इन्द्र-मख-भङ्गः ।
॥ १०.२४.१ ॥
श्री-शुक उवाच—
भगवान् अपि तत्रैव बलदेवेन संयुतः ।
अपश्यन् निवसन् गोपान् इन्द्र-याग-कृतोद्यमान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्विंशे महेन्द्रस्य मखं व्यावर्त्य हेतुभिः ।
कृष्णः प्रवर्तयामास गोवर्धन-मखोत्सवम् ॥
भूसुराणां क्रिया-गर्वं निरस्य स्वः-सुरेऊ च ।
मघवन्-मद-भङ्गाय तन्-मखं समवारयत् ॥
ब्राह्मणाः कंसाद् भीताः स्वाश्रमस्था एव भगवन्तम् अभजन् । भगवान् अपि तत्रैव निवसन्न् इन्द्र-यागे कृत उद्यमो यैस् तान् गोपान् अपश्यद् इति सम्बन्धः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हेतुभिः हेतु-वाक्यैः रजसा चोदिता मेघ वर्षन्त्य् अम्बूनि इत्य्-आदि लक्षणैः ॥ निरस्य अपाकृत्य । तन्-मखं इन्द्र-यज्ञं ।
इन्द्र-याग-निवृत्त्या गोवर्धनोत्सवं श्रुति-विहितं प्रवर्तयितुं श्रुतिम् आह—आग्रावभिरहन्येभिरक्तुभिर् वरिष्टं वज्रम् आजिघर्ति असक्तुभिर् मायिनि शतं वा यस्य प्रचरन् स्वेदमेसं प्रवर्तयन्तो विवर्तयन्नह ॥ इति । अस्या अर्थः—यस्य वज्रिनः स्वेदमे वायुर् वेन्द्रो वान्तरिक्ष-स्थान इत्य् उक्तेर् अन्तरिक्षे शतं वा ततो\ऽधिकं वासं वर्तयन्तः संवर्तं प्रलयं कुर्वन्तः सांवर्तका नाम मेघाः प्रचरन् प्राचरन् सञ्चारं कृतवन्तः समायिनि माया-मनुष्ये श्री-कृष्णे वरिष्ठं श्रेष्ठतमं वज्रम् अशनिं तद्वतीं महा-वृष्टिम् आजिघर्ति क्षरति अक्तुभिः रात्रिभिः । सप्तभिर् इति पुराणतः सप्त-रात्रं वज्र-धारेण पर्जन्येन ववर्षेत्य् अर्थः ।
तत्र हेतुम् आह—आग्रावभिर् अहन्योभिर् इति । ग्रावभिर् समुदायिभिः ग्राव-समुदायः शिलोच्चयो लक्ष्यते तैः । अहन्य् एभिः अहः क्रतुम् अर्हन्तीत्य् अहन्यास् तैः पर्वते क्रतु-भाजि सतीत्य् अर्थः । मायी पुनः किं चकारेत्य् अत आह—विवर्तयन्न् अहेति च । अनन्तरं मायी अहाक्रतून् विवर्तयन् विपरीतं वर्तयन्न् आस्त इति शेषः । इन्द्र-यागार्थम् आहृतैः सम्भारैर् गिरि-यागं प्रवर्तयति मायिनि इन्द्रो महतीम् वृष्टिं चकारेत्य् अर्थः । अत्र दृष्टान्त उपरितो नेयः । यथास्माकं जाठराग्निः प्राण-सहायो जलं शोषयति तच् चास्माभिर् बल-साध्ये कर्मणि क्रियमाणे रोमकूप-द्वारा प्रस्वेद-रूपेण वमति, एवं वायु-सहायः सूर्यं भूम्य्-आदि-गत तोयं शोषयति तच् चेन्द्रेण बल-साध्ये निरन्तर-भ्रमि-रूपे कर्मणि प्रयुक्तः सन् किरण-द्वारा चर्म-कोश-रूपेषु मेघेषु वमति । ततस् तान् इन्द्रो भिन्दन् वृष्टिं प्रवर्तयतीत्य् अर्थः । स्वाश्रमास्थाः यज्ञ-शाला-स्थाः स्व-गृहस्था वा । तत्रैव गोकुले ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं गोपालन-प्रवृत्तिम् आरभ्य प्रायः षष्ठ-सप्तमाब्द-वयसि कृतां लीलाम् उक्त्वा, अधुनाष्टमारम्भे च तां चतुर्विंशाद्य्-अध्याय-चतुष्केण वदन्, तत्र च तत्-तद्-वयसि प्रायो मुख्य-मुख्य-लीलाया एव वर्णनाद् अत्रापि तथैवाह—भगवान् अपीत्य्-आदिना ।
व्रज एव नितराम् आसक्ति-पूर्वकं वसन्न् इति तस्य व्रजैक-क्रीडा-परता, तत्रत्यानां च परम-धन्यता पूर्ववत् सूचिता । अपि-शब्दः पूर्वोक्तापेक्षया, तद्-अर्थस् तैर् व्यञ्जित एव । यद् वा, विप्राः स्वस्थात् नाचलन्, भगवान् अपि तेषां सान्त्वनार्थं नाययौ, किन्तु व्रज एव निवसन् इत्य् अपि-शब्दार्थः । बलदेवेन संयुत इति न च तेषाम् आश्वासनार्थं तम् अपि प्रेषयामासेति भावः । भगवान् निज-कारुण्यादि-गुण-प्रकटनेन जगद्-धितार्थम् अवतीर्णोऽपीति तेषाम् अपि हित-सिद्ध-योग्यतोक्ता ।
यद् वा, अपि निश्चये । बलदेवेन सह तत्रैव निवसन्न् इत्य् अत्र हेतुः—भगवान् इति । तेन सहान्यत्र निजाशेषैश्वर्य-प्रकटनस्यानुपपत्तेर् असम्पत्तेश् चेत्य् अर्थः । तद् एव दर्शयंस् तत्-प्रसङ्गम् आरभते—इन्द्र-याग-कृतोद्यमानपश्यद् इति श्री-गोवर्धन-पूर्व-दिग्-वर्तीन्द्र-ध्वजाख्य-कुण्डे इन्द्र-ध्वजोत्थापनादिना गोपानाम् इन्द्र-पूजार्थं विविध-द्रव्याहरणाद्य्-उद्योगम् अद्राक्षीद् इत्य् अर्थः ।
यद्य् अपि प्रत्यब्दम् एव तेषाम् तद्-अर्थोद्यमस् तद्-यागश् च वृत्तोऽस्ति, भगवता च दृष्टोऽस्त्य् एव, तथाप्य् अपश्यद् इत्य् अधुना विशेषोक्तिः श्री-गोवर्धनोद्धरण-क्रीडाया इन्द्र-यज्ञ-मख-भञ्जन-लीलाया वा योग्य-कालापेक्षया पूर्वं तत्रौदासीन्यात् । एषा च क्रीडा वर्षान्ते शरदि प्रवृत्तायम् एव—
तं शरत्-कुसुमापीडाः परिवार्य प्रदक्षिणम् ।
गावो गिरि-वरं सर्वास् ततो यान्तु पुनर् व्रजम् ॥
प्राप्ता किलेयं हि गवां स्वादु-तोय-तृणैर् गुणैः ।
शरत् प्रमुदिता रम्या गत-मेघ-जलाशया ॥ [ह।वं। २.१६.१२-१३]
इत्य्-आदि श्री-हरि-वंशोक्तेः, अपर्त्व् अत्य्-उल्बणं वर्षम् [भा।पु। १०.२५.१५] इत्य् अत्रैव वक्ष्यमानाच् च ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं व्रज-कुमारीः प्रति याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः [१०.२२.२७] इति हेमन्त-गतया निजाङ्गीकृतास् तासु शरद्-रात्रिषु ताभिः सह श्री-भगवान् अरमत । ताः खलु शरद्-अन्तरा व्यवहित-शरत्-सम्बन्धिन्य एव सम्भवन्ति । तद्-रमणारम्भश् च शरत्-पूर्णिमायाम् एव निर्देक्ष्यते । सा च शरन्-मध्यस्थाश्विन-पूर्णिमैव सम्बद्ध्यते, कार्त्तिक-शुक्ल-प्रतिपद् इत्य् एषा गोवर्धन-पूजा । सा च रास-लीलायां व्रज-देवीभिर् अनुकृता गोवर्धन-पूजानन्तरम् एव वरुण-लोक-गमनं, ततः पूर्वां शरदम् एवारभ्यागामिनीं यावत् क्रमात् गोवर्धन-पूजा वरुण-लोक-गमन-वस्त्र-हरण-यज्ञपत्न्य्-उपचर्या-ग्रहण-रास-क्रीडा ज्ञेयाः । तत्र तत्-तद्-वर्ष-निर्णयः कंस-वधान्ते करिष्यते वैपरीत्योक्तिस् तु प्रेम-वैवश्यात् क्वचित् सजातीयत्वाच् च ।
अथ भगवान् अपि तत्रैवेत्य् अस्यायम् अर्थः—यत्र तद्-याग-योग्ये गोष्ठ-निकट एव स्थान-विशेषे सङ्गम्य निवसन्तो गोपाः कृतोद्यमा बभूवुः, भगवान् अपि तत्रैवबलदेवेन संयुतो निवसन् इन्द्र-याग-कृतोद्यमान् गोपान् अपश्यत् पश्यन्न् एवासीत् । तद्-द्रव्येण यागान्तर-साधनेच्छया, न तु प्रथमं किञ्चिद् उक्तवान् इत्य् अर्थः । यत् तु श्री-विष्णु-पुराणे—
विमलाम्बर-नक्षत्रे काले चाभ्यागते व्रजम् ।
ददर्शेन्द्रोत्सवारम्भः प्रवृत्तान् व्रज-वासिनः ॥ [वि।पु। ५.१०.२]
श्री-हरि-वंशे—
व्रजम् आजग्मतुस् तौ तु व्रजे शुश्रुवतुस् तदा ।
प्राप्तं शक्र-महं वीरौ गोपांश् चोत्सव-लालसान् ॥ [ह।वं। २.१७.२]
तत् खलु सामान्यतो दर्शनम् । अत्र तु विशेषत इति भेदः । एषा च क्रीडा कार्त्तिक-शुक्ल-प्रतिपदि कार्त्तिक-विधानस्य मध्य-देशीयानाम् आचारस्य च तत एव प्रवृत्तेः । अपर्त्व् अत्य्-उल्बणं वर्षम् [भा।पु। १०.२५.१५] इति वक्ष्यमानाच् च । तथा चोक्तं पाद्मे दीपान्वितामावस्या-कृत्यान्ते, प्रातर् गोवर्धनः पूज्यो रात्रौ द्यूतं प्रवर्तते इति तस्मात् श्री-हरि-वंशे वर्षा-शरत्-सन्धि-प्राय-वर्णनं समुद्र-तीरादिवन् मध्य-देशोऽपि तदानीं वर्षाणां बाहुल्येन, कदाचित् सर्वाश्विन-व्याप्त्य्-अपेक्षया ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् अपीति अत्रापि-शब्देन तत्रैव निवसन्न् इतीत्थं चैवं लभ्यते । एवं ते पत्नी-सम्बन्धेनातिविश्वस्ता असन्निहिता नाचलन् च-काराद् यत् किञ्चित् तत्-साम्मुख्येन यज्ञम् एव कुर्वन्तोऽतिष्ठन् । अथ किञ्चित्-कालान्तरे भगवान् अपि बलदेवेन संयुतस् तत्रैव निवसन् स्वयं यत्र निवसति तत्रापीत्य् अर्थः । इत्यभिलाषसमञ्जसत्वं कर्शितं तत्संवासमहेतुमेभ्यस्तेभ्य इन्द्रस्यातिक्षोदियस्त्वात् बलदेवेन संयुत इति स कदाचित् सोढुं शक्नोति । बलदेवस् तु तत्-परम-भक्तौ नैवेत्य् अर्थः । तस्य यज्ञस्य अभि सर्वतो-भावेन सिद्धान्तानुष्ठानादि-प्रकारेण जानातीति तद्-अभिज्ञस् तादृशोऽपि पूर्व-पूर्वम् अप्य् अयं जानात्य् एव । तथापि यत् पृच्छति तत् पुनर् इन्द्रं प्रत्य् अनादरेणैवेति गम्यते ॥१-४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
स्व-पित्रा सह संलप्य मखं व्याधूय वज्रिणः ।
चतुर्विंशे गिरीन्द्रस्य मखं प्रावर्तयद् धरिः ॥
गोष्ठस्यास्थान्यां निवसन् स्व-भ्रातृभिः सह नन्द इन्द्र-याग-सम्भार-सिद्ध्य्-अर्थं गोपान् उद्योजयामास भगवान् अपि तत्रैव निवसन् इन्द्र-याग-कृतोद्यमान् गोपान् अपश्यद् इति सम्बन्धः ॥१॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) :
चतुर्विंशे विनिद्र्धूय पूजाम् इन्द्रस्य हेतुभिः ।
प्रावर्तयत् स्व-भक्तस्य गिरिराजस्य तां हरिः ॥
सभायां भ्रात्रादिभिः सहोपविष्टो नन्द-राज इन्द्र-पूजा-सम्भार-सिद्धये गोपान् आदिशत् तत्रैव निवसन् भगवान् अपि गोपान् इन्द्र-यागोद्यतान् अपश्यत् ॥१॥
॥ १०.२४.२ ॥
तद्-अभिज्ञोऽपि भगवान् सर्वात्मना सर्व-दर्शनः ।
प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्द-पुरोगमान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-अभिज्ञः इन्द्र-यागार्थम् अयम् उद्यम इति जानन्न् अपि । तत्र हेतु-द्वयम्—सर्वात्मा सर्वान्तर्यामी, सर्व-दर्शनः सर्वज्ञः । दृशिर् अत्र ज्ञाने ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्योद्यमस्याभिज्ञो\ऽप्य् अपृच्छद् इति तेषाम् उत्तर-द्वारैव तद्-अनुरूप-परिहारार्थम् । तद्-अभिज्ञत्वे हेतुः—सर्वात्मा सर्व-व्यापकः । यद् वा, सर्वेषाम् आत्मा चेतयिता, अत एव सर्वं दर्शयतीति तथा सः, यतो भगवान् सर्वैश्वर्य-युक्तः । यद् वा, सर्वात्मेति-पद-द्वयेन तेषां तत्र प्रवृत्तौ हेतुर् उक्तः, तथाप्य् अपृच्छत्, यतो भगवान् विचित्र-लील इत्य् अर्थः । यद् वा, प्रश्ने हेतुः—सर्वस्यात्मा प्रवर्तक इति शक्र-याग-भङ्गेन श्री-गोवर्धन-याग-प्रवर्तनार्थम् ।
कुतः ? सर्वं श्री-गोवर्धनस्य हरि-दास-वर्यस्य सेवादिकं पश्यत्य् अनुभवतीति तथा सः । तद् अपि कुतः ? भगवान् भक्त-वात्सल्याद्य्-अशेष-सद्-गुण-युक्तः । यद् वा, निजाखिलैश्वर्य-विशेष-प्रकटन-पर इति हेत्व्-अन्तरम् । प्रश्रयावनतः सन्न् इति सर्व-सद्-गुण-निधित्वेन । यद् वा, वक्ष्यमाणार्थ-ग्रहणाय पूज्येषु प्रश्न-रीत्य्-अनुसार-चातुर्या निज-विज्ञता-बोधनार्थम् ।
वृद्धान् इति तेषाम् एव तद्-विज्ञानात्, तथा तेषां प्रबोधनेन सति सर्वेषाम् एव तत्-सम्पत्तेश् च। तत्र च नन्दः पुरोगमो मुख्यो येषाम् इति तस्य प्रबोधे सति स्वत एव वृद्धानां तत्-सिद्धेः । विशेषतश् च गूढो\ऽयम् अभिप्रायः—ततो\ऽयं सरल-स्वभावः परम-वत्सलो मत्-स्नेहाक्रान्त-चित्तो मद्-इच्छां कदापि नात्येष्यति । अन्ये चैते सर्वे तद्-अधीनाः, अतो\ऽमुं प्रत्य् एव प्राधान्येन प्रश्नो युक्त इति ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च तस्य पूर्व-पूर्व-दृष्टस्येन्द्र-मखस्य तथा श्री-व्रज-राजेन प्रत्य् उत्तरयिष्यमाणस्य तद्-अधिकस्य चार्थस्याभिज्ञोऽपि अपृच्छत् । तत्र च भगवान् अपि सर्व-सद्-गुण-निधित्वेन विनयावनम्र एव सन्न् अपृच्छत् । अभिज्ञने हेतुः—सर्वस्यात्मा परमात्मेति । प्रश्ने हेतुः—सर्वान् दर्शयति स्वार्थे प्रावर्तयतीति तथा सः । भवतु नाम पूर्वेषां मद्-व्यवहितानां मद्-बहिरङ्ग-देवता-पूजादिकं, किन्त्व् एषां मत्-सन्निहितानां मद्-अन्तरङ्ग-पूजैव मत्-सुखकरी मत्-पित्र्-आदीनां तु तद् भूरि भाग्यम् [१०.१४.३४] इत्य्-आदि-लक्षण-महा-महिमत्वाद् अतिक्षुद्रस्य तत्रापि महा-गर्वस्येन्द्रस्य पूजा मम दुःख-करीति सम्प्रति परमान्तरङ्ग-गोवर्धन-पूजा-प्रवर्तनेच्छयैव वृद्धेषु तत्रैव मुख्यतात्मीयतापेक्षया विशेषतः स्व-पितरि प्रश्न इति ज्ञेयः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-पूर्व-वर्ष-दृष्टत्वात् तस्याभिज्ञो\ऽपि । सर्वात्मेति यद्यप्य् अन्तर्यामि-स्वरूपेनेन्द्र-यागे स्वयम् एव प्रेरयति तद् अपि लीला-कौतुकार्थम् इत्य् अर्थः । सर्वम् इन्द्र-गर्व-खण्डन-सप्त-रात्र-पर्यन्त-प्रिय-जन-सहवास-विलासादिकम् उदर्कं पश्यतीति सः ॥२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तद्-अभिज्ञो\ऽपि पूर्व-पूर्व-वर्ष-दृष्टत्वाद् इन्द्र-पूजार्थको\ऽयम् उद्यम इति जानन्न् अपि । सर्वान्तर्यामि-वपुषा तत्र तेषां प्रवर्तको\ऽपि प्रश्रयेण विनयेनावनतः सन्न् अपृच्छत् । सर्वम् उदर्कम् इन्द्राभिमानापनयन-सप्त-रात्र-पर्यन्त-प्रिय-जन-सहवास-विलासादिकं पश्यतीति स भगवान् नित्य-सिद्ध-षड्-ऐश्वर्यस् तद्-अभिमानापनयादिषु समर्थः ॥२॥
॥ १०.२४.३ ॥
कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।
किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वृथा सम्भ्रमो न भवति मखोऽयम् इत्य् एवं चेत्, किम् अत्र फलम् ? का देवता? केनाधिकारिणा ? केन वा साधनेन साध्यते ? ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मे मह्यम् । सम्भ्रमः उद्यमः । कोऽयं किं-विषयः ? सम्भ्रम उद्यमेऽपि स्यान् मण्डलेन गतौ भये इति शाश्वतेः । किं-फलम् ? दृष्ट-फलम् अदृष्ट-फलं वा ? कस्य देवस्य चोद्देशः ? कां देवताम् अत्रोद्दिश्य द्रव्य-त्यागः ? मखः स्याद् दान-यागयोः इति हलायुधः । श्लेषेण सम्भ्रमः सम्यक् भ्रम एव वो युष्माकं मयि सर्वेश्वरे सति यद् इन्द्र-यागोद्योगः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव नन्द-पुरोगमान् इत्य् उक्ते\ऽपि, हे पितर् इति, मे मह्यं कथ्यताम् इति सर्वे\ऽन्ये जानन्ति, केवलं मयैव न ज्ञायत इति मां प्रत्य् एव कथ्यताम् इति भावः । एषां च पितृ-सन्तोषणार्था मौग्ध्य-लीला आवश्यक-तच्-छ्रवणाय ।
यद् वा, अन्यं प्रति कथिते तस्य तत्त्वाज्ञानान् न किम् अपि प्रयोजनम्, अतो मां प्रत्य् एव कथ्यताम् इतीन्द्र-मख-निरसनार्था स-गर्व-प्रौढोक्तिः ।
यद् वा, हे मत्-पितर् इति स-स्नेह-सम्बोधनम्, स-न्याय-यथार्थ-कथनाय । वः युष्माकं सर्वेषाम् एव, न तु केषाञ्चित् । तत्र च सम्भ्रमस् त्वरा-विशेषो वैयग्र्यं वा, श्लेषे सम्यग्-भ्रम एवेत्य् अर्थः । उपागतो दूरे स्थातुं योग्यो\ऽपि समीपं प्राप्त उपर्य्-आपतित इति वा । केनेति तृतीयान्त-पदेन कर्तृ-करणयोः प्रश्नः । अन्यत् तैर् व्यञ्जितम् ।
यद् वा, सम्भ्रम-रूपः को\ऽयं किं-नामा अयं मख उपगतः, तस्य च किं-फलम् इत्य्-आदिकं समानम् एव ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथ्यताम् इत्य् अर्धकम् । मे मह्यं कथ्यताम् इति सर्वेऽन्ये जानन्ति केवलं मयैव न ज्ञायत इति मां प्रत्य् एव कथ्यताम् इति भावः । एषा च पितृ-सन्तोषार्थ-मौग्ध्य-प्राय-लीलैव आवश्यक-तच्-छ्रवणाय वः युष्माकं सर्वेषाम् एव, न तु केषाञ्चित् । तत्र च सम्भ्रमः त्वरा-विशेषो वैयग्र्यं वा, श्लेषेण सम्यग्-भ्रम एवेत्य् अर्थः । उपागतः दूरे स्थातुं योग्योऽपि समीपं प्राप्तः, उपर्य् आपतित इति वा । केनेति तृतीयान्त-पदेन कर्तृ-करणयोः प्रश्नः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मखो भविष्यति तत्-सिद्ध्य्-अर्थम् अयं सम्भ्रम इति चेत्, किम् अत्र फलं ? कस्य चोद्देशः ? को देवो\ऽत्र पूज्यत्वेन निर्दिष्ट इत्य् अर्थः । केन कर्त्रा करणेन वा ? ॥३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सम्भ्रमो महोद्योगैः मखो भावी तत्-सिद्धये\ऽयं सम्भ्रम इति चेत् किम् अत्र फलं कस्य वोद्देशः को देवो\ऽत्र पूज्यत्वेनोद्दिष्ट इत्य् अर्थः । केन कर्त्रा करणेन वा साध्यते ? ॥३॥
॥ १०.२४.४-५ ॥
एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।
न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनाम् इह ॥
अस्त्य् अस्व-पर-दृष्टीनाम् अमित्रोदास्त-विद्विषाम् ।
उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृद् उच्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् ब्रूहि महान् कामो मम श्रवणे वर्तते । यद् वा, तव महान् कामो दृश्यत इति। तूष्णीं स्थितं प्रत्याह—नेति । सर्वात्मनां सर्वत्रात्म-दृष्टीनाम् ॥४॥
अत एव न विद्यते स्वः पर इति दृष्टिर् येषाम् इति स्व-पर-दृष्ट्य्-अभावाद् एव तत्-तद्-भेदा अमित्रादयोऽपि तेषां न सन्तीत्य् आह—अमित्रेति । न मित्रम् उदास्त उदासीनो विद्विड् येषां, तेषां कृत्यं सर्वं कर्म नैव गोपनीयं किञ्चिद् अस्तीत्य् अर्थः । सत्य् अपि भेद-दर्शने उदासीनः शत्रुवद् वर्ज्यः, आत्म-तुल्यत्वात् सुहृन्-मन्त्रेषु न वर्जनीय इत्य् आह—उदासीन इति ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् यद्-अर्थं सम्भ्रम इत्य् एतत् । ननु बालकस्य तव किम् एतत्-प्रश्नेन ? तत्राह—एतच्-छ्रवणे मे महत् कामो महत्य् आकाङ्क्षा । मद्-इच्छया न वदसि चेत् तर्हि स्वेच्छयैव वदेत्य् आह—यद् वेति । तवात्र महान् अभिलाषो निरीक्ष्यते । किम् इदम् इति उत्तरम् अददतं प्रत्याह—नेति । हि-द्वयं साधु-कृत्य सर्वथा प्राकट्यम् आह ॥४॥
अत एव सर्वात्मत्वाद् एव । तद्-भेदाः स्व-पर-दृष्टि-भेदाः । स्व-दृष्टि-भेदः शत्रुः । पर-दृष्टि-भेदो मित्रम् । उभय-दृष्टि-भेद उदासीनः । इत्य् अर्थ इति । गोप्य-करणे साधुत्वम् एव भज्येतेत्य् अर्थः । उपकर्ता मित्रम् । अपकर्ता शत्रुः । उभय-हीन उदासीनः । यद्यपि साधूनां वस्तुनो भेद-दर्शनं नास्ति, तथापि यथा-कथञ्चित् सत्य् अपि शत्रुर् यथापकारित्वेन वर्ज्यस् तथोदासीनो\ऽप्य् उपकारित्वाभावाद् वर्ज्य एव ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतद् ब्रुहीति पुनर्-उक्तिर् निज-शुश्रूषातिशय-बोधनाय । मह्यं माम् । यद् वा, मत्-प्रीत्य्-अर्थः । तत्र च शुश्रुषव इति शुश्रूषुं धर्मम् आब्रूयात् इति न्यायेन प्रत्य्-उत्तरावश्यकतोक्ता । यद् वा, ननु बालके त्वयि तत्-कथनेन किम् ? तत्राह—शुश्रूषवे, पुत्रस्येच्छावश्यं पूरयितुं युज्यत इति भावः । यद् वा, एषापि पूर्ववत् स-गर्वोक्तिर् एव । पितर् इति पुनः सम्बोधनं स्नेह-विशेष-जननाय, तद्-अभिप्रायश् च लिखित एव ॥४॥
ननु निज-कृत्यं नहि सर्वत्र प्रकाशयितुं युज्यते, तत्राह—नहीति सार्धेन । साधूनाम् इति तेषां विकर्म-स्वप्रवृत्त्या गोप्यत्वाभावात् साधूनाम् एव लक्षणं सर्वात्मनाम् इत्य्-आदि विशेषण-त्रयेण, अतस् तत् तल् लक्षणवद्भिर् भवद्भिर् न गोपयितुं युज्यत इति भावः । तत्रापि इह गोकुले सर्वेषाम् एवात्रत्यानां वैष्णव-प्रवरत्वेन खल-लोकाभावात् ।
यद् वा, ननु साधुभिर् अपि धर्मो गोप्य एव, तत्राह-सर्वात्मनां सर्वात्म-दृष्टीनाम् । तल् लक्षणम् एवाह—अस्वपरेत्यादि-विशेषण-द्वयेन
ननु निज-हितार्थं देवतार्थं देवताराधकानां कुतः सर्वात्मता युक्ता ? अतो\ऽस्वपर-दृष्टित्वादिकं च नास्त्येवेति । भवतु, तथापि मयि गोपयितुं न युज्यत इत्य् आह—उदासीन इति । वर्ज्यः मन्त्र-भङ्गभयात्, अहन्तु सुहृदतो न वर्ज्य इति भावः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद् ब्रूहीति पुनर् उक्तिर् निज-शुश्रुषातिशय-बोधनाय । मह्यं मां प्रीणयितुम् इत्य् अर्थः । यद् वा, ननु, बालके त्वयि तत् कथनेन किं ? तत्राह—शुश्रुषवे पुत्रस्येच्छावश्यं पूरयितुं युज्यत इति भावः । श्लेषेण, शुश्रुषुं धर्मम् आब्रूयाद् इति न्यायेनावश्यकतोक्ता । पितर् इति पुनः सम्बोधनं स्नेह-विशेष-जननाय । पूर्व-पूर्वम् अप्य् अयं जानत्य् एव, तथापि यत् पृच्छति तत्र च सोल्लुण्ठम् इव यत् पृच्छति तत् पुनर् इन्द्रं प्रत्य् अनादरेणैवेति गम्यते । नारायण-सम-गुणत्वात् तज्-जयि-दानव-वृन्द-घातित्वाच् चेति संशय्य तूष्णीं स्थितं प्रत्य् आह—नहीति सार्धकेन । तत्र नहीत्य् एकम् उदासीन इत्य् अर्थकम् । साधूनाम् इति तेषां विकर्मस्व् अप्रवृत्त्या गोप्यत्वाभावात् साधूनाम् एव लक्षणम् । सर्वात्मनाम् इत्य्-आदि-विशेषण-त्रयेण परमात्मा, तद्-दृष्टीनाम् इह जगति कुत्रापीत्य् अर्थः । अत तत्-तल्-लक्षणवद्भिर् भवद्भिर् न गोपयितुं युज्यत इति भावः ।
ननु, निज-हितार्थं देवताराधकानां कुतः सर्वात्मता युक्ता ? अतोऽस्व-पर-दृष्टित्वादिकं तव च नास्त्य् एवेति । भवतु, तथापि मयि गोपयितुं न युज्यत एवेत्य् आह—उदासीन इति वर्ज्यः मन्त्र-भङ्ग-भयात् । अहं तु सुहृत्सु परमान्तरङ्गः पुत्र एवेत्य् अतो न वर्ज्य एवेति भावः ॥४-५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायण-सम-गुणत्वात् तज्-जयि-दान-वृन्द-हननाच् चेति संशय्य तूष्णीं स्थितं प्रत्य् आह—उदासीन इति ॥५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु बालकस्य तव किम् एतत् प्रश्नेन ? तत्राह—महान् कामोऽभिलाषो ममात्र वर्तते ।
यद् वा, महान् कामो युष्मद्-आदीनाम् अत्र दृश्यते, अत एव तं मह्यं शुश्रूषवे शुश्रूषुं मां प्रीणयितुम् इत्य् अर्थः । रहस्यत्वाद् अनतिकोविद-बालकादिषु वक्तुम् अनर्हम् इति चेत्, तत्र स्वस्यातिकोविदत्वम् उक्ति-वैचित्र्यैव द्योतयन्न् आह—नहीति । सर्व एवात्मान आत्म-युक्त्या येषां तेषाम् ॥४॥
अत एवायं स्वोऽन्तरङ्गः, अयं परो बहिरङ्ग इति न विद्यते दृष्टिर् येषां तेषां, अत एव तद्-भेदा मित्रोदासीन-विद्वेषा न सन्तीत्य् आह—अमित्रेति । गृहस्था वयम् एवं-भूताः साधवो भवितुं न शक्नुम इति चेत्, तद् अपि मय्य् एतद् गोपयितुं न युज्यत इत्य् आह—उदासीनोऽरिवद् इति। तुल्यार्थकवति प्रत्ययेनारिणा तुल्य उदासीनो वर्ज्य इत्य् अर्थः । अरि-साधर्म्यं चास्यारि-मित्रत्वेनापचिकीर्षापत्त्वात्, न त्व् अपकारकत्वाद् इति ज्ञेयम् । अत एव, यो विपक्ष-सुहृत्-पक्षः स तटस्थो निगद्यते [उ।नी। ९.७] इत्य् उज्ज्वल-नीलमणौ तल्-लक्षणं दृष्टम् । यस् तूदासीनो नारिणो तुल्यो नापि सुहृदा तुल्यः, स तु न वर्ज्यो नाप्य् उपादेयः स्व-कृत्येष्व् इति । अत एव स नोट्टङ्कितः । सुहृद् आत्म-मित्रत्वाद् आत्मवद् विश्वास्य इत्य् अर्थः । अहं तु पुत्रः सुहृदः सकाशाद् अप्य् अन्तरङ्ग इत्य् अर्थः ॥५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु, त्वं बालः स्व-सखे क्रीडस्व किं तवानेन प्रश्नेनेति चेत् तत्राह—एतद् अति सार्धकेन । मे महान् कामो वाञ्छन्ति अतः शुश्रुषवे मह्यमेतद् ब्रूहि शुश्रूषुं मां प्रीणयितुम् इत्य् अर्थः ।
ननु, रहस्यत्वाद् एतद्वाले य वाच्यम् इति चेत् तत्रोक्ति-वैचित्र्येण विज्ञत्वं स्वस्य सूचयन्न् आह—नहीति । सर्वेष्व् आत्मा मनो येषां अत एव स्वोऽन्तरङ्ग इति नास्ति दृष्टिर् येषां तत एव तद्भेदा मित्रोदासीनद्विपोऽपि न सन्तीत्य् आह—मित्रेति । ईदृशां साधूनान् इह लोके गोप्यं कृत्यं नास्ति ॥४॥
ननु वयं साधवो\ऽपि गृहित्वाद् रहस्यं वक्तुं न शक्नुमस् तत्राह—उदित्य्-अर्धकेन । उदासीनश् चेद् अरिवद् वर्ज्यः । अरि-साधर्म्यं चास्यारि-मित्रत्वेनापचिकीर्षावत्त्वान् न त्व् अपकारित्वाद् इति बोध्यम् । अत एव, यो विपक्ष-सुहृत्-पक्षः स तटस्थो निगद्यते [उ।नी। ९.७] इति लक्षणं य उदासीनस् तद्-द्वय-पक्षो न स्यात् । स तु न वर्ज्यो नाप्य् उपादेय इति ज्ञेयम् । सुहृत् तु आत्मवद् ग्राह्यः, ममत्वात्मजत्वात् तद्-गोपनं नैव युक्तम् इति भावः ॥५॥
॥ १०.२४.६ ॥
ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयम् अनुतिष्ठति ।
विदुषः कर्म-सिद्धिः स्यात् तथा नाविदुषो भवेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सुहृद्भिः सह विचार्य ज्ञात्वैव कर्म कर्तव्यं न तु गतानुगतिकत्व-मात्रेणेत्य् आह—ज्ञात्वेति । अज्ञात्वा च तत्र विदुषो यथा तत्-कर्म-फलं स्यात् तथा नाविदुषः॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विचार्य-करणे फलम् आह—किं चेति । गतानुगतिक-मात्रेण पारम्पर्यागतत्व-मात्रेण । विदुषः विचार्य कर्तुः । अविदुषः पूर्ण-फलं न स्याद् अङ्गादि-वैगुण्याद्य्-अज्ञानाद् इत्य् अर्थः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु सत्यं सत्यं प्राणाधिकः सुहृद्भवान्, किन्तु बालो\ऽसि, मन्त्रेषु न योग्यस् तत्राह—ज्ञात्वेति । अज्ञात्वा च दृष्टपरस्परयेत्य् अर्थः । यथा यथावत् यादृशीति वा, उभयथाप्य् अज्ञस्य स्वल्प-फल्ं सूच्यते, तद् अभावे च सत्कर्मसु श्रमस्य वैयर्थ्यापत्तेः।
ननु वक्तृ-विशेष-निस्पृहा गुण-गृह्या वचने विपश्चितः इति न्यायेन मयापि सह विचार्य कर्तुं युज्यत इति भावः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अज्ञात्वा च दृष्ट-परम्परयेत्य् अर्थः । कर्माणि दृष्टादृष्टाफलानि कृष्यादि-यागादीनि यथा यथावत् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्माणि दृष्टादृष्ट-फलानि ॥६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, बुद्धिमद्-अन्तरङ्ग-जनेन सह विचार्य ज्ञात्वैव कर्म कर्तव्यं, न तु गतानुगतिक-न्यायेनेत्य् आह—ज्ञात्वेति । ज्ञात्वा अज्ञात्वा च कर्माणि दृष्टादृष्ट-फलानि कृष्यादि-यागादीनि ॥६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सुहृद्भिः सह विचार्य ज्ञात्वायं जनः कर्मण्य् अनुतिष्ठति केचित् तु अविचार्याज्ञात्वा तत्र विदुषो यथा कर्म-सिद्धिः स्यात् तथा नाविदुषः । अतः सुहृद्भिर् अवश्यं विचार्यम् ॥६॥
॥ १०.२४.७ ॥
तत्र तावत् क्रियायोगो भवतां किं विचारितः ।
अथवा लौकिकस् तन् मे पृच्छतः साधु भण्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवताम् अयं क्रिया-योगः शास्त्रतोऽपि किं विचारितः प्रवृत्तो लौकिक आचार-प्राप्तो वेति साधु सोपपत्तिकं भण्यतां कथ्यताम् इति ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र देव-कर्मणां मध्ये ज्ञात्वा करणे वा । किम् इति प्रश्ने । सौपपत्तिकं हेतु-सहितम् । तावत् प्रथमम् । क्रिया-योगः अनुष्ठान-प्रकारः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु पूर्व-पूर्वतरैर् अस्मदीयैर् अन्यैश् चायं यागः प्रवर्तितो\ऽस् तीत्य् अधुना किं तत्र विचारणेन ? सत्यम्, त एव कथं प्रवृत्ता इति पृच्छति-तत्रेति । तस्यां कर्म-सिद्धौ । यद् वा, तयोर् ज्ञानाज्ञानयोर् विचारितः शत्र-विचार-सिद्ध इत्य् अर्थः । यदि शास्त्रीयस् तर्हि शास्त्र-न्यायेनैव, यदि च लौलिकस् तर्हि लौकिक-न्यायेनैव परिहार्य इति भावः । अनेन तत्वाभिज्यात्वं च सूचितम् निजोक्तिग्राहणाय साधु सोपपत्तिकं यथा सत् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तेषु कर्मसु क्रिया-योग इदम् अदृष्ट-फलं कर्म भवतां किं खलु विचारितः शास्त्रैक-प्रमाणत्वात् तद् विचार-प्राप्तः किम् अथवा लोक-परम्परयैव प्राप्ता इति साधुसोपपत्तिकं भण्यतां तावद् इति प्रश्नान्तरं पश्चात् कर्तव्यम् इत्य् अर्थः । अनेन तत् तद् अभिज्ञत्वम् अपि सूचितं निजोक्ति-ग्रहणाय ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रादृष्ट-फलः क्रिया-योगो विचारितः शास्त्र-द्वारा ज्ञातः ॥७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विचार्य ज्ञात्वैव क्रियत इति चेद् अत आह—तत्र कर्मसु मध्ये क्रिया-योगो भवताम् अयम् अदृष्ट-फल एव किं शास्त्र-प्राप्तत्वेन विचारितः ? अथवा, लौकिकः लोकाचार-प्राप्तत्वेन ? ॥७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : भवताम् अयं क्रिया-योगः किं शास्त्रतो विचारितः किं वा लौकिकः कुलाचार-प्राप्तः साधु सोपपत्तिकं मह्यं पुत्राय कथ्यताम् ॥७॥
॥ १०.२४.८ ॥
श्री-नन्द उवाच—
पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्म-मूर्तयः ।
तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पर्जन्यो वृष्टि-द्वारा भगवान् ईश्वर इति भक्ति-विशेषेण प्रीणनं सन्तर्पकं जीवनं मृत-प्रायाणां तृणादीनां प्राणदम् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पर्जन्यः वर्षण-शीलः । ननु वर्षण-शीलास् तु मेघा नेन्द्र इत्य् आह—मेघा इति । प्रिय-मूर्तयः, आत्मा देहो यथा प्रेष्ठस् तथा तन्-मूर्तयो मेघा अपीति भावः । ततस् तम् अघः किं प्रयोजनमतात्राह—ते मेघाः । प्राणनं चेष्टा-करणम् । जीवनं शरीराप्यायनम् । पयः स्यात् क्षीर-नीरयोः इति विश्वः । पयः जलम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पर्जन्यो वृष्टि-द्वारा जगत् पालनाय वृष्टिकारकः, भगवान् ईश्वर इति भक्ति-विशेषेण प्रीणनं सन्तर्पकं जीवनं मृत-प्रायाणां तृणादीनां प्राणदम्, उद्भवादिकत्वात् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पर्जन्यो वृष्टि-द्वारा भगवान् ईश्वर इति भक्ति-विशेषेण प्रीणनं सन्तर्पकं जीवनं मृत-प्रायाणां तृणादीनां प्राणदम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकाचार-प्राप्त एवेति सोपपत्तिकम् आह—पर्जन्य इति । प्रीणनं सन्तर्पकं जीवनं मृत-प्रायाण्य् अपि तृणादीनि जीवयतीति तत् ॥८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कुलाचार-प्राप्त इति सहेतुकम् आह—पर्जन्य इति पृषु सेचने पर्जन्यः आत्म-तुल्या मूर्तयो येषां ते ते यत् पयो वारि वर्षन्ति तद्-भूतानां प्रीणनं सन्तर्पकं जीवनं शुष्यतां तृणादीनां जीवकं प्ररोहकम् ॥८॥
॥ १०.२४.९ ॥
तं तात वयम् अन्ये च वार्-मुचां पतिम् ईश्वरम् ।
द्रव्यैस् तद्-रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् इत्य् अत आह—वयं चान्ये नराः । वार्-मुचां पतिम् ईश्वरं तद् रेतसा सिद्धैः द्रव्यैः क्रतुभिः यजन्ति ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रेतोवत् क्षरण-शीलत्वाद् रेतो जलम् । तात प्रिय ततोऽनुकम्प्ये जनके इति मेदिनी । तत एव तातस् तत्-सम्बुद्धौ । तथा तादृश-पूज्य-देवानुग्रहत एव त्वम् एतादृशः पुत्रो लब्धोऽस्यतस् तत्-पूजा-प्रत्याख्यानं नोचितं तवेत्य् आह—तातेति ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तातेति सलालनं सम्बोधनं निजोक्तौ श्रद्धार्थम् । यद् वा, तद् अर्थावगमार्थम्, वयं गोपा न च गोपालनार्थं केवलं वयम् एव किन्तु अन्ये च नराः सर्वे ।
ननु सूर्यः स्वरश्मिभिर् मौमं रसम् आकृष्य वर्ष्ति इत्य्-आदि-वचनात् सूर्याद्-वृष्टिः प्रसिद्धा, तत्राह—वार्मुचां मेघानां पतिमेघ-रूपाणां सूर्य-रश्मीनाम् अपी स एवेश्वर इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
भौमम् एतत् पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्यः सर्व-लोकस्य भवाय भुवि वर्षति ॥ [वि।पु। ५.१०.२३] इति ।
कुतः ? ईश्वरो देवेन्द्रत्वाद् इत्य् अर्थः ।
यद् वा, ननु तर्हि मेघा एव पूज्यन्ताम्, तत्रा—वार्मुचां पतिं वृष्ट्यादि-शक्ति-प्रदानेन पालम् ईश्वरं च अनावृष्ट्यति-वृष्ट्याचरणे शारतारम्, अतः स एव पूजार्ह इति भावः । यद् वा, पतिं प्रभुम् ईश्वरम् इति, अन्यथा क्रोधेनास्माकं भयम् उत्पादयेद् अपीति भावः ।
यद् वा, वैष्णव-प्रवराणां भवतां नान्य-देव-पूजा युक्ता, तत्राह-ईश्वरं भगवद्-दृष्ट्यैव तदीयत्वेनैव वा ईश्वर-बुद्ध्यार्च्यत इत्य् अर्थः । अन्यत् समानम् । द्रव्यैर् दुग्धादिभिः, तद्-रेतसा तद्-वृष्टि-पयसा, तच् छक्त्यैव वा सिद्धैर् इति, तत्त्वतस् तेष्व् अस्माकं स्वाम्याभावेनादौ तैस् तत्-पूजैव युक्तेति भावः, अन्यथा अकृतज्ञत्वादि-दोष-प्रसक्तेः, यजन्त इति प्रथम-पुरुषत्वम् आर्षम् । यजामः, एवम् अग्रे चोपजीवन्तीति,
यद् वा, पुत्राभिप्रायज्ञानेन तद्-वागुल्लङ्घन-भयान् निज-दोष-परिहारार्थम् अन्येषां प्राधान्य-विविक्षया तैः सह विशेष-सम्बन्धेन प्रथम-पुरुषत्वम्, क्रतुभिर् विविधैर् यज्ञैर् इन्द्रध्वजोत्थापनादि-कर्मभिर् वा ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तातेति सलालनं निजोक्तौ श्रद्धार्थं तद् अर्थावगमार्थं च वयं गोपालनार्थं केवलं वयम् एव किन्तु अन्ये च नराः सर्वे ।
ननु, सूर्यः स्व-रश्मिभिर् भौमं रसम् आकृष्य वर्षति इत्य्-आदि-वचनात् सूर्याद् वृष्टिः प्रसिद्धा तत्राह—वार्मुचां मेघानां पतिं मेघ-रूपाणां सूर्य-रश्मीनाम् अपि स एवेश्वर इत्य् अर्थः । तथा च श्री-विष्णु-पुराणे—
भौमम् एतत् पयो-दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्य सर्व-लोकस्य भवाय भुवि वर्षति ॥ [वि।पु। ५.१०.२३] इति ।
इति कुत ईश्वरः देवेन्द्रत्वादित्य् अर्थः । अन्यथा भयम् उतादयेद् अपीति भावः । यद् वा, वौष्णव-प्रवराणां भवतां नान्यदेव पूजा युक्ता तत्राह—ईश्वरम् अन्तर्यामि-दृष्ट्येवेत्य् अर्थः । अन्यत् समानं तद् रेतसा सिद्धैर् इति तत्त्वतस् तेष्व् अस्माकं स्वाम्याभावेनादौ तैस् तत् पूजैव युक्तेति भावः । अन्यथा अकृतज्ञत्वादि-दोष-प्रसक्तेः यजन्त इति प्रथम-पुरुषत्वम् आर्षं यजामः एवम् अग्रे चोपजीवन्तीति ।
यद् वा, पुत्राभिप्राय-ज्ञानेन तद्-वाग्-उल्लङ्घन-भवान् निज-दोष-परिहारार्थम् अन्येषां प्राधान्य-विवक्षया, तैः सह विशेष-सम्बन्धेन प्रथम-पुरुषत्वम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तातेति स-लालन-सम्बोधनेन तादृश-पूज्य-देवतानाम् एवानुग्रहेणैतावद् गुणवान् त्वं पुत्रः प्राप्तोऽस्यतस् तत् पूजा-प्रत्याख्यानं त्वया शुभंयुना न कर्तव्यम् इति द्योतितं वस्तुतस् तद्-यज्ञे कर्तृत्वाभिमानोऽपि नोचित इत्य् आह—तद्-रेतसा तद्-वृष्ट-पयसा सिद्धैः ॥९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तम् इन्द्रम् ईश्वरं वार्-मुचां मेघानां पतिं तद् रेतसा तत् पयसा सिद्धैर् द्रव्यैः क्रतुभिर् अस्मद्-आदयो नरा यजन्ते ॥९॥
॥ १०.२४.१० ॥
तच्-छेषेणोपजीवन्ति त्रि-वर्ग-फल-हेतवे ।
पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपजीवन्त्य् उपजीविकां कल्पयन्ति धर्मार्थ-काम-सिद्धये । ननु कृयादिभिर् जीवन्ति किम् इन्द्रेण ? तत्राह—पुंसाम् इति । फल-भावनः फल-साधकः । पर्जन्यं विना कृष्यादि-वैफल्याद् इत्य् अर्थः ॥१०.११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्-छेषेण यज्ञावशिष्टेन । आशङ्कते—नन्व् इति । तत्र आक्षेपे । पुरुषकाराणाम् अपराक्रम-सिद्ध-कर्मणाम् । इत्य् अर्थ इति—विना वृष्टिं तृणान्नाद्य्-असिद्धेः को\ऽपि पुरुषार्थ आहारं विना न सिध्यतीत्य् अर्थः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि तैर् अस्माकं को नामोपकारः ? तत्राह—तच्चेषेणेति । त्रिवर्गो धर्म-कामार्थाः, स एव फलं तस्य हेतवे सिद्ध्यर्थम्, मुक्ति-भक्त्याद्य् औक्तिस् तच् छेषोपजीवनेन तद् असिद्धेः । यद् वा, फलं भक्तिः, अन्यथोपजीवनस्य वैयर्थ्यात्, मोक्षस्यानुक्तिः प्रायो भक्ति-विघ्नत्वेन वैष्णव-प्रवराणां तेषां तद् अनादरात्, एवं दृष्टादृष्ट-फल-हेतोक्ता, पुंसाम् इति तैर् व्याख्यातम् एव,
यद् वा, ननु पुरुष-प्रयत्नैर् धर्मादिकं सेत्स्यति, तत्राह—पुंसाम् इति । देवतानुग्रहं विना पुरुष-प्रयत्नानां वैयर्थ्यापत्तेर् विग्नोपस्थितेश् च । किं वा, वृष्टिं विना न द्रव्य-सिद्धिः, तां विना च न जीविका, तां च विना बलाद्य् अभावेन न पौरुषम्, तद् विना तु न धर्मादिकम् इतीन्द्रः पूज्य एवेति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तर्हि तैर् अस्माकं को नामोपकारः ? तत्राह—तच् क्षेपेणेति । त्रिवर्गः धर्मार्थ-कामाः स एव फलं तस्य हेतवे सिध्यर्थम् एवं दृष्टा-दृष्ट-फल-हेतुतोक्ता पुंसाम् इति तैर् व्याख्यातम् यद् वा,
ननु, पुरुष-प्रयत्नैर् धर्मादिकं सेत्स्यति तत्राह—पुंसाम् इति । देवता-प्रसादनैव धर्मादि-सिद्धैः पर्जन्यस्य च देवराजत्वाद् इति भावः पुरुष-काराणाम् उद्यमानाम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच्-छेषेण तद्-यज्ञावशिष्टेनान्नेन उपजीवन्ति जीविकाम् उपकल्पयन्ति न च जीविका ऽपि यथेष्ट-विषय-भोगार्थेत्य् आह—त्रिवर्गेति । पुरुषकाराणां त्रिवर्गार्थम् उद्यमानां फलं यत् त्रिवर्ग एव तस्य भावनः साधकः पर्जन्याद् वृष्टिर् वृष्टेर् अन्नं अन्नाज् जीविका जीविकातो धर्मो धर्माद् उद्यम इत्य् अर्थः । यतो वस्तुतः पर्जन्य एव त्रिवर्गे मूल हेतुर् अतः पर्जन्य एवेज्यत इति भावः ॥१०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तच्-छेषेण तद्-यज्ञ-शिष्टेनान्नेन नरा उपजीवन्ति जीविकाम् कुर्वन्ति, न च जीविकापि यथेच्छ-विषय-भोगार्थेत्य् आह—त्रिवर्गेति । धर्मार्थ-काम-सिद्धये इत्य् अर्थः । ननु ते कृष्यादिभिर् उपजीवन्ति किम् इन्द्रेण इति चेत् तत्राह—पुंसां पुरुषकाराणां त्रिवर्गार्थकोद्यमानां फलं त्रिवर्गः, तस्य भावनः साधकः पर्जन्य एव पर्जन्याद् वृष्टिस् ततो\ऽन्नं, ततो जीविका ततो धर्मः, तथा च पर्जन्यस्य मूल-हेतुत्वाद् एवेज्यत्वम् इति भावः ॥१०॥
॥ १०.२४.११ ॥
य एनं विसृजेद् धर्मं पारम्पर्यागतं नरः ।
कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपक्षे बाधकम् आह—कामात् दुर्विषयाभिलाषात् । लोभात् धन-व्यय-शङ्कया । भयात् राजादि-भयतः । द्वेषात् देवेषु व्यर्थ-विरोधात् । स नरः ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु केवलम् एतद्-दृष्ट-विचारत एव, न तु शास्त्रतः । तस्याप्य् अस्वातन्त्र्यात् फल-दानाशक्तेश् च । यद् वा, गोपालनादस्माकं स्वयम् एव धर्मादिकं सिद्ध्येत्, गवां च सदा शाद्वलादि-युक्ते श्री-वृन्दावने सुखचार एवेति, किम् इन्द्रेण ? यद् वा, भगवति दृढ-विश्वस्तानां नान्यापेक्षा युक्ता, सत्यम्, तथापि पूर्व-पूर्वाचरितं कथञ्चिद् अपि त्यक्तुं नोपयुज्यत इत्य् आह—य इति । कामात् धन-रक्षणालाभात्, कर्मान्तरेण फलान्तरेप्सातो वा, द्वेषात् अनावृष्ट्यादिनेन्द्रे\ऽनादरात् तद्-भक्त-जनैः सह द्वेसोदयाद् वा, भयात् देवतान्तर-पूजया वैष्णव-धर्म-हानैः, धन-व्ययाद् वा वाक्याप्रतिपालनेन प्रियमान्यजनाद् वा, द्रवेषु प्रतिष्ठादिषु वा लोभात्, वा-शब्दो\ऽत्राध्याहार्यः । शोभनं नाप्तोति इहामुत्र च तस्य क्षेमं न स्याद् इत्य् अर्थः । तत्र हेतुः-पारस्पर्यागतम् इति, सदाचारातिक्रमणादित्य् अर्थः । वै प्रसिद्धौ निश्चये वा, इति तत्र निज-दार्ढ्यं बोधितम् ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : व्यतिरेके दोषम् अप्य् आह—इति । कामात् अदृष्ट-विसायात् द्वेदात् देवता-विषयात् तद् उपासक-विषयाद् वा भयात् विरोधि-जन-हेतुकात् लोभात् दृष्ट-विषयात् वा शब्दोऽत्राध्याहार्यः शोभनं नाप्नोति इहामुत्र च तस्य क्षेमं न स्याद् इत्य् अर्थः । अत्रैषां श्री-व्रज-वासिनां त्रिवर्गलिप्सा तद् दोष-जिहीर्षा च श्री-कृष्णैक-निबन्धनेति प्रतिपादितम् एव ततः सर्व-सद्वासनाशिरोमणिताम् एव धत्त इति विवेचनीयम् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यतिरेके दोषम् आह—य इति । कामात् स्वेच्छातः लोभात् द्रव्य-व्ययाभाव-विषयात् भयात् भीषणाल् लोक-हेतुकात् । द्वेषात् देवता-विषयकात् ॥११॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : विपक्षे दोषम् आह—य इति । कामान् निजेच्छातः लोभात् द्रव्य-व्ययाभाव-विषयाद् भयाद् भीषण-लोक-हेतुकात् । द्वेषात् देवता-विषयात् शोभनं कुशलम् ॥११॥
॥ १०.२४.१२ ॥
श्री-शुक उवाच—
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्राय मन्युं जनयन्न् इति कोप-जनन-द्वारा गर्व-पर्वताद् इन्द्रम् अवतारयितुं देवता-निराकरणं न त्व् अयम् एवाभिप्राय इत्य् अर्थः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वच इन्द्र-याग-विषयम् । अयम् एव देवता-निराकरण-रूपः । इत्य् अर्थ इति । सात्त्विकत्वाद् देवानां गर्व-रूप-राजस-धर्मे प्रवृत्तिं बाधायितुम् इति भावः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चार्थे तथा-शब्दः, अन्येषां चेति श्री-गोपराजोक्तौ गर्वेणामेवानुमोदनात् सम्मतेर् वा । यद् वा, स्वयं वक्ष्यमाणार्थं सर्वान् एवैकमत्येन ग्राहयितुं पृथक् पृथक् प्रश्नेन तथैव तेषाम् अप्य् उत्तर-प्राप्तेः, व्रजौकसां सर्वेषाम् एव व्रज-वासिनाम् इत्य् अर्थः । यद् वा, अनेन गतास् तत् सहचरा व्यवच्छिन्नाः, तेषां सर्वथा तद् एक-मतानुसारात्, इति विकाले व्रजम् आगतेन श्री-भगवता यागोद्यमं दृष्ट्वा पृष्टम् इति श्री-विष्णु-पुराणाद्य् उक्तानुसारेण ज्ञेयम्, तथा श्री-विष्णु-पुराणे—
विमलाम्बर-नक्षत्रे काले चाभ्यागतो व्रजम् ।
ददर्शेन्द्र-महारम्भायोद्यतांस् तान् व्रजौकसः ॥ [वि।पु। ५.१०.१६] इति,
श्री-हरि-वंशे च—
व्रजम् आजग्मतुस् तौ तु व्रजे शुश्रुवतुस् तदा ।
प्राप्तं शक्नुम् अहं वीरौ गोपांश् चोत्सव-लालसान् ॥ [ह।वं। २.१५.२] इति ।
इन्द्राय मन्युं जनयन्न् इति देवता—निर्ककरण-कर्म-वादेन मख-भञ्जनेन वा, अन्यत् तैर् व्याख्यातम् । पितरम् इत्य् अस्याभिप्रायः पूर्वं पितरित्य् अत्र विवृत एव । यद् वा, पश्यंस् तस्य हितं कर्तुं युज्यत इत्य् अर्थःस् । प्रकर्षेण विविध-दृढ-न्याय-प्रदर्शनादिन् आह—को ब्रह्मा ईशो रुद्रस् तौ वाति, वा गति-गन्धनयोः इति । यद् वा, व्येञ् तन्तु-सन्ताने इति वयते निज महिम्ना व्याप्नोतीति । यद् वा, अस्त्य् अर्थे वः, तौ प्रकृष्ट-सेवकतया यस्य स्त इति । एवम् अशेष-देवताधीनस्य देवता-निराकरणं केवलं कौतुक-स्वभावेनैवेति भावः । यद् वा, तयोः प्रीत्य्-अर्थम् एव ऐश्वर्य-मद-मत्तेन्द्रस्य मख-भञ्जनेन मद-निरसनात् । यद् वा, केशवः श्री-मथुराधिष्टाता, अतो माथुराणां श्री-गोवर्धनादीनां माहात्म्य-विस्तारणाय तद् युक्तम् एवेति ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथान्येषां व्रजौकसां वचो निशम्येति तेऽपि स्वयं श्री-नन्देनैव प्रमाणिता वा तथैवोचुर् इति इन्द्राय मन्युं जनयन्न् इति तस्य बहिरङ्गत्वम् अनादरणीयत्वं च ज्ञापितं पितरम् इति अस्य परमान्तरङ्गत्वं प्ररमादरणीयत्वं च व्यञ्जितं को ब्रह्मा ईशो रुद्रस् तौ वयते निज-महिम्ना व्याप्नोतीति कस्ततत्र वराकः इन्द्र इति बोधयति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्राय इन्द्र-मन्यु-जननस्य प्रयोजनं तद्-गर्व-खण्डन-प्रतिवर्ष-गोअवर्धनोत्सव-प्रवर्ततनद्-उद्धरण-निखिल-प्रिय-जन-सहवास-लीला-विलासादिकम् उपरिष्ठाज् ज्ञास्यते ॥१२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : इन्द्रायेति । इन्द्रं निगर्वयितुं तस्य मन्युं जनयन् यद्यपीन्द्रो\ऽग्न्य्-आदिवत् परेशेन सृष्टा वेदोक्ता देवता तेन दत्त-भागा च तथापि तस्मिन् गर्वोदयात् तत्-परिहारेण तद्-विशुद्धये\ऽसाव अवमन्यते स्वयं प्रभुत्वात्, शक्र-दर्प-जिघांसया इति वक्ष्यति स्व-भक्त-वर्यस्य गिरेः प्रतिवर्षोत्सवाय चेति बोध्यम् ॥१२॥
॥ १०.२४.१३ ॥
कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं तावत् कर्म-वादेन देवान् निराकरोति—कर्मणेति । ननु जडात् कर्मणः केवलात् कथं फल-सिद्धिः स्याद् इति चेत्, अहो अशीलित-मीमांसानां स्वम् अतिविलसिता श्रद्धा कर्मणां फल-कारणत्वे वचनतोऽवगते किं ततोऽनुपपन्नं नाम ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भय-क्षेमयोर् यद्यपि दुःख-सुखान्तर्गतत्वं तथापि भेदेन कथनम् । भयं संसारं क्षेमं मोक्षम् अपि कर्मणैवेति । आसक्त्य्-अनासक्तिभ्यां कृतं कर्मविओभय-हेतुर् इति भावः । कर्मण्य् आशङ्कते—नन्व् इति । अशीलिताविचारिता मीमांसा जैमिनीय-शास्त्रं यैस् तेषाम् । स्व-मति-विलसिता निज-बुद्धि-प्रकाशिता । श्रद्धा-फल-दातेश्वरः कर्म-भिन्नोऽस्तीत्य् एवं-रूपा । वचनतः, कर्मणा जायते इत्य्-आदि-शास्त्रतः । अवगते ज्ञाते सति । ततः कर्मणः । किं नामा किंकार्यम् । अनुपपन्नम् असिद्धम् । न किम् अपीत्य् अर्थः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कर्म-वादस्य सर्वत्रातिप्रसिद्धत्वात् तन्-मताश्रयणेनैव प्रथमं पित्रोक्तं परिहरति—कर्मणेति । कर्मणा प्रायः प्रारब्धेन तस्यैव नित्य-फल-प्रदत्वात् । जन्तुः सर्वोऽपि जीवः प्रमीयते म्रियते । विलीयते इति पाठेऽपि स एवार्थः । एवं जन्म-मरणे उक्ते, जीवने चेह लोके मरणेऽप्य् अमुत्र कर्मणैव सुखादिकम् आह—सुखम् इति । क्षेमम् अभयम् । कर्मणेति पुनः पुनर् उक्तिः तद् एक-हेतुता-विवक्षया दाढ्यार्थम् एव शब्द-द्वयं च ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एषां मत्-पित्रादि-रूप-नित्य-परिकराणां पूजा-ग्रहणे को नाम इन्द्र इति तन्-मद-हरणं यद्यपि मनसि वर्तते तथापि नर-लीला-पालनाय तद्-अनुद्धाट्य कर्म-वादस्य सर्वत्राति-प्रसिद्धत्वात् तन्-मताश्रयणनैव प्रथमं परिहरति, कर्मणीति । प्रमीयते म्रियते अत्र तु कर्मणेत्य् अत्र कर्तरि तीर्तीया प्रलीयत इति पाठेऽपि स एवार्थः हि नीयते इति पाठे तु ह्य् एताव् एव हि निश्चये एवं जन्म-मरणे उक्ते जन्म-मरणानन्तरं च कर्मणैव सुखादिकम् आह—सुखम् इति । क्षेमम् अभयं कर्मणेति पुनः पुनर् उक्तिः तद् एक-हेतुता-विवक्षया दाढ्यार्थम् एव शब्द-द्वयं च ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एषां मत्-पित्रादि-रूप-नित्य-परिकराणां पूजा-ग्रहणे को नाम इन्द्र इति मन्-मद-हरणं यद्यपि मनसि वर्तते तथापि नर-लीला-पालनाय तद् अनुद्घाट्य कर्म-वादम् एवावलम्ब्याह—कर्मणेति ॥१३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नर-लीलतयैव इन्द्र-मख-भङ्गे कर्तव्ये युक्तिम् उत्थापयन् सद्भिर् विगीतम् अपि कर्म-वादम् आश्रित्य देवतां निराकरोति—कर्मणेति ॥१३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वेद-मूर्तिः परेशो नन्द-सूनुर् वेदोक्तां देवताम् अन्तः स्वीकुर्वन्न् एव पित्रोक्ताम् इन्द्र-देवतां कर्म-वादादिभिर् निराकर्तुं प्रवर्तते तत्र कर्म-वादिनस् ते देवता-पक्षम् एवम् अवमन्यन्ते इत्य् आह—कर्मणेति । यथाकारो यथाचारो तथा भवति इति श्रुतेर् इति भावः । न च जडस्य कर्मणः कथम् उत्पत्त्य्-आदि-कर्तृतेति वाच्यं चलति जलं फलति तरुर् इत्य् आदौ जडेऽपि कर्तृत्व-दर्शनात् ॥१३॥
॥ १०.२४.१४ ॥
अस्ति चेद् ईश्वरः कश्चित् फल-रूप्य् अन्य-कर्मणाम् ।
कर्तारं भजते सोऽपि न ह्य् अकर्तुः प्रभुर् हि सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : केचित् पुनर् अतिसाहस-भीताः कर्म-परतन्त्रम् ईश्वरं मन्यन्ते, तन्-मतम् अनूद्य निराकरोति—अस्ति चेद् इति । स्वयं कर्मभिर् अलिप्तोऽन्येषां जीवानां कर्मणां फल-रूपी फल-दाता कर्तारं भजते तत्-तत्-कर्म-फल-दानेन ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतिसाहसम् अतिविचारासामर्थ्यम् । कर्म-परतन्त्रम् कर्माधीनम् । फलं सुख-दुःकादि-लक्षणं रूपयति ददातीति तथा । सहाय-कल्पः न स्वतन्त्र इति यावत् । स ईश्वरोऽपि कर्तारं कर्मण इति शेषः । अकर्तुः कर्मणः । स ईश्वरः न प्रभुः तत्र कारणासत्त्वाद् इत्य् अर्थः । इमं श्लोकं विजय-ध्वजस् त्व् इत्थम् अवतारयति—ननु प्रवृत्तेर् बुद्धि-पूर्वकत्वेन कर्मणोऽचेतनत्वेन तद्-योगान् न जगत्-तद्-अधीनम् इति । किन्तु चेतनाधीनम् । चेतनोऽपि न देव-दत्तादि-साधारणः, किं तु विशिष्ट एव कश्चिद् अस्तीति कृष्णः स्वाहार्दान् अभिज्ञ-नन्द-गोपस्य मानसीं शङ्कां गूढाभिसन्धिः परिहरति अस्ति चेद् इति ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : फलं रूपयितुं दर्शयितुं दातुं शीलम् अस्येति फल-रूपी । भजते अनुसरति आश्रयति वा, कर्मानुसारेणैव फल-दानात् । तद् एवाह—नेति । हि यतः कर्माभावे फलं दातुं न शक्त इत्य् अर्थः । हि निश्चितम् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : फलं रूपयितुं दर्शयितुं दातुं शीलम् अस्येति फल-रूपी भजते अनु सरति कर्मानुसारेणैव फल-दानात् व्यतिरेकेण दृढयति नेति हि यतः कर्माभावे फलं दातुं न शक्त इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, जडात् कर्मणः केवलात् कथं फल-सिद्धिर् अतः कर्म-फल-दाता ईश्वरोऽवश्यापेक्ष्य इत्य् अपि केषांचिन् मतं तत्राह—अस्ति चेद् इति । फल-रूपी अन्य-कृत् कर्मणां फल-दाता सोऽपि कर्तारं भजते अनुसरति कर्मानुसारेणैव फल-दानात् वतिरेकेण द्रढयति—नेति । हि यतः कर्माभावे फलं दातुं न शक्त इत्य् अर्थः ॥१४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : देवतां फल-दां केचन मन्यन्ते ताम् एवं ते निराकुर्वतीत्य् आह—अस्ति चेद् इति । अस्मदीय-कर्मणां फल-रूपी फलार्थश् चेद् ईश्वरोऽस्ति सोऽपि कर्मापेक्षः सन् कर्म-कर्तारं भजते हि यतः स कर्माकर्तुः प्रभुः फलदो न भवनान्यथा वैषम्यापत्तेः । तथा च कर्मणैव फलोपपत्तौ किम् अन्तर्-गडुना देवतयेति देवता-काण्डं तु कर्म-स्वातन्त्र्यान् आस्थान् देवता-स्वान्तन्त्र्य-व्यपदेशेन कर्मसु प्रवर्तयित्ं ज्ञान-कण्डवद् यजमा-स्वरूपावगमेनेत्य् आहुः ॥१४॥
॥ १०.२४.१५ ॥
किम् इन्द्रेणेह भूतानां स्व-स्व-कर्मानुवर्तिनाम् ।
अनीशेनान्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः कर्मण एव फल-सिद्धेस् तत् पारतन्त्र्ये चाजागलस्तन-तुल्यत्वान् न देवतया कृत्य-मित्यान् न देवतया कृत्यम् इत्य् आह—किम् इन्द्रेणेति। ननु कर्मणो ऽपि प्रवृत्तिर् अन्तर्याम्य् अपेक्षैव कथं सर्वया देवताया अनुपयोग इत्य् आशङ्क्याह—स्वभाव-विहितम् इति। स्वभावेन प्राक्तन-संस्कारेणैव विहितं यत् कर्म तद् अन्यथाकर्तुम् अनीशेन ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः कर्मानुयायीश्वरोऽतो हेतोः । तत्-पारतन्त्र्ये कर्माधीनत्वे केश्वरस्याजागल-स्तन-तुल्य-स्वाब्द्य्-अर्थत्वात् । पुनर् अत्राशङ्कते—नन्व् इति । अन्तर्यामिणम् अपेक्ष्यत इत्य् अन्तर्याम्य्-अपेक्षेति । अनुपयोगः प्रयोजनाभावः । आह श्री-कृष्णः । स्वभावेति—स्वेन भवनं स्वभावः । अन्यथा कर्तुं परावर्तयितुम् । अनीशेन असमर्थेन ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्रापि भूतानां प्राणि-मात्राणां कर्मानुवर्तिनां प्राक्तन-कर्मानुसारेण सुख-दुःख-भुञ्जानानाम् इन्द्रेण किं कर्मण एव तत्-तद्-भोग-कारणत्वात् तेषु नृणां च कर्मान्तरोपार्जकानां स्वं स्वं स्वभाव-विहितम् अन्यथा कर्तुम् अनीशेन तेन किं स्वभावस्यैव तत्-तत्-कर्म-प्रवृत्ति-कारणत्वात् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्रापि भूतानां प्राणि-मात्राणां कर्मानुवर्तिनां प्राक्तन-कर्मानुसारेण सुख-दुःख-भुञ्जानानाम् इन्द्रेण किं कर्मण एव तत्-तद्-भोग-कारणत्वात् तेषु नृणां च कर्मान्तरोपार्जकानां स्वं स्वं स्वभाव-विहितम् अन्यथा कर्तुम् अनीशेन तेन किं स्वभावस्यैव तत्-तत्-कर्म-प्रवृत्ति-कारणत्वात् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वं स्वं कर्मानुवर्तिनाम् इति नाभुक्तं क्षीयते कर्म इत्य्-आदि न्यायेन तत्रापि प्रारब्धस्यावश्य-भोग्यत्वात् नृणां विचारादिना स्वभावं क्रमितुं समर्थानाम् अपि किं प्नर् अन्येषाम् इत्य् अर्थः ॥१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतोऽजागल-स्तन-तुल्यत्वान् न देवतया कृत्यम् इत्य् आह—किम् इन्द्रेणेति । ननु कर्मण्य् अपि प्रवृत्तिर् अन्तर्याम्य्-अपेक्षयैव कथं सर्वथा देवताया अनुपयोग इत्य् आशङ्क्याह—स्वभाव-विहितम् इति । स्वभावेन प्राक्तन-संस्कारेण विहितं कर्तव्यत्वेनोपस्थापितं यत् कर्म तद् एव कर्तुम् अन्तर्यामी जीवं प्रेरयति, न त्व् अन्यद् इत्य् अतः स्वभाव-विहितम् एव कर्म, अन्यथा कर्तुम् असमर्थेन इन्द्रेण पूजनीयेन किं न किम् अपि फलम् इत्य् अर्थः ॥१५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अतः स्वभाव-विहितं स्वभावेन अनादि-कर्म-प्रवाह-वशवर्ति जीव-स्वभावेन प्राक्तन-संस्कारेण विहितं यत् कर्म तत्-फल-भूत-सुखं दुःखं चान्यथा कर्तुम् अनीशेनासमर्थेन जीव-मात्रेणेत्य् अर्थः । अनेनेश्वरः सर्वं कर्तुं समर्थोऽस्ति कर्म-फलद इति सूचितम् ॥१५॥
॥ १०.२४.१६ ॥
स्वभाव-तन्त्रो हि जनः स्वभावम् अनुवर्तते ।
स्वभाव-स्थम् इदं सर्वं स-देवासुर-मानुषम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् विवृणोति—स्वभाव-तन्त्र इति । प्रवृत्तेः संस्काराधीनत्वात् किम् अन्तर्यामिणेत्य् अर्थः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् स्वभावाधीनत्वम् । इत्य् अर्थ इति । प्रवृत्तिः पयः-स्यन्दनादिवत् संस्कारानुरोधिन्य् एवेति, न त्व् अन्तर्याम्य्-अधीनेति भावः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वम् इत्य् अनेन गृहीतानाम् अपि देवादीनां पृथग्-उक्तिः, नृणाम् इतिवत् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वम् इत्य् अनेन गृहीतानाम् अपि देवादीनां पृथग्-उक्तिर् विचारादि-सद्-भावेऽपि तद्-अतिक्रमणाशक्तेः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वभावस्यैव तत्-तत्-कर्म-प्रवृत्ति-कारणत्वात् ॥१६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् विवृणोति—स्वभाव-तन्त्र प्राक्तन-संस्काराधीनः । अतः स्वभाव-समर्थेन इन्द्रेण पूजनीयेन, किं न किम् अपि फलम् इत्य् अर्थः ॥१६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अनादि-कर्म-प्रवाह-पतित-जीवस्य स्वभावम् अपि वर्णयति स्वभाव-तन्त्र इति ॥१६॥
॥ १०.२४.१७ ॥
देहान् उच्चावचाञ् जन्तुः प्राप्योत्सृजति कर्मणा ।
शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् स्वभावतो निष्पन्नस्य कर्मण एव सर्व-कारणत्वात् कर्मैव पूज्यम् इत्य् आह—देहान् इति सार्धेन ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः स्वभावायत्तं सर्वं तस्माद् धेतोः । शुभं कर्म मित्रम् । अशुभं शत्रुः । उबह्य-विलक्षण-विपणाक्ष-क्रीडादि उदासीनः । अन्तःकरण-शुद्धि-द्वारा ज्ञान-हेतुत्वाद् गुरुः, कषाय-पक्तिः कर्माणि ततो ज्ञानं प्रवर्तते ॥ इति श्रुतेः1 । यागादि-रूपम् ऐश्वर्य-हेतुत्वाद् ईश्वर इति विवेकः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राप्योत्सृजति प्राप्नोति त्यजति चेत्य् अर्थः । देहोत्सर्जनस्य मुख्यतयोक्तिर् जीवन-कालस्याल्पत्व-बोधनाय, तच् च तेषां निर्वेदोत्पादनेनाग्रह-त्याजनार्थं—कर्मणा जायते जन्तुः [भा।पु। १०.२४.१३] इत्य्-आदिना पूर्वम् उक्तस्याप्य् अपुनरुक्तिर् जन्म-मरणयोः कर्मैकाधीनत्व-दार्ढ्याय, देह-वैचित्र्यम् अपि तद्-अधीनम् एवेति बोधनाय वा । शत्र्व्-आदयोऽपि कर्मैव । एकस्यैव कदाचिच् छत्रुतायाः कदाचिन् मित्रतायाः कदाचिद् उदासीनतायाश् च दर्शनात् । ईदृग् नियमो विचित्र-कर्म-हेतुक एवेति कार्य-कारण-भेदतस् ते कर्मैवेत्य् अर्थः । ननु, ज्ञानं विना कर्मस्व् अप्रवृत्तेः ज्ञानार्थम् उपदेष्टावश्यम् अपेक्ष्यते, तत्राह—गुरुर् इति अदृष्टं विनोपदेशाप्राप्तेः । प्राप्तेऽपि तत्-फल-सिद्धेः । ननु कर्मणो जडत्वेन तत्-फल-दाता प्रभुर् अपेक्ष्यते, तत्राह—ईश्वरश् चेति । कर्मण एव शक्तिमत्त्वात् तत्-प्रतिपादितम् एव ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्राप्योत्सृजति प्राप्नोति त्यजति चेत्य् अर्थः । शत्र्व्-आदयोऽपि कर्मैव एकस्यैव कदाचिच् छत्रुतायाः कदाचिन् मित्रतायाः कदाचिद् उदासीनतायाश् च दर्शनात् । ननु, ज्ञानं विना कर्मसु अप्रवृत्तेः ज्ञानार्थम् उपदेष्टारम् अवश्यम् अपेक्षते, तत्राह—ईश्वरश् चेति । ईश्वरस्यापि कर्मानुगत्वात् तस्यैव तादृश-शक्तेः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् स्वभावतो निष्पन्नस्य कर्मण एव सर्व-कारणत्वात् कर्मैव पूज्यम् इत्य् आह—देहान् इति सार्धेन ॥१७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तस्मात् स्वभाव-निष्पन्नेन कर्मणैव निखिलार्थ-सिद्धेस् तद् एव बहु-मानेन सेवाम् इत्य् आहुः—देहान् इति । उच्चावचत्वादिकं सर्वं कर्माधीनम् एवेत्य् अर्थः ॥१७॥
॥ १०.२४.१८ ॥
तस्मात् सम्पूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् ।
अञ्जसा येन वर्तेत तद् एवास्य हि दैवतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संपूजयेत् संमानयेत् । ननु देवतोद्देशेन द्रव्य-त्यागात्मकत्वात् कर्मणः कथं देवतां विना सिद्धिर् इत्य् आशङ्क्य कर्माङ्ग-मात्रं देवतेति पक्षम् उपसंहरन्न् इव हेतु-वादम् अश्रित्यान्याम् एव देवतां समर्थयते, अञ्जसेति ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः कर्मैव मुख्यं सर्वतः तस्मात् । स्वभावस्थः प्राक्तन-संस्कारानुविधेयः । स्व-कर्म-कृत् विहित-कारी सन् । पुनः जडात्वात् के बल-कर्मणः फल-दातृत्वम् अघटमानं मत्वा शङ्कते—नन्व् इति । अङ्गं देवताङ्गि कर्मेति पक्षे, तुष्यतु दुर्जनः इति न्यायम् आश्रित्येव-शब्दं प्रयुङ्क्ते—उपसंहरन्न् इवेति । वस्तुत उपसंहारस् तु यागान्त एवेति हेतुवादं तर्क-बलेन हेत्व्-अन्तरं सम्भाव्य—अन्यां शैल-गवादि-रूपाम् । अञ्जसा तत्त्वेन । अञ्जसा त्वरिते तत्त्वे इति यादवः । येन अनिरुक्तेन कर्मणा वर्तेत सदा तिष्ठेत् । अस्य पुरुषस्य तद् एव सदा स्थिति-हेतुः । दैवतं कुल-दैवम् । हि प्रसिद्धम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्माद् गुरुत्वेश्वरतादेर् हेतोः, स्वभावस्थः संस्कारत एव स्वयं कर्म निष्पद्यते इत्य् एतद्-दृष्टिः सन्न् इत्य् अर्थः । इत्थम् अन्तर्यामि-प्रेरण-निराकरण-दार्ढ्याय ।
यद् वा, संस्कारार्थं कर्माभिनिवेशाय । ननु तर्हि संस्कारेणैव कर्म-पूजापि स्यात् । किं तत्र सम्पूजयेद् इति विधिना ? तत्राह—स्व-कर्म-कृत् कर्मण एव सर्व-कारणत्व-बुद्ध्या निज-कर्म-कृत् सन्न् इत्य् अर्थः । अन्यथानभिनिवेशेन कर्मासम्पत्त्या फलासिद्धेः इति कर्मानुष्ठानस्यावश्यकताभिप्रेता ।
यद् वा, सात्त्विकादि-स्वभावे वर्तमानस् तद्-अनुरूपं स्व-कर्म कुर्वाणोऽपि कर्मैव सम्पूजयेत्, न तु तत्-तत्-स्वभाव-देवतादिकम् इत्य् अर्थः ।
यद् वा, स्वभावस्थः स्व-कर्म-कृच् च सन्न् इति निज-स्वभावातिक्रमण-प्रयासस्य तथान्य-कर्म-शिक्षा-प्रयत्नस्य च परिहारेण देवता-पूजनात् कर्म-पूजनस्य सुकरत्वं दर्शितम् ।
यद् वा, सम्पूजयेद् इत्य् अत्र हेतुः—स्वभावस्थः, संस्काराधीनः, अतः संस्कार-जन्यस्य संस्कार-मूलस्य वा कर्मणः पूजोपपन्नेति भावः । स्व-कर्म-कृच् च स्व-कर्मैक-भोग-कर्तेत्य् अर्थः । अतो निजोपजीव्य-पूजा युक्तैवेति भावः । तद् एवाह—अञ्जसेति । हि यतः । येन यः सुखं वर्तेत । तद् एवास्य जनस्य दैवतम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्माद् गुरुत्वेश्वरतादेर् हेतोः स्वभाव-स्थः संस्कारत एव स्वयं कर्म निष्पद्यते इत्य् एतद्-दृष्टिः सन्न् इत्य् अर्थः । यद् वा, यस्मात् स्वभाव एव कर्मान्तर-प्रवर्तकः कर्मैव च फलदात् तस्मात् केनचिद् दोषेण ब्राह्मणाद्य्-अनर्ह-भावान्तरानुगमेऽपि यत्नात् स्वभाव-स्थस् तद्-अर्ह-भाव-स्थ एव सन् स्वकर्म-कृत् तद्-अर्ह-कर्म-कृद् एव च सन् कर्मेति कर्माजीव्यम् एव सम्पूजयेत्, न तु बहिरङ्ग-देवादीन् इत्य् अर्थः । अग्रे तथैव व्यक्तेः, तद् एवाह—अञ्जसेति । हि यतः । सुख-पूर्वकं येन या वर्तेत यत् य आजीव्येत् तद् एवास्य जनस्य दैवतम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्मात् स्वभाव एव कर्मान्तर-प्रवर्तकः कर्मैव च फल-दातृ तस्माद् दोषेण ब्राह्मणाद्य्-अनर्ह-भावान्तरानुगमनेऽपि यत्नात् स्वभाव-स्थस् तद्-अर्ह-भावस्थ एव सन्, स्व-कर्म-कृत् तद्-अर्ह-कर्म-कृद् एव च सन् कर्मेति कर्माजीव्यम् एव सम्पूजयेत्, न तु बहिरङ्ग-देवादिम् इत्य् अर्थः । अग्रे तथैव व्यक्तेः ॥१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्पूजयेत् सम्मानयेत् कर्म-सामान्यस्यापि पूज्यत्वेऽपि कर्म-विशेष-करणे शास्त्रम् एव प्रमाणम् इत्य् आह—स्वभावस्थः ब्राह्मणादि-वर्ण-स्थः स्व-स्व-विहितं कर्म करोतीति सः । ननु, तद् अप्य् अत्र देवतोद्देशेन द्रव्य-त्यागात्मकत्वात् यागस्य कथं देवतां विना सिद्धिर् इत्य् आशङ्क्य कर्माङ्ग-मात्रं देवेतेति मतम् अङ्गीकुर्वन् हेतु-वादम् आश्रित्यान्याम् एव देवतां समर्थयते अञ्जस्या सुखेन वर्तेत जीवेत ॥१८॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तस्माद् इति स्वभावस्थः विप्रादि-वर्णस्थः स्व-कर्म-कृत् स्व-स्व-विहित-कर्मानुष्ठायी कर्म सम्पूजयेत् स्वीकुर्यात्, न तु देवतां चेत्य् अर्थः । ननु य्ङादि-कर्मणो देवतोद्देशेन द्रवय-त्याग-रूपत्वात् कथं देवतां विना तस्य सिद्धिर् इत्य् आशङ्क्याहुः—अञ्जसेति । येन भिक्षा विजय-कृष्यादि सेवा-रूपेण कर्मणा जनोऽञ्जसा अनायासेन वर्तेत जीवेत तद् एवास्य दैवतं न ततोऽन्यथा देवता दृश्यते इत्य् अर्थः । कर्मैव गुरुर् ईश्वर इति पूर्वोक्तेः इन्द्रादि-देवता-स्वीकारस् तु कर्म-स्वरूपम् अविदुषाम् एवेति भावः ॥१८॥
॥ १०.२४.१९ ॥
आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति ।
न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हेतु-बलेनैव विपक्षे दोषम् आह—आजीव्येति । उपजीवति सेवते ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपक्षे एतत्-पक्षानङ्गीकारे । आजीव्य आश्रित्य । एकतरं मुख्यं भावं देवादि-रूपम् । अन्यं गौणम् । तस्मात् गौणात् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकतरं भावम् एकं पदार्थमाजीव्य जीवनोपायं कृत्वा अन्यस्मात् सुख-भोगादिकं करोतीत्य् अर्थः । तस्माद् इत्य् अन्यस्माद् वा, क्षेमं सुखं मङ्घलं वा स नाप्नोति, अतो\ऽस्माभिर् निजोपजीव्यानां गवां तद् उपजीव्यस्य च श्री-गोवर्धनस्य पूजा कर्येति भावः । इति—पर्जन्यो भगवान् इन्द्रः [८।श्लो] इत्य्-आदिकं परिहृतम् ते\ऽभिवर्षन्तीत्यादेर् अन्ते परिहारेणैव सर्वापेक्ष्य-समाप्तेः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकतरं भावम् एकं पदार्थम् आजीव्य जीवनोपायं कृत्वा तस्माद् अन्यस्मात् जाराद् इति तत्-सामानाधिकरण्येन दृष्टान्तः । जारम् इति क्वचित् पाथः, तथापि तद् एव तात्पर्यं पित्रादिष्व् अत्यन्तौद्धत्यम् इदं तत् कर्तृक-नीचाराधनजेन कोपेनैवेति ज्ञेयम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् अन्यस्मात् जीवाद् इति तत्-सामानाधिकरण्येन दृष्टान्तः । पित्रादिष्व् अप्य् औद्धत्यम् इदं तत्-कर्तृक-नीचाराधनजेन क्रोधेन इति ज्ञेयम् ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेतु-बलेनैव विपक्षे दोषम् आह—आजीव्येति । उपजीवति सेवते ॥१९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : जीविकोपायस्यैव हेतु-बलाद् देवतात्वम् आश्रित्य विपक्षे ते दोषम् आहुर् इत्य् आह—आजीव्येति । एकतरं जीविकोपायं भावम् अर्थम् आजीवम् आलम्ब्य योऽन्यम् इन्द्रादिम् उपजीवत्याश्रयति स तस्मात् क्षेमं न विन्दति कृतघ्नत्वात् ॥१९॥
॥ १०.२४.२० ॥
वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।
वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विज-सेवया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-वृत्तिं वक्तुं दृष्टान्तत्वेन वर्णानां वृत्ति-भेदम् आह—वर्तेतेति । ब्रह्मणा वेदाध्यापनादिना ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-वृत्तिं निज-जीवनम् । आदिना यागाध्ययनादि-ग्रहः । यद् वा, ब्रह्मणा तपसा कृच्छ्र-चान्द्रायणादि-रूपेण, वेदस् तत्त्वं तपो ब्रह्म इत्य् अमरः । वार्तया कृथ्यादि-रूपया ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना तच् छेषेण [१०.२४.१०] इत्य्-आदिकं परिहरन् निजोपजीव्य-पूजाम् एव सुखाधयितुम् आदावात्मनो गोवृत्तित्वम् आह—वर्तेतेति द्वाभ्याम् । यद्य् अपि द्विजास्त्रैर् वणिकास् तथापि प्राधान्याद् विप्रा ज्ञेयाः, त्रैवर्णिका एव वा ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अधुना स्व-कर्माजीव्य-पूजाम् एव साधयितुम् आदावात्मनो गोवृत्तिम् आह—वर्तेतेति द्वाभ्यां ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-कर्माजीव्य-पूजाम् एव साधयितुम् आत्मनो गो-वृत्तित्वम् आह—वर्तेतेति द्वाभ्याम् ॥२०.२३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् अस्माकं य एवाजीव्यः सैव देवतेति वक्तुं दृष्टान्तत्वेनान्येषाम् अप्य् आह—वर्तेतेति । विप्रस्य वेद-शास्त्राण्य् एव दैवतानि रक्षया भुव इति भूर् एव तस्य देवता वार्तयेति वार्तैव तस्य देवता द्विज-शुश्रूषयेति द्विजा एव तस्य देवता इत्य् अर्थः ॥२०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : जीविकोपाय-भूतां वृतिं ते विभजन्ति—वर्तेतेति ब्रह्मणा वेदाध्ययनाध्या-पनादिना ॥२०॥
॥ १०.२४.२१ ॥
कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते ।
वार्ता चतुर्-विधा तत्र वयं गो-वृत्तयोऽनिशम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैश्य-वृत्तेश् चातुर्-विध्यम् आह—कृषीति । कृषि-वाणिज्य-सहिता गो-रक्षा एवं त्रयम् । कुसीदं वृद्धि-जीवनं चतुर्थम् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृषिः भुवो हलादिनोल्लेखन-रूपा क्रिया । वाणिज्यं तु सत्यानृत-रूपम् । निर्णय-सुधाकरे तु—
समर्घं पण्यम् आदाय महर्धं यत् प्रदीयते ।
तद् वाणिज्यम् इति प्रोक्तं क्रय-विक्रय-संज्ञकम् ॥ इत्य् उक्तम् ।
गो-रक्षा पशु-पालनम् । तल्-लब्धवस्व् इत्य् अर्थः । कुसीदं वृद्ध्य्-अर्थं धन-प्रयोगः । तत्-प्रकारं तु मनुर् आह—
अशीति-भागं गृह्णीयान् मासाद् वार्धुषिकः शते ।
द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् ॥
द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ।
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ॥
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ।
न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ॥ [म।सं। ८.१४१-१४३] इति ।
व्याख्यैषां—शते प्रयुक्ते अशीति-भागं शताशीति-भागं प्रतिमासं गृह्णीयात् । पण-शते प्रयुक्ते पण-द्वयं वा प्रतिमासं गृह्णीयात् । साधु-धर्मत्वाद् एक-शते द्विक-ग्रहणस्य तेन किल्बिषी पापी न स्यात् । ब्राह्मणादि-क्रमेण द्विकं त्रिकं चतुष्कं पञ्चकं च शतं समम् एवेतोधिक्-अं मास-वृद्धिं न गृह्णीयात् ।
नन्व् अशीति-भागो लघुः द्विकं शते गुरुः कथम् इमौ ब्राह्मणस्य विकल्पौ, अत्राह यज्ञवल्क्यः—
अशीति-भागो वृद्धिः स्यान् मासि मासि स-बन्धके ।
वर्ण-क्रमाच् छते द्वि-त्रि-चतुः-पञ्चकम् अन्यथा ॥
इत्य् अलं प्रसक्तानुप्रसक्तेन । कौ भूमौ सीदति वर्धते ग्रहीता तपति दातानेनेति कुसीदम् । कुत्सितान् मुखतः कृत्वादातॄन् सीदति पीडयतीति वा कुसीदम् । औणादिक-श-प्रत्यये रूपम् । यद् वा, कुसेरुभोमेदेताः इति कुस् संश्लेषणे अस्माद् औणादिके द-प्रत्यये वा रूपम् । कुसीदं वृद्धि-जीवनम् इत्य् अमरः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद्यपि, वार्ध्युषिर् नरकं याति इति वचनेन कुसीदं निषिद्धम् । तथापि वैश्यानां तस्य विहितत्वात् तद्-वचनं नियताधिक-वृद्धि-ग्रहण-परम् । किं वा, आपदा वैश्य-वृत्तिक-विप्रविषयकं ज्ञेयम् । अनिशम् इति कदाचिद् अपि वृत्त्य्-अन्तराभावात् सदा गाव एकास्माकम् उपजीव्याः, तत्-पालनाच् च स्वत एव त्रिवर्गोऽपि सम्पत्स्यत इति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनिशम् इति वैश्येष्व् अपि गोपत्वान् न कृष्यादि कापि वृत्तिर् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृषिर् भुव उल्लेखनादि-क्रिया । वाणिज्यं सत्यानृत-लक्षण-क्रियादि, गो-रक्षा पशु-पालनं, वृद्ध्य्-अर्थं द्रव्य-प्रयोगः कुसीदं, तत्र कृष्यादिषु गोभिर् वृत्तिर् आजीवनं येषाम् ते तथा ॥२१॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : वैश्य-वृत्तेर् अवान्तर-भेदम् आहुः—कृषि-वाणिज्याभ्यां सहिता गो-रक्षा कुसीदं कुलावृद्धिस् तुर्यम् इति चतुर्विधा वैश्यस्य वार्ता वृत्तिः । तत्र तासु वयं गोरक्षा-वृत्तयो वैश्यत्वात् अनिशम् इत्य् आपद्य् अपि कृस्याद्य्-अकरण-करण्यात् । तथा च कर्म-वादिभिर् अप्य् अस्माकं गोपालनम् एव वृत्तिर् उक्ता । अतः किम् इन्द्रेणेति प्रजेश-चरणैर् अङ्गीकृता देवता कर्म-वादिभिर् एवम् अवमन्यते ॥२१॥
॥ १०.२४.२२ ॥
सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ।
रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गवाम् अपि वृत्तिर् महेन्द्राधीनैवेत्य् आशङ्क्य निरीश्वर-साङ्ख्य-मताश्रयेण निराकरोति—सत्त्वम् इति श्लोक-द्वयेन । अन्योन्यं स्त्री-पुरुष-योगेन ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् नदः शङ्कते—नन्व् इति । निरीश्वर-साङ्ख्या हि गुणेभ्य एव सृष्ट्यादिम् अन्वते इत्य् एते । विविधं स्थावर-जङ्गमात्मक-मण्ड-जाद्यात्मकं वा ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते\ऽभिवर्षन्तीत्य् आदिकं परिहरति—सत्त्वम् इति द्वाभ्याम् । विश्वं समस्तं विविधं देवासुरादि-भेदेन जरायुजत्वादि-भेदेन च यद्य् अपि वृष्टेः स्थिति-हेतुत्वात् सत्त्वेन चोदिता इति वर्षा-योग्यम्, तथापि वृष्ट्या प्रायो-गवाजीवाहरित-तृणादि-जन्मापेक्षया रजसेत्य् उक्तिः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं-पूर्वं कारण-रूपं विविधं विश्वम् अन्योन्यं स्त्री-पुरुषादि-योगेन विविधं जगद् रूपं सद् उत्पद्यते सत्त्वादीनां स्थित्यादि-हेतुत्वं स्वभावत एवेति ज्ञेयम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, गवाम् अपि वृत्तिर् महेन्द्राधीनैवेत्य् आशङ्क्य निरीश्वर-साङ्ख्य-मताश्रयेण निराकरोति, सत्त्वम् इति द्वाभ्याम् । अन्योन्यं स्त्री-पुरुषयोर् योगेन ॥२२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ गवां पालनम् इन्द्राधीनम् इति चेत् तात-पादैर् उच्यते तद् इदं दूषयन्तीत्य् आह—सत्त्वम् इति द्वाभ्याम् ॥२२॥
॥ १०.२४.२३ ॥
रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः ।
प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वत इति । समुद्र-शिलोषरादिष्व् अपि वृष्टि-दर्शनान् न प्रेक्षावत् पूर्वकत्वं वृष्टेर् इति भावः । तैर् एव मेघैर् एव । सिध्यन्ति जीवन्ति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रेक्षावत् पूर्वकत्वं बुद्धिमत्त्व-पूर्वकत्वं, प्रेक्षोपलब्धिश् चित्-संवित्-प्रतिपज्-ज्ञप्ति-चेतनाः इत्य् अमरः । इति भाव इति । बुद्धि-पूर्वकत्वे तु समुद्रादिषु प्रयोजनाभावाद् वृष्टिः ।कदापि नो भवेद् इति । विनैवेश्वरं जगद् उत्पत्त्य्-आदि-सिद्धेर् इत्य् अर्थः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महेन्द्रः सर्वेषां देवानां देवानां मेघादीनां च प्रभुर् अपि किं कर्तुं तत्र शक्नोति ? अपि तु न किञ्चिद् इत्य् अर्थः, मेघानां तस्यापि रजो\ऽधीनत्वात् । यद् वा, त्रि-लोकीश्वरो\ऽपि किम् अपरं तत्र साहाय्यं करिष्यति ? प्रजा इति तासां तत्-प्रतिपाल्यता सूचिता । तथापि मेघैर् एव तत्-सुसिद्धेस् तेन किम् इति भावः । अनेन—वार्मुचां पतिम् ईश्वरम् [नवम। श्लो] इत्य्-आदि परिगृह्यम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महेन्द्र इति सोपहासं मेघानां तस्यापि रजोधीनत्वात् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वत इति समुद्र-शिलोषरादिष्व् अपि वृष्टि-दर्शनान्न-प्रेक्षा पूर्वकत्वं वृष्टेर् इति भावः । तैर् एव मेघैर् एव सिद्ध्यन्ति जीवन्ति ॥२३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सर्वत इति सागर-शिलोषरादिष्व् अपि वृष्टेर् वीक्षणान् न त्र्स्याः प्रेक्षा-पूर्वकत्वं तैर् मेघैर् एव प्रजाः सिध्यन्ति जीवन्ति तथा च कर्मिभिः कापिलैश् च विद्वद्भिर् निराकृतत्वात् स्व-जीविकार्था महेन्द्र-पूजा पितृ-चरणैर् उक्ता न युक्तेति ॥२३॥
॥ १०.२४.२४ ॥
न नः पुरो जनपदा न ग्रामा न गृहा वयम् ।
वनौकसस् तात नित्यं वन-शैल-निवासिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि योग-क्षेमार्थं देवतापेक्षेति चेद् अत आह—न नः पुर इति । पुरः पत्तनानि । जन-पदा देशाः । अस्माकं योग-क्षेम-हेतुर् वन-शैलादय एवेति भावः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्यपि विनैव देवं जगद्-उत्प्रत्त्यादि भवति तथापि योग-क्षेमार्थम् अप्राप्त-प्रायण-प्राप्त-रक्षणाय । नः अस्माकं पुरः योग-क्षेमावहा न सन्ति । इति भाव इति । वन-शैल-स्थानां वन्दादि-देवादयः पूज्या न जानपदाद्या इति तात्पर्यम् ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुंसाम् इत्य्-आदिकं परिहरति-नेति वनान्येवौकांसि गृहा येषां ताथा-भूता वयम्, हे तातेति जात्यैतादृशा वयम् इति बोधयति, न च कदाप्य् अन्यत्र प्रयाम इत्य् आह—गोपानां बहवो देशाः, पुरोहितादीनां ग्रामश् च, पुर्यां च तस्थां मणि-स्तम्भादि-रचिताः प्रासादाः सन्ति, तत्राह—नित्यम् इति । पुर्यादिषु वर्तमानेष्व् अपि वन-शैलेष्व् एव नित्यं नितरां वासेन तत् तद् अनपेक्षणात् सन्तो\ऽपि ते न सन्त्येवेति भावः । एवं शैल-श्रेष्ठ श्री-गोवर्धने निज-निवासश् च सूचितः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वनान्य् एव ओकांसि येषां तथा-भूता जात्यैव वयम् अत एव न कदाप्य् अन्यत्र प्रयाम इत्य् आह—नित्यम् इति । हे तातेति तमार्द्रयति एवं श्री-गोवर्धन-समीपे निज-वासश् च सूचितः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न न इति द्वाभ्यां तदानीं श्री-गोवर्धन-समीप एव व्रजं बोधयति ॥२४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, गा वर्धयतीति गोवर्धन इति व्युत्पत्तेः । याथार्थ्येनैवानु-भूयमानत्वाद् गवां वृत्तिर् गोवर्धनाधीनैवेति गोवर्धनश् च पूज्य इत्य् आह—नेति द्वाभ्याम् । पुरः पत्तनानि जनपदा देशाः किन्तु गोधन-चारकत्वात् वनौकसः ॥२४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ननु वत्स आयुष्मन् ! वैष्णव-पुत्रेण वेद-मूर्तिना स्वयं भगवता त्वया किम् अयं वेद-विरुद्धः कर्म-वादः प्रधान-वादश् च प्रस्तूयते तस्य तस्य च बादरायणेन परमर्षिणा चतुर्लक्षण्य-निरस्तत्वात् तस्मात् परेशेन मृष्टा दत्त-भागा च वेदोक्ता देवता त्वया स्वीकार्येति चेन्, न, मया निरीश्वरः स च स च वादः स्वीक्रियते, किन्तु साक्षात्-फल-दात्रीं देवतां विहाय, ततो\ऽन्या अप्रत्यक्षा देवता तात-पादैर् अभिमता, तेन तेन वादेनाक्षिप्यते ।
ननु साक्षात् फल-दात्री तां देवतां त्वम् आदिशेति चेन्, मद्-अभिमता सा तु गिरिराजो\ऽयम् इति भावेनाह—न न इति । नो\ऽस्माकं बृहद्-वन—नन्दीश्वरादि-गताः पुरस् तत्-सम्बद्धाः कालिन्दी-पारावार-भूषण-जनपदास् तद्-वर्तिनो ग्रामास् तत्-स्था गृहाश् च नोपजीव्या इति शेषः । तेषां करैर् नोपजीवामः, किन्तु तन्-निवासिनाम् अञ्जलि-योजनम् एव करत्वेन स्वीकुर्महे इति, सुखिन्यो\ऽस्मत्-प्रजा इति भावः । हे तात ! वयं नित्यं वनौकसः गोचारणाय गिरिराज-वनेषु प्रायेणावस्थितेः वन-शैलेन रत्न-मयेन कल्पतरु-मण्डितेन ततो\ऽखिल-वाञ्छित-दात्रा गिरिराजेन हेतुना निवासस् तेषु पुरादिषु सुख-स्थितिर् विद्यते येषां तादृशा वयम् इति योग-क्षेम-कारित्वात् शैलो\ऽयम् अस्माकं देवता-पदर्पितान् दिव्य-पुष्पादि-भोगान् भुञ्जामहे यद् उपाश्रयणात् दुर्दान्तान् रिपून् जयाम इति भावः । आपातार्थ-ग्रहस् तु मन्द एव नन्दे व्रज-पतित्वोक्तेर् विचित्र-तूर्य-रथ-मणि-स्वर्णा-विभूषण-कुङ्कुमाद्यते लेप-भागोक्तेर् व्रजे सर्व-समृद्धिमत्त्वोक्तेश् च व्याकोपात्, चिन्तामणि-प्रकर-सद्मसु इत्य्-आदि ब्रह्म-वाक्याच् चान्यत्र ॥२४॥
॥ १०.२४.२५ ॥
तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः ।
य इन्द्र-याग-सम्भारास् तैर् अयं साध्यतां मखः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणान् अपि सङ्गृह्णन् निगमयति, तस्माद् इति । स्वयम् उत्प्रेक्षित-याग-प्रयोग-कल्पनाम् आह—य इन्द्र-याग-संभारा इति सार्ध-पञ्चभिः संभाराः साधनानि ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्राह्मणान् विना कर्म-मात्रं न सेत्स्यतीत्य् अभिप्रेत्याह—ब्राह्मणेति । निगमयति बोधयति । यतो वयं वनुकसस् तस्माद् धेतोः । आरभ्यताम् अद्यारभ्य प्रवर्त्यताम् । सम्भारः सामग्री, सम्भारः साधनोपाये पाल-सन्धार्य-भूषणे इति निरुक्ति-कारः । स्वयम् उत्प्रेक्षितः स्व-कल्पितः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्राह्मणानाम् इति ब्रह्मण्य-देवत्वात्, अन्यथा देवानाम् इव तेषाम् अप्य् अपूज्यत्व-प्रशक्तेः तैर् विना यागासम्पत्तेश् च । अद्रिः श्री-गोवर्धन एव, मुख्यत्वात्, लोकतः शास्त्रतश् च तस्यैव पूजन-प्रसिद्धेः । पूजितस्य तस्यैवाग्रे उद्धरणाच् च, तन् नामाग्रहणं तत्र तस्यैव सुप्रसिद्धत्वात्, अतिसन्निहितत्वेन तद् एक-ज्ञेयत्वाद् वा । तैर् एव साध्यताम् इति देवता-निराकरणेनेन्द्रस्याप्रयोजकतोक्तेः द्रव्याहरण-परिश्रमाभावाच् च, एतच् च तस्यादिक-कोप-जननार्थम् एव । एवं पारम्पर्यागत-धर्म-प्रतिपालनम् अपि वृत्तम्, पूज्य-पूजार्थं काले संभूतानां द्रव्याणां तद्-अर्थं तदानीम् एव सम्यग् विनियोगात्, केवलं गड्डरिका-प्रवाह-न्यायेनाविचारतः पूज्यस्येन्द्रस्य परित्याजेन योग्य-पूज्यान्तरस्यैव पूजा-प्रवर्तनात्, अतो विशिष्ट-पूज्य-सम्पत्तेः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मात् आजीव्यत्वात् तत्र ब्राह्मणानां गवादिवत् प्राग्-अनुक्तिः सर्वाजीव्यतया सामान्यत एव प्राप्तेर् इति भावः । तथा च मनुः—
उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश् चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ [मनु १.९३] इति ।
आजीव्यतयोक्तत्वेऽपि वनस्थान् उक्तेर् देवतात्वाप्रसिद्धेः तत्राद्रेर् एव वा । मुख्यत्वात् यथा स्कान्दे, अहो वृन्दावनं रम्यं यत्र गोवर्धनो गिरिः इति । अत्र देवानां समुच्चयात् मखस्य चैक-वचनोक्तेर् देवता-त्रयाराधनात्मक एक एवायं मखो ज्ञेयः । वक्ष्यते च तद्-द्रव्येण गिरि-द्विजान् इत्य्-आदि गोद्विज-मखम् इति च । तथापि कृष्णस् त्व् अन्यतमं रूपम् इत्य्-आदिना तस्यैव महिम-दर्शनात् तद्-अभेद-दर्शनाच् च शैलस्यैव मुख्यत्वम् अवगम्यते । यद्यपि श्री-वृन्दावन-भूमौ नन्दीश्वराष्ट-कूट-वरसानु-धवल-गिरि-सौगन्धिकादयो बहवोऽद्रयो वर्तन्ते, तथाप्य् अत्र अद्रिः श्री-गोवर्धन एव, तन्-नाम-निरुक्ति-बलात्, पञ्चमे कुलाचल-मध्ये गणनेन तत्-पाद-स्वरूप-तत्-तद्-अद्रेस् तस्यैव मुख्यत्वात्, लोक-शास्त्रयोस् तस्यैव पूजन-प्रसिद्धेः । पूजितस्य तस्याग्रे समुद्धरणात्, तत्रैक-देशे स्वेवानुकूट इत्य्-आदि-प्रसिद्धेश् च, तन्-नाम्ना ग्रहणम् अतिसन्निहितत्वेन व्रजाग्रिम-देशे तस्यैव ज्ञेयत्वात् तैर् एव साध्यताम् इति देवता-निराकरणेन इन्द्रस्याप्रयोजकतोक्तेः । एवं द्रव्याहरण-परिश्रमाभावश् च सूचितः । एतच् च तस्यादिक-कोप-जननार्थम् एव । एवं पारम्पर्यागत-धर्म-परिपालनम् अपि वृत्तम् । अयोग्य-प्रदान-परित्याग-पूर्वक-योग्य-सम्प्रदान-मात्र-ग्रहणाविशेषात् प्रत्युत विशिष्टात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् आजीव्यत्वात् अत्र सर्वत्र प्रसिद्धेः ब्राह्मणा अपि सङ्गृहीताः । देवतानां समुच्चयात् मखस्य चैकत्वात् देवता-त्रयाराधनात्मक एवायं मखः । तथापि गोवर्धनस्य माहात्म्य-विशेष-दर्शनात् तदीयता प्रसिद्धिः ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्राह्मणानाम् आशिषोऽस्माकं प्रत्यक्ष-फला इति तेऽपि पूज्या इति स्व-मते तान् अप्य् अनुकूलयन्न् आह—तस्माद् इति । सम्भाराः साधनानि ॥२५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : स्वाभिमता देवताः स्फुटयन् निगमयति—तस्माद् इति ताभ्यः फलानि तु दुग्धादिन्य् आशीर्वादैर् गवादि-सम्पदां वृद्धयस् तृण-जल-दिव्य-पुष्प-फलादीनि च बोध्यानि । न च मद्-उक्ते मखे पृथग्-द्रव्य-व्ययो भावीत्य् आह—इन्द्रेति । सम्भाराः सामग्र्यः ॥२५॥
॥ १०.२४.२६ ॥
पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।
संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूपं मौद्गम् । पायसं केवले पयसि पक्वम् । संयावादयो गो-धूमादि-विक्रियाः । क्रमश् च सूप-पायसयोः श्रुत्या दोहस्यार्थतोऽन्येषां पाठतः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मौद्गं मुद्ग-पाकः । शष्कुली च मण्डलाकृतिर् घृत-पक्वा गोधूम-विकृतिः । श्रुत्या श्रवणेन । आदौ पायसम् अन्ते सूपः । दोहस्य दुग्धस्य । अर्थतः प्रयोजनतः । यथा यस्य दुग्धादेर् अपेक्षा तत्रैव तद्-आदेयम् इति । सर्व-पदेन समग्र-दुग्धस्य वा दधि-तक्रादेर् ग्रहः । अन्येषां संव्यावादीनाम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महेन्द्रयागाद् अप्य् अयं मखो विशेषतः सम्पाद्य इत्य् आशयेन तद् विधि-विशेषम् उपदिशति पच्यन्ताम् इति चतुर्भिः । पाकाः पचनीया अन्न-व्यञ्जनादयः, आदि-शब्देन गृहीतानाम् अपि संयावादीनां पृथग्-उक्तिस् तेषां प्राचुर्यापेक्षया, अन्यत् तैर् व्याख्यातम् । तत्र दोहस्यार्थत इति दोहस्य गोरसस्य दुग्ध-दधि-वृतैस् तत् क्रम इति । चकार एवार्थए, तस्यैव । यद् वा, उक्त-समुच्चये अधिकं च चक्रुर् इत्य् अर्थः । सर्वो निःशेषः । यद् वा, सर्वेषाम् एव पशूनां सर्वस्य घोषस्य वा, दुह्यत इति दोहो दुग्धम्, तथा च हरि-वंशे—
तत्र हत्वा पशून् मेध्यान् वितत्यायतने ।
सर्व-घोषस्य सन्दोहः क्रियतां किं विचार्यते ॥ [ह।वं। २.१६.११] इति ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महेन्द्र-यागाद् अप्य् अयं मखो विशेषतः सम्पाद्य इत्य् आशयेन तद्-विधि-विशेषम् उपदिशति—पच्यन्ताम् इति चतुर्भिः । पाकाः पचनीया अन्न-व्यञ्जनादयः, सूपा व्यञ्जनानि, आदि-शब्देन गृहीतानाम् अपि संयावादीनां पृथग्-उक्तिस् तेषां प्राचुर्यापेक्षया, सर्व-दोहस्य विवरणं, यथा हरि-वंशे—त्रि-रात्रं चैव सन्दोहः सर्व-घोषस्य गृह्यताम् [ह।वं। २.१७.१४] इति । अन्यत् तैः । तत्र श्रुत्या आद्य्-अन्त-शब्द-श्रवणानुरूपम् इत्य् अर्थः । दोहस्य दुग्धस्य । अर्थतः प्रयोजन-वशात् प्रथमत इत्य् अर्थः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाका अन्न-व्यञ्जनादयः सूपान्ता इति सूपस्यौष्णं पायसादय इति पायसस्य शैत्यम् अपेक्षितं भवतीति भावः । संयावादयो गो-धूमादि-विक्रिया सर्वेषाम् एव व्रज-वासिनां दोहः दोहोत्थ-दुग्ध-दध्य्-आदि-सञ्चयः ॥२६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : पाका अन्न-व्यञ्जनादयः । सूपं मौद्गम् अस्ते येषां पायसं केवले पयसि पक्वम् आदौ येषां ते सूपे उष्ण्यस्य पायसे शैत्यस्य चापेक्ष्यत्वात् । संयावादयो गोधूमादि-विक्रिया सर्व-दोहश् च सर्वेषां व्रजौकसां दोहोत्थ-दुग्ध-दध्य्-आदि-सम्ऽउहः ॥२६॥
॥ १०.२४.२७ ॥
हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्म-वादिभिः ।
अन्नं बहु-विधं तेभ्यो देयं वो धेनु-दक्षिणाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : याग-शोभार्थं श्रद्धोत्पादनार्थं चाह—हूयन्ताम् इति । धेनु-दक्षिणाः धेनु-सहिता दक्षिणाः, ता एव वा दक्षिणाः । वो युष्माभिः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : होमं विना याग-शोभा श्रद्धा च न भवतीत्य् आशयेनाह—हूयन्ताम् । अग्नयः गार्हपत्यादयः । बहु-विधं लेह्यादि-रूपम् । यज्ञे केवल-गवाम् अपि दक्षिणात्वेन विधानम् । अत एव ता गावः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वेदाभ्यास-परैर् ब्राह्मणैर् अग्नयः सम्यक् हूयन्ताम् । यद् वा, सम्यग्भिर् ब्राह्मणैर् वैष्णव-विप्रैर् इत्य् अर्थः । बहुत्वं गार्हपत्यादि-त्रयापेक्षया, होम-बाहुल्येन गौरवापेक्षया वा । वो युष्माभिः । किं वा, वो युष्माकं याः प्रिया धेनवस् ता दक्षिणाश् च देयाः । हूयन्ताम् इति श्री-गोवर्धनस्याग्नि-मुखत्व-सुचनेनान्य-देवतावत् तस्यापि देवतात्वं बोधयति ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्रम-विधिम् आह—हूयन्ताम् इति । वेदाभ्यास-परैर् ब्राह्मणैर् अग्नयः सम्यक् हूयन्ताम् । यद् वा, सम्यग्भिर् ब्राह्मणैर् वैष्णव-विप्रैर् इत्य् अर्थः । बहुत्वं गार्हपत्यादि-द्वयापेक्षया, दक्षिणाग्नेर् अपि तत्र रक्ष आदि-हननापेक्षया ग्रहणं बहु-गुणम् इति बहु-विधम् इति वा पाठः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रम-विधिम् आह—हूयन्ताम् इति ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याग-शोभार्थं श्रद्धोत्यादनार्थं चाह—हूयन्ताम् इति । धेनु-सहिता दक्षिणाः वो युस्माभिः ॥२७॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : मख-शोभायै श्रद्धोत्पादनाय चाह—हूयन्ताम् इति । धेनु-सहिता दक्षिणा वो युष्माभिः ॥२७॥
॥ १०.२४.२८ ॥
अन्येभ्यश् चा-श्व-चाण्डाल-पतितेभ्यो यथार्हतः ।
यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यवसं तृणम् ॥२८-२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथार्हतः श्वेभ्यो बहिः, चाण्डालेभ्यश् श्वपचादिभ्यश् च । ततोऽपि बहिः, पतितेभ्यः सुरापादिभ्यः । ततोऽपि बहिर् इत्य् अर्थः । यवसं तृणादि । बलिः पायसादि-भागः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्येभ्य ऋत्विग्-इतरेभ्यो विप्रेभ्यो वैष्णवेभ्यो याचकेभ्यो दीनेभ्यश् च किं विशेष-निर्देशेन, श्वादीन् अभिव्याप्यैवान्नादिकं देयम् यथार्हत इति विचारेण यस्मै यद् दातुं युज्यते तद् अनतिक्रमेणेत्य् अर्थः । गवां गोभ्यः, बलिः गन्ध-पुष्पाद्य् उपचारः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्येभ्य ऋत्विग्-इतरेभ्यो विप्रेभ्यो वैष्णवेभ्यो दीनेभ्यो याचकेभ्यश् च किं विशेष-निर्देशेन, श्वादीन् अभिव्याप्यैवान्नादिकं देयम् यथार्हतो यथा-योग्यं देयं केवलम् इन्द्रं वर्जयित्वेति भावः । गवां गोभ्यः, बलिः गन्ध-पुष्पाद्य् उपचारः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-मते अन्त्यज-पर्यन्तान् सर्वान् एव व्रज-वासिनोऽनुकूलयन्न् आह—अन्येभ्य इति । बलिः गन्ध-पुष्पाद्य्-उपचारः ॥२८.२९॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : स्व-मते ब्राह्मणान् अनुकूलान् कृत्वान्यान् अपि व्रजस्थान् सर्वान् अनुकूलयन्न् आह—अन्येभ्य इति । अन्नस्य क्षुधितः पात्रम् इत्य् उक्तेर् न त्व् इन्द्रायेति भावः । यवसं तृणम् । बलिर् गन्ध-पुष्पाद्य्-उपहारः ॥२८॥
॥ १०.२४.२९ ॥
स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।
प्रदक्षिणं च कुरुत गो-विप्रानल-पर्वतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गिरि-पूजानन्तरं ब्राह्मणान् सम्भोज्य पश्चात् स्वयं भुक्त्वालङ्कृताः सन्तः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पश्चात् सुष्ठ्व् अलङ्कृतास् तच्-छेषं भुक्तवन्तश् च सन्तः । यद् वा, न चान्य-कृत्यवद् इदं दुःख-साध्यम्, किन्तु सानन्द-महोत्सव एव कार्य इति । प्रीति-विशेषार्थम् उपदिशति—स्वलम् इत्य्-आदि । भुक्तवन्त इत्य् अत्र प्राक् पश्चाद् इव सु-शब्द-प्रयोगस् तेषां गो-रस-प्रधान-भोजनेन स्वत एव तत् सौष्ठव-सद्-भावात् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न चान्य-कृत्यवद् दुःख-साध्यम्, किन्तु परम-सुख-मयम् एवेत्य् आह—स्वलम् इत्य्-आदि । भुक्तवन्त इत्य् अत्र प्राक् पश्चाद् इव सु-शब्द-प्रयोगो दरिद्रं प्रत्य् एव तद्-वचनौचित्यात् । यद्यप्य् एकदैवात्र गवादीनां परिक्रम-विधानं, तथापि तत्-तत्-पूजान्ते पृथक् पृथग् एव ज्ञेयम् । पूजान्त-कर्तव्यत्वात् तस्य । अत एव गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् [भा।पु। १०.२४.३३] इति गिरेः परिक्रमः पृथग् एव वक्ष्यते । उदाहरिष्यमाण-हरि-वंश-वचनेन च नान्यथार्थः कल्प्यते स्वलङ्कृता इत्य्-आदिकानि तु न विशेषणानि, किन्तु प्ररोचनार्थम् उपलक्षणानि । ततो नाङ्गत्वे प्रविशन्ति तद्-अभावोऽपि तन्-निःस्पृहत्वेऽपि तत्-सिद्धेः । तस्मात् गवादीनां भोजनात् पूर्वम् एव परिक्रमः । अद्रेस् तु महा-भोजन-समाधानायैव तत्-पश्चाद् इति गवां च पूजा न सर्वासाम् असङ्ख्यत्वात्, किन्तु मुख्यानाम् एव तयस् तासां परिक्रमश् चाल्प इति ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वलङ्कृता इत्य्-आदिकानि प्ररोचनार्थम् उपलक्षणानि, न तु विशेषणानि । तानि विनापि फल-सिद्धेः अतस् तत्-तत्-पूजानन्तरं तत्-तत्-प्रदक्षिणा-भोजनानन्तरं श्री-गोवर्धन-परिक्रमः गोधनानि पुरस्कृत्येत्य्-आदि पृथग् उक्तेः ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्**।**
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : उपस्करत्वम् आह—स्वलङ्कृता इति ॥२९॥
॥ १०.२४.३० ॥
एतन् मम मतं तात क्रियतां यदि रोचते ।
अयं गो-ब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वान् शिरः-कम्पेनानुमोदयन्न् आह—गो-ब्राह्मणाद्रीणाम् इति । मह्यं मम च॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुमोदयन् आनन्दयन् । अयं मत्-प्रोक्तो मखः । दयितः प्रियः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे तातेति । पुत्रे मयि यदि स्नेहो वर्तते, तर्हि क्रियताम् इति गूढो भावः । यदि रोचत इति पूज्येषु तथैवोक्तेर् योग्यत्वात्, तेन च विनय-विशेषेण तत् कृत्यताम् एव समपादयति ।
यद् वा, अकरणे निजान्तर-वैवश्याभिव्यञ्जनेन स्व-मतम् एव साधयति—न केवलं मयि स्नेहेन मन्मतादरतः कार्यः, किन्तु सर्वेषां प्रीय-चिकीर्षयापीत्य् आह—अयम् इति । गवादीनां मम च प्रियः,
यद् वा, गवादीनां मखो\ऽयं मम, च-काराद् अन्येषां च सर्वेषाम् अत्रत्यानां प्रियः, ब्रह्मादीनाम् इति वा पाठः । आदि-शब्देन सर्वे व्रज-जनाः, अयं पाठस् तेषाम् अपि सम्मतो लक्ष्यते, सर्वान् शिरः-कम्पेनानुमोदयन्न् आहेति व्याख्यानात्, अन्यथा अद्रेः शिरः कम्प-सम्भवात्, तथा सर्वान् इत्य् अनुपपत्तेश् च ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे तातेति । यदि मयि स्नेहो वर्तते, तर्हि क्रियताम् इति गूढो भावः । यदि रोचत इति पूज्येषु तथैवोक्तेर् योग्यत्वात् । तेन च विनय-विशेषेण तत् कृत्यताम् एव समपादयति । किं च, अयम् गो-ब्राह्मणणादीनां मखा मन्यं च दयितो हित इत्य् अर्थः । हितार्थ-योगे हि चतुर्थी भवति कथम् अपि स्व-हितं ज्ञात्वा मद्-धितस्यैव च भवद्-एक-कर्तव्यताम् अनुभूय भवताम् इदं प्रार्थये न केवलं युक्तताम् एव निश्चित्येति भावः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अयं गवादीनां मखो मह्यं मम च दयितो हितः शक्रस्य दर्पोऽयं श्री-गोकुले श्री-कृष्णे चावज्ञात्मकः । अहो श्री-मद-माहात्म्यम् [भा।पु। १०.२५.३] इत्य्-आदिना व्यक्तीभावित्वात् ॥३०.३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मह्यं मम ॥३०॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : सर्वैकमत्यं प्रकाशयितुम् आह—एतद् इति । मह्यं मम ॥३०॥
॥ १०.२४.३१ ॥
श्री-शुक उवाच—
कालात्मना भगवता शक्र-दर्प-जिघांसया ।
प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्-वचः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कालस्य सर्व-दर्प-हरत्वाद् भगवतोऽपीन्द्र-दर-हरणात् तद्-रूपत्वेन विशिनष्टि—कालात्मनेति । काल आत्मा चेष्टा-रूपो यस्य, तेन, योऽयं कालस् तस्य ते व्यक्त-बन्धो चेष्टाम् आहुः [१०.३.२६] इत्य्-आद्य्-उक्तेः ।
यद् वा, काल-श्यामल-मेचकाः इत्य् अमरोक्तेः कालः श्यामल आत्मा देहो यस्य, तेन । यद् वा, कलयत्य् आकर्षति सर्व-चित्तम् इति कालः । स आत्मा स्वभावो यस्य, तेन तथा । आत्मत्मानस् तु मनो-बुद्धि-स्वभाव-धृति-जीवात्म-परमात्मान इति । तद्-वचः कृष्ण-वाक्यम् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कालात्मना भगवतेत्य्-आदि । कालात्मना कालस्य नियन्त्रा प्रेरकेण ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालस्यापि आत्मना प्रवर्तकेनेति सर्वेषां तद्-एकाधीनत्वं सूचितम्, अयं तद्-वचो-ग्रहणे हेतुः । यद् वा, परम-शक्तिमत्त्वम्, अत इन्द्र-दर्प-हतिस् तस्येषत्करेति भावः । यद् वा, शक्र-यागः प्रवर्तितस् तदानीं स एव प्रवृत्तः, अधुना चायम् एवेति तद्-इच्छयैव सर्वं प्रवर्तते, ताम् अतिक्रमितुं कः शक्नोति ? इति भावः । यद् वा, कालः श्यामल आत्मा देहो यस्येति श्याम-सुन्दरेणेत्य् अर्थः । यद् वा, कलयति जगच् चित्तम् आकर्षतीति काल आत्मा स्वभावो यस्य ।
किं च, तत् महा-मधुरम् । यद् वा, प्रोक्तम् अर्थं तस्य परम-स्निग्धस्य प्रियतमस्य वचः, तत्रापि साधु शब्दतो\ऽर्थतश् चोत्तमम् । यद् वा, साध्व् इति वदन्तु इति शेषः । यद् वा, साधु यथा स्यात् तथा प्रीति-पूर्वकम् अनुमोद्य परमोत्साहेन स्वीचक्रुर् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालस्यापि आत्मना प्रवर्तकेनेति सर्वेषां तद्-एकाधीनत्वं सूचितम् । अयं तद्-वचो-ग्रहणे हेतुः । यद् वा, परम-शक्तिमत्त्वम्, अत इन्द्र-दर्प-हतिस् तस्येषत्करेति भावः । यद् वा, शक्र-यागः प्रवर्तितस् तदानीं स एव प्रवृत्तः, अधुना चायम् एवेति तद्-इच्छयैव सर्वं प्रवर्तते, ताम् अतिक्रमितुं कः शक्नोतीति भावः ।
यद् वा, कालः श्यामल आत्मा देहो यस्येति श्याम-सुन्दरेणेत्य् अर्थः । तत्-सौन्दर्येण सर्वे वशीकृताः किं पुनर् वचनेनेति भावः ।
यद् वा, कलयति जगच्-चित्तम् आकर्षतीति, काल आत्मा स्वभावो यस्य । तत्-तद्-वचनाङ्गीकरणम् इदं न चित्रम् इति भावः । शक्रस्य यो दर्पः पूज्यमानस्यापि स्व-पित्र्-आदिषु प्राकृत-गोप-दृष्ट्या तेषां सम्बन्धेन स्वस्मिन्न् अपि मर्त्य-दृष्ट्या बाढम् अनादरात्मको य एव,
अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् ।
कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् ॥ [१०.२५.३] इति
प्राकट्यं लप्स्यमानस् तस्य स्वयं ज्ञायमानस्य जिघांसया, अत एव मन्युम् जनयन्न् इत्य् उक्तम् । अन्यथा भयम् एव स्यात्, न मन्यु-जननं चेदं तत्-सम्बन्धेन वैतद् अत्यन्त-कदर्थनेच्छयेति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ गोवर्धनोद्धरण-लीलां दर्शयन्न् आह—कालात्मनेत्य्-आदि । कालात्मना कालस्य नियामकेन, इन्द्रस्य मद-भङ्गस्य समयोऽयम् इति तथाविधं कालं प्रेरयामासेति भावः । प्रोक्तम् उक्त-प्रकारं मख-भङ्ग-रूपं वचनम्, साधु अवितर्कं यथा स्यात्, तथा अगृह्णन्त ॥३१.३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालात्मना इन्द्र-मख-संहारेकेण ॥३१॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कालात्मना इन्द्र-मख-संहारेण तथा चेत्य् अर्धम् ॥३१॥
॥ १०.२४.३२ ॥
तथा च व्यदधुः सर्वं यथाह मधुसूदनः ।
वाचयित्वा स्वस्त्य्-अयनं तद्-द्रव्येण गिरि-द्विजान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-द्रव्येण तेन महेन्द्र-मख-द्रव्येण गिरिं द्विजान् प्रति यथा-यथम् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मधुसूदन इति शक्रात् तेषां भयाभावं बोधयति । यद् वा, भ्रमरवत् सारग्राही मिष्ट-रसस्य विशेषेण भोक्तेति । तथा मधुसूदनोक्ति-प्रकारेण । यथा-यथं यथा-स्वम् इत्य् अर्थः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव तद्-अनुरूपम् एव सर्वे चक्रुर् इत्य् आह—तथेति द्वाभ्याम् । च-कार एवार्थे तथैव । यद् वा, अनुक्त-समुच्चये, अधिकं च चक्रुर् इत्य् अर्थः । तद्-विशेषश् च श्री-हरिवंशे श्री-वैशम्पायनोक्तः—
आनन्द-जननो घोषो महान् मुदित-गोकुलः ।
तूर्य-प्रणाद-घोषैश् च वृषभाणां च गर्जितैः ॥
हम्बा-रवैश् च वत्सानां गोपानां हर्ष-वर्धनः ।
दध्नो हृदः सरावर्तः पयः कुल्या-समाकुलः ॥
मांस-राशि-प्रकृष्टौघः प्रकाशौदन-पर्वतः ।
संप्रावर्तत यज्ञो\ऽस्य गिरेर् गोभिः समाकुलः ॥ । [ह।वं। २.१७.१६-१८]
तत्र दध्नो हृद इत्य्-आदिकं गोप-वर्गैः प्रहर्षेण दिनत्रयं सर्व-घोषस्य दोह-ग्रहणात्, तथा च तेषां वाक्यं तत्रैव, त्रिरात्रं चैव सन्दोहः सर्व-घोषस्य गृह्यताम् [ह।वं। २.१७.१४] इति । मधुसूदन इति परमसामर्थ्य-सूचनेन शक्रात् तेषां भयाभावं बोधयन् श्री-परीक्षितम् आश्वसयति । यद् वा, मधुपवत् सारग्राही मिष्ट-रस-विशेषोपभोक्ता चेति तस्य प्रियतम-दास-वर्य-मख-प्रवर्तनं तत्र च वक्ष्यमाण-तद्-बलिभोजनादिकं युज्यत एवेति भावः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एवाह—तथा चेत्य् अर्धकेन । तद्-विशेषश् च श्री-हरिवंशे—
आनन्द-जननो घोषो महान् मुदित-गोकुलः ।
तूर्य-प्रणाद-घोषैश् च वृषभाणां च गर्जितैः ॥
हम्बा-रवैश् च वत्सानां गोपानां हर्ष-वर्धनः ।
दध्नो ह्रदः सरावर्तः पयः-कुल्या-समाकुलः ॥ [ह।वं। २.१७.१६-१८] इत्य्-आदि ।
मधुसूदन इति परम-सामर्थ्य-सूचनेन शक्रात् तेषां भयाभावं बोधयति । श्लेषेण मधुपवत् सारग्राही मिष्ट-रसस्य विशेषेण भोक्ता चेति तस्य प्रियतम-दास-वर्य-मख-प्रवर्तनं तत्र च वक्ष्यमाण-तद्-बलि-भोजनादिकं युज्यत एवेति भावः । वाचयित्वेति सार्ध-द्वयकेन सङ्कलय्यैवानूद्यते, क्रमस् तु श्री-कृष्णोक्ति-विध्य्-अनुसारेणैव शेयः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वाचयित्वादिकम् अनुवाद-मात्रं न क्रम-तात्पर्यकम् ॥३२.३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-द्रव्येण इन्द्र-मख-द्रव्येण । गिरि-द्विजान् गिरये द्विजेभ्यश् च ॥३२॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : तद्-द्रव्येण इन्द्र-मख-सम्भारेण । गिरि-द्विजान् बलिम् उपहृत्य गिरये द्विजेभ्यश् च दत्त्वा ॥३२॥
॥ १०.२४.३३ ॥
उपहृत्य बलीन् सर्वान् आदृता यवसं यवाम् ।
गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बलीन् उपहृत्य दत्त्वा । आदृताः सादराः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बलीन् उपहारान् पुष्प-धूप-दीपादि-रूपान् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदृता इति कर्तव्यार्थम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपहृत्य दत्त्वा । आदृताः कृष्णेन ॥३३॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : कृष्णेन आदृताः गवां गोभ्यो यवसं तृणम् उपहृत्य ॥३३॥
॥ १०.२४.३४ ॥
अनांस्य् अनडुद्-युक्तानि ते चारुह्य स्वलङ्कृताः ।
गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः स-द्विजाशिषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनडुद्-युक्तान्य् उत्तमानडुद्भिर् युक्तानि । स-द्विजाशिषो द्विजा-शीर्भिः सहिताः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनड् वाहो युक्ता वहनोचिता तेषु तानि तथा । न त्व् अत्र युक्त-शब्दो योजनार्थकोऽपि तु योग्यार्थकः, युक्त योजन-योग्ययोः इति शब्दार्णवः । अत एव स्वामि-चरणैः उक्तम् उत्तमानड्-युक्तानीति । ते गोपाः । चात् पुरोहिताद्याः । कृष्ण-वीर्याणि पूतनादि-वध-रूपाणि बाल-चरितानि ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः । अयं भावः—अन्योन्यं गोपीनाम् एवं कथासीत्—असौ कृष्णः शत्रु-मख-भङ्गं कृतवान् । शक्रुः खलु कुपितः सन् यदि गोकुल-नाशय सज्जते, तदानेनैव सर्वं लाक्षिष्यते, अस्य किम् अपि दुष्करं नाति, यद् अनेन । शैशव एव पूतनादयो नाशिता इति –पूर्वतराणि यानि यानि तानि गायन्त्यो गिरिं प्रदक्षीणं चक्रुर् इत्य् अन्वयः ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): तेन तद् उपदिष्टेन द्रव्येण महेन्द्रम् अस्वार्थं सम्भृतेनान्येन च तद् अधिकेन सर्व-घोष-दोहेन विविध-पाकादि-साधितेनेत्य् अर्थः । गिरेर् आदौ निर्देशस् तस्यैव यागे मुख्यत्वात्, तन् नाम-ग्रहणं गौरवेण, किञ्चात्म-प्रभु-शृई-कृष्णोक्तानुसारेण, तच् च प्राग् उक्तम् एव । एवम् अग्रे\ऽपि सम्यक् यथाविधि श्रद्धयोपहृत्य । यद् वा, सम्यग् आदृताः परमादर-युक्ताः सन्तः श्री-भगवता नितरां श्लाधिता सम्मानिताश् चेति वा । यद् वा, श्री-गोवर्धन-मूर्द्ध्नि स्थितेन वक्ष्यमाणेन बृहद् वपुर्धरेण तेन सम्यग् डृताः सन्त इति श्री-हरि-वंशोक्तानुसारेण ज्ञेयम्, तथा च तत्र—
अद्य-प्रभृति चेज्यो\ऽहं चेद् अस्ति वो दया ॥
अहं वः प्रथमो देवः सर्व-कामकरः शुभः ।
मम प्रभावाच् च गवाम् अमृतान्य् एव भोक्षाय ॥
शिवश् च वो भविष्यामि मद् भक्तानां वने वने ।
रंस्ये\ऽहं सह युष्माभिर् यथा दिवि गतस् तथा ॥
ये चेमे प्रथिता गोपा नन्द-गोप-पुरोगमाः ।
एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ॥
पर्याप्नुवन्तु क्षिप्रं मां गावो वत्स-समाकुलाः ।
एवं मम परा प्रीतिर् भविष्यति न संशयः ॥ इति ॥ [ह।वं। २.१७.२७-३१]
कथं चक्रुः ? तद् आह—अनांसीति । ते श्री-नन्दादयो गोपाः, चकारात् केस्चिद्वृषानारुह्येत्य्-आदिकं ज्ञेयम् । यद् वा, कृत-भोजनादिका इति । तद् विशेषाश् चोक्ता हरिवंशे—
ततो नीराजनार्थं हि वृन्दशो गोकुलानि वै ।
परिवव्रुर् गिरिवरं सवृषाणि समन्ततः ॥
ता गावः हृष्टाः सा पीडकनकाङ्गदाः ।
सस्रग् आपीड-शृङ्गाग्राः शतशो\ऽथ सहस्रशः ॥
अनुजग्मुश् च गोपालाः पालयन्तो धनानि च ।
भक्तिच् छेदानुलिप्ताङ्गा रक्त-पीतासिताम्बराः ॥
मायूर-चित्राङ्गदिनो भुजैः प्रहरणावृतैः ।
मयूर-पत्र-चित्रैश् च केश-बन्धैः सुयोजितैः ॥
बभ्राजुर् अधिकं गोपाः समवाये तदा तु ते ।
अन्ये वृषानारुरुहुर् नृत्यन्ति स्म परे मुदा ॥
गोपालास् त्व् अपरे गाश् च जगृहुर् वेगगामिनः ॥ [ह।वं। २.१७.३२-३७]
इति गोप्यश् चानांस्य् आरुह्य प्रदक्षिणं चक्रुः, च-काराभ्याम् उभयेषाम् अपि प्राधान्येनादौ परिक्रमणे निर्विशेषम् उक्त्वा पश्चाद् भगवत् प्रियतमानां श्री-गोपीनां तद्-इष्ट-सिद्ध्या परिहृष्टानां विशेषम् आह—कृष्णस्य वीर्याणि श्री-गोवर्धन-यज्ञ-प्रवर्तनादीन्यद्भुत-चरितानि गायन्त्य इति, स-द्विजाशिष इत्य् अनेन विप्रा अपि सस्त्रीका गोप-गोपीनां सङ्गत्या प्रदक्षिणं चक्रुर् इति सुच्यते ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथं चक्रुः ? तद् आह—अनांसीति । तद्-विशेषश् चोक्तो हरिवंशे—
ततो नीराजनार्थं हि वृन्दशो गोकुलानि वै ।
परिवव्रुर् गिरिवरं सवृषाणि समन्ततः ॥
ता गावः हृष्टाः सा पीडकनकाङ्गदाः ।
सस्रग् आपीड-शृङ्गाग्राः शतशो\ऽथ सहस्रशः ॥
अनुजग्मुश् च गोपालाः पालयन्तो धनानि च ।
भक्तिच् छेदानुलिप्ताङ्गा रक्त-पीतासिताम्बराः ॥
मायूर-चित्राङ्गदिनो भुजैः प्रहरणावृतैः ।
मयूर-पत्र-चित्रैश् च केश-बन्धैः सुयोजितैः ॥
बभ्राजुर् अधिकं गोपाः समवाये तदा तु ते ।
अन्ये वृषान् आरुरुहुर् नृत्यन्ति स्म परे मुदा ॥
गोपालास् त्व् अपरे गाश् च जगृहुर् वेग-गामिनः ॥ [ह।वं। २.१७.३२-३७]
अत्र गोकुलानीति गोकुल-स्था जना इत्य् अर्थः । स-वृष्णाणीति तानि च निज-निज-श्रेष्ठः सह वर्तमानानीत्य् अर्थः । गोप्यश् चानांस्य् आरुह्य प्रदक्षिणं चक्रुः । च-काराभ्याम् उभयेषाम् अपि प्राधान्येन परिक्रमणे निर्विशेषम् उक्त्वा श्री-गोपीनां कञ्चिद् विशेषम् आह—कृष्णस्य वीर्याणि श्री-गोवर्धन-यज्ञ-प्रवर्तनान्तानि गायन्त्य इति स-द्विजाशिष इत्य् अनेन विप्रा अपि स-स्त्रीका प्रदक्षिणं चक्रुर् इति सुच्यते ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गोपाश् च कृष्ण-वीर्याणि । अयम् अर्थः—गोपीनाम् अन्योन्यम् एवं कथासीत्—“असौ व्रज-राज-कुमारः शक्र-मख-भङ्गं कृतवान् । शक्रस् तु कुपितः सन् यदि गोकुल-नाशाय वर्षति, तदानेनैव सर्वं समर्थयिष्यते । अस्य किम् अपि दुष्करं नास्ति” इति पूतना-मोक्षावधि यद् यद् वीर्यं,
तद् एव गायन्ति स्मेत्य् अर्थः । द्विजा अपि तत् श्रुत्वा ताभ्य आशिषं चक्रुर् इत्य् आह—स-द्विजाशिषः ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गवां गोभ्यः अनडुद्भिर् अनो-वाहकैर् वृषैर् युक्तानि ते गोपाश् च गोप्यश् च प्रदक्षिणं चक्रुः । स-द्विजाशिषः गीयमानाभिर् दिव्जाशीर्भिः सहिता द्विज-कर्तृकाशिषोऽपि गायन्त्य इत्य् अर्थः ॥३४॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अनडुद्भिर् युक्तान्य् अनांसि रथान् आरूह्य ते नन्दादयो गोपाः गोप्यश् च श्री-यशोदादयो गिरिं प्रदक्षिणं चक्रुः स-द्विजाशिषो द्विजाशीर्भिः सहिताः ॥३४॥
॥ १०.२४.३५ ॥
कृष्णस् त्व् अन्यतमं रूपं गोप-विश्रम्भनं गतः ।
शैलोऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्-वपुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोप-विश्रम्भणं गोपानां विश्वास-जनकं रूपं गतः प्राप्तः सन् बलिम् उपहारम् आदद् अभक्षयत् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यतमम् इति । तम् अप्रत्ययेनान्यान्य् अपि तत्-तत्-सन्धानार्थं रूपाणि कृतानीति लभ्यन्ते । उक्त-रूपापेक्षया नवीनम् । बृहद्-वपुः गिरि-तुल्य-शरीरः । गोप-विस्रंभणं पर्वत एवायम् इति गोप-विश्वास-जनकं रूपं प्राप्तः । शैलोऽस्मीति । एतद् देशाधिपतिर् अहम् एव युष्मद्-भक्त्या प्रादुर् आसं स्व-स्वाभिमतं वरं वृणुतेति वदन् बलिं नैवेद्यं दूरस्थैर् निकटस्थैर् नद-ग्रामादि-वर्तिभिर् अपरोक्षतः परोक्षतो वा ध्यानेन समर्प्यमाणं सहस्र-कोटि-हस्ततस् ततः स्थानाद् अतिदीर्घान् अतिदीर्घीकृत-पाणिभिर् आदाय तांस् तान् आनन्दयन्न् आदत् बुभुजे इति विश्वनाथः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इन्द्र-यागाद् अपि स्व-प्रवर्तित-यज्ञस्यास्य परमोत्तमत्वं दर्शयन् तस्मिन् विश्वासं च नितरां जनयन् गोवर्धन-मिषेण पृथक् स्वयं तन् मूर्ध्नि आविर्भूय तद् विलिस्वामिनं निज-दासवर्य तं गोपांश् च सर्वान् आनन्दयन् साक्षात् तद्-बलिं बुभुज इत्य् आह—कृष्णस्त्विति । तु—शब्दः पूर्वतो विशेषे, अन्यत् समम्, गोप-वर्ग-मध्ये वर्तमानान् निज-रूपदितरत्, तमप्रत्ययोत्यन्त-भेद-विवक्षया, गोपान् विस्रम्भयति विश्वासयतीति तथा तत्, अत एव बृहद् वपुर् आकारो यस्य तत्, अत एव भूरिं प्रचुरतरम् अपि बलिं तं सर्वम् अभुङ्क्त, तद् उक्तं हरिवंशे—
तं गोपाः पर्वताकारं दिव्य-स्रग्-अनुलेपनम् ।
गिरि-मूर्ध्नि स्थितं दृष्ट्वा हृष्टा जग्मुः प्रधानतः ॥ [ह।वं। २.१७.२४] इति ।
अतः श्री-कृष्णो\ऽयाम् अति प्रत्यभिज्ञा गोपानां नाजनीति बोधितम् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्र-यागाद् अपि स्व-प्रवर्तित-यज्ञस्यास्य परमोत्तमत्वं दर्शयन् तस्मिन् विश्वासं च नितरां जनयन् गोवर्धन-मिषेण पृथक् स्वयं तन्-मूर्तिर् आविर्भूय तद् बलि-स्वामिनं निज-दास-वर्यं तं गोपांश् च सर्वान् आनन्दयन् बलि-दानानन्तरम् एव साक्षात् तद्-बलिं बुभुज इत्य् आह—कृष्णस् त्व् इति । तु-शब्दः पूर्वतो विशेषे अन्यतमम् इति बहूनां प्रकर्षेण मद्-विधानात् । अतस् तदा सर्व-कर्म-संहितानार्थं सर्व-गोप-गोष्ठी-सन्तोषार्थम् अलक्षितं बहूनि रूपाण्य् आविष्कृतानि इति लभ्यते । तस्मिन् प्रकर्षश् च बृहत्त्वापेक्षयेति रूपम् आकारम् । अत एव बृहद्-वपुर् यस्य तम् । अत एव भूरि प्रचुरतरम् अपि बलिं तं सर्वम् एव अभुङ्क्त । एवं सर्व-गोकुल-वासिनां तादृश-प्रेमेच्छातस् तस्य च तथा-लालसातस् तथा भोजनम् इति च ज्ञेयम् । तद् उक्तं हरि-वंशे—
तं गोपाः पर्वताकारं दिव्य-स्रग्-अनुलेपनम् ।
गिरि-मूर्ध्नि स्थितं दृष्ट्वा हृष्टा जग्मुः प्रधानतः ॥ [ह।वं। २.१७.२४] इति ।
अतः श्री-कृष्णो\ऽयाम् इति प्रत्यभिज्ञा गोपानां नाजनीति बोधितम् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यतमम् इति तमप्-प्रत्ययेन तदानीं तत्-तत्-समाधानार्थम् अन्यान्य् अपि बहूनि रूपाणि प्रादुष्कृतानीति लभ्यते । बहूनां प्रकर्षे तम् अप्रकृष्टत्वं च बृहत्त्व-मात्रेण ॥३५.३८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-प्रवर्तिततयागस्यासाधारणम् उत्कर्षं दर्शयंस् तत्र सर्वेषां विश्वासं जनयन् स्वयम् एव देवता-रूपेण प्रत्यक्षी-बभूवेत्य् आह—कृष्णस् त्व् इति । अन्यतमं गोवर्धन-पर्वतोपरि द्वितयं पर्वतम् इव सर्वेन्द्रियवत् स्वरूपं गतः प्राप्तः गोपानां विश्रम्भणं पर्वत एवायम् इति विश्वासो यत्र तत् शैलोऽस्मीति एतद्-देशाधिपतिर् अहम् एव युष्मद्-भक्त्या प्रसन्नः प्रादुरभूवं स्व-स्वाभिमतं वरं वृणुतेति विब्रूवन् बलिं नैवेद्यं दूरस्थैर् निकटस्थैः नन्द-ग्रामादि-वर्तिभिर् वा व्रज-वासि-जनैर् अपरोक्षतः परोक्षतो वा ध्यानेन समर्पमाणं सहस्र-कोटि-हस्तस् ततस् तत्-स्थानाद् अतिदीर्घान् अतिदीर्घाकृत-पणिभिर् आदयस् तांस् तान् आनन्दयन्न् आदत् भुङ्क्ते स्म ॥३५॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अथ स्वक्ते मखे लोक-विश्वासाय तद्-अर्चितां गोवर्धन-देवतां प्रादर्शयद् इत्य् आह—कृष्ण इति । व्रज-जन-मध्य-वर्ती कृष्णः अन्यतमं गोवर्धनाद्रेर् ऊर्ध्व-गतं रूपं प्रकटितवान् कीदृक् बृहद्-वपुः सर्वतोपमं दिव्य-नेत्र-श्रोत्रादिमत् सहस्र-भुजम् अतिदीप्तं गोपानां विश्रम्भणं गिरिर् अयम् इति विश्वासो यत्र तत् शैलोऽहम् अस्म्य् एतद् देशाधिपतिर् अर्चन-तुष्टान् मत्तोऽभीष्टानि वृणुतेति । तेनैव रूपेण ब्रुवन् सर्वैर् अर्पितं भूरि बलिम् आदत् भुङ्क्ते स्म ॥३५॥
॥ १०.२४.३६ ॥
तस्मै नमो व्रज-जनैः स चक्रे आत्मनात्मने ।
अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मै आत्मने आत्मना स्वयं व्रज-जनैः सह नमश्-चक्रे । अहो इति सार्ध-श्लोकं पठन् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मना कृष्ण-रूपेण । आत्मने गोवर्धन-स्थ-हरि-दर्प-हारिणे । चक्रे आत्मना इह पूर्व-रूपम् आर्षम् । रूपी स्वीकृति-प्रशस्त-रूपः । अत्र प्रशंसायाम् इनिः । नः अस्मभ्यम् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आकारलोप आर्षः । आत्मना स्वयम् एव ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मा इत्य् अर्धकम् । कृष्ण इत्य् अनुवर्तते । व्रज-जनैः सहेति व्रज-जनानाम् अप्राधान्यं व्यज्य कृष्णस्य भक्त्य्-अतिशय-व्यञ्जकत्वं व्यञ्जितं चक्रे आत्मनेति । आकारेऽपि पुरे पूर्व-रूपत्वम् आर्षम् । आत्मना स्वयम् एव तत्र नाना-जन-वचनम् । अहो इति सार्धकम् । रूपी प्रत्यक्षः सन्न् इत्य् अर्थः । अनुग्रहं व्यधात् । रूपित्वेन साक्षाद् बल्य्-आदनादिना च ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तस्मै आत्मने आत्मना देहेन स्वयं व्रज-जनैः सह चक्रे । आत्मनेत्य् आकार-लोप आर्षः । अहो इति सार्ध-श्लोकं पठन् ॥३६॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : ततश् च तस्मै शैल-रूपायात्मने आत्मना देहेनैव व्रज-जनैः सह नमश् चक्रे । आत्मनेत्य् आकार-लोपः, गूढोत्मतिवत् पृषोदरादित्वात् ॥३६॥
॥ १०.२४.३७-३८ ॥
एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः ।
हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥
इत्य् अद्रि-गोद्विज-मखं वासुदेव-प्रणोदिताः ।
यथा विधाय ते गोपाः सह कृष्णा व्रजं ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काम-रूपी सर्पादि-रूपः । अस्मै अद्रये । शर्मणे क्षेमाय ॥३७॥
कर्मैवालं प्राक्-स्वभावो गुणो वा
कर्माङ्गं वा तद्-वशो वा महेशः ।
वार्ता-कर्त्री-देवतेतीयम् उक्ता
देव-क्षोभे षण्-मती न त्व् अभीष्टा ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एषः गिरिराजः । अवजानतः स्वार्चा-परितागिनः वनौकस इति । गृह-द्वाराद्य्-आवरणाभावात् तेषां हननं सुकरम् एव । यद् वा, हे वनौकस इति । पित्रादीनां नमस्कृति-प्रेरणात्रावतारान्तरवद् रूपान्तरत्वेन न विरुद्धा, तेषां नारायणादिषु तथा व्यवहार-दर्शनात् ॥३७॥
इति इत्थम् । यथा यथावत् । ते नन्दादि-गोपाः । वासुदेवेन सर्वाधिष्ठात्रा प्रेरिताः कृष्णेन सहैव गोवर्धनैशान-कोणोत्थ-श्री-राधा-कुण्डात् क्रोशैकोपरिस्थितं व्रजं ययुर् इति तोषणी।
कर्मैवालं सुख-दुःख-जन्मादि-हेतुर् इति, कर्मणा जायते [१०.२४.१३] इत्य्-आदि-वाक्यैः प्रथम-मतं कर्मवादः । प्राक्-स्वभावः प्रोक्तः संस्कार एव सर्व-हेतुर् इति द्वितीयं मतम्, स्वभाव-वादः । स्वभाव-तन्त्रो हि जनः [१०.२४.१६] इत्य्-आदिनोक्तेः । गुणो वा सत्त्वादि-गुण एव सर्व-हेतुर् इति तृतीयं मतं, सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः [१०.२४.२२] इत्य्-आदिना गुण-वाद उक्तः । कर्माङ्गं महेश ईश इति चतुर्थं मतम्, अञ्जसा येन वर्तेत [१०.२४.१८] इत्य्-आदिनोक्तेः कर्माङ्ग-वादः । तद्-वशः कर्म-वशो महेश इति पञ्चमं मतम्, अस्ति चेद् ईश्वरः कश्चित् [१०.२४.१४] इत्य्-आदिनोक्तेः । कर्म-वशेश-वादः वार्ता जीविका तत्-कर्त्री देवता मुख्येति षष्ठं मतम्, वर्तेत ब्रह्मणा विप्रः [१०.२४.२०] इत्य्-आदि-श्लोक-द्वयेन वृत्ति-हेतु-देव-वाद उक्तः । उक्ता कथिता इयं षण्णां मतानां समाहारः षण्मती षण्मत-समुदायः ।
देवस्य सर्व-द्योतकस्य श्री-कृष्णस्य क्षोभे सर्वेशं मां त्यक्त्वैते\ऽन्यान् एव भजतं इत्य् एवं कुपिते । न त्व् अभीष्टा न त्व् अभीष्ट-फलदेत्य् अर्थः । हस्ति-पाद-सर्व-पाद-प्रवेश-न्यायेन श्री-कृष्णार्चनेन सर्वार्चनम् तद्-अनर्चने\ऽन्येषाम् अर्चने\ऽपि न किञ्चित् फलम् इति । यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः [५.१८.१२] इत्य्-आद्य्-उक्तेः ।
इत्थं कर्म-वादावतारणेन कर्मणां प्राधान्यं स्थापितं, तच् च संस्कार-वशेनैव कर्म-प्रवृत्तिर् इति संस्कारस्य कर्म-मूलत्वेन कर्म-निष्ठतैवाभिप्रेता । अतो\ऽन्तर्यामिना यथा प्रेर्यत इति न्यायेन घटमाना कर्मानासक्तिर् अपि परिहृता । तत्र च सत्त्वादि-गुण-स्वभावेन जीविकावश्यं सिध्येद् इति तद्-अर्थे प्रयासाभावेन कदाचित् कर्मणो लोपश् च निरस्तः । योग-क्षेम-कृन् निजोपजीव्यावश्य-पूज्योक्तेः सर्वथा कर्मणां प्राधान्यम् एव दृढीकृतम् । तच् च सर्वम् अशेष-कर्म-प्रधान-निज-भक्ति-परतार्थम् एव, भक्ति-परतायाश् च मुख-लक्षणा तद्-भक्तार्चनम् इति हरिदास-गोवर्धन-पूजनम् इति सिद्धान्तः ।
तत्र निगूढ-श्री-कृष्णाभिप्रायश् च—यो\ऽहं पूर्ण-परमेश्वरः स एव तेषां पुत्रादि-रूपः, ततः को नामैषाम् ईश्वरः ? का वान्या देवता प्रवर्तकस् तु तत्-प्रेम-मयः स्वभाव एव स्यात्? यदि च नर-लीलया देवता-स्वीकारस् तदा मन्-निकट-सम्बन्धिन्य एव युज्येरन्, तथापि नर-लीला-रक्षार्थं न तत् तद् व्यञ्जयितुम् उत्सहे । तस्मान् निरीश्वर-मीमांसा-साङ्ख्य-वादापदेशेनैव तद् बोधयित्वा तथा प्रवर्तयामीति वैष्णव-तोषण्याम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथं नमश् चक्रे ? तद् आह—अहो इति सार्धेन । रूपी प्रत्यक्षः सन्नित्य् अर्थः । यद् वा, परम-सुन्दरः सन् स्वाभाविक-निज-परम-सौन्दर्यस्य सम्यग् आच्छादनाशक्त्या तथा च गोपानां प्रत्यभिज्ञोदयम् आशंक्य तत् सङ्गोपनार्थं तथोक्तम् अनुग्रहं व्यधात् । रूपित्वेन साक्षाद्-बल्यदनादिना च अभक्तांश् च निगृह्नातीत्य् आह—एष इति । अवजानतो\ऽवज्ञां कुर्वत इति सर्वेषां साक्षात् तावद् अशेषबलेः स्वयम् एवक्षणात् । यद् वा, यागाकरणेनादरं कुर्वत इति पुनः पुनस् तद् यागो\ऽभिप्रेतः । मर्त्यान् मरण-धर्मशीलान्, तत्रापि वनौकसो गृह-द्वाराद्यावरण-शून्यान् इति हनने सुकरत्वं दर्शितम् । हे वनौकस इति वा, ततश् च तेषां तद् एकाश्रयत्वात् तद् वन्दनं सदा युक्तम् एवेति भावः । चकारात् गवादीनां रोगोत्पादनादिना पीडयति चेति, अतो वयं नमस्यामो वन्देमहि, पूजयिष्याम इति वा । आत्मनो गवां च शर्मणे । हीति पाठे निश्चयेन विश्वस्येत्य् अर्थः । तथापि गवां चेत्य् एवार्थः । यद् वा, आत्मनो या गावस् तासाम् इति गवां शर्मणैव तेषां जीवन-सिद्धेः, ततश् च कस्मैचित् कञ्चिद् वरं साक्षाद् अनुभूत-फलं दत्त्वासावन्तहिते इति ज्ञेयम् ॥३७॥
इति अनेन प्रकारेण ईदृशं वा, अद्रेर् गवां चादौ निर्देशस् तस्य तासां च तद्-यागे मुख्यत्वात्, तत्रापि श्री-गोवर्धनस्य प्राधान्येन हरिदास-वर्यत्वेन चादौ ब्राह्मणानां तद् यागोपकरण-मात्रत्वेन गौणत्वात्, तत् तत् पूजकत्वेन पूजनत्वाद् वा पश्चान् निर्देशः । वासुदेवेन चित्ताधिष्ठात्रा प्रचोतिता इति तेषां तद् उपदिष्ट-विधानतिक्रमः । तत्र सर्वात्मना सुख-सम्मति-विशेषो\ऽपि बोधितः । यद् वा, श्री-वसुदेव-नन्दनेनेति निजैश्वर्य-विशेष-प्रकटन-परत्वम् अभिप्रेतम् । अत ऐश्वर्यमदमतेन्द्र-मख-भञ्जनेन हरि-दास-वर्य-श्री-गोवर्धन-पूजाप्रवर्तनं युक्तम् एवेति भावः ।
यथा यथावत्, सह कृष्णाः कृष्णेन सहिता इति प्रीति-विशेषोदयेन तं त्यक्तुम् अशक्तास् तेन सह मिलित्वैव व्रजं निज-वासं श्री-नन्दीश्वर-गिरि-निकटे, श्री-राधा-कुण्डोपान्ते वा वर्तमानं ययुर् इत्य् अर्थः । इत्थं देवता-निराकरण-कर्म-वादावतरणेन कर्मणां प्राधान्यं स्थापितम्, तत्र संस्कार-वशेनैव कर्म-प्रवृत्तिर् इति संस्कारस्य कर्म-मूलकत्वेन कर्म-निष्ठतैवाभिप्रेता । अतो\ऽन्तर्यामिणा यथा प्रेर्यते तथानुष्ठीयते इति न्यायेन घटमाना कर्मानासक्त्\ऽइर् अपि परिहृता । तत्र च सत्त्वादि-गुण-स्वभावेन जीविका अवश्यं सिध्येद् इति तद् अर्थ-प्रयासाभावेन कदाचित् कर्म-लोपश् च निरस्तः । योगक्षेम-कृन्निजोपजीव्यावश्य पूजोक्तेः, इति सर्वथा कर्मणां प्राधान्यम् एव दृढीकृतम् । तच् च सर्वम् आशेष-कर्म-प्रधान-निज-भक्ति-परतार्थम् एव, भक्ति-परतायाश् च मुख्य-लक्षणं तद् भक्तार्चनम् इति हरिदास-वर्य-श्री-गोवर्धन-पूजनम् इति सिद्धान्तः । एवम् अन्यत्रापि सर्वत्रोह्यम् । स च कथा-रस-विशेष-विघातकत्वेन ग्रन्थ-बाहुला भयेन न तत्र तत्र विव्रियते ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभक्तां च निहन्तीत्य् आह—एष इति । अवजानतः अवज्ञां कुर्वतः सर्वेषाम् साक्षात् तावद् अशेष-बलेः स्वयम् एव दृष्ट्वेति भावः । यद् वा, यागाकरणेनानादरं कुर्वन् इति पुनः पुनस् तद् यागोऽभिप्रेतः मर्त्यान् मरणशीलान् तत्रापि वनौकसः गृह-द्वाराद्य् आवरण-हन्ति अतो वयं नमस्यामः वन्देमहि आत्मनो गवां च शर्मणे । यद् वा, आत्मनो या गावस् तासाम् इति गवां शर्मणैव तेषां जीवन-सिद्धेः । अत्र पित्रादिष्व् अपि नमस्कार-प्रेरणेयं, तेन रूपेणावतारान्तरेणैव पुत्रत्वाभावान् न विरुद्धा, नारायणादिषु तेषां तथा व्यवहारात् । एतद्-अनन्तरं साक्षात् तस्य बृहन्-मूर्तेर् आदेशश् च श्री-हरि-वंशे—
अद्य प्रभृति-चेज्योऽयं गोषु चेद् अस्ति वो दया ।
अहं वः प्रथमो देवः सर्व-कामकरः शुभः ॥
मम प्रभावाच् च गवं अमृतान्य् एव भोक्ष्यथ ।
शिवश् च वो भविष्यामि मद् भक्तानां वने वने ॥
रंस्येऽहं सह युष्माभियेथा दिवि गतच् तथा ।
ये चेमे प्रथिता गोपा नन्द-गोप-पुरोगमाः ॥
एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ।
पर्याप्नुवन्तु विप्रा मां गावो वत्स-समाकुलाः ॥
एवं मम परा प्रीतिर् भविष्यति न संशयः इति ॥३७॥
वासुदेवेन सर्वाधिष्ठात्रा प्रचोदिता इति तेषां तद् उपदिष्ट-विध्यन् अतिक्रमः तत्र सर्वात्मना सुख-सम्मति-विशेषोऽपि दर्शितः यथा यावत् सह-कृष्णा कृष्णेन स्हिताः इति प्रीत्यि-विशेषोदयेन त्यक्तुम् अशक्तास् तेन मिलित्वैव गोवर्धनेशानकोणस्य श्री-राधा-कुण्डात् क्रोशैकोपरि स्थितं व्रजं ययुर् इत्य् अर्थः । इत्थं देवता-निराकरण-कर्मवादावतारणेन क्रमणां प्राधान्यं स्थापितं तत्र संस्कार-वशेणैव कर्म प्रवृत्तिर् इऽति संस्कारस्य कर्म-मूलकतेन कर्म-निष्ठतैवाभिप्रेता अतोऽन्यर्यामिणान्यथा प्रेर्यते तथानुष्ठीयत इति न्यायेनाघटमाना कर्मणां शक्तिर् अपि परिहृता तत्र च सत्त्वादि-गुण-स्वभावेन जीविकावश्यं सिद्ध्येद् इति तद् अर्थ-प्रयासाभावेन कदाचित् कर्म-लोपश् च निरस्तः योग-क्षेमकृन् निजोपजीव्यावश्य-पूजोक्तेः इति सर्वथा कर्मणां प्राधान्यम् एव दृढीकृतं तच् च सर्वम् अशेष-कर्म-प्राधान-निज-भक्ति-परतार्थम् एव भक्ति-परतायाश् च मुख्यं लक्षणं तद् भक्तार्चनम् इति हरि-दास-श्री-गोवर्धन-पूजनम् इति सिद्धान्तः अत्र निगूढश् चायं श्री-कृष्णाभिप्रायः योऽहं पूर्णः परमेश्वरः स एव तेषां पुत्रादि-रूपः तस्मात् को नामैषाम् ईश्वरः का वान्या देवता प्रवर्तकस् तु तत् प्रेममयः स्वाभाव एव स्यात् यदि च नर-लीलाया देवता-स्वीकारस् तदा मन् निकट-सम्बन्धिन्य एव युज्येरन् तथापि नर-लीला-रक्षर्थं न तद् व्यञ्जयितुम् उत्सहे तस्मान् निरीश्वर-मीमांसा सङ्ख्यावाद् आपदेशेनैव तत् तद् बोधयित्वा तथा प्रवर्तयामीति एवम् न्यत्रापि सर्वत्रोह्यम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काम-रूपी सर्पादि-रूपः हि तस्मात् ॥३७॥
यन् निरीश्वर-मीमांसा-साख्ययोर् उररीकृतिः ।
तद् इन्द्र-मख-भङ्गार्थं न तु ते संस्मते सतम् ॥
यथाहुः श्री-स्वामि-चरणाः—
कर्मैवालं प्राक् स्वभावो-गुणो वा कर्माङ्गं वा तद्वशो वा महेशः वार्ता कर्त्री देवतेतीयम् उक्ता देव-क्षोभे यन्-मयी न त्व् अभीष्टा ॥३८॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्विंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
बलदेव-विद्याभूषणः (वैष्णवानन्दिनी) : अहो इत्य्-आदि सार्ध-पद्यं पठन् रूपी प्रकाशित-देवता-रूपः काम-रूपी सर्पादि-रूप-धरः सन् हन्ति हनिष्यति हि तस्माद् आत्मनो गवां च शर्मणे नमस्यामः ॥३७॥
सह कृष्णः कृष्णेन सहिताः व्रजं नन्दीश्वर-राजधानीम् ॥३८॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे पूर्वार्धे
इन्द्र-मख-भङ्गनं नाम
चतुर्विंशोऽध्यायः ।
॥ १०.२४ ॥
[नो बलदेव फ़्रोम् थिस् छप्तेर् ओन्wअर्द्स्?]{।मर्क्}
(१०.२५)
-
म।भा। १२.२६२
कषाय-पक्तिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ ↩︎