कोपाद् मुसलधारा-वर्षे वर्षतीन्द्रे व्रजौकसां रक्षणार्थे गोवर्धन-धारणम् ।
॥ १०.२५.१ ॥
श्री-शुक उवाच—
इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप ।
गोपेभ्यः कृष्ण-नाथेभ्यो नन्दादिभ्यश् चुकोप सः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : [नो वेर्से? ]{।मर्क्}**कृष्णो नाथो येषां तेभ्यः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आसारात् धारा-सम्पातात् धारा-सम्पात आसारः इत्य् अमरः । प्रभुः कृष्णः ।*। नाथः स्वामी । गोपेभ्य इति क्रुद्ध-दुहेर्ष्यासूयार्थानां यं प्रति कोपः इति चतुर्थी । सः इन्द्रः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् इति मर्त्यं मरणार्हम्, देव-हेलनम् इत्य् अस्य विशेषणम्, येन मरणं भविष्यति, तथा कृतम् । अहो ! श्रीमद-माहात्म्यं कृष्णम् उपाश्रित्य कृष्णोपष्टम्भेनेत्य् अर्थः ॥३.४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विज्ञाय साक्षाद् अनुभूय, तन्-महोत्सवे तत्रैवाकाशे निभृतम् आगमनात् । किं वा, निज-यञ्ज-भोज्यानुपस्थितेर् विशेषेण हतां तद्-द्रव्याणाम् अप्य् अन्यत्र वायात्, कृष्ण-नाथेभ्य इति अस्थाने कोपेन दुर्मद-मत्तता दुर्वुद्धिता च सूचिता । हे नृपेति श्री-मदस्यानर्थ-हेतुत्वं भवता ज्ञायत एवेति भावः । आदि-शब्देन उपनन्दादयो गोपास् तत्-पुरोहितादयश् च । ह स्फुटम् एव, तद् अनुरूप-व्यवहरणात् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विज्ञाय साक्षाद् अनुभूय विहतां द्रव्याणाम् अप्य् अन्यत्र व्ययात् कृष-नाथेभ्यः तत्रापि गोपेभ्यः तादृश-श्री-व्रज-वासिभ्यः तत्रापि श्री-नन्दादिभ्य इति कोपेन दुर्मदकत्ततो दुर्बुद्धिता च सूचिता ह स्फुटम् एव तद् अनुरूप-व्यवहारात् स इति क्वचित् पाठः परम-दुर्बुद्धिर् इत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कुपितस्येन्द्रस्य भणितम् आह—अहो इत्य्-आदि द्वाभ्याम् । अहो वनौकसाम् इति साक्षेप-परम् । श्री-मद-माहात्म्यं कृष्णम् उपाश्रित्य देव-हेलनं चक्रुर् इत्य् अहो मौग्ध्यम् एतेषाम् इति भावः । देव-हेलनं कीदृशम् ? मर्त्यं मरणोपयुक्तम् ॥१.४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चविंशे सकोपोक्ताव् इन्द्रे नाशाय वर्षति ।
व्रजस्य रक्षाम् अकरोद् उद्धृत्याचलम् अच्युतः ।
कृष्ण-नाथेभ्यो ऽपि चुकोपेति इन्द्रस्य मौढ्यं तत्-कोपस्य च वैफल्यं प्रथमत एव दर्शितम् ॥१॥
॥ १०.२५.२ ॥
गणं सांवर्तकं नाम मेघानां चान्त-कारिणाम् ।
इन्द्रः प्राचोदयत् क्रुद्धो वाक्यं चाहेश-मान्य् उत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रुद्धः सन्न् इन्द्रः सांवर्तकं नाम, संवर्तः प्रलयः, तत्-कर्तारं मेघानां प्रसिद्धं गणं प्राचोदयत् प्रेषयाम् आस । ननु कृष्ण-नाथानां घाते कथं प्रवृत्तः ? इत्य् आशङ्क्य आत्म-सम्भावनया निरस्त-विवेकत्वाद् इत्य् आशयेनाह—वाक्यं चाह इत्य्-आदि-पञ्चभिः । ईश-मानी अहम् एवेश्वर इति गर्ववान् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्म-सम्भावनया मत्तोऽन्यः कोधिक इति बुद्ध्या, आत्म-सम्भावनेति स्यान् मत्तोऽन्यः कोऽधिको भुवि इत्य् उक्तेः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्य्-अर्थे च-शब्दः । अन्तः प्रलयस् तत्-कारिणाम् अपि । यद् वा, च-काराद् आवह-प्रवहादि-वात-गणं च, प्रकर्षेण गर्वोक्त्या तेषाम् उत्साह-वर्धनादिना प्रेरयामास । उत खेदे विस्मये वा, देवेन्द्रस्याप्य् अयोग्य-प्रवृत्तेः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तः प्रलयस् तत्-कारिणाम्, अत एव सम्वर्तकं नाम, अप्य्-अर्थे च-शब्दः। यद् वा, च-काराद् आवह-प्रवहादि-वात-गणं च प्रकर्षेण गर्वोक्त्या तेषाम् उत्साह-वर्धनादिना प्रेषयामास । उत अप्य्-अर्थे । स च गर्हा-रूपः । देवेन्द्रस्याप्य् अयोग्ये प्रवृत्तेः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : उत अप्य्-अर्थे । स च गर्हा-रूपः । देवेन्द्रस्याप्य् अयोग्य-प्रवृत्तेः ॥२.५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोपं विवृणोति—गणम् इति । संवर्तः प्रलयः, तत्-कर्तारं मेघानां गणं च-काराद् आवह-प्रवाहादि-सांवर्तक-वात-गणं च प्राचोदयत् प्रेषयामास । ईश-मानी अहम् एवेश्वर इति गर्ववान् ॥२॥
॥ १०.२५.३ ॥
अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् ।
कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-हेलनं देवस्य ममावज्ञाम् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :मर्त्यं मरण-धर्माणां, मनुष्यम् इत्य् अर्थः । उपाश्रित्य अयम् एव सर्वेभ्यो बलीति कृत्वा । देवस्य अमरस्य मम । श्री-मद-माहात्म्यानां द्वन्द्वैक्यम् । काननौकसां गोपानाम् इति तेषाम् अज्ञत्व-निकृष्टत्वे बोधिते । मर्त्येभ्यो हितं मर्त्यम् । देवस्य ममेष्टस्य हेलनम् इति वास्तवोऽर्थः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् इति । मर्त्यं मरणार्हम्, देव-हेलनम् इत्य् अस्य विशेषणम्, येन मरणं भविष्यति, तथा कृतम् । अहो ! श्री-मद-माहात्म्यं कृष्णम् उपाश्रित्य कृष्णोपष्टम्भेनेत्य् अर्थः ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो आश्चर्यम्, काननौकसाम् इति निकृष्टत्वम् अज्ञत्वं चाभिप्रेतम् । मर्त्यं मनुष्यम्, उप निज-हितोपाधिनाश्रित्य देवस्य हेलनं चक्रुः । श्री-मद-माहात्म्यं विनैतन् न सम्भवतीति भावः । देवत्वेनात्मनो मर्त्यान् माहात्म्य-सिद्धेर् देवेत्य् उक्तम्, न च ममेति, तथा अमर-त्यागेन मर्त्याश्रयणस्यायोग्यता-बोधनार्थं चेति दिक् । अत्र च वन-वासत्वेन गोपत्वेन च परम-सात्त्विकत्वादिकं तेषाम्, कृष्णं परब्रह्मापि मनुष्य-रूपम् इति तस्य च भक्त-वात्सल्यम्, अतस् तद् अर्थं तस्य देव-हेलनं युक्तम् एवेति तत्त्वार्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो आश्चर्यं काननौकसाम् इति निकृष्टत्वम् अज्ञत्वं चाभिप्रेतम् । पत्य्-उपपति-शब्दवद् आश्रयो नाम कुल-धर्मादि-प्राप्तः उपाश्रयस् ततो विच्युत्य कृतः, तद् एवम् उक्तम् उपाश्रित्येति देवत्वेनात्मनो मर्त्यान् माहात्म्य-सिद्धेदं वेत्य् उक्त न च ममेति । तथा अमर-त्यागेन मर्त्याश्रयणस्यायोग्यता-बोधनार्थं चेति मयि तावद् देव-बुद्धिम् अपि न चक्रुः, अस्तुतरां देव-देव-बुद्धिर् इति भावः । अत्र च वन-वासेन गोपत्वेन च परम-सात्त्विकत्वादिकं तेषां कृष्णं पर-ब्रह्मादि मनुष्य-रूपम् इति च भक्त-वात्सल्यं, अतस् तद् अर्थं तस्य देव-हेलनं युक्तम् एवेति सरस्वती-व्यञ्जितस् तत्त्वार्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ कुपितस्येन्द्रस्य भणितम् आह—अहो इत्य्-आदि द्वाभ्याम् । अहो वनौकसाम् इति साक्षेप-परम् । श्री-मद-माहात्म्यं कृष्णम् उपाश्रित्य देव-हेलनं चक्रुर् इत्य् अहो मौग्ध्यम् एतेषाम् इति भावः । देव-हेलनं कीदृशम् ? मर्त्यं मरणोपयुक्तम् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रीश् च मदो हर्यश् च माहात्म्यं च तेषां द्वन्द्वैक्यम् । मर्त्यं मर्त्येभ्यो हितं देवस्य मम दुष्टस्य हेलनम् इति सरस्वत्य्-अर्थो वास्तवः ॥३॥
॥ १०.२५.४ ॥
यथादृढैः कर्म-मयैः क्रतुभिर् नाम-नौ-निभैः ।
विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदृढैर् असमर्थैः कर्म-मयैः क्रिया-निर्वर्त्यैः, अत एव नाम-नौ-निभैर् नाम-मात्रेण या नौ इति व्यवह्रियते, तत्-सदृशैः । आन्वीक्षिकीम् आत्मानुस्मृति-रूपाम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्रिया-निर्वर्त्यैः बहु-व्यापार-साध्यैः । अत एव क्रिया-साध्यत्वाद् एव । नाम्ना नावो नाम-नावः, ताभिर् निभास् तुल्याः, तैः । निभस् तु कथितो व्याजे पुंल्लिङ्गः सदृशे त्रिषु इति मेदिनी ।
प्लवा एते ह्य् अदृढा यज्ञ-रूपा
अष्टादशोक्तं ह्य् अवरं येषु कर्म ।
एतच् छ्रेयो येऽभिनन्दन्ति मुढा
जरा-मृत्यू ते नराः प्राप्नुवन्ति ॥ [मु।उ। १.२.७] इति श्रुतेः ।
शब्दस्य हि ब्रह्मण एष पन्था यन् नामभिर् ध्यायति धीर-पार्थैः । परिभ्रमंस् तत्र न विन्दतेऽर्थान् इत्य् उक्तेः । कर्ममयैः क्रतुभिस् सह आन्वीक्षिकीं त्यक्त्वा कृष्णम् आश्रित्यैव कृष्णाश्रयेणैव भवऋणवस्य गोवत्स-पदत्वे जाते तत्-तरण-यत्नानौचित्यात्, तेषां तितीर्षा-मात्रम् इति वास्तवोऽर्थः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अदृढैः क्षयिष्णु-फलकैः यतः कर्ममयैः, न तु ध्यान-कीर्तनादि-प्रधानैः, यथा तितीर्षन्ति मूढाः, तथा कृष्णम् उपाश्रित्य ममाप्रियं गोपाश् चक्रुर् इत्य् अविचारेणायोग्याचरण-मात्रे दृष्टान्तः । यद् वा, तथा मां हित्वा कृष्णाश्रयेण गोपा मत्तो भय-दुःखादिकं तितीर्षन्तीतीन्द्रस्य क्रोधावेशेनासमाप्तं वाक्यं ज्ञेयम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अदृढैः क्षयिष्णु-फलकैः । यतः कर्म-मयैः यथा तितीर्षन्ति मूढाः, तथा कृष्णम् उपाश्रित्य ममाप्रियं गोपाश् चक्रुर् इत्य् अविचारेणायोग्याचरण-मात्रे दृष्टान्तः । यद् वा, तथा मां हित्वा कृष्णाश्रयेण गोपा भय-दुःखादिकं तितीर्षन्तीतीन्द्रस्य क्रोधावेशेनासमाप्त-वाक्यं ज्ञेयं । तत्त्वार्थश् चायं यथा वैष्णवाः कर्मभिः सहान्वीक्षिकीं हित्वा केवल-कृष्णाश्रयेण भवार्णवं तितीर्षन्तीति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदृढैः असमर्थैः कर्म-मयैः केवल-कर्म-प्रचुरैर् अत एव नाम्नैव नौ तुल्यैः, न तु वस्तुतः । आन्वीक्षिकीम् आत्मानुसन्धान-रूपाम् । वस्तुतश् च कर्ममयैः क्रतुभिः सह आन्वीक्षिकीं हित्वा अवज्ञया त्यक्त्वा कृष्णम् आश्रित्यैव वैष्णवा यथा भवार्णवं तितीर्षन्तीति कृष्णाश्रयण-मात्रेणैव भवार्णवस्य गोवत्स-पदत्वे जाते तत्-तरणार्थ-प्रयत्नानौचित्यात् तेषां तितीर्षा-मात्रम् इति ॥४॥
॥ १०.२५.५ ॥
वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम् ।
कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा वाचालं बहु-भाषिणं बालिशं शिशुं, पण्डित-मानिनं पण्डितं-मन्यम्, अतः स्तब्धम् अविनीतम् इति निन्दायां योजितापीन्द्रस्य भारती कृष्णं स्तौति । तथा हि, वाचालं शास्त्र-योनिम् । बालिशम् एवम् अपि शिशु-वन् निरभिमानिनम् । स्तब्धम् अन्यस्य वन्द्यस्याभावाद् अनम्रम् । अज्ञं नास्ति ज्ञो यस्मात् तं । सर्व-ज्ञम् इत्य् अर्थः । पण्डित-मानिनं ब्रह्म-विदां बहु-माननीयम् । कृष्णं सद्-आनन्द-रूपं परं ब्रह्म । मर्त्यं तथापी भक्त-वात्सल्येन मनुष्यतया प्रतीयमानम् इति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बहु-भाषिणं शास्त्र-विरुद्ध-भाषिणम् अनधीत-शास्त्रत्वात् अज्ञं नित्य-गोचारित्वात् । स्तब्धं पितुर् अग्रे\ऽप्य् अतिधृष्टत्वात् । अतः पण्डितम्मन्यत्वात् । वाचा वाण्या अलं पूर्णं शास्त्रयोनिम् ऋचः सामानि जज्ञिरे इत्य्-आदि-श्रुतेः एवम् अपि शास्त्र-योनित्वेऽपि । मूर्ख-बालौ तु बालिशौ इति कोशात् । अनम्रं सर्वेश्वरम् एष सर्वेश्वरः इति श्रुतेः । इत्य् अर्थ इति । स सर्ववेत्ता न हि तस्य वेत्ता इत्य्-आदि श्रुतेः । पण्डितैर् मन्यत इति पण्डितमानीनम् । णिनिर् अत्र प्रत्ययः । कृष्णं कृषिर् भू वाचकः शब्दः इत्य्-आदि-श्रुतेः । तथापि परब्रह्मत्वेऽपि ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं परत्रापि, विशेषतस् तु तत्र वाचालं वाचा वचनत्वेन अलं भूषणं प्रियम्बदम्, बालिशं वलितुं शिलं यस्य तद् वालि तथा-भूतं शं कल्याणं यस्मात्, स्तव्धम् अज्ञं स्तव्धं जडं मातीति स्तव्धमं चित् तस्य ज्ञा अववोधो यस्मात् । अथवा, स्तव्धानां जडानां मा लक्ष्मीर् यस्मात्, लाक्ष्मीस् तु चेतन-रूपा तत् स्तव्धमं ब्रह्म तत् त्वेन ज्ञा जानं यस्य, अत एव पण्डितानां मानं सम्मानम् अस्यास्तीति तथा पण्डितान् कृष्ण-तत्त्व-ज्ञान् मानयितुं शीलम् यस्येति वा ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वाचालं सतर्क-कर्क्कश-कर्मवादावतारणाद्य् अभिप्रायेण, गोपा इति निकृष्टत्वम्, मे त्रिलोकीश्वरर्येत्य् उत्कृष्टतरत्वं दुर्मदभरेण सूचितम्, अतएवात्रोक्तं मे इति ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वाचालम् इत्य्-आदिकं सतर्क-कर्कश-कर्मवादातरणाद्य् अभिप्रायेण गोपा इति निकृष्टत्वं मे त्रिलोकीश्वरस्येति दुर्मद-भरेण सूचितम् अन्यत् तैः तत्र स्तुति-पक्षे वाचालम् इति वाचा हेतुना अलं समर्थ इत्य् एवार्थः । मत्वर्थीयनिश् प्रत्ययस्य निन्दायाम् एवाभिधानात् शिशुवद् इति बालिशः शवके मूर्ख इति विश्व-प्रकाशात् ब्रह्मविदां माननीयम् इति तत् कर्तृको मानो विद्यते यत्रेति ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाचालं मीमांसासाङ्ख्यानभिमतविरुद्धबहुभाषिणम् । बालिशं मूर्खं अनधीत तत्तच्छास्त्रत्वाद् इति भावः । स्तब्धं स्वपितुरग्रेप्यतिधार्ष्ट्याद्दुर्विनीतम् । अज्ञं नित्यगोचारणात् किम् अप्य् अजानन्तं अथ च पण्डितस्मन्यं मर्त्यं मनुष्यमाश्रित्य मे देवस्याप्रियं चक्रुः, वस्त्वर्थश् च वाचया सरस्वत्या अलङ्कृतो बालिशो मुर्खा ऽपि यस्मात्तम् वाचा शब्दष्टावन्तो ऽयम् । स्तब्धं वन्द्यस्यान्यस्याभावादनम्रम् नास्तिज्ञो यस्मात्तं पण्डितकर्तृको मान आदरो वर्तते यस्य तम् ॥५॥
॥ १०.२५.६ ॥
एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् ।
धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवलिप्तानां मत्तानाम् । आध्मायितात्मनां बृंहित-देहानाम् । धुनुतापनयत । श्री-मदेन यः स्तम्भो गर्वस् तम् ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधमतीत्य् आध्माः स इवाचरतीत्य् आध्मायते ततः कर्मणि क्तः आध्मायितः बृंहितो वर्धित आत्मा देहो मनो वा येषां ते तेषाम् । स्तम्भः स्थूणा-जडत्वयोः । अभिमाने रोधके च इति शश्वतः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं परत्रापि विशेषतस् तु वाचालं वाचा वचनत्वेन अलं भूषणं प्रियम्वदम्, वालिशं वलितुं शीलं यस्य तद् वालि तत्राभूतं शं कल्याणां यस्मात्, स्तब्ध ज्ञं स्तब्धं जडं मातीति स्तब्धमं चित् तस्य ज्ञा अववोधो यस्मात् । अथवा, स्तब्धानां जडानां मा लक्ष्मीर् यस्यात् लक्ष्मीस्तु चेतन-रूपा तत् स्तब्धमं ब्रह्म तत्वेन ज्ञा जानं यस्य, अत एव पण्डितानां सम्मानम् अस्यातीति तथा पण्डितान् कृष्णतत्त्वज्ञान् मानयितुं शीलं यस्येति वा ॥६.३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं दुवृत्य् अतिशयार्थं तेषां तेनात्मनस् तेषु रोषभरं च बोधयित्वा अधुना कृत्यम् आदिशति—एषाम् इति । कृष्णेन हेतुना श्रिया विविध-धनादि-सम्पदा पशुवर्ग-लक्षण-लक्ष्म्या वा मत्तानाम् इत्य् अन्तर—वृंहित-देहानां चेति बाह्यं सुखं दर्शितम् । यद् वा, श्रीमत्तानां लक्षणं ध्मापितात्मनाम् इति, तत्र च कृष्णेति तत् कृत-गोपालनादिना क्षीराद्य् उपभोग-सम्पत्तेर् इति भावः । भक्ति-लक्ष्म्या समृद्धानाम् इति तयाध्यायित-स्वाभावानां किज-प्रेमाग्निदाहित-चित्तानां चेति तत्त्वार्थः । ध्मा-शब्दाग्नि-संयोगयोः इत्य् अस्मात्, कथं धुनवामेत्य् अपेक्षायाम् आह—पशून् सम्यक् क्षयं नयत, पशूनाम् एव श्री-मद् अहेतुत्वात् सर्वान् एव तान् अतिवृष्ट्या मारयतेत्य् अर्थः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं दुर्वृत्य् अतिशयार्थं तेषां दोषं तेनात्मनं तेपु रोष-भरं च बोधयित्वा अधुना कृत्यम् आदिशति, एषाम् इति । कृष्णेन हेतुना श्रिया पशु-वर्ग-लक्षण-लक्ष्म्या मत्तानाम् इत्य् अनन्तरं बृंहित-देहानां चेति बाह्यं सुखं दर्शितं तत्र तत्र च कृष्णेनेति तत् कृत-गोपालनादिना क्षीराद्य् उप-भोग-सम्पत्तेर् इति भावः । अन्यत् तैः तत्र धमनं नाम सतेजस्कीकरणं तच् च बृंहणतात् पर्यकं णिच् प्रयोगस् तु तेषां कर्तृत्वं कृष्णस्य हेतु-कर्तृत्वम् इत्य् अपेक्ष्ययेति ज्ञेयम् । यद् वा, स्वतः श्रिया सगर्वाणां विशेषातः कृष्णेन सतेजस्कीकृत-चित्तानाम् इत्य् अर्थः भक्ति-लक्ष्म्या समृद्धानां तथा तयैवोज्वलित-चित्तानाम् इति तत्त्वार्थः कथं धुनवाम् एत्य् अपेक्षायाम् आह—पशून् सम्यक् क्षयं नयत पशूनाम् एव श्रीमद् अहेतुत्वात् तत्त्वार्थे सम्यक् निवासः स्वास्थ्यम् इत्य् अर्थः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वतः श्रियावलिप्तानां विशेषतः श्री-कृष्णेन स-तेजस्वी-कृत-चित्तानाम् इत्य् अर्थः ॥६.९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवम् उत्तरत्रापि, विशेषस्तु वाचा वचसा अलम् इति-प्रगल्भम्, अलं भूषणं प्रियम्वदम् इति वा । वालि वलितुं शीलम् अस्य तथाभूतं शं क्षेमं यस्मात् । स्तब्धं जडं माति चेतयति स्तब्धमा, ज्ञा अवरोधो यस्मात् । अतः पण्डितेभ्योऽपि सर्वज्ञेभ्योऽपि मानिनं सर्वज्ञेश्वरम् ॥६.३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अबलिप्तानां मत्तानां यतः कृष्णेन ध्मापितः सतेजस्कीकृत आत्मा मनो येषां, वस्त्वर्थश् च श्रिया चन्दनचर्चयेव अवलिप्तानां लिप्ताङ्गानां श्रीमान् यः खल्वस्तम्भः जाड्याभावस्तं धुनुत दूरीकुरुत । तेन तथा वर्यथ यथा तेषां शीतजनितस्तम्भ औष्ण्यनिवर्तको भवेद् इत्य् अर्थः । तथा पशून् धुनुत शीतेन कम्पयत । ततश् च कृष्णेन गोवर्धने उद्धृते सति सङ्क्षयं सम्यक् निवासं तत्तलं नयत । अतिसुखदगोवर्धनतलनिवासं प्रतिनयने युयम् एव कारणी भवतेत्य् अर्थः ॥६॥
॥ १०.२५.७ ॥
अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् ।
मरुद्-गणैर् महा-वेगैर् नन्द-गोष्ठ-जिघांसया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बिभ्यतस् तान् प्रत्य् आह—अहं चेति । अनुव्रजे अन्वनन्तरम् एवागमिष्यामि । मरुद्-गणैर् देव-गणैः सह ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बिभ्यतः भीतान् । तान् मेघान् । नागं गजं नागौ गज-भुजगमौ इति हलायुधः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तत्रास्माकम् अल्पानां का शक्तिः ? तत्राह—अहं चेति । अनुव्रजे युष्मत् पश्चाद् एवागच्छामि, ऐरावतम् आरुह्येति । युष्माकं जलाभावे सति निजकरेण जलम् उद्धत्य साहाय्यं करिष्यतीति भावः । मरुद्गणेः—एकोनपञ्चाशाद् वाभिर् वर्गैः सह, नन्दः श्री-भगवत् पिता तस्य । यद् वा, नन्दति भगवद् भक्त्या हृष्यति नन्दयति जगत् सन्तोषयीति वा नन्दं यद् गोष्ठ तस्य जिघंसयेति । गोष्ठ एव वर्षणीयम्, न तु मधुपुर्याम् इति सूचितम्, अन्यथा महाबलिष्ठ-कंसतो भयापत्तिः । अत एव दुःसंङ्क्ल्पेन यात्रायाम् अमङ्गलम् एव वृत्तम् इति ज्ञेयम् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऐरावतम् आरुह्येति । युष्माकं जल-भावे सति सो\ऽयं साहाय्यं कारिष्यतीति भावः । नन्द-गोष्ठेति तत्रैव वर्षणीयं न तु मधु-पुर्याम् इति च सह कंसेनापि मैत्री-चिकीर्षया सूचितं जिघांसया जिगमयिषयेति तात्त्विको\ऽर्थः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बिभ्यतस्तान् प्रत्य् आह—अहं च अनुव्रजामि जिघांसया जिगामिषयेति वस्त्वर्थः ॥७॥
॥ १०.२५.८ ॥
श्री-शुक उवाच—
इत्थं मघवताज्ञप्ता मेघा निर्मुक्त-बन्धनाः ।
नन्द-गोकुलम् आसारैः पीडयाम् आसुर् ओजसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मघवता इन्द्रेण निर्मुक्तं बन्धनं येषां ते । प्रलयाभिप्रायेण बद्धा आसन् । तदा निर्मुक्त-बन्धनाः सन्त आसारैर् धारासंपातैः पीडयाम् आसुः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रलयाभिप्रायेण प्रलय एव तेषां निर्मुक्तिर् न त्व् अन्यदेत्य् अभिप्रायेण । निर्मुक्त-बन्धना विगलित-जल-स्तम्भाः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोकुलं गवां कुलं ब्रजं तत्रत्यान् सर्वान् एवेत्य् अर्थः । ओजसा वेहेह निजबलेन वा ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ओजसा बलेन ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्मुक्ता बन्धना इति ये खल्वैकार्णवीकरणपटवः प्रलयकाल एव निर्मुच्यन्ते । ते ऽपि मेघा कोपेन लुप्तविवेकत्वादपरिणामदर्शिनेन्द्रेण मोचिताः ॥८॥
॥ १०.२५.९ ॥
विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।
तीव्रैर् मरुद्-गणैर् नुन्ना ववृषुर् जल-शर्कराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्तनयित्नुभिर् अशनिभिः । स्तनन्तो गर्जन्तः । मरुद्-गणैर् आवह-प्रवहादि-वायु-समुहैर् नुन्नाः प्रेरिताः । जल-शर्करा जलोपलाः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तनयित्नुर् मेघ-शब्दो मेघे व्रजे तडिद्-ध्वनौ इति धरणिः । अशनिभिः वज्रैः, दम्भोलिर् अशनिर् द्वयोः इत्य् अमरः ।
प्रवहो निवहश् चैव विवह उद्वहस् तथा ।
संवहावह-परावहा इत्य् एते मरुतां गणाः ॥ इति ।
जलोपलाः वायुना घनीभूत-जलमय-पाषाणाः, करका इत्य् अर्थः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पीडन-प्रकारम् आह—विद्योतमाना इति द्वाभ्याम् । विशेषेण द्योतमाना इत्य्-आदिना विद्युद्-आदीनाम् आनन्त्यम् उक्तम् । तीव्रैर् इत्य् अस्य पूर्वेणाप्य् अन्वयः । जलानि शर्कराश् च करकाः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पीडन-प्रकारम् आह—विद्योतमाना इति द्वाभ्याम् । विशेषेण द्योतमाना इत्य्-आदिना विद्युद्-आदीनाम् इति बाहुल्यं भीषणत्वं च सूचितं स्तनयित्नुभिर् गर्जद्भिर् अंश-विशेषैः । तीव्रैर् इत्य् अस्य पूर्वेणाप्य् अन्वयः । जलानि शर्कराश् च तदीयाः करकाः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्तनयित्नुभिर् अशनिभिः स्तनन्तः गर्जन्तः । मरुद्-गणैः सह आवह-प्रवहाद्यैः नुन्नाश् चालिता जल-शर्करा जलोपलान् ववृषुः ॥९॥
॥ १०.२५.१० ॥
स्थूणा-स्थूला वर्ष-धारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः ।
जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्थूणावत् स्थूलाः । अभ्रेषु मुञ्चत्सु सत्सु । नतोन्नतं निम्नम् उन्नतं तद्-विपरीतं यथा भवति, तथा भूर् नादृश्यत ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्थूणा स्तम्भे गृहस्य च इति मेदिनी । प्लाव्यमाना छाद्यमाना ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्थूणा गृह-स्तम्भो लोह-प्रतिमा स्तम्भो वा तद्वत् स्थूलाः, प्लाव्यमाना भूरभूत् । यद् वा, प्लाव्यमाना सती भूर् नादृश्यत, अतो नतोन्नतं च स्थूलं नादृश्यतेत्य् अर्थः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्थूणा गृह-स्तम्भाः तद्वत् स्थूलाः प्लाव्यमाना सती भूर् नादृश्यत अतो नतोन्नतं च स्थूलन्न् आदृश्यतेत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्लाव्यमाना भूर् अभूत् । अत एव नतोन्नतं स्थलं नादृश्यत ॥१०.११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थूणा स्तम्भेऽपि वेश्मनि इत्य् अमरः । स्थूणावत् स्थूला अभ्रेषु वर्षत्सु प्लाव्यमाना भूर् अभूत् । ततश् च नतोन्नतं स्थलं नादृश्यत ॥१०.११॥
॥ १०.२५.११ ॥
अत्य्-आसाराति-वातेन पशवो जात-वेपनाः ।
गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जात-वेपना जात-कम्पाः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरणं रक्षकम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जातवेपना इति, शीतार्ता इति च, पश्वादान्नां सर्वेषाम् अपि विशेषणम् । तत्र पशूनां शीताधिक्येनादौ निर्देशः, अत एव तेषां प्राक् शरणयान-प्रकारं विशेषतो वक्ष्यति । इत्य्-आदिकं च सर्वं श्री-भगवतो गोवर्धनोद्धरण-क्रीडेच्छयैव ।
यद् वा, श्रीमद् अस्य परमानर्थ-हेतुता-प्रदर्शनार्थम्, अन्यथा भगवत् प्रियाणां तेषां तत् तद् असम्भवात् । गवाम् इन्द्रं स्वामि-प्रवरम् । यद् वा, गाः स्वामित्वेन पाल्यत्वेन च विन्दतीति तथा तम्, अतस् तं शरणं ययुः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जातवेपना इति शीतार्ता इति च पश्चादीनां सर्वेषाम् अपि विशेषणम् अत्र पशूनां बहिस्थत्वेनादौ निर्देशः बहिस्थ-प्रायत्वेन तत्-पश्चाद् गोपानाम् अन्तःस्थ-प्रायत्वेन गोपीनाम् इति विवेचनीयम् इत्य्-आदिकं च सर्वं श्री-भगवतो व्रज-जन-प्रेम-वर्धन-गोवर्धनोद्धरण-क्रीडेच्छयैव शक्रादीनां श्री-मदस्य परमानर्थ-हेतुता-प्रदर्शनेच्छया च अन्यथा भगवत्-प्रियाणां तेषां तत्-तद्-असम्भवात् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.२५.१२ ॥
शिरः सुतांश् च कायेन प्रच्छाद्यासार-पीडिताः ।
वेपमाना भगवतः पाद-मूलम् उपाययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र पशूनां यानं विशिनष्टि, शिर इति ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तेषु गो-गोप-गोपीषु मध्ये । पशूनां गवाम् । यानं धावित्वा भगवत्-समीपे गमनम् । कायेन स्व-देहेन । शिरः तिरोविधायाग्र-पादयोः कृत्वा, सुतान् वत्सांश् च निजाधोठर-भागे कृत्वेत्य् अर्थः । पाद-मूलं चरण-समीपम्, तत्-पार्श्वम् इति यावत् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रच्छाद्य प्रयासेन प्रच्छद-पट-रूपेण वा आच्छाद्य, प्रसाद्येति पाठे\ऽपि स एवार्थः । भगवतः स्व-पालनादिना निजाशेषैश्वर्यं दीन-वात्सल्यादि-निज-गुणान् वा प्रकटयतः, अतः पाद-मूलम् उपाययुः, अत्यन्त-निकटं प्राप्ताः, स्नेहभरेण तद् रक्षणेच्छयैवेति तत्त्वार्थः । एवं च भगवतः परम-स्नेह-विषयस्येत्य् अर्थः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रच्छाद्य प्रयासेन छादयित्वा । ननु, कथ ते तादृश-ज्ञाना जातास् तत्राह—भगवतः अलौकिक-गुणत्वात् तेषाम् अपि तादृश-प्रभाव-दयादि-गुणवत् तया स्फुरत इत्य् अर्थः । अतः पाद-मूलम् उपाययुः अत्यन्त-निकटं प्राप्ताः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शिर इति अतो व्रजस्थ-पशूनाम् अपि तादृशं ज्ञानं सूचितम् ॥१२.१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शिरांसि च सुता वत्साश् च तान् कायेनैवाच्छाद्य ॥१२॥
॥ १०.२५.१३ ॥
कृष्ण कृष्ण महा-भाग त्वन्-नाथं गोकुलं प्रभो ।
त्रातुम् अर्हसि देवान् नः कुपिताद् भक्त-वत्सल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोप-गोपीनां प्रार्थनाम् आह—कृष्ण कृष्णेति । त्वम् एव नाथो यस्य तद् गोकुलं गवां कुलं वंशं नो ऽस्मांश् च देवाद् इन्द्रात् त्रातुं रक्षितुम् अर्हसि ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्माकं देवान् न तु तवेत्य् अर्थः । भक्त-वत्सलेति दयोत्पादनार्था सम्बुद्धिः, तदानीं गोपाः, अनेन सर्व-दुर्गाणि [१०.८.१६] इत्य्-आदि गर्गोक्तिं स्मृत्वा श्री-कृष्णम् एवार्थयामासुर् इत्य् आह—कृष्णेति । सर्व-दुःखाकर्षणाभिप्रायेण । आर्त्या वीप्सा । हे महा-भाग ! अस्माकं परम-भाग्य-रूप ! गोकुलं गवां समूहं । प्राकृतो\ऽपि पुमान् एकाम् अपि गां यथा-बलं रक्षितुं प्रयतते, त्वं तु प्रभुर् असि सर्वथा सर्वतः सर्वान् रक्षितुं समर्थः । कालिय-मर्दनादौ तवालौकिकं प्रभुत्वम् अस्माभिर् अनुभूतत्वम् इत्य् आहुः—हे प्रभो इति ।
ननु देवेषु स्व-शक्ति-दर्शनं नोचितं, तथा मापमदाधकारत्त्वात् (?) तत्राहुः—हे भक्त-वत्सल ! भक्त-जन-रक्षणार्थं तव न किम् अप्य् अकृत्यम् अस्तीति । अर्जुन-रथ-सारथित्वस्य वक्ष्यमाणत्वाद् इति भावः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्ण कृष्णेति वीप्सा शीतार्त्या जिह्वाकर्षक तन्-नाम-स्वभावाद् वा । तत्र च कृष्णेति संज्ञा-मात्रापेक्षया सर्व-दुःख-कर्षणाभिप्रायेण वा । हे महा-भागेति—सप्त-दशाध्यायान्ते दावाग्नि-मोक्षण-प्रसङ्गे व्याख्यातम् एव ।
यद् वा, महान् भावो भाग्यं यस्य, तच् च तत्, यतस् त्वन्-नाथं चेति नोऽस्माकं गोकुलं व्रजम् एव वा सर्वं त्रातुम् अर्हसि । तत्-त्राणेऽस्माकं स्वत एव त्राण-सिद्धेः । यद् वा, नोऽस्मांश् च देवात् इन्द्रात्, तन्-नामाग्रहणं द्वेषेण पाप-बुद्ध्या वा ।
यद् वा, देवात् तत्रापि कुपिताद् इति तत्-कृतोपद्रवोऽत्र सामान्य-मनुष्यैर् अस्माभिः परिहर्तुं न शक्यत इति त्वम् एव त्रातुं योग्योऽसीत्य् अर्थः ।
ननु, तर्हि तत्र ममापि का शक्तिः ? तत्राह—हे प्रभो ! सर्व-शक्ति-युक्तेति, कालिय-मर्दनादौ तवालौकिक-शक्ति-दर्शनाद् इति भावः ।
ननु, देवेषु निज-शक्तिं दर्शयितुं नोपयुज्येत ? तत्राह—हे भक्त-वत्सलेति । भक्तार्थं तवाकृत्यं न किञ्चिद् अस्तीत्य् अर्थः । दावादि-भयेन पूर्वं भगवन्तं बलदेवं च प्रति विज्ञापितम् अस्ति, अधुना च केवलं श्री-भगवन्तं प्रत्य् एव प्रार्थनम् अस्या महा-विपदस् तेनैव निस्तार-सम्भवात् । किं वा, तस्मिन्न् एवात्य् अन्तिक-स्नेहभरात् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णेति । सर्व-दुःखाकर्षणाभिप्रायेण । आर्त्या वीप्सा । हे महा-भाग ! अस्माकं परम-भाग्य-रूप ! नो\ऽस्माकं गोकुलं गवाङ् कुलं व्रज एव वा सर्वं त्रातुम् अर्हसि । यद् वा, नोऽस्मांश् च देवाद् इन्द्रात् तन्-नामाग्रहणं द्वेषेण पाप-बुद्ध्या वा । यद् वा, देवात् तत्रापि कुपितात् इति तत्-प्रतीकारासमर्थान् अस्मान् त्वम् एव त्रातुं योग्योऽसीत्य् अर्थः ।
ननु, देवेषु निज-शक्तीर् दर्शयितुं नो युज्येत, तत्राह—हे भक्त-वत्सलेति । भक्तार्थं तवाकृत्यं न किञ्चिद् अपीत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ [१०.८.१६] इति गर्गोक्तिम् अनुस्मृत्य एतादृश-महा-विपत्तौ श्री-नारायण एव कृष्णम् आविश्यास्मान् रक्षतीति विश्वस्ता गोपाः प्रार्थयन्ते—कृष्णेति । देवाद् इन्द्रात् ॥१३॥
॥ १०.२५.१४ ॥
शिला-वर्षातिवातेन हन्यमानम् अचेतनम् ।
निरीक्ष्य भगवान् मेने कुपितेन्द्र-कृतं हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञापनात् पूर्वम् एव कुपितेनेन्द्रेण कृतं तद् वर्षं मेने ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोप-विज्ञापनात् पूर्वम् एव तद्-वर्षम् इन्द्र-कृतं मेने नित्य-भगवत्-पार्षदानाम् अप्य् एतादृश-कष्टं लीला-शक्त्या प्रेमानन्द-रसस्योत्कर्षेणास्वादनार्थम् उपस्थापितं लोभवतां बुभुक्षूणां क्षुत्-कष्टम् इव सुखिदर्कत्वात् सुखात्मकम् एवेति ज्ञेयम् । अचेतनं निःसंज्ञम् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अचेतनं मूर्छित-प्रायं यथा स्यात् तथा हन्यमान्यनं निरीक्ष्य साक्षाद् दृष्ट्वा । मेने ज्ञातवान्, यतो भगवान् सर्वज्ञः । हरिः सर्व-दुःख-दोष-हर्तेति वक्ष्यमाण-गोवर्धन-धारणेन गोकुल-दुःख-हरणं शत्रु-दर्प-हरणं च सूचितम् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिला-वर्ष-युक्तेनातिवातेन । पाठान्तरे शिला-वर्षस्य निपातेन हन्यमानम्, अत एव अचेतनं मूर्छित-प्रायं गोकुलम् इति । प्रकरणात् कृतम् कृतिम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुपितेनेन्द्रेण कृतं तद् वर्षं विज्ञापनात् पूर्वम् एव मेने भगवन्-नित्य-पार्षदानाम् अपि तत्-तत्-कष्टं लीला-शक्त्यैव प्रेमानन्द-रसस्योत्कर्षेणास्वादनार्थम् उपस्थापितं लोभवतां बुभुक्षूणां क्षुत्-कष्टम् इव सुखोदर्कत्वात् सुखात्मकम् एवेति ज्ञेयम् ॥१४॥
॥ १०.२५.१५ ॥
अपर्त्व् अत्य्-उल्बणं वर्षम् अतिवातं शिला-मयम् ।
स्व-यागे विहते\ऽस्माभिर् इन्द्रो नाशाय वर्षति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं मेने तद् आह—अपर्त्व् इति । अपगत ऋतुर् यस्य तद् वर्षम् । अतिशयितो वातो यस्मिंस् तद् अतिवातम् । शिला-मयं शिला-प्रचुरम् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र वर्षणे । तेन प्रतीकारेण । लोकेश-मानिनां लोकेशा वयम् इत्य् अभिमानवताम् । तमः अज्ञानम् । अभिप्रैति अभिप्राय-विषयं करोति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चात् क्रोधावेशेन स्वस्मिन् स्वयम् एव । किं वा, श्वासनार्थं गोपान् प्रत्य् उवाच—अपत्व् इत्य्-आदि-चतुर्भिर् इति ज्ञेयम् । इत्य् उक्त्वेत्य् अग्रे वक्ष्यमाणत्वत् । अस्माभिर् इति बहुत्वं श्री-नन्दाद्य्-अपेक्षया शत्रु-मद-भञ्जनार्थं निज-प्रौढता-प्रकटनेन वा । नाशाय गोष्ठस्य । तत्त्वतस् तु निज-मदस्यैव ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पश्चात् क्रोधावेशेन स्व-गतम् उवाचेत्य् आह—अपर्त्व् इत्य्-आदि-पञ्चकेन । इत्य् उक्त्वेति परेणान्वयात् पृथक् तु व्याख्यायते । वर्षं वर्षतीति तपस् तप्यत इतिवद् वर्षं करोतीत्य् अर्थः । अस्माभिर् इति बहुत्वं श्री-नन्दाद्य्-अपेक्षया शक्र-मद-भञ्जनार्थं निज-प्रौढि-प्रकटनेन वा नाशाय गोष्ठस्य, तत्त्वतस् तु निज-मदस्यैव ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुपितेन्द्र-कृतं मत्वा स्वगतम् उवाच—अपर्त्व् इति पञ्चकम् । भगवान् एवेत्य् आह—अपगत ऋतुर् यस्य तद् वर्षं शिलामयं शिला-प्रचुरं ॥१५॥
॥ १०.२५.१६ ॥
तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधये ।
लोकेश-मानिनां मौढ्याद् धरिष्ये1 श्री-मदं तमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रतिज्ञा-पूर्वकं गोवर्धनोद्धरणम् आह—तत्रेति । तत्र प्रतिविधिं प्रतीकारं स्व-सामर्थ्येन साधयिष्यामि । तेन च मौढ्याल् लोकेश-मानिनां श्री-मद-लक्षणं तमो हरिष्यामि । बहु-वचनेन वरुणादीनाम् अभिप्रैति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र वर्षणे । तेन प्रतीकारेण । लोकेश-मानिनां लोकेशा वयम् इत्य् अभिमानवताम् । तमः अज्ञानम् । अभिप्रैति अभिप्राय-विषयं करोति ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असतां श्री-मदेन दुश्चेष्टितानाम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्री-मदं हरिष्य इत्य् अत्र हेतुम् आह—हि यतः सुराणां ईशोऽहम् इति विशेषेण स्मयो गर्वो नोपकल्पते योग्यो न भवति, यतः सद्-भाव-युक्तानाम् । अतः श्रीमदेनासताम् अपि तेषां हितम् एव करिष्यामीत्य् आह—मत्त इति । प्रशमाय प्रकृष्टः शमः शान्तिः सुखं वा । किं वा, शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति श्री-भगवद्-उक्त्या तन्-निष्ठता-बुद्धिता तस्मै भवति । असताम् इति शक्र-दुश्चेष्टिताभिप्रायेण ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असतां श्री-मदेन दुश्चेष्टितानाम् । अन्यत् तैः ।
यद् वा, श्री-मदं हरिष्य इत्य् अत्र हेतुम् आह—हि यतः सुराणां ईशोऽहम् इति विशेषेण स्मयो गर्वो नोपकल्पते योग्यो न भवति, यतः सद्-भाव-युक्तानाम् । अतः श्रीमदेनासताम् अपि तेषां हितम् एव करिष्यामीत्य् आह—मत्त इति । नान्यतः मद्-ऐश्वर्य-स्फूर्ताव् एव तादृश-योग्यत्वाद् इति भावः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्म-योगेन योगमायाख्यया स्वाभाविक-शक्त्येत्य् अर्थः । लोकेश-मानिनाम् इति बहुत्वं तद्-दण्डेनान्येषाम् अपि शिक्षाभिप्रायेण मत्त एव नान्यतः ॥१६.१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :**प्रतिविधिं प्रतीकारम् आत्मनो योगेन योग-मायया लोकेश-मानिनां श्री-मद-लक्षणं तमो हरिष्यामि । बहु-वचनं वरुणादीन् अप्य् अभिप्रैति ॥१६॥
॥ १०.२५.१७ ॥
न हि सद्-भाव-युक्तानां सुराणाम् ईश-विस्मयः ।
मत्तो\ऽसतां मान-भङ्गः प्रशमायोपकल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु देवाः सात्त्विकास् त्वद्-भक्ताश् च कुतस् तेषां तमः ? तत्राह—न हीति । सद्-भावः सत्त्वं मद्-भक्तिर् वा तद्-युक्तानां सुराणाम् ईशा वयम् इति विस्मयो गर्वो हि यस्मान् न घटतेऽतोऽसन्तस् ते । किं च, तेषां मान-भङ्गोऽनुग्रह एवेत्य् आह—मत्त इति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपा आशङ्कन्ते—नन्व् इति । असत्सु दण्डम् आह—किं चेति । तेषाम् असतां त्यक्त-सत्त्व-स्वभावानां मत्तः मत्-सकाशात् प्रशमाय गर्वाभावाय ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असतां श्रीमदेन दुश्चेष्टितानाम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्री-मदं हरिष्य इत्य् अत्र हेतुम् आह—हि यतः सुराणाम् ईशो\ऽहम् इति विशेषेण स्मयो गर्वः, नोपकल्पते योग्यो न भवति, यतः सद्-भाव-युक्तानाम् । अतः श्री-मदेनासताम् अपि तेषां हितम् एव करिष्यामीत्य् आह—मत्त इति । प्रशमाय प्रकृष्टः शमः शान्तिः सुखं वा । किम् वा, शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति श्री-भगवद्-उक्त्या तन्-निष्ठ-बुद्धिता तस्मै भवति । असताम् इति शक्र-दुश्चेष्टिताभिप्रायेण ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असतां श्री-मदेन दुश्चेष्टितानाम् । अन्यत् तैः ।
यद् वा, श्री-मदं हरिष्य इत्य् अत्र हेतुम् आह—हि यतः सुराणां ईशोऽहम् इति विशेषेण स्मयो गर्वो नोपकल्पते योग्यो न भवति यतः सद्-भाव-युक्तानाम् । अतः श्रीमदेनासताम् अपि तेषां हितम् एव करिष्यामीत्य् आह—मत्त इति । नान्यतः मद्-ऐश्वर्य-स्फूर्ताव् एव तादृश-योग्यत्वाद् इति भावः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न चैवम् इन्द्रायातिक्षुद्राय अतिक्षोदीयसेऽहं स्पर्धे, किन्तु तस्य मद्-भक्तस्योद्भूतं दोषं कृपयैव चिकित्सन्न् अस्मीत्य् आह—न हीति । सद्-भावः सत्त्वं मद्-भक्तिर् वा तद्-युक्तानां सुराणाम् ईशा वयम् इति विशिष्टः स्मयो गर्वो हि यस्मान् न घटते, तस्मात् सम्प्रति असन्-मार्गे स्थितत्वाद् असतां तेषां मानस्यादरस्य भङ्ग एव प्रशमाय गर्व-रोगस्योपशान्त्यै ॥१७॥
**॥ १०.२५।**१८ ॥
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सो \ऽयं मे व्रत आहितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपाये रक्षिष्यामि । किं च, सोऽयं मे मया व्रतो नियमः सङ्कल्पो वा आहितो धृत इत्य् अर्थः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मात् गोष्ठं मच्-छरणं तस्मात् गोपाय इति । आत्मनेपदम् आर्षम् । अहं शरणं रक्षिता यस्य तत् तथा । मां नाथते, कृष्ण कृष्ण महा-भाग [भा।पु। १०.१७.२३] इत्य् एवं प्रार्थयते । रक्षार्थम् इति मन्-नाथं, नाथ् याच्ञादिषु । अहं परिग्रहो मूलं यस्य तत् तथा । पत्नी-स्वीकार-शपथ-मूलेष्व् अपि परिग्रहः इति यादवः । यद् वा,
महिषी च सुतो भ्राता मातुलः श्यालकस् तथा ।
मन्त्री दूतश् च सेना च सर्व एते परिग्रहाः ॥ इति वररुचि-कोषात् ।
मम परिग्रहा मत्-परिग्रह इति तत्पुरुषो वा । अत्र प्रकृतेर् विकृतेर् वापि ह्य् एकदा प्रतिपादने प्रकृतेर् वाचकः सङ्ख्यां गृह्णाति विकृतेर् न तु इति न्यायस्यानियतत्वम् बोध्यते । रक्षणे निज-दार्ढ्यम् आह—किं चेति । सोऽयं व्रज-रक्षण-रूपः । नियमः अपरित्याज्य-धर्मः । नियमत्वे प्राग्-वर्ष-पीडा कुतो न वारितेत्य् आशङ्का-सम्भवाद् आह—संकल्पो वेति । इदानीम् एव सङ्कल्पितः । इत्य् अर्थ इति । धारितो न तु स्थापित इति । आदधातेः स्थापनार्थत्वस्याधानादि-पदे प्रसिद्धत्वाद् इति भावः । यद् वा, स मद्-बुद्धि-स्थः । अयं प्रत्यक्ष-भूतो गोवर्धन एव मे व्रतो जय-स्थम्भ आहितः स्थापित इत्य् अर्थः । सङ्कल्पे विजय-स्तम्भे नियमे च व्रतः स्मृतः इति धरणिः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहम् एव शरणं रक्षिता यस्य तत्, यतो\ऽहम् एव नाथ ईश्वरो यस्य तत्, अन्यथा ममैवैश्वर्य-हानिः । किं च, मम परिग्रहं कुटुम्बम्, अतो\ऽकृत्येनापि रक्ष्यम् इत्य् अर्थः । यद् वा, मम शरणम् आश्रयम्, मम नाथं परिपालकम् । कुतः ? अहम् एव परिग्रहो न पुत्र-दारादि-सर्वं यस्य तत्, मद्-एक-प्रियम् इत्य् अर्थः । स्वेषु निमित्तेषु । यद् वा, सुशोभनैश्वर्य-विशेष-संवलित-लौकिक-लीलामयो य आत्म-योगो निज-शक्ति-विशेषः, तेन रक्षामि ।
ननु तेनात्रैश्वर्य-विशेष-प्रकटः स्यात् ? तत्राह—सो\ऽयम् इति । अन्यथा सकृद् एव प्रपन्नो यः इत्य्-आदि-व्रत-भङ्गापत्तिः । यद् वा, व्रतः प्रतिज्ञा मे मया आहितो दृढं धृत इत्य् अर्थः । एतच् च गोपादीनाम् आश्वासनार्थं महा-वीर-दर्पोद्घाटनं ज्ञेयम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्मान् ममात्म-निर्विशेषत्वेनास्मच्-छब्द-क्रोडी-कृतानां मत्-पित्र्-आदि-गोष्ठ-वासिनां नाशायेन्द्रो वर्षति । तत्र च प्रतिविधिं सम्प्रत्य् एव साधयिष्यामि । तत्र चानुषङ्गितया लोकेश-मात्राणां तमो हरिष्ये । तच् च युक्तं, तस्माद् अहम् एव तद् इदं गोष्ठं स्वात्म-योगेन असाधारण-स्वाभाविक-प्रभावेन गोपाये, सम्प्रत्य् एव गोपयिष्यामि । न केवलं सम्प्रत्य् एव, किन्तु स पूर्व-पूर्व-सिद्धः । अयं गोष्ठस्य गोपन-रूपो मम व्रतो नियम एवाहितः सम्यक् धृतो विहित इत्य् अर्थः । कीदृशं गोष्ठं ? तत्राह—अहम् एव शरणं रक्षिता यस्य तत् । यतोऽहम् एव नाथ ईश्वरो यस्य तत् । किं च, मम परिग्रहं कुटुम्बम् अतोऽकृत्येनापि रक्ष्यम् इत्य् अर्थः—
वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्य-शतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ इतिवत् ।
यद् वा, मम शरणम् आश्रयं । मम नाथं परिपालकं । कुतः ? अहम् एव परिग्रहो धन-पुत्र-दारादि-सर्वं यस्य तत्, मद्-एक-प्रियम् इत्य् अर्थः । अतो गोपाये इति वर्तमान-प्रयोगेन स्वाभाविकत्वं व्यञ्जयति । अत आत्म-योगेनेत्य् उक्तम् । अतः सोऽनादि-सिद्धोऽयं सम्प्रत्य् अपि प्राप्त इति दर्शितम् । तत्र हेतुः—ये मम नित्य-नराकृति-लीलस्येश्वरस्येति व्रतः प्रतिज्ञा आहितः सर्वांशेन धृतः, तद् एवम् इन्द्रस्य मच्-छरणत्वादि-विरुद्ध-धर्मवन् मच्-छरणादि-रूप-गोष्ठ-वासिनां विरोधाय प्रवृत्तत्वान् मान-भङ्गोऽपि गोष्ठ-वाशि-गोपनाय योग्य इति विवक्षितम् ॥१८॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११६- मत्-परिग्रहम् इत्य् अनेन स्वस्मिंस् तत्-परिकरता । मच्-छरणम् इत्य्-आदि-क्रम-प्राप्त-बहुव्रीहिणा दर्शिता । सोऽयं मे व्रतः इत्य् अनेन स्वस्य तद्-गोपन-व्रतता च ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गोपाय इति वर्तमान-प्रयोगेन स्वाभाविकत्वं व्यञ्जयति ॥१८.२२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यतस् तत्-क्र्तम् इदम् अत्र सङ्कटम् उपस्थितं, तस्माद् गोपाये । मम शरणं गृह-रूपं, शरणं गृह-रक्षित्रोः इत्य् अनेकार्थ-वर्गः । गृहस्यास्याहम् एव नाथ इत्य् आह—मन्-नाथं मम परिग्रहाः पितृ-भ्रातृ-प्रेयस्य्-आदयो यत्र, तत् न केवलम् अस्माद् एव सङ्कटाद् गोपाये, अपि तु सर्वस्माद् अपि सङ्कटान् महा-प्रलय-कालाद् अपीत्य् आह—स प्रसिद्धोऽयं व्रतो नियमो मे मया आहितो गृहीतः ॥१८॥
॥ १०.२५.१९ ॥
इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।
दधार लीलया विष्णुश् छत्राकम् इव बालकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृत्वा उत्कृत्य । छत्राकम् उच्छिलीन्ध्रम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्कृत्य उद्धृत्य, कृती छेदने । शिलीन्ध्र कन्दली-पुष्पे करके ना झषान्तरे । द्रु-भेदे स्त्री तु विहगी-गण्डूपदीमृदोः ॥ इति मेदिनी । इति इत्थम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकेन वामेन, सव्येन पाणिना [ह।वं। २.१८.३१] इति हरिवंशोक्तेः, तथैव श्री-मूर्त्यादि-दर्शनाच् च, गोवर्धनं स्वनाम्नैव महाद्रि-वर्गेषु प्रसिद्धम् । यद् वा, गवां हित-कृत्येन विख्यातम्, न कथम् अपि कदापि चलतीत्य् अचलः, तं च तं च, लीलया अनायासेन । यद् वा, कटितटे दक्षिण-श्रीहस्त-न्यासादि-भङ्गी-विशेषेण दधार, यतो बालकः कलित-वाल्यः श्री-नन्द-कुमारो वा यो विष्णुः, स इति तद्धारणे\ऽपि बाल्य-लीलाद्य् अनतिक्रमः, तेन च बाल्य-लीला-विशेष एव दर्शितः । विश्वं व्याप्नोतीति विष्णुर् इति प्रयासो निरस्त एव । यद् वा, बालकः कश्चिद् यथा छत्राकम् इति तथापि स एवार्थः । तत्र च छत्राकम् इत्य् अनेन यथैक-हस्तेन छत्राकस्य मूल-दण्ड-धारणेन सर्वस्य धारणं स्यात्, तथा श्री-गोवर्धनस्य मूलैकभागाधारणेन सर्वस्यैव तस्य धाफ़्रणं वृत्तम् इति बोधम् । श्री-वैशम्पायनेन त्व् अभिप्रेतं जनैर् अलक्ष्यमाणेन वृहद् आकारेण सता तेनाय धृत इति, तथा च हरिवंशे—स धृतः सङ्गतो मेघैः [ह।वं। २.१८.३१] इति तथा आप्लुतो\ऽयं गिरिः पक्षैर् इति विद्याधरोरगा गन्धर्वाप्सरसश् चैव वाचो मुञ्चत सर्वशः ॥ [ह।वं। २.१८.३७] इति । अन्यथा सूक्ष्म-निजकरेण धारणे स्वल्प-मात्रोच्चाताप्राप्तौ तत् तद् उक्त्य-सङ्गतेः, तच् च श्री-गोवर्धन-शृङ्गाग्रैर् मेघवद्-गोघट्टन-क्रीडार्थम् एवेति ज्ञेयम् । एवं वाम-करेण लीलया तद् धारणम्, वस्तुतो निज-जीवनान् अपेक्षया तद् एक सुखापेक्षकाणां व्रज-जनानां तेषां स्वकीयाश्रमबोधनेन सुखार्थम् एव, अन्यथा तेषां सर्व-नाशतो\ऽपि महा-दुःखापत्तेः । यद् वा, गोवर्धनोच्चतयैव तथात्वम्, श्री-विग्रहस्य तु न बृहत्त्वम् एवम् अन्यच् च तस्य सर्वम् एवोह्यम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् उक्त्वेति । महा-मेघारम्भाद् एव गोवर्धन-निकटे सर्वेषाम् आनयनम् अवगम्यते एकेन वामेन सव्येन पाणिनेति हरि-वंशोक्तेः कृत्वा छित्वेति मूलतोर्ध्वतश् च ज्ञेयं मानस-गङ्गाया उत्तरतो विच्छिन्नत्वात् तेषां संरक्षणार्थाय धृतो गिरिवरो मया सोऽन्नकूट इति ख्यातः सर्वतः शक्र-पूजितः इति वाराह-प्रसिद्धस्य तस्य भागस्याद्य् अपि पृथक् प्रसिद्धेः न कथम् अपि कदाचिद् अपि चलतीत्य् अचलदश्लेषः लीलया अनायासेन—यद् वा, कटितटे दक्षिण-श्री-हस्त-न्यासादि-भङ्गी-विशेषेण दधार तथैव प्राचीन-श्री-मूर्ति-दर्शनात् यतो बालकश् छत्रकम् इव बाल्य-लीलान् अतिक्रमेणैवेत्य् अर्थः । एवम् अमनायासोऽपि दर्शितः
ननु, बाल-मूर्तेस् तद् धारणादि-संनिवेशः कथं घटते ? तत्राह—विष्णुः अचिन्त्य-शक्त्यः तत् तद् रूपत्वेऽपि विभुः कृष्ण इति पाठेऽपि स एवार्थः तथैव हि सहस्र-नाम-स्तोत्रे अनिर्देश्य-वपुः श्रीमान् अमेवात्मा महाद्रिधृक् इति । अतो यथेछम् एव पर्वतादीनाम् उच्च-पदादि-स्थितिर् जातेत्य् अर्थः । श्री-वैशम्पायनोक्तिर् अपि घटते, स धृतः सङ्गतो मेघैः इति । तथा,
आप्लुतोऽयं गिरिः पक्षैर् इति विद्याधरोरगाः ।
गर्धर्वाप्सरसश् चैव वाचो मुञ्चन्त सर्वशः ॥ इति ।
तच् च श्री-गोवर्धन-शृङ्गा-गैर् मेघ-वर्गोद्घट्टन-क्रीडार्थम् एवेति ज्ञेयम् तत्र व्रज-कर्तृक-दर्शन-सौकर्याय श्री-कृष्ण-कर्तृक-धारण-सौकर्याय शोभा-विशेषाय चेदं कल्पते उत्थापन-समये लीला-शक्त्यानुकूल्येन पर्वत-मध्याधोभागात् विच्छिद्य कुट्टिमायमानो महा-शिला-समुच्चय एको मध्य-गर्ते स्थितः यं शिला-समुच्चयम् आरुह्यं यं निम्नं पर्वत-मध्य-देशं श्री-हस्तेन विष्टब्य च सुखं दधारेति अत्र गर्त-मध्ये बहिर् जल-पतनागमन-निवारणादि-समाधान-शतम् अपि लीला-शक्त्यानुकूल्येनैव ज्ञेयम् तथा च श्री-हरि-वंशे
स धृतः सङ्गतो मेघैर् गिरिः सव्येन पाणिना ।
गृह-भावं गतस् तत्र गृहाकारेण वर्चसा ॥
इति एव म्वाम-करेण लीलया तद् धारणं वस्तुतः निज-जीवनान् अपेक्षया तद् एक-सुखापेक्षकाणं व्रज जनानां तेषां स्वीयाश्रम-बोधनेन सुखार्थम् एव अन्यथा तेषां सर्व-नाशतोऽपि महा-दुःखापत्तेः एवम् अन्यच् च तस्य सर्वम् एवोह्यम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति स्व-गतम् उक्त्वा एकेन हस्तेनेति वामेनैव यद् उक्तं हरिवंशे—
स धृतः सङ्गतो मेघैर् गिरिः सव्येन पाणिना ।
ग्रह-भावं गतस् तत्र गृहाकारेण वर्चसा ॥ [ह।वं। २.१८.३१]
इति छत्राकं शिलीन्ध्रम् इव दधारेति दिधीर्षा-समये ग्योअमायांश-भूतया संहारिक्या शक्त्या तावत्य् अपि वृष्टिर् आकाश एव तथा सञ्जहे यथा स्व-गृहालिन्दाद् अतिवेगेन गोवर्धनम् उद्धर्तुम् अभिद्रुतवतो भगवत उष्णीषादि-वासांस्य् अपि नातिस्तिमितानीति ज्ञेयम् ॥१९॥
॥ १०.२५.२० ॥
अथाह भगवान् गोपान् हे \ऽम्ब तात व्रजौकसः ।
यथोपजोषं विशत गिरि-गर्तं स-गो-धनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथोपजोषं यथा-सुखम् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ पर्वत-धृतेर् अनु । हेऽम्बेति विकल्पेन प्रकृति-भावः ॥२०॥ [विश्वनाथ उद्धृतः]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ गोवर्धन-धारणानन्तरम् आहति—स्वस्य सम्यग् अप्रयास एव द्योतितः, अन्यथा सम्भाषणाशक्तेः । हे अन्वेति मातुर् आदौ सम्बोधनं स्नेह-विशेषात् । यद् वा, पुत्र-हेतुकेन्द्रक्रोध-वृष्टि-दृष्ट्या, तया वा पुत्र-दुःख-शङ्कया चिन्ता-दुःखाकुलायाः सान्त्वनार्थम् । ततश् च हे तातेति तस्य प्रवेशे सत्य् एव तस्याः प्रवेशात् । यद् वा, सर्व-गोष्टार्तिव्यग्रस्य तस्याश्वासनार्थम् । यद् वा, तयोः प्रवेशे सत्य् एव सर्वेषाम् अन्येषां प्रवेश-सिद्धेर् आदौ पृथक् तयोः सम्बोधनम् । हे व्रजौकसः ! इति यथा च श्री-हरिवशे तेनैवोक्तम्—
शैलोत्पाटनभूर् एषा महती निर्मिता या ।
त्रैलोक्यम् अप्य् उत्सहते रक्षितुं किं पुनर् व्रजम् ॥ [ह।वं। २.१८.५६] इति ।
गिरेर् गर्तं तन् मूलोत्पाटन-भू-भागम् । एव धनानि । यद् वा, गावो धनानि चान्यानि रत्न-स्वर्ण-रजतादि-द्रव्याणि तत् सहिताः, गो-शब्देन सर्व एव पशवो लक्ष्यन्ते ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे अम्बे मातुर् आदौ सम्बोधन स्नेह-विशेषेण पुत्र-हेतुकेन्द्र-क्रोध-वृष्टिदृष्ट्या तया वा पुत्र-दुःख-शङ्कया चिन्ता दुःखाकुलायाः सान्त्वनेच्छाया च । ततश् च हे तातेति स्नेहानुक्रमात् तस्य प्रवेशे सत्य् एव तस्याः प्रवेशाश् च उप-लक्षणञ्चैतत् श्री-रोहिण्यादीनां हे व्रजौकसो यथोपजोषम् इति यथा व्रजे वासस् तथैवात्रापि सम्पत्स्यत इति भावः ।
ननु, मध्ये योजन-विस्तारं तावद् विगुणमायतम् इति श्री-हरि-वंशे व्रज-विस्तारस्य वर्णितत्वात् कथं गोवर्धन-गर्ते व्रजो माति ? उच्छते, तस्याचिन्त्य-शक्त्या महत्त्वापत्तेर् इति तथा च हरि-वंशे तेनैवोक्तं
शैलोत्पाटन-भूरेषा महती निर्मिता मया ।
त्रैलोक्यम् अप्य् उत्सहते रक्षितुं किं पुनर् व्रजम् ॥ [ह।वं। २.१८.५६] इ इति ।
गिरेर् गर्तं तन् मूलोत्पाटन-भू-भागं गर्त एव समाह्वानं च वाताद्यावरणापेक्षया गावः पशव एव धनानि । यद् वा, गावो धनानि चान्यानि तत् सहिताः तद् एवं सर्व-व्रज-वासिनां तत् पश्चाद् एवावततत्वं तद् वचनस्य च सर्व-सुश्रवत्वं ध्वनितम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथोपजोषं यथा-सुखम् । ननु क्रोश-त्रय-मात्रस्य गोवर्धनस्य तले सर्व-व्रजस्थाः कथं मान्तु ? तत्रेदम् अवधेयम्—भगवत्-पाणि-स्पर्शानन्दाद् व लब्धाचिन्त्यौजसा श्री-गोवर्धनेन क्रुद्धेन्द्र-क्षिप्त-कुलिश-शत-घातम् अपि स्व-पृष्ठे कुसुम-हार-प्रहारम् इवानुभवता तथा सम्यग् अवबुध्यते यथा योजन-चतुष्टय-प्रमान-व्रज-नगर-स्थ-जनाः पशवश् च स्व-तल-यथावकाशम् एव निवासयामासिरे । अत एवोक्तं हरि-वंशे भगवता—
शैलोत्पाटेन भूर् एषा महती निर्मिता मया ।
त्रैलोक्यम् अप्य् उत्सहेत रक्षितुं किं पुनर् व्रजम् ॥ [ह।वं। २.१८.५६] इति ।
किं च, गोवर्धनोपरिष्टानां मृग-वराहादीनां पशूनां पक्षिणां च, स धृतः सङ्गतो मेघैः इति हरि-वंशोक्तेस् तन्-नितम्बारूढान् वर्षतो मेघान् आलक्ष्य तद् ऊर्ध्व-शृङ्गाण्य् आरोहतां न तिल-मात्रम् अपि कष्टम् अभूद् इति ज्ञेयम् इति विश्वनाथः ॥२०॥
॥ १०.२५.२१ ॥
न त्रास इह वः कार्यो मद्-धस्ताद्रि-निपातनात् ।
वात-वर्ष-भयेनालं तत्-त्राणं विहितं हि वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-व्रजाः शकट-मण्डल-सहिताः सोपजीविनो भृत्य-पुरोहितादि-सहिताः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु बालकस्य तव हस्तादयं कदाचिन् निपतेद् इति बिभीमः, तत्राह—नेति । मम हस्तादद्रेर् नितरां पातनम्, स्वार्थे इन् । यद् वा, इन्द्रादिना केनापि पातनं तस्मात् त्रासः, वो युष्माभिः । यद् वा, युष्माकं कार्यै कर्तुं न योग्यो भवति, अतो वात-वर्षाभ्यां भयेनालं प्रयोजनं नास्ति । यद् वा, हि यतो वात-वर्ष-भयेन हेतुना वो युष्माकं तत्त्राणं विहितं मया, वो युष्माभिर् एव, विहितम् इति वा गोवर्धनार्चनाद् इति भावः । यद् वा, युष्मत् पूजितेन परम-दयालुनानेन गिरिवर्येणेव, अन्यथा मया बालकेनास्य परम-गरिष्ठतरस्य धारणासम्भवात्, साक्षात् तद् अनुक्तिर् गौरवेण श्रद्धा-विशेषार्थम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मम हस्तात् अद्रेर् नतरां पातनं पतनं तदाशङ्क्य स्वऋथे निच् । यद् वा, इन्द्रादिना केनापि पातनं तस्मात् त्रासः मद् अनिष्ट शङ्का वो युष्माकं कार्यः कर्तुं योग्यो न भवति कृत्यानां कर्तरि वा [२.३.७१] इति षष्ठी—अतो वो युष्माकं वात-वर्षाभ्यां भयेनालं प्रयोजनं नास्ति हि यस्मात् तेनाद्रिधारणेन त्राणं विहितं मयेति शेषः । वो युष्माभिर् एव विहितम् इति वा श्री-गोवर्धनार्चनादिभिर् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-व्रजाः शकट-मण्डली-सहिताः ॥२१॥
॥ १०.२५.२२ ॥
तथा निर्विविशुर् गर्तं कृष्णाश्वासित-मानसः ।
यथावकाशं स-धनाः स-व्रजाः सोपजीविनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वान् स्वान् व्रजान् समायुज्येत्य् अत्र व्रज-चाब्दः शकट-व्यूहे व्याख्यात इति धेयम् । सव्रजा इत्य् अत्र ब्रीहि-तण्डुलाद्य् उपजीवनं सहिता वा ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेन प्रकारेण उक्ति-चातुर्येण साक्षात् वामकरे लीलया गिरि-धारणेन च कृत्वा, कृष्णेन सर्व-चित्ताकर्षणाद्-भुतानन्त-लीलेन भगवता आश्वासितानि विश्वासं नितानि सान्त्वितानि वा मानसानि येषां ते, ततः इति वा पाठः, तथापि स एवार्थः यथावकाशमसङ्कीर्णतयेत्य् अर्थः, श्री-गोवर्धनस्यैव योजनायत्वात् तद् अनुरूप-विस्ताराच् च, अधुना च कलि-काले श्री-भगवान् इव श्री-हरिदास-वर्यो\ऽयम् आच्छन्न-प्रायो\ऽभूद् इति बोद्धव्यम् । धनानि गावो\ऽन्यानि च विविध-द्रव्याणि तत् सहिताः, तद् गर्त च पार्श्वतो वृष्टिच्छटया गिरिम् ऊर्द्धतो निपतनेन च जनानां प्रवेशो भगवद् इच्छया श्री-गोवर्धनस्यैव सन्निवेश-विशेष-सम्पत्तेर् नाभूद् इति ज्ञेयम्, तथा च श्री-हरिवंशे—
स धृतः सङ्गतो मेघैर् गिरिः सव्येन पाणिना ।
गृह-भावं गतस् तत्र गृहाकारेण वर्चसा ॥ [ह।वं। २.१८.२१]
इति वस्तुतस् तु यथा तद् गर्तान्तरनन्तानां सर्वेषाम् एव व्रज-वासिनां सपरिच्छद-परिवाराणाम् असङ्कीर्णतया सुख-निवासः, यथा चैकेनैव श्री-हस्तेन कदाचित् तद् एकाङ्गुल्या च शिलैक भागधारणेन पृथक् पृथक् शिला-समुच्चय-बद्धमूलस्य गिरिवरस्य सर्वस्य धारणम्, तथा तत्र जलवाताप्रवेशादिकं च श्री-भगवच् छक्ति-विशेषेणैव ज्ञेयम् । एवम् ऐश्वर्यापि बाल्याव्यभिचारेण छत्रवद्-गोवर्धन-धारणादि-लौकिक-लीलया पूर्ववद् भगवत्ता-विशेष-प्रकटनम् एवोह्यम् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तेन प्रकारेण उक्ति-चातुर्येण साक्षाद् वाम-करे लीलया गिरि-धारणेन च कृत्वा कृष्णेन सर्व-चित्ताकर्षकाद्भुतानन्त-लीलेन भगवता आश्वासितानि सान्त्वितानि मानसानि येषां ते धनानि गावोऽन्यानि च विविध-द्रव्याणि तत् सहिताः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोपजीविनः भृत्य-पुरोहितादि सहिताः ॥२२॥
॥ १०.२५.२३ ॥
क्षुत्-तृड्-व्यथां सुखापेक्षां हित्वा तैर् व्रज-वासिभिः ।
वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पदात् स्थानात् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सुखस्य शयनासनादि-रूप-सुख-साधनस्योपेक्षां श्रद्धाम् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : षुत् तृङ्भ्यां या यथा ताम्, सुखं शयनासनादि तद् अपेक्षां च हित्वा तैर् गर्तान्तर्तिभिः । किं वा, तद् एक-जीवनैर् तद् वीक्षणैक-सुखैर् वा, व्रजवासिभिर् गोप-गोपी-गवादिभिः, विशेषेण महाविस्मय-परम-स्नेहादिना, ईक्ष्यमाण इति तत् त्यागे कारणं प्रयोजनं च । तस्य च तद् धारणे साहाय्यम् एव दर्शितम्, तथैव श्री-विष्णु-पुराणे\ऽपि—
कृष्णो\ऽपि तं दधारैवं शैलम् अत्यन्त-निश्चलम् ।
व्रजैकवासिभिर् हर्ष-विस्मिताक्षैर् निरीक्षितः ॥
गो-गोपी-जनैर् हृष्टैः प्रीति-विस्फारितेक्षणै ।
संस्तूयमान-चरितः कृष्णः शैलम् आधारयत् ॥ [वि।पु।५.११.२०-२१] इति ॥
पादाद् एकस्माद् अपि पादाक्रमण-स्थानान्न् आचलद् इति धारणे\ऽत्यन्तानायास उक्तः, तथा पादाब्जाद् इति लिलयैकेनैव पादेन भुवम् अवष्टभ्य दधारेत्य् अपि उक्तं स्यात् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्षुत् तृङ्भ्यां या व्यथा तां सुखं शयनाशनादि-तद् अपेक्षां च हित्वा विस्मृत्येत्य् अर्थः । तैः तद् ऐक-जीवनैः तद् वीक्षणैक-सुखैः व्रज-वासिभिर् गोप-गोपी-गवादिभिः विशेषेण महाविस्मय-परम-स्नेहादिना ईक्ष्यमाणः इति तत् त्यागे कारणं प्रयोजनं च क्त्वा-प्रत्यश् च वीक्षणारम्भ एव तद् अपगमात् तद् वीक्षणस्य च तद् धारणे साहाय्यम् एव दर्शितं तेन मुहुः स्फीतमनस्त्वात् तथैव विष्णु-पुराणेऽपि—
कृष्णो\ऽपि तं दधारैव शैलम् अत्यन्त-निश्चलम् ।
व्रजैक-वासिभिर् हर्ष-विस्मिताक्षैर् निरिक्षितः ॥
गोप-गोपी-जनैर् हृष्टैः प्रीति-विस्फारितेक्षणैः ।
संस्तूयमान-चरितः कृष्णः शैलम् अस्धरयत् ॥ [वि।पु। ५.११.२०-२१] इति ॥
यद् वा, हित्वेति कृष्ण-कर्तृकं ज्ञेयम् अनेन क्षणेन तमो\ऽपि तत्र नासीद् इति गम्यते पदाद् एकास्माद् अपि पदाक्रमण-स्थानान्न् आचलद् इति धारणेत्यन्तानायास उक्तः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हित्वा विस्मृत्य कृष्ण-योगानुभावं तत्-स्वभाविक-शक्ति-प्रभावं निशम्य निशाम्येति पाठः उभयथापि दृष्ट्वेत्य् अर्थः । स्वयम् एवोपारतम् इत्य्-आदि ज्ञापनात् ॥२३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षुत्तृड्व्यथां हित्वेति तन्निरन्तर दर्शनानन्दाद् एव । यद् उक्तं वैष्णवे,
व्रजैक-वासिभिर् हर्ष-विस्मिताक्षैर् निरीक्षितः ॥
गोप-गोपी-जनैर् हृष्टैः प्रीति-विस्फारितेक्षणैः ।
संस्तुयमान-चरितः कृष्णः शैलम् अधारयत् ॥ [वि।पु। ५.११.२०-२१] इति ॥
कृष्णो ऽत्र सर्वाभिमुखो बभूवेति बोध्यम् । अत्र श्री-कृष्ण-सौन्दर्य-लावण्य-पीयूष-पानेन व्रजौकसां प्रेयसी सौन्दर्यादि तत्-पानेन कृष्णस्य च क्षुधादि विगमो ऽभवद् इति । अत्र सप्ताह व्यापिन्या साम्वर्तक-मेघ-वृष्ट्यपि यन् माथुर-मण्डलं न ममज्ज, तत् खलु भगवच्-छक्त्यैव सद्यः पयः शोषणाद् इति ज्ञेयम्, तथा यष्टि-घटिकस्यैव कालस्य दिवसत्वात् घटीति-प्रसिद्धा घटिका-गणनेनैव व्रज-जनानां सप्त-दिवस-सञ्ज्ञानम् अभूद् इत्य् अपि ज्ञेयम् ॥२३॥
॥ १०.२५.२४ ॥
कृष्ण-योगानुभावं तं निशाम्येन्द्रोऽतिविस्मितः ।
निःस्तम्भो भ्रष्ट-सङ्कल्पः स्वान् मेघान् सन्न्यवारयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-योगस्यानुभावं प्रभावम् अनुभावः प्रभावे स्यान् निश्चये भाव-सूचके इति यादवः । तम् पर्वतधारण-गर्त-जलाप्रवेश-रूपम् । महा-पुरुषान् समीक्ष्यापि स्थाणुवत् प्रावण्यराहित्यं स्तम्भस्तद् रहितो निस्तम्भः । भ्रष्टोऽधोगतः व्रज-नाश-रूपः सङ्कल्पो मनोरथो यस्य सः । न्यवारयद् इति । न जानेऽद्य मह्यं कृष्णः कं दण्डं दास्यतीति भयात् ॥२४.२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य नराकृति-परब्रह्मणो व्रज-वीरस्य वा योगः शक्ति-विशेषो वृष्टि-निवारणोपायो वा, तस्यानुभावं महात्म्यम् । यद् वा, योगेन यो\ऽनुभावः प्रभावरतं निशम्य दूतादि-मुखेन श्रुत्वेति व्रजम् अनुव्रज इत्य् उक्त्वापि पश्चान् महामदेनावेक्षया स्वयम् अनागमनात्, यद् वा, तत्रागतो\ऽपि दुर्मदमत्ततया स्वयम् अबुध्यमानं मेघादीनां विज्ञापनाद् एव श्रुत्वा । यद् वा, निशम्य दृष्ट्वा, तथा च विश्वः—श्रुतौ दृष्टौ निशमनम् इति, निःस्तम्मो नष्ट-मदः । कुतः ? भग्न-संकल्पो गोष्ठ-जिथांसा-लक्षणो यस्य सः, स्वांश् च मरुद् गणान् । यद् वा, स्वीयान्, अनिवारणे तेषाम् अनिष्टापत्त्य्-आत्मनो\ऽप्य् अनिष्टापत्तेर् इति भावः । सम्यक्, भयेन पलायनार्थम् इवाकाश परित्याजनादि-पूर्वकं न्यवारयत् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णस्य योगः स्वाभाविक-शक्ति-विशेषः तस्यानुभावं प्रभावं निशम्य दृष्ट्वा तथा च विश्वः श्रुतौ दृष्टौ निशमनम् इति निस्तम्भो नष्ट-मदः कुतः भ्रष्टः अधोपगतः सङ्क्ल्पो गोष्ठ-जिघांसा-लक्षणो यस्य सः स्वान् मरुद्गनान् मेघांश् च अनिवारणे स्वानिष्ठापत्तेर् इति भावः । सं-शब्देन दूरतोऽपि स्थितिर् निवारिता ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निःस्तम्भो नष्टमदः न्यवाररदिति न जाने ऽद्य कृष्णो मह्यं कं दण्डं दास्यतीत्यतिभयात् ॥२४॥
॥ १०.२५.२५ ॥
खं व्यभ्रम् उदितादित्यं वात-वर्षं च दारुणम् ।
निशम्योपरतं गोपान् गोवर्धन-धरो \ऽब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एवोदितो दृष्टि-पथं गत आदित्यो यस्मिन् तत्, दारुणम् अत्य् उल्बणम्, उपरतं निवृत्तम्, निशम्य व्रज-वासि-वीक्षणेन तद्-धारण-सुखासक्त्या स्वतो ऽननुसन्धानात्, केवलं मुग्ध-गोपादि-मुखतः श्रुत्वा दृष्ट्वेति वा, गोवर्धनं धन्नेव गोआन् अव्रवीद् इति तदानीम् अप्य् अप्रयास एव सूचितः । ईदृशं सर्वं प्रेम-वेगेन श्री-भगवच् छ्रमादि-शङ्कया खिद्यमानस्य श्री-परीक्षितः समाश्वासनार्थं ज्ञेयम् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एवोदितः दृष्टि-पथं गत आदित्यो यस्मिन् तत् दारुणं भीषणम् उपरतं निवृत्तम् अत्र च निशाम्य दृष्ट्वेत्य् अर्थः । उपारतं वात-वर्षम् इति स्वयम् एव विज्ञापनात् दर्शनं च तिर्यक् कृत-हस्तेन गिरिं धृत्वेति ज्ञेयम् गोवर्धन-धर इति श्री-शुक-देवस्य सोत्साह-निज-स्फुर्तिमयं वाक्यम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निःस्तम्भो नष्ट-मदः न्यवारयद् इति न जानेऽद्य कृष्णो मह्यं कं दण्डं दास्यतीत्य् अतिभयात् ॥२५॥
॥ १०.२५.२६ ॥
निर्यात त्यजत त्रासं गोपाः स-स्त्री-धनार्भकाः ।
उपारतं वात-वर्षं व्युद-प्रायाश् च निम्नगाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्युद-प्राया विगतोदक-प्रायाः । स्वल्प-जला इत्य् अर्थः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रासम् उद्वेगम् । वातेन सहितं वर्षम् उपारतम् । उं शिवावतारं दुर्वाससं पाति रक्षत्य् अम्बरीष-प्रार्थनयेत्य् उपं सुदर्शनम् । स्पष्ट-मतेन्नवमस्कन्ध । तेनारतं दूरीभूतं सुदर्शनेन शोषितं वातवर्षमत एवाह—व्युद-प्राया इति । एतद् अपि गर्ग-संहितादौ स्पष्टम् । इत्य् अर्थ इति । नाम-मात्र-जला इति भावः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे गोप्या इति भवद्भिर् वृष्टितोऽधुना गवां रक्षा कृतेति श्लेषः । स्त्रीभिर् धनैर् गोभिर् गवादिभिर् वा सर्वैर् अर्भकैश् च सहिता निर्यात, नद्यश् च व्युद-प्राया महा-वृष्टि-विवृद्ध-जल-रहित-प्राया बभूवुः, अनेन स्थलानां प्रायो जल-प्लावापगमोऽपि ध्वनितः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे गोपाः ! इति भवद्भिर् वृष्टितोऽधुना गवां रक्षां कुतेति श्लेषः । झटिति निम्नगानां व्युद-प्रयत्वं च नाश्चर्यं वृष्टानां जलानां पतताम् एव श्री-भगवत् प्रताप-तपनेन प्रायो विलीनत्वात् अन्यथा प्रलयकरि-मेघैः सर्वाल्पावनं स्यात् धनानि गावो गवादीनि वा ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्युद-प्रायाः विगतोदक-प्राया अल्प-जला इत्य् अर्थः ॥२६॥
॥ १०.२५.२७ ॥
ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गो-धनम् ।
शकटोधोपकरणं स्त्री-बाल-स्थविराः शनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शकटोढोपकरणं शकटैर् ऊढम् उपकरणं यथा भवति तथा ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः भगवद् उक्त्य् उत्तरम् । ते गर्तस्थाः । ऊढं धृतम् उपकरणं जीवन-साधनं यथा स्यात् तथा । शकटाटोपकरणम् इति विजयध्वजः । तत्र शकटेष्व् अटं गतम् उपकरणम् । यद् वा, शकटेषु गमन-समये आटोपकरणं सम्भ्रम-विधि यथा स्यात्-तथेत्य् अर्थः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तस्मात् तद् वचनाद् एव, ते गर्तान्तर्वतिनः । यद् वा, गर्तान्तर् अपि श्री-भगवद् वीक्षणेन सुख-स्थिताः । यद् वा, सप्ताहम् एकत्र नैश्चिन्त्येन लब्ध-श्री-मुख-सन्दर्शनाः । उपकरणं धनादिकं स्त्र्यादयश् च शनैर् निययुः, तेषां स्वभावेन मन्द-गतित्वात् भूरुत्वेन पुनर् वृष्टि-शङ्कया वा । यद् वा, तत्-सह-चराणाम् इव वने गन्तुम् अशक्तानां तेषां तद् वीक्षण-त्याग-शक्तेः । यद् वा, गोपादयः सर्वेऽपि शनैर् एव निर्ययुः, तदानीन्तन-तच् छ्री-मुख-शोभा-विशेष-वीक्षणासक्तेः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तादृश-गिरि-धारण-तादृश-वचनानन्तरं ते इति तथा तथा भगवद् अङ्गीकारेण निर्जित-महेन्द्रास् तद् एक-जीवनश् च ये तादृशा इत्य् अर्थः । उपकरणं धनादिकं स्त्र्यादयश् च शनैर् निर्ययुः शैघ्र्येण सम्मर्दापत्तेः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शकटेष्व् आरूढान्य् उपकरणानि यत्र तद् यथा स्यात् तथा निर्जग्मुः ॥२७.२८॥
॥ १०.२५.२८ ॥
भगवान् अपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः ।
पश्यतां सर्वभूतानां स्थापयामास लीलया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपादयो निर्ययुः भगवान् अपि तं स्थापयामासेत्य् अपि शब्दार्थः तत्र स्व-स्थान इति । स्थानात्ययो निषिद्धः पूर्ववद् इति पर्वत वैपरीत्यादिकं निरस्तं प्रभुर् इति तत्र शक्ति-दर्शिता अत एव लीलया सर्वेषां मनोहारिण्या अनायास-चेष्टया अत एव विस्मयेनानन्देन च सर्व-भूतानां व्रज-स्थानां दिविष्ठानां च पश्यताम् इति सपम्यर्थ षष्ठी ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपादयो निर्ययुः, भगवान् अपि तं स्वस्थाने स्थापयामासेत्य् अपि-शब्दार्थः । पूर्ववद् यथायं पूर्वमासीत् तथैव पूर्वमासीत् तथैव लीलया स्थापयामास, न च बलेन प्रक्षेपणात्, पूर्व-स्थितशिलादि-सन्निवेशान् अतिक्रमेणेत्य् अर्थः, इति शक्ति-विशेषो दर्शितः, पश्यतां लीलया धारणात् यथा-पूर्वं लीलया स्थापनाच् च, परमाश्चर्येण निरीक्षमाणानां सताम् इति तत्र संशयो निरस्तः ।
ननु, गर्ते पुनः स्थापनेन महा-गरिष्ठतरस्य तस्यावश्यम् एव भूमौ किञ्चित् प्रवेश-हानिः स्याद् एव, तत्राह—प्रभुः, तस्य किम् अशक्यम् इत्य् अर्थः । तत्र प्रयोजन-विशेषम् अप्य् आह—भगवान्, व्रज-क्रीडा-विशेषेण निजाशेषैश्वर्य-प्रकटन-परः, पूर्ववत् तस्मिन् विचित्र-क्रीडार्थम् इति भावः, अन्यथा तत्-सुखासम्पत्तेः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपादयो निर्ययुः भगवान् अपि तं स्थापयामासेत्य् अपि शब्दार्थः तत्र स्व-स्थान इति । स्थानात्ययो निषिद्धः पूर्ववद् इति पर्वत वैपरीत्यादिकं निरस्तं प्रभुर् इति तत्र शक्ति-दर्शिता अत एव लीलया सर्वेषां मनोहारिण्या अनायास-चेष्टया अत एव विस्मयेनानन्देन च सर्व-भूतानां व्रज-स्थानां दिविष्ठानां च पश्यताम् इति सपम्यर्थ षष्ठी ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.२५.२९ ॥
तं प्रेमवेगान् निभृता व्रजौकसो
यथा समीयुः परिरम्भणादिभिः ।
गोप्यश् च सस्नेहम् अपूजयन् मुदा
दध्य्-अक्षताद्भिर् युयुजुः सदाशिषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निभृताः पूर्णाः यथा यथोचितं परिरम्भणादिभिः समीयुर् उपजग्मुः । सद्-आशिषः श्रेष्ठान् आशीर् वादान् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् श्री-कृष्णम् । प्रेम-वेगात् प्रेमोद्रेकात् । तं यथा यथोचितं गुरु-समलघु-वर्ग-भेदैः परिरम्भणादिभिस् समीयुर् मिलिताः । आदिपदात् शुभाशीर्वादम् अस्तकाघ्राण-चुम्बन-वाम-बाहु-सम्मर्दन-तद् अङ्गुलिस्फोट-स्तवन-श्रम-दुःखा-भाव-प्रश्नादयो गुरु-वर्गस्य, हास्य-परिहासादयः सम-वर्गस्य, पादपतनादयो लघु-वर्गस्य ज्ञेयाः गोप्यो वत्सलाश् चात्पुरोहितादयः दध्यादिभिर् मङ्गल-द्रव्यैर् अपूजयन् । तदाशिषस्तु दुष्टान्न् आशय शिष्टान् पालय पितरावानन्दय धनैश्वर्य-सम्पन्नो भवेत्य् आद्याः ॥२९॥ अत्र तोषीण्याम्
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना परम-हर्षेण श्री-भगवता सह सर्वेषां तत्रत्यानां समागमं वदन् प्रेमोद्रेकेण गायन्न् इवाह—तम् इति । गोष्ठ-रक्षार्थं धृत-गोवर्धनम् । यद् वा, प्रकटितैश्वर्यम् अपि व्रजौकसः सर्वे व्रज-वासिजना गोपा भृत्य-पुरोहितादयश् च परिरम्भणादिभिः समीयुः सङ्गता मिलितवन्त इत्य् अर्थः । तत्र हेतुः—प्रेम्णा वेग आवेग उद्रेको वा, श्री-भगवत् कीर्ति-विशेष-सम्पत्त्यादिना तत् कर्म-माधुर्येण वा तरमात्तेनेत्य् अर्थः, नितरां भृताः पूर्णा रक्षिता वा सन्तः । आदि-शब्देन शुभाशीर्वाद-श्रीमस्तकाघ्राण-चुम्बन-पाद-ग्रहण-वाम-बाहु-सम्मर्दन-तद् अङ्गुलि-स्फोटन-स्तवनाश्रम-दुःखप्रश्नादयः । यथा यथोचितम् इति, तत्र पुरोहिताः प्रायः शुभाशीर्वादादिभिः, वृद्धा मूर्धाघ्राणादिभिः, भृत्या बालकाश् च पाद-ग्रहणादिभिः, वयस्याश् च गोपाः परिरम्भण-बाहु-सम्मर्दनादिभिर् इति विवेचनीयम् । यद् वा, यथावत् साश्रुपुलक-पूर्वक-बाहु-प्रसारण-गाढ-ग्रहणायुक्त-प्रकारेणेत्य् अर्थः, तथापि यथोचितम् इति स्वतः सिद्धम् एव । यद् वा, यथा ते सर्व समीयुस् तथा गोप्यो\ऽपि समीयुः, जन-संसद्य् अपि प्रेमवशेन धैर्यहानेर् इति भावः । यद् वा, भाव-विशेष-युक्ता अपि तास् तथैव समीयुः, न च तदालिङ्गनादिना निजेच्छानु-रूपम् इत्य् अर्थः, तदानीं तत्र तस्यायोग्यत्वात्, इयं श्री-वादरायणेर् भाव-विशेषोदयोक्तिः, च इति पाठे अप्य् अर्थे चकारः, अन्यं च तासां कञ्चिद् विशेषम् आह । यद् वा, त्व् अर्थे चकारः पूर्वतो विशेषाय, तमेवाह—सस्नेहम् इति । स्नेहो\ऽत्र नवानुरागः, तेन सहितं यथा स्यात् । यद् वा, तैल-घृतादि तेन तद् गात्रमदन-पूर्वकम् इत्य् अर्थः, तत्र प्रेम-वेगाद् इति हेतुर् अनुवर्तत एव, सतीर् आशिषः दुष्टान् दमय, शिष्टान् पालय, सर्वैश्वर्य-सेवितो भव इति तान् आनन्दयेत्य् आद्या युयुजुश् च । तत्र हेतुः—मुदा प्रहर्ष-विशेषेण स्वयम् एव विचित्राशीर्वादोदयाद् इत्य् अर्थः । अथवा व्रजौकसो वृद्ध-तरुण-बाल-गोपाः पुरोहितादयश् च यथा यथावत् मूर्धाघ्राण-कण्ठ-ग्रहण-पाद-पतनादि-प्रकारेण समीयुः, गोप्यः श्री-भगवत् प्रियतमाः परिरम्भणादिभिः समीयुः, अर्थान् मनसैव, चकाराज् जरत्यश् च सस्नेहं यथा स्यात् । किं वा, स्नेहवन्तं तम् अपूजयन् सदाशिषश् च युयुजुर् इत्य् अर्थः । अन्यत् समानम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना परम-हर्षेण श्री-भ्सगवता सह सर्वेषां तत्रत्यानां समागमं वदन् प्रेमोद्रेकेण गायन् इवाह—तम् इति । गोष्ठ-रक्षार्थं धृत-गोवर्धनम् यद् वा, प्रकटितैश्वर्यम् अपि व्रजौकसः सर्वे व्रज-वासिजनाः परिरम्भणादिभिः समीयुः मिलितवन्तः तत्र हेतुः प्रेम्नो वेगः स्व-निमित्त-प्रयासेन उद्रेकस् तस्मात् तेनेत्य् अर्थः । आदि-शब्देन शुभाशीर्वाद-श्रीमस्तकाघ्राण-चुम्बन-पाद-ग्रहण-वाम-बाहु-सम्मर्दन-तद् अङ्गुलि-स्फोटन-स्तवन-श्रम-दुःखाभाव-प्रश्नादयः यथा यथोचितं गुरु-सम-लघु-वर्ग-भेदैः सस्नेहं यथा स्यात् तं वा सस्नेहं आशिषः दुष्टान् दमय शिष्ठान् पालय सर्वैश्वर्य-सेवितो भव निज-जनानानन्दयेत्याद्याः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निभृताः पूर्णाः यथा यथोचितं गुरु-सम लघु-वर्ग-भेदैः परिरम्भणादिभिः समीयुर् मिलितवन्तः, आदि-शब्दात् शुभाशीर्वाद-मस्तकाघ्राण-चुम्बन-वाम-बाहु-समर्दन-तद्-अङ्गुलि-स्फोटन-स्तवन-श्रम-दुःखाभाव-प्रश्नादयो गुरु-वर्गस्य हास्य-परिहासादयः सम-वर्गस्य पाद-पतन-पाद-संमर्दनादयो लघु-वर्गस्य ज्ञेयाः, गोप्यो वत्सलाः च-कारात् पुरोहित-पत्न्यः दध्य्-आदिभिर् मङ्गल-द्रव्यैः अपूजयन् संमानयामासुः शुभाशिषः, “दुष्टान् दमय, शिष्टान् पालय, पितराव् आनन्दय, धनैश्वर्य-सम्पन्नो भव” इत्य् आशिष्ये युयुजुर् योजयामासुः ॥२९॥
॥ १०.२५.३० ॥
यशोदा रोहिणी नन्दो रामश् च बलिनां वरः ।
कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्नेहेन कातरा आकुलान्तःकरणाः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोप-गोप्याद्य् अपेक्षया पश्चात् स्थितानां परम-स्निग्धानां मात्रादीनां सङ्गतिम् आह—यशोदेति, श्रीयशोदा-साहचर्येण श्री-नन्दस्यादर-विशेषेण वा, तस्मात् प्राक् श्री-रोहिण्य-निर्देशः । आशिषः—चिरं जीव, सदा सुखी भव, पूर्ण-मनो-रथो नित्य भा इत्य् आद्याः । बलिनां वर इति तस्यापि गोवर्धन-धारण-सामर्थ्यं सूचयति, शेष-रूपेण मूर्द्वैकदेशे हेलया पृथ्वी-धारणात्, तथापि मधुर-लीला-विशेषण गिरि-धरणं तेनापि दुष्करम् इति तत्र तस्यौदास्यात् । यद् वा, श्री-कृष्णैकयोग्य-मधुर-तरक्रीडा-विशेषे तस्मिन् स्वस्यायोग्यत्वमननात् । यद् वा, बलिनां वर इति निर्भर-गाढालिङ्गनम् अभिप्रैति, स्नेहकातर्येणैव सर्वत्र श्री-कृष्णाच्छायां सम्मत्या मौनम्, गोवर्धनोद्धरणादौ तत् कीर्यपेक्षया साहाय्यं चेति पूर्वं तन्नामाश्रवणम् इति ज्ञेयम् । यद् वा, स्नेहकारता इत्य् अतः प्राक् श्री-गोवर्धन-धारण-समये मातृभ्यां नवनीतादि-विचित्र-भोज्यपेय-समर्पणम्, पिताभ्रातृभ्यां च शिरसा श्री-गोवर्धनावष्टम्भनादिकं ज्ञेयम्,तथैव श्री-मूर्ति-दर्शनाद् इति दिक् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् वा, बलिनां वर इति निर्भर-गाढालिङ्गनम् अभिप्रैति स्नेहातिशयेन प्रभाव-ज्ञानेन च सर्वत्र श्री-कृष्णेच्छायां सम्मत्या मौनं गोवर्धनोद्धरणादौ तत् कीर्त्य् अपेक्षया चासाहाय्यम् इति पूर्वं तन् नामाश्रवणम् इति ज्ञेयम् आशिषः एवं चिरम् अस्मान् पालय सदा-सुखी भव नित्यं पूर्ण-मनो-रथ एधस्वेत्याद्याः स्नेहेन कातरा अधीराः सन्तः अत्र प्राचीन-श्री-गोवर्धन-धर-प्रतिकृतौ क्वचित् दृश्यते मातृभ्यां नवनीतादि-समर्पणं पिता-भ्रातृभ्यां च शिरसा श्री-गोवर्धनावष्टम्भनादिकम् इति तच् च स्नेह-कातरा इत्य् अनेन सूचितम् अवगम्यते ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निज-मात्रादीनां त्व् अतिविशेषम् आह—यशोदेति । रामश् चेति तस्यापि वात्सल्यवद् वर्गे निर्देशो ज्येष्ठत्वाद् एव नानुपपन्नः । ननु, परम-स्नेहवता तेन शेषाख्य-स्वांशेन पृथ्वीम् अपि दधता स्वानुजस्य गोवर्धन-धारणे कथं माहात्म्यं नाचरितम् । उच्यते, इन्द्रमख-भङ्ग-गोवर्धन-मख-प्रवर्तनयोर् मयैव कृतत्वाद् अहम् एव गोवर्धनं धृत्वा व्रजं रक्षिष्यामि “सो ऽयं मे व्रत आहितः” इति तदीय सङ्कल्पस्य तद्-अंशेन रामेणान्यथा कर्तुम् अनौचित्याद् अशक्यत्वाच् च तस्यैव सर्व-शक्ति-मत्त्वात् । तद्-इच्छयैव तद्-अंशेषु यथोपयोगि-तदीय-शक्त्य्-उदयच् चेत्य् अग्रिम-ग्रन्थेऽपि यथा-स्थानं सिद्धान्तयिष्यते इति । अत्र प्राचीन-श्री-गोवर्धन-धर-प्रतिकृतौ क्वचिद् दृश्यते, मातृभ्यां नवनीतादि-समर्पणं, पित्रा भ्रात्रा च शिरसा गोवर्धनावष्टम्भनादिकम् इति । तत्-स्नेहकातरा इत्य् अनेन सूचितम् अवगम्यत इति वैष्णव-तोषणी ॥३०॥
॥ १०.२५.३१ ॥
दिवि देव-गणाः सिद्धाः साध्या गन्धर्व-चारणाः ।
तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि पार्थिव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तुष्टाः गो-रक्षणाद् धर्षिताः । सर्वेषाम् अस्माकं हविर्-दान-साधनीभूत-गो-रक्षणेन हितम् आचरितं भगवतेति भावः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं व्रजौकसाम्, देवानाम् अपि प्रहर्षो जात इत्य् आह—दिवीति द्वाभ्याम् । ननु, इन्द्रस्य मद-भङ्ग-दुःखे\ऽपि तादृशे कमं ते तथा अकुर्वत ? तत्राह—तुष्टा दुर्मदेनाकृत्ये प्रवृत्तस्येन्द्रस्य मान-भङ्गेन श्री-कृष्णस्ह च मधुरतरक्रीडा-प्रदर्शनेन हर्षोदयाद् इत्य् अर्थः । हे पार्थिवेत्य् आश्चर्येण सम्बोधनम्, देवेन्द्रस्य दुःखे\ऽपि तेषां प्रहर्षात् । यद् वा, राज्ञो\ऽपेक्षया प्रजानां देशाधिकारिणो\ऽनपेक्षेव तेषां श्री-भगवद् अपेक्षया शक्रान् अपेक्षा युक्तैव, तच् च त्वया ज्ञयत एवेति भावः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं व्रजौकसां देवानाम् अपि प्रहर्षो जात इत्य् आह—दिवीति । द्वाभ्यां । नन्विन्द्रस्य मद् अभङ्ग-दुःखेऽपि तादृशे कथं ते तथाकुर्वत तत्राह—तुष्टाः दुर्देनाकृत्ये प्रवृत्तस्येन्द्रस्य मान-भङ्ग्गेन श्री-कृष्णस्य च मधुरतर-क्रीडा-प्रदर्शनेन हर्षोदयाद् इत्य् अर्थः । हे पार्थिव इत्य् आश्चर्येण सम्बोधनं देवेन्द्रस्य दुःखेऽपि तेषां प्रहर्षात् । यद् वा, राज्ञोऽपेक्षया प्रजानां देशधिकारिणेऽनपेक्षापत् तेषां श्री-भगवद् अपेक्षया शक्रान् अपेक्षा युक्तेव तच् च त्वया ज्ञायत एवेति भावः । मद-भङ्गेन त्विन्द्रस्यापि तत्र न क्रोध इति ज्ञेयम् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्रजौकसो यथ जहृषुस्तथा देवा अपीत्य् आह—दिवीति ॥३१॥
॥ १०.२५.३२ ॥
शङ्ख-दुन्दुभयो नेदुर् दिवि देव-प्रचोदिताः ।
जगुर् गन्धर्व-पतयस् तुम्बुरु-प्रमुखा नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोरक्षण-महोत्सवम् आह—शङ्खेति ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवैः प्रकर्षेण विचित्रोत्कृष्ट-प्रकारादिना चोदिटः वादिता इत्य् अर्थः । यद् वा, स्वयम् एव नृत्याचरणादिना प्रेरिता सन्तः, दिवीति पुनः पुनर् उक्तिः, इन्द्र-भयाभावेन दित्य् एव तेषां तत् तद् आचरणस्य किं वा, तेषां तदानीं व्रजागमनायोग्यतया भूमावनागमनस्य बोधनार्थम् । हे नृपेति—यथा राज्ञो महोत्सवे गायकादीनां मुख्या गानादिकं कुर्वन्ति तथेति भावः । यद् वा, प्रहर्षोद्रेकेण पुनः पुनः सम्बोधनम् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवैः प्रकर्षेण विचित्रतया वादिता इत्य् अर्थः । यद् वा, स्वयम् एव नृत्याचरणादिना प्रेरिता वादक-द्वऋआ प्रवर्तिताः सन्तः दिवीति पुनर् उक्तिः इन्द्र-भयाभावेन दिव्य् एव तेषां तत् तद् आचारणस्य बोधार्थं हे नृपेति प्रहर्षेण । यथा भवद् विधस्य राज्ञो महोत्सव इति वा ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शङ्खेति । अन्येषां देवानाम् अपि हर्ष-कौतुकं दर्शयति ॥३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
॥ १०.२५.३३ ॥
ततो \ऽनुरक्तैः पशुपैः परिश्रितो
राजन् स्व-गोष्ठं स-बलो \ऽव्रजद् धरिः ।
तथा-विधान्य् अस्य कृतानि गोपिका
गायन्त्य ईयुर् मुदिता हृदि-स्पृशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो गोवर्धन-स्थानात् । अस्य श्री-कृष्णस्य तथा-विधानि गोवर्धनोद्धरणा ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः देवकृतोत्सवोत्तरं वा एवं प्रेम्णा कृष्ण-कृत-गायन-स्नेहेन कृष्णस्य हृदिस्पृशः मनोहराः कामश्चाष्ट-गुणः स्त्रीणाम् इत्य् उक्तेः कामाधिक्यात् । यथा स्त्रीणाम् उपपतो प्रेमास्ति तत उपपतेः स्त्रीषुः किञ्चिन् न्युनोस्ति प्रायेणेत्य् अस्वारस्यादाह-यद् वेति । गोवर्धन-धृतौ श्रुतिः—
तम् अस्य राजा वरुणः स्वम् अश्विना
क्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षम् उत्तमम् अहर्विदं
व्रजं च विष्णुः सखिवां अपोर्णुते तेन ॥ [ऋ।वे। १.१५६.४]
अस्या अर्थः—अस्य विष्णोस् तं पवताथ कृतं स्वं स्वन सम्पादित क्रतुं वरुणोऽश्विनौ च सचन्त अन्वमोदन्त । मारुतस्य वायोर् अपि वेधसः स्रष्टुः । ततश् च स्व-मख-भङ्गे कृते इन्द्रे कुपिते विष्णुः कृष्ण उत्तमं श्रेष्ठं दक्षं वृष्टि-वारण-क्षमम् अहर्-विदं क्रतोर् लब्ध्वारं पर्वतं दाधार दधार । यतः सखिवान् व्रजाख्य-सखि-समुदायवान् । व्रजम् अपोर्णुते तेनाहर् विदा शैलेनाच्छादयतीत्य् अर्थः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव तस्य गोष्ठ-प्रवेशं पूर्ववद् गायन्न् इवाह—तत इति । परिश्रितो वृतः, यथो\ऽनुरक्तैः पशुपैश् च स्वभाव एव स्नेहार्द्रचित्तैर् इत्य् अर्थः । पशुपैर् इत्य् उपलक्षणम्, अन्यैश् च सर्वैर् व्रजवासिभिर् इति ज्ञेयम्, सव्रजाः सोपजीविनः [भा।पु।१०.२५.२२] इति भृत्य-पुरोहितादीनाम् अपि तद् गर्ते प्रवेशोक्तेः, तत्र च गोपानां मुख्यतया निर्देशो\ऽनुराग-विशेषेणावरणात् । हे राजन्न् इति प्रहर्षवेगेन विवशीभवन्तं श्री-परीक्षित-भवधापयति । यद् वा, राजमानः सर्वैर् एव तैर् अनुरागेण परिवेष्टितत्वात् । स व्रज-रक्षार्थं धृत-गोवर्धनः । यद् वा, सप्ताहम् एकत्र निरन्तरं श्री-गोपीसामासाद् इति-दुर्लभ-श्री-मुख-चन्द्रावलोकः, त्वत् प्राण-नाथ इति वा । सबलः स्नेहकातर्येण तेन परस्परं वा गृहीत-हस्त इत्य् अर्थः । गोष्टं निजवसति-स्थानम् अब्रजद् इति श्री-गोवर्धनोपान्ते श्री-राधा-कुण्डान्तिके वृत्तम्, गोष्ठं वृष्टि-भयेन व्रज-वासिभिर् गोवर्धनोद्धरणार्थं तन् मध्यप्रदेशागत-श्री-भगद् अन्तिकम् आगतैस् त्यक्तम्, पुनस् तदैव तैः सह गत इत्य् अर्थः । स्व-गोष्ठम् इति क्वचित् पाठः, ततश् च श्री-गोवर्धन-पूर्वदिग् भागवर्तमानान्यदीयवसतिं परित्यज्य श्री-नन्दस्य स्वकीय-वासम् एव प्रविवेशेत्य् अर्थः । ततश् च पशुपैः परिश्रित इति प्रहर्षोद्रेकेण सर्वेषाम् एव तेषां तेन सह तत्रैव गमनाद् इति ज्ञेयम् । हरिः शक्र-दुर्मद-गोष्टार्तिहरणात्, तत्-क्रीडया सर्व-मनोहरणाच् च । श्री-गोपीनां च सर्वतो\ऽधिकं सुखम् अजनीत्य् आह—तथेति । हृदिस्पृशः—श्री-कृष्णस्य सर्वेषाम् अपि वा चित्तम् आकर्षत इत्य् अर्थः । श्री-भगवन् माहात्म्य-विशेष-क्रीडा-माधुर्याधिक्य-दृष्ट्या प्रहर्षभरेण गानात्, तद् गानस्वभावाद् वा । अन्यै तैर् व्याख्यातम् । यद् वा, तथा-विधानि तादृशान्य् अनिर्वचनीय-माहात्म्यानीत्य् अर्थ कृतानि श्री-गोवर्धन-धारण-कर्माणि, बहुत्वं गौरवात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रहर्षेणैव तस्य गोष्ठ-प्रवेशं पूर्ववद् गायन्न् इवाह—तत इति । परितः श्रितः वृत्तः यतोऽनुरक्तैः सव्रज-रक्षार्थं धृत-गोवर्धनः स्व-गोष्ठम् इति क्वचित् पाथः मध्ये गोष्ठं श्री-नन्दस्य स्वीयावास-पर्यन्तं प्रविवेश इत्य् अर्थः । प्रहर्षोद्रेकेण सर्वेषाम् एव तेषां तेन सह तत्रैव गमनात् हरिः शक्र-दुर्मद-गोष्ठार्ति हरणात् तत् क्रीडया सर्व-मनो-हरणाच् च श्री-गोपीनां च सर्वतोऽधिकं सुख-जनी याह—तथेति । गायन्त्य इति, तत् क्षणम् एव गति-करण-शक्तिश् च दर्शिता ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् प्रेयसीनां तु सर्व-जनालाक्षितं दूरतः कटाक्षैर् एव मिलनं वृत्तं गृह-गमन-समये स-प्रेम-गानं चाह—ततो गोवर्धन-स्थानात् कृतानि चरित्राणि गायन्त्य इति तत् क्षण एव गीतकरणे सामर्थ्यं हृदि प्रेम्णा स्पृशन्तीति ता इति याः कृष्णं सदा ध्यायन्तीत्य् अर्थः । यद् वा, हृदि वक्षसि मनसि च स्पृशतीति हृदि-स्पृक् प्रेष्टस् तस्येति कृष्णस्य विशेषणम् ॥३३॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते दशम-स्कन्धे पञ्चविंशाध्यायस्य सारार्थदर्शिनी-टीका समाप्ता।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे गोवर्धन-धारणं इन्द्रस्तुतिर् नम पञ्चविंशोऽध्यायः ।
॥ १०.२५ ॥
(१०.२६)
-
हनिष्ये ↩︎