-गोष्ठावनादि-चेष्टायां ये खला दुष्टाः, तेषाम् अपि । एतच् चात्मोद्देशेनोक्तम् । अन्यत् समानम् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मान-भञ्जन-पूर्वकं हित-प्रवर्तन-प्रकारम् एवाह— इति । हितम् आह—आर्य- इति यद्य् अपि भक्तानन्दनार्थम् एव, तथापि तव ईहा लीला मद्-विधानां खलानाम् अपि अनुशासनं शिक्षा-कारणं भवतीत्य् अर्थः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मान-भञ्जन-पूर्वकं हित-प्रवर्तने प्रकारम् एवाह— इति हितम् आह—आर्येति । अनुशासनं शिक्षा-कारणम् ॥७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषु जगदीश-मानिष्व् अपि मध्येऽहम् अत्यधम इत्य् आह—मद्-विधाश् च ते अज्ञाश् चेति तेन अज्ञानाद् अप्य् उपगानत्वाद् अहम् अत्यज्ञ इति भावः । काले भय-कालेऽपि यथा अधुनैवातिवृष्टौ अभयं भयम् अगणयन्तं वीक्ष्य । यद् वा, न जाने प्रभुर् अयं मां कीदृशं दण्डयिष्यतीति स्वस्य भयं भय-हेतुं वीक्ष्य तन्-मदं जगद्-ईश्वरत्व-मदं त्यक्त्वा आर्याणां त्वद्-भक्तानां मार्गं भजन्ति गत-स्मया नष्ट-गर्वा अतस् तवेयं गोवर्धन-धारण-लीलैव खलानाम् आस्मकम् ॥७॥


॥ १०.२७.८ ॥

स त्वं ममैश्वर्य-मद-प्लुतस्य

कृतागसस् ते\ऽविदुषः प्रभावम् ।

क्षन्तुं प्रभो\ऽथार्हसि मूढ-चेतसो

मैवं पुनर् भून् मतिर् ईश मे\ऽसती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं भगवत्-स्वरूपम् अभिप्रायं चानुवर्ण्य क्षमापयति—स त्वम् इति । एवं-भूता असती मतिर् मे पुनर् मा भूद् इति प्रार्थनान्तरम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । विशुद्ध-सत्त्वम् इत्य्-आदिना भगवत्-स्वरूपं गर्व-परित्यागेनार्य-मार्गे प्रवृत्तिस् त्व् अस्येत्य् अभिप्रायं च । यः स्वेश्वरः, स त्वम् । प्लुतो व्यापे त्रिमात्रे च स्वरे कूर्दन-नृत्ययोः इति धरणिः । एवं-भूता महद् अवज्ञान-प्रवृत्ता ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रभो ! भो मद्-आदि-सर्व-देवेश्वर ! हे क्षमा-समर्थ ! इति वा, अतो\ऽस्माद् उक्ताद् धेतोः, स जगद्-धितकारी, कृतागसो\ऽपि मम क्षन्तुम् अर्हसि योग्यो\ऽसि । कृतागस्त्वे हेतुः—तव प्रभावं माहात्म्यम् अविदुषो\ऽजानतः, तत् कुतः ? मूढ-चेतसो विचार-रहितस्येत्य् अर्थः । तद् अपि कुतः ? ऐश्वर्य-मद-व्याप्तस्य

यद् वा, तव प्रभावं विदुषो\ऽपि कृतागस इत्य् अधिकम् आगो\ऽभिप्रेतम्, तथापि क्षन्तुम् अर्हसि । कुतः ? मूढ-चेतसः, अज्ञत्वेनाग्राह्यापराधत्वाद् इत्य् अर्थः । किम् च, सकल-जगद्-धितार्थावतीर्णस्य परम-दयालोर् उदार-शिरोमणेस् तव मदीयैतत् सकृद्-अपराध-क्षमापनं कियन् नाम, किन्तु तथा कुरु यथा पुनस् त्वयि त्वदीयेषु च कदाचिद् अपि को\ऽप्य् अपराधो न स्याद् इत्य् आह—मैवम् इति । एतादृशी त्वयि तावकेषु च महागसां जननी, अत एव असती। मूढ-चेतसः इत्य् अस्यात्रैव वान्वयः । कथञ्चिज् ज्ञान-रहितस्यापि सतो मे । ननु ऐश्वर्ये सति कथं नाम न भवेत् ? तत्राह—हे ईश ! तत्रापि त्वया तथा कर्तुं शक्यत इत्य् अर्थः ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभो ! भो मद्-आदि-सर्व-देवेश्वर ! हे क्षमा-समार्थ ! इति वा । अथ अस्माद् उक्ताद् धेतोः स जगद्-धित-कारी कृतागसोऽपि मम क्षन्तुम् अर्हसि योग्यो\ऽसि । कृतागस्त्वे हेतुः—तव प्रभावं माहात्म्यम् अविदुषः अज्ञानतः । तत् कुतः ? मूढ-चेतसः विचार-रहितस्येत्य् अर्थः । तद् अपि कुतः ? ऐश्वर्य-मद-व्याप्तस्य

यद् वा, तव प्रभावं विदुषोऽपि कृतागस इत्य् अधिकम् आगोऽभिप्रेतं, तथापि क्षन्तुम् अर्हसि कुतः ? मूढ-चेतसः विस्मृत-प्रभावस्य अज्ञत्वेनाग्राह्यापराधत्वाद् इति भावः ।

किं च, सकल-जगद्-धितार्थावतीर्णस्य परम-दयालोर् उदार-शिरोमणेस् तव मदीय-तत्-सकृद्-अपराध-क्षमापणं कियन् नाम, किन्तु तथा कुरु यथा पुनस् त्वयि त्वदीयेषु च को\ऽप्य् अपराधो न स्याद् इत्य् आह—मैवम् इति । एतादृशी त्वयि तावकेषु च महागसां जननी, अत एवासती मूढ-चेतसः इत्य् अस्यात्रैव वान्वयः । यत् किञ्चित् ज्ञान-रहितस्यापि सतो मे न त्व् ऐश्वर्ये सति कथं नाम न भवेत् ? तत्राह—हे ईश ! तत्रापि त्वया तथा कर्तुं शक्यत इत्य् अर्थः । एतच् च नातिशुद्धेन चेतसा प्रार्थितम् इति ज्ञेयम् । त्वां वीक्ष्य काले भयम् [१०.२७.७] इत्य् उक्तेर् अक्षमतयैव तद्-अनुगतेः । अत एव पुनः पारिजातापहरणादाव् अपि विस्मरिष्यते ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मैवं पुनर् भूद् इति प्रार्थना नातिशुद्ध-चेतसा विहितेति ज्ञेयं पुनर् अपि पारिजात-हरणेऽपराधापात-दर्शनात् ॥८.१०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, गोवर्धन-धारणेन व्रजस्य रक्षाम् एव करवं, न तु तव दण्डम् । तव दण्डं तु साम्प्रतं वैवस्वतम् आहूय समीचीनतयैव कारयिष्यामीत्य् आशङ्क्य महा-भय-विह्वल आह— प्रसिद्धः पिता च गुरुश् च, अतः कृपालुत्वात् क्षमा-सिन्धुत्वाच् च ऐश्वर्य-मद-सिन्धौ प्लुतस्य निमग्नस्य । अत एव तव प्रभावं अविदुषोऽजानतः ममापराधं क्षन्तुम् अर्हसि, यतो मूढ-चेतसः पशु-स्वभावस्य पशुर् हि स्वामिना दत्त-दण्ड-प्रहारोऽपि क्षणान्तरे तम् एवापराधं करोति । अतोऽहं दण्ड-प्रदानेन न शोधनम् अर्हामि, किन्तु कृपया तथा मां शोधय यथा मे मूढ-चेतस्त्वं नश्यतीत्य् आह—मैवम् इति । एतच् च नातिशुद्धेन चेतसा प्रार्थितम् इति ज्ञेयम् । त्वां वीक्ष्य काले भयम् [१०.२७.७] इत्य्-उक्तेर् अक्षमतयैव तद्-अनुगतेः । अतः पुनः पारिजात-हरणादाव् अपि विस्मरिष्यत इति वैष्णव-तोषणी ॥८॥


॥ १०.२७.९ ॥

तवावतारो\ऽयम् अधोक्षजेह

भुवो भराणाम् उरु-भार-जन्मनाम् ।

चमू-पतीनाम् अभवाय देव

भवाय युष्मच्-चरणानुवर्तिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महान् अयम् अपराधः कथं क्षन्तव्यः ? इति चेद्, अत आह—तव इति । स्वयं भराणां पुनश् च उरु-भार-जन्मनां बहूनां भाराणां जन्म येभ्यस् तेषाम् अभवाय नाशाय, युष्मच्-चरण-सेविनां तु भवाय । अतो मम त्वत्-सेवकत्वाद् अत्यन्तापराधिनोऽपि क्षन्तव्यम् इति भावः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयं मद्-अवज्ञा-लक्षणः । इह अत्र । भाराणां भार-भूतानाम् उत्पथ-गामिनाम् इत्य् अर्थः । इह भूमौ यदु-कुले वा । यतः सेविनां भवायअतो हेतोः । इति भाव इति। अपराधः सकृद् भर्त्रा सोढव्यः इति न्यायेनेति तात्पर्यम् । अहं तूभयेषां मध्ये न को\ऽपि । मम तु न भवो नाभवो मयि तूदासीन एव वर्तसेऽतो धिङ् माम् इत्य् अर्थः ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधोक्षज ! इन्द्रिय-ज्ञानागोचर ! इति परमादृश्यतोक्ता । तथापि इह पृथ्वी-तले तवावतारः प्राकट्यं, श्री-विकुण्ठ-लोकाद् अवतरणं वा, भवाय मङ्गलाय, देव ! हे पूज्य ! इति स्वस्य सेवकतां साधयति—युष्मद् इति बहुत्वेन तदीयान् अपि सर्वान् श्री-नन्दादीन् सङ्गृह्नाति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, निज-प्रभाव-विद्वत्ताम् एवाभिव्यञ्जयन् स्वस्य मूढ-चेतस्त्वम् एव दर्शयन् स-विक्रोशम् आह—तव इति । अस्माकं प्रर्थनयास्माकम् एव हितार्थं त्वम् अवतीर्णो\ऽसीत्य् अस्माभिर् ज्ञायत एव, तथाप्य् एतादृशो\ऽपराधः कुतः ? अहो बत मूढ-चेतस्त्वम् ! अतः क्षन्तुम् अर्हस्य् एवेति भावः ।

यद् वा, आगः क्षमा पुनर् असम्मत्य् अभावश् च त्वत् स्वभावात् सुघटैवेत्य् आह—तवेति । हे अधोक्षज इति । शकटाक्षाधः-शयनादि-सूचनेन परम-भक्त-वात्सल्यादि स्मारितम्, चमु-पतीनां दुष्टानाम् अप्य् अभवाय मोक्षाय । अत आगः क्षमा युक्तैवेति भावः । दीव्यति द्योतत इति देवो यो भवः समृद्धिः प्रेम-भक्ति-सम्पल्-लक्षणा, तस्मै । अतो\ऽसन्-मतेर् अपुनर्भवो\ऽपि त्वत्तो युक्त एवेति भावः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधोक्षज ! हे इन्द्रिय-ज्ञानागोचर ! इति परमादृश्यतोक्ता । तथापि इह पृथ्वी-तले तवावतारः प्राकट्यं भवाय मङ्गलाय । देव ! हे पूज्य ! इति स्वस्य सेवकतां साधयति—युष्मद्- इति । बहुत्वेन तदीयान् श्री-व्रज-जनादीन् अपि सङ्गृह्णाति । अन्यत् तैः ।

यद् वा, स्वस्य तत्-प्रभाव-विद्वताम् एवाभिव्यञ्जयन् मूढ-चेतस्त्वम् एव च दर्शयन् सानुतापम् आह—तव इति । अस्माकं प्रार्थनया अस्माकम् एव हितार्थं त्वम् अवतीर्णो\ऽसीत्य् अस्माभिर् ज्ञायत एव, तथाप्य् एतादृशोऽपराधः कृतः । अहो बत मूढ-चेतस्त्वम् ! अतः क्षन्तुम् अर्हस्य् एवेति भावः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो मे मूढ-चेतस्त्वं यद् अस्माकं प्रार्थनयाह अस्माकम् एव हितार्थाय त्वम् अवतीर्णो ऽसीति पश्यन्न् अप्य् अन्धोऽहम् अभवम् सम्प्रति लब्ध-दण्डः प्राप्त-चक्षुर् एवं, तत्त्वं ते जानामीत्य् आह—तव इति । स्वयम् एव भराणां भार-रूपाणां, पुनश् च उरु-भार-जन्मनां बहूनां भाराणां जन्म येभ्यस् तेषां चमू-पतीनां अभवाय नाशाय, युष्मच्-चरण-सेविनां तु भवाय मङ्गलाय । अहं तु उभयेषां मध्ये न कोऽपीति मम नाभवो नापि भव इति मय्य् उदासीन एव त्वं वर्तसे इति धिङ् माम्" इति भावः ॥९॥


॥ १०.२७.१० ॥

नमस् तुभ्यं भगवते पुरुषाय महात्मने ।
वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षमापयन् नमस्करोति—नम इति । तुभ्यं भगवते कृष्णाय नमःपुरुषाय सर्वान्तर्यामिणे । महात्मनेऽन्तः-स्थत्वेऽप्य् अपरिच्छिन्नाय । कुतः ? वासुदेवाय सर्व-निवासाय । सात्वतां यादवानां पतये ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपरिच्छिन्नत्वे शङ्कते—कुतः ? इति ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवते साक्षात् परमेश्वराय, तत्रापि कृष्णाय अशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षकाय तुभ्यं नमः । एवं बहिर्-ऐश्वर्यम् उक्त्वान्तरम् अप्य् आह—पुरुषाय इति । तथापि सात्वतां पतये कृपयावतीर्य यादव-श्रेष्ठतां प्राप्ताय इत्य् अर्थः, अन्यत् तैर् व्यञ्जितम् ।

यद् वा, सर्वावतारेष्व् अप्य् एवम् एव त्वं यद्य् अपि करोषि, तथाप्य् अत्र सर्वतो महा-विशेष इत्य् आह—नम इति द्वाभ्याम् । तुभ्यं कृष्णाय सर्व-चित्ताकर्षकाय सर्वतो\ऽसाधारणाय नमः । कृष्णत्वम् एव दर्शयति—भगवते सर्वैश्वर्य-परिपूर्णाय । कुतः ? पुरुषाय निजाशेष-पौरुषाभिव्यञ्जकाय इत्य् अर्थः । अत एव महात्मने अपरिच्छिन्न-माहात्म्याय इत्य् अर्थः । यतो वसुदेव-नन्दनाय, अतो यादवानां सर्वेषां परिपालकाय, सर्वेषां भूतानां जीवानाम् आत्मने कार्य-कारण-भेद-न्यायेन तत्-तत्-स्वरूपाय व्यपकाय वा । अन्यत् तैर् व्याख्यातम् ।

यद् वा, यादव-पतित्वाद् एव भक्तेच्छा-परिपूरणायाविष्कृत-परम-मनोहर-मूर्तये । यद् वा, सात्वतां सर्वेषां भक्तानां पतये पत्ये, अतो भक्तेच्छा-प्रकटित-विविध-मूर्तये, अत एव विशुद्धं भक्ति-रहितं ज्ञानं येषां तेषु केवलात्म-बोध-परेषु मूर्तिः काठिन्यं यस्य तस्मै, मूर्तिः काठिन्य-काययोः इत्य् अभिधानात् । तत्र सर्वस्मा इति कार्य-कारणयोर् अभेद-विवक्षया, यद्य् अपि सर्वस्मै, तथापि केवलात्म-बोधपरेषु कठिनायेत्य् अर्थः । अतो\ऽद्भुत-स्वभावत्वाद् असाधारण-माहात्म्यत्वाच् च नमः,

यद् वा, विशुद्धं भगवद् एक-विषयकं ज्ञानं येषां तेषु मूर्तिः श्री-विग्रह-प्राकट्यं यस्य, किम् अर्थं सर्वेषां साध्य-साधनानां बीजाय भक्ति-योगाय प्रेम्णे वेत्य् अर्थः, सर्वस्मैः अखण्डाय परिपूर्णायेत्य् अर्थः, सर्व-भूतानाम् आत्मने प्रियाय व्यापकायेति वा, तेष्व् अपि तद् विस्तारणायेत्य् अर्थः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवते साक्षात् परमेश्वराय, तत्रापि कृष्णाय अशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षकाय तुभ्यं नमः एवं बहिर् ऐश्वर्यम् उक्त्वान्तरम् अप्य् आह—पुरुषायेति । लीलया तु सात्वतां पतये । अन्यत् तैः । यद् वा, सर्वावतारेष्व् अप्य् एवम् एवं त्वं यद्य् अपि करोषि तथाप्य् अत्र सर्वतो महा-विशेष इत्य् आह—नम इति । तुभ्यं कृष्णाय सर्व-चित्ताकर्षकाय नमः कृष्णत्वम् एव सूचयति, भगवते सर्वैश्वर्य-परिपूर्णाय कुतः पुरुषाय निजाशेष-पुरुषार्थ-व्यञ्जकायेत्य् अर्थः । अत एव महात्मने अपरिछिन्न-माहात्म्यायेत्य् अर्थः । कृष्णत्वम् एव स्पष्टयति—वसुदेव-सुताय इति । अतः सात्वातं यादवानां सर्वेषां परिपालकाय ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् युष्मच्-चरणानुवर्तित्वं ममाप्य् अस्त्व् इति प्रणमन्न् आशास्ते नमस् तुभ्यम् इति द्वाभ्याम् । परावरेशो महद्-अंश-युक्तः [३.२.१५] इत्य् उद्धवोक्तेः सर्वांश-साहित्येनैवावतीर्णस्य तस्य प्रथमम् अंशान् प्रणमति भगवते महा-वैकुण्ठ-नाथाय पुरुषाय महत्-स्रष्ट्रे महात्मने समष्ट्य्-अन्तर्यामिणे । अंशान् प्रणम्य साक्षात् तम् अंशिनं प्रणमति—वासुदेवाय इति पितृ-नामोल्लेखेन । कृष्णाय इति तन्-नामोल्लेखेन । सात्वतां पतये इति पार्षद-नामोल्लेखेन ॥१०॥


॥ १०.२७.११ ॥

स्वच्छन्दोपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये ।
सर्वस्मै सर्व-बीजाय सर्व-भूतात्मने नमः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् अहं यादवः ? न, स्वच्छन्दोपात्त-देहाय स्वेषां भक्तानां छन्देनेच्छया स्वीकृत-देहाय । तत्रापि विशुद्धं ज्ञानम् एव मूर्तिर् यस्य, तस्मै । मायया सर्वस्मै सर्व-रूपाय । कुतः ? सर्वस्य बीजाय कारणाय । अत एव सर्व-भूतात्मने नम इति ॥११.१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवान् आशङ्कते—तर्हि इति । तर्हीति वाक्यालङ्काराक्षेपयोः । परिहरति— इति । तत्रापि स्वच्छन्द-देहत्वे\ऽपि । विशुद्धं केवलम् । मायया अघटन-घटना-पटीयस्या शक्त्या । सर्व-रूपत्वे हेतुम् आशङ्कते—कुतः इति । अत एव सर्व-कारणत्वाद् एव । सर्वेषां भूतानाम् आत्मने स्वरूपाय ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्वच्छन्दोपात्त-देहाय इत्य्-आदि । स्वेषां भक्तानां छन्देनेच्छया उपात्तो देहो मनुष्य-लोको येन, दिह् उपचये देह ऐश्वर्यं वा । यद् वा, स्वच्छन्दैर् आत्मारामैर् अप्य् उपात्तः सेवार्थं गृहीतो देहः श्री-विग्रहो यस्य । स्वच्छन्दैर् मुक्तैर् अपि सेवार्थम् उपात्तो देहो यद् अर्थम् । यद् वा, स्व-स्वरूपैश् छन्दोभिः श्रुतिभिर् अप्य् उपात्तो\ऽनुलव्धो देहः श्री-विग्रहो यस्य—अद्यापि यत् पद-रजः श्रुति-मृग्यम् एव [भा।पु।१०.१४.३४] इत्य्-आदि-वचनात् ।

यद् वा, स्वच्छन्दं प्रारब्धान् अधीनं यथा भवति, तथा उपात्तो मत्स्यादि-देहो येन । अतो विशुद्ध-ज्ञान-मुर्तये विशुद्धं केवलं ज्ञानं येषां, तेषु मूर्तिः काठिन्यं यस्य, केवल-ज्ञानिषु प्रसाद-सुमुखत्वादि-व्यतिरिक्तये ।

यद् वा, विशेषेण भक्ति-योगतः शुद्धं ज्ञानं येषु तेषु मूर्तिः श्री-विग्रहो यस्य । सर्वस्मै भक्तानां सर्वस्व रूपाय, सर्ववीजाय सर्वेषां नारायणादीनाम् अपि वीजाय कारणाय, सर्व-कारण-कारणत्वात् । अतः सर्व-भूतात्मने सर्वेषं भूः सत्ता तया उत आत्मा श्री-विग्रहो यस्य—सर्वेषाम् एव वस्तूनां भावार्थो भवति स्थितः । तस्य भगवान् कृष्ण [भा।पु।१०.१४.५७] इत्य् आद्य् उक्तेः ॥११॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवते साक्षात् परमेश्वराय, तत्रापि कृष्णायाशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षकाय तुभ्यं नमः । एवं बहिर् ऐश्वर्यम् उक्त्वान्तरम् अप्य् आह—पुरुषायेति । तथापि सात्वतां पतये कृपयावतीर्य यादव-श्रेष्ठतां प्राप्तायेत्य् अर्थः, अन्यत् तैर् व्यञ्जितम् ।

यद् वा, सर्वावतारेष्व् अप्य् एवम् एव त्वं यद्य् अपि करोषि, तथाप्य् अत्र सर्वतो महा-विशेष इत्य् आह—नम इति द्वाभ्याम् । तुभ्यं कृष्णाय सर्व-चित्ताकर्षकाय सर्वतो\ऽसाधारणाय नमः, कृष्णत्वम् एव दर्शयति—भगवते सर्वैश्वर्य-परिपूर्णाय, कुतः ? पुरुषाय निजाशेष-पौरुषाभिव्यञ्जकायेत्य् अर्थः । अत एव महात्मने अपरिच्छिन्न-माहात्म्यायेत्य् अर्थः । यतो वसुदेव-नन्दनाय, अतो यादवानां सर्वेषां परिपालकाय, सर्वेषां भूतानां जीवानाम् आत्मने कार्य-कारण-भेद-न्यायेन तत् तत् स्वरूपाय व्यपकाय वा, अन्यत् तैर् व्याख्यातम्,

यद् वा, यादव-पतित्वाद् एव भक्तेच्छापरिपूरणायाविष्कृत-परम-मनोहरमूर्तये । यद् वा, सात्वतां सर्वेषां भक्तानां पतये पत्ये, अतो भक्तेच्छा-प्रकटित-विविध-मूर्तये, अत एव विशुद्धं भक्ति-रहितं ज्ञानं येषां तेषु केवलात्म-बोध-परेषु मूर्तिः काठिन्यं यस्य तस्मै, मूर्तिः काठिन्य-काययोः इत्य् अभिधानात्, तत्र सर्वस्मा इति कार्य-कारणयोर् अभेद-विवक्षया, यद्य् अपि सर्वस्मै, तथापि केवलात्म-बोधपरेषु कठिनायेत्य् अर्थः । अतो\ऽद्भुत-स्वभावत्वाद् असाधारण-माहात्म्यत्वाच् च नमः,

यद् वा, विशुद्धं भगवद् एक-विषयकं ज्ञानं येषां तेषु मूर्तिः श्री-विग्रह-प्राकट्यं यस्य, किम् अर्थं सर्वेषां साध्य-साधनानां बीजाय भक्ति-योगाय प्रेम्णे वेत्य् अर्थः, सर्वस्मैः अखण्डाय परिपूर्णायेत्य् अर्थः, सर्व-भूतानाम् आत्मने प्रियाय व्यापकायेति वा, तेष्व् अपि तद् विस्तारणायेत्य् अर्थः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् त्वम् एव सर्वम् इत्य् आह—स्वच्छन्देति स्वैर् भक्तैः कर्तृभिश्छन्देनेच्छया करण-भूतया उप समीपे आत्ता आकृष्टा देहाः श्री-मत्स्य-कूर्मादयोऽपि विग्रहा येन तस्मै तेषां देहादीनां स्वरूप-ज्ञानार्थं पुनर् आह—विशुद्ध-ज्ञान-मूर्तये विशुद्धा मायातीता स्व-प्रकाशतया ज्ञान-रूपाश् च मूर्तयो देहा यस्य तस्मा इति, अन्यत् तैः । तत्र सर्वस्मै जगद् रूपाय सर्वस्य वीजाय कारणाय महा-पुरुष-रूपाय सर्व-भूतात्मने तद् अन्तर्यामिणे इति । यद् वा, स्वछन्दं यथा स्यात् तथा उपाता अन्तर्यामित्वेन स्वीकृता देहाः समष्टि-व्यष्टि-रूपा येन स्वयं तु विशुद्ध-ज्ञा-मूर्तय इति पूर्वत् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वां वीक्ष्य काले भयम् इत्य् अगत्यैवानुगतेश् च स्वेषां भक्तानां छन्देनाभिलाषेण उपात्तः तत्-समीपे गृहीत आनीतः प्रकटीकृतो देहो येन तस्मै ॥११॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेक-विध-प्रेम-विषयत्वात् स्वैर् भक्तैश् छन्देन प्रतिस्वेच्छया दास्येन सख्येन वात्सल्येन रमणेन च सुख प्रदानार्थं उपात्तो गृहीतो देहो यस्येति तस्मै देहस्याप्राकृतत्वात् विशुद्धं मायातीतं ज्ञानम् एव मूर्तिर् यस्य तस्मै । मायादि-शक्तिमत्त्वात् सर्वस्मै । अत एव सर्वस्य वीजाय कारणाय । अत एव सर्व-भूतात्मने ॥११॥


॥ १०.२७.१२ ॥

मयेदं भगवन् गोष्ठ- नाशायासार-वायुभिः ।
चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतागस इत्य् अनेनोक्तम् अपराधं निवेदयति—मयेदम् इति । आसार-वायुभिर् गोष्ठ-नाशाय मयेदम् अकृत्यं चेष्टितं कृतम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [विश्वनाथः] भो शक्र ! त्वं मद्-भक्त इत्य् अनया स्तुत्यैव ज्ञायसे । किं तु, विनैव त्वद्-आज्ञां दुष्टा मेघा मद्-व्रजं यत् कदर्थयन्ति स्म, तद् इमे त्वया दण्डनीया इति पवित्र-भर्त्सनम् आशङ्क्य हन्त हन्तास्मिन्न् अन्तर्यामिणि कपटं न घटेतेति विमृश्य स्व-चेष्टितं यथार्थम् एवाह—मयेति ।

ननु, मद्-भक्ते त्वयि कथं सम्भवेत् ? तत्राह—विहते यज्ञ इति


ननु, त्वत्-प्रभुणा मयैव विहते\ऽपि दासस्य तवैतावद् अकृत्यं न प्रत्येमि ? तत्राह—मानिना ऐश्वर्य-गर्वस्य किम् अशक्यम् ? इति भावः ।

ननु, दैवाद् उत्थिता गर्वादयो मद्-भक्तैर् विवेकेनैव तिरोधाप्यास् तत्राह तीव्रमन्युना । तीव्रः क्रोधो हि विबेधम् अपि बलाद्-ग्रसतीति भावः । आसारेण धारासम्पातेन सहिता वायव आसार-वायवस् तैः । मध्यम-पद-लोपी समासः ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, महापराधिन्य् अपि परमानुग्रहः सर्वतो महा-विशेष एवायम् इत्य् आह—मयेति सार्धेन । मया स्वयम् एवेदं साक्षाद् इदानीम् एवेत्य् अर्थः, गोष्ठस्य नाशायेति परमाकृत्यत्यम् उक्तम्, यतो मानिना, अत एव तीव्रमन्युना, भगवान् हे सर्वज्ञ ! तन् मम दुष्टता-वृत्तं त्वया ज्ञायत एवकिं मया घृष्टेन विस्तार्यम् इति भावः । यद् वा, हे भगवन्न् इति सर्वैश्वर्य-परिपूर्णे त्वयि-साक्षाद् वर्तमाने\ऽपि त्वद् गोष्ठ-नाशायेत्य् अपराधाधिक्यं सूचितम् ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, महापराधिन्य् अपि परमानुग्रहोऽयं सर्वतो महा-विशेष इत्य् आह—मयेति सार्धेन । मया स्वयम् एव इदं साक्षादि-दानीमेवेत्य् अर्थः । गोष्ठस्य नाशायेति । परमाकृत्यम् उक्तं यतः मानिना अत एव तीव्रमन्युना भगवन्, हे सर्वज्ञ ! तन् मम दुष्टतावृत्तं त्वया ज्ञयत एव किं माया धृष्टेन विस्तार्यम् इति भावः । यद् वा, हे भगवन्न् इति सर्वैश्वर्य-परिपूर्णे त्वयि साक्षाद् वर्तमानेऽपि त्वद् गोष्ठ-नाशायेत्य् अपराधाधिक्यं सूचितम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं चरणाव् एव पस्पर्श, तुष्टाव चेत्य् आह—स्वच्छन्दोपात्त इत्य्-आदि । स्वेषां भक्तानां छन्देनेच्छयोपात्तो देहो मनुष्य-लोको यन । दिह उपचये, दिह्यते उपचीयते ज्ञानेनेति मनुष्य-लोकस्य ज्ञानाधिक्यात् ।

यद् वा, स्वच्छन्दं यथा स्यात्, तथा उपात्त देहे येन, दैप् शोधने, दा शुद्धिः, ईहा लील ।

यद् वा, स्वच्छन्दैर् मुक्तैर् अपि सेवार्थम् उपात्तो गृहीत उपास्यत्वेनादृतो देहो यस्मै ।

यद् वा, स्वैः स्वरूपैश् छन्दोभिः श्रुतिभिर् अपि अपात्तोऽप्राप्तो देहः श्री-विग्रहो यस्य, अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव [भा।पु १०.१४.३४] इत्य् अर्थः ।

अथवा, स्वच्छन्दं प्रारब्धान् अधीनं यथा स्यात्, तथा । उपात्तः स्वीकृतो देहो मत्स्यादि-देहो येन, स्वयं तु विशुद्ध ज्ञान-मूर्तिर् यस्य स तथा तस्मै परस्मै, परस्मै, भक्तानां सर्व-बीजाय सर्वेषां नारायणादीनाम् अपि बीजाय । अतः सर्वभूतात्मने सर्वेषां भूः सत्ता, तथा उत, आत्मा श्री-विग्रहो यस्य तस्मै । उक्तं च, सर्वेषाम् एव भावानां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः [भा।पु १०.१४.५७] इति ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो शक्र ! त्वं मद्-भक्त इत्य् अनया स्तुत्यैव ज्ञायसे, किन्तु विनैव त्वद्-आज्ञां दुष्टा मेघा मद्-व्रजम् अधिकं यत् कदर्थयन्ति स्म तद् इमे स्तया दण्डनीय इति परित्र-भर्त्सनम् आशङ्क्य हन्त हन्तास्मिन्न् अन्तर्यामिणि कपटं न घटत इति विमृश्य स्व-चेष्टितं यथार्थम् एवाह मयेति । ननु, एतन् मद्-भक्ते त्वयि कथं सम्भवेत् ? तत्राह—विहते यज्ञे इति । ननु त्वत्-प्रभुना मयैव विहतेऽपि दासस्य तवैतावद् अकृत्यं न प्रत्येमि तत्राह—मानिना । ऐश्वर्य-गर्वस्य किम् अशक्यम् इति भावः । ननु, दैवाद् उत्थिता अपि गर्वादयो भावा मद्-भक्तैर् विवेकेनैव तिरोधाप्यन्ते इति तत्राह—तीव्र-मन्युना । तीव्रः क्रोधो हि विवेकम् अपि बलाद् ग्रसतीति भावः ॥१२॥


॥ १०.२७.१३ ॥

त्वयेशानुगृहीतो \ऽस्मि ध्वस्त-स्तम्भो वृथोद्यमः ।
ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि भो ईश, त्वयानुगृहीतोऽस्मि । अनुग्रहं दर्शयति, ध्वस्त-स्तम्भ इति, वृथोद्यम इति च ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्य् अपि मयानुचितं कृतं तथापि ध्वस्तोऽपास्तः स्तम्भो गर्वो यस्य स तथा । दृप्तो धर्मं न पश्यति इत्य् उक्तेर् धर्माकरणेन गर्वितस्य्स नरकावाप्तिर् दर्पापहारेण धर्म-प्रवृत्तौ स चानुग्रह एवाद्वितीयम् अनुग्रहं दर्शयति—वृथोद्यम इति । उद्यमसाफल्ये तु गवादि-नाशान् नरकावाप्तिर् अतस्तद्-वृथा-करणम् अप्य् अनुग्रह एवेति तिरस्कृते नापि भिषजा कृपालुना चिकित्सितो रोगीव त्वयाहम् अनुगृहीत एवातः ध्वस्त स्तव्म-रोगोः । हता उद्यमा वज्र-निक्षेपादयो यस्य सः । नियन्तृत्वाद् ईश्वरं, हितकारित्वाद्-गुरुं प्रेमास्पदत्वाद् आत्मानम् ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ईश्वरं न केवलम् ईश्वरं गुरुञ्चोपदेष्टारम्, अन्यदैवं न कर्तव्यम् इति यत् शिक्षा च कारिता, न केवलं गुरुर् आत्मा च, सर्वेषाम् अस्माद् आदीनां त्वम् एवात्मा, अतस् त्वयि, का त्रपेति भावः ॥१३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश ! हे सर्व-नियन्तः ! यद्य् अपि सद्य एवम् अपि दण्डं कर्तुं समर्थो\ऽसि, तथाप्य् अनुग्रहीतो\ऽस्म्येवेत्य् अर्थः । न च बाह्यानुग्रह इत्य् आह—ध्वस्त-स्तम्भो नष्ट-मदे\ऽस्मि, यतो हतोद्यमः, ध्वस्तेति सकर्मकं वा, यतस् त्वयैव स्तम्भो नाशित उद्यमश् च हत इत्य् अर्थः, अतो महापराध्यप्य् अहं त्वाम् एव शरण गतः । तत्रैव हेतवः—ईश्वरम् इत्य्-आदित्रयम् । आत्मानं प्रियं परम-सुहृत्तमम् इत्य् अर्थः, एषां यथोत्तर-श्रेष्ठ्यम् उह्यम् । ईश्वरत्वादिकं स्वभावाद् एव । किं वा, कृतानुग्रह-विशेषात् । यद् वा, कथम् ? तद् आह—ईश्वरम् इति ईश्वरादि-रूपेणेत्य् अर्थः । अतो\ऽधुना ममैश्वर्यणालम्, अत्रैव त्वत् पादाब्जान्तिके स्थास्यामीति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे ईश, हे सर्व-नियन्तः ! यद्य् अपि सद्य एव मयि दण्डं कर्तुं समर्थस् त्वं तथापि त्वयानुगृहीतोस्म्येवेत्य् अर्थः । न च बाह्यानुग्रह इत्य् आह—ध्वस्त-स्तम्भः नष्ट-मदोऽस्मि यतो हतोद्यमः ध्वंसिरत्रान्तर्भूतण्यर्थः । यतस् त्वयैव स्तम्भो नाशित उद्यमश् च हत इत्य् अर्थः अतो गुरुः त्वाम् एव महापराध्यप्य् अहं शरणङ्गतः तत्रैवान्यद् अपि हेतु-द्वयम् ईश्वरं नियन्ताम् आत्मानं रश्मीनां सूर्यम् इव सर्वेषां मूल-स्वरूपं त्रिधाप्य् अनन्य-गतिकत्वाद् इति भावः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदपि तिरस्कृतेनपि भिषजा कृपालुनाचिकित्सितो रोगीव त्वयाहं अनुगृहीतः अतएव सम्प्रति ध्वस्तस्तम्भरोगः । यतो हता उद्यमा वज्रनिक्षेपादयो यस्य सः । अतो इयन्तृत्वादीश्वरं हितकारित्वाद्गुरुं, प्रेमास्पदत्वादात्मानम् ॥१३॥


॥ १०.२७.१४ ॥

श्री-शुक उवाच—

एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् ।
मेघ-गम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रेण स्वाभिप्राये निवेदिते भगवान् अपि तथैवाह—मयेति, इन्द्र-श्रिया देव-राज्येन ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं त्वयेशानुगृहीतोस्मीत्येवं प्रकारेण । अमूं मघवानम् । इदं वक्ष्यमाणम् ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ईश्वरं न केवलम् ईश्वरं गुरुञ्चोपदेष्टारम्, अन्यदैवं न कर्तव्यम् इति यत् शिक्षा च कारिता, न केवलं गुरुर् आत्मा च, सर्वेषाम् अस्मद् आदीनां त्वम् एवात्मा अतस्त्वयि का त्रपेति भावः ॥१४.१९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्कीर्तितः स्तुतः । भगवान् इति परम-दयालुत्वं बोधयति, अन्यथा त प्रति तादृशोक्तेर् अयोग्यत्वात् । यद् वा, भगवान् परम-कारुण्य-शरणागत-वात्सल्यादि-गुण-प्रकटनपरो\ऽपि इदं वक्ष्यमाणम् अन्तः-प्रसाद-रहितम् अब्रवीत्, यतः कृष्णः श्री-नन्द-व्रज-जनैक-प्रियः, तत्र महापराधेन तादृशोक्तेर् एव योग्यत्वाद् इति भावः । आद्य पक्षे मेघ-गम्भीरयेति निज-स्वाभावाभिव्यञ्जनेन वञ्चनं निरस्तम्, अत एव प्रहसन् स्मयमानः,

यद् वा, तस्य दुर्मदताम् अनुसन्धाय हसन्, द्वितीये च गोष्ठ-नाशायेति तत् तत् स्मारणाद् अन्तः कोपेन मेघ-गर्जित-गम्भीर-स्वरया वाचा, अत एव अकार-प्रश्लेषेण स्वाभाविकम् अपि निज-श्री-मुख-प्रसत्तिम् अप्रकाशयन्न् इत्य् अर्थः । यद् वा, हासो जनोन् मादकरी हि माया इत्य्-आदि-न्यायेनोक्ति-चातुर्या-वञ्चनं कुर्वन्नेवेत्य् अर्थः । एवं पक्ष-द्वयापेक्षया विकल्पो\ऽग्रे\ऽप्य् ऊह्यः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कीर्तितः स्तुतः भगवान् इति परम-प्रभुत्वं बोधयन् अपराधिन्य् अपि तादृशे क्षुद्रेऽनभिनिवेशं बोधयति, अत एव मेघेति मेघ-गर्जितं लक्षयति अनेन तस्य महा-सत्त्वतां प्रहसन्न् इति महाशयतां च व्यनक्ति अमुम् इत्य् एक-वचन-निर्दिष्टादः-शब्देन लौकिक-रीत्या मह्होनस् तु क्षुद्रताम् इति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वत्कृतो दन्डोऽपि मे अनुग्रह स्व, इत्य् आह—त्वयेत्यादि । ईश्वर ! त्वयानुगृहीतोऽस्मि । तथाहि यद् अहं धस्तस्तस्म्भो हतोद्यम, अतस्त्वं मे गुरुरसि । अतः परं शिक्षितोऽस्मीत्य् आह—ईश्वरं गुरुम् आत्मानम् आत्मवत् प्रियं त्वां शरणं गतोऽहम् इति ॥१४.१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.२७.१५-१६ ॥

श्री-भगवान् उवाच—

मया ते \ऽकारि मघवन् मख-भङ्गो \ऽनुगृह्णता ।
मद्-अनुस्मृतये नित्यं मत्तस्येन्द्र-श्रिया भृशम् ॥**

माम् ऐश्वर्य-श्री-मदान्धो दण्ड-पाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रेण स्वाभिप्राये निवेदिते भगवान् अपि तथैवाह । इन्द्र-श्रिया देव-राज्येन ॥१५.१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथैव साभिप्रायम् आह—हे मघवन्न् इति । त्वत्-पूज्यत्वाधिकारम् इन्द्रत्वम् अहं न नाशयामीति भावः । सम्पद्भ्यो धनादिभ्यः, तव तत्रासहिष्णुतां दृष्ट्वा यज्ञम् एवाहरम् इति भावः । अनुग्रहम् आह—मद्-अनुस्मृतय इति ॥१५॥

ऐश्वर्यम् ईश्वरत्वं, श्रीः समृद्धिः, ताभ्यां मदेनान्धो नष्ट-ज्ञान-चक्षुः । पणते व्यवहरते दानादानादिष्व् इति पाणिः । पणेर् इञ् हस्तः । दण्डः पाणौ यस्य तं तथा । सम्पन्नाशे मद्-अनुस्मृतिर् नान्यथातस् तां दातुं श्री-भ्रंशं करोमीति भावः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनुगृह्नतैव, न तु क्रुध्यतेत्य् अर्थः । एतच् च शुद्ध-कृपयान्तः-कोपेनैव वा, नित्यं मम अनु वारं वारं या स्मृतिः, तद्-अर्थम्, अन्यथैश्वर्य-स्वभावेन कदाचिद् एव स्मरणासम्भवात् । यद् वा, नित्यं मत्तस्य मम अनुषङ्गेणासकृत् स्मरणार्थम् इत्य् अर्थः । एतम् अपि तथैव । हि यतः । ऐश्वर्येण मदस् तेन अन्धो गताशेष-ज्ञानः सन्न् इत्य् अर्थः । दण्ड-पाणिं कालादि-रूपेण साक्षाच् छासितारम् अपि न पश्यति, न जानाति, इश्वर्य-श्री-मदान्धः इति पाठे ऐश्वर्येण याः श्रियः सम्पदास् ताभ्यो मदअस् तेनान्धः, अत एव यस्यानुग्रहम् इच्छमि यम् अनुग्रहीतुम् इच्छामीत्य् अर्थः, तं सम्पद्भ्यो भ्रंशयामि, तस्यैश्वर्य-हेतुक-धनादि-सम्पत्तीर् हरामीत्य् अर्थः ॥१५.१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मयेदम् इत्य्-आदि तद्-वाक्यानुरूप-प्रभुत्वोचितम् एवाह—अनुगृह्णतैव, न तु क्रुध्यता इत्य् अर्थः । तत्र क्रोध-विसायत्वेऽपि त्वद्-विधस्यायोग्यत्वाद् इति भावः । नित्यं मम अनु वारं वारं स्मृतिः, तद्-अर्थम्, अन्यथा विपथ-गामी स्या इति । हि यतः । ऐश्वर्येण प्रभुत्वेन श्रिया धनादि-सम्पदा च मदः, तेनान्धः गताशेष-ज्ञानः सन्न् इत्य् अर्थः । दण्ड-पाणिं मदीयोपासकान् प्रति गोप-वेषोचित-सुभग-यष्टि-पाणित्वेन भासमानतयैव त्वद्-विधान् प्रति तु व्यञ्जित-दण्ड-पाणित्वम् अपि न पश्यति, नावगच्छति इति गोप-लीलायां निज-प्रभुत्व-विशेषम् उक्त्वा, तद्-अन्तरङ्ग-परिकरेषु श्री-गोप-राजादिष्व् अपि भक्तिर् अनुशिष्टा यतो न पश्यति । अत एव यस्यानुग्रहम् इच्छामि यम् अनुग्रहीतुम् इच्छामीत्य् अर्थः । तं सम्पद्भ्यो भ्रंशयामि तस्यैश्वर्य-हेतुक-धनादि-सम्पत्तीर् हरामीत्य् अर्थः । भवतस् तु तत्रासहिष्णुतां दृष्ट्वा न तादृशम् अप्य् अकरवं, किन्तु यत् किञ्चिन् मख-भङ्गम् एवेति भावः ॥१५.१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रेण निष्कपट-मुक्ते भगवान् अपि तथैवाह—मया ते इति ॥१५.१६॥


॥ १०.२७.१७ ॥

गम्यतां शक्र भद्रं वः क्रियतां मे \ऽनुशासनम् ।

स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भ-वर्जितैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वो युष्माभिः । बहु-वचनं वरुणाद्य्-अभिप्रायेण । क्व गन्तव्यं स्वर्गेऽपि तवैवेश्वरत्वाद् इति चेत् तत्राह—क्रियताम् इति । मद्-अनुशासनेन यथा-पूर्वं तत्र स्थीयताम् इत्य् अर्थः । युक्तैर् अप्रमत्तैः । स्तम्भ-वर्जितैर् निरहङ्कारैः ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गम्य-स्थानाभावम् आह—क्वेति । सर्वत्र मत्-स्वाम्ये\ऽपि स्थितौ प्रकारम् आह—क्रियताम् इति । अत्र क्रियतां मेऽनुशासनम् इत्य् उक्तेर् अनुशासनानङ्गीकारे पुनर् दण्डो भविष्यति परिजात-हरणे तथात्व-प्रसिद्धेः ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु, तर्हि ममापि तादृशम् एवानुग्रहं कुरु, मयात्रैव स्थीयताम्, तत्राह—गम्यताम् इति । वो युष्माकं भद्रं क्षेमम् अस्त्विति सान्त्वनम्, वस्तुतस् तु तादृशैश्वर्ते तद् असम्भवाद् उक्ति-परिपाट्या अक्षेमम् एवाभिपैति । अजिगमियन्तं प्रत्य् आह—क्रियताम् इति, गत्वा च मद् आज्ञा परिपाल्यताम् इत्य् अर्थः । अनधिकारिणस् ते\ऽत्रावस्थित्यापराध एव भावीति गमनम् एव युक्तम् इति भावः । यद् वा,

ननु, भगवान् तत्र गस्याप्य् ऐश्वर्य-स्वभावेनावश्यमपराधो भवितैव, तत्राह—क्रियताम् इति । तद् एवाह—स्वीयताम् इति, स्वस्यैव, न तु परस्याधिकारेषु, इति लोक-पालत्वेन हिंसादिकं त्याजितम्, तत्रापि युक्तैर् अप्रमत्तैर् भक्ति-योगवद्भिर् इति वा, तत्रापि निर्मदैश् च सद्भोर् वो युष्माभिः स्थीयताम् । इत्थं वर-प्रदान-रूपो\ऽनुग्रहो न कृतः, केवलम् असमर्थेन व युक्ति-पूर्वक-शिक्षा-रूप एव कृतः, महापराधेनान्तः कोपान् अपगमात्, सम्यक् प्रसादावृत्तेः2 अत एव तद् अनुशासनापालनेन पश्चाद् अपराधान्तरम् अपि जातम् । तच् च परिजात-हरणादौ वक्तं भावि ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तर्हि ममापि तादृशम् एवानुग्रहं कुरु मयात्रव स्त्रीयतां तत्राह—गम्यताम् इति । वो युष्माकं यत् भद्रं क्षेमं तद् अस्त्वित्य् अभय-दानं वस्तुतस् तु न मद् एकान्त-भक्तानां तद् भद्रम् इत्य् उक्ति-परिपाट्या तद् अक्षेमम् एवाभिप्रेतम् अजिगमिषन्तं प्रत्य् आह—क्रियताम् इति गत्व च मद् आज्ञा परिपाल्यताम् इत्य् अर्थः । अनधिकारिणस् ते अत्रावस्थित्यापराध एव भावीति गमनम् एव युक्तम् इति भावः । यद् वा,

ननु, भगवन् ! गतस्याप्य् ऐश्वर्य-स्वभावेनावश्यम् अपराधो भवितैव तत्राह—क्रिताम् इति । मद् अनुशासनं मच् छिक्षितम् इत्य् अर्थः । तद् एवाह स्थीयताम् इति । स्वस्यैव न तु परस्याधिकारेषु किं पुनर्मदन्त-रङ्ग-परिकर-श्री-व्रज-वास्यादिष्व् इत्य् अर्थः । तत्रापि युक्तैर् अप्रमत्तैः भक्ति-योगवद्भिर् वा तत्रापि निर्मदैश् च सद्भिर् वो युष्माभिः स्थीयताम् इत्थं वर-प्रदान-रूपोऽनुग्रहो न कृतः किन्तु केवल-समर्थेनैव युक्त-पुर्वक-शिक्षा-रूप एव कुतः सम्यक् प्रसादाप्रवृत्तेः अत एव तद् अनुशासनापालनेन पश्चाद् अपराधान्तरम् अपि जातं तच् च पारिजात-हरणदौ व्यक्तं भावि ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व इति वरुणाद्यभिप्रायेण । युक्तैरप्रमक्तैः स्तम्भवर्जितैर्निरहङ्कारैः स्थीयतामन्यथा पुनर् अपि दण्डं प्राप्स्यतीति भावः । अत्र पुनस् ते स्तम्भो न भविष्यतीति भगवता नोक्तमतएव पारिजातहरणेन पुन स्तम्भो ऽस्य भविष्यतीति तादृश लीलासिद्ध्यर्थम् इति ज्ञेयम् ॥१७॥


॥ १०.२७.१८ ॥

अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी ।

स्व-सन्तानैर् उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-सन्तानैर् गोभिः सहोपामन्त्र्य कृष्ण-कृष्णेत्य्-आदि-सम्बोध्य ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ इन्द्रानुज्ञानोत्तरम् । स्व-सन्तानैः व्रज-गोभिः, प्राकृताया अपि तस्या अप्राकृतासु कृष्ण-परिकर-भूतासु स्व-सन्तानाभिमानस् तासां सुरभि-वंशोद्भूतत्वात् । यथा प्राकृतस्य चन्द्रस्य चन्द्र-वंशोधूतेऽप्राकृते श्री-कृष्णे स्व-सन्तानाभिमान इति । गोप-रूपिणं नन्द-नन्दनम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ श्री-भगवतः कृपा-वाक्यात्3 चातुर्योर्क्तेर् वानन्तरम्, मनस्विनीति—स्व-सङ्गतेन्द्र-सम्माननार्थं निज-कृत्य-विचारणात् । यद् वा, दुरुक्ति-जाल-प्रलापिनं गोकुल-द्रोहिणं महापराधिनं तं प्रति श्रीभगवतः सम्यक् प्रसादो न वृत्त इति वुद्धवतीत्य् अर्थः, अत एव प्रहर्षेणाभितो वन्दित्वा उपामन्त्र्य च, हे भक्त-वत्सल ! भो गोपाल-चूडामणे ! गोकुल-परिपालक ! श्री-नन्द-कुमार ! श्री-यशोदा-नन्दन ! इत्य्-आदिना सम्बोध्येत्य् अर्थः । यद् वा, अभिषेकोत्सवे\ऽस्मिन् मम दुग्ध-पानादिकं कार्यम् इति निमन्त्र्य । तत्र हेतुः—जगदीश्वरम् अपि गोप-रूपिणं निज-प्रभुम् इति प्रार्थना-योग्यतापि द्वनिता ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरम् इत्य् अस्याभिप्रायस् तु विविक्त इत्य् अत्र पूर्वम् एव व्याख्यातः स्व-सन्तानैः चन्द्र-वंशे श्री-कृष्णवत् स्वस्य वंशो प्रादुर्भूतैर् नित्य-तदीय-गोधन-रूपैस् तैर् उपलक्षिताभितो वन्धित्वाह स्तुति-पूर्वकं निवेदितवती अभिनन्द्येति पाठे\ऽपि स एअर्थेन् । न केवलम् अभिवन्द्याह—किन्तूपामन्त्र्य वक्ष्यमाण-सम्बोधनैर् आत्मन्वधनं प्रार्थ्य चःअ स्वाभीष्ट-निवेदने हेतुः गोप-रूपिणम् ईश्वरम् इति, अभिवन्धने हेतुः ईश्वरम् इति ।

ननु, इन्द्रम् आनीय प्रथमं स्वयं कथं स्वयम् एव विविदिषुतां स्वस्य च निवेदनीय-विशेषं विचार्य प्रथमं तु नोक्तवतीत्य् अर्थः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथानन्तरं स्वसन्तानैः सह तदीयगोधनरूपैस्तैः सहाभिवन्दित्वा तथोपामन्त्र्य वक्ष्यमाणसम्बोधनैरात्मन्यवधानं प्रार्थ्येत्य् अर्थः ॥१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-सन्तानैर् व्रजस्थैर् गोभिः सहेति प्रकृत्या अपि तस्या अप्राकृतासु तासु कृष्ण-परिकर-भूतासु स्व-सन्तानाभिमानस् तासां सुरभिर्-अंशोद्भूतत्वात् यथा चन्द्र-वंशोद्भुते कृष्णे प्राकृतस्यापि चन्द्रस्य स्व-सन्तानाभिमानः उपामन्त्र्य सम्बोध्य ॥१८॥


॥ १०.२७.१९ ॥

सुरभिर् उवाच—

कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-सम्भव ।

भवता लोक-नाथेन स-नाथा वयम् अच्युत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रेण हता अपि भवता सनाथा वयं कृताः । रक्षिता इत्य् अर्थः ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति रक्षकस्यैव नाथ-पदार्थत्वाद् इति भावः । कृष्ण-कृष्णेति वीप्सा परमादरे । हे निज-क्लेश-कर्षक युक्तं गोकुल-रक्षणम् इति भावः । हे महायोगिन्न् इति । योगिनोऽपि सर्वं कर्तुं समर्थाः सन्ति त्वं तु महा-योग्यसि ततो गोवर्धन-धारणादि ते नाद्भुतम् इति भावः । किम् अहं व्रजत्रातौवास्मीति—तत्राह हे विश्वात्मन्न् इति । सर्वेषाम् आत्मत्वाद् आत्मानं सर्वस्त्रातुमीहते सर्वं त्रातुम् ईहस तद् एवाह—विश्व-सम्भवेति । जातो नारायणादिन्द्रः इत्य् अर्थवरहस्योक्तेर् इन्द्रो\ऽपि त्वया त्रात इति भावः । हे अच्युतेति । न हीन्द्रादयस् तव च्युतिं कर्तुम् अलम् इति भावः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण हे साक्षाद् भगवन् ! वीप्सा तद् दाढ्र्याय प्रहर्षेण वा । यद् वा, हे नराकार-परब्रह्मन्न् इति द्वितीय-कृष्ण-पदार्थः । तेनाशेष-गुण-रूपादि-प्रकटनाभिप्रेतम्, अतो महायोगिन् हे अचिन्त्यानन्त-शक्ति-युक्त ! यतो विश्वस्य आत्मन् हे अन्तर्यामिन् !

यद् वा, महा-योगो भक्ति-य्गस् तद्-युक्त ! हे सदा तत् प्रवर्तकेत्य् अर्थः । अतो विश्वस्यात्मन् परम-प्रियेत्य् अर्थः, किं च, विष्वस्य सम्यक् भवो\ऽभ्युदयो यस्मात् तथा-भूत एव, लोकानां नाथेन स्वामिना किं वा, प्राप्तुम् इष्यमाणेन, नाथतेर् आशीर् अर्थात्, सनाथत्वे च कदाचित् कथञ्चिद् विच्युतिर् नास्तीत्य् अभिप्रायेण । अच्युत हे भक्त-वात्सल्याद्य् अशेष-गुण-परिपूर्णित ! ईदृशेन भवता वयम् एव सनाथाः, बहुत्वं निज-सन्तानानां गोपोपादीनां वापेक्षया, अन्यत् तैर् व्याख्यातम्,

यद् वा, भवतैव वयं सनाथाः स्मः, न त्व् अन्येन ब्रह्मादिना केनापीत्य् अर्थः । कुतः ? लोकानां सर्वेषां जीवानां भुवनानां वा नाथेन । यद् वा, गोलोक-नाथेन तदैव परमेश्वरतादित्य् अर्थः । यद् वा, अकार-प्रश्लेषेण हे सर्व-लोकातीत ! भवता नाथेनैव सनाथाः, तद् धेतुत्वेन सम्बोधनानि । अच्युत हे सदा सर्वत्र वर्तमान ! अन्येषां नश्वरत्वेन तैः सनाथत्वासिद्धेः किं च, सर्वथा सर्वतस् तवैवोत्कर्षभरादित्याशयेनाह—कृष्ण कृष्णेत्य्-आदि । अन्यत् समानम् ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ गोप-रूपत्वेनेश्वरत्वेन स सम्बोध्य तद् उभयथा प्रकाशमानेन त्वया स्वषाम् असाधारणेन नाथेन सर्वतोऽपि वयं पूर्णा इति व्यञ्जयति, तत्र कृष्ण-कृष्णेति । गोप-रूपत्व-व्यञ्जकम् अत्रैव वीप्सा च निज-रुच्चतिशयेन ईश्वरत्वेन सम्बोधयति महा-योगिन् सर्वोत्तमाणिमादि-योगैश्वर्य-नित्य-प्रकाश-विश्वेषाम् अप्राकृत-प्राकृअत यत् किञ्चित् पदार्थानां मूल-रूप ! तत् एव हे विश्व-सम्भव, तत् कारण-रूप विश्व-भावनेति पाठे तथैवार्थः । तथैव स्वकृत-कृत्यता सुखं निवेदयति लोक-नाथेनापि भवता वयम् एव सनाथा इत्य् अर्थः । पुनर् उक्त्या वैशिष्ट्यापत्तेः लोकैर् नाथ्यमान-मात्रेणेति वा अत्राच्युतेति सम्बोध्य तथैव नित्यत्वं च दर्शयति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं श्री-कृष्ण-व्रज-गवीनाम् अपि तादृशत्वं दर्शितं लोक-नाथेनापि भवता वयम् अपि स-नाथा इत्य् अर्थः । पुनर्-उक्त्या वैशिष्ट्य-प्राप्तेः अच्युतेति तत्रापि नित्यत्वं निश्चिनोति वैशिष्ट्ये हेतुः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सुरभिर् वदति—कृष्णेत्य् अदि, हर्षोत्कर्षेण वीप्सा । विश्वेषाम् आत्मन् ! विश्वस्य विष्नोर् अपि सम्भव ! विश्वं विष्णुं इत्य् उक्तेः । हे अच्युत अव्यय ! भवता वयं सनाथाः । कीदृशेन ? लोको ज्ञानम्, सर्वे दर्शनार्था ज्ञानार्थाः, ज्ञानस्य नाथेन ज्ञानप्रदत्वात् ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण कृष्णेति हर्षेण द्वित्वम् महा-योगिन्न् इति योग-बलेनैव गोवर्धनम् उद्धृत्य मत्-सन्तानानि त्वम् अरक्ष इति भावः । भवता सनाथ इति मत्-सन्तानान् जिघांसुना इन्द्रेण नाथेनालम् इति भावः ॥१९॥


॥ १०.२७.२० ॥

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्-पते ।

भवाय भव गो-विप्र- देवानां ये च साधवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं नः परमं दैवं देवता । अतो हे जगत्-पते ! गो-विप्र-देवानां येऽन्ये च साधवः, तेषां भवायाभ्युदयायाद्य त्वम् एव नोऽस्माकम् इन्द्रो भव ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नः अस्माकं गवादीनाम् । परमकम् अत्युत्कृष्टम् । द्वैवम् अभीष्ट-देवता । यतो नः परमं दैवम् अतो हेतोः । साधवः सदाचाराः । इन्द्र ईश्वरो भव । हे जगत्पते जगद्-अन्तः-पातित्वाद् अस्माकं पतिर् अपि विशेषतोऽतो रक्षको भवेत्य् अभिप्रायः । गवेन्द्रत्वेऽपि विप्रादीनाम् अभ्युदयः,

गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः । > गोभिर् वेदाः समुद्गीर्णाः स-षडङ्ग-पद-क्रमाः ॥ इति श्रुतेः > ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वं नः परमकं दैवम् इत्य्-आदि । परमं कं सुखं यस्मात् तत् परमकम् इत्य् आह—ब्रह्मणे परमात्मने [भा।पु।१०.२८.७] तयोर् अपि तद्-वैभवत्वात् ॥२०॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतोस्माकं कञ्चित् कामं परिपूरयेत्य् आह—त्वम् इति, नो गवादीनाम् अस्माकं परमं कं सुखं यस्मात् तत् यद् वा, स्वार्थे कः, नो\ऽस्माकम् इन्द्रिस् त्वम् एव भवः, तत्र च समर्थस् त्वम् एवेत्य् आशयेनाह—जगत्पते हे जगदीशेति, अन्यत् तैर् व्यञ्जितम् । यद् वा, नो गवाम् अस्माकम् इन्द्रो\ऽपि त्वम् एव, तत्र हेतुः—हे जगत्-पते वृष्ट्यादिना तत्रैव जगत् पालकत्वाद् इति भावः, अतो भवाय सर्वदा क्षेमाय भव ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वैशिष्टये हेतुः त्वं नः परमकं दैवम् इति नीतौ च तद् युक्तात् [५.३.७७] इति कन् जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योयं योसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गोपान् पालयति योऽसौ गोपेषु तिष्ठति योऽसौ सर्वेषु देवेषु तिष्ठति योऽसौ सर्वैर् वेदैर् गीयते योऽसौ सर्वेषु भूतेष्व् आविश्य भूतानि विदधाति इत्य्-आदि तापनी श्रुतेः । अतो नोऽस्माकम् इन्द्रस् त्वम् एव भव जगत् पते इति यद्य् अपि जगताम् एव पतिस् त्वं तथापीति पूर्ववत् गवेन्द्रत्वे\ऽपि विप्रादीनाम् अभ्युदयः

गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः । > गोभिर् वेदाः समुद्गीर्णाः स-षड्-अङ्ग-पद-क्रमाः ॥ इति गो-सूक्तात् > ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वं नः परमकं दैवम् इति जगत्पतेर् इति यद्यपि जगत्पतित्वं तथापीति पूर्ववत् गवेन्द्रत्वे ऽपि विप्रादीनामभ्युदयः “गोभ्यो यज्ञाः प्रवर्त्तन्ते गोभ्यो देवाः समुत्थिताः । गोभिर्वेदाः समुद्गीर्णाः स षडङ्गवदक्रमाः ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपि च त्वं नः परमकं परमानन्दः, त्वं नो दैवम्, त्वं न इन्द्रः परमेश्वः, इति परमैश्वये । हे जगत्पते ! गोविप्रदेवानां भवाय स्वस्तये भव, न केवलं तेषाम् एव ये च साधवस् तेषाम् अपि ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमं कं सुखं यस्मात् तत् । अतस् त्वम् एवास्माकम् इन्द्रो भव । जगत्-पते! इति तत्र जगत्-पतित्वे ऽपि सम्प्रति गोप-जातित्वात् गोपत्वे ऽपि इन्द्र-मख-विमर्दित्वाद् इन्द्र-पराभावकत्वाच् च तवेन्द्रत्वम् उपयुक्तम् एवेति भावः । ये चान्ये साधवः, तेषां च ॥२०॥


॥ १०.२७.२१ ॥

इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् ।

अवतीर्णो \ऽसि विश्वात्मन् भूमेर् भारापनुत्तये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भवताम् इन्द्रोऽस्तीति चेद् अत आह—इन्द्रम् इति । अलं पुरन्दरस्येन्द्रतयेत्य् अर्थः । ननु देव एवेन्द्रो भवति, कथम् अहं भवेयम् इति चेद् अत आह—अवतीर्णोऽसीति ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नन्वेकेन्द्र सत्त्व इन्द्रान्तरकरणम् अनुचितम् इति शङ्कते—नन्व् इति । अतः इत्य् अर्थ इति । पुरम् अत्र गोकुल-ग्रामादि गोसमूहो वा, तद् दारकरस्य नाशकस्येन्द्रत्वं न शोभते परमैश्वर्य-युक्तस्यैवेन्द्रत्वाद् इति भावः । इन्द्रमख-विमर्दित्वाद् इन्द्र-पराभव-कर्तृत्वात् तवैवेन्द्रत्वम् उचितम् इति भावान्तरम् ।

ननु, स्वातन्त्र्येणैव कस्यचिद् आज्ञया वेत्य् आह—ब्रह्मणेति । स्वापराध-भीतेन्द्रेण ब्रह्मा स्वरक्षार्थं निवेदितस् तेनाहं हे सुरभे त्वत् सन्तान-पालकस्य त्वम् अतिप्रीति-पात्र्यस्यतस् त्वम् इन्द्रापराधं क्षमापयस्वेन्द्रत्वे चाभिषिञ्चेत्य् उक्ता । किं च ब्रह्माण्ड-कोटीन्द्रस्य ब्रह्म-रुद्रादि-दुर्लभाङ्ङ्ह्रि-सेवस्य तव गवेन्द्रत्वेनाभिषेके न कश्चिद् उक्त्कर्षः किं त्व् अस्माकम् अभिषेक एव स भावीत्य् आह—अवतीर्णेति यदि त्वं नावतरिष्य्सस् तर्ह्य् अस्माकम् इदं भाग्यं कथम् अभिविष्यद् इति भावः । स्वस्य मानुष्यं सम्भावयन्न् आशङ्कते—नन्व् इति । हे विश्वात्मन् सर्व-नियन्तः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-प्रकारम् एव भक्ति-विशेषेण सनिश्चयं विज्ञापयति—इन्द्रम् इति । त्वदिन्द्रत्वेनास्माकं परम-हित-सम्पत्त्या स्वत एव विप्रादीनां दृष्टादृष्ट-हित-सिद्धेः, धर्मादीनाम् अस्मन् मूलकत्वात्, सर्वो-परिस्थितानाम् अस्माकम् इन्द्रत्वेन तव स्वत एव ऋषिदेवादीन्द्रत्वं सिध्यति4 तेषां स्वत एव क्षेम-सम्पत्तेः ।

ननु, तर्हि इन्द्राद्य् अधिकार-दातुः श्री-ब्रह्मणोऽवमानः स्यात् तत्राह—ब्रह्मणेति । अतो ब्रह्म-वाक्यापेक्षयापि त्वयात्र सम्मतिर् एव कार्येति भावः ।

ननु, तर्हि स एव कथं नागतः ? तत्राह—वयम् इति । अत्रास्माकम् एवाधिकारः, अन्तरङ्गत्वात्, न तु तस्य, बाह्यत्वाद् इति भावः । बहुत्वं श्री-भगवद् अभिषेकाद् आत्मनो बह्यमानेन निज-सन्तानापेक्षया वा । यद् वा, वत्सलतया स्वसङ्गागतम् इन्द्रं तदीयांश् च कृतार्थयितुम्, बहुत्वेन तान् सर्वान् सङ्गृह्नाति, ततश् च पूर्ववद् अपराध-शङ्कया ब्रह्मा नागमद् इति ज्ञेयम्, अवतीर्णोऽसीति तैर् व्यञ्जितम् एव,

यद् वा, ननु, मद् इच्छयैव भवति, न तु ब्रह्मप्रेरणया, तत्राह—अवेति । त्वद् अभिषेके सति जगतां पाप-नाशेन पुण्य-सम्पत्त्या च स्वत एव भू-भार-नाशः स्याद् इति भावः, कुतः ? हे विश्वात्मन् यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोप-शखाः [भा।पु ४.३१.१४] इत्य्-आदि-न्यायेन तवाभिषेकोत्सवेन सर्वेषाम् एव स्वतो महोत्सव-सम्पत्तेः, अतस् तवावतार-प्रयोजन-सुख-सिद्ध्या सम्मतिर् अनुमीयत एवेति भावः ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत् प्रकारम् एव भक्ति-विशेषेण सनिश्चयं विज्ञापयति—इन्द्रम् इति , स्वभावत एव नोऽस्माकम् इन्द्रं त्वाम् अधुना मनुष्य-लोके प्रचाराय केवलम् अभिषेक्ष्यामः ।

ननु, तर्हि इन्द्राद्याधिकार-दातुर् ब्रह्मणेऽवमानः स्यात् तत्राह—ब्रह्मणेति । अतो ब्रह्म-वाक्यापेक्षयापि त्वया सम्मतिः कार्येति भावः ।

ननु, तर्हि स एव कथं नागतः तत्राह—वयम् इति । अत्रास्माकम् एवाधिकारः त्वदीय-गो-वंशस्यादि-मातृत्वेन तत्रान्तरङ्गत्वात् तस्य तु प्रपञ्चाधिकारित्वेन बहिरङ्गत्वाद् इति भावः । अतो बहुत्वम् अप्य् आत्मनो बहुमानेन ।

यद् वा, वत्सलतया स्व-सङ्गागतम् इन्द्रं तदीयांश् च कृतार्थयितुं बहुत्वेन तान् सर्वान् सङ्गृह्नति ततश् च कृतापराधेन स्वेन महापराधिन इन्द्रस्याप्य् अपराधक्षमापणे पूर्ववद् अपराध-शङ्कया ब्रह्मा नागमद् इति ज्ञेयम् अवतीर्णोसि इति तैर् व्यञ्जितम् ।

यद् वा, नन्व् अहं श्री-गोप-नन्दनः कथं युष्मद् दैवम् ? ततो यूयं ब्रह्माप्य् असमीक्ष्यकारिण एवेत्य् आशङ्क्य न मुहुर् अस्मान् प्रतारयेत्य् आह—अवेति । श्री-मति परम-गोलोके विराजमानो नित्यम् अस्मत् परम-दैवत-रूप एव त्वम् अवतीर्णोऽसि श्री-नन्दादि-निज-परिकरैः सह केवलं भूम्यां प्रकटोऽसि न तु जीववज् जातोऽसीत्य् अर्थः ।

ननु, भू-भारापनोदेन मम किं ? तत्राह—विश्वात्मन्न् इति । अतो विश्वस्यापि स्थितिस् त्वत्त एव युज्यत इति भावः । तत्रैव यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य्-आदि-न्यायेन सर्वेषाम् एवात्र तवभिषेके जायमानं सुखं, तद्-अर्थम् अवतीर्णेन भवतानुमोदनीयम् एवेति व्यञ्जितम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परम-गोलोके स्वभावत एव नोऽस्माकम् इन्द्रं त्वाम् अधुना मनुष्य-लोके प्रचाराय केवलम् अभिषेक्ष्यामः ॥२१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यद् अपि निवेदनम् अस्तीत्य् आह—इन्द्रं नस् त्वा इत्य्-आदि । त्वा त्वां नोऽस्माकम् इन्द्रं कृत्वा अभिषेक्ष्यामः । ननु, किं ममेन्द्रत्वेन, तद् एवं नैव कार्यम् इत्य् आह—ब्रह्मणा चोदिताः प्रेरिताः । तस्याज्ञा अस्माकम् अखण्डनीयैव । नन्वहं गोप-बालकः, ब्रह्मणा कथं मद् अभिषेकाय यूयं ऽनियोक्तव्याः ? नैवम्, इह हे विश्वात्मन् ! त्वं विश्वात्मैवासि । तर्हि कथं भूमै ? इत्य् आह—अवतीर्णोऽसि । किम् अर्थम् ? भूमेर् भारापनुत्तये ॥२१-२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नोऽस्माकं त्वाम् इन्द्रं ननु, कस्य्साप्य् आदेशेन स्वातन्त्र्येणैव वा तत्राह—ब्रह्मणेति । यदा महा-भय-विह्वलेनेन्द्रेण स्वसाहार्यार्थं गत्वा ब्रह्मा-निवेदिनस् तदानेनापि भूत-पूर्वं स्वापराध-स्मृत्या भीतेन विमृश्याहम् आदिष्टा सुरभे त्वत् सन्तान-पालकस्य प्रभोस् त्वम् अतिप्रीति-पात्री भवसि तत् त्वम् एव गत्वा कृपा-सिन्धो तत्रेन्द्रापराधां क्षमय गवेन्द्रत्वेन तमभिषिञ्च चेति किं च ब्रह्माण्ड-कोटीन्द्रस्य ब्रह्म-रुद्रादि-दुर्लभ-चरण-परिचरणस्य तव गवेन्द्रत्वेनाभिषेको नामकः खलूत्कर्षेः ? किन्त्व् अभिषिञ्चताम् अस्माकम् एवोत्कर्षार्थम् अस्माकम् अयं प्रयत्न इत्य् आह—अवतीर्णोसीति । विश्वात्मन्न् इति विश्वात्मत्वेन सर्वथैवादृश्य एव त्वं यदि नावातरिष्यस् तदा अस्माकम् एतावद् भाग्यं कथम् अभविष्यद् इति भावः ॥२१॥


॥ १०.२७.२२ ॥

श्री-शुक उवाच—

एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः ।

जलैर् आकाश-गङ्गाया ऐरावत-करोद्धृतैः ॥

इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः ।

अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरभिर् आत्मनः पयसा अभ्यषिञ्चत् । इन्द्रश् चाकाश-गङ्गाया जलैर् अभ्यषिञ्चत् ॥२२॥ देवा-मातृभिर् अदित्यादिभिः, देवैर् मातृभिश् चेति वा । गाः पशून्, गां स्वर्गं वा इन्द्रत्वेन विन्दतीति कृत्वा गोविन्द इत्य् अभ्यधात्, नाम कृतवान् इत्य् अर्थः ॥२३.२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या । उपामन्त्र्य सम्प्रार्थ्य । पयसा क्षीरेण । इन्द्रश् चाभ्यषिञ्चतेति द्वयोर् अन्वयः । दाशार्हं दशार्ह-कुल-मुख्यम् । यद् वा, दाशां सुखादि-दानम् अर्हतीति तथा तम् । तथा च श्रुतिः—

ऋषभम् मा समानानां सपत्नानां विषासहिम् । > हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ [ऋ।वे। १०.१६६.१] > इति ।

विषासहिं सहन-समर्थम् ॥२२॥ ननु, देवान् विहाय मातर एवागतास् ते कथं नागता इत्य् आशङ्कापनुत्तये आह—देवैर् मातृभिश् चेति । विन्दति लभते । विद्ल्̥ लाभे इति शब्देनोक्तत्वात् । ऋमाद् अमुं नारद इत्य् अबोधि इतिवद् गोविन्द इति । इत्य् अर्थ इति । अभि पूर्वस् तु भाषणे इति व्याड्युक्तेः । अभ्यधात् कथितवान् । कथनं च नाम्न एवेति भावः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपामन्त्र्य अनुज्ञाप्येत्य् अर्थः, लज्जादिना श्री-भगवता साक्षाद् अकृतेऽपि स्वीकार मौनं सम्मति-लक्षणम् इति-न्यायेन । किं वा, ब्रह्म-प्रेरण-बलेन निज-भक्ति-विशेष-बलेनैव वा सुरभिः स्वयम् एवाभ्यषिञ्चत्, इन्द्रस्तु महापराधेनान्तर्भयादिना श्री-भगवद् अन्तः-प्रसादालक्षणेन च स्वयम् अप्रवृत्तः, केवलम् इन्द्र-स्नेहेनागताभिर् अन्तर्धानेन स्थिताभिः । किं वा, गोपीश्वर-तीर्थे शकट-भञ्जनानन्तरम् इवाभिषेकार्थम् एव तत्र साक्षाद् आगताभिर् देव-मातृभिर् एव श्री-कृष्णोऽयं भगवान् कृपार्द्र-चित्तः शरणागत-वत्सलो विशेषतश् च तत्-प्रिय-जन-सङ्गत्या अत्र तत्-प्रिय-स्थाने त्वम् आगतोऽसि । समयोऽयम् अप्य् अतिप्रशस्तस् तन् मा भयं कार्षीः, महोत्सवं भक्त्या विधत्स्व इति । एवं प्रेरितः सन् सुरैर् ऋषिभिश् च सहितोऽभ्यषिञ्चद् इति ज्ञेयम् ।

ततश् चागतस्यैरावतस्य करेण कृत्वा रत्न-कुम्भादि-द्वारा उद्धृतैर् आनीतैः, अन्यथा सद्यः परम-पवित्र-बहु-लजलाप्राप्तेः, निज-भक्ति-विशेष-प्रदर्शनासिद्धेर् वा । दाशार्हं यदुकुलेऽवतीर्णम् अपि, गोविन्द इति गोकुल-लीला-सम्बन्धेनैव नाम चक्रे सुरभिर् इन्द्रश्चेत्य् अर्थः । तथैव माहात्म्य-विशेषस्य श्री-भगवत्-प्रीति-विशेषेषस्य च सम्पत्तेः । हे देवेति श्री-परीक्षित्-सम्बोधनं वा, नर-देवत्वेन तत्त्वया वुध्यत एवेति । यद् वा, तत्-प्रकारो ज्ञयत एवेति, किन्तद् विस्तारणेनेति भावः, श्री-भगवद् अभिषेक-प्रवणात् प्रहर्षेण द्योतमानं तं दृष्ट्वा तथैव सम्बोधतीति ॥२२.२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इति युग्मकम् उपामन्त्र्य निजेन्द्रत्व-स्वीकाराय प्रार्थ्येत्य् अर्थः । लज्जादिना श्री-भगवता साक्षाद् अकृते\ऽपि स्वीकारे मौनं सम्मति-लक्षणम् इति न्यायेन सुरभिः स्वयम् एवाभ्यषिञ्चत् ॥ इन्द्रः स्वयम् अप्रवृत्तः किन्तु तद् अभिषेकार्थम् एव सुरर्षिभिः साकं तत्र साक्षाद् आगताभिर् देव-मातृभिः प्रेषितः यथा श्री-कृष्णोऽयं भगवान् कृपाद्र-चित्तः शरणागत-वत्सलः विशेषतश् च तत् प्रिय-जन-सङ्गत्या त्वम् आगतोऽसि समयोऽयम् अप्य् अतिप्रशस्तस् तस्मान् मा भयं कार्षीः महोत्सवं भक्त्या विधत्स्वेति अतस् तैर् एव सहितोऽभ्यषिञ्चद् इत्य् अर्थः । ऐरावतस्य करेण कृत्वा रत्न-कुम्भादि-द्वारा उद्धृतैर् आनीतैः तदीय-रत्नमय-घण्टयेति विष्णु-पुराणे तच् च गजेन्द्र-द्वारा तद् विधानात् सद्यो वाञ्चित-तीर्थज-लाभाच् च गवाम् इन्द्रो गोविन्दः तत् पदेनैव गवेन्द्रताया वाच्यत्वात् प्रीयान् न इन्द्रो गवाम् [भा।पु। १०.२६.२५] इति तद्-अर्थ-निर्देशेन तन्-नाम्नः सूचितत्वात्, इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः [भा।पु। १०.२७.२८] इति वक्ष्यमाणाच् च पृषोदरादि-पाठ इति दाशार्हम् इति दाशार्हत्वेऽपि गोविन्दत्वम् उत्कृष्टम् इत्य् अभिप्रेतम् ॥२२.२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उपामन्त्र्य निजैन्द्र-स्वीकाराय प्रार्थ्येत्य् अर्थः । प्रचोदितः प्रेरितः भयात् स्वयम् अप्रवृत्तैः ऐरावत इति गजेन्द्र-द्वारा तद्-विधानात् ॥२२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गवाम् इन्द्रो गोविन्दः तत्-पदेनैव गवेन्द्रताया वाच्यत्वात् प्रीयान् न इन्द्रो गवाम् इत्य् उक्तत्वात् त्वन्न इन्द्रो जगत्पतेर् इति इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः इति वक्ष्यमाणात् ॥२३.२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नोऽस्माकं त्वा त्वां इन्द्रम् । ननु, कस्याप्य् आदेशेन स्वातन्त्रेणैव ? तत्राह—ब्रह्मणेति । यदा, महा-भय-विह्वलेनेन्द्रेण स्व-साहाय्यार्थं गत्वा ब्रह्मानिवेदितस् तदा तेनापि भूत-पूर्व-स्वापराध-स्मृत्या भीतेन विमृश्य अहम् आदिष्टा सुरभे! त्वत्सस्तानपालकस्य प्रभोस् त्वम् अतिप्रीति-पात्री भवसि तत् त्वम् एव गत्वा कृपा-सिन्धौ तत्रेन्द्रापराधं क्षमय गवेन्द्रत्वेन तम् अभिषिञ्च चेति । किं च, ब्रह्माण्ड-कोटीन्द्रस्य ब्रह्म-रुद्रादि-दुर्लभ-चरण-परिचरणस्य तव गवेन्द्रत्वेनाभिषेको नाम कः खलूत्कर्षः? किन्त्व् अभिषिञ्चताम् अस्माकम् एवोत्कर्षार्थम् अस्माकम् अयं प्रयत्न इत्य् आह—अवतीर्णो ऽसीति विश्वात्मन्न् इति विश्वात्मत्वेन सर्वथैवादृश्य एव त्वं यदि नावतरिष्यस् तदास्माकम् एतावद् भाग्यं कथम् अभविष्यद् इति भावः । पयसा दुग्धेन देवमातृभिर् अदित्यादिभिः प्रेरित इन्द्रश्चाभ्यषिञ्चत् आत्मनो भगवन्-निकृष्ट-दासत्व-मननेनाभिषेक-कर्मण्य् अभ्यर्हिते स्वयम् अप्रवृत्त प्रथमं स्थगित एवेन्द्र आसीत् पश्चाद् अदित्यादिभिः प्रेरितस् तद्-आज्ञा-वशाल् लुब्ध तद्-अधिकार-सम्भावन एव अभ्यषिञ्चत् इत्य् अर्थः । दाशार्हम् इति दाशार्ह-वंशत्वेन जातस्यापि तस्य गोपत्वस्यैव स्पृहणीयत्वाधिक्यात् । गाः पशून् विन्दति गां सर्गं वा इन्द्रत्वेन गाः सर्व-भक्तेन्द्रियाण्य् आकर्षकत्वेन विन्दतीति वा गोविन्द इत्य् अभ्यधात् नाम कृतवान् इत्य् अर्थः ॥२२॥


॥ १०.२७.२४ ॥

तत्रागतास् तुम्बुरु-नारदादयो

गन्धर्व-विद्याधर-सिद्ध-चारणाः ।

जगुर् यशो लोक-मलापहं हरेः

सुराङ्गनाः सन्ननृतुर् मुदान्विताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र अभिषेक-स्थने गोवर्धन-प्रदेशे तत्र शक्र-कुण्डम् इति वाराहे गोविन्द-कुण्डम् इति प्रसिद्धेः । आगता न तु तैर् इन्द्रज्ञापेक्षितेति भावः । तुम्बुरु-नारदादि-निर्देशस् तु नारदाद् अपि तस्य गाने ज्येष्ठत्वात्, तल्-लिङ्ग-पुराणे व्यक्तम् नारदश् चायं नित्य-पार्षदः गरुडादीनां वैनतेयादिर् इव भगवद् अवतार-तत्-पार्षद-प्रवर-श्री-नारदस्यैवावतारो गीतादि-कौतुके गन्धर्वादिषु वर्तते । आदि-पदाच् चित्ररथादयः । यद् वा, तुम्बुरु-नारदाव् आदाव् अग्रतो येषं ते इति ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च महोत्सवो जगदानन्द-करो वृत्त इत्य् आह—तत्रेति त्रिभिः । तस्मिन् अभिषेके । किं वा, श्री-गोवर्धने शत्रु-कुण्डम् इति स्कान्दतः प्रसिद्धे स्थाने आगताः । तत्र हेतुः-मुदान्विताः, अत इन्द्राज्ञापेक्षापि तैर् न कृतेति भावः । तुम्बुरोर् आदौ निर्देशः पूर्वं नारदाद् अपि तस्य गाने श्रैष्ट्यात्, नारदस्य तु द्वारकायां श्री-रुक्मिण्याद्य् अनुग्रहत एव, तच् च लिङ्ग-पुराणे व्यक्तम् एव ।

यद् वा, नारदोऽयं नित्य-पार्षद-प्रवर-श्री-नारदस्यैवावतारो गीतादि-कौतुकेन गन्धर्वेषु वर्तत इति । एवं तुम्वुरु-नारदौ अग्रतो येषां ते गर्धर्वादयो लोकानां सर्वेषां मलं काम-क्रोधादिकम् अद्वैत-वासनात्मकं वा, अत एव हर्हेर् मनोहरस्य सर्व-दोष-हरस्येति वा, सम्यक् ननृतुर् इति विध्याधराः सुवाद्यं चक्रुर् इत्यायातम् एव ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च महोत्सवो जगदानन्द-करो वृत इत्य् आह—तत्रेति त्रिभिः । तस्मिन् शक्र-कुण्डम् इति श्री-वाराहतः गोविन्द-कुण्डम् इति स्कान्दतः प्रसिद्धे श्री-गोवर्धन-प्रदेशे आगताः सर्वत्र हेतुः मुदान्विताः अत इन्द्राज्ञापेक्षापि तैर् न कृतेति भावः । तुम्बुरोरादौ निर्देशः पूर्वं नारदो\ऽपि तस्य गाने ज्येष्ठ्यात् तच् च लिङ्ग-पुराणे व्यक्तं श्री-नारदाश्चायं नित्य-पार्षद-प्रवर-श्री-गरुडादीनां श्री-वैनतेयादिभिर् इव भगवद् अवतार-तत् पार्षद-प्रवर-श्री-नारदस्यैवावतारो गीतादि-कौतुकेन गन्धर्वादिषु वर्तत इति आदि-शब्दात् चित्र-रथादयः यद् वा, तुम्बुरु-नारदावादावग्रतो येषां ते गर्न्धर्वादयः लोकानां सर्वेषां मङ्गलं तद् भक्तौ दोषं मोक्षाभि-सन्धि-पर्यन्तम् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-निकायेषु केतव इव मुख्या वरुणादयः अद्भुत-पुष्प-वृष्टिभिर् विशेषेण अवाकिरन् आवव्रुर् इत्य् अर्थः । गां पृथ्वीं पयोभिर् द्रुताम् आर्द्राम् अनयन् अकुर्वन्न् इत्य् अर्थः ॥२४.२५॥


॥ १०.२७.२५ ॥

तं तुष्टुवुर् देव-निकाय-केतवो

ह्य् अवाकिरंश् चाद्भुत-पुष्प-वृष्टिभिः ।

लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो

गावस् तदा गाम् अनयन् पयो-द्रुताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-निकायेषु केतव इव दर्शनीया मुख्या इत्य् अर्थः । गावो गां पृथ्वीं पयोभिर् द्रुताम् आर्द्राम् अनयन् । अकुर्वन्न् इत्य् अर्थः ॥२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देव-निकाय-केतवो वरुणाद्याः श्री-गरुड-नारदाद्या वा पार्षद-प्रवराः, हि निश्चितम्, अद्भुतानाम् अपूर्व-वृत्तानां किं वा, अद्भुताभिः सर्वतो बहुधा व्याप्या पतन्तीभिः पुष्पाणां वृष्टभिर् व्यापयामासुः, परां मोक्षाद् अप्य् उत्कृष्टम् इत्य् अर्थः । अतो भगवद् अभिषेक-महोत्सव-स्वभावेनेन्द्रस्यापि प्रहर्षो\ऽभूद् इति ज्ञेयम् । तदा तदानीम् । यद् वा, ततः प्रभृतीत्य् अर्थः, अस्य पूर्वापराभ्यां वाक्याभ्यां तथा परपद्येनाप्य् अन्वयः । पूर्वं श्री-वृन्दावन एव वृष्का मधुस्रव आसन्, इदानीं च सर्व-भू-गता एवेति विशेषः । एवम् अग्रे\ऽपि ॥२५-२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देव-निकाय-केतवः वरुणाद्याः पुष्पाणां स्वरूपेण वृष्टीनाम् अपारम् इत्य् अनेन च अद्भुताभिः पुष्पाणां वृष्टिभिर् व्यापयामासुः परां यतोऽतिशयिता नान्यास्ति ताम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.२७.२६ ॥

नाना-रसौघाः सरितो वृक्षा आसन् मधु-स्रवाः ।

अकृष्ट-पच्यौषधयो गिरयो\ऽबिभ्रन् उन् मणीन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाना-रसौघाः क्षीरादि-वाहिन्यः । अकृष्त-पच्याः कर्षणं विनैव पक्वा ओषधयो व्रीह्य्-आदय आसन् । यद् वा, अकृष्ट-पच्या ओषधयो येषु ते गिरय उन्मणीन् गर्भ-गतान् मणीन् उत् उद्गतान् बहिः प्रकटान् अबिभ्रद् अबिभरुः ॥२६.२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवानां निकायेषु समूहेषु,

निकायस् तु पुमांल् लक्ष्ये सुधर्मि-प्राणि-संहतौ । > समुच्चये सम्हतानां निलये परमात्मनि ॥ इति मेदिनि ।

इत्य् अर्थ इति । मुख्यानाम् एव मङ्गल-कर्मसु प्राधान्याद् इति तात्पर्यम् । इत्य् अर्थ इति । सर्व-धातुषु कृञ्-अर्थस्य व्याप्तत्वाद् इत्य् अर्थः ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाना-रसेत्य्-आदाव् एवं ज्ञेयं पूर्वं वृन्दावने यद् यद् वैशिष्ट्यम् आसीत् तत् तद् अप्य् अधुनाधिकतया तत्र भूत्वा त्रैलोक्यम् अपि व्याप्नोद् इति अकृष्ट-पच्यौषधय इति मध्ये सुप्-लोक् छान्दसः सन्धिर् वा ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाना-रसौघाः क्षीरादि-वाहिन्य अकृष्ट-पच्याः कर्यणं विनैव पक्वा ओषधयो यत्र ते गिरयः । उन्मणीन् उत्कृष्टान् मणीन् अबिभ्रन् अविभरौः ॥२६॥


॥ १०.२७.२७ ॥

कृष्णे \ऽभिषिक्त एतानि सर्वाणि कुरु-नन्दन ।

निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतानि गो-व्याघ्राहिन-कुलादीनि । सत्त्वानि जीवाः । निसर्गतः स्वभावत एव क्रूराणि क्रूर-स्वभावानि । निर्वैराणीति कृत-युग-तुल्यता ध्वनिता । हे कुरु-नन्दनेति । अत्य् उत्तम-कुरुराज-वंशोद्भूतत्वात् त्वां मयेदं श्रावितम् इति । हे तातेति । तस्य श्रवणे श्रद्धां वीक्ष्य प्रीत आहेति भावः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं गुणा एव सम्पन्नाः, स्वाभाविक-दोषा अपि विनष्टा इत्य् आह—कृष्ण इति, निज-भगवत्तासार-सर्वस्व-प्रकटनपर इत्य् अर्थः, एतानि साक्षाद्-दृश्यमानानि सत्त्वानि निसर्गतो जाति-स्वाभावेन क्रूराणि परस्परं हिंसा-पराण्यपि अहि-नकुलादीनि सर्वाणि सर्वभूगतान्य् एव निर्वैराणि मित्राण्य् अभवन् । हे कुरुनन्दनेति हे तातेति परमाश्चर्येण प्रेम-वैवश्येन वा पुनः पुनः सम्बोधनम्, यद् वा,

ननु, तदानीं श्री-भगवता गुप्त-मधु-क्रीडापरेणापि कथम् ईदृशम् ऐश्वर्यं प्रकटितम् ? तत्राह—एतानि सर्व-लोक-परम-निर्वृति-प्राप्त्य् आदीनि तद् अभिषेकोत्सव-स्वभावाद् एव जायमानानि तस्यापि दुर्निवाराणीत्य् अर्थः । श्री-वृन्दावने च सदैव तादृशत्वात् मधुर-क्रीडा सम्पद्येत् एवेति दिक् । हे कुरुनन्दनेति तव जन्मना यथा कुलक्षय-शोक-काले\ऽपि त्वत् पितामहादीनाम् आनन्दो वृत्त इति भावः, किं च, निर्वैराणीति । अन्यत् समानम् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च केवलं गुणा एव सम्पन्नाः स्वाभाविक-दोषा अपि विनष्टा इत्य् आह—कृष्ण इति । एतानि प्रसिद्धानि सत्त्वानि निसर्गतः जाति-स्वभावेन क्रूराणि परस्परं हिंसापराण्य् अपि अहि-नकुलादीनि सर्वणि सर्व-भुतान्य् एव निर्वैराणि मित्राणीवाभवन् जायमाने जानार्दने इतिवत् तदानीम् इति ज्ञेयं वृन्दावने तु सर्वदैवेति विशेषः । हे कुरु-नन्दनेति तस्य तवानुमोदनेन हे तातेति परमाश्चर्येण प्रेम-वैवश्येन वा पुनः पुनः स्वम्बोधनम् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्वैराणीति सर्व-भूतान्य् एव तदानीम् इति शेषः ॥२७.२८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतानि भूतानीति शेषः ॥२७.२८॥


॥ १०.२७.२८ ॥

इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः ।

अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति उक्त-रीत्या । शक्रः ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति—अनेनोक्त-प्रकारेण, गवां गोकुलस्य च तत्रत्यानाम् अपि सर्वेषां पतिं श्री-कृष्ण गोविन्दम् इत्य् अभिषिच्य । यद् वा, गोकुल-पतिम् इत्य् अन्वयर्थतया गोविन्दत्वेनाभिषेके हेतुः तत्र यद्य् अपि गोकुल-शबेन गावो\ऽपि गृह्यन्ते, तथापि तत्र तासां मुख्यत्वात् पृथग् आदौ निर्देशः,

यद् वा, गोकुल-पतित्वेन स्वत एव गाः स्वाम्यादिना विन्दतीति गोविन्दो भवत्य् एव, तस्य हि गोविन्दत्वेनाभिषेको नाम विशेष इतीन्द्रं प्रति कटाक्षः । स अपराद्य् अपि श्री-भगवता स्वीकृताभिषेकोपकरण-गोपादिभ्यां लज्जया शीघ्रं यियासुत्वाद् अनुज्ञातः, ततश् च देवादिभिर्वृतः परिवेष्टितः सन् स्वर्गं ययौ, आदि-शब्देन पूर्वोक्ताः सुरर्ष्यादयः, सुरभिस् तु श्री-गोलोकेन सह श्रीमाथुर-व्रज-भूमेर् ऐक्याद् अत्रैव निज-सन्तान-सङ्गे स्थितेति ज्ञेयम्, द्वयोर् अभेदश् च श्री-भागवतामृतोत्तर-खण्डे विवृतो\ऽस्त्य् एव


यद् वा, आदि-शब्देन सापि गृहीता, याने\ऽनिच्छया तस्या गौणत्वेन पृथक् स्पष्टम् अनुक्तिः, एवं श्री-भगवत् सहचरा गोपास् तदानीं तत्र नासन्निति बोध्यव्यम् । पूर्वं [द्वितीय श्लो] विविक्तः इत्य् उक्तेः, अतस् तस्यैतद्-वृत्तं न ज्ञातम् । अत एव तैर् अकथनाद्-व्रजे च न प्रचारितम् इत्य् ऊह्यम् कुत्रापि तत् प्रसङ्गाभावात् । यद् वा, [१८श श्लो] स्व-सन्तानैः इति गवां साहचर्येण [१९श श्लो] वयम् इत्य् अनेन च ते गृहीता एव, ततश् च तन् महोत्सवे समागतास् तं दृष्ट्वापि साक्षाच् छ्री-भगवद् विचित्रानन्त-माहात्म्यानुभवेनाश्चर्यं मत्वा । यद् वा,

गोप-वृद्धश् च गोप्यश् च दृष्ट्वा तत्र शतक्रतुम् । > तेन सम्पूजिताश् चैव प्रहर्षम् अतुलं ययुः ॥

इति पाद्मोत्तर-खण्डोक्तानुसारेण श्री-नन्द-यशोदादीनाम् अपि तत्रागमनात् व्रजे नैव कथयामासुर् इति ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स अपराध्य् अपि श्री-भगवता स्वीकृतोपचारः गो-गोकुल-पतित्वेन स्वत एव तं गोविन्दम् अभिषिच्येति तेन तस्य नातिशयः किन्तु तेन कर्मणा लोकस्यैव स्वस्यैव हितं चकारेति भावः तस्य हितम् एव दर्शयति—ततः श्री-गोविन्देनानुज्ञातः सन् पूर्वं तद् अपराधित्वात् प्रायस् त्यक्तोऽपि पुनर् देवादिभिर् वृतः स्वीकृतो भूत्वा दिवं ययाव् इति लिलेयं सखिभिः स्थान-वेषादि-वैशिष्ट्येनैव ज्ञातत्वात् दूरतो वा निह्नुत्य दृष्टत्वात् पश्चाद् देव व्रजे कथितेति ज्ञेयम् इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्येति गो-गोकुलयोस् तद् ईशितव्ययो-निजेशितृत्वेन तस्य ज्ञान एव सुख-चमत्कारात् । पद्मोत्तर-खण्डे तु—

गोप-वृद्धाश् च गोप्यश् च दृष्ट्वा तत्र शतक्रतुम् । > तेन सम्पूजिताश् चैव प्रहर्षम् अतुलं ययुः ॥ इति ।

श्री-नन्द-यशोदादीनाम् अपि तत्रागमनं वर्णितं तत् तु विविक्त उपसङ्गम्येति विरोधात् कल्पान्तरे ज्ञेयम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्त-विंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे इन्द्रस्तुतिर्

नाम सप्तविंशोऽध्यायः ।

॥ १०.२७ ॥


(१०.२८)


  1. संस्थितौ ↩︎

  2. प्रसादाप्रवृत्तेः ↩︎

  3. श्री-भगवद् वाक्यात् ↩︎

  4. ऋषि-देवादीन्द्रत्व-सिद्ध्या ↩︎