२६

श्री-कृष्णस्यालौकिकं प्रभावं दृष्ट्वा चकितान् गोपान् प्रति नन्दस्य गर्गोक्ति-कथनम् ।

॥ १०.२६.१ ॥

श्री-शुक उवाच—

एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।

अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सुविस्मिताः1

श्रीधर-स्वामी (भावार्थ-दीपिका) :

षड्विंशे विस्मितान् गोपान् कृष्णस्याद्भुत-कर्मभिः ।

नन्दो गर्गोक्तिम् आश्राव्य तद्-ऐश्वर्यम् अवर्णयत् ॥

समभ्येत्य नन्दम् अभिगम्य ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-ऐश्वर्यं कृष्ण-वैभवम् ।*। एवं-विधानि गोवर्धन-धारणादीनि । अतद्-वीर्य-विदः श्री-कृष्ण-माहात्म्यम् अजानन्तः । शुचि-स्मिता नन्द-भाग्यं विमृश्य जातानन्दाः । “सुविस्मिताः” इति विजयध्वजः ॥१॥ [अत्र विश्वनाथः॥।]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं श्री-भगवतः शक्त्य्-अतिशय-दृष्ट्या ऐश्वर्य-ज्ञानेन व्रज-जनानां तस्मिन् प्रेम-ह्रासम् आशङ्क्य तत्-परिहारार्थं विशेषतश् च गोप-वर्ग-कृत-शङ्कायाः श्री-नन्देन निरसनात् प्रेम-भक्ति-विवृद्धेति बोधनार्थं तत्-प्रसङ्गम् आरभते—एवम् इत्य्-आदिना यावत्-समाप्ति ।

[एवं-विधानि] ईदृशान्य् अलौकिकानीत्य् अर्थः । न तस्य वीर्यम् ऐश्वर्यं सामर्थ्यं वा विन्दन्ति अनुसन्दधातीति तथा ते, यतस् ते सदा तत्-स्नेह-विवशा इत्य् अर्थः । अत एव सुविस्मिताः सन्तः सम्यक् भक्त्या प्रणति-पूर्वकं श्री-गोप-राजम् अभिगम्य । यद् वा, मिथः सम्भूय प्रकर्षेण न्याय-प्रदर्शनादिना प्रेम-पर्यवसानत्वेन वा ऊचुः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं श्री-भगवतः शक्त्य्-अतिशयं दृष्ट्वा ऐश्वर्य-ज्ञानेन व्रज-जनानां तस्मिन् कदाचित् प्रेम-हासम् आशङ्क्य तत्-परिहारार्थं विशेषतश् च गोप-वर्ग-कृत-शङ्कायाः श्री-नन्देन निरसनात् प्रेम-विवृद्धम् इति बोधनार्थं तत्-प्रसङ्गम् आरभते—एवम् इत्य्-आदिना यावत्-समाप्ति

ईदृशान्य् अलौकिकानीत्य् अर्थः । बहुत्वं पूर्व-पूर्वापेक्षया न तस्य वीर्यम् ऐश्वर्यं विन्दन्ति अनुसन्दधातीति तथा ते । यतः ते इति सदा तत्-स्नेह-विवशत्वेन प्रसिद्धा इत्य् अर्थः । अत एव सुविस्मिताः सन्तः सम्यक् भक्त्या प्रणति-पूर्वकं श्री-गोप-राजम् अभिगम्य यद् वा, मिथः सम्भूय प्रकर्षेण न्याय-प्रदर्शनादिना प्रेम-पर्यवसानत्वेन वा ऊचुः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

षड्विंशे तु तद्-ऐश्वर्यानैश्वर्येक्षण-शङ्किनः ।

गोपान् प्रबोधयामास नन्द-गर्गोक्ति-गौरवैः ॥

इह किल श्री-गोवर्धन-धारण-समये श्री-कृष्ण-लावण्यामृत-रसास्वाद-निमग्नानां गोपानां मनसि को\ऽपि विचारम् उद्भवितुम् अवसरं न प्राप । तद्-अनन्तरं स्व-स्व-गृहं गतानां तेषां सर्वेषाम् एव हृदि सन्देह एक उदपद्यत—"अहो ! संप्रति साक्षाद्-दृष्टेन गिरि-धारणेन पूतना-वधादयो दावानलोपशमनादयो\ऽप्य् अस्यैव कर्माणि प्रतीमः । तदा तदा तु ब्राह्मणाशीर्वादात् नन्द-भाग्यातिरेकात् नारायण-प्रसाद-प्राप्ते\ऽस्मिन् बालके नारायणावेशाद् वा ते ते\ऽभूवन्" इति वितर्का वृथैव कृताः । वस्तुतस् तु साप्तवर्षिक-बालकस्यास्य सप्त-दिनावधि-शैलेन्द्र-धारणं खलु नरत्वं निषिद्ध्य परमेश्वरत्वम् एव कथयति ।

“किं च, अस्माकं सांसारिकाणां ग्राम्य-गोपानाम् एतत् पितृ-पितृव्य-मातुलादीनां लालनैः प्रफुल्लत्वम्, अलालनैर् वैक्लव्यं, तथा क्षुत्-पिपासा-दधि-पयश्-चौर्य-दम्भानृत-प्रलपन-वत्स-गोचारणदिकं परमेश्वरत्वे सति कथं सम्भवेत् ? एतत् तु परमेश्वरत्वं निषिद्ध्य नरत्वम् एव प्रतिपादयति । अतो\ऽस्य तत्त्वं निश्चेतुम् असमर्था महा-बुद्धिमन्तं व्रज-राजम् एव पृष्ट्वा निःसंशया भवामः” इति मनसि कृत्वा तस्यैव महा-[स्थणीं]{।मर्क्} प्रविश्य तं पप्रच्छुर् इत्य् आह—एवम् इति ॥१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.२ ॥

बालकस्य यद् एतानि कर्माण्य् अत्यद्भुतानि वै ।

कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्म-जुगुप्सितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् ऊचुः, तद् आह—बालकस्येति । यद् यस्माद् अद्भुतानि कर्माणि, तस्माद् ग्राम्येषु गोपालेषु कथं जन्मार्हति ? आत्म-जुगुप्सितम् आत्मानर्हम् ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वचः, तद् वचः शुक आहअद्भुतानि वक्तुम् अशक्यानि । ग्राम्येषु विषयाविष्ट-जनेषु । आत्मनः स्वस्य अनर्हं निरूपणायोग्यम् । न ह्य् एतादृग् ऐश्वर्यताया गोपेष्व् आविर्भावः शोभत इति भावः । यदा कृष्णे वनं गत इति ज्ञेयम्, परोक्ष एव रसापत्तेः। परम-निकृष्टोऽपि स्व-जुगुप्सायां न प्रवर्तते, किम् उत सर्व-प्रकृष्ट ईश्वर इति चक्रवर्ती ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बालकस्य च इत्य् अन्वयः । अप्य्-अर्थे -कारः । बाल्ये वर्तमानस्यापीत्य् अर्थः । ग्राम्येषु नीचेषु, आत्मनो जुगुप्सितम् अयोग्यम् । यद् वा, आत्मनो जुगुप्सितं निन्दा यस्मात् तत् । तथा च श्री-विष्णु-पुराणे—गोपालत्वं जुगुप्सितम् [वि।पु। ५.१३.३] इति । असाव् इत्य् अनेन श्री-भगवतो गो-चारणं सहचरैः सह वनं गतस्य असाक्षाद् अयं प्रायो वृद्धानां प्रसङ्गो ज्ञेयः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालकस्य च इत्य् अन्वयः । अप्य्-अर्थे -कारः । वै क्वचित् बाल्ये वर्तमानस्यापीत्य् अर्थः । ग्राम्यत्वात् उत्तमता-हीनेषु येषु आत्मनो जुगुप्सितं निन्दा । यस्मात् तत् । असव् इति पारोक्ष्य-निदर्शन तथासौ वनं गत इति लक्ष्यते पारोक्ष्य एव रसापत्तेः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्यद्भुतानि इत्य् अतो नायं प्राकृतो बालकः किन्त्व् ईश्वर एव इति चेद् अत आह—कथम् इति । असाव् इति परोक्ष-निर्देशेन तदासौ वनं गत इति लभ्यते । परोक्षत्व एव रसापत्तेः । आत्म-जुगुप्सितम् इत्य् आत्मनो जुगुप्सायां निकृष्टे\ऽपि न प्रवर्तते, किम् उत सर्व-प्रकृष्ट ईश्वर इति भावः ॥२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.३ ॥

यः सप्त-हायनो बालः करेणैकेन लीलया ।

कथं बिभ्रद् गिरि-वरं पुष्करं गज-राड् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्भुतानि कर्माण्य् आहुह्—यः सप्त-हायन इति । कथं बिभ्रत् स्थितः ? इति । पुष्करं पद्मं गज-राण् महा-गज इव ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वं बाल-चरितम् अनुक्रमन्ते, किञ्चिद् वैपरीत्येन । वैपरीत्यम् आह— इति । धारणानायासे दृष्टान्तम् आह—पुष्करम् इति । पुष्कराम्भोरुहाणि च इत्य् अमरः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बालस् तत्र च सप्त-हायनः सप्त-वर्ष-मात्र-वयाः, तत्रापि एकेनैव, न च कदाचित् परिवृत्त्या करान्तरेण, तत्रापि गिरिषु वरं श्रेष्ठं परम-गुरुतरम् इत्य् अर्थः, तत्रापि लीलयाकथं बिभ्रत् स्थितः ? इत्य् असम्भाव्यत्वेनाद्भूतत्वं व्यञ्जितम्।

लीलया धारणे दृष्टान्तः—पुष्करम् इति । अतो\ऽसौ लौकिक-बालको न भवतीति भावः । एतेन सौन्दर्यादि-विशेषो\ऽपि सूचितः । यद्यप्य् अष्टमाब्दारम्भे शरदि श्री-गोवर्धन-धारणम्, तथापि सप्त-हायन इति भाद्र-मासि सप्ताब्देषु पूर्णेषु किञ्चिद् अधिकैक-मासस्याल्प-कालत्वेनागणनात् । यच् च श्री-विष्णु-पुराणादौ ग्रीष्म-काले श्री-वृन्दावनम् आगतस्य सप्तम-वर्षे गो-पालने प्रवृत्तिर् इति, तथा चोक्तं श्री-पराशरेण—

कालेन गच्छता तौ तु सप्त-वर्षौ महा-व्रजे ।

सर्वस्य जगतः पालौ वत्स-पालौ बभूवतुः ॥ [वि।पु। ५.६.३६] इति ।

अस्यार्थः श्री-स्वामी-पादैर् एव तट्-टीकायां व्यञ्जितो\ऽस्ति—एवं वत्स-पालौ कालेन गच्छता सप्त-वर्षौ गोपालने समर्थौ बभूवतुः इति, वत्स-पालौ च संवृत्तौ राम-दामोदरौ ततः [वि।पु। ५.६.३२] पूर्वम् उक्तत्वात् । तद्-अनन्तरं च तस्मिन्न् एवाब्दे परस्मिन् वा प्रावृट् क्रीडा, ततः कालिय-मर्दनम्, ततो धेनुक-प्रलम्बयोर् वधः, ततः शरदि श्री-गोवर्धनोद्धरणम् इति, तस्य च कल्प-भेद-व्यवस्थया—ततश् च पौगण्ड-वयः-श्रितौ [भा।पु। १०.१५.१] इत्य्-आदिना विरोधः परिहार्य इति ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालः, तत्र च सप्त-हायनः सप्त-वर्ष-मात्र-वयाः, तत्रापि एकेनैव न च कदाचित् परिवृत्य करान्तरेण, तत्रापि गिरिषु वरं श्रेष्ठं परम-गुरुतरम् इत्य् अर्थः । तत्रापि लीलया कथं बिभ्रत् स्थित इत्य् असम्भाव्यत्वेनात्यद्भुतत्वं व्यञ्जितम् । यो बालः स कथम् ? इत्य् अध्याहारेणान्वयः । लीलया धारणे दृष्टान्तः—पुष्करम् इति । एतेन सौन्दर्यादि-विशेषोऽपि सूचितः । अतोऽसौ लौकिक-बालको न भवतीति भावः ।

यत् तु विष्णु-पुराणादौ ग्रीष्म-काले श्री-वृन्दावनम् आगत्य तस्य सप्तम-वर्षे गोपालने प्रवृत्तिर् इति तथा चोक्तम्—

कालेन गच्छता तौ तु सप्त-वर्षौ महा-व्रजे ।

सर्वस्य जगतः पालौ वत्स-पालौ बभूवतुः ॥ [वि।पु। ५.६.३५] इति

अस्यार्थः श्री-स्वामि-पादैर् एव तट्-टीकायां व्यञ्जितोऽस्ति । एवं वत्स-पालौ च संवृत्तौ राम-दामोदरौ ततः [वि।पु। ५.६.३१] इति पूर्वम् उक्तत्वात् । तद्-अनन्तरं च तस्मिन्न् एवाब्दे परस्मिन् वा प्रावृट्-क्रीडा । ततः कालिय-मर्दनं, ततो धेनुक-प्रलम्बयोर् वधः । ततः शरदि श्री-गोवर्धनाद् धरणम् इति तस्य च कल्प-भेद-व्यवस्थया, ततश् च पौगण्ड-वयः-श्रितौ [भा।पु। १०.१५.१] इत्य्-आदिना विरोधः परिहार्य इति दिक् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि च नेश्वरः, तर्हि कथम् एतानि कर्माणि सम्भवेयुः ? इत्य् आहुः द्वादशभिः—य इति । बिभ्रत् स्थित इति शेषः । पुष्करं पद्मम् । कथम् इत्य् अस्य विभक्ति-विपरिणाम एव यच्-छब्दस्य चाग्रिम-श्लोकेष्व् अनुवृत्तिर् ज्ञेया ॥३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.४ ॥

तोकेनामीलिताक्षेण पूतनाया महौजसः ।

पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः ॥४॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महौजसो महा-बलायाः तनोर् वय आयुर् यौवनं वा कालेन यथा पीयते, तद्वत् । कथम् इत्य् अनुवर्तते ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तोकेन शिशुना तोकम् अल्प-शिशौ पुंसि कन्यायां स्त्री तथाल्पके इति धरणि । तनोः शरीरस्य । बाल-वार्धक्ययोर् अल्प-पराक्रमत्वान् महौजस इत्य् अनेन दृष्टान्त-वैषम्याद् आह—यौवनं वेति । वयः यक्षिणि बाल्यादौ यौवने च नपुंसकम् इति मेदिनी ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्वम् अतिबाल्ये दुरूहत्वेन तत् कृतत्वे सन्दिग्धान्य् अपि पूतना-वधादीनि अधुना साक्षाच् छ्री-गोवर्धनोद्धरण-दृष्ट्या तदीयान्येवेति प्रत्य् अभिज्ञाय तान्यप्य् आहुः—तोकेनेति नवभिः । आमीलिताक्षेणेति—आस निमीलितेक्षणः [भा।पु। १०.६.८] इति पूर्वोक्तस्यानुवादः । तेन च बाल्य-कौतुकम् अत्यन्त-बाल्यं वा बोधितम् । यद् वा, ईषद् अक्षि-निमीलन-मात्रेणैवेत्य् अर्थः, तेन चातिशीघ्रत्वम् अनायासत्वं वा दर्शितम् । यद् वा, अमीलिताक्षेण निरीक्षमाणेत्य् अर्थः । इति निर्भयत्वं दृष्टि-मात्रेणैव स-प्राण-स्तन-पानं चाभिप्रेतम् ।

तत्-प्रकारश् च दुर्बोध इति दृष्टान्तेनाहुः—कालेनेति । इति शक्ति-विशेषः सूचितः । कथम् इत्य् अस्य सर्वत्राग्रे\ऽप्य् अनुवृत्तेः, सर्वेषाम् एव तत्-तत्-कर्मणाम् आश्चर्यत्वोक्त्या ग्राम्येषु जन्मायोग्यताम् एव साधयन्ति । यद् वा, कथम् इत्य् अस्याननुवृत्त्यापि अत्यद्भुतानीत्य् उक्त्या सो\ऽर्थः स्वतः पर्यवस्यत्य् एव । तोकेन इत्य्-आदिभिश् चाद्भुत-कर्माण्य् एवोक्तानि ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वम् अतिबाल्ये दुरूहत्वेन तत्-कृतत्वे सन्दिग्धान्य् अपि पूतना-वधादीन्य् अधुना साक्षात् श्री-गोवर्धनोद्धरण-दृष्ट्या तदीयान्य् एवेति निश्चितवन्तोऽप्य् आहुः—तोकेनेति नवभिः । सम्यक् मीलिताक्षेण इत्य् उक्त-दिशा तेन चत्यन्त-बाल्यं वा बोधितम् । पान-प्रकारश् च दुर्बोध इति दृष्टान्तेनाहुः—कालेनेति । इति शक्ति-विशेषः सूचितः । कथम् इत्य् अस्य सर्वत्राग्रेऽप्य् अनुवृत्तेः सर्वेषाम् एव तत्-तत्-कर्मणाम् आश्चर्यत्वोक्त्या ग्राम्येषु जन्मायोग्यताम् एव साधयन्ति । यद् वा, कथम् इत्य् अस्याननुवृत्त्यापि अत्यद्भुतानीत्य्-उक्त्या सोऽर्थः स्वतः पर्यवस्यति । तोकेनैवेत्य्-आदिभिश् चाद्भुत-कर्माण्य् एवोक्तानि ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तोकेन येन बालेन ईषन्-मुद्रिताक्षेण अलक्ष्यमाणत्वे कृष्टान्तः । तनोर् वयो यौवनं कालेन यथा पीयते, तद्वत् ॥४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.५ ॥

हिन्वतो\ऽधः-शयानस्य मास्यस्य चरणाव् उदक् ।

अनो\ऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनसोऽधः शयानस्यमास्यस्य मासास् त्रयः परिच्छेदका यस्य । उदग् ऊर्ध्वं चरणौ हिन्वतश् चालयतः । प्रपदेन पादाग्रेण हतं विपर्यस्तम् अनः कथम् अपतत् ? ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनसः शकटस्य । परिच्छेदकाः वयाज्ञापकाः, पर्माणे परिच्छेदः सर्वतश् छेदकेऽल्पके इति नैरुक्तः । हिनोतेः शतृ-प्रत्यये हिन्वत इति ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रपदेन ईषत् हतं प्रहृतम्, रुदत् इति पूर्ववत् बाल्यातिशय-कौतुक-विशेषो वा सूच्यते, तेन चात्यद्भुतत्व-हेतुतया शक्ति-विशेष एव बोध्यते । यद् वा, यथा वृत्तं तत्-तत्-कर्म-प्रकार-मात्र-कथनम् एतत् । एवम् अग्रे\ऽपि ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रपदेन आ ईषत् हतं प्रहतम् । रुदत इति पूर्ववत् बाल्यातिशयः सूच्यते तेन चात्यद्भुतत्व-हेतुतया शक्ति-विशेष एव बोध्यते । एवम् अग्रेऽपि । अन्यत् तैः ।

तत्र मास्यस्येति मास-मात्रं व्याप्य जात-बाल्यस्येत्य् अर्थः । कालाद् इत्य् अधिकारे तम् अधीष्टो भृतो हूतो हावी [५.१.८०] वेत्य् अधिकृत्य, मासाद् वयसि यत् सषौ [५.१.८१] इत्य् अनेन यद्-विधानात् तत्र द्वितीय-सूत्रे तं भृत इति तावन्तं कालं व्याप्य लब्ध-सत्ताक इत्य् अर्थे सतीति व्याख्यानात्। तृतीय-सूत्रे वयसि इति विशेषोपादानाच् च । किन्तु मासश् च मासश् च मासश् च मासा इति त्रयाणाम् एवैक-शेषत्व-करणात् त्रैमासिकस्य च पदा शकटोपवृत्तः [भा।पु। २.७.२७] इति द्वितीय-स्कन्धस्य च संवादः कर्तव्यः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनसो\ऽधः-शयानस्य मास्यस्य मास-त्रय-वयसः मासाद् वयसि यत् खञाव् इति यत्, चरणौ उदक् ऊर्ध्वं हिन्वतः चालयतो यस्य प्रपदेन पादाग्रेण आहतं । अतः शकटं विपर्यस्तं सत् कथम् अपतत् ? ॥५॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.६ ॥

एक-हायन आसीनो ह्रियमाणो विहायसा ।

दैत्येन यस् तृणावर्तम् अहन् कण्ठ-ग्रहातुरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यः कृष्णो दैत्येन ह्रियमाणः संस् तं तृणावर्तं दैत्यं कथम् अहन्न् इत्य् अर्थः ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एक-हायनो वर्षैकायुः । दैत्येन तृणावर्तेन । इत्य् अर्थ इति न हि बाल-कर्तृक-कण्ठ-ग्रहणेन महा-वपुषो हननं सम्भवतीत्य् अर्थः ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आसीन इति अत्यन्त-बाल्यम् एवाभिप्रतम् । कण्ठे ग्रहण-मात्रेणैव आतुरं विह्वलम्, अनेनापि शक्ति-विशेष एव सूचितः ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आसीन इति अत्यन्त-बाल्यम् एवाभिप्रेतं सम्यक् चलितुम् अपि पदा न शक्नोतीत्य् अभिप्रायात् । कण्ठ-ग्रहण-मात्रेणैव आतुरं विह्वलम् ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो दैत्येन ह्रियमाणः सन् तं तृणावर्तं दैत्यं कथम् अहन् ? ॥६॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.७ ॥

क्वचिद् धैयङ्गव-स्तैन्ये मात्रा बद्ध उदूखले ।

गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हैयङ्गव-स्तैन्ये नव-नीत-चौर्ये । बाहुभ्यां गच्छन् रिङ्गन्न् इत्य् अर्थः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति बाहुभ्यां केवलाभ्यां नटवत्, न किं तु बाल-वत्स-खलन्न् इति भावः ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्वचित् कदाचित्, अस्याग्रे\ऽपि सर्वत्रैवानुवृत्तिः । बाहुभ्यां तद्-अग्र-भागाभ्यां कराभ्याम् इत्य् अर्थः, जानुभ्यां स-पाणिभ्यां गमनस्यैव रिङ्गणत्वात् । यद् वा, रिङ्गणे\ऽपि बाहुभ्यां गमनेन बलाभावाद् अत्यन्त-बाल्यम् एवाभिप्रेतम् ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्वचित् कदाचित्, अस्याग्रे\ऽपि सर्वत्र वानुवृत्तिः । बाहुभ्यां तद्-अग्र-भागाभ्यां कराभ्याम् इत्य् अर्थः । उलूखल-कर्षणाय तयोर् एवाधिक्येन प्रणोदनात् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बाहुभ्यां गच्छन्न् इति उलूखलाकर्षणाय ॥७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हैयङ्गव-स्तैन्ये नवनीत-चौर्ये, बाहुभ्यां गच्छन् रिङ्गन्न् इत्य् अर्थः ॥७॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्


॥ १०.२६.८ ॥

वने सञ्चारयन् वत्सान् स-रामो बालकैर् वृतः ।

हन्तु-कामं बकं दोर्भ्यां मुखतो\ऽरिम् अपाटयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मुखतो हन्तुं कामो यस्य तं बक-वेषम् अरिं बाहुभ्यां मुखतः कथम् अपाटयत् ? ॥८-११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुखतः मुख-भागतः । अपाटयत् व्यदारयत् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स-रामो बालकैर् वृत इति रामे बालकेषु च तत्रैव सत्स्व् इति स एवापाटयद् इति सर्वेभ्यस् तेभ्यः शक्ति-विशेषो द्वनितः । मुखतश् चञ्च्वोर् ग्रहणेन मुख-द्वारा व्यदारयद् इत्य् अर्थः । अरिम् आत्मनः सर्वेषां च देवादीनाम् । यद् वा, अरिं च सर्व-वयस्यादीनां ग्रसनेन परम-द्वेष्टारम् अघासुरम् अप्य् अपाटयत्—मूर्धन् विनिर्भिद्य [भा।पु।१०.१२.३१] इति पूर्वम् उक्तेः । मुखत इत्य् अस्यात्र् एव वान्वयः, मुख-द्वारा ग्रसनेन यो\ऽरिः, तम् । किं वा, तद्-द्वारा प्रविश्यैव तत एव भेदनात् । पूर्वोक्त-तत्-तद्-वध-क्रमातिक्रमः परम-विस्मयेनाक्रान्त-चित्तत्वात् । एवम् अग्रे\ऽपि ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स-रामो बालकैर् वृत इति रामे, बालकेषु च तत्रैव सत्सु स एवपाटयद् इति सर्वेभ्यः शक्ति-विशेषो ध्वनितः । मुखतो मुखम् आरभ्यः । अरिम् इति न तामस-योनित्वात् यदृच्छया हन्तु-कामम् अपि तु अरिं भगिनी-वध-जात-शत्रु-भावाद् आग्रहेणापीत्य् अर्थः । पूर्वोक्त-तत्-तद्-वध-व्युत्क्रमस् तथाद्य व्योम-वधातिक्रमश् च परम-विस्मयेनाक्रान्त-चित्तत्वात् । एवम् अग्रेऽपि ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अरिं शत्रुत्वेन असद्-आग्रह-परम् अपि ॥८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दोर्भ्यां धृत्वा मुखतः मुखम् आरभ्य कथम् अपाटयत् ? ॥८॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.९ ॥

वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया ।

हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥

श्रीधरः, : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन दैत्येन ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जिघांसया स-रामस्य तस्य लीलया हत्वा पश्चात् पाद-द्वय-ग्रहणेन भ्रमणात् । अप्य्-अर्थे -कारः, कपित्थ-फलान्य् अपि, इत्य् एकेन कर्मणा प्रयोजन-द्वयम् उक्तम् अनेनापि शक्ति-विशेष एव सूचितः । एवम् अन्यत्राग्रे\ऽप्य् ऊह्यम् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जिघांसया स-रामस्य तस्य लीलया हत्वा पश्चात् पाद-द्वय-ग्रहणेन भ्रमणात् कपित्थानि चेति महा-वृक्षाग्र-विक्षेप-द्योतनेन शक्ति-विशेषः सूचितः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.१० ॥

हत्वा रासभ-दैतेयं तद्-बन्धूंश् च बलान्वितः ।

चक्रे ताल-वनं क्षेमं परिपक्व-फलान्वितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-बन्धून् धेनुक-ज्ञातीन् । क्षेमं निरुपद्रवम् ॥१०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलान्वित इति धेनुक-वधे\ऽपि तस्यैव प्राधान्य-विवक्षया क्षेमं निर्भयं सर्वोपभोग्यम् इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बलान्वित इति धेनुक-वधेऽपि तस्यैव प्राधान्य-विवक्षया । नूनम् एतत् प्रभावेणैव बलस्यापि बलोदयाद् एतस्यैक-कर्तृत्वम् इति भावः । क्षेमं निर्भयं सर्वोपभाग्यम् इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रासभ-दैतेयं धेनुकम् । बलान्वित इति तत्रापि कृष्णस्य प्राधान्यं विवक्षितम् ॥१०.११॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.११ ॥

प्रलम्बं घातयित्वोग्रं बलेन बल-शालिना ।

अमोचयद् व्रज-पशून् गोपांश् चारण्य-वह्नितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उग्रं भयङ्करम् ॥११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलेन घातयित्वा इति । प्रलम्बस्य गोप-रूपिणः सङ्ख्यानुमोदनादिना वधे तस्यैव प्रयोजकत्वात् । कुतो बलेन एवाघातयत्, न त्व् अन्येन ? तत्राहुः—बलेन इति बलं प्रदर्शयितुम् इत्य् अर्थः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बलेन घातयित्वा इति । तत्रापि तस्य मुख्यत्वं सूचितं । कुतो बलेन एव अघातयत्, न त्व् अन्येन ? तत्राहुः—बलेति, तत्-प्रभाव-लब्ध-बल-विशेषवता । अतस् तस्मिन् विद्यमानेऽन्येन घातना न योग्येति भावः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.१२ ॥

आशी-विषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।

प्रसह्योद्वास्य यमुनां चक्रे\ऽसौ निर्विषोदकाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आशी-विषतमोऽतिक्रूर-विषश् चासाव् अहीन्द्रश् च तम् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दमित्वा निगृह्य । उद्वास्य निष्कास्य । असौ कृष्णः । प्रसह्य हठात् । अश्नुते व्याप्नुतेऽतिवेगेन सर्वाङ्गम् इत्य् आशी, अशेर् इञ् । तादृशं विषं यस्य, स तथा । बाहुलकात् पूर्व-पदस्य दीर्घः । ततस् तम् अप् ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विमदं यथा स्यात् तथा दमित्वा । यद् वा, विमदं सन्तं ह्रदाद् उद्वास्य ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विमदं यथा स्यात् तथा दमयित्वा । यद् वा, विमदं सन्तं ह्रदाद् उद्वास्य ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आशी-विषतमो\ऽतिक्रूर-विषश् च असाव् अहीन्द्रश् चेति तं विमदं यथा स्यात् तथा दमित्वा ॥१२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.१३ ॥

दुस्त्यजश् चानुरागो\ऽस्मिन् सर्वेषां नो व्रजौकसाम् ।

नन्द ते तनये\ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : औत्पत्तिकः स्वाभाविकः कथम् ? इति किं सर्वेषाम् आत्मायं स्याद् इति शङ्का ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुरागः हृदयङ्गमः स्नेहः । अस्मिन् तवात्मजे । तस्य तव तनयस्यापिकिम् इति वितर्के । आत्मवत् प्रियत्वाद् आत्मायं सर्वेषाम् इत्य् अर्थः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अन्योन्यम् उक्त्वा अधुना ईश्वर एवायम् इति चेत्, तथाप्य् ऐश्वर्येण प्रीत-भक्तिर् एव वर्धते, स्वाभाविक-निरन्तरानुरागश् च भय-गौरवादि-संकोचेन सम्भवेद् एवेति स्नेह-विशेषं प्रतिपादयन्तः परम-स्निग्धं तत्-पितरं सम्बोध्याहुः—दुस्त्यजश् चेति । ऐश्वर्ये साक्षाद् अनुभूते\ऽपि त्यक्तुम् अशक्यः, यत औत्पत्तिकः, अग्न्य्-आदेर् औष्ण्यादिवत् स्वाभाविकत्वाद् इत्य् अर्थः । इत्य् आपद्-रक्षणादिनोपाधिना शङ्कमानो\ऽनुरागो निरस्तः । तत्रापि सर्वेषां बालादि-वृद्ध-पर्यन्तानां नः इति ।

तत्रासन्देहार्थं स्वानुभवम् अभिव्यञ्जयन्ति—"अहो भवतु वा सर्वथा आकृति-प्रकृति-सुन्दरे सर्व-चित्ताकर्षके\ऽनन्य-गतीनाम् अस्माकम् अनुरागो दुस्त्यजः, तस्याप्य् अस्मासु निकृष्टेषु सेवकेष्व् अपराधादाव् अपि स दुस्त्यजः कथम् ? अतो नायम् अवतारः श्री-नारायणः, न च तद्-अवतारः कश्चिद् अपि भवेत्, किन्तु मधुरैश्वर्य-विशेष-संवलित-विचित्र-बाल्य-विशेषेणानेन सर्वतो विलक्षणो दुर्वितर्क्य-माहात्म्यार्णवः को\ऽपि पुरुषोत्तमो भविष्यति" इति भावः ।

सिद्धान्तश् चायम्—एक एवावतारी अवतारश् च तथाशेष-परमैश्वर्य-युक्तालौकिक-बाल्य-लीलामयश् चेत्य् एवं विविध-विरोध-प्रवाह-विलय-विषयः परमानिर्वचनीयः श्री-भगवद् विशेषो\ऽयं स्याद् इति । हे नन्द ! तव तनय इत्य् अहो भाग्य-महिमा तवेति, तत्र नन्दति सदा हृष्यतीति नन्दस् तथा सम्बोधनम्, ईदृशेन पुत्रेण तव सदानन्दतया नाम्नो\ऽप्य् अन्वर्थत्वम् एवेति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, दुस्त्यजश् चेति । ते तनये तवैव तनयोऽयं नास्माकम् इति विचारितेऽपि त्यक्तुम् अशक्यः स्वाभाविक इत्य् अर्थः । तत्रापि सर्वेषाम्, अहो भवतु वा सर्वाकृति-प्रकृति-सुन्दरे सर्व-चित्ताकर्षकेऽनन्य-गतीनाम् अस्माकम् अनुरागो दुस्त्यजः, तस्याप्य् अस्मास्व् अयोग्येष्व् अपि औत्पत्तिकः जन्म-दिनम् एवारभ्य दृष्टः स्वाभाविक एवेत्य् अर्थः । अत्रास्मिन्न् इति तत्-तद्-वैलक्ष्यण्येन सम्प्रति प्रस्तूयमान इत्य् अर्थः । अन्यत् तैः ।

तत्र किम् ? इत्य्-आद्य् उत्प्रेक्षायां मिथो-देह-देहिनोर् यथा तद्वद् इत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, दुस्त्यजश् चेति तस्माद् विरुद्ध-धर्माद् धेतोः ॥१३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अस्येश्वरत्वे गिरि-धारणादय एतन्-निष्ठा धर्मा एव हेतवो दर्शिताः । अस्मद्-आदि-सर्व-व्रज-वासि-निष्ठश् चैको धर्मो दृश्यताम् इत्य् आह—दुस्त्यजश् चेति ।

ते तनये तवैव तनये नास्माकम् इति सम्यग् विचारिते सत्य् अपीति भावः । न केवलम् अस्माकं वात्सल्य-भाववताम् एव गोपानां, अपि तु सर्वेषां बालादीनाम् अपि सख्यादि-भाववतां स्त्री-पुंसाम् अपि जात्य्-अन्तराणाम् अपि वनौकसां मृग-पक्ष्य्-आदीनम् अपि । अनुरागः प्रतिक्षणं नवनवायमाना वर्धमाना प्रीतिर् अनुराग-शब्दस्य तथा-भूतार्थकत्वात्, न तु प्रीति-मात्रम् । किं च, दुस्त्यज औत्पत्तिकत्वात् सम्प्रतीश्वरत्व-लक्षणे दृष्टे\ऽपि त्यक्तुम् अशक्यः । तेन पुत्र-वित्तादि-देह-जीवात्मभ्यो यथोत्तराधिक-प्रेमास्पदेभ्यो\ऽप्य् आत्यन्तिक-प्रेमास्पदं परमात्मैवायम् इति बुद्ध्यते । न हि केवल नरत्वे सत्य् एवं सति सम्भवतीति भावः । सत्यं तर्हि परमात्मैवायं निश्चीयताम् इति चेत् तत्राहुः—अस्मषु सर्वेषु व्रज-वासिषु वनौकसःसु च तस्यापि अनुराग उक्त-लक्षणः कथं सम्भवेत् ? तस्यात्मारामत्वेन सर्वत्रौदासीन्याद् अस्मासु सांसारिकेष्व् औत्पत्तिक्या शक्तिर् न घटत इति भावः ॥१३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.१४ ॥

क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् ।

ततो नो जायते शङ्का व्रज-नाथ तवात्मजे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तम् अप्य् अतिविस्मयेन अभिनयेन वदन्ति—क्व सप्त-हायन इति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उक्तम् अर्थम् । अभिनयः प्रदर्शनम् । ततो महाद्रि-धारणतः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो लौकिक-बाल्यम् एव परमैश्वर्य-सम्बलित-मस्माभिर् अधुना साक्षाद् एवानुभूतम् इति विस्मयं वदन्तः, ततश् च लौकिक-बाल्य-लीला-परमैश्वर्ययोर् अन्योन्य-विधेन निज-सन्देहोत्पत्तिम् आहुः—क्वेति सप्तहायन इत्य् अनेन लौकिकत्वम् एवाभिप्रेतम्, तच् च निज-सहज-भावानुरूपम् एव, महाद्रेर् विशेषेण लिलादिना धारणम् इति परमैश्वर्यम् एव, एवं लौकिक-बालस्य महाद्रिविधारणासम्भवात् महाद्रिविधारणे च लौकिक-बाल्यासम्भवाद् विरोधो महान् एवेत्य् अर्थः । ततस् तस्माद्-बाल्यस्य महाद्रि-विधारणाद् धेतोर् नो\ऽस्माकं बालतया ईश्वरतया चाधुना प्रतीतेः, तयोर् अन्योन्यं विरुद्धत्वात् शङ्का आशङ्का संशय एव जायते, न च निश्चयो भवेद् इति अवतारित्वे\ऽप्य् अवतारत्वम् अवतारत्वे\ऽप्य् अवतारित्वम्, तथा लौकिकत्वा-व्याभिचारेणैश्वर्यम् ऐश्वर्याव्यभिचारेणैव लौकिकत्वम् अपीत्य् अन्योन्यं विरुद्धयोस् तयोः कथं सम्भवेद् इत्यादि-विचाराद् इति सिद्धान्तः ।

यद् वा, ततस् तस्मात् प्राकट्यं प्राप्ताद् ऐश्वर्याद् अपि शङ्का भयं तस्मिन् नो न जायते, इत्य् अनुरागस्य दुरत्यजत्वम् एव दर्शितम् । हे व्रजनाथेति त्वन् नाथत्वात् सर्व-व्रजस्यापि महा-भाग्यम् इति भावः,

यद् वा, सर्वेषां व्रज-जनानाम् अस्माकं नाथत्वेन त्वमेवास्माकम् एतां शङ्कां परिहर्तुम् अर्हसीति भावः ।

यद् वा, प्रभु-पुत्रत्वेन तस्मिन् शङ्काया योग्यतोक्ता, तथापि न जायत एवेत्य् अर्थः । किं च, वारं वारं तत् पुत्रत्वोक्त्या परमेश्वरत्वेन श्री-वसुदेव-पुत्रत्वेन च तज् जज्ञानं तत् तच् छकया असम्भवात्, तादृशानुरागासम्भवाच् च,

यद् वा, ते तनय इति तवात्मज इति चानुरागस्य दुस्त्यजतायाम् एव हेतुः, तथाप्य् अनुरागस्य निरूपाधिकत्वम् एव बोद्धव्यम्, तस्यैव नित्यं तत् पुत्रैक-लक्षणत्वात्, एवं रूप-गूणादि-विशेषेणोपाधिना तद् अनुरागे\ऽपि निरुपाधिकत्वम् एव स्यात्, तस्यैव नित्य-तत्-तद् एक-लक्षणत्वादित्येतच् चाग्रे यथा-स्थानं विस्तार्यम् ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्वेति । अयम् अर्थः—सप्त-हायनत्वेन जन्म-वृद्ध्यादयस् तद् अवस्था गृहीताः ताभिश् च बालत्वं निश्चितं तच् चात्यन्तं बालान्तरेषु व्याप्ति-दर्शनात् तथा महाद्रि-विधारणेन पूतनादि-वध-हेतु-प्रभावत्वं स्वाभाविक-प्रेम-विषयाश्रयत्वं च गृहीतं ताभ्यां बालाद् अन्यत्वं तद् अन्यत्वेऽपि देवादित्वं तत्रापि परम-विलक्षणत्वं निश्चितं बालान्तरादौ तत् तद् अदर्शनात् तद् एवं सप्तेत्यादित्वे बालाद् अन्यत्वं न सम्भवति महाद्रीत्यादित्वे च बालत्वं च न सम्भवतीत्य् अर्थः । ततस् तस्माद् एकस्मिन् मिथो विरोधि-धर्म-द्वयात् शङ्का-विप्रति-पत्तिजः संशयः बालोऽयं बालाद् अन्यः परम-विलक्षण-देवादिर् वेति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शङ्का संशयः ।


जीव-गोस्वामी (बृहत्-रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अप्य् अद्रिधारण प्रस्तुतत्वादतिविस्मयेन पुनराहुः क्वेति ॥१४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.१५ ॥

श्री-नन्द उवाच—

श्रूयतां मे वचो गोपा व्येतु शङ्का च वो\ऽर्भके ।

एनं कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राक् श्रुतम् एव गर्गाचार्य-वाक्यं तच् चरित-परिशीलनेन निवृत्तासम्भावनस्य नन्दस्य कृष्ण-तत्त्वावबोधकं जातं स इदानीं तेनैव वाक्येन गोपानुपदिशति, श्रूयताम् इति ॥१५.२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य कृष्णस्य चरितस्य परिशालनेन विलोकनेन विवृत्ता सम्भावना अयम् उक्त-सदृशो भविष्यति न वेत्य् एव-रूपः संशयो यस्य तस्य । तत्त्वावबोधकं यथार्थ्य-प्रकाशम् । स नन्दः । तेनैव गर्गोक्तेनैव । व्येतु व्यपगता भवतु । वः युष्माकम् । अर्भके बाले । एनम् इत्य् अन्वादेशत्वाद् इदम् एनादेशः । हेति प्रसक्त-कथां प्रत्यन्तरङ्गत्वेन कथान्तरारम्भ-सूचनाय प्रत्यारम्भे प्रसिद्धौ ह हा विषादशुगार्तिषु इति यादवः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निजाशेष-भगवत्ता-प्रकटनार्थम् अवतीर्णो\ऽयं साक्षाच् छ्री-भगवान् एवेति व्यक्तुम् उक्ते कदाचिद् ऐश्वर्य-ज्ञानेन भय-गौरवादिना स्नेहभर-हानिः स्याद् इति शङ्कया श्री-गर्गेण साक्षात् परमैश्वर्यम् अनुक्त्वा व्यपदेशेणैव तद्-व्यञ्जयता यान्य् अक्षरान् युक्तानि, तैर् एव परमाचिन्त्य-कर्म-लोकोत्तर-महा-पुरुष-प्रतिपादकतयावधारितैर् गोपान् प्रबोधयन्न् आह—श्रूयताम् इति । मे तत्त्वज्ञस्य वचः सर्व-शङ्का-निरसनं परमानन्ददं च वाक्यं श्रूयताम् हे गोपा इति स्नेहभर-व्याप्त-चित्तत्वं बोधयति । वः शङ्का व्येतुक्षीयताम् । अर्भक इति सदैव स्नेह-भराक्रान्तत्वात् । यद् वा, तत्तत्त्वे\ऽपि स्नेह-विशेषेण बालतयैव ज्ञानात्,

यद् वा, वो युष्माकं यो\ऽर्भकस् तस्मिन्न् इति ममैव युष्माकम् अप्य् अयं बालक इति स्नेह-विशेषम् एव द्रढयति । एनं भवतां परमानुराग-विषयं परोक्षे\ऽप्य् अपरोक्षवद् उक्तिः, सदा तस्य साक्षद् इव हृदि स्फुर्तेः । यद् वा, बाल्य-क्रीडादिना सर्वैर् एव बालकत्वेनानुभूयमानं मे माम् । यद् वा, मे मम कुमारं पुत्रम् इति पूर्ववत् पुनः पुनस् तथैवोक्तिः, स्र्वेषु तस्य बालक-भाव-स्फूर्तेः । यद् वा, अतिबाल्यावस्थायां वर्तमानं नाम-करण-काल इत्य् अर्थः । माम् इति पाठे रहसि मां केवलम् एवोवाच्यतो भवद्भिर् न ज्ञातम् इति भावः, यद् वच, ह व्यक्तम् एव, नच सङ्केतादिनेत्य् अर्थः । यद् वा, ह हर्षे ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निजाशेष-भगवता-प्रकटनार्थम् अवतीर्णोऽयं साक्षात् श्री-भगवान् एवेति व्यक्तम् उक्ते कदाचिद् ऐश्वय-ज्ञानेन भय-गौरवादिना स्नेहभर-हानिः स्याद् इति शङ्कया श्री-गर्गेण साक्षात् परमैश्वर्यम् अनुक्त्वा व्यपदेशेनैव तद् व्यञ्जयता यान्यक्षराण्य् उक्तानि तैर् एवेअ ईदृश स्वाभाविक-गुण-बालकता प्रतिपादकतयावधारितैर् गोपान् प्रबोधयन्न् आह—श्रूयताम् इति । मे मम गर्ग-द्वारा श्रुतैतत् प्रभावस्य वचः वः शङ्का व्येतु श्रूयतां अर्भक इति स्वस्य बालत्वेनैव निश्चयं बोधयति यद् वा, वो युष्माकं योऽर्भकस् तस्मिन्न् इति मम् एवयुष्माकम् अप्य् अयं बालक इति स्नेह-विशेषम् एव वर्धयति एनं भवतां परमानुराग-विषयं परोक्षे\ऽप्य् अपराक्षवद् उक्तिः सदा तस्य साक्षाद् इव हृदि स्फूर्तः मे मम कुमारं पुत्रम् इति पूर्ववत् पुनः पुनस् तथैवोक्तिर् अतिनिश्चयाय यद् वा, मे माम् एकाकिनं यद् वचः व्यक्तम् एव न च सङ्केतादि नेत्य् अर्थः—यद् वा, ह हर्षे ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बाल एव वा परमविलक्षणा देवादिर्वेति श्रुयतामित्यादि ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो मद्बालके\ऽस्मिन् प्राक् सिद्धमहाप्रभावे मदिष्टदेवस्य श्रीनारायणस्य मय्यतिकृपया मद्विपदो\ऽभिहन्तुमावेशमालक्ष्यते संशेरते तदेतान् श्रीगर्गोक्त्यैव प्रबोधयामित्याशयेन् आह—श्रूयताम् इति ॥१५.२१॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.१६-२१ ॥

वर्णास् त्रयः किलास्यासन् गृह्णतो\ऽनु-युगं तनूः ।

शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥

प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः ।

वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥

एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ।

अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥

पुरानेन व्रज-पते साधवो दस्यु-पीडिताः ।

अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥

य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः ।

नारयो\ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्वोक्तम् एव स्मारयति । वर्णाः शुक्लाद्याः ॥१६.२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निज-सत्य-वाक्यत्वेन तेषां विश्वासार्थं वा श्री-गर्गोक्तिम् एवाह—वर्णा इत्य्-आदिना—न विष्मय [२२श।श्लो] इत्य् अन्तेन, गोपाय सुसमाहितः [भा।पु।१०.८.१९] इति सर्वान्त्येनोक्तम्, तत्र माहात्म्य-विशेष-प्रतिपादनाभावात् विशेषतश् च गोपायस्वेत्यन्यरक्ष्यत्वेन माहात्म्यहान्यापत्तेश् च, गोपानामाये लाभे सुसमाहित इत्य् अर्थे तेषाम् कदाचिद् गर्वाद्य् उदयशङ्कया, तेन च जगद् धितानाचरणात् नायायण-समत्वासम्भावनाशङ्कया वा नोक्तम् इति अत्युद्भुतत्वेन विस्मयो न कार्य इत्य् अर्थः । यद्य् अपि पूर्वं तैः श्री-गर्ग-वाक्यं ज्ञतम् एवास्ते, बक-वधानन्तरम् अहो ब्रह्म-विदां वाचः [भा।पु।१०.११.५७] इत्य्-आदि-वचनात्, तथाप्य् अधुना तत् तद् अक्षरेण समग्रतयेति विशेषः ॥१६.२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गर्गोक्तिम् एवाह—वर्णा इत्य्-आदिना । न विस्मय इत्य् अन्तेन अत्र प्राचीन-प्रकटार्थोऽनुसन्धेयः । किञ्चात्र तस्मान् नन्दः ! कुमारोऽयम् इति प्रथम-चरणः तत् कर्मसु न विस्मयः इति चतुर्थः गर्ग-वाक्ते तु तस्मान् नन्दात्मजोऽयं ते इति पथमः गोपायस्व समाहितः इति चतुर्थः । इत्य् अद्धा मां समादिश्येति वक्ष्यमाणात् श्री-नन्द-वाक्यात् तद् वाक्यम् एवानेनानुदितम् इति लभ्यते तस्माद् विनयार्हं स्वपुत्रे सर्वेषां स्वधारण्येन ममताया गोपायित्वतायाश् च व्यञ्जनार्थम् एव च किञ्चिद् अन्यथा विधायानूदितम् अपि श्लेषेण यथार्थतया सम्पाद्यते स्म ॥१६.२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.२२ ॥

तस्मान् नन्द कुमारो\ऽयं नारायण-समो गुणैः ।

श्रिया कीर्त्यानुभावेन तत्-कर्मसु न विस्मयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् तस्य कर्मसु विस्मयो नास्तीति नन्दस्योक्तिः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मान् मद् उक्तस्-अदृशस् तस्माद् धेतोः । तस्य बालस्य ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्। [१७-२२ मिस्सिन्ग्]


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्द-कुमारोऽयम् इत्य् अत्र नन्दस्य तव कुमार इति षष्ठी-तत् पुरुषात् तथा तत् कर्मसु न विस्मय इत्य् अत्र तथापि स्व-प्रभावेण पुत्रतया लब्धस्य तस्य नारायणस्येवास्य कर्मसु विस्मयो ल्न कार्यः आश्चर्यं मत्वा गोपायनाद् उदासीनेन न भाव्यम् इति तात्पर्यावगमात् । किं च तत् कर्मस्व् इत्य् उपलक्षणं स्वाभाविक-प्रेम-विषयाश्रयत्वेऽपि न विस्मयः कार्य इति श्री-नन्दाभिप्रायः वस्तुतस् तु मिथो नित्य-स्वाभाविक-सम्बन्धो हेतुर् इति न ज्ञायते स्म यद्य् अपि पूर्वं तैः श्री-गर्ग-वाक्यं ज्ञातम् एवास्ति बक-वधानन्तरम् अहो ब्रह्म-विदां वाच इत्य्-आदि-वचनात् तथाप्य् अधुना तत् तद् अक्षरेण समग्रतयेति विशेषः इति । सप्त-वक्यानि ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्कर्मसु न विस्मय इति श्रीगर्गस्यैवाभिप्रायकथनं तदुत्तर इतिशब्दो\ऽप्यन्वेति “गोपायस्व समाहितः” इति त्वनुपयोगान्नोदाहृतम् अंशं शक्त्याबेशिनम् ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे नन्द! तस्माद् अयं कुमार इति गर्गोक्तेर् न केवलम् अयं ममैव कुमारो\ऽपि तु युस्माकम् अपीत्य् अतो\ऽस्मिन् ऐश्वर्ये दृष्टे\ऽपि वात्सल्यं प्रतिदिनम् आशीः-शतं च न त्याज्यम् इति विवक्षैव “तस्मान् नन्दात्मजो\ऽयं ते" इति गर्गोक्तेर् अनुक्तिः । “नारायण-समः” इति नारायणावेशाद् एव न त्व् अयं नारायणः, यथा सूर्य-कान्त-शिलापि सूर्य-समेत्य् उच्यते तस्माद् अयं नेश्वरः नापि निकृष्टो जीवः किन्तु लोकोत्तर-कर्मा तस्माद् अकं को\ऽप्य् अयम् अस्मत्-कुल-भूषण एव । अत एव तेन गर्गेणैव सर्वान्ते प्रोक्तं “तत्-कर्मसु न विस्मयः” इति । तस्य लोकातीत-कर्मसु अत्यद्भुत-दृष्ट्या अयम् ईश्वर इति बुद्धिर् न कर्तव्येति तेनैव निषिद्धत्वाद् अस्मिन् युष्मद्-अनुकम्पे चिरं जीवेत्य् आशीर् एव कार्या न त्व् औदासीन्यम् इति फलतो “गोपायस्व समाहित” इति गर्गोक्तिर् एवोक्ता । गोपानां विस्मय-निरसनेन संशयापनोदनं च कृतम् इति ॥२२॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.२३ ॥

इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते ।

मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अद्धा साक्षान् मां प्रति समादिश्य गर्गे च स्व-गृहं गते सति तदानीं तथा मन्यमानोऽपि इदानीं कृष्णं नारायणस्यांशं मन्ये । अत्र हेतुः, अक्लिष्ट-कारिणम् इति ॥२३.२४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदानीं गर्गोपदेश-समये । तथा मन्यमानो\ऽपि नारायण-समं मन्यमानोऽपि । इदानीं तद् उपदिष्टस्य शैथिल्याद् अंशम् इति । अत्र नारायणांशत्वे । न क्लिष्टं कर्तुम् अशक्यं यस्माद् दावानल-पान-गोवर्धनोद्धरणादि-रूपात् तद् अक्लिष्टम् अलौकिकं कर्म, तत् कर्तुं शीलम् अस्येति तथा । यद् वा, क्लिष्टाः क्लेशितस् तद् रहिता अक्लिष्टास् तान् करोति निज-सेवकान् इति वा तम् ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मन्ये नारायणस्यांशं कृष्णम् इत्य्-आदि । अंश्यते विभज्यते\ऽवतार-समूहो\ऽस्माद् अनेनेति वा अंशः परिपूर्ण-भागः, पूर्ण-देवांश-कल्पना—नारायणस्यापि अंशत्वेन भागकारिणम् । यद् वा, आम् इति स्मृतौ पूर्वोक्त-गर्ग-वचन-स्मृतौ नारायणस्य शं कल्याणं कल्याण-प्रदम् ईश्वरत्वात् मान्यं जानामीत्य् अर्थः । अत एव अक्लिष्टकारिणं सर्वन् एव नारायण-प्रभृतीन् अक्लिष्टान् कर्तुं शीलं यस्य तम् ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यतो\ऽहं पितापि ततः प्रभृति तं नारायणोपमम् एव मन्ये इत्य् आह—इतीति । यद् वा, तत् कर्मसु इत्य्-आदिकं पूर्वम् अनुक्तम् पै अत्रोक्तबलात् पूर्वम् अपि श्री-गर्ग-वाक्यान्ते द्रष्टव्यम् । इति-शबेन तस्यापि गर्ग-समादेशे प्रवेशनात्,

यद् वा, गोपायस् त्वेत्यादि-परिवर्तेन तत् कर्मसु इत्य्-आदि-श्लोकैक-पादो-गर्गेण साक्षाद् अनुक्तो\ऽपि तात्पर्येण प्राप्तः । श्री-नन्देन विरचय्य गर्ग-समादिष्टतयोक्तः, तया तेषआं श्रद्धोत्पादनेन विस्मय-निरसनार्थम् इति दिक् । स्व-गृहं गत इति, अन्यथा तदानीम् एव तथामनने चापल्य-प्रसक्तेष्ह्, अतः पूर्वं श्री-वादरायणिनापीदृशम् एवोक्तम् । इत्य् आत्मनो गाम्भीर्यं विचार-परत्वं च तेषां श्रद्धार्थं सूचितम् । नारायणः समो यस्येति नारायणाद् अधिकत्वे\ऽपि नारायण-साम्ये\ऽपि वा नारायणांशम् इति स्नेहभर-विवृद्ध्यर्थम् एवैश्वर्य-गोपनम् । यद् वा, नारायणस्यांशं कम् अपि भागं तत् समं कम् अप्य् उत्तम-पुरुष-विशेषम् इत्य् अर्थः, मन्ये जानामि । यद् वा, निजात्मजम् अपि नारायणांशं मन्ये, तस्य समादेशादरात्, न च केवलं तदोदेशादरेण स्वानुभवाद् अपीत्य् आह—अक्लिष्टकारिणम् अक्लेशेनैवात्यद्भुत-कर्माचरणशीलम् इत्य् अर्थः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतोऽहं पितापि ततः प्रभृत्येनं श्री-नारायणोपमम् एव मन्ये इत्य् अःअ—इतीति । अंशं तच् छक्त्य् आवेशिनं मन्ये वितर्कयामि ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अंशं तच्छक्त्यावेशिनं मन्ये वितर्कयामि, अस्मान् अक्लिष्टान् कर्तुः शीलं वस्य तम् ॥२३॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.२४ ॥

इति नन्द-वचः श्रुत्वा गर्ग-गीतं व्रजौकसः ।

दृष्ट-श्रुतानुभावास् ते कृष्णस्यामित-तेजसः ॥

मुदिता नन्दम् आनर्चुः कृष्णं च गत-विस्मयाः ।

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गत-विस्मया अपास्त-सन्देहाः । अनर्चुः अर्चयाङ्क्रुः । यद् वा, अनर्चुः वस्त्र-रत्न-स्वर्णमुद्रोपहारैर् वनात्सायं कृष्णे\ऽप्य् आगते तं पीताम्बर-हार-कटक-कुण्डलैर् अलङ्कृत्य जय-जय व्रज-भू-भूषण चिरं जीवेत्य् उपलालयामासुः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्दस्य वचस् तद्-द्वारा गर्ग-गीतं च श्रुत्वा । यद् वा, गर्गस्य गीतं गाथा श्री-भगवद् गीतादिवत् गीता वा यस्मिन् तत्, गत-विस्मयाः सन्तः श्री-कृस्णस्य नारायणांशत्वेन परम-पुरुषोत्तमतया तत् तत् कर्म-सम्भवट्, अत एव मुदिताश् च सन्तो गत-विस्मयाश् च बभूवुर् इति वा । आदौ नन्दस्यार्चनं तद् वाक्यतो मुदितत्वात् कृष्णस्यापि पितृत्वेन मान्यत्वात् । यद् वा, कृष्णस्य वनाद् आगतस्यैव सतो\ऽर्चनात् पश्चान् निर्देशो युक्त एव, तथोक्तं पराशरेण—श्री-कृष्णं गोपाः साक्षाद् एव पप्रच्छुर् इति तेन च स-प्रणयकोपं प्रत्य् उक्तम्—

मत्-सम्बन्धेन भो गोपा यदि लज्जा न जायते ।

श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥

यदि वो\ऽस्ति मयि प्रीतिः श्लाघ्यो\ऽहं भवतां यदि ।

तदात्म-बन्धु-सदृशी बुद्धिर् वः क्रियतां मयि ॥ [वि।पु। ५.१३.१०-११] इत्य्-आदि ।

तथा वैशम्पायनेनोक्तं तत् प्रतिवचनम् हरिवंशे—

मन्यन्ते मां यथा सर्वे भवन्तो भीम-विक्रमाः ।

तथाहं नव-गन्तव्यः स्व-जातीयो\ऽस्मि बान्धवः ॥

यद्य् अहं भवातां श्लाघ्यो बान्धवो देवसप्रभः ।

परिज्ञानेन किं कार्यं यद्य् एषो\ऽनुग्रहो मम ॥ [ह।वं। २.२०.११-१३] इत्य्-आदि,

तच् च कल्प-भेद-व्यवस्थया । किं वा, श्री-नन्दोत्तरेण हत-सन्देहा अपि परमौत्सुक्येन साक्षाच् छ्री-भगवन् मुखाद् एव श्रोतु द्रढयितुं च साक्षात् तम् ऊचुर् इति कल्पनय परिहार्यम्, तच् च सुप्रसिद्धत्वाद् अत्र श्री-बादरायणिना नोक्तम् इति ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्दस्य वचः तद् दारा गर्ग-गीतं च श्रुत्वा । यद् वा, गर्गस्य गीतं गाथा श्री-भगवद् गीतादिवद् गीता वा यस्मिन् तत् आनर्चुः स्व-स्व-गृहात् गन्ध-चन्दन-वस्त्र-भूषणादिना आदौ श्री-नन्दस्यार्चनं श्री-कृष्णस्य तत एवोत्पन्नत्वात् तस्यापि पितृत्वेन मान्यत्वात् तच् च कृष्ण वनाद् आगते सन्ध्यायाम् इति ज्ञेयम् यत् तूक्त श्री-पराशरेण श्री-कृष्णं गोपाः साक्षाद् एव पप्रच्छुर् इति तेन च निजाधिक्य-ज्ञानाल् लज्जया सप्रणय-कोपं प्रत्य् उक्तं यथा श्री-विष्णु-पुराणे श्री-पराशर उवाच—

गते शक्रे तु गोपालाः कृष्णम् अक्लिष्टकारिणम् ।

ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥

वयम् अस्मान् महा-भाग ! भवता महतो भयात् ।

गावश् च भवता त्राता गिरि-धारण-कर्मणा ॥

बाल-क्रीडेयम् अतुला गोपालत्वं जुगुप्सितम् ।

दिव्यं च कर्म भवतः किम् एतत् तात ! कथ्यताम् ॥

कालियो दमितस् तोये प्रलम्बो विनिपातितः ।

धृतो गोवर्धनश् चायं शङ्कितानि मनांसि नः ॥

सत्यं सत्यं हरेः पादौ शपामोऽमित-विक्रम ! ।

यथा त्वद् वीर्यम् आलोक्य न त्वां मन्यामहे नरम् ॥

प्रीतिः सस्त्री-कुमारस्य व्रजस्य त्वयि केशव ! ।

कर्म चेदम् अशक्यं यत् समस्तै-स्त्रिदशैर् अपि ॥

बालत्वं चातिवीर्यं च जन्म चष्मष्वशोभनम् ।

चिन्त्यमानमेयात्मन् ! शङ्कां कृष्ण प्रयच्छति ॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।

किं वास्माकं विचारेण बान्धवोसि नमोस्तु ते ॥ [वि।पु। ५.१३.१-८]

परशर उवाच—

क्षणं भूत्वा त्व् असौ तूष्णीं किञ्चित् प्रणय-कोपवान् ।

इत्य् एवम् उक्तस् तैर् गोपैर् आह कृष्णो महा-मुने ! ॥

मत् सम्बन्धेन वो गोपाः लज्जा न जायते ।

श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥

यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।

तद् आत्म-बन्धु-सदृशी बुद्धिर् वः क्रियतां मयि ॥

नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।

अहं वो बान्धवो जातो नातश्चिन्त्यमतोन्यथा ॥ [वि।पु। ५.१३.९-१२]

तथा वैशापायनेनोक्त तत् प्रतिवचनम्—

मन्यन्ते मां यथा सर्वे भवन्तो भीम-विक्रमाः ।

तथाहं नावमन्तव्यः सजातीयोस्मि बान्धवः ॥

यद्य् अहं भवतां श्लाघ्यो बान्धवो देवस-प्रभः ।

परिज्ञानेन किं कार्यं यद्य् एषोऽनुग्रहो मम ॥ इत्य्-आदि ।

तच् च श्री-नन्दोत्तरेण हन्त सन्देहा अपि परमौत्सुक्येन साक्षात् श्री-भगवन् मुखाद् एव श्रोतुं दृढयितुं च तमेवोचुर् इति कल्पनया परिहार्यम् इति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गर्गस्य गीतं यत्र तत् आनर्चुः स्व-स्व-गृहेभ्यो गन्ध-माल्य-वस्त्रादिना एतच् च सन्ध्या-वृत्तं सम्वादस् तु श्री-कृष्णे वनं गत एवेति गम्यते ॥२४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ गोवर्धने धृते सति विस्मितैर् गोपैः पृष्टो व्रजराजो गर्गोक्तिम् अनुस्मृत्योपसंहरति—त्य् अद्धा माम् इत्य्-आदि । हे गोपाः ! किम् अस्मिन् विस्मयं कुरुथ ? एवम् एवं गर्गो यद् आह—तत्-सन्देहेनालम् । तत्-कथकनात् प्रभृति कृष्णं नारायणस्याश्चानन्दप्रदम्, तस्माद् अपि परम् इत्य् अर्थः । कीदृशम् ? अशम् उपं विष्णुं श सुखं स्वरूपम्, अथवा, अंश्यते विभज्यते अंश-समूहोऽस्माद् इति अंशः परिपूर्ण भागः, अपादान-साधनः । अथवा, आम् इति स्मृतौ गर्ग-वाक्य-स्मरणार्थः । नारायणस्य शं सुख-स्वरूपं रूपम् इति सरस्वती-सुरसम् । व्रजराजस् तु नारायणस्यांशं मन्ये [भा।पु। १०.२६.२३] इत्य् एवावदत् । अतोऽत्र कोऽपि सन्देहो मा कर्तव्यः ॥२४.२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आनर्चुः वस्त्र-रत्न-स्वर्ण-मुद्रोपहारेण सम्मानयाम् आसुः । कृष्णे वनाद् आगते सति सायं च, तं पीताम्बर-हार-कटक-कुण्डल-किरीटैर् अलङ्कृत्य जय जय व्रजतूमिभूयण चिरं जीवेत्य् उपलालयामासुः ॥२४॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


॥ १०.२६.२५ ॥

देवे वर्षति यज्ञ-विप्लव-रुषा वज्राश्म-वर्षानिलैः

सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् ।

उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा

बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोवर्धनोद्धरणं स-परिकरम् अनुस्मरन् प्रकटितैश्वर्यस्य श्री-कृष्णस्य प्रीतिं प्रार्थयते, देव इति । यज्ञ-विप्लवेन या रुट् तया देवे इन्द्रे वर्षति सति । वज्राश्म-पर्षानिलैर्2 अशनि-जल-शर्करातीव्र-वायुभिः सीदत् पाल-पशु-स्त्रिय आत्म-शरणं सीदन्तः पालाः पशवः स्त्रियश् च यस्मिंस् तत् तथा, आत्मा स्वयम् एव शरणं यस्य तद् गोष्ठं दृष्ट्वा अनुकम्पी उत्स्मयन् हसन् प्रौढिम् आविष्कुर्वन् शैलम् उत्पाट्याबलो बालो लीलार्थम् उच्छिलीन्ध्रं यथा तथैकेन करेण बिभ्रहधद् गोष्ठम् अपात् पालितवान् । एवं महेन्द्र-मद-भित् गवाम् इन्द्र इत्य् उत्तराध्यायार्थं च स्मरति । स एवं-भूतः श्री-कृष्णो नः प्रीयात् प्रीयताम् इति । “षाड्-विंशे दशमे व्यक्तः षड्-विंशो दशमो हरिः । व्यन्क्तु पञ्च-विंशं मां चतुर्-विंशतितः पृथक्”


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भो राजन् इन्द्रो-कोपोत्थिताद् वज्राश्म-पर्षादिक-महासं कटाद्-गोवर्धनम् उद्धृत्य तद् आश्रितं गोष्ठ रक्षंस् तन्-मख-प्रवर्तन-पण्डितः कृष्णो यथा सुर-लोक-गर्व-हन्ता प्रोणाति तथा ब्रह्म-कोपोत्थिताद् वाग् वज्राद् इदं श्री-भागवतं वेदोदधित उद्धृत्य त्वां रक्षंस् तत्-परायण-मख-प्रवर्तन-पण्डितः कृष्णो भक्ति-रहित-दर्शनिक-भू-सुर-लोक-हन्ता प्रीणात्वित्याशयेन परीक्षितं स्वान्तःपातं मनयन् कृष्ण-प्रीतिं प्रर्थयते—देव इति । सपरिकरं साङ्गोपाङ्गम् ।

यद् वा, श्री-शुकः स्वेष्टदेवं पूर्वार्धप्रथम-भागान्ते स्मरन् स्वरक्षां प्रार्थयते । यज्ञस्य विल्पवेन भङ्गेन । जल-शर्कराः करकाः । सीदन्तः कम्पमानाः । शरणं रक्षिताः । अनुकम्पी हृदयद्रवी भाव-युक्तः । प्रौढिं प्राग्ल्भ्यम् । कन्दल्यां च शिलीङ्घ्रः स्याच् छत्राकं तन् निगद्यते इति शब्दार्णवः । प्रीयतां प्रीतो भवतु गवाम् इन्द्रः गोस्वामी गोविन्तोऽधिकृतो गवाम् इत्य् अमरः । अस्य पद्यस्य लक्ष-जपात् प्रतिपक्षनाशः । देवे वर्षतीति मन्त्रस्य श्री-वेद-व्यासः ऋषिः, श्री-कृष्णः परमात्मा देवता, जगती छन्दः, सर्व-कार्य-सिद्ध्यर्थ जपे विनियोगः । करधृतवरशैलं वेणुवाद्ये रसालम् इत्य् उक्तरीत्या ध्यानं च कार्यम्, अन्ते पायसेन होमो ब्राह्मण-भोजनं च तेनाभिलषित-सिद्धिः [२५] षड्-विंशे इति । दशमे दशम-स्कन्धे षड्-विंशेऽध्याये दशमो लक्ष्यभूत आश्रय-शब्दोदितः परमात्मा नन्द-नन्दनो व्यक्तः गोवर्दनोद्धृति पूर्वक-व्रज-रक्षया यः प्रकटितोऽभूत्, स मां चतुर्विंशतितश् चतुर्विंशतितत्त्व-घटितक्षेत्र-सञ्ज्ञ-शरीरात् पञ्च-विंशं जीवात्मानं पृथक् व्यनक्तु प्रकटयतु । मे देहात्म-बुद्धिम् अपाकृत्य निजोपासने योजयत्वित्य् अर्थः । किम्भूतः स षड्-विंशः पञ्च-विशतितत्त्व-नियामकत्वेनेश्वर इत्य् अर्थः । एकादश-स्कन्धे तत्त्व-वादाध्याये षड्विंशति-तत्त्व-वादि-मते,

अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् ।

स्वतो न सम्भवाद् अन्यरतत्त्वज्ञो ज्ञानन्दो भवेत् ॥ [भा।पु। ११.२२.१०]

इत्य् अनेन पञ्च-विंशो जीवः षड्विंश ईश उक्त इति [१] अत्र श्रुतयः—

जजान एव व्यबाधत स्पृधः प्रापश्यद्-वीरोऽभिपौष्यं रणम् ।

अवृश्चद्-अद्रिम् अवसम्पदः स्पृधरतभ्रान् नाकं स्वरमाया पृथुम् ॥ इति ।

अयम् अर्थः—वीरः श्री-कृष्णो जजानः जात-मात्र एव स्पृधः स्पर्धमानान् व्यबाधत विशेषेणैव बबाधे । अभिपौंस्यं रणं प्रापश्यत् । पूम्स इदं पौस्यं स्वयोग्यं रणं प्रापश्यत् । दौत्यैर् नाना-विधान् सङ्ग्रामांश्चकारेत्य् अर्थः । किं च, अवसम्पदस् सम्पदः स्वयम् एव गोवर्धन-रूपेण अव अनायासेन सम्पदः गोपैर् दत्तम् अन्नादिकं भक्षितवान् किं च, स्पृधत् स्पर्धमानं नाकं तत्-पतिं नाकस्थं मेघ-चक्रं चास्तन् भ्रात्स्तम्भयामास । यतः पृथुम् अद्रिमवृश्चत् उत्पाट्य धृतवान् । स्वरम्यया लीलयैवेत्य् अर्थः ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रीयान् न इत्य्-आदिः सभाजनं श्री-शुकस्योक्तिः ॥२५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सर्वेषां व्रजजनानां प्रीति-विशेष-सम्पत्त्या अतृप्त्या प्रीतिम् आशास्ते—देव इति । निज-व्रजजनत्वाभिमानेन द्वेषतस् तन् नामाग्रहणात् । यद् वा, दीव्यति क्रोधेन द्योतते दीप्यत इति । किं वा, श्री-कृष्णं विजिगीयत इति देवस् तस्मिन् यज्ञस्य निजार्चनस्य विप्लवो नाशस् तत् परिवर्तेन श्री-गोवर्धन-यज्ञ-प्रवर्तनात्, तेन रुट् तया वर्षति सति इति वृष्टेर् आधिक्यं सूचितम् । अत एव वज्रादिभिः सीदन्तः पाला गोपाः पशवश् च गवादयः स्त्रियो\ऽपि यस्मिन् तत्, पश्वादीनां यथोत्तरम् अवसादस्याधिक्यम्, तेन चानुकम्पाया आधिक्यं च तेषु ज्ञेयम्, उत्पाट्य समूलम् उद्धृता, अन्यत् तैर् व्याख्यातम् एव,

यद् वा, अवलो बाल्ये वर्तमान इत्य् अर्थः । किं वा, बलदेव-रहित इति तद् एक-माहात्म्यार्थं तत्र तस्य साहाय्यादिकं निरस्तम् । यद् वा, अकाराख्यात् विष्णोर् अपि सकाशाद् बलं शक्तिर् यस्येति तत्र तत्र तत् तच् छक्ति-विशेष-प्रकटनात्, यथा लीलोच्छिलीन्ध्रम् इति दृष्टान्तेन लीलयानायासेन धारणं समर्थितम् एव । महेन्द्र-शब्देन मद् अस्य स्वाभाविकत्वं सर्वत आधिक्यं च सूचयति, अत एवात्र तन् नाम-ग्रहणम् । यद् वा, महान् भगवत् प्रिय-गोष्ट-विषयक-महा-कोपात् य इन्द्रस्य मदः, तं भिनत्तीति । तथा स इति महापराधिनो\ऽपि परम-हितकारित्वम् उक्तम् । अत एवानुकम्पी कृपा-शीलः, अत एव नो\ऽस्मान् दीन-जनान् तद्-एक-गतीन् वा प्रति प्रीयताम् । एतच् च प्रेम-भराकुल-श्री-परीक्षिद् आश्वासनार्थम् । अत एव तद्-एक-प्राणैर् व्रज-जनैर् अपि तत् सोढम् इति बोधितम् ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं समाप्यापि परमानन्देन तद् एव गोवर्धनोद्धरणं सपरिकम् अनुस्मरन् तत्र च निज-भावाश्रयस्य गोष्ठस्य निज-भाव-विषयेण गवेन्द्रतयानुध्यातेन श्री-भगवता कृतां रक्षां तद् अर्थम् इन्द्र-मख-भङ्गीं चानुस्मृत्य बाढं प्रीयमाणस् तां प्रीतिम् एव सर्वं पुरुषाधिकतयानुभवन् तां च पुनः श्री-गवेन्द्र-विरचित-प्रत्य् अनुगृहीतत्वे सति परमास्वादवतीं जानस् तत् प्रीतिम् एव प्रार्थयते, देवेति । तत्र देवे वर्षतीत्य् अप्रतिकार्यत्वं सत्रासम् इव दर्शितं तत्रापि यज्ञ-विप्लव-रुषेत्य् अतिशयः स्वरूपतो\ऽप्य् अतिशयम् आह—वज्रेति । पर्षेतिरेफ-संयोगी-पाठः क्वचित् वज्रादीभिः सीदन्तः पालाः गोपाः पशव-स्त्रियश् च यस्मिन् तत् तत्राप्य् अतिशयः आत्म-शरणम् इति तस्मात् मच्छरणम् इत्य् आदेः तत्राप्य् अतिशयः दृष्ट्वा स्वयं चक्षुर् विषयी कृत्येति अत एवानुकम्पीति भूम्नि मत्व् अर्थीयः एवं कृपा-व्यग्रेऽपि तस्मिन् शैयं त्व् अव्यग्रम् एवासीद् इत्य् आह—उत्स्मयन्न् इत्य्-आदि । इन्द्रं प्रति सोत्प्रासं स्मयन्न् इत्य् अर्थः ।

तादृश एव सन् शैलम् उताट्य तत्राप्य् एकेन वामेन करेण तत्रापि बालो लीला-प्रयोजनकम् उच्चिलोन्ध्र यथा तद्वत् तत्रापि बिभ्रत् सप्ताहोरात्रानेकरीत्या दधत् तद् एवं विस्मय-हर्षौत्सुक्य-धृतिभिर् आविष्ट आह—गोष्ठम् अपाद् इति । सगर्व-हर्षम् आह-महेन्द्रमदभिद् इति । गवाम् इन्द्रो\ऽपि महेन्द्रस्य मदभेत्तेति सोत्प्रासं वस्तुतस् तु गवेन्द्रत्वे तस्मिन् महेन्द्रत्वम् अपि समुद्रे नदीवत् प्रविशतीति भावः । प्रीत्यादित्य् आशीर्लिङ् तत् प्रीतौ जातायां मम गोष्ठ-जनानु-गतत्वम् अपि सेत्स्यतीति भावः । तथैव श्री-गोष्ठ-जन-भावेनाह—इन्द्रो गवं इति । नोऽस्माकं गोकुवेन्द्रो वा तद् एवं तद् एव स्व-पुरुषार्थत्वेन दर्शितं श्री-ब्रह्मवद् एवेति ज्ञेयम् अत्र श्रुतिश् च—

जज्ञान एव व्यवाधत स्पृधः

प्रापश्यद् वीरो अभि पौस्यं रणम् ।

अवृंश्चद् अद्रिम् अवं सस्यदः सृजद्

अस्तम्भ्नान् नाकं स्वपस्यया पृथुम् [ऋ।वे। १०.११३.४] इति ।

अयम् अर्थः—वीरः श्री-कृष्णो जज्ञानो जात-मात्र एव स्पृधः स्पर्धेमानान् दैत्यान् व्यवाधत विशेषेणैव बबाधे अभि पौस्यं रणं प्रापश्यत् पुंस इदं पौंस्यं त्ययोग्यं रणं प्रापश्यत दैत्येर् नान-विधान् सङ्ग्रामांश् चकारेत्य् अर्थः ।

किं च, अवसस्यदः स्वयम् एव गोवर्धन-रूपेण अव अनायासेन सस्यदः गोपैर् दत्तम् अन्नादिकं भक्षितवान् । किं च, स्पर्धमानं नाकं तत् पतिं नाकस्थं मेघ-चक्रं च अस्तभ्नात् स्तम्भयामास यतः पृथुम् अद्रिम् अवृश्चत् उत्पाट्य धृतवान् इत्य् अर्थः । स्ववश्यया [स्वपस्यया] लीलयैवेति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनस् ताम् एव लीलां स्मरन् तत्र दर्शित-गोकुल-कृपातिशयं श्री-कृष्णं स्मरंस् तत्-कृपाम् एव स्व-पुरुषार्थत्वेन प्रार्थयमानस् तम् एव निजेष्ट-देवत्वेन व्यञ्जयति—देव इति ॥२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो राजन् ! इन्द्र-कोपोत्थिताद् वज्राश्म-वर्षादिकान् महा-सङ्कटाद् गोवर्धनम् उद्धृत्य तद्-आश्रितं गोष्ठं रक्षन् तन्-मुख-प्रवर्तन-पण्डितः कृष्णो यथा सुर-लोक-गर्व-हन्ता प्रीणाति तथैव ब्रह्म-कोपोत्थिताद् वाग्-वज्राद् इदं श्री-भागवतं वेदोदधिभ्य उद्धृत्य त्वां रक्षन् तत्-परायण-मख-प्रवर्तन-पण्डितः कृष्णो भक्त्-इरहित-दार्शनिक-भूसुर-लोक-गर्व-हन्ता प्रीणात्व् इत्य् आशयेन परीक्षितं स्वान्तः-पातं मानयन् कृष्ण-प्रीतिं प्रार्थयते—देवे इति ।

यज्ञ-विप्लवेन या रुट्तया देवे इन्द्रे वर्यति सति वज्रैर् अश्मभिश् च परुषानिलैश् च सीदत्-पाल-पशु-स्त्रि सीदन्तः पालाः पशव स्त्रियश् च यस्मिन् तत् तथा । आत्मा स्वयम् एव शरणं वस्य तद्-गोष्ठं दृष्त्वा अनुकम्पी कृपालुर् उत्स्मयन् प्रौढिम् आविष्कुर्वन् अबलो बालो लीलया यथा उच्छिलीन्द्रम् एकेनैव करेणोत्पाटयति तथैवोत्पाट्य यो गोष्ठम् अपात् स गवाम् इन्द्रेति इन्द्र एवेन्द्रस्य मदं भिन्नत्तीति न्यायः । कृष्णो नो मां परीक्षितं एतान् श्रोतृंश् च प्रति प्रीयात् प्रीणातु ॥२५॥

इति सारार्थ दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षड्विंशो दशमे\ऽध्यायः सङ्गतः सङ्गतः सताम् ॥


बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : न व्याख्यातम्।


इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे

षड्विंशोऽध्यायः ।

॥ १०.२६ ॥


(१०.२७)


  1. शुचि-स्मिताः इति क्वचित् पाठः। ↩︎

  2. वर्षानिलैः ↩︎